#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00276 Uniform title: umāsaṃhitā Manuscript : IFP transcript T0081 Description: Transcribed from IFP transcript T0081 which is acopy of MS 73868 belonging to the adhyar Library, Madras. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 15, 2013 Internet publisher : Muktabodha Indological Research InstituteInternet publisher: Muktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### उमासंहिता || लोचनैवमुमुक्षूणां मनुष्याणां काश्यां श्रोत्रिय * * * * * * * * * दक्ष्यामि हामिनि | तस्योपदेशमन्त्रेण मुक्तिं विन्दन्ति मानवाः | उच्चार्य * * * * * * * * * * मानवः || अमृते कथयिष्यामि इतिहासं पुरातनम् | अवन्ति विषये कश्चित् ब्राह्मणोवेद * * * || श्रुताध्ययनसंपन्नो विद्याधर इति श्रुतः | धनिनां श्रोत्रियादीनां स्वाध्यायव्रत षालिनाम् || कुले * तो विशेषेण स्नानानुष्ठानतत्परः | स्वयमस्मै द्विजगणैर्वेदपाठ परश्च सः || सत्कन्यां श्रोत्रियकुले परिणीय शुचिस्मिताम् | मन्दसासेति विख्यातां रामां सर्वाङ्गसुन्दरीम् || दीक्षितो * न् सदाकाले जुहोतिस्म विधानतः | एवं भूतो द्विजवरो वेदवादबहिष्कृतैः || प्. २) कदाचित्कृतसंवादस्तत्र संख्यमरोचत | विहाय वैदिकान्धर्माञ्छ्रुतिस्मृत्युररीकृतान् || पाषण्डैः कृत्संसर्गः परदारपरायणः | वेश्यापतिरभून्नित्यं द्रव्यत्याग कृतादरः || एवं धनेषु गच्छत्सु विभज्य भ्रातरो धनम् | उपेक्षाञ्चकुरनिशं तं द्विजं वेददूषकम् || नष्टेषु द्रव्यजातेषु स्वदारनिरतो भवत् | सापिनी वुरुजा दग्धा पञ्चत्वं गमिता भृशम् || * * * मेति विज्ञाय चिन्तयानो दिवानिशम् | * * * * * * ञ्चिन्त्य हारामेति रुरोदह || हाराम राम रामेति हारामेति मनोरमे | इति शब्दं स बहुधा कृत्वा सञ्चरति क्षितौ || एवं काले बहुगते गतकल्मष पञ्जरः | रामस्मरण माहाम्त्याज्जीवन्मुक्तश्च चार सः || एवं भूतद्विजवरं किं कराः कालचोदिताः | सञ्चाल्य सर्व प्राणानि क्रष्टुमु * * * * * || * * प्राणेषु संयोज्य प्राणस्तेजसि योजितः | कृष्यमाणे तेजसितु त * वविलयं गतः || प्. ३) विद्याधरो न दृष्टोत्र क्वगतो ब्राह्मणाधमः | इति शक्तितचित्तास्ते मा गतेस्म परस्परम् || मार्गित्वा बहुकालं तु दूतास्स्विन्न मुखा भृशम् | राज्ञे निवेदयामासुर्ब्राह्मणानधनक्रियाम् || भो भो प्रेत पते युष्मद्गणकस्य मुखाच्छ्रुतम् | वाक्यमाकर्ण्य वेगेन गतास्म ब्राह्मणान्तिकम् || महान्तं यत्नमास्थाय ब्राह्मणग्रहणे सति | न तत्र किञ्चिन्न दृष्टं निराशा जीविते वयम् || अस्मान्नुकं स्वराजेन्द्र तवाज्ञाकारिणो वयम् | इत्युक्त * * * * न चित्रगुप्तमथाह्वयत् || यमः- चित्रगुप्त त्वया सर्वं ज्ञातं सर्वज * * * | * * * * * * पं वै पापिनां धर्मिणां तथा || अद्य विद्याधराख्यस्य ब्राह्मणस्य विचेष्टितम् | आलोच्या च * * णक पक्षपातविवर्जितम् || पत्रजालं परं मृश्य चित्रो दण्डधरं वचः | प्रोवाच नाथ मद्वाक्यं यथावच्छृणु सूर्यज || जन्मप्रभृति विप्रेण परदाराभिमर्शनम् | वृषलीगमनं चैव शूद्रस्त्रीगमनं तथा || रजकीगमनं चैव नर्तकी गमनं तथा | प्. ४) वंशकाराङ्गनाञ्चापि सुधाकाराङ्गनां तथा || सूचिकारस्य ललनां प्रियां क्राकचिकस्य च | वृषलीगमनं चापि कृतं रागव्यशाद्भृशम् || आरूढपति ताज्जाता वर्धकीवारयोषितः | रजसोदर्शनात्पूर्वमनूढा ब्राह्मणाङ्गना || ऊढा च समगोत्रेण वृषल्यः कीर्तिता बुधैः | यः करोत्येकरात्रेण वृषलीसेचनन्द्विजः || सभैक्ष भुञ्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति | वृषलीगमनाद्विप्रः कुंभीपाकेषु पच्यते || परदारान्निगमनात्कालसूत्रेषु पच्यते | अयं विद्याधरो नाम पापिनामग्रसंभवः || अभक्ष्य भक्षणं चक्रेग्रञ्च नानां च भक्षणम् | खट्वाङ्ग कबकं चापि शुग्रुकं लशुनं तथा || निष्पावभक्षणं चापि व्याघ्र पर्णस्य भक्षणम् | उपोतकीभक्षणं च मौर्वा भक्षणमादरात् || एवमादीनि पापानि कृतवाञ्छ्रद्धया सह | एकोद्दिष्टं नवश्राद्धं स पिण्डप्रेत भोजनम् || गोदानग्रहणं चापि कृतवान्विप्रपातकी | वेदमुच्चार्य वादेन दानग्रहण तत्परः || यतीनां निन्दकश्चायं महतां दूषकस्तथा | प्. ५) एवमादीनि पापानि नित्यमाचरते मुधा || तस्माद्विदेहनिर्वाण पदवीं नार्हते द्विजः | एवमुक्तेन चित्रेण कालो दण्डधरोरुष || दण्डमुद्रां च संगृह्य वेधसोन्तिकमभ्यगात् | सत्यलोकं गतो राजा प्रेतानां कार्यसाधकः || प्रणम्य सत्यलोकस्थं चतुराननमस्तुवत् | जय वाणीश लोकानां सृष्टिकर्म विशारद || चतुर्मुखदयासिन्धो वेदवेद्य जगन्मय | सृष्टिस्थित्यन्त करणे ब्रह्मविष्ण्वीशनामक || विज्ञापनं शृणुष्वाद्य दासस्य तव मारिष | एवं स्तुतो दण्डधरेण देवो वाणीश्वरी वेदसमूहयोनिः | प्रोवाच कालं परमासनस्थः संस्तूयमानोऽप्सरसां समूहैः || इत्युमा संहितायां द्वितीयोध्यायः || || अथ तृतीयोध्यायः || उमा- स्रठुरन्तिकमासाद्य किं कृतं रविसूनुना | वदस्व कृपया मह्यं यद्यद्गुह्यं महेश्वर || ईश्वरः- शृणु देवि प्रवक्ष्यामि विप्रस्य चरितं महत् | यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नरकादपि || विद्याधराख्यो विप्रषू सायुज्यं मुक्तिमभ्यगात् | ब्रह्मा- धर्मराज प्रवक्ष्यामि विप्रस्य चरितं महत् || यस्य स्मरणमात्रेण जीवन्मुक्तो भविष्यति | अयं ब्राह्मणदायोदो रामनाम सदा स्मरन् || सहस्रनाम सदृशं रामनाम वरानने | कोटियज्ञसमं रामचन्द्रो भद्रेत्ययं मनुः || नमोन्तश्रुतिना प्रोक्तो वेदान्तेषु यथा क्रमम् | रामाय रामचन्द्राय रामभद्राय वा मनुम् || यावज्जीवञ्जपन्मर्त्यो जीवन्मुक्तो न संशयः | तस्मात् कौशिकगोत्रोयं जजाप परमं मनुम् || प्.७) चित्रगुप्तः- अनेन सर्वपापानि बुद्धिपूर्वकृतानि च | बुद्धि पूर्वगते पापे प्रायश्चित्तं न विद्यते || परदार परद्रव्य परान्न ग्रहणे रतः | वेदवादत्रिषेणैव गृहीतं धनसञ्चयम् || गवां प्रतिग्रहं कृत्वा विक्रयं कृतवानयम् | दुर्भोजनविधौ सक्तो दुष्प्रति ग्रहणे रतः || अजस्रं विषयासक्तश्शौचाचारबहिष्कृतः | ब्रह्मा- रा शब्दोच्चारणे जाते वक्त्रात्पापस्य निर्गमः | मकार स्मरणे जाते भस्मभावं व्रजन्ति ते || ब्रह्महत्या सहस्राणि स्वर्णस्तेयशतानि च | गुरुदारशतं चापि सुरापानशतं तथा || तत्संयोगिशतं चापि मुच्यते रामदर्शनात् | औपासनाग्निरहिताः पञ्चयज्ञ पराङ्मुखाः || सन्ध्यावन्दनहीनाश्च शुद्धा रामस्य कीर्तनात् | अभक्ष्यभक्षणासक्ता वृषलीगमने रताः || उच्चार्य सततं रामशब्दं मुक्ता न संशयः | गच्छन्तिष्ठन्स्वपन्नृत्यन् भुञ्जानोवापि मानसः || मुच्यते रघुनाथस्य नाम्नां कीर्तनो द्विजः | प्. ८) भोजनादौ स्मरन्मन्त्रं प्रतिग्रासं यथारुचि | उच्चार्य रामविजयं मुच्यते क्षत्रियोहंसः || रघुनाथस्य नामानि यो गृह्णाति नरो भुवि | विमुक्त सर्वपापस्स विष्णुलोके महीयते || रामायणस्य श्लोक्यं वा पादं वा पदमेव वा | भुक्त्यन्तेषु प्रयुञ्जानो ब्रह्मभूयाय कल्पते || रामायण कथामेव ये भृण्वन्ति नरोत्तमाः | विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् || ये शृण्वन्ति कथां मर्त्या राघवेन्द्र जयार्थिताम् | पादं वा सर्गमेकं वा काण्डमेकमथापि वा || अश्वमेधसहस्राणां फलं विन्दन्ति मानवाः | चतुर्विंशत्सहस्राणां श्लोकानामुक्तवा नृषिः || तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम् | कृत्स्नं रामायणं यो वा शृणोति श्रावयेत वा || सर्वबन्धविनिर्मुक्तो ब्रह्मभूयाय कल्पते | अपुत्रो लभते पुत्रं कन्या सत्पतिमाप्नुयात् || विद्यार्थी लभते विद्यां वित्तार्थी धनवान्भवेत् | स्त्रियो रजस्वला श्रुत्वा पुत्रान् सूयुरनुत्तमान् || श्रुत्वा रामायणमिदं बन्ध्या पुत्रमवाप्नुयात् | कटुंबस्य च वृद्धिस्स्याद्धनधान्य समृद्धिता || प्. ८) मित्राणां चैव वृद्धिस्स्यात् पुत्राणां च तथा भवेत् | आनुकूल्यं कलत्रेषु श्रवणादेव जायते || महादान प्रतिग्रहं महापापहरं भवेत् | चतुर्विंशति वाराणामादृत्या नियमेव च || षडब्दकृच्छ्रे यत्पुण्यं यत्पुण्यं सेतुदर्शने | तीर्थाचल प्रेक्षणे च तत्पुण्यं श्रवणाद्भवेत् || ज्योतिष्टोमादि यज्ञानां केषाञ्चिदधिकारिता | श्रीमद्रामायणे काव्ये सर्वेषामधिकारिता || अर्थित्वादिविशिष्टस्य कर्मण्यधिकृतिर्मता | नित्यादि साधनोपायो ब्रह्मज्ञाने यथा भवेत् || तद्वत्साधनसापेक्षा नास्ति रामायणश्रुतौ | श्रुत्वा रामायणं काव्यं मुक्तिभाग्जायते नरा || गायत्री वेदमातृत्वाद्यथा श्रेष्ठतमा मता | तद्वद्रामायणाख्यानं चतुर्विंशति वर्णकम् || धर्ममर्थञ्च कामञ्च गायत्री जपतो लभेत् | मोक्षञ्च श्रवणादेव विन्दन्ति मनुजा भुवि || संसारतापयुक्तानां जन्तूनां हतचेतसाम् | श्रीमद्रामायणाख्यानपीयूषं भेषजं भवेत् || दुरान्न दग्धजिह्वानां दुर्दानहतचेतसाम् | दुस्सङ्गहतचित्तानां कलिपाशावपाशिनाम् || प्. १०) देवपूजाविहीनानां श्रौतस्मार्ता पवर्जिनाम् | पितृपूजाविहीनानां वियुक्ताग्न्यर्चिनामपि || श्रीमद्रामायणकथा सर्वपापप्रणाशिनी | श्रीमद्रामायणं मर्त्या ये शृण्वन्ति महीतले || सर्वपाप विनिर्मुक्ता विष्णुमन्दिर गामिनीः | इति दण्डधर प्रख्यानुक्तवांश्चतुराननः || श्रुत्वा धर्मो विश्वसृजोक्तवाक्यं निवर्त्य लोकाच्चतुराननस्य | भृत्यैर्वृतस्संयमिनीति संज्ञां पुरीं गतो विश्वसृजं प्रणम्य || इत्युमा संहितायां तृतीयोध्यायः || || अथ चतुर्थोध्यायः || उमा- भूयोऽपि श्रोतुमिच्छामि रघुनाथस्य वैभवम् | लङ्कायां रावणं हत्वा प्रतिष्ठाप्य विभीषणम् || किं कृतं रघुनाथेन तत्सर्वं वक्तुमर्हसि | शिवः- हत्वा दशग्रीव मथानि मध्ये आरुह्य यानम्मनसा विसृष्टम् | धात्रा त्रिकूटाचलसन्निविष्टे लङ्कापुरे रावण सोदरञ्च || कृत्वा राजानमव्यग्रं दृष्ट्वा रामो महेश्वरम् | ऋक्षगोपुच्छहरिभिः रक्षोभिः परिवारितः || लिङ्गं रत्नमयं तत्र प्रतिष्ठाप्य महेशितुः | ब्रह्महत्यापनोदार्थं लोकानुग्रहकाम्यया || दृष्ट्वा रत्नमयं लिङ्गं रामनाथेति विश्रुतम् | विधूत सर्वपापास्ते शिवलोके महीयते || प्रतिष्ठाप्य महालिङ्गं ब्रह्महत्यापनुत्तये | सेतुमध्ये स्थितं लिङ्गं चामीकर विनिष्ठितम् || प्. १२) रामनाथेति विख्यातं सर्वपापापहारकम् | दृष्ट्वा माहेश्वरं लिङ्गं महारजतनिर्मितम् || अविद्यापाशमुक्तास्ते सायुज्यपदगामिनः | वार्धेरुत्तरकूले च सैकतं लिङ्गमुत्तमम् || स्थाप्य लोकस्य रक्षायै महापातकशान्तये | रामेण स्थापितं लिङ्गं गन्धमादनमस्तके || ब्रह्महत्यादि पापेभ्यो दृष्ट्वा मुच्येत मानवः | कृच्छ्रं वा द्वादशाब्दं वा ब्रह्महत्या निवृत्तये || हयमेधक्रतुर्वापि रामसेतोः प्रदर्शनम् | मुनिभिर्वेद तत्वज्ञैस्स्थितं लोकस्य गुप्तये || षष्टिकृच्छ्रसमं प्राहुश्श्रीशैलस्यावलोकनम् | तद्वद्रामेश्वराख्यस्य दर्शनान्मुनयोविदुः || भक्त्वा सेतुं त्रिः प्रकारं तूणीराग्रेण राघवः | पुष्पकाशे समारुह्य जगाम दिशमुत्तराम् || श्रीतीर्थ शिखरीन्द्रश्य शिखरे समुपस्थिते | मध्याह्न समये रामः पुष्पकादवरुह्य च || आकाशगङ्गामावाह्य पूजांशंभोश्चकार ह | गत्वा तीर्थगिरिं मर्त्यः स्नात्वा मन्दाकिनी जले || दृष्ट्वा तीर्थगिरीशस्य लिङ्गं मुक्तो भविष्यति | फनर्विमानमारुह्य किष्किन्धागिरिगंबरे || प्. १३) पुष्पकादवरुह्याशु स्नात्वा नद्यां शुभोदके | विरूपाक्षाभिधानं च मां पूजयामास शास्त्रतः || किरातो बहुकालं मां मुक्त्यर्थं समपूजयत् | सवालिर्वानरेन्द्रो भूद्धत्वा वालिनमाहवे || रामाख्येन मया तस्मै मुक्तिर्दत्ता शराग्निना | भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः || भरतस्य सकाशाय प्रेषयामास मारुतिम् | श्रुत्वा हनूमतो वाक्यं भरतस्सत्य विक्रमः || पौरैरनुगतो दूरं रामं प्रत्युद्ययौ पुरात् | रामोऽपि भ्रातृभिस्सार्धमभिषिक्तो वरासने || न्यायेन कारयामास राज्यस्य परिपालनम् | शतं क्रतूनामाजह्ने विधिवद्भूरिदक्षिणैः || वाजपेय शतैरिष्ट्वा तथा बहुसुवर्णकैः | प्रत्यहं दशसाहस्रं गवां दानमकल्पयत् || ब्राह्मणानां विशिष्ठानां प्रत्यहं कोटि संख्यकम् | सुवर्णमददाद्रामो ब्रह्मार्पणधियादरात् || सृष्टपुष्टजनपदा ब्राह्मणा वेद पालिनः | राजानो बहुवीर्याढ्यो वैश्याबहुधनाधिपाः || शूद्रा दानपराश्चासन् रामे राजनि भूतले | एवं स्थितो राघवाणां वरिष्ठो प्. ११४) दिवारात्रं ब्रह्महत्याकुलोभूत् | तस्योन्मादं चिन्तयानो दन्ते मित्रावरुणं दुद्भवं प्राहवाक्यम् || रामः- वीरहस्यापनोदार्थं वदोपायं गुरो मम | वसिष्ठः- शृणु राघव राजेन्द्र सर्वपापापनोदकम् | पुरा कोलाहलो नाम वृषलः कालचोदितः || खड्गेन पितरं हत्वा गृहीत्वा मातरं ययौ | वेदारण्यं समासाद्य सरंसीत्काममोहितः || सोपि वेदवनेशस्य प्रभावात्क्षेमृणौरवात् | वेदान्त ज्ञानमासाद्य शिवानुग्रह हेतुतः || विमुक्तिं परमां प्राप्त इति शास्त्रेषु शुश्रुमः | त्वन्तु वेदवनं गत्वा समाराध्य वृषाकपिम् || नत्वा गुरुं शमीमूले मुच्यतें हो गणाद्भवान् | इत्युक्तोरुन्धती भर्त्रा रामो भ्रातृगणैस्सह || मातृभिस्सीतया सार्धं बलेन महतावृतः | वेदारण्यं समुद्दिश्य ययौ पुष्पविमानतः || वसिष्ठो वामदेवश्च जाबालिरथकाश्यपः | भरद्वाजो गौतमश्च ऋषयो ब्रह्मवादिनः || प्. १५) शिष्यैः प्रशिष्यैस्सहिता रामस्य त्वनुयायिनः | धृष्टिर्जयन्तो विजयस्सिद्धार्थोह्यर्थ साधकः || अशोको मन्त्रपा * श्च सुमन्त्रश्च ययौ द्रुतम् | ऋक्षवानरगोपुच्छैस्संयुतो वानराधिपः || रामपादावलोकार्थं गतो वेदवनं प्रिये | विभीषणस्समाकर्ण्य खेर्वंशविवर्धनम् || आगतं सेतु शिरसि तूर्णमभ्यर्णमभ्यगात् | राम इन्दीवरश्यामः पुष्पकादवरुह्य च || नियमेन समागत्य ब्रह्मतीर्थे वगाह्य च | वेदतीर्थे ततस्स्नात्वा स्नात्वा तु मणि कर्णिकाम् || लिङ्गं स्वायंभुवं दृष्ट्वा विमुक्तो वीरघातकात् | स्नात्वा तीर्थवरे तत्र सन्तर्प्य पितृदेवताः || ब्राह्मणेभ्यो धनं दत्वा महादानान्यशेषतः | रत्नं मणिं सुवर्णं च गजदानानि भूरिशः || रामचन्द्रपुरन्नाम बहुग्राममकल्पयत् | स्वनाम्ना स्थापयामास लिङ्गं सर्वार्थ सिद्धिदम् || सकृत्तद्दर्शनादेव मुच्यते सर्वपातकात् | महापातक युक्तो वा युक्तो वा क्षुद्रपातकैः || श्रीरामलिङ्गमासाद्य जीवन्मुक्तो भविष्यति | लक्ष्मणस्स्थापयामास लिङ्गं पापापनुत्तये || प्. १६) हनुमानपि तत्रैव शाम्भवं लिङ्गमुत्तमम् | स्वनाम्ना स्थाप्य संपूज्य विमुक्तः पातकौघतः || सह्यजायास्तटे रम्ये ग्रामं बहुगुणान्वितम् | कृत्वा वायूद्भवः पापाद्विमुक्तो रक्षसां वधात् || पञ्चाशतं महालिङ्गं कावेरी पुण्यरोधसि | तत्र तत्र प्रतिष्ठाप्य पूजयामास राघवः || पंपानद्यास्तटे वापि सुब्रह्मण्य नदी तटे | तथा क्षुरनदीतीरे पेण्णातीरे तथैव च || गोदावर्यास्तटे रम्ये रेवानद्यास्तटेषु च | तत्र तत्र प्रतिष्ठाप्य पुण्यदेशेषु राघवः || न्यायेन कृतवान्रामो राज्यस्य परिपालनम् || || इत्युमासंहितायां चतुर्थोध्यायः || || अथ पञ्चमोध्यायः || ईश्वरः- शृणु वक्ष्यामि हे देवि बालकाण्ड कथाफलम् | तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् || नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् | इदं श्रुत्वा नरो भक्त्या तपस्सिद्धिमवाप्नुयात् || स्वाध्यायनिरतानां च फलं प्राप्नोति मानवः | दुरन्न भक्षणान्मुक्तः पूतो भवति नित्यशः || श्रुत्वा संक्षेपमाख्यानं प्रत्यहं श्रावयेत् वा | पठेद्वा प्रत्यहं मर्त्यो ब्रह्मभूयाय कल्पते || भुक्त्यन्ते जपतां देवि संक्षेपकथनं महत् | क्षीयन्ते सर्वपापानि कृष्णपक्षे यथाशशी || धनधान्य समृद्धिश्च पुत्रवृद्धिस्तथैव च | क्षेत्रारामाभिवृद्धिश्च भविष्यति न संशयः || नियमेन च संयुक्तः फलकामनया युतः | जपन्सत्वाच्य कृच्छ्राशीति फलं लभेत् || द्वितीयश्रवणादेवमननोक्तफलं लभेत् | अन्येषां श्रवणादेव निदिध्यासफलं लभेत् || प्. १६) तानिषाद प्रतिष्ठा त्वमगमश्शाश्वतीस्समाः | यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् || इमं श्लोकं प्रथमतो ब्रह्मणा प्रहिता सती | वाणी स्वयमृषेर्वक्त्रान्निस्ससार कुतूहलात् || तस्मादिदं बालकाना पाठ्यमक्षरतः पुरा | कृत्स्नशास्त्रेषु निपुणस्सर्व देवेषु वल्लभः || वाग्मिनां प्रथमो भूत्वा लोकेषु विचरिष्यति | सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा || प्रजापतिमुपादाय नृपानां जयशालिनाम् | येषां स सगरो राजा नामधर्मपरायणः || इक्ष्वाकूणां महावंशे रामो राजा भवित्क्षितौ | महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् || वतदिं वर्तयिष्यामि सर्वं निखिलमादितः | धर्मार्थकामसहितं श्रोतव्यमनसूयया || अयोध्यावर्णनं श्रुत्वा मुच्यते सकलाघतः | दीर्घायुषो नरास्सर्वे धर्मार्थफल भागिनः || राज्ञो गुणोक्ति श्रवणाद्राजदोषात्प्रमुच्यते | मन्त्रिणां महिमानोक्त्या मन्त्री मुच्येत किल्विषात् || नाध्यगच्छद्विशिष्टं वा तुल्य वा शत्रुमात्मनः | इति शृण्वन्ति ये मर्त्यास्तेषां क्रोधादयो न हि || प्. १९) तस्य त्वेवं प्रभावस्य इत्यादिग्रन्थविस्तरैः | परस्य ब्रह्मणस्सूक्तिमिति स्यादिति चिन्तनम् || सरयवाश्चोत्तरेत्युक्त्वा वाक्यानां विदिषा मता | ऋश्य शृङ्गगुणाख्यानाच्छान्त्यादि गुणकीर्तनम् || अनेनानयनार्थाय वारमुख्यास्स्वलंकृताः | प्रेषिता रोमपादेन रूपयौवन पालिनः || तासां वश्ये मुनिरभूत्का कथा प्राकृते जने | स्त्रीणां समक्षे वस्तव्यं संसारभय भीरुभिः || न जातु तासां संपर्कः पतनायैव केवलम् | रूपं गुण क्षयं चैव बलं प्रज्ञानमेव च || आयुः कीर्तिञ्च नारीणां नाशयत्येव केवलम् | ऋषेरभ्यागमादृष्टिर्जायते कथनाद्भृशम् || अवग्रह विनाशाय ब्राह्मणान्सम्यगर्चयेत् | शान्तापाणिं प्रत्यगृद्धाद्धर्मद्विधिवत्प्रीतिपूर्वकम् || कुलीना रूपसंपन्ना शान्त्यादिगुण संयुता | गृहकर्मणि दक्षा च पतिशु श्रूषणे रता || यस्य स्याद्गेहिनी नारी सर्वार्थान्लभते हि सः | धर्ममर्थं च कामञ्च मोक्षञ्च त्रिपुरेश्वरि || यत्रानुकूल्यं दंपत्योस्त्री वर्गस्तत्र वर्धते | सनत्कुमारोपाख्यानम्मन्त्रिप्रवरभाषितम् || श्रुत्वा नरो मोक्षकामी कैवल्य पदमाप्नुयात् | रोमपादपुरे विप्रं द्रष्टुकामेन भूभुजा || तत्सकाशि परिप्राप्ति श्रवणाद्गुरुमान्भवेत् | सर्वथा प्राप्स्यसे पुत्रांश्चत्वार इति संख्यया || यमैवैषेति वाक्यार्थः कथितः कविना पुरा | यज्ञेनेति श्रुतेरर्थो यज्ञोप क्रमणोद्भवेत् || एतस्मिन्नन्तरे देवा यज्ञभागार्थमागताः | ब्राह्मणमग्रतः कृत्वा क्षिराब्धेस्तटमन्तरम् || गत्वा श्रुत्युक्तमार्गेण श्रुत्वा चक्रधरं हरिम् | प्रार्थयां चक्रिरे राजन्रावणेन भृशार्दिताः || देवाः- नमस्ते विश्वगुप्ताय शङ्खिने चक्रिणे नमः | सप्ताश्वलोचनाय त्वं सप्तसामीरभिष्टुतः || सप्तार्चित तवक्त्राय सप्तलोकैकनायक | सप्तसालप्रभेत्रे ते सप्तमालाय ते नमः || इति स्तुतो देवगणेन देवान् श्रीशार्गधन्वा ज्वलदप्रकाशः | आलोक्यवृन्दन्दिवषद्गणानां प्रोवाच गंभीरतर स्वरेण || हरिः- प्. २१) भो भोमरा ब्रूत किमर्थमत्र क्षीराम्बुधेस्तीरमतीवखिन्नाः | उपेत्य धात्रावलसूदनेन प्रचेतसा दण्डधरेण देवाः || नमस्ते देव देवेश शङ्खचक्रगदाधर | विज्ञापनं दिविषदामनुग्राह्या यदि प्रभो || श्रुत्वा चेतसि निश्रित्य तत्साधय दयानिधे | पुलस्त्यवंशप्रभवो रावणो नाम राक्षसः || गोकर्णे त (य) साराध्य चतुर्वक्त्रममुं पुरा | लब्ध्वा वरन्दशग्रीवो लोकपीडापरायणः || विजित्य वज्रिणं कालं पाशिय क्षेश्वरादिकान् | वसूनि बहुधा हृत्वा भुङ्क्ते लङ्काह्वये पुरे || वह्निरान्धसिको जातश्श्वसनो गृहमार्जुकः | वरुणो जलवाहस्तु तुम्बुरुर्गायकोऽभवत् || गुरुः प्रत्यहमासाद्य दिनशुद्धिं वदत्यसौ | पुष्पदन्तावस्य गृहे दीपस्तंभाविव स्थितौ || गन्धर्वाप्सरसां मुख्या राजर्षीणां प्रिया अपि | नागानां मनुजाताना कन्यकाश्चेदिका भवन् || शुची गृहीतु कामोसा देवमातुश्च कुण्ड क्ले | छत्रं च पाशहस्तस्य ग्रहणे कृतकौतुकः || प्. २२) विमानं पुष्पकन्नाम कुबेरस्या ग्रहीत्पुरा | एवमास्ते दशग्रीवो लोकपीडापरायणः || तं हत्वा राव(ण)ञ्जन्मे अस्मन्रक्षस्व माचिरम् | भवन्तं शरणं प्राप्ता नान्यो गतिरिहास्तिनः || विष्णो पुत्र त्वमागच्छ कृत्वात्मानञ्चतुर्विधम् | रावणस्य विनाशाय रावणेर्निधनाय च || लवणस्य वधार्थाय गन्धर्वाणां वधाय च | कर्तव्यन्निधनं देव चतुर्णां देवशत्रुणाम् || श्रीहरिः- जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् | उपायः को वधे तस्य राक्षसाधिपतेस्सुराः || श्रीमद्रामावतारेषु अश्वत्क्रियते मया | तत्र शङ्का न कर्तव्या सर्वज्ञेनापि पृच्छते || इति द्योतयितुं विष्णुस्सम पृच्छन्मरुद्गणान् | केनोपायेन तस्य स्याद्वधो लोकाहितैषिणः || जन्माय या मोहितस्तु मनुष्यान्समुपेक्षते | अन्यथा तस्य हननं न भवेद्यत्र कुत्रचित् || पुरा कदाचित्केना कृतो युद्धो महत्तरः | पुरा पुष्पकमारुह्य विचचार ससैनिकः || अक्षोहिणी सहस्रेण चतुर्भिः परिवारि(तः) | प्. २३) युद्धोन्मत्तो दुराधर्षस्साचिवैः परिवारितः || मारीचेन प्रहस्तेन विरूपाक्षेण रक्षसा | वज्रदंष्ट्र पिशाचाद्यैर्निकुंभेन बलीयसा || कुंभे निकुंभात्येन शोणिताक्ष प्रजंस्थिना | युध्येन्मत्तेन मत्तेन दवान्तकयुतो बली || नागलोकं समासाद्य नागानां विजयं व्यधात् | एतस्मिन्नन्तरे शेषो मदन्तिकमुपागतः || नागस्य रक्षणार्थाय दक्षोहन्तार्क्ष्य वाहनः | तेनासीज्जन्यमतुलं लोकक्षयकरं महत् || तस्मिन्सुदारुणे युद्धे शस्त्रं कोटि रवि प्रभम् | तद्वधार्थम्महावेगात्प्रयुञ्जे रणमूर्धनि || तेन वक्षस्य भिहितश्चचालन ममारसः | वरदा नवशात्स्रष्टु खध्यसृसर्व देवतैः || तादृशन्दुर्विनीताना महमग्रेसर युधि | हत्वाभयं प्रदास्यामि रघूणामन्वयेऽमले || भूत्वा नखरः कालं सचिरं परिपालये | इत्युक्त्वा देवता विष्णुस्तत्रैवान्तरधीयत || एतस्मिन्नन्तरे राजा साकेत पुरनायकः | पुत्रार्थमिष्टिमकरोद्धयमेधा दनन्तरम् || महाभूतसमुत्थानं ये शृण्वन्ति महीतले | प्. २४) तेषां भूतादिरोगेभ्यो नास्ति पीडा कदाचन | नृपाङ्गनानां राज्ञा तु पायसस्य प्रभेदनम् || शृणोति या स्त्री पुष्पाढ्या पुत्रं सा लभते चिरात् | औषधग्रहणं श्रुत्वा पुत्रार्थं यासभर्तृका || करोति लभते नारी पुत्रं वंशविवर्धनम् | प्राप्ते यूपोछ्रये तावदित्यादि ग्रन्थविस्तरम् || श्रुत्वा यज्ञायुतफलं प्राप्नोति श्रद्धसान्वितः | ब्रह्महामुच्यते पापात्पितृद्रोही च मुच्यते || सुरापानरतो विप्रस्तथैव गुरुतल्पगः | प्रकीर्णकदियुक्ताश्च मुच्यते श्रवणादिह || प्राचीं होत्रेत्युपक्रम्य ये श्रवन्ति च दक्षिणाम् | तेषां कर्म सवैगुण्यं क्राम्यत्येव न संशयः || कौसल्याजनयत्पुत्रं सर्वलक्षणलक्षितम् | चैत्रे मासि सिते पक्षे नवम्यामुच्चकेरवौ || पुनर्वसुदिने मध्ये लग्ने कर्कटकाभिधे | कौसल्याजनयत्पुत्रं विष्णोरर्धसमन्वितम् || साक्षाद्विष्णोश्चतुर्भागं भरतं कैकयीसुतम् | अजीजनत् सुमित्रा च विष्णोरर्धसमन्वितौ || पुत्रौ लक्ष्मणशत्रुघ्नौ जनयामास मागधी | पुष्येजातस्तु भरतो मीनलग्ने प्रसन्नधीः || प्. २५) सर्पर्क्षे लक्ष्मणो जातश्शत्रुघ्नोह्यनुजो बली | श्रीमद्रामजयन्तीति भण्यते नवमी तिथिः || उपवासं हरेः पूजां रात्रौ जागरणं तथा | कृत्वा नवम्यां भूलोकाद्विष्णुमन्दिरगामिनः || नवमी चाष्टमी विध्या त्याज्या विष्णुपरायणैः | दशम्यामुपवासेन कोटियज्ञफलं लभेत् || अष्टपत्रं समालिख्य मध्ये श्रीराममालिखेत् | मात्रा सह प्रपञ्चस्य गुप्त्यर्थं नररूपिणम् || पूर्वे तु भरतं पूज्य हरेरंशं सुदर्शनम् | दक्षिणे लक्ष्मणं पूज्य शत्रुघ्नं पश्चिमे तथा || उत्तरस्यान्दिशि तथा सुमित्रां केकयात्मजाम् | दुर्गां विनायकं चापि क्षेत्रपालं सरस्वतीम् || कोणेषु पूजयेद्भक्त्या विष्णुभक्तो जितेन्द्रियः | भक्षैर्भोज्यैर्बहुविधैरंभा वृक्षफलैस्तथा || नालिकेरैश्च पनसैरिक्षुका पडस्सोदकैः | पायसैर्घृतसंमिश्रैर्गुडखण्डैश्च फाणितैः || अपूपैरेकविंशभिरेकैकैः पूजनं हरेः | एवं रामदिने पूजां कृत्वा पारणमाचरेत् || ब्राह्मणान्भोजयित्वा तु यथावित्तं यथा बलम् | प्. २६) रामानुग्रहमासाद्य रामसायुज्य भागिनः | चान्द्रायणशते हृद्यतप्तकृच्छ्रशते तथा || श्रीमद्रामजयन्त्यन्ते विन्दन्ति फलभागिनः | भुक्त्वा रामनवम्याख्ये तिथौ मूढमनानरः || सहस्रवर्षपर्यन्तं पच्यते कालसू के | ब्रह्महत्यादिपापानां नवमीभयभीरुणाम् || अन्नमाधारमाख्यातमामे सर्वात्मनामया | ब्रह्महत्यादि पापानां दृष्ट्वा शास्त्रेषु निष्कृतिः || नवम्यां रघुनाथस्य भोक्तॄणां नास्ति निष्कृतिः | सकृच्छ्रीनवमीमर्त्य उप्रोष्य श्रद्धया सह || एकादशी शतेनापि लभते मानवो ध्रुवम् | यथावदुपनीतास्ते वेदग्रहणतत्पराः || चक्रुर्गुरुकुलावासं धनुर्विद्याविशारदाः | एतस्मिन्नन्तरेविप्रो गाधिवंशसमुद्भवः || द्रष्टुकामो महीपालं लोकानुग्रहकाम्यया | प्रत्युत्थान मृषे श्रुत्वा पापान्मुच्येत मानवः || ऋषेस्तवनमाकर्ण्य ऋणान्मुक्तो द्विजो भवेत् | राज्ञः प्रतिज्ञा श्रवणाज्जीवन्मुक्तो भविष्यति || विश्वामित्रं दशरथो न रामं नेतु मर्हसि | इत्यू चिवास्त्री प्रकारं तस्यार्था भव ईरितः || प्. २७) जन्मान्तर सहस्रेण कृतस्य तपसः फलम् | रामं परब्रह्म महं क्षणार्धमपि नोत्सहे || वियोक्तुं विश्वजगता मादिकर्तारमीश्वरम् | विडम्ब्य मानुषीलीलां पुत्रेषु जनकस्य च || अहंजाने वसिष्ठाया जानन्ति पररूपिणम् | इत्युक्त ज्ञान तत्वोयमिति मत्वा विसृष्टवान् || बलाबलप्रदानस्य श्रवणाद्बुद्धिमान्भवेत् | ताटकाख्यानमार्ण्य पापं ताडयते नरः || ताटकावधमाकर्ण्या विद्यानाशमवाप्नुयात् | मलदाश्च करूशाश्च जातौ जनपदौ पुरा || तस्याख्यानमपि श्रुत्वा मुच्यते मलपञ्चरात् | यथैव मघवानिन्द्रो विमुक्तश्चाभिशापतः || तद्वद्विमुक्तो भविता अभिशप्तोऽभिशापतः | श्रुत्वा सिद्धाश्रमाख्यानं चराचरविधायिनः || श्रीमन्नलिननाभस्य श्रोता सिद्धिमवाप्नुयात् | तपस्सिद्धिं ज्ञानसिद्धिं विद्यासिद्धिं तथैव च || कर्मणां पलसिद्धिं च मनुजो लभते ध्रुवम् | उपक्रान्ते सप्ततन्तौ ब्रह्मर्षिप्रवरेण वै || षष्ठेऽह्निसमनुप्राप्ते वेदिर्जज्वालमण्डिता | दक्षिणस्यान्निशिचराः प्रादुरासीन्महाबलाः || प्. २८) स तेन परमास्त्रेण मानवेन समाहतः | संपूर्णं योजनशतं क्षिप्तस्सागरसंप्लवे || उक्त्वा तपे तच्छब्दं फूकारो बोध्यतेऽधुना | सकराश्रवणान्मर्त्यस्संसारन्तरति ध्रुवम् || रघुनाथ प्रयुक्तेन मानवेन निशाचरः | तद्वद प्रतिभङ्गस्स्यात्सकारपरिशीलनात् || हत्वा निशाचरनिकायमथाजि मध्ये स्नात्वा कृते त्ववभृथे कृत पुण्यभाजि | स्थित्वा दिनानि चतुरो मुनिबृन्दमध्ये प्रोवाच वाक्यन्विकरन्नियमेन युक्तः || || इत्युमा संहितायां पंचमोध्यायः || || अथ षष्ठोध्यायः || ईश्वरः- रामं प्रतिकृतां पूजां प्रशंसां मुनिना कृताम् | श्रुत्वा प्रशस्तो भवति यथा रामो जगत्त्रये || सीताविवाहकल्याणं द्रष्टुकामा महर्षयः | जग्मुर्जनकराजस्य पुरीमैक्ष्वाकुणा सह || प्. २९) शकटीशतमात्रन्तु प्रयाणे ब्रह्मवादिनाम् | अग्निहोत्रं पुरस्तुत्य श्रीराघवमनुद्रुतम् || यथा मधूनि सरघा नत्यजन्त्यपसारिताः | तद्वन्मुनिगणास्सर्वे रघुनाथस्य दैवतम् || श्रुवा कामवनाख्यानं प्रव्रन्तोऽपि शमं व्रजेत् | काशांख्यादि चतुर्णां हि पुरीणां गणकीर्तनम् || श्रुत्वा नरो मोक्षकामी साधनं लभते उचिरात् | * न्तानान्नृपकन्यानां विवाहस्य च कीर्तनात् || विदुषां विषयासङ्गो नास्तीति परिकीर्तितम् | विश्वामित्र ऋषेश्श्रुत्वा विशुद्धान्वय वर्णनम् || तस्मात्कुलीन जन्मानो भवन्ति प्रतिलोमजाः | स्कन्दस्य जन्म परिकीर्तितं वाक्यजातं श्रुत्वा || चिरेण इहलोकमनुव्रजन्ति * * * * | पूर्वजा भगिनी चापि मम राघव सुव्रता || नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता | सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी || कौशिकी परमोदारा सा प्रवृत्ता महानदी | एतच्छ्रुत्वा वरं कापि साध्वीनां लोकगामिनीं || प्. ३०) भवत्येव न सन्देहो नात्र कार्या विचारणा | एवमन्यानु या कान्तमनुगच्छति गामिनी || अग्रजानां गता लोकं पूज्यतेप्सरसां गणैः | तिस्रः कोट्यर्धकोटी च यानि रोमाणि मानुषे || तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति | व्यालग्राही यथा व्यालं विलादुद्धरते बलात् || एवं लोकान्तरं कान्तमादाय स्वर्गगामिनी | गृहात्पितृवनं यान्त्या पादस्पर्शनजोक्षिता || कृतार्थामन्यते भूमिर्दुर्जन स्पर्शदूषिता | वायुस्स्वदेहशुध्यर्थं चन्द्रमा भास्करस्तथा || नक्षत्राणि च भूतानि द्रष्टुं वाञ्छन्ति तां सतीम् | स्पृष्ट्वा कृतार्थतां प्राप्ता भवन्ति पतिमन्वगाम् || गच्छेत्कान्तं ब्राह्मणानी पतिमालिङ्ग्य सादरम् | क्षत्रियाणी पतिं ग्राह्य कीकसं वापि कुत्रचित् || वैश्या तथा शूद्रयोषित्कीकसं गात्रमेव वा | उद्दिश्य वा पतिं गच्छेल्लोकान्तरगतं प्रियम् || उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः | हुत्वा चैवाग्निहोत्राणि प्राश्यचामृतवद्धविः || गत्वा गङ्गातटं रामो विश्वामित्रमभाषत | शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् || प्. ३१) इत्युपं क्रमगङ्गाया वैभव श्रवणादराः | विमुक्तबद्धास्ते सर्वे गङ्गासायुज्यमाप्नुयुः || पुरा राम कृतोब्दाहश्शितिकण्ठो महातपाः | दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे || इत्युपक्रम्य देवेन कार्तिकेय समुद्भवम् | सुरसेनापतित्वं च पापान्मुच्येत पातकः || कुमारसंभवंश्चैव धन्यः पुण्यस्तथैव च | भक्तश्च यः कार्तिकेये का * स्थ भुवि मानवः || आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यमाप्नुयात् | अथ वर्षशते पूर्णे तपसा राधितो मुनिः || सगराय वरं प्रादादित्यो तद्ग्रन्थविस्तरैः | ब्राह्मणानां वरं दातुं सामर्थ्यं प्रतिपादितम् || यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे | श्रुत्वा गन्धर्व मेधस्य करणं भुविदारणम् || ब्रह्महत्यादि पापेभ्यो मुक्ता स्युश्रद्धनराः | ततस्तेनाप्रमेयेन कपिलेन महात्मना || भस्मराशीकृतास्ससर्वे काकुत्स्थ सगरात्मजाः | तस्मान्नजातु विप्राणां द्रोहं कुर्यान्मनागपि || सा तस्मिन्पतिता पुण्या पुण्ये रुद्रास्य मूर्धनि | श्रुत्वा रुद्रस्य माहात्म्यं रुद्रलोकं स गच्छति || प्. ३२) तस्यां विसृज्यमानाया सप्तस्रोतांसि जज्ञिरे | उमा- त्यक्ता जटाचूडतटाद्भगीरथ तपः फलात् | कथं तस्य रथं त्यक्त्वा सप्तधा गमनं वद || महेश्वरः- शृणु देवि प्रवक्ष्यामि गङ्गाभेदनकारणम् | विसृष्टायां तु गङ्गायां मायां बिन्दुसरस्यपि || क्रोशमात्रे ब्रह्माग्रे वृषभो नाम पर्वतः | तेन रुद्रगती गङ्गा स्तिमितासीन्महारयात् || भगीरथापि राजर्षिस्तुष्टाव परया गिरा | तेन तुष्टो महादेवः प्रसादम करोत्पुनः || नन्दीश्वरं समाहूय प्रेषयत्कार्यसाधने | नन्दी कुठारमादाय भेदयामास पर्वतम् || सप्तधा भेदितेतास्मि सप्तस्रोतांसि जज्ञिरे | सप्तमीचान्वगात्तासां भगीरथमथो नृपम् || तच्छंकरशिरो भ्रष्टं भ्रष्टं भूमितले पुनः | व्यरेचत तदा तोयं निर्मलं गतकल्मषम् || तत्रर्षिगणगन्धर्वा वसुधातलवासिनः | भवाङ्गपतितं तोयं पवित्रमिति पवित्रमिति पस्पृशुः || भवाङ्गे पतितं यस्मात्कुत्रापि सलिलं नराः | प्. ३३) धृत्वा विधूतपापास्ते शिवमन्दिरगामिनः | धृत्वा शिवस्य सलिलमभिषेचन संभवम् || मुच्यन्ते संस्रति भयात् ब्राह्मणाद्याः पिबन्तु वा | गङ्गा संप्लावयामास यज्ञवाटम्महात्मनः || तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुस्तु राघव | अपिवत्तज्जलं सर्वं गङ्गायाः परमाद्भुतम् || हृदि ध्यायन्महादेवं शिवानुग्रह वैभवात् | अपिवच्चोदकं वार्धेर्यथा वै कुंभसंभवः || गङ्गामुपनयन्तिस्म दुहि तृत्वे महात्मनः | शिवानुग्रह वै शिष्टयाच्छ्रोत्राभ्यामसृजत्पुनः || तस्यावलेपनम् | पितामहान्भस्मकृतानपश्यद्दीनचेतनः || अथ तद्भस्मनां राशिं गङ्गापतनमुत्तमम् | प्लावयत्पूतपाप्मानस्स्वर्गं प्राप्ता रघूत्तम || ब्रह्माण्डस्ताडितः पूर्वं हरिणा छिद्रतां गतः | ब्रह्माण्डं बाह्यतो येन दशपाशभृताप्रतम् || तेन छिद्रेण तत्तोयं विवेशाण्डं वरानने | यथा कथं चिद्वै दृष्ट्वा भक्तितश्चिन्मयः सकृत् || गङ्गा तारयते नॄणां कुलानां शतमंभसा | यैस्तु स्पृष्टा वशिष्टा च गङ्गा भक्त्या स कृन्न || प्. ३४) कुलानान्तु सहस्रन्तु तेषां धारयते भयात् | पीता मधुद्रुवा मर्त्यैर्यैर्गङ्गा भक्तितस्सकृत् || तेषां कुलानामयुतं भवात्तारयते ध्रुवम् | यैः पुण्य वाहिनी गङ्गा सकृद्भक्त्या वगाहिता || तेषां कुलानां लक्षन्तु भवात्तारयते शिवा | यैर्दिनं सेविता गङ्गा भक्त्या पुण्यजनैर्नरैः || कुलानां दशलक्षन्तु तेषां धारयते भवात् | गण्गे गङ्गेति गङ्गेति यैस्त्रिसन्ध्यमुदीरिता || दूरस्थेश्चापि तत्पापं हन्ति जन्मत्रयार्जितम् | सहस्रयोजनस्थोऽपि त्रिसन्ध्यं यस्समाहितः || गङ्गे गङ्गेति च ब्रूयात्सगच्छेत्परमां गतिम् | योजनानां सहस्रेषु गङ्गां स्मरति यो नरः || अपि दुष्कृत कर्मासौ लभते परमां गतिम् | गङ्गायां वैष्णवे शक्तौ परब्रह्मविभावनाम् || न कुर्वन्ति च ये मर्त्या न तैस्तु सहसं वसेत् | नदीनामवमन्तव्यं कदाचिदपि सुव्रते || गङ्गारयं समाकर्ण्य सागरोथ भगीरथम् | प्रार्थयामास गङ्गायाः प्रवाहो वेगवत्तरः || सोदुं न शक्यते त्राहि गाधो मे भविता प्रभो | इत्युक्तवन्तं वारीशं माभीरित्यवदन्नृपः || प्. ३५) अस्मत्कुलीनैस्संवृद्धो मया किं दूयसेऽधुना | भगीरथोऽपि राजर्षिः प्रोवाच तनयान्निजाम् || पुत्री वाक्यं समाकर्ण्य कुरुकार्यमनन्तरम् | त्वत्पूर्व प्रभवैः पूर्वं खानितः प्रपितामहैः || पूर्वैराचरितो धर्मो न हन्तव्योन्वयोद्भवैः | इत्युक्ता स्वर्धुनी पित्रा करिष्ये वचनन्तव || सहस्रधा नदी भूत्वा तदा सागरमभ्यगात् | स गत्वा सागरं राजा इत्युपक्रम्य शृण्वताम् || पितरस्स्वर्गमायान्ति निरयस्था अनूदकाः | गङ्गावतारमारभ्य श्रावयेच्छ्राद्धभोजने || पितरस्तेन तृप्तास्स्युर्यावदाभूतसंप्लवम् | त्रीन् पथः पावयन्तीति ततस्त्रिपथगा स्मृता || सन्तारं कथयामासा सर्षि संघस्स राघवः | भवाम्बुधौ निमग्नानां वीक्षणात्तारकस्वयम् || रामस्सुरनदीं नावा तारयत्का विचित्रता | श्रुत्वा पीयूषमथनं सुरासुरविनिर्मितम् || औषधस्वीकृतिं कुर्यात्तस्य रोगो विनश्यति | धन्वन्तरिं गरुत्मन्तं मणिराजं च कौस्तुभम् || अच्युतञ्चामृतं चैव स्मरेदौषधकर्मणि | उच्चैश्रवा हरिश्रेष्ठो मणिरत्नं च कौस्तुभम् || प्. ३६) उदतिष्ठन्नर श्रेष्ठ तथैवामृतमुत्तमम् | अदितेरिन्द्रसंवादं श्रुत्वा तु मरुताञ्जनिम् || असपत्नो महीं भुङ्क्ते राजा शक्रो यथा दिवम् | अहल्यामृतुकाले तु इन्द्रेण कृतसङ्गमाम् || आत्मानं मां च देवेशं सर्वदा रक्षमानद | इत्यादि प्रियवार्तां च शक्रस्य गमनं तथा || गौतमस्य नरेन्द्रस्य सदृशाकृतिशोभने | शापमिन्द्रे च भार्याया मुनिनाकृतमञ्जसा || श्रुत्वा मुच्येत मनुजो नारी वा व्यभिचारिणी | मुच्यते सर्वदोषेभ्यो व्यभिचारकृतान्निजात् || इमौ कुमारौ भद्रं ते देव तुल्यपराक्रमौ | जग सिह्मगतीवीरौ शार्दूलाविव रूपिणौ || इत्यादि कृतजालन्तु जनकेन सुभाषितम् | विश्वामित्र-ऋषेर्भक्त्या पुष्कलं ब्रह्ममाप्नुयात् || ब्रह्महामुच्यते पापान्मित्रहा मुच्यते ततः | सावित्री पतितश्चापि व्रात्या नाचारदूषितः || तपसां सिद्धिमाकर्ण्य विश्वामित्रस्य मानवः | तपश्चरणि संसिद्धिं लभन्ते मानवा चिरात् || विश्वामित्रो महातेजाः पालयामास मेदिनीम् | इत्यादि श्रवणादेव पठनाद्विजितेन्द्रियः || प्. ३७) कामधेनु प्रसादा सर्वान्कामानवाप्नुयात् | दुरन्नभक्षणा ता भविष्यति न संशयः || हुंकारेणैव तान्सर्वान्निर्ददाह महानृषिः | तस्माद्विप्रेषु नावज्ञा कार्या भूतिमिहेछता || अवज्ञाता दहन्त्येते हुंकृत्या वीक्षणेन च | केन चित्तथकालेन देवदेवो वृषध्वजः || इत्यादि ग्रन्थजालेन शिवो ध्येयश्शिवंकरः | इत्युक्त-ऋषिणा देवो महादेवो ममेप्सितम् || एवमस्त्विति देवेशस्तं वरं वृणुयाद्वरम् | ब्रह्मास्त्रग्रसनं श्रुत्वा दण्डाग्रेरुन्धती पतेः || ब्राह्मण्यं वर्धते तस्य पूर्वपक्षे शशी यथा | अन्यां गतिं गमिश्यामि स्वस्ति वोस्तु तपोधनाः || शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि | तस्माद्गुरुषु नावज्ञा कार्या भूतिमिहेच्छता || रुष्टे शिवे गुरुस्त्राता गुरौ रुष्टे न कोपि हि | इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् || शरणं ते भविष्यामि मा भैषी रघुपुङ्गव | पूर्वमेव वरो दत्तो मया तुभ्यम्महीपते || तदिदं साधयिष्यामि दुर्दशायामिहाधुना | त्रिंशकोः कारयामास वेदारण्ये महाक्रतुम् || प्. ३८) स्वर्लोकात्पतितं दृष्ट्वा त्रिशङ्कुं कोपदूषितम् | सृजदक्षिणमार्गस्थान् सप्तर्षी न परान्पुनः || नक्षत्र मालामपरामसृजत्क्रोधमूर्छितः | अन्यमिन्द्रं करिष्यामि लोको वास्यादनिन्द्रकः || इति संकल्पमकरोन्मदनुग्रह वैभवात् | उमा- भण्यतां देवदेवेश विश्वामित्राय धीमते | दत्तं स्रष्ट्रमपरं विना तु चतुराननम् || महेश्वरः- श्रूयतां देवि वक्ष्यामि पुनस्स्वर्गस्य कारणम् | पद्मयोनिं पुरा लब्ध्वा स्रष्टुत्वं मत्सकाशतः || लोकानसृक्षत्संकल्पात् वीक्षणात्पूर्वहेतुतः | अहमेव परो लोके पदार्थानि पृथक् पृथक् || सृष्टा ऋक्षाणि गगने वैश्वानरपथाद्बहिः | अवाक् शिरास्त्रिशङ्कुश्च तिष्ठत्वमर सन्निभः || उमा- वेदेस्त्र तिषु सर्वत्र ब्राह्मणस्यैव याजनम् | शिष्टास्रे वर्णिका याज्या कथमेतेन कारितम् || महेश्वरः- शृणु देवि प्रवक्ष्यामि विश्वामित्रस्तु संभवम् | प्. ३९) प्रजापतिसुतश्श्रीमान्कुशोनाम महीपतिः || कुशस्य पुत्रो बलवान्कुशनाभस्सुधार्मिकः | कुशनाभसुतश्श्रीमान्गाधिरित्येव विश्रुतः || अनपत्यो गाधिराजा नाम्ना सत्यवतीं सुताम् | ऋचीक-ऋषये प्रादात्कुलस्य त्राणकारणात् || सोऽपि पुत्रार्थ ममलामिष्टिमारब्धवानृषिः | पात्रे निधाय हविषां द्वितयं पुत्रसंभवम् || कृपीडयोना वजुहोदेकं पुत्रस्य संपदे | दत्वा शेषं यज्ञपत्न्यं अन्यदादातु मैच्छत || नष्ठं हविषमालोक्य ऋषिः पत्नीमवैक्षत | सापि भर्तुः पदे गृह्य प्रणनाम भयातुरा || स्त्रीबुध्या साहसमिदं कृतमेकाहठात्प्रभो | अनपत्या हि मे माता तस्यापत्यस्य कारणात् || दत्तं मया साहसेन मन्त्रितं हविरुत्तमम् | प्रसीद मह्यं दयया भक्तां रक्षस्व मत्प्रभो || इत्येवं प्रार्थितः पत्न्या कौशिक्या भगवानृषिः | कृपां चकार दयया सोऽपि ब्राह्मणतां व्रजेत् || इत्याभाष्य प्रियां विप्रः क्रतु शेषं समापयत् | उमा- एतादृशगुणोपेत-ऋषिः कौशिकनन्दनः | प्. ४०) अयाज्य याजने श्रद्धमकरोत्तद्वदस्वमे | महेश्वरः- सत्रिशङ्कुः पूर्वमभूद्दुर्नयं कल्पमास्थितः | पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च || अप्रेषितो पयोगाच्च त्रिविधोस्य व्यतिक्रमः | एवं त्रीण्यस्य शाकुनि तानि दृष्ट्वा महर्षयः || प्रयुञ्जते शब्दजालं त्रिशङ्कुपदवाचकम् | यौवस्थस्सतीं भार्यां न व्रजेद्यदि मानवः || स जीवन्नेव चण्डालो नर्मदान्नैव भुक्तवान् | ब्राह्मण्यां यो नरो मौढ्याद्ब्राह्मणीं काममोहितः || न परिग्रहेत् यदि गृह्णीत मूढात्मा चण्डालत्वं स गच्छति | गत्वा तु मातरं मर्त्यस्स्नुषां भ्राप्तृ?त्रंगनां तथा | पुत्रीं वा भगिनीं मौढ्याद्व्रजेद्यः काममोहितः || सजीवन्नेव चण्डालमाशु गच्छति सान्वयः | उमा- इदानीं गुरुणा शप्तः कथं याज्यो भव दृषे | चण्डाल प्रोक्षितं दुष्टं स्मृतं कर्मान्तरालके || तत्सर्वं निष्फलं प्राहुर्मुनयस्तत्वचिन्तकाः | महेश्वरः- प्. ४१) शृणु देवि प्रवक्ष्यामि त्रिशंकोर्यजनं प्रति | पुरा त्रिशङ्कुर्गुरुणा पितृशोकाच्च तापितः || तस्य शापापनोदार्थमृषिभिस्सूक्ष्मदर्शिभिः | त्रिषड्वारं षडब्दाख्यं कृच्छ्रं कृत्वा विधानतः || ततस्स्नानं समादाय शिवनिर्णेजने जले | शिवक्षेत्रे शिवं पूज्य तीर्थेषु च निमज्य च || शुद्धदेहे महीपाले ह्ययजत्कृतसत्तमैः | अबालको देवलोको न क्षत्रः ग्राम याजकः || कर्मचण्डालका ह्येते महापातकपञ्चमाः | गुरुद्रोहवशाज्जाता कर्मचण्डालता मयम् || तस्मात्कृच्छ्रादि चरणाच्छुद्धिर्नान्यस्य कस्य चित् | तद्वत्पूतं कारयित्वा यज्ञं कौशिकनन्दनः || त्रिंशकोः कारयामास शास्त्र दृष्टेन वर्त्मना | अनागतान्दि विषदान्प्रेक्ष्य क्रोधानलोज्ज्वलः || स्वर्लोकं प्रापयामास स्वकीय तपसः फलात् | उमा- स्वर्लोकात्पतनः कस्मात्प्रायश्चित्तगतैनसः || तन्ममाचक्ष्व देवेश यमान्तक पुरान्तक | महेश्वरः- प्रायचित्ते कृते पुंसामेनसां नाशयिष्यते | प्. ४२) भूलोकशुद्धिर्नास्त्येव शुद्धिस्स्यात्पारलौकिकी | तस्मात्तद्देह युक्तत्वात्पातयन्ति स्म भूतले || उमा- अशुद्धो यदि भूपालस्तस्मिन्प्रेम कथं मुनेः | इति पृष्ठः कथा मध्ये प्रोवाच कृपया शिवः || तपः कर्तुमना देवि विश्वामित्र-ऋषिः पुरा | भार्यां त्रिशङ्कोर्निकटे निधाय तपसे गतः || सिद्धे तपसि राजानं प्रीतोभूद्गाधिनन्दनः | वरन्ददामि गृह्णीष्व भार्याभरणतोषितः || समाकर्ण्य ऋषेर्वाक्यं राजा प्रोवाच गाधिजम् | मास्त्विदानीं परगुरो आपत्काले तथाकुरु || तसं प्रार्थितो राज्ञा इदानीं च पुनः पुनः | दयां चकार राजानं चण्डालाकाररूपिणम् || उमा- ये दूषयन्त्य दूष्यं मान्तप उग्रं समास्थितम् | भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः || अद्यते कालपाशेन गता वैवस्वतक्षयम् | इत्या(दि) वाक्यनिकरं प्रोक्त्वा सदसिकोपनः || विरराम महातेजा ऋषिमध्ये महामुनिः | इत्यादिवाक्यकथनाद्ब्रह्महत्या ऋषेः कथम् || प्. ४३) नासीत्कथं तत्र भवानुत्तरं वक्तुमर्हति | महेश्वरः- पुरा कदाचिद्यज्ञाते मित्रावरुणसंभवः | रघोः पुत्रं दुराधर्षं सौदा समशपद्भृशम् || कल्माष पादस्संशप्तः प्रवृद्धः पुरुषादकः | अभवद्भूपतित्वेऽपि मध्याह्ने नरभोजनः || विश्वामित्र-ऋषिः काल्ये कालेन त्वा पुरं व्रजेत् | तमस्मरन्महातेजास्सौदासं पुरुषादकः || आगतस्मरणादेव निकटं गाधिनन्दनः | तं मे * * * * * घ्नं वासिष्ठान्हन्तुमुद्यतम् || भक्षितास्तेन राज्ञाते भस्मीभावं गताः पुनः | अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे || एतत्सर्गं सदा शृण्वन् ब्रह्महा मुच्यतेंहसः | * * कस्य कथां शृण्वन् योवा कोवा महेश्वरी || पुत्रविक्रयजाद्दोषात्तथा पुत्रार्पणायतः | विमुक्तञ्चरा लोके श्रीरामस्य प्रसादतः || ऋग्वेदसिद्धेद्वे गाधे तृतीयाष्टकचोदितः | प्रयुञ्जानो नरो नित्यं भवाबंधाद्विमुच्यते || ऋणबन्धाद्विमुक्तास्युर्व्याधिबन्धात्तथैव च | तथैव शृङ्खलाबन्धान्मुच्यते श्रवणादिह || प्. ४४) विश्वामित्रो महान्भूयस्तपस्तेपे महामनाः | ततः कालेन महता मेनका परमाप्सराः || तात्पर्यवर्णकमिदं गायत्र्यास्सर्वकामदम् | शृण्वतां सर्वपापघ्नं सर्वपापहरं परम् || अहोरात्रापदेशेन गतास्संवत्सरा दश | अब्भक्षो वायुभक्षो वा जीर्णपर्णाशनोऽपि वा || स्त्रीणां समक्षे वस्तव्यं न कदाचिन्महेश्वरि | वरदानं विश्वयोनेस्तपः फलचिकीर्षया || शृण्वतां विफलं यान्ति पापानि त्रिदशेश्वरि | ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथा पुरा || उमा- अश्रद्धा ब्राह्मणो वाक्ये किं कृतं गाधिसूनुना | महेश्वरः- मया यष्ठुमुपक्रान्ते त्रिशङ्कोर्यागकर्मणि | वासिष्ठादूषयन्तिस्म कथं सदसि देवताः || तान्हन्तु प्रेषितः पूर्वं क्रुद्धः कल्माषपादकः | भक्षितास्तेन राज्ञा ते भस्मीभावं गताः पुनः || तान्दृष्ट्वा भक्षितान्राज्ञा मित्रावरुणसंभवः | पुत्रशोकाभिभूतस्तु प्रललाप भृशार्दितः || प्रज्ञामवष्टभ्य शनैः पूर्ववत्तपसि स्थितः | प्. ४५) सोपीदानीमदूष्यम्मामुग्रे तपसि संस्थितम् || इत्युक्तो भारतीनाथः प्रोवाचारुन्धती पतिम् | ब्रह्मर्षित्वं वदानेन तपसा तोषितो भवान् || ब्रह्मर्षिस्त्वं न सन्देहस्सर्वं संपाद्यते तव | विश्वामित्रस्तुतिं शृण्वन्शतानन्देन भाषिताम् || पुष्कलं ब्राह्म्य मासाद्य ब्रह्मलोके महीयते | दक्षयज्ञवधे पूर्वन्धनुरादाय वीर्यवान् || विध्वंस्य त्रिदशान्रोषात्सलीलमिदमब्रवीत् | प्रसादयन्ति देवेशन्नमस्ते रुद्रमन्यवे || हे रुद्रधनुषस्तुभ्यमुतो त इषवे नमः | बाहुभ्यान्ते नम इति स्तुतिभिश्श्रुति चोदितैः || प्रसादितो तो महादेवः प्रसादमकरोछिवः | भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा || भूतलादुत्थितां देवीन्नारायण कुटुंबिनीम् | राजानो बहुवीर्याढ्या वारयामासुरादरात् || प्रत्याख्याता भूपतयस्तृणत प्रवणछलात् | अरुन्ध मिथुलां सर्वे वीर्य सन्देहमागताः || तस्माद्विशिष्टं यद्वस्तु न धार्यं धीमता क्वचित् | धृते तु प्राणहानिस्स्यात्स्यमन्तक मणिर्यथा || यथा पीयूषखं रक्षा यथा द्रुपदजास्थितिः | प्. ४६) तस्माच्छ्रेष्ठगुणोपेतं न धार्यं वस्तु मानवैः || बभञ्ज तद्धनुर्मध्ये नरश्रेष्ठो महायशाः | गृहीते रघुनाथेन महादेवशरासने || शक्तिस्तु वैष्णवं प्राप्ते तस्मा भग्ना महेशितुः | तस्मिन्नवसरे पाशी वैष्णवं धनुरुत्तमम् || दत्तवान्कोसलेन्द्रस्य करे प्रीतिपुरस्सरम् | तद्धनुर्वरुणाभ्यर्णे पुनः प्रत्यर्पयच्छिवे || राज्ञा वंशानुकथनं शृण्वतां पापनाशनम् | श्रुत्वा गोदान कथनं गोदानफलमाप्नुयात् || प्रपामध्येत्युपक्रम्य जानक्या मङ्गलोत्सवम् | श्रुत्वा विवाहं कुर्वीत पत्नी दीर्घायुषी भवेत् || दंपत्योस्सततं प्रीतिर्वर्धते नायके वयः | तस्मात्कल्याणसमये श्रोतव्यं भूतिमिच्छता || गोदानं भूमिदानं च कन्यादानं तथैव च | आत्मनश्श्रियमन्विच्छन् प्रयच्छेत्सर्ववर्णकः || तस्माद्विवाहं प्रेक्षेत आत्मनाश्रियमिच्छुभिः | सर्वोत्सवे तु कल्हारो मधूकस्तु स्वयंवरे || सीमन्ते गर्भिणी नारी यवाङ्कुरमयी भवेत् | धार्या तु प्रेतकार्ये वै माला नलदनिर्मिता || सीतायै प्रददौ रत्नं कौसल्या वारिसंभवम् | प्. ४७) तया भूषितगात्रा सा शुशुभेन्दीवरे क्षणा || भार्गवं जामदग्न्यं च राजराजविमर्दनम् | इत्यादिश्रवणात्पुंसां ब्राह्मन्तेजोभिवर्धते || शितिकण्ठस्य विष्णोश्च बलाबलपरीक्षया | अभिप्रायन्तु विज्ञाय देवतानां पितामहः || विरोधञ्जनयामास तयोस्सत्ववतां वरः | अधिकं मेनिरे विष्णुं देवा ऋषिगणास्तदा || उमा- त्वत्तो विशिष्ट भावस्तु विष्णोस्संप्रति गण्यते | कथमेतद्दयासिन्धो कृपया वद सुव्रतम् || महेश्वरः- शृणु देवि प्रवक्ष्यामि विष्णोराधिक्यतां प्रति | पुरा कदाचिद्देवेशि परमानन्दकानने || क्रीडासक्ते मयि तदा विश्वमेतदनायक | उपद्रुतं सदा दुष्टैर्वेदवादबहिष्कृतैः || स्वाहास्वधा वषट्काररहिते कर्मवर्जितैः | ब्रह्मणा ज्ञातवृत्तान्तः कार्यशेषमचिन्तयम् || चक्रपाणिं समाहूय रत्नसिंहासने शुभे | अभिषिच्य वरान्दत्वा प्रणामं करवं प्रिये || सृष्टि स्थिति विनाशानां कर्तृत्वमकुतो भयम् | प्. ४८) सर्वज्ञतादिसिद्धिं च दत्तवानस्मि विष्णवे | मत्तोधिको भवानाजौ भव विष्णो क्वचित् क्वचित् || इति दत्वा वरान्पूर्वं वाराणस्यां हरिं पुरा | इति दत्वा वरान् पूर्वं वाराणस्यां हरिं पुरा || इदं ज्ञात्वा कविः प्राह मेनिरे धिपतिं प्रिये | शरञ्च प्रतिसंगृह्य हस्तात्क्र?घु पराक्रमः || आरोप्य धनुषी रामस्सशरं सन्निकर्षह | उमा- निर्वीर्यो जामदग्न्योसौ रामो राममवैक्षत || इत्युक्तं ऋषिणा काव्ये निर्वीर्यत्वं ऋषेः कथम् | महेश्वरः- जामदग्न्यावतारोयं हरे रावेशमात्रकः || पूर्णावतारमालोक्य शक्तिस्साङ्क्रमिता भवत् | रात्रौ दिवाकरं तेजो निहितं हव्यवाहने || प्रातस्सूर्य यथा गच्छेद्वह्निरह्नि यथापुरम् | कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा || वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः | इत्यादि श्रवणात्स्त्रीणां स्नुषाभूयस्करं भवेत् || स्नुषास्स्युः पतिमातॄणामिष्टाः प्रीतिणु वल्लभाः | काण्डान्तं श्रावयेद्वापि शृणुयाद्वा नरर्षभः || उपेत्य भार्यां गृद्यां च रमते प्रीति पूर्वकम् | प्. ४९) काण्डान्ते ब्राह्मणाः पूज्याः पूज्यस्सीतापतिः प्रभुः || सीतासमेत प्रतिमा राघवस्य मनोरमाम् | चतुर्विंशत्पलैः कृत्वा तदर्धैः पादसंमितैः || जाम्बूनदैस्समाराध्य दद्याद्विद्वद्द्विजन्मने | निधाय पूर्णकलशे क्षौमोपरि शुचिस्मिते || सहस्रसम्मितैर्वित्तैस्तदर्धैः पादमात्रकैः | यथा शक्तिप्रमाणेन वित्तशाठ्यविवर्जितः || दक्षिणा सहितन्दद्याद्वाञ्छितार्थ सुसिद्धये | धर्ऽनीगर्भसंभूते धरणीधरवल्लभे || धरणीम्मे प्रयच्छाशु प्रीताभव शुचिस्मिते | कौसल्यागर्भसंभूत भूभारोद्धारण प्रभो || प्रतिमादान तुष्टस्सन् वाञ्छितार्थ सुसिद्धये | वक्ता प्राङ्मुख आसीत श्रोताचोत्तरदिङ्मुखः || नित्यं द्विजान्समाराध्य यथा विभवविस्तरम् | विष्टरं मारुतेः कृत्वा भक्ष्यैर्भोज्यैश्च पूजयेत् || दत्वा ताम्बूलमतुलं शृणो तु मुखतुष्टये | हविष्याशी स्वयं भूयाद्भार्यया नियतात्मवान् || वक्तुर्मुखं समालोक्य शृणुयात्कार्य सिद्धये | वक्तारं रामबुध्या तु पूजयेन्वहं प्रिये || इत्युमा संहितयां रामायणकथाफलप्रस्तावे बालकाण्डकथाफल वर्णनं नाम षष्ठोध्यायः || महेश्वरः- सहदेवैरुदीर्णस्य रावणस्य वधार्थिभिः | अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः || विशेषणं हरेश्शृण्वन् क्वचित्स्कन्धान्वयं तथा | क्वचिद्रूपकथनं क्वचिज्ज्ञान प्रदर्शनम् || यो नित्यं शृणुयाद्वापि श्रावयेद्वा समाहितः | सर्वबन्धविनिर्मुक्तो हरिमन्दिरगो भवेत् || पट्टाभिषेकसंभारान्वसिष्ठेन प्रचोदितान् | सौवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि || इत्यादीनि सदा शृण्वन् प्रातः काले महीपतिः | स्थिरं राज्यं समासाद्य प्रियपुत्रैश्च मोदते || विप्रोषितश्च भरतो यावदेव पुरादितः | तावदेवाभिषेकस्ते प्राप्तकालो मतो मम || कामं खलुसतां वृत्ते भ्राता ते भरतस्स्थितः | ज्येष्ठानुवृत्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः || किन्नुचित्तं मनुष्याणामनित्यमिति मे मतिः | ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य च || इति प्रोवाच भरतस्सर्वान्पौरजनान्प्रति | प्. ५१) तादृशे को विचारोस्ति स्वच्छचित्तस्य भूपतेः | महेश्वरः- शृणुवक्ष्यामि तत्वेन राजा पङ्क्तिरथाह्वयः | हृदि शङ्कान्निधायैव गिरिव्रजपुरं प्रति || भरतं प्रेषयामास राजा दशरथस्सुतम् | कन्याम्मनोज्ञामाकर्ण्य केकयाख्यस्य भूपतेः || गत्वा तां वरयामास पत्न्यर्थं केकयाधिपः | सोऽपि वव्रे वरं राजा दास्यामि तव कन्यकाम् || अस्यामुत्पत्स्यते योसौ स तु राजा विधीयताम् | तथास्त्विति प्रतिज्ञाय गृहीता केकयात्मजा || तस्यामुत्पादितः पुत्रो भरतो नाम विश्रुतः | उमा- राज्ञो दशरथस्यास्य मृषावादित्वमागतम् || प्रतिज्ञोल्लंघनं राज्ञः कारणद्वितयाद्भवेत् | केकयाधिपतेश्चापि तत्पुत्र्याः कारणान्तरे || कैकेयया ग्रहणेचापि तस्यास्सारश्यकर्मणि | महेश्वरः- विवाहसमये राज्ञा प्रतिज्ञातमिदं शृणु || पट्टाभिषेकसमये भवेयं स्मारितो यदि | त्वया वान्येन भूपाल तथा चेत्करवाण्यहम् || इत्थं प्रतिज्ञामकरो पपात ग्रहणे नृपः | प्. ५२) प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः || तस्मात् पित्रोर्नमस्कारस्साष्टाङ्गश्श्रुतिचोदितः | विना साष्टाङ्गमन्येन कुर्वन्नरकमश्नुते || देवर्षि पितृ विप्राणामनृणोस्मि तथात्मनः | उमा- जायमानस्य विप्रस्य ऋणानां त्रितयं सह || क्षत्रियाणां विशांचैव कथं वेदविनाकृतम् | मङ्गलं प्राप्यते मर्त्यश्श्रुत्वा साकेतवर्णनम् || गुरुमान्जायते मर्त्ये गुरुपूजा विधिश्रुतौ | ध्यायन्नारायणं देवं स्वस्तीर्णे कुशसंस्तरे || ब्राह्मणानां शिवो ध्येयः क्षत्रियाणां हरिस्स्मृतः | हिरण्यगर्भो वैश्यानामुपस्यब्ध दृशस्मृतः || इति द्योतयि तुं रामस्स्वात्मानमनुसन्दधे | कुब्जा देवैस्समादिष्टा कैकेयीं भेत्तुमारभेत् || बाल्य एवहि मा तुल्यं भरतः प्रापितस्त्वया | धन्निकर्षाच्च सौहार्दो जायते स्थावरेष्वपि || तस्मात्समक्षे वस्तव्यं स्वस्य भूमिमभीप्सतः | आसन्नं भजते नारी आसन्नः परिपूज्यते || आसन्नं भजते राजा आसन्नं भजते लता | स्त्रीणां कौटिल्यमाख्यानं शूल्यालंकारवर्णनात् || प्. ५३) देवि केनाभि युक्तासि इत्यादिग्रन्थविस्तरैः | कामाचारो भवेत्कामो वृद्धानां यूनिका कथा || कामातु राणां भूलोके अदेयन्नास्ति कुत्रचित् | शपेते जीवनार्हेण इति शापं वृथां नृपः || सत्येनापि शपेद्यस्तु देवगुर्वग्निसन्निधौ | तस्या वैवस्वतो राजा धर्मस्यार्धं निकृन्तति || एवं स्थितोपि राजर्षिः कामबाणेन पीडितः | अशपद्राममुद्दिश्य पाशबन्धमृगान्वितः || सत्येन लोकाञ्जयति दीनान्दानेन राघवः | गुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान् || सत्यन्दानन्तपस्त्यागो मित्रता शौचमार्जवम् | विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे || हरिश्चन्द्रस्तु सत्येन शिबिर्दानेन भूतले | कोदण्डेनार्जुनश्शत्रून् रघुश्शुश्रूयया गुरून् || विश्वामित्रस्तु तपसा आर्जवेन युधिष्ठिरः | जनको विद्यया चापि एकैकगुणयोगतः || लोकानां विजयं कृत्वा प्रसिद्धा अभयन्नृपाः | ध्रुवाण्येतानि राजेन्द्र राघवे कृतकेतनाः || रामोपि भरताद्भूयः तव शुश्रूषते सदा | वह्नीनामेकभार्येणामेका पुत्रवती यदि || प्. ५४) सर्वास्तास्तेन पुत्रेण पुत्रवत्यः प्रकीर्तिताः | यथा मातरि शुश्रूषां विदध्यादौरसस्सुतः || तद्वन्मातृसपत्न्यां तु ऐहिकं पारलौकिकम् | अनार्य इति मामार्याः पुत्रविक्रयिणं ध्रुवम् || धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा | पुत्रन्न विक्रयं कुर्यान्न दद्याद्द्रव्यलोलुपः || दद्याद्यदि नरो लोभात् पुन्दि पच्येत विक्रयी | ब्राह्मणोन्नृसुरा पेया गौल्याद्याः पापकारिणः || सुरापं ब्राह्मणं दृष्ट्वा कुलत्यागो विधीयते | पुन्वा जननवेलायां शङ्खचक्रगदाधरम् || दृष्ट्वा तुष्टाव बहुधा काश्यपत्वात् स्वयं नृपम् | तन्मया मोहितो भूत्वा भक्त्या राममनुस्मरन् || मास्म मे भरतः कार्षीत् प्रेतकृत्यंगतायुषः | इत्यादि प्रलपन्न्राजा कैकयीवरमोहितः || श्रुत्वाविचित्रं करुणं विलापं * * * * * * | * * * * * भर्तुर्नृशंसा न चकार वाक्यम् || देवैस्संप्रार्थितो देवि मायाविश्वं भरस्य तु | केकयापत्य वादेन जाता विश्वस्य गुप्तये || सामया भेदयामास राजानमकुतो भयम् | चतुरश्रो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम् || प्. ५६) वाहनन्नरसंयुक्तञ्छत्रं च शशिसन्निभम् | तुरीयं वर्णकमिदं ब्रह्मविष्णुशिवात्मकम् || भजतां सर्वदोषघ्नं संसारभयनाशनम् | तुष्टिदं पुष्टिदं चैव सर्वैश्वर्य प्रवर्तकम् || रामाभिषेकसंभारां छ्रुत्वामङ्गलमाप्नुयात् | राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् || कर्तुमर्हति ते राजा वासवस्येव लोककृत् | इमं मन्त्रं समुच्चार्य प्रेषयेद्दूरगं प्रियम् || सर्वान्कामानवाप्यैव पुनर्बन्धुषु युज्यते | पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः || वरुणः पश्चिमामाशान्धनेशस्तूत्तरां दिशम् | सीताकवच युक्तांगो यां यां याति दिशं प्रति || तान्तान्कामानवाप्यैव लभते शाश्वतं पदम् | यश्च रामन्न पश्येत्तु यं च रामो न पश्यति || निन्दितस्स भवेल्लोके स्वात्माप्येनं विगर्हते | रामं वा रामबेरं वा रामनामान्यथापि वा || वीक्षेत शृणुयाद्वापि स नरो मुक्ति भाग्भवेत् | यज्ञैर्दानैस्तपसा नाशनेन बध्वा विष्णोख्ययस्य प्रसादम् || लब्ध्वा साक्षाच्छाश्वतं कृच्छ्रात् मोक्तुं देवीं काञ्चितेनाल्प कालम् || प्. ५६) श्रुत्वा लक्ष्मण वाक्यानि कौसल्यारामयोः पुरा | सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे || हनिष्ये पितरं वृद्धं कैकेयया वशमागतम् | इत्यादि श्रवणात्पुंसा क्षात्रन्तेजोभि वर्धते || त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया | पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः || अत्रेतिहासं वक्ष्यामि पावनं पूर्वसंभवम् | अवन्ती विषये कश्चित् किरातान्वय संभवः || धर्मव्याध इति ख्यातः पित्रोः पूजापरायणः | आपणस्थं सदा मांसं क्रीत्वाक्रयण तत्परः || क्रयलब्धैर्बहुद्रव्यैः पितृपूजापरो भवत् | अभ्यज्य पितरौ नित्यं स्नापनं चोष्णवारिणा || कृत्वा सुभोज्यं भोज्यान्नैर्वीटिकार्पण पूर्वकम् | मञ्चे निधाय पितरौ कृतपादाभिवन्दनः || एवं दिने दिने कुर्वन् व्याधोऽपि स्वर्गमभ्यगात् | श्रुत्वा धमार्थ कामेति धर्मभाग्जायते नराः || श्रुत्वा राघव वाक्यानि वनप्रव्राजनं प्रति | रामप्रसादमासाद्य रामसायुज्य गामिनः || श्रुत्वा लक्ष्मणवाक्यानि राघवेन्द्रस्य सन्निधौ | मित्रमभ्यन्तरं लब्ध्वा शत्रूणां विजयं लभेत् || प्. ५७) सन्ति धर्मो पदा श्लक्ष्णा धर्मात्मन् कि बुध्यसे | तयोस्सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः || पुरा तु ब्राह्मणः कश्चित् कलिङ्ग विषये महान् | श्रुताध्याय न संपन्नो वेदाध्ययन लंपटः || चूल्याख्यो बहुकालन्तु द्रव्यार्जनपरायणः | प्रतिग्रहाध्यापनया याजकेभ्यो धनार्जनम् || धनेन पूर्णप्रतिलब्धकामः किञ्चिद्धनं ब्राह्मणसान्नकार्षीत् | धर्मस्य नाशात्पिशुनाश्च चोरा कृपीडयोनिर्नृपतिश्च रुष्टः || विनाशया मासुरथास्य वित्तं सवित्तनाशात् परितापितोभूत् || धर्मस्य लोपान्मदचित्तनाशो बभूव इत्युक्तिपरो द्विजोभूत् | धर्मं चरिष्याम इति ब्रुवाणो वित्तार्जुनं धर्ममिषेण चक्रेः || ब्राह्मणान् भोजयिष्यामि तटाकान् खातयाम्यहम् | प्रपाः प्रवर्तयिष्यामि करिष्ये देवपूजनम् || तद्द्रव्येणाकरोत्स्वस्य संसारपरिपूरणाम् | किञ्चिद्धर्मं ह्ययं चक्रे नोचेद्दास्यन्ति ते मम || प्. ५६) परार्थे धर्मकार्तारो धर्मविक्रयिणस्तथा | मतङ्गजा भविष्यन्ति पिशाचा वा न संशयः || एतादृशा महीदेवा क्षत्रविट्छूद्रजास्तथा | इति रामेण कथितं प्रिये प्रोक्तं मयाधुना || शृणुष्वा परमाख्यानं स्वर्गस्यास्य पुरातनम् | पुरा कश्चिन्महीपालः कुन्ती भोज इति श्रुतः || पृथिवीं पालयामास क्षत्रधर्ममनुस्मरन् | तादृशस्य महीभर्तुः राजानः परिपंथिनः || न्यरुन्धन्तस्य नगरं चतुरङ्गबलैर्युताः | निरुन्धं नगरं वीक्ष्य हेहयैस्ताल जंघजैः || युद्धाय कृतसन्नाहो रथादि बलसंयुतः | पुरान्निर्गत्य स बहुकृतवाञ्जन्यमुत्तमम् || नष्टेषु द्रव्यजातेषु भग्नेषु गजवाजिषु | पुरमागम्य भूपालः किं कार्यमिति चिन्तयत् || चिन्ताविष्टं नृपं प्राह पुरोधाः कार्यसाधकः | राघवेन्द्रे वनं गन्तुं पित्रादिष्टे कृतत्वरे || कौसल्या कारयामास पुत्रमङ्गलवाचकम् | तदिदानीं प्रयुञ्जानो युद्धं कुरु यथा बलम् || ब्राह्मणान्सम्यगाहूय स्वस्तिवाचनपूर्वकम् | हुत्वा वैष्णवमन्त्रैश्च कृत्वा ब्राह्मणभोजनम् || प्. ५९) आशिषोन्ते विधायैव कृतमङ्गलपूर्वकम् | युद्धं कुरु महाबाहो शत्रूञ्जेष्यसि मा चिरम् || इत्युक्त्वा कारयामास द्विजैश्च सपुरोहितैः | सापनीय तमायासमुपस्पृश्यजलं शुचि || चकार माता रामस्य मङ्गलानि यशस्विनी | इत्युपक्रम्य मङ्गल्य जगामेत्यन्तमादितः || ब्राह्मणैर्वाचयामास विजयार्थं नृपस्य च | युद्धाय कृतसन्नद्धो निर्जगाम पुरोत्तमात् || हेहयैस्तालजङ्घैश्च युद्धमासीत्कृतारवम् | प्रवृत्ते घोरतसि बाणासार प्रपीडितम् || भग्नं रागकुलं सर्वं विद्रुतं सर्वतो दिशम् | क्षणमात्रेण तेष्वेको नह्य दृश्यत भूतले || प्रयाण समये जप्त्वा तु कार्यसिद्धिर्भविष्यति | देशान्तरगातानां च पुनरावृत्तिसिद्धिदम् || व्रतोपवासरतया भवितव्यं त्वया नये | इत्यादि ग्रन्थसन्दर्भै स्त्रीधर्मं प्राहराघवः || प्रोषिते नायके स्त्रीभिर्हरिद्राकुङ्कुमं तथा | कञ्चुकीं कङ्कणं वापि न धार्यं भूतिमिच्छता || केशसंस्कारकरणं चित्राणि वसनानि च | आर्य पुत्र पिता माता भ्राता पुत्रस्तथास्नुषा || प्. ६०) स्वानि पुण्यानि भुञ्जाना स्वं स्वं भाग्यमुपासते | भर्तुर्भाग्यं तु भार्यैकामाप्नोति पुरुषर्षभ || अतश्चैत्यादि सन्दर्भैस्सीता प्रोवाच राघवम् | अत्रेति हासं वक्ष्यामि शृणु पार्वति तत्वतः || नलो नाम पुरा राजा चक्रवर्ती नरर्षभः | पृथिवीं पालयामास यथाशास्त्रं यथा मति || तस्य दैववशाद्द्युते प्रवृत्तिरूपपद्यते | कलिना जितसर्वस्वो राज्य भ्रंशमवाप्तवान् || तस्याङ्गना तु वैदेही तद्दुःखाद्दुःखिनी भवेत् | हरिश्चन्द्रश्च भार्या च भर्तृदुःखमुपेयिता || तस्मादहं त्वया सार्धं वनं यास्यामिराघव | किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः || रामंजामातरं प्राप्य स्त्रियं पुरुषविग्रहम् | अत्राहं कथयिष्यामि पुरावृत्तं रघूत्तम || पुरा नरपतिः कश्चिदरक्षदवनीमिमाम् | स्वर्धुनी तनये राजौ पराजयमवाप्तवान् || गाङ्गेन्यं हन्तुकामोसौ शिवाराधनको भवत् | सिद्धे तपसि तं प्राह शंभुर्गङ्गाधरस्स्वयम् || भो भो नरेन्द्र किं कार्यं तपश्चरसि खेदतः | इत्युक्ते प्राह भूपालः परमानन्दनिर्भरः || प्. ६१) भीष्महन्तारमिच्छामि कर्णे कालवरो मम | इत्युक्ते दत्तवान्देवो निर्वितं भीष्मनाशने || कतिचित्कालमासाद्य स्त्रीत्वं पुंस्त्वमवाप्स्यसि | इति दत्तवरो राजा पुरमाप कुतूहलात् || तस्य भार्यासुतां काले जनयामास सुप्रभाम् | राजा शिवस्य वाक्येन पुत्रो जात इति ब्रुवन् || जातकर्मादिसंस्कारमकरोत् पुरुषे यथा | तामन्तरा तु तनयां शिखण्डीमुदवाहयत् || रात्रौ विनोदसमये ज्ञात्वा नारीं शिखण्डिनम् | पित्रे संप्रेषयामास शीघ्रं सन्देशहारिणम् || श्रुत्वा वृत्तान्तमत्युग्रं चतुरङ्गबलैर्वृतः | सम्बन्धिनगरं रोषादाक्रम्यानिष्ठदञ्जसा || एवं शुश्राव वृत्तान्तं स्त्रियं पुरुषविग्रहम् | सीताराघवयोर्वाक्यं ये शृण्वन्ति महीतले || तौ दंपती सदा खेदात्स्यातां मुक्तौ भवाच्चवे | रामोपि वित्तं विप्राणां दत्वा वनगतो भवत् || लोकान्तरं गन्तुकामैः काचमात्रञ्च दीयते | नव पञ्च च वर्षाणि नववासं विहृत्यते || पुनः पादौ गृहीष्यामि प्रतिजानो नराधिप | वध्येवारद्वयन्नास्ति स्थापिते नास्ति चालनम् || प्. ६२) रामे वार्ताद्वयं नास्ति नास्ति युक्तरराघवऽपि | श्रेयसे वृद्धये तान पुनरागमनाय च || गच्छस्वारिष्टमव्यग्रः पन्थान मकुतो भयम् | नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् || नैव सर्वानिमान्कामान्स्वर्गं नैव च जीवितम् | इदं प्रोक्त्वा प्रस्थितानां प्रस्थापनविधिर्भवेत् || ते यान्ति सिद्धसंकल्पा दृढदेहा धनाधिपाः | पुनर्बन्धुसमेताश्च मोदन्ते दिवि देववत् || पूर्णस्य ब्रह्मणो राज्ये इच्छा तस्माद्भविष्यति | लाभालाभे दुःखसुखे कार्याकार्ये प्रियाप्रिये || अद्वैते निर्विशेषाख्ये मायालेशो न विद्यते | कैकेयी भर्त्सनं श्रुत्वा वसिष्ठमुनि भाषितम् || नश्यन्ति सर्वपापानि तार्क्ष्यं दृष्ट्वा यथोरगाः | उमा- एतादृशास्त्रियस्सन्ति किम्वलोद्वेगकारिकाः | भर्तुरुद्वेजिनी नारी व्याली भवति कानने || भर्तुरग्रे तु भुञ्जाना लंपते जतु वर्तिका | कथं द्रोहं प्रकुर्वन्ति स्त्रियकान्ते स्वदैवते || एतदाचक्ष्व देवेश मम कामप्रपूरक | महेश्वरः- शृणु वक्ष्यामि देवेशि किञ्चिदाख्यानमुत्तमम् | यस्य श्रवणमात्रेण विभ्यन्ति सकलास्स्त्रियः || ज्येष्ठा दासीन्नरपति प्रियं वद इति भुतः | श्रुताध्ययन संपन्नो महीं धर्मेण पालयन् || तस्य भार्याद्वयमभूदेका तु सुमुखाभिधा | अन्या कनक वर्णाङ्गी धर्मेणोढा भवत्स्त्रियः || ज्येष्ठा प्रसूत तनयं कद्रूं कामाकृतिं शुभम् | अन्यात्वजीजनत्पुत्रमम्बुजा क्षेति विश्रुतम् || प्रियंवदाख्यो नृपति रघु तत्र तयं समाः | कृत्वा राज्यं जीर्ण वपुः पुत्रं राजानमैच्छत || प्रकृतीस्सम्यगाहूय चिन्तयामास वै हितम् | तस्मिन्नवसरे दूतं ज्ञात्वा राज्ञश्चिकीर्षितम् || हेमाङ्गी कथयामास कद्रूराज्यस्य भाविताम् | सः पुष्ययोगे ज्येष्ठाया पुत्रं कद्रभिधानकम् || अभिषेक्ष्यति धर्मेण प्रजापालनकर्मणि | इत्युक्ते सुप्रजज्वाल कोपेन ज्वलितानना || द्यूतिं कनकवर्णाङ्गी उत्तरं समपृच्छत | सा चिन्तयित्वा तां प्राह साहसं परमौषधम् || रात्रौ प्रसुप्ते नृपतौ शिरः खड्गेन लावय | मृते पितरि राजातु भविता त्वत्सुतो नघे || मूलं बलं त्वत्सुतस्य तस्य नास्ति हि कोवि हि | तथा प्रबोधिता राज्ञी तथा श्रद्धाञ्चकार वै || सिद्धः कश्चिद्ददौ राज्ञे मन्त्रं कम्बलिकां प्रति | सा तस्य कर्णे जपति सर्वं वृत्तान्तमादितः || अथ वेदित वृत्तान्तः किमेतदिति चिन्तयत् | सा निश्चितार्थः पदति नानृतं वक्ति कर्हिचित् || कूटमभ्यन्तरं शुद्धं शुद्धान्तचरलंपटम् | प्राह भृत्यमथाज्ञप्तो तल्पाधश्शेष्वमे निशि || इत्थं शुद्धान्त सञ्चारकुशलं कञ्चनं व्यधात् | रात्रौ कनकवर्णाङ्ग्या कृतभोगो नराधिपः || निद्रावशमगात्सा च महिषी निद्रिता भवत् | पिशाच्या कर्णबोधिन्या बोधिनो नृपसत्तमः || उत्थाय शीघ्रमभ्यर्णे निद्रालुं भृत्यमञ्जसा | तल्पे निधाय तस्याधः स्वयन्निद्रामुपागमत् || एतस्मिन्नन्तरे सापि प्रबुद्धा चिन्तयत्स्वयम् | कृत्वा विकोशन्निस्त्रिंशं केशपक्षे परामृशत् || स्त्रीबुध्या साहसान्मौर्ख्याच्चिच्छेद शिर उत्तमम् | इत्थं प्रज्ञात वृत्तान्तो निशान्ते भूपतिस्स्वयम् || शूलाग्रे तां समारोप्य शयिष्ट ससुखं समाः | एतादृश्यस्स्त्रियस्सन्ति साहस प्रवरान्विताः || प्. ६५) साकेतपुरनाथस्य पितुर्दशरथस्य च | स्वरूपं दर्शयामास सहस्रार्कसमप्रभम् || सहस्र शिरसं नित्यं सहस्राक्षमनामयम् | सहस्रबाहुपादोरुं सर्वतस्समवस्थितम् || जटां त्रिणेत्रं गङ्गां च विभ्राणं प्रलयानलम् | शङ्खं चक्रञ्च कौमोदीन्नन्दकञ्च कमण्डलुम् || पिनाकं धवलं रक्तं कार्ष्णञ्चैव वपुर्धरम् | ग्रसन्तं सर्वभूतानि व्याक्ताननमिवान्तकम् || दृष्ट्वा रूपं हरेस्तुष्टास्तुष्टाव परमेश्वरम् | मां शिवम् | मधुवन्नोजसि तु वाञ्छां कुर्वन्ति सरघा यथा || तद्वन्मां ज्ञाततत्वोयं न जहाति कदाचन | इति मत्वा स्वयं मायान्ततान नृपमोहिनीम् || इयं धार्मिक कौसल्या मम माता यशस्विनी | वृद्धा चाक्षुद्रशीला च न त्वां देव विगर्हिते || मया विहीनां वरद प्रपन्नां शोकसागरे | अदृष्टपूर्वव्यसनां भूयस्समन्तु महसि || इत्थं मायामोहितस्तु गमनाय मतिं दधे | सीताकौसल्ययोर्वाक्यं पातिव्रत्योपदर्शनम् || श्रुत्वा स्त्री प्राप्नुयान्नित्यं पतिशुश्रूषणाफलम् | प्. ६७) दानवेन्द्रं हतन्दृष्ट्वा तिमिध्वजसुतं रणे | स शूरः पुरुषव्याघ्रस्स्वबाहु बलमाश्रितः || असन्त्रस्थोप्यरण्यस्सो वेश्मनीवनिवत्स्वति | उमा- अनुक्तो मुनिना क्वापि सिद्धवत्कथ्यते कथम् | एतदा च क्ष्वमन्नाथ रघुनाथ पराक्रमम् || महेश्वरः- कृतोद्वाहो दाशरथिस्साकेतनगरे मले | पितृशुश्रूषणरतो मातृशुश्रूषणे रतः || गुरुशुश्रूषणे सक्तः प्रजापालन तत्परः | नियुक्तो गुरुणा रामः शिक्षयन्सकलाः प्रजाः || दिनान्ते जनकं सर्वं विज्ञाप्यानुष्ठितं महत् | गृहं प्रविश्य रामस्स सीताया सुखितो भवत् || एवं द्वादशवर्षाणि कृतवान्परिश्चनम् | तिमिध्वजस्य तनयशतमायो महाबलः || दण्डकारण्यमभ्येत्य कोसलान्पर्यपीडयत् | श्रुत्वा दशरथस्तूर्णं सन्नाहेन समन्वितः || चतुरङ्गबलोपेतः पुरात्तूर्णं विनिर्ययौ | अक्षौहिणीद्वयोपेतो दण्डकान्प्रत्यपद्यत || तिमिद्वजस्य तनयश्शतमायो महाबलः | प्. ६८) बलेन महता युक्तो युद्धायाशु विनिर्ययौ || दण्डकारण्यमासाद्य तस्थौ युद्धाय निश्चितः | जन्यमासीन्महाघोरं रक्षसां मनुजां तथा || एतस्मिन्नन्तरे रामो धनुर्विष्षारयन्महत् | ववर्ष शतवर्षाणि रक्षरतां प्राणशान्तये || ते भग्नदेहमूर्धानो भिन्नाश्छिन्ना विदारिताः | त्यक्त्वा प्राणानाजि मध्ये योगि मृग्यं पदं गताः || तान्दृष्ट्वा प्राणनिर्मुक्तान् राक्षसान्स तिमिध्वजः | तिमिध्वजसुतो वीरो मायां प्रावर्तयद्युधि || छन्तमायाबलेनाजौ वीक्ष्य रामो महारणे | मुमो चास्त्रं महावेदं शब्द वेध्यभिधानकम् || तेन सञ्छिन्नहृदयः पपात च ममार च | एतस्मिन्नन्तरे देवैः पुष्पवृष्टिरवर्षतः || स्रष्टा सर्वस्य लोकस्य रामं प्राह मुदान्वितः | अस्त्रन्ददानि दिव्यन्ते ते यथा लक्ष्मणस्य च || ददामि सर्वदेवानां पथावत्प्रतिभान्तु ते | इति दत्वा वरं वेधास्तत्रैवान्तरधीयत || शान्ते जन्ये दशरथो रामादि सहितो जयी | पुरं प्राप्य मुदा युक्तः परां प्रीतिमवाप्तवान् || वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः | प्. ६९) दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः || श्रुत्वा देव्या पञ्चमं वृत्तमेतत् वाणी शक्यं प्राप्नुयात्कीर्तनाच्च | अन्ते वाणी नाथ लोकंप्रपद्य अन्ते लोकं शाश्वतं याति मर्त्यः || इत्युमा संहितायां अयोध्याकाण्डश्रवणफलवर्णनन्नाम सप्तमोध्यायः || || अथाष्टमोध्यायः || महादेवः- गङ्गामध्यगता साध्वी प्रार्थयामास जाह्नवीम् | सुराघटसहस्त्रेण मांसभूतोदनेन च || यक्ष्यो त्वां प्रयता देवी नगरीं पुनरागता | पायसेन द्विजैः पूज्या क्षत्रियैर्गव्यसर्पिषा || वैश्यैः पूज्या माक्षिकेण सुरया शूद्रजातिभिः | दर्शादीष्ट्यादि तिथिषु पूज्या शङ्करवल्लभा || अतिदेशेन नारीणां शूद्रधर्मोयमागतः | प्. ७०) भरद्वाजो महातेजाः पूजयामास राघवम् || नानाविधानन्नरसान् वन्यमूलफलाश्रयान् | तेभ्यो ददौ महातेजा वासञ्चैवान्वकल्पयत् || उमा- मधुमूलफलर्जीवं हित्वा मुनिवदामिषम् | इति रामेण गदितं जनन्यैगच्छता वनम् || पश्चाद्रामेण कथितं गङ्गासन्तारणात्परम् | तौ तत्र हत्वा चतुरो महामृगान् वराह मृग्यं पृषतं महारुरुम् | आदाय मेध्यन्त्वरितं बुभुक्षिता वासाय काले ययतुर्वनस्पतिः || फलमूलाशिनौ दान्तौ तापसौ धर्मचारिणौ | इति नानाप्रकारेण संशयो वर्तते मम || छिन्द्ये तत्संशयं कान्त चारित्रे राघवस्य तु | महेश्वरः- शृणु देवि प्रवक्ष्यामि संशयं छेद्मि सुव्रते | एतत्सर्वमभिप्रेत्य निवारान्नं क्वचिद्रामः क्वचिदामिषभोजनम् | मधुना क्वचिदाहारं फलमूलैः क्वचिद्भवेत् || वने निवसता तत्र कृतं रामेण सुव्रते | प्. ७१) एतत्सर्वमभिप्रेत्य मुनिवत्पदमङ्गन्ने | उमा- तीर्त्वा हिमोद्भवां गङ्गां रामो लक्ष्मणमब्रवीत् | जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु || योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः | इत्युक्तं रघुनाथेन गङ्गासन्तारणात्परम् || तञ्जाग्रतं गुणैर्युक्तं वरचापेषु धारिणम् | भ्रातृ गुप्त्यर्थमर्थमहं लक्ष्मणमब्रुवम् || इत्थं निषादाधिपतिः प्रोक्तवान्भरतं प्रति | इत्थं धनुर्धरोभूत्वा उटजद्वारि लक्ष्मणः || अतिष्ठत्सर्वमावृत्य इति प्राह महामुनिः | इदानीं भण्यते तेन मुनिना लक्ष्मणं प्रति || महौ निद्रां च तन्द्रीं च प्रसक्तं च परिश्रमम् | रात्रौ धनुर्धरो भूत्वा रक्षत्यतुलविक्रमः || महेश्वरः- त्रियामायाः तृतीयांशे निद्रां किञ्चित्करोत्यसौ | श्रुत्वा वेदवरं काल्ये मुनिवृन्दैस्समीरितम् || रक्षसान्नवकाशोऽस्ति वेदध्वनि विजृंभणात् | तस्मात्प्रचेतसाप्युक्तं किञ्चिन्निद्रा प्रदर्शकम् || अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् | प्. ७२) प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः | कौसल्या नृपतिं प्राह पुत्रव्यसनकर्शिता || भोजयन्ति किल श्राद्धे के स्वानेव बान्धवान् | ततः पश्चात्समीक्षन्ते कृतकार्यान्द्विजर्षभान् || तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः | न पश्चात्ते भिमन्यन्ते सुधामपि सुरोपमाः || ब्राह्मणेषु वितृप्तेषु पश्चाद्भोक्तुं द्विजर्षभान् | नाभ्युपेतुमलं प्राज्ञाः शृङ्गछेदमिवर्षभाः || एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशांपते | भ्राता ज्येष्ठो वरिष्ठश्च किमर्थञ्चाभिमंस्यति || अत्रेति हासं वक्ष्यामि शृणु शैलेन्द्रकन्यके | पुरा दुर्योधनो नाम राजा धर्मभृतां वरः || सूर्यवंशसमुद्भूतो धर्मे सत्ये च निष्ठितः | शाण्डिल्याख्यो महातेजाः पुरोधा अभवन्मुनिः || तस्यैवं वर्तमानस्य राज्ञो दुर्योधनस्य वै | पितुर्दिनं हरिदिने बभूव मृतियोगतः || शाण्डिल्यं वरयामास पित्रर्थं ब्रह्मवित्तमम् | एतस्मिन्नभ्ययाद्विप्रो वार्षगण्य इति श्रुतः || तन्दृष्ट्वा पूजयामास राजा दुर्योधनाभिधः | पित्रर्थे प्रार्थयामास विप्रं ब्रह्मविदांवरम् || प्. ७३) ओमिति प्राह राज्ञे तु स्नातुं गोदावरीं गतः | चिरायिते वार्षगण्ये राजा चिन्ताकुलो भवत् || प्रातः पारणमाख्यातं द्वादश्यां तत्वदर्शिभिः | द्वादशीगुणयोगेन तत्काले हव्यकव्ययोः || स्मृति शास्त्रं हृदि दधौ शाण्डिल्योक्त महर्निशम् | अनागते वार्षगण्ये श्राद्धं कर्तुमथारभत् || निर्वर्त्य पित्र्यं विधिवदृषेरागमनं नृपः | प्रतीक्ष्य पारणां कृत्वा जलेनातिष्ठदासने || एतस्मिन्नन्तरे वार्षगण्याख्यः कृतमज्जनः | अभ्यर्णं भूपतेः प्राप्तः पारणे कृतनिश्चयः || तन्दृष्ट्वा कृत सत्कारं ब्राह्मणानां महीपतिम् | क्रोधेन महताविष्ठो व्याहर्तुमुपचक्रमे || निमन्त्र्य पित्र्ये मां राजन्नुपेक्ष्या क्रियते कथम् | दद्मिशापं महीपालमवमान कृतो यतः || भूपतिः- श्रुत्वा शाण्डिल्यवचनं शास्त्रं द्वादशिवासरे | इदं वृतं मया विप्र शास्त्रं ते श्रावयाम्यहम् || एकादशीदिने प्राप्ते अन्ने तिष्ठन्ति पातकाः | अन्नाशी पापमश्नाति दद्यान्नान्नं हरेर्दिने || अन्नवस्त्ररतो वापि दद्यान्नान्नं हरेर्दिने | प्. ७४) एकादश्यामन्नदाता रौरवं नरकं व्रजेत् || हव्यकव्यानि कर्माणि न दद्याद्धरिवासरे | द्वादश्यामेव कुर्वीत तद्दिनश्राद्धमेव च || प्रातः कालमति क्रम्य कुर्याच्छ्राद्धादिकं यदि | उपवासोद्भवं पुण्यं न धर्मञ्चाधिगच्छति || नाश्नन्ति पितरः कव्यं कालाति क्रमणं यदि | इति शास्त्रं समालोक्य दत्तं श्राद्धमिह द्विज || नृपेणोक्तमिदं श्रुत्वा कोपेन ज्वलिताननः | तान्त्रिकाणामयं धर्मो वेदनिष्ठैर्बहिष्कृतः || तन्त्रेषु दीक्षितो भूत्वा तन्त्राचाररतो भव | इति शापं नृपे कृत्वा गतवान् स्वरस्य चाश्रमम् || हा राघव महाबाहो हा ममायासनाशनः | हा पितृप्रिय मे नाथ हा ममाधिगतस्सुत || इति मातुश्च रामस्य सुमित्रायाश्च सन्निधौ | राजा दशरथश्शोचन् शयानोन्तमुपागमत् || यं भावं हृदि विन्यस्य देहं त्यजति मानवः | तन्न माप्नोति देहान्ते भावं भावनया युतः || राघवस्मरणे नैव मृतिं प्राप्तो महीपतिः | तथापि गतवान्स्वर्गं काश्यपत्वाद्धरेः पिता || पुत्रशोकातुरां बन्धौ शेपुर्दशरथन्नृपम् | प्. ७५) त्वामप्त्यातादृशो भावः क्षिप्रमेव गमिष्यति || जीवितान्तकरो योरो दातारमिव दक्षिणाः | तस्माद्द्रोहं न कुर्वीत ऋषिष्व ज्ञानतोऽपि वा || यदि दुःखान्प्रपद्यन्ते यथा दशरथो नृपः | समेत्य राजकर्तारः सभामीयुर्द्विजातयः || नाराजके जनपदे इत्यादि ग्रन्थ विस्तरैः | श्रुत्वा महीपतीनां तु विनाशो नास्त्यकालतः || स्वप्नानां गतयाः प्रोक्ताः कालजा रोगजास्तथा | वातजाः पित्तजाश्चैव श्लेष्मजा मन्त्रजास्तथा || देवता वेशवशगा स्वप्नानां गतयो ह्यमूः | दुस्स्वप्नानामपि तथा भवन्ति प्रतिभा बलात् || समुद्रशोषणं चापि नदीशोषणमेव च | पर्वतात्पतनञ्चापि आह्वानं कृष्यायोषिता || शकृन्मयह्रदे स्नानं शिरसो मुण्डनं तथा | वृक्षपर्वतभेदञ्च मूर्ध्निवज्रस्य पातनम् || एवमादीनि दुःखानि दृष्ट्वा सन्तप्तमानसैः | तद्दोषशमनार्थाय जप्तव्यं प्रयतात्मभिः || यामेव रात्रिं ते दूता प्रविशन्ति स्म तां पुरीम् | भरतेनापि तां रात्रिं स्वप्ने दृष्टो यमप्रियः || इदं सर्गं प्रयोक्तॄणां दुस्स्वप्नशमनं भवेत् | प्. ७६) श्रुत्वा शून्य पुराख्यानं भरतेन प्रभाषितम् || राज्ञा तु नगरं शून्यन्न कदाचित् भविष्यति | ग्रहाणां न विनाशस्स्यात् सर्वथा ग्रहमेधिनाम् || भरतस्य च कैकेययास्संवाद श्रवणान्नृणाम् | पातकानि च विभ्यन्ति तार्क्ष्यं दृष्ट्वा यथोरगाः || सोमात्यमध्ये संक्रुद्धो जननीमभ्यकुत्सयत् | ज्येष्ठो ह्यकृतदारे च ह्यकृताग्निपरिग्रहे || दाराग्नियोगं चक्रुस्तेये नरा मूढचेतनाः | परिवेत्ता परित्याज्य इति शास्त्रेषु निन्दितः || तद्वज्ज्येष्ठे विद्यमाने कृतभूमि परिग्रहः | परिराजकतां प्राप्य निन्दितस्स्याज्जगत्त्रये || तद्दोषशमनार्थाय जननीमभ्यकुत्सयत् | गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः || उत्पथं प्रतिपन्नस्य परित्यागो विधीयते | इति शास्त्रं समालोच्य मातरं प्रत्यकुत्सयत् || कौसल्यायाश्च पुरतो भरते न प्रभाषितम् | शपथ प्रार्थनं सर्गं यस्यार्योनुमते गतः || इत्यादि श्रवणात् पुंसामभिशापो न विद्यते | अत्र ते कथयिष्यामि इतिहासं पुरातनम् || * * * न प्रतिं कश्चित् कृत्वा राज्यम्महत्तरम् | प्. ७७) राज्येऽभिषेच्य तनयं तपसे गतवान्वनम् || विरक्तस्य प्रवृद्धस्य स्वर्णरोमाख्य भूपतेः | निर्विशेषं परं ब्रह्म ध्यायतस्सततस्सुरैः || प्रेषिताः कतिचिच्चोरा धना राज्ञो निवेशने | गृहीत्वा भूरिबहवो निर्गता राजवेश्मनः || पालकास्सम्यगाज्ञाय अनुजग्मुर्मलिम्लचान् | तस्करान्पालकाञ्ज्ञात्वान्तुर्णितन्धनसञ्चयम् || निधाय जग्मुर्वेगेन स्वर्ण रोम्णस्समीपतः | मोषितो वित्तनिकरः स्वर्णरोम्णेति वादिनः || राज्ञो निकटमानिन्यू राजर्षि प्रवरं शुभम् | ज्ञात्वा सुवर्णरोमाणं प्रणिपातपुरस्सरम् || प्रस्थापयन्महीपालस्तस्य माहात्म्य गौरवात् | स्वर्णस्ते यस्य विषये मिथ्याशापोयमागतः || इति बुध्या स्वर्णरोमः प्रायश्चित्तमचिन्तयत् | अरुन्धती पतिं गत्वा प्रायश्चित्तमपृच्छत || उपदिष्टो वसिष्ठेन शपथं भरतस्य सः | जजानतो न पूतात्मा प्राप्तवान्दिव्यमन्दिरम् || प्राग्द्वारे भूत्तदा कुब्जा सर्वाभरणभूषिता | लिप्ता चन्दनचारेण राजवस्त्राणि बिभ्रती || स्वजन्मनः फलं हेम स्वयं वा मनिका सती | प्. ७८) निर्वापयामास शनैर्देवानां हितमिच्छति || तस्माद्भषण संकारै भूषणं युज्यते भृशम् | भरतस्य ससैन्यस्य भरद्वाजस्य सत्कृतिम् || पठन्दद्यात् पितॄणां हि अक्षयय फलसिद्धिदम् | जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि || ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा | गायत्र्या स्वरसंख्यातं वर्णकं शृणु याद्यत् || तस्य धर्मार्थ मोक्षाणां फलं हस्तगता भवेत् | क्वच्चित् सर्गं प्रयोक्तॄणां सायं प्रातरहर्निशम् || तस्य विभ्यन्ति सकलाः युवराज मुखा भृशम् | चित्रकूटे गिरिवरे भ्रातृणान्तु समागमा || शृण्वतां जपतां चापि तेषां सिध्यन्ति सिद्धयः | देशान्तरगतानान्तु पुनरागमनं भवेत् || श्रुत्वा दशरथं वृत्तमरौदीद्राघवो भृशम् | माता पित्रोर्विनाशे तु रोदनं शास्त्रचोदितम् || देशान्तरमृतिं श्रुत्वा पितृणां तनयस्तदा | तद्दिने वपनं कृत्वा निवापादीनि कारयेत् || अकुर्वन्यदि मूढात्मा देहो शुद्धो भविष्यति | तद्दिनोपक्रमं कुर्याद्दशाहं तिलवारि च || अञ्जलिस्तद्दिने वापि कुर्याद्दशदिनोदितम् | प्. ७९) राज्ञामेकदिने कुर्यात् क्वचिद्भिन्नेऽपि तर्पणम् || कर्कन्धुसहितं पिण्डमिङ्गुदि क्षो निर्वितम् | पितॄणां तृप्तिदं प्राहुर्याज्ञवल्क्यादयो द्विजाः || एतत्ते राजशार्दूल विमलन्तोयमक्षयम् | पितृलोकं गतस्याद्य मद्दत्तमुपतिष्ठतु || पितॄणामुदकं दत्वा पुत्र एकादशेऽहनि | श्रुणुयाद्विप्रवाक्येन तां श्रूत्वित्यादि सर्गकम् || पितरस्तेन तृप्तास्स्युरक्षययगति गामिनः | तमेवं दुःखितं वीक्ष्य विलपन्तं यशस्विनम् || रामाकृतात्मा भरतं समाश्वासयदात्मवान् | इत्यादि श्रवणं पुंसां वैराग्यं जायते भृशम् || एवमुक्त्वा तु विरते रामे वचनमर्थवत् | उवाच भरतश्चित्र वचनं धार्मिको यथा || इति सर्गं प्रयोक्तॄणां राघवे जायते भृशम् | श्रुत्वा रामस्य भणितं जाबालिमतभञ्जनम् || असच्छास्त्ररतिस्तस्य नैव जायेत कर्हिचित् | क्रुद्धामाज्ञाय रामन्तु वसिष्ठः प्रत्युवाचह || आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः | तस्मान्मरीचिस्संजज्ञो मरीचेः काश्यपरस्सुतः || त्वन्मायया विश्वमिदमुद्भूतं सचराचरम् | प्. ८०) ज्येष्ठस्य पुत्रता प्रोक्ता कामजानितरान्विदुः || तस्मात्त्वदुक्तमर्यादा न भेत्तव्या यथा पुरा | तथा कुरु महाविष्णो वराहेणोद्धृता पुरा || राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् | वक्तुमर्हसि काकुत्स्थ मम मातुश्च याचनम् || स्त्रीणां तु हृदयन्नित्यं वज्रं भवति राघव | ऋचा तथा सम्यगुक्तमवधारय सुव्रत || शिष्यस्तु शरभङ्गस्य पादुकां कुशनिर्विताम् | दत्वा राघवहस्ते तु गुरोर्निकटमभ्यगात् || तस्मिन्नवसरे रामः प्रतिज्ञां सञ्चकार ह | लक्ष्मीश्चन्द्रादपेयाब्दा हिमवान्वा हिमं त्यजेत् || अतीयात्सागरो वेलान्न प्रतिज्ञामहं पितुः | एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् || तेजसा नित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् | अधिरोहार्य पादाभ्यां पादुके हेमभूषिते || एते हि सर्वलोकस्य योगक्षेमं विधास्यत | अधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च || प्रायच्छत्सुमहातेजा भरताय महात्मने | कौसल्या प्रार्थितस्तु वसिष्ठेन तु चोदितः || * * * * * * * *?रामो दात्केशपादुके |##? रघुनाथस्य मातुश्च भरतस्य च भाषितम् || शृण्वतां सर्वकार्याणि सिध्यन्त्येव न संशयः | रघुनाथ प्रसादेन रामसायुज्यमाप्नुयुः || पुत्रपौत्र प्रपौत्रैश्च क्षेत्रारामाणि भूरिशः | सिध्यन्त्येव प्रसादेन रघुनाथस्य श्रीघ्रतः || यथा कृतार्थो भरतो रघुनाथप्रसादतः | तद्वत्कृतार्थो भवति राघवे प्रसादतः || अत्रेस्तु दर्शनं पश्चादनसूयाभिदर्शनम् | अनसूया प्रभावं च पातिव्रत्यसतुतिं तथा || सीताकल्याण संप्रश्नमङ्गरागस्य चार्पणम् | विवाहात्पूर्व दिवसे भवान्या दर्शनात्परम् || श्रुत्वा कन्या सदा भर्त्रा रमते रुन्धती यथा | साकेतकाण्डस्य फलं वक्तुं वर्षायुतैरपि || न शक्यते मया देवि क्वचित् क्वचित् प्रदर्शितम् | अयोध्याकाण्डमखिलं ये शृण्वन्ति नरोत्तमाः || ते सर्वे हरिसायुज्यं प्राप्नुवन्ति न संशयः | भरत प्रतिमां कृत्वा चतुर्विंशत्सुवर्णकैः || कुम्भे निधाय रद्बेर मह तेन तु वेष्टयेत् | भरताय नमोमन्त्रमपूर्वं पूजयेन्नरः || काण्डान्ते तु सहस्रं स्यादिति वेदविदो विदुः | प्. ८२) दद्याद्द्विजातये सर्व सहस्रद्रव्यसंयुतम् || तदर्धैर्वा तदर्धैर्वा तदर्धद्रव्यमात्रकैः | यथा शक्तिधनैर्वापि प्रतिमादानमाचरेत् || सहस्रारसहस्रांशो प्रभया तुलित प्रभ | वाञ्छितं यच्च भरत प्रीतो भव दयानिधे || इति मन्त्रं सकुर्यार्य प्रतिमामर्चयेन्नरः | काण्डान्ते तु सहस्रं स्याद्ब्राह्मणानान्तु भोजनम् || यथा शक्ति द्विजातीनां भोजनं सम्यगाचरेत् | प्रत्यहं ब्राह्मणान्पूज्य वक्तारं प्रथमं यजेत् || ताम्बूलदानं विप्राणां श्रोतॄणां प्रीतिपूर्वकम् | अपूपैरिक्षुखण्डैश्च खर्जूरैः कदली फलैः || प्रत्यहं राघवेन्द्राय मारुतेः पूजनन्तथा | कुर्वन्न भीष्टममलं प्राप्नुयाद्धिहहेर्बलात् || इत्युमा संहितायामयोध्याकाण्डे श्रवणफलवर्णनन्नाम अष्टमोध्यायः || || अथ नवमोध्यायः || प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् | ददर्शरामो दुर्धर्षास्तापसाश्रममण्डलम् || महेश्वरः- आरण्यकाण्डोदितमर्थजातं संक्षिप्य वक्ष्ये नगराजकन्यके | शृणुष्व तच्चोदित पुण्यराशिं सहेतिहासं मम विक्रमाणाम् || प्रविश्यमानो विपिनं विराधन्नाम राक्षम् | ददर्शरामो दुष्प्रेक्ष्यं कृतपुण्यफलोदकम् || सोपि तौ जानकी युक्ता दृष्ट्वा सञ्जातविभ्रमः | इयं परा महाशक्तिरियं सर्गस्य कारणम् || अस्यापि बोधनं मुक्तेः कारणं बन्धनेऽपि च | तस्मादिमां भजिष्यामि यावत्प्रारब्धनाशनम् || इति दर्शनमात्रेण विमुक्ताबोधपञ्जरम् | इत्थं भूत्वा महारैनां सीताञ्चैतन्य रूपिणीम् || रामस्तत्पाप शान्त्यर्थं प्रायुङ्क निशितान्शरान् | न पीडाञ्च क्रुराहत्य क्रूरा राक्षसवक्षसि || उमा- रामकोदण्डनिर्मुक्ता शिताग्राश्च शिलीमुखाः | प्. ८४) बलात्तु वरदानस्य न प्राणान्घ्नन्ति सायकाः | इति प्रचेतसा प्रोक्तं कथमे तन्महेश्वरः || ईश्वरः- शिवपूजा प्रभावेन वरदानवशादपि | महाबला महावीर्या राक्षसाः पिशिताशनाः || तान्किञ्चिद्दर्शयिष्यामि शृणु शैलेन्द्रकन्यके | विराधो हाटकपुरे विधिवन्मामपूजयत् || सूर्यपुष्करणीतीरे स्थापयामास धूर्जटिम् | अतिकायश्शक्तिपुरे वल्मीकेशस्य दक्षिणे || पूजयामास विधिवत्प्रतिष्ठाप्य महेश्वरम् | दुन्दुभिः पूजयामास तस्य देवस्य वामके || सार्धयोजनमात्रे तु दुन्दुभेशाभिधं शिवम् | खरः खरपुरे लिङ्गं क्षीरनद्यास्तु दक्षिणे || दूषणोऽपि समासाद्य सरुह्यजायास्तु दक्षिणे | श्रीमद्रत्नगिरीशानमगस्त्येन सुपूजितम् || त्रिशिरा दक्षिणे तीरे सह्ययोन्या ममोहरे | सुपूज्य बलिनो जाता लोकोपद्रव कारकाः || दक्षिणाशामुनिन्नित्यं मत्समाराधने स्थिताः | ब्रह्मर्षिन्तमुपासन्ते दुराधर्षास्सुरैरपि || उमा- भवदाराधकास्सर्वे सात्विका ज्ञानपूजिताः | दुरात्मानः कथं जाता लोकोपद्रव कारकाः || महेश्वरः- ममाराधनमाख्यातं त्रिविधं मुनिसत्तमैः | सात्विकं राजसं चापि तामसं चेति तत्त्रिधा || सात्विका ज्ञानवन्तश्च राजसा बलगर्विताः | तामसास्तु जना हीना लोकोपद्रवकारकाः || दक्षिणाशामुनिन्नित्यं मत्समाराधने स्थिताः | ब्रह्मर्षिन्तमुपासन्ते इन्द्राद्या देवता गणाः || राजसेन समाराध्य जमदग्निकुलोद्भवः | अभूद्राजसयोगेन क्षत्रियाणां कुलान्तकः || केवलं तामसास्सर्वे विराधाद्या महाबलाः | बहिस्सत्वं मम सदा अन्तस्तामसमेव च || मां हि सत्वगुणोद्रिक्तमुपासन्ते हि सात्विकाः | तामसास्तामसेनैव भजन्ते भुवि नित्यशः || महेश्वरः- रामकोदण्डनिर्मुक्ता विफला मार्गणाः कथम् | इत्यर्थे संशयछेदं करोमि तव पार्वति || वध्येशनद्वयं नास्ति स्थापिते नास्ति चालनम् | रामे वार्ताद्वयन्नास्ति नास्तीत्युक्तिररावपि || प्. ८६) काण्डावलिर्विराधस्य निष्ठुरोरसि ताडितः | न व्यथाञ्च क्रुराहत्य अवध्य कवचावृते || कादम्बः केवलालक्ष्ये पतन्ति न पतन्ति च | नामाङ्कितं लक्ष्यवेधं कुर्वन्त्येव न संशयः || नाममन्त्रेण संयुक्ताश्शरा बर्हिण वाससः | हत्वा यान्ति पुनस्तूणीं प्रविशन्ति न संशयः || केवला नाम संयुक्ताः पक्षत्रियत गामिनः | यो विराधवधं नित्यं शृणोति श्रावयेत वा || तस्य पापानि सर्वाणि विलीनानि भवन्ति हि | न जातु महतां द्रोहं कुर्यात्तच्छेदधोगतिम् || मुनिभिर्नित्यमाख्यातं मत्वाश्वभ्रे खनत्क्षितौ | विराधोऽपि गतो मुक्तिं काकथा ज्ञानपूरिते || भक्त्या केचिन्महात्मानः केचिज्ज्ञानेन योगिनः | अपरे सन्तत द्वेषात् सङ्ग्रामादितरे जनाः || शरभङ्गाश्रमप्राप्तिं पुरुहूतसमागमम् | दर्शनं शरभङ्गस्य रघुनाथस्य पूजनम् || रामेण समनुज्ञातो लोकान्तरगतिन्तथा | शृण्वतां त्रिदशानां तु लोकप्राप्तिर्न संशयः || दण्डकारण्यनिलया ऋषयस्संश्रितव्रताः | राममासं भोजयिष्यन्तश्चक्रुर्मेलानमादरात् || प्. ८७) रामराम महाबाहो शृणु वृत्तान्तमादितः | पौलस्त्यो रावणो नाम दशग्रीवो महाबलः || तेनादिष्टा निशिचरा ऋषीणां प्राणहारिणः | सन्त्यत्र दण्डकारण्ये कर त्रिशिरदूषणैः || ताटकातनयेनापि सहिता राक्षसर्षभाः | भक्षणं भर्त्सनं चापि शिरसां लवनं तथा || वेतान वह्नेश्शमनं बहिर्वेदिप्रदूषणम् | तादृशानां महाबाहो हननं कुरु राघव || रामो ऋषिगणैदीतं पूर्णकुंभोदकं शुचि | जटाचूडाङ्किते मौलौ प्रोक्ष्य सीताञ्च लक्ष्मणम् || रामः प्रतिज्ञामकरोत् ऋषीणामग्नि तेजसाम् | रक्षसां निधनं जन्ये ऋषीणामभयन्ददौ || प्रपन्नानान्तनु भृतां रामश्शरणदस्सदा | ऋषीणामग्नि कल्पानान्दण्डकारण्यवासिनाम् || शरणं प्रददौ राम इत्युक्ते का विचित्रता | प्रपत्तिर्द्विविधा प्रोक्ता जार्जारी चैव वानरी || तवाहमित्युपगता स्तन्नाम कृतलाञ्छनाः | तदर्चापूजनरतास्तददृष्टान्नेन भुञ्जतः || गर्भभूता वयमिति प्रोच्यस्तत्र महर्षयः | तस्माद्दास्यं गतास्सर्वे ऋषयो ब्रह्मवादिनः || सीताथ रघुनाथस्य हितकामा तपस्विनी | शस्त्रत्यागनिमित्ताय कथामुक्तवती किल || अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् | न तु प्रतिज्ञां संश्रुत्य बाह्मणेभ्यो विशेषतः || एतच्छ्रवण मात्रेण रामात्कांक्षितमाप्नुयात् | क्वचिन्मासं क्वचित्पक्षं क्वचिन्मासचतुष्टयम् || षाण्मासं वत्सरंचापि वत्सरत्रितयं तथा | उषित्वा दर्शनं कर्तुं दक्षिणामुनिं ययौ || गत्वागस्त्याश्रमं प्राह शिष्यं प्राज्ञो महाजसकम् | ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् || द्रष्टुमिच्छावहे सर्वे भगवन्तन्निवेद्यताम् | यङ्कारोयं निगदितं देव्या अष्टमवर्णकम् || यंकारो वायुदैवत्यो वायुर्ब्रह्मेति गीयते | हृदि ध्यायन्महादेवमास्ते हि तपसां निधिः || ध्यायन्तं शङ्करं सर्वे ब्रह्माद्या देवतागणाः | भजन्ते शङ्करं द्रष्टुं कांक्षया भक्तपूजनम् || कैलासे भक्तहृदये पार्वत्याः केलिमण्टपे | नित्यमास्ते शिवो यस्मात्तस्माद्भक्तं समाश्रयेत् || अगस्त्येनाभ्यनुज्ञातो मध्ये पञ्चवटीं प्रति | गच्छन्ददर्श राजानं गृध्राणां चिरजीविनम् || प्. ८९) बहुषान्मूलनिलयं रामः पप्रच्छ को भवान् | गृध्रोहं वैनते यस्य द्वितीयस्य सुतो बली || जटायुं विद्धि राजेन्द्र रक्षिष्ये जानकी महम् | सर्गाणां कथनाद्देवी वंशसर्गविलोपनः || न जायते कदाचिच्चः कुलवृद्धिर्भविष्यति | रामः पञ्चवटीं गत्वा शरदां त्रितयासुखम् || उवास दैवतैरीड्यो गोदावर्यास्तटे शुभे | स्नात्वा कदाचिद्धेमन्ते लक्ष्मणेन च सीतया || कथां चिरन्तनां तत्र श्रावयन्नुटजां कणे || स्थितवान् जानकी वक्त्रे स्वबिम्बमवलोकयन् || तन्देशं राक्षसी काचिदा जगाम यदृच्छया | सीतामुटजमध्यस्थां रामं वीक्ष्य च सुन्दरम् || सा मन्मथ शरैर्विद्धा वृद्धा फलित मूर्धजा | सुकुमारं विरूपा सा सुस्वरं भैरवस्वनाम् || तरुणन्दारुणा वृद्धा अकामयत वेगिता | सा रामाभ्यर्णमभ्येत्य प्राहेयन्त्यज्यतामिति || स्वरूपं बिम्बितं वीक्ष्य जानक्यामुखदर्पणे | इमां विरूपामसतीं करालान्निर्नतोदरीम् || सीतां विहायमान्नित्यं राम कान्तरभूमिषु | कृतदारोऽस्मि सुभगे यवीयान्लक्ष्मणाभिधः || प्. ९०) तस्य त्वं गेहिनी भूत्वा भुङ्क्त?भोगान्यथेच्छया | लक्ष्मणेनापि साक्षिप्ताः कथं दासं श्रयिष्यसि || दासित्वञ्च दृशीनान्तु निन्दितं सुभ्रुगम्यताम् | इति डोलायिता चण्डी शीघ्रुक्षुर्जनकात्मजाम् || उटजद्वारनिकटे रामेण प्रतिषेधिता | लक्ष्मणस्तूर्णमुत्थाय करवालेन वीर्यवान् || कर्णौस्तनौ नासिकां चाच्छिनद्राम शासनात् | कर्णनासापहरणं शृण्वतां पठतां सदा || न जातु मानभङ्गस्स्यात् रघुनाथप्रसादतः | खरं जनस्थानगतं खरस्वना खरादिरक्षः कुलनाशकारिणी | खरांशु मलेस्तनयस्य रक्षसा- मसौ प्रहाराय कृते वदूतिका || खरः खरान्खट्टजनारिवर्गान् व्यग्रः प्रयाणाय समादिदेश | रामोपि तान्रुक्य सुवर्ण पुंखैः व्यसूंश्चकाराप्रतिमप्रभावः || चतुर्दशसहस्राणां सङ्ग्रामेष्वनिवर्तिनाम् || रक्षसां हिमकर्माणां प्रधानानां बलियसाम् | एकैकस्य सहस्राणां सन्त्येव पिशिनाशनाः || प्. ९१) तान्मेलयित्वा तु खरः पललंशन संहतिम् | समराय समाश्रित्य राघवाभ्यांशमभ्यगात् || रामोऽपि जानकीं न्यस्य दययां भ्रातृसमन्विताम् | सन्नद्धः कवची खट्गी युधाय समुपस्थितः || खरेण प्रहिताश्शूराः संग्रामेष्व निवर्तिनः | राममावृत्य बाणौघैः ववषुर्मुक्तिगामिनः || सानुबन्धा निशिचरा बाणैर्दारितकिल्विषाः | राममासाद्य समरे सायुज्य पदवीं गताः || खरस्य समरे रामं ददृशुस्सिद्धचारणाः | तं सर्वे तेजसाविष्टं प्राद्रवन् वनदेवताः || रुद्रशक्त्या विलसितन्दृष्ट्वा रामकलेवरम् | शङ्खं चक्रं च शूलञ्च पिनाकं खैटमेव च || खट्वां घण्टां च डमरूं बाणं पाशाङ्कुशं तथा | टंकं वज्रं च खड्गञ्च परशुं त्राणकारणम् || जटां त्रिणेत्रं बिभ्राणां दतिशुस्सिद्धचारणाः | रणे रामेण बाणौघैः छिन्नाभिन्ना विदारिताः || प्रभग्नं तद्बलं सर्वं रामेणाद्भुतकर्मणा | दृष्ट्वा निषूदितं सर्वं सैन्यं राक्षसपुङ्गवः || त्यक्त्वा कथं महावेगात् राघवं शीघ्रमाययौ | अपासर्पत्प्रतिपदं किञ्चित् त्वरितविक्रमः || प्. ९२) स्थूलदेहावविस्रस्य नास्ति कैवल्यमण्वपि | तस्मात्प्रारब्धनाशाय विमोक्ष्येन्तकरं शरम् || गृहीत्वा वैष्णवं चापं कठोरांशोन्वयोद्भवः | खरं प्रति महावेगात्ससर्जनिशितान्शरान् || तानचिन्त्य महावेगान्रुक्मपुंखाञ्छिलाशितान् | सकाशं रघुनाथस्यं वेगेन प्रत्यपद्यत || रामश्शरेणाशुजहार मौलिं किरीटजुष्टं मणिकुण्डलाढ्यम् | कलेबरा भूमितलेत पापातखं ज्योतिषा द्योतितमाशु कुर्वन् || उत्पतेजस्तबको विशाल मुरस्थलं प्राप रघूत्तमस्य | स्मृत्वा रघूत्तमं मर्त्यस्त्यजत्यन्ते कलेबरम् | रामसायुज्यमाप्नोति दृष्टेऽर्थे किं विचित्रता || ववर्पुर्देवगन्धर्वास्सिद्धविद्याधरर्षयः | प्रसूननिकरैर्वर्षं राघवं खरधानिनम् || राज्याभिषेक समये श्रोतव्यं विप्रवाक्यतः | स्थिरं राज्यमथासाद्य रमतेन्द्रो यथा दिवम् || श्रुत्वा श्रीरामविजयं पापबन्धाद्विमुच्यते | तथैव शृङ्खलाबन्धाद्रण बन्धात्तथैव च || प्. ९३) श्रुत्वा पुष्पवती नारी तनयं वंशवर्धनम् | लभते राघवेन्द्रस्य प्रसादात्कीर्तिवर्धनम् || पुरा विशां पतिः कश्चित् मणिगुप्त इति श्रुतः | श्रुताध्ययन संपन्नो वित्तो वित्तपतेस्समः || निजाश्रमोचितान्धर्मान् त्यक्त्वार्षीको बभूवह | निषूरो निर्घृणो मूर्खो निरातङ्को वणिक्पतिः || भिक्षुकाणास्रासमात्रन्दरिद्राणां वराटकम् | न ददाति घृणाशून्यो रत्नगुप्ताभिधो वणिक् || एकदा ग्राममभ्येत्य भिक्षुरन्नमयाचत | तन्ताडयत वेगेन दण्डेन स वणिक्पतिः || स्मित्वा भिक्षुरथप्राह खिन्नस्ते पाणिलाघवः | वराटकं प्रगृह्यत्वं यन्ता किं यममन्दिरम् || इत्युक्त्वा तस्य भवनान्निश्चक्राम दयानिधिः | जन्मान्तरार्जितैः पुण्यैः चित्तशुद्धिमुपागतः || वृधामांसानि जग्धानि कृसराणि पयोदनम् | शष्कुलीपिण्डिकाश्चापि तिलोदनमतः परम् || सूपोदनं पायसं च वृद्धा जग्धान्याभुक्ष्णशः | प्रत्यब्दं पितृतृप्तिं च न कृता द्रव्यवाञ्छया || तद्दोषशमनार्थाय प्रायश्चित्तं विधीयताम् | इति विज्ञापितं श्रुत्वा वैश्यस्य द्विजपुङ्गवाः || प्. ९४) आलोढ्य सर्वशास्त्राणि चक्रुः पापविमोचनम् | पूर्णकुंभः प्रतिष्ठाप्य क्षौमवस्त्रेण वेष्टितम् || श्रीरामप्रतिमां कृत्वा समाराध्य यथा विधि | तन्देशं राक्षसी काचिदाजगाम यदृच्छया || इत्युपक्रम्य सर्वाणि जेपुर्द्वादशपुङ्गवाः | तन्दृष्ट्वा शत्रुहन्तारम्महर्षीणां सुखावहम् || बभूव हृष्टा वैदेही भर्तारं परिषस्वजे | इत्यन्तैर्मन्त्रनिकरैर्जप्ता द्वादशभूषुराः || सिष्टि चु कुंभतोयेन मुक्तो भूत्पातकौधतः | अंकपनोदितं श्रुत्वा रावणो राक्षसाधिपः || मारीचाश्रम मासाद्य वसन्तन्ताटकासुतम् | सहायं वरयामास मारीचन्नाम राक्षसम् || वार्यमाणस्सु बहुशो मारीचेन स रावणः | निवृत्य लङ्कां वेगेन तूर्णं प्रत्य प्रपद्यत || लङ्गां शूर्पणखी गत्वा रावणं प्राहराक्षसी | न च देवी न गन्धर्वी नासुरी न च राक्षसी || दृष्टपूर्वा मया नारी त्वदर्थे हर्तुका मया | तदाभ्यर्णगता तेन विना सा कारिता बलात् || तस्य भार्यां हर क्षिप्रं तस्मा * क्ष्यति जीवितम् | युद्धेन नावकाशोऽस्ति जेतुं रावण कर्हिचित् || प्. ९५) श्रुत्वा दशग्रीव गुणानुवर्णनं सर्गं विशिष्टो भविता परित्र्याम् | श्रीपार्वती शस्य पदानुसेविनां न लभ्यमस्त्यण्ड विकृत्स्नलोके || पुनर्मारीच मासाद्य वरयामास रावणः | साहाययं बहुधा सोपि वारयामास रावणम् || मारीचोक्तमुपश्रुत्य गुरुमान्भवति क्षितौ | जानकीम्मोहयामास मारीचोष्टापदो मृगः || भूत्वा माया विकारेण सीतां मायास्वरूपिणीम् | माया सर्वान्क्षोभयति विनाराघवसेविनम् || रामोऽपि भार्यावाक्येन दूरं वनमधावत | रामेपुणा हतस्सोऽपि विस्स्वनं क्रोशनं व्यधात् || मां रन्तुकामो विपिनं भरतेन स्वयन्तु वा | प्रेषितस्तव कामानां नास्ति सिद्धिः कदाचन || उपधाय करन्तस्य कथमन्यस्य संश्रये | न सिध्यति मरिष्यामि तवटच्छनचेदिह || सीताकठोरवाक्येन ताडितो राघवानुजः | विसृज्य सीतां वेगेत्य पार्श्वं रामस्य जग्मिवान् || तदन्तरे खरे युक्तो रावणेनाहृतो रथः | सीतानिकटमभ्येत्य दर्शनं समपद्यत || प्. ९६) तं विसृज्य शिखि छत्री त्रिदण्डी भिक्षुवेषधृत् | सीतानिकटमासाद्य तस्थौ ब्रह्म उदीरयन् || आगतं यतिनं वीक्ष्या नर्चचायतलोचना | यतीनां पूजनं कार्यं स्त्रिया वा पुरुषेण वा || यस्य गेहे यतिर्भुङ्क्ते तस्य भुङ्क्ते हरिस्स्वयम् | यस्य गेहे हरिर्भुङ्क्ते तस्य भुङ्क्ते जगत्त्रयम् || सीतारावणसंवादं ये शृण्वन्ति नरोत्तमाः | न जातु तेषां पापेभ्यः पीडा तस्य भविष्यति || दशग्रीवं प्रतिप्राह तदा सीता यशस्विनी | मम भर्ता महातेजा वयसा पञ्चविंशकः || अष्टादश च वर्षाणि गण्यन्ते मम जन्मनि | भकारार्णमुनिः प्राह नवमं मुनिसिद्धिदम् || यदन्तरं सिह्मसृगालयोर्वने यदन्तरं स्यन्दिनिका समुद्रयोः | यदन्तरं काञ्चन सीसलोहयोः यदन्तरं मद्गुमयूरयोर्वने || यदन्तरं हस्ति विडालयोर्वने तदन्तरं दाशरथेस्तवैव च | इत्यादि वाक्यनिकरं शृण्वतां भूतनाशनम् | रघुनाथसमा लोके सति किम्मनुजेशुभम् || प्. ९७) स्वरूपं रावणं प्राप्य गृहीतुञ्जनकात्मजाम् | प्राप्तवान्निकटं तूर्णं गृहः खे रोहिणी विव || वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः | ऊर्वास्तु दक्षिणेनैव परिजग्राह पाणिना || तन्दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् | प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः || छाया ग्राहित्वमस्यास्ति सर्वविद्याविशारदे | केशच्छायां परामृश्य जानुछायान्तथैव च || गृहीत्वा जानकीं हृष्टो लङ्कां प्रायात्सरावणः | सीतापहारश्रवणं ये कुर्वन्ति नरोत्तमाः || न तेषां विमुखा देवी भविष्यति कदाचन | अज्ञानं विलयं याति राघवस्य प्रसादतः || क्रोशन्तीं रामरामेति वीक्ष्यन्यग्रोधमाश्रितः | रावणं योधयामास सीतामोक्षणकारणात् || छत्रं बाहुं तस्य मौलिं चापं साङ्ग्रामिकं रथं | खरान्केशान्नखैस्तुण्डैरलावीद्रामहेतवे || श्रुत्वा खगेश्वरस्यापि रक्षसामीश्वरस्य च | आयोधनं रणान्मुक्तो भृत्य स्वामिकृतान्निजात् || रावणो खण्डयत्पक्षौ चन्द्रहासेन वीर्यवान् | सीतां गृहीत्वा च पुनर्दक्षिणाशां ययौ बलात् || प्. ९८) रावणाङ्कगता सीता शुशुभे मदिरेक्षणा | कालिका मध्यगा शंपा यथा व्योम्नि प्रकाशते || तस्याः कौशेयमुद्धुतमाकाशे हाटकप्रभम् | पाटितं वायुना पार्श्वात् कुचमण्डलमण्डनम् || तस्मिन्नाभरणं बध्वा चेलखण्डे महीसुता | गिरिप्रवरमध्यस्थान् पञ्चवानरसत्तमान् || उद्दिश्य पातयामास रावणो नैव बुद्धवान् | विस्रस्तं भूसुतायास्तु क्वचिद्धम्मिकसंहति || गलितं भूसुतायास्तु क्वचित्कञ्चुकबन्धनम् | अबलेन युतन्देव्या क्वचित्ताम्बूलचर्वितम् || क्वचित्स्त्रियः क्वचित्पुंसः तत्तद्वस्तु विलेपनम् | चक्रुर्दव्या कृतं यस्मात्तस्मात्सर्वे प्रिये इमे || सीतापहारमारभ्य लङ्कायां स्थापनावधि | श्रवणाच्छास्त्रविहिताज्जेष्ठा देवी विमुञ्चति || सीतारावणसंवादं राक्षसीनाञ्च तर्जनम् | सीता प्रत्युक्तिकथनं ये शृण्वन्ति नरोत्तमाः || विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् | अशोकवनिकामध्ये पूजिता जनकात्मजा || आस्ते मघवता दत्त पायसान्नेन जीविका | रामो मायामृगं हत्वा न्यवर्तन महापथि || प्. ९९) शकुनं वायसं चापि लक्ष्मणस्य च दर्शनम् | सीतादुरुक्ति कथनं लक्ष्मणस्य मुखाच्छ्रुतम् || श्रुत्वा न जातु पीडा स्यादभिशापकृतं मह | अत्र ते कथयिष्यामि इतिहासं जगात्मजे || पुरा पुरूखाभिख्यो राजा धर्मपरायणः | तपस्तप्त्वा मखैरिष्ट्वा कृत्वा दानान्यभीक्ष्णशः || उर्वशीं लोकविख्यातां रन्तुकामेन भूभुजा | प्रसादो भविता नियमुर्वश्या मे सलोकता || विहारो भविता नित्यमिति कामार्षणं व्यधात् | लब्ध्वाचाप्सरसां मुख्यमरमद्बहुवत्सरम् || इन्द्रेण भेदिता वेश्या तस्योत्कर्षासहिष्णुना | चरणे नाहनन्मौलौ पुरूस्वसमुर्वशी || न जातुस्त्रैणसख्यानि सन्ति सालावृकास्समृताः | राजानमपि कामार्तं पदा शीघ्रमताडयत् || पपात भूतले स्वर्गादुर्वशीचरणाहतः | भूमौ स्थित्वा परामृश्य ज्ञात्वा दिव्येन चक्षुषा || अशपत्क्रोधताम्राक्षस्वर्वेण्यां मदगर्विताम् | हे जाये मन्नसातिष्ठ इति प्रोक्तम्मयापुरा || त्वया विमृश्य मद्वाक्यं हठादिन्द्रेण चोदिता | पादेन ताडितो यस्मात् भगे रोगः प्रजायताम् || प्. १००) ये वेशीमुपयान्त्यज्ञा वेदनिष्ठैर्बहिष्कृताः | भवेयुः कर्म्म विमुखा ग्रन्धिलश्शूलरोगिणः || अपिवा मातरं गच्छेन्नगच्छेद्देव दारिकाम् | मातृकल्पां स्वलिङ्गस्य छेदनम्मुनिभिस्स्मृतम् || रूपा जीवासुना सत्ये निष्कृतिर्मुनिभिः स्मृता | इति शप्ते तान्देवान्शरजालेन रावणः || विषेदुर्देवगन्धर्वा दानवाश्चारणैस्सह | राममार्तन्तदा दृष्ट्वा त्यक्त्वा तूष्णीन्न्यवीविशन् || वसिष्ठो नृपशापेन त्यक्त्वा देहमचेतनम् | सत्यलोकेश्वरं नत्वा पुनर्देहमयाचत || वसिष्ठेन समाज्ञप्तः क्षेत्रशुद्धिमथाकरोत् | ब्रह्म दिविषदां गुप्त्यै शापशुद्धिमतन्वत || पुनरेवोदितश्शापो ह्यप्सरस्सु न दुष्यति | मानुषीषु भवेद्दोषो रूपा जीवासु कामिष्ठ || पर्णशालामथागत्य शून्यां प्रेक्ष्याथ राघवः | चक्रोश सीतामुद्वीक्ष्य पक्वतालफलस्तनीम् || बिम्बोष्ठीं कदलीकाण्डजङ्घां बिल्वोपमस्तनीम् | कामातुराणां काम्येषु प्रीतिरित्थं भविष्यति || इत्थं ब्रह्मणी चेद्वृत्तिस्तस्य मुक्तिर्भविष्यति | इति द्योतयितुं रामो रुरोदोद्दिश्य गेहिनीम् || प्. १०१) सीतामन्वेक्षमाणौ तौ ददृशाते रणक्षितौ | क्षतजार्द्रम्महाकायम्मुमुर्षुं पक्षिपार्थिवम् || दयाञ्चकार श्रीरामो भार्या रक्षणतोषितः | बाणमोक्षेण पापानां गृध्रं दग्धुमथैच्छत || दर्शनाज्जातमाज्ञाय तस्मिन्दृष्टेति शासनात् | गृध्रराजः- हे राम भवताज्ञप्तो रक्षिता जनकात्मजा || दशग्रीवो जहारैनां वैदे लग्ने विमूढधीः | हत्वा पक्षौ मामकौ स चन्द्रहासेन वीर्यवान् || केशछायां परामृश्य जानुछायां तथैव च | दक्षिणादिशमाक्रम्य लंकायां गतवान्प्रभो || देवीमामाह राजेन्द्र यावत्संभाषणम्मम | भवता तावदास्ताम्मे प्राणा इत्याह जानकी || इत्युक्त्वा स जहौ प्राणान्राधवेन्द्रस्य सन्निधौ | कङ्काचले समाराध्य महेशं लब्धवान्वरम् || तस्मात्स्वरूपं गतवान्रघुनाथस्य पक्षिराट् | जययोस्संस्कृतिं श्रुत्वा स्वर्लोकं यातिमानवः || प्लुष्टिस्सञ्चितपापानां प्रारब्धानां भविष्यति | दाहोद्युक्तं रघुवरं प्राह वागशरीरिणी || श्मशानरहिते राम कुरु संस्कारमस्य तु | प्. १०२) इत्युक्तो दिव्यया वाण्या रामस्सौमित्रिणा सह || दग्धुमुद्योगमास्थाय जटायोस्समहीतले | तत्र चाप्यशरीराख्या वाणी प्रोवाच राघवम् || अत्र पूर्वं शतन्दग्धं जटायूनां त्वया पुरा | इत्युक्तं क्ष्मातलं सर्वं विलोक्य पितृकाननम् || वामोरौ दाहमकरोज्जटायोर्मुक्तिहेतवे | लक्ष्मी तद्भागमुत्सृज्य गता वक्षस्थलं हरेः || दक्षिणं कौस्तुभाक्रान्तं राघवेन्द्रस्य सर्वदा | विना श्राद्धं समाकर्ण्य पितरस्तृप्तिगामिनः || यज्जातयो मृतिं यायात्तज्जातीयांश्च पूजयेत् | ब्राह्मणः प्रथमं पूज्यजातीयास्तदनन्तरम् || रामो नारायणो देवस्सीतालक्ष्मीति कीर्तिता | रावणेन परामृष्टा केशाद्वेदवती विभो || सीतावेदवती देव दशग्रीवेण रक्षसा | श्रितवै कुण्ठभवना पूर्णांशेनावतीर्णवान् || लक्ष्मीः कुत्रस्थिता देव हरिं नित्याश्रिता स्वयम् | सीतालक्ष्म्योर्भिदाकन्तु अभेदो वा वदस्व मे || भेदे कुत्र स्थिता लक्ष्मीरभेदे दूषणं शृणु | केन भूलोकगमनं भवत्रितयसंभवः || कस्मल्लङ्कानिवासश्च राक्षसीनां च तर्ज्जनम् | प्. १०३) हरणं रावणेनापि केन विष्णोः प्रिया भवेत् | महेश्वरः- भेदाभेदोऽस्ति सीताया रमायाः कारणान्तरात् | पुरा विहारसमये लक्ष्मी कौस्तुभमध्यगा || स्वछायां वीक्ष्य सापत्नशङ्कया कुपिता भवत् | तां हरिस्सान्त्वयामास कुपितामितरां भृशम् || अन्यां विभर्षि दौरात्म्याम्मामति क्रम्य वक्षसि | सत्यन्त्वत्सदृशीमन्यां लोकानुग्रहकाम्यया || सानित्यं शत्रुभिर्हृता भवेज्जन्मनि जन्मनि | तत्सर्वं लोकरक्षायै नित्यं भवतु सुन्दरि || साहि वेदवती जाता सञ्जाता जनकात्मजा | इन्दिरा रघुनाथस्य नित्यमास्ते सुवक्षसि || वामञ्जटायु संस्कारात्त्यक्त्वा दक्षिणतस्थिता | रामो गोदावरीतीरे विचिन्वन्जनकात्मजाम् || लक्ष्मणेन युतो धन्वी सूरिं प्रत्यपद्यत | तत्र लिङ्गं प्रतिष्ठाप्य पूजयामास धूर्जटिम् || रामेश्वरमिति ख्यातं सर्वाघौघविनाशनम् | यन्दृष्ट्वा मनुजास्सर्वे ब्रह्मज्ञानं भजन्ति ते || नीवारान्नैः प्रशस्तैस्तु प्रशस्तैस्तुलसीदलैः | नीलोत्पल प्रसूनैश्च पूजयामास शङ्करम् || प्. १०४) आराधितो महादेवः प्रसादमकरोत्प्रभुः | शृणु राघव राजेन्द्र येन प्राप्स्यसि जानकीम् || इतो दक्षिणभागे तु षष्टियोजनमात्रके | विरूपाक्षस्य सविधे तुङ्गभद्रासरित्तटे || किष्किन्धेति पुरी रम्या नाना प्लवगसङ्कुला | तत्र वानरराजानौ वालिसुग्रीवनामकौ || तत्रैको हरिराज्यार्थी मोक्षार्थीचापरो हरिः | तयोस्तेषां राज्यमोक्षं वदस्व मम शासनात् || समुद्रमध्ये सेतुञ्च कुरु मच्छासनाद्भवान् | रावणं शिवपूजाढ्यं सर्ववेदोपब्रह्मितम् || ब्रह्माणं सर्वशास्त्राणां संहर्तारणभूतले | हत्वा सीतां समासाद्य स्वपुरं यास्यसि ध्रुवम् || इत्थं रामेश्वरस्याज्ञां प्राप्यरामो महीपतिः | क्रौञ्चारण्यं समासाद्य जगाम विपिनान्तरम् || क्रोशमात्रे ददर्शाग्रे राक्षसीं विकटाननाम् | तस्यास्तनौ च कर्णौ च नासिकां चैव लक्ष्मणः || अलावीत्खड्गधारेण साद्रद्रावातिवेगिता | कबन्धरामसंवादं ये शृण्वन्त्यादरान्नराः || विप्रावमानजनितं नाशं क्षिप्रं गमिष्यति | अत्रेतिहास माकर्ण्य अवधारय चेतसि || प्. १०५) पुरा भोजकटे राजा कुन्तिभोज इति स्मृतः | पृथिवीं पालयामास धर्मेण समिनिञ्जयः || तस्याभ्यर्णं समासाद्य विप्रोदङ्काह्वयो वदत् | इमां कन्यां प्रतीक्षस्व यावदागमनं मम || कृत्स्नं भूमण्डलं दृष्ट्वा क्षिप्रमेक्ष्यामि भूपते | इति राज्ञे समादिह्य गतोदङ्को महामुनिः || द्वित्रिसंवत्सरातीतो शुनश्शेपाभिधो द्विजः | अयाचत महीपालं भार्येयं दीयतां मम || इदं श्रुत्वावनीपालश्चिन्ताविष्टोवदद्विजम् | न्यास भूता द्विजेनेयं कन्या यावत्समागमः || पश्चाद्गृह्वीष्व हे विप्र उदङ्कागमने सति | इत्युक्तः कुपितः प्राह शुनश्शेपोऽवनीपतिम् || अविचार्यैव शास्त्रं मामज्ज्ञानान्मूढजल्पसि | कन्या भर्तृवशे देया कन्याया भृतिमिच्छता || गृहीते कुलहानिस्स्यात् मानहानिर्भविष्यति | ऋतुस्नातां सतीं भार्यां न व्रजेद्यदि मानवः || ब्रह्महत्याम्वाप्नोति यावदार्तव्य संख्यया | अत्रेतिहासं वक्ष्यामि पुरावृत्तं नराधिप || पुरा कलवरः कश्चिद्वृक्षशाखाग्र संस्थितः | मदनेन परीताङ्गो भार्यां रन्तुमथाह्वयत् || प्. १०६) वृक्षाग्रे संस्थितो नाथागेयं किं शाखिनश्शिखा | पतेयं पतिता भूमावध्यास्ते ब्राह्मणब्रुवः || तस्य गात्रेण संपर्कः पतनायैव केवलम् | साध्वीं भार्यां विहायासौ तपस्तप्तुं कृत त्वरः || तपोवनमुपागम्य ऋतूनां षट्समत्यगात् || ब्रह्महत्यां गतो विप्रो ऋतुसंख्या यथा भवेत् | तद्वद्भवेन्मम द्रोहो दीयतां गेहिनीं मम || इदं वाक्यं समाकर्ण्य ब्राह्मणाय प्रियां नृपः | न दत्तवान्याच्यमानो गेहिनीं प्रणयीमपि || क्रोधाद्धरापतिं प्राह शुनश्शेपाभिधो द्विजः | पिशाचो भव राजेन्द्र भार्याद्रोहः कृतोयतः || कन्यां यच्छति वृद्धायनीचाय धनलिप्सया | कुशीलाय कुरूपाय सप्रेतो जायते नरः || कन्या युति प्रदातव्या युवत्याः प्रीतिमिच्छता | तस्माद्भर्तृवरो देया पितृगेहे न वासयेत् | स्थितायां मानहानिस्स्यादृत्वति क्रमणं तथा || नित्यादीनां च लोपश्च भविष्यति न संशयः | इत्युक्तमात्रे राजापि पिशाचत्वमुपेयिवान् || मन्त्रिणो ब्राह्मणं नत्वा प्रार्थयाञ्चद्रुरञ्जसा | शुनश्शेपो व्याजहार कृपालुश्शापशान्तये || प्. १०७) श्रुत्वा राघवसंवादं कबन्धेन कृतं महत् | पिशाचत्वाद्विमुच्येत राज्यञ्चापि सगच्छति || इत्यनुग्राह्य तां भार्यां गृहीत्वा स्वतपोवनम् | शुनश्शेपे गते राजा पिशाचत्वं समास्थितः || गृहीत्वा क्षत्रियसुतं पीडयामास वेगतः | नित्यं शृणोति भुक्त्यन्ते श्रीमद्रामायणं पिता || सोऽपि श्रुत्वा सहैवास्ते श्रीमद्रामायणं दिनम् | आरण्यकाण्डसमये श्रुत्वा दानवचेष्टितम् || विमुक्तशापबन्धश्च कुन्तिभोजोभवन्नृपः | शबर्यास्सकृतिं श्रुत्वा साध्वीनां लोकभाक् भवेत् || शबरीरघुनाथस्य पादपद्ममवन्दन | भक्तो हरिं प्रियं दृष्ट्वा प्रपत्तिं सम्यगाचरेत् || पाद्यमङ्गुलिविच्छेदमुरोविन्यस्तमक्षरम् | तन्नामकरणं चापि दास्यमेतच्चतुर्विधम् || सद्भक्तवन्दनं चापि भक्तानं च प्रपूजनम् | दर्शनं स्मरणं चापि हरिप्रीतिकरं भवेत् || न कुर्याज्जाति नियमं न वयः प्रेक्षणं तथा | कुर्यान्नमस्कृतिं सोऽपि नमस्कुर्याधरेरिति || भक्तानां मेलनं यत्र यत्र बिल्ववन्तथा | तुलसीकाननञ्चापि फुल्लपद्मवनं तथा || प्. १०८) नित्यमास्ते हरिस्तत्र रमया शङ्खचक्रभृत् | पंपातीररुहान्वृक्षान् फुल्ल पुष्पैरलंकृतान् || कासारान्फुल्लकमलान्नीलोत्पल झषाकुलान् | विद्याधरानुचरितान् किन्नरीभिस्तथैव च || गजसिह्म समाकीर्णमुदीर्ण शरभायुतम् | उपेतममलैश्चैव मृगैर्मृदुनिनादितम् || विशतुः क्रमशो वीरौ अरण्यं शुभकाननम् | जानव्या रहितौ वीरौ कोदण्डप्रवरान्वितौ || शृण्वन्तौ प्रीतिजननम्मयुरान्मधुकाञ्छुभान् | श्रोत्ररम्यान्सुमधुराञ्छब्दान्नरमुखेरितान् || सर्वत्र फलदान्रम्यान् सर्वत्रकुसुमोज्ज्वलान् | पश्यन्तौ पादपांश्चापि फलभाराभिनम्रितान् || आम्रानाम्रातकान् फुल्लान्नालिकेरान्सतिन्दुकान् | अज्ञातकांस्तथा जीरान् डाडिमान् बीजपूरकान् || पनसाल्लि कुचान्मोचान् खर्जूरानाम्रवेतसान् | पारावतांश्च जम्बीरान् निम्बाश्चापि मनोरमान् || बिल्वान्कपित्थजम्बूकान् काष्मरीवदरीस्तथा | प्लक्षानुदुंबरान्वंशान्वकुलान्क्षीरिणस्तथा || भल्लातकानामलकान्हारीतकविभीतकान् | इङ्गुदान्करवीरांश्च तिलकांश्च महाफलान् || प्. १०९) एतानन्यांश्च विविधान्ददर्श नलिनीतटे | तथिव चंपकाशोकान्केतकान्वकुलास्तथा || पारिजातान्कोविदारान्देवदारुतरूंस्तथा | ददर्श राघवस्तत्र पंपातीरसमुत्थितान् || आरण्यकाण्ड माहात्म्यं ये शृण्वन्ति महीतले | श्रीराघवप्रसादेन विष्णुलोकविनासिनः || शाल्मलीस्तिन्दुकाशोक शिंशुपांस्तरलांस्तथा | इति श्रीममासंहितायां श्रीमदारण्यकाण्डकथाफलवर्णनं नाम नवमोध्यायः || (श्रीरामश्शरणं मम) || अथ दशमोध्यायः || सतां पुष्करणीं गत्वा पद्मोत्पल झषाकुलाम् | रामस्सौमित्रिसहितो विललापाकुलेन्द्रियः || महेश्वरः- किष्किन्धाकाण्डमाहात्म्यं प्रवक्ष्यामि गिरीन्द्रजे | रामो वसन्तमालक्ष्य विललापाकुलेन्द्रियः || अनङ्गबाणाभिहतः काकथा प्राकृते जने | प्. ११०) वसन्तो मलयो वायुः पुष्पाणि सुरभीणि च || ज्योत्स्ना च चन्दनं पक्षी कामो द्योतकराणि वै | वै मुख्यं गतफल्यास्तु भ्रमरानशपत्प्रभुः || कोकाग्निभिशीथे विश्लेषं पिकमन्यविवर्धनम् | चन्दनं सर्पनिलयं वायुं सर्पाशनं तथा || ज्योत्स्नां कलङ्कसहितां शशाप रघुनन्दनः | कामिनां गतिराख्याता सर्वाचारविधायिना || सीताविरहसन्तप्तो रामो दुःखीवदृश्यते | विशिष्टचापं श्रीमं दृष्ट्वा वेगेन दुद्रुवे || सुग्रीवो मारुतिं तत्र प्रेषयामास राघवे | मारुति प्रेषणं भुत्वा सद्गुरुं लभते नरः || राममारुतिसंवाद श्रवणाद्राज्यमाप्नुयात् | कुण्डलं वायुतनये दृष्ट्वा दृश्य रघूद्वहः || प्राशंसत हनूमन्तं राघवोनयलंपटः | उमा- भवद्रूपस्य रामस्य सुग्रीवे प्रणतिः कथम् | वदनिस्संशयं देव देवेश मम वल्लभ || महेश्वरः- विद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे || प्. १११) रामदर्शनमात्रेण गतकर्मनिबन्धनः | स्वाभिन्नत्वान्नमस्कारत्वे स्वे महिम्नि प्रतिष्ठितः || हरी ऋक्षरजा नाम ब्रह्मणो मानसस्सुतः | सत्यलोके महोद्याने सञ्चचार यदृच्छया || सूर्यातपपरिप्लुष्टस्विन्नगात्रः पिपासितः | कल्याणसरसिस्नातस्तेनासीत्तरुणी वधूः || दर्शनार्थं पद्मयोने रिन्द्रोगच्छद्यदृच्छया | तां दृष्ट्वा कामयद्वज्री ब्रह्मणो विषये प्रभो || पुत्रमुत्पातयामास भविष्यत्कार्यगौरवात् | भास्करोऽपि विधिं द्रष्टुमागतः प्रेक्ष्य सुन्दरीम् || रमयामास कामार्तः पुत्रोजज्ञे दिविश्रुतः | ज्येष्ठो वालीति विख्यातस्सुग्रीवस्तदनन्तरः || महावंश प्रसूतानां नमस्कारोपि युज्यते | परिभ्रष्टो दशान्तेन दशाभागेन सेव्यते || दशाभागगतो हीने नमस्कारो विधीयते | यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः || इति द्योतयितुं प्रोक्तो लक्ष्मणेन नमस्क्रिया | राघवेन्द्रहरीन्द्रस्य सख्यमग्निपुरस्कृतम् || अपांसुलो भवेच्छ्रुत्वा अग्निसाक्षिकृतो यतः | सीता कपीन्द्र क्षणदाचराणां राजीव हेमज्वलनोपमानि || प्. ११२) सुग्रीवराम प्रणय प्रसङ्गे वामानि नेत्राणि सप्तं स्फुरन्ति | तस्मिन्क्षणे दक्षिणमायताक्ष्या मयोद्भवायाः परितोननर्त | दृष्ट्वा विचित्रं परितापयुक्तं विंशद्भुजं वाक्यमुवाच साध्वी || कालेकाले विचित्राणि दृश्यन्ते क्षणदाचर | अशुभानि निमित्तानि तेषां शान्तिं वदामिते || सीता प्रदेया रामाय नमस्कार पुरस्सरम् | अन्योन्य दुःखसल्लापं श्रुत्वा दुःखाद्विमुच्यते || विधाबलं दैवबलं ज्ञानं बन्धुबलं तथा | सेनाबलं भवेत्तस्य वालिनो बलकीर्तनात् || आत्मश्लाघा च मरणं परनिन्दा च तत्समः | विश्वासपातकश्चैव अक्रियस्य वधस्तथा || सुग्रीवदत्तं वीक्ष्यैव सीताया दिव्यभूषणम् | लक्ष्मणः- नाहं जानामि केयूरे नाहं जानामि कुण्डले || नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् | शाखा मृगेन्द्रवचसारघुनायकोऽपि कोदण्डरक्तकरमात्तशरं विधाय | पादाग्रपीडनवशेन फणिधरेन्द्रमौलि स्थितान् क्षिति रुहानृजुमेव चक्रे || सप्तभूमिं सप्तगिरिं सप्तसालान्महाबलान् || प्. ११३) कदम्बो वेगसंपन्नो भित्वा तूणीरमाविशत् | सुग्रीवाश्वासनं चैव वालिनो बलवर्णनम् || गिरीणां भेदनं चैव किष्किन्धागमनं तथा | वालिसुग्रीवयोर्युद्धं श्रुत्वा नियमपूर्वकम् || युद्धे विजयमाप्नोति वालिनो विजयो यथा | उमा- वालिसुग्रीवयोर्युद्धे अदृश्यः केन राघवः || संशयं वद मन्नाथ संशयछेदको भवान् | महेश्वरः- असुराश्च सुराश्चापि संभूय ब्रह्मणोऽन्तिकम् | गत्वा पप्रच्छुरमरा योत्स्यामः केन कर्मणा || मन्थानं मन्दरं कृत्वा योक्त्रं कृत्वा च वासिकिम् | मन्थने क्रियतां यत्नो यावत्पीयूषदर्शनम् || इत्थं पद्मभुवा प्रोक्ताः समेत्य असुरास्सुराः | ममन्थुः कलशांभोधिं पीयूषोत्पत्तिलिप्सया || वक्त्रं देवासुराः पुच्छं विचकर्षुररिन्दमाः | विषाग्निना दह्यमानान्वीक्ष्य देवो हरिस्सुरान् || उत्तमानाः कर्षयध्वमुत्तमा इतरं परे | इत्यूचिवाञ्छार्ङ्गपाणिर्वक्त्रं दैत्या अथाग्रहीत् || पुच्छाकर्षण सक्तानां सुराणां क्लेशशान्तये | प्. ११४) आहूय वालिनं देवो दत्वा वरमनुत्तमम् || प्रतीवर्तिनो भूयादर्धं बलमरिन्द्रम | इति दत्वा वरन्देवः काञ्चनं कमलस्रजम् || प्रदाय वानरेन्द्राय ममर्द्धिकलशांबुधिम् | तया भूषितकर्णस्य बलं प्रज्ञानमेव च || शोभन्ते वर्धते नित्यं काञ्चनां नुजधारणात् | उमा- रामेण निधनं बालेरन्येन परियुध्यतः || अयुक्तञ्छद्मना युद्धं प्रच्छन्न निधनं तथा | विहार भरणार्थाय देवकार्यचिकीर्षया || अवतीर्णो हरिरिति श्रूयते बालकाण्डके | न तस्य मित्रं न द्वेष्टा लाभालाभे प्रिया प्रिये || कलशाब्धेस्तटे देवं शङ्खचक्रगदाधरम् | संप्राप्य वेधसादिष्टास्सृजध्वं कामरूपिणः || असंहार्यगुणोपेता न प्रमेय पराक्रमान् | वालीरिन्द्रात्समुत्पन्नस्सुग्रीवो भास्करात्ततः || कृपीडयोनेरुत्पन्नो नीलो हरिचमूपतिः | मृत्योस्सकाशाद्रुद्रांशादुत्पन्नो हनुमान्कपिः || उमा- सोमायन्नि-ऋतेर्जातस्सुषेणो वरुणात्मजः | प्. ११५) मृत्योस्सकाशादुत्पन्नाः पञ्चवानरसत्तमाः || इन्द्रात्मजे हरीन्द्रे तु निधनं लोकगतम् | महेश्वरः- लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् || रामस्त्यजेन्न प्रतिज्ञां समुद्रो विजलो यदि | सुग्रीवाय प्रतिज्ञातं वालिनो निधनं प्रति || श्रीमता सहसंबन्धो न मे लक्ष्मण रोचते | गते तु मानहानिस्स्यादागते तु धनक्षयम् || तस्मात्सुगीव सख्यं तु रोचते मम सांप्रतम् | अदृश्येनैव गन्तव्यमन्यथा शरणं व्रजेत् || मनसा वचसा वापि कायेनापि नमेद्यदि | सकृदेव प्रपन्नाय तवास्मीति च याचते || अभयं सर्वभूतेभ्यो ददाम्येतद्ब्रतम्मम | अभये वार्थिने दत्ते प्रतिज्ञा परिहीयते || रावणस्य सहायाच्च रावणोपि व्रजेत् माम् | रावणस्य वधाभावादवतारफलं न हि || पूर्वापरभवं वीक्ष्य वालेर्निधनमिष्यते | अन्यथा रघुनाथस्य यशो हीयेत पार्वति || ताराप्रलापमाकर्ण्य वालिनो निधनं तथा | कपीन्द्रसंस्कृतिं श्रुत्वा नारी अविधवा भवेत् || प्. ११६) दीर्घायुष्यं भवेद्भर्तुः पुत्रिणी सा भविष्यति | हनूमत्प्रमुखैर्वीरैर्लक्ष्मणप्रमुखैर्द्विजैः || अभिषेकञ्च ताराया रुमायाः प्राप्तिमुत्तमाम् | सुग्रीवस्य सदा श्रुत्वा राज्यलाभं स गच्छति || शृणोति या स्त्री तारायास्सुग्रीवेण समागमम् | अछिन्नप्रीतिसंयुक्ता रमते नायकेन सा || उमा- पुत्रभार्या शिष्यभार्या कनिष्ठभ्रातुरेव च | स्नुषा च ज्येष्ठभार्या च मातुलस्य कुटुम्बिनी || मातृकल्मा इति ख्याताः कथन्तारासमागमः | स्नुषागमे विधिकृता संसर्गं लोकनिन्दितम् || महेश्वरः- अयोनिजास्वङ्गनासु गमने नैव किल्विषम् | शापात्पुरस्ताद्दोषाय श्वेतकेतोः पुराङ्गना || तारायास्संभवं देवि शृणु क्षीराब्धिमन्थने | तारलक्ष्मी पशुश्चैव कल्मवृक्षस्तथैव च || अहल्याप्सरसश्चैव समुत्पन्नाहि सुन्द्ररि | कराग्रं दक्षिणं वाली सुषेणो वाममग्रहीत् || ममेयमिति निश्चित्य कलिरन्योन्यमुद्वभौ | देवैस्सुषेणस्य करे प्रतीति प्रतिपादित || प्. ११७) सुषेणो दुहितायास्तु स्वयं वरमकल्पयत् | ब्राह्मे मुहूर्ते उत्थाय पूर्वपश्चिम वारिधौ || दक्षिणे उत्तरे चैव स्नात्वा नत्वामहे चिरम् | विरूपाक्षाभिधं नित्यं कल्पवृक्षप्रसूनकैः || अर्चयेद्यदि तस्येयं भार्या स्याद्वरवर्णिनि | एवं कृते वानरेन्द्रनाशे कुस्पन्दितुं पदम् || वाली क्रमेण त्रिर्वारं कृतवानश्रमेण तु | इत्थमुढा कपीन्द्रेण तारा सर्वाङ्गसुन्दरी || सुग्रीवमेकदा रात्रौ रूपसादृश्य मोहिता | प्रार्थयामास कामार्ता रन्तुं रतिपतिप्रभम् || अहल्या द्रौपदी सीता तारा मन्दोदरी तथा | नित्ययौवनसंपन्नाः पातिव्रत्यसुरान्विताः || रुमाया योनिजाताया गमनं लोकगर्हितम् | दिशः प्रस्थापयामास दिदिक्षुर्जनकात्मजाम् || सर्वैः प्रत्यक्षदृष्ट्वात् सिद्धवत्कथनं ब्रुवन् | सर्वे लङ्कापुरीं गत्वा ऊषुर्वाली पदानुगाः || शाखाचं क्रमण न्यायात्सर्वत्र परिमार्गितुम् | उदयाचलमारभ्य यावस्तमयाचलम् || मार्गित्वाभ्यगमन्वीरा यावत्कैलासपर्वतम् | नीलोङ्गदो हनूमांश्च जाम्बवान्नलकेसरी || प्. ११८) समुद्रतीरमागत्य न शेकुस्स्पन्दितुं पदम् | रावणस्य बलं ज्ञात्वा तीरे नदनदीपतेः || रामायण तरोस्कन्धाष्षट्काण्डानि तथोत्तरम् | जानकीरघुनाथाख्यौ फलौ नित्यफलप्रदौ || सुग्रीवाद्या हरिवराश्शाखा अन्ये दलास्स्मृताः | भरताद्याः प्रसूनानि ब्रध्नं कोसलवंशजौ || प्राचेतसा वर्धितोसौ सेव्यो नित्यं मुमुक्षुभिः || इति श्रीमदुमासंहितायां किष्किन्धाकाण्डफलवर्णनं नाम दशमोध्यायः || || अथ एकादशोध्यायः || महेश्वरः- ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः | इयेष पदमन्वेष्टुं चारणा चरिते पथि || मध्ये समुद्रमुत्पन्ना ह्यन्तराया पृथक् पृथक् | तानि सर्वाणि नष्टानि दानमश्रोत्रिये यथा || श्रीरामसेविनां नॄणां न कदाचिद्भयं प्रिये | प्. ११९) श्रीरामस्मरणा देव तरन्ति भवसारान् || रामाङ्कितकरो वार्धिन्तीर्णवाञ्चित्रमेव किम् | सुन्दरं प्रथमं श्रुत्वा हनूमद्विक्रमाङ्कितम् || ज्वरापस्मारकुष्ठादि भूतवेतालनाशनम् | भुक्त्यन्ते जपतो मदविसायुज्यं भवति ध्रुवम् || पुरा काम्बोजविषये यौवनाश्व इति श्रुतः | ब्राह्मणो जटिलो नित्यं शिवपूजापरायणः || उपवासमिषेणैव मोहयामास लौकिकान् | शक्तिक्षेत्रं समासाद्य उवास बहुवत्सरम् || अर्चितं कुसुमं चापि पञ्चगव्यफलानि च | केनापि नैव भोज्यानि अन्धकूपे विनिक्षिपेत् || षण्मासं तत्फलाशी च क्षीराज्य मधुसेवकः | अपस्मारी स जनिता तस्मिन्जन्मनि स द्विजः || एवं गते बहुदिने ब्राह्मणं गाधिवंशजम् | प्रणम्य स्वस्य वृत्तान्तं स्वदेहस्थितिमेव च || सोऽपि ध्यात्वोपदिशति सुन्दरं प्रथमं मनुम् | सुन्दर प्रथममन्त्रस्य वाल्मीकि ऋषिः अनुष्टुप्छन्दः अञ्जनेयो देवता || ध्यानम् || आञ्जनेयमति पाटलाननं काञ्चनाद्रि कमनीयविग्रहम् | पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् || प्. १२०) इति ध्यात्वा जपेन्मर्त्यो मारुतेर्मनुमादरात् | हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः || कपीन्द्रः पिङ्गलाक्षश्च लङ्काद्वीपभयंकरः | प्रभञ्जनसुतो वीरस्सीताशोकविनाशनः || अक्षहन्ता रामसखो रामकार्यधुरन्धरः | महौषधिगिरेर्हारी वानर प्राणदायकः || वारीशतारकश्चैव मैनाकगिरिभञ्जनः | निरञ्जनो जितक्रोधः कदलीवनसंवृतः || ऊर्ध्वरेता महासत्वस्सर्वतन्त्र प्रवर्तकः | महालिङ्गप्रतिष्ठाता भाष्यकृज्जपतां वरः || शिवध्यानरतो नित्यं शिवपूजां परायणः | इत्थमेव जपेन्नित्यमुवास कतिचित्समाः || तेन शान्तिस्समभवदपस्मारश्च सुन्दरि | प्रदोषे प्राविशत्लङ्का मोतुर्मानधरो हरिः || लंका प्रवेशसमये लङ्कानाम निशाचरी | पद्मासनाल्लब्धवरा ताडयामास वानरम् || नारीतिमन्यमानेन ताडिता वामबाहुना | विह्वला वीतदशना पपात समरक्षितौ || विह्वलां भगिनीं ज्ञात्वा ब्रह्मलोकं निशाचरी | हनूमद्ग्रहणव्यग्रा कर्कटा ताडयत्स्वयम् || प्. १२१) तां ज्ञात्वा लोकसंहारीं तद्धस्ताद्वक्त्रदण्डकम् | गृहीत्वा ताडयामास पपात च ममार च || तस्मिन्क्षणे समायातो ब्रह्मा लोकपितामहः | प्रोवाच रामदूतन्तं क्रोधविष्फारितोष्टकम् || ज्ञानित्वं दोषराहित्यमाकल्प परिवर्तनम् | दत्वा मदन्तिके बद्धा स्थापिता लोकघातिनी || मामनादृत्य सा चण्डी विषूचिलोक मारिणी | इयं लोकहितायैव पवनात्मजताडिता || अनया पीड्यमानानां नराणां मर्तुमिच्छताम् | त्वन्नामस्मरणादेव त्वन्मन्त्र पठनादपि || त्वदर्चा पूजनाच्चापि ब्राह्मणानां तु पूजनात् | शान्तिनित्यं भवेत्येव इयञ्जीव तु मारुते || इत्युक्त्वा तां समादाय वेधा लोकपितामहः | चचार मारुतिर्लङ्कां राक्षसानां कुलेकुले || ददर्श राक्षसांस्तत्र वेदघोष समन्वितान् | अग्निहोत्राश्च वेदाश्च राक्षसानां कुले कुले || दया सत्यं च शौचञ्च राक्षसानां न विद्यते | दर्भमुष्टिप्रहरणान्ददर्श ब्रह्मराक्षसान् || ददर्शराक्षसेन्द्रस्य ऋ मन्तः पुरं महत् | प्रसुप्तं स्त्रिवणन्तत्र यौवतं माजिणं तथा || प्. १२२) तत्र मन्दोदरीं नाम भार्यामन्तः पुरेश्वरीम् | प्रेक्ष्य सीताधिया तत्र वानरत्वं प्रदर्शिवान् || सृक्विण्या जलनिस्रावाद्विधवेयं भविष्यति | नैव सीता विशिष्टाङ्गी रावणस्य प्रिया भवेत् || मद्यशालां ददर्शाथ मार्गमायुरकुक्कुटान् | अर्धार्ध भक्षितांश्चापि ददर्श स्फुटितान्तथा || उमा- ब्राह्मणैर्न सुरा पेया गौ प्रान्नद्या पापकारिणी | सुरकल्मान्य भक्ष्याणि श्रुतिस्तु न सुरां पिबेत् || आर्द्रकं सगुडं मद्यं सैक्षवं वा दरन्तथा | नालिकेरांबुकांस्ये च रध्ना सम्मिश्रितो गुडः || सर्षपं चैव तक्रेस्यात्ताम्रे गव्यं सुरासममम् | ताम्रे गुडरसं चैव सुरया तुलितं बुधैः || सशब्दभक्षणं चापि तर्जन्या दन्तधावनम् | मूद्रप्रेक्षित भुक्तिश्च पुष्पिणीमुखसेवनम् || अकालेभ्यञ्जनं चापि शिष्टतैलस्य भक्षणम् | पलण्डुञ्च पलाण्डुञ्च पीयूषं गृञ्जनं तथा || कन्दाञ्च रक्तं कन्दां च रक्तशिग्रुन्तथैव च | कोशातकीं कम्बलाख्यां स्त्रीभिर्भुक्तावशिष्टकम् || इत्यादि वर्जनीयम् || प्. १२३) न दोषो मातृकल्पासु परलोकप्रदीपकः | महेश्वरः- शुक्रशापात्पुरादेवि सुरापानं न दुष्यति | श्वेतकेतोः पुरा शापात् परदारा न दुष्यति || अशोकवनिकामध्ये शिंशुपामूलमाश्रिताम् | ददर्श हनुमांस्तत्र निरानन्दां रुपस्विनीम् || सीतादर्शनमाकर्ण्य वीतशोको भष्यति | लक्ष्मीस्तस्य गृहे नित्यमनपाया भविष्यति || पुत्रवृद्धिर्ज्ञानवृद्धिर्धनवृद्धिस्तथैव च | गृहारामकलत्राणां नित्यं वृद्धिर्भविष्यति || निशातृतीये मदपूर्णदृष्टिः सीतां स्मरन्यौवनमन्वितस्सः | अनन्तदीपप्रभया प्रकाशयन् समायया शोकवनस्थलीं ततः || अशोकपर्णे मशक प्रमाणः सीतान्दुरुक्तां परिभत्स्यमानाम् | विरावणं रावण माततायिनं प्रोवाच साध्वी वृतमार्गदर्शिनी || नत्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा | तपः क्षयाद्यशोहावेर्मत्पतेस्सह्यते मया || प्. १२४) उमा- सीताया ग्रहणं नित्यं दुरुक्ति कथनं तथा | सीता तर्जितवाक्येन संशयो जायते मम || पतिव्रताया निश्वासो वीक्षणं कोपसंयुतम् | अभ्रूणां चैव पतनं कुलन्दहति वह्निवत् || चिता धूमाकुलपथा गृध्रमण्डलमण्डिता | हतनाथा हतजना श्मशानसदृशी भवेत् || इति शप्तं भूसुतया इयं सा दुःखिनी कथम् | महेश्वरः- रामे विरलदन्तत्वं लक्ष्मणे पादकिङ्किणी | सीताया भिन्नरोमाणि तस्मात्क्लेशसहिष्णुता || अत्रेतिहासं वक्ष्यामि शृणु शैलसुते प्रिये | पुरा राथन्तरे कल्पे वर्तमाने कलौ युगे || कल्पासुखधार्थाय गते मयि शुचिस्मिते | अन्धको नाम दैत्येन्द्रो ब्रह्मदत्तवरो बली || ब्रह्माणं वज्रिणं जित्वा चक्रपाणिमनन्तरम् | गोवर्धनं गिरिवरं प्राप्तवाञ्जयकांक्षया || शैलादिना समजनि जन्यमन्योन्यमुल्भणम् | त्रिशूलक्षतगात्रेभ्य अन्धका बहवो भवन् || तत्र तत्रापि बहवः अन्धकाकार वर्चयः | प्. १२५) समुत्पन्नास्तु तैः पूर्णं त्रैलोक्यं सचराचरम् | पराङ्मुखो भवन्नन्दी शिवस्यान्तः पुरं गतः || त्वद्गृहे शेमुषीं कृत्वा त्वान्ध्यायन् त्रिपुरेश्वरीम् | त्वद्रक्षणार्थं निर्दोषो विष्णुर्मायाविनां वरः || अभ्यर्णमागतं ज्ञात्वा अपर्णे सृजकामिनीः | देव्यो विसृष्टा देवेशि त्वद्रूपिण्यो वरानने || तास्वेकां परिजग्राह मृडानीशङ्कया किल | विनिर्गते विरूपासा विष्णुमायावशादभूत् || पुनरन्यां च साप्येवं पुनरन्या च साप्यभूत् | एवं काले बहुगते देवी क्रोधवशंगता || नवद्वारान्दुराधर्षान्नित्यपुष्टां करीषिणीम् | पीयूषपरिघां दिव्यां दिव्यसंस्कारसंस्कृताम् || स्रष्टाधिष्ठाय नगरी स्रष्टा देव्या महाबलाः | नित्या च नित्यक्लिन्ना च भारुण्डा वह्निवासिनी || मदस्रुवाया योगिन्यो वशिन्याद्यद्याश्शुचिस्मिताः | तास्सर्वा भक्षयामासुर्दैत्यानन्तकवस्थितान् || नित्यक्लिन्ना च सहसा जठरे राक्षसर्षभम् | कल्पं बभार कल्पान्ते जीर्णोभूद्राक्षसर्षभः || तद्वद्देव्या रामदेव्याः प्रतिबिम्बसमुत्थिता | नीला वेदवती जाता सा जाता जनकात्मजा || प्. १२६) लोकसंरक्षणार्थाय सोद्वा तिष्ठति शोभने | निर्गते राक्षसेन्द्रे तु राक्षस्यः क्रोधमूर्छिताः || भर्त्सनार्थाय तां सीतां पृथग्वाचमुदीरयन् | तृणवद्भासितं तासां गणयामास जानकी || स्वप्नाध्यायमुपाश्रुत्य दुस्वप्नन्नश्यति ध्रुवम् | राजा दशरथो नाम रथकुञ्जरवाजिमान् || सीता संभाषणं चापि रामलक्ष्मणसंशनम् | श्रीराममुद्रादानं च ये शृण्वन्त्यादरेण तु || निर्जित्य शत्रून्सङ्ग्रामे स्थिरं राज्यं व्रजन्ति ते | अभिज्ञानं ददामि त्वां येन ज्ञास्यति राघवः || मत्सकाशादनुप्राप्तं चित्रकं गैरिकेण मे | पलालञ्चन्दनञ्चापि करटाक्षिनिबर्हणम् || दर्शनं श्वशुरस्यापि मत्कांक्षां लक्ष्मणस्य तु | प्रविश्य दण्डकारण्यं शरभङ्गनिरीक्षणम् || सुतीक्ष्णे नाभ्यनुज्ञातस्तीर्थाटनधियाभुवः | मण्डलं परिचक्राम राघवस्सहसीतया || गङ्गां मन्दाकिनीं चैव चित्रकूटगिरिं तथा | सीताकूपं सदाचोष्णं हरिद्रासारमेव च || रेवां गोदावरीं चैव विरूपाक्षं महेश्वरम् | श्रीशैलं नारसिंहञ्च अहोवलमनुत्तमम् || प्. १२७) श्रीवेङ्कटं कालहस्तिं काञ्च्यां हस्तिगिरीश्वरम् | कामाक्षीं चूतनिलयां शोणाद्रिं वामनं तथा || श्रीमुष्णं पुण्डरीकं च वैद्यनाथमनुत्तमम् | श्वेतारण्यं मयूराख्यं कावेर्या उत्तरे तटे || पीयूषकलशं चैव तथा नागचतुष्टये | फेरवाख्यनदीतीरे स्वर्धुनीतीर एव च || शक्तिशोकाश्वकवने सुन्दरी श्रीनिवासके | कुंभघोणे सारनाम्नि शिवलिङ्गं यथाविधि || पञ्चाशतं महालिङ्गं कावेर्याः पुण्यरोधसि | महालिङ्गं प्रतिष्ठाप्य पूजयामास राघवः || नारायणगिरिं गत्वा सुब्रह्मण्यमनुत्तमम् | कोल्लापुरे महादुर्गा नासिकायां त्र्यम्बकम् || गोदावर्यां रघुपतिस्सिंहस्थे देवमन्त्रिणि | स्नात्वा सन्तर्प्य देवान् तत्र श्राद्धमकल्पयत् || स्वयं दशरथस्तत्र भुक्तवांछ्राद्धभोजनम् | षष्टिर्वर्णसहस्राणि भागीरथ्यावगाहनम् || सकृद्गोदावरीस्नानं सिह्मस्थे च वृहस्पतौ | शक्तिक्षेत्रगतं रामं प्रोवाच भरतानुजः || मदीयं त्रिणतं राम गृह्नीष्व सशरं भवान् | लब्ध्वाभिज्ञानमतुलं हत्वा राक्षसपुंगवान् || प्. १२८) दग्ध्वा लङ्कापुरीं तत्र दृष्ट्वा रावणमादरात् | वानरेन्द्रैर्मधुवनं भुङ्क्ता राघवमाययौ || दृष्ट्वा देवी मया माता अक्षता नियमस्थिता | इति मारुतिवाक्येन प्रीतो रघुपतिर्भृशम् || सर्वस्वभूतं गृह्णीष्व परिष्वङ्गो मया कृतः | वरं ददामि पिङ्गाक्ष सर्वकार्यकरो भवान् || त्वन्मन्त्रजापिनां नित्यं त्वन्नामस्मृतिकारिणाम् | त्वदर्चापूजकानां च जनानां नियतात्मनाम् || मत्कथोपस्थितिर्यावद्यावत् पर्वतसंस्थितिः | यावच्चन्द्रश्च सूर्यश्च तावत्त्वं सुखितो भव || यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् | वाष्पवारिपरिपूर्णलोचनं मारुतिं नमन राक्षसान्तकम् || मोचावने तपस्तप्त्वा सुचिरं ब्रह्मचिन्तकः | पश्चाच्चतुर्मुखो भूत्वा सृष्ट्वा लोकान्यथा विधि || त्वल्लोकवासिभिस्साकं मत्स्वरूपमुपेष्यसि | इति दत्वा वरं रामो मारुतेः कार्यगौरवात् || प्रस्थानं रोचयामास रावणस्य वधाय वै | श्रुत्वा तु पञ्चमं काण्डं हनूमाद्विजयांकितम् || अञ्जनेय प्रसादेन ब्रह्मलोकं स गच्छति || इति श्रीमदुमा संहितायां सुन्दरकाण्डकथा श्रवणफल महिमानुवर्णनं नामैकादशोध्यायः || श्रीरामश्शरणं मम || अथ द्वादशोध्यायः || महेश्वरः- युद्धकाण्डस्य माहात्म्यं प्रवक्ष्यामि शुभानने | श्रुत्वा हनूमतो वाक्यं यथावदनुभाषितम् || रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् | सीतावृत्तान्तसन्तुष्टो रामो मारुतिमादरात् || अब्रवीन्मम भक्तानामग्रणीर्भव मारुते | प्रपत्तिं पञ्चधा प्राप्य देहान्ते मुक्तिमेष्यसि || लाञ्छनञ्चोर्ध्व पुण्ट्रं च मदर्चापूजनं तथा | मद्भक्तपूजनं चापि गुरौ भक्तिस्तथैव च || देवालयकृतिञ्चैव मद्भक्तान्नस्य भक्षणम् | तुलसी भक्षणं नित्यं सालग्रामोदकाशनम् || रामायणादिपठनं तस्य पूजनमेव च | अभक्ष्याणां परित्यागो वैष्णवानां तु सेवनम् || न शूद्रा भगवद्भक्ता विप्रा भागवतास्स्मृताः | सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने || सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | सर्वपापाद्विमुच्यन्ते त्वामुद्धरिष्यामि संसृतेः || प्. १३०) अभक्ष्याणि वदाम्यद्य पर्युषितं लशुनं तथा | अलाबुग्रन्जनञ्चैव शिग्रुकद्वितयन्तथा || कूश्माण्डद्वितयं चैव अलाबुद्वितयन्तथा | कन्दञ्च रक्तकन्दं च बृहतीचैव जात्रकम् || आश्वयुज्यां पटोली च निष्पावं कार्तिते तथा | अष्टम्यां नालिकेरञ्च तृतीया भानुवासरे || एकादश्यामहोरात्रं नैव भोजनमाचरेत् | विशेषं मम मन्त्राणां प्रवर्तक निवर्तकः || भवान्सर्वयुगे भूयान्मत्कूपा परिपूरितः | रामप्रस्थानमाकर्ण्य पातका देहपञ्चजरात् || नश्यन्ति तत्क्षणादेव सिंहस्ता मृगा इव | वाहि वातयतः कान्ता तां दृष्ट्वा मामपि स्पृश || इत्यादि श्रवणाद्रामदर्शनाद्गत किल्विषाः | रामसन्दर्शनादेव उत्पन्न ब्रह्मवेदनाः || पराभवात्परादन्यान्नहि स्युरिह व वानराः | दर्शयन्मानुषीं लीला मरौदीत्कामिव प्रभुः || लङ्कादाहे पुष्पकाग्रे विष्णुपद्यामवस्थिनः | रावणः पुनरागम्य मयं दानव सत्तमम् || आहूय विश्वकर्माणं कारयामास पत्तनम् | त्रिंशद्योजन विस्तारं चत्वारिंशतमायतम् || प्. १३१) रौप्य प्राकारसंपन्नं दुर्वर्ण रचितं तथा | अष्टापदमयाश्चापि प्राकारा बहुविस्तृताः || नाना यन्त्रेण सहितां नानाट्टालकशोभिताम् | नानागोपुरसंकीर्णां नानातोरण मण्डिताम् || जाज्वल्यमान विशिखां कृताकृत गृहान्तराम् | अगाधाश्शकुनाकीर्णाः परिघा मीनसेविताः || सङ्क्रमा विपुलास्तत्र उपद्वारिषु भूरिशः | द्वारे द्वारे राक्षसानां कोटि कोटि निवेशिताः || अथ हेमसभामध्ये वसन्न्राक्षसपुंगवः | आहूय मन्त्रिणस्सर्वान्मन्त्रं समुपचक्रमे || सीतायाः पदवीं रामो मार्गमाणो वनालयैः | सह सिन्धुपतेस्तीरे मूलन्न छेत्तुमागतः || तत्रोपायञ्च पश्यध्वं येन श्रेयो गमिष्यथ | राजानं रक्षसां मध्ये माल्यवान् प्राह पूर्ववित् || शृणु राजन्प्रवक्ष्यामि सर्वेषां शोभनाय वै | पुरा देवयुगे शंभुः कैलासाचरुमूर्धनि || वसत्यपर्णया देवो विश्वेशो विश्वभावनः | षङ्कुपादस्समागम्य त्वरायुक्तश्शिवप्रियः || पञ्च सप्ततिवर्षाणां कालोयं समुपस्थितः | अनुज्ञां कुरुमत्पीडां दर्शने लोकहेतवे || प्. १३२) इत्युक्तः पार्वतीनाथः छायासूनुमकल्मषम् | मदन्येषां भवेत्पीडा त्वत्पीडासंभवोऽस्ति वै || पुनर्दण्डं प्रदास्यामि मुद्रां मुष्माकमेव च | भवान्सत्यन्न गच्छेत् स्याद्वेलामम्बुधि स त्यजेत् || इत्युक्तो धूर्जटिस्सिद्धवेषेणादिगते जले | ममज्ज शनिना दृष्टः पञ्चसप्तति वत्सरान् || सर्वथा रक्ष भगवन् गौरीं गरुडवाहन | इति सन्दिश्य भूतेशो रमाकान्तं जगद्गुरुम् || एतस्मिन्नन्तरे दैत्यो वकः कल्पान्तजीवनः | लब्ध्वा वरं पद्मयोनेस्सकाशाल्लोकपूजितात् || त्रिलोकविजये यत्नमास्थाय प्रस्थितो गृहात् | इन्द्रादीन्प्रथमं जित्वा ब्रह्माणं विष्णुमेव च || शङ्करस्य जयार्थी सः कैलासं समपद्यत | प्रमथान्प्रथमं जित्वा भवान्या भवनं बकः || प्राप्य स्त्रीवनमादातुमुपक्रामत वेगतः | देवीं गृहीतुकामन्तं दृष्ट्वा चक्रधरो हरिः || देवी स्वरापा असृजद्यौवतं मोहनाय वै | तास्सर्वा अपि जग्राह देवी बुध्या बकोसुरः || तास्सर्वा मोहयामासुरसुरं बकनामकम् | नात्र देवीति निश्चित्य शर्वाणि ग्रहणोन्मुखः || प्. १३३) भद्रकाली परिणता सहस्रभुजमण्डिता | वीक्षणेनैव संहृत्य त्रैलोक्यं सचराचरम् || वीक्षणे नैव ससृजे शर्वाणी सवमङ्गला | बकं विना कृत्स्नलोकमसृजश्च्छंकर प्रिया || तद्वज्जनकजा राज लोकानां प्रभवाप्यये | शक्ता तस्मादिमां मुञ्च रामं शरणमाब्रज || विभीषणोक्त श्रवणाद्धर्माभ्यां सफलं लभेत् | धिक्त्वां पापसमाचारमित्यादि श्रवणेन तु || धर्मत्याग समुद्भूतान्मुच्यते पातकान्नरः | क्षणाच्चतुर्भिस्सहितो राक्षसेन्द्रैरकल्मषैः || रामपादं समुद्दिश्य जगामोत्तर रोधसि | विभीषणः परिग्राह्य आहोस्विदपरिग्रहः || एतस्मिन्नन्तरे वार्धेरुद्धोषं वीक्ष्य राघवः | वरयामास सहसा वारिधिं वेगवत्तरम् || अद्यापि स्तब्धसलिलो दृश्यते दशयोजनम् | दृश्यते रामवाक्येन लोके विश्वाससूचकम् || विभीषणपरीक्षाया श्रवणान्मननं भवेत् | विभीषणो वा सुग्रीवो यदि वा रावणस्स्वयम् || आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया | सकृदेव प्रपन्नाय तवास्मीति च याचके || प्. १३४) अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतम्मम | प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी || ज्ञानाभ्यासवतामो तुर्वानरी भाक्तमेव च | पाद्यमङ्गुलिविच्छेद उरो विन्यस्तमक्षरम् || तन्नामकरणं चैव दास्यमेतच्चतुष्टयम् | अङ्कितं शङ्खचक्रायै रूर्ध्व पुण्ट्रस्य धारणम् || गुरौ भक्ति समावेशः प्रपन्नानान्तु लक्षणम् | अष्टाक्षरं महामन्त्रं सद्गुरुप्रतिपादितम् || ये जपन्ति सदा भक्त्या ते प्रपतमास्मृताः | निन्दास्तुती समे एषां समवुद्धिः परा अपि || व्यर्थाहंकार राहित्यं प्रपन्नस्य च लक्षणम् | पारायणं ये कुर्वन्ति श्रीमद्रामायणस्य तु || पुनर्वसुदिने पूजां प्रपन्नेष्वधिका मता | ज्ञानाग्निस्सर्वकर्माणि यथा भस्म करोति वै || तद्वद्भक्त्यग्निना पापं नश्यत्येव न संशयः | तस्माद्ग्राह्यो राक्षसेभ्य अभिषिच्य च सर्वथा || सेतुमारब्धवान्रामः अभिषिच्य विभीषणम् | पूर्वं वेदवने सेतुर्भग्नस्सङ्गन्ररंहसा || दुर्गादेव्यास्तु नगरे द्वितीयस्सेतुरुच्यते | तिमिरिवालिभिस्सत्वैः पीडिता हरिसत्तमाः ||? प्. १३५) तृतीयो रामसेतुस्स्याद्गन्धमादन मस्तरे | सर्वलोकशरण्योऽपि रामो मानुषलीलया || शिष्ये दर्भास्तृतभूमौ सरिन्नाथ प्रसादकः | रामो नदनदी नाथवाक्याद्दक्षिणसागरे || नलेन कारयामास सेतुं संसारतारकम् | कदाचिद्धनुषा सेतुं कदाचिद्द्विशिखेन तु || दार्वादिना कदाचित्तु कल्पे कल्पे व्यवस्थितः | द्वौ समुद्रेति वेदोऽपि सेतुषाम तथैव च || अनादि सेतुस्तवनं त्रयीभिरनुगीयते | ब्रह्महत्या सुरापानं स्वर्णस्तेयस्तथैव च || गुर्वङ्गनाभिगमनन्तत्संसर्गत्वमेव च | दर्शनाद्राम सेतोस्तु सर्वे नश्यन्ति पातकाः || ब्रह्महत्या समानानि प्रवदामि शुचिस्मिते | वेदक्रयं ब्रह्मनिन्दा देवताचलनं तथा || ब्रह्महत्यासमाः प्राहू-ऋषयो वेददर्शिनः | गणान्नं गणिकान्नं च ब्रह्महत्यासमं स्मृतम् || शूद्रेण प्रेक्षितं भुक्त्वा चण्डाल प्रेक्षितं तथा | पुष्पिण्या अभ्यनुज्ञातं ब्रह्महत्या समं विदुः || मणिकाञ्चनमुक्तानां प्रवालहरणं तथा | सुवर्णस्तेय सदृशं प्राहुर्वेदविदो जनाः || प्. १३६) रजस्वलामुखाघ्राणं कारुतीर्थ निषेवणम् | सुरापानसमं प्राहुर्वेदान्तपरिनिष्ठिताः || आत्रेयी गमनं चैव यज्ञपत्नी निषेवणम् | भ्रातुस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् || सर्वदोह प्रहाणं ये वञ्छन्ति श्रद्धयान्वितः | सेतौ स्नानं धनुष्कोट्यां कुर्वन्त्यघ निवृत्तये || सेतुना सागरं तीर्त्वा अरिष्टाचल मस्तके | रामस्सुखं वानराणां स्कन्धावारमकल्पयत् || अगस्त्याद्यास्समागम्य रामं रत्नमये शुभे | पीठे निवेश्य चक्रुस्ते विजयायाभिषेचनम् || ऋग्ब्राह्मणोक्तैर्विविधैर्लङ्कायां लक्ष्मणाग्रजः | रामाभिषेक श्रवणाद्धनवान्पुत्रवान्भवेत् || पार्थिवो विजयी भूयाच्छ्रुत्वा रामाभिषेचनम् | वानरान्राघवः प्राह दाहेन परिपीडितान् || समुद्रतीरे सर्वत्र खन्यतां जलसिद्धये | यत्र वानरसञ्चारस्तत्रासन्नमृता इव || रामस्सुवेलशिखरं राकाया मध्यरोहत | रामो लङ्कां समुद्वीक्ष्य पताक ध्वजमालिनीम् || चैत्यप्रासादशिखरे दृष्ट्वा राक्षसपुङ्गवम् | त्रासनं सर्वभूतानां भ्राजमानं स्वतेजसा || प्. १३७) त्रासनं सर्वभूतानां विष्णुचक्रगतव्रणम् | ऐरावत विषाणाग्रैः किणीकृत भुजान्तरम् || रामश्शरेण चिच्छेद छत्राणामयुतं क्षणात् | श्रुत्वा सुग्रीव विजयं त्रैलोक्य विजयं भवेत् || कामक्रोधौ लोभमोहौ मदं मात्सर्यमेव च | असूयास्तेन पैशुन्ये डंभोहंकृतिरेव च || कदाहश्च बुभुक्षा च निन्दामौढ्य पराभवौ | अलक्ष्मीः कालकर्णी च रागद्वेषाशुभास्तथा || अनाचारश्रुतिद्वेष ब्रह्मद्वेषाशुभास्तथा | अज्ञान रूपं राजानं रावणं समुपाश्रिताः || शान्तिः क्षान्तिस्तितिक्षा च अनसूया तथैव च | अक्रोधो हिंसनं लाभो दानं विज्ञानमेव च || अडंभमनसूया च अपैशुन्यं तथैव च | श्रद्धा अहिंसनञ्चैव ब्राह्मणानां च पूजनम् || अग्निहोत्रादिधर्माश्च श्रद्धाभक्तिस्तथैव च | ज्ञानपक्षास्समाख्याता रामो नन्दमयो यतः || तस्मात्तत्पक्षमुत्सृज्य धर्मरूपो विभीषणः | परब्रह्ममयं राममाश्रित्य सुखमाप्तवान् || अग्निहोत्राश्च वेदाश्च राक्षसानां गृहे गृहे | दया सत्यं च शौचं च राक्षसानां न विद्यते || प्. १३८) वैज्ञानिनां हरीणां च मोहिना रक्षसामपि | प्रथमादिषु तिथिषु प्रवृत्तो जन्य उत्तमः || पक्षे द्वे ब्रह्मणा सृष्टे धर्माधर्म मये शुभे | सुराणां धर्मपक्षस्स्यादधर्मोह्यासुरो मतः || अधर्मस्य क्षयो यत्र तदाकृतयुगो भवेत् | भवेद्धर्मस्स्य नाशश्चेत्तदा तिष्यः प्रवर्तते || नागब्रह्मास्त्रयोर्बन्धमनुभूतम्महात्मनोः | वरदानं मानयन्तौ पद्मयोनेर्जगद्गुरोः || धूम्राक्षाद्या निशिचरा अधर्म प्रतिबिम्बकाः | हनूमत्प्रमुखैर्वीरैर्वृषरूपैर्निषूदिताः || रामसायकनिर्भिन्ना राक्षसाः पापवर्जिताः | ये हता लक्ष्मणेनैव सायुज्यं प्राप्यदुर्लभम् || मोदन्ते शङ्खचक्रेण शार्ङ्गेण गदयोज्वलाः | भक्त्या केचिद्गतास्स्वर्गं केचिद्द्वेषेण कुत्रचित् || मैत्रेण स्वामिभावेन सम्बन्धात्कर्मयोगतः | ज्ञानेन तपसा चैव हननाद्विष्णुहस्ततः || अधिकारवतां मुक्तिस्तावन्नास्त्येव कुत्रचित् | कुंभकर्णस्य निधनं श्रुत्वा सद्गुरुवक्त्रतः || कुंभीपाकगतान् सर्वानुत्तारयति पूर्विकान् | रावणेर्निधनं श्रुत्वा लक्ष्मणात्प्रीतिपूर्वकम् || प्. १३९) स्वर्गस्थाः पितरस्सर्वे विष्णुमन्दिरगामिनः | दशशीर्षाश्शतशिरास्सहस्त्रायुतमौलिनः || तावद्धस्ताद्धता मौला रामेण रणमूर्धनि | रथानां दशकोटि स्याद्गजानां कोटि षोडश || कोटि कोटि पदातीनां गन्धर्वाणां त्रयोदश | राक्षसा रामनिहता क्षणार्धेन रणक्षितौ || विष्णुलोके विराजन्ते शङ्खचक्रांकिता क्षणात् | शङ्खं कपालं करकञ्च पाणौ धृत्वारिदण्डञ्च पिनाकमाद्यम् | एकं चतुः पञ्चकशीर्षयुक्त मौलं बलं हतवान्सक्षणेन || गगनं गगनाकारं सागरस्सागरोपमः || रामरावणयोर्युद्धं रामरावणयोरिव | प्रधानं राक्षसेन्द्रस्य राघवेन्द्रस्य चोभयोः || श्रुत्वा नरः पाप बृन्दान्मुच्यते जन्मकोटिभिः | आदित्य हृदयं नित्यं जपेत्प्रेक्ष्य दिवाकरम् || त्रिः प्रकारं शरीरान्ते शिवमन्दिरगो भवेत् | छिन्नानि दशशीर्षाणि कुण्डलाद्यानि संयुगे || एकोत्तरशतं वारं सहस्रोत्तरतो दश | तानि तान्य भवस्य वेधसो वरगौरवात् || प्. १४०) ब्र्ह्मास्त्रं योजयामास मातलेर्वाक्यगौरवात् | विभेद हृदयन्तस्य पपात च ममार च || छिन्नानां पुनरुत्पत्तिर्ब्रह्मणो वरदानिका | हृदयस्य विभेदेन मरणं ब्रह्मनिर्मितम् || अभेद्यकवचं धत्ते रावणो हृदयस्य तु | नप्तारं ब्रह्मणो रामो हत्वा लोकस्य गुप्तये || सेतौ तीर्थं धनुष्कोट्यां कृतवान्पापशान्तये | विभीषणाद्यास्सु हृदो हतामित्रं रघूत्तमम् | विधिवत्पूजयामासुः पाद्यार्घ्यासन वन्दनैः || रावणान्तकमावृत्य बृन्दारकगणा दिवि | तत्र मौलौ रघुवरं दशशीर्षरिपुं रणे || ववर्षुः पुष्पवर्षाणि सान्तानिक समुद्भवैः | निधाय बाहुं त्रिणतस्य कोट्या मायोधनोद्भूतरजोक्षिताङ्गम् | जटाञ्चितं फुल्लमुखारविन्दं पश्यन्ति रामं कृतपुण्यपुञ्जाः || मित्रैस्समेतं हतशत्रुसागरं कृपाकरं श्यामलदेहकान्तम् | कोदण्डदीक्षागुरुमादरेण भजन्ति ये धन्यतमा धरण्याम् || प्. १४१) जटाधरं फुल्लमनोज्ञहासं सौमित्रिणा सेवितवाम भागम् | शरासनं बाणवरं च हस्ते विभ्रामाद्यं गुरुमानतोऽस्मि || प्रशान्तपीडाबहुला निर्मला अभवन्दिशः | नागकन्या नागलोकमप्सरास्स्वर्गमन्दिरम् || तुम्बुरर्वृषनिकटं नारदस्सञ्चरिष्णुताम् | हाहा हूहू मुखास्सर्वे कुबेर भवनं गताः || गार्हपत्यं गतो वह्निर्वरुणो गान्मणीवतम् | वायुर्वायुगृहं सोमस्स्वस्थानं प्रत्यपद्यत || भानुस्वाभानोर्विस्तरं हयानां विश्रमं तथा | ज्योतिषाञ्चैव सञ्चारो मध्याह्ने विश्रमो भवेत् || श्रुत्वा वानरसत्कारं सीतावासिमरेः पुरे | अछिन्नमोदसंयुक्तम्मोदन्ते दिवि देववत् || पुष्पकाग्रं समारुह्य सीतया सहराघवः | वानरै राक्षसैस्तस्मार्दुक्कुरान् प्रप्यपद्यत || अत्रपूर्वं महादेवः प्रसादमकरोद्विभुः | सन्ध्यानटः पुराकल्पे मयसम्यगभिष्टुनः || वानरान्तारयामास पिनाकेन कपालं भृत् | वानरान्तारयामास पिनाकप्रभवे क्वचित् || पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनं | भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् || प्. १४२) इत्यादि श्रवणान्नॄणां यावत्पट्टाभिषेचनम् | सर्वकार्याणि सिध्यन्ति पापराशिः प्रणश्यति || पुत्रवृद्धिर्धान्यवृद्धिर्धनवृद्धिस्तथैव च | आन्तं रामायणं विन्दत्येव न संशयः || साकेतनगरं राम भद्रो भद्रासने स्थितः | ऋषिभिस्सर्वतत्वज्ञैर्भातृभिर्मन्त्रिभिस्तथा || पौरैस्सामन्तराजन्यै राक्षसैर्वानरैस्तथा | अभिषिक्तश्रिया जुष्टः श्वेतछत्र विराजितः || अनर्घमुक्ताभरणस्तप्तहाटकमण्डितः | पीताम्बरधरस्स्रग्वी दिव्यगन्धेन चर्चितः || अङ्गदी कुण्डलीरामः सीतया सेवितस्सदा | प्रभञ्जनसुतस्तस्य अपादान प्रवर्तकः || न्यायेन कारयामास राज्यस्य परिपालनम् | प्रातः काले समुत्थाय सरखां कृतमज्जनः || भस्मावकुण्ठितो रामो लसत्फालोर्ध्वपुण्ट्रकः | दर्पणादीन्समुद्वीक्ष्य सन्ध्याकर्म समाप्य च || श्रीरङ्गशायिनं देवं समभ्यर्च्य यथाविधि | शङ्खकालहनिर्घोषैर्भेरीपटहनिस्स्वनैः || पुरस्कृत्य ययौ रामो मन्दिरं सरयूतयत् | तूष्टवराघवस्याग्रे सूतमागधवन्दिनः || प्. १४३) अयोध्याधिपती रामो दशकन्धरखण्डनः | सर्वतन्त्रप्रतिष्ठाता सर्वाचार प्रवर्तकः || इति काहलनादेन सर्वानानन्दयन् प्रभुः | नित्यं चचार भगवान् योगिध्ययो महेश्वरः || हुत्वा वैतानिकानग्नीन्सुवर्णं कोटिसंख्यकम् | पौष्ठौहीनां सहस्रञ्च नित्यदानं प्रकीर्तितम् || दशवर्षसहस्राणि दशवर्षशतानि च | रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति || अनेककोटिलिङ्गानि शैवानां विधिपूर्वकम् | प्रतिष्ठां कृतवान्रामो लोकसन्तानहेतवे || राघवेणाभ्यनुज्ञातं राजन्यकमनिन्दितम् | * * * तान्समुद्दिश्य गता राघवचिन्तकाः || उषित्वा वत्सरं सर्वे राक्षसा वानरास्तथा | अनुज्ञाता राघवेण * * प्राप्तो विभीषणः || मध्याह्ने विष्णुपूजार्थं कावेर्या मध्यतो हरिम् | निधाय विधिवत्स्नानं नित्यं सर्वं समाप्य || * * षामध्यगं विष्णुं पूजयामास भक्तितः | तस्मिन्क्षणे परिणतं विमानं प्रणवाकृति || विमानं प्रणवाकारं वेदशृङ्गं म * द्भुतम् | श्रीरङ्गशायी भगवान् प्रणतार्थ प्रकाशकः || प्. १४४) रङ्गं रङ्गमिति ब्रूयात्क्षुध प्रस्स्खलादिषु | तस्य दोषाः प्रणस्यन्ति आयुर्वृद्धिर्भविष्यति || देशान्तरगतो वापि द्वीपान्तरगतोऽपि वा | श्रीरङ्गाभिमुखो भूत्वा प्रणिपत्य न सीदति || रङ्गमुद्धर्तुकामस्य रावणावरजस्य च | आपातालं प्रविष्टस्य तोलते नाभवब्दलम् || विभीषण महाप्राज्ञ मा विषादं कुरु प्रभो | सह्यजानूपदेशोयं वैकुण्ठादधिकं प्रियम् || रमणीयोयमतुलो नद्योर्मध्ये विभीषण | कावेर्या विमले कच्छ यथा वैकुण्ठमन्दिरे || इच्छामि वस्तुमत्रैव सर्वेषां मोक्षदस्सुखम् | श्रीरङ्गदर्शनात्सर्वे क्रिमीकीटपतङ्गमाः || मनुजास्तिर्यगाश्चापि मोक्षगा रावणानुज | इक्ष्वाकुणा प्रार्थितोस्मि पुरा वैकुण्ठमन्दिरात् || अयोध्यामवसं पूर्वं राघवैः परिसेवितः | त्वयापि सेवितो नित्यं वसाम्याकल्पमत्रवै || लङ्कास्थो राक्षसश्रेष्ठ राकाया मासि माधवे | सह्यजाया जले स्नात्वा श्रीरङ्गनिलयं हरिम् || वैशाख्यामाम्रफलकं पयोपेतन्निवेदयेत् | तेन वत्सरपूजायाः फलं प्राप्नु हि राक्षस || विभीषणो राक्षसेन्द्रो वैशाख्यां रङ्गमन्दिरे | पूजयत्यनिशं देवि संवत्सरफलाप्तये || रङ्गधाम्ने राक्षसेन्द्रो मन्दिरं विश्वकर्मणा | कारयामास विधिवत्सप्तप्राकारशोभितम् || चन्द्रपुष्करणीतीरे श्रीदेवीं श्रीतरोरधः | संपूज्य हरिणादिष्टो लङ्कां प्राप्य विभीषणः || स्नात्वा कवेरजातोये दृष्ट्वा श्रीरंगशायिनम् | मोक्षलक्ष्मी परिणता मुक्तास्युरमरा इव || न्यायेन कारयामास राज्यस्य परिपालनम् | प्रछन्ना सञ्चरन्त्येव मानुषा इव राक्षसाः || काले वर्षति पर्जन्यः काले सस्यानि * * * | राष्ट्रानि च सुपुष्टानि खनिभिश्शोभितानि वै || दुर्भिक्षावगृहैर्मुक्ता दस्युपीडाविवर्जिताः | शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा || स याति ब्रह्मणस्स्थानं ब्रह्मणा पूज्यते सदा | यः कर्णाञ्जलि संपुटैरहरहः सम्यक् पिबन्त्यादरात् || वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु | जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं || प्. १४६) संसारं सविहाय गच्छाति पुमान्विष्णोः पदं शाश्वतम् | सकृद्रामायणं श्रुत्वा पुत्रबान्धनवाभवेत् || स्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूयुरनुत्तमान् | रामायणं वदेद्यस्तु तस्य देहे रमापतिः || वाचि ब्रह्मा महेशोहं हृदये निवसाम्यहम् | तस्याक्षीणि रविश्चन्दरोमकूपेष्ठ देवताः || वक्ता प्राङ्मुख आसीत श्रोताचोत्तरदिङ्मुखाः | मारुतिं पुरतस्स्थाप्य पूजयेत्प्रत्यहं द्विजः || यथाशक्ति द्विजान्भोज्य भक्ष्यं व्यञ्जनसंयुतम् | ताम्बूलदानं सर्वेषां श्रोतृणां परिकल्पयेत् || नत्वा नत्वा द्विजान्राजा शृणुयाद्विप्रवाक्यतः | अस्य श्रीरामायण महामन्त्रस्य वाल्मीकि ऋषिः | अनुष्टुप्छन्दः | श्रीरामो देवता | हं बीजम् | सः शक्तिः | बुद्धिर्बीजम् | जीवश्शक्तिः | इला बीजम् | पिङ्गलाशक्तिः | सुषुम्नानाडिमध्यवर्ती सरस्वती कीलकम् | श्रीरामचन्द्र प्रसादसिध्यर्थे जपे विनियोगः | ओं धर्मात्मन्नं गुष्ठाभ्यान्नमः | सत्यसन्धश्च तर्जनीभ्यां नमः | रामो मध्यमाभ्यां नमः | दाशरथिः अनामिकाभ्यां नमः | पौरुषेचाप्रतिद्वन्द्वः कनिष्ठिकाभ्यां नमः | शरैनं जहि रावणिं करतलकरपृष्ठाभ्यां नमः | एवं हृदयादिन्यासः | प्. १४७) ध्यानम् सहस्रा * * संकाशं सर्वशत्रुनिबर्हणम् | रामं शक्तिमयं ध्यायेद्राघवं रामसायकम् || धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि | पौरुषेचाप्रति द्वन्द्वः शरैनञ्जहिरावणिम् || दशकृत्वो जपेन्मन्त्रं पश्चाद्रामायणं चरेत् | रामचन्द्रप्रसासेन * * * * * * * * * * * * * * * * * * || * * * * * * * * * * शोः * * * यः | श्रीरामश्शरणं मम हरिः ओम् * * श्रीगुरुभ्यो नमः (श्रीसाम्बस) * * ग्रन्थाक्षरालंकृत तालपत्रकोशं दृष्ट्वा लिखितमिदम् अडैयार्लैब्ररीतः नटराजशर्मणा || ########### END OF FILE #######