#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00297 Uniform title: triśikhibrāhmaṇopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: triśikhibrāhmaṇa upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 6, 2014 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### त्रिशिखिब्राह्मणोपनिषत् पूर्णमदः- इति शान्तिः ब्राह्मणभागः आत्मब्रह्मविषये प्रश्नाः त्रिशिखी ब्राह्मण आदित्यलोकं जगाम | तं गत्वोवाच | भगवन् किं देहः किं प्राणः किं कारणं किमात्मा || १ || विवरणम् योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् | प्रतियोगिविनिर्मुक्तं परं ब्रह्म भवाम्यहम् || इह खलु शुक्लयजुर्वेदप्रविभक्तेयं त्रिशिखिब्राह्मणोपनिषत् निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना तदुपायाष्टाङ्गयोगप्रपञ्चप्रकाशिनी विजृम्भते | तस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | त्रिशिखिब्राह्मणादित्यप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | केयमाख्यायिका इत्यत आह- त्रिशिखीति | नामतः त्रिशिखी, ब्रह्मणोऽपत्यं ब्राह्मणः, सनातनो नाम मुनिः, आदित्यलोकासनम् आदित्यं विधिवत् उपसंगम्य देहप्राणादिकं तत्कारणं किं, स्वयं वा कीदृश इति पप्रच्छ || १ || प्. ११७) सर्वस्य शिवत्वम् स होवाच सर्वमिदं शिव एव विजानीह | किं तु नित्यः शुद्धो निरञ्जनो विभुरद्वयानन्दः शिव एकः स्वेन भासेदं सर्वं सृष्ट्वा तप्तायःपिण्डवत् ऐक्यं भिन्नवत् अवभासते | तद्भासकं किमिति चेत्- उच्यते | सच्छब्दवाच्यम् अविद्याशबलं ब्रह्म || २ || तत्प्रश्नम् अङ्गीकृत्य तं होवाच भगवान् | किमिति ? सर्वमिदमित्यादि | त्वया किं देह इत्यादि यत् पृष्टं तत् शिव एवेति विजानीहि, सर्वस्य शिवाज्ञानविकल्पितत्वात् | विकल्पाधिकरणत्वे अनित्यत्वादि स्यात् इत्यत्र आह- किं त्विति | स्वाज्ञस्वविकल्पितविकल्पजालं अनित्यत्वादिदोषदुष्टमेव | किंतु तद्विकल्पनाधारो नित्यत्वादिविशेषणविशिष्टः अद्वैतात्मा शिव एक एव, न कदापि द्वैतभावमुपैतीत्यर्थः | विकल्पजातं केन विकल्पितं सदेकतां गतं, तद्भासकं किम् इत्याशङ्कायां य एकः शिवः स स्वेन तेजसा सर्वमिदं सृष्ट्वा तेन तप्तायःपिण्डवत् एकीभूय तद्वैलक्षण्येनापि भासत इत्याह- स्वेनेति | ऐक्यं प्राप्य स्वज्ञदृष्ट्या भिन्नवत् अवभासते | किं तदित्यत्र किं देह इत्यादि त्रिशिखिप्रश्नप्रतिवचने सर्वमिदं शिव एवेति यत् प्रतिज्ञातं तत्र स्वविकल्पितकार्यापेक्षया स्वस्य कारणत्वं स्वातिरिक्ताव्यक्तादेः कार्यत्वं च विशदीकरोति- सदिति | सदेव सोम्येदमग्र आसीत् इति स्वाविद्यायोगात् शबलत्वं स्वेन रूपेण ब्रह्मत्वं सिद्धमित्यर्थः || २ || ब्रह्मणः अखिलजगदुत्पत्तिः ब्रह्मणोऽव्यक्तम् | अव्यक्तान्महत् | महतोऽहंकारः | अहंकारात् पञ्चतन्मात्राणि | पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि | पञ्चमहाभूतेभ्योऽखिलं जगत् || ३ || प्. ११८) केवलब्रह्मणः कल्पनानधिकरणत्वेन निष्प्रतियोगिकनिर्विकल्पत्वात् तत् तिष्ठतु, शबलब्रह्मणः किं विकल्पितम् इत्यत आह- ब्रह्मणोऽव्यक्तमिति | ततः किम् इत्यत्र गुणसाम्यभावमापन्नाव्यक्तात् महत् | सत्वभावमापन्नमहतः अहंकारः | रजोभावमापन्नाहंकारात् पञ्चतन्मात्राणि | तमःप्रधानपञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि, पञ्चीकृतानीत्यर्थः | तमस्तमःप्रधानत्रिगुणोपसर्जनपञ्चीकृतपञ्चमहाभूतेभ्यः अखिलं जगत् || ३ || एकस्य पिण्डस्य बहुधा विभागः तदखिलं किमिति | भूतविकारविभागादिति | एकस्मिन् पिण्डे कथं भूतविकारविभाग इति | तत्कार्यकारणभेदरूपेण अंशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोशभेदविभागा भवन्ति || ४ || एकस्य पिण्डात्मनो जगतः कथमखिलत्वम् इत्यत्र पञ्चीकृतपञ्चमहाभूतविकारविभागादिति | तत्राप्याक्षिपति- एकस्मिन्निति | तत्प्रकारमाह- तदिति | पृथिव्यादेः आकाशकार्यत्वं आकाशादेः पृथिव्यादिकारणत्वमिति तत्तद्भूतकार्यकारणभेदरूपेण पृथिव्यादिपञ्चभूतविभागः | आकाशाद्यंशश्रोत्रादितत्त्वभेदेन तेषामभिधानाभिधेयभेदेन तत्तद्गोलकस्थानभेदेन शब्दादिविषयभेदेन देगादिदेवताभेदेन आनन्दमायादिकोशभेदेन च बहुधा विभागा भवन्ति | एकस्मिन् अविद्याण्डपिण्डे भूतभौतिकविकारविभागा उपपद्यन्त इत्यर्थः || ४ || आकाशादीनामंशभेदाः अथाकाशः अन्तःकरणमनोबुद्धिचित्ताहंकाराः | वायुः समानोदानव्यानपानप्राणाः | वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाः | आपः शब्दस्पर्शरूपरसगन्धाः | पृथिवी वाक्पाणिपादपायूपस्थाः || ५ || प्. ११९) एवं यत् सूत्रितं तदर्थं आकाशादिक्रमेण विशदीकरोति- अथेत्यादिना || आकाशांशा इत्यर्थः | अथ वायवाद्यंशा उच्यन्ते- वायुरिति || ५ || तेषां विषयभेदाः ज्ञानसंकल्पनिश्चयानुसंधानाभिमाना आकाशकार्यान्तःकरणविषयाः | समीकरणोन्नयनग्रहणश्रपणोच्छ्वासा वायुकार्याप्रणादिविषयाः | शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रियविषया अबाश्रिताः | वचनादानगमनविसर्गानन्दाः पृथिवीकार्यकर्मेन्द्रियविषयाः | कर्मज्ञानेन्द्रियविषयेषु प्राणतन्मात्रविषया अन्तर्भूताः | मनोबुद्ध्योश्चित्ताहंकारौ चान्तर्भूतौ || ६ || अंशभेदानुक्त्वा विषयभेदानाह- ज्ञानेति || ६ || सूक्ष्मभूतमात्राः अवकाशविधूतदर्शनपिण्डीकरणधारणाः सूक्ष्मतमा जैवतन्मात्रविषयाः || ७ || सूक्ष्मभूतमात्रा उच्यन्ते- अवकाशेति || ७ || आध्यात्मिकादिविभागः एवं द्वादशाङ्गानि आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि | अत्र निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्रप्रजापतियमा अक्षाधिदेवतारूपैर्द्वादशनाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं तदेव ज्ञातेति || ८ || प्. १२०) अंशादिभेदेन एवम् इत्यादि | अत्र आत्मानं देहं भूतजातं देवताजातं च अधिकृत्य भवन्तीति आध्यात्मिकानि इत्यादि | तत्र आध्यात्मिकानि आधिभौतिकानि उक्तानि | अत्र अधिदैविकविवक्षया करणाधिपा उच्यन्ते- अत्रेति | इडादि द्वादशनाडी | यत् सर्वाङ्गज्ञानम् अन्तःकरणं तदेव उपाधित्वेन योऽभिमन्यते स एव ज्ञाता जीवो भवतीत्यर्थः || ८ || ज्ञातृव्यापाराभिव्यक्तिः अथ व्योमानिलानलजलान्नानां पञ्चीकरणमिति | ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति | मनो व्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायुस्तिष्ठति | बुद्धिरुदानयोगेन चतुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्तिष्ठति | चित्तमपानयोगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति | अहंकारः प्राणयोगेन घ्राणद्वारा गन्धगुणो गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठतीत्येवं वेद || ९ || एवमाध्यात्मिकादितापत्रयं निरूप्य अथ पञ्चीकरणाभिव्यक्तज्ञातृव्यापृतिं व्यक्तीकरोति- अथेति | पञ्चीकरणमिति पञ्चीकरणनिष्पन्नं ज्ञातुः ज्ञातृत्वमित्यर्थः | व्यष्टिसमष्टिप्रपञ्चारोपाधिकरणजीवेश्वरयोः व्यापृतिं भूततत्कार्यानुप्रवेशं चाह- ज्ञातृत्वमिति | जीवेशाववष्टभ्य ज्ञातृत्वम् इत्यादि | आकाशस्तिष्ठति आकाशादौ आकाशादिः भूत्वा तिष्ठतीत्यर्थः | एवं वेद य एवं पञ्चभूततत्कार्यासङ्गान्तर्यामिणं वेद सोऽन्तर्यामी भवतीति शेषः || ९ || प्. १२१) मन्त्रभागः ब्रह्मणः सकाशात् पञ्चीकरणान्ता सृष्टिः अत्रैते श्लोका भवन्ति- पृथग्भूते षोडश कलाः स्वार्धभागान् परान् क्रमात् | अन्तःकरणव्यानाक्षिरसपायुनभःक्रमात् || १ || मुख्यान् पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः | पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थितः || २ || मुख्या ऊर्ध्वे परा ज्ञेया ना[अ] परानुत्तरान् विदुः | एवमंशो अभूत् तस्मात् तेभ्यश्चांशो अभूत् तथा || ३ || तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् | ब्राह्मणेन योऽर्थोऽभिहितः तमेतमर्थं मन्त्रा अप्यनुवदन्तीत्याह- अत्रेति | स्वाज्ञविकल्पितस्वातिरिक्तषोडशकलातत्कार्यजातात् स्वज्ञदृष्ट्या पृथग्भूते निष्कले ब्रह्मणि निर्बीजे सकलकलनानिर्वाहकस्वाज्ञदृष्ट्या प्रश्नोपनिषत्परिपठितप्राणादिनामान्तकला बीजरूपेण आदौ विकल्पिताः सत्यः स्वारोपाधिकरणेश्वरयोगात् ईश्वरो भूत्वा | अन्तःकरणशब्देन तत्कारणम् आकाशमुच्यते, व्यानशब्देन वायुः, अक्षिशब्देन अग्निः- अक्ष्णः तैजसत्वात् रसशब्देन आपः, पायुशब्देन पृथिवी, इत्येवं नभःक्रमात् आकाशादिक्रमात् परान् स्वार्धभागान् पञ्चभूतानां मुख्यान् अंशान् क्रमात् तत्तद्भूते निक्षिप्य || १ || पूर्वोत्तरैः अकाशादिपृथिव्यन्तैः भागैः तत्तद्भूतार्धांशानां तत्तद्भूते निक्षिप्तत्वात् शिष्टार्धांशान् चतुष्चतुर्धा विधाय आकाशः स्वांशेतरार्धांशान् वायवादिभूतचतुष्टये निक्षिप्य, तथा वायुः स्वांशेतरार्धांशान् आकाशाग्निजलपृथिवीषु प्. १२२) निक्षिपेत्यादि समानम् | एवं पञ्चीकृते सति पूर्वम् आकाशमाश्रित्य योंऽशोऽस्ति सोऽयं पञ्चीकरणानन्तरं पृथिव्यादिषु संस्थितो भवति || २ || ऊर्ध्वे पूर्वं तत्तद्भूतमुख्यांशा एव पराः श्रेष्ठाः इति ज्ञेयाः | पञ्चीकृतेऽपि वैशेष्यात्तु तद्वादस्तद्वादः इति वैयासिकसूत्रानुरोधेन तत्तद्भूतव्यपदेशात् परत्वं युज्यते | उत्तरान् मुख्यांशेतरान् अंशान् अपरान् गौणान् वुदुः तद्विद इत्यर्थः | यस्मात् एवं पञ्चभूतांशः अभूत् तस्मात् तेभ्यः मुख्यांशेभ्यः तथा गौणांशः अभूत् | पञ्चभूतांशा अभूत् गौणांशा अभूत् इति पाठे अभूवन्नित्यर्थे अभूदिति वचनव्यत्ययः || ३ || यस्मात् एवं तस्मात् अनुक्रमात् ओतं प्रोतं यथा भवति तथा पञ्चभूतेषु मुख्यांशोज्ज्वलेषु गौणांशाः अन्योन्यमाश्रित्य वर्तन्तः इत्यर्थः || चराचरात्मकविश्वसृष्टिः पञ्चभूतमया भूमिः सा चेतनसमन्विता || ४ || तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः | रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः || ५ || केचित् तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् | तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थितः || ६ || अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् | सत्त्वान्तर्वर्तिनो देवाः कर्त्रहंकारचेतनाः || ७ || अस्य बीज तमःपिण्डं मोहरूपं जडं घनम् | वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत् || ८ || प्रत्यागानन्दरूपात्मा मूर्ध्नि स्थाने परंपदे | अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते || ९ || प्. १२३) एवं पञ्चीकृतभूततः चेतनयुक्तात् जायते इत्यत्र चराचरात्मकं विश्वं जायते इत्याह- पञ्चेति || ४ || चेतनाधिष्ठितात् ततः, चैतन्याधिष्ठितान्नात्, जरायुजादिभेदेन चतुर्विधाः पिण्डाः संजाताः इत्यर्थः | धातवोऽप्यन्नादेव जायन्त इत्याह- रसेति || ५ || केचिदेव वदन्तीत्याह- केचिदिति | तद्योगतः शुक्लशोणितयोगतः पिण्डाः भुक्तान्नपुरुषभूतेभ्यः संजातशुक्लशोणितसंभवाः पिण्डाः इति केचिदाहुः | सर्वथा अन्नमया इत्यर्थः | अन्नसारः पिण्डः क्व आसनमर्हति इत्यत आह- तस्मिन्निति | तस्मिन् भूतकदम्बे, तस्य सर्वप्राणिजीवननिमित्तत्वात् || ६ || तन्मध्ये किं वर्तते इत्यत आह- अस्येति | अन्नमयस्य | तदाश्रित्य के वर्तन्ते इत्यत आह- सत्त्वेति | सत्त्वान्तर्वर्तिनः सत्त्वगुणप्रधानाः इन्द्रादयो ब्रह्मादयश्च देवाः वर्तन्ते | यद्वा- कर्त्रहंकारचेतनाः अन्तःकरणविशिष्टाः देवाः इन्द्रियाणि विद्यन्ते इत्यर्थः || ७ || हृदयबीजं किम् इत्यत आह- अस्येति | घनं स्वाज्ञानमित्यर्थः | तत् कुत्र वर्तते इत्यत आह- वर्तते इति | स्वाज्ञानं मनःस्थानं गलान्तम् इति श्रुत्यनुरोधेन कण्ठं कण्ठासनं मनः साश्रित्य वर्तते | तेन स्वाज्ञानकबलितमनसा इदं जगत् मिश्रीभूतं व्याप्तं भवति || ८ || जगतः स्वाज्ञानमिश्रितत्वे जगद्रूपेण भानं किम् इत्यत आह- प्रत्यगिति | जगतः स्वज्ञानव्याप्तत्वेऽपि तुरीयं मूर्ध्नि संस्थितम् इति श्रुत्या स्वाज्ञानास्पृष्टमूर्ध्नि स्थाने परंपदे प्रत्यगानन्दरूपात्मा स्थिरासनो भूत्वा ईश्वरात्मना अनन्तशक्तियुक्तः सन् जगद्रूपेण भासते | यतः एवम् अतः जगद्रूपेणापि भानं प्रत्यगात्मनिष्ठं न स्वाज्ञानतत्कार्यजगन्निष्ठमित्यर्थः || ९ || अवस्थाचतुष्टयम् सर्वत्र वर्तते जाग्रत् स्वप्नं जाग्रति वर्तते | सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् || १० || प्. १२४) सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः | यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः || ११ || तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे | यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः || १२ || सविकारस्तथा जीवो निर्विकारस्तथा शिवः | कोशास्तस्य विकारास्ते ह्यवस्थाषु प्रवर्तकाः || १३ || यथा रसाशये फेनं मथनादेव जायते | मनोनिर्मथनादेव विकल्पा बहवस्तथा || १४ || जगत्कलनानिर्वर्त्यावस्थाचतुष्टयेयत्तां तद्भासकचिद्धातुस्वरूपं चाह- सर्वत्रेति | साक्षिभास्यप्रपञ्चे सर्वत्र जाग्रदवस्था वर्तते, करणग्रामव्यापृतेः स्फुटमवगन्तु शक्यत्वात् | अन्नमयकोशे प्राणादिकोशवत् जाग्रति स्वप्नादित्रयं वर्तते, नान्यावस्थास्वित्यर्थः || १० || जाग्रदवस्थायाः स्वप्नाद्याधारत्वं स्वारोपाधारेश्वरनिष्ठमित्याह- सर्वेति | विश्वविराडोत्रादिद्वितुर्याविकल्पान्तरूपेण व्यष्टिसमष्ट्यात्मकजाग्रदादिसर्वदेशेष्वनुस्यूतः प्रत्यगात्मा सदा वर्तत इत्यर्थः | कथं पुनः प्रतीचः सर्वानुस्यूतत्वम् इत्यत्र विकारवत् कोशजीवदृष्टान्तेन सर्वानुस्यूतत्वं साधयति- यथेति | यथा अन्नमयकोशः सर्वकोशाधारो व्यापकश्च भवति तथा जीवः यथा कृत्स्नकोशविकारं आत्मात्मीयाभिमानपूर्वकं व्याप्य वर्तते तथा तद्विकारास्पृष्टः सन् शिवोऽपि वर्तते | जीवशिवयोः सविकारनिर्विकारत्वं कोशाभिमानभावाभावनिष्ठम् || ११-१३ || य(क?)स्मात् अवस्थात्रयतद्धेतुपञ्चकोशादिविकल्पः संजात इत्यत्र- मथनसंजातरसाशयफेनवत् एवं मनोनिर्मथनात् जाग्रदादि विद्यते इति | संकल्पात् एवमादिबहवो विकल्पाः जायन्ते, मनःसंकल्पाभावे किमपि नास्तीत्यर्थः || १४ || प्. १२५) दक्षिणोत्तरायणगतिः कर्मणा वर्तते कर्मी तत्त्यागाछान्तिमाप्नुयात् | अनये दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः || १५ || अहंकाराभिमानेन जीवः स्याद्धि सदाशिवः | स चाविवेकप्रकृतिसंगत्या तत्र मुह्यते || १६ || नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् | विमोक्षात् संचरत्येव मत्स्यः कूलद्वयं यथा || १७ || ततः कालवशादेव ह्यात्मज्ञानविवेकतः | उत्तराभिमुखो भूत्वा स्थानात् स्थानान्तरं क्रमात् || १८ || मूर्ध्न्याधायात्मनः प्राणान् योगाभ्यासं स्थितश्चरन् | एवं संकल्पसंजातनानाविधकर्मणा कर्मी जीवो मनःकल्पितसंसारपाशेन निरुछ्वासं बद्धः सन् वर्तते | यावत् स्वज्ञानेन स्वभावापत्तिः तावत् संसरति | यदायं स्वज्ञानेन स्वज्ञानतत्कार्यं त्यजति तदा स्वातिरिक्तविभ्रमशान्तिमाप्नुयात् | शिवस्य जीवत्वं जीवस्य शिवत्वं कथं भवतीत्याशङ्क्य अनात्मनि आत्माभिमानात् शिवस्य जीवत्वं तदभिमतित्यागात् जीवस्य शिवत्वं च स्यादित्याह- अयन इति | ज्ञानगन्धविकलकामसंकल्पादिघटितेष्टापूर्तादिकर्मणा अयने दक्षिणे प्राप्ते || १५-१७ || कदा जीवः शिवो भवति? स्वभावाप्तौ किं साधनम् ? इत्यत आह- तत इति | ततो निष्कामबुद्ध्या अनुष्ठितसत्कर्मफलसमर्पणेश्वरप्रसादात् उत्तराभिमुखो भूत्वा तेऽर्चिषमभिसंभवन्ति इत्यादिस्थानात् स्थानान्तरं प्राप्य शबलब्रह्मपदं क्रमात् प्राप्नोतीत्यर्थः || १८ || किं कुर्वन् उत्तराभिमुखो भवति इत्यत आह- प्. १२६) मूर्ध्नीति | सिद्धाद्यासनस्थो योगी स्वात्मनः प्राणान् सुषुम्नाद्वारेण मूर्ध्नि आधाय सदा एव योगाभ्यासं चरन् यथोक्तकाले मूर्धानं भित्त्वा देवयानेन पथा ब्रह्मलोकमेत्य न पुनरावर्तत इत्यर्थः || सद्योमुक्तिप्रापकं ज्ञानम् योगात् संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते || १९ || योगज्ञानपरो नित्यं स योगी न प्रणश्यति | विकारस्थं शिवं पश्येद्विकारश्च शिवे न तु || २० || योगप्रकाशकं योगैर्ध्यायेच्चानन्यभावनः | केवलकर्मानुष्ठानफलं चान्द्रपदं, कर्मज्ञानसमुच्चयानुष्ठानफलं तु ब्रह्मलोकावाप्तिः इत्युक्त्वा सद्यःकैवल्यप्रापकनिर्विशेषज्ञानं सोपायमाह- योगादिति | स्वाश्रमाचारसकृतनित्यादिसाधनचतुष्टयवदनुष्ठितसर्ववेदान्त## -##श्रवणयोगात् निर्विशेषज्ञानं संजायते | यथोक्तमननाभिवर्धितज्ञानात् योगो निदिध्यासो ब्रह्मातिरिक्तं न किंचिदस्तीति सम्यग्ज्ञानं प्रवर्तते प्रादुर्भवति || १९ || नित्यमेवं योगज्ञानपरो योगी त्वाज्ञवत् स्वातिरिक्तास्तित्वधिया न कदापि प्रणश्यति सम्यग्ज्ञानसमकालं सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रभावापन्नो भवतीत्यर्थः | सम्यग्ज्ञानोपायस्तु- सर्वं खल्विदं ब्रह्म इति श्रुत्यनुरोधेन स्वाज्ञदृष्टिप्रसक्तसर्वविकारस्थं शिवं पश्येत् | एवं सर्वं ब्रह्मेति बोधे सिद्धे सर्वविकारजातं शिवे न किंचिदस्तीति विज्ञानं जायते || २० || ततो विज्ञानयोगी सर्वविकारासंभवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रम् इति अनन्यभावनः सम्यग्ज्ञानी भूत्वा परोदितश्रवणादियोगैः संजातसम्यग्ज्ञानयोगप्रकाशकम् आत्मानं ब्रह्ममात्रं ध्यायेत् | एवं ध्यानात्मकसम्यग्ज्ञानसमकालं कृतकृत्यो भवतीत्यर्थः || प्. १२७) ज्ञानोपायभूतो योगः योगज्ञाने न विद्येते तस्य भावो न सिध्यति || २१ || तस्मादभ्यासयोगेन मनः प्राणान् निरोधयेत् | योगी निशितधारेण क्षुरेणैव निकृन्तयेत् || २२ || शिखा प्राणमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः | यदि श्रवणाधिकारी न भवति तस्य स्वप्नेऽपि योगज्ञाने न विद्येते, सम्यग्ज्ञानभावोऽपि न सिध्यति || २१ || यस्मात् एवं तस्मात् | एवम् अभ्यासयोगतः ब्रह्माप्तिप्रतिबन्धकाज्ञानं योगी निशितधारेण अभ्यासयोगक्षुरेणैव निकृन्तयेदिति || २२ || एवम् अभ्यासयोगः केनोपायेन जायते इत्यत आह- शिखेति | वक्ष्यमाणयमाद्यष्टाङ्गयोगसाधनैः प्राणमयी वृत्तिः योगशिखा अभ्यासयोगफलप्रापिका संजायत इत्यर्थः || कर्मज्ञानयोगौ ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः || २३ || क्रियायोगमथेदानीं शृणु ब्राह्मणसत्तम | अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित् || २४ || यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते | कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु || २५ || बन्धनं मनसो नित्यं कर्मयोगः स उच्यते | यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् || २६ || प्. १२८) ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः | यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः || २७ || स याति परमं श्रेयो मोक्षलक्षणमञ्जसा | ज्ञानकर्मभेदेन योगद्वैविध्यं तदियत्तामाह- ज्ञानेति || २३ || तत्र क्रियायोगम् इत्यादि | किं तत् ? अव्याकुलस्य इत्यादि || २४ || क्रियायोगस्य कथं द्वैविध्यम् इत्यत्र कर्म कर्तव्यम् इत्यादि | ईश्वराराधनधिया निष्कामकर्मानुष्ठानाभिनिवेश एव कर्मयोग इत्यर्थः || २५ || श्रेयोमार्गाभिनिवेश एव ज्ञानयोग इत्याह- यत्त्विति || २६ || एवं उपायोपेयद्विविधयोगानुष्ठानतः श्रेयो भवतीत्याह- यस्येति || २७ || निर्विशेषब्रह्मज्ञानोपायः अष्टाङ्गयोगः देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः || २८ || अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः | सर्ववस्तुन्युदासीनभाव आसनमुत्तमम् || २९ || जगत् सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः | चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम || ३० || चित्तस्य निश्चलीभावो धारणा धारणं विदुः | सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते || ३१ || ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते | पूर्वोक्तनिर्विशेषब्रह्मज्ञानोपायतया संक्षेपविस्तराभ्यामष्टाङ्गयोगम् उपदिशति- देहेति || २८-३१ || प्. १२९) दशविधयमनियमाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् || ३२ || क्षमा धृतिर्मिताहारः शौचं चेति यमा दश | तपः संतुष्टिरास्तिक्यं दानमाराधनं हरेः || ३३ || वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् | इति | उत्तमाधिकारिणां ब्रह्मज्ञानसाधनतया अष्टाङ्गयोगो निरूपितः | तत्र यमो दशधा भिद्यते इत्याह- अहिंसेति || ३२ || तथा नियमोऽपीत्याह- तप इति || ३३ || हठयोगरीत्याह आसनानि आसनानि तदङ्गानि स्वतिकादीनि वै द्विज || ३४ || वर्ण्यते स्वस्तिकं पादतलयोरुभयोरपि | पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् || ३५ || सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् | दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा || ३६ || एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः | आस्ते यदिदमेनोघ्नं वीरासनमुदीरितम् || ३७ || गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः | योगासनं भवेदेतदिति योगविदो विदुः || ३८ || प्. १३०) ऊर्वोरुपरि वै धत्ते यदा पादतले नुमे | पद्मासनं भवेदेतत् सर्वव्याधिविषापहम् || ३९ || पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः | व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं भवेत् || ४० || पद्मासनं सुसंस्थाप्य नानूर्वोरन्तरे करौ | निवेश्य भूमावातिष्ठेद्व्योमस्थः कुक्कुटासनः || ४१ || कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कंधरम् | शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् || ४२ || पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि | धनुराकर्षकाकृष्टं धनुरासनमीरितम् || ४३ || सीवनीं गुल्फदेशेभ्यो निपीड्य व्युत्क्रमेण तु | प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् || ४४ || गुल्फौ च वृषणस्याधः सीविन्युभयपार्श्वयोः | निवेश्य भूमौ हस्ताभ्यां बद्ध्वा भद्रासनं भवेत् || ४५ || सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेण तु | निपीड्यासनमेतच्च मुक्तासनमुदीरितम् || ४६ || प्. १३१) अवष्टभ्य धरां सम्यक् तलाभ्यां हस्तयोर्द्वयोः | कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् || ४७ || समुन्नतशिरःपादो मयूरासनमिष्यते | वामोरुमूले दक्षाङ्घ्रिं जान्वोर्वेष्टितपाणिना || ४८ || वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् | योनि वामेन संपीड्य मेढ्रादुपरि दक्षिणम् || ४९ || ऋजुकायः समासीनः सिद्धासनमुदीरितम् | प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् || ५० || जानूपरि ललाटं तु पश्चिमं ताणमुच्यते | येन केन प्रकारेण सुखं धार्यं च जायते || ५१ || तत् सुखासनमित्युक्तमशक्तस्तत् समाचरेत् | आसनं विजितं येन जितं तेन जगत्त्रयम् || ५२ || अथ मध्यमाधिकारिणां हठयोगरीत्या आसनाद्यङ्गानि उपदिशति- आसनानीति || ३४ || तत्र स्वस्तिकासनलक्षणमाह- वर्ण्यत इति || ३५ || गोमुखासनलक्षणमुच्यते- सव्य इति || ३६ || वीरासनलक्षणमाचष्टे- एकमिति || ३७ || योगासनलक्षणं व्यनक्ति##- बद्धपद्मासनलक्षणं विशदयति- पद्मासनमिति | हस्ताभ्यां बद्ध्वेति यत् तत् बद्धपद्मासनं भवेत् || ४० || कुक्कुटासनप्रकारं व्यक्तीकरोति- पद्मेति || ४१ || उत्तानकूर्मलक्षणमाह- कुक्कुटेति || ४२ || अनुरासनमाह- प्. १३२) पादेति || ४३ || सिंहासनं दर्शयति- सीविनीमिति || ४४ || भद्रासनलक्षणमाह- गुल्फाविति || ४५ || मुक्तासनस्वरूपमाह- सीविनीति || ४६ || मयूरासनप्रकारमाह- अवष्टभ्येति || ४७ || मत्स्यासनलक्षणमाचष्टे- वामेति || ४८ || सिद्धासनलक्षणमाह##- अशक्तोपयोग्यासनमाह- येनेति || ५१ || आसनफलमाह- आसनमिति || ५२ || नाडीशुद्धिपूर्वकप्राणायामविधिः यमैश्च नियमैश्चैव ह्यासनैश्च सुसंयतः | नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् || ५३ || देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतम् | प्राणः शरीरादधिको द्वादशाङ्गुलमानतः || ५४ || देहस्थमनिलं देहसमुद्भूतेन वह्निना | न्यूनं समं वा योगेन कुर्वन् ब्रह्मविदिष्यते || ५५ || यमाद्यङ्गत्रयविशिष्टयोगिनोनाडीशुद्धिपूर्वकं प्राणायामक्रममाह- यमैश्चेति | पूर्वोक्तैः || ५३ || अभ्यासानुकूलदेहप्राणमानं तत्र प्राणाभ्यासफलं चाह- देहमानमिति || ५४-५५ || अग्निमण्डलस्वरूपम् देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् | त्रिकोणं द्विपदामन्यच्चतुरश्रं चतुष्पदाम् || ५६ || वृत्तं विहङ्गमानां तु षडश्रं सर्पजन्मनाम् | अष्टाश्रं स्वेदजानां तु तस्मिन् दीपवदुज्ज्वलम् || ५७ || प्. १३३) मूलाग्निमण्डलस्वरूपमाह- देहेति || ५६ || तत्तज्जन्त्वग्निमण्डले तस्मिन् उज्ज्वलं वह्निं विद्धीत्यर्थः || ५७ || नाभिस्थानम् कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् | चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् || ५८ || अण्डाकृति तिरश्चां च द्विजानां च चतुष्पदाम् | तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिष्यते || ५९ || मनुष्यादि देहमध्यं विशदयति- कन्देति || ५८-५९ || नाडीचक्रे जीवभ्रमणम् तत्र चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः | अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया || ६० || अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम | तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका || ६१ || प्राणाधिरूढश्चरति जीवस्तेन विना न हि | तत्रस्थनाडीचक्रं विष्ण्वादिभिरधिष्ठितं सत् वर्तते | तत्राहमन्तर्याम्यात्मना स्थित्वा तच्चालयामीत्याह- तत्रेति | तत्र नाभिमध्ये नाडीचक्रम् | ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इति स्मृत्यनुरोधेन अहम् इत्यादि || ६० || को वा त्वया भ्राम्यते इत्यत आह##- | लूतिका उर्णनाभिः कीटविशेषः | तथा जीवः चलनमेतीत्यर्थः || ६१ || प्. १३४) कुण्डलिनीस्थानं तद्व्यापारश्च तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः || ६२ || अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता | यथावद्वायुसंचारं जलान्नादि च नित्यशः || ६३ || परितः कन्दपार्श्वे तु निरुध्यैव सदा स्थिता | मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा || ६४ || योगकालेन मरुता साग्निना बोधिता सती | स्फुरिता हृदयाकाशे नागरूपा महोज्ज्वला || ६५ || तदूर्ध्वविलसितकुण्डलिनीस्थानं तद्व्यापारं चाह- तस्येति | नाडीचक्रस्य तस्य || ६२ || भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || इति स्मृत्यनुरोधेन अष्टप्रकृतिरूपा वायुसंचारं प्राणापानयोरैक्यमित्यर्थः | भुक्तजलान्नादि || ६३ || किं कुर्वती स्थितेत्यत्र मुखेनैव इत्यादि || ६४ || सा कदा ऊर्ध्वं प्रसरतीत्यत्र योगकालेन इत्यादि || ६५ || देहमध्यस्थनाडीकन्दस्वरूपम् अपानाद्द्व्यङ्गुलादूर्ध्वमधो मेढ्रस्य तावता | देहमध्यं मनुष्याणां हृन्मध्यं तु चतुष्पदाम् || ६६ || प्. १३५) इतरेषां तुन्दमध्यं नानानाडीसमावृतम् | चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया || ६७ || कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता | पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी || ६८ || ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् | वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्तिपद्धतिः || ६९ || इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते | इडा समुत्थिता कन्दाद्वामनासापुटावधिः || ७० || पिङ्गला चोत्थिता तस्माद्दक्षनासापुटावधिः | गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते || ७१ || पुरतः पृष्ठतस्तस्या वामेतरदृशौ प्रति | पूषायशस्विनीनाड्यौ तस्मादेव समुत्थिते || ७२ || सव्येतरश्रुत्यवधि पायुमूलावलम्बुसा | अधोगता शुभा नाडी मेढ्रान्तावधिरायता || ७३ || पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी | दशप्रकारभूतास्ताः कथिताः कन्दसंभवाः || ७४ || प्. १३६) तन्मूला बहवो नाड्यः स्थूलाः सूक्ष्माश्च नाडिकाः | द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नाडयः || ७५ || संख्यातुं नैव शक्यन्ते स्थूलमूलाः पृथग्विधाः | यथाश्वत्थदले सूक्ष्माः स्थूलाश्च विततास्तथा || ७६ || देहमध्यं तदाश्रयनाडीकन्दस्वरूपमाह- अपानादिति || ६६-६७ || तत्र केयं प्रधाननाडी ? तदाश्रित्य कति नाड्यो वर्तन्ते ? इत्यत्रोच्यते- कन्देति | वीणादण्डमाश्रित्य ऋजुरूर्ध्वप्रवर्तिनी || ६८ || कियत्पर्यन्तम् ऊर्ध्वं प्रवृत्तेत्यत्र ब्रह्मरन्ध्रान्तमित्याह##- ब्रह्मरन्ध्रं तावत्, मूलाधारमारभ्य ब्रह्मरन्ध्रपर्यन्तं प्रवर्तते इत्यर्थः | तस्या नाम निर्दिशति- वैष्णवीति | विष्ण्वधिष्ठितत्वात् | ब्रह्मनाडी ब्रह्मलोकप्रापकत्वात्, तदन्तर्गतकैवल्यनाडी | निर्वाणप्राप्तिपद्धतिः कैवल्यसृतित्वात् || ६९ || तदाश्रयनाड्यः उच्यन्ते- इडा चेति || ७०-७५ || असंख्येयत्वे दृष्टान्तमाह- यथेति || ७६ || नाडीचराः वायवः प्राणापानौ समानश्च उदानो व्यान एव च | नागः कूर्मश्च कृकरो देवदत्तो धनंजयः || ७७ || चरन्ति दशनाडीषु दश प्राणादिवायवः | प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् || ७८ || प्राण एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः | आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम् || ७९ || प्. १३७) पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम | अपानश्चरति ब्रह्मन् गुदमेढ्रोरुजानुषु || ८० || समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः | उदानः सर्वसंधिस्थः पादयोर्हस्तयोरपि || ८१ || व्यानः श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च | नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः || ८२ || तुन्दस्थं जलमन्नं च रसादि च समीकृतम् | तुन्दमध्यगतः प्राणस्तानि कुर्यात् पृथक् पृथक् || ८३ || इत्यादिचेष्टनं प्राणः करोति च पृथक् स्थितः | अपानवायुर्मूत्रादेः करोति च विसर्जनम् || ८४ || प्राणापानादिचेष्टादि व्यानवायुना | उज्जीर्यते शरीरस्थमुदानेन नभस्वता || ८५ || पोषणादि शरीरस्य समानः कुरुते सदा | उद्गारादिक्रियो नागः कूर्मोऽक्ष्यादिनिमीलनः || ८६ || कृकरः क्षपयोः कर्ता दत्तो निद्रादिकर्मकृत् | मृतगात्रस्य शोभादि धनंजय उदाहृतः || ८७ || नाडीचरा वायवः कतिसंख्याका इत्यत्र प्राणापानौ इत्यादि || ७७ || तेषु कः प्रधान इत्यत आह- प्राणादीति || ७८ || तेषां स्थानानि निर्दिशति- आस्येति || ७९-८२ || प्राणादिव्यापारमाह- तुन्दस्थमिति || ८३-८६ || क्षपयोः निमेषोन्मेषयोः || ८७ || प्. १३८) नाडीज्ञानपुरःसरा नाडीशुद्धिः नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च | चेष्टाश्च विविधास्तेषां ज्ञात्वैवं द्विजसत्तम् || ८८ || शुद्धौ यतेत नाडीनां पूर्वोक्तज्ञानसंयुतः | एवं नाडीभेदस्थानादिकं ज्ञात्वा तच्छुद्ध्यर्थं यतेतेत्याह- नाडीति || ८८ || योगाभ्यासस्थलं तद्विधिश्च विविक्तदेशमास्थाय सर्वसम्बन्धवर्जितः || ८९ || योगाङ्गद्रव्यसंपूर्णं तत्र दारुमये शुभे | आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः || ९० || तावदासनमुत्सेधे तावद्द्वयसमायते | उपविश्यासनं सम्यक् स्वस्तिकादि यथारुचि || ९१ || योगस्थलं योगविधिं चाह- विविक्तेति || ८९-९१ || चिन्मुद्रासहितकेवलकुम्भकम् बद्ध्वा प्रागासनं विप्र ऋजुकायः समाहितः | नासाग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् || ९२ || रसनां तालुनि न्यस्य स्वस्थचित्तो निरामयः | आकुञ्चितशिरः किंचिन्निबध्नन् योगमुद्रया || ९३ || हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् | प्. १३९) प्राणायामलक्षणं वक्तुं भूमिकां रचयति- बद्ध्वेति | नासिकाबन्धनं बन्धत्रयं वा योगमुद्रेत्यर्थः || ९२##- केवलकुम्भकप्राणायामं कुर्यादित्यर्थः || सहितप्राणायामः रेचनं पूरणं वायोः शोधनं रेचनं तथा || ९४ || चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते | सहितप्राणायामलक्षणमाह- रेचनमिति || ९४ || प्राणायामारम्भसमये शरीरगतदुष्टवायुरेचनं ततः पूरणं ततः कुम्भकेन वायोः शोधनं पुनः निःशेषतो रेचनम्, एवं चतुर्भिः पर्यायैः वायोः क्लेशनम् उपक्रमप्राणायामः उदीर्यते | एवं प्राणायामत्रये कृते सति अथ यथोक्तप्राणायामयोग्यं शरीरं भवतीत्यर्थः || नाडीशोधकप्राणायामः हस्तेन दक्षिणेनैव पीडयेन्नासिकापुटम् || ९५ || शनैः शनैरथ बहिः प्रक्षिपेत् पिङ्गलानिलम् | इडया वायुमापूर्य ब्रह्मन् षोडशमात्रया || ९६ || पूरितं कुम्भयेत् पश्चाच्चतुःषष्ट्या तु मात्रया | द्वात्रिंशन्मात्रया सम्यग् रेचयेत् पिङ्गलानिलम् || ९७ || एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु | संपूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना || ९८ || पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना | एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः || ९९ || प्. १४०) हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् | तत्र पश्येत् परात्मानं वासुदेवमकल्मषम् || १०० || प्रातर्माध्यंदिने सायमर्धरात्रे च कुम्भकान् | शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् || १०१ || एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते | संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः || १०२ || योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः | अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान् भवेत् || १०३ || अपमृत्युमपक्रम्य दीर्घमायुरवाप्नुयात् | नाडीशोधनहेतुतया अभ्यसनीयप्राणायामक्रम उच्यते- हस्तेनेति | अनुक्रमस्तु, इडया आपूर्य कुम्भित्वा पिङ्गलया रेचनम् | व्युत्क्रमस्तु, पिङ्गलया आपूर्य कुम्भित्वा इडया रेचनम् || ९५-९७ || एवमहरहः चतुर्वारं दिनैकमात्रावृद्धिपूर्वकम् अशीतिप्राणायाममभ्यसेत् इत्याह- संपूर्णेति || ९८-९९ || व्याकोचं विकासम् || १००-१०३ || प्राणायामफलम् प्रस्वेदजननं यस्य प्राणायामेषु सोऽधमः || १०४ || कम्पनं वपुषो यस्य प्राणायामेषु मध्यमः | उत्थानं वपुषो यस्य स उत्तम उदाहृतः || १०५ || अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः | पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः || १०६ || प्. १४१) अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः | पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् || १०७ || रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः | करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् || १०८ || प्रथमाभ्यासकाले स्वेदकम्पनोत्थानादिसिद्धिं तत्फलं चाह##- वाञ्छितार्थसिद्धिः स्यादित्याह- रेचकमिति || १०८ || प्राणधारणाद्रोगनाशः नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् | धारयेन्मनसा प्राणान् संध्याकालेषु वा सदा || १०९ || सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः | कुक्षिरोगविनाशः स्यान्नाभिकन्देषु धारणात् || ११० || नासाग्रधारणाद्दीर्घमायुः स्याद्देहलाघवः | ब्राह्मे मुहूर्ते संप्राप्ते वायुमाकृष्य जिह्वया || १११ || पिबतस्त्रिषु मासेषु वाक्सिद्धिर्महती भवेत् | अभ्यस्यतुश्च षण्मासान्महारोगविनाशनम् || ११२ || यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते | धारणादेव मरुतस्तत्तदारोग्यमश्नुते || ११३ || प्. १४२) यद्यदङ्गं रोगदूषितं भवति तत्तदङ्गवायुधारणात् तत्तद्रोगनिवृत्तिद्वारा आयुर्वृद्धिः स्यादित्याह- नाभीति | केवलकुम्भकाभ्याससिद्धो योगी नाभिकन्दे इत्यादि || १०९-११३ || षण्मुखीमुद्रया मनोजयः मनसो धारणादेव पवनो धारितो भवेत् | मनसः स्थापने हेतुरुच्यते द्विजपुङ्गव || ११४ || करणानि समाहृत्य विषयेभ्यः समाहितः | अपानमूर्ध्वमाकृष्येदुदरोपरि धारयेत् || ११५ || बध्नन् कराभ्यां श्रोत्रादिकरणानि यथातथम् | युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः || ११६ || मनोवशात् प्राणवायुः स्ववशे स्थाप्यते सदा | मनःप्राणयोरविनाभावात् मनोवशार्थं षण्मुखीमुद्रां दर्शयति- मनस इति || ११४ || किं तत् ? कारणानि इत्यादि || ११५-११६ || मनोवशतः प्राणोऽपि स्ववशो भवतीत्याह- मन इति || प्राणगतिः नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते || ११७ || तिस्रश्च नाडिकास्तासु स यावन्तश्चरत्ययम् | शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम् || ११८ || तावन्तं च पुनः कालं सौम्ये चरति संततम् | प्. १४३) प्राणगतिं विवृणोति- नासिकेति || ११७ || मूलाधारमारभ्य भ्रूमध्यान्तमिडापिङ्गलादिभेदेन तिस्रश्च इत्यादि | इडादिभेदेन तिस्रो नाडिकाः सन्ति | तासु सुषुम्नायां प्राणगतिः प्राणभृतां मध्ये सतां योगिनामेव भवति | अयोगिनां तु सोऽयं प्राणः शङ्खवत् अन्तरावर्तत्रयविशिष्टेयं शङ्खिनी नासिका तस्या याम्ये विवरे पिङ्गलेतिविश्रुतदक्षिणनासापुटे यावन्तं कालं चरति || ११८ || पुनः तावन्तं कालं सौम्ये वामनासापुटे चरति | एवं प्राणगतिः पिङ्गलेडयोः संततं भवतीत्यर्थः || प्राणगतिज्ञानेन योगावाप्तिः इत्थं क्रमेण चरता वायुना वायुजिन्नरः || ११९ || अहश्च रात्रिं पक्षं च मासं मत्वायनादिकम् | अन्तर्मुखो विजानीयात् कालभेदं समाहितः || १२० || अङ्गुष्ठादि स्वावयवास्फुरणादर्शनैरपि | अरिष्टैर्जीवितस्यापि जानीयात् क्षयमात्मनः || १२१ || ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः | पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य नश्यति || १२२ || तस्य संवत्सरादूर्ध्वं जीवितव्यक्षयो भवेत् | मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति || १२३ || षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत् | कूर्परास्फुरणं यस्य तस्य त्रैमासिकी स्थितिः || १२४ || प्. १४४) कक्षे मेहनपार्श्वे च स्फुरणानुपलम्भने | मासावधि जीवितं स्यात् तदर्धं सत्त्वदर्शने || १२५ || आश्रिते जठरे द्वारे दिनानि दश जीवितम् | ज्योतिः खद्योतवद्यस्य तस्य जीवितम् || १२६ || जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः | ज्वालया दर्शने मृत्युर्द्विदिने भवति ध्रुवम् || १२७ || एवमादीन्यरिष्टानि दृष्ट्वायुःक्षरकारणम् | निःश्रेयसाय युञ्जीत जपध्यानपरायणः || १२८ || मनसा परमात्मानं ध्यात्वा तद्रूपतामियात् | यद्येवं वायुगतिज्ञो योगी भवति तदा स्वरशास्त्रानुरोधेन स्वकालगतिं विदित्वा ज्ञटिति मानसं निःश्रेयसाय युञ्जन् अनात्मापह्नवसिद्धं परमात्मानं स्वमात्रमिति ज्ञात्वा तद्भावापन्नो भवेदित्याह- इत्थमिति || ११९-१२० || कालभेदज्ञानोपायमाह- अङ्गुष्ठादीत्यादिना || १२१ || स्ववाक्यं स्वयमेव विवृणोति- पादाङ्गुष्ठ इति || १२२-१२८ || मर्मस्थानेषु प्राणस्य प्रत्याहारः यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् || १२९ || स्थानात् स्थानं समाकृष्य प्रत्याहारः स उच्यते | पादाङ्गुष्ठं तथा गुल्फं जङ्घामध्यं तथैव च || १३० || मध्यमूर्वोश्च मूलं च पायुर्हृदयमेव च | मेहनं देहमध्यं च नाभिं च गलकूर्परम् || १३१ || प्. १४५) तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् | भ्रूवोर्मध्यं ललाटं च मूलमूर्ध्वं च जानुनी || १३२ || मूलं च करयोर्मूलं महान्त्येतानि वै द्विज | प्रत्याहारप्रकारमाह- यदीति || १२९ || कानि मर्मस्थानानीत्यत आह- पादाङ्गुष्ठमिति | पादाङ्गुष्ठाद्यष्टादशस्थानेषु आरोहावरोहणक्रमेण प्राणं प्रत्याहरेदित्यर्थः || १३०-१३२ || धारणाप्रकारः पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु || १३३ || मनसो धारणं यत्तद्युक्तस्य च यमादिभिः | धारणा सा च संसारसागरोत्तारकारणम् || १३४ || संक्षेपविस्ताराभ्यां धारणाप्रकारमाह- प्रविभक्तपञ्चभूतेषु || १३३-१३४ || देहावयवेषु पञ्चभूतधारणम् आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते | पीतला चतुरस्रा च वसुधा वज्रलाञ्छिता || १३५ || स्मर्तव्या पञ्चघटिका तत्रारोप्य प्रभञ्जनम् | अजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् || १३६ || अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्छितम् | स्मर्तव्यमम्भः श्वसनमारोप्य दशनाडिका || १३७ || प्. १४६) आदेहमध्यकट्यन्तमग्निस्थानमुदाहृतम् | तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दश पञ्च च || १३८ || स्मर्तव्या घटिका प्राणं कृत्वा कुम्भे तथेरितम् | नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै || १३९ || वेदिकाकारवद्धूम्रो बलवान् भूतमारुतः | स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् || १४० || घटिकाविंशतिस्तस्माद् घ्राणाद् ब्रह्मविलावधि | व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम् || १४१ || व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् | स्वदेहावयवे पृथिव्यादिपञ्चभूतधारणं तत्फलं चाह##- पञ्चभूतभौतिकजयः | तत्र मृत्युरपि न विद्यते इत्यर्थः | आबादिधारणाक्रममाह- आजान्विति || १३६-१४१ || पृथिव्यादिषु अनिरुद्धादिध्यानं तत्फलं च पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनम् || १४२ || अनिरुद्धं हरिं योगी यतेत भवमुक्तये | अबंशे पूरयेद्योगी नारायणमुदग्रधीः || १४३ || प्रद्युम्नमग्नौ वायवंशे संकर्षणमतः परम् | व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् || १४४ || अचिरादेव तत्प्राप्तिर्युञ्जानस्य न संशयः | प्. १४७) एवम् आदौ पञ्चभूतधारणां कृत्वा अथ पृथिव्याद्यंशेषु अनिरुद्धादीन् ध्यायेदित्याह- पृथिवीति || १४२##- परमात्मध्यानं तत्फलं च बद्ध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः || १४५ || नासाग्रन्यस्तनयनो जिह्वां कृत्वा न तालुनि | दन्तैर्दन्तानसंस्पृश्य ऊर्ध्वकायः समाहितः || १४६ || संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया | चिन्तनं वासुदेवस्य परस्य परमात्मनः || १४७ || स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् | याममात्रं वासुदेवं चिन्तयेत् कुम्भकेन यः || १४८ || सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः | परमात्मध्यानोपायं तत्फलं चाह- बद्ध्वेति || १४५-१४७ || एवं ध्यानावान्तरफलमाह- याममात्रमिति || १४८ || पापं तदुपलक्षितागाम्यादिकर्मत्रयम् || तुरीयातीतं वासुदेवचैतन्यम् नाभिकन्दात् समारभ्य यावद्धृदयगोचरम् || १४९ || जाग्रद्वृत्तिं विजानीयात् कण्ठस्थं स्वप्नवर्तनम् | सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् || १५० || प्. १४८) तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत् | जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् || १५१ || तत्रात्मायं तुरीयः स्यात् तुर्यान्ते विष्णुरुच्यते | वासुदेवापेक्षया तुर्यातीतं भिन्नम् इत्याशङ्क्य तुर्यातीतभूमिकाप्रदर्शनपूर्वकं वासुदेवचैतन्यमेव तुर्यातीतमित्याह- नाभीति || १४९ || ब्रह्मरन्ध्राद्यसंभवप्रबोधतः तुर्यातीतमेव विष्णुतत्त्वं नेतरदित्यर्थः || १५०-१५१ || सगुणध्यानम् ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले || १५२ || सूर्यकोटिद्युतिधरं नित्योदितमधोक्षजम् | हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् || १५३ || अनेकाकारखचितमनेकवदनान्वितम् | अनेकभुजसंयुक्तमनेकायुधमण्डितम् || १५४ || नानावर्णधरं देवं शान्तमुग्रमुदायुधम् | अनेकनयनाकीर्णं सूर्यकोटिसमप्रभम् || १५५ || ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति | सगुणनिर्गुणध्यानप्रकारमाह- ध्यानेनेति || १५२ || ध्यायेत् यद्वा विराजं विश्वरूपिणम् || १५३ || अनेकाकारखचितं स्थिरचरात्मकमित्यर्थः || १५४-१५५ || वैराजपदध्यानफलमाह##- पर्यवसन्नत्वात् मनो मनस्त्वं विहाय वैराजपदमेव भवतीत्यर्थः || प्. १४९) निर्गुणध्यानम् हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् || १५६ || कदम्बगोलकाकारं तुर्यातीतं परात्परम् | अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् || १५७ || निवातदीपसदृशमकृत्रिममणिप्रभम् | ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता || १५८ || निर्गुणध्यानमाह- हृदिति | हृत्पुण्डरीकमध्ये प्रत्यग्रूपेण तिष्ठतीति हृत्पुण्डरीकमध्यस्थम् | हृत्संबन्धात् जडत्वप्रसक्तौ चैतन्यज्योतिः | तस्य वाश्रयनाशात् व्ययप्रसक्तौ अव्ययम् || १५६ || कदम्बगोलकवत् आकारो यस्य सहस्रारस्य तत् कदम्बगोलकाकारम् | तुरीयं मूर्ध्नि संस्थितम् इति श्रुत्यनुरोधेन तत्र उपलभ्यमानतुरीयस्य तदाकृतीत्वं युज्यत एवेत्यर्थः | तदुपाध्यभावे तदेव तुरीयातीतं परात् तुरीयादपि परम्, अनन्तं परिच्छेदत्रयाभावात्, देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म इति श्रुतेः | आनन्दमयं, परमानन्दस्वरूपत्वात् | चिन्मयं, चिन्मात्रत्वात् | खद्योतादिसूर्यान्तभासामपि भासकाकारत्वात् भास्करम् | विद्वद्दृष्ट्या ब्रह्ममात्रं भवतीति विभुम् || १५७ || निवातदीपसदृशम्, आकाशवदचलत्वात् | अकृत्रिमकौस्तुभादिमणिप्रभं प्रकाशमात्रमित्यर्थः | य एवंविशेषणविशिष्टं ब्रह्म स्वमात्रधिया ध्यायति तस्य एव एवं ध्यायतो योगिनो मुक्तिः विदेहमुक्तिः करे स्थिता, तद्भावापन्नत्वादित्यर्थः || १५८ || सविशेषज्ञानस्यापि मुक्तिहेतुत्वम् विश्वरूपस्य देवस्य रूपं यत्किंचिदेव हि | स्थवीयः सूक्ष्ममन्यद्वा पश्यन् हृदयपङ्कजे || १५९ || प्. १५०) ध्यायतो योगिनो यस्तु साक्षादेव प्राकाशते | अणिमादिफलं चैव सुखेनैवोपजायते || १६० || जीवात्मनः परस्यापि यद्येवमुभयोरपि | अहमेव परं ब्रह्म ब्रह्माहमिति संस्थितिः || १६१ || समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः | ब्रह्म संपद्यते योगी न भूयः संसृतिं ब्रजेत् || १६२ || एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा | यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति || १६३ || ग्राह्याभावे मनःप्राणो निश्चयज्ञानसंयुतः | शुद्धतत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् || १६४ || मोहजालकसंघातं विश्वं पश्यति स्वप्नवत् | सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः || १६५ || निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुते || इत्युपनिषत् || निर्विशेषज्ञानिन एव मुक्तिः न हि सविशेषज्ञानिनः इत्याशङ्क्य सविशेषज्ञानस्य निर्विशेषज्ञानहेतुतया तस्यापि मुक्तिहेतुत्वं सिद्धिमित्याह- विश्वरूपश्येति || १५९ || अणिमादिफलं सकामस्येत्यर्थः | यदि निष्कामः तदा तस्य प्रत्यगभिन्नब्रह्मनिर्विकल्पकसमाधिः स्यादिति || १६० || समाधिलक्षणमप्याह- जीवेति | अब्रह्मत्वानात्मत्वप्रसक्तौ तन्निरसनाय तयोः एकत्वप्रबोधाय च व्यतिहारेण अहमेव परं ब्रह्म ब्रह्माहमिति प्रत्यगभिन्नब्रह्मरूपेण प्. १५१) अवस्थानासंप्रज्ञातनिर्विकल्पकसमाधिः | एवं निर्विकल्पकसमाधिबलात् पराक्सापेक्षप्रत्यगभिन्नब्रह्मगतविशेषासंभवप्रबोधसिद्धं ब्रह्म संपद्यते || १६१-१६२ || केन ब्रह्म संपद्यते इत्यत्र- एवमिति | स्वातिरिक्तस्पृहाविरलचेतसा ब्रह्म संपद्यते इत्यर्थः | मन##- विष्प्रतियोगिकब्रह्ममात्रप्रबोधसमकालम् आभासतो वापि करणग्रामोऽस्तीति यदि भ्रान्तिः तदा तच्छान्तिः भवेदिति सदृष्टान्तमाह- यथेति | प्रशाम्यते शाम्यति || १६३ || कुतः ? स्वातिरेकेण ग्राह्याभावे प्राणोपाधिकः शुद्धसत्वे परे लीनो जीवः सलिलसैन्धवपिण्डवत् जीवभावं विहाय ब्रह्मीभूतो भवतीत्यर्थः || १६४ || यदि स्वातिरिक्तविश्वस्फूर्तिः स्यात् तदा तत्स्फूर्तौ मोह इत्यादि | तदस्फूर्तौ सुषुप्तिवद्यश्चरति सः स्वभावपरिनिश्चलः || १६५ || स्वातिरिक्तविश्वस्फूर्त्यपह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रतया अवस्थानं यत् तत् निर्वाणपदम् | एवं ब्रह्ममात्रज्ञानयोगी ज्ञानसमकालं कैवल्यरूपेण अवशिष्यते इत्यर्थः | इत्युपनिषच्छब्दः त्रिशिखिब्राह्मणोपनिषत्समाप्त्यर्थः || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | प्रकृतोपनिषद्व्याख्या लिखिता स्फुटतो लघु || प्रकृतोपनिषद्व्याख्या षष्ट्युत्तरशतत्रयम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे चतुश्चत्वारिंशत्संख्यापूरकं त्रिशिखिब्राह्मणोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######