#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00313 Uniform title: troṭalātantra Manuscript : NGMCP Manuscript No. : 5- 4852 Reel No. : B 126/9 Description: Description by Mark S.G. Dyczkowski: A Garuḍā tantra Troṭalā is another name for the goddess Tvaritā whose visualized form is described in 1/28-59. She is called Troṭalā because she smashes apart (troṭana) bondage. She is Travitā because her Vidyā works quickly (travritam). This is not a well known goddess nowadays but there is evidence that she was more popular in the past. Thus she is well known to the Kubjikā Tantras prior to the 12th century. Her association with Kubjikā is also implied in this Tantra by identifying her with KubjikA as Trikaṇṭhikā (1/94). This Tantra contains details of her worship both externally and inwardly as the rise the vital breath in the course of which she ascends through the barriers and attains union with Bhairava at the summit of her ascent. She is associated with ghosts and demons )gūhyaka, piśācas, Yakṣas etc. of which she is said to govern (IzvarI) and so her Vidyā and worship also serve as means to exorcise and control them. Notes: Revision 0: November 13, 2014 Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### त्रोटलमहातन्त्रम् प्. १अ) ओं नमः शिवाय | कैलाशशिखरासीनमशेषभुवन प्रभुम् | अनन्तादि शिवान्तस्य श्रष्टारं परमेश्वरम् || १ || अरूपं परमं शान्तं पार्वत्या हृदिनन्दनम् | सर्वशास्त्र प्रवक्तारं सर्वसिद्धैस्तु संस्तुतम् || २ || ब्रह्मविष्णुमहेन्द्राद्यैर्देवदानव पूजितम् | स्कन्दनन्दिगणाद्यैश्च कोट्यानेकैस्तु सेवितम् || ३ || ऋषिभिश्च तथा चान्यैर्गन्धर्वाद्यैः सुपूजितम् | सिद्धविद्याधरैर्यक्षै राक्षसैश्च सुसंस्तुतम् || ४ || अनन्ताद्यैस्तथा नागैः कुलिकान्तैः सदावृतम् | अप्सरोगणसंकीर्णं सिद्धकन्या सुसंस्तुतम् || ५ || केचित् स्तुवन्ति देवेशं केचिन्नृत्यन्ति चाग्रतः | केचित् सामानिगायन्ति केचित् प्रणतमूर्द्धनि || ६ || स्तोत्रैः स्तुवन्ति तत्रान्ये केचित् पुष्पं क्षिपन्ति च | हसन्ति किलिकिलायन्ति गर्जन्ति चोत्पतन्ति च || ७ || न तत्र मृत्युर्न जरा न व्याधिर्न च दुःखिताः | एवं प्रमुदितं दृष्ट्वा शिवं सुरवरार्चितम् || ८ || प्रणम्य दण्डवद्भूतौ जानुभ्यां धरणीगतः | कृताञ्जलिपुटो भूत्वा तार्क्ष्यो वचनमव्रवीत् || ९ || प्. १ब्) भगवन्देव देवेश संसारार्णवतारक | प्रश्नमेतन्महागुह्यं वदभक्तस्य मे प्रभो || १० || तन्त्राणान्तु परं तन्त्रं मन्त्राणां मन्त्रमुत्तमम् | विविधाः सिद्धयश्चित्राः संक्षेपा यत्र वर्तते || ११ || मोक्षञ्च लभते येन स्वच्छन्दत्वञ्च जायते | राज्यप्रसाधनं चान्यदर्थ साधनमेव च || १२ || नागक्रीडा च विविधा विषापहरणन्तथा | यक्षाग्रहाज्वराघोरा लामा शाकिनी पूतना || १३ || कुष्माण्डा यक्षवेताला दैत्याश्चैव महावलाः | भूतप्रेतपिशाचानां निग्रहाकर्षणञ्चयत् || १४ || खेचरत्वं जिगीषन्ति साधकास्तु महीतले | महीपाताल सिद्धिञ्च खड्गमञ्जनपादुके || १५ || गुटिका पट महास्त्रं पाशानां स्तोभनं परम् | छेदनं दहनञ्चैव दीक्षा च विविधा कथम् || १६ || अधिकारे च मोक्षे च सद्योत्क्रान्तिः कथं भवेत् | आत्मानश्च परस्यैव परदेह प्रवेशनम् || १७ || प्. २अ) कथमनग्निज्वलनं निर्वीजीकरणं कथम् | स्थावराणाञ्चराणाञ्च दहनाप्यायनन्तथा || १८ || घटमग्नि जलं कोषं विषस्तम्भं कथं भवेत् | काष्ठपाषाण भूतानां सद्यावेशः कथं भवेत् || १९ || कुष्ठादीनां च व्याधीनां नाशनं केन कर्मणा | छेदनं परमन्त्राणां मात्मविद्या प्ररक्षणम् || २० || क्षेत्रस्या लम्भनं चैव क्षेत्ररक्षा कथं भवेत् | कीलनं परराज्यस्य भेदनं मोहनं तथा || २१ || मारणं चैव मारव्याहि चक्रवर्त्तित्व साधनम् | कामरूपधरत्वं च स्वच्छन्द खेचरे पदे || २२ || दिव्यखेचरभौमानां योगिनीनाञ्चमेलकम् | एतत्सर्वं समाख्या हि ममभक्तस्य शङ्कर || २३ || दिव्यं वर्ष सहस्रन्तु तपसाऽराधितो मया | ततो ब्रह्मा समायातो वरं व्रूहि महातप || २४ || ब्रह्मोवाच || अशक्तोवर कार्येषु वरं ज्ञानं वदाम्यहम् | कैलाशं गच्छ पक्षीश ईशस्यैव समीपतः || २५ || प्. २ब्) महातपः प्रसन्नस्तु ईश्वरोदास्यतेवरम् | ततो वैकृष्ट मनसां पद्मयोनेः समागतः || २६ || वरं ममेप्सितं व्रूहि इदं मम सुरेश्वर | साधकानां हितार्थाय अनुग्रहरतो भव || २७ || ईश्वर उवाच || गरुत्मीश शृणुष्वेदं तत्र सद्भावमुत्तमम् | आसीत् पूर्वं महाघोरं भैरवं रूपमुत्तमम् || २८ || मम देहाद् विनिष्क्रान्तमुग्ररूपास्तु योगजाः | असंख्यातास्त्वनेकास्तु रक्तमांसाशवप्रियाः || २९ || अतृप्ता लोलुपा भीमा उग्ररूपधरा सदा | जिज्ञासार्थं मया तासां विज्ञानं योगसम्भवम् || ३० || प्रेरितं च पशुत्वेन अहं प्रार्थितमादरात् | अधिष्ठस्तसुरेशान चरूकार्येषु मण्डले || ३१ || अधिष्ठामि मया चोक्तं गतोहं मेरुमूर्द्धनि | पुरं वज्रार्गलन्तत्र रजैः पञ्चभिर्निर्मितम् || ३२ || मध्ये चाष्टदलं पद्मं पीतकर्णिकमुज्ज्वलम् | वज्राणि तु चतुर्दिक्षु विदिक्षु वज्र संपुटम् || ३३ || द्वाराणि वीथयस्तत्र दक्षिणद्वार निर्गमम् | तत्राहं कर्णिकामध्ये स्थितं शक्तिवलोत्कटा || ३४ || प्. ३अ) ध्यात्वा तु परमां शक्तिमक्षोभ्यां परमाव्ययाम् | तावत् कैलाश पृष्ठे तु गौर्यानन्दि प्रचोदितः || ३५ || कुत्रासौ भगवान्नुद्रः पशुत्वे देवि संस्थितः | योगिनीभिश्चरुकार्ये प्रार्थितो मण्डले स्थितः || ३६ || ततः क्रुद्धा तु सा गौरी तडित्कोटि समप्रभा | त्वरितं त्वरिता विद्या त्रिवीजा त्रिगुणीकृता || ३७ || तडित्पुञ्जनिभा दीप्ता व्यापयन्ती चराचरम् | स्फुरद्रश्मिसहस्रैस्तु कोठ्यानेकैर्दिशो दश || ३८ || तया तु दीप्तपिण्डेन ब्रह्माद्याः स्तंभिताः सुराः | हाहारवं प्रसूचन्ति त्राहि देवि शिवप्रिये || ३९ || आगतां पादमूले तु वरैस्तोत्रैः स्तुवन्ति च | प्रीता सा विविधैः स्तोत्रैः शिरष्पादादिलक्षणैः || ४० || एकैकमक्षरं देव्या द्वौ भुजौ परिकीर्तितौ | अष्टादशभुजा देवी धर्मसिंहासनस्थिता || ४१ || गोक्षीरधवलश्रीमान् महालाङ्गूलवर्चसः | ललज्जिह्वमहोग्रास्य तीक्ष्णदंष्ट्रस्फुरन्महत् || ४२ || प्. ३ब्) ज्वलन्नेत्रो महाघोर स्तब्ध कर्णसुभीषणः | गर्जन्तो बलवान् भीमो ज्वलत्कुञ्चितमूर्द्धजः || ४३ || तीक्ष्णोग्रनखमुक्तिस्तु भुवनानि विदारयन् | पूर्वाननस्थितो दीप्तो ग्रसन्निव चराचरम् || ४४ || त्वरिता तत्र चारूढा वामजंघाप्रलम्विताम् | दक्षिणा द्विगुणा तस्याः पादपृष्ठे समर्पिता || ४५ || स्फुरत्तारकवद् देव्या भ्राजन्ते पादयोर्नखाः | अम्भोजारुणवर्णाभा पद्मलाञ्छनलक्षणा || ४६ || राजते चरणाधस्तात्सुसमाङ्गुलिमायता | सुवृत्तं जंघपीनोरुविस्तीर्णो जघनोरूमा || ४७ || गम्भीरनाभिस्त्रिवली रोमराजी सुशोभिता | विस्तीर्णा कटिदेशे तु हेमकुम्भ पयोधरा || ४८ || कम्वुग्रीवा तु विम्वोष्ठी नीलोत्पलदलेक्षणा [षड्वक्त्रां विम्वोष्ठीऽष्टादशेक्षणाम्] | सुनासाचाप भूभङ्गा सुकर्णा मुकुटोज्वला || ४९ || विस्फुरेन्मणिभिर्दीप्तः सहस्रफणिदीप्तिमान् | नागराज कृतो हार कर्णकुण्डलभासिनी || ५० || नागवन्धकृताशोभा भुजौ देव्या विराजते | मेखला कटिदेशे तु महाहि कृतभूषणा || ५१ || प्. ४अ) पादयोर्नूपुरौ घोरौ देव्याः कृतभुजङ्गमौ | सहस्रदले चाम्भोजे वामपाद कृतोदराम् || ५२ || वियत्तडिल्लताभासां वासः कुसुमशोभिताम् | इन्द्रायुधनिभं चान्यं वासं कृत पयोधरौ || ५३ || अनेक पुष्प रचितं दृढवन्ध महोरगम् | कृतायुधकरा देवी तीक्ष्णाग्र नखशूक्तयः || ५४ || वज्रदण्डासि चक्रं च गदाशूलं महोज्वलम् | शरं शक्तिश्च वरदं दक्षिणेन कृतायुधा || ५५ || धनुष्पाशधरं घण्टा तर्जनी शंखमङ्कुशम् | अभयं च तथा पद्मं वामपार्श्व कृता युधा || ५६ || तडित्सहस्रसंकासा विस्फुरत् किरणाकुला | छादयन्ति स्वतेजोभिः शिवाघवनिगोचरा || ५७ || त्वरन्ति त्वरिता प्रोक्ता हूङ्कारकृत भीषणि | तर्जयन्ति दिशः सर्वाः दुष्प्रेक्षा दुर्गदेवताः || ५८ || मोहितं योगिनी चक्रं मूर्छितं मेरुपृष्ठतः | पतितं शुष्यमानं तु त्राहि देविसुराधिपे || ५९ || प्. ४ब्) स्तुत्वा तु विविधैः स्तोत्रैः ओंकारार्धकृतो मया | अर्चयित्वा तु तां देवीं प्रणमित्वा तु योगिनीम् || ६० || मामेवं योगिनीचक्रं निग्रहस्व सुराधिपे | तिष्ठ तिष्ठ महादीप्ते अत्र मण्डलमध्यतः || ६१ || प्रविश्य मण्डले देवी आसीना कर्णिकोपरि | पूजिता विविधैर्माल्यैर्गन्धधूपोपहारकैः || ६२ || मन्त्रमुद्रा समोपेतैः स्तुत्वा स्तोत्रैरनेकशः | स्थापिता समये देवी यस्तु स्मरति साधकः || ६३ || तस्यैव कामिकां सिद्धिं दास्यते अचिरेण तु | योगिन्यो भूचरास्तस्य सर्वकामार्थ सिद्धिदाः || ६४ || देवा दैत्याः सगन्धर्वां यक्षरक्षोरगाप्सराः | ददाति कामिकां सिद्धिं त्वरिते तव पूजनात् || ६५ || यस्तु पूजयते भक्त्या गृहे नित्यं स्वशक्तितः | शत्रवो विलयं यान्ति इष्ट सत्वपराङ्मुखाः || ६६ || जयते परराष्ट्राणि लीलया पूजिना तु सः | विभूतयश्च विपुलामारोग्यं दीर्घमायुषम् || ६७ || सिद्ध्यन्ति सर्वकार्याणि दिव्यादिव्यान्यनेकधा | एतस्मिन्नन्तरे ब्रह्मा मेरुपृष्ठं समागतः || ६८ || प्. ५अ) पूजितानेन विधिनास्तुत्वास्तोत्रैरनेकशः | विष्णुना वासवे नापि अग्निना च यमेन च || ६९ || नैर्-ऋत वरुणे नैव वायुना धनदेन च | ईशानेन उमादेवी सिद्धैर्दैत्याप्सरोगणैः || ७० || पूजिता च स्तुता देवी तुष्टा प्रीतिमना वदेत् | एवं करोमि देवेश यस्तु मां स्मरते नरः || ७१ || तस्याहं कामिकां सिद्धिं दास्यामि अचिरेण तु | ब्रह्मणा च तदा पृष्टा वदविद्या प्रसाधनम् || ७२ || विसर्ज्जितास्ततः सर्वे कथितं तन्त्रमुत्तमम् | त्रोटलं तु परं गुह्यं लक्षं पादाधिकं खग || ७३ || तदेवमुप संहृत्य सारात्सारतरं परम् | वदामि परमं गुह्यं शृणुष्व कमलेऽधुना || ७४ || तत्र विद्याः स्थितास्तार्क्ष्य नववीजात्मिकाः पराः | सा विद्या परमागुह्यागुह्यानामपिगुह्यका || ७५ || गुह्यकानां पराविद्या साधनी सर्वकामिका | मर्द्दनी सर्वनागानां रिपुपक्ष क्षयङ्करी || ७६ || सर्वेषाश्चैव दुष्टानां नाशनी सा प्रकीर्त्तिता | दिव्यादिव्यास्त्रियो यास्तु तासां क्षोभकरी तु सा || ७७ || उत्पत्तिः सर्वबीजानां योनिरेषा प्रकीर्त्तिता | हृदयं सर्वदेवीनां योगिनीनां हृदिस्थिता || ७८ || प्. ५ब्) सर्वकर्मकरी विद्याचाशेष भुवनान्तिका | सिद्धिदा सर्वकार्येषु इहलोके परत्र च || ७९ || दुर्लभा सर्वदेवीना मृषीणां योगिनामपि | कल्पे कल्पे तु ये सिद्धा मुनि विद्याधरादयः || ८० || यक्ष रक्षः पिशाचाश्च प्रेतभूतानि चैव हि | एकाविद्येश्वरी ह्येषा सर्वांस्त्रासयते क्षणात् || ८१ || तलेति सप्तपाताला ज्वालाग्नि भुवनान्तिकान् | ओंकारादि स्वरारभ्य यावद्ब्रह्माण्ड वाचकम् || ८२ || ओंकाराच्चायते सर्वांस्त्रासते चैव सर्वतः | त्रोटला तेन आख्याता तन्त्रार्थोयं प्रतिष्ठितः || ८३ || इयं विद्या पुरा सिद्धा व्रतयोग विवर्जिताः | सिद्धिदा ज्ञानहीनेपि गुरूयाग विनापि च || ८४ || कार्याकार्यमविज्ञायवाध्यावाध्यमजानता | कुर्वन्त्युग्राणि कर्माणि देवानामपि हिंसकाः || ८५ || पुनर्यागादिकं सिद्धा गुरूराज्ञा प्रचोदिताः | क्लिश्यन्ति मानवा मर्त्ये पूर्वकर्म शुभाशुभैः || ८६ || येन सिद्ध्यन्तिते क्षिप्रं मोक्षं यान्ति परापरम् | विद्याधरत्वमिच्छन्ति चक्रवर्त्तित्वमेव च || ८७ || प्. ६अ) नागक्रीडां प्रकुर्वन्ति मर्त्या कौतूहलार्थिनः | खेचरत्वं जिगीषन्ति सिद्धयोगेश्वरैः सह || ८८ || स्वच्छन्दमृत्त्युमिच्छन्ति यावद्देवः सदाशिवः | राज्यसिद्धिं प्रयच्छन्ति द्रव्यसिद्धिस्तु काकथा || ८९ || आकर्षणादि कार्याणि मनसा कुरुते ध्रुवम् | मारणोच्चाटनं वश्यं छेदनं दहनं तथा || ९० || परसैन्य विभेदं च शत्रूणाञ्च निकृन्तनम् | मोहनं सर्वदुष्टानां भयार्तानाञ्च रक्षणम् || ९१ || यस्त्विमां भ्वासते विद्यां सकृदुच्चारयेथवा | देवीदेवश्च गरुड स्त्रितयं तिष्ठते तनौ || ९२ || त्रिकण्टकेति विख्याता सान्निध्यं त्रितयं भवेत् | वामदक्षिण सिद्धान्ते त्रितयेषु व्यवस्थिताः || ९३ || त्रिकण्टकेति विख्याता विद्येयं सर्वकामदा | सिद्ध्यते सा तु त्वरिता त्वरिता तेन चोच्यते || ९४ || इत्याद्ये त्रोटले त्वरितामूलसूत्रे प्रथमः पटलः || १ || अथातः संप्रवक्ष्यामि प्रस्तारं भुवि दुर्लभम् | सिद्धगन्धर्व देवानां मृषियक्ष महोरगाम् || १ || प्. ६ब्) दानवानां गरुत्मीश ब्रह्माद्यैर्गोपितं पुरा | सुसमे भूप्रदेशे तु पुष्पप्रकर संकुले || २ || स्निग्धे मनोरमे देशे उसकेशास्थि वर्जिते | आलिखेन्मातृकां तत्र वर्ग संज्ञा समन्विताम् || ३ || येन तार्क्ष्य विजानन्ति मन्त्रोद्धारं च साधकाः | अतस्त्वेवं प्रयत्नेन संज्ञादौ कीर्तितामया || ४ || येन मन्त्र महाजालं विस्फुरन्तं दिशोदश | प्रथमः स्वरवर्गस्तु षोडशाक्षरमानतः || ५ || पञ्चपञ्चाक्षरा चान्ये द्वौ चान्ये चतुरक्षरौ | प्रथमः स्वरवर्गस्तु वर्गादौ कीर्त्तितो मया || ६ || तालुवर्गे द्वीतीयस्तु तृतीयो जिह्वतालुकः | चतुर्थस्तालु जिह्वाग्रो जिह्वदन्तस्तु पञ्चमः || ७ || षष्ठोष्ठपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः | ऊष्माणश्चाष्टमः प्रोक्तः कथितस्ते खगेश्वर || ८ || अविनष्टा भवेद्विद्या प्रस्तारेणोद्धृता खग | सर्वसिद्धिकरी देवी नवबीजात्मिका परा || ९ || इमां विद्यां मया तार्क्ष्य उद्धरामि सलक्षणम् | मातृकान्त विनिर्गूढैर्गुह्य बीजैः स्वरैस्तथा || १० || षष्ठ स्वरसमारूढां मूष्माणान्त सविन्दुकम् | मूलविद्यादिकं बीजं कथितन्तु खगेश्वर || ११ || प्. ७अ) तालुवर्ग द्वितीयस्तु स्वरैकादश योजितम् | जिह्वातालु समायोगो प्रथमं कवचं भवेत् || १२ || तदेवत द्वितीयन्तु अधस्ताद् विनियोजयेत् | एकादश स्वरैर्युक्तं प्रथमं तालुवर्गतः || १३ || ऊष्माणस्य द्वितीयं तु अधस्तात्तस्य योजयेत् | षोडशस्वर संयुक्तमूष्माणस्य तृतीयकम् || १४ || जिह्वादन्त समायोगे प्रथमं योजयेदधः | मिश्रवर्ग द्वितीयं तु अधस्तात् पुनरेव च || १५ || चतुर्थस्वरसंभिन्नं तालुवर्गादि संयुतः | ऊष्माणस्य द्वितीयं तु अधस्ताद्विनियोजयेत् || १६ || स्वरैकादश संभिन्न मूष्माणान्तं स विन्दुकम् | पञ्चमस्वरमारूढमोष्ठ संपुट योगतः || १७ || द्वितीयमक्षरं चान्यं जिह्वाग्रे तालुयोगतः | प्रथमं पञ्चमेयोज्यं स्वरार्द्धेनोद्धृता इमा || १८ || त्वरितेयं महाविद्या सर्वसिद्धिप्रदायिका | ओंकारादि समायुक्ता मन्ते नमो जपेत्सदा || १९ || स्वाहान्तमग्नि कार्येषु अङ्गानि च ततः शृणु | ऊष्माणान्तं चतुर्थेन स्वरेणाक्रान्त बिन्दुकम् || २० || प्. ७ब्) मिश्रवर्ग द्वितीये तु स्थित मूष्माणमन्तगम् | षष्ठ स्वरासनं कुर्याद्विन्दूनां मूर्ध्नि भूषितम् || २१ || आद्यं बिन्दुविहीनं तु षोडशस्वर भूषितम् | अक्षरं हृदयं प्रोक्तमूष्माणं तु द्विधा भवेत् || २२ || आद्यं द्वितीय संयुक्तं कारयेच्च विचक्षणः | षोडशस्वर संयुक्तं द्विरभ्या स सिरो भवेत् || २३ || ओष्ठद्वयस्य संयोगेद्वितीयं बिन्दुसंयुतम् | चतुर्थस्वरसंयुक्तं मिश्रवर्गद्वये स्थितम् || २४ || जिह्वातालु समायोगे तृतीयं मिश्रवर्गतः | चतुर्थेन समारूढं पुनर्मिश्र तृतीयकम् || २२ || द्विरभ्या स समायुक्तां शिखापञ्चाक्षराः स्मृताः | पञ्चमस्वरसंयुक्त मूष्माणान्तं सबिन्दुकम् || २३ || पुनस्तत्केवलं योज्यं मिश्रवर्ग तृतीयकम् | अत्रारूढं पुनस्तत्तु पुनश्वाद्यं नियोजयेत् || २४ || पञ्चाक्षरं तु कवच मूष्माणान्त सबिन्दुकम् | मिश्राद्येन समारूढ मूष्माणस्यादिमं पुनः || २५ || विन्दुयुक्तं तु मिश्रस्य द्वितीयासन संस्थितम् | ऊष्माणस्य द्वितीयं तु तालुवर्गादि संयुतम् || २६ || प्. ८अ) बिन्दुयुक्तं तु मिश्रस्य द्वितीयं दापयेद्बुधः | द्वितीयश्चतुर्थः षष्ठःस्वरायोज्याः क्रमेण तु || २७ || सूर्यसोमाग्निरुत्पन्ना वीजा नेत्रत्रयं विदुः | दक्षिणं वामतश्चोर्द्ध्वे योज्या च क्रमतः खग || २८ || तालुवर्गादि संयोज्य उष्माणस्य द्वितीयकम् | चतुर्दशे पञ्चदशे योज्यं मिश्रवर्ग द्वितीयकम् || २९ || अधस्तात् तस्य संयोज्य मूष्माणान्तं स षोडशम् | तालुवर्गाद्वितीयं तु विसर्गेण समायुतम् || ३० || पञ्चमस्वरसंरथं च ऊष्माणान्त स बिन्दुकम् | चतुरक्षरमिदमस्त्रं फट्कारेण विदर्भितम् || ३१ || त्रिशूलखड्गचक्रं च शरं चैव प्रकीर्तितम् | पूर्वदक्षिण वारुण्यामुत्तरायां नियोजयेत् || ३२ || एकैकं चाथ संघातमस्त्रमेतत्सुदुर्जयम् | गुह्याङ्गास्तु इमे तार्क्ष्य ब्रह्मणा गोपिताः पुरा || ३३ || एभिर्विना न सिद्धिः स्यात्तन्त्रेस्मिन्त्रोटलोत्तरे | गोपितव्या प्रयत्नेन चा परीक्ष्येन दापयेत् || ३४ || विद्याङ्गाः कीर्त्त्यमानास्तु शृणुष्यावहितोधुना | आदिद्विहृदयं प्रोक्तं त्रिचतुः शिरमिष्यते || ३५ || प्. ८ब्) पञ्चषष्ठ शिखा प्रोक्ता कवचं सप्तमाष्टकम् | तारकां तु भवेन्नेत्रं नवार्द्धाक्षर रक्षणम् || ३६ || दूती मन्त्रास्तथा चान्ये शृणु तार्क्ष्य यथा स्थिताः | हूंललेति समालिख्य वज्र तुण्डे ततो भवेत् || ३७ || खखेहूं च समायोज्य दशबीजाः प्रकीर्त्तिताः | वज्रतुण्डा समाख्याता शक्रदूती महावला || ३८ || खेचर ज्वालिनीर्लिख्य ज्वलेति विनियोजयेत् | खखेति च समायुक्ता ज्वालिनीनामभीषणा || ३९ || अग्निदूती महादीप्ता दशबीजैः समुद्धृताः | चर्चेशवरीमालिख्य भीषणी च ततो भवेत् || ४० || हे चैव योज्य विद्येयं शवरीनाम भीषणी | दशाक्षरा समाख्याता यमदूती महाबला || ४१ || छेछेदनी पदं योज्यं कराली तदनन्तरम् | खगच्छेति पुनर्योज्यं कराली चोग्ररूपिणी || ४२ || नैर्-ऋत्यस्य त्वियं दूती दशबीजा महाबला | क्षः श्रवद्रवं संलिख्य प्लवङ्गी श्रोंक्षः उद्धृताः || ४३ || दशाक्षरी प्लवङ्गी तु दूत्येषा वरुणस्य तु | स्त्रीचलेति समालिख्य कलेति धूननी तथा || ४४ || प्. ९अ) रास्त्री चैव समायोज्या दशवीजाः समुद्धृताः | मनोवेगा इमाविद्या वायुदूति महाबला || ४५ || क्षेपक्षे कपिले लिख्य हसयक्षे ततो भवेत् | कपिलानाम विद्यैषा दशाक्षर समुद्धृता || ४६ || यक्षदूती महाभीमा सौम्योग्रा दिव्यरूपिणी | हूं तेजोवती रौद्री माते हूं चैव प्रकीर्त्तिता || ४७ || रुद्रदूती महारौद्री रौद्रीनाम महाबला | दशाक्षरा इयं विद्यारुद्रदूती प्रकीर्त्तिता || ४८ || फरेफघ्ने समालिख्य फे चक्रेति नियोजयेत् | फरेफ संयुताह्येषा विष्णुदूती महाबला || ४९ || दशवीजा विनिर्दिष्टा चक्रवेगा तु कामदा | दुष्टेघुट्टे समालिख्य खट्टे घोरे च दुस्तथा || ५० || दशवीजा समाख्याता दूत्येषा ब्रह्मणो वरा | ब्रह्मवेतालिनी नामघोरातीव वलोत्कटा || ५१ || दशवीजा सामाख्याता त्रोटलेस्मिन् खगेश्वर | अत्र विद्याः सहस्राणि निर्गतानि अनेकधा || ५२ || तेषां सारं विनिष्कान्तं सारात् सारमिहोद्धृतम् | अयं मन्त्रगणः सिद्धस्त्यज चान्यं पलालवत् || ५३ || इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे द्वितीयः पटलः || २ || प्. ९ब्) अथान्यं संप्रवक्ष्यामि शृणुष्वैकमना खग | अस्त्रेण च करौ सोध्यौ परस्पर निमज्जितौ || १ || उत्तराभिमुखो मन्त्री तर्जन्यस्त्रं नियोजयेत् | तालत्रयं सशब्दन्तु तर्जन्या तर्जयेद्दिशम् || २ || वामया वाम पार्श्वे तु दक्षिणायान्तु दक्षिणे | ऊर्द्ध्वाधो दक्षिणं वामा मन्त्री चास्त्रं समुच्चरेत् || ३ || गुह्यास्त्रेणान्वितं कृत्वा विद्यास्त्रेण पुनस्तथा | विन्यस्य करयोर्मन्त्री दिशासु विदिशासु च || ४ || नदेवैर्दानवैर्वापि न विघ्नैरभिभूयते | गुह्याङ्गं प्रथमं न्यस्य हृदयं कन्यसे न्यसेत् || ५ || शिरमनामिके योज्यं शिखा मध्याङ्गुलीषु च | ज्येष्ठे तु कवचं योज्यं नेत्रं हस्ततले न्यसेत् || ६ || तर्जन्यस्त्रं पुनर्योज्यं विद्याङ्गानि पुनस्तथा | दूतयश्च तथा योज्या ज्येष्ठादारभ्य संमुखाः || ७ || षण्मुख पञ्चविद्यानि पृष्ठतः पञ्चविन्यसेत् | पनस्तु मूलविद्यां तु नखशुक्तिषु विन्यसेत् || ८ || ततोन्यसेच्छरीरेषु विलोमाच्चानुलोमतः | पादादारभ्य मूर्द्धान्तं शिरादारभ्य पादयोः || ९ || प्. १०अ) गुह्याङ्गानि न्यसित्वा तु यथास्थाने नियोगतः | विद्याङ्गानि ततो न्यस्य दिग्वस्त्रं विनियोजयेत् || १० || अङ्घ्रिजानूरुगुह्येषु नाभिहृत्कण्ठतालु च | वत्कमण्डलमूर्द्धान्तमधोर्द्ध्वं चादि बीजतः || ११ || यथोक्तेषु न्यसेन्मन्त्री वीजानि दुर्जयन्ति च | सवाह्याभ्यन्तरं विघ्नान्ध्वं स मायान्ति तत्क्षणात् || १२ || देहशुद्धिश्च भवते स बाह्याभ्यन्तरेण तु | न्यासं कुर्याद्यथोक्तं तु ततोन्तः करण कुरु || १३ || सोमरूपं तदोङ्कारं धारामृत सुवर्षणम् | विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् || १४ || मुष्टिं वद्ध्वा तु वामेन अङ्गुष्ठन्तु अधोमुखम् | मूर्द्धास्य कण्ठहृन्नाभौ गुह्योरुजानु जंघयोः || १५ || आदिबीजं न्यसेन्मन्त्री अङ्गुष्ठादि पुनः पुनः | अङ्गुलीषु यथोक्तेषु वीजान्यङ्गानि योजयेत् || १६ || पञ्चभिस्तु नमस्कारं पद्मरूपमधो न्यसेत् | ऊर्द्ध्व सोमादधः पद्मं शरीरं वीजविग्रहम् || १७ || यो विजाति तत्वेन स नित्यं चामृती भवेत् | न मृत्युर्नजरातस्य न व्याधिर्न च हिंसकाः || १८ || प्. १०ब्) क्षिप्रं च लभते सिद्धि मिहलोके परत्र च | पक्षाकारो करौ कृत्वा छोठयेत् पञ्चभिर्नखैः || १९ || पञ्चविद्यां तु वामेन दक्षिणे पञ्च एव तु | अश्वारूढा सुदीप्ताश्च कुमार्योभिन्न चूचुकाः || २० || भुजङ्गाभरणा कन्याकरवेणी प्रलम्भिताः | खङ्गखेटकधारिण्या स्वास्त्रमम्भोजपाणयः || २१ || इन्द्रायुधनिभं वासः कुसुमानेक शोभितम् | निबद्धवर्मकक्षास्तु भुजगेन्द्रोत्तरीयकाः || २२ || त्वरितात्वरमाणा तु वीरा प्रचण्ड विग्रहा | न्यसित्वा चादि पादेषु द्वितीया जंघयोर्न्यसेत् || २३ || तृतीया जानु देशे तु चतुर्थी ऊरुदेशतः | पञ्चमी गुह्यदेशे तु षष्ठीनाभौ च विन्यसेत् || २४ || सप्तमी हृदये देशेत्वष्टमी कण्ठदेशतः | नवमी वक्त्रविन्यस्ता दशमी मूर्द्ध्नि विन्यसेत् || २५ || एवं सन्नद्ध देहस्तु राजा विजयकाङ्क्षिणः | जित्वा तु परराष्ट्राणि अक्षताः पुनरागमेत् || २६ || निर्विघ्नः साधकः क्षिप्रं सर्वसिद्धिं प्रदापयेत् | अनेन विधिना न्यासं कृत्वा चाष्ट शतं जपेत् || २७ || प्. ११अ) ध्यात्वा तु त्वरितां देवीं मसाध्यमपि साधयेत् || इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे तृतीयः पटलः || ३ || अथ मुद्रां प्रवक्ष्यामि सर्वसिद्धि प्रदायकाम् | मुद्राभिः सहितां देवीं त्वरिता सिद्धिदा भवेत् || १ || सान्निध्या भवति क्षिप्रं पूजाञ्चापि प्रगृह्णति | तस्मान्मुद्रां प्रवक्ष्यामि शृणुष्वैक मनाखग || २ || प्रणीता पञ्चधाख्यातावन्धं तासां वदाम्यहम् | ग्रन्थितौ तु करौ कृत्वा मध्येङ्गुष्ठौ निपीडयेत् || ३ || तर्जन्यौ मूर्द्ध्नि संलग्नौ विन्यसेत्तं शिरोपरि | प्रणीतेयं समाख्याता हृद्देशेतां समानयेत् || ४ || ऊर्ध्वा तु कन्यसा मध्ये स वीजानां विदुःखग | नियोज्य तर्जनी मध्ये मुखलग्ना परस्परम् || ५ || ज्येष्ठाग्रं निक्षिपेन् मध्ये भेदिनी सा प्रकीर्त्तिता | नाभिदेशे तु तां वद्ध्वा अङ्गुष्ठावुत् क्षिपेत्ततः || ६ || कराली तु महामुद्रा हृदयेयोज्य मन्त्रिणः | पुनस्तु पूर्ववद्वध्वा ज्येष्ठलग्नौ समुत्क्षिपेत् || ७ || वज्रतुण्डा समाख्याता वक्त्रदेशे तु वन्धयेत् | प्. ११ब्) उभाभ्यां चैव हस्ताभ्यां मणिवन्धे तु वन्धयेत् || ८ || त्रीणित्रीणि प्रसार्येत वज्रमुद्रा विधीयते | एका तु मध्यमा ऊर्द्ध्वं शक्तिरेव विधीयते || ९ || द्वाभ्यां चैव तु हस्ताभ्यां मङ्गुल्यस्तु परस्परम् | संमुखाग्रं स्थिता कृत्वा हृद्देशे दण्डमुच्यते || १० || दक्षिणं किञ्चिदूनाम्य मुष्टिं वद्धाद्वयाङ्गुली | मध्यमा तर्जनी मूर्द्ध्व खङ्गस्यैवं विधीयते || ११ || वामेन मध्यमाङ्गुल्या तर्जन्याग्रं निपीडयेत् | मध्यमात्सुषिरं तासां पाशमुद्रा विधीयते || १२ || वामहस्तोर्द्ध्वगं कृत्वा संहृता चतुराङ्गुली | तार्याङ्गुष्ठतले कृत्वा तर्जनी चालनाध्वजः || १३ || उभाभ्यां चैव हस्ताभ्यां मुष्टिं वद्ध्वा तु हस्तयोः | अधो वामोर्द्ध्वदक्षं च दक्षिणाङ्गे नियोजयेत् || १४ || गदा तु भवते ह्येवं कुंचिताकन्यसा ततः | अङ्गुष्ठेना क्रमेत्त्रीणि त्रिशूलमूर्द्ध्वतो भवेत् || १५ || एका तु मध्यमा चोर्द्ध्व शक्तित्वेवं विधीयते | वद्धा तु दक्षिणे मुष्टिं कनिष्ठां तु प्रसारयेत् || १६ || वाहु शीर्षेषु संलग्ना सरस्येवं विधीयते | उत्तानं दक्षिणं हस्तं दक्षिणेजानु संस्थितम् || १७ || प्. १२अ) वरदस्य इमा मुद्राः कथितास्ते खगेश्वरः | वामं भुजं प्रसंस्यार्ये चक्रमुष्टिं तु बन्धयेत् || १८ || ज्येष्ठं तु कारयेदूर्द्ध्वं धनुरेवं विधीयते | वामेन मध्यमाङ्गुल्या तर्जन्यग्रं निपीडयेत् || १९ || मध्ये तु तयोः शुषिरं पाशमुद्रा विधीयते | मुष्टिं वद्ध्वा तु वामेन हृद्देशेतं निवेशयेत् || २० || हरस्येयं भवेन्मुद्रा वामं कृत्वा त्वधोमुखम् || वृत्तास्तुकरशाखास्तु घण्टा भवति चालनात् || २१ || मुष्टिं वद्धातु वामस्य कृत्वा चोर्द्ध्वात्तु तर्जनी | वामस्य तर्जनीर्कुञ्च्य आनयेत् षष्ठमूलतः || २२ || ज्येष्ठाग्रं मध्यमापर्वे तृतीये तु नियोजयेत् | शङ्खस्यैवं भवेन्मुद्रा वामे मुष्टिं तु वन्धयेत् || २३ || वक्रा तु तर्जनी कृत्वा अङ्कुशस्य विधीयते | वामे तु किञ्चिदुन्नाम्यकरशाखां प्रसारयेत् || २४ || अभयस्य इमां मुद्रां करौ द्वौ संमुखौ पुनः | अधोलग्नौ चोर्द्ध्वशाखौ वृत्ताकारौ तु कारयेत् || २५ || मध्येङ्गुष्ठौ विनिःक्षिप्य पद्माकारौ सुग्रन्थितौ | पद्मस्यैवं भवेन्मुद्रा हृदयेतां विनिःक्षिपेत् || २६ || ग्रहणीमोक्षणी चैव ज्वालिनी सूकरीमृगी | प्रणीताः पञ्चमुद्रास्तु पूजाहोमे नियोजयेत् || २७ || प्. १२ब्) दीक्षाकालेषु शिष्याणां योजितव्यास्तु देशिकैः | अष्टाविंशति मुद्रास्तु कथितास्त्रोटलोत्तरे || २८ || योजितव्याः सदाकालं सिद्धिकाङ्क्षैः खगेश्वर || इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे चतुर्थः पटलः || अथ दीक्षां प्रवक्ष्यामि सिद्धिदां मोक्षदायिकाम् | वज्रार्गलं समालिख्य पूर्वलक्षणलक्षिताम् || १ || एकहस्तं समारभ्य नवहस्तात्परं न हि | सिताम्बुजेह्यष्टदले विन्यसेत् कर्णिकोपरि || २ || पञ्चाननं महाभीमं वज्रदेहं महाबलम् | मन्त्रेणानेन पक्षीशयोजयेच्चवरासनम् || ३ || हहेवज्रं समालिख्य देहेति च घुरुं तथा | पुनर्घुरुगुलुञ्चैवगुलुगर्जं पुनस्तथा || ४ || हेहं पुनस्तु संयोज्य विंशाक्षरमुदीरितम् | पञ्चाननं भवेद्देव्या आसनमम्बुजोपरि || ५ || व्याप्तं तु सकलं विश्वमनन्तादि शिवान्तगम् | अत्रासने समारूढां त्वरितां पूजयेत् खग || ६ || तां सान्निध्यां भवेद्देवीं क्षिप्रं सिद्धिप्रदायिकाम् | गरुड उवाच पञ्चाननं तु देवेशं लक्षणेन वद प्रभो || ७ || वज्रार्गलपुरं श्रेष्ठं देव्याः सान्निध्यकारकम् | प्. १३अ) ईश्वर उवाच || तिर्यगूर्द्ध्वगतारेखाश्चत्वारश्चतुरो भवेत् || ८ || नवभाग विभागेन कोष्ठकान्कारयेद्बुधः | ग्राह्या दिशा गताः कोष्टा विदिशास्तु विनाशयेत् || ९ || मध्यकोष्ठस्य कोणेषु वाहारेखाष्टकं स्थितम् | बाह्यकोष्ठस्यकोणेषु मध्ये यावत् समानयेत् || १० || वज्रस्य मध्यमं शृङ्गं वाह्यरेखाद्विधोर्द्धतः | वाह्यरेखाभवेद्वज्राद्विभङ्गाः कारयेद्बुधः || ११ || मध्यकोष्ठे भवेत् पद्मं पीतवर्णिकमुज्वलम् | कृष्णेन रजमालिख्य कुलिशासित गर्भगम् || १२ || वाह्यसश्चतुरस्त्रं तु वज्रसंपुट लाञ्छितम् | द्वारेषु दापयेन्मन्त्री चतुरोवज्र संपुटान् || १३ || पद्ममानं भवेद्वारं वीथी चैव समा भवेत् | रजसा पञ्चवर्णेन गर्भेरक्तं भवेत्पुरम् || १४ || केशरार वर्णेन षोडशैव तु कारयेत् | विन्द्वङ्कं कर्णिका मध्ये रक्तेन रजसा भवेत् || १५ || अस्मिन्मण्डलराजानो दीक्षिता येन चोत्तमा | तेषां तु विपुला सिद्धिःर्भुक्तिं मुक्तिं लभेद्ध्रुवम् || १६ || जयते परराष्ट्राणि क्षिप्रं राज्यमवाप्नुयात् | कालप्राप्तं तु पुरुषमस्यमण्डलमध्यतः || १७ || प्. १३ब्) स्थितं न वाधते मृत्युर्नागरक्षग्रहादयेः | नश्यन्ति भय संत्रस्ता दृष्ट्वा मण्डलपुङ्गवम् || १८ || वज्राग्र सन्धि मध्ये तु येन्यस्तारिपवोवलिम् | स्तम्भिता मोहिताः सर्वे निरुद्धा वाध्यते सुखम् || १९ || अत्रैव पूजिता देवी क्षिप्रं सिद्ध्यन्ति साधके | पूजिता कर्णिका मध्ये पूर्वोक्त कृत लक्षणा || २० || मूर्त्ति प्रणव संदीप्ता हूंकारेण निवेशयेत् | मूलविद्यां समुच्चार्यमरुद्ध्योमगतं खग || २१ || प्रथमेन पुनश्चैव कर्णिकायां प्रपूजयेत् | एवं प्रदक्षिणं पूज्य एकैकं बीजमादितः || २२ || दलमध्ये तु विद्याङ्गा आग्नेययां यावदासनी | नेत्रं मध्ये दिक्षु चास्त्रं गुह्यमार्गेषु लक्षणम् || २३ || पूर्वादि दक्षिणावर्त्त नेत्रमध्याद्रिमायुधम् | दूतयः केशरस्थातुर्वामदक्षिणपार्श्वयोः || २४ || पञ्चपञ्च प्रपूज्यास्तुस्वैःस्वैर्नामैर्नियोजयेत् | लोकपालान्न्यसेच्चाष्टौ वाह्ये च गर्भमण्डले || २५ || वर्णान्त अग्निमारूढं षष्ठमस्वरभेदितम् | पञ्चदशेननाक्रान्तं स्वैःस्वैर्नामैस्तु योजयेत् || २६ || वामतो दक्षिणे चैव पञ्चपञ्च प्रपूजयेत् | विद्याङ्गानि च गुह्याङ्गाः पुनः पिण्डेन योजयेत् || २७ || प्. १४अ) पुनस्तु मूलविद्यान्तु कर्णिको परिपूजयेत् | त्रीन्वारान् पूजयित्वा तु पुष्पैर्गन्धैः सुगन्धिभिः || २८ || धूपैर्नानाविधैर्भक्ष्यैः पानैश्चैव सुसंस्कृतैः | मासैश्च विविधाकारैःर्फलैर्नानाविधैस्तथा || २९ || मद्यैः सुरासस्रैश्चैव तथा इक्षुरसादिभिः | वस्त्रैर्वितान रचितैः पुष्पश्रग्दामशोभितैः || ३० || स्वच्छाम्भपरितैः कुम्भैः सितवस्त्रावगुण्ठितैः | मुखपल्लव संछन्नैः रत्नगर्भ सुशोभितैः || ३१ || अष्टभिर्वेष्टयेत् कुम्भैर्मण्डलं सार्वकामिकम् | नवमं यद्भवेत् कुम्भमीशान्या वर्द्धनीयुतम् || ३२ || विकरोपरि संस्थाप्य तत्र देवीं प्रपूजयेत् | भेरीदुन्दुभिनिर्घोषैः शङ्खकाहलनादितैः || ३३ || दक्षिणां मूर्त्तिमाश्रित्य जपेन्मन्त्रं सहस्रधाः | दशभागेन चाङ्गानां ततो होमं च कारयेत् || ३४ || अग्निकुण्डं ततः कृत्वा वृत्तं वा चतुरस्रंकाम् | द्वात्रिंशदङ्गुलं तस्य खातनेमि विवर्जितम् || ३५ || खातं पृथुत्वं च समं मेखला त्रिभिः संयुतम् | द्वित्रि चतुर्भिस्ताः कार्या अङ्गुलैः स्वप्रमाणतः || ३६ || प्. १४ब्) मुक्त्वात्वङ्गुलं ह्येकं ततो नेमिं तु कारयेत् | नेमीनां तु प्रमाणेन योनिः कार्या गजोष्ठवत् || ३७ || ज्येष्ठं द्विरंङ्गुलं कार्यं पृथुत्वेन न चाङ्गुलम् | उच्छ्रायेणाङ्गुलं ह्येकंमग्नि कुण्डस्य मध्यतः || ३८ || चतुरङ्गुलं भवेद्गर्भं योनिरेवं विधीयते | सप्ताङ्गुला भवेद्वीथी श्रुचा वाहु प्रमाणतः || ३९ || षडङ्गुलं भवेदग्रं कण्ठमध्य त्रिभागकम् | अग्रेद्विरङ्गुलं स्थौल्यं खातमङ्गुल निर्गमम् || ४० || वीथि च मध्यदेशे तु खातं तस्य त्रिरङ्गुलम् | अध ऊर्ध्वं तु कर्तव्यमाज्ञाधारं खगेश्वर || ४१ || षडङ्गुलं तु कर्तव्यमाज्ञाधारं खगेश्वर | षडङ्गुलं तु कर्तव्यं वेष्टदण्ड प्रमाणतः || ४२ || घण्टिका तु यथा शोभा तथा चामरसारकम् | चतुर्विंशाङ्गुल श्रुवं खातं गोपदपङ्कजम् || ४३ || द्विरङ्गुलं तु चाग्रे तु दण्डमण्डलमायतम् | योन्यर्द्धं तु श्रुचा कार्या द्वात्रिंशाङ्गुलदैर्घ्यकम् || ४४ || स्थूलं त्वं चाङ्गुलं कार्यं खातं चैव द्विरङ्गुलम् | गजोष्ठा कृतिः सा कार्या अग्निकुण्डस्यमानतः || ४५ || अस्त्रेण आनयेदग्निं हृदयेन विनिःक्षिपेत् | मूलविद्या पराशक्तिस्तस्य मध्ये विचिन्तयेत् || ४६ || प्. १५अ) गर्भाधानं पुंसवनं जातकर्म च होमयेत् | हृदयेन शतं ह्येकं गुह्याङ्गैर्जनयेच्छिखिम् || ४७ || पूर्णाहूतिस्तु विद्यायाः शिवाग्निर्जनितो भवेत् | होमयेन् मूलमन्त्रेण शतं चाङ्गा दशांशतः || ४८ || निवेदयेत् ततो देव्यास्ततः शिष्यं प्रवेशयेत् | अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् || ४९ || विद्याङ्गैश्चैव सन्नद्धो विद्यामङ्गेषु योजयेत् | ग्रन्थिषु चैव सर्वेषु ततः पुष्पं क्षिपापयेत् || ५० || आनयेदग्नि कुण्डे तु ततो होमं तु कारयेत् | तिलैः पुष्पैरसैर्युक्तैर्घृतमिश्रैस्तु होमयेत् || ५१ || व्रीहिभिश्चयवैश्चैव मूलविद्या शतंशतम् | स्थावरत्वं पुरा होमं सरीसृपन्ततः परम् || ५२ || पक्षिमृगपशुत्वंञ्चमानुषं ब्रह्ममेव च | विष्णुत्वञ्चैव रुद्रत्वं मन्ते पूर्णाहुतिर्भवेत् || ५३ || एकया चैव आहुत्या दीक्षितो भवते खग | अधिकारो भवेदेवं मोक्षं शृणु अतः परम् || ५४ || खमरूत्स्थो यदा मन्त्री सदाशिवपदेस्थितः | परे च होमयेत्खस्थः कर्मेकर्मे शतं शतम् || ५५ || प्. १५ब्) पूर्णा हुत्या च तद्योगाद्धर्माधमैर्नलिप्यते | मोक्षं याति परं स्थानं यं गत्वा न निवर्तते || ५६ || यथा जले जलं क्षिप्तं क्षीरे क्षीरं नियोजितम् | तथानि युज्यते देहे व्यापकः परमः शिवः || ५७ || शम्भुः परमशान्तश्च शूक्ष्मो व्यक्तः स्वयं प्रभुः | सृष्टि संहारकर्ता च सकलो निष्कलः शिवः || ५८ || इडा च पिङ्गला चैव सुषुम्णा उपसंशयः | तासां मध्ये भवेन्मोक्षः पूर्णाहुति नियोगतः || ५९ || कोष्ठे सनाधिकारस्तु खस्थो मोक्षो विधीयते | इडया सौम्यकर्माणि पिङ्गला क्रूरकर्मकृत् || ६० || विशुवेन भवेन्मोक्षः अन्ते सिद्धिः प्रतिष्ठिता | संध्यां विज्ञाय यत्नेन सर्वसिद्धिस्तु साधयेत् || ६१ || एवं विज्ञाय यत्नेन शिष्यानुग्राहयेत् खग | अभिषेकं ततः पञ्चात्कुम्भैः पूर्वोक्त लक्षणैः || ६२ || क्षिप्रं राज्यमवाप्नोति मन्त्रसिद्धिंञ्च शास्वतीम् | अलक्ष्मीनाशनं ह्येतद्भाग्यारोहणमेव च || ६३ || अपुत्रो लभते पुत्रान्दुर्भगा शुभगा भवेत् | स्त्रीणां सहस्रमध्ये तु महादेवी पदं लभेत् || ६४ || प्. १६अ) क्षिप्रं मन्त्राः प्रसिद्ध्यन्ति देशिकत्व प्रसादतः | विसर्जयेत् ततो देवीं मण्डलं चोपसंहरेत् || ६५ || नोप संहृत्य मन्त्राणि नैवेद्यमधिकारिणे | दापयेत्तस्य शेषं तु होमयित्वा विधानतः || ६६ || अनेन योगविधिनामाघमासस्य यद्भवेत् | नवमी शुक्ला कृष्णाद्वे चैत्रस्याश्वयुजस्य च || ६७ || नवम्यादौ या नारीरुधिरार्द्रपदा भवेत् | रक्तादुर्लिप्तदेहस्तु कण्ठमात्रेथ चाविशेत् || ६८ || एवं क्षिपेत् ततो रात्रि देव्यामन्त्रमनुस्मरन् | महिषाजा विरक्तेन नारेणाथ महामतिः || ६९ || पूजयेद् विधिना देवीं फलैर्भक्ष्यैरनेकधा | वस्त्रशोभैरनेकैस्तु गीतवादित्रनिःस्वनैः || ७० || होमयेत् फल्नुषं साज्यं तिल व्रीहि विमिश्रितम् | दिशासु विदिशास्वेवंमग्नि कुण्डानि कारयेत् || ७१ || हुनन्ति देशिकास्तत्र यावद्रा त्रिःक्षयंगताः | अर्धरात्रगते मन्त्रीते नरक्तेन प्रोक्षयेत् || ७२ || मन्त्रेणैव सुदीप्तेन राजा स्वाश्वरथानराः | अस्त्राणि च विचित्राणि अशेषान्तः पुरं तथा || ७३ || प्रोक्षयेत् तेन रक्तेन अवध्याः शत्रुसङ्कटे | महाहषे प्रविष्टानां स्वयं देवी प्ररक्षति || ७४ || प्. १६ब्) अभेद्याः सर्वशस्त्राणां जयन्ति रिपवोवली | ततः प्रभातसमये पूजयेऽऽच्च स्वशक्तितः || ७५ || देशिकान्साधकान्विप्रान् सु हृन्मित्रान् स्ववान्धवान् | दीनानाथाङ्ग विकलान् वालवृद्ध तपस्विनः || ७६ || कुमारीं पूजयित्वा तु शस्त्रं दद्याच्च तद्दिने | पूजोपयोगं यत्किञ्चिद्दापयेत् स्वधिकारिणे || ७७ || एवं तु नवभिर्योगैर्नवखण्डां वसुन्धराम् | उक्ते समुद्रपर्यन्तं तामुसपन्नमण्डुकाम् || ७८ || नित्यमष्ठो शतं होमं यवगोधूम व्रीहिभिः | तिलान्मधुघृतं क्षीरं तथा फल्मुषमेव च || ७९ || विल्वानि च कदम्वानि पद्मानि किं सुकानि च | करवीज जवाजाती भक्ष्याणि विविधानि च || ८० || फलानि गृतयुक्तानि नित्यमष्टशतं हुनेत् | जपेत् सहस्रमेकं तु पूजां कृत्वा दिने दिने || ८१ || ध्रुवं प्राप्नोत्य सौराज्यं मन्त्रसिद्धिं तु कामिकाम् | स्मरणा त्रीणि कालानि गुणैश्वर्यं प्रजायते || ८२ || तस्यापि धनदा देवी भुक्तिमुक्तिं स्मरेद्यदि | नित्यमष्टशतं जाप्यंमभियुक्तो यदि स्मरेत् || ८३ || प्. १७अ) तस्यापि धनदं यक्षो देव्या देशाद्वधं ददेत् | पूजां कृत्वा दिने वापि चैककालं स्मरेद्यदि || ८४ || तस्य कामदुघाष्वेनुर्गृहे नित्यं प्रवर्त्तते | आहुत्य पञ्च सप्ताष्टा नव वा दश वा भवेत् || ८५ || नित्याभियुक्तयोगेन श्रियं प्रत्यक्षतां भवेत् | तिलाज्य पूरहोमेन शतमर्द्ध त्रिभागतः || ८६ || तस्य नित्यं सदा देवी प्रत्यक्षा कमदा भवेत् | ददाति विपुलान् भोगान् यदन्यं च समीहते || ८७ || एषा सर्वगता विद्या सर्वदेवमयी शुभा | सर्वशास्त्रेषु हृद्भूता सिद्धान्ते वामदक्षिणे || ८८ || द्वैताद्वैतेन भावेन मिश्रेणाथ प्रपूजयेत् | सिद्ध्यते नात्र संदेहः सर्वावस्थां न संशयः || ८९ || प्रसन्ति सर्वमन्त्राणि तन्त्राये वामदक्षिणे | सिद्ध्यन्ति मन्त्रिणः क्षिप्रं त्वरितायाः प्रपूजनात् || ९० || श्रियश्च संमुखास्तस्य या स्थिता वामदक्षिणे | त्रसन्ति भैरवाः सर्वे चण्डोग्राभीमविक्रमाः || ९१ || त्वरिता साधकेद्वस्य आज्ञा सिद्धास्तु सिद्धिदाः | सर्वज्ञानमयी विद्या सर्वतेजोमयी शुभा || ९२ || प्. १७ब्) सर्वदेवमयीह्येषा सर्वं व्याप्य व्यवस्थिता | अत्र साक्षाच्छिवः शूक्ष्मः सदाशिव उमापतिः || ९३ || शक्तिश्च गरुडश्चैव विष्णुर्ब्रह्मा व्यवस्थितः | तेजः पिण्डे स्थितः सूर्यः सर्वेषां तेजः शक्तयः || ९४ || शतरुद्रा महादीप्ता लोकपालाश्च शक्तयः | भैरवाश्चोग्ररूपास्तु भैरव्यो योगमातरः || ९५ || योगिन्यश्चापि त्रिविधा दिव्याः खेचरभूमिजाः | गुह्यकाः किन्नरा दूतीलामा शाकिनी पूतना || ९६ || किङ्करारक्षवेतालानागायक्षाग्रहादयः | बूतप्रेतपिशाचाश्चगणाह्यत्र व्यवस्थिताः || ९७ || ऋषयोप्सरसासिद्धा देवगन्ध्र्वकिन्नराः | दैत्या विद्याधराश्चैव सोमग्रहाततारकाः || ९८ || सर्वविश्वमयी विद्या त्वरिता क्षिप्र सिद्धिदा | दुर्गा उमा सरत्यो लक्ष्मीः कात्यायनीति सा || ९९ || काली चैव महाकाली भद्रकाली च मङ्गला | नित्या योगेश्वरी चैव चतुष्के नवके स्थिताः || १०० || प्. १८अ) जया च विजया चैव जयन्ती चापराजिता | रक्ता च चर्च्चिका विद्या पेचिका च करालिनी || १०१ || भद्रायोगी च चण्डाक्षी विम्वोष्ठी कुष्माण्डी रेवती | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || १०२ || वाराही वासवी चैव आग्नेयी वायवी तथा | वारुणी च महायक्षी राक्षसी वीरनायिका || १०३ || वागीश्वरी च सा गौरी चामुण्डा भैरवी तु सा | अभिनन्दा सुनन्दा च नन्दा भ्रमरवासिनी || १०४ || तारा सरस्वती अम्बा भूतमाता च कुण्डली | महामाया स्वधा स्वाहा ज्वाला चोष्माश्रियाकला || १०५ || गायत्री चैव सावित्री महामातृगणाम्बिका | त्रैलोक्यमाता विश्वेशी जगद्धात्री परापरा || १०६ || स्थावरे जङ्गमे चैव प्राणभूता व्यवस्थिताः | पञ्चभूतात्मिका सा तु पृथिवी कठिने स्थिता || १०७ || आपतत्वे द्रवा सा तु तेजस्तेजोवती हि सा | वायुतत्वे चलारूपा सर्वं व्यापयते क्षणात् || १०८ || खतत्वे शून्यरूपा तु शून्यदेशे व्यवस्थिता | वाग्वादि कर्मतत्वस्थाषुद्धिस्तन्मात्रकेस्थिता || १०९ || प्. १८ब्) त्रिधा तु करणे देवी गुणत्रये सुसंस्थिता | प्रकृतिः शिवतत्वस्था अनन्तादि शिवात्मिका || ११० || सर्वं व्याप्यस्थिता विद्या सकले निष्कले पदे | एवं भगवती देवी सर्वगा सर्वसिद्धिदा || १११ || त्वरितैषा परा सिद्धानदेया यस्य कस्यचित् | त्वत्प्रियार्थं मयाऽख्याता समयघ्नेनदापयेत् || ११२ || गुरुभक्ताय दातव्या शिवभक्तिरताय च | देवस्वञ्च गुरुस्वञ्च द्रव्यं चण्डेश्वरस्य च || ११३ || साधकाचार्ययोद्रव्यं यत्नात्तं तु परित्यजेत् | अनाथायाः स्त्रिया द्रव्यं गणिकाषाश्च वर्जयेत् || ११४ || वेदपारग विप्राणां द्रव्यं नैव समीहयेत् | शिवयोगी च योगिन्यो असंपूज्य न भुञ्जयेत् || ११५ || आचार्य साधकानानाञ्च योगिनीनाञ्च मन्त्रिणाम् | न तेषां कारयेद्दुःखं द्रव्यं नैवापहारयेत् || ११६ || नान्वेषयेच्च छिद्राणि सुखदुःख समो भवेत् | ज्ञानिने दुःख संतापं नाहत्याद्विनिवर्त्तते || ११७ || अपकारेण तेषां वै समयघ्नस्तु जायते | वामदक्षिण सिद्धान्ते मन्त्रो नैव प्रसिद्ध्यति || ११८ || प्. १९अ) मन्त्राश्च विकृतिं यान्ति नाहं त्राता भवेत् खग | देवाग्नि यागरहितं न पशुंघातयेत् क्वचित् || ११९ || नादीक्षितस्य दातव्यं बाह्यशास्त्ररतस्य च | न तर्कशास्त्र दग्धानां शठाय पिशुनाय च || १२० || न नास्तिके ना प्रियाय परच्छिद्ररताय च | एतेभ्यश्च न दातव्यं त्रोटलं तन्त्रमुत्तमम् || १२१ || दातव्यं समयज्ञाय अभिषिञ्च्य प्रदापयेत् | सुदीक्षितोभिषिक्तश्च गुरोराज्ञा प्रचोदितः || १२२ || श्रुतशास्त्रार्थ सद्भावो लक्षमन्त्र स्वभावितः | जपेन्मन्त्रवरं वीरोगुरूं पूज्यस्वशक्तितः || १२३ || इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे पञ्चमः पटलः || ५ || अथैवं विधियुक्तस्य क्षेत्रमालम्भनं कुरु | गिरिकन्दरदुर्गेषु गुहाकोटरनिर्द्धरे || १ || वने मनोरमे रम्ये सरित्सङ्गे महोदधौ | स्मशाने वा महाघोरे पद्मखण्डे समीपतः || २ || श्रीवृक्षरचिते देशे विविक्ते च जलाश्रये | क्षीरवृक्ष समाकीर्णे यत्र वारमते मनः || ३ || प्. १९ब्) नगरे वा पुरे ग्रामे शिवधर्म जनाकुले | पूवोत्तरप्लवा भूमिस्तत्रचालम्भनं भवेत् || ४ || क्षीरवृक्षोद्भवां कीलां तत्र दूत्याभि मन्त्रिताः | शताष्टोत्तर दिग्भागे निखनेदधरोत्तरे || ५ || तत्र चा वसथं कुर्याज्जपेन्मन्त्रं तु मन्त्रिणः | अन्यथा तु जपेन्मन्त्री विघ्नानेकैः प्रवाध्यते || ६ || क्षेत्रे तु कीलिते मन्त्री नैव विघ्ने प्रजायते | दिव्यादिव्याश्चये विघ्नाश्चौरराजजनोद्भवाः || ७ || व्याघ्र व्याल जलाग्नौ च भयं नैव प्रजायते | जपेन्निःशङ्कचित्तस्तु सर्वकामान् प्रजायते || ८ || आत्मानञ्च मनोमन्त्रं शिवशक्तिस्तथैव च | लोलीभूतमिदं कृत्वा सिद्ध्यते नात्रसंशयः || ९ || चिन्तये हृदयेत्वियं कर्णिकां बिन्दुरूपिणीम् | तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्त्तते || १० || जप्त्वा चाक्षरलक्षम् तु निधनोधि पतिर्भवेत् | द्विगुणेन भवेद्राज्यं गुणैश्वर्य समन्वितम् || ११ || त्रिगुणेन पश्यते देवीं यक्षिणीं कामरूपिणीम् | तया सहमहावीरः क्रीडते कल्पमुत्तमम् || १२ || प्. २०अ) चतुर्गुणेन ब्रह्मत्वं गच्छते ब्रह्मणः पुरम् | पञ्चगुणेन विष्णुत्वं प्राप्यते वैध्रुवं पदम् || १३ || षड्गुणेन महासिद्धिं याति योगेश्वरी पदम् | तत्समः खेचरो भूत्वा क्रीडते भुवने प्रभुः || १४ || सप्तगुणेन रुद्रत्वं गच्छते रूद्र पदं बुधः | जप्त्वा चाष्ट गुणां विद्यां याति देवं सदाशिवम् || १५ || जप्त्वा नवगुणा तार्क्ष्य विद्या निर्वाणगामिनी | धर्माधर्म विनिर्मुक्ता मोक्षं याति परापरम् || १६ || त्वत्प्रियार्थं मयाख्यातां मोक्षमार्ग विसाधनीम् | यां ज्ञात्वा चैव जप्त्वा च न भूयो जन्मतां व्रजेत् || १७ || यान्ति वै परमं स्थानं यंगत्वा न निवर्तते | एकवीरा महावीर्या एक एव हि सिद्धिदा || १८ || मनुष्याणां हितार्थाय मर्त्ये तु अवतारिता | सकृदुच्चारिता विद्या विण्मूत्राद्यैर्विमुच्यते || १९ || दशजप्त्वात्वियं विद्या देह शुद्धिकरी भवेत् | विद्येश शतजप्त्वा तु सर्वतीर्थफलं लभेत् || २० || जप्त्वा सहस्रमेकं तु मुच्यते तूपपातकैः | महापातक युक्तात्मा लक्षणैः केन मुच्यते || २१ || प्. २०ब्) वहुनात्र किमुक्तेन शास्त्रविस्तरः केन तु | त्रैलोक्यं सकलं हत्वा स देवासुरमानुषान् || २२ || त्रोटले या च दृष्टेष्मु सर्वं तद्भस्मतां नयेत् | विधिना नवलक्षाणि जप्त्वा साधक पुङ्गवः || २३ || स्थण्डिले पूज्य देवेशीं प्रतिमा सुपठेषु वा | प्रतिमा हेमतारो वा रत्न मुक्ता प्रवालजा || २४ || रक्तचन्दन श्रीखण्डमधुकेशीं सपेतथा | अगरूं देवदारूं वा पूर्वलक्षणलक्षितम् || २५ || एकाङ्गुलात् समारभ्य यावदष्टौ न वाथवा | पटे वा लिखिता देवी कुमारी कर्त्तितेन तु || २६ || वीरक्रमेण वा गृह्यमृत सङ्ग्रामसन्मुखे | स्मशानवस्त्रे वा लिख्य एकहस्तं स्वमानतः || २७ || यथास्थानेन्यसेन् मन्त्री हुत्वा चाष्टशतम् | सहस्रं चैव विद्याया होमयित्वान्यसेत्तनौ || २८ || पूजयित्वा तु तां देवीं सन्मुखायां जपं कुरु | पुत्रञ्जीवक रुद्राक्षैस्तारहेमकृतेथ वा || २९ || रत्नमुक्ता प्रवालैर्वाशङ्ख स्फटिकजाथवा | कुमारीकर्त्तिते सूत्रे नवतन्तु कृतेन तु || ३० || स्मशान चीरके वाथ दर्भके वा जपं भवेत् | शतं सहस्रमयुतंञ्जपेद्धोमं प्रकीर्तितम् || ३१ || प्. २१अ) एकं द्वित्रिचतुः कालमन्यथा नैव कारयेत् | एवं विधानतां जप्त्वा लक्षमेकं होमयेत् || ३२ || महिषाजमेषमासैर्ना रजेण पुरेण वा | तिलैर्यवैस्तथा लाजैर्व्रीहिगोधूमकाङ्गुजैः || ३३ || श्रीफलैश्चाज्य संयुक्तैर्होमयित्वा व्रतं चरेत् | अर्द्धरात्रे तु सन्नद्धः खड्गखेटकधारिणः || ३४ || गाण्डीव शरहस्तो वाच्छुरिका दण्डपाणयः | एकवासो विचित्रेण रक्तपीतसितेन वा || ३५ || नीलेन वाथ वस्त्रेण लिप्तं चुद्धिमचन्दनैः | नाभिमालिप्त देहस्तु कृष्णा गुरु सुधूपितः || ३६ || विचित्र कुसुमाकीर्णा मालाधार्या शिरोपरि | भूषितो हेमरत्नाद्यैस्ताम्बूल मुखपूरितः || ३७ || हृष्टपुष्टेन मनसा बलिपुष्प समन्वितः | सर्वाङ्गोपकरणाद्यैः पूज्य देवीं स्वके गृहे || ३८ || ताम्रे वाचात्मदेहे तु धार्यनिष्क्रम्य मान्त्रिणः | व्रजोद्दक्षिणदिग्भागं द्वारिदद्याद्वलिं बुधः || ३९ || प्. २१ब्) दूती मन्त्रेण मन्त्रस्तो मूल विद्यां न दापयेत् | चत्वरे एक वृक्षेषु शङ्कुस्थाने स्मशानके || ४० || वलिं दत्वा विधानेन देव्या मन्त्रं जपेत्सुधीः | एकं कृत्वा तोनो मन्त्री क्षिप्रमागमनं कुरु || ४१ || अनेनैव विधानेन नवभिर्नवकैर्ध्रुवम् | योगिभिः सहमेलापं भवते नात्र संशयः || ४२ || जल्पं चरुं तथा क्रीडा कुरुते नात्र संशयः | तदा दिव्य परिज्ञानं भवते साधकस्य तु || ४३ || दूरावलोकनञ्चैव श्रवणं मननं तथा | सत्वाधिको महातेजो मनोवेगश्च जायते || ४४ || व्रजते योगिभिः सार्द्धं जम्बुद्वीपं चराचरम् | भुङ्क्तेसौ पृथिवी सर्वाननिवार्या सुरैरपि || ४५ || वसन्ते कारयेच्चर्यां हेमन्ते होमं कारयेत् | प्रावृषे तु जपं कुर्यान् मनोद्विग्नस्तु मन्त्रिणः || ४६ || अयं विधिः समाख्यातो यथेच्छाथ तु कारयेत् | लभते सर्वसिद्धिन्तु मन्त्री देव्याः प्रसादतः || ४७ || इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे षष्ठः पटलः || प्. २२अ) अत ऊर्द्ध्वं शृणु स्वेदं प्रस्तारं सर्वसिद्धिदम् | विद्या प्रस्तारवेत्तारं मुद्राभेद विदस्तुयः || १ || नवकोष्ट विभागेन विदर्भेदति भेदितः | विद्या भेदं तु विदन्ति त्रोटलं दुर्लभं परम् || २ || अनुलोम विलोमेन समस्त व्यस्त योगतः | कर्णाविकर्णयोगेन अत ऊर्द्ध्व विभागतः || ३ || वृत्तार्द्ध चन्द्रयोगेन चतुभिर्भेद भेदभेदितैः || त्रित्रिके स तु योगेन देव्या सन्नद्ध विग्रहः | मन्त्रभेदं विजानाति सर्वसिद्धिफलं लभेत् || ४ || मन्त्रयन्त्र प्रयोगास्तु निर्गतास्तु अनेकधा | शास्त्रेशास्त्रेस्थिता मन्त्राः प्रयोगास्तत्र दुर्लभाः || ५ || तान्प्रयोगान् प्रवक्ष्यामि शृणुष्वैक मना खग | गोपितव्याः प्रयत्नेन सद्यः सिद्धिकरा इमे || ६ || क्रोधलोभान्विता दुष्टाः कामाशक्ताश्च मानवाः | प्राणापहारं कुर्वन्ति प्रस्तारं गोपयेत् सदा || ७ || अभक्तो व्यसनी लुब्धाः समयघ्नस्तु लोलुपः | विवादी पिशुनस्तब्धोनास्तिको निन्दकः शठः || ८ || गुरुद्रोही तथा मानी सदा प्राणिवधेरतः | शुष्कतर्कावलम्बी च प्रस्तारं गोपयेत् सदा || ९ || प्. २२ब्) युक्तायुक्त विवेकी च प्रस्तारं दापयेत् खग || गरुड उवाच || श्रुता मयाखिला देवविद्या मुद्रास्तथार्चनम् || १० || प्रस्तारेण तु गुप्तेन सर्वं भवति गोपितम् | प्रस्तारेण तु ये हीनास्ते हीनाः सर्वकर्मसु || ११ || प्रस्तार गोपितानां तु कर्मसिद्धिर्न जायते | प्रसादं कुरुदेवशप्रस्तारं दर्शस्वमे || १२ || वृहत्कर्मार्थ सिद्धिन्तु ब्रूहि भक्तस्य मे प्रभो | ईश्वर उवाच || उत्पत्तिं शृणु पक्षीश पूर्वसृष्टं यथा यथा || १३ || आसीत् पूर्वं नमो घोरं मायया व्यापितं महत् | परा सूक्ष्माकरा जाता शिवतत्वं सु तेजसम् || १४ || तस्मात् सदाशिवं दीप्तं तस्माद्दीप्त कला भवेत् | मायातत्व समायोगात् सृजेच्छक्ति मनोन्मनी || १५ || मनस उन्मत्वेन शक्त्या ईशकलागता | तत्र चाण्डं समुत्पन्नं कोटि योजन मायतम् || १६ || प्. २३अ) सुरक्तं दुर्भेद्य दीप्तं वलं गर्जन्महास्वनम् | अहं विस्मयमातः करे ध्यात्वा मनोन्मनी || १७ || प्रणीता तु तदा वद्ध्वा तर्जनी शिखि तेजसा | निःसृताः शतरुद्रास्तु वज्रकाया महाबलाः || १८ || शतमेकं महादीप्तं त्रिनेत्र मुकुटोज्वला | ब्रह्मब्रह्मेति वदतो युग्मयुग्मं व्यवस्थिताः || १९ || स्थिताः पञ्चाश भेदैस्तु शक्तयश्चोज्वलीकृताः | पञ्चाशदक्षरास्तत्र मातृकाः शक्तिनिर्गताः || २० || रक्षिता ज्ञानशक्त्या तु वेदध्वनि समुद्गिरान् | ब्रह्माण्डं धारितं तैस्तु तदा तत्स्थिरतां गताम् || २१ || प्रणीतां भेदिनी कृत्वा वा मया तु कनिष्ठया | आकृष्य परमां शक्तिं मुन्मनत्वेन योजिता || २२ || वज्रतुण्डा ततो वद्ध्वा ब्रह्मरन्ध्रस्य कारणात् | तत्रत्वं तार्क्ष्य संजातो वज्रतुण्डा भवेत् सुखम् || २३ || ततस्तु वज्रकुण्डेन आहतं तु तदण्डकम् | तत्र रन्ध्र समुत्पन्नं मूष्मा ज्वालं विकासितम् || २४ || वेदध्वनि समायुक्तं जातवेदः कृताननम् | स रुद्रोद्भवं शब्दं ब्रह्माण्डं मुज्वनलं भवेत् || २५ || प्. २३ब्) तत्सोमस्य सृतं ख्यातं स शब्दं योजिता ध्वनिः | एवं वेदाः समाख्यातास्तत्सोमं वेद सयुतम् || २६ || संयोगात् पद्ममुकुलीकन्दे विष्णु समुद्भवम् | ब्रह्मगर्भस्तु मुकुलीं वेदध्वनि कृतोदरे || २७ || तस्मिञ् ज्वालामुखे रन्ध्रे प्रविष्टस्त्वं खगेश्वर | तस्य चाण्डस्य मध्ये तु क्षीरवर्ण द्रवा सृते || २८ || तिष्ठते तु महादीप्त स्फटिकाभः सुतेजसः | गदाशङ्खधर श्रीमान्नाभेऽस्वुजधरोद्विजः || २९ || वज्रकायो महातेजोः पुंसस्तत्वमहाबलः | सर्वज्ञं सर्वकर्त्तारं प्रभुभक्तं यमव्ययम् || ३० || उत्तिष्ठोत्तिष्ठ किं तिष्ठेद्रन्ध्रेणानेन निर्गमः | क्रुद्धस्तु तेन शब्देन अहं विष्णुस्त्वं को भवान् || ३१ || तयोर्युद्धं समायातं भीषणं लोमहर्षणम् | पक्षपातेन तेनैव निर्घाते तु परस्परम् || ३२ || विकसिता पद्ममुकुली ब्रह्मगर्भासु तेजसा | तयोश्च युद्धमापन्ने वुद्वुद उत्थितो महान् || ३३ || ततो हंसः समुत्पन्नं क्षीरवर्णमिवद्युतिः | ब्रह्मा तत्र समासीनः कमलगर्भाद्विनिःसृतः || ३४ || प्. २४अ) गरुडेन समाक्रान्ता तत्र हंस समुद्भवम् | ब्रह्मा तत्र स्मासीनंस्तदाविष्णुः स्थलीकृतः || ३५ || ध्यायमान परं तत्वं शिवमध्ययमक्षयम् | गरुडेनोद्धृतो विष्णुर्वहीरन्ध्राद्विनिर्गतम् || ३६ || मयाते मोपहारार्थं स्वतेजो नेत्रमध्यतः | गृहीत पद्ममुद्रायास्तेजां पिण्डं महद्भुतम् || ३७ || ज्येष्ठास्तु पिहितो रुद्रोवज्रेअकायेस्तदा भवेत् | आदित्यस्य समुत्पत्तिस्तेजपिण्ड समन्वितम् || ३८ || शक्तीशरगुरुन्मीशो विष्णुर्ब्रह्मामनोन्मनी | संस्थिताः शतरुद्रास्तु स्वशक्त्या दण्डधारकाः || ३९ || फट्कारकृत घोषास्तु भेदिनी मुद्रया सह | संन्तप्तं रश्मिभिः सर्वं भुवनाशेष गोचरम् || ४० || अनिवार्य यथा तास्तु शक्तयस्तेजसम्भवाः | ईश्वरेण तदा वद्धा कराली त्रासिनी महान् || ४१ || त्रासिताः शक्तयः सर्वास्ता पिता च सुरोत्तमाः | न च खण्ड विभागेन न च बीजानि चोपिताः || ४२ || ब्रह्मणोण्डस्य मध्ये तु शिवतत्वं निधापयेत् | सदाशिवं तु पूर्वेण ईश्वरं तु मनोन्मनीम् || ४३ || प्. २४ब्) गरूत्मीशस्तथा विष्णुर्ब्रह्मा तेजो विदारणः | ईशानान्ताः शिवादित्यास्तेजः पिण्डव्यवस्थिताः || ४४ || तेजस्तेषां समुद्भूतं मिन्द्राद्यादूतीभिः सह | ततः प्राप्तं जगत्सर्वं दिशासु विदिशाषु च || ४५ || त्रोटले स्थापिता विद्या त्रायकात्रासका सदा | त्रोटलेति समाख्यातां तन्त्रं परमसिद्धिदम् || ४६ || एवं विद्या समुद्भूता सर्वतेजोमयी परा | तस्याः कर्म प्रवक्ष्यामि प्रस्तारेण यथा स्थितम् || ४७ || तिर्यगूर्द्ध्वगतारेखाश्चत्वारश्चतुरो भवेत् | नवकोष्ठा भवेदेवं मध्यदेशे तु आदिमम् || ४८ || प्रदक्षिणेन तु संस्थाप्य प्रस्तारो भेदयेत्ततः | प्रस्तार क्रमयोगेन प्रयोगा निर्गतास्तुमे || ४९ || अविनष्ठा सर्वकर्मे अन्यथा तु निरर्थकाः | प्रस्तार क्रमयोगेन प्रयोगान् यस्तु विन्दति || ५० || करमुष्ठि स्थिताः सर्वाः सिद्धयः साधकस्य तु | त्रैलोक्यं सकलं तस्य तिष्ठते पादमूलतः || ५१ || भुक्तिश्चाकण्टकां सर्वां न च खण्डां वसुधराम् | चक्रवर्त्तित्वमाप्नोति सिद्धिं लभति कामिकाम् || ५२ || प्. २५अ) इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे सप्तमः पटलः || ७ || गरुड उवाच | दिव्यं वर्षैः सहस्रन्तु तपसाराधितो मया | प्रसन्नो यदि देवेश मम भक्तिञ्च विन्दसि || १ || विद्या भेदेन कर्माणि वद भक्तस्य मे प्रभो || ईश्वर उवाच || सकलेयं पुरा विद्या सकृदुच्चारिताद्विज | मनसा सर्वकर्माणि कारयेन्नात्र संशयः || २ || प्रणीता वद्धमात्रा तु सकृदुच्चारितो यदि | त्रैलोक्यं सकलं क्रुद्धं क्षणाञ्चैवोप संहरेत् || ३ || उपद्रुताः सुराः सर्वेसिद्धविद्यैरनेकधा | ततः सामुद्रिता विद्या समयेस्तापिता पुनः || ४ || प्रस्तार भेदयोगेन गुरुपूर्वक्रमेण तु | यस्तु कर्म विजानाति तस्य सिद्धिस्तु नान्यथा || ५ || तदा प्रभृति सा विद्या प्रस्तार क्रम सिद्धिदा | प्रणीता पञ्चभेदेन ज्ञात्वा सिद्ध्यन्ति तत्क्षणात् || ६ || विषापहारिणी विद्या भूतिदाराज्यदायिका | खेचरत्वञ्च आयुश्च षष्ठं पदमनामयम् || ७ || प्. २५ब्) षड्विरेतैस्त्वियं विद्या मुद्रिता तु खगेश्चर | अन्याश्च सिद्धयश्चित्रा शृणुतार्क्ष्य यथा स्थिताः || ७ || कृत्वाह्यदल पद्मं भूर्जे रोचनया वुधः | कपाले तु समालिख्य शिवतत्वं समन्ततः || ८ || श्मशान कर्पटे वाथ वाह्ये निष्कम्य मन्त्रिणः | तस्य गर्भे लिखेन्नाम कर्णिको परिसंस्थितम् || ९ || तापयेत् खदिराङ्गारैर्भूर्जमाक्रम्य पादयोः | सप्ताहादानयेत् सर्वं त्रैलोक्यं स चराचरम् || १० || वज्र संपुट मध्ये तु द्वादशारे तु लेखयेत् | मध्ये तु गर्भगन्नाम सदाशिव विदर्भितम् || १२ || कुड्ये वा फलके वाथ शिलापट्टे हरिद्रया | मुखस्तम्भ गतिस्तम्भ सैन्यस्तम्भश्च जायते || १३ || त्रिकोणे मण्डले लिख्य ज्वाला लाञ्छन लाञ्छिते | शक्त्युग्रे विन्यसेद् रुद्रं त्रिषु कोणेषु चैव हि || १४ || शक्त्या मूले तु मध्याग्रे रिपुसा मन्त्रुगर्भगम् | श्मशान खर्परे लिख्य कपाले वा सुशोभने || १५ || तापिते च ज्वरं घोरं कुरुते नात्र संशयः | विषरक्तेन संलिख्य श्मशान कर्पटे बुधः || १६ || प्. २६अ) षट्कोणे दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् | मारयेदे चिरादेषः श्मशान निहितं रिपुम् || १७ || छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुम् | चक्रधारागतां शक्तिं रिपुनाम समन्वितम् || १८ || अचिरात् परराष्ट्रन्तु क्षयं याति न संशयः | तार्क्ष्येणैव तु बीजेन खड्गमध्ये विलेखयेत् || १९ || द्विदर्भ्य रिपुनामन्तु श्मशानाङ्गारलेखितम् | एकान्ते तु समालिख्य ताडयेच्चिति भस्मना || २० || सप्ताहात् परराष्ट्रञ्च रिपुं वाथ महाबलम् | साधयेन्नात्र सन्देहो मूढं विह्वल चेतसम् || २१ || विष्णुना चार्द्ध चन्द्रन्तु योषिन्नाम कपालके | रोचना लिखितं तप्तं मानये दूर्वसीं क्षणात् || २२ || ध्वजाग्रे लिखितन्नाम ब्रह्मणेन समन्वितम् | ध्वजामूले तथाग्रे च मध्येषु च विदर्भयेत् || २३ || श्मशानाङ्गारलिखितं श्मशानकर्पटे ध्वजे | भूतवृक्षे समारूढं सप्ताहोच्चाटनं भवेत् || २४ || प्. २६ब्) त्रिषु कोणेषु गदायां भास्करन्मस संयुतम् | लिखेद्रोचनया मन्त्री ताडयेज्जाति कुद्मलैः || २५ || अशोक फलके लिख्य आनयेद्गुह्यकादयः | भेदनमीशदिग्भागे शूलाग्रे तु विदर्भयेत् || २६ || श्मशान कर्पटे मन्त्री श्मशानाङ्गारलेखितम् | धत्तूरकरसे नैव ताडयेत् करवीरकैः || २७ || ग्रहा भूताः पिशाचाश्च ज्वरानस्यन्ति तत्क्षणात् | स्वैः स्वैः कर्मविभागेन दूती विद्यां नियोजयेत् || २८ || विद्याङ्गानि प्रवक्ष्यामि येषु कर्मसु युज्यते | अष्टाम्बुजेषु हृदयं शान्तिपुष्ट्यादिकीं क्रियाम् || २९ || वस्याकर्षण कर्मे तु कपालेषु नियोजयेत् | भेदनं छेदनंञ्चैव मारणेषु शिरो भवेत् || ३० || षट्कोणे मण्डले न्यस्तं रिपुनाम समन्वितम् | शिखा स्त्रीणां कपालेषु अर्द्धचन्द्रेषु विन्यसेत् || ३१ || रोचनानाम संयुक्ते ताडितात् कर्षयेत् क्षणात् | कवचेनाष्ट कीलान्तु क्षीरवृक्ष समुद्भवम् || ३२ || मन्त्रिता नित्वरेन्मन्त्री गृहे वाध्वा न जायते | अस्त्रेण वा विधानज्ञः सर्वरक्षां तु कारयेत् || ३३ || प्. २७अ) तारकं नेत्रमुद्दिष्टं शान्तिपुष्टे नियोजयेत् | कपाले भूर्जपत्रे च लिखेदष्ट दलाम्बुजम् || ३४ || सुरक्ता रोचना चैव लिखयेच्च दिशागताम् | गुह्याङ्गानाम संयुक्तं तापयेत् खदिरानले || ३५ भूर्जमाक्रम्य पादेन जपेदष्ट शतं बुधः | आनयेद्देवदैत्यास्तु सिद्धविद्या धरास्तथा || ३६ || यक्षरक्षपिशाचाश्च वश्या जायन्ति किङ्कराः | त्रिकोणे तु ज्वरं दाहं षट्कोणे छेदन मारणम् || ३७ || खड्गेषु पुनरेवै तदर्द्ध चन्द्रे तु पौष्टिकम् | शान्तिञ्च भवते क्षिप्रं ध्वजे वोच्चाटनं भवेत् || ३८ || गदायाः स्तम्भनं कुर्याद् गुह्यकानां तु साधनम् | शूलेषु देवदैवत्यानां त्रासं कुर्वन्ति योषिताः || ३९ || दूती मन्त्रेण संयोज्यं दूतीनां कर्ममेव च | गुह्याङ्गानां तु यत्कर्म दूतीनाञ्चैव यद्भवेत् || ४० || त्रित्रिकेषु च सा विद्या निबद्धा पिण्ड संस्थिताः | त्रिभागभागभागञ्च प्रणीता मुद्रमुद्रिता || ४१ || त्रिभिरादौ त्रिभिर्मध्ये त्रिभिश्चान्ते प्रतिष्ठिता | त्रिभिरन्यैस्तु सा विद्या मुद्रैरुम्मुद्रिता खग || ४२ || प्. २७ब्) भेदिनी वज्रतुण्डा च कराली च त्रितीयासा | प्रस्तारेण तु सा सिद्धा अनेकाकार भेदतः || ४३ || आग्नेययां वज्रतुण्डा च त्रिभिर्वीजे व्यवस्थिता | दहनं शोषणञ्चैव ज्वरञ्च कुरुते क्षणात् || ४४ || कराली नैर्-ऋते चैव त्रिभिरेव व्यवस्थिता | छेदनं भेदनञ्चैव उन्मनीकरणन्तथा || ४५ || प्रणीता त्रिभिः सामीरे विद्वेषोच्चाटनं प्रति | ईशाने त्रिभिरे वै तद्भेदिनी तत्र संस्थिता || ४६ || कीलनं परराष्ट्रस्य पातनं मारणं तथा | अपसव्येन त्रीण्येवं मस्त्रसंघान्निपातयेत् || ४७ || कर्षणीश्चायुधानाञ्चरणे मोहकरी भवेत् | अर्चनी क्रमयोगेन मध्ये द्वित्रिप्रदक्षिणान् || ४८ || पूर्वादि क्रमयोगेन मुद्रा पूर्वक्रमेण तु | नृत्यनं वपनञ्चैव बन्धनञ्च प्रलापनम् || ४९ || अपसव्येन त्रीण्येवमश्मवातजलं तडित् | विद्याव्यक्तमतोद्भीता भेदिनी वन्धनी क्षणात् || ५० || प्. २८अ) पश्यन्ति विग्रहावस्थं मन्त्रिणं रिपुसैन्यकाः | कराली क्रमसोद्भीता तेजः पिण्डं महद्भुतम् || ५१ || पश्यन्ति रिपवः सर्वे त्रस्तायान्ति दिशोदश | एवञ्चतुर्भिः सा देवी त्रिभिरन्यैः खगेश्वर || ५२ || सन्नद्धा विविधैरस्त्रैर्मरुद्गनिः खगोचरे | भेदं चैव तु बीजानां मुद्रा भेदं चतुर्विधम् || ५३ || योपाताति नरः प्राज्ञः सशक्रं विजयिष्पति | एकाकी देवदैत्याश्च यक्षरक्षोगणानपि || ५४ || नागविद्याधराश्चैव गन्धर्वन्नृपसैन्यकान् | क्षणाद्धिज्जयति सङ्ग्रामे भुङ्क्ते राज्यमकण्टकम् || ५५ || इदं सन्नचक्रं तु षोडशारे लिखेद्बुधः | तत्रस्थो धारयेत्तं तुरणे द्यूते जयो भवेत् || ५६ || मोहनं सर्वशत्रूणां स्तम्भनञ्च पराजयम् | धारणादस्य चक्रस्य जयते रिपुसैनिकम् || ५७ || क्षीरवृक्षोद्भवेकीले कुमारी सूत्रवेष्टिते | अलक्तेन तु संद्वन्नैः क्रमाद्वीज स्त्रिभिस्त्रिभिः || ५८ || जप्त्वाचाष्टशतञ्चैकं मष्ट दिक्षु विनिःक्षिपेत् | न्यसेत् पूर्वादि योगेन स्वराष्ट्रस्य विधानतः || ५९ || प्. २८ब्) व्युत्क्रमात् परराष्ट्रस्य बीजैर्मन्त्रैस्त्रिभिस्त्रिभिः | आयसास्थिमया वापि निखनेद्दिग्विदिक्षु च || ६० || स्वराष्ट्रस्य भवेद्रक्षाविषाग्निस्त्वोदकेषुपि | मन्त्रविद्यापरैर्युक्तापरचक्रोपघातनम् || ६१ || कीलितं परराष्ट्रं तु मोहितं सत्य वर्जितम् | बुद्धिवीर्यबलभ्रष्टं मनेकोपद्रवैर्युतम् || ६२ || विघ्नैर्विनाशकैः कृत्यैर्मारी व्याधिनि पीडितम् | साधयेद चिरादेव महादुर्ग समाश्रितम् || ६३ || स्वराष्ट्रस्यैव रक्षन्ते परराष्ट्रस्य कीलनम् | यो विजानाति तत्वेन सभुङ्क्ते पृथिवीतलम् || ६४ || चलादि त्रिक्रमायोगं शिरेनाभ्यङ्घ्रि योगतः | कज्रतुण्डा समायुक्तं मनसा मन्त्रमुच्चरेत् || ६५ || वद्ध्यते कालदष्टोपि कोष्ठाग्ने तु निरोधनात् | द्रवादि त्रिप्रयोगोयं कराला मुद्रया सह || ६६ || जल्पं क्रीडाञ्च कुरुते इच्छया साधक तु | नैर्-ऋत्यादि प्रयोगोयं प्रणीता सहयोजितः || ६७ || प्. २९अ) निर्विषं कुरुते पात्रं हरते त्रिविधं विषम् | व्योमाग्नि योगयुक्तस्तु विलोमेन तदेव तु || ६८ || शिरो ना भौता चांह्रौ योजितो निर्विषी भवेत् | पूर्वादि भेदनी वद्ध्वा दष्ट्रिका या तु कीलनः || ६९ || वज्रा सनीज्वलद्वह्निः क्षणादेव नियोजयेत् | नागराक्षस यक्षांश्चपिशाचान् भूतसाकिनीम् || ७० || ग्रहान्सार्दूल तुरगान्त्राजान् संस्वोद्यतान्नरान् | शकटाद्यात्महायन्त्रान् सम्भयेत् पोतकानपि || ७१ || त्रिनाडिमार्ग संरोधी देहस्थः कुरुते क्षणात् | ईशानादि प्रयोगोयं भवेदिनी मुद्रया सह || ७२ || परराष्ट्राणि सर्वाणि मुद्रयेन्नात्र संशयः | स्फोटयेत् परराष्ट्राणि भग्नं कुर्वन्ति तत्क्षणात् || ७३ || अग्न्याकाशगतो मन्त्री सर्वदुर्गाणि साधयेत् | ईशानाद्यग्नि योगेन कराल्या शस्त्रखातनम् || ७४ || तत्काले धारयेत् क्रोधं मारयेत्त्रिदशानपि | उत्तरादिषु योगोयं सर्वग्रन्थिं निवारयेत् || ७५ || छेदयेत् सर्वपाषाणि पाशस्थोपि भवेद्ध्रुवम् | वायव्यादि प्रयोगोयं वज्रतुण्डा समन्वितः || ७६ || प्. २९ब्) स्तम्भनावेशनञ्चैव कालदष्टस्य मन्त्रिणः | यष्ट्युपानहच्छत्रे वा योजितोष्ट शतं खग || ७७ || तीर्थं याति सहतेन नैव प्राणान् विमुञ्चति | नैर्-ऋत्यादि चलान्तं तु नागाकर्षण कारकम् || ७८ || योगिनी तु पटे लिख्य जाति पुष्पैस्तु ताडयेत् | आगच्छति क्षणादेव अर्थदा कामदा भवेत् || ७९ || याम्यादि त्रिप्रयोगोयं यक्षकन्यां समानयेत् | दहनादि प्रयोगोयं शाकिनीकर्षयेत् क्षणात् || ८० || यत्र स्थाने जपेद्वीरः कराल्या मुद्रया सह | आग्न्यादि त्रिदलान्तं तु कराल्या मुद्रया जपेत् || ८१ || प्रसन्नादर्शयेच्छीघ्रं खड्गाङ्गुष्टे च दर्पणे | दीपे वा सर्वकार्याणि पृष्टास्ते कथयन्ति च || ८२ || ईशानादि नैर्-ऋत्यां तु त्रिषु स्थानेषु योजितः | प्रणीता संज्ञिता ह्येषा क्षणान्नाशयते ग्रहान् || ८३ || दह्यन्ति विक्लवमानास्तु पात्र मुक्त्वा पलायते | चलादिदनान्तंतु त्रिषु स्थानेषु योजितम् || ८४ || प्. ३०अ) प्रणीता संज्ञिता ह्येषा पटे लिख्य पिशाचिकाः | श्मशानाङ्गारकैर्लिख्य कुड्ये वा ताडयेत्ततः || ८५ || चितिभस्मना सप्ताहात् सिद्ध्यतेन्मामदा भवेत् | नैर्-ऋत्याद्यन्तु ईशानां वज्र तुण्डां तु बन्धयेत् || ८६ || आनयेद् गरुड नागाञ्जपमानस्य मन्त्रिणः | कामदाश्च भवन्त्येते साधकस्य न संशयः || ८७ || मध्यादि सव्य चतुरो भेदिनी मुद्रयोजितः | काष्ठपाषाणकावेशः स्वस्थावेशश्च जायते || ८८ || मध्यादि वारुणीं यावद्वज्र तुण्डा समन्वितः | कुष्टाद्या व्याधयो ये तु नाशयेन्नात्र संशयः || ८९ || मध्यादि उत्तरान्तं तु कराली वन्धन्याज्जयेत् | रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः || ९० || रक्षयेदात्मनो हे हं स्ववलञ्च निरोधयेत् | मध्यादि ऐन्द्रपर्यन्तं भेदिनी मुद्रया सह || ९१ || छेदयेत् परमन्त्राणि विषं निर्विषतां नयेत् | आग्नेयीखगतां कृत्वा सर्वदुष्टान्निपातयेत् || ९२ || याम्यादि व्युत्क्रमा मध्यं वज्र संपुट योजितम् | मध्येनाम तु विन्यस्य जलकोष विनाशनम् || ९३ || प्. ३०ब्) वारुण्यादि ततो मध्यं युक्तं कोषदलेषु च | शुद्धवाऽशुद्धतां नेति क्षणान्मन्त्री न संशयः || ९४ || सौम्यादि मध्यमान्तं तु गुरुत्वञ्जायते घटे | पूर्वादि मध्यमान्तं तु लघुत्वं कुरुते क्षणात् || ९५ || कोष्ठकेनादि कर्मं तु व्योमगेन द्वितीयकम् | प्रणीतां वज्रतुण्डाञ्च मुद्रान् तत्र नियोजयेत् || ९६ || भेदस्तेजः शिवः शक्तिरीश्वरः पञ्च आयसे | पात्रे च विषरक्तेन नियुक्ता वज्रमण्डले || ९७ || पूर्वादि क्रमयोगेण मध्येनाम विदर्भयेत् | शुद्धोपि दह्यते तेन स्वयं यदि जलाधिपः || ९८ || ईशः सदाशिवो विष्णुस्तार्क्ष्यश्चैव तु पञ्चमः | वारुणं मण्डलं भूर्जे गोरोचन या समालिखेत् || ९९ || कुलालचक्र मृल्लिङ्गं मध्ये निक्षिप्य मन्त्रवित् | निक्षिपेत् कुम्भमध्ये तु दिव्यस्तम्भो भवेद्ध्रुवम् || १०० || दिव्यस्तम्भकरायेतु सर्वेद्युस्तेजसा वहाः | भूर्जे रोचनया लिख्य वज्रमण्डलमं ध्यतः || १०१ || प्. ३१अ) संज्ञा दूतीभिर्गुह्याङ्गैः प्रतिपक्षस्य दर्भयेत् | आक्राम्यधारयेत्तं तु द्यूतेजयति मानवः || १०२ || तार्क्ष्यः शक्तिः शिवस्तेजो ब्रह्मा पञ्च इमे खग | विवरद्वारमाश्रित्य भेदिनी मुद्रया जपेत् || १०३ || अग्निस्थ खेचरो भूत्वा सर्ववान्द्वारि निःक्षिपेत् | सन्त्रस्ता निर्गमे क्षिप्रं कन्या पातालवासिनी || १०४ || करे गृह्य प्रविशन्ति क्रिडते कल्पमुत्तमम् | दिव्याश्रये जपेन्मन्त्री सिद्ध्यते नात्र संशयः || १०५ || ब्रह्माविष्णुः शिवश्चै सदा शिव सभेदनम् | साधकः स्थिरचित्तस्तु अक्षताङ्गशवोपरि || १०६ || जपेत् सहकराल्या तु वज्रमण्डल मध्यगः | क्षणान्निष्कमते जिह्वा खड्गश्चा गुटिकाथ वा || १०७ || शवस्यैव यद्वा सस्तत्पटं गृह्णते सदा | अन्तर्धानी भवेत् सहिजवैर्भेद स दृश्यते || १०८ || तत्पादचर्ममारूढो जम्बुद्वीपं क्षणात् क्रमेत् | तच्चक्षुरञ्जनेर्युक्तं ग्रहणं सिद्धमञ्जनम् || १०९ || ईशः शक्तिः शिवस्तेजोदारणं पिङ्गला खग | भेदिनीं वन्धयेन् मन्त्री जपेदष्टशतं तदा || ११० || प्. ३१ब्) ज्वलतेग्निं न सन्देह आर्द्रकाष्ठेपि योजितः | अग्निनाडीनिरुद्धा तु कोष्ठगा वीजसंयुता || १११ || भेदनी गर्भ निक्षिप्ता जपेदष्टशतं कुधः | निर्वीजीकरणं ह्येतद् वृक्षं शोषयते क्षणात् || ११२ || पशूनां ग्रहणं क्षिप्रं पाशानां दहनं तथा | व्योमस्थं तु जपेद्ध्येतज्जपाष्ट शतसंख्यया || ११३ || भेदः सदाशिवः शिवोविष्णुर्ब्रह्मापुनस्तथा | अमृतं व्योमगं कृत्वा तत्क्षणाऽप्यायनं भवेत् || ११४ || ब्रह्मातेजः शिवः शक्तिर्गरुडश्च करालिनी | निरुद्धो मरुतः संचारः परराष्ट्रस्य सन्मुखम् || ११५ || जप्त्वा चाष्टशतं यावत् सैन्यमिन्द्रवलोपमम् | कीलयेत् स्तम्भयेत् सर्वं निश्चेष्टं बलवर्जितम् || ११६ || खगोविष्णुः शिवश्चैव सदाशिव उमापतिः | एकया निर्गमो मन्त्री वज्रतुण्डा तु बन्धयेत् || ११७ || निग्रहेन्नाग यक्षाणां ग्रहाणां शाकिनीषु च | भूतप्रेत पिशाचानां दंष्ट्रिणां च निग्रहे || ११८ || प्. ३२अ) नराये दुष्टमनसः पातयेद् विह्वलां क्षणात् | ईशः शक्तिः खगो विष्णुः शिवश्चैव सदाशिवः || ११९ || प्रणीता मृतरोधेन कण्ठमात्र जलेस्थितः | नागाग्रहांस्तथा मेघानानयेष्ट शतेन तु || १२० || महावृष्टिञ्च कुरुते यावज्जलमवस्थितः | सदाशिवः शिवो विष्णुर्ब्रह्मतेजोविदारणः || १२१ || पठे लिख्य बलारूपं सुरूपास्त्री तथाङ्गना | स्वलिङ्गसूत्र जालेन पुराद्येन तु धूपितम् || १२२ || भेदनी अग्नि संचारयोगादष्टशतंञ्जपेत् | तदाभरण रूपेण पटे कन्यावतारणम् || १२३ || तया सहरमेद्वीरः पुराज्येन विवर्जनम् | भेदनं तेजपद्मोर्थं विष्णुः शिवः सदाशिवः || १२४ || कराली भूतवृक्षेषु पिशाचीं दर्शयेद्ध्रुवम् | सिद्ध्यते चैव सप्ताहाज्जप्त्वाष्टशतसंख्यया || १२५ || कर्णे तु वार्त्तां कथ्यन्ते त्रैलोक्ये या व्यवस्थिता | भूतं भव्यंञ्च यत्किञ्चिद्वर्त्तमानञ्च यद्भवेत् || १२६ || भार्या तु भवते सा तु आनयेन्मर्त्त्य योषितः | सदाशिवः शिवोविष्णुः सुपर्णः शक्तिरीश्वरः || १२७ || प्. ३२ब्) षडेते जपमानस्तु प्रणीतां वश्वयेत्कृदिं | मरुत्कोष्ठ समारुद्धं यत्पुष्पं हृदि चिन्तयेत् || १२८ || पारिजातकमेवात्र आकाशात्पातयेद्ध्रुवम् | पत्रं पुष्पं हलं भक्ष्यं मानयेन्नात्रसंशयः || १२९ || गन्धान् मनोरमा दिव्यादिव्या रत्नसेमसुवाससाम् | दर्शयेन् मन्त्रसिद्धिं तु वरभोग्यां तु मन्त्रिणे || १३० || देवाग्नि गुरुकार्येषु स्थित्यर्थमात्मनमा तत् | धारयेत् प्रेषयेदन्यं भेदन्यां खगरुद्गतः || १३१ || सुपर्णः शक्तिरीशानः सदाशिवः शिवो हरिः | प्रेषयित्वा निलंव्योमे प्रणीतां गुह्यदेशतः || १३२ || कन्यसोर्द्ध्वाङ्गुलान्कृत्वा जपेदष्टशतं बुधः | नामस्था न दिशं जातिवर्णरूपं वयस्तथा || १३३ || ज्ञात्वा चैवानयेत्छीघ्रं योजनानां शतादपि | प्रेषणे व्योमगां कृत्वा आत्मस्थञ्चैवकर्षणे || १३४ || नयने व्योमगानाडी कर्मे तद्वा मया भवेत् | वारुणेमणे मध्यगे ऐन्द्र ईशसौम्य च वायवे || १३५ || वद्ध्वा तु भेदिनी मुद्रां मक्षते स्त्री शवेस्थिता | व्योमगस्तु जपेद्वीरः रुत्तिष्ठेन्नात्र संशयः || १३६ || प्. ३३अ) तत्रारूढः क्रमेन्मन्त्री त्रैलोक्यं स चराचरम् | कामरूपधरः श्रीमान् स्वच्छन्दः शक्तिदीपितः || १३७ || समीरोत्तर सीमाने ऐन्द्रमध्ये तु वारुणे | विसुवेन तु रुद्धेन कराल्या मयुतं स्मरेत् || १३८ || मुद्रयेत् तत्क्षणादेव पशुं पातयते क्षणात् | आप्याकाशं स्थितं दीप्तं याम्यां रक्षो दिशाधिपम् || १३९ || शयनस्थो जपेन्मन्त्री यावन्निद्रामुपागता | सञ्चित्य हृदये कार्य वज्रतुण्डा नियोगतः || १४० || स्वप्रमाणवकी विद्याप्रयोगो भुविदुर्लभः | स्वप्नेषु दृश्यते सर्वं यत्कार्यं हृदि संस्थितम् || ४१ || अनेनैव प्रयोगेन सर्वज्ञो जायते नरः | राक्षसं द्रवसामीरं सौम्यं शिवमनोन्मनी || १४२ || तेजसंवारयोगेन कराली वन्धना जपेत् | शत्रूणां दुष्ट सत्वानां ते लक्षं कुरुते सदा || १४३ || गच्छेन्निः शङ्कः चित्तस्तु मन्त्रं मन्त्री हृदिस्थितम् | शत्रून्विजयते सर्वान्ते लक्षाश्चैव मोहितान् || १४४ || प्. ३३ब्) दक्षमध्योत्तरस्तेह पूर्वाचाग्नि दलेषु च | षडेताभिर्जपेन्मन्त्री भेदिनी नाभियोजिता || १४५ || रेचनात्तस्य देवस्य जलं पावक वर्चसम् | कुष्ठादीनां तु व्याधीनां पापानाञ्चैव नाशनम् || १४६ || आग्नेयमैन्द्रमैशाने उत्तरे मध्यदक्षिणे | एकया वज्रतुण्डा तु अस्तु सन्मुखमागतम् || १४७ || स्तम्भयेत् खेचरो भूत्वा कृत्यानेन प्रचोदिताः | याम्यव्योम्योत्तरदले वायव्ये चापरे खग || १४८ || कोष्ठगाद्यग्नि नाडी तु वद्ध्वा मुद्रां करालिनीम् | शाकिनी ग्रहवेताला भूताः प्रेताश्च राक्षसाः || १४९ || नागादह्यन्ति मुह्यन्ति भीतास्त्रस्तारुदन्ति च | आनयेत् पार्श्वतो मन्त्रीकृतकार्यं विमोक्षयेत् || १५० || चलद्रवः खगः शक्तिः शिवतेजः शतेन तु | षड्गुणाहोमिते मन्त्री समहोमेथ गोचरः || १५१ || कर्षयेन्नाम संयुक्तो दिव्यादिव्यास्तु योषितः | उत्तरं व्योमगं याम्यमग्निगं पूर्वमीशगम् || १५२ || प्. ३४अ) होमयेत् सन्मुखो मन्त्री राजिकाष्ट शतेन तु | आनयेदुर्वशीञ्चापि दह्यमानां न संशयः || १५३ || ईशगं पूर्वमग्निस्त्वं दक्षिणं मध्यमोत्तरम् | योगयुक्तो यदा मन्त्री सिद्धार्थे शतहोमतः || १५४ || स क्षिप्रमानयेद्दिव्यां योषितां कामविह्वलाम् | उत्तरं व्योमगं शक्तिर्गरुडो विष्णुपद्मजम् || १५५ || अग्निचार समायोगान्निम्बतैलाक्त होमतः | विद्वेषयेत्क्षणादेवं कामदेव समः प्रियः || १५६ || दहनान्तकरक्षाय चलतेजो विदारकम् | इतिस्तु सप्तभिर्बीजैः रक्षताङ्गं सलक्षणम् || १५७ || आरुह्योरसिभेदिन्या विषुवे कोष्ठगा यदा | वज्रार्गलपुरस्थं तु शतमष्टोत्तरञ्जपेत् || १५८ || महाशब्दो भवेद्भामो ज्वाला जिह्वा सुभीषणा | आरुह्य शववक्त्रे तु क्षीरं भुक्त्वा व्रजेत्ततः || १५९ || श्यामा कतराडुलास्तत्र क्षिप्त्वा च मारभेत् | देवाग्नि गुरुवे दत्वा सहाययेभ्यश्च साधकः || १६० || एकैकं तण्डुलं भक्षेत् उत्पत्तेत् खेचरे पदे | तच्छवमक्षयं दिव्यंञ्जातरूपमयं भवेत् || १६१ || प्. ३४ब्) राज्यार्थं खेचरां सिद्धिं साधकस्य ध्रुवं भवेत् | व्युत्क्रमात् खेचरो मन्त्री वज्रतुण्डाल्लभेदसिम् || १६२ || ऊर्द्ध्वङ्गच्छत्य संदेह्येवङ्ग विद्याधरो भवेत् | रक्षद्रवमरुत्तेजो भेदनं पृथिवी शिरषी || १६३ || व्योमसञ्चारयोगेनयदस्त्रंञ्चालभेत् खग | उत्तिष्ठन्ति न सन्देहः करे गृह्यतदोत्पतेत् || १६४ || अपसव्येन तान्येषयं यं रोचति वाहनम् | यस्य देवस्य यत्प्रोक्तं तदारूह्य जयो भवेत् || १६५ || तदस्त्रमासने मन्त्री उत्पतेन्नात्र संशयः | सिद्ध्यते तत्पुरं तस्य यस्य देवस्य वाहनम् || १६६ || मरुत्तेजो भेदमैन्द्रं शिखि शक्तिः खगेश्वर | परास्त्र मालभेन्मन्त्रीतमारुह्य समुत्पतेत् || १६७ || विलोमेन तु ते वीजाः प्रणीता बन्धना जपेत् | मरुत्कोष्ठ समोपेतान्मानयेन् मृगपक्षिणः || १६८ || भेदमैन्द्रः शिखिशक्तिः सुपर्णोवरुणो महान् | एकां वै वा लिखेत् कन्यांगैरिकारोचनाथ वा || १६९ || प्. ३५अ) सुरूपां तु भगोद्देशे वाम पादेन चाक्रमेत् | प्रणीतां कन्यसां वामा ऊर्द्ध्वां कृत्वा सुपीडिताम् || १७० || ताडिता सर्षपैर्मन्त्रैः शतेनैकेन न नामतः | विह्वला तत्क्षणादेव निःशङ्का मूढचेतसा || १७१ || आगच्छति न सन्देहो महारक्षैः सुरक्षिता | दक्षिणां कन्यसां पीड्य दक्षिणेन क्रमेद्वृति || १७२ || आनयेत् तत्क्षणादेवपुरन्दर समं नृपम् | ब्रह्माविष्णुः सुपर्णश्च शक्तिरीशः सदाशिवः || १७३ || दारणं सप्त एतानि सिद्धवीजा इमे खग | स्वलिङ्गसूत्रनार्यायाः प्रथमं तद्दिने बुधः || १७४ || क्षीरं कन्याकपाले तु पञ्चानन पुरेस्थितः | निशाचरो यदा मन्त्री निशायां साधनं भवेत् || १७५ || कराली वन्धनाद्वीरो जपेन्मन्त्री शताष्टकम् | श्यामाकतण्डुलान्दत्वा पापं संसाधयेत् खग || १७६ || देवाग्नि गुरवे भागं सहाययेभ्यश्च दापयेत् | उत्पतेत् तत्क्षणादेव स्वच्छन्दं क्रीडते खग || १७७ || कपालञ्च ध्रुवं सिद्धिं चिन्तामणि समं खग | यद्यच्चिन्तयते द्रव्यं तत्तदानयते क्षणात् || १७८ || प्. ३५ब्) दारणं तेजयो ब्रह्माविष्णुः खग मनोन्मनी | रुद्रः सदाशिवःश्चाष्टौ करालीह्यग्नि योगतः || १७९ || मरुद्व्योम गतो मन्त्री चिति भस्मन्तु होमयेत् | त्रिसन्ध्यं त्रिदिनञ्चैव चक्रवर्त्ति समं नृपम् || १८० || मारयेन् नात्रसन्देहोनाममन्त्रे नियोजयेत् | भेदनमैन्द्रञ्च छेदनं राक्षसाधिपम् || १८१ || द्रावणं चञ्चलं दीप्तं मष्टावेते विधानतः | नीलार्द्र पटमावृत्य कराल्या सहितञ्जपेत् || १८२ || निरुध्य कोष्ठगोवीरः श्मशानाङ्गारलेखितम् | श्मशानकर्पटेमन्त्री शक्तिभिन्नमधोर्द्ध्वतः || १८३ || दण्डेन चाक्रमेन्नाभौ पादेनाक्रम्य चोरसि | दक्षिणेनाग्नि मार्गस्थं पटोयाषद्विशुष्यति || १८४ || रक्तार्द्रमारयेत्तत्तुमन्त्रौषधि सुरक्षितः | जलार्द्रं त्रिगुणे नैव ब्रह्माविष्णुरुमादयः || १८५ || मारयेन्नात्र सन्देहः प्रयोगोह्यनिवर्त्तकः | सदाशिवेशशक्तिश्चश्च सुपर्णो विष्णुपद्मजः || १८६ || प्. ३६अ) तेजो भेदाष्ट वीजास्तु भेदिनी मुद्रया सह | व्यापयेत् सकलं विश्वं वायुनाव्योमगेन तु || १८७ || तुषार रक्तसंभीते आब्रह्मभुवनान्तिकाम् | नासाग्ने तु परानाडी इन्द्रगोपकरान्निभा || १८८ || पद्मसूत्रनिभा सूक्ष्माभिन्ना सा सूच्यमण्डलम् | गत्वा सोमपुरं यावज्जपेन् मन्त्रशतं बुधः || १८९ || मरुत्कोष्ठगतं कृत्वा कर्षयेत्तां शनैः शनैः | लक्षणाद्वक्त्र मध्ये तु अमृतं कर्षयेत् मुखम् || १९० || तेनामृतेन दीव्येन देहं संतर्पयेद्बुधः | क्रमात् क्रमादिदं योगंमभ्यसेन्नित्यमेव च || १९१ || अजरामरो भवेन्मन्त्री स्वच्छन्दः सर्वगः प्रभुः | चक्रवर्त्तित्वमाप्नोति महाकल्पायुषो भवेत् || १९२ || स्वदिक्थैरष्टभिर्बीजैर्मन्त्रयित्वाष्टकोष्टकम् | सर्कराष्टा तथा चाष्टौ एकैकं तु शनैः शतम् || १९३ || वध्वा करालिनीं मुद्रांमग्निनाडी निरोधनात् | जपेद्व्यष्टशतं मन्त्री अष्टबीजैस्तदेव तु || १९४ || प्. ३६ब्) निरवने क्षेत्ररक्षां तु भस्मं मन्त्री प्रकीरयेत् | आसुतृणजलौकाश्च शलभायाः सरीसृपाः || १९५ || द्राद्यबन्धो भवेदेषां पक्षिणां मृगसूकराम् | पञ्चाननं शिलापट्टे वज्रसंपुटलाञ्छितम् || १९६ || लिखेत् पुरवरं मन्त्री त्वरिता हृदिनन्दनम् | श्मशानाङ्गारलिखितं तालकेन समन्वितम् || १९७ || उन्मत्त रस संयुक्तं लिखेदष्ट दलाम्बुजम् | वोलोमा त्वरितां लिख्यभेदनं कर्णिकोपरि || १९८ || रिपोर्नामानि सर्वाणि कर्णिकोपरि आलिखेत् | वेष्टयेच्चक्रवेगा या ब्रह्मवेतालिनी पुनः || १९९ || वज्रसंपुट मध्ये तु दिशासु विदिशासु च | दूतिकाष्टौ समालिख्य गर्भे तु चतुस्रके || २०० || गुह्याङ्गानि यथा स्थाने हृदयं कर्णिकोपरि | भेदनञ्चक्रवेगाया मध्ये योज्यं खगेश्वर || २०१ || शिवश्चोत्तर गर्भे तु पूर्वगर्भे शिखा भवेत् | दक्षिणे कवचं लेख्यं नेत्रं पश्चिमदिग्गतम् || २०२ || सर्वासु वज्रकोटीषु अस्त्रेणैव तु वेष्टयेत् | पूर्वपश्चिमदिक्तंस्थं दक्षिणोत्तरदिग्गतम् || २०३ || प्. ३७अ) वज्राग्रेण विनिष्कान्तं परिधेन तु भेदयेत् | पूर्वाग्रे वज्रतुण्डा तु शबरी चैव दक्षिणे || २०४ || प्लवङ्गी पश्चिमे भागे पिङ्गला चोत्तरेस्थिता | ईशाग्निस्थ वज्रस्य या रेखा तु विनिर्गता || २०५ || ज्वालिनीं तु समालिख्य अग्निकोणे तु नैर्-ऋते | करालीं तु समालिख्य नैर्-ऋत्यां वायवोत्तगा || २०६ || मनोवेगां लिखेत् तत्र वायवादीश वज्रगाम् | रौद्रीन्तत्र समालिख्य विपरीताक्षरैर्बुधः || २०७ || लेख्याभि सर्वमन्त्राणि अस्मिन्वज्रार्गलेषु च | द्वितीये तु शिलापृष्ठे पुनरेव समालिखेत् || २०८ || पुटित्वान्योन्य सन्धानिवालरज्वा निबन्धयेत् | लेपयित्वा तु शिक्तेन पूजयेद्विधिना ततः || २०९ || पीतकृष्णैस्तथा पुष्पैर्गन्धपुष्पौपहारकैः | निःक्षिपेज्जलमध्ये तु भूमौ वापि निखातयेत् || २१० || चतुष्कालं भवेत् पूजां मन्त्रस्यास्य खगेश्वरः | स्तम्भयेत् परसैन्यानि मोहयेद्बन्धयेत् पुनः || २११|| प्. ३७ब्) भेदयेन् मारयेद्वापि शक्रसैन्यान्यनेकशः | वज्रार्गलेन संरुद्ध्वा भयत्रस्ताः सुविह्वलाः || २१२ || निरस्तागतवीर्याश्च वेपमानाभयार्दिताः | शत्रवः सुखसाध्याश्च इन्द्रतुल्या महाबलाः || २१३ || वज्रार्गलेन संरुद्ध्य पदमेकं नयान्तिते | मनस्तम्भं वक्त्रस्तम्भं गतिस्तम्भं भवेद्ध्रुवम् || २१४ || पञ्चाननस्य विन्यासं वज्रार्गलस्य मुद्रणम् | यो जानाति खगेशेदं स रिपुं विजयिष्यति || २१५ || भेदनं परिधैर्बाह्यं दिव्यानां स्तम्भनं स्फुटम् | घटाग्न्यायविषं कोषं स्तम्भयेन्नात्र संशयः || २१६ || अशुद्धं शुद्धतां नेति विपरीत पदेस्थितम् | क्रमाक्षरे नियुक्ता तु विद्या पञ्चानने पुरे || २१७ || शुद्धं तु दहते क्षिप्रं मायसे पात्र निर्मले | शिखिपित्तेन वा लिख्य शुद्धञ्चा शुद्धतां नयेत् || २१८ || भूर्जे रोचनयालिख्य एतद्वज्रार्गलपुरम् | तत्र स्मैर्मन्त्रबीजैस्तु रक्षां देहे तु कारयेत् || २१९ || वेष्टिता तारहोमे नरक्षेयं तु महाबला | अकालमृत्त्यु दहनीराजोपद्रवनाशनी || २२० || प्. ३८अ) दिव्यादिव्यानि विघ्नानि विषाग्न्यापभयान्यपि | दंष्ट्रिणाञ्चरिपूनाञ्च ध्वंसनी तु सुरक्षिणी || २२१ || प्रारब्धानां तु कार्याणां सिद्धिदा पुष्टिदायिका | सौभाग्यकरणी नित्यं धार्या खगेश्वर || २२२ || द्यूतेन मोहयेद्ध्येषा प्रतिपक्षं रणेषु च | वन्ध्यानां पुत्रदाह्येषासौ भाग्यकरणी भवेत् || २२३ || चिन्तामणिरिवात्रेयं यत्रयत्रोप युज्यते | साधयेत् सर्वक्रमाणि विधिं विज्ञाय तत्त्वतः || २२४ || उक्ताये लेख्य यन्त्रास्तु गुह्याङ्गास्र रणं लिखेत् | पुनस्तु दूत्यावरणं ततो मन्त्रास्तु सिद्धिदाः || २२५ || पञ्चाननस्य या विद्या विंशाक्षरमुदीरिता | पञ्चाननपुरे विद्यां पञ्चभागेन चालिखेत् || २२६ || आदिमध्ये तु पूर्वेण साध्येन तु विलेखयेत् | यत्र माक्रमते तेन ततः क्षिप्रं प्रसिद्ध्यति || २२७ || दूतयोनाडि कार्येषु आदौ योज्य विचक्षणः | मुद्रास्तु चैव संयोज्य ततः कर्माणि कारयेत् || २२८ || प्. ३८ब्) वज्रतुण्डा च ज्वालिनी विषुवे तु नियोजयेत् | वामया चैव संयोज्य शवरी च करालिनी || २२९ || प्लवङ्गी च मनोवेगा दूतयश्च तथाग्रतः | कपिला चैव रौद्री च चक्रवेगा तृतीयका || २३० || ब्रह्मवेतालिनी चैव चतस्रोषु ह्यनाडिकाः | वज्रतुण्डा ज्वालिनी च वज्रतुण्डे नियोजयेत् || २३१ || शवरी करालिनी चैव कराल्या तु नियोजयेत् | प्लवङ्गी मनोवेगा च प्रणीत् मयां नियोजयेत् || २३२ || कपिला चैव रौद्री च भेदन्यातु नियोजयेत् | चक्रवेगा स बीजानां ब्रह्मवेतालिनीं न्यसेत् || २३३ || नाडीभिश्चार संयुक्तं दशदूती समन्वितम् | सन्नद्धं पञ्चमुद्राभिः स्त्वरिता भेदनिश्चयः || २३४ || गुह्याङ्गं मन्त्रसंयुक्तो अस्त्रेण च सुरक्षितः | साधयेत् सर्वत्सिद्धीनियोगहीनोपि साधकः || २३५ || इत्याद्ये त्रोटले त्वरितामूलसूत्रे अष्टमः पटलः || प्. ३९अ) अथातः संप्रवक्ष्यामि क्रियाज्ञानञ्च मन्त्रजम् | प्रथमं ब्रह्मरन्ध्रे तु शतञ्वारं नियोजयेत् || १ || स तु मध्ये द्विभिश्चान्यैर्द्विभिरन्यैर्विभावसुः | सोमं द्विभिः सुसंरुद्धं सूर्यमेकेन रोधयेत् || २ || भेदकेन हृदिस्थानं रोधयित्वा तु मन्त्रिणः | देहस्थं तत्क्षणादेव आत्मस्थेन परेण तु || ३ || प्रेरितस्त्व बला बीजैस्तेजरूपैर्महर्द्धिकैः | गच्छते पह्ननालेन वायुना चैव निष्क्रमेत् || ४ || एतत्कर्म प्रणीतायाः कारयेन् मन्त्रिणस्ततः | आदौ प्रेतस्य कर्तव्यं कर्मचैतत्खगेश्वर || ५ || निवोधयेद्धृदिस्थाने वायुदेशे च तद्भवेत् | भेदन्या भेदयेद्वायुंविशेत् परपुरं सुखम् || ६ || यद्यपि कृमिसंकीर्णं कुच्छितं शोपमागतम् | छिन्नं भिन्नं महास्त्रैस्तु नयते यत्र रोचते || ७ || अथवा शोभनं पात्रं पुरुषो वा वलापि वा | भोगाशक्त प्रविष्टस्तु क्रीडते यावद्रोचते || ८ || पुनस्तेन प्रयोगेण निष्काम्येत् प्रविशेथ वा | अनेनैव प्रयोगेण श्रोत्रं शिष्णे निरोधयेत् || ९ || प्. ३९ब्) प्रथमं ब्रह्मरन्ध्रे तु नैव योज्यं तदेव तु | निरोधं वा गुदे देशे भेदनं हृदि विन्यसेत् || १० || भेदिनीमुद्रया मन्त्री ज्वलत्पिण्डं सुतेजसम् | क्षणेनोत्क्रमणं कृत्वा आत्मनश्च परस्य वा || ११ || निष्कमेद् ब्रह्मरन्ध्रेण मोक्षं याति परापरम् | यं गत्वा न निवर्तेत सर्वव्यापी शिवो भवेत् || १२ || तारकं ब्रह्मरन्ध्रे तु प्रथमं से तु मध्यतः | पुनस्त्रिकमग्निमार्गे सोममार्गे पुनस्त्रिकम् || १३ || भेदनञ्चैव संयोज्य सूर्यमण्डलमध्यगम् | तारकं हृदये स्थाने योजयेच्छिष्यदेहतः || १४ || प्रणीता वन्धनान् मन्त्री व्योमस्थं नैव कारयेत् | क्षणेनोत्थापनं कुर्याद् दृष्ट्वा सर्वमिदं जगत् || १५ || स्वपुरा सूक्ष्ममूर्तिस्थः शिवादव निगोचरम् | वद्ध्वा तु भेदिनी मुद्रां रेचयित्वा समीरणम् || १६ || भेदनञ्चैव संयोज्य गुल्फदेशे तु मन्त्रिणः | विशते ग्रन्थिमार्गे तु भिद्यते नात्र संशयः || १७ || जानुदेशे तु मन्त्रज्ञस्तेज पिण्डं नियोजयेत् | कटिनाभि हृदिकण्ठे वक्त्रे भूमध्यमूर्द्धनि || १८ || प्. ४०अ) विलोमान्यस्त वीजास्तु प्रणीतां बन्धयेद् हृदि | ग्रन्थिभेदं तु हृद्देशे यावत् कुर्वन्ति मन्त्रिणः || १९ || अतीतानागतं सर्वं वर्त्तमानञ्च विन्दति | तालग्रन्थि विभेदेन मन्त्रिणश्च खगेश्वर || २० || श्रवणं मननञ्चैव रक्षदूरात् प्रवर्तते | उद्गिरेत् सर्वशास्त्राणि दिव्या वाणी प्रवर्तते || २१ || भ्रूमध्ये भेदयित्वा तु पश्यते विन्दुमुज्वलम् | पश्यते भुवनान् सर्वानात्मना देहमध्यतः || २२ || मूर्द्ध्नि ग्रन्थि विभेदेन भवते व्यापकः शिवः | निष्कलः परमः सूक्ष्मः पञ्चभूत व्यवस्थितः || २३ || यावन्न भेदयेद्रक्तं प्राणायामयुतेन तु | द्विपञ्चगुणिते नैव स्वच्छन्दः सर्वगो भवेत् || २४ || प्रणीतां बन्धनान् मन्त्री व्योमस्थो जपमारभेत् | मूर्द्ध्वा मूर्द्ध्नि गतो वीर एकान्ते विजनेस्थितः || २५ || ध्यायेच्च सकलां विद्यां नववीज समन्विताम् | स्वरूपेण स्वदेहेन जपेत् साधक पुङ्गवः || २६ || चतुर्थे तु ततो लक्षे दर्शनं श्रूयते निशि | मुद्रा मूर्द्ध्नि गतो मन्त्री प्रणीता जपमाचरेत् || २७ || प्. ४०ब्) निर्घोषञ्च महारौद्रमट्टहासं सुभीषणम् | आगच्छन्ति महागुह्याः सिद्धयोगेश्वरेश्वराः || २८ || दूतीभिः सहिता भीमास्तेवा मर्घं प्रदापयेत् | हृदये गुह्याङ्गाणां नामस्तृक्ष्युस्य जलेन तु || २९ || प्रणीता मुद्रया चैव तेन तृप्यन्ति गुह्यकाः | सिद्धिं मनेप्सितात् कामांल्लभते नात्र संशयः || ३० || ततोह्य दृश्यतां यान्ति पुनरेव जपेत् सुधीः | लब्धानुज्ञो जपेन्मन्त्रं साधकश्च न संशयः || ३१ || पञ्चमे तु पुनर्लक्षे त्वरितां पश्यते स्वयम् | वज्रं पुत्रं महावीर खेचरत्वं सुदुर्लभम् || ३२ || पूर्वोक्तार्थ प्रदानेन विद्याया तु नवाक्षरा | प्रणीतां बन्धयेन् मूर्द्ध्नि दण्डवद्व सुधातले || ३३ || प्रणम्य तृप्ता सा देवी तत्रैवान्तरधीयत | यागं कृत्वा तु पूर्वोक्तं दर्शने दर्शने सुधीः || ३४ || होमयेल्लक्षमेकं तु तिलाज्यं पुरफल्लुषम् | मेषाजं महिषं नारं लक्षे पूर्णेऽग्नि मध्यतः || ३५ || दृश्यते त्वरिता देवी पूर्णाहुत्यां वशानतः | ततश्च हृषृ मनसा अर्घ्यं दद्यात् सुभाषितः || ३६ || प्. ४१अ) वीरो हृत् क्षुभित चित्तस्तु तच्च साहसमाचरेत् | उक्तवती तदा देवी साधुपुत्र महातपः || ३७ || आराधिता सुभक्तेन उत्तिष्ठोत्तिष्ठगम्यताम् | खेचरत्वं महासिद्धिं सहायसहितो व्रज || ३८ || ततः श्चोत्तिष्ठते वीरः सहाय सहितो नभम् | तेजो राशिं महादीप्तो व्रजते यत्र रोचते || ३९ || स्वच्छन्दः सर्वगो नित्यं शिवत्वमक्षयं लभेत् | अस्थि चर्मावशेषं तु शुष्कपिण्डाश्च देहिनः || ४० || साधकानुचराये तु सहायामृत्त्युमागताः | तेप्यर्ध बिन्दुं संस्पृष्टास्तपः शक्त्योपबृंहिताः || ४१ || देव्याः शक्तिसमोपेता मन्त्र तेजः समन्विता | दिव्यारूपधरो भूत्वा त्रिनेत्र मुकुटोज्वला || ४२ || उत्पतन्ति महात्मानः खेचरत्वं सुदुर्लभम् | क्रीडन्ते सर्वलोकेषु शिवशक्त्योपबृहिताः || ४३ || एषा शैवी महाशक्तिरवार्या सर्वकर्मसु | कलौयुगेपि पक्षीश सिद्धिदा नात्रसंशयः || ४४ || प्. ४१ब्) त्वरिता हृद्गमाशीघ्रा क्षिप्रा दीप्तासु सिद्धिदा | तीक्ष्णा भयावहा चण्डा उग्रा संक्षिप्त सिद्धिदा || ४५ || तेन सात्वरिता देवी वीराणां त्वरित सिद्धिदा | त्रोटलेतन्त्रसारे तु नववीजाः पराः स्मृताः || ४६ || सर्वकर्मकरी विद्या तार्क्ष्यते कथिता मया | नववीज विधिं ज्ञात्वा भेदं भेदेन भेदितम् || ४७ || एकबीजा नवप्रोक्ता द्विबीजा पञ्च एव तु | त्रिभिर्बीजैश्च द्वात्रिंशच्चतुर्भिरष्ट एव तु || ४८ || पञ्चभिश्च भवेदष्ट षड्भिश्चैव तु षोडशः | सप्तबीजैर्भवेदष्ट अष्टभिश्च तुरो भवेत् || ४९ || मिश्रकर्म द्वयं प्रोक्तं गुह्याङ्गैरष्ट एव तु | दूतीभिश्चाष्ट कर्माणि एव मष्टोत्तरं शतम् || ५० || गुरुवक्त्रादिमां प्राप्य सर्वसिद्धिफलं लभेत् | अष्टोत्तर कर्मशतं वस्तुविन्दति देशिकः || ५१ || सरुद्रः सशिवः साक्षाद्भुक्तिमुक्तिं लभेद्ध्रुवम् | साधयेत् परराष्ट्राणि राज्यश्च पृथिवी तले || ५२ || पापहासर्वमर्त्यानां सर्वानुग्रहकारकः | यः स्मरेत्त्वरिता विद्यां ज्ञानतोऽज्ञानतोपि वा || ५३ || प्. ४२) सकृदुच्चारयेच्चापिन्यास मात्रेण वर्तते | सस्नातः सर्वतीर्थेषु सर्वयज्ञफलं लभेत् || ५४ || धर्माधर्मैर्नलिप्येत मोक्षं याति सनातनम् | यत्किञ्चिद्वाङ्मयं सर्वमशेष भुवनान्तिकम् || ५५ || तत्सर्वं त्वरिता मध्ये प्रविष्टं तु खगेश्वर | येन ज्ञाता परा विद्या सर्वगा कामगा शुभा || ५६ || तस्य सिद्धमिदं सर्वं त्रैलोक्यं स चराचरम् | अन्यतन्त्रे मया तार्क्ष्य भ्रामिता मन्त्रमुद्रया || ५७ || गोपितं सिद्धिकारं तु त्रोटले तु प्रकाशितम् | त्रोटलं ये विजानन्ति भेदभिन्नमनेकधा || ५८ || मच्छक्ति प्रेरिता रुद्रा जम्बुद्वीपेषु वर्तते | मानुषाणां हितार्थाय अनुग्रहरता सदा || ५९ || नियुक्ता अधिकारेषु आचार्यास्ते खगेश्वर | वन्धाः पूज्याश्चानुमोद्यामान्यास्ते नित्यमेव तु || ६० || येनेदं कारणं दिव्यं रहस्यं मन्त्र निर्गतम् | निःसंदिग्धं तन्त्रार्थं ख्यापितं विधिना स्फुटम् || ६१ || प्. ४३) भुक्तिमुक्तिप्रदातारं तद्गुरुं पूजयेत् सदा | रहस्यं परमं ह्येतत् सर्वज्ञानोत्तमं खग || ६२ || अपरीक्ष्य न दातव्यं कार्यं गुप्ततरं त्वया | दातव्यं तु सुशिष्याय भक्ताय च तपस्विने || ६३ || निवेदितात्मनो चैव त्रोटलं तन्त्रमुत्तमम् | मूलविद्या तु विद्याङ्गाः सप्त एव प्रकीर्तिताः || ६४ || षट्संख्यातास्तु गुह्याङ्गा दूतयस्तु दश स्मृताः | एकं पञ्चाननं विंशचतुर्भिरधिकानि च || ६५ || अक्षराणां तु चैकत्र त्रिसप्तत्यधिकं शतम् || शतैः सप्तभिराख्याता पटलैर्नवभिस्तथा || ६६ || लक्षाधिका समुद्धृत्य सारात्सारं सुसिद्धिदम् | इत्याद्ये त्रोटले महातन्त्रे त्वरितामूलसूत्रे नवमः पटलः समाप्तः || ########### END OF FILE #######