#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00204 Uniform title: tridaśaḍāmarāpratyaṅgirāviśayakanānātantra Manuscript : NGMCP reel no. B 173/22 manuscript no. 3-30 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Release 0: February 12, 2010 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः श्रीदेव्यै हिमवच्छिखरे रम्ये सुरासुरनिषेविते | तत्र स्थाने सुखासीनं देवदेवं महेश्वरम् || सुरासुरेन्द्रनमिते सिद्धगंधर्वपूजिते | कृतांजलिपूटा देवी इदं वचनमव्रवीत् || श्रीदेव्युवाच सर्वश्रोतोद्भवं ज्ञानं त्वत्प्रसादात्मया श्रुतम् | का विद्या साकिनीनान्तु दैत्यानां गतिनाशिनी || संसिद्धाया युगे घोरे सर्वसंशयभेदिनी | श्रीभैरव उवाच पूर्वं गौरिमहाघोरे श्मशाने करवीरके || आराधितोऽहं देवीभिर्यागे संपूजनाय च | त्वां चारुसंस्थां कृत्वा तु पातस्तत्रवरानने || चतुःषष्ठिस्तु या कोट्या साकिन्याद्या महाबलाः | यज्ञभागं प्रयच्छन्ति चरुं कृत्वास्वबांधवान् || भुजामितमहं भद्रे क्रीडामि चरयामि च | यावदन्यत्र दिवसे तावच्चाति मदोत्कटाः || चरुं प्रयच्छभगवन् परिपाट्या समासतः | मयोक्तं नास्ति मे किंचित् कपाली हं दिगम्बरः || श्मशानवासी सततं नास्ति मे बांधवः क्वचित् | विहस्यताभिरुक्तं वै अस्ति ते त्रिपुरान्तके || कुलाचारानलुप्यन्ते वयं तु तव किंकरीः | प्. १ब्) तद्वयं परिभोक्ष्यामि देहिनो वरमुत्तमम् || मयोक्तमेव तासान्तु गृह्नीध्वमविशङ्किताः | गृहीतचरुकं भागं यस्यामि शिर उत्तमम् || त्वदीय वदनाक्रान्त तद्दृष्ट्वा तु विमोहितं | मुह्यमानमतिभ्रंसं तिष्ठामिकरवीरके || प्रस्खलन् डामरीभूतो हा प्रियहा प्रियेति च | ऊरूपश्यामि तच्छून्यं तदाहं मोहमागतः || एवमुड्डामरीभूतो विस्मृतामस्वकां तनुः | तत्र काल महादेवि साकिनीभिर्महाबलात् || भक्षितामृतमादाय ततस्वाभिस्त्ययं सति | तस्मिन् निश्चेष्टभावस्थः तद्वित्तोमन्त्रमुत्थितः || परं समाधिमाश्रित्य चेतस्तत्र समाश्रितम् | हृदयादुत्थिता देवी जगदानन्दकारिणी || प्रसुप्तभुजगाकारा स्पन्दनानन्दसंयुता | अकला मध्यभागा तु कालाग्नि सदृशप्रभा || कालसंकर्षणी ख्याता चक्रे कालाग्निभैरवी | आधारभूता जीवसो? स्थिता सा परमाकला || व्यापिनी सर्वभूतानामेकासानेकता गता | एका परापराशक्ति विश्वग्रासैकलंपटा || पूर्णिमा पूरिता ज्ञेया रचिता सात्वमास्मृता | प्. २) सान्त्या परापरा सान्ता शून्यातीता निरंजना || महातेजोमयी लक्ष्मी रश्मिकोट्या युतोपमा | निर्मलानिष्कला देवि सकलास्थूलविग्रहा || पंचवक्त्रा दशभूजा त्रिपंचनयनैर्युता | श्वेतवर्णा महादेवी महाप्रेतो परिस्थिता || मात्राष्टकस्य मध्यस्था सिद्धियोगिनि पूजिता | सौम्योग्र जपभावेन साधकेच्छासमासृता || दारितास्या लेलिहानां ज्वालाप्लुष्टं कृतं जगत् | उच्छ्वासोच्छ्वासयोगेन चालयेत् कुलपर्वतान् || क्वचिद्ध्वंसे क्वचित् कूप्येत् क्वचित् संहरते प्रजाः | क्वचित् सृजेत् क्वचित् पाल्ये स्वतन्त्रेच्छाप्रवर्तते || गोणासा भरणैर्युक्ता उरगेन्द्रविभूषिता | पाशाङ्कुशधरादेवी वरदाभयपाणिका || सव्यहस्ते धृतं खड्गं त्रैलोक्य क्षोभकारकम् | वामे खट्वाङ्गमत्युग्रं दक्षिणे शूलमुत्तमम् || अपरे कन्दरं रौद्रं त्रैलोक्यक्षतजान्वितम् | तथान्ये स स्थितं मुण्डं स केशं शोणितांन्वितम् || वामे तु कलशं दिव्यं महारत्नैः प्रपूरितम् | एषा प्रत्यंगिरा ख्याता उत्पन्ना व्योमदेहगा || एकासानेक भेदेन विश्वं व्याप्यव्यवस्थिता | प्. २ब्) देवी तुष्टमना सर्व स्रुवन्ति परयागिरा || डामरं हि महायागं तदर्थं हि सुरैः कृतं | तस्या भेदं प्रभेदेन कोटिसंख्यातनंदिनि || प्रत्यङ्गिरात्वियं देवि सिद्धिलक्ष्मी जयद्रथे | झंकार भैरव चण्डा शिवान्तु कुलडामरे || श्रीदेव्युवाच भगवन्देव देवेश शशाङ्ककृत शेखरे | ध्यानं यथार्थध्यातव्यं त्वत् प्रसादान्मया प्रभो || अधुना श्रोतुमिच्छामि मन्त्रशौचारणं परं | भैरव उवाच मन्त्रं तु हृद्गतं भद्रे अहं जानामि तत्वतः || कथयामि न संदेहस्त्वया च प्रेरितो यदा | भूप्रदेशे समे शुद्धे कुंकुमोदकलेपिते || मातृकां प्रस्तरेत् तत्र मन्त्रानां जननी परा | अदृष्टविग्रहा च्छान्ता च्छिवात्परमकारणात् || उत्पन्ना तु पराशक्तिरदेहादेहरूपिणी | तत्रोत्पन्ना गोलकाख्यं तारारूपं चिदात्मकम् || तज्जातध्वनिरूपेण ध्वनिबिन्दुत्वमागतः | बिन्दोर्नादस्य चोत्पत्ति रस्वरस्य सुरेश्वरि || ततो स्वरान्नुसुभगे प्रसूतामातृका शुभा | कूटयुक्ता वरारोहे पंचशद्भेदवर्णगा || या सा परापरासूक्ष्मा प्राणस्यान्तर्गता शिवा | प्. ३अ) सा योनि सर्वमन्त्राणां कला सप्तदशी परा || पराकाश समुद्भूता इच्छाशक्तिवरानने | बिन्दुक्रम ज्ञानशक्तिः क्रियार्थो या निगद्यते || सूर्यरूपं ततः प्राणो ह्यपाणः शशि सोभने | समानो वरुणो ज्ञेयो रुदानः पावकः पुनः || माया सर्वाङ्गसन्धीनां निबंधो व्यान उच्यते | द्विचतुष्कप्रकारेण उदीतः पिण्डनायकः || चराचरस्य जगतः सृष्टिसंहारकारकः | पूरकं च ततः पश्चादस्त्रयुक्तं वरानने || अन्तकपुनरुद्धृत्य शून्यमाद्यन्तयोजितम् | पंचमं च तृतीयाद्यं सन्तान्तं तु समुद्धरेत् || ग्रंथीश्वरसमायुक्तं दन्तवर्णगणाम्विके | सर्वगंनवमयुक्तं उदुरुच्छरभूषितम् || अन्त्याद्यमेघसहितं रिक्तेराद्यं ततः प्रिये | आद्यन्तपदमर्त्तन्ते दन्तजीवयुतं ददेत् || वेदयुक्तं बिन्दुयुतं शिववक्त्रं नियोजयेत् | अस्याद्यन्तन्तु संयोज्य अस्त्रराजमहाबलम् || वेदपीयूषवह्निस्थं पंचबिन्दुसबिन्दुकम् | अस्त्रराजं यथोक्तं स्यात् क्रमेणसुरसुंदरि || एतत् क्रमद्वयं चान्य रेफं मध्यगतं न्यसेत् | प्. ३ब्) सप्तादशाक्षरा योज्य स्थीतास्त्वीद्राविका प्रिये || अथान्यं संप्रवक्ष्यामि मालामन्त्रसुशोभने | ओं पंत्तंगिरिसमुद्धृत्य महाराजा ततः परम् || महाशंखं ततो योज्य दिडषाणे तथैव च | हड्डमड्डो ततो योज्यमबलेति ततः परम् || ज्ञामहिकर इददृकराव इपदं पुनः | विदि आव इव तथा अत्थ हत्थि पदं पुनः || परहत्थि सा इहत्थिज्ञा गिति चि तथैव च | परे च कर्मणे योग्याता हि पत्तिं गिरिं पुम || निवज्रि च तथा मत्थि आद्यन्त पुटिता प्रिये | न च त्येकोनरहिता योगिनीनां मुखे स्थिता || अशरीरा पराचाद्या श्रुत्वा पद्मोद्भवेसति | एतद्विद्या प्रभावेन सम्पन्नास्मिजगज्जयी || आसीत्पूर्वते मोघोरं चराचरविवर्जितम् | सत्वमायागुणातीतं करणेन समन्वितः || ईदृशे वजगज्जाते इच्छाशक्तिः शिवस्य च | तन्मात्रद्योतयोगेन स्वयज्ञानी प्रयच्छति || क्रिया च सृजते विश्वं यद्भूतं यद्भविष्यति | तया विमलरूपेण निर्मितन्तु सदाशिवम् || नादरूपं शिवः साक्षादभेदाभेदवर्जितम् | मुञ्चन्तु ते सदानादं बहुस्थं त्रिपदान्वितम् || प्. ४अ) एष शब्दात्मकं सोहि अक्षयः परमेश्वरः | सर्वव्यापि प्रभुः सोहि येनासौ पजनक्षमः || अस्यापि ईश्वरे जातः शब्दस्पर्शगुणान्वितः | सोपि कर्ता शिवः शान्ता सर्वकार्यगुणान्वितः || अहं तत्र समुत्पन्ने स्त्रितत्वपरिमण्डितः | सृष्टिसंहारकर्ता च परेच्छा हि व्यवस्थितः || मयापिनिर्मितो विष्णुश्चतुर्गुणसमन्वितः | पालयन् वै जगत्सर्वं संसारे शरणात्मके || तस्यनाभिगतं नालं समुत्पंसुकोमलम् | तत्र ब्रह्मासमुत्पन्नः पंचतत्वं कृतात्मकः || ब्रह्मविष्णुरतो युद्धं संजातः सृष्टिकारणम् | अहं कर्ताभवेद्ब्रह्मा विष्णुरवेपुनस्तथा || शिरच्छेदकृतस्तस्य मयाक्रुद्धेन पार्वति | सोपि क्रुद्धो महादेवि दृष्ट्वाविष्णुसमोपरि || महाक्रोधान्वितो ब्रह्मा रक्तवर्णो विभीषणः | तैरेवोत्यादिताः पुंसः सुरूपास्तत्पराक्रमाः || अभेद्यकवचाः सर्व विस्वाकृतिमहाबलाः | प्राणं हंसरथारूढा कोटिकोट्यायुताः प्रिये || प्रार्थयन्ति महायुद्धं दण्डं संगृह्यवेष्टितम् | निर्मितास्तु तदासर्व सत्यं सुरगणार्चिते || प्. ४ब्) अधुना संप्रवक्ष्यामि मालामन्त्रं यथार्थतः | सोमार्कानलसंहार मध्ये व्योमसमालिखेत् || तृधामलांच्छितं कृत्वा विंद्वेन्दुसमयोझ्रितम् | संहारवर्णाश्चैवाधो रौद्रीदेवीनियोजयेत् || एतत् पिण्डाक्षरं चैव योगिनी श्रुतिमण्डलम् | पुरुषे नाधिकारोस्ति सत्यं सत्यं गणाम्बिके || एषाकुण्डलिनीख्याता प्राणापानप्रवाहिनी | अनच्छवदनात्तस्था पंचस्थानव्यवस्थिता || नतिं नियोजयेत् पश्चात् मन्त्राणां दीपनाय च | सर्वसिद्धं ततो योज्य योगिनीभ्यानतिं पुनः || सर्वसिद्धिपदं पश्चात्मातृभ्यः पदमेव च | नमो नित्योदितानन्द नंदितायै पदन्तथा || सकलकुलचक्रेति नायिकायैपदं तथा | भगवत्यै चण्डपदं कापालिन्यै पदन्तथा || तद्यथा मातृखण्डं तु मन्त्रखण्डमथोच्यते | आद्या विद्याद्यन्तयुगं मायान्तेन समन्वितम् || बिंद्वेन्दु योजितं कृत्वा प्रथमं बीजनायकम् | सर्वाद्य विद्यासुश्रोणि ऊर्द्धाधोग्राहयेत् ततः || शिवबीजेन सहितं एकत्र च समुद्धरेत् | शून्यं शून्यं समायुक्तमूर्द्धाधस्योपरिस्थितम् || आद्यान्तान्ततमुद्धृत्य कुहरं मन्तकोन्वितः | (प्. ५अ) अमानियोजयेद्भद्रे सप्तपातालभेदकम् || भुवनाधिपतिं गृह्यं शून्यायेनसमन्वितम् | तदन्तयोजितं कृत्वा वर्णराजं महाबलम् || ते बिंदुकाममुद्धृत्य तृतीयासनसस्थितम् | नमोनियोजये दन्ते महामन्त्रेणसंयुतम् || परमहंसिनिपदं तथानिर्वाणमार्गदे | विषमोपप्लवपदं प्रशमनिपदन्तथा || सकलदुरितारिष्ट क्लेशदलनिपदं तथा | तथा सर्वापदपदं अंभोधितरणिन्तथा || सकलशत्रुप्रमथनि देवि आगच्छयुग्मकम् | हसयुग्मं वल्गतथा नररुधिरान्त्रमेव च || वसा च भक्षणिपदं ममदेवि पदं तथा | स्वशत्रुश्च पदं पश्चात् मर्दमर्दपदन्तथा || खाहिखाहि पदं चैव त्रिशूलेन पदन्तथा | भिंदिभिंदि द्विधाभद्रे खड्गेन च पदं पुनः || ताडयेति द्विधायोज्य च्छेदयेति पुनस्तथा | यावत् तावत् पदं पश्चान् ममशब्दं ततो ददेत् || सकलं च पदं पश्चात् तथान्यं च मनोरथान् | साधयेति द्विधायोज्य तथा परम एव च || कारुणिकेति च पदं तथा भगवतीति च | महाभैरवरूपं च पदधारिनिमेव च || त्रिदशवरप्रदे च नमिते च समायुतम् | (प्. ५ब्) तथा सकलशब्दं च मन्त्रमाते पदं तथा || प्रणतजनशब्दं च वत्सलतिसमायुतम् | देविशब्दं ततो देयं महाकालिपदन्तथा || कालनासनिशब्दं च अन्यं च कथयामिते | पंचमन्त्रसमुद्धृत्य पंचमं तस्य चोपरि || पंचमनसमायुक्त एतद्वर्णत्रिधाकुरु | प्रसीदपद देवेशि मदनातुरसंज्ञकम् || बिन्दुयुक्तं तथाकारं कारयेत् परमेश्वरि | कुरुशब्दद्विधायोज्य सुरासुरपदं तथा || कन्यकायपदं भूयो गोलकेनसमायुतम् | अष्टमन्त्रसमुद्धृत्य विलोमपरमेश्वरि || ततः श्रीकण्ठनाथन्तु बिंद्वाख्यं कारयेत् प्रिये | तृतीये तु महेशानि तृतीयाक्षरभूषितम् || अस्या विद्या द्वितीयन्तु जीवहीनं मृगेक्षणे | त्रिधानियोजयेदन्ते वह्निभार्यासमन्वितम् || तृतीयखण्डस्तु कथितं वर्णानान्तु शतद्वयम् | नवत्यधिक देवेशि उद्धृतं शम्भुनापुरा || सांगोपाङ्गा स वक्त्रा च नान्येषां विद्यते भुवि | आदौ तु वक्त्रविन्यासं त्रिधानवसुतः परम् || हृदयादि तृतीयं तु आयुधैः शेषकल्पना | अन्यं चाष्टाक्षराविद्या विलोमविन्यसेत् प्रिये || (प्. ६अ) अस्मिन्तन्त्रवरे सिद्धा नान्यतन्त्र कदाचन | वर्णा उत्कीलिताह्यस्यां भवत् प्रीत्या वरानने || अनया विद्यया गौरि जन्ममृत्युभयावहे | जन्तवाविविधाकारा भक्तिहीना गुरुद्विषः || स्वयं गृहीतलिङ्गान्तु स्वयं मन्त्र प्रतिष्ठिता | अधिकारं प्रकुर्वन्ति गुरोराज्ञां विना प्रिये || तथा प्रत्यंगिरा देवी किलिता तु जयद्रथे | गुरोर्मुखात् समुद्दिष्टा शुभावाय दिवा शुभा || तदा सा सिद्ध्यते क्षिप्रं इति सत्यं गणाम्बिके | इति श्रीत्रिदशडामरे महातन्त्रे चतुःत्रिंशतिसाहस्रे श्रीप्रत्यंगिरात्पत्तिमूलमन्त्रोद्धारविधिं एकाशीतितमः पटलः || १ || (प्. ६अ) श्रीदेव्युवाच मन्त्रोद्धारविशेषेण वर्णितन्तु समासतः | अधुनाश्रोतुमिच्छामि देव्या यागमहेश्वर || श्रीभैरव उवाच रक्षांसि भूतान्युक्तानि रेफाश्चाखिलनाडयः | द्वारसोभापशोभाश्च करणैन्द्रियवृत्तियः || चित्तं वीथीभवेद्देव्या हकारं चैव पीठिका | इच्छाक्रियात्मिकालिङ्गा पीठिका सहसङ्गतिः || मन्दमष्टच्छदबुद्धि चामशक्तिषडस्रकम् | तदा तु व्यक्तिस्तम्भिन्नं गजाजीवस्तु कीर्तितः || (प्. ६ब्) अधिस्थाननिरालम्बं अत्रासो परमेश्वरी | तस्य संदर्शनाद् देवि यात्यनवहुजात्मजाम् || अज्ञानक्षयमत्यतिमन्त्रः सान्निध्यकारणात् | यजनं संप्रवक्ष्यामि सिद्धिं येनाशु जायते || प्रथमे हनिषष्ट्यां वामावास्याथ चतुर्द्दशी | नित्यं सन्निहिता देवी सिद्धिदामोक्षदास्मृता || गुरुं विनाह्यसमये यो विद्यां ग्राहयेत् प्रिये | सपच्यत महाघोरे नरकं त्यति संकटे || दातारो नरकं यान्ति विद्यासमयपूजनात् | अन्यथा न भवेत् सिद्धि जन्मकोटि शतैरपि || तस्मात् सर्वप्रयत्नेन यागं कृत्वा प्रदर्शयेत् | चतुःकोणपुराकृत्वा चतुर्द्वारोपशोभितम् || षट्कोणं विन्यसेन्मध्ये बहिः पत्राष्टकं तथा | तद्बहिः षोडशाधारमालिखेत् कमलं शुभम् || रजसाश्वेतवर्णेन रंजयत् सुसुमाहितः | शुद्धे वसुमती देहे सुभगे तु मनोरमे || हृत्स्थाने वातु यष्टव्या पूर्वोक्तेन यजे च्छुभे | एषा प्रत्यंगिराभद्रे चिच्चन्द्रगतिनिर्मले || हृत्पद्मोदरमध्यस्था सुशूक्ष्मामृतरूपिणी | नादमाता वायुसखा नित्यानित्यपदानुगा || ततो मृतमयी देवी बिन्दुनादान्तरे स्थिता | (प्. ७अ) दहनार्केन्दुमध्यस्था जगतः सृष्टिकारिणी || योगेश्वरी योगपरा भवभक्षभयंकरी | आपदाद्योगमर्मान्तं व्याप्यं विश्वव्यवस्थिता || चतुर्द्दशविधेह्यस्मिन् सृष्टिसंस्थितिकारिणी | अज्ञातान् धर्मजननी ज्ञातामोक्षप्रदायिनी || अथान्यं संप्रवक्ष्यामि इहामुत्रफलप्रदा | ध्यानं मण्डलविन्यास परिवाराङ्गषट्ककम् || येन सिद्धिर्भवत्याशु साधकानां गणाम्बिके | प्रागुक्ते तु शुचौदेशे दुष्टसत्वविवर्जिते || प्रसन्नवदनो भूत्वा आचार्यसुसमाहितः | सर्वभूतदयालुंश्च ज्ञानविज्ञनपारगः || ताम्बूलपूरितमुखोत् मंदिरानन्दमन्दितः | प्रहृष्टशक्तिसन्नद्धः संन्यासकृतविग्रहः || वामभागे गता शक्ती देवताराधनरता | सुरूपामृतभाषी च साधकाज्ञानकारिणी || सलज्जाक्रोधनिर्मुक्ता लोभमोहविवर्जिता | अन्यथा विघ्नभागीस्या च्छिद्रन्त घोरयातना || सुप्रसन्ने गृहवरे सुधूपामोदसंकुले | पुष्पप्रकरसंयुक्ते पलालिपुरिपूरिते || प्रसन्नवदनोभूत्वा दिक्षुन्यासं प्रकल्पयेत् | आग्नेयां हृदयं न्यस्य शिर ईशानगोचरे || नैर्-ऋत्यां च शिखामन्त्री वायव्यां कवचं न्यसेत् | (प्. ७ब्) नेत्रं पूर्वदलाग्रे तु पश्चिमेऽस्तु मतो न्यसेत् || सर्वज्ञतादिभिर्देव्या ज्ञेया विद्याक्षरैः सह | गोकर्णामजकर्णा च अजा आखुमुखी तथा || पश्चिमनास्त्रयुक्तेन काद्यखड्गाग्रतो यजेत् | श्रीकण्ठादिक्रमेणैव आज्ञाग्राहणपूर्वकम् || अद्यादिरक्षरेवादौ सूजयेपादयोगतः | गणेशक्षेत्रपालं च विधिनानेन पूजयेत् || कंचकस्य जयेनाध्ये सादाख्यं प्रतनायकम् | द्वितीया प्रथमोद्धृत्य मन्त्रेनानेन पूजयेत् || तत् पृष्ठचिन्तयेद् देवीं स्वजपध्यानसंयुतम् | नानाकारामहादेवी वामादीनामगोचराम् || दिक्कालाद्यानवच्छिन्नामवस्थं चि प्रकाशिका | सप्तादशीह्यवस्था या परानन्दसुरूपिणी || भेदैः सप्तदशैः प्रोक्ता विद्यायाव्योमचारिणी | अनाहतशिखायान्तु तस्येच्छा तु विनिर्गता || तेजोरूपामहाघोरा व्यापिणी सर्वतस्थिता | तदास्य व्यापिणी प्रोक्ता तेजोक्षरविमर्दिनी || कन्दमध्रान्तरज्वाला महामन्थानमच्छिता | सहस्रसूर्यसंकाशा निरुद्धाहृदयान्तरे || निरुद्धवीर्यप्रभवा ओतप्रोतकृतानु सा | (प्. ८अ) यावच्छक्त्या तु सस्थानं निरोधिन्या निरोधयेत् || तावद्ध्यानेनु मुखतः पंचाव्वारे गता शिवा | ब्राह्म्यादीनां ततो बाह्ये आद्या विद्यादिरक्षरा || वासवाद्याश्च ये वीरा तद्रूपा व्योमसंयुता | एके द्वित्रिचतुःपंच षट्सप्ताष्टाथवे द्विषा || अष्टमं तु ति पूर्वेण मन्त्रमन्त्री द्विधाच्च यत् | यामलादि क्रमेणैव अष्टपत्रे यजेत् क्रमात् || द्वितीयेन पदे वीर्या व्यापिवा च क्रमेण च | कला बाह्य ततः पश्चाच्छृणु एकाग्रमानस || तृतीयेन यनेद्भूता अमृताख्या त्रिरक्षरा | विद्यानामविभागेन शृणुतस्यामृगेक्षणे || अजिते इन्द्ररूपन्तु उदयोदद्विरेव च | तृप्तिरेकोथ एकांग तुंवी अश्वरसंभवा || एते सिद्धा समाख्याता योगिन्यो यास्ततः शृणु | आनन्दा ईश्वरी देवी उच्चगामी च दाम्भिका || योनानुरावती चैव जौकला अः शशिप्रभा | खलु एकस्य सिद्धस्य वल्लभस्य सदा प्रिये || षोडशारे महाचक्रे पूजयेत् सिद्धिमातराः | रविरश्मि यथाभिन्ना रश्मी यार्वायथारवे || शिवशक्तिस्तथा भिन्ना शक्ती च परमेश्वरी | (प्. ८ब्) अधिवासपुरा कृत्वा पश्चाद् यजनमारभेत् || सिद्ध्यर्थ्यस्तु महेशानि ततो दीक्षीं समारभेत् | परिक्षिते द्वादशाब्ददशपंचक एकतः || अन्यथा पतनं दृष्टं गुरवा नात्रसंशयः | रहस्यमेतत् सर्वस्व मन्यथा न प्रकाशते || सुचिनीते तथा भक्ते देवताराधने रते | गुरुमवाग्निमन्त्रे च सदृशं यस्तु पश्यति || योत्थं वै तृणवत्मन्ये गुरुदेवागिकर्मणि | दयान्वितो दानरतो रागद्वेषविवर्जितः || समयी पुत्रकानान्तु प्रतिमामाषितान्तथा | परादिवस्तु संपूज्य अभावान्मानसेन तु || जिज्ञासा ताथकेटिल्यात् साध्याद्वा भक्तिभावतः | ग्रहनं तु भवे च्छिष्य इत्याज्ञापारमेश्वरी || श्रीदेव्युवाच पूजामण्डलविन्यास साधकाकार्यलक्षणः | कथितं देवदेवेश कारुण्येन महात्मना || तदव्यं श्रोतुमिच्छामि वह्निसंतर्पणं परम् | श्रीभैरव उवाच कर्मकुण्डलिनी बुद्ध्यौ प्रज्वाल्य च चिदानलम् || विषयेन्द्रियसंघात निधनं दाहयेत् प्रिये | प्राणापाणौ श्रुक्सुवस्यान् मदानन्दाद्यतर्पण || संकल्पादिविकलपाश्च अक्षतानीहहोमयेत् | (प्. ९अ) षडध्वलज्ञानकार्यं संवित् पूर्णां प्रदापयेत् || एतदत्यन्तरं ज्ञात्वा बाह्यपूजा समारभेत् | सममानप्रमानं च कुंडं चैव त्रिमेखले || अधौखटिकयालेख्यं वह्निसन्तर्पणाय च | कुण्डस्य दशसंस्कारा स्तोत्रनादीनिकारयेत् || ताडनं प्रोक्षणं चैव उल्लेखनमतः परम् | उद्वान सेवनं चैव मार्जनं चानु लेपनम् || अर्वाचतुःपथं चैव अक्षवाढं च ते दश | कुण्डे पूजाप्रकर्त्तव्या मध्ये वै विष्टरा कुरु || ऋतु स्नाता तु वागेशी उत्तरा इषमूर्द्धगा | नीलोत्पलदलश्यामा अर्घपाद्यादिभिर्यजेत् || अग्नेरानयनं पश्चात् स्थापनं तदनन्तरम् | वेष्टनं ताडनं चैव प्रोक्षणोद्यातनन्तथा || मन्त्राणाममृतीकार्यमर्च्चनं चावगुण्ठनम् | दशैवकुण्डबाह्ये तु अष्टौ कुण्डान्तरे स्थिता || गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा | वक्त्रसंकल्पणं कार्य भवते विक्त्रनिःकृतिः || निःक्रमोजातक्रमाथ वक्त्रोद्यातक्रमात् प्रिये | वक्त्रशुद्धिः प्रकर्त्तव्या नामशुद्धिस्तथैव च || अष्टादशैवसंस्कारः कर्त्तव्या देशिकेन तु | गर्भाधानादिनामान्त कर्त्तव्या हृदये न तु || (प्. ९ब्) ततस्तु देवी वागेशी मर्च्चयित्वा विधानतः | पर्यग्निकारणं कार्यं संमुखीकरणन्तथा || सुरदानं विष्टराच्च पूजनं परिधीनि च | लोकेशास्तु तु संपूज्या पूर्वादिक्रमयोगतः || प्रणीते वह्निसंपूज्य चास्त्रेणैव घटं यजेत् | वह्नि संतर्पणं पूजा कर्त्तव्या च विशेषतः || श्रुक्सुवौ शोधयास्त्रेण उपयामोपरिस्थितम् | पश्चाद् द्वादशसंस्कारः सुविलीना पटान्तरे || अधिश्रवणमादौ तु उपाधि श्रवणन्तथा | उत्प्लवनसंप्लवनं नीरांजननिरीक्षणम् || आसनं पूजयेद् देव्याः पूजयेन्मण्डले शुभे | अथाग्नौ विन्यसेद् देवी ममृतामृतरूपिणीम् || ततस्तु तर्पणं कार्यं च्छागैर्मधुघृतादिभिः | अष्टोत्तरैस्त्रिखण्डास्तु दशांशैर्नाद्यतर्पणैः || पूर्णा प्रधाराकर्त्तव्या ततो विज्ञप्तिकारयेत् | त्वत्प्रसादेन देवेशि भूयो दीक्षा समारभेत् || आ सा कालाग्निकुहरा दुत्थिता परमाकला | कंपमानाकरंध्रेन विश्रान्तानाभिमण्डले || भुजङ्गकुटिलाकारा दिव्याप्यापरमाकला | तदन्तवर्तिनी काचिद् देवीपाशक्षयंकरी || (प्. १०अ) चन्द्रार्कौभयमध्यस्था चंद्रार्कौभयवंधिता | चंद्रार्कानलसंरूढा चंद्रार्कानलभक्षिणी || महारौद्रकरस्था च स्वस्वभावसमाविशेत् | ततस्तेजोद्गता भद्रे एषा सा परमा कला || संचार्यमन्त्रवीर्येण तुर्यमार्गेन चैव हि | त्रितत्वे नाथवै तस्य दीक्षाकायाविशेषतः || सर्वाध्वशोधने नैव तथामुक्तोभवे शिषु | सूत्रवंधादिकरणे पूर्वोक्तविधिनोदिता || विन्यासं शोधनं शिष्या विज्ञप्तितदनन्तरम् | शिखाच्छेदं ततः पूर्णा योजनं स्नानमेव च || विज्ञापनं पूजनेन परे योजनिकाशिषोः | अभिषेकसामयिक पूत्रके साधकोपि वा || क्रमेण गुणिनाकार्या चरुणानान्यथा प्रिये | पुररण्यं प्रवक्ष्यामि कर्मकोषं यथा स्थिता? || प्रत्यूषे तु समुत्थाय मध्याह्ने वा निशागमे | जयेदष्टशतं विद्या ह्यहन्यहनिसाधकम् || सर्वकामोनवाप्नोति विद्याजापपरायणा | शुभगः सर्वसन्तानामक्षययपरभाग्भवेत् || गोरोचनशतं जप्त्वा नररोचनमिश्रितम् | ललाटे तिलकं कार्यं यः पश्येत् सवशं नयेत् || सिद्धार्थ कवचाश्वेता प्रत्यूषे देवतालये | (प्. १०ब्) स्थापयित्वा चतुर्द्दश्यां देव्यार्चा संप्रदापयेत् || मुखे तु प्रक्षिपेद् देवि परवादे जयं लभेत् | चांडालाग्निन्तु प्रज्वाल्य काष्ठैः खदिरसंभवैः || अरिन्तु स लिखेद्भूमौ विद्याया साधको भुवि | पदं दत्वाभिधे यस्य क्रोधाविष्ठन्तु साधकः || खादिरेब्दसहस्रन्तु अजारक्तसमन्वितः | मांसैः परिवृतं कृत्वा ध्यानाविष्टन्तु मोहयेत् || सुप्ताहेतु व्यतिक्रान्ते आनयेत् पुरमंदिरम् | चितिभस्मसमादाय खरसूत्रेन संयुतम् || शताष्टजापान्मन्त्रेण सैन्ये क्षिप्त्वा तु तत्क्षणात् | पूजयेत् सिद्धिकास्थाने उच्छिष्टोपत्यकानले || संध्याश्रोत्रानिरोधेन निसर्गोपश्रुतिं लभेत् | तत्रस्थाने अजेद्भूतं दक्षिणाङ्ग प्रपूजयेत् || शुभाशुभं परिज्ञाय तृतीये लभ्यते प्रिये | ततः पितृवनं मच्छेत् कृष्णाष्टम्यां समाहितः || तया निशिं मोक्षयित्वा निःशंको निघृणः सुधीः | पलालिभूश्च संलिप्त दिग्वासाभक्तिलालसः || वामात्संगगता दूती पूत्रालक्षणसंयुता | मण्डलं कारयेत् तत्र अस्थिचूर्णेनसुन्दरि || महापिशितपानाद्यै राद्ययागसमाहितः | (प्. ११अ) आवाहयेत् ततो देवी मुद्रायोगेन नान्यथा || प्रज्वाल्यदनिलाद्येन चंद्रसूर्य करेन्धने | कन्दोत्थितामहारौद्री मूदिता प्राणभास्कराः || संघट्टसंस्थितो योगी मन्तर्गन्धञ्च घट्टयेत् | ऊर्द्धमार्गप्रवाहेन उद्धरेदुदयं परम् || सकृदुच्चारिते नैव विश्वक्षोभ प्रजायते | उद्धरोमभवेद् देवि पशूनां पातयेत् क्षणात् || एषा प्रत्यंगिरादेवि बद्ध्वाचोत्पद्यते परे | भ्रूणहत्या सहस्राणि ब्रह्महत्याहतानि च || बंधनाद्भस्मसायाति वृक्षमिन्द्राशनिर्यथा | मेलापखेचरीणान्तु निधीनि च रसानि च || लक्षजापेन विधिना पातालं तु रसातलम् | प्रसेनासत्यकथन तथा विध्वंसमारणम् || स्तंभनोच्चाटनं चैव सैन्यस्तम्भनमेव च | मन्त्रवदस्तु खार्खोदविषस्थावरजङ्गम || गरज्वरादयोदेवि अन्येनेषामनेकशः | परप्रयुक्तानश्यन्ति तन्मुक्तान्य सहस्रणः || प्रत्यङ्गिरा प्रभावेन सर्वं सिद्ध्यति साधकः | एतद् रहस्यं परमं नाख्यातं कस्यचित् मया || गोपनीयं प्रयत्नेन चौरेभ्योद्रविणं यथा | परशिष्य न दातव्यं भक्ति एकान्तिके यथा || प्. ११ब्) गुरुदुष्टे चंचके च कामलोभसमन्विते | दातारो नरकं यान्ति सत्यं सत्यं न चान्यथा || इति श्रीत्रिदशडामरे महातन्त्रे चतुस्त्रिंशतिसाहस्रे श्रीप्रत्यंगिराविधि द्व्यशीतितमः पटल प्रत्यङ्गिरा कल्पं समाप्तं || ओं नमः श्रीचण्डकापालिन्यै || श्रीदेव्युवाच || श्रुतादेवमया शंभो आगमानि ह्यनेकधा | मुखदोषगतामन्त्री अज्ञा वैश्वविनाशिता || अशुद्धा स्तंभिता भिन्ना ध्वंसिता ज्ञान चेतसः | अनेक कारणार्थेन प्रस्तारं वदशूलिन || सिद्धिलक्ष्मीर्महादेवी पंचाचलविनिर्गता | कथं केन प्रकारेण बीजभूता व्यवस्थिता || तामहं श्रोतुमिच्छामि त्वत्प्रसादाच्च भैरव | परितुष्टासिमे शंभो भ्रान्ति च्छेदं कुरुष्वमाम् || श्रीभैरव उवाच || गुह्याद्गुह्यतरं देवि त्वयापृष्ठं वरानने | न मया ब्रह्मणे ख्यातं विष्णवेन च वासवे || न देवेना सुरयक्षेन गंधर्वेन किन्नरे | नोरगे कथिता भद्रे मानुषेय च का तथा || शृणु देवि महागुह्यं यस्त्वया परिपृच्छति | तदहं संप्रवक्ष्यामि विद्या प्रस्तारमुत्तमम् || प्. १२अ) प्रस्ताररहिता विद्या अशुद्धावक्त्रदूषिता | अनेककारणार्थेन मन्त्रप्रस्तारमुद्धरेत् || सुसमे भूप्रदेशे च निम्नान्नतविवर्जिते | गोमयनापलिप्ते च गंधपुष्पादि वासिते || पूर्वाभिमुख आचार्य शितचन्दने चर्चिते | श्वेताम्बरधरो भूत्वा श्वेतालंकारभूषितः || शितपुष्पशिरे बद्ध्वा कर्पूरमुखपुरितः | शुद्धा च मृद्वती शुद्धा षटिकां दक्षिणे करे || धृता देवी प्रयत्नेन आलिखेद्वरवर्णिनि | चतुर्विंशाङ्गुलं सूत्रं कारयेच्चतुरोदिशि || पूर्वपश्चिमतश्चैव सौम्ययाम्यदिशां निधेः | भागयेद् रूद्रसंख्या च प्रयत्नाच्चतुरोदिशि || कोष्ठकाशतमेरुं हि एकविंशाधिकं भवेत् | तन्मध्ये लोपयेद्देवि शृणुष्वेकाग्रमानसः || एकद्वित्रिचतुःपंच ईशाग्निरक्षमारुते | लोपयेद्देवि यत्नेन कोष्ठकाकोणसंस्थिता || एन्द्रदक्षिणयोर्मध्ये कोष्ठकाश्च त्रयं त्रयम् | विकर्णपक्षिभेदेन लोपयेत् प्रास्रगालयात् || शेषा अनेनमार्गेण रक्षमारुत शूलभृत् | द्वासप्तति वरारोहे लोपयेत् कोष्ठकानि च || शतार्द्धतिष्ठते देवि एकोनवरवर्णिनि | प्. १२ब्) चंद्ररामे सराः पूर्वदक्षे चन्द्राग्नि णायकान् || एकं चैव गुणावाणा स्थितापाशभृतो दिशि | कैवल्यं लोकभूतानि धनदेशेषु संस्थिता || मध्येषु संस्थिता कोष्ठा विश्वसंख्या चलात्मजे | चतुर्द्वार यथा वापी आकारं च भवन्तिते || उदयार्द्ध स्थितं पूर्वयाम्यमलयपर्वतं | मेरुभूधरपूर्वेण स्थितं पाशभृतो दिशि || लोकालोक स्थितं सौम्यं मध्ये कैलाशपर्वतम् | उदयादृक् स्थितानन्द कोष्ठकावरवर्णिनि || मलयादि स्थितानंदा कोष्ठा संख्या वरानने | मेरोनन्दपुरं देवि लोकालोक तथैव च || कैलाशे संस्थिता विश्वा क्रमाद्भूधर कोष्ठकाः | पंचाचलसमाख्याता तन्मध्ये मातृकां न्यसेत् || पूर्वदक्षे जलसौम्ये मातृकाद्यद्धिमक्षराः | त्रीणि त्रीणि लिखेत् पक्तिं पूर्वादारभ्यचोत्तरम् || हकारमध्यकोष्ठस्य तस्याद्यन्ता सशौलिखेत् | हकारार्द्ध वकारञ्च हकारा चेषमालिखेत् || क्षकारोधशकारं च झकारादौ जमालिखेत् | ऐकारोर्द्ध उकारं च अकारान्तेदमालिखेत् || प्. १३अ) ठकाराधोश्चकारं च झकाराधोच्चमालिखेत् | जकारोर्धच्छकारं च झकारं आदिमुद्धरेत् || एकारार्धे थकारं च ओकारार्द्धे टमालिखेत् | ओकारान्ते थकारं च धकारं दोर्द्ध सस्थितं || शवमध्ये यकारं च जसमध्ये वमालिखेत् | षडमध्ये मकारं च रेहं च दशमध्यगम् || शद्याद्यन्तोक औदेवि च्छभोर्द्धाध च औलिकेत् | टकाराद्यं ठकारान्ते णढौलिख्य क्रमेन वै || धकारार्ध थकारादौ जनौलिख्य नगात्मजे | परमध्य लकारं च हकारं पवमध्यगम् || भकारं वममध्यस्थं सकाराधौ यमालिखेत् | प्रस्तारोयं महागूढं नाम पंचाचलं महत् || तन्मध्ये तु महादेवि महाविद्याचलात्मजे | सिद्धिलक्ष्मीति विख्याता शृणुष्वेकाग्रमानसः || णान्तोर्द्ध संस्थितं वर्णं मीकारान्तेन भूषितम् | आद्यप्रणवमित्युक्तं स्मरणात् किल्विषापहं || लोकालोका स्थितं गृह्य धकाराध्वे स्थितं तु यत् | तस्याध षडमध्यस्थं धकाराद्येन भूषितं || कैलाशे हरमध्यस्थं तदग्रे फलमध्यगम् | रेफाक्रान्तं शिरस्थाने तदग्रे लयमध्यगं || प्. १३ब्) मेरुमाद्येनसंभिन्नं रकारादि समालिखेत् | लोकालोकाष्टसंयोज्य रममध्ये तदग्रतः || इ न मध्येन संभिन्नं अष्टमं अक्षरं भवेत् | खान्तंवर्णसमुद्धृत्य उदयाचलसप्तमं || मेरुमाद्येन संभिन्नं धकारोर्द्धेनदग्रतः | लोकालोकादिसंयुक्तं संशमंबीजमुत्तमम् || वममध्यगतं वर्णं रममध्यगतं तथा | इ णमध्यक्रमायोज्य नमस्कारं तदग्रतः || चतुर्थं पंचमं षष्ठंमस्याविद्याश्च सप्तमम् | चत्वारक्रममालिख्य डोर्द्धमलयादि संयुतं || औणमध्यं दशमध्यं मेरुमाद्यक्रमायुतम् | विद्यामेकादशं वर्णं नमो अग्रे ततः पुनः || नित्योदिता पदं लिख्यधोर्द्ध इन्दुविभूषितम् | राद्यवर्णसमुद्धृत्यधोर्द्धन्तु बिन्दुलांच्छितं || दिता पदं च तस्याग्रे रममध्यं इडमध्यगम् | युक्तं देवि प्रयत्नेन द्वात्रिंशदक्षरोद्धृता || कैलाशे लयमध्यस्थं खाद्यं उदयपर्वते | कैलाशे परमध्यस्थं केवलानि समालिखेत् || कुलचक्रपदं पूर्वधोर्द्धन्तु रयमध्यगौ | कला द्वित्रिक्रमायुक्तो खाद्यं परकलान्वितम् || रान्तोधसस्थितं वर्णं ठान्तोर्द्धेन समन्वितम् | प्. १४अ) कैलाशे वममध्यस्थं उदयाचल षष्ठमम् || पफमध्ये तदग्रे च केवलानि समुद्धरेत् | औणमध्ये रममध्य इदमध्ये क्रमायुतम् || च्छोर्द्धं तिथिकलायुक्तं एकारान्तोर्द्ध केवलम् | खाद्यं परकलायुक्तं गवमध्ये परायुतम् || कैलाशे हादिमध्यस्थं मेरुमाद्येनभूषितम् | धोर्द्धस्थं र मध्यस्थं इडमध्येन भेदितम् || औणमध्यगतं देवि रकाराद्यं तदग्रतः | रमध्यगतं योज्य तकारान्तं समन्वितम् || वेदाद्यक्षरमुद्धृत्य मायाबीजं तदग्रतः | नाभिद्विस्थान खंमूर्द्धौ षष्ठं परकलान्वितौ || पाददान्तसमारूढं मूर्द्धमकारसंयुतम् | तस्याग्रे तु चक्षोकारं क्रोंनमोन्त समुद्धरेत् || विद्याद्यक्षरसंलिख्य गवमध्यं थलमध्यगम् | षडमध्यपुनर्देवि केवलानि समुद्धरेत् || निसिहंलिख्य देवेशि विलोमेनाध्विजात्मजे | लोकालोकान्तमुद्धृत्य तं चोर्द्धयद्व्यवस्थितम् || मेरुमाद्येनसंभिन्नं तकाराद्यन्तु केवलम् | मार्गदेवि समालिख्य पदं तस्याग्र सस्थितम् || तस्याग्रे तु समालिख्य केवलं लघमध्यगं | प्. १४ब्) गवमध्ये परमध्ये एकीकृत्य वरानने || कैलाशे फलमध्येषु तदन्ते गवमध्यगम् | दशमध्यासमारूढं शमरि पदमग्रतः || हरमध्ये उरमध्यं परमध्यं च केवलम् | राद्यं खार्द्ध समारूढं दान्तं पाशभृतान्वितः || औणमध्यस्थितं वर्णं महिषासनसंयुतः | रिष्टक्लेशपदं मग्रेराद्यं वाद्यं च केवरौ || धोर्द्धपाशभृते नैव भेदितं रान्तकेवलम् | लान्तं परकलाक्रान्तं रेफभिन्नं च मस्तकम् || केवलं गवमध्यस्थं राद्यं परकलान्वितम् | षडमध्यं वममध्यं इ न मध्येन भेदितम् || विसर्गान्त स्थितं वर्णं मेरुमाध्येनमण्डितम् | तरणि पद तस्याग्रे आलिखेद्वरवर्णिनि || रहमध्यं उममध्यं परमध्यं वदान्तगम् | केवलानि समुद्धृत्य तर उ आदिसंयुतम् || निथमप्रविलोमेन रद्येमकारभूषितम् | फलमध्यगतं वर्णं मेरुमाद्येनमंत्रितम् || आद्यं मलयमुद्धृत्य ऊर्द्धचाधं तु केवलम् | त्रयाद्विगुणमुच्चार्य हसद्विस्थानमालिखेत् || फलमध्यगतं वर्णं तस्याग्रे परमध्यगम् | तस्याधो खगमध्यस्थं द्वयो द्विगुणमुच्चरेत् || प्. १५अ) लोकालोका स्थितं चोर्द्धं कैलाशे दशमध्यगम् | थलमध्यगतं लिख्य अकमध्याधसस्थितम् || विसर्गान्ते स्थितं वर्णं इकारेण विभूषितम् | दान्तं परकलायुक्तं मी अन्तेन समन्वितम् || तरजं लिख्यदेवेशि तदग्रे फलमध्यगं | फभमध्यगतं वर्णं मलयाद्येनभूषितम् || भक्षिणीमदमुच्चार्य द्विस्थाने षडमध्यगम् | कैलासे हरमध्यस्थं फलमध्याधसस्थितम् || केवलं हान्तगं वर्णं ओणमध्यं तदग्रतः | तस्याधो दशमध्यस्थं बिन्दुषष्ठस्वरान्वितम् || षडमध्यगतं वर्णं राद्यं सरेफमूर्द्धगम् | द्वयाद्विस्थानमालिख्य गाद्यं मलयादिभूषितम् || शशमध्यगतं वर्णं वारुणेनैवमण्डितम् | उभौ द्विगुणमुच्चार्य त्रिशूलेन पदं पुनः || कैलासे खान्तसोवस्थ ईश्वरं बिन्दुलांच्छितम् | विसर्गाधसमुद्धृत्य मेरुमाद्येनभूषितम् || द्वयो द्विगुणमुच्चार्य च्छिंधिद्विस्थानमालिखेत् | कैलासे भयमध्यस्थं केवलम् भूधराद्भवे || ऐममध्यं ख घ मध्यं ऐ ऊर्द्धं योजयेत् क्रमात् | लोकालोकस्यधोर्द्धस्थं औणमध्ये तदग्रतः || मलयादि युतं कृत्वा ठान्तं साग्रं समालिखेत् | प्. १५ब्) त्रयो द्विगुणमुचार्य च्छेदये द्विगुणं लिखेत् || तावद्यावत्पदं लिख्यविसर्गान्तोर्द्धमालिखेत् | नारथान्पदसंलिख्य साधयेद्द्विगुणोलिखेत् || गवमध्यतदग्रे च थलमध्यं षडमध्यगम् | केवलानि त्रयावर्णात्कणिरुकाविलोमतः || वममध्यं खघमध्यं फलमध्यं तथैव च | तदग्रे औणमध्यस्थं तृतीयस्वरभेदितम् || महाभैरवमुद्धृत्य तेजष.ष्ठस्वरास्थितः | केवलं गवमध्यस्थं दोधपरकलान्वितम् || थलमध्यं ढकाराढं उभौ ईश्वरभेदितौ | तरजं ईश्वरैः सार्द्धं तदग्रे थधमध्यगम् || वहमध्यं फलमध्यं दोधन्तु धावसंलिखेत् | केवलानि वरारोहे चेदवर्णसमुद्धरेत् || षोद्धन्तु ईश्वरा क्रान्तं औणामध्ये च ए युतम् | हरमध्यं उरमध्यं परमध्यं तथैव च || केवलानि त्रयोवर्णा त्रार्द्धञ्च बिंदुलक्षितम् | औणमध्यं दशमध्यं युक्तं च दोर्द्धमग्रतः || मलयादि युतं कुर्याणाधस्थं सविसर्गयुक् | कैलाशे गवमध्यस्थं अधोह्यग्निं प्रदापयेत् || ताद्यं थाद्यं च्छकारान्तं धोर्द्धवकारमालिखेत् | केवलानि वरारोहे भूतसंख्याक्षराणि च || प्. १६अ) तदग्रे औणमध्यस्थं हरमध्याधसस्थितम् | तदग्रे परमध्यस्थं इटमध्येन भेदितम् || अनुस्वारान्तमालिख्य ऐकाराद्यन्तु मूर्द्धगम् | कैलाशे फलमध्यस्थं पहमध्यस्थितं तु युत् || इकाराद्येनसंयुक्तं आलिखेद्वरवर्णिनि | केवलं भढमध्यस्थं सान्तं ऌ आद्यभूषितम् || खाद्यं परकलायुक्तं वाद्यमीश्वरभेदितम् | अस्य बीजादिमं बीजमग्रतः पुनरालिखेत् || केवलं परमध्यस्थं आलिखेद्वरवर्णिनि | विसर्गान्तोद्धमालिख्य आद्येन च विभूषितम् || वहमध्यगतं वर्णं धोर्द्धञ तदनन्तरम् | कलातृतीयसंयुक्तो अतरुर्द्धं शृणु प्रिये || सान्ते षष्ठकलारूढो व्योममस्तकभूषितम् | त्रिविधोच्चारणं तस्य कुर्यात् पर्वत संभवे || प्रसीदमदनालिख्य ओणमध्यं खोर्द्धसस्थितम् | अग्रतेजं समुद्धृत्य मलयाद्येनभूषितम् || खाद्यंदान्तं समुद्धृत्यौ उकारासनसंस्थितौ | उभौद्विगुणमुच्चार्य रान्तं उ आदिसंस्थितम् || दान्तं परकलायुक्तं हाद्यं खार्द्ध स्थितं कुरु | कैलाशे दशमध्यस्थं उणमध्यो दया चले || लोकालोकेधकारार्द्ध कैलाशेषादिसंयुतम् | प्. १६ब्) खाद्यं परकलाक्रान्तं व्योममस्तकभूषितम् || लोकालोकादिसंयुक्तं व्यंजनं मूर्ध्निसंस्थितम् | कैलाशे वहमध्यस्थं तस्याधो हव्यवाहनम् || नादबिंदुकलोपेतं लोकालोकादिभेदितम् | सान्तवर्णसमुद्धृत्य उ झमध्यासनस्थितम् || व्योममूर्ध्नि गतं कुर्यादशेषाद्य प्रणाशनम् | कैलाशे पर्वतते वान्ते यद्वर्णं सार्द्धसंस्थितम् || अकारान्तमुर्द्धलिख्य उभौ त्रिस्थानमालिखेत् | हरमध्यासनं लान्तं सान्तं च ह्यग्रतः स्थितम् || उभौदण्डधरौ कुर्यान्मन्त्रमेतत् सुरार्चिते | एषाविद्यामहाभागे सिद्धलक्ष्मीति विश्रुता || अक्षरान्ते तु ते सर्व नवत्यधिक् शतद्वयम् | श्रीदेव्युवाच || अद्यमे सफलं जन्म अद्यमे सफलं तपः || श्रुता शंभो महाविद्या त्वत्प्रसादाद्य भैरव | अधुना श्रोतुमिच्छामि करांगन्यासमुत्तमम् || येन विन्यस्तमात्रेण सर्वसिद्धिप्रजायते | श्रीभैरव उवाच || शृणु देवि महाभागे यस्त्वयापरिपृच्छतम् || कथयामि न संदेहो न्यासं भवति यादृशम् | शृणु देवि समाख्याता सिद्धलक्ष्मीति विद्यया || प्. १७अ) ओंकारादि हकारान्ता दशोनात्रिशताक्षरी | तस्याद्येकादशावर्णा पूर्ववक्त्रे च विन्यसेत् || तस्याग्रे नन्दसंख्या च दक्षिणास्येषु विन्यसेत् | भानुसंख्यान्तरे वक्त्रे पश्चिमे रुद्रसंख्यकान् || ऊर्द्धवक्त्रे च देवेशि द्विगुणाक्ष तृणाक्षरात् | नमोन्तं विन्यसेद्वक्त्रे यथा संख्याक्रमेण तु || वक्त्रं न्यासमिदं प्रोक्तं तदग्रे त्वधुना शृणु | भ्रुकृन्नाभिमुखे चैव वामदक्ष पुटे तथा || वामदक्षिण नेत्र च श्रवणे वामदक्षिणे | लिङ्गाधार क्रमेणैव वर्णमेकैक विन्यसेत् || भ्रूपादौ गुडपर्यन्तं योजयेद् द्वादशाक्षरान् | ऋषिरंगा दिशा विश्वा ग्रहरंध्रात् क्रमेण तु || हृदयाद्यस्त्रपर्यन्तं यथा संख्याक्षराणि च | नमः स्वाहा वषट् हूं च वौषट् फट् अन्तगं तथा || मन्त्रयानी मया प्रोक्तं षडंगान्तेषु योजयेत् | अचलाब्धि युगावर्णा आवाह्यप्रेतमासनम् || शत्रुक्षयक्रमेणैव योजयेद् वरवर्णिनि | कपालरुद्रमित्याख्या खट्वांगं विश्वमक्षरान् || शूलं चाष्टविजानीया खड्गसप्ताक्षरान्यसेत् | पाशेशरसमाख्याता अंकुशे ऋतु संख्यया || प्. १७ब्) वरदोकोनविंशत्या द्वीपसंख्याभवेत् न्यसेत् | सार्द्धमुण्डं चमस्वर्णाः घण्टापंच दशं तथा || अस्त्रशस्त्रक्षरा प्रोक्ता करं न्यासमतः शृणु | तर्जन्यष्ट न्यसेद्वर्ण मध्यमेकादशस्तथा || अनामिकाग्निमाख्यातः कन्यकां द्वादशाक्षरान् | अंगुष्ठाक्षर सप्तैव त्रिभिर्हस्ततलेषु च || करं न्यासमिदं प्रोक्तं नमोन्तं योजयेत् प्रिये | योनिनाभि हृदिमूर्द्ध्नि विन्यसेद्विद्धिचाक्षरान् || इदं न्यास महाभाग कथितं भ्रान्तिवर्जितम् | अधुना कथयिष्यामि देवार्चन विधिः क्रमात् || येन विज्ञातमात्रेन धर्मकामार्थ सिद्ध्यति | स्नानं कृत्वा वरारोहे धौतवलानुवेष्टयेत् || अर्घपात्रास्त्रमन्त्रेन पूरयेद्वरवर्णिनि | द्वारपालस्ततः पूज्य अर्घपात्रांबु पुष्पयाः || मन्त्रं ताभ्यां वरारोहे शृणुकल्यानि सांव्रतम् | टकाराध स्थितं वर्णं बिन्दुयुक्तं च कारयेत् || तदग्रे जयमध्यस्थं द्विधाभूतं कुरु प्रिये | आद्यं परकलायुक्तं तथा बिन्दुसमन्वितम् || ओं तमध्यगवमध्यस्थं ओणमध्यमतः परम् | रममध्यगतं वर्णं इढमध्येन भेदितम् || प्. १८अ) अकमध्यगतं वर्णं षडमध्ये तथैव च | विसर्गान्तं ततः कुर्यादेतद्वर्णसमुद्धरेत् || मन्त्रेणानेन देवेशि द्वारशाखाग्रदक्षिणे | पुजितव्यं प्रयत्नेन गशेणं? वरवर्णिनि || क्षां क्षेत्रपदमुद्धृत्य तस्यादौ प्रणवं लिखेत् | क्षेत्रपालपदं लिख्य नमोन्तमुच्चरेत् प्रिये || मन्त्रेणानेन देवेशि द्वारस्य वामभागतः | पूजयेत् क्षेत्रपालं च अर्घांबु पुष्पसंयुतैः || देहल्यायै पदं लिख्य प्रणवादिनमोन्तकै | देहली पूजयेन्नित्यं प्रविशेद् यागमंदिरम् || प्रणवादिसमुद्धृत्य मायाबीजं तदग्रतः | लक्ष्मीबीजं च तस्याग्रे दिग्मातृभ्यो नमोन्तकम् || मन्त्रेणानेन देवेशि अष्टदिग् परिपूजयेत् | प्रणवादि समुद्धृत्य माया तस्याग्रसंस्थितम् || आधारशक्तिमालिख्य कमलासन पदं पुनः | ततो नायपदं चाग्रे आसनं मान्मनस्य च || तत्रोपरिस्वयं देवि ह्युपविश्यवरान्मुनि | आधारशक्तिमाकुंच्य तडित्कोटिसमप्रभाम् || मध्रनाभौ च हृत्कण्ठे आज्ञास्थानक्रमेण तु | भेदितव्यं प्रयत्नेन द्वादशान्त लयं कुरु || प्. १८ब्) परामृतरसं देवि श्रवन्तं चिन्तयेत् सदा | देहमाप्लावनं कृत्वा स्वयं देवी भवेत् ततः || अर्घपात्रं ततः पूज्य मूलविद्यासुरेश्वरि | अंगन्यासक्रमेणैव नमोन्तं पात्रपूजनम् || स्वजाति विहितैर्द्रव्यैः परिपूर्णं कुरु प्रिये | मुद्रामृतमयी बद्ध्वा पात्रस्यापि प्रदर्शनै || च्छोटिकां च त्रयं दत्वा विघ्नस्योच्चाटनं कुरु | पात्रपूजा इमे प्रोक्ता अत ऊर्द्धं शृणु प्रिये || ओं ह्रीं श्रीपदमुच्चार्य आनन्दभैरवाय च | फट्कारान्तो लिखेद् देवी प्रणवं लिख्य चाग्रतः || माया श्रीबीजमालिख्य सत्रयं सविसर्गजम् | सुरादेव्यामृतं लिख्य धममायाश्च संलिखेत् || पवित्री करणं देवि मन्त्रेणानेन कारयेत् | सकलशत्रुमालिख्य प्रमथनिपदं पुनः || अस्त्रायफटमालिख्य द्रव्यशुद्धिरणेन तु | अन्तर्याग पुनर्देवि कर्तव्यं सुविशेषटः || वामेन पूरयेद् वायुं कुंभयेत् तद्वनन्तरम् | रेचयेत् सूर्यमार्गेन किंचिदाकुंचयेद् गुडम् || शक्तिः शिव पदे योज्य जिह्वामूर्द्धगतं कुरु | अन्तर्यागमिदं देवि कथितं भ्रान्ति वर्जितम् || अष्टपत्र लिखेत् पद्मं सकेशरसकर्णिकम् | प्. १९अ) तद्बाह्ये षोडशारं च प्रयत्नेन समालिखेत् || प्रेतञ्च कर्णिकान्तस्थं देवीं तस्योपरिस्थितम् | विंशस्यार्द्ध भुजोपेतां विंशाद्धार्द्धमुखानि वै || षष्ठिस्यार्द्धार्द्ध नेत्रानि शुद्धस्फटिकसंनिभा | कुंदेन्दु सदृशं रूपं हारनूपूरमंडितम् || त्रिशूलवरदं घण्ठा खट्वाङ्गं पाशमेव च | वामबाहु इमे प्रोक्ता आयुधानि वरान्मुखि || अंकुशमभयं मुण्डं खड्गं च पात्रमेव च | दक्षबाहुधृताशस्तामसुराणां वधार्थतः || ध्याये तद्रूपमात्मस्थं कर्णिकान्त प्रतिष्ठयेत् | आवाहनादि सत्कारैः पुष्पांजलित्रयं ददेत् || धूपं दीपं तथा गंधं अर्घपात्रादिकारयेत् | पश्चादात्मनि पूजा च न्यासमार्गेण कारयेत् || पूर्वोक्त ज्वालपालानि वामदक्षे च मध्यगान् | गणेशं क्षेत्रपालं च देहल्या च तृतीयका || गुरुं परगुरुं चैव परमेष्ठिं तथैव च | पूर्वाचार्य चतुर्थं च आदि सिद्धिं च पंचमम् || गुरुपक्तिं समभ्यर्च्य देवी उर्द्धगतः सदा | प्रणवादिनमोन्तस्थामुच्चरेद् गुरुपंचकम् || अत ऊर्द्धं महादेवि शक्तिपूजां समारभेत् | प्. १९ब्) कं टं कमलाकर्षण्यै धूत न्यासिलताधरी || क्रोधिनी वज्रिनी चैव च्छेदिनी च कपालिनी | ह्रीं श्रीं प्रणवयोगेन नमोन्तश्चाष्टशक्तयः || इन्द्रादौ ईशपर्यन्तं शक्तिश्चाष्ट दले यजेत् | षोडशारे महापद्म विशेषा च्छृणुपार्वति || चण्डायै च प्रचण्डायै सुभद्रामुकुटी तथा | लंबाख्या भूरिधारा च मरुता च सुवर्णभा || गुहनासा ज्वालदायै वितालागुहकास्तथा | मनोध्यक्षाप्रचण्डा च खड्गाला फेत्कारिणी तथा || यथा पूर्वक्रमेणैव षोडशानि प्रपूजयेत् | पश्चाद्वटुकं महाभागे पूजयेद् देवि चाग्रतः || देवि पुत्रपदं लिख्य वटुकनाथपदं पुनः | एहि एहि पदं लिख्य गृह्न गृह्नेति चोच्चरेत् || ह्रीं श्रीं आदि स्वाहान्ते च बटुक पूजा इमतः | क्षेत्रपालाय संलिख्य एहि एहि पदं पुनः || बलिं गृह्न गृह्न स्वाहा ओं क्षां आदि स्वाहान्तगम् | क्षेत्रपालवलिर्ह्येषा सर्वभूत बलिं शृणु || देवतेभ्यः पदं पूर्व योगिनीभ्यः समुद्धरेत् | बलिं गृह्न गृह्नोद्धृत्यं ह्रीं श्रीं आदि स्वाहान्तगम् || सर्वभूतबलि ह्येषा कथिता भ्रान्ति वर्जिता | दातव्यामीशा दिग्भागे सर्वापद्रवनाशनीम् || इति श्रीकालिकुलसद्भावे महातन्त्रे पंचाचलनिर्गत प्रस्तारे श्रीसिद्धिलक्ष्मीमते मन्त्रराजोद्धारे द्विपंचाशत्तमोध्यायः समाप्तः || || ओं नमः श्रीप्रत्यङ्गिरा देव्यै || श्रीदेव्युवाच || परमेश सुधास्रूति कलालं कृत शेखरे | नीलकण्ठ वृषारूढ गङ्गाधर महेश्वर || तां वः प्रत्यंगिरां देवीं त्रैलोक्य भयनाशिनीम् | परमन्त्राभिचारांश्च या नाशयति लीलया || शान्तिपुष्टिकरी शुद्धा ग्रहापस्मारभक्षणीम् | भूतवेताल शमनी कृत्या खार्खोदनाशिनी || सर्वसाधारणी घोरा सर्वापप्लवनाशनी | सर्वसंपत्तिदा श्रेष्ठा सर्वसौभाग्यदायिका || यया विज्ञातया सम्यक् विभूतिः संप्रवर्तते | यस्या घोरतरानान्या विद्यते भुवनोदरे || तामाख्या हि महादेव प्रसादाद्विश्वनायिकाम् | श्रीभैरव उवाच || शृणु वीरेन्द्र नमिते रहस्यमिदमद्भुतं || सर्वसंकरदोषघ्नं सर्वापद्रवनाशनम् | प्. २०ब्) सर्वशत्रुनिहन्तारं दुष्टदारिद्रमर्द्दनम् || विधानमतुलं देवि यन्नाख्यातं कदाचन | मनोरम शुचौदेशे सुगुप्ते लक्षणान्विते || सुधूपामोदवहुले चन्दनागुरुचर्चिते | प्रस्तार्यमातृकामन्त्री प्रपूर्या च यथाक्रमम् || ततः समुद्धरेद् विद्यां त्रैलोक्य भयनाशनीम् | दीपकं पूर्वमुद्धृत्य नमस्कारसमन्वितम् || सर्वसिद्धिपदं चैव योगिनीभ्यः पदं तथा | नमस्कारः पुनः कुर्यात् सर्वसिद्धि पदं तथा || मातॄभ्यः पदमुद्धृत्य नमः शब्दं ततः कुरु | नित्योदितानन्दपदं नंदितायै पदं तथा || पदं सकलनामानं तत्परं परिकीर्तितम् | कुले चक्रपदं योज्य नायिकायै पदं तथा || भगवत्यै पदं पश्चाच्चण्ड शब्दं पुनर्ददेत् | कापालिन्यै पदं दद्यात् तद् यथा पदमुद्धरेत् || षट्पंचाशाक्षरेणोक्तं प्रथमं तु समुद्धरेत् | पुनस्त्रिपदमुद्धृत्य डम्बरं तदनन्तरम् || सदाशिवौ पुनर्देयं हंसमंकुशसंयुतम् | बिन्दुनालं कृतं कृत्वा कुण्डलं योनिसंयुतम् || गोलकेनसमायुक्तं पुनः सर्वक्षयं ददेत् | प्. २१अ) त्रिपदेन समायुक्तं बिन्दुनासमलकृतम् || प्रणवं कर्त्तनं वह्नि बिंदुमेकत्र योजयेत् | नमस्कारमतोदेयं महामन्त्रप्रदीपनम् || देयं परम शब्दं च हंसिनीति पदं तथा | निर्वाणमार्गदे देयं पदं सर्वोत्तमोत्तमम् || विषमोपप्लवपदं प्रशमनि पदं तथा | अमृतं योजयेत् पश्चात् कलशब्दं पुनर्ददेत् || दुरितारिष्टसंक्लेश शब्दयुक्तं पुनर्ददेत् | पदं दलनिसंयोज्य पदं सर्वा पदं तथा || तथैवांभोधितरणि पुनः सकल शत्रुकम् | प्रमथनि पदं पश्चाद् देवि शब्दं पुनर्ददेत् || आगच्छागच्छसंयोज्य हसयुग्मं द्विधा कुरु | वल्गयुग्मपदं योज्य नरशब्दं पुनर्ददेत् || रुधिरात्रवसायोज्य भक्षिणीति पदं तथा | ममशब्दं स्वशब्दं च शत्रुन्मर्द्दद्विधा वदेत् || खाहिखाखि पदं दत्वा त्रिशूलेन पदं तथा | भिंदिच्छिंदि द्विधायोज्य खड्गेन पुनरुद्धरेत् || ताडयेति द्विधा योज्य च्छेदयेति पदं द्विधा | तावद्यावत्पदं दद्यान्ममशब्दं ततो वदेत् || वदेत् सकल संज्ञं च पददेयं मनोरथान् | साधयं द्विगुणं देयं पदं परमसंज्ञितम् || प्. २१ब्) तथा कारुणिके चान्य पदं भगवतीति च | महाशब्दं पुनर्देयं भैरवं पदसंज्ञितम् || रूपधारिणि चैवान्यत्पदं त्रिदश आद्यकम् | वरशब्दं पुनर्देयं नमितेति पदं तथा || पुनः सकलशब्दं तु मन्त्रमातः पदं तथा | प्रणतेति पदं यत्तज्जनशब्दं पुनर्ददेत् || वत्सलेति पदं चैव योजयेत् परमेश्वरि | देवि शब्दं महादेयं कालिशब्दं पुनर्ददेत् || कालनाशनि संयोज्य पदमत्र प्रदीपकं | महानिलपदं दत्वा ब्रह्मणापरिदर्पितं || लांच्छितं गोलकेनैव पिण्डं सन्तु त्रिधावदेत् | पश्चात् प्रसीद पदकं मदनातुरशब्दकम् || अस्यास्तिमंकुशाक्रान्तं भूषितं मूर्ध्नि बिन्दुकम् | कुरुशब्दद्विधायोज्य सुरासुरपदं तथा || कन्यकापदमुद्धृत्य डंबरं तु समुद्धरेत् | वरुणान्तं डम्बरेण वह्नि बिन्दुविभूषितम् || सर्व श्रीमुखदातार महाभोगपरावहम् | कालानलं महाहंस बिन्दुर्द्ध तु विभूषितम् || भीमपदं त्रिधा योज्य वह्निभार्या समन्वितम् | उद्धृता परमाविद्या सुखसौभाग्यमोक्षदा || शतद्वयन्तु वर्णानां नवत्येककमुद्धृता | एषा विद्या महाविद्या नाम्ना त्रैलोक्यमोहिनी || प्. २२अ) लक्ष्मीश्वरी महाकान्ता सर्वसौभाग्यदास्मृता | अस्मिन् श्रोतसि देवेशि नानयासदृशी परा || अलक्ष्मी समनी ज्ञेया दुष्टदारिद्रमर्दनी | कलि दुःस्वप्नशमनी सर्वापद्रनाशनी || राजोपसर्ग प्रशमनी दुष्टदैत्यविघट्टिनी | चौरारण्ये महाघोरे सिंहव्याघ्रादि संकटे || विषमे गहने वह्नौ भूतापस्मारजे भये | स्मरणीया सदागोरी कृत्यासङ्ग्रामदारुणे || सकृत्स्मृत्वा दहत्येषा पापौघं तृणराशिवत् | हत्वाजगदिदं घोरं ब्रह्मविद्भिः प्रसूचितम् || गुरुहा पितृहा देवि मातृहा भ्रुणहा तथा | लिंगोत्पातादिकैः पापैः सकृत् पाठात् प्रमुच्यते || पापैर्महापातकैश्च तथा चैवोपपातकैः | तथा पातक राजश्च सकृन्मोचयते स्मृता || लक्ष्मी युक्ता भवेच्छ्रीमान् मदोन्मत्तगजेन्द्रवत् | सकृदावर्त्य देवेशि पादात् सर्वोत्तमोत्तमः || सप्तसागरपर्यन्तं तीर्थस्नानकृतं भवेत् | त्रिरावर्त्य सुरेशानि दिवि भूम्यन्तरीक्ष च || तीर्थस्नाता भवेद् देवी नात्रकार्याविचारणा | सप्ता वर्तेन शुभगा दीक्षितः सर्वमण्डले || प्. २२ब्) दशवर्तेन शुभगे पुत्रको भवेत् भृशम् | सप्ताविंशतिजापेन ज्ञायते मातृमंडले || साधको वीरराजासौ यथा भैरवनायकः | शतार्द्धपरिजापेन भवेद्भैरववत्स्वयम् || तम्नास्ति यन्नकुरुते तम्नास्ति यन्नसाधयेत् | निगलार्गलयन्त्राणि नाशयेल्लीलया सदा || त्रिसंध्या वर्त्तनाद् देवि सप्ताहान्नात्रसंशयः | बंधनान् मुच्यते नूनं यदिकालेन पाशितम् || शताष्टपरि जापेन शक्तरौघं विनिक्षिपेत् | यत्र यत्र महेशानि निगदा स्फोटनं भवेत् || नावाशकटयन्त्राणि स्तम्भयेन् मोचयेत् तथा | सिकतासप्त जप्त्वा तु क्षिप्त्वामघान्निवारयेत् || राजिकासप्त जप्त्वा तु कृत्वा साधकपुंगवः | भूतापस्मार यष्मादि यं यं ताडयते क्रुधा || तं तं नाशयते क्षिप्रं न भूयः स्मरते ततः | ज्वरा चातुर्थकाद्याश्च सप्त जप्तादेकेन तु || अभ्युत्क्षणान्निवर्त्तन्ते नात्रकार्या विचारणा | लू?टापस्मारविस्फोट व्याधया विविधास्तथा || सप्तजप्तादकेनैव तद्वद्देवि विनाशयेत् | त्रिसप्तमन्त्रितं कृत्वा पाणोपाणीयमुत्तमम् || यस्य तद्दीयते मन्त्री विषार्त्तस्य सदैव हि | कुलिकेनापि दष्टस्य विषनिर्णाशनं भवेत् || २३अ) धूलिक्षेपान्मोहयते शत्रुरुद्यतशस्त्रकान् | कुंकुमागुरुकर्पूर गोरोचनविमिश्रितैः || सप्ताभिर्मन्त्रितं देवि तिलकं यः करिष्यति | रणेराजकूलद्यूते विवादे सजयी भवेत् || वल्लभः सर्वनारीणां कामदेवसमोभवेत् | अचिन्तितानि चार्थानि सदा तस्य भवन्ति हि || धनदस्य न सा भूति साधकस्य तु या भवेत् | यथा नारायणो देवो लक्ष्मीकान्तः सदा स्थिति || तद्वत्साधक राजस्य स्मरणान्नित्यमेव हि | गरयन्त्रं विषं दुष्टं ये प्रपुंजन्ति साधके || यो दुष्टधियः कुरुतस्तेषां कृत्या प्रजायते | बंधुपुत्रार्थनाशश्च देहनाशश्च दारुणः || भवत्येषां न संदेहो यदिष्ट साधकोत्तमे | कर्मणा मनसा वाचा ये दुष्टं तस्य कुर्वते || तेषां प्रत्यंगिरा जायेत् सर्वनाशश्च भैरवि | क्रुद्धो भवेद् वा यस्यैष साधको वीरवत्सले || कुलक्षयं भवेत् तस्य देव्या स्मरण मात्रतः | यः सदा चिन्तयेत् कामं तत् तत् साधकमिष्यते || सर्वरूपधरा देवी विश्वरूपामहोल्वणा | पद्मप्रेतासना दीप्ता वरदाभयय पाशिनी || नानारूपधरादेवी नानाशस्त्रैकशोभिता | प्. २३ब्) बहुवस्त्रा बहुभुजा बहुरूपा महोल्वणा || विश्वरूपा महेशानि नीलकुंचि मूर्द्धजा | यथाभिमतरूपा वा महालक्ष्मी निभां स्मरेत् || शितहारेन्दु सदृशीं पंचवक्त्रा त्रिलोचनाम् | दशदोर्दण्डसंहिता नानायुधकरोद्यता || रक्तारुणाम्बरां देवीं स्मरेत् सर्वसुखप्रदाम् | चिन्तामणिनिभां देवीं चिन्तितार्थ फलप्रदा || महापात्रे धान्यगंजे मद्यपूर्णे प्रपूजयेत् | अक्षयं तु भवेत् तस्य नित्यपूजारतस्य च || अर्थकोपे बिल्वगतां संपूज्य परमेश्वरी | धनदेन समं द्रव्यं न कदाचिद् विनश्यति || गजसाले मुक्तिदाम्ने पूजयेत् परमेश्वरी | न कदाचिद् विनश्यन्ति गजावृद्धिं प्रजायते || कृत्वा चंदन काष्ठानां प्रतिमामश्च मंदिरे | संपूज्य परयाभक्त्या न नश्यति हयेश्वरा || वृद्धिमायान्तिते नित्यं सूर्यस्येव निवेशनम् | गोगृहे चित्रफलके चित्रयित्वा समर्चयेत् || वृद्धिमायान्तिते गावा बहु पीयूषदा सदा | धान्यक्षेत्रादिके देवि राजिकां सप्तमन्त्रिताम् || प्रक्षिपेद् देवदेवेशि न कोपि प्रविशेत् ततः | महाशययादि संपत्या वृद्धिमायांतिते सदा || प्. २४अ) वाणिज्याय प्रकुर्वीत तत्प्रोक्षं मन्त्रवारिणा | तदा च विक्रमं यान्तु सदासौर्य च ये सदा || बालानां शर्ष्यपामंत्र्य बंधनीयात् सदागले | वृद्धिमायाकिते बाला आयुष्मान् प्रज्ञया दृढा || ज्येष्ठाहनो वाहनस्था पूज्यकामानवाप्नुयात् | योन्याकामयते देवि वाहने म्रष्टुकोपरि || अथ किं बहुनोक्तेन यद्यत् साधि तु मुत्सहे | अन्य ग्रन्थोपचारेण तत् तत् साधयते बलात् || सप्ताविंशति जप्त्वा तु सर्षषाक्षीर योषिताम् | संकास्थाने तु विकिरेत् सायं प्रातस्तु संकटे || तत्र लक्षणमालोक्य जपेत् तत्र च भैरवी | तावद् विद्या मनुद्विग्नौ यावत् सप्ताहमागतम् || ततरुत्पद्यते वेगान्नागलोक गता यदि | निधाने परमेशानि निर्विघ्नमुपतिष्ठति || यत्र यत्र निधिस्थाने जपेद् विद्यां महाबलाम् | तत्र तत्र निधिः साक्षादेति साधकसत्तमम् || जप्त्वा चाष्टसहस्रन्तु सर्वमन्त्राग्रमातरः | पर्वताग्रे महेशानि पद्ममष्टदलम् लिखेत् || जुहुयाद्गुग्गुलुं साज्यं सुप्रसन्नेन चेतसा | पश्चाच्छ्री संमुखाग्रन्तु मंगलं लोकविश्रुतम् || दीपपर्वणि देवेशि रात्रौहोमंत्र्यहस्मृतम् | प्. २४ब्) अनन्तरं विशेत् तत्र निर्भया गृह चेष्टवत् || यतोयतः प्रविशति साधकः सुसहायवान् | ततस्ततो विशीर्यके यन्त्रानद्यश्च शृंखला || उन्मादो जायते तीव्रं स्त्रीणां मदनदीपनम् | ततः प्रविष्टपाताले स्त्रीणां स्वामि भविष्यति || महाभोगभराशक्तो भवेद् ब्रह्मा पुरेवसः | अथवा श्रीमुखाग्रे तु जपन्तिष्ठन्ति निश्चलः || दीपपर्वणि वीरेन्द्र तदागच्छन्ति योगिनः | ताभिः सहविशेद् देवि पातालं भोगसागरम् || पूर्ववद्भोगभोगी स्यात् साधकः सानुगोवली | एवं पाताल संसिद्धि प्रियमेलापमुच्यते || रक्तभस्मापवीतांगः श्रग्दामाभरणान्वितम् | मदिरानंद चेतन्यः खड्गमुण्डकरान्वितः || हसन् गायन्मुदावल्गने व्रजेद्वीरवरं गृहम् | तत्रोच्चरन्महाविद्या वेदिमध्यगतः सुधीः || यावत् तृसप्तके देवि तावदा यान्ति देवताः | तासामर्घ्यं प्रदातव्यं भित्वावामांगमात्मनि || दत्तर्घखेचरः साक्षात् साधकोसौ भविष्यति | यथासौ भैरवो देवो निग्रहानुग्रहक्षमः || तद्द्वद्देवि न संदेहो भवत्येव हि साधकः | अस्याः प्रभावमतुलं कल्पकोट्या युतायुतैः || प्. २५) न च वर्णयितुं शक्तं सोहं वक्त्रसहस्रकैः | अतः संक्षेपतः ख्यातः तव देवि यथार्थतः || सर्वसंपत्करः सारः सर्वसिद्धिप्रदायकः | यथा वै ब्रह्मणा देवि नरनारायणार्चितम् || वसिष्ठ हेतोस्तु पुरा सहस्राक्षरमालिका | प्रकाशितो देवदेवि तद्वदेषा प्रकीर्तिता || इति रहस्यमिदं तव सुन्दरि त्रिदशवर्णितमेतदलं मया | निगदितं परमार्थ विचित्रितं सततमेव जयद्रथवत्सले || न हि तदस्ति जगत्रयमन्दिरे विविधवत्सल दृशा तव सुंदरि | यदि हन प्रकृति कृतमंजसा तवमया प्रिय भाषिणि हृद्गताम् || इह तु कालिकुलार्णवमध्यतो निगदित त्रिदशेन्द्र विलासिनि | क्रमविचित्र कला प्रविचारितः तम चिरेण गुहागतमद्भुतम् || त्रिदशडामरयागमहोत्सवं क्रमपरं मिहयत्कथितं तव | अत्र मन्त्र विपुलाश यद्वतो विद्यते निखिल भावगोचरे || यो न कुत्र विधिरिहोप वर्णिता वीर्यभावविलयोदयेश्वरी | षट्क मेतदुपवर्णितं मया कालिसंज्ञकमलं सुरेश्वरि || विंशतित्रिदशभाग चित्रिते भूरिकल्प शतवत्सुरार्चितः | प्. २५ब्) इति श्रीजयद्रथयामले विद्यापीठे भैरवश्रोतसिशिरश्च्छेदे चतुर्विंशति साहस्रे द्वितीयषट्के श्रीसिद्धलक्ष्मी विधाने मूलमालामन्त्रप्रकाश एकविंशतितमः पटलः समाप्तः || ओं नवत्यधिक द्विशताक्षरमालामन्त्र मातॄकानां जयद्रथोक्तानां विवरणम् || || दीपकं || ओं ततः प्रभृति मातॄखण्डानाषट्पंचाशदक्षराणां पष्टत्वादुद्धारो न व्याख्यातम् || ५६ || || ततो नवाक्षरं || त्रिपदं | ओं || डम्बरं | ह्रीं | सदाशिवौ || ह ह | हंस || ऊ || तद्युक्तं | हूं | हूं | अंकुश | आ | विदुः | *? | एवं ह्रां || कुण्डल | फ | योनि | ए | गोलकं || *? || एवं फं | सर्वक्षयः | क्ष | त्रिपदः प्रकरणात् | ओ | बिन्दु | *? | एवं क्षां || प्रणव ओ | कर्तनः | क | वह्नि | र || बिन्दुः | एवं | क्रों || नमस्कार | नमः || इति मन्त्रखण्डन वक्षरी || ९ || अतः परं स्तुति खण्डानां कालनाशनि पदान्तं यावत् तावत्पदं स्पष्टं || महानिलपदं || महानिलं एवं हः | ब्रह्मा उ | गोलकं *? || एवं त्रिधा हुं हुं हुं || अतः परं कन्यका पदं यावत् तावत् स्पष्टं || डम्बरं || प्. २६अ) ह्रीं || वरुणो वकार तस्यान्तं शकारण || वाम नेत्र ईकार || वह्नि रकर || बिन्दु *? | एव श्रीं भवत्येव || सर्वश्रीमुखेत्यादि विशेषेण द्वयस्येव प्रभावद्योतकं | कालानलः | ऊं || महाहंसः | ह || बिन्दु | ठ || अर्द्धेन्दु | ७ || एवं हूं || भीमराह्व फट् त्रिधा योज्य? | फट् फट् फट् | स्वाहा || एकत्र वर्ण २९० || अभियुक्तोस्ति तदार्थभिः सद्गुरु कृपया पूर्वतन्मुखा देव स्वीकृत्यमाराध्या || सद्गुरुरपि पुरश्चरकृतसिद्धिसाधितमन्त्रेषु ग्राहनीया तत्र कर्मणि चतुर्वर्णेष्वपि ग्राह्या || विप्र क्षत्रिय विट्शूद्र चाण्डालादि न भेद च | कौलिकेषु च कर्मेषु सिद्धिमन्त्रा गरीयसि || इत्यादि रुद्रयामलोक्त श्रीसदाशिववचनप्रमान एवेति || किं त्वत्र स्वत्र स्वबुद्व्युल्लिखिता विकल्पपरिघट्टना कुर्वन्ति केचित् | षट्पंचासाक्षरः प्रणवमुद्धृत्य इति पुनः शब्द चेतसे वैधाय प्रणवद्वयमुच्चरति || || तदसंगतं || अन्यपुनर्भूमिसंस्कारस्य विशेषण परिहृत्य महामन्त्रप्रदीपनं प्रणवमुद्धरन्ति || तेषां स्वग्रन्थ संवादातोय पद्यते || यथा || कालनाशनिसंयोज्य ददमत्यन्त दीपकमिति | प्. २६ब्) इति वाशिष्ठाय मते जयद्रथे मालामन्त्र टीका || सिद्धिलक्ष्म्या उग्रप्रचारकालि रूपत्वेन | एकाक्षरीमूलबीजाद्धारः || महाशून्यं तत्प्रवाहं त्रिशक्तिपरिमण्डितम् | बिन्दुश्चैव ततश्चन्द्र ततो योन्यष्टमं पुनः || तदधोयोजयेद् विद्वान योनिकुण्डान् महेश्वरि | अष्टाविंशतिमं भद्रे नादात् सप्तमसंस्थितम् || तद्वेश्मशिरसाभिन्ननति प्रणववर्जितः | पिण्डमेतन्महाभागे सर्वमन्त्रारणिं परम् || सर्वसान्निध्यकरणी सर्वसिद्धिभरावहम् | भाग्यमोक्षप्रदंसारं देव्या पिण्डमनुत्तमम् || ततोद्धारः महाशून्य || ह || तत्प्रवाह त्रिशक्ति | स || बिन्दु || ठ || चन्द्र | *? || योनि एकार तस्याष्टमं | ख || योनि कुण्डात् एकारात् अष्टाविंशतिमं || फ || नादात् सप्तमसस्थित फकारात्सप्तमं || र || तद्वेश्मभिन्नं एकार युक्तमित्यर्थः | मिलित्वा | ह्स्ख्फ्रें महाकुण्डलिनी | तृतीय षट्के रुद्रयामले || पुन मूल एकाक्षरी || सान्तान्तमादितः कृत्वा षट्विंशन्तु समुद्धरेत् | अधोर्द्धवह्निसंरूढं मूर्ध्निगुह्य नियोजितम् || षष्ठवर्गान्त संभिन्नं देवी एकाक्षरा स्मृता | प्. २७अ) जपसाध्या महाशक्तिर्न्नादमार्गनियोजिता || वाग्मन्दिर पदारूढो भैरवी रूपधृक् पदा | तदा स्मरेन् महाविद्या सिद्धिकालिजयक्रमा || सप्ताविंशति लक्षाणि जप्त्वा चैव तु सिध्यति | श्मशानाद्ये महाघोरे क्षेत्रेभ्याधयतेथवा || लघ्वीणी ध्यानसंयुक्त कृष्णाम्बरविभूषितः | ध्यायेद् घोरां महाभीमां कृष्णरक्तभयानकाम् || कृष्णाङ्गी प्रेतसंरूढा दिग्वासां विकृताननाम् | प्रेतखंचात्र संरूढां शिशुकर्णावलंबिनी || कपालहस्तां विकृतां रक्तपूर्णां सवोद्यताम् | नारास्थि भूषणैर्युक्तां व्यालयज्ञोपवीतिनीम् || अष्टादशभुजारौद्रा पंचवक्त्रात्रिलोचनाम् | सर्वायुधधरारौद्री भुक्तिमुक्तिफलप्रदा || उद्धार सान्त | ह || तस्यान्त | क्ष || क्षकाराषद्विंशम | र | गुह्य | इ | मूर्ध्नि ऋ || यथा तेन ह्क्ष्र्झीं? || योनिरूष्मा तथा नष्कं षट्कोणं कुण्डली कुलम् | मायानारायणं हंस अष्टधावाग्भवं स्मृतम् || वाग्भवाष्टकमध्यस्थां एतद्वर्गविभेदतः | पूजयेति | वाग्भवस्या | थ || तृतीयषट्के एकाक्षरी || प्. २७ब्) ओं नमः श्रीसिद्धिलक्ष्मी देव्यै || या सा परापराशक्ती व्योमेशी कुलनन्दिनी || सर्वभूतान्तरालस्था सिद्धिलक्ष्मीर्जयत्यजा | सर्गाहंकारभाजाशिरसि शकलिता ब्रह्मणा ब्रह्ममूर्तिः क्रोधादुच्चण्डदण्डा दिशि दिशि विविधाः संविधायापि यस्याः | सेनास्तंभं विधत्ते त्रिजगदधिपतिर्यत्प्रसादेन रूद्रः सामृद्नातूग्र शत्रून त्रिदशवरनुता चण्डकापालिनी वः || श्री उमावाच || या सा परापरासूक्ष्मा सर्वसत्वहितं करी || राज्यप्रदा भाग्यदा च आयुर्बुद्धिर्विवर्द्धनी | सर्वाभागाक्षयकरी महाभाग्यभरावहा || याप स्मृता देवदेव मोक्षमाप्नोति निश्चयात् | श्रीभैरव उवाच || शृणुदेवि परं गुह्यं गुह्याद्गुह्यतरं महत् || सप्तादशाक्षरा या सा सर्वतन्त्रेषु गोपिता | सर्वसिद्धिप्रदासारा भाग्यमोक्षाप्तये सदा || विद्या विद्येश्वरी ज्ञेया विशेषेण कलौ युगे | सर्वपापं हरादेवि विषत्रय विनाशिनी || सर्वपापं हरे च्छीघ्रं सकृदुच्चारणात्परा | ब्रह्महा भ्रूणहा चैव मातृहा पितृहा तथा || सकृदा वर्त्य शुद्ध्यत साधकः पाप शंकरात् | अभक्षभक्षणाद् वापि अगम्या गमनेन वा || अपेयं यदि वा पीतं त्रिरावर्त्येण शुद्ध्यते | अस्याः प्रभावमतुलं व्याख्यास्यास्यधुना प्रिये || सांप्रत्येवं शृणुष्वेव विद्याद्धारं महाधिपे | येन विज्ञातमात्रेन सर्वज्ञत्वं प्रपद्यते || मन्त्रोद्धारम् || खगेशं प्रथमोद्धृत्य रावं चैवाधुना प्रिये | वह्नि तृतीयमुद्धृत्य वह्निगेहमतः परम् || कालं मूर्ध्नि गतं भद्रे पंचमं पिण्डमुक्तिदम् | निषेध पुनरुद्धृत्य कालं प्रणवसंयुतम् || कालाद्यं केवलं दुर्गे गणेशं तदनन्तरम् | वरुणं च तथैवेहं पंचमंत्रिस्वराङ्कितम् || सौमित्री बिन्दुमूर्द्धानं चापाद्यं चापमेव हि | युक्तमिन्द्रं तथैवाद्यं योन्याद्यं तदनन्तरम् || सोमाद्यं च तथा कालं डम्बराक्रान्त पिण्डकम् | शिशिरं वरुणारूढं सप्तमान्त त्रिबिंदुयुक् || अस्त्रान्तन्तु द्विधा योज्य वह्निभार्यासमन्वितम् || १७ || एषा विद्या महाविद्या ऋद्धिसिद्धि प्रदायिका || पूज्या सर्वोपचारेण विद्या सप्तादशाक्षरी | षट्कोणे परमेशानि पूजिता सर्वसिद्धिदा || दूती षट्केण सहिता वीराचार प्रयोगतः | सर्वश्वेतोपचारेण सर्वकर्मफलावहा || राज्यप्रदासिद्धिलक्ष्मी भैरवी भैरवासना | प्. २८ब्) ध्यानमस्याः प्रवक्ष्यामि सर्वकर्मफलावहा || परां समाधिनाश्रित्य चिच्चेतन्यपराकला | हृत्पद्मकर्णिकाजाता जगदा ह्लादिनी परा || महातेजो मयी लक्ष्मी सहस्ररविभासुरा | पंचवक्त्रा दशभुजा त्रिपंचनयनैर्युता || कैलाशशिखराभासा श्वेतवर्णासुसप्रभा | ईदृग्रूपा सिद्धलक्षमीर्महाप्रेतोपरिस्थिता || उरगेन्द्रोपवीताख्या सर्पाभरणभूषिता | पाशांकुशधरारौद्री वरदा भयदा सदा || दक्षहस्तखड्गराजं शत्रूनां क्षोभमावहेत् | वामे करे तु खट्वांगं शूलं वै दक्षिणे करे || दक्षिणे कंदलं भीमं महारक्ताभि पूरितम् | सव्यहस्ते स केशं वै मुण्डमालित सान्त्रकम् || वामे चैवामृतं कुंभं दधतः सर्वकामदम् | एवं ध्यानं महागुह्यं सर्वसिद्धिप्रदायकम् || दारिद्रनाशनी चैव भयं नाशयते नृणाम् | नदीतरण संकृष्टे राजद्वारे रणे तथा || नाशयेत् परमेशानि सकृदुच्चारणादपि | एकाहि कं नाशयते ज्वारं वापि द्वयाह्निकम् || त्र्याहिकं वाडमादेवी चातुर्थकमथापि वा | नाशयेन् नात्र संदेहः सप्तावर्त्तेन चोत्तमे || प्. २९अ) भूताश्च दारुणाश्चैव आवेशे नैव जायते | पर प्रणीता या विद्या नाशयेन् नात्र संशयः || आपदाया तथा देवी ह्यवस्थाया गतापि वा | सप्ता विंशति जापेनमुच्यते नात्र संशयः || मुच्यते हि महारोगात् विषमास्थिगता च यत् | चतुःपंचाशद् जपना च्छरीरे सुखमाप्नुयात् || अनया जप्तया वापि सिद्धया साधकस्य तु | सिद्धे तु ददते सर्वं यत् किंचिन् मनसेप्सितम् || यत्र यत्र नियुंजीत तत्र तत्र जयं भवेत् | धनार्थिते तु धनदो वश्यार्थे वश्यदा भवेत् || कामार्थी लभते कामान् तथा भवति साधकः | सिद्धलक्ष्मी महादेवी दापयेदीप्सितं फलम् || अथ किं वहुनोक्तेन सर्वचिन्तित सिद्धिदम् | मूलमन्त्र ख्फ्रें || १७ || श्री उमोवाच || योगिनी षट्कमेवं हि यदुक्तं परमेश्वर || षट्क पूजनकं कीदृक् कथयस्व प्रसादतः | होमार्चनं च यागं च येन सिद्ध्यति साधकः || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि योगिनी षट्कमुत्तमम् | य या विज्ञातमात्रा या विभूतिः संप्रवर्तते || मायाबीजं परं तत्वं श्रीबीजं तदनन्तरम् | स्वनाम्यम्बापादयुतं पूजयेत् प्रसन्नधीः || प्. २९ब्) धामाधामवतीधाम्नी तथा वै ध्यानमण्डला | रविप्रभाविराजन्तीं षट्योगिन्यः प्रकीर्तिताः || षट्कोणे भुवणेशानी ह्यर्थसिद्धिप्रदा शुभा | होमात् त्रिमधुयुक्तेन पुष्टिर्भवति शाश्वतीम् || होमात्रिकटुकैर्देवि विद्वेषो जायते नृणाम् | काकपक्षेन चोच्चाटं कुरुते नात्रसंशयः || तिलैस्तु श्रियमाप्नोति राज्यवाम्नात्र संशयः | साधकेन्द्रस्य भवते देवि सत्यं वदाम्यहम् || भस्मं च विषसंयुक्तं होमयेन्निशिनिर्भयम् | चतुर्दश्यां तथा रात्रौ एकान्ते हरमन्दिरे || शत्रुन्मम ततो गृह्य मारयेच्च जनैर्युतम् | सप्तरात्रे तु संपूर्णे सत्यं सत्यं न चान्यथा || मदनस्य तु पत्राणि होमयेत् साधकोत्तमः | वश्यार्थे देवदेवेशि स्त्रियां वा पुरुषोपि वा || होमाद् देवि प्रसिद्धेत यदि साक्षात् तिलोत्तमा | धनदा दानवश्चैव तिष्ठते किंकरो यथा || सप्तादशाक्षरी विद्या प्रोक्तासर्वार्थ सिद्धिदा | पुष्पैर्नाना विधैर्देवी भक्ति युक्तेन चेतसाम् || पूजिताश्च ददात्यतान् मनसायदभीप्सितम् | जयते सततं देवि सिद्धिलक्ष्मीर्महाप्रभा || पापैरशेषैर्निर्मुक्तो देवि संयोज्यतां व्रजेत् | ३०अ) आदौ जातं प्रकर्त्तव्यं मण्डलताः प्रपूजयेत् || मण्डलं तु षडश्रं हि ख्यातं पूर्व हि सुव्रते | वश्ये तु ध्यायते रक्ता शित सिंदूरसप्रभा || कपोताभा तु वाधिर्य रक्ताशुक्ले तु मोहनी | विद्वेषे हरिता देवि उच्चाटकाकसंनिभा || नानाकर्मकरी देवी भुक्तिमुक्तिफलप्रदः | सर्वावस्थगतो यस्तु नोपसिद्धिमवाप्नुयात् || सिद्धिलक्ष्मी महाविद्या सर्वविघ्नविनाशनी | सर्वसौभाग्यजननी स स्थिता वीरनायिका || अन्ययागरतानान्तु दत्ता हि नरकं व्रजेत् | मयावतारिता देवि त्वदर्थं नात्रसंशयः || विद्यानामुत्तमा विद्या भैरवेन प्रकीर्तिता | सर्वपापविशुद्धात्मा मोक्षमार्गभवेन्नरः || इति श्रीभैरवस्रोतसि सारसंग्रहे श्री उमायामले द्वादशसहस्रे उमाप्रबोधे श्रीसिद्धिलक्ष्मीविधाने चतुर्विंशतिमः सप्तदशाक्षराद्धारः समाप्तः || श्रीगुरुपादुकां || ओं नमः श्रीशिवादिगुरुभ्यो नमः || श्रीवीरनाथाय नमः || सुगुप्तिनिर्जनस्थाने व्याघ्रांजिने स्थित्वा उत्तरादिमुखोभूत्वा पूजासमारभेत् || प्. ३०ब्) तत्र प्रथमं || ह्रीं श्रीं आत्मतत्व श्रीपादुकां || ह्रीं श्रीं विद्यातत्व श्रीपादुकां || ह्रीं श्रीं शिवतत्व श्रीपादुकां || तेन त्रितत्वेनाचम्य || ऐं ह्रीं श्रीं ख्फ्रें ह्सौः सकलशत्रुप्रमथनी हुं अस्त्राय फट् || अग्रे षट्कोणं विलिख्य || तत्रवलिं संस्थाप्य || गुर्वादि नमस्कारं कृत्वा || ऐं ह्रीं श्रीं अखण्डमण्डलेभ्यादि || अष्टदिक्षु || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | सूर्यः सोमोमहीपुत्रः सौम्यः सुरगुरुर्भृगुः || शनैश्चर तमोकेतुः शक्रादिभ्यो नमोस्तुते | ऐं ह्रीं श्रीं आधारशक्तिकमलाशनाय नमः || करशोधनः || ऐं ह्रीं श्रीं अस्त्राय फट् || ऐं ह्रीं श्रीं ख्फ्रें आधार श्रीपा || ३ ख्फ्रें हृदय श्री || ३ ख्फ्रें भूवौ श्री | ३ ख्फ्रें कनिष्ठिकाभ्यां नमः || ३ ख्फ्रें मध्यमाभ्यां नमः || ३ ख्फ्रें तर्जनीभ्यां नमः || ख्फ्रें अंगुष्ठभ्यां नमः || ३ ख्फ्रें करसंपुटाभ्यां नमः || इति करन्यासः || ऐं ह्रीं श्रीं ख्फ्रें सिद्धलक्ष्मी अम्बा श्रीपादुकां हृदयाय नमः || ऐं ह्रीं श्रीं ख्फ्रें सिद्धिलक्ष्मी अंबा श्रीपादुकां शिरसे स्वाहा || ४ सिद्धिलक्ष्मी अम्बा श्रीपादुकां शिखायै वषट् || ४ सिद्धिलक्ष्मी अम्बा श्रीपादुकां कवचाय हूं | प्. ३१अ) ४ सिद्धिलक्ष्मी अम्बा श्रीपादुकां नेत्राय वौषट् | ४ सिद्धिलक्ष्मी अम्बा श्रीपादुकां अस्त्राय फट् | इत्यंग न्यासः || ऐं ह्रीं श्रीं ख्फ्रें सकलशत्रुप्रमथनि अस्त्रय फट् | लंखनहाया व ह्ववनापेक चोयाव अर्घपात्रथे ते || ऐं ह्रीं श्रीं ख्फ्रें सिद्धलक्ष्मी अम्बा अर्घपात्रं स्थापयामि || ४ सिद्धिलक्ष्मी अम्बार्घपात्रं शोधयामि || ४ सिद्धिलक्ष्मी अम्बा अर्घपात्रं संदीपयामि || ४ सिद्धिलक्ष्मी अम्बा अर्घपात्रं पूरयामि || विघ्नवारनाय च्छोटिकत्रय प्रदानं || हूं २ फट् || ऐं ह्रीं श्रीं ह्क्ष्म्ल्व्र्यूं आनन्द भैरवाय म्क्ष्म्लव्र्यीं सुरादेव्यै वौषट् || ख्फ्रें सः सः सः परामृत देवी अमृत श्रव २ स्वाहा || ख्फ्रें अमृतामतं दातव्यं अस्त्रमन्त्रेणा ख्फ्रें अस्त्राय फट् त्रिरावृत्तयेत् || बीजमुद्रायां ह्सौः || पात्रमध्ये पंचरत्नं दातव्यं || ग्लूं म्लूं प्लूं म्लूं न्लूं || पात्रे पूर्णमध्ये त्रिकोण स्वराक्षरेण नावर्तयेत् || अवलोकयामि || ३ अस्त्रेणपुष्पादि द्रव्यं सोधयान्ममुखं वा || ३ मालामन्त्रेण २९० अर्घपात्र पूजा || चन्दनाक्षत पुष्पधूपदीप || प्. ३१ब्) योनिमुद्रां प्रदर्शयेत् || पात्रोदकेनास्त्रमन्त्रेणनात्म स्नानं || गुरुपात्रस्थेन शिरसि श्रीगुरुदेवं संतर्प्य त्रिधा बिन्दुमुखे दातव्यम् || ततो वर्णदेहस्वरूपं न्यासः || ओं नमः सर्वसिद्धियोगिनीभ्यः पूर्ववक्त्रायनमः || नमः सर्वसिद्धिमातृभ्यः | दक्षिणवक्त्रय नमः || नमो नित्योदितानन्दनन्दितायै उत्तरवक्त्राय नमः || सकलकुलचक्रनायिकायै पश्चिमवक्त्राय नमः || भगवत्यै चण्डकापालिन्यै ऊर्द्धवक्त्राय नमः || तद्भ्रुवौ | द्य हृदि | था नाभौ || ओं मुखे | ह्री वाम नेत्रे | हूंम् दक्षनेत्रे हां वामनाशापुटे || फं दक्षनाशापुटे || क्षो वामकर्णे || क्रां दक्षकर्णे || नं लिंगे || मः गुडे || ओं परमहंसिनि हृदयाय नमः || निर्वाणमार्गदे शिरसे स्वाहा || विषमोपप्लव प्रशमनि शिखायै वषट् || सकलदुरितारिष्ट क्लेशदलनि कवचाय हूं || सर्वापदांभोधितरणि नेत्रत्रयाय २ || सकलशत्रुप्रमथनि अस्त्रायफट् || देवि आगच्छ २ || स्वशरीरस्या वाहनं || हस २ हासितं || वल्ग २ करुणा || नररुधिरान्त्र वशाभक्षणि कपालदक्षकरे || मम स्वशत्रून् मर्द्द २ खाहि २ | प्. ३२अ) खट्वाङ्गवामकरे || त्रिशूलेन | भन्दि २ त्रिशूलवामकरे || च्छिन्धि २ खड्गेन खड्गसव्यकरे || ताडय २ पाशवामकरे || च्छेदय २ अंकुशसव्यकरे | तावद्यावन्सकलमनोरथान् साधय २ | अभयवामकरे | परमकारुणिकवरद सव्यकरे || भगवति महाभैरवरूपधारिणि मुण्डवामे | त्रिदशवरनमिते सकलमन्त्रमात | घण्ठासव्यकरे || प्रणतजनवत्सले प्रेतरुद्रासने || देवि महाकालिकालनाशनि कुण्डलिनी ज्योतिरूपं || हूं आधारे || हूं हृदि || हूं भ्रूमध्ये || ज्योतिरूपं || प्रसीदमदनातुरां कुरु २ सुरासुरकन्यकां | त्रैलोक्यवस || ह्रीं आधारे | श्रीं गुह्ये | हूं लिंगे | फट् हृदि | फट्कण्ठे | फट् मुखे | स्वाभ्रूमध्ये | हा ब्रह्माण्डे || थ्वते वर्णदेहन्यासः || ततो वलिः || ऐं ह्रीं श्रीं क्षां क्षीं क्षूं क्षैं क्सौं क्षः क्ष्म्व्र्यूं क्षेत्रपालाय कालाशनाशसर्वसंहारिणि अम्बा सहिताय वलिं गृह्न २ श्रीपादुकेभ्यो नमः || ऐं ह्रीं श्रीं गां गीं गूं गैं गौं गः ग्म्ल्व्र्युं गणपति वल्लभा सहिताय वलिं गृह्न २ श्री || प्. ३२ब्) व्म्ल्व्र्यूं वटुकनाथ वल्लभा सहिताय वलिं गृह्न २ श्री || ऐं ह्रीं श्रीं यम्ल्व्र्यीं म्म्ल्व्र्यीं सां सर्वयोगिनीभ्यो सर्वविश्वव्यापिनी स्वाभूतेभ्यो भूतपतिभ्यः सर्वश्मशानाधि पतिभ्यो वलिं गृह्न २ श्रीपादुकेभ्यो नमः || ऐं ह्रीं श्रीं गुरुभ्यो नमः || ३ परमगुर्भ्यो नमः || ३ परमेष्ठी गुरुभ्यो नमः || ३ आदि सिद्धिसकोन गुरुभ्यो नमः || आत्मशिरसि || ऐं ह्रीं श्रीं महाप्रेतासनाय नमः | ऐं ह्रीं श्रीं ह्रीं ह्रीं ह्रूं ह्रैं ह्रौं ह्रः महारुद्रासनाय नमः | मूलमन्त्रेण पुष्पांजलिनावामनाणा पुटेन देवी मावाह्य ध्यात्वा ततो स्थापन सन्निवेशसन्निरोधक वचाय हूं अस्त्राय फट् || ध्यान || खट्वाङ्गाङ्कुशपाशशूलवरकृद्भीत्राणपात्रं शिरः कुंभासि ज्वलितोद्भटैर्भुजवरैराभासमानां शिवां | रुद्रस्कन्धगतां शरच्छशि निभां पंचाननां सुन्दरीं पंचत्र्यक्षविराजितां भगवतीं श्रीसिद्धिलक्ष्मींभजे || सप्तदशीनतर्पन चंदन सिंदूर पुष्पाक्षतधूपदीपनैवेद्यं दत्वा || षडङ्गेन संपूज्य || माला न २९० त्रयांजलि || सप्तदशी १७ न यथा शक्ति जप | अष्टमातृकापूजा || प्. ३३अ) ऐं ह्रीं श्रीं अं आं १६ प्रयोगे आख्यायि मंगला वश्या ब्रह्माणी ऐंद्री अक्षः असितांगभैरव श्रीपादुकेभ्यो नमः || ३ कं ५ वरुणा इलायी चर्चिका सुन्दिनी माहेश्वरी आग्नेयी ईक्षरुरुभैरव श्री || ३ चं ५ कोलापुरे ऊहायी जोगायी केवती कौमारीयाम्यां ऊक्षः चण्डभैरव श्रीपा || ३ टं ५ अट्टहासे ऋषायी हर सिधायी खेटकी वैष्णवी नैर्-ऋत्यां ऋक्षः क्रोधभैरव श्रीपादु || ३ तं ५ जयन्तिके ऌशायी भययीकंधूकी वाराही वारुणी ऌ क्षः उन्मत्तभैरव श्रीपादुकेभ्यो नमः || ३ पं ५ चरित्रे एलायिकिल किलारजकी माहेन्द्री वायव्ये एक्षः कपालभैरव श्रीपादु || ३ यं ४ एकाम्रके औहायी कालरात्री च्छिययिनी चामुण्डा कौवेरी औक्षः भीषण भैरव श्रीपादु || ३ श ४ देवी कोटे अह्लायी भीषणी कोषटी महालक्ष्मी ईशानी अक्षः संहारभैरव श्रीपादुकेभ्यो नमः || पूर्वादीशानान्तं पूजनं || मालामन्त्रेण त्र्यंजलि पूजनं || पुनर्वलिः || ख्फ्रें ह्रां ह्रीं ह्रूं महारुद्राशनाय विघ्नाम्नाशय २ मम सकलमनोरथान् साधय २ प्. ३३ब्) इमां अलिपलल ओदन पूजां यथाशक्ति वलिं गृह्न २ हूं फट् स्वाहा || ख्फ्रें महाप्रेतासनाय मम विघ्नं नाशय २ मम सकलमनोरथान् साधय २ इमां अलिपलल ओदन पूजां यथाशक्ति वलिं गृह्न २ स्वाहा || ऐं ३ अ आ १६ प्रयोगे आख्यायी मंगला चेश्या ब्रह्मायणी ऐंन्द्री अः क्ष असितांग भैरव मम विघ्नं नाशय २ मम सकलमनोरथान् साधय २ इमां अलिपलल ओदन पूजां यथाशक्ति वलिं गृह्न २ हूं फट् स्वाहा || एवं पूर्वोक्त स्वस्वक्षेत्रपीठमन्त्रेण अष्टमातृकेभ्यो वलिं दद्यात् || क्षेत्रपाल गणेशवटुकेभ्यो योगिनीभ्यः पूर्वोक्तपादुका मन्त्रेण वलिं दद्यात् || ऐं ३ योनि गुह्य द्राविणी क्षोभिणी ज्वालिनी पंचमुद्रां प्रदर्शयेत् || देवीं स्वहृदयसंहारमुद्रया विसर्जयेत् || इति श्री उमाजामलपूजाक्रमः || प्. ३४अ) ओं नमश्चण्डायै || महासिद्धिसमाकीर्णे श्मसाने करवीरके | महावृंदमहास्फार प्रकाशानन्दको ज्वले || निवर्तित महाचक्रे योगे त्रिदशडामरे | सामरस्य स्थितं देवं पृच्छते कुलसुन्दरी || श्रीदेव्युवाच || पूर्वे देवत्व या मह्यं विद्या त्रैलोक्यपूजिता | त्रिधा संसूचिता सम्यक् नाख्याता विधिसंयुता || तामिदानीं समाख्याहि विधिपूर्णा कुलक्रमे | ज्ञायते दिव्यसिद्ध्यर्थं सुसिध्यैः सकला यथा || एवं देव्या वचः श्रुत्वा शङ्करो लोकशङ्करः | प्रोचावकुलसन्तान निर्भरानन्द पूरितः || श्रीमहादेव उवाच || स्थूला सूक्ष्मा परादेवि देवी संसूचिता मया | या त्विदानीं प्रवक्ष्यामि गुह्याद्गुह्यकुलक्रमे || अग्राह्या मनसा वाक्यैः कैवल्यानंदनिर्भराः | योगिभिः सूक्ष्मरूपस्था विद्यासप्तादशाक्षराः || शूक्ष्मा चिन्तास्वरूपेन मनोव्यापारधर्मिणी | मानसी सिद्धिदा तुष्टा स्थूलस्था साधकात्मनाम् || प्राकृताविमनो वाक्य देहकर्म त्रिकः पुनः | स्थूलत्वेन समास्थाय फलं यच्छति योगिनाम् || तस्मात् स्थूला स्थिता भागैस्त्रिकैः स्थूला वसानकैः | परादि द्विशतान्ते तु नवत्यर्णाधिके प्रिये || प्. ३५अ) मन्त्रदेहा वर्णदेहा पददेहामहेश्वरि | तत्वदेहा च यैर्ज्ञाता तेषां सिद्धिर्भवत्वलम् || विघ्नं विनाशयेत् सर्वं तत्वदेहा यदा भवेत् | पददेहा महासिद्धिं साधकेभ्यः प्रयच्छति || वर्णदेहा महागौरि ज्ञातासंनिहिता भवेत् | मन्त्रदेहा महास्फार पूजासिद्धौ च संउखा || मन्त्रवर्णांघ्रि तत्वेन येन बिन्दति तत्वतः | न तेषां जायते सिद्धिर्जप्त्वाकोटिशतैरपि || डामरे कुल झंकारे तथा देवि जयद्रथे | विधिहीना मयाप्रोक्ता वेदसंख्या कुलाम्बिका || विधिहीना न सिद्ध्यन्ति चतुर्देहविवर्जिता | तस्मात् सर्वप्रयत्नेन सत्क्रियं देहमन्यसेत् || गदिदं शंकरस्येत्थं श्रुत्वा भैरव वल्लभा | पृच्छते भैरवी देवी प्रणिपत्यशिवंसती || श्रीदेव्युवाच || अभ्युद्भुतमिदं वाक्यं देवाख्याहि मम प्रभा | कारुण्याद्विधिसंयुक्तं निर्विघ्नं सङ्गवर्जितम् || मन्त्रदेहं वर्णदेहं पददेहं तृतीयकम् | तत्वदेह चतुर्थन्तु सस्फूटं परमेश्वर || पार्वत्यावचनं श्रुत्वा भैरवा भयनाशनः | प्रहृष्टमनसा शुभ्रं वाक्यमेतदुवाचह || प्. ३५ब्) श्रीभैरव उवाच || शृणु वीरेन्द्रनमिते रहस्यमिदमद्भुतं | यत्नकस्य चिदाख्यातं चतुःपीठसमागतम् || दिव्यरूपाच्च श्रीकण्ठा दानवाच्चैव रावणात् | विभीषणाच्च धर्माच्च महाकंकारधारिणः || जयद्रथान् महातन्त्रात् तथा झंकार भैरवात् | विभीषकारतन्त्राच्च तथा त्रिदशडामरात् || अत्रगुह्याश्रमसम्यक् श्रीमत्सिद्धिकुलक्रम | कामपीठादि मार्गेण पारंपर्य क्रमेण तु || मन्त्रदेहं वर्णदेहं पदतत्वदेहस्वरूपकम् | विधानं चानुणाहीनं न्यस्याद्यत्स्मात् क्वचित् कुले || तस्मात् पूर्वं प्रवक्ष्यामि विद्यामन्त्र महोदयम् | सर्वसिद्धिप्रदं सर्व सिद्धिसंघैर्न्नमस्कृतम् || सुसमे भूप्रदेशे तु कुंकुमागुरुचर्चिते | पुष्पप्रकरसंकीर्णे महाद्विपार्च्चिशोभिते || महाधूपादि सौगंध गंधिसौरभपूरिते | महानैवेद्य संपूर्णे महापात्रार्चिते शुभे || महाकंन्यादि सच्चक्र परमानन्दनिर्भर | महाट्टहाससंनादे नादिते सज्जनान्विते || महाकुंभसमायुक्ते पूजिते वस्त्रकादिभिः | महावलि पदाकीर्णे तृप्तानंदमहागणे || महायागोत् सवाकीर्णे वीरभस्मच्छटाकुले | प्. ३६अ) महाचक्रसमावेश परिप्राप्ते समादरात् || महोत्सा खटिका युक्त मन्त्रेण देशिकोत्तमः | प्रार्थितः पूजितः शिष्यैर्यथाभैरवनायकः || शिवादि गुरुसन्तान विदः शक्ति समन्वितः | चतुर्द्देहकृताभ्यास अभिन्नशक्तिविग्रहः || प्रोक्षयित्वा महापात्रमस्त्रमन्त्रैः स पीठकम् | दक्षिणस्याथवा सौम्य मुखो देशिक नायकः || चतुरस्रन्तु षट्त्रिंशदङ्गुलैः परिसंमतम् | तत्र ब्रह्मध्रुवं दत्वा गृहे दक्षिणपृष्ठके || महावने यमास्यस्थश्चतुरंगुलमानतः | भ्रामयेत् तु तथा वृत्तं चतुरङ्गुलमानतः || चतुरङ्गुलमानेन चतुरङ्गुलमानतः | अङ्गुलैकप्रमाणेन पुनश्चैव तु पंचकम् || पश्चात् षोडशमानेन ध्रुवं कुर्याद् यथा क्रमम् | प्रथमे कर्णिकाकार्या वृत्ते च वसुपर्विका || द्वितीयकेशरालं च दलसंधि तृतीयके | चतुर्थे च दला प्राणि व्योमरेखा तु पंचमे || वर्णमानांगुलं देवि अष्टपत्रं समालिखेत् | ततो वर्णादयं मध्ये केशराले कदम्बकम् || पूर्वपत्रस्य मूले तु विशिखं मध्यके खगम् | अग्रेमेघं समालिख्य मंकस्थं ईशकेशरे || प्. ३६ब्) चंद्रहासं च आग्नेययां खरपुच्छं च पूर्ववत् | गजरोझस्तथा न्यस्य अंजनमीशमूलके || टंकहस्तमहापीठं वृतं रुदकदण्डके | अण्डस्फोटं तथाशाने तारकं खरकं प्रिये || मद बंधं तथा न्यस्य ईशाग्रे अंककं पुनः | पद्मनाभं तथा रेफं रावकुंभं तथा जले || अंबरं सौम्यपत्रार्थे योगदं च चलालये | नरं बलं शवं न्यस्य पूर्वयुक्त्या महोज्वलम् || सम्बरं सौम्यकेशस्थं पुरुषं च महौजसम् | गकारादौ णकारान्ते अमृतं गगणद्वये || संलिख्य च तथा चान्ते दारुणा बिन्दुशेषरम् | एवं द्वयं द्वयं न्यस्य स्वरद्वादशकं क्रमात् || सर्वक्षय खखावृत्तौ संपूर्णं शब्दकार्णवम् | पूर्वाग्रात्पच्छिमं यावन्नववर्णा व्यवस्थिता || आग्नेययां वायवं यावद्रूध्ववर्णाभवन्ति हि | दक्षिणादुत्तराग्रान्त ग्रहवर्णा महेश्वरि || नैर्-ऋत्यादीश पत्रान्त नाभवर्णाय शस्विनि | मेधेन सहिताः सर्वदिशं प्रतिदिशं गुणाः || यथा तथा भवन्त्येवं कुर्यादाम्नाय योगतः | अकारादि विसर्गान्ताश्चतुर्विंशति मण्डलात् || भवन्ति चक्रराजे च विद्यामन्त्रोदय प्रिये | प्. ३७अ) देवता गंधपूष्पाद्यैर्युग्मकैर्वस्त्रचंदनैः || रत्नस्वर्णैः सविच्छेद्यैः परामृतकुलोद्भवैः | यस्मात् समुद्धरेद् विद्यां अशेषार्थ प्रदायिनीम् || एतस्मिन् चक्रराजाख्य शतार्द्धस्वरशोभिते | पूजिता च सदाशीघ्रं महासिद्धिं प्रयच्छति || साधकस्य महादेवि प्रत्यङ्गिरा महौजसा | सिद्धिलक्ष्मी महाचण्डा शिवाख्या परमेश्वरी || इति श्रीमहाकुलक्रमे डामरे करवीरयोगे विद्यामन्त्रोदयचक्रवर्णनो नामप्रथम पटलः || १ || विद्यामन्त्रोदयं चक्रं श्रुत्वा द्वारसमन्वितः | पुनः संपृच्छते देवी वाक्यमेतत् कुलोदयम् || श्रीदेव्युवाच || विद्यामन्त्रोदयस्यान्ते कथमुद्ध्रियते स्फुटम् | अशेषमन्त्रमातॄणां कारिणां तद्वदस्वमे || देव्यानिगदितं श्रुत्वा अतिगुह्यतमं महत् | प्रोवाचेदं महादेवो रुद्धार विधिपूर्वकम् || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि विद्याप्रस्तारमध्यतः | उर्द्धारषट्कमायातं कीलहीन स भेदकम् || मध्यस्थं वर्णमुद्धृत्य ओ औ मध्यासने स्थितम् | जलपत्रस्य मूले तु वायुपत्रस्य मूलकम् || अधः क्रमेण संयोज्य ल ॡ मध्यमलांच्छितम् | प्. ३७ब्) सौम्याघ्रं मस्तकाक्रान्तं दीपनं खेचरोदयम् || श्मशानवासिनां भद्रं पंचमुद्राविधारिणीम् | गकाराद् दशसप्तन्तु नवमध्यसमन्वितम् || कौलिकं दीपनं योज्यमुच्छुत्स्वाङ्गाखगङ्गताः | गाडिमंत्रादि संयुक्तं नादिमस्तकभूषितम् || दीपकं गृहसस्थाना शुभदं ब्रह्मवर्च्चसम् | त्रिदीपकस्य मध्ये तु अधिकारक्रमेण तु || योजयेत् केवलं वर्णं प्रथमं बीजमुत्तमम् | ईशाग्रं सौम्यपत्रागं सपंचमसमन्वितम् || षमात्तंभममध्यस्थं षफमध्यशिरो ज्वरम् | ओ औ मध्यसमुद्धृत्य जकारादिसमन्वितम् || ऋ ॠ मध्यं दकारान्तं योजितं जादि भूषितम् | पशमध्यसकारादि योजितं दारणादिमम् || दारणान्तसमायुक्तमीशाग्रंजात्तसंयुतम् | हरमध्येन संयुक्तं पूर्वाग्रात् नवमह्यधः || ए चतुष्क समायुक्तं द्विपान्तरकसंयुतम् | सौम्याग्रं दारणाक्रान्तं ठान्ताधस्तं समुद्धरेत् || दारणाष्टमवर्णेन संयुक्तं रुद्रमं पुनः | द्विपान्तं द्वितयं पश्चाद् दशमं ह्रस्व योजितम् || हथमध्यहरान्तेन युक्तसादि विभूषितः | ऋ ॠ मध्यं जकारादि युक्तं च पटमध्यगम् || प्. ३८अ) गकारान्तसमायुक्तं द्वितीयं केवलं लिखेत् | ऋ ॠ मध्यद्वितीयेन भेदितं च द्वितीयकम् || अष्टाविंशजकारादि भेदितं च समुद्धरेत् | षद्विंशति तथा योज्यं लान्तेन हरमध्यगम् || ओ औ मध्यं चण्डमध्यं वरधूखहमध्यगम् | गकारस्य रसाशक्तं एकारान्तं समुद्धरेत् || इह मध्य खकारोर्धं वह्निसप्तसमन्वितम् | घममध्यं गकारान्तं योजितं हरमध्यगम् || दारणान्तसमायुक्तं चादिगान्तसमन्वितम् | रासनं ए तृतीयेन योजितं पच्छिमाग्रकम् || इन्द्रमध्यजलान्तस्थं पादिधान्तसमन्वितम् | सादाद्येन समायुक्तं कटमध्यसमुद्धरेत् || ईशमध्यासने योज्य यमपत्रस्य मध्यगम् | विसर्गपंचमाक्रान्तं गान्तं खाधो नियोजयेत् || जलस्थं केशरं गान्तं योजितं वायुमध्यगम् | सान्तान्ते सयुतं वायु केशरं नाशनस्थितम् || ओलमध्येन संयुक्तं चतुर्थकेशरं लिखेत् | ऋ ॠ मध्ये हलान्तेन संयुक्तं हठमध्यगम् || घाधोन्तेन समायुक्त माद्यं खण्डं प्रकीर्तितम् | षट्पंचासाक्षरं देवि ब्रह्मसंज्ञं सुमातृकम् || विद्यारूपेण स्थूलाख्यमशेष समयप्रदम् | प्. ३८ब्) मातृकावृन्दमेलाप कारकं मातॄनायकम् || विधानविहितं देवि दीपकं पुनरुद्धरेत् | उडमध्यत्रिधाकृत्वा सौम्य पत्राग्रसंयुतम् || लास?नंदापयेच्छाद्यं गकारस्य तु पंचमम् | जातान्तं च द्वितीयस्य गकारान्तं त्रिकस्य च || रथमध्यवनान्तेन गपंचत्रिकमण्डितम् | व्योमरेखागतं वर्णं सादि सौम्याग्रसंयुतम् || ख ह मध्यफपान्तस्थं सादिसौम्याग्रसंयुतम् | ईशाग्रं चैव सौम्याग्रं नाधरान्तेनसंयुतम् || एतद्द्वितीयकं खण्डं विष्णुसंज्ञं प्रकीर्तितम् | मन्त्राक्षं सर्वसिद्ध्यर्थं माधकं नववर्णकम् || पुनरुद्धृत्य देवेशि दीपकं विधिवद्यथा | प्राक् षट्कं सप्तमं वायौ यमस्य नवमं प्रिये || नैर्-ऋत्यात् पंचमंशादि संयुतं दक्षिणाष्टमम् | आजमध्येन चाक्रान्तः ईशाग्रं च महेश्वरि || पुनरेवसमुद्धृत्य चाभाद्यं तन्त्रिकान्वितम् | ईगमध्येन चाक्रान्तं राक्षसस्याष्टमं लिखेत् || नवमं यमपत्रस्य गयुग्मेन विभूषितम् | अ आ मध्यं समुद्धृत्य वह्निसप्तार्द्धलांच्छितम् || ऋ ॠ मध्यलकारादि भेदितं ऌ ॡ मध्यगम् | झाधरादि समायुक्तं ओ औ मध्यासनस्थितम् || वनमध्यसकारादि संयुतं जलकेशरम् | प्. ३९अ) पुनस्तदेवचोर्द्धाधः सस्थितं भसमध्यगम् || टतान्तलाधरारूढं पहमध्यवनान्तगम् | घनान्तं जादिसंयुक्तं द्वात्रिशान्तं त्रिकं लिखेत् || ऋ ॠ मध्ये डकारादि संयुतं यादिजादिना | पादिगान्तसमायुक्तमूदमध्यं पुनर्लिखेत् || रञ्त्र मध्यं हठान्ताधः खफमध्ये लसंयुतम् | ल ॡ मध्येन संयुक्तं दक्षाब्जं नास्तमं लिखेत् || ए ऐ मध्ये मघान्तं च गत्रिकेन समन्वितम् | ओ औ मध्ये पंचमं च गान्तेन संयुतं लिखेत् || फ ह मध्ये धथान्तं च इ ग मध्यसमन्वितम् | सौम्याग्रं पच्छिमाग्रस्थं ऐ स मध्येन भेदितम् || टभमध्ये झाधराद्येन टान्तं फान्तं ल सप्तमम् | झाधराध्येन संयुक्तं द्वात्रिंशान्तं त्रिकं लिखेत् || महान्तंक चतुर्थन्तु ठचतुर्थासनस्थितम् | ठादियुक्तं फ हान्तन्तु षादिपीठे व्यवस्थितम् || नवान्तं च ठ फान्तं च ईशजादि समन्वितम् | ऌ ॡ मध्ये लकारादिभादितं लोर्द्धजादि च || इगमध्ये अ आ मध्ये चासने जासने स्थितम् | इगमध्येन चाक्रान्तं अ आ मध्ये पुनर्लिखेत् || कान्तस्य आसनं खान्तं कयमध्ये समालिखेत् | ओ औ मध्यपुनर्देयं द्वितीयन्तु समुद्धरेत् || प्. ३९ब्) होर्द्धं रोर्द्धं समुद्धृत्य अ आ मध्यासन स्थितम् | पुनरेव द्विधालिख्य घादिखादि द्वयं लिखेत् || फान्तं डादि समायुक्तं भाद्यं जादिसमन्वितम् | लयमध्यगकारादि संयुक्तं शोर्द्धकं लिखेत् || पादिखादिसमायुक्तं भममध्यं गकारादि | पान्तगान्तसमायुक्तं धान्तनेमि स्थितं पुनः || ईशान्तं जादिसंयुक्तं सौम्याग्रविधिवल्लिखेत् | नाद्यं माधं लकारोर्द्धं संयुतं षोर्द्धगं पुनः || सममध्येर्थवालैक धाधुरं लाधलांच्छितम् | पुनरेवन्तु विधिवत् च्छाद्यंगान्तसमन्वितम् || शटमध्यजकारादि संयुतं च पुनर्द्विधा | पाद्यं दादिसमायुक्तं नाधरं डान्तसंयुतम् || लादिलार्द्धसमायुक्तमीशाग्रं विलिखेत् पुनः | जलाग्रं जादिसंयुक्तमीशाग्रं धाधरे स्थितम् || एवं द्विधासमुच्चार्य खठान्तं जादिनाहतम् | ईशाग्रं पाधरारूढं पुनरेव द्विधा कुरु || गाधरं दक्षमध्यं च पूर्वमध्योपरिस्थितम् | लाद्येनसंयुतं कृत्वा ईशानाग्रं समालिखेत् || पाद्यगान्त समायुक्तं उ ऊ मध्ये हलान्तगम् | एतत् त्रिकं समालिख्य ठाढ्यलाढ्यसमन्वितम् || ऋ ॠ मध्यहलान्तं च पुनरेतत्त्रिकं लिखेत् | प्. ४०अ) पाद्यान्तं गान्तसंयुक्तं माद्यथोर्द्धपगान्तगम् || एकत्र योजयेद्गात्रं संयुतं मादिमं पुनः | ईशाग्रस्यासने नाघं नवमध्ये पुनर्लिखेत् || द्वात्रिंशान्तं त्रिकं पश्चाद्वनमध्यमघान्तिमम् | लान्तान्तसंयुतं लाधं दाधं गान्त्रसमन्वितम् || हन मध्ये माधरस्थं दोर्द्धं यान्तत्रिकं पुनः | विधिवच्च समुच्चार्यय ओं कारान्तं त्रिके त्रिकम् || चादिमंगान्तया क्रान्तं लाधरं डादिसंयुतम् | ईशान्तं गत्रिकाक्रान्तं चादिमं चादिसंयुतम् || त्रिचत्वारिंशान्तत्रिकं पाद्यं जादि पाद्यादिसंयुतम् | नाद्यं मध्यंद्यगान्तेन संयुतं पश्चिमाग्रकम् || ओलमध्येन चाक्रान्तं फान्तं भान्तं लयान्तगम् | डाद्येनसंयुतं तान्त्रं भाद्यं गान्तसमन्वितम् || फान्तजादिसमायुक्तं आधरं जादिसंयुतम् | टान्तदाडिसमायुक्तं ऋ ॠ मध्येमघान्तगम् || माद्यं खान्तं मघान्तं च सौम्यजादिसमन्वितम् | हथान्तं लादिसंयुक्तं द्वात्रिशान्तं त्रिकं लिखेत् || लाद्यं माद्यं थहान्तेन लाधरेण समन्वितम् | नाद्यगान्तेन संयुक्तं पाद्यनान्तेन संयुतम् || फाधरं लाधरारूढं माधरं थाधरं ऋधम् | द्याद्यं माद्यकटान्ते च खान्तारूढं परानुगम् || प्. ४०ब्) ल ऌ मध्येन राक्रान्तं लादि वा ऋ ॠ मध्यगम् | माद्यंजादिसमायुक्तं जाद्यं च्छाशाग्रमीयुतम् || द्वितीयस्य तृकं बीजं त्रिधाकुर्यात् फहान्तकम् | फान्तासनमसारूढोमाधरं जान्तसंयुतम् || ऋ ॠ मध्यवनान्तं च धाधरं नोर्द्धगं परः | गात्वेन संयुतं कृत्वा पाद्यं डाद्येन भूषितम् || लयान्तं इगमध्येन णादिमस्तकभूषितम् | खाधरं डादिसंयुक्तं आधरं इडमध्यगम् || एवं द्विकं समुच्चार्य ओ औ मध्ये वडादिना | फान्तगान्तसमायुक्तं पुनरेवद्विधा कुरु || अन्तस्थ केवलं कृत्वा खाधरं घादि शादिना | खहान्तं गादिसंयुक्तं औन मध्येन संयुतम् || द्वितीयस्य द्वितीयं च एवं यन्त्रसमुद्धरेत् | तृतीयस्य तृतीयं च राद्यं ताद्यसमन्वितम् || त्रिविधं पतितं दत्वा माद्यामादि समन्वितम् | इगमध्येन संयुक्तं मध्येगान्तेन संयुतम् || पंचविंशाधिकं वर्णगणं च द्विशतं मतम् | मन्त्राख्यं रुद्रनामानं पराविद्या भिधानकम् || तृतीयं कथितं खण्डं विद्यामन्त्रोदयोत्तरात् | त्रिभिः खण्डैस्तु मिलिता विद्या भेद विभेदिताः || रुद्रैः शतद्वयं चैव नवत्येधिक शोभनैः | प्. ४१अ) सिद्धसिद्धिप्रभेदेन विलोमाथ क्वचित् स्मृताः || महाकारुणि चेति देदेवीति क्वचित् स्मृताः | मायालक्ष्मी विलोमस्था त्रिहंस पंचपिण्डकम् || अम्बेन तु क्वचित् प्रोक्ता च्छिन्दिरित्यादि कुत्रचित् | येन येन प्रभेदेन युक्ता संसव्यते सती || तेन तेन फलं यच्छेत् साधकस्यपिधस्य च | एषाविद्या महाविद्या नाम्ना त्रैलोक्यमोहनी || लक्ष्मीश्वरीति विख्याता बहुभोगभरावहा | महालक्ष्मी महाक्रान्ता सर्वसौभाग्यदायिनी || अलक्ष्मी समनीज्ञेया दुष्टदारिद्रमर्द्दनी | कलिदुःस्वप्नशमनी अभ्युपद्रवनाशिनी || राजोपसर्गसमनी दुष्टदस्यविघट्टिनी | प्रत्यङ्गिरामहाभद्रा सिद्धलक्ष्मी महोदया || चण्डाख्या चण्डसंहतॄ शिवाख्या शिवदायिनी | गुह्येश्वरी कमलाख्या मातृमण्डलवासिनी || कालसंकर्षणी नाम्ना गौरीरक्षणनामिका | महाकालीभराशान्ता महाभैरववल्लभा || ब्रह्मव्यूहक्षयातीव्रा महारुद्रवलप्रदा | विद्यादेहा वर्णदेहा पददेहा महेश्वरी || तत्वदेहासमुद्धार्या मालागर्भस्य गर्भिता | इत्थमुद्ध्रिपते देवि विद्यामन्त्रोदयान्तरे || प्. ४१ब्) नराणां स्वाधिकारेण पाददातीप्सितं फलम् || इति श्रीमहाकुलक्रमे महाकरवीरयागे विद्योद्धारो नाम द्वितीयः पटलः || २ || श्रीदेव्युवाच || श्रूतं देवसमुद्धारं विद्यामन्त्रोदयान्तरे | अधुना श्रोतुमिच्छामि चतुर्द्देहसुसिद्धितम् || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि वर्णदेहमहोदयम् | पारंपर्य क्रमायातमप्राप्यं मन्दभाजिनाम् || सिद्धिसंतानजातानां सिद्धानामिहजन्मिनाम् | नराणां चैव नारीणां भक्तानां सुलभाकुले || स्थाने मानोरमे मन्त्री कुलसंभारसंयुतम् | उद्धरेन्मण्डलन्तत्र सर्वकामफलोदयम् || एकवीराभिधानं वा यामलेन्द्रमथापि वा | रजसा पंचवर्णेन महाशोणादिभिश्च वा || ततो गुरुं नमस्कृत्य अर्घपात्रपुरःसरः | रेचककादिगतिं कृत्वा वीरवीग्रहमण्डले || पद्मासने स्थितो योगी चिन्तयेन् मन्त्रविग्रहाम् | हृत्पद्मकर्णिकामध्ये श्रीबीजप्रकटी कृते || सत्तारूपा स्मरेत् तत्र महाद्वीपकमण्डले | ततोत्पन्नां स्मरेच्चण्डां मन्त्रयोगसमन्विताम् || पूर्ववक्त्रं स्मरेत् पूर्वं रुद्रवर्णैर्यथा स्थितम् | प्. ४२अ) ग्रहाख्यैर्दक्षिणं तस्या द्वादशैरुत्तरं तथा || रुद्रवर्णैस्तथा प्राच्यं दिशावर्णैः खमस्थितम् | भ्रूमध्यहृदये नाभौ तद्यथा चक्रमा स्मरेत् || मुखेमांबा मनाशायां दक्षिणे च तृतीयकम् | वामदक्षिण नेत्रे च पंचमान्तयुगन्तथा || वामदक्षिणकर्णे द्वे लिंगे चैव गुडेनवम् | सप्तर्णैर्हृदयं तस्याः तथा चैव शिरोमतम् || दिग्वर्णैश्चशिखारौद्रा द्वादशान्तैश्च पुङ्गलम् | ग्रहाख्यै नेत्रसंदोहं आयुनि च तथा विदुः || पंचार्णै स्थानयेद्देवीं मूर्द्धौ वा मण्डलेथवा | हस युग्मं हसन्तीतां पश्येदनुग्रहात्मिकाम् || चतुर्भिमन्त्रजां सिद्धिं यच्छन्तीं चिन्तयेद्गिराम् | कपालं चिन्तयेत् तस्या रुद्रार्णैः पानपूरितम् || द्वादशान्तैश्च खट्वांगं श्वेतवर्णं त्रिकान्वितम् | अष्टकैश्चिन्तयेच्छूलं सप्तकैश्च महात्वसि || षद्भिः पाशं करे तस्या अंकुशं च तथा विदुः | एकोवविंशकैर्द्दानं सप्तकैश्चाभयं शुभम् || चिंतयेत् कन्दलं दिव्यं वर्णैश्चैव चतुर्द्दलैः | तथा पंचदशैर्वर्णैर्घटं संचिन्त्यपूरितम् || महारुद्राशनं चाष्टौ रुद्राख्यैः श्वेतसंनिभाम् | अधोर्द्धस्फारतेजौघां चिन्तयेच्च त्रिभिः क्रमात् || प्. ४२ब्) एकोनविंशकैर्वर्णैर्महामुद्राप्रबंधनम् | चंद्राग्निभास्करे पुष्पैस्त्रिभिर्बीजैः प्रपूजयेत् || खादकेन त्रिधापादा स्वाहाकारेण भाजनम् | संचिन्त्यपरमां देवीं मूर्तिस्थां मन्त्रविग्रहाम् || वर्णदेहाच्च विस्फार्य भावाभावपदान्तगान् | कंदात्कुण्डलिनी चक्रान्मध्यवृर्त्ति स्वरूपतः || वर्णस्वरूपमाख्यातं श्वेतादिगुणसंभवम् | विप्रादि संभवं वापि अकारादि तथापि वा || विरिंचाद्यष्टजातिस्थं अष्टधाचाप्यनेकधा | अनेकाष्टकभेदेन अवर्णे वर्णरूपकम् || शिवशक्तिमहानादो बिंदूदेन्दभगालयम् | अवर्णादि त्रिधाभिन्नं विद्यामन्त्रोदयाब्जगम् || तच्च हृद्वामजलजं तत्र श्वेतादि विग्रहम् | वर्णाखं संस्मरेद् देव्याः सर्ववर्णप्रकाशकम् || ज्येष्ठाङ्गबाहु हृत्पार्श्व कटिपादावशानकम् | बहुभेद महास्फार ज्ञात्वा सर्वं प्रकल्पयेत् || विरिंचादि तथा चाष्ट देहभूतं हि चाष्टकम् | शिववर्णमभेदेन शक्तिं चैव विचिन्तयेत् || शुद्धस्फटिकसंकाशां पंचास्यां दशबाहुकाम् | महारुद्रासनारूढां सुदेहां वर्णविग्रहाम् || नीलकुन्तलधृतेन्दु जपमुकुटमण्डिताम् | नानारत्नमहाहार काद्यमण्डित शेखराम् || प्. ४३अ) शितशोन्यशिता रक्तश्वेत खादिरमुज्वला | नानारत्नसमायुक्तां सुसमास्थिं सुकुण्डलाम् || सूर्यबिम्बारुणाकार त्रिपंचनयनोज्वलाम् | ईषद्धास्य ललज्जिह्वा दंष्ट्राशोभि मुखोज्वलाम् || नानादैत्यादि सद्दुष्ट कण्ठेकं दलमालिनीम् | अनेकरत्ननिर्माण टारघृष्टोन्नतस्तनाम् || त्रिवलीतरङ्गशोभाढ्यां मध्यक्षामादरां शुभाम् | किंकिणी जालसद्वस्त्र व्याघ्रांशु कटिभूषणाम् || वरासि शूलकाद्यं च मुण्डं दक्षे करे धृतम् | अभीखट्वाङ्ग सत्पात्रं बंधनं कलशोत्तरैः || वीरघंटांशुका स्फार जानुयुग्मसुशोभिताम् | घर्घरी नूपुराराव भूषितं चरण द्वयम् || सुश्वेतस्य त्रिनेत्रस्य द्विभुजैक मुखस्य च | स्कंधे रुद्रस्य चारूढा वीरासनस्थितस्य च || ज्वलत्पावकसंकाशं ज्वालासमूहसंघकम् | रोमकूपाच्च निर्यान्तं गगणं चारुणोपमम् || मात्र्यष्टकस्य मध्यस्थां पंचास्यां काष्ठयान्विताम् | बहुसिद्धि समाकीर्णां सिद्धायोगिनि पूजिताम् || एकवीरां स्मरेद्वाथ घंटा हस्त घटान्विते | चण्डाम्बा शिवपृष्ठे च कर्तिका खेटधारिणी || दानाभयकराभ्यां च शिवाम्बा खेटकं विना | प्. ४३ब्) महालक्ष्मी मयीम्बाथ अभये चिन्तितार्थदाम् || इत्थं मूर्तिरशेकैश्च भावभेदैर्महेश्वरी | शितास्यं पंचकैर्वाथ युक्तानागेन्द्रभूषणाम् || अतिसौम्यातिद्रग्रा च वर्णदेहस्वरूपतः | ध्यात्वावर्णात्म योगेन पददेहमथो भवेत् || त्र्यक्षरम् तु पदं चाद्यं शिरोदेशेषु विन्यसेत् | दशाक्षरं द्वितीयन्तु ललाट तटमण्डलम् || नवाक्षरं तृतीयं हि नाशावंशोग्र योगतः | दशाक्षरं चतुर्थन्तु वामनेत्रव्यवस्थितम् || एकादशाक्षरं देवि पंचमं दक्षै लोचने | चतुर्भिः षष्ठमं प्रोक्तं तृतीय नेत्रमण्डले || सप्तमं षष्ठवर्णं तु वामगण्डे व्यवस्थितम् | त्रिवर्णे चाष्टमं देवि दक्षिणे गण्डमण्डले || पदाष्टकैर्भवेच्चाद्यं ब्रह्माखंडाभिधानवम् | यामलाष्टकसंव्याप्ता लयादियोगयोजितः || एकवर्णं भवेच्चाद्यं वामकर्णे व्यवस्थितम् | कैवल्यार्ण द्वितीयन्तु दक्षिणश्रवणे न्यसेत् || चंद्रान्तार्ण तृतीयन्तु अधरोष्ठे व्यवस्थितम् | चतुर्थं शिववर्णन्तु उत्तरोष्ठे व्यवस्थितम् || पंचमं शितवर्णं तु अधोदन्तेषु साक्षिणः | एकवर्णं भवत्यष्टं ऊर्द्धदन्तालिमण्डले || प्. ४४अ) सप्तमं केवलं वर्णं जिह्वायां सव्यवस्थितम् | अष्टमं पक्षवर्णस्तु समस्तमुखमण्डले || पदाष्टकैर्द्वितीयेदं विष्णुखण्डं प्रकीर्तितम् | सिध्यष्टकसमुत्थानं शक्त्यष्टकपदानुगम् || सप्तवर्णं पुनश्चाद्यं कण्डमध्ये विधीयते | षद्वर्णन्तु द्वितीयं स्याद् वामस्कंधे तु विन्यसेत् || तृतीयं दशवर्णैश्च वामवाहौ व्यवस्थिताम् | त्रयोदशैश्चतुर्थन्तु वामे च मणिबंधके || नवाखैः पंचमं देवि वामहस्तांगुलीषु च | षष्ठमं रंध्रवर्णैश्च वामांगुलिनखेषु च || सप्तमं सप्तवर्णैश्च दक्षस्कंधेषु विन्यसेत् | अष्टमं च चतुर्वर्णैर्बाहोर्दक्षिणके न्यसेत् || नवमं च चतुर्वर्णैर्दक्षिणे मणिबंधके | एकादशैस्तु दशमं दक्षपाश्यांगुलीषु च || एकादशस्तु नवकैर्दक्षांगुलिनखेषु च | द्वादशं तु चतुर्वर्णैर्न्यसेवुदरमण्डले || त्रयोदशं तथाष्टाख्यैस्तन्ये वामे प्रकीर्तिताः | चतुर्द्दश चतुर्वर्णैर्दक्षस्तनेषु विन्यसेत् || त्रिपंच नववर्णैश्च क्षीवे च वामदक्षयाः | षोडशषष्ठवर्णैश्च नाडिमध्ये व्यवस्थितम् || सप्तादशोनविंशैस्तु न्यसेत् कालानलालये | अष्टादशं सप्तवर्णैर्योनि मध्ये वयवस्थितम् || प्. ४४ब्) चतुर्भिरेकोनविंशञ्च विन्यसेद् गुडमण्डलम् | विंशमं दशवर्णैश्च न्यसेद् वामस्फिकस्तटे || अष्टकैरेक विंशाख्यं दक्षिणेव स्फिवे न्यसेत् | द्वाविंशं सप्तवर्णैश्च वामारौसव्यवस्थितम् || अष्टाभिश्च त्रयोविंशद्वामारावध विन्यसेत् | एकादशैश्चतुर्विंशद्वामजानौ व्यवस्थितम् || पंचविंशतिभिर्वर्णैर्वामगुल्फ नियोजयेत् | अष्टाभिश्चैव षट्विंशद्गुल्फौ चैव तु दक्षिणे || चतुर्भिः सप्तविंशैस्तु वामपादांगुलीषु च | अष्टाविंशसप्तवर्णै देहपादांगुलीषु च || ऊनत्रिंशचैकवर्णैर्दक्षोर अधरे न्यसेत् | त्रिंशमं शिववर्णेन दक्षजानौ व्यवस्थितम् || एकत्रिंशत्तथैकेन पादे चैव तु दक्षिणे | द्वात्रिंशन्तु त्रिभिर्वर्णैर्वामपादांगुलीषु च || त्रिभिर्वर्णैस्त्रयस्त्रिंशत् पृष्ठवंशे व्यवस्थितम् | गुरुपदेशवर्णैश्च चतुस्त्रिंशतिमं पदम् || शक्तिस्थानाच्छिवं यावन्मुद्रारुपेण विन्यसेत् | चतुस्त्रिंशत्पदं प्रोक्तं रुद्रखण्डं तृतीयकम् || शुद्धवर्णाथ संध्यान महासिद्धिफलप्रदः | त्रिभिरेकत्रयोगेन शतार्द्धपदकं भवेत् || प्. ४५अ) देहदेव्याः सुनिःपन्नं तत्वव्याप्तिमखण्डितम् | तत्वव्याप्ति प्रभेदेन तत्वदेहं वदाम्यहम् || त्रिदेहं योगसंधान कारणं वहुसिद्धिदम् | ब्रह्मखण्डे नात्मतत्वं कालानलार्द्ध मण्डले || विन्यसेन् मुखसंधाने कारण बहुधाहितम् | द्वितीये खण्डकं नाभि मण्डलार्द्धकजोपरि || षडंगयोगसंधान कारणं गुणदायकम् | रुद्रखण्डतृतीयन्तु शिवतत्वपदानुगाम् || मूर्त्यासनस्य संध्यानं कारणं मन्त्रसिद्धिदम् | रुद्रग्रहार्करुद्राशा सृष्ट्यार्णैर्मुखपंचमम् || कृष्णासकर्षणी चण्डा शिवाप्रत्यंगिराभिधा | सप्तषद्दशकामैश्च ग्रहरंध्रान् षडंगकैः || सर्वज्ञादि त्रिभिर्युक्तं कल्पयेद् विविधक्रमात् | सर्वज्ञताथ तृप्तिश्च अनादि बोधमेव च || स्वतन्त्रता लुप्तशक्तिरनन्तश्चेत् पुरामतः | हृच्छिरश्च शिखावर्म नेत्रादस्त्रषदंगकम् || नमः स्वाहा तथा वषट् हूं वौषट् फट्त्रिकं तथा | हसेति द्विगुणंपीठ सदाशिव पुरःसरम् || तृतीयखण्डविंशेन मूर्ति तस्याः पदेन तु | मन्त्रखण्डं भवेन्मन्त्रं सप्तादशप्रभेदकम् || निर्मलं कथितं गौरि चतुर्देहविवर्णनम् | दीपकाद्यन्तसंयुक्तं योजयेन् मनसा हृदि || प्. ४५ब्) पूजयेच्च यथा न्यायं ततो मुद्रां विरेचयेत् | ततश्च स्वाशनपीठं मूर्तिं चात्मनि विन्यसेत् || मन्त्रेण चैव चात्मानं पूजयेच्च यथा विधि | ततस्तलौ समास्त्रेण सपृष्ठो नति मुद्रया || कनिष्ठिकौ पूरस्कृत्य पीठकं संप्रविन्यसेत् | कनिष्ठादि कनिष्ठान्तं वामावर्तपरिभ्रमात् || एकैकं मूर्तिवर्णन्तु विन्यसेदुपदेशतः | कनिष्ठिकौ पुरस्कृत्य पंचकं षट्टसप्तकौ || तलयोर्वामदक्षे च वामपृष्ठतलाष्टमम् | नवमं दक्षपृष्ठं च नत्यामन्त्रनयस्मरेत् || अंगुष्ठकौ पूरस्कृत्य कनिष्ठान्ताननं न्यसेत् | कनिष्ठिकौ पुरस्कृत्य स्यान्तादि पंचकं न्यसेत् || अस्त्रपृष्ठतलाभ्यान्तु न्यष्ट्वाखण्डत्रयं स्मरेत् | मस्तके कण्ठहृन्नाभौ संकरे चाशनं न्यसेत् || गुडादि त्रिसमेधादि ब्रह्मान्त मूर्तिवर्णकम् | गुडगुह्ये मुखे कर्णे नेत्रनासादि भेदतः || वामादिक्रमयोगेन मन्त्ररूपं प्रविन्यसेत् | गोलके चैव वाहाग्रे दक्षवामश्रुति पथे || शिखाधेया निभंगेन विन्यसेन् मुखपंचकम् | हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् || प्. ४६अ) शिखायान्तु शिखान्यस्य तनुत्रे देहमण्डले | त्रिबिन्दुमुद्रा नेत्रं च अस्त्रेनास्त्रं दिशासु च || त्रितत्वं च न्यसेत् पश्चा च्छिवादि क्रमयोगतः | पदं न्यासं ततः कुर्याद्वर्णभूतं ततः पुनः || मन्त्रदेहं ततः पश्चान्मुद्राभिः परिपूरितम् | ततो विद्यां स्मरेत् सर्वां विद्यारूपेण संस्थितः || वंधयेद् विविधा मुद्रा येन संपूर्णतां व्रजेत् | इत्थं देह चतुष्कन्तु विन्यस्य साधकेश्वरः || अस्त्रपूर्व यथा यागं कुर्यात्तथा वदाम्यहम् | अस्त्रेणक्षालितं पात्रं हृदासुरादि पूरितम् || गुन्थितन्तु तनुत्रेण नेत्रनैवामृतीकृतम् | रक्षितन्तु महास्त्रेण स्थापितं हृदयेन तु || गुह्यमुद्राप्रयोगेन शिखाया च प्रदीपितम् | पूजयेदासनं मध्ये मूर्तिमन्त्रासनांशकैः || खण्डत्रयेनसंपूज्य उपर्युपरियोगतः | ततस्तु पूजयेन् मध्ये गायत्रीं सुरपूजिताम् || चतुर्विंशाक्षरा देवि तां च ते कथयाम्यहम् | सौम्याग्रं मध्यमूर्ध्निस्थं लयमध्यविभूषितम् || ईत्रिकेन समायुक्तं प्रथमं बीजनायकम् | सौम्याग्रमध्यमं गान्तं युतं माढान्त ऋत्रिकम् || मादिमं जादिसंयुक्तं ऋ ॠ मध्येन संयुतम् | मध्यलादि समयुक्तं बीजान्तं द्वितयं पुनः || प्. ४६ब्) कान्तं बाधं जवेदाढ्यं जादियुक्तं फलाग्रकम् | पूर्वस्वरेणसंयुक्तं नै-ऋत्याग्रग्रपंचभृत् || दहीनौ पूर्वपादौ च बीजान्त द्वितयं पुनः | सप्तमं केशरं जादि शादिमंदादिसंयुतम् || लयान्तं पच्छिमकेशाढ्यं कान्तसादि समन्वितः | ऋ ॠ मध्ये हलान्तं च न कारान्तेनसंयुतम् || एषा त्रिधा ततः पश्चात् पुष्पादानन्द या त्रिधा | अस्त्रमन्त्रेनसंसिच्य गुण्ठनाद्य समाचरेत् || गुण्ठनं रक्षणं चैव अमृतीकरणं तथा | तनुत्रेणापि मन्त्रेण चक्षुषा च क्रमेण तु || ततो नन्दि महाकालं तथा भृंगिविनायकम् | वृषस्कंदं श्रियं चण्डं पूर्वादौ द्वारिपूजयेत् || नोवा व्याघ्रमजां भद्रां कर्णांसना बली चलाम् | वजिनी सौम्यपर्यन्तं द्वारद्वारयुगंयुगम् || गणेशम्बाम्बिकायुक्तं श्रीपुत्रं च तथैव च | संपूज्य चास्त्रकाद्यन्तं मन्त्रेणानेन दापयेत् || सदाशिवाद्यौ द्वौ वर्णौ नामकं शक्तिना सदा | नभ्यन्ते वाथ वादान्तं पूजयेदुपदेशतः || ततश्चान्तं शिवान्तं च सार्द्धं द्वितयमक्षरम् | द्वारान्त देहली स्थाने स्थापयेत् कुसुमान्वितः || ततः पृष्ठहलान्तं च वायवादौ गुरुसन्तति | प्. ४७अ) पुष्पादौ पूजयेद् देवि दीपादौ चाच्चिवर्णकैः || गुरुवत् पूजयेच्चादौ परमं तदनन्तरम् | परमेष्ठिनं तृतीयन्तु पूर्वाचार्यं तथैव च || अनादि सिद्धिसंज्ञाश्च पंचमं संप्रपूजयेत् | स्थानकेन ततो रक्षेत् पुरुषं वास्तुनायकम् || स्वक्रमं गुरुदेवानां वह्निकोणे समर्चयेत् | तत अनादि संपूज्य स्वगुरोर्नामपूर्वकम् || ये भूता विविधाकारा दिवि भूम्यन्तरीक्षगाः | पातालतलसंस्थाश्च शिवभागेषु भाविता || ध्रुवादि सर्वभूतेषु तृप्तिं लभन्ति ते सदा | सार्द्धं श्लोकेन पुष्पाढ्यं पुष्पानां हृतमुद्रया || दीपकं सौम्यमध्यस्थं पलान्तस्थ च मादितः | षष्ठं च सप्तमं चाद्यं गायत्र्याः षट्त्रिकात्रिकम् || हृदयं त्रिदशान्तं च गायत्र्या त्रितयं पुनः | कंन्यकादि चतुर्दद्याद् गायत्र्यन्ते चतुष्टयम् || चतुर्विंशाक्षरा प्रोक्ता गायत्र्येषा सुरासुराः | त्रिरुच्चारप्रयोगेन प्रोक्षयेत् कर्णिका दलम् || ब्रह्माद्याश्चैव शक्राद्या यामलेन प्रपूजयेत् | अमृताद्या तथा चाष्टा वीणान्तं क्रमशोथवा || केवलं वासनं जप्त्वा मूर्ति चावाहयेत् ततः | चतुर्देह विभागेन ततो मन्त्रेण पूजयेत् || प्. ४७ब्) भोगांगने यथा शक्त्या वह्न्यादौ वा पुरादितः | एकवीरा विधानेन यजेद् द्वारचतुष्टयम् || गुरुक्रमं तथा पीठं मूर्तिश्चैव चतुर्विधा | आवाह्य विधिवन्मन्त्रैर्योनि संस्थापनी तथा || सन्निधानां सन्निरोधां सन्मुखीकरणन्तथा | त्रिशूलं च षडङ्गेन क्रमशः संप्रदर्शयेत् || पाद्यमाचमनीयं च अर्घखण्डैस्त्रिभिः क्रमात् | अत्रगंधं तथा पुष्पं धूपदीपं च पारणम् || नैवेद्या चसनं चैव ताम्बूलं दर्पणं तथा | प्रीणनं मूर्ध्नवक्त्रादि अस्त्रान्ते तु समाचरेत् || ततो मुद्रामहामुद्रा गुह्यमुद्रातृतीयकम् | अस्त्रमुद्रावदशधा प्रदर्श्यसंजयं भवेत् || महाकं वृक्षसूत्रेण स्फाटिकनाथवा प्रिये | रुद्राक्षनाथाशंखेन शतार्द्धादि विभागशः || दशांशेन षडङ्गानि प्रसीदेति समर्प्ययेत् | ततो होमार्थतो गच्छेद्वह्न्यारीशे च सौम्यके || पूर्ववासो भवस्थाने संप्रार्थ्यकुलमातरम् | संस्कृतिं कारयेत् तत्र असंस्कृतिमसिद्धिदम् || वृत्तस्य वा षडस्रे वा त्रिकोनस्याथवा प्रिये | चतस्रस्याथ पद्मस्य मेषला त्रियुतस्य च || प्. ४८अ) समाभिस्कंधयुक्तस्य कण्ठोपकण्ठशोभितः | हादिकाद्यान्त हस्तान्तं प्रमानस्य समस्य च || स्थंडिलोल्लंघितस्यापि वीरभस्मादिभिः प्रिये | कुण्डस्य दशसंस्कारा ताडनादीनि कारयेत् || ताडनं प्रोक्षणं चैव उल्लषणमतः परम् | उद्धारं सेवनं चैव अस्त्रमात्रेन कारयेत् || मार्जनं च प्रलयं च तनुत्रेणवरानने | हृदार्च्चा च चतुर्मार्गे अक्षवाढं दशैव तु || कुण्डे पूजा प्रकर्तव्या मध्ये वै विस्तरं कुरु | ऋतु स्नातां तु वागेशीं उत्तानामीशमूर्द्धगाम् || नीलोत्पलदलश्यामां अर्घपाद्यादिभिर्यजेत् | हृदा वा शक्ति युक्तेन द्विभुजा च त्रिलोचना || अग्नेराचमनं हृन्नास्थापनं तदनन्तरम् | वेष्टनं ताडनं चैव प्रोक्ष्याद्घाटनमेव च || नेत्रेन चामृतीकार्या मर्च्चानं चावगुण्ठनम् | गर्भाधानं पुंसवनं सीमन्तोन्नयनन्तथा || वक्त्रसंक्लपनं कार्यं तथावक्त्रविनिःकृतिः | निःक्रमो जातकर्मे च वक्त्रोद्घाटनमेव च || वक्त्रशुद्धिः प्रकर्तव्या मामशुद्धिस्तथैव च | गर्भाधानादि नामान्तं कर्तव्यं हृदयेन तु || दशैवकुण्डवाह्ये तु अष्टौ कुण्डान्तरे प्रिये | प्. ४८ब्) अष्टादशैव संस्काराः कर्तव्या देशिकेन तु || ततस्तु देवीं वागेशीमर्चयित्वा विसर्जयेत् | पर्यग्निकरणं कार्यं संमुखी करणन्तथा || सुरादानं विस्तरांश्च पूजनं परिधीनि च | लोकेशसास्त्रं संपूजा पूर्वादि क्रमयोगतः || प्रीणीत वह्निं संपूज्य चाष्टणैव घटं यजेत् | वह्निसंतर्पणं पूजा कर्तव्या च विधानतः || श्रुकश्रुवा साध्य चास्त्रेण उपयामोपरिस्थितम् | पश्चाद् द्वादशसंस्कारान् सुविलीना घटान्तरे || अधिश्रवणमादौ तु उपाधिश्रवणं तथा | उतप्लवणसंप्लवनं नीरांजन निरीक्षणम् || वह्नेर्संतर्पणं चैव पंचधा दशधा तथा | आसनं पूजयेद् देव्या हृत्कंजे पावकस्य च || पश्चाद् देवीं न्यसेत् मूर्तिं चतुर्द्देह समन्वितम् | ततस्तु यजनं कार्यं विधानेन यथोदितम् || पश्चात् संतर्पणं कुर्यात् विधानेन यथा रुचि | च्छागमांसैस्त्रिमध्वक्त्रैर्देवी संतुष्ट हेतवे || बिल्वपत्रैः फलैः पुष्पैररिष्टं बंधनं रुजम् | नश्यते क्रमशो मोहाद्राज्यं स्याच्छत पद्मजैः || रक्तैर्वाणिज्य लाभं च शस्यलाभं तथोत्पलैः | नीलोत्पलैर्भवेत् पुष्टि कुमुदैरिष्टनाशनम् || कुन्दैः शान्तिमवाप्नोति वकुलैरतुलं यशः | प्. ४९अ) मल्लिकाभिर्भवेत् पुष्टि जातिभिर्ब्राह्मणावशम् || चम्पकैः क्षत्रियावैश्या तगरेण वशंनयेत् | सूद्राश्चैव तु बंधुकैः पारिभद्रैः पिशाचकाः || यक्षाकदम्बपुष्पैश्च अर्कश्चैव जयं लभेत् | जयन्ती कुसुमैर्होमान्निधानं लभते स्फुटम् || पलाशकुसुमैर्द्देवी विद्या वागीशतां लभेत् | नृमांसेनाष्ट सिद्धिश्च अधमश्चोत्तमां लभेत् || राजिकालवने नैव आकृष्टिश्च प्रजायते | करवीरैर्भवत्क्षोभं स्तंभने कर्णिकारकैः || गुग्गुलघृतसंयुक्तं चतुःसमेन संयुतम् | हुतात्सयच्छते सर्वं यत्किंचिन्मनसि स्थितम् || काकपक्षार्यहोमेन उच्चाटयति भूधरान् | मूकत्वं वर्तुलैः कुर्यादुन्मत्तैश्च नकादिभिः || खादिरैः सपलैर्हुत्वा मारयेन्नात्र संशयः | आयुर्दूर्वा युतैः पुष्पैस्तिलैः कंन्यामवाप्नुयात् || यवैः संवर्द्धते धान्यं धान्यैः कोषं विवर्द्धयेत् | रक्षा सिद्धार्थ होमेन पीतवर्णैः प्रजायते || दीक्षा गुग्गुलहोमेन इरामांसयुतेन च | फले चैव फलावाप्ति वशगो वृर्त्तिवर्द्धनम् || इत्थं होमे तु निर्वर्वत्य पूर्णाशक्त्या प्रदापयेत् | हृदासर्प्य यद्यज्ञं हृदाचाग्निं विसर्जयेत् || प्. ४९ब्) त्रिभिः खण्डैः सुरां पूज्य स्वान्तशक्त्यौ नियोजयेत् | क्षमस्वेति हृदाचात्ममुद्रया गुह्यसंज्ञया || बलिं दत्वा तु पुत्रादि गणेशान्तं यथाक्रमम् | इत्थं देहचतुष्कन्तु मयाते संप्रकाशितम् || स बाह्याभ्यन्तरं देव्याः किमन्यत् परिपृच्छति || इति श्रीकुलक्रमे करवीरश्मशान योगे चतुर्देहवर्णने तृतीयः पटलः || ३ || श्रीदेव्युवाच || श्रुतं देवमयासर्वं चतुर्देहविनिर्ण्यम् | इदानीं कुलसद्भेद दीक्षां ब्रुहिममाग्रतः || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि कुलदीक्षाविनिर्णयम् | गुह्यं कौलक्रमायातं यथानुक्रमयोगतः || परिक्षितस्य शुद्धस्य क्रमयोगरतस्य च | बहुकालप्रभक्तस्य सेवामण्डल वारिणः || अनुग्रहं प्रकर्तव्यं गुरुणानन्द चेतसा | निःपन्नयागद्रव्यस्य ह्यर्थशून्यस्य चेतसः || हेमादिभाजनं पात्रं शोणं नेत्रांशुकं शुभम् | च रुद्रव्यविधानेन जलाधारं च हेमजम् || रौप्यजं वाथ ताम्रं वा आज्यपात्रं तिलस्य च | नालिका च्छेदनी कर्ती धूपदीपस्य भाण्डकौ || तिलादि हव्य द्रव्याणि लखनी चंदनादिकम् | रोचनाकलशाश्चैव च्छत्रं चन्द्रा तपं तथा || प्. ५०अ) रजांसि पंचरत्नानि ह्येवमादिरणेकधा | यागद्रव्यसमाख्यातं क्रियामार्गप्रबोधकम् || महावीररणे घोरे महापितृवने तथा | मनोरमेथ संस्थाने कुर्याद्यागस्य मन्दिरे || नावाभावेन संकल्प्य देशिकः सुसमाहितः | पूर्ववद्यजनं कुर्याद्वह्यन्तं विधिपूर्वकम् || संप्रार्थ्यमातरी संध्या सत्कंन्यादि महाकुलम् | गुरुदेवविधानेन अर्घहस्तः प्रतीक्षयेत् || उद्यच्छास्त्रेण संप्रोक्ष स्वान्त स्वान्तं समुद्धरेत् | गवत्रयेन गावौ तु रोधयेद्वामकादितः || अन्तः खण्डेन चांजल्यां सपुष्पाणि प्रदापयेत् | माचाप्य पूर्वमुच्चार्य सप्रवेश्यसुमण्डले || कण्डान्ते विन्यसे च्छक्ति सप्तधानापलं हुनेत् | संप्रोक्ष्य च विधानेन मण्डलान्ते ततः पुनः || मन्त्रदेहं तु विन्यस्य दृशानेत्र प्रकाशयेत् | सप्तावर्तन शुभगे दीक्षितः सर्वमण्डले || भवत्येव समाख्यातं संस्कारं समयात्मकम् | एवं चरुन्तु संप्राप्य स्वप्नमावशकान्तिकम् || दशावर्तेण शुभगे पुत्रकत्वं प्रवर्तते | सेवनाच्च हुनाच्चैव नात्रकार्याविचारणा || अपरे च दिने प्राप्ते प्रविश्य यजनान्तरे | प्. ५०ब्) सप्ताविंशतिहोमेन विप्लुसैः प्रोक्षितेन वै || जाप्यनापि महागौरी समन्त्रकमलेन वै | सेवितेन प्रजायच्च साधकत्वं न संशयः || एवं समन्त्रकमलं सेव्यश्चानन्दभैरवम् | नवकैश्च घटैः सिक्ता सूत्राद्यं संप्रदापयेत् || अष्टोत्तरशतं जप्त्वा भक्त्यासिक्ता क्रमेण तु | आचार्यसंभवेद् देवि गुह्यमालाकुलं महत् || समयी सेवयेद् विद्या गुर्वाराधन तत्परः | पुत्रकं शृणु या च्छास्त्रं साधकः साधने क्षमः || दीक्षा व्याख्या प्रतिष्ठां च नित्यनैमित्तिकान्यकम् | आचार्यः कारयेत् सर्वं जनानुग्रह हेतुकः || इत्थं होत्रविधानं तु कीर्तितं तव सुंदरि | पुनश्चान्यं प्रवक्ष्यामि महामेलापसिद्धिदम् || प्राप्ते महातनौ पुंसि सर्वलक्षणसंयुते | स्वाराध्य तद्विनावाज्ञां गृहीत्वा यागमारभेत् || वीररूपं रूपंसमास्थाय समारुह्य तनुं ततः | चतुर्द्धा योजयेद्देहं एकचित्तं समाहितः || जपच्चैव हुनच्चैव सेवं चैव समाचरेत् | स शक्ति हीनो वा ज्ञानशक्तिसमाश्रयेत् || साधकस्य वरारोहे भयं कुर्वन्ति देवताः | कायवाक्वित्तयोगेन तस्माद्भीतिं विवर्जयेत् || प्. ५१अ) सप्तावर्तन सुभगे दीक्षितः सर्वमण्डले | पश्यते मण्डलं देव्याः पुरस्ताद्व्योमसंगतम् || दशावर्तन शुभगे पुत्रकोसौ भविष्यति | देवि पुत्रं पुरः पश्येन् महासिद्धिप्रदायकम् || सप्ताविंशति जापेन पश्यते मातृमण्डले | साधकः साधके भाति पुरस्तान्नात्र संशयः || शताष्टपरिजाप्येन भवेद्भैरववत्स्वयम् | पश्यते भैरवी रूपं शिवसायुज्यकारणम् || मलेके च्छोमलं दृष्टि भाषाचारं चरुक्रमम् | ज्ञात्वा कुलागतं सम्यक् ततः सिद्धिं लभेत् क्रमात् || इत्थमेलापयोगेन वीरदीक्षा प्रकाशिता | कुलदीक्षाविधानं तु पुनर्वक्ष्यामि सुन्दरी || संप्रोक्षनेत्रकं बद्धा प्रविश्य च यथा क्रमम् | कुण्डलिन्या हतं कृत्वा शक्तिहस्तं निवेशयेत् || आनन्दमप्यनं कुर्याच्छताष्टान्तमनुक्रमात् | चरुंचापि महादीपं पारंपर्यक्रमागतम् || विनात्रिकेन संसिद्धिः कल्पकोटिशतैरपि | नस्यात् तस्यात् त्रिकं कृत्वा गुरुपूजनमारभेत् || त्रिधा चैव खदेहेन अर्थेनाष्ट विधेन च | त्रिधा च वचसा गौरी चित्तेनापि प्रपूजयेत् || इत्थं या दीक्षितो मर्त्यैर्नारी वा भक्तवत्सला | प्. ५३ब्) साधयेदखिलं सर्वं सिद्धिसंघत्रिधा स्फुटम् || त्रिविधा कथिता देवि दीक्षाप्रत्यंगिरा कुले | गुह्यं महाकुला याता संक्षेपान्न तु विस्तरात् || इति श्रीकुलक्रमे करवीरयोगे दीक्षात्रयकथनो नाम चतुर्थः पटलः || ४ || श्रीदेव्युवाच || यथा संसाधयेद् देव सिद्धिसंघस्त्रिधा स्फुटम् | साधकः संविभागेन तथा कथय शंकर || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि त्रिधासिद्धि समूहकम् | येन संसाधयेद्वीरा वीरा वा कुलसन्तते || वीरदीक्षा न शक्तायः संपूज्यविधिवत् पुरा | श्मशाने शिवदक्षे वा गृहे वा वाहनस्थिते || दीपादि त्रिविधैर्नित्यमभावात् पर्वणि पुनः | सत्यवाक् धैर्यसम्पन्नः कामक्रोधविवर्जितः || शक्ति सहायसंयुक्तो वीरः सहायकोथवा | सहाय द्रव्यहीनाथ भीक्षासी च निशागमे || सहस्रैकं जपच्चादौ काय शुद्ध्यर्थ हेतवे | देवी तुष्टा हुनेच्चैव यथा पूर्वं मयोदितम् || ततो लक्षं जपेन् मन्त्री दिवा चाहारवर्जितः | भुक्तोर्द्धभावनाशक्तः संध्यायं शतमेककम् || गायत्र्या तु जयेन्युग्मं न्यष्टा चैव षडङ्गकम् | ततो रात्रौ जपं कुर्याद् यथा शक्त्या क्रमेण तु || प्. ५२ब्) दशाङ्गेन हुनेत् पश्चान्मन्त्र संसिद्धि हेतवे | होमान्ते कन्यका पूज्या कृतसिद्धिर्भवेद्ध्रुवम् || अथवा द्विगुणं जाप्यं यावद् वै सप्तवासरम् | क्रुरादौ चाष्टमसेकाद्धोमान्त ग्रहणान्तिकम् || त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिदिनं च वा | वातादिरोगसंशान्ति होमादौ सेवतो लभेत् || अष्टम्यां वा चतुर्दश्यां समारभ्य हरणतम् | दशाङ्ग होमतः सकात् महाशान्ति भवेत् स्फुटम् || जपेत् पंचशतं मन्त्री यच्छश्यं त्रिशतं हुनेत् | होमान्ते सेकतः पश्येत् पुष्टिं चैवस्त्वमाप्नुयात् || त्रिशतं त्रिशतं जप्त्वा जप्त्वा चैवाष्टमे दिने | होमान्तं सेकतो देहपुष्टिमाप्नोति मानवः || जप्त्वा चैव तु साहस्रं जुहुयात् पंच शतानि वै | नागाश्वगोष्ठ लोकानां पुष्टिमाप्नोति सेकतः || निगलार्गल यन्त्राणि आत्मनोथ परस्य वा | त्रिसंध्या वर्त्तनाद्धन्यात् सप्ताहान्नात्रसंशयः || श्मशाने शर्करां गृह्यमन्त्रैरष्टशतं जपेत् | यत्र यत्र भवेद् गौरि निगडा स्फोटनं भवेत् || भूतां कुशस्य दण्डेन त्रिधाभिमन्त्रितान् दृढान् | नावाशकटयन्त्राणि स्तंभयेत् मोचयेल्लवात् || प्. ५२ब्) दूर्वा तन्तु विषक्षोभं दुःकुलं दुष्टजन्तुकम् | वालुका सप्तजप्त्वा तु महामेध्यान्तु वारयेत् || राजिकां सप्तजप्त्वा तु ग्रस्तं भूतदिनावधि | ताडयेद्धृदि मुद्रायां कृत्वा संत्यज्यते ध्रुवम् || ज्वरा चातुर्थकाद्याश्च सप्तजप्तोदकेन तु | अभ्युत्क्षणान्निवर्तन्ते चित्राद्गुनुरुधूपतः || लूतागर्दभविस्फोट व्याधयो विविधास्तथा | सप्तजप्तोदकः सेकात् पानाल्लेपाद्विनाशयेत् || एकविंशति वारैस्तु जलं चैवाभिमन्त्रितम् | स्थावरं जङ्गमं चाङ्गं विषं पानाद्विनाशयेत् || पुष्पान्न सिद्धिसिद्धार्थं श्मसानस्य च भस्मकम् | सप्तमन्त्र्य भनेच्छत्रुं सशत्रुं मोहनाय च || महापात्रे धान्य पुंजे मद्यपूर्णे घटेषु च | अक्षयं तद्भवेत् तस्य नित्यपूजारतस्य च || अर्वकोषे बिल्वगतां संलिख्यपटके यजेत् | धनदेन समं द्रव्यं न कदाचिद् विनश्यति || गजशालमुक्तदामे पूजयेत् पंकजोत्पलैः | न कदाचिद् विनश्यन्ति गजा वृद्धिं प्रजायते || वृक्षमायान्तिता गावो बहुक्षीरं ददन्ति च | राजिका सप्तजप्त्वा तु धान्यादि क्षेत्रके क्षिपेत् || महाशस्यादि वृद्धिः स्यात् कीटाद्यान विशेत्तुतम् | प्. ५३अ) शितगुंज्जा च सर्पख्यां धामव्याघ्रवराटिका || सप्तजप्त्वामुखे धार्या अस्त्रभंगोन जायते | बालानां सर्षपामन्त्र्यं शतकेनातसंख्यया || कंठेवद्धा वृद्धिमायान्ति आयुषा प्रज्ञया दृढाः | पुष्पार्के श्रीफलं पक्वं सहस्रार्द्धेन मन्त्रितम् || तज्जलैः सेवितानारी अपुत्रा सुयते सुतम् | अष्टाधिकशतं जप्त्वा जलपूण्णघटस्थितम् || तेनाभि सेचना नान्या दपस्मारं विनश्यति | अष्टोत्तरशते नैव पुष्पमालाभिमन्त्रिता || यस्य संदीयते कंठे एकयुद्धजयी भवेत् | अहोरात्रो षितो भूत्वा अनुदिग्यो जपेत् तु यः || स्वार्थं वाथ परार्थं वा अपमृत्योर्विमुच्यते | पुष्पार्क्के वाथ चांगारे यद्यष्टमी चतुर्दशी || आरभ्यलक्षकार्द्धेन कुष्ठी कुष्ठाद्विमुच्यते | पुण्डरीकांशुनावर्त्याकां गुह्यं दीसं मुखे || वने जायात् सहस्रेण अंजनी पश्यते निधिम् | चतुः पथमृदं गृह्य गृहार्द्धे पंचविंशति || जप्त्वा संक्षेपयेन्निद्रां वश्या भवति दुर्भगा | तिलतण्डुलसिद्धार्थं प्रत्येकं दशमन्त्रितम् || एकीकृत्य क्षिपेद् यत्र पदं ना क्रमते अरिः | फल्लालिमिश्रकं पंचविंशाधिकशताभिदम् || प्. ५३ब्) भूतायां सक्षिपेद्यत्र तत्ररोगी भवेज्जनः | लाजाचाक्षतसिद्धार्थ सभस्मं शतमन्त्रितम् || यत्र यत्र क्षिपेन्मन्त्री तत्रारोग्यं प्रवर्त्तते | कंथमात्रोदके स्थित्वा जपेत् पंचशतं यदि || वरुणेन तथा होमान् महासृष्टिभवेद्ध्रुवम् | अर्क्कचित्रकपुष्पाणि संप्रजप्यसहस्रकम् || यस्मिन् ग्रामे क्षिपेन्मध्ये पक्षात् पक्षात् प्रदह्यति | अष्टाधिकशतं हुत्वा जप्त्वा वै मधुगुग्गुलम् || अग्निनाने वदह्येत उद्धरेत् स्वकृतं यदि | शतार्द्धं तु जपेन् मन्त्री शतार्द्धं होमयेत् तथा || वशीकुर्यान्नसंदेहः सप्ताहेनशचीपतिम् | जप्त्वा पंचशतं मन्त्री सिद्धार्थन्तु समन्वितम् || मस्तके कंठबाहौ वा धृता दिव्यस्य नाशनम् | अपामार्गशतं हुत्वा तत्क्षारं यस्य योजयेत् || दुर्भगो जायते सत्यं प्रीतिनाशमवाप्नुयात् | पंचाधिकशतं हुत्वा त्रैलोक्यं राजिका पुटम् || यस्य नाम्ना तु सप्ताहात् महास्फोटं स गृह्यते | सिधार्थं गुग्गुलं चैव एकीकृत्यशतत्रयम् || होमान्ते च महाप्रीति विप्रीतिः स च जायते | हेम बीजैः शताष्टौ च होमयेत् सप्तवासरम् || उत्तन्मत्तौ जायते शीघ्रं वर्तुलं वा घृतान्वितम् | मसूरजाघृतैर्युक्तं सहस्रं त्रिदिनं हुनेत् || प्. ५४अ) वधिरो जायते शत्रुः सतृयुक्तं न संशयः | गोदन्ताष्ट शतं हुत्वा क्षारक्षोपांधतां व्रजेत् || सप्ताहाच्च निशारात्र्यै दिवादिननिशानिशौ | कर्पासास्थि तुषा तैलं युक्तं पंचशतं हुनेत् || एकविंशदिने देवि शक्रस्यापि श्रियं हरेत् | गुरौ शुक्ल तृतीयां पूजाकुंभे शतं जपेत् || हुत्वा त्रिमधुरं सकाच्छी भ्रष्टा लभते श्रियम् | काकपक्षारुषहोमात् पंचत्रिंशतकं हुनेत् || भस्मचित्र पताकाया शत्रोरुच्चाटनं परम् | भस्मसिद्धार्थकामिश्रा जप्तं पंचशतेन तु || शत्र्वा?गमपथे क्षिप्त्वा जयत्येव न संशयः | यद्रजो वर्त्तिकाकामी वसो दीपपुरः स्थितः || समभ्यर्च्या न यन्नारीः शतपंचपुरस्थितम् | पिष्टेन प्रकृतिं कृत्वा अंगुष्ठामस्तकावधि || च्छित्वा पंचशतं हुत्वा स्वकुलं परिनेष्यति | सिंदूरमक्षता युक्तं शताष्टपरिमन्त्रितम् || कृत्वा कन्याकरे दद्याद्द्राविष्टावष्टकवधेत् | राजिका धूम्रजं क्षारं दशधा चाभिमन्त्रितम् || कृत्वातज्जलकस्नानं कामलप्लीहरोगनुत् | तैलम्बथे जलं वाथ अष्टधा चाभिमन्त्रितम् || या नाम्नाभि प्रदानाच्च प्रसूते सुखनिद्रया | प्. ५४ब्) शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत् || हिताहितेषु कार्येषु स्वप्न चैवोदयं लभेत् | पंचविंशति वा जप्त्वा राजिका लवनं क्रुधा || ग्रंथौ निबंधनाद्रात्रौ अंधः पश्यति सर्वथा | हस्ते तीक्ष्णांघ्रिणं कृत्वा अर्द्धलक्ष्मं श्मशे जपेत् || खड्गसिद्धि भवेन् प्रेताच्चक्रवर्त्तित्वदायिनी | अर्द्धदग्रचिताकांष्ठ न पादुकौ कृत्यलक्षकम् || तथैव पादुकौ सिद्धिर्दण्डाच्छत्रुजगामिनी | हताम्बर समादाय कृष्णमावर्त्य लक्षकम् || तथैवा दृश्यकः सत्य क्रीडते वसुधा तले | पंचा ज्येन प्रबुद्ध्यन्तु? कपालकृतकज्जलम् || लक्षार्द्धार्धाङ्गिते नेत्रे दिव्यदृष्टिः प्रजायते | पात्रौ भूततरौ स्थित्वा लक्षार्द्धार्द्ध जपेत् सुधीः || भूताः क्षुधापहारन्तु ददत्यौषधमुत्तमम् | पंचविंशति साहस्रं करे कृत्वा वचां जपेत् || जपान्ते भक्षयेत् प्राज्ञो वागीश्वरसमो भवेत् | लक्षाद्धार्द्ध जपेत् प्राज्ञास्तदन्ते शिवपर्वणि || श्मशाने तु शतं जप्त्वा सिद्धाक्षस्तु लभेद्ध्रुवम् | वटस्याधो जपेल्लक्षं तदन्ते रजसा कृतं || यक्षिणी कामयेन्नित्यं जीवत्येव शतं नरः | जानुमात्रोदके स्थित्वा लक्षार्द्धन्तु जपेत् सुधीः || प्. ५५अ) नामिनी कामग्रेद्वीरः सहस्रायुः प्रजायते | लक्षार्द्धहोमयद्वीरः कदंबकुसुमैर्यदा || कुण्डादुत्तिष्ठते शीघ्रं वेतालः सिद्ध्यते तदा | काकिनी वीरहोमेन तुष्टा यूथा पिशाचका || लक्षाद्धार्द्धेन होमन्तु नित्यं ददाति पलैककम् | कन्या हस्ततलं गृह्यलक्षार्द्धन्तु श्मशानके || जप्त्वा भूतभविष्यश्च वर्त्तमानं भवन्त्यलम् | लक्षेकान्त तु भूतायां वीरदेहोपरिस्थितः || शताष्टाधिकजापेन मेरुस्थानं स गच्छति | वीरमण्डलसंस्थाने लक्षान्ते विग्रहोत्थितः || अष्टोत्तरशतं जप्त्वा रुद्रस्थानं स गच्छति | लक्षान्ते तु कलिङ्गन्तु वीरकं दरमूर्द्धनि || जप्त्वा चाष्ट सहस्रन्तु ईशलोकमवाप्नुवात् | इत्थं देवि समुद्दिष्टं गेयमध्यमवोत्तमम् || त्रिकर्ममन्त्रसिद्धिः स्यात् सिद्धिः स्यादधुवा? शृणु | तृगोरोचनकौ गृह्ण सलाक्षाशतमन्त्रितम् || ललाट तिलकं कृत्वा यः पश्येत् सवशं नयेत् | कुंकुमागुरु कर्पूरै सेचनाह्वयमिश्रितैः || शताभिमन्त्रितं कृत्वा तिलकं यः करिष्यति | रणेराज कुले द्यूते विवादे स्वजयी भवेत् || वल्लभः सर्वनारीणां कामदेव समोयदि | प्. ५५ब्) सिद्धार्थ कवचाश्वेता प्रत्यूष्ठेकभावोदरे ||? कृत्वा प्रातचतुर्द्दश्यां संपूज्यमधुसंयुतम् | मुखप्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् || एवं जयति काशार्द्ध घटस्तंभ मुदाहृतम् | शितशरे पंखिकामूलं शताष्ट्याधिक योजितम् || मुकुटोष्णीषके धृत्वा परव्यव्यनिवारणम्? | क्षसेशकालिमाताषु? शताष्टाधिक मन्त्रितम् || तेन संप्रोक्षणाद्विष्टग्राहाद्विद्वेषकारकम् | सप्ताद्धिक शतेर्मंत्र्य गोक्षीरान्तर वासिनम् || सिद्धार्थाष्टशतंशंका स्थाने संध्यासु संक्षिपेत् | अन्यस्मिन् दिवसे तत्र यदि च्छिद्रं प्रजायते || स्फोटवाशोण वृष्टिं वा तपं कुर्याच्च तत्र वै | सप्ताहान्ते समुत्तिष्ठे विधानं विघनवर्जितम् || साधकस्य करे तिष्ठेन्नागलोकगतं यदि | चिति भस्मसमादाय खरक्षारसमन्वितम् || शताष्टपरिजापेन सैन्यं क्षिप्त्वा क्षयं भवेत् | चाण्डालाग्निं तु प्रक्षाल्य खादिरैश्च समिंधनैः || यस्या कृतिं तु पिष्टेन पादाच्छित्वा प्रहोमयेत् | सपलालि समायुक्तं घृतेन दिनसप्तकम् || प्रवेशो भावते सत्वं आत्मनो च धनेन च | खादिरन्तु सहस्रं तु अजारक्त पलान्वितः || सप्ताहे तु व्यति क्रान्ते आनये तु शचीपतिम् | प्. ५६अ) एवं चूतानले क्षार कटु अंगमल क्रुधा || मध्यरात्रौ सप्ताहाद्धोमाच्छत्रु क्षयो भवेत् | रोचनाश्वेत दूर्वा च अक्षतासित सर्षपा || शताभिमन्त्रितं मूर्ध्नि धृतात् सर्वत्रशोभने | शिवरात्र्यासमारभ्य जपेल्लक्षं यथा सुखम् || पुनश्च शिवरात्रौ च संपूज्य विधिवत् तदा | नृघृणं तु करे कृत्वा दक्षे वा सुगमाल्यकम् || वीरवन्निःक्रमेद् दृष्टिं विचरन वै सतात्रयेत् | तावन्निः क्रमनं कुर्याद् यावद् दृष्टिं न सप्तजम् || तत्कंजं वामके कृत्वा आनन्देन सदोदितम् | हसन्गायन्नटन्वल्गन् व्रजेद् वीरगृहं सुधीः || ते यागं च चरुं कृत्वा कोर्द्धैर्मण्डलयोगतः | त्रिसप्ताहाज्जापेनाशु पश्येद् देव्या महाबलः || तासामर्घ्य प्रदातव्यं भित्वा वामांगमात्मनः | दत्तेर्घे खेचरः साक्षात् साधको सौभवेद्ध्रुवम् || दूती युक्तोथ वीरोथ वीराथ भवद्भैरवसन्निभम् | गत्वा श्रीपर्वतं मन्त्री श्रीमुखागे यजेच्छिवाम् || जप्त्वा चाष्ट सहस्रन्तु त्रयोदश्यामनन्तरम् | संपूज्य च चतुर्द्दश्यां जुहुयात्साज्यगुग्गुलुम् || त्रिशतं त्रिशतं नित्यं रात्रो वै दीपदर्शनम् | प्. ५६ब्) हाटकायुर्भवेद् देव साधकोनात्र संशयः || अन्येष्वेवं विधिश्चैव विलषुत्रिगुणेन तु | रौद्र्यां कृष्णचतुर्द्दश्यां पूजासंभारसंभृतिः || गत्वातातवनं मन्त्री सुगंधजलगोमयैः | वीरवैरी तु संलिख्य लिखेद्गुह्याब्जमंडलम् || कुसुंभरजसावाथ पृष्टावा वीरभस्मना | कर्णिकायारथस्थाप्य बद्ध्वासनेसु सन्मुखम् || तद्व्योम्नि स्थापयेद् दीपं काम्यवर्ति समन्वितम् | महातैल प्रदीप्तं वा मत्स्यतैलेन वा प्रिये || तत्र देवीं विधानेन यष्ट्वा चाष्टाधिकं शतम् | जप्त्वाजानुद्वयं भूमौ बद्ध्वाचांजलि वक्षसि || अपेक्षिता देवि ज्ञाप्य प्रणता विदिशाक्षरम् | ततश्चैव शतं जप्त्वा विसुर्ज्य च यथाक्रमम् || रथं गुप्ततरं कृत्वा भूमिसंमार्यमन्त्रवित् | सुजले गहने दीपे प्रक्षिपेदुदगाननः || स्नात्वा गत्यगुहे पश्चात् पूजान्ते फलमाप्नुयात् | शान्तिपुष्टिकरागादि नाशने श्वेत वर्तिका || उच्चाटे धूम्रवर्णा च वश्या कृष्ण च लोहिता | मारणे कृष्णवर्णा च रोगार्थे कृष्णवर्णिका || विद्वेषे च पंचवर्णां स्तंभने पीतवर्णिका | जयार्थे रक्तश्वेता च मेलापे किरणोपमा || प्. ५७अ) प्रत्यूषे तु समुत्थाय मध्याह्ने तु निशागमे | अष्टाधिकशतं जप्त्वा अहन्यहनिश्चयात् || सर्वकामानवाप्नोति साधकोभक्तिसंयुतः | सत्यं सत्यं महागौरि इष्टके यजनात्पुनः || इत्थं सर्वमशेषन्तु उत्तमाधममध्यमाः | कर्मकोषं समाख्यातं मन्त्रसंसंसाधिते सति || सुसिद्धिं चापि देवेशि त्रिचक्राच्च कृता भवेत् | संसिद्धिं विघ्निनिर्मुक्तं सर्वकामदयान्वितम् || षोडशारकजं सप्तदशपद्मविभूषितम् | षोडशारैः समन्त्रञ्च सर्वकामफलोदयम् || द्वात्रिंशारमहापद्मं त्रयस्त्रिंशाब्जशोभितम् | अष्टपत्रसमन्त्रं च एकवीरमुदाहृतम् || अष्टपत्रं च द्वात्रिंशत् पत्रयुक्तं नवाब्जकैः | समन्त्रं जामलप्रोक्तं तृतीयं मन्त्रनायकम् || त्रयाणामपि मध्येय एकलिख्य प्रधारयेत् | भूर्यसुगंधके देहे तस्य सिद्धिः प्रवर्तते || पटे लिख्याथ हेमादौ पटे चोत्कीर्य पूज्यते | सन्निधानो भवेद् देवी ततः श्रीसर्वतोमुखी || विद्यासंख्या ककाल्लिख्य एकैकार्णश्रियान्वितान् | गुह्यक्रमे यजेद् यन्तु मालारूपेण सस्थितान् || प्. ५७ब्) पूजामन्त्रेण षण्मासा च्छ्रीगुह्यां पश्यते स्वयम् | अधिकारीथतद्वीन श्रियं माला स्वरूपतः || वर्णचक्रं तु संवेष्ट्य विद्यागा क्रमशस्त्रिधा | पंचधा नवधा नाथ नावा द्वात्रिंशसंख्यया || धारणाद्रोगनाशश्च आयुर्लक्ष्मी विवर्द्धनम् | नानाविघ्नविनाशं च मेधापुष्टिः प्रजायते || बलि पूर्णन्तु सर्वत्र नित्याद्यं विघ्ननाशनम् | विघ्नेशवटुक्षेत्राणां योगिनीनां विशेषतः || अ आ मध्यं स्त्रिस्वपेतं नामनाथसमन्वितम् | गृह्न बलिं द्वयं योगात् सिद्धिं देहि प्रसीदमे || निर्विघ्नं कुरुवर्मास्त्रं स्वाहान्तो बलि लक्षणम् | एवं त्रिषु परिज्ञाय दातव्यं गुरुवाक्यतः || चतुष्टयं स बीजं च तथा मन्त्रपदान्वितम् | गुरुपारंपरायातं स्वाहान्तं तु विलक्षयेत् || दीक्षितश्चाभिषिक्तश्च देवी चक्रं समुद्धरेत् | शिवरात्र्याममावास्यां महाष्टम्यां युगादिषु || पावित्रे दामने चैव दीक्षायामभिषेचनम् | आदिमध्या वसाने च शास्त्रज्ञानमहेश्वरि || विवादे विजये देवि महामेलाप संगमे | अन्यथा कुरुते यस्तु न स सिद्धिमवाप्नुयात् || इत्ये तत् ते समाख्यातं श्रीमद्गुह्यकुलक्रमा | प्. ५८अ) महाश्मशानसंस्कार करवीरार्चनसंघतौ || प्रत्यंगिराभिधानायाश्चण्डायाः परमाद्भुतम् | शिवायाः सिद्धिलक्ष्म्याया यन्नप्राप्य सुरैरपि || विधानं परमं दिव्यं शास्त्रैः कालिक्रमागतैः | गोपनीयं प्रयत्नेन न दद्याद् यस्य कस्यचित् || गुरुभक्तिरतो यो हि महाशास्त्रमयी सदा | गुर्वागमक्रमारीशा पूजकस्य प्रदापयेत् || येनेदं लिख्यते शास्त्रं यस्य हस्ते तु तिष्ठति | यत्र स्थितं प्रपूज्यन्ते विधिवत् परमेश्वरी || सनिर्विघ्नन्तु षण्मासं यावज्जीवति चैव हि | देवता संयुतं विघ्नं वर्जितं स्थानकं प्रिये || यो ज्ञाताभैरवः सोहि श्रोतारुद्रसमो भवेत् | अनुस्थानरतः सर्वसिद्धिलाभी प्रजायते || ५०० || इति श्रीकुलक्रमे महाकरवीरयोगे सिद्धिसाधनप्रयोगन्नाम पंचमः पटलः || ५ || इति श्री ओद्यानपीठे श्रीगुह्यकुलक्रमे महाकरवीरयोगे श्रीकालभेदे निःसृतः श्रीसिद्धिलक्ष्म्याः पंचशतकं समाप्तम् || करवीरश्मशानस्थां कालसंकर्षणीं शिवाम् | चण्डां प्रत्यंगिरां कालीं सिद्धिलक्ष्मी नमाम्यहम् || प्. ५८ब्) ओं नमः शिवायै || श्रीदेव्युवाच || अतिगुह्यतरं प्रश्नं सुगूढं परमार्थदम् | योगिनीनां परं प्राणं कथयस्वप्रभावतः || खेचरी भूचरी डाकिनी राकिनी लाकिनी काकिनी साकिनी हाकिनी | एतद्योगिनीनां प्राणं परं प्राणं मुख्यान्मुख्यम् || वद देवरहस्यं वै येनेदं माहितं जगत् | निर्बीजिकरणं विषा पहरणं वह्नेः स्वयं ज्वालनं नाडी चारण बिन्दुनादधुननं देहस्य पर्शाक्रमम् | आत्मज्योतिर्निदर्शनं च कुरुते स्वच्छन्दमृत्युंजय रते वेदविदो वदन्ति मुनयः शैवे दशप्रात्ययः || अन्तर्बहिः क्रोडीकरणं नाडी संचालनं मारणोच्चाटनविद्वेषण संक्रामणम् | अथ किं बहुनोक्तेन षट्कर्मसिद्धिकरोति || एतच्च || कथं विद्या महात्मानं कालसंकर्षणी कथम् | कथं पूजार्चनं देव कथं विद्यापरायणम् || कथं मुद्रालयोत्पत्ति कथं संकेतमण्डलम् | कथमाचार्यकथनं नाडीयन्त्रे कथं भवेत् || कथं महात्मा देवस्य वर्णराजस्य वै कथम् | सोमसूर्यकथं धाम शारीरं देवता क्रमम् || अन्तर्बहिः कथं देव चरुकं संप्रदायकम् | परापरतृतीयन्तु कालसंकर्षणी त्रिधा || प्. ५९अ) प्रत्यंगिरा द्वितीयन्तु सिद्धिलक्ष्मी परेश्वरी | यदि तुष्टोसि मे देव भक्ताहं ब्रुहि शंकर || मयि प्रसादं कुरुते वदस्व मम हे प्रभो || श्रीभैरव उवाच || अतिगुह्यान्तरं प्रश्नं सूगूढं परमार्थदम् | गूढं गहणगंभीरं खेचरी हृदयं परम् || ज्ञात्वा तु सारसर्वस्वं यन्नास्ति तन्नसाधय | ब्रह्मादि कारणानाञ्च सोमसूर्याग्निमातैः || लोकपालादि सर्वेषां नाख्यातं शृणु सांप्रतम् | ब्रह्मादि कारणानां न कथनीयं वक्ष्यते तव निश्चयं निश्चयमेव वक्ष्यते कथनीयं च || शृणुश्वैतां महागूढां यागहोमसमन्विताम् | शृणुश्वैतां पूजनं अर्चनं जपहोमनिमित्तं चरुचर्या समयमेलाप नात्र्याग ममस्त्रं कुरुते तथा फलदं भवति || कथयामि समासेन चक्रस्य परमाद्भुतम् | तथा चक्रं अवतरं तु महापितृवने घोरे पितृवनं श्मशानं हृदयं समस्तं षट्तृंश तत्वा अष्टादशनाडीनां समूहं तिष्ठति || घोर भृकुटानना भीषने यत्र मतं मारयति | एतत्स्मशानं भवति एकलिंगेथवा हरारये स्वयम्भू बाणलिंग इतरे लिंग किं स्थन तिष्ठति लिंगम् || प्. ५९ब्) योनिमध्यगतं लिंगमथवा लम्बिके स्थितम् | तत्र तिष्ठन्महावृक्षे तव स्थाने वृक्षे प्राणदण्डङ्कदोमूलः यावद् द्वादशान्तं महागिरिवने तथा गिरिं पर्वतं लोभं शान्तं | महाचतुः पथेव | अथ चतुःकोण इडापिंगलासुष्टम्ना कुण्डलनी एकीकृत्य || तत्र चतुःकोणं | महानद्यामथापिवा महानदी गंगा यमुना || इडापिङ्गलासंघट्ट स्थानं || तत्र नदी महा अटव्यम् | रातिर्वा अटव्यं निर्जनं जनवर्जितम् || षोडशान्तं निरालम्बं अतिरौद्ररूपं गहनं हर्षदायकम् || महादेवेषु भीमेषु वीरग्रामेव लंपटे | महाहवो मृत्युमटका | मटकमनः वीरजनानां ग्रासी कृते तैः शब्दादीनां ग्रासी कृतः शब्दादीनां ग्रासं कृत इत्यर्थः || अथवा यत्र तत्रस्था मानसी भवते बलम् | एतत् समस्तस्थानं यत्र एकीभावं करोति तत्र विद्या समुद्धृत्य || तत्र तत्र प्रकर्त्तव्यं खड्गहस्तो महामतिः | खड्गहस्तं वीरत्वं आत्मशूरत्वं च | वीरावीर वर श्रेष्ठ योगिन्यामथ भैरवः | योगिन्या ब्राह्माद्याष्टका भैरव असितांगमित्यादि अथवा जित क्रोधी पुरुषः | प्. ६०अ) तत्रैव लामा च || तस्मिन् स्थाने वरे रम्ये आदौ पूजां तु कारयेत् | योगिनीनां यथा न्यासो षोडशान्या तु एकतः || पूर्वस्मि स्थाने तत्र पूजां करोति || यथा यन न्यायेनौत्तम मध्यमक निष्ठा पक्ति क्रमेण षोडशन्यायेन पूजां कृत्वा च | चक्राकारं तु स विषां बोधमानपरायणा | तत्रस्था परमाभक्त्यामाद्यावंद्या प्रयत्नतः || चक्राकारं षोडशार न्यायं एकी करोति || ब्राह्मी चपाक्तसी चैव ध्वजिनी अन्त्यजा तथा | कंदुकी चिंचिनी च्छिष्या शोनकी क्षत्रिमा तथा || मातंगी चर्मकारी च धीचरी च महामती | शूद्री वैश्या तथा चेश्या धातकी नर्त्तकी तथा || एतास्तु पूजितास्तत्र जातिहंकार वर्जिताः || १६ || ब्राह्मणी मुखं तिष्ठति || मुखं स्नानं करोति || यत्र महाकुलरात्री चतुर्द्दशविधभूतसर्गग्रासी कृतम् तथा रात्री रूष तिष्ठति || पुनः सृजति || १ || पुष्कसी कपालिनीति कपालिनी समस्तनाडी अन्नं पच च | कारणं पचयति संस्कारं करोति || तथा पुष्कसीति भवति || २ || ध्वजिनी च्छत्रं धारयतीति च्छत्रं धारयती | प्. ६०ब्) च्छत्रं ब्रह्माण्डं धारयतीत्यर्थः || ३ || अंत्यजास्तथा समस्तकारणं तां मीलयति | कुब्जिका परारूपा लेलिह्यमाना यथा खड्गेन समस्तं च्छिन्नयते || यथा समस्त तृणकाष्ठं द्रग्धयति तथान्त्यजा || ४ || कन्दी च कन्दुकी इति कांदी च कन्दादुच्चरतो यथा || कंदुकी परपश्यती मध्यमी चेश्वरी | उल्लसतो नानारूपा पृथक् पृथक् स्वरूपा || तथा कंदुता रूपं पचयति || ५ || चिंचिनी कर्णपाली चितयेति तथा योनि मध्ये तिष्ठति || अन्यलम्बिकेन तिष्ठति || योनि मध्याद्यथा लम्बिकान्तं यावत् | व्यापितं रसचन्द्रां गलयति चिंचिनी || ६ || रजकी मलप्रहारी मलं पुण्यं पापं वाचिकामानसी कर्म यं | यत्किंचित् मलं दह्यते | तथा मलं धनं त्यजयति अन्तः | मलिनं बहिर्मलिनं प्रक्षालयति || ७ || शोनकी खट्टकी खट्टकी शब्दादि कर्मच्छेदनं षट्त्रिंशत्तत्वा व्याघातयति तथा षट्टकी || ८ || क्षेत्रियास्तहा क्षत्रियाराजा प्राणशक्ति समस्तशरीरं धारयति बाह्ये प्रजांधारयति || ९ || मातंगीकिनिमित्तं कालस्य संकर्षणी नादबिन्दु द्वौ यत्र पशुवत् तृणमात्रं पश्यति तथामातंगी || १० || प्. ६१अ) चर्मकारी चर्मधारयति माया देवी चर्मधारयति चर्मकारिणी वा || ११ || धीवरी किं निमित्तं केवती च | जालंधरयति मायाजालं मीनवृत्ति च कारणानामगच्छताधीङ्गणयति पक्षिणं हंसरूपं धरयति यत्कर्मशुभाशुभं धरयते धीवरी वा || १२ || शूद्रीणसिधारिणी चन्द्रं अमृतकला रूपं चन्द्रसृष्टार्थ सृष्टिहेतो ष्वेत्वेस्तथा च वनवापनं कृत्वा इत्यर्थ इति शूद्री || १३ || वैश्या वेश्या शब्देन कर्म सोमसूर्याग्नि कारण पंचकसमस्तं तिष्ठति | कर्मं तथा वैश्या गृहतारारूपं दर्शयति || १४ || मालिनी इति मतरूपं पुष्पं कारणसमस्तं उदयति | उन्मेषनार्थत्वे तथा पुष्पप्रकर उन्मीलनी मूलेना श्रोत्रकर्णौ नाशाद् वरहितो रूपमिति पुष्पं तथा पुष्पकारी च || १५ || नर्त्तकी तथा प्राणशक्ति रूपेण नर्त्तकी नारी अर्द्धकालानुरूपं मतंगच्छति || धूनन प्लवन स्थैर्यरोमहर्षश्च क्षुर्दूरादर्शन दूराश्रवनकर्णकलाप द्वय समस्त द्वये अद्वय रहितः || तथा नर्त्तकीत्यर्थः || प्. ६१ब्) इति षोडश कुलं प्रथमं ज्ञातव्यं || आगमन तु प्रकृतार्थं || एतास्तु पूजिता देवी सर्वकामफलप्रदा | एवं पूजयेद् यथेष्टं फलकामं भवति || षडध्वा षद्भिः पत्रेषु पूजयेत् परमेश्वरी | पूर्वस्मिन् कथनीयं भग्ननाशिका अधो द्विरेफोयं इकारं तत्र दृश्यते || चन्द्रादित्योः पार्श्वगतो देवीनां क्रमदर्शनम् | भग्ननाशिका शब्दभग्न शिखा रूपं || अधोमुखं हृत्पद्मं तथा पद्मं तथा मुखं एवं | कंदं द्विरेफ सूर्यबिम्बं पुनःरेफं चन्द्रब्म्बं चन्द्रं मेलयति || सूर्यः किन्निमित्तं मुखाग्रे च प्रदृश्यते || इकार नाशारूपः दृश्यते || चन्द्रादित्यौ पार्श्वगतौ सोमसूर्यद्वौ पार्श्वनेत्र द्वयौ तथा अन्तर्बहिः क्रोडीकरणार्थ न मेलयति देवी स्वरूपे लभ्यते || इति भग्ननाशिका || एतास्तु पूजयेद् देवी सर्वकामफल प्रदा | इत्येते || तत्र स्थानानि मासाद्य निम्नान्नतविवर्जिते || का पूजयत स्थाने ज्येष्ठं क्रमं ज्येष्टं वीक्ष्यज्येष्ठ तृतीयकं | आज्ञाज्येष्ट आधिकं कोत्र पूजयेत् यस्य चिह्नं अवतरति || तस्य आदौ पूजा निम्नान्नतविवर्जिते | न वर्जयति समस्तं सर्वजनं पश्यते विश्वमयं || पूजयेदर्घपात्रे तु निशार्द्धे तत्र तं पूज्यानि शार्द्धं निशि | कुलकौलाग्लपितं कण्डुस्थानं | अथामर्द्धरात्रि कृष्णपक्ष चतुर्द्दशी पूजयति || शिवाम्बुना अम्बुना शब्देन ब्रह्मविलाच्छ्र पदानन्दामृतम् तेनार्घ पात्रं कृत्वा अथ पूजयेत् || गौरीरहस्य || महाफल्गुष धूपेण महारक्तेन पात्रकम् | महातैलेन द्वीपानि दीपयेत् सर्वथानिशि || पूज्यसंधूपं महारक्तं अर्घपात्रं महातैलदीपं रक्तकरवीरपुष्पं दापयेत् || सर्वथा रात्रौ द्वीपं ब्रह्मनाडीम्बहयति || दीपं मनो प्रज्वाल्य कन्दमुष्य श्रोतद्वयौ | द्वय अद्वयरहितौ तिलकं हृदयं समताग्लपयेत् | इति अर्घपात्र उपहाराणि दिव्याणि उत्तमान्यधमानि च || उपहाराणि उत्तमान्यधमानि च उपहाराणि ब्रह्मविष्णुरुद्र ईश्वर सदाशिव यावत् || पंचभूतानि पृथ्व्यापते जवायूराकाशादि | उत्तममध्यमशब्दस्पर्शरूपरसगंधमित्यूपहारा || मद्यपान सूरश्रेष्ट लेह्यपक्षादि दापयेत् मध्यमधामं सुरदेवं भंजयते || सुरासप्तदशविधा लेह्य पेक्षानि समृद्धयः | प्. ६२ब्) अथ वित्तशाठ्यं न कारयेत् || शरीरं मनमानरयती || तत्र चक्रसमुद्धृत्य विद्या सा षोडशाधिका || उद्धृतं च ऊर्द्ध बाहौ ततोद्धृत्य || ऋ || द्विजिह्वं ऊर्द्धतं ददेत् ज | तथा च वह्निबीजन्तु र || अ ऊर्द्ध तु प्रदातव्यं न || नाशायुक्तं ई || पुरुषमेकत्रयो जयेत् | एकत्र || झ्ज्नीं || कालबीजं द्वितीयं स्याः || म | शक्ति वाहा ह || आस्तिकं | आ एवं | हा || तृतीय प्रथमं वर्गं || च || चतुर्थमधुना शृणु | वाजिमन्तं ततोद्धृत्य मुशलं तदनन्तरम् | ण्ड | पंचमं वर्णराजन्तु षष्ठमं अधुना शृणु | रुद्रबीजयुतं | ते | द्विजिह्वं सप्तमं पदम् || ज || सोमबीजमष्टमन्तु | मं | नवमं बीज अंकुशं | क | वह्निबीजं | र | लक्ष्मी बीजाध युक्तं | र्ष | दशमं बीजनायकं | अश्वबीजं | ण | दक्षनेत्र युतं एवं णि | एकादशाक्षरा || द्वितीयवर्गप्रथमं | क | प्रथमान्तेन संयुतं || एवं का | द्वादशाक्षरं इन्द्रबीजं | ल | योनि युतं | लि | चतुर्द्दशबीजमयं | म | दशमं चायुधं पंचमं द्वितीयवर्गत्वादाद्य वर्णेन संयुतं | च्छा | पंचमं आद्यबीजं च ना योनि बीजेनसंयुतं नि | एवं षोडशमं बीजं शक्तिरावं अनाहतम् || हः || प्. ६३) एक्तत्र पूजयेत् || झ्ज्न्रीं महाचण्ड तेजसंकर्षणि कालिमन्दानिहः || १७ || सप्तादशाक्षरा विद्या विद्याविद्येश्वरेश्वरी || सिद्धकालीति विख्याता सिद्धिलक्ष्मी परेश्वरी || सर्वाम्नायेश्वरी देवी राजलक्ष्मी त्वमागता | खण्डस्य खण्डिनी खण्डा खण्डखण्डाण्ड खण्डिनी || खण्डचक्र गताकाली विद्यासप्तादशाक्षरा | फणिरूपस्य कालस्य अकुलाबिन्दु भक्षणी || तृवायानुवहता विद्या सप्तदशाक्षरा | अक्षराक्षर योगेन काली शब्देन ये स्थिता || योगेश्वरी पदं नास्ति विद्या सप्तादशाक्षरा | हहहा हहललीना विलीनां हहने कला || हानादानय दैर्लीना विद्यासप्तादशाक्षरा | एवं सप्तदशं वर्णं वर्णयेत् परमेश्वरी || क्रमसर्वा तुरं तीव्रं निर्गुणं परमेश्वरी | इत्येवान्ये च तपनं जपाद्धोमाच्च पूजनात् || गुरुप्रसादाल्लभ्येत सप्तासप्तति कोटरात् | मन्त्राणां दीपकं तन्ता दीपकं तन्ता || ओंकारं | तारं तारयति || स्वभावेन तु दीपिता || मन्त्राणां कीलितं तैव कीलितं | अनुलोमक्रमं नास्ति नाम्नात्रैलोक्य मोहनी || भूतवेतालसमनी पापराशी निकृन्तनी | प्. ६३ब्) इव मातृ चक्रेण सहिता मातॄणां सहित द्वादशैव अधुना शृणु || शिवा वेगवती माया भद्रकाली च खिंखिणी | विडालीयमजिह्वा च ऋक्षकर्णाघटोदरी || चोरमाता उलूका च द्वादशैव कलंकिणी | एवं द्वादश दले द्वादश देव्या पूजनं || १२ || मध्ये सिद्धि काली || सर्वक्रोधा कुलारौद्री त्रैलोक्य ग्रसना कुला | भूर्भूवस्वर्लोकाङ्गसमं संहारं करोति पुनः सृजति || नाभि मेध्रान्तरं वंदे तत्र चित्तं निरोधयेत् | कंदथस्वर्लोकः | मेढ्रः भुवः | नाभिः स्वर्लोकः तत्र चित्तं निरोधयति मज्जा हृदयं अस्थिमांस रुधिरं संयुतम् || त्वच मेव च पीतं च अन्तञ्च चर्मसंयुतम् | जीवर्घावत नैवेद्यं द्वादशं दिव्यमाहरेत् || प्रतिद्वादशा दिव्या एक एतंगभीकृतं नैवेद्य साधकं सिद्धिमिच्छता || मन्त्रं चान्यं प्रवक्ष्यामि त्रैलोक्यं मारयेत् सदा | हूंकारमात्रमुद्दिष्टा यदि साक्षात् कुलेश्वरी || हूंकारे निमेष मात्रे शक्तिरावं च | ह | कालं व | माते जं च | र | नासिका सह | ई | तथा यमबीजं च | पिण्ड मेतद्योजयेत् || ह्स्रीं || पंच पिण्डेन मन्त्रेण एतत् पंचपिडः | प्. ६४अ) हूं फट् || एतन्यायेन निजनवलात् | सद्गुरुमुखात् सिद्ध्यंते || एतन्न्यायेन || ब्रह्मा विष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः | क्षणमात्रप्रपूज्यन्ते तत्क्षणान्मूर्ध्नि पातयेत् || अधोकरपूटी कृत्वा मुखाग्रे च प्रतिष्ठिते | अंगुष्ठतर्जनीयान्तु दातव्यं च प्रयत्नतः || जिह्वामुखे मुहुर्भ्राम्य वामपादं च भंजिते | एते बाह्ये प्रकर्तव्यं पश्चादन्ते समाचरेत् || अधोकर पुटीं कृत्वा अधोकरं हृत्पंकजं पुटी संकोचं मुखाग्रे च प्रतिष्ठिते मुखः अधोमुखः कंदयोनिगतं पद्मं ऊर्द्धमुखप्रसिद्धं अतः अध ऊद्धौ द्वौ पुटीकार्यं प्रतिष्ठितं चिन्तनीयं पूरकेन वा स्पर्शेन वामावर्त्तेन वा कुण्डलिनी उत्थाप्य यत्किं चिद्देव्या स्वरूपं लभेत् || पुनः अंगुष्ठकं शिवं योनि मध्यगतं लिंग स्वरूपं तर्जनी प्राणप्राणशक्ति कुण्डलिनी पुटी वात स्वरूपं तच्चरति || श्रोत्रो मनः नेत्र स्वरूपं तथा | द्वौ पद्मौ एकी कृतः स्वरूपं लभ्य योगी एतश्चा द्वितीयामुद्रा आप्याययतीति || अधोकरपुटी कृत्वा मुखाग्रे च प्रतिष्ठिते | अधो द्वौकर पुटी मलयते || मुखदन्तं मुखं चन्द्रबिम्बं द्वादशान्तं वशेत् | प्. ६४ब्) कनीया चान्नतौ कृत्वा तर्जन्यंगुष्ठयोरुभौ | तर्जन्यं सूर्यबिम्बं अंगुष्ठं वह्नि रूपम् | सूर्यं हृदयं | वह्निकंदं | जिह्वारसना तन्मेलयति || कन्दं रति संयोग समयकाले शिवशक्ति संयोगात् स्वरूपलभ्यते || अनृतमुद्रा | एषामुद्रा महावीरा वीराणां सिद्धिदा परा | विवरान्ते च यत्क्रोधं यदि सम्यक् प्रयोजयेत् || एतस्मात् | ततो देव्या प्रपूज्येत मध्ये चैव कृशोदरी | एतद्द्वादशदलं पद्म पूजापद्मषट्कोणं यदि देव्या कल्पान्तं लक्ष्मी महालयं तत्र देव्या प्रपूजयेत् || नित्यमेव प्रयुज्यन्ते सोमबीजं विसर्गतः | सोमसकारः विसर्गद्वयं बिन्दुद्वय सहितः पुनः || म ए र फ ख || एकत्र ख्फ्रें | पंचपिण्डेन दीयते पंचपिंड ख्फ्रें सः || अन्ते होमान्तरा याज्ञ होमान्तं स्वाहा गृहे चैव तु पूजयेत् || चरू ऊत्तम मध्यं च बाह्य पूज्य प्रयत्नतः | बाह्ये उत्तममध्यस्थं चरु पूज्य गृहे सामान्यमीन मांसेन पूज्यं || यथाशक्ति निकारण्यं यत्किंचिल्लब्धं तदा हरतीत्यर्थः || इति श्रीकालसंकर्षणिमते त्रैलोक्यमोहने चतुर्विंशतिसाहस्रे विद्यासमुदाय श्रीसिद्धिकाली क्रमटियिणिकं प्रथमः पटलः || १ || प्. ६५अ) श्रीभैरव उवाच || तथान्यं कथयिष्यामि कर्णदेशे वरानने | तासां सर्वागमानां हि न समाकोटि संख्यया || विद्या द्वितीया विद्येशी समयान्य विशेषता | नमो नमति कोटीनां एक जप्त्वा तु साधकः || निःकलां तु इमां विद्यां मालामन्त्रं तथा शृणु | नमो नमति कोटीनां एकजप्त्वा तु सा च निःकला इत्यर्थः || तारं तु प्रथमं ज्ञेयं तारयति तारं येन ओंकार मात्रोच्चारेण संसार समुद्रं तरति तारयति तारं || ओं १ || सप्तसप्तति कोटि तीर्थानां उच्चारण मात्रात् स्नानं भवति || वर्ण १ || पद १ || नमः || शब्दमतः परं || नमः || वर्ण २ पद २ || लक्षजप्तफलं भवति विद्यानाम || सर्वसिद्धि पदं देयं || सर्वसिद्धि वर्ण ३ || पद ३ || जातं जातिस्मरं भवेत् || योगिनीभ्यः पदं नमः || वर्ण ६ || पद ४ || ब्रह्महत्या विमुक्तो भवतिं | सर्वसिद्धपदं देयं || सर्वसिद्धि वर्ण ४ पद ५ || भ्रु न हत्यां विनश्यति || मातृभ्यः पदमेव च | मातृभ्यो वर्ण ३ पद ६ || गुरुहत्यां समुद्धरेत् || नमोनित्योदितानन्द वर्ण ८ || पद ७ || अगम्यागमनं नाशयति | प्. ६५ब्) नन्दितायै पदन्तथा || वर्ण ४ पद ८ मित्रदोहं च नश्यते || सकल कुलचक्रवर्ण ७ पदं ९ मुद्रास्फोटनं भवति || नायिकायै पदं पुनः | नायिका पदं पुनः | नायिकायै वर्ण ४ पद १० | प्रतिमा चालयेत् सदा | भगवत्यै चण्डपदं वर्ण ६ पद ११ || वेतालोत्थापने कापालिन्यै पदन्तथा | कापालिन्यै पदं वर्ण ४ पदं १२ खेचरत्वं सिध्यते || तद्यथा पदं देयं || तद्यथा वर्ण ३ | पद १३ || प्रथमं ब्रह्म खण्ड उत्तमं प्रथमेति || यत् किंचित् स चराचरं सिद्ध्यते || मातृखण्डस्य वर्ण ५६ सर्वैकत्वेन पद १३ || षट्पंचासाक्षरा विद्या पदानान्तु त्रयोदशं || पुनश्च मन्त्रखण्डन्तु द्वितीयन्तु नवाक्षरं || अनन्त्ररं मन्त्रखण्डं नवाक्षरं | हे भगवतीत्यर्थः शृणु | आकर्णय वक्ष्यामि दीपकं प्रथमं ज्ञेयं || तारं ओं || अतः परं ह्रीं || हरः क्रम ततः पश्चात् || हूं || तृतीयं बीजनायकं || जीवबीजं | ह | हा | आद्यन्तवर्णं आ हां || एकत्र संस्थितं कुण्डलाख्यं फें | योनि युतं पंचमं परिकीर्तितं || एवं फें || मन्दबीज समुद्धृत्य || प्. ६६अ) क्षा | त्रयोदश स्वरयुतं | ओं || एव क्षां भीमां कुशन्ततोद्धृत्य सप्तमं परिकीर्तितम् | क्रों नमः || एतष्य परं द्विधाबीजं नमः || इति एवं ओं ः || वर्ण ९ || एतन्नवाक्षरमिदं द्वितीयखण्डवर्णमण्डितं || मन्त्रखण्डं नवाक्षरं || विष्णु खण्ड द्वितीयत्वे खेचरत्वं आकाशे गमयति || भूव तत्वं भूवगमयति || यदि सम्यक् प्रयुंजीत एवं वर्ण १ पदं नवकूटत्वेन एकवर्णं || अतः परं तृतीय खण्डं | स्तुति खण्डस्तु || तृतीयखण्डमुद्धृत्य द्विशतं पंचविंशकं || अन्य स्तुति खण्डं वक्ष्यामि || उद्धरिष्यति देवेशि हे देवि उद्धृत्य वक्ष्यते || त्रितत्वं परमं पदं त्रितत्वं ओंकारं परमं पदं एवं ओं परमपदं वर्ण ४ पदं १ अदृश्यो भवति || हंसिनीति पदं देयं हंसिनि वर्ण ३ पद २ यस्य पश्यति अनुग्रहं भवति || ततो निर्वाणमार्गदे निर्वाणमार्गदेवर्ण ६ | पद ३ || अंजन सिद्धि अदृश्यो भवति || विषमापप्लवप्रशमनि वर्ण १० पद ४ || विक्लेशमेव करोति || सकलदूरितारिष्ट केश पदं वर्ण १० पदं ५ || प्. ६६ब्) अरिष्टं नाशयते || दलनीति पदं चान्यं | दलानि वर्ण ३ पद ६ यक्षणी साधयति || सर्वापदां पदन्तथा | सर्वापदां वर्ण ४ पद ७ || रस सिद्ध्यते || अंभोधितरणि देयं अंभोधितरणि वर्ण ६ पद ८ रसायनं सिद्ध्यते || ततः सकलशत्रुं च सकल शत्रु वर्ण ५ पद ९ || शत्रून्नाशयतीत्यर्थः || प्रथमनि पदं देवि प्रमथनि वर्ण ४ पदं १० || निग्रहो सिद्ध्यते सदा || आगच्छ आगच्छमेव च | आगच्छ आगच्छ वर्ण ६ पद ११ पादलेपं गमयते || हसयुग्मं तथा हस हस वर्ण ४ पद १२ || वल्ग वल्ग वर्ण ४ पद १३ || वाग्भवहास्यं काव्यं कुरुते तरः | नररुधिरान्त्र पदे तथा नररुधिरान्त वर्ण ६ पदं १३ || पिण्डचारणं कुरुते || वसाभक्षणि पदं वर्ण ५ पद १४ || समयी पुत्रक आरन्त्र पदवर्ण साधकस्य यद्वेषं कृते तस्या कुलस्य मांसवसारुधिरान्त्रं देवी भक्षयति | ममशब्दं पुनर्ददेत् | ममवर्ण २ पद १५ | भूर्भुवस्वर्लोकत्रयं गमयति || स्वशब्दं उद्धरेत्पश्चान् मर्द मर्द पदन्तथा | स्वशत्रुं मर्द मर्द वर्ण ७ पदं १६ || वेदना घटनं भवति || खाहि २ पदं चान्यं | खाहि खाहि वर्ण ४ पद १७ || प्. ६७अ) मृत्युं नाशयति || त्रिशूलेन पदं योज्य त्रिशूलेन भिदि २ च्छिंधि २ वर्ण १२ पदं १८ || खन्यवादं कुरुते || खड्गेन च पुनः पदं | ताडयेति द्विधोद्धृत्य खड्गेन ताडय २ वर्ण ९ पद १९ || खड्गसाधनं तिष्ठते | तदध्यति आकाशे गमयति च्छेदयति पदं द्विधा च्छेदय २ वर्ण ६ पद २० अष्टादश ज्वरं च्छेदयति || तावद् यावत् पदं चान्यं मम शब्दं पुनर्ददेत् | तावद् यावन् मम वर्ण ६ पद २१ वशीकरणं भवति || पदं सकलमेवेति तथा चैव मनोरथं | सकलमनोरथान् वर्ण ७ पद २२ || मनोरथराजवशीकरोति || साधयति द्विधादेयं तथा परममेव च | कारुणिकेति पदं | साधय साधय परमकारुणिके वर्ण १३ पद २३ || परपुरप्रवेशं गमयति | अन्यो भगवतीति च भगवति वर्ण ४ पद २४ सिद्धमेलापयेत् || महाभैरवशब्दं च रूपधारिणिमेव च | महाभैरव रूपधारिणि वर्ण १० पद २५ कामरूपं धारयते || त्रिदशवर नमिते वर्ण ८ पदं २६ योगिनी मेलापयेत् || अन्यत् सकलशब्दं च मन्त्रमात पदं तथा | सकलमन्त्रमातवर्ण ७ पद २७ नमो नमति कोटीनां मन्त्राणां सिद्ध्यति || प्. ६७ब्) प्रणतजनशब्दं च वत्सलेति पदं तथा | प्रणतजनवत्सले वर्ण ८ पद २८ देवासुरनागविद्या धरन्तिं नरगंधर्वमनुष्यायत् किंचित्कर्मिनां वर्णनं च || देवि शब्दं ततो दत्वा महाकालिं समुद्धरेत् | कालनाशनि पदं पुनः || देवि महाकालिकालनाशनि वर्ण ११ पदं २९ पाशच्छेदं भवति || ह उ म त्रिधोच्चारयेत् || हूं हूं हूं वर्ण ३ पद ३० विलचय कुरुते || प्रसीदशब्दं देवेशि मदनातुरमेव च | आकारबिंदुयुक्तं स्याद् योजयेद्रेफ मूत्तमं || प्रसीदमदनातुरां वर्ण ८ पदं ३१ शिलापर्वतान् वेधयेत् || कुरुकुरुद्विधा योज्य कुरु २ द्विधायोज्य कुरुकुरु वर्ण ४ पद ३२ निगलार्गल यन्त्र विदारणं | सुरासुरपदान्वितं | कन्यका च पुनर्देयं | सुरासुरकन्यका वर्ण ७ पद ३३ सुरासुरकन्यकानां चक्रमेलापं भवति || प्राणं वह्नि विभूषितम् || प्राणह | वह्नि र | एकत्रं | ह्र | नाशाबिंदुसमन्वितं || एवं | ह्रीं || वरुणान्तं स बिन्दुकं | अग्नीकारसमन्वितं || एवं श्रीं | टिट्टिभासनसस्थन्तु सर्वमायासमन्वितम् | कुरु | प्. ६८अ) टिट्टिभाशनं | ह | शवक्रमाया | बिन्दु ५ | एवं हूं || शून्यबीजं रावयुक्तं बिन्दुमस्तकभूषितम् | फट्कारत्रितयं पश्चात् || फट् फट् फट् | होमान्त पदभूषितं || स्वाहा || ७ || पद ३४ || मन्त्रखण्डस्य वर्ण २२५ || पद ३४ || एष वै तृतीयखण्डविद्या चैकत्र योजयेत् | शतद्वयन्तु वर्णानां नवत्याधिकमेव च | मालामन्त्रस्मृता ज्येष्ठा सर्वसिद्धिप्रदायका || यत्किंचित् सचराचरं सिद्ध्यते || अस्मिन्तन्त्रे समया सिद्धिलक्ष्मी जयद्रथ | गुह्यकालीराजलक्ष्मी शिवाप्रत्यंगिरेति च || नानया सदृशी विद्या सर्वकर्मकरीशुभा | एषा विद्या महाविद्या मालामन्त्रगणास्मृता | न चैषां दीयते युक्ता स्वभावेन तु दीपिता || इति श्रीकालसंकर्षणिमते चतुर्विंशतिसाहस्रे समयामातृमालाप्रकाशटिष्यनको नाम द्वितीयः पटलः || २ || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि लक्षणं जपमुत्तमम् | जपध्यान पराशक्ति नादमार्गनियोजितम् || जपस्य कीदृशं जप्यं जपति | एकाच्छतेभ्योयत् सहस्रं संख्यातावज्जपति ध्यानं कीदृशं यत्र करण कलापं न किंचिन्मन्त्र स्मरेत् | प्. ६८ब्) यन्नस्मरेत् | शरीरं न स्मरेत् || लज्जा संकाभयं न स्मरेत् || एवं काष्ठी भूतं | शीतात पक्षुधापि पाशानिर्विकल्पन किंचित् स्मरेत् || यदा तद्ध्यानं | ध्यातमात्र स्मरेत् | अन्यच्चकिंस्वरूपं || कण्डात्कुण्डलिनी यावत् कुण्डल्यात् केशरं भवेत् | केशरात् कंद देशे तु कण्ठाद्भ्रूमध्यसंस्थितः | भ्रूमध्याद्द्वादशान्तं स्याद्द्वादशात् षोडशान्तकं | सर्पवत्कुटिलाकारान्नववर्णां च घट्टयेत् || सर्पवत्कुण्डलनी कुटिलात् अगंम्या नववर्णा नवद्वार घट्टयेत् | पुटीकृत संकोचः कंदात् कुण्डलिनीं यावत् | कुण्डल्या हृदयं | हृदया कंठ कूपे | कण्ठ कूपाद्भ्रूमध्यं | भ्रूमध्याद्द्वादशान्तं | द्वादशान्तात् षोडशान्तं | तदूर्द्धे निरालंबन्तिष्ठति || शनैः शनैश्चिन्तनीयं | प्राणशक्तिः यद्वत् || उदयनकाल || तथा शुद्धस्फटिकनिर्मलं शिखि प्रज्वलितं चिन्तयेत् || अथ इन्द्रगोपवासकाशतालु रंध्राद्विनिर्गतं | ब्रह्मनाडि प्रयोगेन प्राणशक्तिस्तु चिन्तयेत् || इन्द्रगोपः ख आकाश द्वादशान्त इन्द्रगोपशब्दे पंचेन्द्रियाणां शब्दादीनां यस्य चेतनस्य मनस्य व्याप्तिं | इन्द्रगोपकशब्देन ज्योतिर्गणो आकाशे दृश्यते | प्. ६९अ) तालुरंध्र विनिर्गते || तालुपालपाताले | रन्ध्रनवान्तः तत्रैव षोडशान्तः | उर्द्धकंदादुच्चरित यावन्निलालम्बं | अथ द्वादशान्तं वा उच्चरति ज्वाला रूप ब्रह्मनाडि योगेन ब्रह्मनाडि सुष्टम्नामध्ये सूर्यबिम्ब भेदयेत् | शनैः शनैः यावत् सोमबिम्बं त्रिभि एकीकृतं वामसोत्ररंध्र वामनेत्रं वामनाशापुटे ब्रह्मविलं | दक्षनाशापुटाक्ष श्रोत्रं ब्रह्मकपाटं | एतत् समस्तै शिला ज्वालामुंचती | ततः पाणी इघेव | वह्निशिखा ज्वाला यथा वदुरितारविः | निशाकर यथा पूर्णं तत्र चित्तं निरोधयेत् | इह वमर्थः | एतद्ध्यानं वाह्येव पूर्ववदिति | मन्त्रमेव च लक्षयाद् भवेत् सिद्धि यथेष्ट फलसाधकः || लक्षजापः || अन्तलक्षैः कन्द चक्रे ब्रह्मस्थान नाभि चक्र विष्णुस्थाने | एतत्य क्लेश क्षय यत्र यत्र मन विश्रान्तं लक्षजपयति | यावच्च भवितावस्था मज्जान्त च विशस्य च | परतत्व विलीनस्य स्पन्दा स्पन्दं नमाम्यहं | एतल्लक्षजप्यते सप्ताविंशति जापेन दिक्षितो सौ भविष्यति ||| अष्टोत्तर शतजापात् भाग्यार्थी लभते स्फुटं | शताष्टदश जापेन महद्भय विनाशनं || प्. ६९ब्) एवं सहस्रजप्त्वा तु वृंहते दण्डनायकम् | जप्त्वाथ सुसहस्रन्तु राज्यं भवति तत्क्षणात् || अथवा युत जापेन देवत्वं च प्रकीर्तितम् | अयुतं द्विगुणं जप्त्वा रुद्रस्य मम दर्शनात् || तथा त्रिगुणितं जप्त्वा ईश्वरत्वं सदाशिवः | तथा मष्टगुणं जप्त्वा खेचरत्वं प्रजायते || तथा दशगुणं जप्त्वा देवीनां ममतुल्यताम् | यथा देवि तथा देहे मम तुल्यो भविष्यति || समकायशिरोग्रीवा धारयेद चल स्थितम् | सपश्यन्नासिकाग्रे तु दिशश्च नावलोकयेत् || होमं चैव दशांशेन कृत्वा जपमनुत्तमम् | मकारसहितं कृत्वा स्वच्छकारेण तत्कृतम् || आचम्याप्याकृतं आदौ पशुभंग विवर्जितम् | मूर्च्छमानकृतं यागं मदिरानन्द चेतसम् || गुप्तागुप्तविचारण पंचरत्न सुशोभनम् | आहरेत् सिद्धि मिच्छन्ति पश्चाज्जाप विधाय च || श्मशाने एकवृक्षे वा अथवा च चतुः पथे | पर्वताग्रे नदीतिरे शून्यागारे || एतज्जापं प्रकूर्वीत पश्चाद्ध्यानं समाचरेत् | श्मशानं कन्दु वृक्षशोत्रशान्त || चतुःपथ इडापिंगला सुषूम्ना एकत्रं | पर्वतं भ्रूमध्यं | शून्यागार सुषूम्ना | हृदयं मनः | प्. ७०अ) नदी इडापिंगला || एतज्जाप्तं कुर्वते || ध्यायेत् घोरां परां भीमां षट्वक्त्रां च त्रिलोचनाम् | षट्त्रिंशा चतुर्भुजा देवी सायुधा च प्रसिद्धिदा || घोरा भीमा रूपां ध्यायते || षट्वक्त्राः षट्त्रिंशभुजाः || त्रिलोचना | योगिनीनां मध्ये ध्यायते || महायोगेश्वरी पूर्वं कालसंकर्षणि दक्षे | करंकिणी उत्तरे प्रोक्ता क्रोधिनी पश्चिम तथा || वाम वामेशि उर्द्ध तु भासानाख्या परात्परम् | ऊर्द्धवक्त्रं नियुंजीत एवं षट्वक्त्रमुच्यते || अ अः कालग्रासन्तु महापातः विद्युत्पातः अशनिपातः | ऊर्द्धपातः अपातपातः कल्पान्त पातः महासंहार संपातः || एवं सप्तमहोत्पाता पातयन्तीति पावितम् || प्रथमं पातनिपात पिण्डपंचाक्षरं भवेत् | द्वितीयं पातस्थं स्थितं | तृतीयपातं निर्द्दिष्टं नववर्णं प्रकीर्तितम् | चतुर्थनिमित्तयातं संख्यात्रयोदश स्मृतः || पंचमपातस्थं देशसप्तैस्तु व्यापितम् | षष्ठं च व्यापितं पातं वाच्यवाचक वर्जितम् || पूर्ववक्त्रन्तु योगेशी योगशब्द इति योगेशी | ओद्यान पीठं | ख्फ्रें संहाररूपं | तत्र मध्यात् पंचपिण्डं नाथस्य चोत्पत्ति | सद्गुरुमुखसंहाप्रदायं | प्. ७०ब्) द्वितीयवक्त्रं कालसंकर्षणी दक्षिणवक्त्रं | क्लीं कारं जालंधरपीठं | तृतीयवक्त्रं उत्तरवक्त्रं करंकिणी पूर्णपीठं कुब्जिका देवी श्रींकार उत्पन्नं || चतुर्थपश्चिमवक्त्रं क्रोधिनी वामवामेशी | कामरूपपीठं ह्रींकारमुत्पन्नं | पंचमं शक्तिपीठं व्योमवामेश्वरी देवी ऐकारोत्पन्नं | तदूद्धममाख्या भाशेश्वरी निम्नार्नामपीठं ह्सौंकारचोत्पन्नं एवं वक्त्रषट्कं संक्षेपतः कथ्यते || अन्यद्गुरुमुखाल्लभ्यते एतत् षट्वक्त्रं || अन्यच्च | कीदृशी भगवती प्रत्यंगिरा सिद्धिलक्ष्मी देवी षट्त्रिंशा चतुर्भुजा देवी आयुधा सर्वसिद्धिदा आयुधं च प्रवक्ष्यामि यथावत् कथयामिते || खड्ग १ || कपाल २ || त्रिशूल ३ || शिला ४ || खट्वाङ्ग ५ || अंकुश ६ || पाश ७ || वीणा ८ || परशु ९ || द्विफणि १० || वज्र ११ || मुद्गर १२ || वाण १३ || चाप १४ || चक्र १५ || पद्म १६ || पुस्तक १७ || वरद १८ || एवं ते दक्षिणे प्रोक्ता शृणु वामे वरानने || गदा १ || च्छुरिका २ || वेत्र ३ || चकोद ४ || कर्तरी ५ || लिंग ६ || मुण्ड ७ || डमरु ८ || गदा ९ || प्. ७१अ) शक्ति १० || कमण्डलु ११ || मटक १२ || कलश १३ || ब्रह्मकंकाल १४ || पाशुपतास्त्र १५ || आग्नेयास्त्र १६ || वारुणास्त्र १७ || अभय १८ || वाममार्गे महादेव्या प्रसादं देवि उच्यते || वाममार्गे च तत्प्रोक्तं षट्त्रिंशद्भुजमायुधा || सट्त्रिंशत्तत्वानि धारयन्ती || पृथिव्यापस्तथा तेजो वायुराकाशमेव च || शब्दस्पर्शर सरूपगंधः वाक्याणि पायूपस्थ पादा श्रोत्रं त्वक् चक्षुषी जिह्वा नाशामनो वुद्ध्यहंकारप्रधानानि || पुरुषयमनियमानि रागोकाल विद्यायाशुर्द्धविद्या || ईश्वर सदाशिव शक्तिशिवं || एवं षट्त्रिंशत्तत्वानि || ३६ || षट्त्रिंश आयुधानां च वक्ष्यते || एवं तत्व समाख्यातं इत्यपाणि प्रधारयेत् | वहुपाद वहुभुजा तत्संख्या न च विद्यते || एतत् स्मात् सकलं रूपं निष्कलं सकलाद्यतं || इति || आसनस्तु पूज्यते || पद्मासनन्तु पूज्यन्ते तत्पृष्ठे प्रेत उच्यते | तत्पृष्ठे इन्द्रमुण्डः स्यादिन्द्रपृष्ठे च ब्रह्मकम् || तत्पृष्ठे विष्णुमुण्डं स्याद्विष्णु पृष्ठे च रुद्रकं | तत्पृष्ठे तु सदापूज्ये सादाज्यं मुण्डमेव च || प्. ७१ब्) एतत् पंच महाप्रेतात् तत्पृष्ठे देवि पूजयेत् | महापद्म हृदयं संकोचं विकाशं || तत्पृष्ठे मध्यकर्णिकायां पंचषष्ठि प्रेतः प्रेतशब्देन तम तस्य अन्तर्वर्त्ती शब्दस्पर्श रसरूपगंधः एतद् ब्रह्मविष्णुरुद्र ईश्वर सदाशिवत्वं च || काचिदियं वहिः क्रोडी करणार्थं इन्द्रपविलायते मुण्ड इन्द्रमुण्डं पूज्यं || १ || मध्ये विश्वादयं ब्रह्मासत्ता विदितां ब्रह्ममुण्डं पूज्यं || २ || मध्ये वृर्त्तिं गलिता विश्रान्त संहिता सह विष्णुमुण्डं पूज्यं || ३ || समस्तकारण तन्मात्रवृत्या न किंचित् प्रसरते रुद्रमुण्डेति रुद्रमुण्डं पूज्यं || ४ || सदासनवृत्याबिन्बदन्यभूतानामीश्वर मुण्डेति ईश्वरमुण्डं पूज्यं || ५ || चिदार्द्धमात्रादि रवस्फुरतिमन्तेति सदाशिवमुण्डं पूज्यं | तत्पृष्ठे देवीं पूज्य किं स्वरूपं समरसपरमानन्दौघन प्रसरति देवि स्वरूपनिःशमशमभूमिकानि रालम्बं तदा भगवती कालसंकर्षणी समया ख्फ्रें श्रीं ह्रीं सिद्धिलक्ष्मी अम्बा श्रीपादुकां पूजयामि || शरणागतं मां रक्ष रक्ष || एतत् न्यायेन पंचमुद्रासते नमः || देवीनां शारीर अभिप्रायेन पूजयेत् | प्. ७२अ) ख फ र ए म || ख्फ्रें मन्त्रेण पूजयेदिति || खफरेण तु मन्त्रेण पूजयेत् परमेश्वरीं || ख आकाशं || फ वायु || र तेज || ए आप || म पृथ्वी || ओ जा पू का मा चा || का कामरूपातीतः || आकाशः पूर्णगिरि रूपः || वातः जालधरः पदः || तेजो ओद्यानः पिण्डः पाप | योगपीठः | शरीरः पृथिवी त्वचा || शिवाम्बु | अपारक्त तेजः | अस्थिवातः | मज्जा आकाशः एवं पंचधा स्फुरते | पंचरङ्ग || इति पंचपिण्ड निर्णयामन्त्रः | इत्येवं पूजयेत् || मोक्षार्थी श्वेतपुष्पेन भोग्यार्थी रक्तमुच्यते | कामार्थी पीतवर्णेन मारणे कृष्ण उच्यते || इत्यभिप्रायः | करङ्किणी क्रोधिनी च तथा संकर्षणी वहिः | वामपार्श्वे प्रपूज्यन्ते दक्षिणे अधुना शृणु || देवी अकामरूपः अकारादि अकारान्तं यावत् सूर्यस्य व्याप्तिः ककारादि भकारान्तं यावदग्नेर्व्याप्तिः मकारादि यावत् सकारान्तं सोमस्य व्याप्तिः एतत् न्यायेन अकार चोत्पत्तिः करंकिणी रूपशक्तिः संकर्षिणी पर्शशक्तिः | एतत् न्यायेन वाममार्गेण पूजयेत् || खेचरी लेलिहाना च तृतीया या च भैरवी | प्. ७२ब्) दक्षे मार्गे प्रपूज्यन्ते मध्ये पूज्या कृशोदरी || परमशक्ति लेलिहाना पराशक्ति भैरवी || परापरशक्तिः एवं परे अपरपराद्य परा च || पूजयेद् दक्षिणे मार्गे पूर्वोक्तया देव्या मध्ये पूज्या || त्रैलोक्य मोहनी चादौ त्रैलोक्यं मोहयेत् क्षणात् | सा द्वितीया च जयद्रथो वत्सले २ सिद्धिलक्ष्मी प्रत्यंगिरा देवी ३ || चतुर्थे नवत्यधिक द्विशता || सिद्धि संकेतके चैव सिद्धिलक्ष्मी जयद्रथे || ५ || पंचेति नामगृह्नीया अतीतानागतज्ञो वदन्ति च | महादेवी राज्यलक्ष्मी राज्येष्ट देवता नान्या अन्यैव अधुना शृणु || पूजनं कथयिष्यामि मुखपारंपरं स्थितम् | गणेशवटुकप्राणापाणौ द्वौ गुरू ईश्वर अकारं अकारस्य यद्वं चितस्फुलिंग पंचाशद्वर्ण स्फुरति || आदौ च देवि पूज्यन्ते पूर्वस्मि देव्या कथितं | देव्या द्वादशसंयुता || द्वादशदेव्या ध्यानं वक्ष्यते || पंचवक्त्रा चाष्टभुजा त्रिनेत्रा प्रेतसंस्थिताः | त्रिशूलखट्वाङ्गधरा पद्ममुण्डकरार्पिता || पुस्तकाभय हस्ता च कपालं करराजते | खड्गं च अष्टमं प्रोक्तं ध्यानमेतच्च द्वादशं || एते द्वादश मासाः || प्. ७३अ) अथ द्वादश कला अथ धातु मुनि संख्या च | पुनः षडारं पूज्यते || पूजयेत् परमेश्वरीं | कृष्णासु भीषणारौद्री अन्त्रस्रग्दामशोभिता || एकवक्त्रा त्रिनेत्रा च मुण्डमाला चतुर्भुजा || मुण्डं पद्माशना दीप्ता पाशांकुश विधारिणी || अथवा खड्गच्छुरिका षडेते ध्यानमुत्तमम् | पुनर्मध्ये प्रपूज्यन्ते समया पूजयेत् ततः || पंचवक्त्रा दशभुजा त्रिपंचनयनैर्युता | प्रेतरुद्राशना दीप्ता चन्द्राशु कुन्दसप्रभा || खट्वाङ्ग खड्गपाशञ्च अंकुशं शूलपात्रकम् | कुंभं च नृशिरं चैव वराभयकरैर्युता || वैश्वानरं मार्त्तण्ड चन्द्रमण्डलमध्यगा | नाना युधकरा देवी यथेष्ट फलदायिनी | शंखिनी च शिवादूति वामदक्षिण पूजयेत् || एतत् सर्वं प्रपूज्यन्ते पूजयेत् परमेश्वरीम् | इति श्रीकालसंकर्षणीमते चतुर्विंशति साहस्रे पूजनविधि टिप्पिणकं तृतीयः पटलः || ३ || श्रीदेव्युवाच || चरुकं संप्रदायं च मुखान्मुखकथं भवेत् | कथमन्त्रः कथं बाह्यं कथं स्थानो पपद्यते || कथं स्थानन्तु देवेश वदस्व परमेश्वर || एतच्च || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि रहस्यमतिदुर्लभम् | प्. ७३ब्) योगिनीनां परं प्राणमाख्यातं न कदाचन || उत्तमाधममध्यञ्च पलांडुलशुनं तथा | गंजनं विश्वक्षारं च हराम्बु रुद्रमेव || नालाज्यं योनि पुष्पं च मीन प्राकाशिकं चरु | हालाहलं सुरश्रेष्ठं षोडशैते प्रकीर्तिताः || १६ || प्रधानत्रयोदश चरुं || मनः श्रोत्रश्चक्षु जिह्वानाशा बुद्धिरहंकारान् मनोन्मनता || घृणिशंकाभयं लज्जा विजुगुप्सा कुलं शीलम् || १६ || अन्यच्च || स्नानं जन्मकंदनाभिः हृदयं कूर्मनाति सूक्ष्ममध्यादर्द्ध चन्द्रं निरोधीनादान्त निलालम्बं || एवं १३ || प्रधानस्थानानि || अमावास्यान्तु पूज्यन्ते यावत् प्रति पदा स्थिता || प्रतिपदात् पंचदशी पूजयेदनुलोमकं | अमावास्यात् प्रति पदान्तं यावत् || चरुकं || एकं पूज्य पूर्णिमा अमावास्या यावत् प्रति अनुलोमं पूज्य कृष्णापूर्णा उभयामासौ | एकमेकं दिनाहरेत् || कृष्णपक्षस्तथा शुक्लपक्षपूर्णा शृणु || अतः परं प्रवक्ष्यामि विधानमधुना शृणु | तरण्डदण्डद्रचितं या काचित् कलाद्राविता || मनं च मारयेत् तत्र न माहामांसभक्षयेत् | तरण्डमिति तरण्ड इति दण्डं वाममार्गो वात स्वरूपम् || प्. ७४अ) तकारं तरण्डदण्डं दक्षिणमार्गे वह्नि स्वरूपम् | रकाररूपदण्ड मध्य अनस्कंकला रूपं | द्रापितं तत् स्थानं मनं मारयेत् | महामांसं न भक्षयेत् || अन्यच्च || १ || श्रोत्रं त्वक् चक्षुषी जिह्वा सा द्वया द्वय वर्जित | कलापर नमश्नञ्च न तु गोमांस भक्षणम् || शब्दं न शृणुते रूपं न पश्यति रसना न स्वादयति | हृदयं न | ग्राहयति अद्वया द्वय रहिते एतत् समस्तं त्यजति || योगी सामंरम्बिकारसं प्रतिदिने दिने अश्नति भक्षते अजरामरत्वं भवति || गोमासहः || २ || कंदाधार च उल्लासं नादरूपं च घण्टिका | सा कला अमृतं भक्षेन्नतु मांसं च शाकुनम् || कन्दाधारं च याव लम्बिका सा कलाममृतं || लम्बिका यापी यतेक्षधा तृषा वर्जयेत् || ३ || लम्बिकारसमुष्णं च श्रावितं शशि इन्दुराट् | अजरामरकोशश्च पलांडुं न च भक्षयेत् || पलस्य अण्डुमिति पलांडुं लम्बिकार स उष्णं || अग्निमालयते चंद्रवातरूपेण शनैः कंदाधार द्वादशान्तं यावत् | अथवा अजरामरा भवति || ४ || लकार लंबिकारसं मकार अशनं तथा तेन पानरसोन्मत्तं लशुनं आहरेत् ततः | प्. ७४ब्) लकारं लम्बिकं मकारे शशिकलावह्निर्द्रावयेत् || पानगुल्फ न सिद्द्यते || योगा व || ५ || घृणिजिघ्रा तुजांग्र च भक्षितं वह्निमण्डल | वह्निकंदन्तमार्गेन रावं उच्यते || कुतः गृंजनमाहरेत् | विश्व चरुकं यत्तद्वात्रवानल संस्थितं | सोमसूर्यग्रासा यत्र पुरीषं आहरेत्यर्थः || विश्व अग्नि चरुः | सोमसूर्यग्रसनं | किंनिमित्तं वाममार्गे कुण्डलिनी पूरकेन वातस्पर्श न उत्थापयेत् | तथा सोमसूर्यग्रासी कृतं तत्र वडवानल पुरीष आहरेत् || ७ || नाडी यन्त्रश्च संघट्य वह्निसोमस्यद्रावितं | लम्बिकारसमुष्णश्च शिवाम्बुमाहरेत् कुतः || कुण्डलिनी संस्रावितां नाडी यन्त्र संघाट्टञ्चतुः कोणं तत्र श्रवणे || ८ || रक्तं रविशशि शुक्र पुरशुक्रं तु वारयेत् | तेनमश्न ममश्नी या ज्योति पुष्प्ण आहरेत् || रक्तं रविशुक्लं शशि गोलकं वातः | शिवं पुरुषः शक्ति स्त्रीरूपं शिवशक्ति त्रयोमार्द्दयति || स्वरूपलभ्यते योनि पुष्प || ९ || वाडवं करणं दत्वा मलत्रयं च दह्यते | अमृतं कण्ठकूपे च न तु श्लेष्मन्तु आहरेत् || प्. ७५अ) अस्याभिप्राय || ऊर्द्धस्थिता चंद्रकला सुशान्ता पूर्णा मृता नन्दरसेन देवी || तयो भयो वह्नि विशेष योगात् तेजं च चन्द्रद्रविनं च यस्मात् || तेजञ्च वस्त्रञ्च विसृष्टकत्वाद् भवेत् तदर्कं अवतार रूपं | यस्मात् सकाशात् प्रभुरव्य यो सौ द्विषट्क विश्राम पदे प्रविष्टं || १० || समस्त वृर्त्ति गलितं कारणं पंचमर्द्दयेत् | पैशून्यं कुण्डमश्नं च भग लिंगं न मर्द्दयेत् || ११ || इत्येवं || षट्त्रिंशदंगुलं दण्डप्राणभूते व्यवस्थितम् | तत्राभ्यास रतो योगी न प्रणीतन्तु आहरेत् || चारं षट्त्रिंशदङ्गुल प्राणदण्डं षट्त्रिंश तत्वावत् प्राण दण्डं | तत्राभ्यासरतो योगी तत्किंचित् स्वरूपं लभ्यते || १२ || सोमसूर्य द्वौ नेत्रौ भ्रूमध्ये संहते न च | तत्राभ्यासरता योगी न तु प्राकाशिकं चरु इत्यर्थः || १३ || गगनमम्बरं पत्रं निरालंबं च यस्थितं | तत्राभ्यासरतो योगी न तु हालाहलं चरुं || हालाहल चरुं गगणं | आकाशं तथा द्वादशान्तं निलाम्बं ध्यायते | मन अभ्यसे योगी च || १४ || वामदक्षिणनाड्यां च वसन्ति च सुरासुरौ | सा सुरापी यते यत्र न तु अन्यापि वेत्सुरा || प्. ७५ब्) वामे देवाः || दक्षिणे असुरः तयोरेकी भावं करोति || आनन्द स्वरूपं लभ्यते गुरु प्रसादं | गलिता मध्यमानाडी भरित भैरवे तनु || तन्तु मद्यन्तु मश्नीयान्नतु द्राक्षोक्षु संभवं || १५ || मध्यमम्वालवं कुन्तु स्वभावेन तु योजयेत् | तेन पानरस्ऽम् पीत्वा न क्षुद्राक्षोक्षु संभवां || १६ || इत्थं च चक्रमायातं चर्वणे योग युक्तिभिः | योगिनी प्राप्य सिद्ध्यन्ते इत्याह भगवान् प्रिये || आदौ बाह्यं प्रकर्तव्यं पश्चादन्तः समाचरेत् | पचरन्नप्रयोगेन त्रिकोणं शक्तिमूलकम् || तरसंपीयते नित्यं तुष्यते च कृशोदरी || माता च भार्या दुहिता वाथवास्त्रिया | वेश्या समय कालेन जुगुप्सांशविवर्जयेत् || गोपनात् सिद्धिमिच्छन्ति अन्यथा पतनं भवेत् || इति श्रीकालसंकर्षणीमते चतुर्विंशतिसाहस्रे चरुकसंप्रदायो नाम टिप्पणकचतुर्थः || ४ || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि यदुक्तं पुनरेव च | गया च प्रथमा नाडी गया सुषुम्ना कुण्डलिनी || कलेवर रसं भवेत् | तस्य द्वादशमूलानि द्वादशा हृदयादिषडंगमेव च षट् || ६ || उपरितस्यैव पितृ पात्रे स उच्यते || प्. ७६अ) षट्पितृपात्रे देवयाने षड्भिः देवयाने षद्भिर्देवयानैः | अष्टादश प्रकीर्तिताः || एवं १८ || तालु रंध्रैः षड्भि गतं षड्भिः सूर्यस्य उच्यते | षड्भिर्मुण्डपुरीषाभ्यां मध्यम एकमव्यापितं || कुण्डलिनी वायु वाहात्रिभिरुधैशुक्र वाहात्रिभिः | अधियत्क्रियते कर्म सुषूम्नानाडि सिद्यते || इडा च पिंगला चैव सुषूम्ना च तृतीयका | तदभ्यासरतो योगी न भूयोजन्मतां व्रजेत् || पुनरन्यं प्रवक्ष्यामि मण्डलं अधुना शृणु | गोमयैर्लेपयेन्नित्यं गोमयं सत्यसूत्रं समरसं भवेत् || सूत्रं मनः | तप जप क्रियते | पंचरङ्ग पंचरत्न शालिचूर्णन्तु कारयेत् | शालिचूर्णन्तु योनिं चूर्णमर्द्दयेत् | षट्कोणं तत्र कर्तव्यं | षट्कोणं हृदयं तत्र स्वरूपा लभ्यते || मध्ये योनिं च दीयते | योनिं सूर्यबिम्बं तद्बाह्य चतुरस्रकं || ओ जा पूका || वाम दक्षिण द्वितीय रेखाः प्राणापाणौ द्वौ | अधे द्वौ च द्वौ च दीयते || शिवशक्ति उद्वेलया चर्तुल तदथ मायारूपं | कर्मकूर्याद्विचक्षणः | पताका तोरणयुतं तोरणं तरण्डदण्डं || पताका द्वादशान्तं || अन्यच्च || दोलालयं यन्त्र गमाभ्यां पंचधा कुण्डलिनी पंचधा ध्वजा अच्छलायां एतद् दृष्टान्तः | पताका पंचकारणं || कुण्डलिनी पंचधा || पूरकेन पातेन स्वरूपं लभ्यते | षट्कोणे द्वादशादित्या देव्या || १२ || शिवादूत्याद्यामध्ये चैव कृशोदरी प्राणशक्ति चतुरस्रं तन्मध्ये वामदक्षिणे पूजयेत् || देव्या || शंखिनीति शिवादूती अध्ये द्वौ द्वौ प्रपूजयेत् | कृषापूर्णा || उर्द्धे तु व्योम मध्ये तु समया पूजयेत् सदा | सिद्धिलक्ष्मी अनक्चरूपातद्वाह्य दक्षिणे पूज्या || गुरुपूजार्चनन्तथा | गुरुं नमः | अकारः | पूर्वस्मिन् कथितं || वाममार्गे गणेशस्य दक्षिणे चरुकस्य च | गणेश वटुका सूत्रः | प्राणापानः | एतत् प्रपूजयेद् देवि इत्याह भगवान् शिवः || इति श्रीकालसंकर्षणीमते कुण्डमण्डलो नाम टिप्पणः पंचमः पटलः || ५ || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि वह्निकार्य यथा विधि | षट्कोण कुण्डकर्तव्यं द्वात्रिंशाङ्गुलमानतः || कुण्डब्रह्मविलं द्वात्रिंशद्वीर देवतां | अथ वर्णादिक कारादि क्षकारान्त मेषला त्रितयं || प्. ७७अ) कृत्वा सोमसूर्याग्निः | ब्रह्मविष्णुमहेश्वरः | अंगुल्या एकाद्वौ त्रिणी | एकं विष्णुः द्वौरुद्रः | तृतीयं ब्रह्मा इति मेषला कृथा यथावत् कथयामिते || होमं पंचामृते नैव श्रीफलं सहसंयुतम् | भोग्यार्थे तु वरारोहे कारयेत् तु विचक्षणः || ३ || रक्त करवीरपुष्पं च्छागरक्तेन संयुतां | त्रिभिर्होमं प्रकर्तव्यं महाभयविनाशनम् || ४ || महाभये समुत्पन्ने वृहतीरिष्टविग्रहे | कुसुमं ब्रह्मवृक्षेण गुग्गुलं घृतसंयुतम् || त्रिभिर्होमं प्रकर्तव्यं महाभयविनाशनम् | घृतं चैव घृताक्तं च दध्नान्तं च पयोदनम् || तिलाज्यं सर्षपा प्रोक्ता एकैकं परिशर्क्करा तिलसंयुक्त पायसं घृतमिश्रितम् | बिल्वजाति फलं प्रोक्तं गुग्गुलं दशम स्मृतं || यवं घृतं तिलं चैव तण्डुलं च यथोदिताम् || नित्यकर्म प्रकुर्वन्ति यथेष्ट फलसाधकः || विद्यार्थी लभते विद्यां भोग्यार्थी भोग्यसंपदा | कामार्थी लभते काममित्याह परमेश्वरः || ६ || इत्येवं पुनरन्यं प्रवक्ष्यामि मारणं अधुना शृणु | रात्रौ होमं प्रकर्तव्यं श्मशाने वा चतुःपथे || एकवृक्षे नदीकूले अथवा वनगाग्रतः | प्. ७७ब्) राजिकामस्तु चूर्णेन माक्षिकैः सहसंयुतम् || महातैलेन सहितं समिधा वटिकाष्टकम् | षड्भिः पूजयते देवि चक्राकारं तु कारयेत् || अष्टोत्तरशतं हुत्वा मारयेत् त्रिदशान्यपि | द्वितीयं च प्रवक्ष्यामि अग्निकर्मसमारभेत् || सप्तविंशपलक्षारं पुत्तलिंकां कृत्वा प्रतिदिनं अंगमङ्गहोतव्यं कारयेद् बुधः | पूर्वमुद्रा प्रदातव्यं मारयेत् त्रिदशान्यपि || २ || एतस्मात् कथितं देवि अग्निकर्मस्य निर्णयम् || इत्येवं || अथ चिह्नलक्षणं || धूमितं नीलवर्णन्तु कपिलं विस्फुलिंगकम् | ज्वाला तेजस्मती चैव हव्यकव्यर्थ वाहनम् || रौद्री संहारिणी देवी वैश्वानरगुणादश || अथ चिह्न कथ्यते || वक्ष्यतीयं धूपिते मृत्युभयं | नीलवर्णे शत्रुभयं २ कपिलं आयुवृद्धिं च सर्वकामञ्च विस्फुलिंगमारोग्यं ज्वालामुंचन मोक्षदं सुतेजं पुत्रलाभं हव्यकव्यशब्देन सुकारं मुंचति || आयुरारोग्यमैश्वर्यं धर्मार्थ काममोक्षदम् | हव्यकव्य शब्देन चट चट ज्ञानं प्राप्तिं च दीयते || रौद्र भीषणरूपं भीषणं संहारं नेत्रहीनं भवति संहारे लेलिह्यमानं तच्चरते | प्. ७८अ) व्याधिरोगं ज्वराति सारं शस्त्रघाट अग्निप्रवेश समस्तं भवति | सुवर्णवर्णं एवं सर्वकामार्थ सिद्धिदं भवति एवं दशगुणं वक्ष्यते || १० || अंगुष्ठ तर्जनी कृत्वा मोक्षदं लभते फलम् | अंगुष्ठमध्यमां कृत्वा मोहन क्रियते सदा || अंगुष्ठनामिकां कृत्वा वशीकरणमुत्तमम् | अंगुष्ठकनीयसं कृत्वा उच्चाटन परं भवेत् || पंचागुल प्रयोगेन सर्वकामं च सिद्ध्यति | इत्येतल्लक्षणं वक्ष्ये कथनीयं प्रयत्नतः || पुनरन्यं प्रवक्ष्यामि रस्यमति कौलिके | योगिनीनां परं प्राणं यत्नात ख्यातं कदाचन || ज्येष्ठा गणे वाहनष्ठां पूजकामानवाप्नुयात् | यां यां चिन्तयते देवि वाहनं वेष्टकोपरि || ज्येष्ठांग दक्षिणे दिशाभागं तद्वातमजरीयं वाहनं द्रवकं तस्य दक्षिणे पूज्यपादारोप्य || अथण्डल्वस्य शुल्वशब्दे ताम्रभाजनं तृतीयं लोहस्य मारणे लोह संपूज्य || अर्थकामं यत्किञ्चित् कर्मरोध्ये पूज्य || एभिस्त्रिभिः कार्यपीठिकां कृत्वा तत्पृष्ठ द्रवकं स्थाप्य पंचापचारं पूजयेदिति || मुद्रां दत्वा पूर्वस्मिन् कथिता वै | तत्र दक्षिणदिशां अर्घपात्रं पूज्य यस्य वाहनस्य पृष्ठे गमयते | प्. ७८ब्) रात्रौ कृष्णाष्टम्यां अथचतुर्द्दश्यां भ्रामयेत् || यत्किंचि च्छुभाशुभं चराचरं पश्यते | स्त्रियाकार्यं रक्ताम्बरवतीं स्रग्दामाभरणान्वितः | मदिरानन्द चेतन्या खड्गमण्डकरान्वितः || हसन्गायन्तथा वल्गन् व्रजेद्वीरवरं गृहे | तत्र स्मरणगत्या च वेदीमध्यगतः सुधीः || यावन्ति सप्तका देवा तावदायान्ति देवताः | तासामर्घ्यं प्रदातव्यं भित्वा वामांगमात्मनः || दत्ते च खेचरी साक्षात् साधकोसौ भविष्यति || रक्ताम्बरधरारक्तानुलेपन रक्तस्रग्दामवीरभूतिं मण्डलं कृत्वा खड्गहस्तं दक्षे वामे मुण्डकरान्वितं | मदिरानंद घूर्णनं रात्रौ भ्रामयते | खेचरी तिष्ठति वदमे स्वामी भवति || इति पुरुषसिद्धिः || इति श्रीकालसंकर्षणी मते अग्निकर्मयजनो नामटिप्पणके षष्ठ पटलः || ६ || श्रीभैरव उवाच || तिलकं संप्रवक्ष्यामि तथास्त पच साधन | अंजनं गुटिकादीनां वश्याकर्षणमेव च || पातालभंजनं देवि यन्नास्ति तन्नसाधयेत् || हे आकर्णय || प्रियं गुरोचनं राध्रं पिप्पलोत्थं मनः शिला | प्. ७९अ) अश्वलाला समायुक्तं तिलकेन वशं जगत् || रशेराजकुलेद्यूते संग्रामे सजयी भवेत् | वल्लभः सर्वनारीणां कामदेव समो भवेत् || अचिन्तितानिचार्थानि सदा तस्य भवन्ति हि | पुनरन्यं प्रवक्ष्यामि रक्षांगुडिकमूत्तमम् || रोचनां कुंकुमं चैव कर्पूरमलयन्तथा | एतत् समस्त द्रव्याणिकारयेत विचक्षणैः || अत्रैव व्याख्या स्यामः || गोरोचन प्रसिद्धं | कुंकुममपि प्रसिद्धं | चन्द्रशब्देन कर्पूरं | मलयं श्रीखण्डं | मलयं चन्दनं | सुगंधानि अतो वक्ष्यासिल्लरसं | मृगनाभिकम्भूरिका | कुण्डगोलको शिवशक्ति संयोगोत्पन्नं | स्वयंभु कुसुमं प्रथमरजस्वरस्त्री भगरजः | एतत् समस्तमदिरानन्द चेतन्यो वीरविग्रह संयुतं | स चन्द्रं चैव ताम्बूल नेत्रकज्जलरंजितं | वामे च शक्ति सहितं घूर्णमानं सुतेजसा || पुष्पैश्च स्वर्णरजतं भूर्यपत्रं सुशोभनम् | ततो विद्या समुद्धृत्य लेखयेत् कनकाकृती || अथवा मालती काष्ठमथवाशिखिपक्षकम् | शिखीमयूरतत्पक्षं सुरभीकाष्ठे लेखयेच्च || आदौ षट्कोणमुद्धृत्य तन्मध्ये योनिरेव च | तद्बाह्ये षोडशं पत्रं माया चैव तु दीयते || प्. ७९ब्) पुनर्द्वात्रिंश पत्रन्तु बाह्ये च चतुरस्रकम् | तत्पृष्ठे च त्रिशूलं च मायांकुशसमन्वितम् || एतच्चक्रवरं श्रेष्ठं बीजं च अधुना शृणु | योनिमध्ये षडारे च मध्यखण्डञ्च दीयते || पुनश्च षोडशकला दीयते च विचक्षणः | अकारादि अकारान्तं यावत् षोडशकं कला || मातृखण्डन्तु तन्मध्ये मातृका सहदीयते | ककारादि हकारान्त यावन्मन्दरपृष्ठयेत् || स्तुति खण्डन्तु देवेशि तत्रैव दन्तपत्रके | दशो नात्रिशता क्षर्या यत्र राजस्तु पूरयेत् || ब्रह्मणाधारितं पूर्वं सृष्टिहेत्वर्थमेव च | विष्णुनाधार्यते दैत्य वधार्थं चक्रमातृका || शिवेन धारितं पूर्वं त्रिपुरासुरशासने | धारितं लोकपालैस्तु राज्यमैश्वर्य कारणात् || रणेराजकुलेद्यूते विवादे शत्रु संकटे | महाज्वरसमुत्पन्ने अटव्यां निर्जने तथा || महाभयसमुत्पन्ने नाशयेन्नात्र संशयः | पुनरन्यं प्रवक्ष्यामि इन्द्रजालमिदं शुभम् | स्वानकस्य शिरागृह्य कृष्णवर्णं च ग्राहयेत् || विडालपदबीजानि शिरपृष्ठं च दापयेत् | तावत् तावत् फलं गृह्य तस्य बीज सुनिक्षिपेत् || प्. ८०अ) श्वानकस्य तु रूपानि इति सत्यं न संशयः | अथमार्जाररूपं च चिल्लरूपं करिष्वते || व्याघ्र सिंहगजारूपं नान्यथा च भवेत् तनुः | पुनरन्यं प्रवक्ष्यामि वह्निस्तम्भनमुत्तमम् || गोरोचनं भृंगराजस्य मूलं खर्जुरमिस्रं सघृतं सवंद्यः | सूतेन सार्द्धमतुल प्रभं दन्तस्थितं स्तंभति पंचदिव्यम् || अस्यार्थं || गोरोचनं भृङ्गराजस्य मूलं | खर्जुरमिश्रं पिण्डखजुरः || घृतस्य पुष्पं कृशरवंद्यः | हवनशेषे मुण्डतिकं सूतं पारदम् | एतत् समस्तं खट्वाभ्यन्तरे स्थापितं गगणधूपन घटयेत् | दन्तस्थितं | मुखे उदरे क्षिप्यमुत्रपुरीषं न त्यजेत् || अयमर्थः | केन प्रकारेण अग्निस्तंभनं पंचदिव्यस्तंभयति || पुनरन्यं प्रवक्ष्यामि वश्यार्थं च वरानने | सर्पशिरं तगरजने कोष्ठ नारी मद भ्रमरस्य पक्षौ | कृष्णचतुर्दशि योजित सम्यक् आनयते || गगनादपि चन्द्रः | सर्पशीरं नखवी २ तगरखण्डं | अंजनं वना | कोष्ठं ब्रह्मस्वरूपं | भ्रमरपक्षघोणश्रोत्र रसनामलं ग्राह्यते | नारीमदंशुक्रं एवं उभयगोलकेन रुद्रेण समया प्रथमदिवशे भाजयति || प्. ८०ब्) ऊर्णादिकर्पतेन भाव्यते | समस्त ओषधी तद्बाह्ये | कृष्णचतुर्द्दशी प्रभातसमय रवि उदयनकाले पुटपाक अन्तधूमेन दह्यते || भस्मं कुमार्या पृष्टये | अर्द्धशैलेन दातव्यं गोलकेन सहितं तिलकं कार्यं यः पश्यति गगनं चन्द्रं आनयेत् || अथवा खानपानपुंस्त्री परस्परौ कार्य इत्येवं एतत् प्रयोगोन कर्त्तव्यम् | यागहोमसमन्वितं विद्याचाष्टसहस्रेण इति सत्यं न संशयः || पुनरन्यं प्रवक्ष्यामि धूपमंजनमुत्तमम् | लसुनामलकोष्ठा च कुंकुमं नागकेशरम् || आम्रपात्रवलामोटा समभागानि कारयेत् | आम्रपत्रं नागवुव्वुदी च || वलामोटारक्तं च | एष चिन्तामणिर्धूपो राजावशी भवति || वलामोटा च संगृह्यरक्तमयुर शिखास्तथा || प्रसिद्धदौ नभौ च कर्त्तव्यं दीपं दत्वा च वर्त्तते | मृतकर्पतवर्तिभ्यां तस्य वर्त्तिं अन्तर्हिताडवाद्वौ एकी कृतस्तैलं चैव तथैव च महातैलस्य रात्रौ कज्जलं ग्राह्य अदृशो भवति | ते सदा नानारूपं प्रपूज्यते खेचरत्व मुधास्थिता | योजनानां शतं गत्वा अथवा च सहस्रकम् | प्. ८१अ) मुद्रा प्रदर्शितं येन यदिशाम्यात् क्रिया भवेत् || पूर्वस्मिन्कथिता मुद्रा || पुनरन्यं प्रवक्ष्यामि रूपमत्यन्तमुत्तमम् | शुभे नक्षत्र दिवसे मासे शुभमनोहरे || गृध्रस्य तु शिरं गृह्य सर्वस्नानं च दारुणं | सर्वस्नानमध्य शिरं भाव्य || मासमेकं च || तत्र मध्ये क्षिपेन्मुण्डमासमेकं न वारयेत् | जपं चाष्टसहस्रन्तु होमं कृत्वा यथा स्थितम् || गुग्गुले नाथ गुरुणा ब्राह्मणान् पूज्यन्ते कन्या वा पूजयेत् ततः | यथा शक्त्या तु दानं च आशीर्वादं भविष्यति || वरुणमध्ये क्षिपेन्मुण्डं यावदाशं च गोचरम् | वरुणा उद्धृतं मुण्डं वाल्मीकं वालुकां न्यसेत् || भूमिशब्दे सुनिक्षिप्य बीजं कनकलं न्यसेत् || कनकफलं धुत्तुरं फलं कृष्णफलं अथ गुंजाफलं क्षिपेत् || रक्तगुंजा अथवादारिका सहकारबीजं अथवा आत्मरुच्यते अथवा रोचयेद् गुरुः | वरुणं क्षिप्यति क्षिप्य वृक्षश्चैव सुशोभनम् | यावत् तावत् फलं गृह्यति साधकः | फलं वदने क्षिप्य वदनं मुखं रूपं दर्शयते स्फुटम् | नानारूपधरा देवि सिंहव्याघ्र पशुस्तथा | अण्डजा श्वेदजाश्चैव योनिजोद्भिदजस्तथा || उद्भिदजश्च पाषाणं यथा मनसिरुच्यते || प्. ८१ब्) खेगतिर्भूगतिश्चैव यत्र ते मनसंख्यया | तत्र तत्र च सिद्ध्यन्ति इत्याह भगवां शिवः || पुनरन्यं प्रवक्ष्यामि येनदं मारयेज्जगत् | गुरु प्रसादाल्लभ्यन्ते यदि साक्षात् कृशोदरी || वनस्पति फलं गृह्य चतुर्मुखसहेन तु | वनस्पति शब्दे अटोत्कः | ते च कस्मीर देशोत्पन्नः | चतुर्मुखरौद्रो कृष्णपक्षे तु पूजयेत् | शून्यगृहे तु || मन्त्रं चान्यं प्रवक्ष्यामि येनेदं मोहितं जगत् | कुण्डलाक्षं योनि युतं अथवा दीपकेन तु || द्विधादेय च एकतः || एवं हौ हः || त्रिवर्गञ्च महामन्त्र योगिनीनां मुखे स्थितम् | एकत्र मन्त्र || हैं हूं हूंः वर्ण ३ || विष्णुरस केतो येन अर्घपात्रं वरानने || विष्णुरसकं शिवाम्बुं हृन्मार्जनं च द्रवितं वाहनं द्रवकं || तत्पृष्टे यद्दिशां गत्वा तदा हूंकारं करोति | कंदाद्द्वादशान्तन्तु द्वादशकलामाहरेत् | सूर्यस्य रविभक्तस्तु डाकिन्यो अर्घपात्रं च आहरेत् || स्फुर्यमानं च द्रविणं रावं वह्निस्म उच्यते | कंठान्ता बिन्दु संयुक्तं यावत् षोडशमं पदं | मकारादि सकारान्तं यावच्चन्द्रस्य षोडशकलां आहरेत् || चन्द्रभक्तिस्तु डाकिन्या वारुण्या वात ऊधृतम् | ब्रह्माण्डं ग्रंथितं यावत् क्षणमात्रं प्रयुंजते || प्. ८२अ) न जपं न तपं कुर्यान् मुखेन चरु दृश्यते | एवं डाकिनि मन्त्रस्तु प्रयोगमधुना शृणु || काक जंघस्य मूलानि गृध्रस्य उदरन्तथा | नेत्रं रक्तं च पित्तं च गृध्रस्य त्वचमेव च || एवं चांजनकर्तव्यं सर्वाजनवशस्य च | एकमध्यादकमेव मारयेत् त्रिदशानपि || आद्ययागविधानेन विनार्चन रते सदा | दद्याच्च रौरवे घोरे यावदा भूमि संप्लवे || तावत् क्लिश्यन्ति तत्रास्ति पश्चादनुसुजायंते | पशु संगं न कुर्वीत दीपदो अधिपात्रके || तावन्ति रौरवे घोरे अधोभागं च मन्त्रराट् | देशे देशे परिभ्रष्टो जनानामयुतं वदेत् || दुःखशोका च वहुलं कृत्वा चक्रस्य पूजनम् | पृथिव्यादीनि तीर्थानि ब्रह्माण्डं स चराचरम् || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | तस्यान्ते सर्वतृप्ताश्च आद्ययागस्य तत्फलम् || कालाग्निरुद्रपर्यन्तं शिवान्तं वा तथोपरि | सप्तद्वीपसमुद्राश्च भुवनानि चतुर्द्दश || एकास्य शिवयोगी च आद्ययागस्य तत्फलम् | ब्रह्महत्यादि नश्यन्ति गोहत्या भ्रूनहापि वा || गुरु माता पिता भ्राता बांधवाश्चैव सर्वतः | सर्वपापं प्रणश्यन्ति आद्ययागं भजेन तु || भुक्तिमुक्ति फलं तस्य सौभाग्यं धन संपदा | प्. ८२ब्) रुद्रलोके वशेन्नित्यं त्रिनेत्रो भगवान् हरः || षष्ठि कोटि सहस्राणि गवां कन्या च दीयते | अथवा अश्वमधन्तु तत्फलं आद्ययागकान् || बालुकाराशि संस्थाय शिवान्तं याव चोपरि | एकैकस्य तु मुद्धृत्य सप्तकोटिगतोपि च || तावन्त भुंजते लोकान् यावद्भूमि दिवाकरौ | तस्य ते क्षयमाप्नोति आद्ययागस्यमक्षयाम् || गुरुनिंदा च ये केचिद् येकेचिन्मन्त्र दूषकाः | पीठदूषकाश्च ये केचिद् योगिनी दूषकाश्चये || वीरनिंदाश्च ये केचिच्छिवशक्तिश्च दूषकाः | पच्यते नरके घोरे यावदा हूतभूमिका || तावन्ते रौरवे काले यावत् सादाशिवम्पदम् | इहलोके च दारिद्र्यमन्यवंश कुलक्षयम् || मज्जामदावसा अण्डा मांसं रुधिरमेव च | ते दद्याद्योगिनी मन्यां नाशयेत् सकलान्वितम् || गुरुदेवाग्नि भक्तानां मन्त्रध्यानपरायणः | तत्र तन्मध्य दातव्यमित्याज्ञा पारमेश्वरी || इति श्रीकालसंकर्षणीमते चतुर्विंशति साहस्रे प्रत्यंगिराया मालामन्त्रमातृकाविवरणप्रकरणे मुखकर्मनिर्णयं नाम टिप्पनकः समाप्तः || ओं नमः श्रीमहादेव्यै || श्रीमहादेव उवाच || शृणु देवि प्रवक्ष्यामि रहस्यं सर्वकामदम् | एकाक्षरपराह्येका मालामन्त्रा तथा परा || परा परा तृतीया तु कालसंकर्षणीति सा | विद्या त्रितय विद्ये सा उद्धरिष्यामित च्छृणु || प्रस्तरेन् मात्रिकां तत्र सर्ववाग्मयमातृकाम् | ऊर्द्धबाहुं ततोद्धृत्य तेजोमूर्द्धाधसंयुतम् || नाशायुक्तं सुपुरुषमर्द्धेन्दु शिरसांकितम् | निष्किलिकादियं विद्या सप्तकोटेश्वरीभिधा || मूर्तित्वे विन्यसेद्देवि मालामन्त्र मतः परम् | अस्मिन्तन्त्रे तु समया सिद्धिलक्ष्मी जयद्रथो || झंकार भैरवे चण्डा प्रतिज्ञा देवि डामरे | ब्रह्माद्या देवताश्चाष्टौ स्वे स्वे ध्यानासने स्थिता || माया चतुष्कले चैव प्रणवादि नमोन्तगा | श्रीमज्जयद्रथे तन्त्रे यथा वै सूचिता पुरा || शतद्वयन्तु वर्णानां नवत्यधिक संख्यया | अभेदरहिता देवि पूजिता सर्वसिद्धिदा || तृतीया संप्रवक्ष्यामि शिवाया वाचका परा | कुण्डलाख्या वह्नि युता ए बिन्दु समलंकृता || एषा तृतीया च परा परा रूपे व्यवस्थिता | विद्या तृतीयमुद्दिष्टा सर्वकर्मकरी शुभा || प्. ८४अ) न चैषा दीपके युक्ता स्वभावे नैव दीपिता | उप ध्यान पराशक्ती नादमार्गे नियोजिता || लक्षजापाद्भवेत् सिद्धि यथेष्टफलदायकः | ध्यायेद् घोरां परां भीमां रक्तकृष्ण भ्यानका || प्रेतारूढां कृषांगी च दिग्वासां विकृताननाम् | कपालोष्णीशसन्नद्धां वभ्रुवर्णांशिर्रोरुहाम् || अष्टादशभुजां भीमां पंचवक्त्रां कृशोदरीम् | नानारूपधरां देवीं नानास्त्रकरशोभिताम् || रक्त पद्मासनारूढां दूति युग्मसमन्विताम् | खिंखिनी तु शिवादूती वामदक्षिण संस्थिताम् || शिवादूती पराविद्या खिंखिनी तु निबोधमे | खिंखिनी मायया पूर्वं प्रणवादि नमोन्तगाः || मध्ये कृशोदरी देवी ध्यायते सर्वसिद्धिदा | बाहुभिः षोडशैर्युक्ता शवकर्णावलम्बिनी || वामे कपालं खट्वाङ्गं दण्डं घण्टा तथैव च | पाशं चैव तथा पद्मं खेटकं ह्यभयं तथा || दक्षिणे खड्गशूलं च अंकुशं वज्रमेव च | शक्तिं मुण्डं गदां चैव मुद्गरं वरदन्तथा || सर्वाभरणसंयुक्तां व्यालयज्ञोपवीतिनीम् | एतत् ते सकलं रूपं निःकलं शृणु पार्वति || नादरूपा तु सा देवी पिंगलो ध्वानुगामिनी | प्. ८४ब्) निर्ममांगार सदृशा शान्तामूर्द्ध प्रतिष्ठिता || सूक्ष्मादीपशिखाकारा इच्छारूपनिरंजना | सुषुम्नडानुमध्यस्था शिव तेज समुद्गता || नादयन्त्रसमारूढा शिववक्त्रानुगा परा | अनामानामकोटिभि व्याख्यातन्तु वरानने || यागं तु ईदृशं ज्ञात्वा पश्चाद् बाह्ये प्रपूजयेत् | वश्ये तु ध्यायते रक्ता शितसिन्दुर सुप्रभा || कपोताभा तु वाधिर्ये रक्ताशुक्ला तु मोहने | विद्वेषहरिता देवि उच्चाटे काकसंनिभा || नानाकर्मकरी देवी भुक्तिमुक्तिफलप्रदा | मुद्रा चात्रप्रवक्ष्यामि सर्वभूतभयंकरी || जपान्ते तु स्मरेद् घोरां रूपमन्त्रमनुस्मरेत् | अधोकरपुटं कृत्वा मुखाग्रे च प्रतिष्ठिता || कनीयाधोत्र तां कृत्वा तर्जन्यामोष्ठयोरुभौ | जिह्वामुखे मुहुर्भ्राम्य मुद्रेशा विकृतानना || एषामुद्रा महीवीरा वीराणां सिद्धिदा परा | विवरान्ते च यत्क्रुद्धं यदि सम्यक्क्रमाज्जपेत् || विद्वेषमारणे शान्ति आकर्षे पौष्ठिके तथा | पंचवक्त्र व योगेन षडंगं न्यास योगतः || न्यस्तमात्रान्महासिद्धिर्भूतल संप्रवर्त्तते | मालामन्त्रे तु देवेशि मूचिता न प्रकाशिता || प्. ८५अ) भैरवाद्या महामन्त्राः शिवाद्यागारुडात्मिकाः | गुडिकांजनकंधूपं इन्द्रजालादि शम्बरम् || स्थूलसूक्ष्म स्थिता ऋद्धि भुक्ते शिव पुरं व्रजेत् | एतत् तत्परमं गुह्यमेतत् तत् परमं पदम् || एतत् तत्परमंधाममेतत् तत् परमाद्भुतम् | सरहस्यं महाज्ञानं गोपनीयं प्रयत्नतः || अन्यथा दधते यस्तु अन्यथा गृह्यते तु यः | उभयोर्न्नरकं यान्ति यावदा चंद्रतारकाः || तस्मात् परीक्ष्यदातव्यं स्वशिष्याय च पार्वति | नास्तिके च खले मूर्खे प्रमत्ते विप्लुतेऽलसे || गुरुशास्त्र सदाचारे दूषके कलह प्रिये | निन्दके चुम्बके क्षुद्रे समयघ्नेथदांभिके || दाक्षिण्यरहिते पापधर्महीनेथ गर्विते | पशूनां सन्निधौ देविनोच्चार्या नैव दीयते || इति श्रीकुलडामरे सिद्धलक्ष्मीविद्यात्रितयं सांक्षेपतः संपूर्णम् || ओं || अथान्यं संप्रवक्ष्यामि विद्या सर्वार्थसाधनी | पत्तिंगिरि समुद्धृत्य महाराजे ह्यतः परम् || महाशंखन्ततो दत्वा दि उषाने तथैव च | हदुमुण्डं ततो योज्यमचालिनि पदन्ततः || ज्ञामहेकारि दत्वा तु कारामि पदमुत्तमम् | विवि आवि तथा योज्य अन्थि हन्थि पदन्तथा || परमंथि स एहंथि जोगिभौरि तथैव च | मनो च कर्मणि पदं ताहि पत्तिं गिरे पुनः || निवर्जि च तथा सन्थि नवार्णा द्वय दीपिता | सप्ताशीत्यक्षरा विद्या वागीशीनां मुखे स्थिता || अशरीर परावाणी श्रुत्वा पद्मोद्भवेन तु | नारदेन ततः प्राप्ता सस्फुरा सर्वकामदा || नारदात् सिद्धि संघैस्तु प्राप्ताभूमावतारिता | वक्रा वक्रक्रमेव पारंपर्य क्रमे स्थिता || इति श्रीमहाकुल्लालिके प्राकृत सिद्धलक्ष्मी विद्या समाप्तः || ओं नमः श्रीकाल सङ्कर्षण्यै || श्री ईश्वर उवाच || एं ख्फ्रें नमोस्तुते महामाये देहातीते निरंजने | प्रत्यंगिरा जगद्धात्रि राजलक्ष्मी नमोस्तु ते || वर्णदेहा महागौरी साधकेच्छा प्रवर्त्तते | पददेहामहास्फार परासिद्धि समुत्थिता || तत्वदेहा स्थिता देवि साधकान् ग्रहा स्मृता | प्. ८६अ) महाकुण्डलिनी भित्वा सहस्रदलभेदिनी || इडापिङ्गल मध्यस्था वायुभूता खगामिनी | मृणालतन्तु रूपिण्या सुषूम्ना मध्यचारिणी || नादाकेनादसंस्थना नादातीता निरंजनी | स्थूल वृहति संपूज्ये अचिन्त्याचिन्त्य विग्रहे || परापर परे शान्ते ब्रह्मलीने परे शिवे | अचिन्त्यरूपचरिते अचिन्त्यर्थफलप्रदे || एकाकिनी विश्वमाता करवीर निवासिनी | महास्फार प्रदानित्या महामेलापकारिणी || बिन्दुमध्यलया देवी कुटिलार्द्धति चंद्रिके | द्वादशान्तालया देवी षोडशाधार वासिनी || कार्यकारणसंभिन्ने चैतन्या नाडि मध्यगा | शक्तिमूले महाचक्रे नवधा संव्यवस्थिता || अशरीर परा देवी शरीरे प्राणरूपिणी | सुधाद्रव समाकारा ओंकार परविग्रहा || विद्युल्लता निभादेवी भावाभावविवर्जिता | खान्तपद्मस्थिता नित्या परेशी शान्तविग्रहा || सत्वरूपा रजोरूपा तमोरूपात्रयात्मिका | त्वमेव देवी सर्वेषां भूतानां प्राणदायिनी || त्वमेव सृज्यते विश्वं लीलया वहुधा स्थिता | मालिनी परमा देवी श्मशान पद वंधनी || प्. ८६ब्) हृन्नाभिभेदिनी सर्व चक्र विच्चक्रसुंदरी | बिंदुद्वारनिरोधेन दिव्यव्याप्ता नमोस्तुते || सूर्यकोटिप्रतीकाशे चंद्रकोट्याति निर्मले | कंदर्पकोटिलावश्ये कोटि ब्रह्माण्ड विग्रहे || निराकाशे निराभाशे निर्लपे निरवग्रहे | सकलाख्यमहामाय वरदे सुरपूजिते || खकार फकार वह्निस्थ एकारान्तरे सुंदरि | मकारान्तरवर्गेषु पंचपिण्डात्मके शिवे || सर्प्पवत्कुण्डलाकार नादशक्ति परतमे | बिंदुमध्ये स्थिता देवी जालंधरव्यवस्थिता || तुर्यवैतूर्यपीठस्थे पूर्णपीठ व्यवस्थिते | कामस्थे च कलातीते काम्याख्या च भगोद्भवे || ब्रह्मग्रंथिकलाटोप मध्यश्रोत प्रवाहिनी | शिवसर्वगते सूक्ष्मे नित्यानंद महोत्सवे || मन्त्रनायिकि मन्त्रज्ञे चिच्च कोणान्तवासिनी | पंचपीठलयानित्या मेरुनायकि सुर्वरी || खेचरी भूचरी चैव शक्तित्रय प्रवाहिनी | कालान्ताग्नि समुद्भूत कालकालान्तकालिनी || कालिकाक्रमसंबन्धि कालिद्वादशमण्डल | त्रैलोक्यदहनी देवी सा च मूर्तित्रयोदशी || सृष्टिस्थिति च संहार अनाख्याख्य महाक्रमे | भासा श्री गुह्यकाली च निर्वाणेशीनिशेश्वरी || प्. ८७अ) झंकारिणी भैरवी च स्वर्णकोटेश्वरी शिवा | राजराजेश्वरी चण्डा अघोरेशी निशेश्वरी || सुंदरी त्रिपुरा उग्रातारा पूर्णेश्वरी जया | क्रममण्डल मध्यस्था क्रमेशी कुब्जिकाम्बिका || ज्येष्ठवालविभेदेन कुजाख्या उग्रचण्डिका | ब्राह्मी रौद्री च कौमारी वैष्णवी दीर्घनाशिका || वज्रिणी चर्चिका लक्ष्मी पूजयेद् दिव्यमातरा | असितांगोरुरुचण्ड क्रोधीशोन्मत्त संज्ञकम् || कपाली भीषणाख्या च संहारश्चाष्टमस्तथा | भक्तानां साधकानां च सिद्धिलक्ष्मीं प्रयच्छति || प्रत्यंगिरा सिद्धिलक्ष्मीर्भैरवेन प्रकीर्तिता | भक्तानां साधकानां च लक्ष्मीसिद्धिं प्रयच्छति || साधको द्वेष्टिकानां च सर्वकर्माणि भंजनी | विपरीतकरी देवी प्रत्यंगिरा नमोस्तुते || कालादिग्रसते सर्वं ग्रहभूतादि डाकिनीम् | साधकं रक्षते देवी कालसंकर्षणीन्नमः || शिवं प्रयच्छते देवी रक्षते लीलया जगत् | प्रत्यंगिरां नमस्यामिह्य चिन्तितानिसिद्धिदाम् || राज्यलाभप्रदां देवीं राज्येशीं भक्तवत्सलाम् | प्रत्यगिरां नमस्यामि अचिन्तितानि सिद्धय || प्. ८७) सर्वशत्रुप्रमर्द्दन्ती दुरिता क्लेशनाशिनीम् | प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् || आपदार्णवतारन्तीं परं निर्वाणदायिनीम् | प्रत्यंगिरां नमस्यामि चण्डकापालिनीं शिवाम् || राज्यदां धनदां लक्ष्मीं ग्रहदोषविनाशिनीम् | प्रत्यंगिरां महालक्ष्मीं चण्डकालीं नमाम्यहम् || दुष्टशत्रु प्रमर्द्दन्तीं दुष्टग्रहविनाशिनीम् | प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मी जयप्रदाम् || कलिदुःस्वप्नशमनीं महोत्पातविनाशिनीम् | प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् || अचिन्तितार्थदां धात्रीं चिन्तितार्थ फलप्रदाम् | प्रत्यंगिरां नमस्यामि अचिन्तितार्थ सिद्धये || राज्योपसर्गसमनीं महापद्रवनाशिनीम् | प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् || राजमातां राजलक्ष्मीं राजेष्टफलदायिनीम् | प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मी जयप्रदाम् || सिद्धिलक्ष्मी महाविद्या महासिद्धि प्रदायिका | पठेद्वा पाठयेद्वापि स्तोत्रं प्रत्यंगिराभिदम् || पठनाच्छग्रसैन्यानां स्तंभयेद् भंजयेत् क्षणात् | अचिन्तितानि सर्वाणि पठनात् सिद्धिमाप्नुयात् || प्. ८८अ) महादोषप्रशमनं महाव्याधि विनाशनम् | सिंहव्याघ्र ग्रहभयं सर्वशत्रुविनाशनम् || ग्रहपीडा जलाग्नीनां नाशनं देवि शान्तिदम् | पूजाकाल महास्तोत्रं ये पठिष्यन्ति साधकाः || तेषां सिद्धिं न दूरस्ति देव्याः संतुष्टिदायकम् | यन्नास्ति तन्न सिद्धिस्यात् कौलिके कुलसाधके || यं यं चिन्तयते कामं तं तं सिद्ध्यति नान्यथा | सत्यं सत्यं महादेवि कौलिके तत् समान हि || अर्द्धरात्रे समुत्थाय दीपप्रज्वलिते निशि | पठ्यते स्तोत्रमेतत्तु सर्वं चिन्तित सिद्धिदम् || पुरश्चर्या विनेनैव स्तोत्र मात्रेण सिद्ध्यते | मण्डले प्रतिमाग्रे वा मण्डलाग्रे पठेद् यदि || इदं महास्तवं प्रोक्तमचिन्तितार्थ सिद्धिदम् | नान्य देवरतानान्तु न देयन्तु कदाचन || दातव्यं भक्तियुक्ताय कुलदीक्षारताय च | अन्यथा पुतनां यान्ति इत्याज्ञा पारमेश्वरी || इति श्रीत्रिदशडामरे प्रत्यंगिरा देव्या महास्तवाधिकारम् || संवत् ७३८ थ्वदं श्री ३ भवानीशंकरप्रीतिन श्रीकालीदास न संचययाहा || उमेश प्रींतयेतन्त्रा कालीदासेन संचितम् || ओं नमः शिवायै || श्रीभैरव उवाच || निवसति करवीरे सर्वदाया श्मसाने विनतजनहिताया प्रेतरूढे महेशो हि मकर हिमशुभ्रां पंचवक्त्राममाद्यांदिशतुदशभुजाया सा श्रियं सिद्धिलक्ष्मीः || ऐं ख्फ्रें जयजयजगदम्ब प्रणतहरिहर हिरण्यगर्भ प्रमुख सुरमुकुटमन्दार मालापरिमलदति पटल वचाल चरण पुण्डलीकेषु पुण्डरीकाक्ष प्रमुखकरकम्बु विमलमंदाकिनी सरदेन्दु कुंदारबिन्दसंदोह सुन्दरशरीरप्रभे जयजयमहाकालिकालनाशिनी समयचक्र मेलापकाशिनि सिद्धिगणयोगिनी वीरविद्याधरीजन निकरमुनिनिकुरुम्बनी तुम्बिनी कदंब किं नरैरवाराध्यमाने करालो विधाने सिद्धलक्ष्मी प्रदे विरूपाक्ष चक्षुसंविसे वा नन्दरसदायिके त्रिभुवननायिके स्फुरदनर्घमणिमुक्तबली कलापमध्यस्थिता चक्षुश्रवाभरण झणझणायमानतरुवल्लरी वहलप्रभापटलपाटलीकृत सकल दिग्मण्डलगण्डस्थ लोल्लसित रविशशिकुण्डले समुन्नत पीत कठिन कुच कलश युगलान्तनुवाललु | प्. ८९) लितनरमुण्डावली मण्डिते चण्डिरुधिर पान प्रमत्ते प्रेतकल कलोत्ताल वेतालकरतालिका ताण्डवनताडवा प्रमुखा नट डाकिनी चक्रचंक्रमन चकितविताय चमत्कारं विस्फुरित पिशाच प्रलयचित्कारध्वनि मुखरकनवीरश्मशानाधिवासिनी रुद्रस्कंधाढि रूढे षडाधारमध्यारबिन्द मन्दिरोदराकुंचनोन्नित प्रसुप्तभुजगा गमनायमान कुलकुण्डलनी शक्ति प्रभा प्रदीपिका सुख मनासवलेरिगमदाकाश शशिमण्डलामृत धाराधोरणी पयोनिधि गमन मानसैरुदित हसैरखिल साधकैरविविभाव्यते मात्रिका चक्र संभाविते मृगाङ्क कुंकुमागुरु मृगमदांगरागपरिमल्लवासिता वासमणिमण्डपे खण्डिन्दु मण्डितोरुजटाजलापकलित करवीरोदारकरहार कनक केतकी नवमालिका ततालिका मदयन्तिका माधवी विविधगंधबंधुरगन्धवाह वहलदरुणसवनाचले ध्यानाकार चकितत्रिनयना चले ओं जय जय जगत जननि जय || ख्फ्रें जय जय एं नवाक्षरी नवत्यधिक दिशताक्षरमन्त्रमालाधि दैवते कालिकात्यायिनि कापालिनि नररुधिरवशापिशित परिपूर्णकपाल करवाल त्रिशूल खट्वांग घण्टामुण्डपाशांकुशवराभयशोभित करेसु करे वद्धवीरासने सिद्धेश्वरि सिद्धविद्याधरांरगेन्द्र ध्यायमानांघ्रि वलये शाम्भवा वेशविभवे देवदेवि महादेवि अनाख्ये उमाख्ये सदापूर्णिमाख्ये लसत्तारकाख्ये अकाराक्षरोदरोस्फुरदम्बराकारे महाव्योम्नि व्योमवामेश्वरी कुब्जिके क्षेचरी गोचरी दिक्चरी शाम्बरी शक्ति चक्रक्रियेच्छाज्ञानरूपगुणातीत नित्योमृते नित्यभोग प्रदे संध्या नवशानसमये लास्यलीलाविलासे टटमहानट जटाजूटापगारि रसदलंकार सकलकाव्यकला कलाप वहलधीत्रिगुण प्रबंध विविधबंधु सुन्दरकविता सिद्धिदे रिद्धिदे बुद्धिदे ज्ञानदे मानदे सारदे षोडशाक्षरी षट्तुलिकलित कुसुमपरिमलमिलितमधुकर मुखपुरिनपरिसर विपिनमण्डली ताण्डवितकुण्डली विपक्षपक्ष ########### END OF FILE #######