#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00669 Uniform title: tripurāsārasamuccaya Author : nāgabhaṭṭa Editor : govindācāryya Description: Copied from archive.org https://archive.org/download/in.ernet.dli.2015.345058/2015.345058.Tripurasara-Samuchchya.pdf Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: September 22, 2024 Diplomatic transcription Publisher : jīānandavidyāsāgarabhaṭṭacāryya Publication year : Pre-1900 Publication city : Calcutta Publication country : India #################################################### त्रिपुरासारसमुच्चयः [तन्त्रशास्त्रम् ] श्रीनागभट्टविरचितः| श्रीगोविन्दाचार्ययकृतव्याख्यया समलङ्कृतः| पण्डितकुलपतिना, वि , ए उपाधिधारिणा श्रीजीवानन्दविद्यासागरभट्टचार्ययेण संस्कृतः प्रकाशितश्च| द्वितीयसंस्करणम्| कालिकातानगरे कलिकाता यन्त्रे मुद्रितः| इं १८९७| त्रिपुरासारसमुच्चयः| प्रथमः पटलः| प्रह्वप्राचीनवर्हिः प्रमुखसुरवरानीककोटीकरोटिश्लिष्टस्पष्टेन्ट्र नीलामलमणि मधुपश्रेणिजुष्टं कृषीष्ट | श्रीपादाम्भोजयुग्मं नखमुंखविलसद्रश्मिकिञ्जल्कपुञ्जम् शिञ्जम्भञ्जीरहंससीमुखरितमनिशं मङ्गलं वो भवान्याः|| १|| नत्वा शङ्कर चरणं श्रीमद्गीविन्दशर्मणा| त्रिपुरासारटीकेयं रच्यते सारदृश्वना|| तस्यै दिशे सततमञ्जलिरेष पौष्पः प्रक्षिप्यते मुखरिती मधुरैर्द्विरेफैः| जागर्त्ति यत्र भगवान् गुरुचक्रवर्त्ती विश्वीदयप्रणनाटक सूत्रधारः|| श्रीमद्रगुरुपरमेश्वरपदारविन्द प्रणिहित भक्तिभरावनम्र शिरसा परमाचार्यय परस्परप्रसादलब्धविज्ञानेन सर्वागमपारावारपारगतेन विज्ञानदैशिकेनाचार्यय नागभट्ठेन विरचितस्य त्रिपुरासारसमुच्चयस्य सम्प्रदायदीपिका व्याख्या आरभ्यते | तत्र सदाचार नुमितश्रुतिबोधनं परदेवतास्मरणपूर्वकमाशीर्लक्षणं शिष्यशिक्षार्थ निबध्नन्नाह प्रह्वप्राचीन वर्हिरित्यादि| भवान्याः श्रीपादाम्भोजयुग्मं वो युष्माकं मङ्गलं कृषीष्ट करोतु| कीदृशं प्रह्व प्राचीन वर्हिः प्रमुख सुरवरानीक कोटीर कोटिश्लिष्ट स्पष्टेन्द्र नीलामल मणि मधु पश्रेणी जुष्टं प्राचीन वर्हिः प्राच्यधिपस्तत् प्रमुखास्तत् प्रधाना ये प्रह्वा नम्री भूता ये देवश्रेष्ठास्तेषां यः समूहः तस्य मुकुटसम्बन्धी व्यक्ती भूतो यः इन्द्र नीलामलमणिः स एव भ्रमरः तस्य पंक्त्या श्रेण्या युक्तम् | अम्भोजद्योतनमाह नख मुखेत्यादि | नखानां मुखे विलसत् यट्रश्मि तदेव किञ्जल्कसमूहो यस्य तादृशम् | पुनः कीदृशं शिञ्जन्मञ्जीरंहंसीमुखरितं शब्दायमानस || १|| पृ० २) भक्त्या गुरोर्भवपयोनिधिसेतुहेतून् श्रीपादपद्मयुगरेणु कणान् प्रणम्य| लम्बोदरञ्च कथयामि गुरूपदिष्ट माराधनक्रममहं कुलनायिकायाः|| २|| स्नात्वा यथाविधि विधौतकराननाङ्घिः आचम्य सम्यगमलाम्बरयज्ञ सूत्रः | प्रागाननो धनददिग्वदनोऽथ वापि बद्धासनो गणपतिञ्च गुरुञ्च नत्वा|| ३|| संयोज्य जीवमथ दुर्गम मध्यनाड़ईमार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे| हंसेन देहममरेन्द्र पुरोगतेन सार्द्वेन्दुना भसितसाद विदधीत मन्त्रो || ४|| पृ० ३) सास्यादिनाथ मरुताऽपनयन्नशेषम् तद् भस्म राशिम खिलं भुवनं सकेन | संप्लावयन् बलभिदा परिचिन्तयेत् स्वमात्मानमम्भसि घटेन सविन्दुकेन || ५|| ततो वृहद् बुद् बुद मध्य वर्त्तिस्फु रत्प्रभामण्डलमण्ल भाजम्| ध्यात्वा तदन्तर्भुवनान्य मूनि विचिन्तयेद् भूतल मेतदन्तः|| ६|| स्मितप्रसवशोभितं नवमनिन्द्यगन्धोत्कटम् कदम्ब वन मुच्चकैरिह समन्ततश्चिन्तयेत् | तदन्तरपि मण्डितं.मणिगणैर्महामण्डपम् हिरण्मय मुपाञ्चितं द्युमणिमण्डलाभप्रभम्| ७| चतुर्द्वारोपेतं मणिमय चतुस्तोरणयुतम् स्फु रत्तारानाथद्युतिसितवितानाङ्कमुपरि| इष्टदेवतां नमस्कृत्य गुरुनमस्कारमाह भक्त्या इति | गुरोः पादपद्मरेणुकणान् प्रणम्य लम्बोदरञ्च प्रणम्य कुलनायिकाया आराधनविधिं कथयामि| कीदृशान् तान् संसार एव पयोनिधिर्दुस्तरत्वात् तदुत्तरणे सेतुहेतून् लीलातरणहेतून| आराधनक्रमं कीदृशं गुरुणोपदिष्टं विना आगमज्ञानानर्थक्यप्रसङ्गात्| तस्माद् गुरुदेवतयोरैक्यं कर्त्तव्यम्| तदुक्तं यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ| तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन इति || २|| गुरुदेवतादि नमस्कृत्य उपासनाप्रकारमाह स्नात्वेत्ति| नद्यादौ यथाविधि स्नात्वा सन्ध्यावन्दनादिकं कृत्वा यथाविधि आचम्य प्रकृष्टनिर्मलयज्ञसूत्रःसन् पूर्वाभिमुखः यथायोग्यं मृद्वासने स्वस्तिकासने वा उपविश्य वामे गुरुं दक्षिणे गणेशं मध्ये इष्टदेवतां नत्वा वक्ष्यमाणभूतशुद्धि विदश्वीत| दुर्गममध्यनाड़ई मार्गेण सुषुम्नान्तर्वर्त्तिना चित्रामार्गेण पुस्करनिविष्टाशिवे सहस्त्रदल कमलकूटस्थ परमात्मनि जीवं जीवात्मानं संयोज्य छत्र ग्रन्धान्तर स्वर सवशाज्वतुर्विशति तत्वान्यपि तत्र नयेत| हंसेन हंस इति मन्त्रेण अमरेन्द्र पुरोगतेन सार्द्वेन्दुना अमरेन्द्रो लकारः तत् पुरोगतोरेफः द्मर्ड्वेन्दुर्विन्दुस्तेन रमिति मन्त्रेण स्वकं स्वशरीरं भसितसात् भस्मसात् कुर्ययात् भस्मीभूतं स्वशरीरमिति चिन्तयेदित्यर्थः|| ३|| ४|| सास्यादिनाथ मरुतेति| सास्यं विसर्जनीयस्तस्यादिर्विन्दुः मरुत् यकारः तेन यमिति वायुवौजेन भस्मराशिं निराकुर्वन् सानुस्वारेण बलभिद्वीजेन लकारेण सकलं भुवनं प्तावितं कुर्वन् स्वमात्मानं अमृतमयाम्भसि सानुस्वारेण घटेन चिन्तयेत्| घटशब्देनाधिष्ठान लक्षणया जलं लक्षितम्| तेन च तद्वीजेन वकारेण सानुस्वारेणामृतमयाम्भसि आत्मानं ध्यायेदित्यर्थः|| ५|| तत् इति | तदनन्तरं तज्जलवेगमध्यवर्त्ति स्फुरद्दीप्तिसमूहं ब्रह्मण्डं ध्यायेत्| तदभ्यन्तरे चतुर्दश भुवनानि तेषामध्यन्तरे भूमितलं विचिन्त्य तन्मध्ये कदम्बवनं चिन्तयेत्| कीदृशं कदम्बवनं प्रकाशकुसुमशोभितं नवं नूतनम् अनिन्द्यगन्धोस्कटं स्पृहणीय सौरभशालि सर्वतो महत्कदम्बवनं तद्वनाभ्यन्तरे मणिभिर्भूषितं सौवर्ण महामण्डपं सूर्ययमण्डलाभदीप्तं चिन्तयेत् || ६|| ७|| कीदृशं चतुर्द्वारैर्युक्तं मणिमयैश्वतुर्भिस्तीरणैः सहितम् | स्फुरन्ती या शशि पृ० ४) स्थितौ द्वारे द्वारे रुचिरमणिमाल्याम्बरधरो गणेशक्षेत्रेशौ च सपरिकरौ यस्य महितौ|| ८|| पूर्वद्वारि सवाहनं हरिहयं तस्यैव याम्ये यमम् पाश्चात्ये वरुणं तथैव तदुदग्द्वारे कुवेरं स्थितम्| सङ्गीतादिरतैस्त दन्तरमरस्त्रीणां गणैराकुलम् ध्यायेत् सम्यगनाकुलेन मनसा गन्धर्व मुख्यैरपि|| ९|| तस्य मध्यगतसिंहविष्टरे पद्म मष्टदलशोभितं ततः| उद्यदुष्णकरमण्डलोज्जवलं चिन्तयेदरुणचारुकेशरम्|| १०|| तत्कर्णिकोपरि कपञ्जममम्बुतुर्यय युक्तं मनुस्वरतदन्तयुतं विधाय| प्रेतं धिया तदुपरि त्रिदशेन्द्रवन्द्याम् ध्यायेत्रिलोक जननीं दयितां पुरारेः|| ११|| पृ० ५) सुरुचिरनासिकां सुनयनां सुकपोलतलामरुण जटाकलापकलितामलचन्द्रकलाम् | विलसदष्टमीन्दुकमनोय ललाट तदाम् परिणत शारदेन्दुरुचिरानन पङ्करुहाम्|| १२|| बन्धूकारुण कान्तिदन्त वसना मुत्तुङ्गवृत्तस्तनीम् युक्तां बालमृणालनाल ललितैर्भव्यैश्चतुर्भिर्भुजैः | तत्कालस्मित पद्म पत्र विलसन्नेत्रत्रयोद्भासिताम् ताराधीशदिनेश कुण्डल धरामुल्लासिचिल्लीलतीम् || १३|| वलित्रयोद्भासित दीनमध्यां प्रदक्षिणावर्त्त गभौरनाभीम् | कस्तुरिकाकर्द मलेखयेव विराजमानामपि रोमराज्या|| १४|| स्मित नव बन्धुजीव कुसुमारुण सद्वसनाम् मणिमयरसनाकलाप कलितोरुनितम्बतटाम्| करिकरपौवरोरुयुगलां वरहंसगतिम् चरण तल प्रभाविजित पङ्कज गर्भदलाम् || १५|| दीप्तिस्तद्वत् सितेन वितानेनीपरि चिद्नं यस्य मण्डपस्य तम् | प्रतिद्वारं सपरिवारौ गणेशक्षेत्रपालौ स्थिताविति चिन्तयेत् || ८|| पूर्वेति | तस्य मण्डपस्य पूर्वद्वारि ऐरावत सहित मिन्द्रं ध्यायेत्| दक्षिणद्वारि महिष सहितं यमम्| पश्चिमद्वारि मकर सहितं बरुणम् | उत्तरद्वारि नरयानं कुवेरं ध्यायेत् | सवाहनानुकर्षि सकलान्वयि यदभ्यन्तरं नृत्यादिरतैः अमरस्त्री समूहैः व्याप्तं चिन्तयेत्| गन्धर्व कुलैर प्याकुलं चिन्तयेत्|| ९|| तस्येति| तस्य मण्डपस्य मध्यस्थितसिंहासने अष्टदलपद्मं चिन्ययेत् | कीदृशं पद्मं प्रातः कालीनसूर्यय विम्बतुल्यम् अरुणमित्यर्थः तथा अरुणं लोहितं मनोहारि च किञ्जल्कं यस्य|| १०|| तदिति | तस्याष्टदल कर्णिकाया उपरि हेसौं इत्यासमवीजं विधाय तदुड्वारण प्रकारमाह कं जलं तद्वीजं वकारः तत्पञ्चमी हकारः अम्बु रकारः तत्तुर्थ्यः सकारः तेन युक्तं मनवश्चतुर्दश तदुपलक्षित संख्यकस्वर औकारः तदन्तः द्यङ्कारः ताभ्यो युक्तम् एतावता हेसौं इति भवति| एतदेवासनवीजं देव्याः तदुपरि प्रेसं शिवरुपं विचिन्त्य तस्योपरि त्रिलोकमातरं हरवल्लभां ध्यायेत् || ११|| ध्येय देवो स्वरुपमाह सुरुचिरेत्यादि | अरुण जटासमूह निबद्ध चन्द्र षोड़श भागां तथा प्रदक्षिणा वर्त्तग भीरनाभीं प्रदक्षिण आवर्त्तः भूमिर्यस्याः तादृश्या नाभ्या युक्तं कस्तुरिका कर्दम रेखा तुल्यया रोमराज्या युक्तं स्मित नव बन्धूक कुसुमारुण सद्वसनां विकसितबन्धूक कुसुमारुणवस्त्रां मणिमयरसना कलाप कलितीरुनितम्बतटां मणिमयक्षुद्रघण्टिकासम्बन्ध कटिदेणं करिकरपीवरीरुहस्त युगलां हस्तिस्थूलहस्तजघनां चरण तल प्रभाविजि तपङ्क जगर्भदलां गर्भोऽभ्यन्तरं प्रणतपुरन्दर प्रमुखलंखनिकायलसन्मणि मुकुट प्रभापटल पाटलिताङ्घि युगां | नम्री भूतेन्द्रोप क्रम देव समूह दीप्यन्मणि मुकुट दीप्ति समूह श्वेतरक्त पदद्वयां मणीनां नानाविधत्वादीप्तेः पाटलत्वम् | मुरुचिरेति| अतिमनोछारि सध्याकालीनाम्बु ददीप्ति समूहजुषा सेवितेन निजतनु तेजसा स्वशरीर तेजसा कवलितं व्याप्तं दिग्वलयञ्ज यया ताम्| दिव्याम्बु बाहेति दिव्यमेघ समूहोदरनिर्गतैर्मुक्ताफलैर्विरचितां रुचिरां मनोहारिणीं एकावलीम् | को मस्तकस्तस्यान्ते गले बहन्तों अथवा कान्ते कमनीये गले| पाशङ्कशे ऊर्ड्ववामदक्ष हस्ताभ्यां वराभये अधः- कराभ्यां दधानाम्| रत्न प्रकाण्ड रचिताभरणीरामां रत्न प्रकाण्डं रत्न श्रेष्ठस्तेन पृ० ६) प्रणतपुरन्दरप्रमुखलेख निकायसन् मणि मुकुट प्रभापटल पाटलिताङ्घि युगाम्| सुरुचिर सान्ध्या वारिधर कान्ति कला पजुषा निज तनु तेजसा कवलिताम्बर दिग्बलयाम्|| १६|| दिव्याम्बु वाहनिवहोदरमुक्तवृत्त मुक्ताफलौर्विरचितां रुचिरां वहन्तीम्| एकावलीममल कोमल कान्ति युक्ताम् कान्ते गले च हरिचन्दन लिप्तगात्राम्|| १७|| पाशाङ्कुशाभयवरोद्यतपाणिपद्माम् रत्न प्रकाण्डरचिताभरणाभिरामाम्| स्प्नेराननां रुचिरदन्तमरीचिवीचि धौतारुणा धरदलां सुरवृन्द वन्द्याम्|| १८|| स्वैक्येन त्रिभुवनमातरं मृड़आनीम् ध्यात्वैवं निजकुलकामधेनुमेनाम्| हृत्पद्मं पुनरपि जीवमानयेत् स्वम् आकाशाम्भोरुह कुटीर निविष्टहंसात् || १९|| इति श्रीनागभट्टविरचिते त्रिपुरासारसमुच्चये प्रथमः पटलः|| रचितानि यान्याभरणानि तैरभिरामां मनीहराम् | रुचिरदन्तमरीचिवीचिधौतारुणा धरदलां रुचिरा मनोहरा ये दन्तानां मरीचयो रश्मयस्तेषां वीचिभिस्तरङ्गरुपैर्धौतं निर्मलीकृतम् अरुणाधरपल्लवं यस्याः ताम् | सुरवृन्दैर्देववृन्दैर्वन्द्यां सेविताम्|| स्वैक्येनेति एनां त्रिभुवन जननीं भवानीं स्वैक्येन आत्मैक्येन विचिन्त्य पुनरपि जीवात्मानम् आकाश पद्मकुटीरनिविष्ट परमात्मनः सकाशात् स्वीयं हृत्कमलम् धानयेत् | हंस इति मन्त्रेण चतुर्विशति तत्वान्यपि स्वं स्वं स्थानं नयेत् इत्यन्य ग्रन्ध स्वरसात्| इति भूतशुद्धिः|| १२- १९|| द्वितीयः पटलः| अङ्गुष्ठादिकनिष्ठिका वधिकर द्वन्द्वाङ्गुलीषु न्यसेत् वाणान् षञ्च गुरूपदिष्ट विधिना ब्रूमो वयं तानिह| अद्रीशो मुखवृत्तवह्नि सहित स्त्वाद्यं सदण्डस्त्रि मूर्त्त्याक्रान्ताननवृत्तमेव खलु तद्वीजं द्वितीयं भवेत् || १|| मुखान्तस्थितं देवराजाधिरूढ़ं सवामेक्षणं वक्त्रपूर्वेण युक्तम्| भपूर्वं सवृत्रारिषष्ठ स्वरार्द्वक्षपेशं कतुर्ययं कपूर्वेण युक्तम्|| २|| न्यस्याङ्गान्यपि चाङ्गुलीषु करयोः स्थित्या कलान्यासकम् कुर्ययात् साधक पुङ्गवो भगपंरं माया कुलान्तं क्रमात्| वीजानां त्रयमर्द्ध चन्द्र सहितं विन्यस्य मूर्ध्नि स्वके सानन्तं मुखवृत्तके कगतकं संवर्त्त कं विन्यसेत|| ३|| एवं भूतशुद्धिं विधाय परदेवतास्वरुपमात्मानं बुद्धा वक्ष्यमाणं न्यासजालं विदधते इत्याह अङ्गुष्ठेत्यादिना| अङ्गुष्ठोपक्रमकं कनिष्ठान्तं हस्तद्वयाङ्गु लीषु वाणान् न्यसेत्| ते च द्रावणक्षीभणवशीकरण मारण मोहनाः पञ्च वाणाः तेषां वीजान्याह क्रमशः | अद्रीश इति | अद्रीशोदकारः मुखवृन्तः न्यस्त व्याकारः वह्नीरेफः ताभ्याः सहितोऽद्रीश आद्यं वीजं भवेत् सदण्डः सानुस्वारः तेन ट्रामिति वीजं भवति तदेव वीजं त्रिमूर्त्त्या ईकारेण आक्रान्तम् अनेन स्थानं यस्य तत् द्वितीयवीजं भवति एतावता द्रीमिति भवति || १|| तृतीय वीजमुड्वरति मुखेति | मुखे न्यस्तत इति मुखं विसर्गः तदन्तः ककारः तदु़ड्वरेत| कीदृशं देवराज इन्द्रः तद्वीजं लकारः तदुपरि स्थितं वामचक्षुषि न्यस्यते इकारः तत् सहितं वक्ते न्यस्यते यो विसर्गः तत् पूर्वो विन्दुः तेन युक्तम् एतावता कीमिति वीजं भवति| चतुर्थ मुद्धरति भपूर्वो वकारः वृत्रारिणा लकारेण षष्ठस्वर ऊकारस्वेन च सहितम् एतावता ल्वूमिति वीजं भवति| पञ्चम वीज मुद्धरति कं जलं तद्वीजं वकारः तत्तुरीयः सकारः ककारपूर्वो विसर्गः तेन सहितम् एतावता स इति भवति| सर्वत्र वीजं भवेदित्यनुषङ्गः|| २|| न्यस्येति| स्थितिन्यासोक्तविधिना उभयकराङ्गुलीषु करतलयोश्य विन्यसेन | पृ० ८) सूक्ष्मादींश्चतुरो युगे नयनयो र्न्यस्येत्ततः श्रोत्रयोः सार्द्धेन्दुन् स्वकपोलयोर्भृ गुयुगं घ्राणद्वयेनान्वितम् | चन्द्रार्द्धाङ्कितमस्तकञ्च चिवुके श्वेतद्वयं विन्यसेत् पश्चाद्गण्डयुगान्वितं शशिकुलोपेतोत्तमाङ्गं बुधः|| ४|| दन्त पंक्ति युगले वकद्वयं सेन्दुखण्डरदन च्छदद्वयम् | ओष्ठयोर्घटयुगं ततो न्यसेद्दन्त युग्ममुख पूर्वसंयुतम्|| ५|| रसं नाभावर्द्धोडुपयुतममुं न्यस्य पवनम् न्यसेन्मन्त्री सान्त्य स्वरमपि शिखायामवहितः| पृ० ९) कलान्यासं कुर्वन्नमुमिह यथोक्तेन विधिना चिरं जीवत्यद्ना विगतगदमृत्युः सुखमिह|| ६|| पश्चाद्दे हे केवला मातृका वा विन्यस्तव्या रुद्रशक्त्यान्विता वा | विद्यान्यासं साधकेन्द्र स्ततोऽङ्ग न्यासं चास्य न्यासपूर्वं विदध्यात्|| ७|| विद्यान्यासं मूलमन्त्रस्य वर्णैः कुर्ययान्मन्त्री वक्ष्यमाणक्रमेण| आद्यं वीजं मूर्ध्नि गुह्ये द्वितीयं तार्त्तीयं वा विन्यसेत् हृत्प्रदेशे|| ८|| सव्याप सव्येक्षणयोर्ललाटे वीजत्रयं श्रोत्रयुगे च वक्ते| अंशद्वये चापि च पृष्ठवंशे वीजत्रयं कूर्परयोश्च नाभौ|| ९|| न्यासो हि ब्रह्मचारी गृही मुमुक्षुरित्यधिकारिभेदात् सृष्टि स्थिति संहारात्मना त्रिविधः| मध्यमादि कनिष्ठान्तं न्यसेत् प्राहुरिमां स्थितिम् | अङ्गुष्ठान्तं कनिष्ठादि सृष्टिन्यासोऽभिधीयते| अङ्गुष्टादि कनिष्ठान्तं संहारन्यास ईरितः| नाभ्यादि केशपादान्तं स्थित्या देहे न्यसेत् सुधीः| केशादिपादपर्ययन्तं सृष्टिन्यासोऽभिधीयते| पादादि केशपर्ययन्तं संहारन्यास ईरितः| एवं यथाधिकारं विन्यस्य वक्ष्यमाण कलान्यासं कुर्ययात्| तमेवाह भग एकारः तत् परम् ऐकारः माया भुवनेशी वीजं हीं| कुलान्तं कुलविद्यायाः अन्तं सौः इति| साम्प्रदायिकास्तु अकुलान्तम् अकुलोऽकारः तस्यान्तं क्षकार इति वदन्ति| एतद्वीजत्रयं स्वके मूर्ध्नि न्यसेत्| सामान्तं मुखवृत्त के इति संवर्त्तकं क्षकारः सानन्तम् आकारयुक्तं क्षगतं के शिरसिगतं विन्दुरित्यर्थः | तेन क्षामिति मुखवृत्तके न्यसेत्|| ३|| सूक्ष्मादीनिति| सूक्ष्म ईकारः स एव आदिर्येषां ते सूक्ष्मादयः सार्द्रेन्दून् सविन्दुकानित्यर्थः| तेन इं ईं उं ऊं इति नयनयीः श्रीत्रयोश्च न्यसेत्| स्वकपीलयोर्भृगुयुगं सकारयुगं घ्राणद्वयेनान्वितं ऋ ऋ इत्यनेनान्वितं सृं सृं * इत्यर्द्ध चन्द्रान्वितं स्वकपोलयोर्न्यसेत् | चिवुके श्वेतद्वयं श्वेतः षकारः गण्डयुगं ऌ ॡ शशिकुलं विन्दुः विन्दु शिरस्कं तेन घृं घृं इति वीजद्वयं चिवुकपार्श्व योर्न्यसेत्|| ४|| दन्तपंक्तियुगले वकद्वयं शकारद्वयम्| इन्दुखण्डोविन्दुः सविन्दुकं वदनच्छद द्वयम् ए ऐ विन्दु सहित मिर्त्ययः || तेन शें शैं इति दन्तपङ्त्तयो र्न्यसेत्| ओष्ठयो र्घटयुगं घटो वकारस्तद्वद्वयं दन्तयुगम् ओ औ मुखं विसर्जनीयः तत् पूर्वो विन्दुः सविन्दुकमित्यर्थः| तेन रों रौं इति वीजद्वयं ओष्टयो र्न्यसेत्|| ५|| रसं नाभाविति | रसीरेफः अर्द्धोड़उपी विन्दुः तेन रमिति नाभौ न्यसेत् | पवनं यकारः अन्त्यस्वरो विसर्जनीयः| तेन यमिति शिरसि न्यसेत्| अवद्वितः सावधानः इति षोड़शकला न्यसेत्| न्यास फलमाह - अमुं न्यासं कूर्वन् उक्तविधिना असौ साधकः रोगमृत्युरहितः सुखं यथा स्यात्तथा अद्यात्म तत्त्वेन जीवति|| ६|| षोड़शकलान्यासानन्तरं मातृकां केवलां रुद्रशक्त्यान्वितां वा यथा स्थानं न्यसेत् | रुद्राः श्रीकण्ठादयः शक्तयः पूर्णोदर्ययादयः| न्यासस्थानानि शारदायाम्| ललाट मुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः| ओष्ठदन्तोत्तमाङ्गास्यदोः पत् सन्ध्यग्रकेषु च| पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेंऽशके| ककुद्यंसे च हृत्पूर्व पाणिपादयुगे तथा| जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात्| त्वगसृङ्मांसमेदोऽस्थिमज्जा शुक्रात्मकान् विदुः| यादीन् हादीन् न्यसेदात्मपरमज्ञान पूर्वकान्| प्रयोगस्तु अं श्रीकण्ठपूर्णोदरीभ्यां नमी ललाटे इत्यादि | ततोऽनन्तरं विद्यान्यासं कुर्ययात् || ७|| विद्यान्यास प्रकारमाह विद्येति| कथ्यमान प्रकारेण मूलमन्त्राक्षरैर्विद्या न्यासं कुर्ययात् | प्रथमं वीजं मस्तके द्वितीयं गुदे तृतीयं हृदये न्यसेत् | इत्येकी न्यासः|| ८|| सव्येति | वामदक्षिण नेत्रयोराद्यं द्वयं तृतीयं ललाटे अन्यः | कर्णयुगे वक्ते चैक न्यासः| अं सद्वये पृष्ठे च एको न्यासः | जानुयुगे नाभौ च एको न्यासः| पृ० १०) वीजत्रयेणैव षड़आननानि प्रकल्पयेदूर्द्ध मुखादि विद्वान्| अङ्गानि मूलेन च गुह्यनाभिहृद्वक्तमूर्द्धस्वपि पञ्च वाणान्|| १०|| ललाटदेशे वदने हृदि स्वे नाभौ च गुह्येऽपि च विन्यसेत्तान् | त्रैलोक्य संक्षोभण दृष्टशक्तीन् पञ्चापि कामानपि वक्ष्यमाणान् || ११|| इह कामराजमन्मथ कन्दर्प मकर केतनाश्चापि | नामभिरेतैर्दिता मनो भवेनान्विताः क्रमशः|| १२|| कपञ्चमं शुचिननान्त संयुतम् सवामद्दक् पवन गुणान्वितः करः| रविस्वरो हरिहयविष्णुषष्ठवद बलं ततस्तर उपरान्वितो भृगुः|| १३|| पृ० ११) तेषां शिरःसु विदधीत बुधोऽर्द्धचन्द्रा नेवं मया निगदिताः खलु पञ्च कामाः| पुंसः स्मराननुदिनं न्यसतः स्वदेहे लोकत्रयं भवति तस्य मनोऽनुवृत्तिः|| १४|| अथ त्रिलोकार्चित शासनाया वक्ष्यामि वीज त्रयमम्बिकायाः| गोप्त व्यमेततत् कुलधर्म विद्भिरामुष्टहेतोर्निज सिद्धये च || १५|| कान्तादिभूतपदगं कगतार्द्ध चन्द्रम् दन्तान्त पूर्व जलधिस्थित वर्णयुक्तम् | एतज्ज पन्नरवरो भुवि वाग्भवाद्यम् वाचां सुधार समुचां लभते स सिद्धिम् || १६|| कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्त दन्तान्वितम् कामाख्यां गदितं जपन्मनु वरं साक्षाज्जगत क्षोभकृत्| ऊर्द्धाधो दक्षिण वक्ते च एकी न्यासः| तथा वामापरमध्य वक्तेषु एकः| एवं सप्तमूल विद्यां न्यसेदिति || ९|| वीजत्रयेणेति | मूल मन्त्र वीजैस्त्रि भिर्द्वि रुक्तैः षड़ङ्गानि प्रकल्पयेत्| वदुक्तं त्रिपुरार्णवे ऊर्द्धादि परवक्तान्तं विद्यान्यासं समाचरेत् | ऊर्द्धे पूर्वे तथा वामे पृष्ठे दक्षे तथा क्रमादिति | गुह्यनाभीति| गुह्यनाभि हृदयानन मूर्द्धसु पूर्वोक्त वाण पञ्चकं न्यसेदिति|| १०|| कामन्यासमाह ललाटेति | वक्ष्यमाणान् पञ्च कामान् ललाटादिषूक्त स्थानेषु न्यसेत्|| ११|| तान् कथयति इहेति| एते पञ्च कामाः नामभिः कथिवाः|| १२|| एषां वीजानि कथयति कपञ्चममिति| कं जलं तद्वीजं वकारः तल्पञ्चमी हकारः शुचिना अग्नि वीजेन रेफेण नयनान्तेन ईकारेण च युक्तं तेन ह्नीमिति भवति| इति प्रथमवीजम्| वामदृक् ईकारः पवनो यकारः तदृगुणाक्षरं तृतीयाक्षरं लकारः करः ककारः | ककार लकारे कारैः कामाख्यं वीजं द्वीतीयम्| रविस्वरः द्वादशस्वरः ऐकारः तृतीयं वीजम् | हरिहयो लकारः विष्णुःरकारः ततः षष्ठस्वर ऊकारः| वलं वकारः वकारलकारो कारैश्चतुर्थम् | एतावना ल्वूमिति| तर इत्रि स्वरुपं उपरः ईकारः भृगुः सकारः सकारत काररेफेकारैः पञ्चमं तेन स्त्रीमिति|| १३|| तेषां शिरः सु विदधोल बुधोऽर्द्धचन्द्रानिति| एतानि वीजानि प्रत्येक विन्दुभिःकामराजमन्मथ कन्दर्प मकर केतन मनो भवनामभिः संयोज्य न्यसेदित्यर्थः|| १४| १५|| कान्तादिभूत पदगमिति| ककरोऽनु स्वारः स एवान्तो यस्यौकारस्य तस्यादि भूता पदगम् आदि चतुर्दश पदगम् अकारः यत्राकान्ती विसर्गस्तस्यादिभूतपदगम् आदौ स्थितं यत् स्वरुपमकारः तमुडरेत्| कगतार्द्धचन्द्रं के मस्तके गतोऽर्द्धचन्द्रो यस्य तादृशं शिरोगतानुस्वारमित्यर्थः| दन्त ओकारः तदन्त औकारः तत् पूर्वजलधिस्थित वर्ण युक्तं तत् प्रातिलोम्येन चतुर्थमक्षरं एकारः कगतार्द्धचन्द्रं सविन्दुकमित्यर्थः | एतैः सहितायां वृद्धौ सत्यां ऐं इति वाग्भवाख्यो महान् मन्त्र उद्धतः| एत द्वाग्भवनामकं वीजं जप्रन् अशेषामृतमयीं वाक् सिद्धिं लभते| गद्यापद्या शिवानी अस्माद्भवतीति वाग्भवमिति प्रथमं मूलमन्त्रवीजम् || १६|| द्वितीयं वीजमुद्धरति कान्तान्तमिति| के मस्तके न्यस्यत इति कं विन्दुः तस्यान्तो विसर्जनीयः अः इति तदन्तः ककारः | कुलं सकारः तत् पूर्वपञ्चमं तत् प्रातिलोम्येन पञ्चमी लकारः तदन्त ईकारः दन्तो विन्दुः ककारलकारेकारेण एतवता कीमिति पृ० १२) दन्तान्तेन युतं सदन्ति सकलं सम्मोहनाख्यं कुलम् सिध्यत्यस्य गुणाष्टकं स्वररता सिद्धिश्च नित्यं जपेत् || १७|| ऋषिर्दक्षिणामूर्ति संज्ञो महत्मा भवेच्छन्द एतस्य मन्त्रस्य पङ्क्तिः| सरस्वत्य चिन्त्य प्रभावा प्रदिष्टा बधै र्देवता देववृन्दार्चिताङ्धिः|| १८|| अमुष्य मन्त्रस्य रदान्त युक्तजम् वीजं सदन्तं नकुलीशपूर्वम्| शक्तिस्तु साखण्डल कर्णपूर्वम् सहार्द्ध जैवातृकमान नान्तम्|| १९|| वर्णः शुल्को मुनिभिस्त्रि भुवन सहितस्य मन्त्रराजस्य| आगम पारगमतिर्गान्धारोऽस्य स्वरो गदितः|| २०|| विद्यामूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं सर्वथा सिद्धिकामैः| देव्या शप्ता येन विद्येयमाद्या पूर्वं तेन प्राणहीनाऽभवत् सा || २१|| पृ० १३) शिवशक्ति वीजमत एव शम्भुना निहितं तयोरुपरि पूर्ववीजयोः| अकुलं कुलोपरि च मध्यमाधरे दहनं ततः प्रभृति सोर्जिताऽभवत्|| २२|| भैरवीय मुदिता कुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा| सैव शीघ्र फलदा भुवि विद्येत्युच्यते पशु जनेष्वतिगोप्या|| २३|| शिवाष्टमं केवलमादिवीजं भगस्य पूर्वाष्टम वीजमन्यत्| परं शिरोऽन्तं गदिता त्रिवर्णा सङ्केत विद्या गुरुवक्तगम्या|| २४|| कान्तान्त वान्ता कुलवाम नेत्रान्वितं तथा दन्तिकुलं सनादम्| षट् कूट मेतत्रिपुरार्ण वोक्त मत्यन्त गुह्यं स्मर एव साक्षात्|| २५|| कामराजाख्य वीजं गदितं उक्तम् | अयं मन्त्रो जपादेव जगत् क्षोभकृत् भवति| तृतीयं वीज मुद्धरति| दन्तान्तेति दन्तानामन्त्य पङ्क्तौ न्यस्यत इति दन्तान्त औकारः तेन युतं कुलं सकारमुद्धरेत| कीदृशं सदन्ति सानुस्वारं सकलं विसर्गसहितम् अस्य बीजत्रयजपादणिमादि सिद्धिर्भवति खेचरी सिद्धिश्च भवति | अणिमा लघिमा गरिमा प्राकाम्यं वशितेशिता | प्राप्तिः कामावसायित्वं शम्भोरैश्वर्यय मष्टधा| एतद्वीजत्रयात्मकः त्रिपुरामन्त्रः ऋष्यादिः श्लोकः सुगमः|| १७|| १८|| अस्य मन्त्रस्य वीजशक्ती आह अमुष्येति | रद ओकारस्तस्यान्त औकारः नकुलीशो हकारः तत् पूर्वं सकारः दन्तोविन्दुः एतेन सौं इति वीजं विद्यादित्यध्या हार्ययम् | शक्तिस्तु आखण्डलेन कर्णपूर्वेण ईकारेण अर्द्धजैवातृकेण अर्द्धचन्द्रेण च सहितम् आननान्तं ककारं जानीयात् | तथाचास्य मन्त्रस्य सौं वीजं ल्कीं शक्तिः शुल्को वर्णः गान्धारः स्वर इति || १९|| २०|| विद्येति | विद्याया मूलोत्पत्तिरेषा मयोक्ता इयमुत्पत्तिर्विद्यासिद्धिलिप्सु भिर्जप्तव्या| देव्येति इयं विद्या देव्या शप्ता तेन प्राण शून्याऽभवत्|| २१|| शिवेति | यत इयं विद्या भवान्या शप्ता अतेव हेतोः तयोराद्यवीजयोरुपरि शिवशक्ति वीजं हस इति वीजं निहितम्| उक्तं हि सङ्कीचः परमा शक्तिः विकाशः परम शिवः| शङ्कीचश्च विकाशश्च हसमित्यक्षरद्वयमिति|| परस्यान्तवीजस्यीपरि अकुलं हकारी निहितः| मध्यवीजस्याधरे अकुलं हकारी निहितः| मध्य वीजस्याधरेऽधः रेफो निहितः| तदवदि स्वा विद्या तेजोवती जाता|| २२|| भैरवीयमिति| इयं बाला विद्या अकुलपूर्वा हकारपूर्वा सती भैरवी उक्ता सैव भैरवी यदि कुलपूर्वा सकारपूर्वा भवति तदा विद्येत्युच्यते | पशुजनेषु अल्पज्ञेषु अप्रकाश्या यद्वा पशुजनेषु अदीक्षितेषु | तथा एतन्मन्त्रस्य भेदत्रयं भवति वाग्भवाद्यम्| बाला अकुलपूर्वा सती भैरवी कुलपूर्वा सती विद्येति|| २३|| बीज त्रयोपलक्षितं स्वतन्त्रञ्चाह शिवाष्टममिति| शिव उकारस्तस्याष्टम ऐकारः भग एकारः तत् पूर्वाष्टमं ईकारः परं तृतीयम्| शिरीविन्दुः तदन्ती यस्य स औकारः स तृतीय वीजोपलक्षकः इयं त्राक्षरी| सङ्केतविद्या कथिता गुरुपदेशैः परं बुध्यते|| २४|| वीजान्तरमाह कान्तान्तेति| कं विन्दुस्तस्यान्ती विसर्जनीयः तदन्तः कः वान्तः वकारोऽन्तो यस्य स लकारः अकुलो हकारः सकारोऽन्ती यस्य स रेफः वामनेत्रम् ईकारः दन्तीविन्दुः कुलं सकारः सानुस्वारं सनादम् एतत्रिपुरातन्त्रोक्तं षट् कुटं षड़्भिर्वर्णैर्बीजम् अतिशयेन गोप्तव्यम् अयं मन्त्रः सात्रात् स्मर एव|| २५|| पृ० १४) आद्यं बीजं मध्यमे मध्यमादावन्त्यं चान्ते योजयित्वा जपेद्यः| त्रैलोक्यान्तः पातिनो भूतसङ्धा वश्यास्तस्यैश्वर्यय भाजो भवेयुः|| २६|| आद्यं कृत्वा चावसानेऽन्त्यबीजम् मध्ये मध्यं चादिमे साधकेन्द्रः| कुर्ययान्नित्यं यो जपेन्मन्त्रमेनम् जीवन्मुक्तः सोऽश्वते दिव्यसिद्धिम्|| २७|| मन्त्रराजममुं समस्तजगद्विमोहनकारकम् मातृकान्तरितं जपेदनुलोमतोऽपि विलोमतः| हंसदेवसमन्वितं सकलं बधः पर एव वा सोऽपि दिव्यगुणान्वितो लभते सुमिद्धिमनुत्तमाम्|| २८|| व्यञ्जन हंस समन्वितमेतद्रञ्जन हृज्जगतो निखिलस्य| यो जपति स्थिरनिर्मलचित्तः शीघ्र मुपैति नरः स तु सिद्धिम्|| २९|| कमलं परिलुप्तमध्यमान्त्य स्वरमीशादियुतं सविन्दुनादम्| निगमादिनमोऽन्तरे विराजद्भवि देवो हृदयं प्रविष्टमेतत्|| ३०|| विद्या कामदुधा त्रिलोकविनुता स्वर्गापवर्गप्रदा गुह्याद् गुह्यतरा महोदर करी या योगिनीनामिग | सा सारस्वत जन्मभूर्निगदिता सौभाग्यसम्यत्करी सद्यः प्रत्ययकारिणी सकृदपि प्रोच्चारिता भूतले|| ३१|| यतः स्वप्नावस्थामियमुपगता विश्वविनुता ततः सिद्धिं नैव प्रवितरति जप्तापि सततम् | प्रबुद्धा चेद्विद्या फलति सहसा दीपनकरीम् ततो विद्यां वक्ष्याम्यहमिह रहस्यामतितराम्|| ३२|| अथ कामनाभेदेन जप्तव्य मन्त्र भेदानाह आद्यमिति| आदिमं बीजं मध्यबीज स्थाने मध्यबीजञ्जादि बीज स्थाने अन्त्यं स्वस्थाने एवं योजयित्वा य एनं मन्त्रं जपेत्| वस्य त्रैलोक्यवर्तिनः प्राणिनः वश्या भवन्ति ऐश्वर्ययञ्च भवति इत्येकः प्रकारः|| २६|| अपरमाह आद्यमिति | आद्यं बीजं अन्त्ये अन्तिमञ्च मध्ये मध्यञ्चाद्ये कृत्वा प्रत्यहं य एनं मन्त्रं जपति स जीवन्नेव मुक्तो भवति दिव्यानाञ्च या सिद्धिस्तां लभते|| २७|| मन्त्रराजमिति| य एनं सन्त्र श्रेष्ठम् अनुक्रमेण व्युत् क्रमेण च मातृकान्तस्तिं कृत्वा जपति स दिव्यगुणभाक् स तु अतुलां सिद्धिमाप्रीति| तत्र क्रमः मन्त्रमुच्चार्थ अन्ते अकारमुच्चरेत् पुनरपि मन्त्रमु्च्चार्य आकारमुच्चरेत् एवं लकारपर्ययन्तमक्षराणि| मन्त्रान्तरितं जपं कृत्वा पुनर्मन्त्ररहितं केवलं क्षकारमेव स्थानीयमुच्चार्यय पुनः प्रतिलोम क्रमेण लकारादिं अकारपर्ययन्तं प्रत्येकं मन्त्रान्तरितं जपेत् | एवं मातृकाक्षरमालया जपं कुर्वतामेकवारेण जपः शतसंख्यापरिमिती भवतीत्यर्थः | शारदा तिलके राघव भट्टेन एवं व्याख्यातम्| अकारादिहकारान्तां मातृतां पठित्वा मध्ये मन्त्रं पठेत् | ओं नमः चर्णोऽयं ततः क्षकाराघकान्तां मातृकां पठेत्| ततोऽतुलां सिद्धिं लभते| एतत्तु प्रकारान्तरम् | हंस देवमित्यादि मूलमन्त्र वीजत्रयं यकारसकाराभ्यां संयोज्य जपेत्| पर एवेति | श्रीमूलविद्यायाः प्रथम मध्यमे वीजे केवले उच्चार्यय अन्तिमं बीजं हंकारस काराभ्यां संयोज्य जपेदित्यर्थः || २८|| व्यञ्जनहंसेति| हकारसकारयोरन्तर्गताकारानुस्वारान्तिम विसर्जनीयमपि लोपयित्वा केवलव्यञ्जनमाश्रमेव विद्यया संयोज्य जपेत् सोऽप्यनुत्तमां सिद्धिं प्राप्नीति तदुक्तं प्रत्यक्षरार्णं हंसेन ग्रथयित्वा जपेत् सुधीरिति|| २९|| कमलमिति| कमलस्वरुपमेवोद्धरेत् कीदृशं परिलुप्तो मध्योऽन्त्यस्वरश्व यत्र तादृशं मकारान्त्य स्वरशून्यं ल्क एवंरुपः| ईशः शिव उकारस्तस्यादिरीकारः सविन्दुनादं तद्युक्तं तेन ककारलकारेकारविन्दुनादैः ल्कीमिति कामाख्यवीजम्| निगमादिः प्रणवः नम इति स्वरुपग्रहणं प्रणवनमसीर्मध्ये कामवीजे निहिते चतुरक्षरात्मिका देवो हृदयाख्या विद्या स्यात्| प्रासङ्गिकमुक्ता भैरवीं स्तौति|| ३०|| विद्येति| सा विद्या इह भूतले च या विद्या योगिनीनां महोदयकरी तत्वज्ञानजनिका कामदुघा ईप्सितार्थप्रदायिनी अतिगीप्या | वारैकमपि जप्त्वा सती प्रत्ययदायिनीति|| ३१|| यत इति | यती हेतोः सप्तावस्थां गतां इयं विद्या अतो वारंवारमपि जप्त्वा सिद्धिं पृ० १६) पुष्पं वारिमुचां दवादिरपरस्तावेव वर्णौ ततो दीर्घं वारिसखान्तमप् स्वपि तथा धान्तौ सलोकस्वरौ| विद्या वाग् भव बीज दीपनकारी सारस्वतोत्पत्तये साक्षात्काङ्घित पारिजातलतिका वस्वक्षरोक्ता मया|| ३३|| ब्रह्मा शक्रदृगन्वितः सहभगा मेषान्विता नादिनी कान्तान्तं सभगं सपूषणमतोधान्तं त्विमेषः सदृक् | कालोऽनन्तयुतं वियत् सदशनः संवर्त्त को भीषणा साक्रूरा कमलासनः सहशिवो वैश्वानरस्तादृशः || ३४|| पृ० १७) एतादशाक्षरीयं मन्मथबीज प्रबोधनकरी स्यात्| क्षोभयति नाकभूतलस्थान वासिनः सहसा|| ३५|| सावित्री वदनयुता महादिकाली व्योमान्तं शशधरखण्डमण्डितान्तम्| मोहिन्या सरसिजभूर्यु तस्यथाग्नि र्विद्येयं परबीजदीपनी सा|| ३६|| या यस्य दीपनकरी गदितेह विद्या वीजस्य तस्य पुर एव समुच्चरेत्ताम्| विद्याषड़ङ्गवदनेषु यथावदेव न्यासेषु साधकवरो विदधीत शञ्च|| ३७|| विद्याङ्गमेवं न्यसतः स्वदेहे त्रैलोक्यमतद्वशमेति पुं सः| पापानि सद्यः प्रशमं प्रयान्ति त्रस्यन्ति रक्षांसि सपन्नगानि|| ३८|| मन्त्ररुपमिदमीरितं मया सर्वथा गुरुमुखेन लभ्यते| गुर्वनुग्रहमृते महीतले मन्त्र एष न हि सिद्धिदायकः|| ३९|| इति श्रीनागभट्टविरचिते त्रिपुरासारसमुच्चये द्वितीयः पटलः| न ददाति प्रबुद्धा यदि भवति तदा हठात् फलं ददाति अतो हेतोर्दीपनीं विद्यामस्या अहं कथयामि रहस्यां गोप्याम्| गोपनीये रहः स्मृतम्|| ३२|| त्रत्राद्यबीजदीपनमाह पुष्पमिति | मेघानां पुप्षं जलं तद्वीजं वकारः तमुच्चरेत् | अपरो रवर्णः दवादिर्दवशब्धस्यादिभूतोदकारः पुनस्तावेष वर्णौ रकारदाकारौं तदनन्तरं दीर्घम् आकारसहितं वारि जलवीजं सखा तस्थान्तेन गकारेण वर्त्तत इति खान्तः शकारस्तमुद्धरेत्| अप्सु वकारः तथा दीर्घस्तेन न वाग्वा इति भवति लोकस्वरयुतौ धान्तौ धोऽन्ते यस्य स दकारः धस्यान्तो लकारः दकारलकरौ लोक शब्देन त्रिसंख्योपलक्षितः तत् संख्यक इकारः तेन युतौ एतावता वद वद वाग्वादिनि इति भवति | इयमष्टाक्षरी विद्या वाग्भवोपलक्षितवीज सन्दीपन जनिका सारस्वतधर्मोत्पत्तये आकाङ्धितार्थे कल्पलतेव|| ३३|| द्वितीय बीजदीपनमन्त्रमाह ब्रह्मेति| ब्रह्मा ककारः शक्रेण दृशा च युक्तः शक्रः इन्द्रः तद्वीजं लकाः दृशि चक्षुषि न्यस्यत इति दृक् इकारः प्रथमोपान्वत्वात् हस्वपरिग्रहः| नादिनी लकारः भगेन एकारेण मेषेण लकारेण चान्विता उद्धर्त्तव्या कस्यान्तः खः सोऽन्ते यस्य सकः सभगम् एकारसहितं सपूषणं सलकारम् अनन्तरं धान्तं दकारम् उद्धरेत| इस्वरुपो मेषो लकारः सदृक् इकारसहितः | काली मकारं समुद्धरेत्| अनन्तेन आकारेण युतं वियत् हकारमुद्धरेत्| सदशनः ओकार सहितः संवर्त्तकः क्षकारः उद्धर्त्तव्यः | भीषणः भकारः साक्रूरा सानुस्वारा कमलासनः ककारः उकारसहितः वैश्वानरी रेफः तादृश उकारसहित उद्धर्तव्यः एतावता ल्किन्ने ल्केदिनि महाक्षोभं कुरु इति भवति|| ३४|| इयम् एकादश वर्णा्तमिका विद्या मत्मथवीजस्य मध्यवीजस्य दीपिका भवेत्|| ३५|| तृतीय वीज दीपनमाह सावित्रिति| सावित्री पदेन ओङ्गारो लक्षितः महादिकाली महाकालीत्यर्थः | तदाद्यवर्णो मकारो लक्षितः वदन श्रीकारस्तेन युतः व्योम हकारः तदन्तं सानुस्वारन् उद्धरेत् मोहिन्या उकारेण सरसिजभूर्ब्र * ककार उद्धर्त्तव्यः| ततो मोहिनी अतोऽग्रिः रेफः एतावता ओं महामोक्षं कुरु इति सप्ताक्षरी चरमवीजदीपनि उक्ता|| ३६|| केन प्रकारेण दीपनयोग इत्याह या यस्वेति | या विद्या यस्य वीजस्य दीपनकरी उक्ता तद्वीजस्य पुरतः प्रथमं तां विद्यामुच्चरेत्|| ३७|| न्यासेषु दीपनीयोगमाह विद्येति| विद्यान्यासषड़ङ्ग न्यास वदन न्यासेषु योजनीयेति| एवं कृते विद्या प्रबुद्धा भवति| एवं प्रकारेण मूलविद्या मन्त्रम्याङ्ग स्वशरीरे न्यसतः पुं सः लोकत्रयं वशमेत्रि पापानि शाम्यन्ति सद्यः सह|| ३८|| पृ० १८) तृतीयः पटलः| अथेदं शरीरं स्वकीयाङ्गुलीभिर्बुधैः षणवत्यङ्गुलायाम मुक्तम्| दिनेशाङ्गुलीभिः शरीरात् समीरोऽधिकः प्राणसंज्ञो मतो योगविद्धिः|| १|| इह प्राणवायुं सदाभ्यासतो यो नरो न्यूनभावं नयत्ये नमङ्गात्| समत्वं शरीरेण वा भूतलेऽस्मिन् स पूज्यो बुधैरुत्तमो योगवित्स || २|| चतुर्दशात्रापघने प्रधाना नाड्यः स्मृतास्तास्वपि तिस्र एव| इड़आ सुषुम्नापि च पिङ्गलाख्या मुख्या सुषुम्नैव च तासु नाड़ई|| ३|| पृ० १९) इड़आ नाम नाड़ई स्थिता वामभागे तनोर्दशिणे पिङ्गला नाम नाड़ई| तयोः पृष्ठवंशं समाश्रित्य मध्ये सुषुम्ना स्थिता ब्रह्मरन्धन्तु याञ्च|| ४|| सुषुम्नान्तराले स्थिता चित्रनाड़ई युता पञ्चवर्णोज्जवला पञ्चदेवैः| तदन्तर्गतं ब्रह्मरन्ध्रं सुसूक्ष्मम मृणालान्तरालोल्लसत्तन्तुतुल्यम्|| ५|| इदं मायामन्त्रस्वरुपं कथितं गुरुणा वा यदि लभ्यते तदा परं सिध्यति अन्यथा गुरुप्रसादमन्तरेण एष मन्त्रो न सिध्यतोति || ३९|| इति त्रिपुरासारसमुच्चयटीकायां द्वितीयः पटलः| ------------------- एवं साधकानां सकलपुरुषार्थ सारभूतं मन्त्र स्वरुप मुक्ता पुरुषार्थान्तराय परिहाराय योमाङ्ग भूत प्राणायाम प्रकारान् तद्विशेषांश्च वक्तु मुप क्रमते अथेदं शरीरमित्यादिना| इदं शरीरं पण्डितैः षडधिकनवत्यङ्गुलदैर्घ्यम् उक्तं यस्य शरीरस्य परिमाणं तस्यैवाङ्गुलिमानेन | प्राणसंज्ञकोवायुः शरीरान्निर्गमस्थानादद्वादशाङ्गुलीभिरधिको मतः द्वादशाङ्गुः लपर्ययन्तं सञ्चरति|| १|| इहेति | इह भुवियो नरः सदाभ्यासतः सदाभ्यासेन एनं प्राणवायुं शरीरान्न्यू न भावं सकलाङ्ग व्यापकत्वं नयति| शरीरेण समाङ्गत्वं तौल्यं वा आसनाङ्ग व्यापकत्वं वा करीति स योगवतां मध्येऽस्मिन् भूतलें पूज्यते इति|| २|| प्राणाश्रयभूता नाड़ई र्दर्शयति चतुर्दशेति | तदुक्तं नाड़ईनामाश्रयः पिण्डी नाड्यः प्राणस्य आश्रय इति| अस्मिन् शरीरे चतुर्दश नाड्यः प्रधानीभूताः सन्ति अपि चतुर्दशसु मध्ये चतस्रः प्रधानाः स्मृताः|| ३|| तासां तिसृणां नामानि कथयति| इडे़ति| इड़आ पिङ्गला सुषुम्ना चेति तास्वपि तिसृषु मध्ये सुषुम्नैव प्रधानीभूता | चतुर्दशनाड़ईनां नामानि यथा| इड़आच पिङ्गला चैव सुषुन्ना च सरस्वती | गान्धारी हस्तिजिह्ला च सुपूषा च यशस्विनी|| अलम्बुषा कुहूश्चैव शङ्खिनी चित्रिणी तथा| विश्वीदरी विश्वमुखी व्याप्ता ह्येता चतुर्दश|| एतास्वपि तिस्री मुख्याः यास्वपि योगः प्रतिष्ठितः तास्वपि सुषुम्नैव मुख्या सा च द्वादशान्तं पृष्ठवंशं समाश्रित्य सकलाधारत्वेनाधोमुखी ऋजुभूतातिष्ठति| आधारी नाम पद्म स्थानात् द्व्यङ्गु लादूर्द्धं नेढ्राद्रद्व्यङ्गु लादधोभागे चतुरङ्गु लायामविस्तारं अङ्गु लोन्नतं त्वागादिधातुभिर्वेष्टितं चतुर्दलात्मकं पाण्डराकारं पद्मं तत् कर्णिकामध्ये त्रिकोणा योनिः तन्मध्ये सकल प्रपञ्चनिमित्तोपादानभूता कुण्डल्याख्या चिन्मयी शक्तिः त्रिगुणितादिरुपेण सूर्ययेन्दु वैश्वानराणां मूलभूता भ्रमति या त्रिकोणमुत्थिता सुषुम्ना नाम नाड़ई वीणादण्डाख्यपृष्ठवंशस्य पुरीभाग भवलम्बा ब्रह्मरन्ध पर्ययन्तम् ऊर्द्धाकार तिष्ठति| तथाच तन्त्रचूड़आमणिः| मेरुदण्डे वहिः पार्श्वे चन्द्रसूर्ययातिमस्तके | किम्बा मध्ये - सुषुम्ना सन्निविष्टा च त्रन्मध्ये चित्र रुपिणी| तत्रैव ग्रथितं पद्मं मूलादिपद्म पञ्चकम् | कलिका काररुपेण डाकिन्या द्यावलम्बितम् | मूलद्वारं समाच्छाद्य स्थिता मागस्वरुपिणी| वायुना भिद्यने मुक्तं दृढं चित्रा नयेत्ततः| तच्छसोज्जवलकामस्य शिखयाऽति समुज्जवला| प्रतिचक्र प्रबुद्धा सा जीवात्मानं परे कुले| नियोजयति तद्वयोगादमृतं चरते चिरम् | व्योम प्रीद्भिद्य नासाग्रे गतौ चन्द्रदिवाकारौ| अधोधक्रं महापद्मं क्रोड़ईकृत्य सुषुम्नया| व्याघुयय नासिका मध्यं गतं चित्रा तु तट्गता | ऊर्द्धं भित्वा तु लिङ्गं पृ० २०) ब्रह्मसूत्रमिदमेव देहिनां जोवभूत ममृतै केकारणम् | यद्वदन्ति मुनयः पुरातना दिव्यमार्ग इति भव्यचेतसः|| ६|| पृ० २१) इड़आयां चरत्येष शीतांशुमाली अतो वामभागेऽमृतं सम्प्रदिष्टम्| रविःपिङ्गलायां चरत्येष तस्माद् विषं दक्षिणो भाग उक्तो मुनीन्द्रैः|| ७|| जानीयादुदयं ब़धः स्वजठरे कन्देऽशरीरं नृणाम् घ्राणात्तिग्मकराङ्गुले खलु लयं सन्धये च पूर्वापरे| उत्पत्तिञ्च लयञ्च सन्ततमधोवृत्ति निशां वासरम् चोर्द्धां वृत्तिमधस्तथा हिमकरं चोर्द्धां दिनेशं गतिम् || ८|| तुषारांशुनाड़ईं प्रपन्ने तु देवे तदा शान्तिकादीनि कर्माणि कुर्ययात| बुधो रौद्रकर्मामि मार्त्तण्डनाड़ई मुभे मिश्रकर्माणि नाड्यौ प्रपन्ने|| ९|| वै इतरान् पुष्करान् ततः| वहीरुद्धमनाकाङ्घाकाङ्घिणी मोक्षदायिनी| जीवनादृष्टसम्बद्धा स्थिरा परमसन्निधौ| एतद्वेदं विजानाति भित्वा याति पर पदम्| इत्यादि घहुशः| योगार्णवेऽपि | सुरशृङ्गार्टपार्श्वेन तेनैव सव्यतः क्रमात् सूर्यया चन्द्रमसौ नाड्यौ गते नासाद्वयाववि| तन्मध्ये द्वितीयं भित्वा सुषुम्ना पद्मेकीटरे | ब्रह्मरन्धोंवधिर्याता भित्वा व्यीम भूरालयम्| सुखेनाच्छाद्य तद्वार कुण्डलौशक्तिरुज्ज्वला| निंद्रावशगता देवी प्रसुप्तभुजगोपमा| तन्त्रिंकोणस्य वामदक्षिणकोणयोः सम्भू ते सुषुम्नायां वामदक्षिणभागे इडा़पिङ्गले स्थिरे| तयोर्मध्ये इड़आ नाम नाडी चोपा कृतिर्भूत्वा लिंङ्गमूलस्थाने सुषुम्नामाश्लिष्य दक्षिणभागं गता तदाकारा पुनरपि नाभि स्थाने वामभागं गता| तदा पुनरपि हृदय स्थानमाश्लिष्य दक्षिणभागं गतां| तदा करौं पुनरपि जानुमूलमाश्लिष्य वामनासापुटं गंच्छति| एवं दक्षिण भागसम्भूता पिङ्गला मुषुम्नामाश्लिष्य दक्षिणनासाविवरं गच्छति| सुषुम्नामूलपुरोभागादुत्थिता आजिहान्तं सरस्वतौ नाम नाड़ई स्थित* केचित्तु त्रयं वर्णत्रति| एताः सुषुम्नास्तिस्रश्च यासुं योगः प्रतिष्ठितः | ताश्चं नासापुटद्वन्द्वं ब्रह्मरन्ध विनिर्गताः| सरस्वत्यादि चत्वारो मुखरन्ध्र विनिर्गताः| तास्वेका शब्दजननी अन्या स्वरसवाहिनी| अपरा रसनाधारा परा तीर्यवहा शिवा | अन्याः षट् नेत्र कर्माङ्गमेदोद्वारविनिर्गताः| शङ्गिनी नाभिसम्बन्धा या नातु र्हदि रुध्यते| यया गर्भगतः पिण्डः पुष्यतेऽन्न रसादिभिः | एताभ्य एव नाडीभ्यः शाखोपशाख प्रकारेण सार्द्ध लक्षत्रय संख्यानां नाड़ईनां सम्भवः| कुन्नं का नाड़ई तिष्ठति इति शिष्याकाङ्गा यामाह इड़एति शरीरस्य वामांशमाश्रित्यं इड़आ नाम नाड़ई दक्षिणभागं पिङ्गला तयोर्नाड्योर्मध्ये देहस्य पृष्ठवंशमाश्रित्य ब्रह्मरन्ध्र पर्ययन्तं सुषुम्ना अवस्थितेति| मुषुम्नाया अभ्यन्तरे चित्रा नाड़ई स्थिता पञ्चभिर्वर्णैः श्वेतरक्तादिभिरुज्जवला पञ्चभिर्देवैर्ब्रह्मविष्णु रुद्रे श्वरसदाशिवैः संयुक्ता| तदुक्तम्| ब्रह्मा जनादंनी रुद्र ईश्वरश्च सदाशिवः| चित्राख्यनाद्यन्तः स्थाश्च पञ्चभूताधिदेवताः|| ४| ५|| ब्रह्मेति| इदमेव ब्रह्मसूत्रं शरीरिणां प्राणमृतां जीवभूतम् अमृतैककारणम् अस्मिन्नेव ज्ञायते मरणं न चरतीत्यर्थः | यद् ब्रह्मसूत्रं प्राचीना मुनयो दिव्यमार्ग इति कथयन्ति निर्वाणोपयोगी स एव मार्ग इत्यर्थः|| ६|| इड़आयामिति | एष शिशिरकिरणी वांमे इड़आसंज्ञायां नाड्यां चरत्रि चेन वामभागेऽमृत्रमुक्तं पिङ्गला वामादिभ्यश्वरति सा च दक्षिणभागमाश्रितेति स भागो विषसंज्ञकः आदित्यस्य खेचरत्वात् वायुनियमेन सिव्यतीति|| ७|| तस्योत्पत्ति विनाशज्ञानमाह जानीयादिति | बुधः अशरीरे वायोर्नृणां कन्दे मूलभूते आधारे चक्रे उदयम् उद्भवं जानीयात् | तथा आधारचक्रे गुदोपरि लिङ्गाधः स्थिते वायुरुन्तिष्ठति घ्राणाद्वहिर्द्वादशाङ्गुले विनश्यतीत्यर्थः| तदेव स्थान द्वयं पूर्वापरे सन्ध्ये कन्दात् पूर्वसंख्या घ्राणे द्वादशाङ्गुलं वहिर्याति| पश्चादेतौति स्थान द्वयम् उत्पत्तिं लयं विनाशं च ते एव ज्ञातव्ये| आधारेति| वायोरधोगमनं निशां जानीआयात् ऊर्द्धगमनं वासरं दिवसं जानीयात्| उक्तं हि अहरेव प्राणों रात्रिरपान इति तथाधोवृत्तिं चन्द्रं जानीयात् ऊर्द्धं गमनमिति| अतेव योगार्णवे वर्षेत्यधोमुखश्चन्द्रः शेषेत्षू द्धंमुखोरविरिति|| ८|| केन वायौ कानि कर्माणि कर्त्तव्यानीत्याह तुषारांशुनाड़ईमिति तुषारांशुनाड़ई इड़आं नते वायौ शान्तिजनकानि कर्माणि कुर्ययात् | सूर्ययनाड़ईं पिङ्गलां गत्रे रात्रौ रौद्राणि दारुणानि कर्माणि कुर्ययात् | चन्द्रमसः शीतलाशु पृ० २२) भूतानामुदयं द्वयोरपि बुधः संलक्षयेत् पक्षयोस्तन्नाधो वसुधोदयं निशितधीर्घ्राणस्य दण्डस्मृशि| देवेऽधः स्पृशि वारिणो हुतवहस्योर्द्धं गते तूक्ष्यम् तिर्ययक्संस्पृशि मारुतस्य परितः स्पृष्टे मरुद्वर्त्मनः|| १०|| वश्यस्तम्भनयोः प्रशस्त उदयो भूशेर्जलस्योदयः शस्तः शान्तिकपीष्टिकादिषु शुभेष्वन्हाय वद्नेः पुनः| शत्रोर्मारणदारणादिकरणेषूच्चाटनोच्छासयो र्वायोः शान्तिकनिर्विषीकरणयोर्व्योम्नो हितश्चोदयः|| ११|| धरणेरुदये गदार्दितानाम् यदि दूतः समुपेत्य पृच्छतीह सहसा नहि रोगजा प्रबाधा प्रशमं याति चिकित्सितापि सम्यक्|| १२|| पृ० २३) जलोदये व्याधिरुपैति शान्तिं मृत्युर्भवत्येव वसूदये च| तथोदये चापि समीरणस्य व्योम्नोऽचिरेणैव रुजां विनाशः|| १३|| देवे दक्षिण भागगेऽथ पुरुषो रोगातुरो दक्षिणे स्थित्वा पृच्छति पृच्छकः स पुरुषो जीवत्यरोगश्चिरम् | वामायां तु रुजाकुलोकृततनी वामाश्रिते चेश्वरे वामा पृच्छति चेत् स्थिता गतगदा वामाचिरं जीवति|| १४|| देवे गते पृच्छति वामभागं स्थित्वा नरो दक्षिणतो यदीह| व्यत्यासतोऽस्मादपि कृच्छसाध्यं वदन्ति सन्तः खलु रोगजातम्|| १५|| अन्तर्गते पृच्छति पृच्छकश्वेद्देवे नरो जीवति वीतरोगः| तेनैव रोगेण वहिर्गतेऽस्मिन् परेतराजस्य पुरं प्रयाति|| १६|| सर्वेषु कार्ययेषु यदीश्वरेऽस्मिन् अन्तर्गते वाञ्छितसिद्धयः स्युः| वहिर्गतेऽमङ्गलसीश्वरेऽपि शुभाशुभं कर्मफलं तु विद्यात्|| १७|| त्वात् म्ययंस्य खरकरत्वादिति भावः| उभयन| ड़ईस्थे वायौ शान्तिकानि रौद्राणि च कमाणि कुर्ययात|| ९|| भतानामिति| द्वयोरपि पक्षयोः शुल्क कृणयोर्भूतानां पृथिव्यप्ते तेजोवायवा काशानाम् उदधवं सलक्षयेत् अवधारयेत्| तव भतेषु मध्ये पृथिव्या उदयं घ्राण मध्यदण्डग* वायौ यदा प्रशस्यते दण्डाकारगतिर्भवति तदा भूमेरुदयं जानीयात्| देवे वायौ अधः स्पृशि सति वारिणो जलस्य उदयं जानीयात्| ऊर्द्धं गते वायौ हत वहस्याग्रेरुदयं जानीयात्| तिर्ययक् पार्श्वद्दयं संस्पृशि वायोरुदयं जानीयात्| समस्तनासारन्ध्रे व्यापके वायौ वहति सति मरुहर्त्मन आकाशस्य उदयं जानीयात्|| १०|| एतज् ज्ञान फलमाह वश्येति | भुमेरुदये वश्यजनकं स्तम्भजनकञ्च कर्म कुर्ययात| जलभ्रतस्योदये सति शान्तिजनकं पुष्टिजनकञ्च कर्म कुर्ययात्| भटिति स तु मारणादि जनके कर्मणि वद्धेरुदयः प्रशस्तः| शचोर्दशोन्मूलने नगरोच्छेदे च वायोरुदयः प्रशस्तः| निर्विषीकरणसान्त्वने च आकाशस्योदयः प्रशस्तः|| ११|| प्रश्नमाह धरणेरिति| पृथिव्या उदये सति नैरुज्यममुकस्य भविष्यति दूत आगत्य पृच्छनि तदा रोगजा पीड़आ सद्यः कृतप्रतिक्रियापि हठेन शान्तिं नयतोति वक्तव्यमित्यर्थः| जलस्योदये सति यदि पृच्छति तदा व्याधिः शान्तिं याति| वसूदयेऽग्रेरुदये यदि पृच्छति तदा रोगार्त्तस्य मृत्युर्भवति| वसुहुताशनमिति विश्वः| वायोरुदये यदि पृच्छति तदा मृत्युरित्यर्थः| आकाशोदये यदि आगव्य पृच्छति तदा त्वरयैव रोगाणां विनाशो भवति|| १२| १३| १४|| प्रकारान्तमाह| देवे वायौ दक्षिणां सङ्गते सति सदैव स्थित्वा दूतो यदि पृच्छति तदा रोगार्त्तो जनो नीरोगः सन् बहुशतत्र्यं जीवति| स्त्रियां रोगगवाआयां वामभागगती वायुर्भवति तत्राश्चिती दूतः पृच्छति तदानीं रोगात् सा चिरं जीवति इति|| १५|| देव इति | वामप्रदेशं गते वायौ दक्षिणांशं गत्वा दूतो यदि पृच्छति तदा कष्ट साध्यं मैरुज्यं वक्तव्यम्| दक्षिणगे वायौ वामभागगः पृच्छति तदा कष्टसाध्यं नैरुज्यं वदेत्| अन्तर्गत इति| अभ्यन्तरं गते वायौ यदि पृच्छकः पृच्छति तदा नीरोगी जीवति | घ्राणाद्वहिर्द्धादशाङ्गु * लाइहिर्गते वायौ यदि पृच्छति तदा तेनैव रोगेण यमालयं पृ० २४) आरम्भ दर्श प्रथमामुदेति वामे पुटे त्रीणि दिनानि देवः| वामेतरे त्रीणि ततो दिनानि पूर्णा तिथि र्वावदथैवमेव|| १८|| अथारभ्य शुल्कान्य पक्षादिभूताम् तिथि त्रीणि देवो दिनान्यभ्युदेति| पुटे दक्षिणे त्रिणि वामे तु यावत् कुहुरेवमेवं समालक्षयेन्ना|| १९|| एकस्य पक्षस्य पिपर्यययेण रोगाभिभूतिर्भवतीह पुंसाम्| तयोर्द्वयोर्बन्धुसुहृद्विपत्तिःपक्षत्रये व्यव्ययतो मृत्रिः स्यात्|| २०|| पृ० २५) यदात्मनः कालवशात् समीरणो विपर्ययुदेति प्रकृतिं विहाय सः| तदा निरुध्य श्वसनं निपीड़येद् यथा स्थितं पक्षमुपैति चात्मनः|| २१|| द्वावेव धत्तः सकलञ्च कालं दिवाकरः कैरवबान्धवश्च| भोक्ती सुषुम्ना सकलस्य चास्य कालस्य दोषादिवसात्मकस्य|| २२|| ततः क्रमेणैव विशुद्धनाड़ईपथान्तरः प्राणसमीरणस्य| शनैः शनैः संयमने प्रयत्नं यथाविधानं विदधीत धीरः|| २३|| शी तांशुमार्गेण शनैः समीरमापूरयेत् स्वोदरमादरेण| विकारमात्रभिरपेततन्द्रः कालाग्निमूलर्पितचित्तवृत्तिः|| २४|| ततो धारयेन्मारुतं शुद्धचेताश्चतुः षष्टिमात्राः समापूरितं तम् | वहिर्भास्वता रेचयेन्मन्दमेनं तदर्द्धाभिरन्तर्निरुद्धं तु ताभिः|| २५|| रोगी यातीति | कार्ययान्तरे तत् प्रयोजनं कथयति| यदीश्वरे वायौ अन्तर्गते अत्र कार्यये आकाङ्गित सिद्धिर्भवति वहिर्गते द्वादशाङ्गु लादधिकं गते सर्वकार्ययाणि नश्यन्तीति| कति दिनानि कुत्र तिष्ठतीति कथयति|| १६| १७|| आरभ्येत | दर्श एव प्रथमा तिथिर्यस्थाः प्रतिपदः सा दर्शप्रथमा प्रतिपत् तेन शुक्रप्रतिपदादितिथित्रये वामे चतुर्थ्यादि दक्षिणे सप्तम्यादि वामे दशम्यादि दक्षिणे वयोदश्यादि वामे कृष्ण प्रतिपदादि दक्षिणे चतुर्थ्यादि वामे सप्तम्यादि दक्षिणे दशम्यादि वामे त्रयोदशयादि दक्षिणे | अथेत्यनन्तरं शुल्कान्यपक्षादिभूतां कृष्णप्रतिपत्तिथिमुपक्रम्य त्रीणि दिनानि दक्षिणभागे वायुरुदेतीत्यादि संख्या उक्ता एवं ना पुरुष उदरं लक्षयेत्|| १८| १९|| एकस्येति| यद्ये कत्र पक्षे बायोर्वैपरीत्यं भवति तदा तस्व पुरुषस्य रोगजनितोऽभिभवी भवति| शुल्कप्रतिपदादिदिनत्रयं यावद्वायुर्वामपुटे सञ्चरति तत्र यदि दक्षिणपुटे भवति एवं पञ्चदशदिनपर्ययन्तं यदि व्यत्ययो भवति तदा रोगाभिभूतिर्भवति मासमात्रं वैपरीत्येन सुहृदां विपत्तिः पञ्चचत्वारिंशद्दिनानि यावद्व्यत्ययो तस्य पुरुषस्य मरणं भवतीति | वायोर्वैपरीत्ये रोगादिकं भवतीति स्वाभाविकी गतिः || २०|| विपरीतोदये शुभोदयः कथं स्यादित्याह यदेति| स्वकीयादृष्टवशाद्वायुर्वैपरीत्ये उदेति तदादिबोधं कृत्वा श्वासं पीड़येत् यथा पुटान्तरं गच्छति|| २१|| द्वावेवेति| कुमुदबन्धुश्चन्द्रः सूर्ययश्चासौ सकलं कालं धत्तः दिवारात्रिरसात्मकस्य रात्रिन्द्रिवीपलक्षितस्य कालस्य भीक्ती भक्षिका सुषुम्ना परं नान्या नाड़ईभीक्तृत्वं नाम चित्कलासमवेतस्य तस्वोपाधितया रुपत्वमापाद्य सर्वस्वाभिभाकत्व मित्यर्थः|| २२|| तत इति| सुषुम्नैव भीक्ती तदा क्रमेण विशीधितनाड़ईमार्गान्तरः सन् प्राणवायोः शनैः शनैः संयमने नियमे प्रयत्नं यथा कथितप्रकारेण कुर्वीत|| २३|| तमेव प्रकारं कथयति शीतांशुमार्ग इति| शीतांशोश्चन्द्रस्य वर्त्मना वामनाड्या वायुभिः स्वकीयमुदरं विकारमात्रया षीड़शमात्रया पूरयेत्| अपेता तन्द्रा निद्रा यस्य सः कालाग्रिमूलार्पितचित्तवृत्तिः| कालाग्रिमूले मूलाधारेऽर्पिता चित्तवृत्तिर्व्यापारो येन|| २४|| तत इति| पूरितं वायुं चतुः षष्टिमात्रापर्ययन्तं धारयेत् तस्य गतागंत विरोधयेत् भास्वता सूर्ययमार्गेण दक्षिणया शनैस्तदर्द्धाभिर्द्वात्रिं शन्मात्राभिरभ्यन्तरे निरुद्धं तं वायुं रेतयेत् त्यजेत् || २५|| पृ० २६) विपरीतमतो विदधीत बुधः पुनरप्यथ तद्विपरीतमिति| अमुना विधिना सुमनाः सततं मरुतो विदधीत सुसंयमनम्|| २६|| प्रस्वेदं जनयति यः प्राणायामेषु सोऽधमः प्रोक्तः| कल्पोमध्यः पुंसां भूमित्यागं तनोस्तनोति परः|| २७|| तावद्विदधीत बुधः प्राणायामं समाहितो विधिवत् | यावत् सम्भवति* भुवि प्राणायामस्योत्तमस्य गुणः|| २८|| अयं प्राणायामः सकलदुरितध्वंसनकरो विगर्भः प्रोक्तोऽसौ शतगुणफलो गर्भकलितः| जप ध्यानापेतः स तु निगदितो गर्भरहितः स गर्भस्तून्मुक्तो मुनिपरिवृतैर्योगनिरतैः|| २९|| शुचिः प्राणायामान् प्रणवसहितान् षोड़श वशीप्रभाते सायञ्च प्रतिदिवसमेवं वितनुते| द्विजो यस्तं म्नूणप्रहरणकृतांघोऽभिकलितम् पुनन्त्ये ते माजादिह दुरिततूलौघदहनाः|| ३०|| त्रायन्त्यमी षड़भिरपीह मासैर्जन्मान्तरोपार्जितपापपुञ्जात्| संवत्सराद्वह्मपदं तदेकं प्रकाशयन्त्ये व यदच्युताख्यम्|| ३१|| इह रेचकपूरकौ विहाय स्थिरधीः कुम्भकमेव केवलं यः| सततं कुरुते मनोजवत्वं लभते वीतजरामयः स मर्त्यः|| ३२|| पृ० २७) न हि तस्य सुदुर्लभं त्रिलोक्यामिह यः केवलं कुम्भके निषस्यः| अणिमादिगुणाष्टकं करस्थम् ननु तस्यैव निरस्तमृत्यु भीतेः|| ३३|| राजदन्तयुगलादिमस्पृशन् सन्निधाप्य रसनां तदन्तिके| काकचञ्चुपुटमारुतं पिवेत् प्राणसंयमनमेतदुत्तमम्|| ३४|| द्विकचञ्चुसममीरणं शनैर्धयतः सम्परिकृत्य सन्ध्ययोः| श्रमदाहगरोदरामयज्वरगुल्माः प्रशमं प्रयान्ति च|| ३५|| उभयोरपि सन्ध्ययो र्मुहूर्त्ते पिकधातु र्धयतस्त्रिमासमात्रम्| सरसं द्विकचञ्चुगन्धवाहं भुवि सारस्वतसिद्धिरुत्तमा स्यात्|| ३६|| विषमुग्रमुदग्रवीर्ययभाजां प्रविनाशं समुपैति पन्नगानाम् | किमु वृश्चिककीटलूतकानामिह काकोलमुखानिलस्य पानात्|| ३७|| द्विकचञ्चसमीरणं नरः सरसं यः परिकृष्य सन्ध्ययोः | कुरुते निजकुण्डलीमुखे क्षयरोगं स विमुच्य जीवति|| ३८|| द्विकचञ्चुसमीरणं नरो यः पिवतीहानिशमेव बीततन्त्रः| विपरीतमिति| अथः प्रकृताद्विपरीतं विदधीत कुर्ययात् | पुनरपि तद्विपरीतं प्रकृतक्रमेणादिक पुनरपि तद्विपरीतम् एवमभ्यसेत् अमुना प्रकारेण मरुतो वायोर्नियमं न कुर्ययात्|| २६|| प्रस्वेदमिति | अयं सुगमः|| २७|| २८|| अयमिति | गर्भो गर्भशून्यः प्राणायाम उक्तः सन् सकलदूरितानि विनाशयति गर्भेंण सहितोऽयं शतगुणफलसहितः कथितः विगर्भापेक्षयो को विगर्भः कः सगर्भः इत्याकाङ्क्षयामाह जपेति| जपैर्ध्यानैश्च शून्यो यः गर्भरहितः ताभ्यां युक्तो यः सगर्भः कथितः|| २९|| शुचिरित्यादि| चतुष्टयं सुगमम्|| ३०-३३|| राजजन्तेति| राजदन्तयुगलद्वयस्वादिमस्पृशन् तेषाम् अन्तिके समीपे जिह्वां सन्निधाप्य काकचञ्चुपुटेन वायुं पिवेत्| काकचञ्चुपुटवन्मुखं कृत्वा पिवेदित्यर्थः| मध्यभूतदन्तचतुष्टयं राजदन्ताः एतदुत्कृष्टं वायोर्नियमनमिति|| ३४|| द्विकेति| द्विकचञ्चुभ्यां समीरणं वायुं धयतः पिवतः धेट् पा पाने| द्वाभ्यां ककाराभ्वां लक्षितो द्विकः काकः श्रमदाहं गरोविषम् उदरामयम् उदररोगः ज्वरः ** इत्याद्याः प्रशूमं प्रयान्ति|| ३५|| उभयोरिति| उभयोः प्रातः सायं सन्ध्ययो र्मुहूर्त्ते दण्डद्वयं यावत् प्रहरत्रयमात्र वा कं श्मश्रुं तस्य धातुः धर्त्तुः पुंसः काकचञ्चु पुटमारुतं पिवतः सारस्वत सिद्धिभंवति सन्ध्यामुहूर्त्तमात्रं प्रहुरत्रयं वेति व्यवस्थितविकल्पार्थः|| ३६|| पृ० २८) भवति ध्रुवमेव तस्य वर्षाच्छवणं दर्शनमप्यतीव दूरात्|| २९|| बहुधा कथितैर्मुहुः किमेभिर्द्विकचञ्च्वा तु समीरणस्य पानात्| जरसा सह नाशमाशु याति प्रबलं मृत्युकृतं भयं नराणाम् || ४०|| जिह्वां कृत्वाऽनाकुलस्तालुमूले दन्तैर्दन्तान् गाढ़मापीड़यित्वा| मन्दं मन्दं यः पिवेद्गन्धवाहं सौधैः पुरैः साकमन्तः स्पृशद्भिः|| ४१|| षण्मासाभ्यासेन रोगैरशेषैः पापेभ्योऽसौ मुच्यते साधकेन्द्रः| अब्दादेकाद्विश्रसां मृत्युदूतीं जित्वा भूमौ दीर्घकालं स जीवेत्|| ४२|| वर्षत्रयाभ्यासवशातीतमनागतं वेत्त्यलिनीलकेशः| विषं न देहे क्रमते तदीये दष्टे सुघोरैरपि पन्नगेन्द्रैः|| ४३|| न कृत्रिमं स्थावरजङ्गमं वा विषं किमन्यैरपि कालकूटैः| गुणाष्टकं कालवशादुपेत्य महीतले क्रीड़ति भैरवो वा || ४४|| या मुण्डाधारदण्डान्तरविवरगताहारनीहारगौरी सौधीं धारां नभोऽम्भोरुहकुहरविधोः संस्रवन्तीं वहन्ती| तस्या वज्राख्यनाड्याः खगमुदरदरीमध्यगं यो विदध्यात् तस्या ब्रह्माण्ड भाण्डप्रलयमपवनं स्यादघनं मृत्युमृत्योः|| ४५|| पृ० २९) मूर्च्छां गतो हरति रोगसमूहमध्यारुद्धः करोति गगने गमनं नराणाम्| वातो मृतो वितनुतेऽमरतां समस्तमभ्यासतः सुलभमेव समीरणस्य|| ४६|| अथ पार्ष्णिनिरुद्ध कम्बुर्ना ध्वजमूलस्थित सव्यपादपार्ष्णिः| ऋजुकायशिरोधरो यतात्मा विषयेभ्यो विनिवर्त्तितेन्द्रियाश्वः|| ४७|| ककीचञ्च्वग्रहृष्टैर्मु हुरुदरदरीं पूरयित्वा समीरैरस्तुष्टाभ्यामुभाभ्यां नररिपुविवरे तर्जनीभ्यां च नेत्रे| नासारन्ध्रं निरुद्य स्थिरविमल मतिर्मध्यमाभ्यामथास्यम न्याभि र्नातिगाढ़ं कमलजनिलये स्थापयेन्मानसं खम् || ४८|| विषमिति| काकीलः त्रयं सुगमम्|| ३७ - ४०|| जिह्वामिति | तालुप्रदेशे जिह्वां योजयित्वा उपरिस्थदन्तपङ् क्त्याऽधोदन्तावलिं आपीड्य सौधैः पूर्वमुखावस्थितैः सह गन्धवाहं वायुं पिवेत् अन्यत् सुगमम् | प्रकारान्तरमाह जिह्वामिति| सौधैर्मुखान्तर्गतरसैः विस्रस्रां जरां कृतिमविषं नारिकेलमिश्रित कर्पूरं स्थावरं हिमशैलजादिकं जङ्गमं पार्वतीयं व्याघ्रनाभिजन्यं गुणाष्टकम् अष्टसिद्धिर्भैरवावतारार्थै वाशब्दः|| ४१ - ४४|| या मुण्डेति| सुषुम्नान्तर्गताया वज्राख्यनाड्या उदरमेव दरी कन्दरा तन्मध्यवर्त्तिमं खमं वायुं यो विधानं करोति तस्य पवनं शरीरं मृत्यु मृत्योर्धनं मुद्गरं भवति | मृत्युर्यमः तस्य मृत्यु र्नाशकः तस्य लोहमुद्गरो भवति| घनः स्यासल्लोह मुद्गर इत्यमरः| सा का मुण्डाधारदण्डान्तरविवरगर्त्ता मुण्डस्याचारभूतो दण्डः पृष्ठवंशात्मकः तदन्तर्गतसुषुम्ना तन्मध्यवर्त्तिनमित्यर्थः | कीद्दशाहवे हिमवच्छुभ्रामृतधारां वहन्ती धारयन्ती आकाशदेशावस्थित पद्माभ्यन्तरवर्न्ति नोविधीश्चन्द्रस्य क्षरन्तीम् तथाच यः सुषुम्नान्तर्गतवायुं निरीधयति तस्य मरणं न भवतीत्यर्थः|| ४५|| मूर्च्छामिति| मूर्च्छा निश्चेष्टत्वे सति इति यावत्| अद्धा तत्त्वेन रोगसद्धांतं निवारयति| वद्धः सन् नाड्यन्तरे निरुद्धः आयत्तः सन् मनुष्याणाम् आकाशगमनं निराधारसञ्चारं करीति मृतः मनसा सह याति स्वाभीष्टदेशं तथा विलीनः अमरताम् अमरमं नयति| तथाच मूर्च्छितो हरतो व्याधिं निहन्यान्मरणं मृतः| बद्धः खेचरतां कुर्ययात् वशो वायुश्च भैरवि ! || ४६|| प्रकारान्तरमाह तथेति| ना पुरुषः स्वीयमानसं कमलजन्मनी ब्रह्मणी निलये आधारकमलेऽवस्थापयेत् | कीद्दक् पार्ष्णिना एकपादगुलफेन निरुड्यः कम्बुनिरु्द्धगुदमार्गो येन सः ध्वजमूले लिङ्गमूलेऽव स्थापिता अपरपादपार्णियेन सः| ऋजु कायः अवक्रशरीरः यतात्मा इन्द्रियमेव दुर्द्धरत्वादश्व इवाश्वः || ४७|| काकीति| काकबधूमुखेनाकृष्टैर्वायुभिरुदरदरीं पूरयित्वा करद्वयस्याङ्गुष्ठाभ्यां * नररिपुविवरे वक्ष्यमाणं नरो अर्जुनः तस्य रिपुः कर्णः कर्णविवर इत्यर्थः| तर्जनी द्वयेन नेत्रद्वयं मध्यमाभ्याम् अङ्गु लीभ्यां मासापुटं निरुध्व अन्याभिश्चचुर्भिर्मुखं निरुध्य|| ४८|| पृ० ३०) यथाशक्त्याभ्यासं प्रतिदिवस मेवं विदधतः सुषुम्नान्तश्चायं प्रचरति शनै र्देहपवनः| तदा नादो नैजो भवति सहसानन्दजननःक्रमाद्वीणा वादिप्रहत मृदुवीणीरवशयः|| ४९|| आदौ मत्तालिमालागलपथविमलत्तारभ्क्तङ्कारहारी नादोऽसौ वंशिकांस्यां निलभरितल सद्वंशनिस्वानतुल्यः| घण्टानादानुकारी तदनु जलनिधिध्वानधीरो गभीरो गर्जं पर्यय न्यघोषः पर इह कुहरे वर्त्तते ब्रह्मनाड्याः|| ५०|| विजिते भवतीह तेन वायुः सहजो यस्य समुत्थित प्रसादः| अणिमादिगुणा भवन्ति तस्यामितपुण्यस्य महासुखास्पदस्य|| ५१|| सुरराजतनुजवेरिरन्ध्रे विनिरुध्य स्वकराङ्गुलीद्वेयेन| जलधेरिव धीरनादमन्तः प्रसवन्तं सहसा श्रृणोति मर्त्यः|| ५२|| परिभावयतोऽपि नादमेनं त्रिदशाधीशतनूजवैरिजातम्| सततं भवतीह तस्य जन्तोर्गुण सम्पत्तिरपेत कल्मषस्य|| ५३|| श्रृङ्गाण्यङ्गुलिभिर्निरुध्य विधिवत् कोदण्डयोः पण्डितो मध्ये बद्धमरुन्निरुध्य वृषभश्रेष्ठञ्च षष्ठेन्द्रियम् | पृ० ३१) साक्षात्तत् क्षणमेव पश्यति शनैस्त्रययन्तगीतं परम् ज्योतिस्त्रैपुरमङ्कमुक्तशशभृल्लक्षाभलक्षप्रभम्|| ५४|| इति श्रीनागभट्टविरचिते त्रिपुरासारसमुच्चये तृतीयः पटलः| चतुर्थः पटलः| अथ पूरकयोगयोजितानतः पृषदश्वो निजमूलचक्रदेशे| विदधीत बुधः समाहितोऽजोपपदग्रन्थिविभेदने प्रयत्नम्|| १|| शक्वत् समुत्सृज्य यथा शनैः स्वं सङ्कोचयेत् कम्बुनि मार्गमर्वा| बुधस्तथा ध्वारनियोजितात्मा सङ्कोचयेत् कम्बुनि मार्गमुच्चैः|| २|| यथेति| एवमनेन कथितप्रकारेण प्रतिदिनमभ्यसत्रः पुं सः सुषुस्राभ्यन्तरे अयं वायुः सञ्चरति यदि तदा सततानन्दजनकी ब्रह्मप्रदी नाद उत्पद्यते क्रमेण पुनर्वीणा समरवी भवति वीणावादिप्रक्वतत्वेनातिशय मधुर ध्वनिरिति| द्वयं सुगमम् || ४९- ५१|| सूरराजेलि| मुरराज इन्द्रः तत्तनुजोऽर्जुनः तद्वैरी कर्णः तत्र स्वहस्तद्वयाङ्ग लिद्वयेन निरुध्यः समुद्रस्येव गभीरं शब्दमभ्यन्तरे प्रसरन्तं शृणोति मर्त्यः तस्यापगतपाभनः गुणावाप्तिर्भवति मोक्षप्राप्तिर्भवतीत्यर्थः|| ५२| ५३|| शृङ्गाणीति | शृङ्गाणीन्द्रियाणि तान्यङ्गुलीभिः प्रतिरुध्य कीदण्डयीर्भुवीर्मध्ये निरुद्धपवनः वृषभश्रेष्ठः| वृषी विषयः तं भजत इति वृषभः वृषभाणीन्द्रियाणिंत श्रेष्ठं षष्ठेन्द्रियं मनः तन्निरुध्य इत्यर्थः| त्रययन्तर्गीतं वेदान्तवेद्यं अङ्कमुक्तशशभृल्ल. क्षाभलक्षप्रभम् एककालीदितनिष्कलङ्कानेक चन्द्रप्रभम् | अयमर्थः| इन्द्रियाणि स्वकराङ्गुलीभिर्निरुध्य र्भ्रुवोर्मध्ये स्वान्तसम्भिन्नवायुं स्वप्रभावक्रमेण यो नियमयति स शशिप्रभं वेदान्तवेद्यं परं ज्योतिःस्वरुपमात्मानम् अनुभवतीत्यर्थः|| ५४|| इति त्रिपुरासारटीकायां पदार्थादर्शे तृतीयः पटलः| एवं प्राणायामेन पवन जययोगविशेषां श्चोक्ता जितामरतामविकाराणामभ्युदयनिः श्रेयसप्राप्तुपायभूतं मन्त्राणां छिन्नादिदीषपरिहारार्थं योनिमुद्राबन्धनप्रकारं वक्तु मुप क्रमते अथ पूरकयोग इत्यादिना | आदौ पूरकादियोगाभ्यासेन निजमूलचक्रदेशे मनः स्रंयोज्य अजोपपदग्रन्थि विभेदने यत्रं प्रकुर्वीत अजो ब्रह्मा स एव उपपत्तिर्यस्य ग्रन्थिशब्दस्य तेन ब्रह्माग्रन्थिरित्यर्थः| समाहिताभ्यासध्यानः|| १|| ग्रन्थिभेदप्रकारमाह शकृदिति| अर्वा अश्वः शकृद्विष्ठां समुत् सृज्य त्यक्त्वा येन प्रकारेण कम्बुनि मार्गं गुदमार्गं सङ्गोचयेत् तेन प्रकारेणाधारचक्रे संयुक्ताना पुरुषः | स्वीयं कम्बुनि मार्गं सङ्गोचं नयेत्|| २|| पृ० ३२) विदधीत मुहुर्महुर्गु रुक्तक्रमतो हुङ्कृतिमङ्कलग्नपाणिः| दृढ़रुद्धगुदध्वजान्तरालस्थित तेजोमय पुष्कराग्रयोनिः|| ३|| अथ कम्बुनि मारुतं जितात्मा प्रतिलोमेन शनैः प्रवेशयेत्तम्| कमलासनपङ्कजस्य मूलं स्वगुरुप्रोक्तविधानतो दुरापम् || ४|| अमुना विधिना मुहुः कृतेन क्रमशः कम्बुनि मारुतस्ततोऽसौ| अजपङ्कजमूलदेशमार्गप्रणयी ग्रन्थिविभेदनं करोति|| ५|| परिहृत्य खगाधिपस्ततोऽसौ सरणिं चन्द्रमसो नभोमणेः| कमलं कमलासनस्य पश्चाद्विदधीतोर्द्धमुखं प्रविश्य सम्यक्|| ६|| प्रतिभानमथाद्भुतं प्रविष्टे भवनान्तः परमेष्ठिनः खगेशे| लघुता वपुषो भवत्युदग्रा जठरान्तर्ज्वलनस्य चापि दीप्तिः|| ७|| तड़इत्कोटिप्रख्य सुरुचिजितकालानलरुचिम् सहस्रादित्यां शुप्रकर सदृशोद्योत कलितम्| पृ० ३३) भ्रमन्तं योन्यन्तः स्थुरदरुण बन्धूक कुसुमप्रभं कामं ध्यायेज्जठर शशभृत्कोटिशिखरम्|| ८|| तस्योर्द्धेऽग्निशिखा चिरघुतिलतापुञ्जप्रभाभास्वा सूक्ष्मा ब्रह्मपथान्तराम्बरगता चैतन्यमात्रा कला| एकीभूतमनन्तरं सह तया ध्यायेद्धिया निश्चलम् आत्मानञ्च निवातदीपनिभया हंसस्वरुपं बुधः|| ९|| शक्तिः कुण्डलिनीति या निगदिता आईम संज्ञा जगन्निर्माणे सततोद्यता प्रविलसत्सौदामिनी सन्निभा| शङ्खावर्त्तनिभां प्रसुप्त भुजगाकारां जगन्मोहिनीम् तन्मध्ये परिभावयेद्विषलतालन्तूपमेयाकृतिम्|| १०|| हूङ्कारेण गुरपदिष्टविधिना प्रोत्थाप्य सुप्तां ततः कृत्वा तां कलया तया परमया चिद्रूपया सङ्गताम्| मायां कुण्डलिनीं समाहितमनास्तामुच्चरेत् कौशिकीम् शक्तिं ब्रह्ममहापथेन सहितामाधारतः स्वात्मना|| ११|| विदधौतेति| मुहुर्मुहु र्वारंवारं गुरुपदिष्टप्रकारेण करकमलद्वयं नाभेरधः- स्थिततेजोमयपद्माग्रस्य योनिञ्च यत्नेन निरुध्य गुदलिङ्गमध्यतेजोमयपुष्करराग्रे योनिर्येन निरुद्धमूलाधार इत्यर्थः| अयमर्थः गुदध्वजयोर्मध्ये स्थितं यच्चतुष्पन्नं पद्मं तन्मध्ये त्रिकोणाकारा योनिरिति|| ३|| अथेति| कम्बुनि मारुतममानवायुं देशिकोक्तक्रमेणा कुञ्चा शनैरुर्द्धं नीत्वा कमलासनपङ्कजाख्यं सुषुम्नामूलं प्रवेशयेत्|| ४|| अमुना विधिनेति | एवं मुहुर्मु हुरभ्यासेन अधीवृत्तं निरुध्य तदन्तर्ब्र ह्ममार्गः स्थितग्रन्धिभेदनं करोतीत्यर्थः|| ५|| परिहृत्येति| अपानश्च ऊर्द्धवृत्तित्वेन प्राणात्मकत्वात् खगाधिपत्याख्यां लभते| एवमूर्द्धगमनाय प्रवृत्तोऽपानवायुः सोमसूर्ययातमकेड़आपिङ्गलामार्गौ परिहृत्थ कमलमूलं सुषुम्नामूलम् उपविश्य ऊर्द्धमुखं करोति|| ६|| प्रतिभाममिति| खगेशेऽपानवायौ ब्रह्मणी भवनाभ्यन्तरं प्रविष्टे सति अद्भुतम् आश्चर्ययजनकं प्रतिभानं भवति वपुषःउदग्रा लघुता भवति|| ७|| तड़इत्कोटि प्रख्यमिति| कामशरीराग्निं ध्यायेत्| कीदृशं विद्युदग्रतुल्यम्| स्वतेजसा विजिता कालानलस्य रुचिर्येन त्वादृशं सहस्र संख्यादित्यतेजः समूहतुद्धेन उद्योतेम कलितं सम्बद्धं योन्यन्तराधारं चक्रस्याभ्यन्तरे भासमानं बन्धूक शब्देन रत्नावर्णाभं शशभृल्लक्षशिशिरम् | एतेन साधकानामानन्द जनकत्वं बोध्यक्षे| काममिबि कामशब्दो रहस्यागमे शरीरवैश्वानरे रुढ़ः | एवं तेजोमयं कामं स्वाधारगमनं भावयेत्| तथाचोक्तं रुद्रयामले - भ्रमं योनिमतं ध्यायेत् कामं बन्धू कसन्निभम्| ज्वलत्कालानलप्रख्यं वड़इत्कोटिसमप्रभम् इति || ८|| तस्येवि| तस्य कामराजाख्यजातवेदस उपरि शिखारुपातिसूक्ष्मा विद्युत्सहस्र सन्निभा चिद्रूपा वा कला सा ब्रह्मेति | केचितु विद्युत्सहस्र सन्निभा चिद्रूपात्म कला निष्कला ध्येया इत्यनुषज्यते| परमंहंसस्वरुपात्मानं तया कलवा एकीकृत्य चिन्तयेदिवि|| ९|| शक्तिरिति| तवा कलया या चिद्रूपा कला कुरण्डलिनी शक्तिरिवि कथिता पूर्वोक्त शिखामध्यमां परिभावेयेत्| अन्तर्व्याप्य स्थितां ध्यायेदिव्यर्थः|| १०|| उक्तमर्थ संक्षिप्य दर्शयति हूङ्गारेति | हूङ्गारेण मन्त्रसिहतेन गुरुक्रवका पृ० ३४) भित्वा लिङ्गत्रयमथ बुधो ब्रह्मनाड्येह चोर्द्धम् गच्छन्तों तां कमलजपदात् प्रापयेदात्मशक्तिम् | व्योमाम्भोज प्रणयिपर मानन्दकन्दं विसर्ग स्थानं चन्द्रोपरि परिगलद्रक्तपीयूष धारम् || १२|| पीत्वा कुलामृतरसं पुनरेव दिव्यम् मध्यं विशेदपधनस्य समाहितात्मा| यायात् कुलादकुलमेव पुनश्च मात्रा योगेन देशिक वर प्रतिपादितेन|| १३|| सा शक्तिः सकलशरीर जीवभूता प्राणोऽसाविति गदितात्र तन्त्रिमुख्यैः| उद्धातः स तु परिपठ्यते मुनीन्द्रैःप्राणोऽन्तः स्पृशति यदा क्रमेण नीतः|| १४|| अंमुं स्वाधारस्थं प्रतिदिवसमभ्यासनिरतः करोति श्रद्धावान् सततमवधूताखिलमलः| स मुक्तो दुःखीघेरपगतजराल्के शमरणो गुणग्रामोपेतः सुर इव चिरं जीवति भुवि|| १५|| पृ० ३५) चतुर्विधा या कथितेह सृष्टिः प्रवर्त्तते सा सकलापि यस्याम् | प्रलीयते चापि जगत् समस्तं कालाग्निरुद्रादिशिवान्तमेतत्|| १६|| सेयं मयोक्ता खलु योनिमुद्रा बन्धुस्तु देवैरपि दुर्लभः स्यात्| अनेन बन्धेन न साध्यते यन्नास्त्ये व तत् साधकपुङ्कवस्य|| १७|| छित्त्वा रुद्धाः स्तम्भिताः कीलिता ये सुप्ता मत्ता मूर्च्छिता हीनवीर्ययाः| दग्धाः श्रस्ताः शत्रुपक्षस्थिता ये बाला वृद्धा गर्विता यौवनेन|| १८|| ये निर्जीवा ये च सत्त्वेन हीनाः षण्डीभूताश्चाङ्गमन्त्रैर्विहीनाः| एते मुद्राबन्धनेनापि येऽन्ये मन्त्राः सर्वे वीर्यय वन्तो भवन्ति|| १९|| रेण तां कुण्डलिनीं आधार कमले सुप्तामुत्थाप्य प्रबोध्य अनन्तरं तया परमया चैन्यरुपया मिलितां कुण्डलिनीं मायां कुलं मूलाधारः तत्रस्थां शरीरस्य देवतां चिन्तयेत् | अकुल शिव इत्यक्तः कुलं शक्तिः प्रकीर्तिता| कौलं तेजो विकारः स्यादित्रि त्रितयनिर्णय इति|| ११|| भित्त्वेति| अग्रे कथितं लिङ्गत्रयं विभिद्य ब्रह्मनाड्या सुषुम्नंयां ब्रह्मणः स्थानादुर्द्धं तां कुण्डलिनीं शक्तिम् आकाशाम्भोरुहप्रणयित्वम् आकाशाम्भोजस्थपरमानन्दस्थविसर्गस्थानं प्रापयेव ध्यायेत्|| १२|| पीत्वा कुस्तामृतरसमिति | एवं तां सहस्रारपर्ययन्तं नीत्वां तत्रस्थं दिव्यं सुधारसं पीत्वा तेनैव मार्गेण विरीहक्रमेण अपघनस्य मध्यं कुलाख्यं योन्याधारं प्रापयेत् शरीरमध्यं मूखाधारमित्यर्थः| कथं ग्राहयेदित्याह मात्रायोगेन गुरुक्तमाघायोग क्रमेण गतागतं विदधीत | मात्रा तु - विन्दुनादस्तथा शक्तिर्मात्रात्रयमुदाहृतमिति| तथा हि मात्रापदेन पीठत्रयं विधीयते| आज्ञास्थानगतो विन्दुः तत्वाज्ञा प्रकाशकस्वरुपं पूर्णाख्यं पीठं तदुपरि ललाटमध्ये विन्द्वात्मक प्रकाशरुपस्य शिवात्मक स्फुरद्रूपनादात्मकस्य नादाख्यं द्वितीयं पीठं तदुपरि शिखा विश्वात्मिका शक्तिरुपं मया उक्ता खलु निश्चये अस्या मुद्राया बन्धनं देवैरपि दुर्लभञ्च| योनिमुद्राया अनेन बन्धनप्रकारेण यन्न साध्यते तदा स्मरमम् तथा सर्वमेवानया मुद्रया साध्यत इत्यर्थः| इयं का इह जगति या चतुः प्रकारा सृष्टिरुक्ता यस्यां प्रवर्त्तते यतो भवतीत्यर्थः | उद्धिदस्तरुगुल्माद्याः स्वेदजाः कृमिदंशाद्याः जरायुजा मनुष्याद्याः अण्डजाः पक्षिसर्पादयः | केचित्तु शब्दसृष्टिः शब्दार्थसृष्टिः प्रकृतिपुरुषसृष्टिरिति मन्यन्ते| अथवा नैयायिकमते पुरुषसृष्टिः सांख्यमते प्रकृतिपुरुषयोगात् पातञ्जलमते केवलप्रकृतेः मीमांसकमतेऽदृष्टादिति| चतुर्विधा सृष्टिः समस्तं जगदपि यस्यां कालाग्रिरुद्रादिरुपां यस्यामेव लयं याति पूर्वोक्तध्यानविशेष एव मुद्रा|| १३- १७|| छित्त्वेति| युग्मकम् | एते सर्वे मन्त्रा योनिमुद्राया ध्यानविशेषेण वीर्यययुक्ता भवन्ति| एतैरुच्छिन्ना मनोर्यस्यादिमध्यान्ते स्वामिनं वीजमुच्यते| संयुक्तं वारियुक्तं वायुनाक्रान्तं न्निधा पुनः| चतुर्धा पञ्चधा वाथ स मन्त्रश्छिन्न संज्ञकः| आदिमध्यावमानेषुभूवीजद्दन्द्वलाञ्छितः| रुद्धमन्त्रः स विज्ञेयी भूक्तिमुक्तिविवर्जितः| ये च पृ० ३६) गुरुतल्पनिषेवणञ्च पानं द्विजहत्या मधुनः सुवर्ण चौर्ययम्| अमुना विलयं प्रयान्ति सम्यक् सकृदप्याचरितेन बन्धनेन|| २०|| स तु मन्त्रिवरः स एव योगी गुणसिद्धेः पदमास्थितः स एव| अमुना चरतीह बन्धनं यः सततं स्वोचितधर्मकर्मनिष्ठः|| २१|| अमुना भवतीह देहभाजां सतताभ्यासकृतेन बन्धनेन| न जरा पितृराजवैजयन्ती न च मृत्चुप्रतिपादिता च भीतिः|| २२|| पृ० ३७) एतस्यैव हि बन्धनस्य मनुजः प्राप्नोति शश्वत् कृतादभ्यासादणिमादिसिद्धिमतुलां संवित्तिमप्यूर्जिताम्| योगञ्चाप्रतिमं जयञ्च मरुतः कालस्य वा वञ्चनम् तद्विष्णोः परमं पदन्तु सततं पश्यन्ति यत् सूरयः || २३|| इति श्रीनागभट्टविरचिते त्रिपुरासारसमुच्चये चतुर्थः पटलः|| पञ्चमः पटलः| अथाधारपङ्केरुहाण्यन्न वक्ष्ये सुषुम्नान्तरस्थानि संक्षेपतोऽहम् | तदम्भोजपत्रस्थितांश्चापि देवांस्तदम्भोजवर्णन् षडा़धारदेवीः|| १|| अजग्रन्थिपद्मं पुरा यन्मयोक्तं तदाधारमाद्यं वदन्तीह शम्भुः| सुवर्णाभवर्णैश्चतुर्भिः समेतं दलैर्योगिगम्यं महाश्चर्ययभूतम्|| २|| कीलिकाः- आदिमध्यावसानेषु हंसः प्रासादबाग्भवौ| हकारी विन्दुवान् जीवी वाग्भवश्च चतुष्कलः| माया नमामि च पदं नास्ति यस्य स कीलितः | ये लम्भिताः| एकं मध्ये स्वयं मूर्ध्नि यस्मिन्निन्द्रपुरन्दरौ| न विद्यते स मन्त्रः स्यात् स्तम्भितः सिद्धिबोधनः| ये च सुप्ताः| न्निवर्णो हंसहीनो यः सुप्तश्च उदाहृतः| ये च मत्ताः | मन्त्रो वाप्यथवा विद्या सप्तधिकदशाक्षरः| फट् कारः पञ्चकादिर्यो मदोन्मत्त उदीरितः| ये च मूर्च्छिताः| पञ्चधास्त्रं स्थितां मध्ये यस्य मन्त्रः स मूर्च्छितः| ये हीनवीर्ययाः| विरामस्थानगं यस्य हीनवीर्ययः स कथ्यते | ये च दग्धाः| वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि| सप्तधा दृश्यते तन्तु दग्धं मन्नौत मन्त्रवित्| ये च श्रस्ताः| अस्त्रं द्वाभ्यां त्रिभिः षड़् भिरष्ठाभिर्द्दश्यतेऽचरैः| स्तम्भः सोऽभिहिती मन्त्रः| ये च शत्रुपक्षे स्थिताः| तारादिभिरननुकूलाः| ये च बालाः| सप्तार्णोमनुर्बालः| ये च वृद्धाः| त्रिंशद्वर्णश्चतुः षष्टिवर्णो मन्त्रः शताक्षरः| चतुःशताक्षरश्चापि वृद्ध इत्यभीधीयते|| ये च युवानः | षोड़शार्णो युवा प्रोक्तः| ये च जीवहीनाः| षष्ठाक्षरो जीवहीनः| ये च सत्वहीनाः| द्विवर्णः सत्वहीनः स्यात्| ये अङ्गहीनाः| षड़ विंशत्यक्षरी मन्त्रः षट् त्रिंशद्वर्णकस्तथा| एकोनविंशद्वर्णो वाप्यङ्गहीन उदाहृतः| इत्यादिदोषदृष्टा अपि मन्त्रा अनेन ध्यानेन विशुद्धा भवन्ती त्यर्थः|| १८|| १९|| गुरुतल्पनिषेवणमिति | सकृदाचरितेनापि योनिमुद्राबन्धनेन पुरुषो महापात कान्मुक्तो भवतीत्यर्थः| अमुना इति | देहिनाम् अमुना योनिमुद्राबन्धनेन सर्वदा कृतेन ध्रुवा भवति| कीदृशी पितृराजस्य यमस्य बन्धनस्य सतताभ्यासात् मनुष्यीऽणि माद्यष्टविधगुणान् प्राप्नोति उत्तमां प्रतिपत्तिं ज्ञानञ्च प्राप्नोति | योगाभ्यासञ्च प्राप्नोति वायो र्विजयमाप्नोति कालस्य वा वञ्चनं सकलस्य च प्रेरणम् | वा स्यात् विकल्पोपमयोरेवार्यें च समुच्चये| विष्णोश्च तत्पदं स्थानं पश्यन्ति सूरयः|| २०- २३|| इति त्रिपुरासारटीकाआयां पदार्थदर्शने चतुर्थः पटलः| एवमधिकारिणामभ्युदयनिः श्रेष्ठसप्राप्तुयपायभूतां योनिमुद्रामुक्ता अनन्तरं षड़आधारेषु योगविशेषान् वक्तुमुपक्रमते अथाधारपङ्केरुहाणीत्यादि| सुषुम्नान्तरस्थानीति या पूर्वोक्ता सुषुम्नान्तरेऽवस्थिता या चित्रा नाड़ई तदन्तर्मूलाधारादिषट् पर्वाणि सन्ति तान्येव षड़आधाराणीत्यर्थः| तेषामम्भोजानां पत्रावस्थितान् देवान् ब्रह्मादीन् अम्भीजालीवर्णान् शुल्कादीन् अक्षराणि च आधारभूतान् षड़् देवांश्च वक्ष्ये इति सम्बन्धः|| १|| अम्भोजानि कथयति अजेति| योनिमुद्रारक्षण प्रकारेण यदुक्तं चतुर्दलात्मकं पद्मं तदेवाधारमाद्यं ते योगिनः| देवीनिरुद्धान् जलाद्यब्धिवर्णान् वशषसान् पूर्वादिक्रमेण न्यसेत्| जलेन्द्राग्निवायूनिति पाठे जलं वकारः इन्द्राग्निरिन्द्रद्वितीयं पृ० ३८) चतुर्ष्वब्जपत्रेषु देवीनिरुद्धान् जलाद्यब्धिवर्णान् न्यसेत् केवलान् वा| सविन्दूनमन्द प्रभावान् समिद्धस्फ रज्जयोतिषि डाकिनी देवतात्र|| ३|| मूलाधारे सततं ध्यानयोगात् स्तम्भक्षोभावुत् प्लुति र्दार्दुरीव| भूमित्यागः खेचरत्वं क्रमेण नॄणामेते षड्गुणाः सम्भवन्ति|| ४|| कान्तिप्रकर्षो वपुषोऽपि नादव्यक्तिः प्रदीप्तिर्जठरानलस्य| लप्वुत्मङ्गस्य निजेन्द्रियाणां पटुत्वमारोग्यमदीनता च|| ५|| कृत्वा मनोनिश्चलमूलचक्रमध्ये नराः केवलमादरेण| भूतं भवच्चापि भविष्यदर्थं वदन्ति शास्त्राण्यपि चा श्रुतानि||६|| विहाय सद्यः कमलासनस्य वक्ताम्बुजं प्रीतितरङ्गसङ्गात्| तदीयवक्ताम्बु रुहोदरान्तः सरस्वती नृत्यति दिव्यरूपिणी|| ७|| अधिगम्य रसेन्द्रमन्त्रसिद्धी अपि कालञ्च विजित्य दुर्निवारम्| अजरामरतामवाप्य चान्ते परमानन्दपदे मुदा रमन्ते|| ८|| एकीभूतार्णवाम्भः प्लुतमखिलजगत् पूर्वमासीदपूर्वज्योतिर्मूर्तिस्त दन्तर्महितमहिम भूर्लिङ्गरूपी वभूव| षट् सिद्धाधिष्ठितात्मा सकल सुरनुतः षड् भिरास्यैरुपेतः षड्भिः कोषैश्च देवो भवभयतिमिरध्वं सहंसो महेशः|| ९|| आद्यं लिङ्गवपुर्भृतो भगवतो देवोद्विरण्डोऽभवद्वाली पूर्वमुखं शिवस्य तु महाकालस्तदूर्द्धाननम्| वक्तं दक्षिणमाशुशुक्षणिरसौ देवः पिनाकी पुनः षाश्चात्यं छगलाण्ड एष भगवान् वामास्यमस्याभवत्|| १०|| शकारः | एवमग्रेस्तृतीयं षकारः मध्यवर्ण उक्तः | एवं वायोर्यकारस्य चतुर्थो दन्त्यसकारः | तेन वं शं षं सं इति वर्णान् प्रथमाद्यं वीजं ततो वकारः तव आद्यं वीजं एवं क्रमेण चतुर्दलेषु चत्वारी वर्णा न्यस्तव्या इत्यर्थः| केवलान् वा केवलं विन्दुयुक्तं न्यसेत् | तत्र चतुर्दले डाकिनीरूपा देवी एतत्सकलप्रपञ्चमूलभूतत्वात् मूलाधारमिति योगिनी वदन्ति| अस्मिन् मूलाधारे ध्यानाचरणात् पुंसः स्तम्भक्षोभौ भवतः | निष्कियत्वं भवति| उत् प्लुतिः उत्पवनं दार्दुरी दर्दुरी मण्डूकस्तत्सम्बन्धिनी प्लतिरिति यावत् | मूमित्यागश्च भवति तदनु खेचरत्वं भवति| आकाशेऽपि स्वेच्छाविरारित्वं भवति क्रमेण एते षड् गुणा भवन्ति|| २ -४|| अन्यान् गुणान् दर्शयति कान्तीति | शरीरस्य कान्तेरुत्कर्षो भवति| नादव्यक्तिः नादी ध्वनिविशेषः| जठरानलस्य उद्दीपनः इन्द्रियाणां चक्षुरादीनामकपटत्वं भवति| योगिनी हि इन्द्रियासन्निकृष्टमप्यर्थ पश्यन्ति| नैरुज्यञ्च भवति दुःखराहित्यञ्च भवति एतत् सर्वं वायोर्धारणाद् भवति|| ५|| **दपि प्रयोजनं दर्शयति कृत्वेति| अत्र मूलचक्रमध्ये आधारकरमले आदरेण मनः स्थिर कृत्वा भूत वर्तमानं भविष्यदपि वदन्ति| अतीतानागतान् वदन्ति| अश्रु तान्यनधीतान्यपि शास्त्राणि वदन्ति व्याख्यान्ति|| ६|| प्रयोजनान्तरमाह विहायेति | कमलासनस्य ब्रह्मणो मुखाम्बु जं प्रीतिरेव तरङ्गस्तत्सम्बन्धात् त्यक्ता तदीयवक्ताम्बु रुहीदरान्तरे वायुधारणात् कर्त्तुर्मुखाम्भोरुहाभ्यन्तरे दिव्यरुपा सरस्वती नृत्यति अभिरमति|| ७|| प्रयोजनान्तरमाह अधिगम्येति | रसेन्द्रमन्त्रसिद्धी अधिगम्य दुर्निवारञ्च कालं जित्वा अजरामरतामवाप्य अवसानकाले परमानन्दपदे मोक्षपदे रमन्ते| तस्मात्र् स्थानयोगात् जीवन्मुक्तो भवति | अवसाने परमात्मनि लीनी भवतीत्यर्थः|| ८|| एकीभूतेति| पूर्वमखिलं जगत् एकीभूतं समुद्राम्भाः प्लुतमासीत् | तस्याभ्यन्तरे महेशो देवी लिङ्गरूपो वभूव कीदृशः अपूर्वज्योतिः स्वरूपः अपूर्वतेज एव लिङ्गरुपत्वेन परिणाममगमदित्यर्थः| कीदृशः षङ्भिः सिद्धैर्द्धिरण्डादिभिरधिष्ठितात्मा तस्य लिङ्गवपुर्भृतो भगवत आद्यम् ऊर्द्धं मुखं द्विरण्डनामा सिद्धपुरुषः आसीत् | पूर्वमुखं वाली नामा ऊर्द्धाननम् अव आननमित्यर्थः| दक्षिणं वायुः पिनाकी पश्चिमास्यं उत्तरं युगलगण्डः तथा आधारात्मा द्विरण्डः स्वाधिष्ठानात्मा वाली मणिपूरात्मा महाकालः अनाहतात्मा वह्निः विशुद्धात्मा पिनाकी आज्ञात्मा कगलण्डः| तल्लिङ्गम् एषु स्थानेषु चिन्तनीयम् || ९| १०|| पृ० ४०) स्वाधिष्ठान समाह्वयं रसदलैर्मूले ध्वजस्याम्बुजम् बालादित्यनिभं दलोपरिगतैः पृष्ठादितर्काक्षरैः| विन्दूद्भासितमस्त कैर्भगवतोलिङ्गात्मनः शूलिनः स्थानं योगिवरेण्यगोचरमिदं चास्याधिपा राकिणी|| ११|| इह स्वाधिष्ठाने निहितनिजचेतो लयवशादमन्दान्दौघस्तिमितहृदयः साधकवरः| समेताङ्गोऽनङ्गः क्षितितलगतो वा मृगदृशाम् स्मरस्मेरापाङ्गं रमयति गणं कान्तिकलितम्|| १२|| इह वेत्ति निधाय मानसं स्वं विविधं चाश्रुतशास्त्रजालमुच्चैः| अवधूतजरामयः स मर्त्यः सुचिरं जीवति वीतमृत्युभीतिः|| १३|| वपुषोऽशुचिता जनस्य शश्वत् परमां शुद्धिमिहातनीति पुंसाम् | शरदम्बु जपेलवस्य देहे दृढ़रुद्धो घनताञ्च शीतरश्मिः|| १४|| चलितं सहसा महारसेन्द्रं कमलालोकनतो वियत्सरोजात्| इह ये विनिधारयन्ति सन्तो ननु धीराः पुरुषोत्तमास्त एव|| १५|| पृ० ४१) मदधीतकटो महागजेन्द्रो वशतामेति यथा शनैरुपायात्| बलवानिह वै सुधाकरोऽसौ क्रमरुद्धः स्ववशो भवत्यवश्यम् || १६|| एतस्मिन् कुलिशाब्जयोगनिरतादादौ लयो जायते रागादिन्द्रियदन्तिनां लयवशात् संवित्तिरप्यूर्जिता| अन्तर्नीलमहारसद्रवजुषां नॄणान्तु चेतो यदा आविर्भावमुपैत्यमन्दसहजानन्दच्छलेन्दूदयः|| १७|| नाभिस्थं मणिपूरकं दशदलैर्नीलाञ्चनाभैर्युतम् तडडाद्यैश्च दशाक्षरैर्दलगतैर्विन्दूल्लसन्मस्तकैः| लाकिन्या समधिष्ठितञ्च सततं ध्यनैर्नराः केवलम् वश्याकर्षणनिर्विषीकरण पूःक्षोभादिकं कुर्वते|| १८|| स्थानेऽस्मिन्निहितात्मनः सुकृतिनः पातालसिद्धिं पराम् खङ्गस्याप्रतिमस्य साधनमपि स्यादीप्सितञ्च क्षितौ| रूपं भूमिविसर्जनं परपुरे शक्तः प्रवेष्टुं जराहानिश्चाखिलदुःखरोगशमनं कालस्य वा वञ्चनम्|| १९|| स्वाधिष्ठानमिति| तदूर्द्धे रसदलैः स्वकुलैः पृष्ठादितर्काक्षरैः पृष्ठं वकारः तदादितः मयवलः एभिर्विन्दुभूषितमस्तकैः सविन्दुकैर्यु क्तबालादित्यनिभं प्रातःकालीनसूर्ययतुल्यम् अस्य चक्रस्याधिपा राकिणी|| ११|| इह किल समलक्ष्याणां नियमितमरुतां योगिनीकलातिशथं दर्शयति इह स्वाधिष्ठान इति| लयवशात् पद्मोदरनिवेशवशात् समेताङ्गोऽनङ्गः मृगदृशीगणं रमयति| तथा स्मर स्मेरापाङ्ग स्मरेण स्मेरमल्यप्रकाशम् अपाङ्ग नेत्रयोरन्तं यस्य गणस्य तम् | तथा कान्त्या लावण्येन कलितं संरव्धम् || १२|| विशेषफलमाह इहेति| विगतजरामयः स मर्त्ताः इह पद्मे स्वं मानसं निधाय अर्पयित्वा अश्रु तशास्त्र समूहं विविधं नानाप्रकारं वेत्ति वीतमृत्यु भीतिः त्यक्तयमभयः | अन्यपद्मस्य दर्शनात् अशुचिता जनस्य शरीरस्य नित्यं शुद्धिं तनीति पुं सः शीतरक्ष्मिः शुक्रः दृढ़बन्धः सन् घनतां निविड़तां यातीति शरदम्बुरुहवत् पेलवःसुन्दरः|| १३| १४|| चलितमिति| सहस्रदलाच्चलितं रसेन्द्रं शुक्रम् एतत्कमलालोकनतो ये विनिधारयन्ति ते पुरुषोत्तमाः | एतत्पद्मभावनयोगशक्ताः|| १५| १६|| एतस्मिन् कुलिशाब्जेति| तदैव योगः तस्मिन् रतात् रागादिन्द्रियदन्तिनां लयो भवति अतेव कुलिशत्वेन निरुपितम् | संवित्तिः ऊर्जिता| अन्तर्नीलमिति| अन्तर्नीलं यस्महाबलं शुक्रं तदेव रसं तत् सेवितानां नृणां चेतो यदा आविर्भावं प्राप्नोति तदा अमन्दं महत् यत् सहजानन्दं तच्छलेन अविद्याध्वं साद्यभ्युदयात् इन्दुत्वेन निरुपितः|| १७|| मणिपूरकमाह नाभिस्थमिति | नीलाञ्जनतुल्यैर्दशदलेर्युतम् इष्टैर्ड ढ ण त थ द ध न प फ एतैर्दलगतैः विन्दुल्लसन्मस्तकैः सविन्दुकैर्युक्तं लाकिन्या समधिष्ठितञ्च एतद्ध्यानात् वश्याकर्षणनिर्विषीकरणं परपुरक्षीकरणं परपुरप्रवेशं तिरस्करणी लुकीविद्या इति यस्य प्रसिद्धिः| ननु रत्नात् मणिपूरकमिति वचनात् कथं नीलरत्नमिति चेत् नीलरत्नस्यापि रत्नत्वान्न दोषः| पातालसिद्धिः अधो विवरकरणं पृ० ४२) हृदये रसेन्द्रगोपसन्ध्याघनसिन्दुर सुवर्णमव्जम् | यदनाहतमित्युशन्ति सन्तो रविसङ्खैयरुपशोभितं दलैः|| २०|| क्रोधीशाद्यैर्भैरवैर्भानुसंख्यैर्दण्डोपेतं मण्डितं चण्डवीर्ययैः| तत् काकिन्याधिष्ठितं दिव्यशक्त्या देव्या हंसेनापि देवेन शश्वत् || २१|| एतस्मिन् सततं निविष्टमनसः स्थाने विमानस्थिताः क्षुभ्यन्त्यद्भुतरूपकान्ति कलिता दिव्यस्त्रियो योगिनः| ज्ञानञ्चाप्रतिमं त्रिकालविषयं क्षोभः पुरस्य श्रुतिर्दूरादेव च दर्शनञ्च खगतिः स्याद् योगिनां मेलनम् || २२|| विशुद्धाख्यं कण्ठे नलिनमथ धूम्रानलरुचियुतं श्रीकण्ठादिस्वरपरिगतैःषोड़शदलैः| इह स्थाने शाकिन्यतुलनिजशक्तिर्भगवती स्थिता नित्यं देवी शरणगमनार्त्तिप्रशमनी|| २३|| अभ्यासयोगादिह सन्निविष्टस्वान्तस्य शश्वन्नरपुङ्गवस्य| समर्थता स्यादनधीतशास्त्र सद्भावभावे वसुधातलेऽस्मिन्|| २४|| पृ० ४३) स्थानेऽत्र संसक्तमना मनुष्यस्त्रिकालदर्शी विगताधिरोगः| जित्वा जरामञ्जननीलकेशः क्षितौ चिरं जीवति वीतमृत्युः|| २५|| इह स्थाने चित्तं सततमवधायात्तपवनो यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम्| न च ब्रह्मा विष्णुर्न च हरिहरो नैव खमणिस्तदीयं सामर्थ्यं शमयितुमलं नापि गणपः|| २६|| आज्ञानाम भ्रू युगमध्ये दलयुग्मोपेतं पद्मं शारदचन्द्रमयूखाभम्| हाकिन्युक्तात्रापि च देवी दलयुग्मे वर्णावन्त्यौ विन्दुयुतौ संस्मरमीयौ|| २७|| ध्यानयोगनिरतस्य जायते पूर्वजन्मकृतकर्मणां स्मृतिः| क्षेत्रविन्दुनिलये च दूरतो दर्शनश्रवणयोः समर्थता|| २८|| इह सन्निहितस्वचित्तवृत्तिः प्रतिमायाः प्रतिजल्पनं करोतति| गमनञ्च पुरे परेषां पुनरुत्थानमप्यहो मृतस्य|| २९|| निरालम्बां मुद्रां निजगुरुमुखेनैव विदितामिह स्थाने कृत्वा स्थिरनिशितधीःसाधकवरः| सदाभ्यसोऽपश्यत्य मरनिलयानन्तरखिलानुडुश्रेणीं विष्णोरपि पदमुडूनामपि पतिम् || ३०|| मूकजरादिना खड़्ग साधनमपि तान् ईप्सित साधनं रूपञ्च केचित् परपुरे मृतशरीरे प्रवेष्टुं शक्तिमिति वदन्ति|| १८|| १९|| अनाहतच क्रमाह हृदय इति| इन्द्रगीपी रक्तवर्णकीटविशेषः क्रोधीशाद्यैः ककाराद्यैः ठकारान्तैः क ख ग घ ङ च छ ज झ ञ ट ठ इति क्रोधीशद्वादशभैरव सहितैर्द्धादशाक्षरैर्युक्तं द्वादशदलात्मकं कर्णिकान्तर्गतं मूलमन्त्र शक्त्या काकिन्या चाधिष्ठितं हंसेन चात्मना च दण्डोपेतैः सविन्दुभिर्मण्डितम् || २०|| २१|| एतसिन्निति | एतस्प्निन् स्थाने निविष्टमनसो योगिनः | कर्त्तृभूताः विमानस्थिताः दिव्यस्त्रियः कर्मभूताः अद्भुतरुपकान्त्या कलितम्| अन्यच्च त्रिकालविषयज्ञानञ्च अतुल्यं दूरात् श्रवणं दर्शनञ्च योगिनां सम्मेलनञ्च|| २२|| विशुद्धचक्रमाह विशुद्धेति | श्रीकण्ठादिस्वरपरिगतैः अकारादिस्वरैर्दलपरिगतैर्युतं तद्वयथा - अं आं इं ईं उं ऊं ऋं ऋं ऌं ॡं एं ऐं ओं औं अं अंः इति षोड़शस्वरैर्युक्तं धूमसमानवर्णां शाकिनीदेवताधिष्ठितं विशुद्धाख्यं पद्मं शरणगमनार्त्तिप्रशमनी जन्ममरणदुःख प्रशमनी अनधीत शास्त्रसद्भावे सद्भावत्वे इह स्थाने चित्तमेवावधाय अवधानं कृत्वा आत्तपवनी गृहीत पवनी योगी|| २३ -२६|| आज्ञाचक्रमाह आज्ञानामेति | दलयुग्मोपेतं द्विदलयुक्तं अन्त्यौ वर्णौ हकारक्षकारौ एतदुक्तं भवति भ्रुवीर्मध्ये सविन्दुकाभ्यां हकारक्षकाराभ्यां युक्तं द्विदलात्मकं शरदम्बुज सङ्काशं हाकिनी देवताधिष्ठितम् आज्ञाकमलं मृतस्य पुनरावृत्तिर्न विद्यते जन्माभावात् || २७- २९|| पृ० ४४) ब्रह्माणं सुरवृन्दवन्दितपदद्वन्द्वं मुकुन्दं तथा देवं देवनिकायनायकमपि प्रेताधिपं वारिपम् | अह्नां वह्निमपि प्रभुञ्च पवनं तार्क्ष्यञ्च यक्षेश्वरम् गन्धर्वानपि किन्नरानपि गुणैः सिद्धान् प्रसिद्धानपि|| ३१|| यक्षान् राक्षसपुङ्गवानपि मुनीन् दिव्यांश्च भव्याकृतीनन्तः कान्तिकलाकलाप कलितान् विद्याधरान् मातृकाम् | रक्षोत्तुङ्गतरङ्गतजलां स्वर्लोक कल्लोलिनीम् योगी पश्यति शश्वदञ्चिरुचिं तञ्चापि हेमाचलम्|| ३२|| उत्तुङ्गपीवरपयोधरभारनम्रकम्राङ्गमङ्गजमतङ्गजमन्दयातम्| उल्लासिचिल्लियुगलं चकितैणशाव लोलेक्षणं विसरमप्सरसां तथैव|| ३३|| समुत्तुङ्गैः श्रृङ्गैः स्थगितगगनाभोगककुभोल सन्नानारत्ना कलित कटकान् भूधरवरान् | कुरङ्गैः सारङ्गैरपि च रमणीयां वनभुवम् तथा गुर्वीमुर्वी महितविविधक्षेत्रसहिताम् || ३४|| तरङ्गैरुत्तुङ्गै रहिमकरमातङ्गुनिकरैः करालानाभीरैरपि जलधरैर्भूधरवरैः| तथा पारावारानमलसरितो वारिभरिताः सहंसालीमालीमपि च सरसां सारसजुषाम्|| ३५|| पृ० ४५) लसन्मरालं वककोटिमालं तड़इत्करालान्तरवारिलीनम्| कलापिकान्तं सधवानुकूलं प्रवासिकालं नवमेघजालम् || ३६|| एतस्मिन् परमाद्भुताव्ययमहानन्दैककन्दे परे स्थाने मानसमात्मनः स्थिरमतिः संयोजयेन्मुद्रया| योगी तन्मयतामुपैति शनकैश्चेतो निरालम्बया पश्चान्नैजमहासुखं लयवशादाविर्भवत्यन्तरम् || ३७|| लीने चेतसि तत्र विन्दुनिलये वह्ने रिवादी कला दृश्यन्ते तदनन्तरञ्च विलसद्रूपाः प्रदीपाङ्कुराः| बालस्येव दिवाकरस्य बहलद्योतिस्ततो द्योतते यद्वा भूगगनान्तराल विलसज्जयोत् स्नासपत्रं महः|| ३८|| नित्यानन्द इति श्रियः पतिरिति श्रीवासुदेवः पुमान् आत्मेत्यच्यु त इत्यचिन्त्य महिमा यो गीयते योगिभिः| निरालम्बामिति| इह विन्दुनिलये आज्ञास्थाने निरालम्बां स्वेचरीं मुद्रां बद्धा अमरनिलयः स्वर्गः तदूर्द्धम् अखिलाम् उडुश्रेणीं नक्षत्रश्रेणीं पश्यति विष्णीः पदम् आकाशम् | अह्नां प्रभुं सूर्ययम् उल्लासिचिल्लियुगलं भ्रूयुगलम् | अप्सरसः विसरं समूहं पश्यति भूधरानपि पश्यति तान् कीदृशान् वृहच्छृङ्गैः स्थगितं गगनमण्डलं दिक् च यैस्तान् | कुरङ्गादिभीरमणीयां वनभुवञ्च पश्यति| मतङ्गीऽत्र जलहस्ती सरसां आलीं समूहं मरालं राजहंसम्| वककोटिः वक इति मयूरप्रियकालं प्रीतिजनकत्वात् | सधवाः पतिसहिताः तासाम् अनुकूलं प्रवासिकालं प्रवासिनीनां कालं यमस्वरुपं नवमेघजालं नूतनमेघसमूहो यत्र तं कीदृशम् इति तड़इत्करालान्तरवारिलीनं तड़इता सौदामिन्या करालं भयानकं यदन्तर्वारि तत्र सीनं निमग्नम् || ३० - ३६|| एतस्मिन्निति| परमम् अद्भुतम् अव्ययं यन्महानन्दं तस्यैककन्दे मूलस्वरुपे परे स्थाने आत्मनो मानसं मुद्रया निरालम्बया स्थापयेत् | तदा योगी तन्मयतां ब्रह्ममयताम् उपैति| वाकारः समुच्चये | इति निरालम्बया मुद्रया निजं महासुखं ब्रह्मानन्दसुखम् अन्तरं अन्तर्गतं लयवशादाविर्भवति प्रकाशते | अस्मिन् चेतसि लीने सति आदौ वह्नेः किरणस्था लिङ्गा दृश्यन्ते| तदनन्तरञ्च प्रदीपाङ्गुराः अपरश्च बालस्य सूर्ययस्य उद्योतः प्रकाशः ततो द्योतते प्रकाशते| यद्धा तन्महस्तेजः प्रकाशते आविर्भवति कीदृशम् आकाशमध्ये विलसत् यत् ज्योत्स्रारश्मयस्तत्तुल्यम् | अस्मिन् स्थाने अव्ययः परमेश्वरः साक्षाद्व्यक्तः साक्षिस्वरुपी भवति|| ३७| ३८|| स एव क इत्याह नित्यानन्द इत्यादि | यथा अम्बरान्तरगतो राहुश्चन्द्रार्कयो- पृ० ४६) स्थानेऽस्मिन् परमेश एष भगवान् व्यक्तो भवत्यव्ययः साक्षी राहुरिवाम्बरान्तरगतश्चन्द्रार्कयो र्मण्डले|| ३९|| विश्वस्यायतनं महद्भगवतः स्थानं तदेतत्परम् यत्रारोप्य समीरणं सुकृतिनः प्राणप्रयाणे नराः| दीव्यन्तं परमं पुराणपुरुषं वेदान्तवेद्यं कविम् विश्वाद्यं प्रविशन्ति सन्ततमहानन्दैककन्दं विभुम् || ४०|| सहस्रार पद्मं विसर्गादधस्तादधो वक्तमारक्तकिञ्जल्कपुञ्जम् | कुरङ्गेण हीनस्त्रिश्रृङ्गस्तदन्तः स्फुरद्रश्मिजालः सुधांशुः समास्ते|| ४१|| तदन्तर्गतं ब्रह्मरन्ध्रं सुसूक्ष्मं यदाधारभूतं सुषुम्नाख्यनाड्याः| तदेतत् पदं दिव्यमत्यन्तगुह्यं सुरैरम्यगम्यं सुगोप्यं सुयत्रात्|| ४२|| एतत् कैलाससंज्ञं परमकुलपदं विन्दुरूपी स्वरूपी यत्रास्ते देवदेवो भव भयतिमिरध्वंस हंसो महेशः| भूतानामादि देवो रसविसरसितां सन्ततामन्तरङ्गे सौधीं धारां विमुञ्चन्नभिमतफलदो योगिनां योगगम्यः|| ४३|| पृ० ४७) स्थानस्यास्य ज्ञानमात्रेण पुंसां संसारेऽस्मिन् सम्भवो नैव भूयः| भूतग्रामं सन्ततन्यासयोगात् कर्त्तुं हर्त्तुं स्याच्च शक्तिः समग्रा|| ४४|| स्थाने परे हंसनिवासभूते कैलासनाम्नीह विधाय चेतः| योगी गतव्यादिरधः कृताधिबाधश्चिरं जीवति मृत्युमुक्तः|| ४५|| स्थानेऽस्मिन् क्षयवृद्धिभावरहिता नित्योदिताधोमुखी बालादित्यनिभप्रभा शशभृतः सास्ते कला षोड़शी| बालाग्रस्य विखण्डितस्य शतधा चैकेन भागेन या सूक्ष्मत्वात् सदृशी निरन्तरगलत्पीयूषधाराधरा|| ४६|| एतस्याः परतः स्थिता भगवंती भूताधिदेवाधिपा निर्वाणाख्यकलार्द्धचन्द्रकुटिला सा षोड़शान्तर्गता| बालाग्रस्य सहस्रधा विगलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलोकजननी या द्वादशार्कप्रभा|| ४७|| र्मण्डले इति दृष्टान्तच्कूलेन पिङ्गलायाश्चन्द्र सूर्ययात्मकत्वात् | ईड़आपिङ्गलयोर्मध्ये मुषुम्नाथा भोक्त त्वात् सुषुम्ना राहुरिति प्रतिपादिता|| ३९|| विश्रृस्येति| विश्वस्य प्रपञ्चस्वरूपस्यायतनं तदेव भगवतः स्थानं यत्र स्थाने आज्ञास्थाने समीरणमारोप्य प्रापयय सुकृतिनी नराः दीव्यन्तं क्रीड़न्तं पुरुषं प्रविशन्ति इति| अतेव पुरा अजरामरं जरामृत्यु विहीनं वेदान्तेन वेद्यं विश्वाद्यं विश्वादौ भवं जन्म यस्य तं प्रविशन्ति | महानन्दस्यैकमूलप्रभवं विभुम् || ४०|| सहस्रदलपद्म माह सहस्रारपद्ममिति| आवरणदलं सहस्रदलपङ्कजमित्यर्थः| विसर्गस्य रुपातीतस्य कुलादिपदस्यावाग् भव्या इत्यर्थः| अधोमुखे आरक्तकिञ्चल्कः पुञ्जे यत्र रक्तकेशरमित्यर्थः| कुरङ्गेण हीनः विनाशितकलङ्गः न्निसृङ्गेण युक्तः त्रिकोणाकारः स्फुरद्रश्मिजालः स्फुरत् प्रभासमूहः सुधांशुरमृतकरः समास्ते|| ४१|| तदन्तर्गतमिति | तन्मध्ये ब्रह्मरन्ध्रं सूक्ष्माकारं सुषुम्नाख्यनाड्या आधारभूताया सुषुम्नैव निष्कलचैतन्यात्मक परमेश्वरस्योपाधिभूतचिल्कला इन्दुमण्डलमध्य वर्त्तिनी ब्रह्मरन्ध माधारीकृत्य देहमनुगता इत्यर्थः| तथाचोक्तं योगार्णवे शक्तिर्यत्र लयाति तदेवाधार मण्डलमिति| यदेतद्विसर्गस्त्रि मङ्गल पदं तदेव कैलासाख्य विन्दुरूपी पुम्प्रकृत्यात्मकः विसर्गः| प्रकृतिर्मात्रा विन्दुसर्गात्मिका हंसः| तदात्मकमिदं जगदिति| कीदृक् भूतानामादिभूतः आदिस्वरूपः| सौधीं धारां अन्तरङ्गे अभ्यन्तरे मुञ्चन् | धारां कीदृशीं रसविसरसितां रसी द्रव्यविशेषः | तत्र सितां शुल्कां योगगम्यो भगवान् योगिनामभिमतफलप्रदः| अत्र कैलासस्थाने नियमितमयता इत्य परतः|| ४२| ४३|| अतिशयं दर्शयति स्थानस्यास्येति| इत्यादि सुगमम्|| ४४|| स्थाने परे इति| स्वस्य परमहंसस्य निवासभूते गता व्याधयो यस्य सः| अधः कृता आधयोव्याधयश्च येन सः| बालादित्यसमप्रभा शशभृतश्चन्द्रस्व षोड़शी कला अतिसूक्ष्मा| शशभृतः कीदृशस्य बालाग्रस्य शतशो विखण्डितस्य एकैकभागेन सूक्ष्मत्वात् | कीदृशी निरन्तरगलत् पीयूष धाराधरेव भाति पीयूषधारा पीयूष वर्षमेघतुल्या|| ४५| ४६|| एतस्या इति| एतस्याः षोड़शकलायाः परतः परस्मिन् भूतानामधिपी महेश्वरस्तस्यधिपा भघवती स्थिता निर्वाणसंज्ञाकला निर्वाणषोड़शीकला तां गता| कीदृशी बालाग्रस्य सहस्रधा विभक्तस्य दलितस्य एकेन भागेन सूक्ष्मत्वात् सदृशी द्वादशार्कतुल्या प्रभा कान्तिर्यस्याः|| ४७|| पृ० ४८) निर्वाणाख्यकलापदोपरिगता निर्वाणशक्तिः परा कोट्यादित्य समप्रभातिगहना बालाग्रभागस्य या| कोट्यंशेन समा समस्तजननी नित्योदिता निर्मला नित्यानन्दपदस्थलोरुविगलद्धारा निरालम्बना|| ४८|| एतस्याः परतः परात्परतरं निर्वाणशक्तेः पदम् शैवं शाश्वतमप्रेमयममलं नित्योदितं निष्कियम्| तद्विष्णोः पदमित्युशन्ति सुधियः केचित् पदं ब्रह्मणः केचिद्धंसपदं निरञ्जनपदं केचिन्निरालम्बनम्|| ४९|| आरोप्यारोप्य शक्तिं कमलजनिलयादात्मना साकमेषु स्थानेष्वाज्ञावसानेष्ववहित हृदयश्चिन्तयित्वा क्रमेण| नीत्वा नादावसानं खगतकुलमहापद्मसद्मान्तरस्थाम् ध्यायेरच्चैतन्य रूपामभिमतफलसम्प्राप्तये शक्तिमाद्याम् || ५०|| साक्षाल्लाक्षारसाभं गगनगतमहापद्मसद्मस्थ हंसाम् पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य | चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेद्देवतास्ता हाकिन्याद्याः समस्ताः कमलजपदगां तर्पयेत् कुण्डलीं ताम् || ५१|| इति श्रीनागभट्टविरचिते त्रिपुरासारसमुच्चये पञ्चमः पटलः| पृ० ४९) षष्ठः पटलः| स्वयम्भूलिङ्गं निजयोनिमध्यवक्तान्तरे हृत्सरसीरुहान्तः| बालाह्वयं चेतरमन्तराले वदन्ति सन्तो गगनाम्बु जेऽन्ये|| १|| यद्वीजं वाग्भावख्यं द्रुतकनकनिभं तत् स्वयम्भू तलिङ्गम् स्थाने ध्यात्वा हृदम्भोरुहकुहरगते वाणलिङ्गे द्वितीयम् | कामाख्यं बन्धुजीवप्रसरसमरुचिं शारदेन्दुप्रभावम् तार्तीयीकन्तु वीजं त्वितरपदगतं चिन्तयेच्छान्तरूपः|| २|| प्राणान् योनिगतान् विधाय मनसा ध्यायन्ति तां भारतीम् वीजाख्यां निजयोनिरन्ध्र निलंयादानाभिरन्ध्रोत्थिताम्| निर्वाणेति | निर्वाणाख्य कलापदं स्थानं तस्योपरि अधीगता निर्वाण शक्तिःस्थिता| कोट्या दित्यस्रमा प्रभा यस्याः सा अतेवातिगहना कीदृशी बालाग्रभागस्य शशभृतः कोट्यं शेन समा नित्यानन्दपद स्थानं शैव पदम् | तत्र उरुर्महती विगल द्धारा यस्याः निरालम्बना अवलम्बनरहिता|| ४८| ४९|| आरोप्येति | कमलजनिलयात् मूलाधारात् शक्तिम् आरोप्य आत्मना साकम् एषु स्थानेषु शक्तिं चिन्तयित्वा क्रमेण नादावसानं नीत्वा आकाशगतब्रह्म महापद्ममेव सद्म गृहं तस्यान्तरस्थां चैतन्यरूपां ध्यायेत्|| ५०|| साक्षादिति| दिव्यामृतौघं पीत्वा गगनगतमहापद्मस्थितहंसां कुलस्य शरीरस्य मध्यदेशं मूलाधारं विशेत् | ततः प्रतिचक्रे स्थिता डाकिन्याद्याः यदि समन्तादेव ततोऽमृतरससमूहैस्तर्पयेत्| ततः कमलजपदगां मूलाधारस्थां कुण्डलिनीञ्च तर्पयेत्|| ५१|| इति त्रिपुरासारटीकायां पदार्थादर्शे पञ्चमः पटलः|| एवञ्चाधारेषु योगविशेषानुक्तां मूलाधाराद्याधारेषु स्वयम्भुलिङ्गवाणादिविशेषान् वक्तुमुपक्रमते स्वयंम्भुलिङ्गमिति| योनिब्रह्मरन्ध्रान्तरानिति शृङ्गाकारे प्रायुक्तस्थाने स्वयम्भुलिङ्गं याति लयं यत्र जपेदिति तल्लिङ्गं लिङ्गञ्च चराचरमिति हृत्सरोजवान् लिङ्गमिति| इतरं लिङ्गं परलिङ्गमित्यर्थः| अन्तरालभ्रुवीर्मध्ये इति| अन्ये तु इतरपदम् एवं वर्णयन्ति| अन्तराले विन्दौ स्थितं तदितरं लिङ्गम् अन्ये तु गगनाम्बुजे विसर्गाख्ये परविन्दुनिर्मलपदे इत्यर्थः|| १|| श्रीमूलविद्यायास्त्रयाणां वीजानां स्वयम्भु वाणलिङ्गयीर्ध्यानमाह| यद्वीजमिति| यद्वाग्भवाख्यं प्रथमवीजं निर्मलकाञ्चनसङ्काशं मूलाधारे स्वयम्भुलिङ्गात्सकं ध्यायेत् | यत् कामाख्यं मध्यवीजं कुसुमसङ्काशं हृदयकमलकर्णिकामध्ये वाणलिङ्गं तृतीयवीजं शारदेन्दुसङ्काशम् आज्ञास्थाने परलिङ्गात्मकं ध्यायेदित्यर्थः|| २|| पृ० ५०) बालार्कारुणतेजसीं भगवतीं ये सिद्धलिङ्गाकृतिम् तेषामेव कवित्वसम्पदतुला पीयूषनिःस्यन्दिनी|| ३|| सिन्दूरारुण सुन्दरी भिरखिलं प्रोद्भासयन्तीं कुलम् हृत्पद्मान्तरगां प्रभाभिरनिशं ये वाणलिङ्गाकृतिम्| आविन्दोरुदितामनन्यमनसो ध्यायन्ति दिव्याङ्गनाः कामार्त्ता विलपन्ति लोलमनसस्तेषां पदान्ते भुवि|| ४|| ये गौरीमितराभिधां निजरुचा ध्यायन्ति लिङ्गाकृतिम् विन्दुस्थानगतां सुधाकरकग्श्रीहारिणोद्भाविताम् | अर्द्धेन्दुप्रतिमां विसर्गगमहापद्मश्रुतां विभ्रतीम् धारां विद्रुमपाटलामृतमयीं ते सम्पदांमास्पदम्|| ५|| त्रयाणां लिङ्गानामतिबहलतेजः श्रुतिजुषाम् त्रिषु स्थानेष्वेषु स्थिरनिहितधीः साधकवरः| जपेन्मन्त्रं लक्षं सरसकुसुमैर्ब्रह्मतरुजैस्त्रि मध्वक्तैर्होमं तदनु निशि चारेण जुहुयात्|| ६|| निःशङ्कं हरिणाङ्कमम्बरतलात् पातालमूलं गतम् तत्र स्थेन दिवाकरेण पुटितं कृत्वा समादाय च| पृ० ५१) राहोरास्यगतं कपालिकरणप्रस्तावना पण्डितः कुण्डे हस्तकरण्डकेन जुहुयाद्धोमोऽयमत्यद्भुतः|| ७|| एकं वत्सरमेवमेव शिवधीर्मर्त्यो जुहोतीह यः सद्यो मृत्युमसौ विजित्य वपुषः पुष्टिं विशिष्टां दधत्| दर्पं दर्पकसन्निभो मृगद्दशां भञ्जन् सुभृङ्गाङ्गनाश्रेणी श्रीमदरालकुन्तलचयो जीवेदनेकाःसमाः|| ८|| एतेषां वीजत्रयाणां जपध्यानफलविशेषफलञ्चाह प्राणान् योनिगतानित्यादि| सिन्दुरारुणसुन्दरीभिः प्रभाभिः अखिलं कुलं मूलाधारादिचक्रमित्यर्थः| आविन्दोरुदितां विन्दुस्थानपर्ययन्तं सुधाकर श्रीहारिणा महेशेन उद्भाविता| एवम्भूतां लिङ्गाकृतिं ये ध्यायन्ति ते सम्पदां पदं स्थानमिति| श्लोकत्रयेण साकल्येन जपतां ध्यान विशेषञ्चाह न्नयाणां लिङ्गानामिति| जपेल्लक्षमिति| यल्लिङ्गे यद्वीजस्थानं तत्र तस्य लक्षजपः| तेन त्रिवीजेनलक्षं समुदायजपस्तु त्रिलक्षमिति नियमः| ब्रह्मतरुजैः पलाशकुसुमैः| निशि चारेण ईड़आयां वायौ गते सति|| ३- ६|| काम्यविशेषानाह निःशङ्कमिति| हरिणाङ्गः इडा़नाडी़स्थितवायुः कार्ययेकारणोपचारः| अम्बरतलात् नासास्थानात् पातालमूलं मूलाधारं ब्रह्मरन्धगतं तत्रस्थेन दिवाकरेण पिङ्गलावायुना पुटितम् उभयवायोरैक्यं कृत्वा तं वायुनादाय राहीरास्यगते कुण्डलीमुखे हस्तकरण्डकेन हस्तरुपेण मनसा जुहुयात् | कपालिकरण प्रस्तावनापण्डितः कपालिकरणाख्यप्रक्रियायां प्राज्ञः ऊर्द्धाधः करणं विदुरित्यत्र पण्डित इत्यर्थः| गुप्तार्थम्तु किञ्चित् प्रकाश्यते| हरिणाङ्गद्रव्य विशेषः स्थानविशेषः स्थानविशेषगतं स्थानविशेषस्थदिवाकरेण द्रव्यविशेषेण पुटितं मिश्रितं हुत्वा राहोरास्यगते कुण्डे स्थानविशेषे हस्तकरण्डकेन हस्तरूपश्रुवेण नुहुथादिति | द्रव्यसंज्ञा अप्रकाश्या एतदर्थकथने शिष्टीपहास इति तन्त्रचूड़आमणिश्च राहुः शिरः शिरी वा गृहीत्वा क्षाड़एन विशेत्| सूर्ययात्मकं समादातुं यदा तस्यां तिथौ युते| पातालगम्या देवेश व्योमस्थानाद्दिवाकरम् | पतितं राहुचक्रे तु बुद्धै्यक्यं प्रापयेत्ततः| राहुवक्तेण तत् कुण्डे होमं कुर्ययात्तु तद्दिने| तत्र यज्जायते द्रव्यं तदेव कुण्डगोलकम् | कुण्डं शिवसहायेन गोलकं शिवहंसतः| एतत्रयाणों मध्ये तु स्वयम्भुकुसुमं महत् | क्वचिद् गन्धर्वराजेन लभ्यते वा न वा विभी| यदि*तल्लभ्यते देवि ! लाक्षारससमन्वितम् | कस्तुरीकुङ्कुमाक्ताञ्च वटीं कृत्वा तु गोपयेत् | मन्त्रराजं समालिख्य प्रयोगं तेन निर्वपेत् | तत्तिथिं समनुप्राप्य स्वयमुत्तिष्ठते कुलम् | अमृतञ्चोभयोर्देव ! भोक्तुं देवी न संशयः| सुप्तादिदोषदुष्टा ये मन्त्रा विद्याश्च कीलिताः| प्रबुद्धास्तत् प्रयोगेण यावत् सा पुनरागता| द्वितीयायां गते देवि ! दृश्या या सा कलावती| तिथिक्रमेण सा देवी पौर्णमास्याः फलप्रदा इति | एतदर्थप्रकाशेन देवताशापी जायते इति| तत् कथं बहुसूचितमिति|| ७|| कीणनियमं फलञ्चाह एकमिति | दर्पः कन्दर्पः तत्तल्यः सन् मृगद्दशां दर्पभञ्जन् अनेकाः समा जीवेत् चिरजीवी भवेदित्यर्थः| कीद्दक् अरालः कुटिलाकारःकुन्तलवयः केशसमूहो यस्य सः| भृङ्गाङ्गानश्रेणीनां श्रीर्विद्यते यस्य पश्चात् भृङ्गाङ्गना श्रेणी श्रीमांश्चासौ अरालकुन्तलश्चेति कर्मधारयः|| ८|| पृ० ५२) ततो देवीं ध्यायेत् परिणतशरच्चन्द्रसदृश प्रसन्नस्मेरास्यामलिकल भसङ्काशकवरीम्| विराजन्तीं नेत्रैर्विकचनवनीलोत्यपलनिभैस्त्रिभिर्दन्त श्रेणीरुचिविजितहारावलिरुचिम् || ९|| बन्धूकसान्ध्यघनबन्धुरकान्तिकान्तम्| मन्दस्मितांशुविशदीकृतमुद्वहन्तीम् | दन्तच्छदं रुचिरकुण्डलमण्डलञ्च गण्डस्थलीयुगलखण्डसुधांशुपाण्डु|| १०|| उत्तुङ्गसङ्गतपयोधरभारनम्रकम्रा वनम्रविलसत्रिवलीतरङ्गाम्| गम्भीरनाभिविवरां वररामरम्भास्तम्भोपमोरुयुगलामरुणाङ्घिपद्माम् || ११|| कलां मौलाविन्दोर्गलदमलपीयूषविसराम् वहन्तीं सन्तान प्रसवरचितं शेखरमपि| वसानां सद्वासोहिम किरणनिर्मोकविशदम् महाविन्द्वारूढा़ं जठरशशभृशत्कोटिधवलाम् || १२|| हस्ताभ्यामक्षमालां स्फटिकमणिमयीं ज्ञानमुद्राञ्च भद्राम् विभ्राणां दक्षिणाभ्यां मणिमयमुकुटां पुस्तकञ्चाभयञ्च| वामाभ्यां रत्नकाञ्ची परिवृत जघनां रत्नकेयूरहाराम् दिव्यालङ्कारयुक्तां त्रिभुवन जननीं दिव्यगन्धानुलिप्ताम् || १३|| पृ० ५३) समुद्गिरन्तीमपि शास्त्रजालं निरन्तरं कान्तिकलासमग्राम् | विनम्रदेवासुर वृन्दमौलिमालारजोराजित पाद पद्माम्|| १४|| ध्यात्वा वागीश्वरीं तां गगनगतमहाविन्दुपीठादतीतस्थानं चानीय तस्मादपि तदनु नयेदागतस्थानमेनाम् | शान्तातीतन्तु तस्मादनुपममहिमा सूर्ययचक्रन्तु तस्माद्व्योमाम्भोजं ततश्चाखिल भुवननुतामानयेत् प्रेतभूमिम् || १५|| प्रेतस्थानादर्द्धचन्द्रं ततस्तामारम्भं तु प्रापयेत् सेतुबन्धम् | तस्माच्चैवं व्योम तस्मादमेयस्थानप्राप्तां चिन्तयेदीश्वरस्य|| १६|| तस्माद्रूद्रस्यालयं रुद्रगेहाद्विष्णु स्थानं प्रापयेद्देव देवीम् | विष्णुस्थाना द्ब्रह्मणः स्थानमेनां ब्रह्मस्थानात् कुण्डलीगेहमध्यम् || १७|| सहस्रदलशोभिते रुचिरकर्णिकाकेशरे लसन्महसि कुण्डलीभवनपङ्कजे तां स्थिताम् | विसर्गगखगाख्य विन्दु विलसत्सुधाधारया ततः समभिषेचयेदु भगवतीम विच्छिन्नया|| १८|| ततो देवीं ध्यायेदिति सुगमम्|| ९|| कीदृशीं देवीं दन्त्रच्छदं वहन्तीं कीद्दशं बन्धूक पुष्पं सुन्ध्यासम्बन्धि यदृघनं तेषां यन्मनोदरकान्ति तद्दत् कान्तं कमनीयम् | मन्दस्मितांशुना विशदीकृतम् | पुनः कीदृशीं उत्तुङ्गपयोधरभारनम्रकम्नावनम्रविलसत्त्रिवलीतरङ्गाम् उत्तुङ्गी यः पयोधर भारस्तेन नम्रं कम्रं अनवलम्बं कमनीयमुदरं तत्र त्रिवल्याकारस्तरङ्गी यस्याः ताम् | उरुर्महान् यो रामकदलीस्तम्भः स एव उपमा ययोः ऊर्वोः ताम् अरुणमङ्गि पद्मं यस्याः ताम् | तथा इन्दोः कलां मौलौ वहन्तीं कीदृशीं कलां गलत्पीयूषसमूहाम् | तदुत्प्रेक्षते सन्तानक प्रसबरचितं शेखरमिव कल्पवृक्षपुष्परचितं शेखरमिव किरीटमिव| हिमकरश्चन्द्रः निर्मोकी मुक्तकञ्चुकः तद्वद्विशदं निर्मलं तथा सद्वासी वसानां तथा महाविन्द्वारूढ़आं गगनोपरि विन्दुस्थानमारूढा़ं तथा जठर शशभृत् कोटिधवलां परिपूर्णकोट चन्द्रतुल्याम् || १०- १४|| एवं वागीश्वरीं ध्यात्वा विन्दुपीठात् विन्दुपीठेऽर्द्धे अतीते स्थान आनयेत्| तस्मादतीतस्थानात् आतपस्थानं तत आतपस्थानात् शान्तातीतं तस्माच्छान्तातीतात् सूर्ययचक्रं ततो व्योमाम्भोजं ततः प्रेतस्थानं शिवस्थानं प्रेतस्थानादर्द्धचन्द्रं तस्मादारम्भं ततः सेतुबन्धं ततः पुनर्व्योम तत आमयम् ईश्वरस्य ततो रुद्रालयः रुद्रगेहाच्छक्ति स्थानम् || १५|| १६|| तस्मात् कुण्डलिनीभवनं किमित्याह सहस्रेति | सहस्रदलशोभिते विसर्गगतो पृ० ५४) अनेन शश्वद्विहितेन देवीध्यानेन नाशं समुपैति मृत्युः| याः सिद्धयो दिव्यगणाधिपस्य भवन्ति ता अप्यचिरेण पुंसाम्|| १९|| आधारादुल्लसन्तीमकुलगतमहापद्मपर्ययन्तमन्त ध्यायन्तीं ब्रह्मनाड्या स्फुरदमलरुचिप्रख्यरूपां भवानीम् | ये देवीं लिङ्गरूपां भुवि विमलधियो भावनामात्रगम्याम् निर्द्धूताशेषपापा निखिलगुणयुता ज्ञानिनस्ते भवन्ति|| २०|| ये गोक्षीरतुषारहारधवल प्रोद्दाम तेजश्छटाच्छायोद्भासितरोम कूपविवराशेषाङ्कलिङ्काकृतिम् | वागीशीं धवलाम्बु जान्तरगलत् पीयूषधाराद्रवैरासिञ्चन्ति समन्ततोऽखिलवपुर्मृ त्योश्च ते मृत्यवः|| २१|| लिङ्गाकारधरां सुरासुरयुतां सौषुम्ननाड्यन्तरे देवीमञ्जन पुञ्जमेचकरुचिं सिञ्चन्ति शश्वद्भुवि| ये दिव्यामृतधारया प्रचुरया कालाग्रदूती नृणाम् रूपोन्मूलनदृष्टिपाटवधरा तेषां कुतो विस्रसा|| २२|| लाक्षारस्नपितभग्नमृणालनालतन्तुपमां स्मरति यस्त्रिपुरां कुलान्तः| तं विस्मरन्ति मितचारुदृशः स्मरार्त्ता वामभ्रु वो रतिपतिप्रतिमं स्मरन्ति|| २३|| सिन्दूरपूरपरिपिञ्जरितामिव द्याम् लाक्षारसार्द्रितमिव क्षिति मण्डलञ्च| पृ० ५५) ध्यायन्ति ये रुचिचयेर्हरवल्लभाया लज्जां विहाय भुवि तानुपयान्ति कान्ताः|| २४|| शक्तिं हंसेन युक्तां कमलजनिलयाद् ब्रह्मनाह्यन्तराले निष्यन्दच्चन्द्रविम्बान्तरगलित सुधाविन्दुसन्दोहपद्मम् | नीत्वा तत्रैव नित्यं स्मरति खगगतामात्मना शक्तिमाद्याम् यस्त स्याजाण्ड खण्ड प्रलयमपघनं स्याद् घनं मृत्यु मृत्योः|| २५|| पीताभां स्तम्भनादौ शशधरधवलां शान्तिकादौ सुधूम्रामुच्चाटादौ जवाभां त्रिभुवनजनताकर्षणे कार्मणे च| नित्यां नित्यं विशुद्धस्फटिकमणिनिभां खेचरत्वादिसिद्धौ मोक्षे साक्षादपेताम्बुदगगननिभां भावयेद्भक्तिगम्याम् || २६|| मार्गेऽस्मिन्नवलक्षमक्षयपदप्राप्तौ ततो लक्षयेन्मन्त्राणामिह येन सिद्धिरतुला पञ्चप्रकारापि च | आधारध्वजनाभिदेश हृदये कण्ठे तथा लम्बिके भ्रूमध्येऽपि च भूतनाथनिलये स्थाने नवान्तेऽपि च || २७|| आधारे कनक प्रभां परिलसद्दीपाकृतिं षण्मुखस्थाने नूतन भानुकान्तिसदृशां नाभौ हृदम्भोरुहे| यत् खगाख्यविन्दुः तत्र विलसन्ती या सुधा धारा तया देवीं समभिशेचयेत् | ननुकुण्डलिनीगेंहं मूलाधारं तत् कथमुक्तामिदं सत्यं मूलादि ब्रह्मरन्ध्रान्तं कुण्डली भवनं विदुः| आद्यमाच्छद्य भवने ज्ञानगोप्त्री विराजते| भाग्याद्विष्णुपदं गत्वा राजते निजमन्दिरे| ज्ञानदा तत्र सा देवी कुण्डली परदेवता| अविद्याविद्ययोर्दानादृभ यत्र प्रकाशिता| क्रीड़ईकृत्य जगत् सर्वं कारागारमिव स्थितेति| शक्तिमिति शक्तिं कुण्डलिनीं हंसेन युक्ताम् आत्मना सह हंसमन्त्रेण मूलादिस्थानात् सहस्त्रदल पद्मं नीत्वा यः स्मरति तस्यापद घनं निवीतं भवति || १७- २५|| कर्मविशेषे ध्यानमाह पीताभामिति| काम्यजपमाह मार्गेऽस्मिन्निति| अस्मिन् मार्गे सुषुम्नावर्त्मनि वक्ष्यमाणस्थानेषु अक्षयफलप्राप्तौ मोक्षफलप्राप्तौ लक्षयेत् ध्यायेत् | सिद्धिरतुला पञ्चप्रकारा चेति सिद्धयः| पातालगुटिकाञ्चनखङ्गमुद्राद्या अधिका मन्त्रयोगात्मज्ञानाख्या चेति|| २६|| २७|| कुत्र किं रुपेण ध्यात्वा जप्तव्यमित्याह आधार इति| षण्मु खस्थाने षड़ धनोपस्थाने पृ० ५६) दीपाकारनिभां तथा खरकरोद्द्योतप्रभां भावयेत् कण्ठे दीपशिखाकृतिं मणिगणोद्योतां भ्रुवोरन्तरे|| २८|| नवान्ते च ज्योतिर्भवभयतमोध्वंस कुशलम् तदेतद्विन्ह्वाख्यं निरतिशयशर्मोर्मिजनकम् | दुरापं पापैर्यत् त्रिभुवनधरं त्रैपुरमिति प्रतीतं तत्त्वानां यदुपरिगतं यच्च परमम्|| २९|| इति त्रिपुरासारसमुच्चये षष्ठः पटलः| सप्तमः पटलः| अथामरेन्द्रैरपि दानवेन्द्रैर्धृतं प्रसिद्धैरपि सिद्धवर्गैः| सौभाग्यसम्पत्तिगुणैकहेतुं यत्रैपुरं तत् कथयामि मन्त्रम् || १|| कर्पूरक्षोददिग्धाखिलतनुरमलः स्नानपूतो वसानः क्षौमं श्रीखण्डपङ्कस्फुटरचित लसच्चित्रको नेत्रयुग्मम् | मन्त्री कृत्वाञ्जनाक्तं मधुरसविरसप्राप्तहर्षप्रकर्षस्ताम्बूल ग्रासपूर्णारुण मुखकुहरश्चालिखेन्मन्त्रराजम् || २|| पृ० ५७) कस्तूरिकागुरु सुधाकर खण्ड कुण्डे गोलोत्थजाङ्गलगुड़ऐः सपटीरपङ्कैः| युक्तैः स्वयम्भु कुसुमेन विशालभूजपत्रे लिखेदविवरे तपनीयसूच्या|| ३|| लिखेद्भूप पत्राणि वृत्तं तदन्तर्वहिर्मास पत्राणि तद्वाह्यदेशे| पुनर्भूप पत्राणि तेषां दलानाम् वहिर्दन्तप पत्राणि चारुणि धीरः|| ४|| ततः कर्णिकायां महायोनिमध्ये लिखेद्वाग् भवं कामवीजञ्च शक्तिम् | तयोरूर्द्धतः कारयेद्धंसदेवोपरिष्टाज्जगन्नायिकां षोड़शारे|| ५|| ततः षोड़शेशस्वरान् द्वादशारे पुनः कामवीजं लिखेत्तत्र वीजम् | लिखेद्वासरेश स्वरैर्भिन्नमेवम् विधायान्त्यवीजं परे षोडशारे|| ६|| स्वाधिष्टाने इत्यर्थः| नूतनं प्रातः कालीन सूर्ययवर्णसदृशम् | खरकरद्योतः खरस्त्रीसूलद्योतनं यस्य तत् प्रभां ध्यायेत्| नादान्ते नादान्त पर्यन्तम् ऊर्द्धं गच्छति यत् ज्योतिस्तदेव विन्द्वाख्यम् अतिशयानन्द जनकं पापात्मभिर्न रागं यत्रैश्वरं परमं महः| प्रतीतं ज्ञातव्यं चतुर्विशति तत्वानामुपरिगतञ्च|| २८|| २९|| इति त्रिपुरासारसमुच्चयटीकायां पदार्थादर्शे षष्ठः पटलः| एवं मूलाधारस्थानेषु वाग्भवादिवीजानां स्वयम्भुवाणलिङ्गात्मकत्वे ध्यानविशेषांश्चोक्ता अनन्तरं सौभाग्यलक्षणादि सर्वैश्वर्ययपदं यन्त्रमाह अथामरेन्द्रैरित्यादिना|| १|| कर्पूरक्षोददिग्धाखिलतनुः कर्पूरक्षोदेन भग्रकर्पूरेण दिग्धा लिप्ता अखिलतनुर्येन सः| अयमिन्द्रियमनोवृत्तिरित्यर्थः| क्षौमं पट्टवस्त्रं वसानः श्रीखण्ड पङ्केन स्फुटरचितं लसत्तिलकं पुण्डाकारं येन स तथा| नेत्रयुग्मम् अञ्जनाक्तं कृत्वा मधुर सविसरपलोत्प्राप्तौ यो हर्षः तेन प्रकर्षः प्रकृष्टः तथा ताम्बूलग्रासपूर्णारुण मुखकुहरः समुदितान्तवृर्तिः स्वरः स्वरूपवेशोऽम्बिकायाः पादाम्बुज भृङ्गाय मान मानसः| स्वगुरुचरण प्रणामपुरः सरं यन्त्राणि विलिखेत् इत्याह कर्पूर चोददिग्धाङ्ग इत्यादिना|| २|| यन्त्रलिखनद्रव्याण्याह कस्तूरिकेत्यादि | सुधाकरखण्डं कर्पूरखण्डं पटीरं रक्त चन्दनं कुण्डगोलादिद्रव्यं गुरुवक्तगम्यं देवतानामपि दुर्लभत्वात् न प्रकाशितम्| वृह्दूर्जपत्रे अविवरे अच्छिद्रे तपनीय सूच्या सुवर्णशाकया|| ३|| यन्त्रलिखन प्रकारमाह लिखेद्भू पपत्राणीत्यादिना| भूपाः षोड़श संख्याका राजानः| तथाहि मायः अम्बरीशः शशविन्दुः अङ्गःपृथुः अमरत्वान स्वरतः स्वाहाद्रः पृ० ५८) कलाबिन्दुनादैः शिरोदेशलग्नौः परिभ्राजमानान् ककारादिवर्णान् | लिखेद्दन्तपत्रेषु सर्वं तदेतदुं भुवो मन्दिरस्योदरस्थं विदध्यात्|| ७|| शुषिरेण वेष्टयेत् समन्तादथ मन्त्री महनीयमन्त्रराजम् | सुविशुद्धसुवर्णपट्टबद्धं विदधीतात्मकृतादिसिद्धमेनम् || ८|| इयं रक्षा साक्षात्रिपुरमथनेनापि विभुना श्रियः कान्तेनापि त्रिदशगुरुणा चापि हरिणा| धृता कन्दर्पेणाप्य मृतकिरणेनापि विनता तनूजेनाप्येषा सततमपि शीतेतररुचा|| ९|| गन्धर्वैरपि किन्नरैरपि धृता यक्षैः सदा राक्षसैः सिद्धैः साध्यगणैश्च पन्नगवरैर्विद्याधरैर्गु ह्यकैः| सौभाग्यार्थिभिरेव शुद्ध हृदयैरम्यैर्जगन्मङ्गलैर्मङ्गल्या मनुजोत्तमैरपि नृपैर्वश्यार्थिभिः कामिभिः|| १०|| पृ० ५९) इह बन्धुरगन्धसिन्धुरैर्मदधाराविनिलिप्तगण्डपिण्डैः| तुमुले युधि यन्त्रराजशक्त्या समपाप्नोति जयश्रियं नरेन्द्रः|| ११|| नरपालगृहे दुरोदरे व्यवहारेऽपि च धारणादमुष्य| मनुजोऽपि च वादिभिर्विवादे जयमाप्नोति यन्त्रसत्तमस्य|| १२|| विपिनेषु लुलापचित्रकायद्विपभल्लू ककुला कुलेषु पुंसाम्| चरतां न चिराय विद्यते भीस्त्रिपुराययन्त्रवरस्य धारणेन || १३|| नरनाथवरा भवन्ति वश्यास्तदधीनाः सचिवाश्च तत्तनूजाः| प्रमदाः समदाश्च यौवनाढ्याः स्तनभारनमिताः सलीलयाताः|| १४|| विषमुग्रमपीह कालकूटप्रतिमं संहृतिकर्म कर्मठञ्च यत्| अमृतं भवति ध्रुवं तदेतद्दधतस्त्रैपुरयन्त्रराजमेनम् || १५|| दहनस्तुहिनत्यसौ दवान्तर्विततोर्द्धीकृतभूरिलोलकीलः| धृतयन्त्रवरस्य देहभाजः पयसाञ्चापि निधिः स्थलायतेऽयम् || १६|| हृत्यपङ्केरुह कर्णिकोपरिदले मन्त्री तु यन्त्राधिपम् ध्यात्वा शक्तिगमागमं प्रकुरुते धीरः सुषुम्नान्तरे| यस्तं शश्वदखण्डपुण्य निलयं वाक् कामिनी गोमिनी सामानाधिकरण्य सम्पदतुला नोमुञ्चति क्ष्मातले|| १७|| वायो दिलीपः गिरिः रन्तिदेवः ययातिः आत्मभूः रघुः भगीरथः एते भूपचन्द्राः षोड़शकलात्मकाः षोड़श पत्राणीत्यर्थः| तद्वहिर्मासपत्राणि द्वादशपत्राणि तद्वहिः षोड़श पत्राणि तद्वाह्ये पुनर्दन्तपत्राणि द्वात्रिंशत्पत्राणि| ततः कर्णिकायां महायोनि मध्ये षटकोणैर्वाग् भवं कामराजशक्ति कूठरमाविस्मया द्वीज पत्रम् | एतयोर्वाग् भव कामराजयोरुपरि हंसमन्त्रं तस्योपरि मूलविद्यां लिखेत् | षोड़शदले षोड़शस्वरान् एकारान् षोड़श स्वरानिति पाठः| षोड़शस्वरलिखनं द्वादशारे पुनः कामवीजं बालाया द्वितीय बीजं ततः परे षोड़शारे वासरेश स्वरैर्द्वादशस्वरै रैकारैः सम्भिन्नम औकारस्थाने आदेशीकृतं रजोबीजं लिखेत्|| ४ -६|| ततः कलाविन्दुनादैः कलास्वरुपैर्विन्दुनादैः शिरोदेशे लग्रैः ककारादि द्वात्रिंशद्वर्णैः द्वात्रिंशत्पत्रेषु लिखनम् | अन्ये तु अन्यथा वर्णयन्ति| कलावाग् भवं विन्दुः सनादो हकारः ऐकार सकार हकारभिन्नैः ककारादिवर्णैरित्यर्थः| विन्दु नादकलात्मिकामिति| भुवी मन्दिरं चतुरस्रं भुवी मन्दरमिति पाठे मन्दरंः *कारः तन्मध्ये इत्यर्थः| तथाच - क्षकारी मन्दरः प्रोक्तः क्षकारी मेरुसंज्ञक*ति| शिवेन हकारेण वेष्टयेत्| आत्मकृतादिसिद्धिप्राणप्रतिष्ठादिसम्पादि*न्तम्| विभुना ब्रह्मणा स्त्रियः कान्तेन विष्णुना प्रसन्नगुरुणा वृहस्पतिना इयं * भृता|| ७ -१०|| बन्धुरः अमनोरथः गन्धः येषां हस्तिनां महास्तिभिरित्यर्थः| तुमुले रणे दुरोदरे * व्यवहारे लोकव्यवहरणे लुलापो महिषः चित्रकायो व्याघ्रविशेषः द्विपो हस्तो* की जन्तुविशेषः प्रसिद्धः| एतत् कुलाकुलेषु बलेषु सलीलयाता सलीलं गमनं संहतिकर्म संहृतिकर्मणि मारणकर्मणि कर्मनिपुणं दहनोऽग्रिः तुहिनति *रस्तुहिनं हिमं हिमवदाचरति| कीदृशो दहनः दवान्तर्विततोर्द्धी कृतपरिलोल* | दवोवनाग्निः तदन्तर्मध्ये वितता विस्तीर्णा ऊर्द्ध कृता च भूरिलोला पृ० ६०) आदौ मन्मथकोष्ठकोदरगतं कामाधिराजं लिखेत् कन्दर्पद्वितयेन चाथ पुटितं कुर्ययात्तदेतद्द्वयम्| धीरोथो मकरध्वजं परिलिखेत् कोणेषु षट् स्वादरान्मध्ये नाम मनोभवस्य सकुलं कुक्षौ तदेतत् क्षिपेत्|| १८|| यन्त्रं पूर्वेओक्तयन्त्राधिपसदृशमिदं चापि मौलौ गले वा वाहौ वा यो विभर्त्ति त्रिभुवनमखिलं तद्वशे वर्त्तते च| कान्ताः कान्तालकान्ताः पृथुकठिनकुचा नम्रकम्राङ्गयष्ट्यः कामेनोपद्रवन्त्या कुलितनिजधियस्तं सदोल्लासिचित्तः|| १९|| ध्यात्वैवं मूलचक्रान्तर कमलं कुटीकोटरे यन्त्रराजम् साध्यं सानन्दमन्दं तरुणतरणिभाभास्वराङ्गञ्च तञ्च| यन्त्रान्तः सुस्थसाध्यामलरुचिविलसच्चेतनामात्ररूपम् हृष्टोऽवष्टभ्य मन्त्री मथनमथशरैराचरेदात्मशक्त्या|| २०|| भवत्यवश्यं मथनेन वश्यः साध्यः सदा साधकपुङ्गवस्य| त्रिःसप्तरात्रेण महानुभावो देवोऽपि मर्त्त्यः किमु मन्दवीर्ययः || २१|| पृ० ६१) कलापत्रोपेतं कमलमभिसंलिख्य सुमनास्तदन्तः श्रृङ्गाटद्वितयमपि चान्योन्यपुटितम् | लिखेन्मध्ये देवीहृदयमथ कोणेषु मदनान् तदन्तः षट् स्वाख्यां समभिमतसाध्यस्य मतिमान् || २२|| स्वरान् पत्रेष्वे तच्छुषिरजठरान्तः परिलिखेज्जगत्यस्मिन् यन्त्रं प्रथितमिह यन्त्रामृतमिति| जनस्यैतद् यन्त्रं वर कमलपट्टेषु विहितम् जगत् सर्वं शञ्च भवति वशवर्त्तीह वहतः|| २३|| इति त्रिपुरासारसमुच्चये सप्तमःपटलः| अष्टमः पटलः| अथ त्रिलोकार्चितशासनाया वक्ष्यामि वाह्यार्चनमम्बिकायाः| यदर्चनीयत्वमुपैति कुर्वन्नुर्वीतले सर्वजनैर्मनुष्यः|| १|| चञ्चला कीला ज्वाला येन सः| बह्नेद्वयोर्ज्वालकीला वर्चिर्हृतिः शिखास्त्रियामित्यमरः| हृत्पद्मे भूकर्णिकोपरि हृदय कमलकर्णिकामध्ये यन्त्रराजं ध्यात्वा मूलविद्यां जपन् मूलाधारात् कुण्डलिनीं चिण्मयीं शक्तिमुत्थाप्य ब्रह्मनाड्या द्वादशान्त नीत्वा तदन्तर्गतया सूत्रं धारया अभिषिच्यमानं मूलाधारं नयेत् एवं पुनः पुनरभ्यासात वाक् कामिनी सरस्वती गोमिना लक्ष्मीः एकाधिकरणे सम्पत् यस्याः सा एवम्भूत तं पुरुषं न मुञ्चति|| ११- १७|| यन्त्रान्तरमाह आदाविति| आदौ कामवीजस्यादौ त्रिकीणमध्ये कामवीजद्रोङ्कारं लिखेत् | तत्रिकोणं कन्दर्पान्वितेन षट् कोणाकारेण वेष्टयेत्| षट् कोणेमकरध्वजाद्यं ल्वूङ्कारं लिखेत| एतत् सर्वं मनोभवाद्येन स्त्रीं कारेण वेष्टयेत् मनोभवस्य कुत्रौ मनोभववीजमध्ये साध्यसाधकनाम लिखेत्|| १८|| १९|| साध्यस्य मूलाधारे कमलकर्णिकामध्ये इदं कामवीजयन्त्रं ध्यात्वा साध* तन्मध्ये बालदिवाकर सङ्काशम् आनन्दमन्द्रं चेतनामात्ररूपं ध्यात्वा देशिकोपदे* क्रमेण स्वशक्त्या मधमं कुर्ययादित्याह ध्यात्वैवमित्यादि आत्मशक्त्या कुण्डलिन्या मथनवाथु सञ्चारयोगादमृतोत् ल्पापनम् आचरेत्| दक्षिणवर्त्मना इति केचित् तच्चिन्त्यम् || २०|| २१|| मन्त्रान्तरमाह| कलापत्रं षोड़शदलात्मकं पद्मं विलिख्य तत्कर्णिकायां शृङ्गाटद्वितीयाख्यं षट् कोणं विलिख्य तन्मध्ये देवीहृदयं ओं हृईं नमः इति यन्त्रं लिखेत्| षट् कोणेषु पञ्चसु कामञ्च ह्वीं ल्कीं ऐं ल्वूं स्त्रीं इति विलिख्य अन्तिमकोणे आख्याम् अभिमतसाध्यनाम लिखेत्| षोड़शदलेषु स्वररूपान् षोड़शस्वरान् सविन्दुकान् लिखेत् | शुषिरजठरान्तः प्रविलिखेत् | शुषिरजठरे वृत्तोदरे क्षिपेत् | एतद् यन्त्रं वहतो जनस्य जगद्वशवर्त्ती भवति इह संसारे|| २२| २३|| इति त्रिपुरासाराटीकायां पदार्थादर्शे सप्तमः पटलः| एवं यन्त्ररतनाकथनानन्तरं वाह्यपूजाविधामं वक्तुमुपक्रमते अथेति | यदिति पृ० ६२) शुद्धे मनोज्ञे पशुदृष्टिपातविवर्जिते भूमिगृहे गृहे वा | पूर्वोक्तमार्गेण कृतात्मशुद्धिः स्थानस्य शुद्धिं विदधीत पश्चात्|| २|| भगतः परमास्यपूर्वयुक्तं गगनं सानलवामदृक् तथैव| कुशतोय समुक्षणात् क्षमेयं मनुनानेन विशुध्यते समन्तात्|| ३|| अकुलं सकुलादितर्कवीजं शिवपूर्वेण युतं सहेन्दुखण्डम् | अमुना मनुना समाहितात्मा तनुयाद् द्रव्यसमुक्षणं कुशाद्धिः|| ४|| पुष्करं शिवमुखादिसंयुतं पात्रशुद्धिमनुरेष कीर्त्तितः| क्षालयेदमलवारिभिस्ततः पात्रजालममुनैव मानवः|| ५|| विलिम्पेत्ततः पीठमम्भोविधौतं स्वयम्भूतपुष्पेन्दुकस्तूरिकाभिः| सकाश्मीर गोरोचनाभिः समन्ताल्लिखेदत्र यन्त्रं ततो वक्ष्यमाणम् || ६|| त्रिकोणं विलिख्यानुवृत्तं दलानाम् ततः पञ्चकं तद्वहिश्चापि वृत्तम्| पृ० ६३) पुनः षड़्दलं वाह्यतश्चापि वृत्तम् लिखेदष्टपत्राणि तद्वाह्यदेशे|| ७|| पीठस्योत्तरभागे गुरुपंक्तीः पूजयेद्विधिवत्| वायव्यदिग्भागादारभ्येशानपर्ययन्तम्|| ८|| आधारशक्तिमासनमूलेऽनन्तञ्च सम्पूज्य कूर्मम्| तदुपरि पृथिवीमपि गन्धाद्यैः समर्चयेन्मन्त्री|| ९|| पीठस्याग्ने यादिषु चतुर्षु कोणेषु पूजयेत् क्रमशः| धर्मादीन् गन्धाद्यैश्चतुरोऽधर्मादिकांस्ततोदिक्षु|| १०|| पीठस्योपरि सत्त्वरजस्तमसां त्रितयञ्च सम्पूज्य| तदुपरि पद्मं पद्मे वसुरविशशि मण्डलानि यजेत्|| ११|| प्रेतं त्रिकोणमध्यगं शशिमण्डल मध्यमे यजेत्तदनु| तदुपरि शङ्करदयितां हृदयाम्बु जगह्वरात् समावाह्य|| १२|| संस्थाप्य सन्निरुध्य सन्निधाप्य च सम्प्रनिरुध्य प्रदर्शयेन्मुद्राम् | यत् कुर्वन्नरः सर्वजनैरर्चनं यन्त्रमुपैति प्रथमं स्नानादिनात्म शुद्धिं विधाय भूमिगृहे पातालगृहे भौरन्ध्रे गृहे वा यथा उदग्रीविकया केनापि लक्ष्यते|| १|| एतादृशे गृहे यागमण्डलं परिकल्यानन्तरं जलगोमयाभ्यां शोधयेदित्याह शुद्ध इत्यादिना || २|| भगतः भग एकारः | तत्पर ऐकारः आस्यं विसर्जनीयः| तत् पूर्वयुक्तम् अनुस्वार युक्तम् | मगनं हकारः अनलो रेफः वामदृक् ऊकारः तथैव पूर्वोक्तविन्दुरनुवृत्तः| तेन ऐं र्ह्रीं इति मन्त्रेण कुशतोयममुक्षणादियं युग्मा पृथिवी अनेन मनुना शुध्यये|| ३|| द्रव्य शुद्धिमाह| अकुलं हकारः कुलं सकारः | तस्यादितर्काक्षरं तत् प्राप्तिलोम्येन षष्ठाक्षरं रेफः शिव उकारः तत् पूर्व ईकारः इन्दुखण्डोविन्दुः तेन ह्रीं इति मन्त्रेण द्रव्यशुद्धिं कुर्ययात् || ४|| पात्रशुद्धिमाह पुष्करमित्यादिना| पुष्करमाकाशं तद्वीजं हकारः शिव उकारः मुखं विसर्जनीयः | तदादिः विन्दुः| तेन हुमिति मनुना पात्रशुद्धिं कुर्ययात् || ५|| स्वयम्भूतादिद्रव्यैर्लिप्ते पीठे यन्त्रं लिखेत्| स्वयम्भूतमित्याद्यनुपादेयत्वान्न लिखितं गुरुमुखादेव ज्ञातव्यम्| त्रिकोणं विलिख्य तद्वाह्मे वृत्तं पञ्चदलानि तद्वहि र्वृत्तं तद्वहिः षड़्दलं तद्वहिर्वृत्तं तद्वाह्येऽष्टदलं चतुर्द्वारोपेतं च कार्ययमिति शेषः|| ६| ७|| अर्ध्य स्थापनादिप्रसिद्धत्वान्न लिखितं पीठस्योत्तरभागे गुरुपंक्तीः स्वनामभिः पूजयेत् | वायव्यादीशान पर्ययन्तं प्रह्लादानन्दनाथ- सकलानन्दनाथ - कुमारानन्दनाथ - वशिष्ठानन्दनाथ - शुकानन्दनाथ - विमलानन्दनाथ - व्यालानन्दनाथ - श्रीपादुकां पूजयामीति सर्वत्र योज्यम्|| ८|| आसनमूले आधारशक्तिं पूजयेत्| पीठस्य चतुष्कोणेषु अग्नीसाननिरृतिवायुषु धर्मादीन् धर्मज्ञानवैराग्यैश्वर्ययाणि दिक्षु पूर्वपश्चिमदक्षिणणोत्तरेणु अधर्मादिन् अधर्माज्ञानावैराज्ञानैश्वर्ययान् सत्त्वादिन्नितयम् आदिवीजसहितमित्यर्थः| तदूपरि पद्मं पद्मे वसुरविशशिमण्लानि प्रणवत्रितयवीजयुक्तानीति अकारोकारम कारवीजानीत्यर्थः| तदुपरि प्रेतं परमसदाशिवं मन्त्रस्तु हेसौः सदाशिवमहाप्रेतपद्मासनाय नमः| तदुपरि हृदयानन्दशिवां शङ्करदयितां करस्थपुष्पाञ्जलौ विरेचान्तः संस्थापनमुद्रया संस्थाप्य सन्निधिकारिण्या मुद्रया सन्निधाप्य सन्निरोधन पृ० ६४) गुह्याख्यामनुपूजामर्घ्यादि समाचरेद्विधिवत्|| १३|| वामे त्रिकोणकोणे पाशाङ्कुशकरां तप्तहेमसङ्काशाम्| रतिमर्चयेन्मनोहरवेशां पश्चात् स्ववीजेन|| १४|| प्रीतिं दक्षिणकोणे निजवीजेनार्चयेच्च शङ्कनिभाम् | अङ्कुशहस्तां सुमुखीमुज्जवलवेशां सुगन्धाद्यैः|| १५|| आसीनं कुसुमायुधमग्रे देव्याः समर्चयेन्मन्त्री| बन्धूककुसुमवर्णं करधृतकोदण्डशरम् || १६|| कामस्य कामवीजं वाग्भवं समुद्दिष्टं रतिवीजम् | सम्भोहनाख्यमन्त्यं प्रीते र्वीजं तथा प्रोक्तम् | शरपञ्चकदेवताः स्वमन्त्रैरनुपूज्या दलपञ्चकेषु तेषु|| १७|| शशिकाञ्चनसान्ध्यमेघनीलोत्पलमञ्जिष्ठनिभप्रभास्तरुण्यः| द्राविण्याद्याः क्रमशः सर्वाभरणशोभिताः समदाः| सव्यकरकलितवाणाः शेषकरैः कृतनमस्काराः|| १८|| पृ० ६५) ततो भगाख्यां भगजिह्विकाञ्च देवीं भगास्यां भगमालिनीञ्च| यजेद् भगाक्षीञ्च दलेषु षट् सु तथा भगाह्लादिनिकां क्रमेण|| १९|| शरदम्बुदधूम्रसान्ध्यमेघफलिनीरात्रि सुवर्णवर्णतुल्याः| रुचिराभरणोज्जलास्तरुण्यो मदिरानन्दितमानसा मनोज्ञाः|| २०|| करैः खङ्गशूलाहिवेतालदण्डान् सकुन्तान् निजैर्विभ्रतीं खेटकञ्च| परैर्विस्मयं नुः कपालस्य खण्डम् तनुं दुन्दुभिं नादविन्द्वाख्यमुद्रे|| २१|| कथयामि भगादिदेवतानामिह वीजान्यपि वाग्भवं सदण्डम्| वसुवामदृगिन्दुखण्डयुक्ते कुलपूर्वानलागाम्बरे क्रमेण|| २२|| ब्रह्माणीं हंसयानां द्रूतकनकनिभामब्धिवक्तां त्रिनेत्राम् हस्ताब्जैर्ब्र ह्मकूर्चं कमलमपि लसत्कुण्डमब्जाक्षमालाम् | बिभ्राणां चारुवेशामथ हरिहयदिक् पन्नमूले यजेत्ताम् गन्धाद्यैर्बन्धुराङ्गीं वहति वरजटाजूटभारं सदा या|| २३|| मुद्रया सन्निरुध्य अवगुण्ठन मुद्रयावगुण्ठ्य शुद्ध्याख्यां मुद्रां प्रदर्शयेत् | ततो जीवन्यासः | ततः सकलीकरणम् अग्नीशासुर- वायुकोणेषु पुरतो नेत्रं दिक्षु चास्त्रञ्च पूर्वोक्तषड़ङ्गमन्त्रैः क्रमेणाभ्यर्च्य षोड़शोपचारैः सम्पूज्य आवरणदेवताः सम्पूजयेत्|| ९ - १३|| तदेवाह वाम इति | देवीवामे प्रकृतवामभाग इत्यर्थः| तप्तहेमप्राभाम् अतिरमणीयवेशां पाशाङ्कुशकरां रतिं वाग् भववीजेनाभ्यर्चयेत्|| १४|| दक्षिणाग्रेण शङ्खनिभामतिसुन्दरवेशां सुमुखीम् अङ्कुशकरां प्रीतिं तृतीय वीजेनाभ्यर्च्य देव्या- अग्रेऽग्रकोणाग्रे बन्धूक कुसुम सङ्काशम् इषुचापधरं कामवीजे नाभ्यर्चयेत्|| १५| १६|| एतेषां वीजमाह | कामस्य कामवीजं वाग् भवं सम्मोहनवीजम् अन्त्यं द्रावणवाणादिपञ्चकान्त्यं स इति|| दलपञ्चकेषु शरान् पूर्वादिक्रमेण पूजयेत्|| १७|| द्रां द्राविण्यै नमः| ह्नीं क्षोभिण्यै नमः| ल्कीं वशीकरिण्यै नमः| ल्बूं प्रकाशिन्यै नमः| कर्पूरकनकसान्ध्यमेघेन्द्र नीलमञ्जिष्ठाः तत् प्रभाः सव्यकरकलितवाणाः शेषकरकृत नमस्काराः प्रमदाः क्रमेणाभ्यर्च्याः|| १८|| ततो भगादि देवताः पूजयेत्| ऐं श्रीं ह्नीं भगायै नमः| ऐं श्रीं ह्नीं भगजिह्विकायै नमः| ऐं श्रीं ह्नीं भगाह्लादिन्यै नमः| यथोपदिष्टुः सायुधकरा भवनधराः पूर्वनैरृतवायव्याग्नेय पशुपति वारुणेषु क्रमेणाभ्यर्च्याः|| १९|| फलिनी प्रियङ्गुः रात्रिर्हरिद्रा क्रमेण क्रमेण द्वे द्वे अस्त्रे दधती प्रथमायाः शूलखड़्गौ द्वितीयाया अहिवेंतालदण्डौ कुन्तखेटके तोमरविस्मयमुद्रे नरखण्डकपालतनुदुन्दुभिनादविन्दुमुद्रे|| २०| २१|| एतासां वीजमाह| वाग् भव ऐकारमात्रं सदण्डं कुलपूर्वानलनः कुलं दकारः तत् प्रातिलोम्येन अनलगं तृतीयमक्षरं शकारः| अम्बरं हकारः शकारहकारौ रेफेकारविन्दुयुक्तौ तेन ऐं श्रीं ह्नीं वीजन्नयात्मकेन मन्त्रेण भगादिदेवताः पूजयेत्|| २२|| ततो देवीपूर्वादिदलेषु ब्रह्मण्याद्यष्टशक्तयः पूज्या इत्याह ब्रह्माणीमित्यादि ब्रह्मकूर्चम्| कुशमयब्राह्मणः हरिहयदिक् पत्रमूले पूर्वदले|| २३|| पृ० ६६) माहेशीं तां कपालोज्जवलडमरुवराभीतिशूलोरुटङ्कान् बिभ्नाणां वाहुदण्डैर्निविड़हिमनिभामग्निदिक् पत्रमूले| नेत्रैरुद्भासमानां त्रिभिररुणजटाकोटिबद्धेन्दुखण्डाम् गन्धाद्यैः पूजयेत्तां वृषभ मुडुनिभं या समारुह्य याति|| २४|| कौमारीं यौवनाढ्यां सुरुचिरवदनां कुङ्कुमाभां सुशोभाम् शक्तिं पाशाङ्कुशौ या वहति निजकरैर्दक्षिणे चाभयञ्च| हालालोलां विशालामल नयन युगामर्चयेद् गन्धपुष्पैः सर्वालङ्कारयुक्तां शिखिनि यमदिशां पत्रमूले निषणाम् || २५|| रक्षोदिक् पत्रमूले सजल जलधरश्यामलाङ्गीं सुकेशोम् घण्टां कम्बुं कपालं रथचरणमथो बिभ्रतीं बाहुदण्डैः| आसीनां वैनतेये मणिमयमुकुटोद्भासितां वैष्णवीं ताम् गन्धाद्यैरर्चयेत्तां मधुमदमुदितां नित्यमालोलदृष्टिम् || २६|| वाराहीं खेटकास्युद्भटहलमुषलान् बिभ्रतीं पोत्रिवक्ताम् पाश्चात्ये पत्रमूले मणिमयविलसत्कुण्डलोद् घुष्टगण्डाम् | या शश्वद्विश्वपूज्या गिरिशिखरखरा (धरा) भीमकोले निषणा गन्धाद्यैरर्चयेत्तां सुरुचिरवदनां धूम धूम्नाङ्गकान्तिम् || २७|| इन्द्राणीं चन्द्रविम्बप्रतिमनिजमुखीमिन्द्रनीलभवणाम् कर्णान्ताक्रान्तनेत्रां मणिमयमुकुटां वायुदिक् पत्रमूले| पृ० ६७) चापं कम्बुञ्च वज्रं शरमपि दधतीं हस्तपद्मैश्चतुर्भिः स्वर्मातङ्गे निषणां सुरवरविनुतामर्चयेन्नित्यमत्ताम् || २८|| चामुण्डां चण्डहासोद्भटबिकटरदां भीमवक्तां त्रिनेत्राम् खङ्गं शूलं कपालं निजकरकमलेर्बिभ्रतीं खेटकञ्च| निमांसां रक्तनेत्रां त्रिभुवनभयदां सौम्यदिक् पत्रमूले कालों कङ्कालभूषां पितृवननिलयामर्चयेदूर्द्ध केशाम्|| २९|| पश्चादाश्चर्ययरूपां सुरुचिरवदनां शुद्धजाम्बूनदाभाम् हस्ताब्जैरक्षसूत्राभय कमललसन्मातुलुङ्गी फलानि| बिभ्राणामर्चयेत्तां त्रिभुवनजनताभ्यर्चिता लक्षणाढ्याम् लक्ष्मीमुत्तुङ्गपीनस्तन भरनमितामीशदिक् पत्रमूले|| ३०|| वीजान्यमूषामथ वच् म्यनन्तो दीर्घं नभोऽन्तं नयनान्तमिन्द्रः| प्रांशुर्द्दगन्तान्तपरं कुलान्तमनन्तरुद्रेण ततः समेतम् || ३१|| तियीशः सानन्तो भृगुरथ हरोऽनन्तसहितो वकान्तो भीतीशस्तदनु च वकोऽनन्तसहितः| अग्निदले माहेशीं पूजयेत् | कीदृशी कलालोत्तम डमरुवराभीम शूलोरुटङ्कान् कपालं नरशिरः खर्परम् उत्तमम् उदभटं सडमरुवरं डमरुश्रेष्ठम् आभीमं भयानकं शूलम् उरु महत् टङ्कः पाषाणदारणः| एतान् बिभ्राणां धारयन्तीम्|| २४|| याम्ये कौमारीं शिखिनि मयूरे निषणाम् || २५|| नैरृते वैष्णवीम् || २६|| पश्चिमे वाराहीं कीदृशीं गिरिशिखर इव शिखरः स चासौ खरः प्रखरः आभीमो भयानकश्च कोलः शूकरस्तस्मिन्निषणां धूम्नेति अतिशयधूम्नवर्णाम् || २७|| वायौ इन्द्राणीं स्वर्मातङ्गे ऐरावते च युक्ताम् || २८|| कौवेरे चामुण्डां कीदृशीं चण्डहासीद् भटविकटरदां चण्डहासेन उद् भटाउग्रा विकटा भयङ्करा रदा दन्ता यस्याः तां पितृवनं श्मशानम्|| २९|| ईशाने लक्ष्मीं पूजयेत्| जाम्बू नदाभां सुवर्णवर्णाभामित्यर्थः|| ३०|| आसां वीजान्याह| अनन्तः आकारः नभो हकारः अन्तः क्षकारः सदीर्घम् आकारेण युक्तं तेन हां क्षां इति ब्रह्मणीवीजद्वयम् | नयनान्तमीकारः इन्द्रो लकारः प्रांशुः आकारः तद् युक्तं तेन ई लां माहेशोमनुः | दृक् उकारः तत्परम् ऊकारः तत्परं मकारः | कुलं सकारः तदन्तो हकारः अनन्तेन आकारेण रुद्रेण रेफेण च समेतः तेन ऊं ह्नां कौनारीवीजामुखम् || ३१|| तिथीशः ऋकारः सानन्तः साकारः भ्रगुः सकारः तेन ऋं सां वैष्णवीमन्त्रः| हरी हकारः वकः शकारः तदन्तः षः तेम हां ** वाराहोमन्त्रः| भौतीशः ऐकारः वकः शकारः अनन्तः आकारः तत्सहितः तेन ऐं| ** इन्द्राणीमन्त्रः| की विन्दुः तत् पूर्व पृ० ६८) कपूर्वं सूक्ष्मान्तान्वितमथ वनं चानु वदनम् शचीनाथोपेतं गगनमपि कान्तान्वितमथ|| ३२|| अथासिताङ्गं रुरुचण्डसंज्ञौ क्रोधीशमुन्मत्तकपालिनौ च | पलाशमध्येष्वपि भीषणाख्यं संहारसंज्ञञ्च यजेत् क्रमेण|| ३३|| दधतोऽञ्जनमेघपुञ्जवर्णानुरुवेतालकपाल शूलदण्डान् | लघुदुन्दुभिसंयुतांस्त्रिनेत्रान् करदण्डैः करिहस्तदण्डचण्डैः|| ३४|| गजकृत्तिनिवर्तितोत्तरीयान् भ्रुकुटीसङ्घटितैर्ललाटपट्टैः| कुटिलालिकुलाभकुन्तलाग्रान् मुदितान्तः करणान् सुयौवनाढ्यान् || ३५|| हरात्तृतीयं भगभूतसंयुतं कुलान्तमप्पित्तविलोचनान्तयुक्| निशाकरार्द्धाङ्कितमस्तकञ्च मयेह तेषामपि वीजमीरितम्|| ३६|| यो हेतुको यस्त्रिपुरान्तकाख्यो यौ वह्निवेतालहुताशजिह्वौ| कालः करालश्च तथैकपादो भीमाकृतिर्यः खलु भीमसंज्ञः|| ३७|| ततो नीलजीमूतसङ्काशवर्णान् दलाग्रेषु गन्धादिभिस्तान् क्रमेण| पृ० ६९) त्रिशुलं कपालं स्फुरन्नागपाशम् तनुं दुन्दुभिं विभ्रतो बाहुदण्डैः|| ३८|| दंष्ट्राभीम विशालवक्त कुहरान् नेत्रौस्त्रिभिः प्रस्फुद्वक्तैश्च भ्रुकुटीकरालवदनान् कादम्बरीलालसान् | ऊर्द्धीभूतशिरोरुहान् नववयोयुक्तांश्च भीमाकृतीन् भौतीशेन निशाकरार्द्धसहितेनाभ्यर्चयेत् शाधकः|| ३९|| प्रियङ्गुश्यामाङ्ग परिकलितपाणिं मणिमयोल्लसच्चूड़आपीड़ं द्विरदनवराधिष्ठिततनुम् | सहस्रं बिभ्राणं नयनकमलानां हरिहयम् यजेत्तं पूर्वस्यां दिशि कुसुमगन्धादिभिरथ|| ४०|| अथ विकसितकिंशुकाभमग्निं छगलपतं शितशक्तियुक्तहस्तम् | मणिमयमुकुटं यजेत् सुगन्धैः कुसुमवरैर्धृतररत्न कुण्डलञ्च|| ४१|| अर्चयेत्तदनु दक्षिणभागे नीलनीरदनिभं पितृनाथम् | दण्डहस्तमरुणायतनेत्रं सैरिभाङ्गगतमुज्जवलवेशम् || ४२|| नरारूढा़ं रक्षोदिशि विकटदंष्ट्रं सुनियतम् कृपाणं विभ्राणं सजलजलदश्यामलतनुम् | यजेद्धालालोलं पलटपलमारक्तनयनम् विचित्रालङ्कारं तदनु विधिवद्राक्षसपतिम् || ४३|| शरदभ्रशशाङ्कनिभं वरुणं मकरस्थितमुज्जवलवेशधरम् | मणिकुण्डलमण्डितगण्डतलम् वरपाशकरञ्च यजेत् स्वदिशि|| ४४|| वरसंवरसंश्रृणिशक्तिकरं शुचिकेतनधूमनिभाङ्गरुचिम् | औकारः जलं वकारः सूक्ष्मा इकारः स एतान्तो यस्य आकारस्य तेन औं वां बीजं चामुण्डामन्त्रः| वदनं विसर्जनीयम् | अः अनुवदनम् आकारः शचीनाथोपेतं गगनम् इकारः कान्तान्वितम् अनुस्वारेण युतम् अः ह्रीं महालक्ष्मीमन्त्रः|| ३२|| पत्रमध्ये अष्टौ भैरवाःसम्पूज्या इत्याह अथेति| असिताङ्गी रुरुश्चण्डः क्रोधीश उन्मत्तकपालिभीषण संहाराः वेतालदण्डकपाल शूल लघुडमरु दुन्दुभिहस्तान् चतुर्भुजान् || ३३- ३५|| वीजमाह| हरात् तृतीयं ऐं भग एकारं तत् भूताक्षरं पञ्चाक्षरम् अनुस्वारं तेन संयुतं तेन ऐं कुली सकारस्तदन्तो हकारः अप्पित्तः ओं अग्निः रेफः| विलोचनम् ईकारः तदन्त ऊकारः निशाकरार्द्धो विन्दु स्तदङ्कित मस्तकं तेन ऐं ह्नीं एतेन वीजद्वयेनासिताङ्गान् भैरवान् पूजयेत्| ऐं ह्नीं असिताङ्गाय भैरवाय नम इत्यादि || ३६|| ततोऽन्तकादीन् पूजयेदित्याह इति| ऐं हेतुकाय नम इत्यादिप्रयोगः| हेतु कादित्रिपुरान्तः वह्निर्वेतालः हुताशजिह्वः कालः एकपादः भीमः इत्यष्टौ एतान् चतुर्भुजान् कादम्बरीलालसान् मदिरालालसान् तेषां मन्त्रमाह भौतिशेनेति| भौतीश ऐकारः निशाकरार्द्धसहितेन सार्द्धचन्द्रेण तेन ऐं || ३७ - ३९|| तद्वाह्ये इन्द्रादयः पूज्या इत्याह प्रियङ्गु श्यामेति | द्विरदनवराधिष्ठिततनुं पृ० ७०) निजदिश्यनिलं विधिनाथ यजेत् कुसुमप्रमुखेर्मणिहारधरम् || ४५|| अथोर्णायौ देवं कनकसमवर्णं धनपतिम् समासीनं यक्षैः परिवृतमशेषैश्च निधिभिः| गदाहस्तं पिङ्गाक्षकमलयुगं तं सुकुसुमैर्यजेद् गन्धैर्धूपैः स्वदिशि लसदाकल्पमपि च|| ४६|| ऐशान्यां शशिखण्डमण्डित जटाजूटं त्रिनेत्रं हरम् सिन्दूरारुणविग्रहं दिशि यजेच्छूलं कपालं सदा| बिभ्राणं सुभुजैश्चतुर्भिरपरां योगाख्यमुद्रां तथा भस्मोद्वूलितविग्रहं वृषगतिं गन्धादिभिः साधकः|| ४७|| मस्तकादिजलराशिगं सकं मस्तकादनलगां यकान्तयुक्| सूक्ष्मपूर्वमुखपूर्वसंयुतं लोकपालमनुरेष कीर्त्तितः|| ४८|| वटुकगणदुर्गाक्षेत्रपालान् स्ववोजेरपि तदनु नमोऽन्तैः साधकेन्द्रः क्रमेण| मलयजकुसुमाद्यैरर्चयेद् भक्तियुक्तो हुतवहपिशिताशाधीशवाव्योशदिक्षु|| ४९|| पृ० ७१) वसुभ्यो रुद्रेभ्यो दिनपरिवृढ़एभ्योऽपि च वलिम् सभूतेभ्यो दघाद् यजनविधिरित्थं निगदितः| अमुं कुर्वन्नुर्वीतलमधि बुधो नित्यमपि यः स सम्पूर्णान् कामान् गिरिश इव सम्प्राप्य रमते|| ५०|| इति श्रीत्रिपुरासारसमुच्चये सर्वतन्त्रोत्तमोत्तमे अष्टमः पटलः| नवमः पटलः| अथग्निकार्ययं कथयामि पूजागृहस्य कुर्ययाद्दिशि वासवस्य| ईशस्य यद्वा दिशि वित्तपस्य विभावसोर्मण्डपमब्धिकोणम् || १|| नवहस्तमात्रमथ शैलदोर्भितं यदि वा हृषीककरसम्मितं मतम् | रुचिरैश्चतुर्भिरपरन्ध्रमुन्नतं कुशतोरणैः सितवितानशोभितम्|| २|| द्विरदनवरीहस्तिवरः तमधिष्ठिता तनुर्येन तं पितृनाथं यमं संवरणं मृगं शुचिकेतनोधूमः तद्वान्नभाङ्गरुचयो यस्य तम् ऊर्णायु र्मेषः तस्मिन् समासींनं पिङ्गञ्च तत् अक्षकमलयुग्मञच|| ४० - ४७|| लोकपालानां मन्त्रमाह मस्तकादीति | मस्तकं विन्दुः अं तत् प्रातिलोम्येम चतुर्थमक्षरम् ऐकारं सकं सविन्दुकं मस्तकं विन्दुः तस्मादनलगं तृतीयमक्षरं ककारःवकः शकारः तदन्तः षकारः तद् युक्तः ककारः सूक्ष्मा इकारः तत् पूर्वमाकारं मुखं विसर्जनीयं तत् पूर्वं विन्दूः संयुतं सविन्दु कमित्यर्थः| तेन लक्षां समुदायेन ऐं क्षां इति मन्त्रेण इन्द्रादिलोकपालाः पूज्याः|| ४८|| ततो वटुकगणपतिदुर्गाक्षेत्रपालान् स्वस्ववीजैः अग्निनैरृंतवाव्यीशानदिक्षु पूजयेत् | वं वटुगणेभ्यो नमः गं गणपतये नमः दुं दुर्गायै नमः इति सम्पूजयेत्| तत ऐन्द्रवारुणयाम्य सौम्यदिक्षु अष्टवसुभ्यो नमः| एकादशरुद्रेभ्यो नमः द्वादशादित्येभ्यो नमः इति क्रमेणाभ्यर्च्य ततः परमानन्दामृतसन्दोहस्यन्दनादखण्डसंवित् स्वरूपिणीं भजमानपारिजात लतिकां परमेश्वरीं गन्धपुष्पधूपदीपनैवेद्यान्तैरुप चारैरभ्यर्च्य सकलभुवनोत्पत्तिविभूति परिभूति मूलीभूतां संहारमुद्रया मण्डलकुसुमेनाघ्राय हृदयारविन्दमरविन्दं नीत्वा तन्मयमात्मानं परिभाव्य तदनुगृहीतप्रसादः स्वय ममृतानन्दमयो भूत्वा वीजमुक्तो यथामुखं विहरेदिति शुभः|| ४९ -५०|| इति श्रीत्रिपुरासारसमुच्चयटीकायां पदार्थादर्शेऽष्टमः पटलः| एवमिहलोकमुखसाधदनभूत परदेवता समवदानकथनानन्तरं होमविधानं वक्तुमुप क्रमते अथाग्निकार्ययमिति| नियमञ्चाह पूजागृहस्येत्यादि| अयमर्थः वक्ष्यमाणदीक्षामण्डप मध्यस्थवेदिकायाः पूर्वस्यान्दिशि ईशकोणे चासनमपि अग्नौ ईशे अचिरकोणं चतुरस्रात्मकं मण्डलं कुर्ययात्|| १|| अथ दीक्षामण्डपलक्षणमाह नवहस्तमात्रमित्यादि | इन्द्रवारुणयाम्यसौम्यञ्च नवहस्तपरिमितदृढ़आवरणम् | चतुर्द्वारे तोरणोपशोभितं मण्डपं कुर्ययादिति| ततः शैलदोर्मितमिति शैलाश्च सप्त समाख्याताः सव्यहस्तपरिमितं हृषीकाणि इन्द्रियाणि तानि पञ्चहस्तपरिमितमित्यर्थः|| २|| पृ० ७२) चतुर्द्धारयुक्तं ततस्तस्य मध्ये त्रिधा तद्विभागेन भागैकवेदीम् | अरत्निप्रमाणोन्नतां दर्पणान्तर्निभां तां मनोहारिणीं चापि कुर्ययात् || ३|| वेदास्रं योनिमर्द्धाडुपनिभमनलास्रं च वृत्तं षड़स्रम् पद्माकारं गजास्रं हरिहयहरिदारभ्य तस्या विदध्यात्| मध्ये वृत्तञ्च गौरीपतिसुरपदिशोः पण्डिता केचिदाहुर्वायव्ये पञ्चकोणं दिशि मदनरिपोः सप्तकोणञ्च कुण्डम् || ४|| प्राक् सूत्रं प्रथमं निधाय विदधीतार्द्धेन तस्याङ्कितम् मध्ये मत्स्ययुगं दिशोरमलधीः कीनाशवित्तेशयोः| ताभ्यां सूत्रमणिं प्रसार्यय चतुरः कोणांस्ततो लाञ्छयेत् क्षेत्रं स्याच्चतुरस्रमत्र रचयेदन्यानि कुण्डान्यपि|| ५|| क्षेत्रे क्षिप्त्वा वहिरिह पुरोभूतभागेऽशंमेकम् कोणार्द्धार्द्धं सुनिशितमति र्भ्रामयेत् सम्प्रगृह्य| पृ० ७३) यावत् कोणं परमपि तथा सूत्रयुग्मस्य पातम् मध्यात् कुर्ययाद् भवति तदिदं मन्मथावासकुण्डम्|| ६|| परित्यज्य भागद्वयं पङ् क्तिभागी कृतेऽत्रोपरिष्टादधस्ताच्च विद्वान्| परिभ्रामयेत्तेन मानेन सम्यग् भवेदर्द्धचन्द्राह्वयं कुण्डमेतत्|| ७|| शर्वरीसार्द्धभागीकृतक्षेत्रतः पार्श्वयोर्न्यस्य भागद्वयं पण्डितः| तेन मानेन सूत्रद्वयं विन्यसेत् कुण्डमेतद् भवेद्रुद्रनेत्रास्रम्|| ८|| दिग्गजादधिकपंक्तिभागतः क्षेत्रतो निशितधीर्वहिर्न्यसेत्| भागमेककमनेन सर्वतो भ्रामयेद् भवति वृत्तमुत्तमम्|| ९|| भूपांशेऽशंद्वयमिह वहिः पार्श्वयोर्न्यस्य मध्यात् क्षेत्रव्यासे सुविमलमतिस्तेन मानेन कृत्वा| वेदिकानिर्माण प्रकारमाह ततस्तस्य मध्य इत्यादिना तन्मण्डपत्रिभागैकेन भागेन वेदिकां कुर्ययात् यथा प्राक् प्रत्ययसूच चतुष्टयेनासकान्या दक्षिणोत्तरा पञ्च तथैव चानयेत् एवं कृते तन्मण्डपं नवपदात्मकं जायते तेषु मध्यपदे वेदिकामरत्नि मात्रोन्नतां दर्पणान्तर्निभां दर्पणमध्यवन्निर्मली कुर्ययात्|| ३|| अवशिष्टेषु पूर्वाद्यष्टदिक् पत्रेषु क्रमेण वेदास्रमित्यादि वक्ष्यमाणेन कुर्ययात् | देवास्रं चतुरस्रं योनिम् अश्वत्थपत्राकारम् अर्द्धोड़उपनिभम् अर्द्धचन्द्राकारम् अनलास्रं त्रिकोणं वृत्तं षड़स्रं पद्माकारं गजास्रम् अष्टास्रं हरिहयहरिदारभ्य प्राचीं दिशमारभ्येत्यर्थः | शारदातिलके तु आचार्ययकुण्डं मध्ये स्याद् गौरीपतिमहेन्द्रयोरित्या चार्ययवृत्तं वर्त्तुलम् | अन्ये त्वे वसाहुः इन्द्रेशानयोर्मध्यावृत्तं वायव्ये पञ्चकोणम् ईशकोणे मण्डलकोणं कुर्ययात्|| ४|| कुण्डप्रस्तारमाह प्राक्सूत्रमित्यादिना| प्रथमं प्राक् प्राच्यग्रसूत्रमास्फाल्य वन्मध्याहितं धृत्वा तन्मानेन दिशोर्दक्षिणोत्तरदिक्षु सूत्र चतुष्टयम् आस्फालयेत् | एवं कृते चतुर्हस्तपादोपेतं समं चतुरस्रं मण्डलं जायते| एतत् कुण्डं पूर्वदिग्गतं भवति एतदेव चतुरस्रम् || ५|| चतुरस्रञ्च कृत्वान्यानि कुण्डान्युद्धरेदित्याहुः क्षेत्रे क्षिप्त्वेति | कृतचतुरस्रे आग्नेयमारुत नैरृतेशञ्च सूत्रद्वयम् आस्फाल्य पुनश्चतुरस्रं पञ्चावितय एकम् अंशं वहिः क्षिप्त्वा कोणार्द्धार्द्ध प्रमाणेन सम्पूज्य भ्रामयेत् कोणशब्देन कोणसूत्रं गृह्यते| तस्यार्द्धं कोणसूत्रद्वयमध्यसम्पातस्थानं तदर्द्धं पश्चिमकोष्ठयुगले द्वितीय कोणसूत्रस्थानं तत् प्रमाणतः तत् स्थानात् कोणसंलग्नं भ्रामयेत् एतद् योनि कुण्डम् अग्निदिग्गतम् ||६|| अर्द्धचन्द्रकुण्डमाह परित्यज्येति| चतुरस्रं कृतं भूभागं दशधा विभज्य अध ऊर्द्धं भागद्वयम् ऊर्द्ध एकम् अध एकं परित्यज्य अग्रे ज्यासूत्रं स्वे स्वे सप्रमाणं पातयित्वा तेन मूले व्यास प्रमाणेन भ्रामयेत्| सूत्र खण्डान्यन्यानि परिमार्जयेत् | एतदर्द्धचन्द्राह्वयं कुण्डं दक्षिणदिग्गतम् || ७|| अस्रकुण्डमाह शर्वरीति| सार्द्धभागीकृत इति प्रकृतं चतुरस्रं क्षेत्रम् अष्टधा विभज्य पार्श्वयोः तिर्ययक् प्राचीसूत्रपार्श्वयोः प्रत्येकं भागद्वयं वर्द्धयेत्| सूत्रसकलानि परिमार्जयेत्| ऐन्द्रकोणकुण्डं निरृतिदिग्गतम् || ८|| वृत्तकुण्डमाह दिगिति| क्षेत्रतोऽष्टाधिकदशभागे कृते एवं भागं चतुःपार्श्वे वहिर्न्यस्य वृत्ताकारेण भ्रामयेत्| वृत्तखण्डान्यन्यानि परिवर्जयेत् | एतद्र वृत्त कुण्डं पश्चिमदिग्गतम्|| ९|| पृ० ७४) पार्श्वद्वन्द्वे भ्क्तषयुगयुगं सूत्रषट् कोमपातम् कुर्ययात् कुण्डं भवति तदिदं तर्ककोणं मनोज्ञम् || १०|| दशांशेऽत्र विन्यस्य वाह्येऽशंमेकम् परिभ्राम्य तेनैव वृत्तं दलानाम् | वहिर्मध्यमे कर्णिकाञ्चापि कुर्ययाद् भवेदष्टपत्रं बुधः पद्मकुण्डम् || ११|| क्षेत्रे क्षिप्त्वात्र वाह्ये दिशि दिशि मिहिरद्वन्द्वकांशेऽशंमेकम् कृत्वानेनाब्धिकोणं पुनरपि मतिमान् कोणतोऽर्द्धं गृहीत्वा| तत्कोणाभ्यां विदध्यादिह खलु परितस्तेन मानेन चिह्नानष्टस्रं स्यात् समन्तादपिच वितनुयादष्टसूत्र प्रयोगम् || १२|| हयांशेऽत्र भागं वहिर्न्यस्य वृत्तं परिभ्राम्य भूयो युगांशीकृतांशैः| त्रिभिः पट्टदोर्घं भवेत् पञ्चसूत्रप्रयोगादिहानेन पञ्चास्रकुण्डम्|| १३|| पृ० ७५) क्षेत्रव्यासे दशांशैर्वहिरिह विनिधायैकमंशं सुवृत्तम् मानेनानेन कृत्वा पुनरपिच चतुःषष्टिभागीकृतेऽत्र| पट्टायामप्रमाणं दृढ़मतिरमुना सत्रिकैस्त्रिं शदंशैः कुर्ययात् सप्तास्र कुण्डं भवति हि तदिदं सप्तसूत्रप्रयोगात्|| १४|| यावन्मानं कुण्डविस्तारकस्य तावत् खातस्यापि मानं प्रदिष्टम् | कुण्डाकारं पण्डितो यादृशं तत् तादृग्रू पं मेखलाया निदध्यात् || १५|| तिस्रः कुण्डे मेखलामेखले द्वे यद्वा चैकां मेखलां वापि कुर्ययात्| कुर्ययादूर्द्धं मेखलाया गजौष्ठाकारं योनिं चापि होतुर्दिशीह || १६|| मुष्टिमात्रे तु ता मेंखला द्व्यङ्गुलैकाङ्गुलार्द्धाङ्गुलोत्सेधताराः क्रमात् स्युः| रात्रिमात्रे तु तास्त्राङ्गुलद्वाङ्गुलैकाङ्गुलोत्सेधतारा भवेयुः पुनस्ताः|| १७|| युगाप्पित्तनेत्राङ्गुलोत्सेधताराः स्युरेताः क्रमाद्धस्तमात्रेऽत्र कुण्डे| करद्वन्द्वमात्रे रसाम्भोधिवह्नाङ्गुलोत्सेधतारा भवेयुः पुनस्ताः|| १८| वेदकरेऽस्मिन् सिन्धुरतर्काब्धाङ्गुलतारोत्सेधुताः स्युः| षट् करमात्रेऽस्मिन् दशवस्वृत्वङ्गुलतारोत्सेधसमेताः|| १९|| भास्करपंक्ति गजाङ्गुलतारोत्सेधयुताः स्युरिमा वसुहस्ते| नाभिमिहाम्बु जवच्च विदध्यादष्टदलं सह कर्णिकयान्तः|| २०|| षड़स्रकुण्डमाह भूपेति | क्षेत्रं दृशां भूपांशीकृत्य षोड़शधा कृत्वा मध्यसूत्रात्| पार्श्वमेवैकमेकं विन्यस्य पार्श्व द्वन्द्वे मत्स्यचतुष्कं ततः षट् सूत्रं पातयेत्| तेन षट् कोमात्मकं कुण्डं भवेत् तद्वायव्यदिग्गतम्|| १०|| पद्म कुण्डमाह दशांशेति| चतुरस्रं क्षेत्रं दशांशीकृत्य वर्द्धयित्वा वर्त्तुलाकारेण भ्रामयित्वा पुनरपि तेन मानेन भ्रामयित्वा कुण्डात्मकमध्यवृत्तेन कर्णिकाद्वितयवृत्तेन केशराणि तृतीये चाष्टदलानि पद्मकुण्डं कौवेरदिग्गतम्|| ११|| अष्टास्रमाह क्षेत्र इति | चतुरस्रं क्षेत्रं मिहिरद्वन्द्वांशं चतुर्विशांशं विधाय दिशि दिशि एकमेकम् अलं क्षिप्त्वा वर्द्धयित्वा अब्धिकोणं कृत्वा ततः कोणतोऽर्द्धं गृहीत्वा अन्तश्चतुरस्रकोणार्द्धार्द्धं गृहीत्वा कोणाभ्यां वाह्यचतुरस्रकोणाभ्यां दिशि दिशि चिह्नानि कृत्वा अष्टमूचे पातेनाष्टास्रं कुण्डं ईशदिग्गतम् || १२|| पञ्चास्र कुण्डमन्याचार्ययमतमाह हयांशे इति चतुरस्रं सप्तभागं विधाय एकम् अंशं वहिर्वत्तुलत्वेन वर्द्धयित्वा पुनरपि युगांशीकृत्य चतुर्द्धा विभज्य त्रिभिरंशैरायाम दैर्ध्यं कृत्वा तञ्च सूत्रप्रयोगं पञ्चकोणात्मकं कुण्डं वायुकोणगतम्|| १३|| सप्तास्र कुण्डमाह क्षेत्र व्यास इति | अत्र व्यासप्रकृतं चतुरस्रं दशधा विभज्य एकांशेन वहिर्वर्द्धयित्वा पुनस्तेनैव मानेन परितो वृत्तं भ्रामयेत् | पुनरपि चतुरस्रं चतुःषष्टधा विभज्य तेष्वेकत्रिं शदंशं परित्यज्य अवशिष्टेन त्रयस्त्रिंशदंशेन वृत्तरेखां सप्तधा प्राणीय सप्तचिह्नानि कृत्वा सप्तसूत्राण्यास्फालयेत्| एवं सप्तकोणम् असङ्गु चिताग्रं कुर्ययादिति|| १४|| खातमानमाह यावदिति| युगं चत्वारि अर्पितं त्राङ्कुलं नेत्रं द्वाङ्गुलं सिन्धुवाचौ तर्काः षट् अब्धयश्चत्वारः| नाभिप्रसरमाह नाभिमिहेति| अन्तः कुण्डमध्ये पृ० ७६) मुष्टिमात्रे रसाम्भोधिनेत्राङ्गुलायामतारोन्नतिर्योनिरुक्ता बुधैः| नेत्रवेदाङ्गुलोत्सेधतारान्विता नाभिरप्यत्र योन्यग्रमेकाङ्गुलम्|| २१|| योन्यामेतद्गदितं रत्रिमात्रस्य कुण्डस्य| यन्मायोक्तं तदेव खलु हस्तमात्रस्य|| २२|| एकैकेनाङ्गुलीनामलनिशितमतिर्वर्द्धयेदन्यकुण्डेष्वेनां योनिञ्च वृन्ताकृतिमपि यदि वा कुण्डरूपस्वरूपम् योन्याकारेऽत्र योनिं सरसिजसदृशे नो विदध्याच्च नाभिम् || २३|| कुण्डस्यैके हस्तमात्रस्य योनिं प्राहुर्भू ताग्न्यङ्गु लायामताराम्| व्यासस्यैकांशकोत्सेधयुक्तां कुर्ययाद् बोधिक्ष्माजपत्रानुरूपाम्||२४|| नेत्रभूताङ्गुलोत्सेधतारान्वितां नाभिमंशद्वये तद्दलानि| व्यासवह्नांशतोऽशेंन तत्कर्णिकां मध्यभागे विदध्याद्बुधः कुण्डतः|| २५|| कुण्डस्यैककरस्य चारु परितो नेमिर्भवेदङ्गुले नैकेनैव ततो विलोचनकरादारभ्य संवर्द्धयेत्| कुण्डे दिक्करकुण्डकावधि बुधः प्रत्येकमर्द्धाङ्गुलम् तद्वाह्ये खलु मेखलात्रितयकं कुर्ययाद् यथोक्त क्रमात्|| २६|| पृ० ७७) शतार्द्धहोमे खलु मुष्टिमात्रमरत्रिमात्रं शतहोमकुण्डम्| हस्तं सहस्रे त्वयुते द्विहस्तं लक्षे चतुर्हस्तमिदं प्रदिष्टम् || २७|| दशलक्षे रसहस्तं वसुहस्तं कोटिहोमे स्यात्| कोट्यर्द्धे चाष्टकरं होमेष्वागमविदो ब्रुवते|| २८|| केचिद्धस्तं लक्षहोमे द्विहस्तं लक्षद्वन्दे वह्निलक्षे त्रिहस्तम्| होमे कुण्डं वेदलक्षेऽब्धिहस्तं प्राहुर्दोष्णां पञ्चकं पञ्चलक्षे|| २९|| वसुलक्षे वसुहस्तं सप्तकरं सप्तलक्षे स्यात्| वसुहस्तं वसुलक्षे नवलक्षे नवहस्तम्||३०|| दशहस्तं दशलक्षे दशकरमेवेह कोटिहोमेऽपि| दशहस्तान्नहि कुण्डं परमस्ति महीतलेऽमुष्मिन्|| ३१|| सर्वसिद्धिकरमम्बु धिकोणं पुत्रदं मनसिजालयमथोक्तम्| अर्द्धचन्द्रसदृशं शुभदं स्यादग्निकोणमरिमर्दनहेतुः|| ३२|| शान्तिकमणि भवेत् सुवर्त्तुलं छेदमारणकरं षड़स्रकम् | पद्मकुण्डमिह व्युष्टुकारकं रोगशान्तिकरमष्टकोणकम् || ३३|| चतुरस्रं विप्राणां राज्ञामिह वर्त्तुलं कुण्डम्| वणिजामर्द्धशशाङ्काकारं त्रास्रं तु शूद्राणाम् || ३४|| चतुरस्रं सर्वेषां प्रशस्तमिति केचिदाहुराचार्ययाः| वाञ्छितफलदं यज्ञकुण्डं द्वयमपि भुक्तिमुक्तिकरम् || ३५|| षट् कोणमर्द्ध चन्द्राकारञ्चापि प्रजाकरकुण्डम् | योनिप्रकारमाह मुष्टीति| दैर्घ्यरणविस्तारः नेतरः षट् चतुर्द्धायङ्गुलायामः यथा संख्यम् | नाभिमानमाह नेत्रेति| योन्यग्रमाह योन्यग्रमिति योनिकुण्डे योनिं पद्म कुण्डे नाभिञ्चाविहिते इत्याह इत्येकाङ्गुल इत्यादि विदध्याच्च नाभिमित्यन्तेन च| कुण्डस्येति एके आगगविदः हस्तपरिमितकुण्डस्य योनिमानम् अन्यथा वर्णयन्ति भूत - अब्धि -अङ्गुलायामताराम् | व्यासः आयामः तस्मिन् आयामेतां षट् संख्यां षड़ङ्गुलां बोधिक्ष्माजपत्रानुरूपाम् अश्वत्थपत्राकाराम् एतदुक्तं भवति| एकहस्तमात्रस्वषड़ङ्गु लविस्तृतां द्वाङ्गुलोन्नतामश्वत्थपत्रवत्|| १५ -२४|| नेत्रेति | द्वाङ्गुलपञ्ताङ्गु लैरुत्सेधतारान्वितां कुर्ययात् | भागद्वयेऽष्टदलानि च व्यासस्य विस्तारस्य वह्नांशभागेन तृतीयभागेन मध्यकुण्डे कर्णिकां कुर्ययात् | एक हस्तकुण्डस्य परितः सर्वत्र एकेन अंशेन अनेन नेमिः एवं विलोचनात् द्विकरादारभ्य वर्द्धयेत्| एवं दिक्करकुण्डावधि दशहस्तकुण्डपर्ययन्तं प्रत्येकम् अर्द्धाङ्गुलं न वर्द्धयेत् | तद्वाह्ये खलु मेखलात्रितयं कुर्ययात् || २५|| २६|| होमसंख्यानुरूपकुण्डमाह शतार्द्धेति| द्विहस्तमयुते द्विहस्तं हस्तकुण्डकोणसूत्रपरिमितं तथाच सूत्रप्रमाणेन द्विहस्तकुण्डमुद्वरेत्| एकहस्तस्य कुण्डस्य कर्णसूत्र प्रमाणतः| द्विहस्तमुद्धरेत् कुण्डमेवं तन्त्रविदी विदुः|| २७- ३१|| पृ० ७८) मुक्तिकरं पञ्चास्रं हयकोणञ्चेह राज्यदा योनिः|| ३६|| इति श्रीत्रिपुरासारसमुच्चये नवमः पटलः| दशमः पटलः| नित्ये नैमित्तिके च प्रविमलमतयः प्राहुरेकेऽब्धिकोणम् कुण्डं हस्तप्रमाणं स्मर गृह सदृशं चाथ वृत्तं प्रशस्तम्| षट् कोणं चार्द्धदोषाकरसदृशमथ स्थण्डिलं रत्निमात्रायामं चाङ्गुष्ठर्वोन्वतमपि सुषमं निर्मितं वालुकाभिः|| १|| चतुष्कोणमब्धाङ्गु लोत्सेधमेके बुधा हस्तविस्तारयुक्तं तदाहुः| ततः शोधनं क्षालनं वापि कुर्ययात्तथा ल्पावनं चापि कुण्डस्य विद्वान्|| २|| तिस्रस्तत्र लिखेदुदग्गतशिखारेखाहृदा वर्हिषा प्रागग्राश्च तथा चतुर्मुखयमश्यामाकरा देवताः| तासां वृत्ररिपोर्हरिद् गतशिखायामध्य सव्योत्तराः श्रीशाद्रीशसुराधिपा इति तथा प्रागग्ररेखाधिपाः|| ३|| पृ० ७९) अभ्युक्ष्य मूलेनाम्भोभिर्गन्धाद्यैस्तस्य मध्य मभ्यर्च्य| इह नीलनीरदाभां ध्यायेद्वागीश्वरी मृतुस्नाताम् || ४|| जातं मार्त्तण्डकान्ताद्धुतवहमरणेः श्रोत्रियागारतो वा क्षेत्रान्निक्षिप्य पात्रे वरकनकमये ताम्रपात्रेऽथवापि| मृतपात्रे वा निधायामलविपुलमतिर्वह्निवीजेन मन्त्री क्रव्यादांशं त्यजंस्तत्तदनु च मनुना शोधयेदस्त्रकेण|| ५|| कवचेन ततोऽवगुण्ठा पश्चाद् - यतात्मा परिदर्श्य धेनुमुद्राम् | अमृतीकरणं ततो विद्ध्याज्जलवीजेन सविन्दुना कृशानोः|| ६|| प्रादक्षिण्यात्त्रिः परिभ्राम्य सम्यग् वागीश्वर्ययाः कुण्डमध्ये स्थितायाः| योनावेनं विन्यसेत् स्वाभिवक्तम् पश्चादग्निं मूलमन्त्रेण मन्त्री|| ७|| काम्यविशेषे कुण्डविशेषमाह सर्वसिद्धिकरंमिति| मनसिजकर संख्यातयोनिकुण्डं जातिविशेषे कुण्डविशेषमाह चतुरस्रमिति|| ३२ -३६|| इति श्रीत्रिपुरासारमुच्चटीकायां पदार्थादर्शे नवमः पटलः|| ९|| एवं मण्डपकुण्डविधानानन्तरं स्थण्डिलविधानं होमविधानञ्च वक्तुमुपक्रमते नित्येत्यादिना| नित्ये नैमित्तिक हस्तप्रमाणं कुण्डमाचार्ययाः प्राहुः | बालुकानिर्मितस्थण्डिलप्रमाणमाह स्थण्डिलमिति|| १|| कुण्डशोधनप्रकारमाह तत इति , कुण्डं स्थण्डिलं च क्वत्वा नखकेशलोष्ट्राश्मादीन् संशोध्य गोमयाम्भसा कुण्डमुपलिप्य स्थण्डिलं चाभ्युक्ष्य वायुवीजेन संशोध्य वरुणवीजेनाल्पावनं कृत्वा हृदा हृदयमन्त्रेण नम इति मन्त्रेण वर्हिषा द्विगुणितकुशेन दक्षिणाग्रं पश्चिमादिपूर्वाग्रक्रमेण रेखात्रयं विलिख्य तासां दक्षिणा दुत्तराग्रेषु मध्यश्चिमपूर्व भागगतानां क्रमेण ब्रह्मयमसोमाः पश्चिमादिपूर्वाग्रेषु मध्यदक्षिणोत्तराणां दिशः श्रीशमुराधिपादेवताः स्मरेत् ततो दक्षिणभागेन गन्धपुष्पाक्षतादीनि होमद्रवायाणि संस्थाप्य वामभागे पूर्वाग्रान् दर्भानास्तीर्यय तदुपरि यथोक्तनिपातान् तीर्थजलेनापूर्यय पूर्वोक्तद्रव्यजातम् | पात्राणि च पूर्वोक्तमन्त्रेण सम्प्रोक्ष्य कुण्डस्थण्डिययोरन्यतमे मध्ये गन्धादिभिरभ्यर्च्य|| २|| ३|| वागीश्वरीमृतुस्नातां वागीश्वरेण संयुक्तां द्विभुजाम् उत्पधारिणीमिति ध्यात्वा|| ४|| सूर्ययकान्तसम्भवं अरणेः श्रीत्रियगेहाद्वा एकमग्निमानीय वह्निवीजेनपात्रे निधाय क्रव्यादने किञ्चिद्दारुखण्डं परित्यज्य अस्त्रेण सञ्छाद्य|| ५|| कवचेनावगुण्ठा अमृतवीजेन धेनुमुद्रया अमृतीकृत्य उत्थाप्य प्रादक्षिण्यक्रमेण स्थण्डिलकुण्डं परिभ्राम्य स्वसम्मुखं कृत्वा| स्ववीजबुड्धा कुण्डमध्ये देव्या योनौ तत् समर्पयेत्|| ६|| ७|| पृ० ८०) हृन्मन्त्रेण समाहितोऽथ जुहुयादान्जेन सप्ताहुतीर्गर्भाधानमिदं सितेतरगतेः सम्यक् कृतं स्यादिह| एवं पुंसवनं ततो वितनुयान्मन्त्री तु सीमन्तकम् तेनैवास्य तु जातकर्मविधिना वह्नेर्विदध्यादिह|| ८|| ततः सप्तहस्तं त्रिपादं द्विशीर्षं चतुभिर्विषाणैस्त्रिधाबद्धमिद्धम् | पिशङ्गैर्युतं लोचनैस्तर्कसंख्यैर्विनाशं रणन्तं चतुःश्रोत्रमग्निम् || ९|| रक्ताम्बु जास्यं परिसम्बितैकपादञ्च पृष्ठेन गतं वृषेन्द्रम् | स्वसम्मुखं दक्षिणगैश्चतुर्भिर्वामैस्त्रिभिर्बाहुभिरप्युपेतम्|| १०|| शक्तिं रन्ध्रं स्रुक्स्रुवौ सव्यहस्तैर्वामैस्तैस्तोमरं तालवृन्तम् | सर्पिः पूर्णं तप्तसौवर्णवर्णं पात्रं स्वाञ्च सप्तजिह्वां दधानम् || ११|| या सा हिरण्या कनका च रक्ता हृष्टा च सव्याननगा रसज्ञा| या सुप्रभाख्या रसनातिरक्ता वामाननस्था बहुरूपिका च|| १२|| पृ० ८१) सुतप्तचामीकरचारुवर्णा स्थिता हिरण्या दिशि शूलपाणेः| वैदर्यय वर्णा कनकाभिधाना या सा निषणा दिशि वासवस्य|| १३|| या रक्ता तरुणदिवाकराभवर्णा सा जिह्वा हरिति सुसंस्थिता कृशानोः| या कृष्णा विकसितनीलनीरजाभा सा रज्ञः परिवृढ़दिग्विभागलग्ना|| १४|| पद्मरागसदृशप्रभोज्जवला सुप्रभा वरुणदिश्यवस्थिता| या महारजतपुष्पसन्निभा गन्धवाहदिशि सातिरक्तिका|| १५|| यथार्थसंज्ञा बहुरूपिका या जिह्वोत्तरे दक्षिणतः स्थिता सा| कुण्डस्य मध्ये त्वथ सा प्रशस्ता जिंह्वा हिरण्या भुवि कार्मणादौ|| १६|| स्तम्भनादिषु मता कनकाख्या द्वेषणादिषु मता खलु रक्ता| मारणे निगदिता भुवि कृष्णा सुप्रभा बधवरैरिह शान्त्याम् || १७|| उच्चाटनेऽतिरक्ता या बहुरूपोत्तरे सिद्धिम् | ऋद्धिं दक्षिणतः सा तनुते मध्ये शुभानि सदा|| १८|| अन्ये त्वागमपारगामलधियः प्राहुर्बुधाः सुप्रभाम् वृत्रारेः ककुभि स्थितां पितृपतेः कृष्णां हिरण्यां पुनः| वारुण्यां बहुरूपिकां पुरभिदो रक्तामुदीच्यां श्रितामाग्नेययामतिरक्तिकाञ्च कनकां कुण्डस्यमध्ये स्थिताम्|| १९|| जिह्वान्तु हिरण्याख्यां शान्तिकर्मणि तथा कनकाख्याम्| रक्तां कार्मणकर्मणि कृष्णां क्षुद्रक्रियासु बुधः|| २०|| तत्र योगपीठमर्भ्यर्च्य पश्चाद्देवस्य देव्याश्च दद्यादाचमनादिकम्| ज्वालयेन्मनु नानेन त्नमग्निमथ देशिकः| ओं चित् पिङ्गल हन हन दह दह पच पच सर्वाङ्गानि ज्ञापय स्वाहा| अग्निं प्रज्वलितं वन्दे जातवेदो हुताशनम् | सुवर्णवर्णममलं समिद्धं सर्वतो मुखम् | उपतिष्ठेत विधिना मनुनानेन पावकम् | विन्य सेदात्मनो देहे मन्त्रैर्जिह्वाहविर्भुजः| लिङ्गपायुशिरीवक्तध्राणनेत्रेषु सर्वतः| वह्निरर्घीशसंयुक्ताः सादिवर्णाः सविन्दवः| तेन स्यूं ध्रुं श्रुं ल्वुं ययु- मर्णामन्त्राः समुद्दिष्टा जिह्वाग्रेः सप्तदेशिकैः| पूर्वोक्तहृन्मन्त्रेण गर्भाधानपुंसवनसीन्तोन्नयनजात कर्मणां प्रत्येकं सप्ताहुतीः कृत्वा तत्र गायत्रानुष्टव् वृहती पंक्ति त्रिष्टुव् जगतीच्छन्दीमय सप्तधातुम्|| ८|| गार्हपत्याहवनीय दक्षिणाग्निमयं त्रिपादं यजमानं प्रत्यात्मकं द्विशीर्षं चतुः शृङ्गम् | वेदचतुष्टयं चतुःस्कन्धं प्रातर्मध्याह्नसायमिति शवलत्रयबद्धशरीरं वेदालोकाय पञ्चरात्रबौद्धार्द्धर्द्धम् | हव्यस्यात्मकं विना पुंसवनत्रयेषु ऋग्यजुः सामाथर्वात्मकं चतुःश्रीत्रं जङ्गमदीप्यमानवपुषं वृषेन्द्रपृष्ठेन गतं वृषेन्द्रस्य पृष्ठगतं तथालम्बितकपालम् , अधः दक्षिणभागैश्वतुर्भुजैः शक्ति वीजं स्रुक्स्रुवौ| वामकरैस्त्रिभिस्त्रीमरतालवृन्तं तघृर्णपूसौवर्णपात्रञ्च दधानमित्यादि|| ९ -११|| जातवेदसं ध्यात्वार्घ्य पाद्यादिधूपदीपान्तैरुपचारैरभ्यर्च्य ततः प्रागग्रैरुदगग्रैर्दर्भैरेकमेखलाकुण्डे मेखलाधस्तात्| द्विमेखले द्वयोर्मध्ये त्रिमेखले मेखलायां परिस्तीर्यय यदि स्थण्डिले तदा दक्षिणोत्तरपश्चिम भागेषु त्रीन् परिधीन् विन्यस्य पविषिच्य तती गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः| अनन्तरं जातकर्म स्यान्नामकरणं तथा| पृ० ८२) या सुप्रभेति गदिता तामाहुर्मोक्षकारिणीं जिह्वाम्| अतिरक्तामाकृष्टौ बहुरूपामखिलसिद्धिदां जिह्वाम् || २१|| सर्वालङ्करणान्वितां सर्वकर्मस्वेवं रूपं साधकश्चित्रभानुम् | सम्यग्ध्यायेत् सप्तजिह्वाभिर्युक्तं ज्ञात्वा वाग्यतोत्तानवक्तम् || २२|| कुर्ययान्मन्त्री जातकर्मावसाने पाद्यार्घ्याद्यै रर्चयित्वा यथावत्| हृन्मन्त्रेणाज्याहुतीः सप्त कृत्वा श्रीमन्नामामुष्य धूमध्वजस्य|| २३|| प्रागग्रैरुदगग्रैः परिस्तदेदथ कुशैः सम्यक् | एकमेखलकुण्डे निशितमतिर्मेखलाधस्तात्|| २४|| परिस्तरेद् द्विमेखले द्वितीयमेखलोपरि| त्रिमेखले तु मध्यमेखलोपरि पंरिस्तरेत्|| २५|| स्थण्डिलके सिकतानामग्रे पार्श्वेऽथ विन्यसेत् परिधीन् | कुण्डस्य दक्षिणोत्तरपश्चिमभागेषु साधको मतिमान्|| २६|| होतुः पूर्वं पूर्वभागं प्रदिष्टं सव्यं भागं दक्षिणं भागमग्नेः| वामं विद्यादुत्तरं भागमग्रां प्रज्ञावद्भिः पश्चिमं भागमुक्तम् || २७|| ततो वामभागे परिस्तीर्यय दर्भान् पुलोमात्मजावल्लभाशागताग्रान्| तदूर्द्धे न्यसेद् द्वन्द्वरूपेण पात्राण्यथोऽधोगतास्यानि सर्वाणि धीमान्|| २८|| सौवर्णाण्यपि राजतान्यपि तथा पात्राणि शौल्वानि वा मृत्पात्राण्यपि शान्तिकादिषु परं शस्तानि कर्मस्विह | शेल्वक्षद्रुमशिग्रू भूरुहकृतान्ये तानि विद्वेषणोच्चाटोच्छादनमारणादिषु भृशं शस्तानि पात्राण्यपि || २९|| पृ० ८३) अथोत्तानितेष्वेषु पात्रेषु विद्वान् जलेनैकमापूर्यय तीर्थानि तत्र| सुसञ्जिन्त्य तैः प्रोक्षयेत् कूर्चदर्भै स्तदा सव्यभागस्थितं द्रव्यजातम् || ३०|| कृतघृतशुद्धिः प्रविमलबुद्धिर्जु हुयादाहुतिसप्तकमत्र| अन्नप्राशनमथूड़ओपनयनयोरपि विदधीतेत्थम्|| ३१|| गोदानमङ्गलादिषु सर्वेषु सहृदयेन| तेनैव समावर्त्तनविवाहयोराहुतीर्जु हुयात्|| ३२|| असूनिति सुसंस्कृते कृशानौ विधिना पूर्वसमीरितासनं तत्| परिकल्पा यथावदर्च्चयेत्तां परिवारेण सहाम्बिकामथात्र|| ३३|| परिवारस्यैकैकां देव्याश्च दशाहुतीर्जु हुयात् | एवं भैरव्यग्निर्जनितः स्याद्धोममाचरेताथ|| ३४|| पालाशैर्मधुरत्रयेण कुसुमैः सिक्तैरशेशान्नरः कामांश्चभ्यकपाटलाविचिकिलैः प्राप्नोति होमश्रियम् | राज्यं विल्वदलैः फलैरपि तथा सामान्यमम्भोरुहै वायुः शाह्वलपल्लवैः सह गुड़ऐः शान्तिं सहान्नैस्तिलैः|| ३५|| अघोरेण द्रविणं विगदत्वं प्राप्याच्च सिद्धार्थैः| प्रीतिं प्रियङ्गुपत्रैः पुत्रान् सौख्यं फलैर्मनुजाः|| ३६|| लाजैः सौभाग्यं धान्यहोमेन होमात् पुष्पैर्यक्षलोकाधिपत्यम् | मर्त्त्यः पुन्नागैरतिविद्याधरत्वम् पुष्पैर्मालत्याः सिद्धगन्धर्वलोकान् || ३७|| उपनिष्कमणं पश्चादन्नप्राशनमीरितम् | चौड़ईपनयने भूयो महानग्निमहाव्रतमित्यादि| प्रयोगान्ते मङ्गलनाम्नोऽग्नेर्गर्भाधानं करोमि नमः स्वाहा इत्यादि| तथाच शतं मङ्गलनामानं कुण्डेऽग्निस्थापनं तथेति | उत्तरे सिद्धिमिति दक्षिणतः स्थिता सा उत्तरे मध्ये च ऋद्धिं सिद्धिञ्च तनुते| श्रीमन्नामेति अमुष्य धमध्वजस्य वह्नेः श्रीमन्नामासि मङ्गलानामासीति शारदातिलके राघवभट्टः| परिधीनिति प्रादेशद्वयपरिमितयज्ञीयकाष्ठं शेलुः वृक्षविशेषः | शेलुः श्लेष्मातकः शीत पृ० ८४) आकृष्टिर्यक्षिणीनां त्रिमधुरसहितैरर्जुनैः सर्षपैः स्याद् वेश्या वश्या भवेयुर्हयरिपुकुसुमैः किंशुकैश्चापि होमात्| वश्याः स्युः कर्णिकारैरथ धरणिसुराः क्षत्रियाः कासमर्दैर्वैश्यानां किङ्किरातैर्गण इह वशगः पाटलाभैश्च शूद्राः|| ३८|| छागलाङ्गजजाङ्गलहोमात् परराष्ट्रं स्ववशं भवेदशेषम्| अथवारिवलं पराङ्नुखं स्यान्मधुराक्तेन महापललेनवापि || ३९|| कटुत्रयपत्रनिम्बकेशैः सगुड़ऐर्नारपलान्वितैर्निशासु | कटुतैलविमिश्रितैश्च होमादरयास्त्रिमुनिवासरान् म्रियन्ते|| ४०|| नग्नजिदस्थ्यजरो हरिद्राकण्डनकैर्विहितः किल होमः| सप्तदिनात् प्रतिपत्रनृपाणां स्तम्भनकृत् प्रबलस्य बलस्य|| ४१|| माषैर्मूकत्वं कोद्रवैर्व्याधिबाधाम् आतङ्गार्त्तिः स्यात् कलायैस्तु होमात्| उन्मत्तः स्यादक्षजाभिः समिद्भिर्मृत्युः सप्ताहाच्छाल्मलीवृक्षजाभिः|| ४२|| कपिलाघृतसंयुतैर्मनुष्यो यवगोधूमतिलैः षड़स्रकुण्डे | नियुतं खचरत्वमेति हुत्वा निशि चारेण समाहितान्तरात्मा|| ४३|| पलाशस्य काष्ठैः परिज्वाल्य हव्यासनं चन्दनाम्बू क्षितैर्बन्धुजीवैः| समस्तानि भूतानि वश्यानि होमाद्भवेयुः प्रियङुप्रसूतैश्च तद्वत्|| ४४|| पृ० ८५) नरो भक्ष्यभोज्यान्नपानानि हुत्वा परां सम्पदां प्राप्नुयादत्र लोके| वटोडुम्बराद्यङ्कुरैः स्वादुवर्गान्वितैः कल्यतां मल्लिकार्भिर्यशः स्यात्|| ४५|| तुष्टिर्नीलाम्बु जैर्होमात् स्यादचिरेण स्वशक्तिमुपेतुम् | घृताहुतिगुणितषोड़शाङ्गुलोन्नतिर्वरा तत इह मध्यमार्द्धतः|| ४६|| गजाङ्गुलोन्नतिरधमा तिलोद्भवं तथेव माध्विकमपि पञ्चगव्ययुक| एकं बुल्लकं पयसो दध्नो रसमैक्षवञ्च तद्वत्|| ४७|| एकैकापूपलिकापाय समक्ष प्रमाणञ्च| कदलीफलमेकैकं नागरङ्ग मातुलुङ्गञ्च|| ४८|| यनसं दशखण्डं स्याद् गुणखण्डं स्यात् फलं वैल्वम् | कर्कटिकागुणखण्डात् दलपुष्पाफलान्यखण्डानि|| ४९|| चतुरङ्गुष्ठसमानव्यञ्जनपिण्याक कृशराश्च| चुल्वाकार्द्धाहि तिलाः प्रसूतिमिताः शक्तवो गतिताः|| ५०|| लाजाः स्युर्मुष्टिमिताः कर्षार्द्धाः सर्षपाः प्रोक्ताः| कर्षप्रतिमा मुद्गा माषाश्च व्रीहयो मुष्टिमिताः|| ५१|| षोड़शनरपतिमाषा गोधूमाश्च रक्तशालयस्तद्वत्| सप्ताष्टौ वाथ वा यवाः पञ्चशो भणिताः|| ५२|| अर्द्धपलं गुड़मानं मुष्ट्यर्द्धं तण्डुलाः प्रोक्ताः| कुङ्कुम मृगमद चन्दनघन साराश्चनक मात्राः स्युः|| ५३|| उद्दालो बहुवारकः इत्यमरः क्षुद्रमंशाता इति यस्य प्रसिद्धिः| द्रस्वशाखः शिफः क्षुप इत्यमरः| शिग्रुः शैलज इति ख्याते| विचिकिलः पुष्पविशेषः बन्धु जीव इति केचित् | कासमर्दैः कालकासुन्दापुष्पैः| किञ्चिरातः पुष्पविशेषः छागलाङ्गजं छागमांसं जङ्गलो द्रव्यविशेषः पूर्ववत्| अथवेति अरिवलं शत्रुबलं पराङ्नुखं स्यात् मधुराक्तेन महापललं महामांसम् अतेव वैद्योक्तशास्त्रे ब्राह्मणे च तथा तैले मांसे चेत्यादिषु महच्छब्दो न दीयते , तथा, कटुत्रयनिम्बपत्रकेशैर्नारपलान्बितैः नरमांसै र्होमात् अवयः त्रिसप्तवासरात् एकविंशतिदिवसात् प्राक् म्रियन्ते| तथा नग्रजिदस्थि कार्पासबीजं केचिद्रुद्राक्षफलम् अजलोम हरिद्राखण्डन कैर्विहितो होमः सप्ताहात् प्रवि प्रतिपक्षनृपाणां स्तम्भनकृत् प्रबलस्य मांसहोमात् सुकरम् | अक्षजावहेड़आसमिद्धिः निशिचारेण इड़आयां वायौ गते|| १२ - ४४|| द्रव्यपरिमाणमाह | घृताहुतिद्विगुणितषोड़शाङ्गुलोन्नतिः द्वात्रिंशदङ्गुलोन्नतिघृतं धारा एवम्भूता आहुतिर्वरा श्रेष्ठा अर्द्धेन मध्यं तथा तोलोद्भवं तैलं माक्षिकं पृ० ८६) वदरफलप्रमाणं पुरं द्विखण्डं कपित्थफलकम् | श्लेष्मातकं पिशाचतरुं त्यक्तान्येभ्यः समीहरेत् समिथः|| ५४|| गोपुच्छमीषिकांश्च त्यक्तान्यतृणं परिस्तरणम् | एधांसि हिरण्यायां चरुणाघारांश्च कनकायाम् || ५५|| बहुरूपायां जुहुयात् सिद्धार्थ वैणवांश्च रक्तायाम् | कृष्णायामिह लाजान् शक्तून् वैशुप्रभायाञ्च|| ५६|| अतिरक्तायां तु तिलान् सर्वद्रव्याणि कनकायां वह्नेः| कर्णे होमे व्याधिबाधा नेत्रेऽन्धं नासिकायाञ्च व्याधिः|| ५७|| द्रव्यच्छेदो मस्तके स्यान्मुखान्तर्होमं कुर्ययात्तेन नित्यं विपश्चित्| ५८|| भेरीवारणवाररिदध्वनिनिभो वह्ने र्ध्वनिः शोभनोवर्णः स्वर्णनिभः शुभोदयकरः सिन्दूरवर्णः समम्| उद्यद् भास्कर सन्निभश्च घुसृणक्षौद्रे न्द्रगोपारुणो गन्धश्चम्प कपाटलाविचिकिलैराज्येन तुल्योऽपि च || ५९|| पृ० ८७) पुन्नागनाग केशरगुग्गुलुगन्धोपमश्च सिद्धिकरः| छत्राकारा तु शिखा शिखिनः शुभदाथ कल्पना च भवेत्|| ६०|| धूमोऽग्नेः कुन्दनिभः शुभफलदः काशकुसुमसङ्काशः| खरवायसरवसदृशो वह्नेः शब्दो विनाशकरः|| ६१|| कृष्णो हुतवहवर्णो यजमानं नाशयेदचिरात्| पिङ्गो वहुरोगकरो रौप्याभो राष्ट्रहानिमपि तनुयात्|| ६२|| विष्ठासदृशो गन्धो वह्नेर्दुः खानि विदधाति| मूत्रसमो बलहानिं स्वेदजे शुभविनाशनं कुर्ययात् || ६३|| विच्छिन्नाग्ने र्मृत्युं शिखा सुवृत्ता करोति बलहानिम् | शुकपिच्छाभो धूमो वह्नेर्वाहानिहाशु नाशयति|| ६४|| कुर्ययात् कपोतसदृशः कृपीटयोनिर्गवां नाशम् | आवर्त्तः शुभफलदः प्रदक्षिणो वीतिहोत्रस्य|| ६५|| विद्युत्पाते दर्दुरे विस्फुलिङ्गे आनर्थ्यं स्याद्धोमकाले कृशानोः| वामावर्त्तो विग्रहो हासयुक्ते होतुर्भीतिः सम्भवेद्भूतसङ्घात् || ६६|| वस्वधिकं शतमाज्यै र्जुहुयात् शान्तिकामेषु दोषेषु | अस्त्रेण साधकेन्द्रस्तनुयादथ चक्रपूजाञ्च|| ६७|| वशो भवत्यवश्यं भूमिपतिर्लक्षहोमेन | लक्षार्द्धेनामात्यः सामन्तो लक्षपादेन|| ६८|| षड्भिः सहस्रै र्भूपतिपत्न्यो पश्यास्तदीयपुत्नाश्च| एकसहस्रहोमात् सुभगा गणिकाश्च वश्याः स्यः|| ६९|| नियुतैर्दशभिर्भवन्ति सर्वे वशा नाकसदः सुरेन्द्रमुख्याः| नियुतैस्त्रिभिरेव देवपत्न्यो मुनयश्चापि अथान्यदेवता|| ७०|| गन्धर्वसिद्ध चारणगणास्परसो हृषीकलक्षेण| विंशतिलक्षैर्वशगा भवन्ति विद्येश्वराः सर्वे|| ७१|| मधु पञ्चगव्यं मूकत्वहरणे तथैव पूर्ववज्ज्ञेयम् | उडुम्बराग्रान् उडुम्बरसमिधः तथा एकमेकं जुहुयात्| व्यञ्जनं सूपादि पिण्याकमन्नं कृशरास्तिलतण्डुलाः चतुरङ्गुलसमानाः चतुःपूर्वपरीताः | कर्षार्द्ध इति अशीतिगुञ्जापरिमितशास्त्रोक्त तोलकद्वयं कर्ष इति अतेव श्रुवलक्षणे कर्षाद्युग्राहि तच्छिर इत्युक्तं कर्षद्वयं शुक्तिः| षोड़शमाषकपरिमिता राजमाषाः| रेणुयवाः चूर्णयवाः पुरं गुग्गुलुः श्लेष्मातकं पूर्वोक्तवृक्षविशेषः| पिशाचेतरुः वहेडा़| गोपुरमीषिकान् तृणशेषान् त्यक्ता अन्यतृणपरिस्तरणम् एघांसि सप्तजिह्वायां पृथग् द्रव्येण होतव्यं तदेवाह हिरण्याथां चरुं कनकायाम् आघारं तप्तघृतं दघात् | कर्णादिहोमे भूषणमाह वह्ने रिति|| ४५ - ५६|| वह्नेर्ध्वनिफलमाह भेरीति | भेरी वाद्यविशेषः वारणो हस्ती| वर्णफलमाह वर्ण इति | अस्तेण अस्त्रमन्त्रेण चक्रपूजां दशदिग्बन्धनञ्च कुर्ययात् | दोषशान्तौ जपानन्तरं नित्यजपप्रकारमाह जन्मेति| जन्माधारगृहोदरात् मूलाधारकोटरात् पृ० ८८) नियुतैः शतार्द्धसंख्यैः सदाशिवाम्भोजनेत्रकमलभवाः| वश्या भवन्ति लक्षैः कोटिभिराप्नोति शाश्वतं धाम || ७२|| पूर्णाहुतिमथ हुत्वा पुररिपुदयितां विसृज्य दृढ़भक्तिः| तदनु समाहितबुद्धिः स्वाहानाथं विसर्जयेन्मन्त्री|| ७३|| सपरिस्तराननुहोमे नित्ये परिधीन्न दहेन्मतिमान| नैमित्तिके तु होमे परिधीन् परिस्तरान् दहेन्मन्त्री|| ७४|| सुधाकरे चाथ समर्थ्य देवीं नृत्यैश्च गीतैः स्तुतिभिः प्रणम्य| उद्वास्य मूलेन गुरूपदिष्टकादम्बरीभिर्जु हुयान्मनस्वी|| ७५|| जन्माधारगृहोदरादजमुखंत्न्यं स्रान्तमात्रान्तया वृत्त्या जल्पति शक्तितन्त्रनियतः सूत्राक्षमालायुतः| मन्त्नश्च स्ववशोद्गतः प्रतिपद तत् प्रत्यगाशा सुखम् लिङ्गञ्च स्थितमब्ययं विजयते नित्यो जपात् त्न्यैपुरः|| ७६|| इति श्रीनागभट्टविरचिते त्निपुरासारसमुच्चये होमविधानं नाम दशमः पटलः| अजमुखत्नास्रान्तमात्नान्तया अजमुखं मूलाधारस्थब्रह्मरन्ध्रं तदन्तर्गतं त्न्यस्रं तदन्तंर्गतमात्नया तेजोरूपसूक्ष्मशिखया आवृत्त्या पौनः पुन्ये स्वरशो मन्त्रः प्रतिपदं प्रत्येक द्रव्यं लिङ्गस्थितं लिङ्गन्नयोपरि यत्तेजः तस्योपरिस्थितं प्रत्यगाशामुखं सर्वतोमुखं तेजोविशेषणं जल्पति तद्वोधं करोति कीदृक् मन्त्रः शक्तितन्त्रनिहितः कुशलः तथा सूत्राक्षमालायुक्तः सुत्ररूपाकारा अकारादिक्षकारान्तवर्णमालायुक्तः| एवं चिन्तमं नित्यजपरूपी भवति|| ५७ - ७६|| इति श्रीगोविन्दाचार्ययविरचितायां त्रिपुरासारसमुच्चयटीकायां पदार्थादर्शे दशमः पटलः| ########### END OF FILE #######