#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00534 Uniform title: troṭalottara Secondary title: tottalottara Manuscript : NGMCP 5-4844 Reel: B 126/15 Description: A Gāruḍa tantra. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 14, 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) ओं नमः शिवाय || अस्मिंस्तु त्रोटले तंत्रे त्वरिता नाम वा स्मृता | सिद्धिदा सा समुद्दिष्टा विद्येयं कामरूपिणी || सुपर्णस्य मुखोद्गीर्णा देवदेवेन भाषिता | सा विद्या परमा गुह्या गुह्यानामपि गुह्यका || गुह्यानां च परा विद्या सा विद्या सर्वकामिका | दशलक्षस्य तंत्रस्य पूर्वमेव समुद्धृता || अन्यतंत्रसहस्राणि अस्य विद्या विनिःसृता | एततस्त्वरिता नाम विजेयास्तु नवाक्षरा || मर्दनी सर्वनागानां सप्तपाताल क्षोभणी | उत्पत्तिः सर्वबीजानां योनिरेवा प्रकीर्तिता || एषा विद्या परा गुह्या गुह्यागुह्येश्वरी स्मृता | ईश्वरी सर्वगुह्यानां यत् तूर्णासाध्यमुत्तमा || हृदयं सर्वदेवीनां सिद्धसिद्धेश्वरेश्वरी | सर्वकर्मकरी विद्या अशेषभुवनायिका || सिद्धिदा सर्वकामेषु इहलोके परत्र च | दुर्लभा सर्वदेवानां ऋषीणां योगिनामपि || कल्पे कल्पे नया सिद्धा देवगन्धर्वकिन्नराः | ऋषयश्च तपो दृष्ट्वा मुनिविद्या धरादयः || यक्षरक्षपिशाचाश्च सिद्धयोगेश्वरेश्वरी | हृदयं सर्वदेवानां सिद्धानां योगिनीषु च || मर्दनी सर्वनागानां सप्तपाताल वासिनाम् | त्रैलोक्ये च इमां विद्यां दशलक्षेश्वरेश्वरि || मानुषाणां हितार्थाय फलमेतावतारिता | इमां विद्यापुरा सिद्धा व्रतचर्या विवर्जिता || क्लिम्पन्ति मानुषा मर्त्ये सर्वकर्मे शुभाशुभे | येन सिद्ध्यन्ति वै क्षिप्रमोक्षं यान्ति परापरम् || विद्याधरत्वमिच्छन्ति चक्रवर्ति सुरेश्वरम् | नागक्रीडा प्रकुर्वन्ति मर्त्ये कौतूहलान्विता || ये खेचरत्वमिच्छन्ति सिद्धयोगेश्वरैः सह | स्वच्छन्दमृत्युमिच्छन्ति यावदेव सदाशिवम् || राज्यसिद्धिं प्रयच्छन्ति द्रव्यसिद्धिस्त्वनेकधा | आकर्षणादिकर्माणि तत् तव्या कुरुते ध्रुवम् || मारणोच्चाटनं वश्यं स्तंभनं छेदभेदनम् | परसैन्यविभेदं च यंत्राणां च निकृन्तनम् || मोहनी सर्वदुष्टानां भयाहाराक्षसादिभिः | य इमां धारयेद् विद्यां सकृदुच्चारणादपि || ज्वलन्तो दृश्यते सो हि सुपर्णो हि शूलिनम् | शतमष्टोत्तरे जप्ते पूर्वसंध्या तु मानवः || यः स्मरेत इमां न स रोगैस्तु पीड्यते | वाक्सिद्धिः प्रथमे पश्चादाकर्षच्छेदन त्रयम् || उत्तिष्ठ स्वन्यवादं च विषकर्म चतुर्थकम् | पंचमं खेचरत्वं च षष्ठं निर्वाणदं पदम् || विद्या कामदुहा सृष्टा सर्वकर्मेश्वरेश्वरी | इमां विद्यां महं तार्क्ष उद्गिरामि स लक्षणम् || येन कर्ममकुर्वन्ति व्रतयागविवर्जितम् | लक्षणं संप्रवक्ष्यामि संक्षेपेण निबोधत || ऐं हूंकारद्वय संयुक्तं खेचद्वे पदभूषितम् | वर्गातीतं विसर्गश्च स्त्रीं हूं क्षैं फट् च वै स्मृता || एषा विद्या महाविद्या स्वयं तार्क्ष सुरेश्वरी | येन कर्म विना नास्ति तत्प्रयोगं वदाम्यहम् || अनुलोम विलोमेन समस्तव्यस्तयोगतः | प्रयोगं येन विन्दन्ति तत्रेस्मिन् त्रोत्तलोत्तरे || अप्रयोगात् कुतः सिद्धिः कुतः कर्म विपश्चितम् | अस्मिञ्छास्त्रे समुत्पन्ना मंत्रकोट्याह्यनेकशः || प्. १ब्) शास्त्रे शास्त्रे स्थिता मंत्राः प्रयोगास्तत्र दुर्लभा | संप्रयोगां प्रवक्ष्यामि संक्षेपो न तु विस्तरात् || हूं स्वे च छे क्षः | इत्ययं प्रयोगकालदष्टमप्युत्थापयति | विसर्गरहिते न पातयति | बिन्दुयुक्तेन निर्विषो भवति | वामहस्तमष्टमसहस्राभिमंत्रितं कृत्वा | भूम्यां नाममालिख्य नववारान् प्रोक्षयेत् | यस्य नाम्ना स तत्क्षणादेव ज्वरेण गृह्यति | विसर्गसहितेन नामं ताडयेद् राजिकायां तं हस्तमालिप्य योजनानां शतं गत्वातिः | अथ स्वस्थि कर्तुकाम भूर्जपत्रे नामं क्षीरेणाभिलिख्य सकल विद्यायां सकृज्जप्तं क्षीरे क्षिपेत् | अथवा पिवतो दप्यं स्वस्थो भवति मानवः | हूंछेक्षः | अयं प्रयोगस्त्रि दशैरपि दुर्लभः यस्मिंस्थानेसु चरति सप्तपातालः भुजङ्गेश्वरा विद्रापयति | दष्टकत्पापं प्रयोगस्त्रिषु स्थानेषु चिन्तयेत् | मूर्ध्नि हृदये पादाभ्यां निर्विषो भवति तत्क्षणात् | विषपलशतमाप्य हरति मंत्रेच्छति तंत्र संक्रामयति | अनेनैव प्रयोगेण हूंकाराद्यन्त युक्तेन पातिकास्तंभयति | नागगणगंधर्वयक्षराक्षससाकिनीभूतप्रेतपिशाचगजतुरंगशरभ-ऽऽ सार्दूलसिंहव्याघ्रादयोदुष्टचेतसा स्तंभयति | वृक्षनामयति | शकट यंत्रता वा स्तंभयति | नागमुखाश्च निर्विषी करोति | सकल विद्यया मनसा सकृज्जप्तेन अस्यैव प्रयोगस्यान्ते हूंकार विमुक्तेनाकर्षणोत्कर्षणस्तंभनो स्तंभनं छेदतो छेदतः | यत्किंचित् स्वस्थीकरणे अयमेव प्रयोगामोघः वाचा सिद्धि प्रवर्तते | ग्रहाहापतेद्वालानां वालग्रहानाशयेत् | फट् स्त्री क्षे हूं | अयं प्रयोगं ज्ञात्वा किमर्थ क्लिष्यन्ति मानवाः | प्रयोगं सर्वतंत्रेषु ईदृशं न भविष्यति || एकान्ते निर्जने गत्वा शुचिः स्नानो तुरामुखः | कृतरक्षापरो भूत्वा लक्षां चारभ्य यत्नतः | जपेत् साधको धीरयदीच्छेत् सिद्धिमुत्तमाम् | चतुर्थे तु ततो लक्षे दर्शनं दृश्यते निशि || निर्घोषं च महारौद्रमट्टहासं महारवम् | आगच्छन्ति महागुह्या सिद्धयोगेश्वरेश्वरी || साधकेन तु दातव्य मर्घंपाद्यं सुसंस्कृतम् | अंते मंत्र वषट्कारं तेन तृप्यन्ति गुह्यकाः || व्रजपुत्र महावीर खेचरत्वं सुदुर्लभम् | तदुत्तिष्ठ महावीरो देहेनानेन साधकः || विचरेद्भुवनां दिव्यां शक्तिभिः परिवारितः | महाप्रलयमंते च शिवो भूत्वा तु खेचरः || अयं सिद्ध प्रयोगन्तु न तु विजायते क्वचित् | सिद्धाते भागहीनो हि नियोगं च मनुस्मरः || शत्रूणां घातनं चक्रे सर्वविद्यां समुद्धरेत् | आद्यन्तेव प्रयोगस्य षट्कारं योजयेद्बुधः || घातये नृपति क्षिप्रं चक्रवर्ति स् * * * ? | फट्कारेण वियुक्तेन हूंकाराद्यन्त योजितः || कालदष्टं च संप्राप्तं सतीर्थम् प्रेषयिष्यति | शर्करोटश्चतुर्गृह्य नागकुण्डे तु प्रक्षिपेत् || आदि हूंकारमन्ते च फट्कारान्ते नियोजयेत् | अनेनैव प्रयोगेण सप्तसप्ताभि मंत्रिता || प्रथमं क्षोभयेत्कर्ण नागराजा महाबलम् | द्वितीये चलते स्थाने नागराजेश्वरः प्रभुः || प्. २अ) तृतीये दृश्यते छत्रं त्रैलोक्यं सहनान्तिकम् | चतुर्थे दृश्यते देवं नागराजा स वासुकिः || यदि दृश्यति यत्नेन नागोयं विषदर्पितः | जंबूद्वीपं मुहूर्तेन भस्मराशिं करिष्यति || अयं संहरते देवं प्रयोगमेव बुद्धिमान् | आद्यन्ते च वषट्कारं तृप्तो राजा गमिष्यति || प्रयोगमे तदाख्यातं सिद्धिदं सम्यगेप्सितम् | सकलस्य तु मंत्रस्य प्रयोगं च वदाम्यहम् || येन ज्ञातं सुरैः सर्वैः सिद्धैर्-ऋषिभिकिन्नरैः | अक्लेषेण यथासिद्धिर्जम्बूद्वीपे वदाम्यहम् || मानवायेन सिद्ध्यन्ति व्रतयाग विवर्जिताः | हूं खेचछेक्ष स्त्रींहूंक्षे फट् || इमां विद्यां मया तार्क्ष्य दधतं प्राक् सुगोप्यतः | प्रस्तारेण सुरेशानि सोपदे शंखयेश्वरः || सकृदुच्चारिता देवि सर्वपाप क्षयंकरी | प्राणायाम सहस्रेषु योगध्यान शतेषु च || सकृदुच्चारिता विद्याधर्माधर्मैर्नलिप्यते | याति वै परमं स्थानं यत्र देवो महेश्वरः || कर्मं चास्या प्रवक्ष्यामि येन सिद्ध्यन्ति मानवाः | देहशुद्धिं पुरा कृत्वा पश्चात् कर्म समारभेत् || सकृदुच्चारिता विद्या देहशुद्धिर्भवेद्ध्रुवम् | वाचा सिद्धिर्भवेत्तस्य वै न तेय समो भवेत् || मुद्रा प्रणीतां वद्धा तु मंत्रसौम्य मुदीरयेत् | कालदष्ट समुत्तिष्ठेद काले पुनका कथा || फट्कारेण विसर्ग स हि तेन प्रणीता युक्तेन पातयति | विसर्गसहित मंत्रमुच्चार्य प्रणीतां वद्धायावड्डाकिनी भूतपिशाच ब्रह्मराक्षसयो न जातयो यावत्प्रणीता न मुंचन्ति तावद्दह्यन्ति विलयन्ति प्रणीता मुंचेयन सौम्यभावेन विद्यामुच्चरेत् | ततः सौम्यत्वं यान्तिते ध्रुवम् | जप्त्वा चाक्षर लक्षाणि निधानाधि पतिर्भवेत् | द्विगुणेन भवेद्राजा गुणैश्वर्य समन्वितः || त्रिगुणैः पश्यते देवी यक्षिणी कामरूपिणी | तया सहमहावीर क्रीडते कल्पचोदितः || चतुर्गुणैर्महासिद्धिर्याति योगेश्वरी पदम् | तत्समः खेचरो भूत्वा क्रीडते च यथेच्छया || पञ्चेगुणेन ब्रह्मत्वं विचरेद्ब्रह्मवद्यथा | षड्गुणेन तु विष्णुत्वं प्राप्यते नात्रसंशयः || तिष्ठते यत्र विष्णुस्तु सिद्धिस्तस्य ध्रुवं भवेत् | क्रीडते समासत्वो लक्ष्मीवासो महातयाः || हरिस्तुल्यो महावीर्यो विचरेद्भुवनेश्वरः | जप्त्वा सप्तगुणं विद्यां यान्ति देवं सदाशिवम् || धर्माधर्म विमुक्तः साधकेश्वरः | विचरेत् स महावीरो महादेव समो भवेत् | जप्त्वा चाष्टगुणा विद्यागच्छेन्निर्वाणकं पदम् || त्वत्प्रियाच्च मयाख्याता मोक्षमार्ग विशोधनी | इयं ज्ञात्वा च यष्ट्वा च भूयो मर्त्येन जायते || याति वै परमं स्थानं यं गत्वा न निवर्तते | एकवीर महाविद्या एकतस्त्वरिता स्मृता || मानुषाणां हितार्थाय तार्क्षते कथिता मया | अतः कर्म न कुर्वन्ति आलस्योपहता नराः || स्मरणा त्रीणि कालानि गुणैश्वर्य यथेप्सितम् | तस्याहं धनमिच्छामि भक्ति युक्तो जपेद्यदि || प्. २ब्) तस्यापि धनदो यक्षो देव्यादेशाद्ददेद्भृशम् | पूजां कृत्वा हमेकोपि एककालं तु यः स्मरेत् || तस्य कामदुहा धेनुर्गृहेनित्यं प्रतिष्ठिता | सर्वव्रीही तु यो नित्यमेककालं तु चार्चयेत् || आहूत्या नव सप्तस्ताः श्रियाप्रत्यक्षतो गृहे | तिलानां नित्यहोमेन शतमूर्ध्वं त्रिभागताम् || तस्य विद्या परा देवि प्रत्यक्ष कामदा भवेत् | ददाति विप्रलान्भोगा यच्चान्यमनसेप्सितम् || सकली भूतो स्मरेद्यस्तु अभियुक्तो यथेप्सया | नासौ वध्यते केनापि मृत्युकालैर्महाग्रहैः || महाव्याधिभिदुष्टैर्वानासौ वध्यति केन हि | सकली करणं वक्ष्ये विद्याया परमेश्वरी || अक्षराणां विभागंश्च देवतार्चन कल्पना | पूजाग्नि मण्डलं चैव देव्या संप्रवदाम्यहम् || करन्यासं पुरष्कृत्वायस्तदंगे नियोजयेत् | वामांगुष्ठे तु हूंकारं खेकारं तर्जनीषु च || चकारं मध्यमायान्नुच्छेकारं तु अनामिका | क्षकारन्तु कनिष्ठायां वामहस्ते तु विन्यसेत् || दक्षिणे तु पुनर्वक्ष्ये यथावदनु पूर्वशः | स्त्रींकारं तु कनिष्ठायां हूंकारं च अनामिका || क्षेकारं मध्यमे दद्यात् फकारं तर्जनि न्यसेत् | टकारं दक्षिणांगुष्ठे करसंस्कार कीर्तितम् || कथयिष्यामि ते तार्क्ष्य अङ्गन्यासमतः परम् | मूर्ध्नि विन्यस्य हूंकारं खेकारं मुखमण्डले || चकारं कण्ठदेशे तुच्छेकारं हृदये न्यसेत् | क्षकारं सविसर्गन्तु नाभिमध्ये व्यवस्थितम् || स्त्रींकारं गुह्यदेशे तु हूंकारद्वे तु ऊरुभिः | क्षेकारं जानुनीद्वेतु फट्कारं पादयोर्न्यसेत् || एतदक्ष रविन्यासाद्विद्या देहो भवेत् क्षणात् | ज्वलन्तो दृश्यते सोहि दिव्यादिव्यैः सुरासुरैः || देवता कल्पनं वक्ष्ये अक्षराणां महेश्वरी | हूंकारं सकलन्देवं कालान्न भुवनेश्वरम् || खेकारं वायुदेवत्यमाकाशे तु व्यवस्थितम् | चकारमिन्द्र देवत्यं सिद्धयोगेश्वरेश्वरम् || च्छेकारं परमाशक्ति दशग्रन्थि निकृन्तनी | क्षुरिकानामसाख्याता परनिर्वाणगामिनी || छेदनी सर्वपाशानां स्मृत्वा मोहैर्न वाध्यते | वर्गातीतं विसर्गेण महातार्क्षेश्वरेश्वरीम् || स महाभैरवमिति अनन्तेशो खगेश्वरम् | स्त्रीकारं चात्रिदैवत्यं योगिनां हृदयं परम् || हूंकारं रुद्रदैवत्यं सदाशिवमनामयम् | क्षेकारं परमायोनि सिद्धिदा गुह्य संभवा || फकारं तु स्वयं देवीमुमां स्त्रि भुवनेश्वरीम् | सा योनिः सर्वयोगीनां सर्वयोगेश्वरेश्वरी || टकारं परमन्देवमर्द्धमात्रेश्वरेश्वरम् | अर्धचन्द्राकृतिः सूक्ष्मं परव्योमं परापरम् || देवता कल्पना तार्क्ष कथितं च विभागसः | अर्चनं संप्रवक्ष्यामि येन सिद्ध्यन्ति वै ध्रुवम् || पूर्वमक्षरविन्यासं सकली कृत्य चात्मनि | वर्गातीतं विसर्गेण दिशा वन्धयते मही || आवाहनासनं चार्घं मर्चनं प्रेषणं तथा | सर्वमेतन्तु कर्तव्यं सविसर्गेण मंत्रिणः || हूंकारं कर्णिके न्यस्य खेकारं पूर्वजे दले | चकारं वह्निजे स्थाने च्छेकारं दक्षिणे न्यसेत् || प्. ३अ) क्षकारं सविसर्गन्तु नैर्-ऋत्यांदिशि विन्यसेत् | स्त्रींकार चैव वारुण्यां हूंकारं वायवेदले || क्षेकारं चोत्तरेन्यस्य मंत्री ध्यान परायणः | फट्कारं परमाशक्तिरीशान्यांदिशि विन्यसेत् || क्षकारं सविसर्गञ्च दिशासु विदिशासु च | अर्चने चाग्निकार्ये च एष एव विधिः स्मृता || सिद्ध्यन्ते भाग्यहीनोपि अचिरेणैव साधकः | अषा विद्या महावीर्या पुरासृष्टा न वाक्षरा || अर्थदा मोक्षदा चैव विषदर्प विनाशनी || हूं च्छेखे च || अयं प्रयोगः छालदष्टमप्युच्चारयति | उत्थापयति च || फट्काराद्यन्तयुक्तेन पातयति || हूंस्त्रींहूं || अयं प्रयोगः परमसिद्धः | अनेन कथानिकाख्यानेनोत्थापयति || विषय लशतपिहति || यत्रेच्छति तत्र संक्रामयति || अनेनैव प्रयोगेणाष्ट सहस्राभिमंत्रिते न पटेनदष्टकमृतकं छादयेत् || अयं प्रयोगस्त्रिषु स्थानेष्ठ चिन्तयेत् || तत उत्तिष्ठति निर्विषो भवति || अनेनैव प्रयोगेण स्त्रियं दृष्टमदृष्टं वा प्रणीता मुद्रां वद्धा यावत् सहस्रम् आवर्तयेत् || तावद् योजनशतादप्याकर्षयति | हूंकाराद्यन्तयुक्तेन चकारं दत्वा प्रेषयति || खे क्षः || अयं प्रयोगमनसा दृष्टमात्रदष्टकशीर्णपतितो वादसु स्थापयति | कालदष्टमपि तीर्थे प्रेषयति || आद्यन्त फट्कारयुक्तेन ब्रह्मराक्षस योनयः भूतप्रेतपिशाच चातुर्थक प्रभृतयस्मरणादेवनिकृन्तयति || स्वेच्छया कर्मकरोति || हः फट् हूं फट् च्छे फट् || अयं प्रयोगश्चिति भस्मनाहुति सहस्रेण यस्य नामं दत्वा जुहोति स चक्रवर्तीश्वरमपि प्रहरार्द्धेन मारयति || काकपक्षशतं गृह्योन्मत्तकरसेन जुहुयात् सद्रव्यधनपतीश्वरमपि देशादुच्चाटयति | न पुनः पुरेवर्तति || अनेनैव प्रयोगेण सर्पकीटकां स्नानोदकेन निर्विषो भवति | तिलपुष्पैस्त्वरिता पूजां कृत्वा सर्पकण्ठकानामष्टसहस्रान्निर्विषो भवति | यावच्छ तत्रयं होमपतितावत् सर्पसहस्राणि आगच्छन्ति | महीं छाद्यद्वारेतिष्ठन्ति || तैः सह क्रीडयति | स्वेच्छया कर्मकरोति | सप्तपाताल भुजंगेश्वरामाकर्षयति | पृष्ठतोनुचरा भवति | दष्टभयं तस्य काकथा | मारण प्रयोगेन कर्म करोति | हूं खेफट् छेदनं | आद्यन्त हूं स्तंभनम् | खेस्त्रीखे | अयं प्रयोग स्त्रिलक्षं जपेदाकाशगामित्वविद्याधरत्वसिद्धः योगेश्वरतुल्यो भवति | महाराज भुजंगेश्वराणांमाकर्षणोत्थापनमारणोच्चाटनस्वेदनोद्भेद न विषदर्पापहारं च करोति | कालदष्टकस्य छत्रयष्टिं वा उपानहौ वा सप्ताभि मंत्रितं कृत्वा तीर्थम् प्रेषयति || क्षःस्त्रींक्षः || अयं प्रयोगः शत्रुशस्त्रमुद्यतहस्तं दृष्ट्वा वामहस्त त्रिजप्तं कृत्वा दर्शयेच्छस्त्रं स्तंभयति तत्क्षणादेवदासवत्तिष्ठति || प्. ३ब्) पं रोचते तं ददाति || रोचनालक्तकमेकतः कृत्वा त्रिवारं जप्य ललाटे शिखा मध्ये तिलकं कारयित्वाऽयं प्रयोगो मनसा जपमानो नृपतिं पश्येत् क्रुद्धोपि द्रव्यप्रसन्नो भवति || गन्धपुष्पफलं वापि खड्गवस्त्रमुपानहौ | त्रिजप्तं नृपते देयं स्त्रीषु क्षुद्रेषु काकथा || एकमेव तु यो दद्याद् वशं कर्यात् पुरन्दरः | स्त्रीणां मैथुनकाले तु यः प्रयोगमनुस्मरेत् || अयमेव जपेत् सोहि नान्यं पुरुषमिच्छति | गन्धपुष्पविलेपं च तांबूलं रोचना तथा || सकृज्जप्तप्रयोगेण स्त्रीणां वै स्वामिनो भवेत् | सकृज्जप्त्वा जले स्नाप्य फलं तीर्थसहस्रशः || सर्वविद्या जपेद् यस्तु सर्वमंत्राभिषेचनम् | व्याधिभिः पीड्यते नासौ महारोगैस्तु दारुणैः || धर्माधर्मैर्न लिप्येत पदं यान्ति मनामयम् | यं गत्वा न निवर्तेत शिवो भूत्वा खगेश्वर || मुद्राणां लक्षणं वक्ष्येरार्धमुद्रेश्वरेश्वरी | करौ कृत्वा ग्रतोन्नानौ मध्यमांगुष्ठ पीडयेत् || तर्जन्यौ चोर्ध्व संसृत्य वाहू द्वौ दण्डवत् कृतौ | वद्धात्वियं महामुद्रा सिद्ध्यर्था तेन सा भवेत् || यावद् वा जपते विघातेन सा सिद्धिदा भवेत् | सारमुद्धृत्य तंत्रस्य सहस्रैकादशस्य तु || त्रोटलस्य समाख्याता त्वरिता सर्वकामदा | द्विशतं परिमाणेन श्लोकानां परिकीर्तितम् || नाख्येयं यस्य कस्यापि रक्षणीयं खगेश्वर | अरक्षणाद्भवेद्धानि चोरेभ्यो द्रविणं यथा || ओं हिरण्य पुरुषोनाम गंभीराक्षो महाबलः | तेनैवं प्रेषिता मुक्त्वा स्थानं मुंचतु च स्वाहा || इति त्रोटलोत्तरे महातंत्रे एकादशसाहस्रस्य पंचत्रिंशतिमोध्यायः || इति त्वरिताज्ञानकल्प समाप्तः || इदानीं संप्रवक्ष्यामि देव्यामूर्ति खगेश्वरः | निःसन्दिग्धं च सुस्पष्टं शृणुष्वावहितोधुना || क्षीराब्धिहारकुन्देन्दुतुषारामृतसंनिभाम् || तडित्कोटिप्रभादीप्ता सुदुष्प्रेक्ष्या सुरासुरैः || १ || सड्वक्त्राष्टादशदृशा विवोष्ठी चारुहासिनी | एकैकमक्षरं देव्या द्वौ भुजौ नयनानि च || २ || सर्वलक्षणसंपूर्णा सर्वाभरणभुषिताः | नागकङ्कणकेयूरहारनूपुरमेखला || ३ || खड्गदण्डाक्षिचक्रं च गदाशूलं च मार्गणम् | शक्तिश्च वरदं दिव्यं दक्षिणेन धृतायुधा || घण्टापाशहंलं शंखं पद्मांकुशशरासनम् | तर्जनी वाभयं देव्या राजते वामपाणिषु || धर्मसिंहासनं दिव्यं हिमादिशिखरप्रभम् | ललज्जिह्वो ज्वलन्नेत्रो तीक्ष्णदंष्ट्रोति भीषणः || तीक्ष्णाग्रनखशुक्त्या च भुवनानि विदारयन् | पूर्वकायोत्थितोर्द्धास्य प्रसन्निव चराचरम् || त्वरिता तत्र चारूढा वामजंघा प्रलंविता | दक्षिणा द्विगुणान्तस्यापादपृष्ठे समर्पिता || सहस्रदलचांभोजे वामपादकृत्दरा | देवाङ्गवस्त्रसंछन्ना मुखवर्णन्तु ब्रह्मवत् || मध्यं तु हरितगौर्या जपमुकुटमण्डिता | नवशीर्षाहिछत्र स्यात् सफणामणिमण्डिता | प्. ४) कथिता स रहस्यन्तु सहस्रैकादशे मते | इति ते कथितं तार्क्ष त्वरिता त्रोटलागमे || स्पष्टेन कथितं सम्पद्भान्यस्मै संप्रकाशयेत् | रक्षणीयं प्रयत्नेन जननी जारगर्भवत् || इति त्रोटलोत्तरो नाम समाप्तः || ओं नमस्त्वरितायै || हूंकारेरित मातृचक्र निखिलाधत्ते करैर्दक्षिणेयावजाशिशर त्रिशूलवरदं चक्रं च शक्तिं गदाम् | दण्डश्चापिसुरारिदर्पदलनीं वा सु प्रचण्डाषुधा सा देवी विदधातु सिद्धिमतुलांतां ध्यायतां शांकरीम् || १ || खेलंत्यापि च वामतोपि विधृतं पाशांकुशं तर्जनीघण्टाशंखकरं सरोजमभयं भीमं धनुर्भासुरम् | ताराचक्रतरंवितां वरनिभापुष्पोत्कर भ्राजिता यस्या मूर्ध्वतनूरूहाभिकलितासामे करोत्वीहितम् || २ || चं चद्दण्डविश्रावनन्तकुलिकौयस्याज्वलत् कुण्डलौ विस्पष्टस्फुटकण्ठपीठलुठितोहारीकृतो वासुकिः | चक्रे तक्षक शंखपालरुचिरौ सद्धस्तयोः कंकणौ सा पातु त्वरिताभिधा भगवती लोकत्रयं चण्डिका || ३ || छेदक्षाभव पाशजालमखिलं तच्छेवकानां यया कांचीस्थान निवेशितो विषधरः कर्कोटदंष्ट्रोत्कटः | पादांभोजयुगे च पद्मकमहापद्मौ लतौ नूपुरौ सा लोकत्रयकरण्यैषु जननी पुष्णा तु पुष्टिं नृणाम् || ४ || क्षःकारारवहास्यभासुरमुखी भ्रूवाय चक्रोत्कटा देवेन्द्रायुध सन्निभासकमलां दत्त प्रमोल्लासिनीम् | चन्द्रार्कानललोललोचनवतीं ध्यायन्ति ये त्वां हृदि ते विद्याधरचक्रवर्ति पदवीं मातर्लभन्तेविरम् || ५ || स्त्रीभावं चरितापि या भगवती लोकत्रयैर्वन्दिता ब्रह्मेन्द्रादि किरीटिमण्डलमणिप्रोजासितांघ्रिप्रभा | चन्द्रार्द्धाङ्कित मौलि रंबुज दलप्रोत् सर्पिनेत्र त्रया सा काली विकरालि गौरिसमरीमातंगिनी पातुवः || ६ || क्षेत्रस्या लभनं विधाय विधिना तत्क्षीर वृक्षोद्भवाः कीलांदूति समाश्रयां दशदिशि आरोपितान्नक्षितः | तत् सन्नकृत मंत्रविग्रह शुचिर्यच्चिन्तयेच्छांभवी निर्विघ्नः स च चिन्नितार्थमचिरादाप्नोति यद्दुर्लभाम् || ७ || हूंकृत्युद्युतकत्वरान्तरवहष्यष्ठ प्रभामण्डलादुत्तुंगद्विपकुंभविभ्रमकुचव्याशक्त मुक्ताफलाम् | शुक्लांभोरुहकर्णिकोपरिकृत प्रीताभिरामस्थितिः तार्जन्केशरिपृष्ठनिष्ठितपदं स्वप्राय वर्गप्रदा || ८ || फट्कारास्त्र सुरक्षिते त्रव पुषो ध्यायन्ति येत्वां नद्ये तेषां हस्ततले स्थिता इव भवत्यष्टौ महासिद्धयः | भूतप्रेतपिशाचरक्षभुजगावज्ञ्यासदोपाशते निर्वाणं च समाश्रयन्ति सुतरां देव्या प्रसादादथ || ९ || ख्यातं सार्धन वाक्षरं तव शिवेबीजं जनैर्दुर्लभं ये जानन्ति जपन्ति सक्रममथ व्यस्तं समस्तं तथा | अर्द्धार्धश्चतदर्धमुद्धतधियस्तेषामनङ्भद्रुता कामिन्यस्तुपुरः पतन्ति सुरसत्कल्लोल लीलावती || १० || प्.५) यं यं काममपेक्षसिक्षितिविपत्वांसेवयन्निक्षितौ तंत्रेषां वरदे कराश्रितमिव प्रायः पुरावर्तते | तस्या दाक्षुतरं विहाय सकलं सेव्यात्वमेकां जनः साक्षात् कल्पलतेव मातरि पुनः किं वर्ण्यसे मादृशैः || ११ || ये नित्यं परिकीर्तयन्ति जननि स्तोत्रं तव श्रीमते ये शृण्वन्ति च सादरं यदि गृहे संलिख्यचाधारितम् | ते नन्दन्ति निराकुलान च भयं चौरानलोत्पातजं ते सर्वत्र हि पूजिता विजयि नरते वल्लभा भूतले || १२ || इति त्वरितास्तोत्रं शार्दूलविक्रीडितं द्वादशश्लोकं समाप्तमिति || इति मंगल महाश्रीः || ओं नमः शिवाय || प्रवालांकुरवर्णाभ मुदितार्कसमप्रभम् | आधारे तिष्ठते वर्णं हूंकारं च सुरार्चितम् || १ || कुसुंभकुंकुमछायं पीतवर्णं महाद्युतिम् | स्तंभनं सर्वभूतानां खेपदं चाति दुर्लभम् || २ || शुद्धस्फटिकसंकाशं सौदामणिसमप्रभम् | मणिपूरे स्थितं देवि च वर्णं शांतिकारकम् || ३ || सजलजलदाभासांलिकुलाकार संनिभाम् | छेदयं तिष्ठते देवि नाहते मृत्युदं प्रिये || ४ || अतसी पुष्पसंकाशं शुद्धमाकाश वर्चसम् | विद्वेषणं महाप्रीतौ विशुद्धौ क्षत्पदं प्रिये || ५ || इन्द्रगोपकसंकाशं जातिहिंगुल वर्चसम् | वश्याकर्षणकर्तारं आज्ञास्थाने तु स्त्रीपदम् || ६ || देवेन्द्रायुधवर्णाभं विचित्रवर्णसंकुलम् | गद्यपद्यप्रवाहं च कुरुते क्षेपदेश्वरे || ७ || हंससुभ्राजसंकाशं पुष्पराग समप्रतिम् | अध्वस्थं जाह्नवी तत्र हुं पदं तु सदाशिवे || ८ || सदाशिवोर्द्ध तश्चैव व्यापकातु अधः स्थितम् | भुक्तिमुक्तिप्रदातारं फपदं देवदुर्लभम् || ९ || व्यापकं निर्मलं शुद्धं गतिरागतिवर्जितम् | येन ज्ञात्वा भवेन्मुक्तिरर्धमात्रा सु उच्यते || १० || एवं नवात्मिका विद्या नवचक्रे व्यवस्थिताः | योभि जानाति देहस्थं तस्य सिद्धिर्नदूरतः || ११ || यो जानाति स योगेन्द्रजानीस्याऽऽच्च न संशयः | भुक्तिमुक्तिप्रदं दिव्यं नान्यभावं समाश्रयेत् || १२ || इति सार्द्धनवाक्षर्यास्थानविन्यासध्यानसूत्रं समाप्तमिति || ########### END OF FILE #######