#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00247 Uniform title: uddhārakośa Main title: uddhārakośa śrīdakṣiṇaamūrti viracita Secondary title: A Dictionary of the Secret Tantric Syllabic Code: Daksinamurti Uddarakosa Editor : raghuvīra Editor : Taki Shodo Description: A short dictionary of Mantras. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 05, 2012 Publisher : Publication year : 1938 Publication city : Lahore Publication country : India #################################################### श्री-दक्षिणामूर्ति-विरचित उद्धारकोशः आचार्य-रघुवीरेण तदन्तेवासिना तकिवंशोद्भवेन शोदवेन च परिष्कृतः Oरिगिनल् एदितिओन् fइर्स्त् पुब्लिस्हेद् इन् १९३८ उद्धारकोशस्य विषयाः प्रथमः कल्पः प्रकाशम् श्लोकाः भूमिका १-१९ ७ शारिका-मन्तः ५३ १ त्रिपुरा-मन्त्रः २०-२३ (१८) सिन्धुर-बीजानि ५४ (१) लक्ष्मी-बीजानि २४-२५ (१९) आकाश-बीजानि ५५ (२) ह्रीं-बीजानि २६ (२०) कल्याण-बीजानि ५६ (३) मदन-बीजानि २७ प्रकाशम् (४) वाग्भव-बीजानि २८ ८ राज्ञी-मन्त्रः ५७-५८ (५) शक्ति-बीजानि २९ (२१) अग्नि-बीजानि ५९ (६) ओंकार-बीजानि ३० प्रकाशम् प्रकाशम् ९ भेडा-मन्त्रः ६०-६१ दश-विद्याः ३२ प्रकाशम् षोडश-विद्याः ३३-३५ १० ज्वालामुखी-मन्त्रः ६२ २ लक्ष्मी-मन्त्रः ३६ प्रकाशम् (७) नीर-बीजानि ३७ दश-विद्यानां गुणाः ६३-६७ प्रकाशम् द्वितीयः कल्पः ३ सरस्वती-मन्त्रः ३८ त्रिपुरा-षट् सख्यः १-४ प्रकाशम् ११ भद्रकाली-मन्त्रः ५ (८) नमो-बीजानि ३९ (२२) भद्रिका-बीजानि ६ ४ तारा-मन्त्रः ४० प्रकाशम् (९) ह्रां-बीजानि ४१ १२ तुरी-मन्त्रः (१०) स्त्री-बीजानि ४२ (२३) तारका-ज्योतिस्- (११) कूर्च-बीजानि ४३ तारा-बीजानि ८ (१२) फट्-बीजानि ४४ प्रकाशम् प्रकाशम् १३ छिन्नमस्तका-मन्त्रः ९ ५ भुवनेश्वरी-मन्त्रः ४५ प्रकाशम् (१३) मन्त्र-बीजानि ४६ १३* वज्रवैरोचनीया-मन्त्रः १० प्रकाशम् प्रकाशम् ६ मातङ्गी-मन्त्रः ४७-४८ १४ दक्षिणाकाली (-कालिका) (१४) काली-बीजानि ४९ -मन्त्रः ११-१२ (१५) वागुरा-बीजानि ५० प्रकाशम् (१६) चारुक-बीजानि ५१ १५ श्यामा-मन्त्रः १३ (१७) पद्म-बीजानि ५२ प्रकाशम् प्. २) १६ कालरात्री-मन्त्रः १४-१५ ३४ अनलप्रिया-मन्त्रः ४३ प्रकाशम् प्रकाशम् भेदाः ३५ तारा पृष्ठं ३० (१) त्रिपुरा-भेदाः १६-१९ (आ कल्पान्तं न मन्त्रोद्धारः) (२) लक्ष्मी-भेदौ २० प्रकाशम् (३) सरस्वती-भेदाः २१ ३६ तारिणी ३० (४) तारा-भेदाः २२ प्रकाशम् (५) भुवनेश्वरी भेदाः २३ ३७ एकजटा ३० (६) मातङ्गी-भेदाः २४ प्रकाशम् (७) शारिका-भेदौ २५ ३८ नीलसरस्वती ३० (८) राज्ञी-भेदौ २६ प्रकाशम् (९) भेडा भेद-विहीना २७ ३९ उग्रतारा ३० (१०) ज्वालामुखी-भेदाः २८ प्रकाशम् (११) त्रिपुरा-भेदाः ३०-३१ ४० भैरवी ३० १७ त्रिपुरा-मन्त्रः ३२ प्रकाशम् १८ भैरवी-मन्त्रः ३२ ४१ भीमरूपा पृष्ठं ३१ १९ हिङ्गुला-मन्त्रः ३२ प्रकाशम् २० चण्डिका-मन्त्रः ३२ ४२ भीमा ३१ २१ चामुण्डा-मन्त्रः ३३ प्रकाशम् २२ नारसिंही-मन्त्रः ३३ ४३ भुवनेश्वरी ३१ २३ ऐन्द्री-मन्त्रः ३३ प्रकाशम् २४ हैमवतीश्वरी-मन्त्रः ३३-३४ ४४ मातङ्गी ३१ २५ मृडानी-मन्त्रः ३४ प्रकाशम् २६ वारुणी-मन्त्रः ३४ ४५ सुमुखा ३१ २७ दुर्गा-मन्त्रः ३४-३५ प्रकाशम् २८ महात्रिपुरसुन्दरी-मन्त्रः ३५ ४६ चक्रिणी ३१ प्रकाशम् प्रकाशम् २९ श्री-मन्त्रः ३८ ४७ कुब्जिका पृष्ठं ३२ ३० रुक्मिणी-मन्त्रः ३९ प्रकाशम् प्रकाशम् ४८ शाम्बरी ३२ ३१ वाग्देवता-मन्त्रः ४० प्रकाशम् प्रकाशम् ४९ अपर्णा ३२ ३२ वाणीभगवती-मन्त्रः ४१ प्रकाशम् प्रकाशम् ५० हैमवतीश्वरी ३२ ३३ सरस्वती-मन्त्रः ४२ प्रकाशम् प्रकाशम् ५१ अम्बिका पृष्ठं ३३ प्. ३) प्रकाशम् प्रकाशम् ५२ भगरूपिणी ३३ पञ्च बालकाः ४९-५२ प्रकाशम् षट् कुमारकाः ५३ ५३ भद्रकाली श्लोकः ४६ सप्त बालकाः ५४ प्रकाशम् ६४ गणेश-मन्त्रः ५५-५६ ५४ दक्षिणाकालिका ४६ प्रकाशम् प्रकाशम् ६५ कुमार-मन्त्रः ५७ ५५ छिन्नमस्तका पृष्ठं ३४ (३२) छवि-बीजानि ५८ प्रकाशम् प्रकाशम् ५६ वज्रवैरोचनी ३४ ६६ कार्तवीर्यार्जुन-मन्त्रः ५९-६० प्रकाशम् (३३) शुक्र-बीजानि ६१ तृतीयः कल्पः प्रकाशम् भूमिका श्लोकः १-१० ६७ हनुमन्-मन्त्रः ६२-६५ सप्त-विद्याः ११-१६ प्रकाशम् ५७ वज्रयोगिनी-मन्त्रः १७ ६८ भैरव-मन्त्रः ६६-६७ प्रकाशम् (३४) अभ्र-बीजानि ६८ मन्त्र-यन्त्र-फलानि १८-२६ (३५) अब्धि-बीजानि ६९ ५८ वाराही-मन्त्रः २७-२९ (३६) कल्प-बीजानि ७० (२४) वाह्लीक-बीजानि ३० (३७) शतघ्नी-बीजानि ७१ (२५) तमो-बीजानि ३१ प्रकाशम् प्रकाशम् ६९ महामृत्युंजय-मन्त्रः ७२ ५९ शारदा-मन्त्रः ३२ प्रकाशम् प्रकाशम् ७० सुग्रीव-मन्त्रः ७३ ६० कामेश्वरी-मन्त्रः ३३-३५ प्रकाशम् (२६) चन्द्र-बीजानि ३६ चतुर्थः कल्पः (२७) ऊर्मि-बीजानि ३७ नव-ग्रहाः १-५ (२८) स्तन-बीजानि ३८ ७१ आदित्य-मन्त्रः ६-७ प्रकाशम् (३८) अम्बर-बीजानि ८ ६१ गौरी-मन्त्रः ३९ प्रकाशम् (२९) शिव-बीजानि ४० ७२ बुध-मन्त्रः ९ प्रकाशम् (३९) षडानन-बीजानि १० ६२ अन्नपूर्णा-मन्त्रः ४१-४२ प्रकाशम् प्रकाशम् ६३ कुलवागीश्वरी-मन्त्रः ४३-४५ ७३ शुक्र-मन्त्रः ११ (३०) इच्छा-बीजानि ४६ प्रकाशम् (३१) नर्तकी-बीजानि ४७ ७४ बृहस्पति-मन्त्रः १२-१८ प्. ४) प्रकाशम् ग २६ ७५ चन्द्र-मन्त्रः १९ घ २७ (४०) नाट्य-बीजानि २० ङ २८ प्रकाशम् च २९ ७६ भौम-मन्त्रः २२ छ ३० (४१) वेधो-बीजानि २३ ज ३१ प्रकाशम् झ ३२ ७७ शनैश्चर-मन्त्रः २४-२५ ञ ३३ प्रकाशम् ट ३४ ७८ राहु-मन्त्रः २६-२७ ठ ३५ (४२) गर्जित-बीजानि २८ ड ३६ प्रकाशम् ढ ३७ ७९ केतु-मन्त्रः ३० ण ३८ (४३) वृष्टि-बीजानि ३१ त ३९ प्रकाशम् थ ४० पञ्चमः कल्पः द ४१-४२ सर्व-वर्ण-कोशः ध ४३ भूमिका १-४ न ४४ अ ५ प ४५-४६ आ ६ फ ४७ इ ७ ब ४८ ई ८ भ ४९ उ ९ म ५० ऊ १० य ५१ ऋ ११ र ५२ ॠ १२ ल ५३ ऌ १३ व ५४ ॡ १४ श ५५ ए १५-१६ ष ५६ ऐ १७-१८ स ५७ ओ १९ ह ५८ औ २० क्ष ५९ अं २१ षष्ठः कल्पः अः २२ द्वयक्षराणां पृथङ् नाम १ क २३-२४ तिस्रो भुवन-देवताः २-४ ख २५ ८० भवानी-मन्त्रः ५ प्. ५) प्रकाशम् हैहय-ध्यानम् ६७-६९ ८१ बगलामुखी-मन्त्रः ६-८ मृत्युंजय-ध्यानम् ७०-७२ (४४) मृद्-बीजानि ९ सुग्रीव-ध्यानम् ७३-७५ प्रकाशम् हनुमद्-ध्यानम् ७६-७७ ८२ इन्द्राक्षी-मन्त्रः १०-११ भैरव-ध्यानम् ७८-७९ (४५) प्रस्थ-बीजानि १२ सूर्य-ध्यानम् ८०-८१ प्रकाशम् सौम्य-ध्यानम् ८२-८३ ८३ खेचरी-मन्त्रः १४-१६ शुक्र-ध्यानम् ८४-८५ प्रकाशम् जीव-ध्यानम् ८६-८७ ध्यानानां भूमिका १७-१८ चन्द्र-ध्यानम् ८८-८९ सप्तमः कल्पः भौम-ध्यानम् ९०-९१ ध्यानानि शनि-ध्यानम् ९२-९३ त्रिपुरा-ध्यानम् १-३ सैंहिकेय-ध्यानम् ९४-९५ श्री-ध्यानम् ४-६ केतु-ध्यानम् ९६-९७ वाग्देवी-ध्यानम् ७-९ भवानी-ध्यानम् ९८-९९ तारा-ध्यानम् १०-१२ बगलामुखी-ध्यानम् १००-१०२ भुवनेश्वरी-ध्यानम् १३-१५ इन्द्राक्षी-ध्यानम् १०३-१०५ मातङ्गी-ध्यानम् १६-१८ खेचरी-ध्यानम् १०६-१०८ शारिका-ध्यानम् १९-२१ अवसान-वचनानि १०९-११३ राज्ञी-ध्यानम् २२-२४ परिशिष्टानि भेडा-ध्यानम् २५-२८ प्रथमं परिशिष्टम् पृष्टानि ज्वालामुखी-ध्यानम् २९-३० घ-हस्तलेखे पाठान्तरे ८६-८७ भद्रकाली-ध्यानम् ३१-३३ द्वितीयं परिशिष्टम् तुरी-ध्यानम् ३४-३६ पुरुष-नामानि ८८ छिन्नमस्ता (-मस्तका)-ध्यानम् ३७-३९ तृतीयं परिशिष्टम् दक्षिणाकालिका-ध्यानम् ४०-४२ नदी-पर्वत-नगर-नामानि ८८ श्यामा-ध्यानम् ४३-४५ चतुर्थं परिशिष्टम् कालरात्री-ध्यानम् ४६-४७ मन्त्र-नामानि ८८-८९ वज्रयोगिनी-ध्यानम् ४८-४९ पञ्चमं परिशिष्टम् वाराही-ध्यानम् ५०-५१ बीज-नामानि ८९-९० शारदा-ध्यानम् ५२-५३ षष्ठं परिशिष्टम् कामेश्वरी-ध्यानम् ५४-५५ ध्यान-नामानि ९०-९१ गौरी-ध्यानम् ५६-५८ सप्तमं परिशिष्टम् अन्नपूर्णा-ध्यानम् ५९-६० तन्त्र-नामानि ९१-९२ कुलवागीश्वरी ध्यानम् ६१-६२ अष्टमं परिशिष्टम् गणेश-ध्यानम् ६३-६४ मन्त्रोद्धाराः ९३-१०८ कुमार-ध्यानम् ६५-६६ संस्कृत-आङ्गल-शब्द-कोशः १०९-११७ श्रीदक्षिणामूर्ति-विरचित उद्धारकोशः प्. ३) [१.५] एकदा स्फाटिकोर्वीभृत् सानौ वनसमाकुले | संस्थितौ पार्वतीशंभू लोकरक्षणतत्परौ || १ || पार्वती परमेशानं प्रोवाच वचनं हितम् | देवदेव सुरश्रेष्ठ दयात्रैगुण्यमानस || २ || देवी भगवती देव महात्रिपुरसुन्दरी | अस्मिंश् चराचरे व्यक्ते क्रूरे केन प्रकाशिता || ३ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि गोप्यं तव कुतूहलात् | रेवातटे महापुण्ये श्रीगर्भा नाम सत्पुरी | अस्ति त्रैलोक्यविख्याता सर्वभूतलशेखरा || ४ || तस्यां बभूव विप्रेन्द्रदेवगन्धर्वसेवितम् | पुण्यं तपोवनपदं नानावृक्षसमाकुलम् || ५ || प्. ४) [१.१४] तस्मिंस् तपोवने पुण्ये सेविते ऽपि मुनीश्वरैः | ऋषिः स्याद् दक्षिणामूर्तिस् तदाराधनतत्परः | नानाशास्त्राब्धि पोतोऽपि सर्वागमनिधिर् अभूत् || ६ || एकदा स्नातुम् आयातो रेवां पुण्यजलान्विताम् || ७ || प्राक्पुण्यकर्मणा तस्मै तुष्टा त्रिपुरसुन्दरी | जलमध्ये स्थिता गोप्त्री महात्रिपुरसुन्दरी || ८ || स्वमूलं शिक्षितो देव्या शुद्धं चामृतरूपकम् | सत्वरं फलदं गोप्यं स मुनीन्द्रशिरोमणिः || ९ || तदा प्रभृति तन्मन्त्रं ध्यायन् स्तोत्रं जपन् हृदि | तत्प्रभावान् महादेवि ग्रन्थं कर्तुम् इयेष सः || १० || तदनुग्रहमात्रेण स मुनीश्वरपूजितः | ग्रन्थम् उद्धारकोशाख्यं चकार मन्त्रसागरम् || ११ || अन्यान् नानाविधान् ग्रन्थान् प्रेक्ष्य त्रैलोक्यपूजिते | तदा प्रभृति देवेशि प्रसिद्धं भूमिमण्डले | ग्रन्थम् उद्धारकोशाख्यं सर्वागमविनिश्चितम् || १२ || श्रीदेव्युवाच देवदेव जगन्नाथ भक्तानुग्रहकारक | श्रोतुम् उद्धारकोशाख्यं नानागमविनिश्चितम् | इच्छामि परमप्रीत्या वक्तुम् अर्हसि धूर्जटे || १३ || ईश्वर उवाच शृणु पार्वति वक्ष्यामि ह्युद्धारं त्रिपुरादितः | देवीनां दशविद्यानां मन्त्रोद्धारम् अनुत्तमम् || १४ || प्. ५) [१.१९] ग्रन्थम् उद्धारकोशाख्यं सर्वागमविनिश्चितम् | सर्वग्रन्थादिपूज्यं च तच्छृणुष्व ब्रवीम्यहम् || १५ || तदनुग्रहमात्रेण सर्वान् उद्धारसंचयान् | अब्रवीद् दक्षिणामूर्तिश्छात्रम् अक्षोभ्यनामकम् || १६ || शृणु छात्र महाभागिन् देवीभक्तिसमन्वित | रहस्यं सर्वलोकानां देवानाम् अपि दुर्लभम् || १७ || देवि तस्मिन्न् अवसरे शिष्याय प्रियवादिने | मुनीन्द्रो दक्षिणामूर्तिरब्रवीद् ग्रन्थम् उत्तमम् || १८ || भाषितं यत् पुरा तेन तत्प्रभावान् महेश्वरि | देवानां देवतानां च तच्छृणुष्व ब्रवीम्यहम् || १९ || प्. ६) [१.२४] १ तत्रादौ त्रिपुरा-मन्त्रोद्धारः तदुक्तं वामकेश्वरे तन्त्रे- लक्ष्मीः परा मदन-वाग्भवशक्तियुक्ता | तारं च भूतिकमला कथितापि विद्या || २० || शक्त्यादिकं च विपरीततया च प्रोक्ता | श्रीषोडशाक्षर-विधिः शुभदोऽस्तु पूर्णः || २१ || उड्डामरे च- क्षीरोदसंभवा भूतिः कामवाग्भवम् एव च | शक्तिः प्रणवलज्जेऽपि लक्ष्मीः शक्त्यादिकं ततः | विपरीततया प्रोक्ता विद्या श्रीषोडशाक्षरी || २२ || रुद्रयामलेऽपि- हरिणाक्षी तथा माया कामराजश्च वासना शरत् | त्र्यक्षं तथा क्षामा लक्ष्मीः शक्त्यादिकं ततः | विपरीततया प्रोक्ता विद्या श्रीषोडशाक्षरी || २३ || [(१) अथ लक्ष्मी-बीजानि] उक्तं च छिन्नारहस्ये- लक्ष्मीः पद्मा हरिणाक्षी सरोरुहनिवासिनी | प्. ७) [१.२८] कमला रुक्मिणी चैव नारायण-प्रियापि च | लक्ष्मी-बीजानि सप्तैव कृत्रिमाण्यपराणि च || २४ || अपरं च त्रिपुरातिलके- इमे द्वे कमला पद्मा हरिकान्ता तथैव च | श्रियो बीजानि पञ्चैवमनृतान्यपराणि च || २५ || (२) अथ ह्रीं-बीजानि उक्तं चागमालंकारे- परा भूतिम् तथा लज्जा मायापि सकला कृशा | समस्तापि तथा क्षामा देवी प्रणव-वीरकौ | वारणार्णं सुधाबीजं कृत्रिमाण्यपराणि च || २६ || (३) ततो मदनबीजानि उक्तं च भैरवतन्त्रे- कामः पञ्चेषुरेव च मदनो मन्मथस्तथा | मारः प्रद्युम्नकन्दर्पावनृतान्यपराणि च || २७ || (४) ततो वाग्भवबीजानि उक्तं च त्रिपुरासर्वस्वे- वाग्भवं चोर्ध्वबीजं च चारणं चण्डिकेश्वरः | चन्द्रोऽपि चर्मवसनं वासनापि तथैव च | चार्वङ्ग्यपि च चर्माणमसत्यान्यपराणि च || २८ || प्. ८) [१.३१] (५) ततः शक्तिबीजानि उक्तं छिन्नाशिरोमणौ- शक्तिः शर्मापि विज्ञेये शरच्छङ्के तथैव च | शक्तेर्बीजानि चत्वारि कृत्रिमाण्यपराणि च || २९ || (६) तत ओंकारबीजानि प्रणवं च तथा तारं त्र्यक्ष तोमापि त्र्यम्बकः | त्रासस्तारव एतानि बीजानि प्रणवस्य च | अपराणि ह्यसत्यानि मया प्रोक्तानि पार्वति || ३० || विपरीततया प्रोक्ता विद्या श्रीषोडशाक्षरी || ३१ || प्रकाशम् श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं क ए ई ल ह्रीं ह सकल ह्रीं सकल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं || प्. ९) [१.३७] उक्तं चागमलहर्याम्- त्रिपुरा श्रीश्च वाग्देवी तारापि भुवनेश्वरी | मातङ्गी शारिका राज्ञी भेडा ज्वालामुखी तथा | दशविद्याः स्वयं चैता भाषिताः कृत्तिवाससा || ३२ || वामकेश्वरे षोडशविद्याः- एता दशैव षडन्या योजिता षोडशाक्षरी || ३३ || दशविद्या भद्रकाली तुरी च छिन्नमस्तका | दक्षिणाकालिका श्यामा कालरात्र्यपि सुन्दरि || ३४ || एतासां मूलमन्त्रेण योजितैकाक्षरेण च | ब्रह्मादिदैवतैः पूज्या विद्या श्रीषोडशाक्षरी || ३५ || २ ततो लक्ष्मी-मन्त्रोद्धारः उक्तं च रुद्रयामले- हरिणाक्षी परा त्र्यक्षं लक्ष्मी-बीजत्रयम् इदम् | विपरीततया प्रोक्तं सत्वरं फलदायकम् | क्षामा शङ्कापि नीरं तदन्ते प्रोक्तं शिष्योत्तम || ३६ || (७) ततो नीरबीजानि उक्तं चोड्डामरे- प्. १०) [१.३९] आपो वनं तथा नीरं ठ-द्वयं च पयस्तथा | जलं बीजानि प्रोक्तानि षड् असत्यान्यपराणि च || ३७ || प्रकाशम् ओं ह्रीं श्रीं लक्ष्मि महालक्ष्मि सर्वकामप्रदे सर्वसौभाग्यदायिनि अभिमतं प्रयच्छ सर्वे सर्वगते सर्वस्वरूपे सर्वदुर्जयविमोचिनि ह्रीं सौः स्वाहा || ३ ततः सरस्वती-मन्त्रोद्धारः उक्तं च शारदापटले- तारं लज्जा वाग्भवं च परा प्रणवम् एव च | बीजं पञ्चशिरो ज्ञेयम् अन्ते ज्ञेयं नम इति || ३८ || प्रकाशम् ओं ह्रीं ऐं ह्रीं ओं वाग्देव्यै नमः || (८) ततो नमो-बीजानि उक्तं चागमालंकारे- प्. ११) [१.४२] नमो विश्वं तथा स्तम्भं सौष्मकम् अश्मरी तथा | अन्यानि कृत्रिमाण्येव सुरासुर-नमस्कृते || ३९ || ४ ततस्तारा-मन्त्रनिर्णयः उक्तं च भैरवसर्वस्वे- तारं व्योषं तथा कान्ता माया वाग्भवम् एव च | कूर्चं चैव महेशानि ह्यन्ते फट् ठ-द्वयं तथा || ४० || (९) ततो ह्रां-बीजोद्धारः उक्तं चागमसिन्धौ- स्कन्द व्योषं च डिम्बं च संयोज्य ह-रम् इत्यतः | ह्रां-बीजोद्धारम् एतद्धि चान्यद् अनृतम् आवदेत् || ४१ || (१०) ततः स्त्री-बीजोद्धारः उक्तं च वामकेश्वरे- कान्ता च कमलाक्षी च प्रियापि परमापि च | लम्भापि ललना लाजा ह्यसत्यान्यपराणि च || ४२ || प्. १२) [१.४६] (११) ततः कूर्च-बीजोद्धारः उक्तं च छिन्नारहस्ये- कूर्चं कूलं तटं तीरम् असत्यान्यपराणि च || ४३ || (१२) ततः फट्-बीजोद्धारः अस्मिन्न् एव- फट् हरं तुरगं चान्यद् असत्यं तु सुरेश्वरि || ४४ || प्रकाशम् ओं ह्रां स्त्रीं ह्रीं ऐं हूं उग्रतारे फट् स्वाहा || ५ ततो भुवनेश्वरी-मन्त्रोद्धारः उक्तं च कुब्जिकासर्वस्वे- प्रणवं च तथा माया कमला मन्मथस्तथा | अन्ते विश्वं नाम मध्ये प्रोक्तं वै तु सुरेश्वरि | प्रोक्तोऽयं भुवनेश्वर्या मनुस् तुर्याक्षराभिधः || ४५ || (१३) अथ मन्त्र-बीजोद्धारः उक्तं च स्वतन्त्रे त्रिपुरा-टीकायाम्- मन्त्रो मनुर्हरश्चैव हनुर्वालं विदुर्बुधाः | बीजान्येतानि मन्त्रस्य कृत्रिमाण्यपराणि च || ४६ || हर-बीजौ द्वौ मन्त्रः फट् च || प्. १३) [१.५०] प्रकाशम् ओं ह्रीं श्रीं क्लीं भुवनेश्वर्यै नमः || ६ ततो मातङ्गी-मन्त्रोद्धारः उक्तं च कुलसिद्धसंताने- तोमा काली तथा लक्ष्मीर्वा गुरा द्वयमेव च | चारुकं रसबीजानि ह्यादौ प्रोक्तानि शंभुना || ४७ || अन्ते जिह्वा तथा पद्मं लज्जा नीरजमेव च | वासना पङ्कजं चैव वनं प्रोक्तं तु शूलिना || ४८ || (१४) अथ काली-बीजोद्धारः उक्तं च कुलचूडामणौ- काली कुन्ती रसज्ञापी जिह्वापि रसना तथा | क्रीं-बीजानि च ह्येतानि कृत्रिमाण्यपराणि च || ४९ || (१५) अथवागुरा-बीजोद्धारः वागुरा वायुपूज्यापि वान्तुदास्य त्रि-बीजकम् | प्रीं-बीजानि तु प्रोक्तानि ह्यसत्यान्यपराणि तु || ५० || प्. १४) [१.५३] (१६) अथ चारुक-बीजोद्धारः मुण्डमालातन्त्रे- चारुकं चैव चार्वङ्गी चारुतोच्छून-बीजकम् | चतुष्टयं च छ्रीं-बीजमसत्यान्यपराणि च || ५१ || चार्वङ्गी-बीजौ द्वौ छ्रीं ऐं || (१७) ततः पद्म-बीजोद्धारः उक्तं च वामकेश्वरे- पद्मं पङ्कज-पयोजे नीरजमम्बुजं तथा | पञ्च ठकार-बीजानि ह्यनृतान्यपराणि च || ५२ || प्रकाशम् ओं क्रीं श्रीं प्रीं प्रीं छ्रीं उच्छिष्ट चण्डालिनि देवि महापिशाचिनि मातंगि देवि क्रीं ठः ह्रीं ठः ऐं ठः स्वाहा || ७ अथ शारिका-मन्त्रोद्धारः उक्तं च स्वकृतौ त्रिपुराशिरोमणौ- प्. १५) [१.५६] तारं मायां श्रियं कूर्चं सिन्धुरं शून्यमेव च | कल्याणं शारिका-देव्या बीजं सप्ताक्षरं स्मृतम् | अन्ते स्तम्भं च विज्ञेयं शारिका-मूलम् उत्तमम् || ५३ || (१८) ततः सिन्धुरबीजोद्धारः उक्तं च वामकेश्वरे तन्त्रे- सिन्धुरं च गजं घोणा हस्तिनं द्विरदं तथा | ह्रां-बीजानि च चत्वारि कृत्रिमाण्यपराणि च || ५४ || (१९) तत आकाशबीजानि उक्तं च भैरवे तन्त्रे- शून्यं खम् अम्बरं व्योम आं-बीजं च चतुष्टयम् | हकारं चैव विज्ञेयम् उक्तं च रुद्रयामले | असत्यम् अपरं ज्ञेयं ताराभक्तिसमन्वित || ५५ || (२०) ततः कल्याणबीजानि अस्मिन्नेव- कल्याणं चैव शर्मापि शं शुभं च चतुष्टयम् | अनृतम् अपरं ज्ञेयं पर्वतेश्वर-नन्दिनि || ५६ || शर्म-बीजौ द्वौ सौः शं च || प्. १६) [१.५९] प्रकाशम् ओं ह्रीं श्रीं हूं ह्रां आं शां शारिकायै नमः || ८ ततो राज्ञी-मन्त्रोद्धारः तारं लज्जा श्रियम् अग्निः कामं शक्तिः षडक्षरः | बीजं च षट्शिरो ज्ञेयं ततः पल्लवम् उद्धरेत् || ५७ || भगवत्यै तथा राज्ञ्यै ह्यन्ते माया च ठ-द्वयम् | एभिः सह मनुः प्रोक्तो राज्ञ्याः पञ्चदशाक्षरः || ५८ || (२१) ततो ऽग्नि-बीजोद्धारः अग्नी रेफश्च वह्निश्च हुतभुग् हव्यवाहनः | रं-बीजोद्धारम् एतद् धि कृत्रिममपरं स्मृतम् || ५९ || प्रकाशम् ओं ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा || प्. १७) [१.६२] ९ अथ भेडामन्त्रनिर्णयः तदुक्तं कुलचूडामणौ- प्रणवं च विभूतिश्च हरिकान्ता तथैव च | वियच्छक्त्यग्नि-बीजानि संयोज्य वाग्भवं तथा || ६० || मदनं च तथा शङ्का बीजं सप्ताक्षरं वदेत् | ठ-द्वयेन समायुक्तः प्रोक्तो विंशाक्षरो मनुः || ६१ || प्रकाशम् ओं ह्रीं श्रीं ह्स्रं ऐं क्लीं सौः भेडाभगवति हंसरूपिणि स्वाहा || १० अथ ज्वालामुखी-मन्त्रोद्धारः शारदातिलक-टीकायाम्- तारं लज्जां श्रियं चैवम् अन्ते कूर्चं हरं पयः | बीजं षडक्षरं देव्या ज्वालामुख्याः सुरेश्वरि || ६२ || प्रकाशम् ओं ह्रीं श्रीं ज्वालामुखि मम शत्रून् भक्षय भक्षय हूं फट् स्वाहा || प्. १८) [१.६७] दशविद्या मया प्रोक्ता यथागम-विनिश्चिताः | साधकेष्ट-प्रदा देव्यो नानारत्नविभूषिताः | एतासां दशविद्यानां गुणान् वक्ष्यामि त्वं शृणु || ६३ || दक्षिणामूर्तिर् उवाच मुक्तिं ददाति त्रिपुरा लक्ष्मीं लक्ष्मीर्ददाति च | विद्यां ददाति वाग्देवी प्रत्येकं जन्मनिश्चलाम् || ६४ || तारां तारयते सिन्धुं ह्यैश्वर्यं भुवनेश्वरी | मातङ्गी राक्षसी शत्रुभीतिं हरति नित्यशः | शारिका शं ददात्येव राज्ञी राज्यं प्रयच्छति || ६५ || भेडादेवी ददात्येव संततिं विश्वख्यापिताम् | धनं ज्वालामुखी देवी भक्तेभ्यः सा प्रयच्छति || ६६ || दशविद्या यथा एता भक्तेभ्यः फलम् इष्टदाः | प्रयच्छन्ति महा-देवि पूजाहोम जपादिभिः || ६७ || इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे सर्वागमार्णवे दशविद्या मन्त्रोद्धारकोश गुणाख्यानं नाम प्रथमः कल्पः || १ || प्. १९) [२.५] ततस्त्रिपुरा-षट्-सखीनामुद्धार-गुणाः ईश्वर उवाच शृणु देवि प्रवक्ष्यामि त्रिपुरां परिवारिताम् | षट्सखीभिरहं तासां मन्त्रोद्धारं ब्रवीमि ते || १ || अक्षोभ्य उवाच गुरो विधातृ-संभूत नानाशास्त्रविचक्षण | श्रोतुम् इच्छाम्यहं मन्त्रान् सर्वांश्च मुक्ति-हेतवे || २ || दक्षिणामूर्तिर् उवाच शृण्वक्षोभ्य महाभागिन् सर्वं वक्ष्यामि तत्त्वतः | दशविद्या भद्रकाली तुरी च छिन्नमस्तका | दक्षिणाकालिका श्यामा कालरात्रीति सुन्दरि || ३ || षट्सखीनाम् अहं तासां मन्त्रोद्धारं ब्रवीमि ते || ४ || ११ तत्रादौ भद्रकाली मन्त्रोद्धारः काली त्रयं कूर्चयुग्मं लज्जायुग्मं च भद्रिका | भद्रकालि पदं ब्रूयाद् बीजानि प्रतिलोमतः | ठ-द्वयेन समायुक्तो भद्रकाली महामनुः || ५ || इति श्यामातन्त्रे || प्. २०) [२.८] (२२) अथ भद्रिका-बीजोद्धारः उक्तं च मुण्डमालातन्त्रे- भद्रिका भास्वती भीमा भैं-बीजत्रितयं स्मृतम् | अनृतमपरं ज्ञेयं ब्रह्मान्वय समुद्भव || ६ || प्रकाशम् क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भद्रकालि भैं ह्रीं ह्रीं हूं हूं क्रीं क्रीं क्रीं स्वाहा || १२ अथ तुरी मन्त्रोद्धारः उक्तं च स्वतन्त्रे- प्रणवं तारका ज्योतिस्तारा ह्यन्ते नम इति | तुर्या मूलमिदं प्रोक्तं स्वतन्त्रे शंभुना स्मृतम् || ७ || (२३) अथ तारका ज्योतिस्तारा बीजोद्धारः उक्तं च वामकेश्वरे तन्त्रे- ऋक्षं भं तारका ज्योतिस्तारा बीजानि पञ्च च || ८ || प्. २१) [२.१०] प्रकाशम् ओं त्रुं त्रौं त्रों महातुर्यै नमः || १३ अथ छिन्नमस्तकामन्त्रोद्धारः उक्तं च छिन्नाशिरोमणौ- त्र्यम्बकः सकला पद्मा चारुकं च सुरेश्वरि | अन्त उच्छून-बीजं च फट् ठद्वय समायुतम् || ९ || प्रकाशम् ओं ह्रीं श्रीं छ्रीं छिन्नमस्तके छ्रीं फट् स्वाहा || अथ द्विभेदात्मके || उक्तं चागमलहर्याम्- लक्ष्मीं लज्जां तथा मायां मात्रां द्वादशकामथ | वज्रवैरोचनीये द्वे माये फट् स्वाहया युते || १० || प्रकाशम् श्रीं ह्रीं ह्रीं ऐं वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा || प्. २२) [२.१३] १४ अथ दक्षिणाकाली मन्त्रोद्धारः उक्तं च श्यामारहस्ये- कुन्ती त्रयं तीरयुग्मं क्षामायुग्मं ततोऽभिधम् | दक्षिणे कालिकेत्येवम् अन्ते काली त्रयं पुनः || ११ || कूर्चयुग्मं परायुग्मं पयश्चैव सुरेश्वरि | दक्षिणाकालिकायाश्च मनुर्द्वाविंशद् अक्षरः || १२ || प्रकाशम् क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा || १५ अथ श्यामा मन्त्रोद्धारः उक्तं च श्यामातन्त्रे- हरिणाक्षीं तथा लज्जां कालीं जिह्वा चतुष्टयम् | ततः सुधारसे श्यामे कृष्णशापं विमोचय | अमृतं स्रावय स्वाहा श्यामा मन्त्रमुदाहृतम् || १३ || प्रकाशम् श्रीं ह्रीं क्रीं क्रीं क्रैं क्रौं क्रः सुधारसे श्यामे कृष्णशापं विमोचय अमृतं स्रावय स्वाहा || प्. २३) [२.१५] १६ अथ कालरात्री मन्त्रोद्धारः उक्तं च कालरात्री कल्पे- प्रणवं वासना माया मन्मथः कमला तथा | बीजं पञ्चशिरो ज्ञेयं ततः पल्लवम् उद्धरेत् || १४ || ततो मध्येऽभिधां त्यक्त्वा ह्यन्ते सर्वं वश्यं कुरु | कुरु नीरो देहि युग्मं मध्ये त्यक्त्वाभिधां पुनः | गणेश्वर्यै तथा चान्ते विश्वं च समुदाहृतम् || १५ || प्रकाशम् ओं ऐं ह्रीं क्लीं श्रीं काह्नेश्वरि सर्वजनमनोहरि सर्वमुखस्तम्भिनि सर्वराजवशंकरि सर्वदुष्टनिर्दलिनि सर्वस्त्रीपुरुषाकर्षिणि वन्दी शृङ्खलास्त्रोटय त्रोटय सर्वशत्रून् भञ्जय भञ्जय द्वेषान् निर्दलय निर्दलय सर्वांस् स्तम्भय स्तम्भय मोहनास्त्रेण द्वेषिणम् उच्चाटय उच्चाटय सर्वं वश्यं कुरु कुरु स्वाहा || देहि देहि सर्वं काल-रात्रि कामिनि गणेश्वर्यै नमः || प्. २४) [२.१९] अथ भेदाः (१) [अथ त्रिपुरायाः] देवेशि त्रिपुरा-वालं विज्ञेयं द्वादशात्मकम् || १६ || उक्तं च मुण्डमालातन्त्रे - द्वादशात्मकं विज्ञेयं त्रिपुरामन्त्रमुत्तमम् | केवलं मुक्तये देवि यत् प्रोक्तं तच्छुभं स्मृतम् || १७ || अथोड्डामरे- अष्टादशात्मका ज्ञेया विद्या श्रीषोडशाक्षरी | परं यत् सूचितं देवि सद्यो मुक्ति प्रदं स्मृतम् || १८ || तथा स्वकृतौ त्रिपुराशिरोमणौ- अष्टात्मकम् इदं बीजं त्रिपुरायाः स्मृतम् यथा | अष्टभिर्वत्सरैर्वापि मासैरष्टभिरेव च | अष्टभिर्दिवसैर्वापि जानीयान् मुक्तिलक्षणम् || १९ || प्. २५) [२.२४] (२) [अथ लक्ष्मी भेदौ] लक्ष्मी भेदद्वयं ज्ञेयं भाषितं कृत्ति वाससा | लक्ष्मीश्च रुक्मिणी चैव त्रिभिर्वर्षैः फलं लभेत् || २० || (३) अथ सरस्वती भेदाः उक्तं च कामिनीकल्पे- वाग्देवी च तथा वाणी सरस्वत्यनलप्रिया | भेदास्ते ते तु विख्याताः फलं वर्षचतुष्टये || २१ || (४) ततस्तारा भेदाः उक्तं च वामकेश्वरे- तारापि तारिणी चैव एकजटापि तथैव च | नीलसरस्वती चैवमुग्रतारा प्रकीर्तिताः | तारा भेदास्तु पञ्चैवमक्षोभ्येन प्रकाशिताः || २२ || (५) अथ भुवनेश्वरी भेदाः उक्तं च भैरवे तन्त्रे- भैरवी भीमरूपा च भीमापि भुवनेश्वरी | भक्त्या फलप्रदा देवी नित्यं वर्षचतुष्टये || २३ || (६) अथ मातङ्गी भेदाः उक्तं च रुद्रयामले- प्. २६) [२.३०] मातङ्गी सुमुख्योरैक्यं मतङ्ग मुनिना स्मृतम् | मातङ्गी चक्रिणी देवी कुब्जिका शाम्बरी तथा | देव्या भेदास्तु चत्वारः फलं वर्षचतुष्टये || २४ || (७) अथ शारिका भेदद्वयम् शारिकापि तथापर्णा फलदापि द्विवर्षके || २५ || (८) ततो राज्ञी भेदौ राज्ञी भेदद्वयं प्रोक्तं राज्ञी च खगगामिनी | द्विवर्षमध्ये भक्त्या च राज्ञी राज्यं प्रयच्छति || २६ || (९) [भेडा भेदविहीना] भेडा भेदविहीना च प्रजाभाग्यविवर्धिनी || २७ || इति कुलिकार्णवे || (१०) अथ ज्वालामुख्याः उक्तं च ज्वालाशिरोमणौ- ततो ज्वालामुखी चैवमम्बिका भगरूपिणी | यथेष्टफलदं प्रोक्तं ज्वालाभेदत्रयम् इदम् || २८ || एतासां दशविद्यानां नानाभेदमुदाहृतम् || २९ || (११) तत्रादौ त्रिपुराभेदाः उक्तं च मुण्डमालातन्त्रे त्रिपुरातिलके च- त्रिपुरा भैरवी विद्या हिङ्गुला चण्डिका तथा | चामुण्डा नारसिंही च ह्यैन्द्री हैमवतीश्वरी || ३० || प्. २७ [२.३५] मृडानी वारुणी दुर्गा महात्रिपुरसुन्दरी | देव्या द्वादश भेदास्तु प्रोक्ता ह्येते त्रिशूलिना || ३१ || १७-२८ [अथ त्रिपुरा मूलम्] श्रीं ह्रीं सौः त्रिपुरेऽपि चर्मवसनं कामः शरद् भैरवि | ओं ह्रीं श्रीं हिङ्गुले तथैव कमला क्षामाअ त्र्यक्षं चण्डिके || ३२ || चामुण्डे ह सकल ह्रीं सकल ह्रीं श्रीं नारसिंहि तथा | ह्यैन्द्रि ? चारणमेव ह्रीं च मदनः कामं परा रुक्मिणी || ३३ || देवि हैमवतीश्वर्यपि कमला लज्जा तथा मन्मथः | चन्द्रो वारुणि वा क ए ई ल परा दुर्गे स्मृता शंभुना || ३४ || श्रीं ह्रीं क्लीं चरणं शरद् अपि तथा त्र्यक्षं परा रुक्मिणी | विद्या श्री विपरीत भाव सहिता स्यात् षोडशात्मा विधिः || ३५ || [प्रकाशम् श्रीं ह्रीं सौः त्रिपुरे || ऐं क्लीं सौः भैरवि || ओं ह्रीं श्रीं हिङ्गुले || श्रीं ह्रीं ओं चण्डिके || चामुण्डे ह सकल ह्रीं || प्. २८) [२.३९] सकल ह्रीं श्रीं नारसिंहि || ह्यैन्द्रि ? ऐं ह्रीं क्लीं || क्लीं ह्रीं श्रीं देवि हैमवतीश्वरि || श्रीं ह्रीं क्लीं (मृडानि] || ऐं वारुणि क ऐं ई ल ह्रीं || दुर्गे श्रीं ह्रीं क्लीं ऐं सौः || ओं ह्रीं श्रीं [महात्रिपुरसुन्दरि] ||] देव्युवाच महेश्वर त्रिकालज्ञ शरणागतवत्सल | भेदैर्युतानां देवीनां मनुं त्वं वक्तुम् अर्हसि || ३६ || ईश्वर उवाच दयया तव देवेशि तद् वक्ष्यामि समासतः || ३७ || २९ अथ श्रियः यदुक्तं भैरवे तन्त्रे- ओं ह्रीं श्रीं हरिणाक्षी बीजद्वयं फलप्रदं सद्यः | त्र्यक्षं ह्रीं शक्तिनीरमन्ते प्रोक्तमपि धूर्जटिना || ३८ || ३० अथ रुक्मिण्याः ओं ह्रीं चैवं तु रुक्मिण्यास्तारं लक्ष्मी पयस्तथा | अन्ते प्रोक्तं महेशानि लक्ष्म्या भेदद्वयमिदम् || ३९ || प्. २९ [२.४२] प्रकाशम् ओं ह्रीं श्रीं लक्ष्मि ओं ह्रीं सः स्वाहा || ओं ह्रीं रुक्मिणि ओं श्रीं स्वाहा || ३१ अथ वाग्देवतायाः तोमा परा वाग्भवमेव क्षामा तारं च प्रोक्तं परमेश्वरेण | वाग्देवतायाः फलदं हि वालं नृणां नमो भक्तिपरायणानाम् || ४० || प्रकाशम् ओं ह्रीं ऐं ह्रीं ओं वाग्देवतायै नमः || ३२ अथ वाणीभगवत्याः तारं लज्जोर्ध्वबीजं च ह्यन्ते स्तम्भम् उदाहृतम् || ४१ || [प्रकाशम्] ओं ह्रीं ऐं वाणीभगवत्यै नमः || ३३ [अथ सरस्वत्याः] चार्वङ्ग्यपि विभूतिश्च त्र्यक्षं सरस्वत्यै ततः | नमोऽन्ते परमेशानि मया प्रोक्तं नगात्मजे || ४२ || प्. ३०) [२.४४] [प्रकाशम्] [ऐं ह्रीं ओं सरस्वत्यै नमः ||] ३४ अथानलप्रिया मूलम् तारं लज्जा वाग्भवं च मध्येऽनलप्रिये ततः | त्र्यक्षं विश्वं तथान्ते च पर्वतेश्वर नन्दिनि || ४३ || [प्रकाशम्] ओं ह्रीं ऐं अनलप्रिये ओं नमः || देव्या भेदास्तु चत्वारः सरस्वत्या वरानने || ४४ || ३५-३९ अथ तारायाः प्रकाशम् ओं ऐं हूं तारे फट् स्वाहा || ओं ह्रीं ऐं हूं तारिणि फट् स्वाहा || ओं स्त्रीं ऐं हूं एकजटे फट् स्वाहा || ओं ह्रीं ऐं हूं नीलसरस्वति फट् स्वाहा || ओं हां स्त्रीं ह्रीं ऐं हूं उग्रतारे फट् स्वाहा || ४०-४३ अथ भुवनेश्वर्याः [प्रकाशम्] ओं भैरव्यै नमः || प्. ३१) [२.४४] ओं ह्रीं भीमरूपायै नमः || ओं श्रीं भीमायै नमः || ओं ह्रीं श्रीं क्लीं भुवनेश्वर्यै नमः || ४४ अथ मातङ्ग्याः प्रकाशम् ओं क्रीं श्रीं प्रीं प्रीं छ्रीं उच्छिष्ट चण्डालिनि देवि महापिशाचिनि मातङ्गि देवि क्रीं ठः ह्रीं ठः ऐं ठः स्वाहा || ४५ [अथ] सुमुखायाः स्वाहान्ते वा || [प्रकाशम्] ओं उच्छिष्ट चण्डालिनि सुमुखे देवि महापिशाचिनि ह्रीं ठः ठः || ४६ अथ चक्रिण्याः [प्रकाशम्] ओं क्रां छ्रीं महाचक्रिणि ऐं ठः स्वाहा || प्. ३२) [२.४४] ४७ ततः कुब्जिकायाः [प्रकाशम्] ओं श्रीं प्रीं कुब्जिके देवि ह्रीं ठः स्वाहा || ४८ अथ शाम्बर्याः [प्रकाशम्] ओं प्रीं देवि शाम्बरि क्रीं ठः स्वाहा || अथ शारिका भेदद्वयम् || ४९ ततोऽपर्णामूलम् [प्रकाशम्] ओं हूं प्रें ओं शां देव्यै अपर्णायै नमः || ५० अथ हैमवतीश्वरी मूलम् [प्रकाशम्] ओं ह्रीं श्रीं हैमवतीश्वरि ह्रीं स्वाहा || प्. ३३) [२.४६] भेडा भेदविहीनेत्यलम् || ५१ अथाम्बिका मूलम् [प्रकाशम्] ओं ह्रीं मातरम्बिके हूं फट् स्वाहा || ५२ अथ भगरूपिण्याः [प्रकाशम्] ओं श्रीं देवि भगरूपिणि हूं फट् स्वाहा || एतानि भेदमन्त्राणि मया प्रोक्तानि पार्वति | एतासां दशविद्यानामन्यासां शृणु वच्म्यहम् || ४५ || ५३-५४ भद्रकाली यथा देवी दक्षिणाकालिका तथा || ४६ || प्रकाशम् क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भद्रकालि भैं ह्रीं ह्रीं हूं हूं क्रीं क्रीं क्रीं स्वाहा || क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं प्. ३४) [२.४८] दक्षिणे कालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा || तुरी भेद विहीनास्ति यथेष्ट फलदायिनी || ४७ || ५५-५६ अथ छिन्नमस्तका द्विविधा || [तत्र प्रथमा] [प्रकाशम्] ओं ह्रीं श्रीं छ्रीं छिन्नमस्तके छ्रीं फट् स्वाहा || द्वितीया [प्रकाशम्] श्रीं ह्रीं ह्रीं ऐं वज्रवैरोचनि ह्रीं ह्रीं फट् स्वाहा || दक्षिणाकालिका श्यामा कालरात्रिः सुरेश्वरि | एता भेदविहीनाश्च यथा कामफलप्रदाः || ४८ || इति श्रीदक्षिणामूर्ति-विरचित उद्धारकोशे सर्वागमसारे षड्देवी मन्त्रोद्धारकोश भेदसूचकोनाम द्वितीयः कल्पः || २ || प्. ३५) [३.९] ईश्वर उवाच अथ देवि प्रवक्ष्यामि देवानां मन्त्रम् उत्तमम् | शृणुष्वैकाग्र-मनसा ब्रवीमि त्वत्कुतूहलात् || १ || दक्षिणामूर्तिना तस्मिन् कालेऽन्ते वासिने तदा | भाषिता षोडशी विद्या ननन्दाक्षोभ्यको मुनिः || २ || तस्मिन् काले मुनेस्तस्य चाश्रमं मुनिसेवितम् | आययुर्मुनयस्सर्वे सोत्सुका मन्त्रकाङ्क्षिणः || ३ || लोहितोद्दालकौ शङ्खमातङ्गौ पुण्डरीकजौ | शाण्डिल्यगालवौ चैवम् एते तस्याश्रमं ययुः || ४ || सर्वे मिलित्वा मुनि-पुंगवं ते श्रीदक्षिणामूर्तिमिदं तम् ऊचुः | परस्परं वै स्वकुलेष्ट देवी मन्त्रांश्च वन्द्यान् शुभदान् पप्रच्छुः || ५ || श्रीदक्षिणामूर्तिर् उवाच शृणुध्वं मुनयः सर्वे वक्ष्याम्याश्चर्यम् उत्तमम् | चराचरेऽस्मिन् जगति देवी त्रिपुरसुन्दरी || ६ || नैव तादृक् क्वचिद् अस्ति देवी सीमन्त शेखरा | तस्याश्च वदनाम्भोजात् सप्त देव्यः श्रुता मया || ७ || यथेष्ट फलदायिन्यः सर्वरोगभयापहाः | अचिरेणैव कालेन फलदास्तन्-मुखाच्छ्रुताः || ८ || ऋषय ऊचुः का देव्यः कानि नामानि कीदृशानि मनूनि च | प्रसादं कुरु विप्रर्षे चेदस्मासु दया तव || ९ || प्. ३६) [३.१७] मुनिर् उवाच देवीनां परम प्रीत्या मन्त्रान् शृणुध्वम् अग्रतः | येन श्रवणमात्रेण हयमेधफलं लभेत् || १० || ईश्वर उवाच मुनीश्वरान् मनून् देवि दक्षिणामूर्तिर् अब्रवीत् | सप्त विद्याः पुरा प्रोक्ता वज्रयोगिन्यादि देवताः || ११ || तासां नामानि वक्ष्यामि पर्वतेश्वर नन्दिनि | दक्षिणामूर्तिना देवि प्रकाशितानि च तत्त्वतः || १२ || श्रीवज्रयोगिनी देवी वाराही शारदा तथा | कामेश्वरी तथा गौरी ह्यन्नपूर्णा तथैव च | कुलवागीश्वरी ह्येताः सप्त देव्यः श्रुता मया || १३ || दक्षिणामूर्तिना तेभ्यः सप्त विद्याः प्रकीर्तिताः | एतासां बलम् आश्रित्य देवी त्रिपुरसुन्दरी || १४ || ससृते जगदेतच्च पाल्यते च सुरेश्वरि | हरतेऽपि तथा विश्वं चराचरसमन्वितम् || १५ || ऋषिर् उवाच- एतद् वाक्यामृतं तस्या मुखाम्भोजाच्छ्रुतं मया | एतासां मन्त्राणि वक्ष्यामि शृणुध्वं मुनिपुंगवाः || १६ || ५७ अथ [वज्रयोगिनी-]मन्त्रोद्धारः उक्तं च स्वतन्त्रे- प्रणवं सकला चैव बीजौ द्वौ फलदायकौ | मध्येऽपि वज्रयोगिन्यै ह्यन्ते नीरमुदाहृतम् || १७ || प्. ३७) [३.२६] प्रकाशम् ओं ह्रीं वज्रयोगिन्यै स्वाहा || अस्या मूलं समुच्चार्य यः संग्रामं प्रविश्यति | स निर्जित्य रिपून् सर्वान् कल्याणी गृहम् आविशेत् || १८ || अस्या बीजद्वयं देवि जपते हृदि मानवः | द्वादश दिवसांस्तावत् सिद्धिर्भवति वाञ्छिता || १९ || अस्या बीजावपदिश्य ह्येकान्ते प्रजपेन्नरः | ऋतु स्नाताया भार्याया मैथुनं कुरुते नरः || २० || शुक्रेण सह देवेशि सप्तभिरौषधेर्लिखेत् | लिखित्वा संभवेद्राजा अस्या यन्त्रं समन्त्रकम् | लिखित्वा धारयेन् मूर्ध्नि त्रैलोक्य विजयी भवेत् || २१ || अस्याः ट्चैव चार्वङ्गी चारुतोच्छून-बीजकम् नि तु || ५० || अओद्धरौवनेशर्यै अराणि च || ४६ || || || संभोग काले तु मन्त्रं जपेत् सुरेश्वरि | कान्ताया मैथुनं कुर्यात् बहुपुत्रयुतो भवेत् || २२ || अस्या यन्त्रं समन्त्रं च बाहौ यो धारयेन्नरः | यावज्जन्म भवेत् तस्य तावच्छत्रुर्न जीवति || २३ || अस्या यन्त्रं समन्त्रं च हृदि यो धारयेन्नरः | यावज्जन्म भवेत् तस्य तावल्लक्ष्मीर्भविष्यति || २४ || अस्या यन्त्रं समन्त्रं च कुक्षौ यो धारयेन्नरः | अनुवादे स शत्रूणां वाक्यज्ञः सहसा भवेत् || २५ || तस्यास्त्रिपुरसुन्दर्या मुखाम्भोजान् मया श्रुतम् | फलम् एतन् महाश्चर्य कारकं मुनिपुंगवाः || २६ || प्. ३८) [३.३१] ५८ अथ वाराही-मन्त्रोद्धारः उक्तं च स्वकृतौ त्रिपुरातिलके- वासना चैव वाह्लीकं तमोबीजसमन्वितम् | वाग्भवं सौष्मकं चैव ततः पल्लवमुद्धरेत् || २७ || भगवति च वार्तालि ततो वाराहि देवते | वराहमुखि चैवं तु वासना च मठं तथा || २८ || ततः पङ्कजपयोजौ हरं नीरं महेश्वरि | भगवत्याश्च वाराह्या एकत्रिंशाक्षरो मनुः || २९ || (२४) अथ वाह्लीकबीजोद्धारः वाह्लीकं मठसंज्ञं च हिङ्गुबीजं मुनीश्वराः | ग्लौं बीजोद्धारम् एतद्धि चान्यद् अनृतम् आवदेत् || ३० || मुण्डमालातन्त्र उक्तम् (२५) अथ तमोबीजोद्धारः स्व-तन्त्रे- तमोबीजं तथा ध्वान्तं मोहं तिमिरमेव च | लं बीजोद्धाराण्येतानि कृत्रिमाण्यपराणि च || ३१ || प्रकाशम् ऐं ग्लौं लं ऐं नमो भगवति वार्तालि वाराहि देवते वराहमुखि प्. ३९) [३.३४] ऐं ग्लौं ठः ठः फट् स्वाहा || ५९ अथ शारदा-मन्त्रोद्धारः उक्तं च शारदापटले- तारं मायां च मदनं शरद् विज्ञेयं सौष्मकम् | मन्त्रं च षट्शिरो ज्ञेयं ततः पल्लवम् उद्धरेत् | भगवत्यै शारदायै चान्ते लज्जा च ठद्वयम् || ३२ || प्रकाशम् ओं ह्रीं क्लीं सः नमो भगवत्यै शारदायै ह्रीं स्वाहा || ६० अथ कामेश्वरी मन्त्रोद्धारः माया च हरिणाक्षी च चन्द्रः शीतांशुरेव च | मदनम् ऊर्मिध्वान्तौ द्वौ संयोज्य स्तनबीजकम् || ३३ || मनुः सप्तशिरो ज्ञेयम् ततः पल्लवम् उद्धरेत् | जृम्बनाख्ये ततो देवि कामेश्वरि तथैव च || ३४ || प्. ४०) [३.३९] ततो वाणदेवते ऽपि ह्यन्ते नीरम् उदाहृतम् | कामेश्वर्या महादेव्या द्वाविंशदक्षरो मनुः || ३५ || चन्द्रबीजौ द्वौ ऐं द्रां च || (२६) अथ चन्द्र बीजोद्धारः उक्तं च कालीसर्वस्वे- चन्द्रः शीतांशुरिन्दुश्च शर्वरीपतिरेव च | ताराधिपः सुधारश्मिः कृत्रिमाण्यपराणि च || ३६ || (२७) तथोर्मि बीजोद्धारः अस्मिन्न् एव- ऊर्मिर्वीचिस्तथा चैव तरङ्गस्त्रितयं स्मृतम् | बं-बीजोद्धाराण्येतानि कृत्रिमाण्यपराणि च || ३७ || (२८) अथ स्तन-बीजोद्धारः उक्तं चागमालंकारे- स्तन बीजं कुचं चैवम् उरोजो हृज्जमेव च | जंबीजान्येवम् एतानि कृत्रिमाण्यपराणि च || ३८ || प्रकाशम् ह्रीं श्रीं द्रां द्रीं क्लीं ब्लं जं जृम्बनाख्ये कामेश्वरि वाणदेवते स्वाहा || ६१ अथ गौरी मन्त्रोद्धारः उक्तं च त्रिपुराशिरोमणौ- प्. ४१) [३.४२] प्रणवं कमला चैव माया वाह्लीकमेव च | शिवबीजं तथा देवि गौरि शर्वश्च ठ-द्वयम् | भगवत्या महागौर्या वालस्तु द्वादशाक्षरः || ३९ || (२९) अथ शिवबीजोद्धारः उक्तं च कुलचूडामणौ- शिवबीजं च शंभुश्च शर्वः शंकर एव च | गंबीजानि च चत्वारि कृत्रिमाण्यपराणि च || ४० || [प्रकाशम्] ओं श्रीं ह्रीं ग्लौं गं देवि गौरि गं स्वाहा || ६२ अथान्नपूर्णा मन्त्रोद्धारः उक्तं च वामकेश्वरे तन्त्रे- तारं परापि कमला मीनकेतन एव च | विश्वं ततो भगवति माहेश्वरि ततः पुनः | अन्नपूर्णे ठद्वयं च मनुर्विंशाक्षरः स्मृतः || ४१ || मीन केतन इति दोषः | उक्तं च स्वकृतौ त्रिपुरासुन्दरीसर्वस्वे- त्र्यक्षं मायापि पद्मा च कामं विश्वम् उदाहृतम् | बीजं तु षट्शिरो ज्ञेयं विश्वेन सह भामिनि || ४२ || प्. ४२) [३.४७] प्रकाशम् ओं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा || ६३ अथ कुलवागीश्वरी मन्त्रोद्धारः उक्तं च मुण्डमालातन्त्रे- प्रणवं मदनं चैव स्कन्दं नारायणप्रियाम् | तटं चैवमिच्छाबीजं ततः पल्लवम् उद्धरेत् || ४३ || झषहस्ते ततः पश्चात् कुलवागीश्वर्येव च | अन्ते च वासनाबीजं पद्मं काङ्क्षापि नीरजम् || ४४ || नर्तकीबीजमम्भोजं पयश्चैव सुरेश्वरि | कुलवागीश्वरी देव्यास्तुर्यविंशाक्षरो मनुः || ४५ || (३०) अथेच्छा बीजोद्धारः वामकेश्वरे- इच्छाबीजं स्पृहा काङ्क्षा लिप्सा बीजं चतुष्टयम् | झंबीजान्येवम् एतानि कृत्रिमाण्यपराणि च || ४६ || (३१) अथ नर्तकी बीजोद्धारः छिन्नारहस्ये- नर्तकी बीजमत्युग्रं वेश्यापि गणिका तथा | पण्यस्त्री पञ्चबीजानि स्त्रींबीजस्यानृतं परम् || ४७ || प्. ४३) [३.५२] अम्बुजाम्भोजयोरैक्यम् इति न दोषः || प्रकाशम् ओं क्लीं ह्रां श्रीं हूं झं झष हस्ते कुलवगीश्व्रि ऐं ठः झं ठः ख्रीं ठः स्वाहा || एता मया महेशानि सप्त विद्याः प्रकीर्तिताः | अद्याहं तव भक्त्या ते हृदि यद्रोचते प्रिये | वद मे सत्वरं देवि तद् वक्ष्यामि सुविस्तरम् || ४८ || श्रीदेव्युवाच पञ्चानां बालकानां च कीदृशास्ते मनूत्तमाः | कृपयापि पुरा मह्यं सूचिता न प्रकाशिताः || ४९ || मुनय ऊचुः ब्रह्मर्षे सर्वशास्त्रज्ञ त्वन्मुखात् सकलं श्रुतम् | मनून् पञ्च कुमाराणाम् अस्माकं वक्तुमर्हसि || ५० || दक्षिणामूर्तिर्मुनीन् ब्रवीति ईश्वरः पार्वतीं ब्रवीति शृणु पार्वति देवेशि महर्षीणां पुरा शिवे | दक्षिणामूर्तिनोक्तं यत् तत् ते वक्ष्यामि तत्त्वतः || ५१ || हेरम्बशरजन्मानौ कार्तवीर्यार्जुनस्तथा | हनुमद्भैरवावेते भाषिताः पञ्चबालकाः || ५२ || प्. ४४) [३.५६] उक्तं च भैरवे तन्त्रे वामकेश्वरे च- हेरम्ब शर जन्मानौ महामृत्युंजयस्तथा | कार्तवीर्यार्जुनश्चैव हनुमद्भैरवौ तथा | स्वयं मया च तन्त्रोक्ता भाषिताः षट्कुमारकाः || ५३ || रुद्रयामलेऽपि- गणेशो वटुकश्चैव स्कन्दो मृत्युंजयस्तथा | कार्तवीर्यार्जुनोऽप्येवं सुग्रीवो हनुमांस्तथा | यामले रुद्रशब्दादौ भाषिताः सप्त बालकाः || ५४ || ६४ तत्रादौ गणेशमन्त्रोद्धारः उक्तं च रुद्रयामले- प्रणवं कमलां लज्जां कन्दर्पं मठबीजकम् | शंकरं षट्शिरो मन्त्रं ततः पल्लवमुद्धरेत् || ५५ || गणपतये ततः पश्चाद्वरं वरदमेव च | सर्वं जनं ततः पश्चान् मे वशम् आनयेति च | अन्तेऽपि ठद्वयं ज्ञेयमष्टाविंशाक्षरो मनुः || ५६ || प्रकाशम् ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वं जनं मे वशमानय स्वाहा || प्. ४५) [३.६०] ६५ अथ कुमारस्य उक्तं च कुलचूडामणौ- प्रणवं छविबीजं च मन्त्रं तु द्विशिरः स्मृतम् | मध्ये कुमाराय नमो ह्यन्ते नीरम् उदाहृतम् || ५७ || (३२) अथ छविबीजोद्धारः उक्तं च सिद्धसारस्वते- छविबीजं कान्तिबीजं शोभापि सुषमा तथा | हांबीजानि च चत्वारि कृत्रिमाण्यपराणि च || ५८ || प्रकाशम् ओं हां कुमराय नमः स्वाहा || ६६ अथ कार्तवीर्यार्जुनस्य उक्तं चोड्डामरे तन्त्रे- प्रणवं वायुपूज्यापि चारुकं मन्मथस्तथा | शुक्रबीजं तथा शून्यं कमला रसना तथा || ५९ || चन्द्रं डिम्बं च कूर्चं च तुरगं च सुरेश्वरि | मध्ये तन्नाम विज्ञेयं कार्तवीर्यार्जुनाय च | अन्ते पयो मनुः प्रोक्त एकविंशाक्षरः शिवे || ६० || प्. ४६) [३.६४] (३३) अथ शुक्रबीजोद्धारः उक्तं च छिन्नाशिरोमणौ- शुक्रबीजं तथा काव्यो भार्गवः कविबीजकम् | दैत्यमान्यो महेशानि सुरासुरनमस्कृते | व्रोंबीजानि तु पञ्चैव कृत्रिमाण्यपराणि च || ६१ || शुक्रबीजौ द्वौ व्रों लूं च || प्रकाशम् ओं प्रीं छ्रीं क्लीं व्रों आं श्रीं क्रीं ऐं ह्रां हूं फट् कार्तवीर्यार्जुनाय स्वाहा || ६७ अथ हनुमन्मन्त्रोद्धारः उक्तं च कुलचूडामणौ- प्रणवम् ऊर्ध्वबीजं च विभूतिस्तदनन्तरम् | हनुमते ततः पश्चाद् रामदूताय वै पुनः || ६२ || लङ्का विध्वंसनायैवम् अञ्जनी गर्भसं ततः | भूताय शाकिनी चैव डाकिनी तदनन्तरम् || ६३ || विध्वंसनाय किलिद्वौ वुवुकारेण वै पुनः | विभीषणाय हनुमद्देवाय तदनन्तरम् || ६४ || प्. ४७) [३.६८] त्र्यक्षं माया हरिणाक्षी व्योषं स्कन्दं तथैव च | हरम् आपस्तथान्तेऽपि सप्तषष्ट्यक्षरो मनुः || ६५ || प्रकाशम् ओं ऐं ह्रीं हनुमते रामदूताय लङ्काविध्वंसनाय अञ्जनीगर्भसंभूताय शाकिनी-डाकिनी विध्वंसनाय किलि किलि वुवुकारेण विभीषणाय हनुमद्देवाय ओं ह्रीं श्रीं ह्रां ह्रां फट् स्वाहा || ६८ अथ भैरवस्य प्रणवं मन्मथं चैवम् अभ्रबीजसमन्वितम् | अब्धिबीजं कल्पबीजं शतघ्नी बीजसंयुतम् || ६६ || माया मध्येऽपि वटुकं भैरवायाश्मरी तथा | अन्तेऽपो भैरवस्यायं मनुरष्टादशाक्षरः || ६७ || इति रुद्रयामल तन्त्रोक्तम् || (३४) अथाभ्र बीजोद्धारः उक्तं च वामकेश्वरे- अभ्रबीजं च जीमूतम् अम्बुभृदवलं घनम् | वीं बीजानि च पञ्चैवम् अनृतान्यपराणि च || ६८ || प्. ४८) [३.७२] (३५) अथाब्धि बीजोद्धारः उक्तं च त्रिपुरातिलके- अब्धिबीजं तथा सिन्धुः साम्भवं सागरस्तथा | रुंबीजानि च चत्वारि कृत्रिमाण्यपराणि च || ६९ || रुकार रकारयोर्भेदे अग्निबीजं रं अब्धिबीजं रुं | अग्न्यब्ध्योरन्तराद् अन्तरमिति न दोषः || (३६) अथ कल्प बीजोद्धारः उक्तं चागमालंकारे- कल्पबीजं च संवर्तं प्रलयं क्षयबीजकम् | क्षामिकं क्षुरकं क्षौद्रं तथा कल्पान्तबीजकम् | ध्रुं बीजान्येवम् अष्टौ च कृत्रिमाण्यपराणि च || ७० || (३७) अथ शतघ्नीबीजोद्धारः उक्तं चागमलहर्याम्- शतघ्नी शालिका श्यामा शाद्वला शुष्कला तथा | घ्नीं बीजानि तु पञ्चैवम् असत्यान्यपराणि च || ७१ || प्रकाशम् ओं क्लीं वीं रुं ध्रुं घ्नीं ह्रीं वटुक भैरवाय नमः स्वाहा || ६९ अथ महामृत्युंजयस्य उक्तं चागमलहर्याम्- प्. ४९) [३.७५] त्र्यक्षं हृज्जं शक्तिशोभेऽपि शङ्का मां तस्माद्वै पालयद्वौ तथैव | तस्माच्छक्तिः खं शरद् धृज्जत्रासौ मन्त्रोद्धारो देवि मृत्युंजयस्य || ७२ || प्रकाशम् ओं जुं सः हं सः मां पालय पालय सः हं सः जुं ओं || ७० अथ सुग्रीवस्य उक्तं चागमशिरोमणौ- तारं माया वाग्भवं मन्मथं च शक्तिर्मध्ये नाम त्यक्त्वा तथान्ते | काली पद्मौ कूर्च पद्मौ समस्ता पद्मौ नीरम् एष सुग्रीवमन्त्रः || ७३ || प्रकाशम् ओं ह्रीं ऐं क्लीं सः सुग्रीवदेवाय क्रीं ठः हूं ठः ह्रीं ठः स्वाहा || मयाख्याताः सुरेशानि ह्येते वै सप्तबालकाः || ७४ || दक्षिणामूर्तिर् उवाच शृणुध्वम् ऋषयः किंचिद् युष्माकम् अस्ति यद्धृदि | ब्रवीमि भवतां प्रीत्या आज्ञापयितुमर्हथ || ७५ || प्. ५०) [३.७५] इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे सकलागमसारे सप्तकुमार कोशाख्यानं नाम तृतीयः कल्पः || ३ || प्. ५१) [४.७] मुनय ऊचुः ब्रह्मर्षे सर्वतत्त्वज्ञ शास्त्राम्भो निधिपारग | नवग्रहाणाम् अस्माकं मनूंस्त्वं वक्तुमर्हसि || १ || ईश्वर उवाच तस्मिन् काले महर्षीणां यदुक्तं धातृसूनुना | नवग्रहाणां मन्त्राश्च तान् वक्ष्यामि समासतः || २ || आदित्येन्दुजशुक्राश्च गुर्विन्दू परमेश्वरि | एते पञ्च महेशानि पञ्चेषोर्वाण देवताः || ३ || भौमार्किर् आहवश्चैव त्रय एते मुनीश्वराः | देवस्य खण्ड परशोर्लोचनत्रयदेवताः || ४ || केतुश्च परमेशानि भूमेर्देवाः प्रकीर्तिताः | एते नवग्रहाः प्रोक्ताः शंभुना रुद्रयामले || ५ || अथादौ पञ्चग्रहमन्त्रोद्धारः ७१ तत्रादावादित्यस्य उक्तं च विश्वनाथसारोद्धारे- प्रणवं चाम्बरं लक्ष्मीर्व्योमबीजं तथैव च | बीजं तुर्यशिरो ज्ञेयं ततः पल्लवम् उद्धरेत् || ६ || ग्रहाधिराजाय तत आदित्याय तथैव च | अन्ते पयस्तु विज्ञेयं मनुर्द्वयष्टाक्षरः स्मृतः || ७ || प्. ५२) [४.१०] (३८) अथाम्बर बीजोद्धारः अम्बरं वस्त्रबीजं च शून्यं शक्तिरिति द्वयम् | हरितं हरिणी बीजं च हरिद्रबीजमेव च | ह्मौः बीजानि षड्देवि कृत्रिमाण्यपराणि च || ८ || अम्बर बीजौ द्वौ आं ह्मौः || प्रकाशम् ओं ह्मौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा || ७२ अथ बुधस्य उक्तं च स्वतन्त्रे- प्रणवं च तथा स्कन्दं रसज्ञा च षडाननः | मध्येऽपि ग्रहनाथाय बुधायान्ते च ठद्वयम् | बुधस्य ग्रहनाथस्य मनुश्चतुर्दशाक्षरः || ९ || (३९) अथ षडानन बीजोद्धारः उक्तं च कुब्जिका सर्वस्वे- षडाननः शरजन्मा स्कन्दः कुमारबीजकम् | शाम्भवः शालिगी बीजं तथा षण्मुखबीजकम् | ङ बीजानि च सप्तैवम् असत्यान्यपराणि च || १० || प्रकाशम् ओं ह्रां क्रीं ङं प्. ५३) [४.१४] ग्रहनाथाय बुधाय स्वाहा || ७३ अथ शुक्रस्य उक्तं चागमशिरोमणौ- प्रणवमूर्ध्वबीजं च स्तनबीजसमन्वितम् | शिवबीजं ततो मध्ये ग्रहेश्वराय वै ततः | शुक्रायान्तेऽश्मरी चैव वालश्चतुर्दशाक्षरः || ११ || प्रकाशम् ओं ऐं जं गीं ग्रहेश्वराय शुक्राय नमः || ७४ अथ बृहस्पतेः उक्तं च त्रिपुरातिलके- त्र्यक्षं मायापि सौभाग्या सुरासुर नमस्कृते | तरङ्ग वेश्ये संयोज्य चार्वङ्गी हिङ्गुबीजकम् || १२ || ऊर्ध्वं च षट्शिरो बीजं ततः पल्लवम् उद्धरेत् | ततो ग्रहाधिपतये बृहस्पतय एव च || १३ || पुनर्वारिवहश्चैव पद्मं लक्ष्मीस्तु नीरजम् | वासना पङ्कजं चैवम् अन्ते प्रोक्तं वनं शिवे || १४ || प्. ५४) [४.१९] सौभाग्येति दोषः || दक्षिणामूर्तिर् उवाच तस्य धिगस्तु मुनयः स्वयं यस्य न धीर्भवेत् | क्व रुक्मिणी क्व सौभाग्यं द्यौभुवोरन्तरं महत् || १५ || इति दोषः || उक्तं च स्वकृतौ सुन्दरीसर्वस्वे- प्रणवं सकला चैव देवेशि रुक्मिणी तथा || १६ || ततो वारिवह इति दोषः || उक्तं च वामकेश्वरे- प्रणवं च परां लक्ष्मीं वीचि वेश्येऽपि योजयेत् | चन्द्रो मठं ततः पश्चाद् ग्रहाधिपतये ततः || १७ || ततो बृहस्पतयेऽपि ततो जीमूतबीजकम् | पद्मं लक्ष्मीं नीरजं च वासना पङ्कजं तथा | अन्ते नीरं समाख्यातं पञ्चविंशाक्षरो मनुः || १८ || प्रकाशम् ओं ह्रीं श्रीं ब्ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये वीं ठः श्रीं ठः ऐं ठः स्वाहा || ७५ अथ चन्द्रस्य उक्तं च कालीपटले- प्. ५५) [४.२३] त्र्यक्षं च हरिणाक्षी च कुन्ती बीज-समन्वितम् | हरेति शब्दं संयोज्य शून्यानुस्वारसंयुतम् | नाट्यबीजं ततो मध्ये चन्द्रायान्तेऽश्मरी स्मृता || १९ || (४०) अथ नाट्यबीजोद्धारः उक्तं च भैरवे तन्त्रे- नाट्यबीजं च नटनं ताण्डवं नृत्तबीजकम् | चं बीजानि च चत्वारि कृत्रिमाण्यपराणि च || २० || प्रकाशम् ओं श्रीं क्रीं ह्रां चं चन्द्राय नमः || एते वै पञ्चवाणानां ग्रहाः पञ्चप्रकीर्तिताः || २१ || अथ त्रिग्रहमन्त्रोद्धारः ७६ तत्रादौ भौमस्य उक्तं च शारदा टीकायाम्- चारणं हरिणी-बीजं रुक्मिणी शर्वरी पतिः | वेधो बीजं ततो मध्ये ग्रहाधिपतये ततः | भौमायान्ते पयः प्रोक्तो मनुः पञ्चदशाक्षरः || २२ || (४१) अथ वेधो बीजोद्धारः वेधो बीजं विधिर्ब्रह्मा स्वयंभू-बीजमेव च | कं बीजान्यपि चत्वारि कृत्रिमाण्यपराणि च || २३ || प्. ५६) [४.२३] प्रकाशम् ऐं ह्मौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा || ७७ अथ शनैश्चरस्य उक्तं चागमलहर्याम्- तारं लज्जां श्रियं चैव बीजं तु त्रि-शिरः स्मृतम् | ग्रह-चक्रवर्तिनेऽपि शनैश्चराय वै ततः || २४ || मदनं वासना शक्तिरन्ते नीरम् उदाहृतम् | शनैश्चरस्य देवेशि मनुर्विंशाक्षरः स्मृतः || २५ || प्रकाशम् ओं ह्रीं श्रीं ग्रह चक्रवर्तिने शनैश्चराय क्लीं ऐं सः स्वाहा || ७८ अथ राहोः अस्याम् एव- प्रणवं रसना युग्मं तटयुग्मं च गर्जितम् | ततष् टङ्कधारिणे च राहवे हव्यवाहनः || २६ || प्. ५७) [४.३०] लज्जा लक्ष्मीस्तथा भीमा ह्यन्ते वनम् उदाहृतम् | राहोर्विंशाक्षरो वालो यथाभीष्ट फलप्रदः || २७ || (४२) अथ गर्जितबीजोद्धारः उक्तं च स्वतन्त्रे- गर्जितं स्वनबीजं च स्तनितं रसितं तथा | टंबीजानि च चत्वारि कृत्रिमाण्यपराणि च || २८ || प्रकाशम् ओं क्रीं क्रीं हूं हूं टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा || अतः परं ग २४, २५ श्लोकयोर्मन्त्रस्य च द्विरुक्तिः शंभोर्नेत्र त्रयाणां च देवता भाषिता मया | सुदिने साधको मन्त्रान् ग्रहाणां साधयेच्छिवे || २९ || ७९ अथ केतोः उक्तं च तन्त्रमुक्तावलौ- प्रणवं सकला वृष्टिस्ततोऽपि क्रूररूपिणे | केतवेऽपि ततः पश्चाच्चन्द्रः शङ्का पयस्तथा | केतोरयं महामन्त्रो देवि पञ्चदशाक्षरः || ३० || प्. ५८) [४.३३] (४३) अथ वृष्टिबीजोद्धारः वृष्टिबीजं च करकं वर्षोपलस्तु वार्षिकः | क्रूं बीजानि च चत्वारि कृत्रिमाण्यपराणि च || ३१ || इति मुण्डमालातन्त्रे || प्रकाशम् ओं ह्रीं क्रूं क्रूर रूपिणे केतवे ऐं सौः स्वाहा || एषां नवग्रहाणां च मनवो भाषिता मया | अद्याहं तव देवेशि वर्णानां वच्मि वै मनून् || ३२ || कोशं लोकोपकारार्थं गोप्याद् गोप्यतमं कुरु | येन विज्ञानमात्रेण मान्त्रिकः साधको भवेत् || ३३ || इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे सर्वागमसारे नवग्रहमन्त्रोद्धारकोशाख्यानं नाम चतुर्थः कल्पः || ४ || प्. ५९) [५.७] ऋषय ऊचुः ब्रह्मर्षे ब्रह्मपुत्रस्त्वम् आगमार्णव पारगः | प्रसन्नोऽसि महाभागिन्नस्मासु कृपया प्रभो || १ || नानाशास्त्राणि ह्यस्माभिः श्रुतानि त्वन्मुखाम्बुजात् | वर्णानां श्रोतुम् इच्छामो मन्त्र-कोशानि वै वयम् || २ || दक्षिणामूर्तिर् उवाच शृणुध्वम् ऋषयः सर्वे मत्तो यूयं यथा-विधि | वर्णानां मन्त्रकोशं च निस्सृतं त्रिपुरामुखात् || ३ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि मन्त्र-कोशं सुविस्तरम् | मुनीनां सूचितं यच्च दक्षिणामूर्तिना पुरा || ४ || उक्तं च त्रिपुरातिलके- आत्म-बीजम् अकारं च स्वान्तं हृद्बीजमेव च | मानसं च मनोबीजं पैतामहमिति स्मृतम् | अपरम् अनृतं ज्ञेयम् अकारस्य सुरेश्वरि || ५ || || अ || शून्यं खम् अम्बरं व्योम वैष्णवं चेति भाषितम् | आकारस्यानृतम् अन्यद् उक्तं भैरव-तन्त्रके || ६ || || आ || इन्द्रबीजं तथा जिष्णुर्मरुत्वान् मघवा हरिः | शैवम् इकारवर्णस्य कृत्रिमम् अपरं वदेत् | मया प्रोक्तं सुरेशानि ग्रन्थे भैरवतन्त्रके || ७ || || इ || प्. ६०) बुद्धिबीजं तथा मेधा धीबीजं च मतिस्तथा | ऐन्द्रं तथैव विज्ञेयम् ईकारस्यानृतं परम् | मया प्रोक्तं सुरेशानि त्रिपुरातिलके शिवे || ८ || || ई || ऐन्द्र बीजौ द्वौ इ ई || रुतिबीजं तथा नन्दा वामनं वान्तबीजकम् | सौर्यम् उकारबीजानि कृत्रिमाण्यपराणि च | मयाख्यातानि सर्वस्वे कुब्जिकायाः सुरेश्वरि || ९ || || उ || कचबीजं तथा केशं शिरोरुहं च मूर्धजम् | ऐन्दवम् अनृतम् अन्यद् ऊकारस्य सुरेश्वरि | शिरोमणौ मया प्रोक्तं सुन्दर्याः परमेश्वरि || १० || || ऊ || पाप्माबीजं तथा पापं किल्बिषं कल्मषं तथा | किंकरीबीजम् एवं च माङ्गलमनृतं परम् | ऋकारस्य रहस्येऽस्मिन् काल्याः प्रोक्तं मया शिवे || ११ || || ऋ || कृपाबीजं दयाबीजं करुणा कार्षिकं तथा | ऋकारस्यानृतम् अन्यद् भाषितं विश्वयामले || १२ || || ॠ || विश्वबीजद्वयं ज्ञेयं ऌकारं च नम इति | व्यक्तबीजं जगद्बीजं गौर्वं प्रोक्तं मया शिवे | ऌकारस्यानृतम् अन्यद् उक्तं च रुद्रयामले || १३ || || ऌ || गङ्गाबीजं स्वर्धुनी च नाकवापी च स्वर्नदी | शौक्रम् अन्यद् असत्यं च ऌकारस्य मया स्मृतम् | ग्रन्थे च स्वकृतौ देवि मन्त्रसागरतन्त्रके || १४ || || ॡ || प्. ६१) एकादशी मातृकं च लताबीजं तथैव च | अल्लीबीजं च वाराकी चान्यद् अनृतम् आवदेत् || १५ || अपरं च मयाख्यातम् एकारस्य सुरेश्वरि | कुलचूडामणौ ग्रन्थे रचिते मान्त्रिकोत्तमैः || १६ || || ए || वाग्भवम् ऊर्ध्वबीजं च चारणं चण्डिकेश्वरः | चन्द्रोऽपि चर्मवसनं वासना च तथैव च || १७ || चार्वङ्ग्यपि च चर्माणं मात्रां द्वादशकाम् अथ | राह्वं ख्यातं मया देवि ऐकारस्यानृतं परम् | त्रिपुरासर्वस्वे ग्रन्थे दक्षिणामूर्तिना कृते || १८ || || ऐ || प्रणवं च तथा तारं त्र्यक्षं तोमापि त्र्यम्बकः | त्रासस्तारव देवेशि कैतवं च मया स्मृतम् | छिन्नाशिरोमणौ ग्रन्थे रचितेऽपि मया स्वयम् || १९ || || ओ || मोक्षबीजं तथा मुक्तिर्ज्ञानं निर्वाणबीजकम् | आगस्त्यं च मयाख्यातं ग्रन्थे भैरवतन्त्रके || २० || || औ || अंबीजं वृक्षबीजं च पादपं च धरारुहम् | भूरुहं च मयाख्यातमनृतम् अपरं वदेत् | सिद्धसारस्वते ग्रन्थे ब्रह्मणैव प्रकाशिते || २१ || || अं || नागबीजं भूधरं च भाग्य-बीजं च भावनम् | ध्रौवं ख्यातं मया देवि अःशब्दस्यानृतं परम् | ग्रन्थे त्रिपुरसुन्दर्याः सर्वस्वे विश्वदुर्लभे || २२ || || अः || प्. ६२) [५.३०] ककारं च शिरोबीजं मूर्धबीजं च वारुणम् | वेधोबीजं विधिर्ब्रह्मा स्वयंभूबीजमेव च || २३ || ककारस्य मयाख्यातम् अनृतम् अपरं वदेत् | ग्रन्थे छिन्नारहस्येऽस्मिन् पर्वतेश्वरनन्दिनि || २४ || || क || नमो बीजं पुष्करं च द्यौबीजं चक्रवालुकम् | वैष्टरश्रवबीजं च प्रोक्तं त्रिपुरया स्वयम् | आगमामृतमञ्जर्यां दुर्लभायां ममापि च || २५ || || ख || शिवबीजं च शंभुश्च शर्वः शंकर एव च | गकारस्यानृतम् अन्यद् भाषितं च मया प्रिये | कुलचूडामणौ ग्रन्थे दुर्लभे त्रिदिवेऽपि च || २६ || || ग || जिनबीजं षडभिज्ञं मारजिद्बीजम् एव च | मायात्मजोऽर्कबन्धुश्च गौतममनृतं परम् | घकारस्य मयाख्यातं ग्रन्थे वै रुद्रयामले || २७ || || घ || षडाननः शरजन्मा स्कन्दः कुमारबीजकम् | शाम्भवः शालिगीबीजम् अनृतम् अपरं स्मृतम् | कुब्जिकासर्वस्वे ख्यातं मया त्रैलोक्यपूजिते || २८ || || ङ || नाट्यबीजं च नटनं ताण्डवं नृत्तबीजकम् | चकारस्य मया ख्यातं ग्रन्थे भैरव-तन्त्रके || २९ || || च || शनिबीजम् अर्कजं च पङ्गुबीजं तथैव च | कालं च सौरबीजं च सूतिः सुन्दरबीजकम् | प्. ६३) [५.३६] छंबीजं च मया प्रोक्तं ग्रन्थे वामकेश्वरे शिवे || ३० || || छ || शनिबीजौ द्वौ छ ज || स्तनबीजं कुचं चैवम् उरोजो हृज्जम् एव च | जकारस्य मयाख्यातम् अन्यद् अनृतम् आवदेत् | आगमालंकरणेऽपि ग्रन्थे भैरवनिर्मिते || ३१ || || ज || इच्छाबीजं स्पृहा काङ्क्षा लिप्साबीजं चतुष्टयम् | झकारस्य मयाख्यातम् असत्यम् अपरं स्मृतम् | त्रैलोक्य प्रथिते ग्रन्थे देवि वै वामकेश्वरे || ३२ || || झ || यमबीजं कालबीजं कृतान्तं समवर्तिनम् | कीनाशं मृत्युबीजं च ञकारस्य मया स्मृतम् | त्रिपुरासर्वस्वे ग्रन्थे त्रिजगद्दुर्लभे प्रिये || ३३ || || ञ || कालबीजौ द्वौ ञं छं च || गर्जितं स्वनबीजं च स्तनितं रसितं तथा | टकारस्य मयाख्यातं स्वतन्त्रे देववन्दिते || ३४ || || ट || पद्मं पङ्कजपयोजौ नीरजम् अम्बुजं तथा | पञ्च ठकारबीजानि कृत्रिमाण्यपराणि च | मयाख्यातानि देवेशि तन्त्रे वै वामकेश्वरे || ३५ || || ठ || सिंहिका सरसीबीजं रेणुकाबीजम् एव च | अञ्जनी बीजकं ख्यातम् अनृतम् अपरं स्मृतम् | डकारस्य मया देवि ग्रन्थे वै रुद्रयामले || ३६ || || ड || प्. ६४) [५.४४] वायुबीजम् अनिलं च समीरणं मरुत् तथा | समीरं चाशुगं ज्ञेयं वातं श्वसन्बीजकम् | ढकारस्य मयाख्यातमन्यद् अनृतम् आवदेत् || ३७ || || ढ || वायु बीजौ द्वौ ढं यं भैरव तन्त्रे || आशुग बीजौ द्वौ णं ढं || वाणबीजं मार्गणं च पत्रिणम् आशुगं तथा | णकारस्यानृतम् अन्यद् ग्रन्थे भैरवतन्त्रके || ३८ || || ण || रात्रिबीजं तमोबीजं तामसीबीजम् एव च | क्षपा च क्षणदाबीजम् अन्यद् अनृतम् आवदेत् | कुब्जिकासर्वस्वे ग्रन्थे तंबीजं च मया स्मृतम् || ३९ || || त || विलबीजं च विवरं सुषिरं नागलोककम् | थकारस्य मयाख्यातं तन्त्रे वै कुलिकार्णवे || ४० || || थ || चक्रिबीजं व्यालबीजं सर्पः काकोदरोरगौ | भोगिबीजं भुजङ्गं च भुजङ्गममिति स्मृतम् || ४१ || दकारस्य मया ख्यातम् अनृतम् अपरं स्मृतम् | स्वतन्त्रे देवदेवेशि दक्षिणामूर्तिना कृते || ४२ || || द || पुष्पबीजं प्रसूनं च प्रसूतिः सुप्रजा तथा | धकारस्यानृतम् अन्यत् त्रिपुरातिलकं स्मृतम् || ४३ || || ध || क्षारबीजं च लवणं सैन्धवं सूकरं वृकम् | वाराहम् अनृतम् अन्यन् मयाख्यातं सुरेश्वरि | त्रैलोक्य प्रथिते ग्रन्थे त्रिपुरायाः शिरोमणौ || ४४ || || न || प्. ६५) [५.५२] मत्स्यं च मीनबीजं च शफरीबीजम् एव च | झषबीजं मयाख्यातं ग्रन्थे छिन्नाशिरोमणौ || ४५ || कूर्ममीनपदव्याप्तौ बीजार्ण सदृशं शिवे | फकारस्य पकारस्य भेदो नास्ति परस्परम् | भाषणोद्धारविषये लिखने प्रकृतिः पृथक् || ४६ || || प || कूर्मबीजं च कमठं कर्कटोऽपि कुलीरकम् | कच्छपम् अनृतम् अन्यन् मयाख्यातं च भामिनि | शारदापटले ग्रन्थे त्रैलोक्यप्रथिते शिवे || ४७ || || फ || ऊर्मिर्वीचिस्तथा चैवं तरङ्गस्त्रितयं स्मृतम् | असत्यम् अपरं ज्ञेयं मया ख्यातं सुरेश्वरि | कालिकासर्वस्वे ग्रन्थे ब्रह्मणैव प्रकाशिते || ४८ || || ब || भद्रिका भास्वती भीमा भकारस्यानृतं परम् | तन्त्रे वै मुण्डमालायां मयाख्यातं सुरेश्वरि || ४९ || || भ || दुलिबीजं शिलीबीजं मण्डूकं दुर्दुरं तथा | भेकीबीजं मया ख्यातम् असत्यम् अपरं स्मृतम् | आगमामृतमञ्जर्यां पर्वतेश्वर नन्दिनि || ५० || || म || वायुबीजं तथा वाग्मिवाचालं वैश्यबीजकम् | वीरा शार्णं तथा वापी मयाख्यातं स्वतन्त्रके || ५१ || || य || १३५, ७५७-७६७ अग्नी रेफश्च वह्निश्च हुतभुग् हव्यवाहनः | रकारस्य मयाख्यातं श्यामातन्त्रे सुरेश्वरि || ५२ || || र || प्. ६६) [५.५९] तमोबीजं तथा ध्वान्तं मोहं तिमिरम् एव च | लकारस्य मयाख्यातं स्वतन्त्रे मुनिनिर्मिते || ५३ || || ल || अभ्रबीजं च जीमूतम् अम्बुभृद् अवलंघनम् | वकारस्य मयाख्यातं तन्त्रे वै वामकेश्वरे | भूबीजं धरणीबीजं वकारं भाषितं मया || ५४ || || व || कल्याणं चैव शर्मापि शं शुभं च चतुष्टयम् | शकारस्य मयाख्यातं ग्रन्थे भैरवतन्त्रके || ५५ || || श || शम्पाबीजं तडिद्बीजं विद्युच्छतह्रदारतिः | ह्रादिनी बीजकं चैवम् असत्यम् अपरं स्मृतम् | मयाख्यातं सुरेशानि ग्रन्थे वै रुद्रयामले || ५६ || || ष || शक्तिः शर्मापि विज्ञेय शरच्छङ्के तथैव च | सकारस्य मयाख्यातं ग्रन्थे छिन्नाशिरोमणौ || ५७ || || स || छविबीजं कान्तिबीजं शोभापि सुषमा तथा | आकाशं च हकारस्यानृतम् अन्यन् मया स्मृतम् | सिद्धसारस्वते ग्रन्थे नित्यं मान्त्रिकपूजिते || ५८ || || ह || देवबीजं निर्जरं च त्रिदिशं त्रिदिवेशकम् | सुरबीजं च गीर्वाणं लेखम् अमरबीजकम् | क्षकारस्य मया प्रोक्तं कुलचूडामणौ प्रिये || ५९ || || क्ष || प्. ६७) [५.६०] वर्णानां देवदेवेशि कोशं प्रोक्तं मया शिवे | नानामन्त्रयुतं देवि सर्वागम विनिश्चितम् || ६० || इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे सर्वागममन्त्र सारे सर्ववर्ण कोशाख्यानं नाम पञ्चमः कल्पः || ५ || प्. ६८) [६.५] द्व्यक्षराणां पृथङ् नाम क्रीं प्रीं श्रीं ह्मौः तथा | पृथङ्नाम सुरेशानि सकलागम निश्चितम् || १ || अद्य वक्ष्यामि ते देवि तिस्रो भुवन देवताः | दक्षिणामूर्तिना पूर्वम् ऋषीणां भाषिताः स्वयम् || २ || भवानी देवदेवेशि द्वितीया बगलामुखी | इन्द्राक्ष्यपि तृतीया च तिस्रो भुवन देवताः || ३ || आसाम् अहं ते मन्त्राणि वक्ष्यामि शृणु पार्वति | यस्य कस्य न वक्तव्यं न वक्तव्यं वरानने || ४ || ८० तत्रादौ भवानी-मन्त्रोद्धारः उक्तं च मुण्डमालातन्त्रे- प्रणवं चैव द्वे पद्मे त्र्यक्षयुग्मं परा पुनः | हरिणाक्षीद्वयं कूर्चं हरं ठद्वयसंयुतम् || ५ || प्रकाशम् ओं श्रीं श्रीं ओं ओं ह्रीं श्रीं श्रीं हूं फट् स्वाहा || प्. ६९) [६.९] ८१ अथ बगलामुख्याः उक्तं चागमलहर्याम्- तारवं चैव मृद्बीजं द्व्यक्षरं समुदाहृतम् | मन्त्रं च द्विशिरो ज्ञेयं ततः पल्लवम् उद्धरेत् || ६ || भगवति बगला च मुखि देवि ततः पुनः | तथापि सर्वदुष्टानां वाचं मुखं पदं तथा || ७ || स्तम्भय-द्विस्तथा जिह्वां कीलय द्विर्बुद्धिं तथा | विनाशय द्विवारं च मृत्तिकाबीजकं तथा | त्र्यक्षम् अन्ते पयो ज्ञेयं द्विपञ्चाशाक्षरो मनुः || ८ || (४४) अथ मृद्बीजोद्धारः उक्तं च भैरवतन्त्रे- मृद्बीजं मृत्तिकाबीजं मृत्स्नाबीजं प्रशस्तिका | मृत्स्नानृतं परं ज्ञेयं पर्वतेश्वर नन्दिनि || ९ || प्रकाशम् ओं ह्रीं भगवति बगलामुखि देवि सर्व दुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय जिह्वां कीलय कीलय बुद्धिं विनाशय विनाशय ह्लीं ओं स्वाहा || प्. ७०) [६.१४] ८२ अथेन्द्राक्ष्याः उक्तं च रुद्रयामले- त्र्यक्षं कुन्तीद्वयं देवि कूर्चयुग्मं तथैव च | प्रस्थबीजं परां पद्मां चर्माणं च ततोऽभिधम् || १० || इन्द्राक्षि वज्रहस्तेऽन्ते लक्ष्मीं लज्जां च पुष्करम् | तीरयुग्मं द्वे रसने त्रासश्चन्द्रो हरं वनम् | इन्द्राक्ष्या देवदेव्याश्च ह्यष्टाविंशाक्षरो मनुः || ११ || (४५) अथ प्रस्थबीजोद्धारः उक्तं च शारदापटले- प्रस्थबीजं सानुबीजं शिखरं पुष्करं तथा | म्लौं बीजोद्धारम् एतद्धि चान्यद् अनृतम् आवदेत् || १२ || प्रकाशम् ओं क्रीं क्रीं हूं हूं म्लौं ह्रीं श्रीं ऐं इन्द्राक्षि वज्रहस्ते श्रीं ह्रीं म्लौं हूं हूं क्रीं क्रीं ओं ऐं फट् स्वाहा || तिस्र एता मयाख्याता देवि भुवनदेवताः | दक्षिणामूर्तिना भक्त्या संसारेऽस्मिन् प्रकाशिताः || १३ || ८३ [अथ खेचर्याः] अथाहं देवदेवेशि खेचर्या वच्मि वै मनुम् | प्. ७१) [६.१८] याम् आश्रित्य लभेद् योगी खेचरीं सिद्धिदां कलाम् || १४ || उक्तं च विश्वयामले- गीर्वाणाद्दशमं वर्णं चोद्धरेत् प्रतिलोमतः | तमोबीजं ततो दद्यान् मायाबीजं ततः परम् || १५ || ततो दद्याच्छरद्बीजं कूटोऽयं परिकीर्तितः | मन्त्रं तुर्यशिरो ज्ञेयं योगी दद्यात् ततोऽभिधाम् | खेचर्यै च ततो दद्याद् अन्ते सौष्मकम् एव च || १६ || प्रकाशम् म ल ह्रीं सौः खेचर्यै नमः || अथ वक्ष्यामि देवेशि ध्यानान् आगम निश्चितान् | एतासां देवतानां च ग्रहाणां देववन्दिते || १७ || तथा सप्तकुमाराणां ध्यानं तत्र विनिश्चितम् | तथा भेदविहीनानां शृणु पार्वति तत्त्वतः || १८ || इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे त्रिदेवी खेचरीणां कोशाख्यानं नाम षष्ठः कल्पः || ६ || प्. ७२) [७.९] अथादौ दशविद्यानां ध्यानं वक्ष्यामि त्वं शृणु | वामकेश्वर तन्त्रोक्तं त्रिपुरायाः सुरेश्वरि || १ || दिव्याम्बराङ्कित तनुं मिहिराग्नि चन्द्र नेत्राम् | सुधांशु मुकुटां हिम संनिभाभाम् || २ || सिंहासनां परशु खड्गधरां भुजाभ्याम् | ब्रह्मेन्द्र विष्णुनमितां त्रिपुरां भजेऽहम् || ३ || अथ वक्ष्ये श्रियो ध्यानं भाषितं रुद्रयामले | मुनिसाधक गीर्वाण विप्रवर्गैः सुपूजिते || ४ || लक्ष्मीं पद्मासनगत कटिं सूर्य शीतांशु नेत्राम् | उद्यद्भास्वत् कनकरुचिं पद्मशङ्खासि पाणिम् || ५ || नानामुक्तामणि सुशकलाभूषिताङ्गीं द्विबाहुम् | नित्यं लोकत्रितय फलदां नौम्यहं भक्तिपूर्वम् || ६ || अथ वक्ष्यामि वाग्देव्या ध्यानं विद्याप्रदं शिवे | तन्त्रमुक्तावलौ ग्रन्थे दुर्लभे त्रिदिवेऽपि च || ७ || वाणीं पूर्ण निशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभाम् | चन्द्रार्धाङ्कित मस्तकां निजकरैः संबिभ्रतीमादरात् || ८ || वीणाम् अक्षगुणं सुधाढ्य कलशं विद्यां च तुङ्गस्तनीम् | दिव्यैर् आभरणैर्विभूषित तनुं सिंहाधिरूढां भजे || ९ || प्. ७३) [७.१९] अथ वक्ष्यामि ताराया ध्यानं भैरवतन्त्रके | देव्या भेदविहीनाया मुनिसाधक पूजिते || १० || देवीं पन्नग भूषितां हिमरुचिं शीतांशु शङ्खप्रभाम् | मुक्तारत्न परीतकण्ठवलयां रक्ताम्बरां विभ्रतीम् || ११ || शूलाब्जासि गदा धरां सुरगणैर्वैकुण्ठ मुख्यैः स्तुताम् | नित्यं लोकत्रयैक रक्षणपरां तारां त्रिनेत्रां भजे || १२ || अथाहं भुवनेश्वर्या ध्यानं वक्ष्यामि तच्छृणु | साधकेष्ट प्रदे ग्रन्थे निःस्मृतं रुद्रयामले || १३ || उद्यद्भानु सहस्रसंनिभमुखीं पीनस्तनीं पद्मगाम् | दोर्भिर् अङ्कुशपाशपुस्तकजयान् संबिभ्रतीं सादरात् || १४ || ब्रह्म विष्णु महेश्वरेन्द्र मुनिभिर्नित्यं स्तुतां वन्दनैः | स्तोत्राद्यैर्भुवनेश्वरीं त्रिनयनां हृत्पङ्कजेऽहं भजे || १५ || अथ वक्ष्यामि मातङ्ग्या ध्यानं पर्वत नन्दिनि | कुब्जिकासर्वस्वे ग्रन्थे ममाप्यत्यन्त दुर्लभे || १६ || चन्द्रार्धाङ्कित शेखरां त्रिनयनां कोटीन्दु सूर्य प्रभाम् | नानारत्न सहस्र बद्धरसनां प्रेतासने संस्थिताम् || १७ || शङ्खं तोमर पट्टिसाब्जयुगलां दोर्भिर्वहन्तीं मुदा | ध्यायेऽहं हृदये सदा भगवतीं मातङ्गिनीं हारिणीम् || १८ || अथ वक्ष्ये महेशानि शारिकाध्यानम् उत्तमम् | प्. ७४) [७.२८] आगमामृतमञ्जर्यां निःस्मृतं दुर्लभं जनैः || १९ || श्रीशङ्खचक्र मुसलाम्बुजयुग्महस्ताम् | नागेन्द्र हारवलयाङ्कित कण्ठमालाम् || २० || सिन्दूरकुङ्कुम सहस्रमरीचि दीप्तिम् | श्रीशारिकां त्रि-नयनां हृदये स्मरामि || २१ || अथ वक्ष्यामि देवेशि राज्ञी ध्यानम् अनुत्तमम् | वामकेश्वर तन्त्रोक्तं पर्वतेश्वर नन्दिनि || २२ || शीतांशु वालार्क कृशानु नेत्राम् | चतुर्भुजाम् एण त्वग् आसनस्थाम् || २३ || शङ्खाब्ज शूलासि धरां महेशीम् | राज्ञीं भजेऽहं तुहिनाद्रि रूपाम् || २४ || अथ वक्ष्यामि भेडाया ध्यानम् इच्छाफलप्रदम् | निःस्मृतम् आगमोद्द्योते मया विरचिते स्वयम् || २५ || उद्यच्छीतांशु रश्मिद्युति चय सदृशीम् | फुल्ल पद्मोपविष्टां वीणा नागेन्द्र शङ्खाम् || २६ || युध परशुधरां दोर्भिर् ईड्यैश्चतुर्भिः | मुक्ता हारांशु नानामणियुत हृदयाम् || २७ || सीधु पात्रं वहन्तीं वन्दे भेडा भवानीम् | प्रहसित वदनां साधकेष्ट प्रदात्रीम् || २८ || प्. ७५) [७.३६] अथ वक्ष्यामि देवेशि ज्वालामुख्या अनुत्तमम् | ध्यानं मया विरचिते ग्रन्थे ज्वालाशिरोमणौ || २९ || ज्वाला परीतास्य शिरोरुहां तां सरोज शङ्खासि गदा धरां च | सिंहासने स्थापित पादयुग्मां ज्वालामुखीं सुहृदये स्मरामि || ३० || अथाहं भद्रकाल्याश्च ध्यानं वक्ष्यामि निःस्मृतम् | स्वयं मया विरचिते तन्त्रे वै वामकेश्वरे || ३१ || मुण्डं विश्वस्य कर्तुः करकमलतले धारयन्तीं हसन्तीम् | नाहं तृप्ता वदन्तीं सकलजन चयं भक्षयन्तीं सदैव || ३२ || श्यामां विष्णुं गिरीशम् अरिकुलमथनं दोर्भिर् ईड्यैर्धृतासिम् | ध्यायेऽहं भद्रकालीं नवजलविषदां प्रेतमध्यासनस्थाम् || ३३ || तुरी ध्यानमहं वक्ष्ये निःस्मृतम् आगमामृते | अस्मिंश्चराचरे ख्याते ब्रह्मणैव प्रकाशिते || ३४ || नानारत्न निबद्ध चन्द्रशकलां मौलौ जटाभिर्वृते | पाशाम्भोजधरां हिमांशु धवलां दोर्भ्यां द्विबाहुं शिवाम् || ३५ || सूर्येन्द्वग्नि विलोचनां सितमुखीं प्रेतासने संस्थिताम् | ब्रह्मा विष्णु महेश्वरैश्च नमितां देवीं भजेऽहं तुरीम् || ३६ || प्. ७६) [७.४६] अथादौ छिन्नमस्ताया ध्यानं वक्ष्यामि निःस्मृतम् | स्वकृते त्रिपुरायाश्च ग्रन्थे देवि शिरोमणौ || ३७ || ऐणाङ्कांशु परीतभाल फलकां बालार्क कोटिप्रभाम् | ज्वालाबद्ध महार्घ रत्ननिचयां कन्दर्प दर्पोज्ज्वलाम् || ३८ || शूलास्यङ्कुश पाश वेणुमुसलाम्भोजान् भयान् बिभ्रतीम् | भक्तेष्टां छिन्नमस्तकां भगवतीं ध्याये हृदब्जे सदा || ३९ || दक्षिणाकालिकायाश्च ध्यानं वक्ष्यामि निःस्मृतम् | ग्रन्थे कालीरहस्येऽस्मिन् पर्वतेश्वर नन्दिनि || ४० || ब्रह्मा विष्णु शिवास्थि मुण्डरसनां ताम्बूलरक्ताधराम् | वर्षामेघ निभां त्रिशूल मुसलौ पद्मासि पाशाङ्कुशान् || ४१ || शङ्खं साहियुगं धृतां दशभुजां प्रेतासने संस्थिताम् | देवीं दक्षिणकालिकां भगवतीं रक्ताम्बरां तां स्मरे || ४२ || अथ वक्ष्यामि श्यामाया ध्यानं पर्वत नन्दिनि | श्यामा तन्त्रे मयाख्यातं सकलागम सागरे || ४३ || त्रैलोक्य पूजित पदाम्बुरुह द्वयां ताम् | कृष्णाम्बुभृत् सदृश रूपधरां त्रिनेत्राम् || ४४ || शूलासि शङ्खमहतीं स्वभुजैर्वहन्तीम् | श्यामांभजे शवशरीर कृतासनस्थाम् || ४५ || अथाहं कालरात्र्यास्ते ध्यानं वक्ष्यामि निःस्मृतम् | मया विरचिते देवि तन्त्रे वै वामकेश्वरे || ४६ || प्. ७७) [७.५६] शूलाब्जपाशाङ्कुश पद्महस्तां चतुर्भुजां धूमनिभां त्रिनेत्राम् | सिंहासनस्थां धृत पीतवस्त्रां ध्याये महेशीं हृदि कालरात्रीम् || ४७ || नानाभरण संयुक्ते देवि वक्ष्यामि त्वं शृणु | श्रीवज्रयोगिनी ध्यानं निःस्मृतं कुलिकार्णवे || ४८ || इन्द्वग्नि सूर्यनयनां पाशाङ्कुशधरां शिवाम् | द्विभुजां सिंहम् अध्यस्थांभजेऽहं वज्रयोगिनीम् || ४९ || अथ वक्ष्यामि वाराह्या ध्यानं तन्त्रविनिश्चितम् | यथाभीष्ट प्रदं देवि कुलचूडामणौ प्रिये || ५० || चन्द्रार्ध चूडां द्विभुजां भुजाभ्यां शूलाङ्कुशौ श्याममुखीं वहन्तीम् | सूर्याग्नि चन्द्रीकृत दृष्टि पातां ध्याये हृदब्जे विमलां वराहीम् || ५१ || अथ वक्ष्यामि देवेशि शारदा ध्यानम् उत्तमम् | शारदापटले ग्रन्थे रचितेऽपि मया स्वयम् || ५२ || षड्भुजां त्रिनयनां स्मिताननां शाण्डिल्यर्षिस्तुत पादपङ्कजाम् | पर्वते स्थितवतीं धृतशूलां शारदां भगवतीं हृदि ध्याये || ५३ || अथ वक्ष्यामि देवेशि त्वं शृणु ध्यानम् उत्तमम् | कामेश्वर्यास्त्रिपुरायाः सर्वस्वे तन्त्रकोत्तमे || ५४ || त्रिलोचनां सूर्य सहस्र शोभां सिंहासनस्थां द्विभुजां धृतासिम् | पीताम्बरां विष्णु महेश सेव्यां कामेश्वरीं तां हृदये स्मरामि || ५५ || अथ वक्ष्यामि गौर्यास्ते ध्यानं भैरवतन्त्रके | ग्रन्थे मया विरचिते पर्वतेश्वर नन्दिनि || ५६ || प्. ७८) [७.६५] गौराङ्गीं धृतपङ्कजां त्रिनयनां श्वेताम्बरां सिंहगाम् | चन्द्रोद्भासित शेखरां स्मितमुखीं दोर्भ्यां वहन्तीं गदाम् || ५७ || विष्ण्विन्द्राम्बुज योनिशंभु त्रिदशैः संपूजितांघ्रि द्वयाम् | गौरीं मानस पङ्कजां भगवतीं भक्तेष्टदां तां भजे || ५८ || अथाहम् अन्नपूर्णाया ध्यानं वक्ष्यामि त्वं शृणु | निःस्मृतं भैरवे तन्त्रे मया देवि प्रकाशिते || ५९ || चन्द्रार्धमौलिं द्विभुजां त्रिनेत्रां शूलाक्षमाले द्विभुजैर्वहन्तीम् | एणासनस्थां भुजगोपवीतां ताम् अन्नपूर्णां हृदये स्मरामि || ६० || कुलवागीश्वरी ध्यानं वक्ष्यामि त्वं शृणु प्रिये | आगमामृतमञ्जर्यां दुर्लभायां ममापि च || ६१ || त्रिशूलासि धरां दोर्भ्यां रक्तास्यां वह्निसंनिभाम् | त्र्यक्षां सिंहासनगतां कुलवागीश्वरीं भजे || ६२ || अथ वक्ष्ये गणेशस्य ध्यानं गीर्वाणपूजिते | आगमार्णवपीपूषे दुर्लभे भुवनेऽम्बिके || ६३ || द्विचतुर्दशवर्ण भूचितं मुसलाम्भोजधरमह्युपवीतम् | द्विमृगाधिप गामिनं त्रिनेत्रं शिवपुत्रं द्विरदाननं भजेऽहम् || ६४ || अथ ध्यानं कुमारस्य वक्ष्यामि शृणु पार्वति | निःस्मृतम् आगमोद्द्योते मया विरचिते शिवे || ६५ || प्. ७९) [७.७५] हिमाद्रि श्वेतं द्विभुजं भुजङ्गैः परीतगात्रं शिखिविष्टरस्थम् | नागेन्द्र कन्या प्रियपुत्रम् आद्यं हृदि स्मरेऽभीष्टप्रदं कुमारम् || ६६ || हैहयस्य ब्रवीम्येवं ध्यानं तव कुतूहलात् | यथाभीष्ट प्रदं नृणाम् उड्डामर विनिश्चितम् || ६७ || सहस्रभुज मण्डली जिततमीचरेशाधिपम् ? | हिमांशु सदृशाननं धृतसहस्र तूणीरकम् || ६८ || सिताम्बरधरं सदा तुरगराज मध्यस्थितम् | स्मरामि भुवनाधिपं हृदि तु कार्तवीर्यार्जुनम् || ६९ || अथ वक्ष्यामि देवेशि ध्यानं तस्य विनिः स्मृतम् | मृत्युंजयस्य देवस्य ग्रन्थे कुब्जाशिरोमणौ || ७० || चन्द्रोद्भासित मूर्धजं सुरपतिं पीयूषपात्रं वहन् | हस्ताब्जेन सुधांशु कोटि विमलं हास्यस्य पङ्केरुहम् || ७१ || सूर्याग्नीन्दु विलोचनं करतलैः पाशाक्ष सूत्राङ्कुशा- म्भोजान् बिभ्रतम् अक्षयं पशुपतिं मृत्युंजयं तं स्मरे || ७२ || सुग्रीवस्याथ वक्ष्येऽहं ध्यानं पर्वतनन्दिनि | कुलचूडामणौ ग्रन्थे निर्मिते मन्त्रसागरे || ७३ || बालं षोडश हायनं कपि पतिं वह्निप्रभा भास्वरम् | दोर्भिर्वृक्षगदा धनुः शरचयान् संबिभ्रतं सादरात् || ७४ || वन्द्यं देवस्वरूपिणं रघुपतिं चाराधयन्तम् मुदा | ध्यायेऽहं भगवन्तम् अर्कतनयं सुग्रीवदेवं हृदि || ७५ || प्. ८०) [७.८४] अथाहं ते हनुमतो ध्यानं वक्ष्यामि निःस्मृतम् | कुलचूडामणौ ग्रन्थे पर्वतेश्वर नन्दिनि || ७६ || रामेष्ट मित्रं जगद् एक वीरं प्लवङ्ग राजेन्द्र कृत प्रणामम् | सुमेरु शृङ्गाभम् अचिन्त्यम् आद्यं हृदि स्मरेऽहं हनुमन्तम् ईड्यम् || ७७ || अथ ते भैरवस्याहं ध्यानं वक्ष्यामि पार्वति | निःस्मृतं भैरवे तन्त्रे यथाभीष्ट फलप्रदम् || ७८ || कपालहस्तं भुजगोपवीतं कृष्णछविं दण्डधरं त्रिनेत्रम् | अचिन्त्यम् आद्यं मधुपान सक्तं हृदि स्मरे भैरवम् इष्टदं तम् || ७९ || अथ वक्ष्यामि सूर्यस्य ध्यानं तन्त्र विनिश्चितम् | त्रिपुरासर्वस्वे ग्रन्थे दक्षिणामूर्तिना कृते || ८० || प्रत्यक्ष देवं विषदं सहस्रमरीचिभिः शोभित भूमिदेशम् | सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे || ८१ || अथ वक्ष्यामि सौम्यस्य ध्यानं भैरवतन्त्रके | यथा भीष्ट प्रदं सत्यं सुरासुर नमस्कृते || ८२ || सोमात्मजं हंसगतं द्विबाहुं शङ्खेन्दु रूपं ह्यसि पाशहस्तम् | दयानिधिं भूषणभूषिताङ्गं बुधं स्मरे मानसपङ्कजेऽहम् || ८३ || अथ वक्ष्यामि शुक्रस्य ध्यानं तन्त्र विनिश्चितम् | कुब्जिकासर्वस्वे ग्रन्थे ब्रह्मणैव प्रकाशिते || ८४ || प्. ८१) [७.९२] संतप्त काञ्चन निभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुह द्वंद्व शूलम् | क्रौंचासनं च सुर सेवित पादपद्मं शुक्रं स्मरेद्विजयनं हृदयाम्बुजेऽहम् || ८५ || अथ वक्ष्यामि जीवस्य शृणु पार्वति तत्त्वतः | ध्यानं भैरवतन्त्रोक्तं सकलार्थ प्रदं नृणाम् || ८६ || तजो मयं शक्ति त्रिशूलहस्तं सुरेन्द्र ज्येष्ठस्तुत पादपद्मम् | मेधा निधिं मत्स्यगतं ? द्वि-बाहुं गुरुं स्मरे मानसपङ्कजेऽहम् || ८७ || अथ वक्ष्यामि चन्द्रस्य ध्यानं देवि शृणु प्रिये | निःस्मृतम् आगमोद्द्योते नाना ध्यान सरित्पतौ || ८८ || शङ्ख प्रभम् एण प्रियं शशाङ्कम् ईशानमौलि स्थितम् ईड्यरूपम् | तमीपतिम् अम्बुज युग्म हस्तं ध्याये हृदब्जे शशिनं ग्रहेशम् || ८९ || अथ वक्ष्यामि भौमस्य ध्यानं तन्त्र विनिश्चितम् | आगमामृतमञ्जर्यां शृणुष्वैक मनाः प्रिये || ९० || प्रतप्त गाङ्गेय निभं ग्रहेशं सिंहासनस्थं कमलासिहस्तम् | सुरासुरैः पूजित पादपद्मं भौमं दयालुं हृदये स्मरामि || ९१ || अथ वक्ष्ये शनेर्ध्यानं यथाभीष्ट फलप्रदम् | निःस्मृतं च महेशानि शुभदम् आगमामृते || ९२ || प्. ८२) [७.१००] नीलाञ्जनाभं मिहिरेष्ट पुत्रं ग्रहेश्वरं पाश भुजङ्ग पाणिम् | सुरासुराणां भयदं द्विबाहुं स्मरे शनिं मानसपङ्कजेऽहम् || ९३ || अथाहं सैंहिकेयस्य ध्यानं वक्ष्यामि त्वं शृणु | निःस्मृतं फलदं नृणां तन्त्रे वै वामकेश्वरे || ९४ || शीतांशु मित्रान्तकम् ईड्य रूपं घोरं च वैडूर्य निभं द्विबाहुम् | त्रैलोक्य रक्षा परम् इष्टदं च राहुं ग्रहेन्द्रं हृदये भजेऽहम् || ९५ || अथ वक्ष्यामि केतोश्च ध्यानम् आगम निश्चितम् | निःस्मृतं आगमोद्द्योते ग्रन्थे वै मन्त्रसागरे || ९६ || लाङ्गूल युक्तं भयदं जनानां कृष्णाम्बुभृत् संनिभम् एकवीरम् | कृष्णाम्बरं शक्ति त्रिशूलहस्तं केतुं भजे मानसपङ्कजेऽहम् || ९७ || अथ वक्ष्यामि देवेशि भवानी ध्यानम् उत्तमम् | कुलचूडामणौ ग्रन्थे निःस्मृतं भुवनेश्वरि || ९८ || अरिशङ्ख कृपाण खेटवाणान् स्वधनुः शूलक तर्जनीं दधानाम् | भयदां महिषोत्तमाङ्ग संस्थां नवदूर्वा सदृशीं भजे भवानीम् || ९९ || अथाहं बगलामुख्या ध्यानं वक्ष्यामि निःस्मृतम् | प्. ८३) [७.१०७] आगमामृतमञ्जर्यां सुरासुर नमस्कृते || १०० || नानारत्न निबद्ध रम्य मुकुटां पीताम्बरां भाग्यदाम् | घर्मांश्वग्नि शशाङ्करश्मि नयनां सिंहासनस्थां शिवाम् || १०१ || सद्गाङ्गेय निभां महार्घ मणिभिरुद्भासिताङ्गीं सदा | देवीं श्रीबगलामुखीं हृदि भजे भक्तेष्टदां मुक्तिदाम् || १०२ || अथ वक्ष्ये शृणोषि त्वम् इन्द्राक्षी ध्यानम् उत्तमम् | निःस्मृतं जगद् ईशानि ग्रन्थे वै रुद्रयामले || १०३ || मालास्यङ्कुश पद्मयुग्मकध्रां साहस्रनेत्रां शिवाम् | मत्तैरावण पृष्ठगां शशिमुखीं त्रैलोक्यरक्षापराम् || १०४ || दोर्भिर्गानरतां स्फुटाम्बुजनिभां ब्रह्मादि देवैः स्तुताम् | इन्द्राक्षीं जनमातरं हृदि भजे कारुण्यरूपां पराम् || १०५ || अथ वक्ष्ये महेशानि खेचरीध्यानम् उत्तमम् | यां ध्यात्वा खेचरीं योगी जीवन्मुक्तो भवेत् कलौ | ग्रन्थे भैरवतन्त्राख्ये निःस्मृत त्रिदशार्चिते || १०६ || विनिद्रकमलोत्पलैर्मुनिभिरर्चितांघ्रि द्वयाम् | सितासित कराननां सितकरोज्ज्वल शेखराम् || १०७ || प्. ८४) [७.११३] रवीन्दुशिखिलोचनाम् अभयपुस्तकौ बिभ्रतीम् | स्मरामि हृदि खेचरीं भुवनमातरं सिद्धिदाम् || १०८ || एतासां देवदेवेशि मन्त्रध्यानचयं स्मृतम् | यस्य कस्य न दातव्यं ग्रन्थम् उद्धारकोशकम् || १०९ || ऋषय ऊचुः धन्यः स यस्य पुत्रस्त्वं सकलागम पारगः | जयत्वं स्वगृहं गन्तुम् आज्ञापयितुमर्हसि || ११० || श्रीदक्षिणामूर्तिरुवाच गच्छध्वं मुनयः सर्वे क्षमध्वं कृपया मम | इत्युक्ता मुनयो जग्मुः स्वगृहं मन्त्रलालसाः || १११ || ईश्वर उवाच दक्षिणामूर्तिना तेन दृष्ट्वा तन्त्रान् मनोरमान् | कृतम् उद्धारकोशाख्यं ग्रन्थं गोप्यतमं कुरु || ११२ || देव्युवाच क्रीतस्मि भवतानेन ग्रन्थेनाहं सुरेश्वर | इत्युक्त्वा सुमहाकुञ्जं कैलासाद्रेश्च जग्मतुः | उभौ तावम्बिका देवी देवश्च चन्द्रशेखरः || ११३ || इति श्रीदक्षिणामूर्ति विरचित उद्धारकोशे सकलागम सारे षोडश देवी सप्तदेवी सप्त कुमार नव ग्रह चतसृ देवी कोश ध्यान निर्णयो नाम सप्तमः कल्पः || ७ || ########### END OF FILE #######