#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00275 Uniform title: unmattabhairava Manuscript : IFP/EFEO transcript T1020 Description: Rites and Mantras relating to Unmatta Bhairava the Ecstatic Bhairava.He is one of a group of eight Bhairavas of which the most well known is Svacchandabhairava. Similar manuals for the other Bhairavas have not yet been traced. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 8, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### उन्मत्तभैरवहृदयम् || श्रीगणेशाय नमः || ओं नमः शिवाय || ओम् उन्मत्तभैरवाय नमः || श्रीदक्षिणामूर्तिरूवाच - श्र्णु रुद्र महाभाग कारुणि पुरुषोत्तमः | उन्मत्तभैरवो यन्त्रधारणो बुद्धिमताच्छृणु || १ || लिङ्गाकारं लक्ष्मीबीजं खण्डं भङ्गं त्रियुग्मकम् | पताकां पादविं मायां चतुर्मार्गप्रकाशिताम् || २ || परिखाभिः परिमितां कोष्टे बिन्दुसमन्विताम् | येऽत्र मध्ये शेषरूपं मुण्डपक्तिविराजिताम् || ३ || महावासुकिनागेन वेष्टिता वादलाञ्छना | शस्त्रैः पाषाण अस्त्राभ्यां वेष्टितै चामरैर्युता || ४ || नानाशस्त्रं च घण्टां च वृत्तद्वारसमन्विताम् | भैरवो नामयन्त्रैश्च लक्ष्मीं स्त्रीं कामराजिता || ५ || वरवर्णाबीजयुक्तां सदारं सकला महान् | येते यन्त्राणि भैरव्या प्रसिद्धं शंकर शृणु || ६ || धारयेत्साधक श्रेष्ट यं लिखेद्रक्तचन्दनैः | मारणे शत्रुसंहारे मार्जारैः शोणितैर्लिखेत् || ७ || प्. २) वशीकरणकार्येषु लिखेत्स्त्रीरजधारया | उच्चाटने च उन्मादे मोहने शत्रुपिडिते || ८ || साधकै शोशितै पद्म्यां तल्लिखेद्भूर्जपत्रकम् | एको आचारमात्राणां वलिदानै पृथक् पृथक् || ९ || मारणे घातयेन्मत्स्यं स्मशाने रजनीमुखे | शत्रुसंहारकाले तु कृष्णमेषं समर्पयेत् || १० || वशीकरणमोहन्यां मार्जारं घातयामि ते | उच्चाटने च उन्मादे सूकरं घातयामि ते || ११ || रात्रौ पूजां भैरवस्य यन्त्रराजो महेश्वरः | नानामांसै त्रिखण्डाभि मत्स्यमांसादिसंयुताम् || १२ || पूजां चकार भक्तिर्वा वाञ्छाकामो भवेत्फलम् | यच्चक्रं धारयेत्सिद्धिं मरमानन्दसुन्दरी || १३ || बालानां सुखबोधाय यत्रराजो महात्मनः | स्वचक्रैर्परचक्रैर्वा डंकिन्यादयतोषिका || १४ || उन्मादभगनाशार्थं पूजयेद्भैरवाय च | छागैवलि प्रयुक्तारै भूत्वा धार वारुणिम् || १५ || अनेकार्थं यन्त्रराजो समाधानं भवेच्छिव | पूजां चकार विधिना दद्यात् चेत्कारणं बलिम् || १६ || इति उन्मत्तभैरवयत्रोद्धारः शुभम् * * * * प्. ३) || श्रीगणेशाय नमः || ओम् उन्मत्तभैरवाय नमः || श्रीदक्षिणामूर्तिरुवाच - कीलकं नाथनाथस्य त्रिवेदं सयुतै समा | ऋग्यजुः सामवेदानां मन्त्रराजो महेश्वरः || १ || पर्येषणानां मन्त्राणां दिव्यचक्षुर्भवेन्नृणाम् | मन्त्राणां विद्युसामर्था नानामन्त्रेषु कीलकम् || २ || यद्विदार्यै भैरवस्य पातकं पातकस्य च | नानामोक्षार्थ भिन्नार्थै भावाभावेषु भैरवः || ३ || अमावास्यां चतुर्दश्यां दशमी द्वादशी तथा | भावयेत्पूजक श्रेष्टै अनुराधा विरोधिताम् || ४ || मासे मासे पक्ष पक्षे उत्तमोत्तममङ्गलैः | वैशाखे फाल्गुने माघे कार्तिके मार्गशीऋषयोः || ५ || अन्यमासै विभिन्नानां पाठकै कृष्णपक्षयोः | धाराभिः सप्तमध्येषु भानुसोमविभिन्नतः || ६ || मारणमोहनं चैव वशीकरणताडनम् | उच्चाटनेन संयुक्तै यत्पृथक् पूजयेद्गुरुः || ७ || समाधाने ध्यानगम्यै वशिष्टैमुनिकीलकैः | विश्वामित्रैः कीलकञ्च भारद्वाजौ समाविसत् || ८ || प्. ४) त्वमेव कीलकं सिद्धममनानि कीलकम् | सर्वेषां कीलकं कृत्य भानुचन्द्रेण कीलकम् || ९ || तस्मात्कारुणि हे रुद्र नित्यं धारणकीलकम् | पठेद्वा धारयेत् श्रेष्टै यन्त्रस्तोत्रै विधानतः || १० || एतन्मतं कीलकस्य भैरवस्य महात्मनः | पुनः कवचमाहात्म्यं विस्तराच्छृणु शंकरः || ११ || इति श्री-उन्मत्तभैरवकीलकं समाप्तम् | शुभम् | अथ मुद्रा - सुमुखं संपुटं चैव विततं विस्तरं तथा | महांकुशी महामासां वरदाभय संयुताम् || १ || मत्स्यकूर्मो वराहाणां धेनुमुद्रा प्रदर्शयेत् | मुद्रा द्वादश यत्कर्म कीयते कवलं कृता || २ || शुभम् प्. ५) || श्रीगणेशाय नमः || ओम् उन्मत्तभैरवाय नमः || श्रीमहादेव उवाच - हं गुरो जगतां नाथ त्रैलोक्यभार्गवः कविः | ब्रह्मर्षिमुनिशार्दूल तत्रराजो ऋषेश्वरः || १ || उन्मत्तभैरवो धीमान् नाम्नामाश्चर्यरूपिणः | निर्लज्जो परमानन्द घोररूपो भयंकरः || २ || तस्योत्पत्ति ततः कार्यं कारणे किं प्रकाशिका | श्रोतुमिच्छामि हे नाथ तत्पचांगं फलं समाः || ३ || कथयामि प्रसन्नोऽस्मि कथं चोन्मत्तः भैरवाः | यत्र मन्त्रादि तन्त्राणां किं किं काले प्रविश्यताम् || ४ || निःशेषो वदतां नाथ शिष्यं दृष्ट्वा प्रसन्नताः | इति वदित्वा लोकेशः स्थित्वाग्रे गुरुसन्निधौ || ५ || अञ्जलिं बद्धयामास प्रणम्य च मुहुर्मुहुः | जगच्चैलोक्यगुरुणा प्रसन्नं भवति क्षणात् || ६ || श्रीदक्षिणामूर्तिरुवाच - शृणु शिष्य महाबुद्धे देवानां देवपूजिता | भक्तिसंतोषिकावाक्यं धन्यो मां भवशेवकाः || ७ || परमानन्द चोन्नत्या धीमान् चित्तं भवत्कृता | नामानि द्वादशाख्यानि आदौ शृणु महेश्वरः || ८ || प्. ६) ओम् अस्य श्रीपरमानन्दमूर्ति चोन्मत्तभैरव द्वादशनामानि मूलमन्त्रस्य नेमुन्यादि ऋषिः ऋग्यजुः सामाथवाणि गायत्री छन्दः श्री उन्मत्तभैरवो देवता ओं परमानन्द बीजं चोन्मत्तः शक्तिः भीमडाकिन्यादि संहारकीलकं मधुमांसादि व्यतिरिक्त चतुर्विधपुरुषार्थ सिद्धये जपे विनियोगः || ओं ह्रीम् अङ्गुष्ठाभ्यां नमः ओं परमानन्द ह्रीं तर्जनिभ्यां स्वाहा || ओं उन्मत्तभैरवो देवता मध्यमाभ्यां वषट् | ओं डाकिन्यादि दोषनिवारणाय हूम् अनामिकाभ्यां हूं || ओं निर्लज्जो भीषणमूर्तये कनिष्टिकाभ्यां वौषट् || ओं ह्रीं ह्रीं परमान्दमूर्तये प्रं प्रं प्रं मम लवरयीं ह्रीं उन्मत्तभैरवाय हूं करतलकरपृष्टाभ्यां फट् | एवं हृदयादि न्यासान् कृत्वा || दण्डवत्प्रणमेत् || ओम् उन्मत्तं प्रथमं नाम द्वितीयं भैरवम् तथा || तृतीयं भीमरूपा च चतुर्थं योगिनीपतिः || ९ || पञ्चमं मातृकानाथं निर्लज्जो चैव षटमम् | सप्तमं परमानन्दमष्टममष्टभैरवाः || १० || प्. ७) नवमं गणनाथं च दशमं डाकिनी हतः | घोर एकादशं नाम द्वादशा सात्विकी समा || ११ || एत द्वादशनामानि उन्मत्त भैरवो हरः | हृदयं तत्प्रवक्ष्यामि शृणु शिष्य महेश्वरः || १२ || हरिः ओं तत्सत् पारमेश्वरतन्त्रे वाराणसी पटले श्री-उन्मत्त भैरवोपाख्याने गुरुरुद्रसंवादे श्री-उन्मत्तभैरवस्तोत्रं शुभम् || २९७२ || ओम् उन्मत्तभैरवाय नमः || श्रीदक्षिणामूर्तिरुवाच || उन्मत्तभैरवो धीमान् तस्य वै हृदयं शृनु | वक्तुं रहस्यं देवेश कथयामि हर त्वया || १ || मनोवाञ्छा भवेत्सिद्धि हृदयं भरवस्य च | मन्त्रेण सहितो रुद्र भैरवोत्पत्ति सर्वदा || २ || पुराकल्पे समुद्भूते हरि बौद्धस्वरूप धृक् | तस्य शक्तिर्विरुद्धाङ्गी लोके सन्ताननाशिनी || ३ || पुत्र तृतीयं तेषां वै सुता स्त्री तस्य डंकिनि | नाम्ना पृथक् पृथक् रुद्र त्रैलोक्यशिशुनाशकाः || ४ || धूम्रमातङ्गिनी बुद्धा बौद्धरक्षाकरोतु मे | डंकिन्या ज्येष्ठपुत्रस्य नाम्ना भूद्धूम्रलोचनः || ५ || प्. ८) धान्यमालि ज्येष्टपुत्री धूम्रबीजं कनिष्टिका | धूम्रिनी तद्भगिन्या वै वकबन्धकनिष्टकः || ६ || व्यंकतिति भ्रवणान्ते शृणु नामानि षट् शृणु | मातृभ्यां सहितो सप्तलोकेनासंति सन्ततिम् || ७ || ब्राह्मणान् क्षत्रियान् वैश्यान् पुत्रपुत्रीषु पीडिता | तस्मात्कारुण्य हे रुद्र भवानुन्मत्तरूपधृक् || ८ || निर्लज्जो निरहंकारो स्वाभावं रहित त्वया | न जानामि प्रकारेण शृणो आत्ममां पुरे || ९ || मायातीतं जगत्सर्वं भवान्मायासमुद्भवः | शृणु शिष्य भवल्लीला महात्मो मत्तभैरवः || १० || ओम् अस्य श्री चोन्मत्तभैरव हृदय मूलमन्त्रस्य व्याघ्रवदन भैरव ऋषिः शार्दूलद्वन्द्वः श्री-उन्मत्तभैरवो देवता रां रां रां लं वं बीजं त्रां त्रां त्रां एं हुं हुं हुं हा हा हा शक्तिः मानुषी शंकष्टनाशन कीलकं चतुर्विध पुरुषार्थ सिद्ध्यर्थे डाकिन्यादि दोषनिवारणार्थे जपे विनियोगः || ओं रां फ्रूं पमलवरयीं पूर्वमूर्तये नमः || हुं || ओं तां ऐं अमलवरयीं आग्नेय मूर्तये नमः || हुं || ओं आं जं कमलवरयीं आनन्दमूर्तये ज्रूं यममूर्तये नमः || हुं || ओं तः तः तः त्रीं त्रीं तमलवरयीं नैं नै-ऋतमूर्तये नमः || हुं || प्. ९) ओं व्रां वाहने व्रूं वमलवरयीं वरुणमूर्तये नमः || हुं || ओं मं मारुते म्रैं म्रैं ममलवरयीं महानुभावमूर्तये मरुतमूर्तये नमः || हुं || ओं क्रं क्रं क्रं का का का कारुणि कुहु कुहु कुहु ह्रीं धमलवरयीं धः धनेश्वरमूर्तये नमः || हुं ईं ईशानमूर्तये फट् मन्मातमूर्तये ईं भमलवरयीं पशुपतये ह्रीं ईशानमूर्तये नमः || हुं || ओं तेजसां पतये नमो नमो आकाशात् श्रीं ह्रीं अकसलवरीं आं आकाशमूर्तये नमः || हुं || ओं अधो आन्तरि क्ष्रें कलश्रीं *? अन्तरीक्षं अन्तरीक्षमूर्तये नमः || हुं || ओं भ्रूं अध भमलवर हूं अधमूर्तये नमः हुं || ओं डाकिन्या दलनाशका वरूथिता सानन्दमूर्ति जटास्वभावं रहिते सदाशिवप्रियां नानात्वमूर्तिधरा || नाराच्यं नंटिना प्रणौमि सततं मालोलपिङ्गैर्जटा निर्लज्जा भयनाशका सुरपते वाराहि कान्तो हरः || इति आदि आदिध्यानम् अथ षोढान्यासः || ओं शीं शमलवरयीं शिरसे स्वाहा || ओं शीं शिखाभ्यां समलवरयीं स्वाहा || ओं भ्रां भमलवरयीं भृं भृकुटिभाले स्वाहा | ओं त्रां त्रां दक्षिणे नानारसभक्षिणे दमलवरयीं दक्षिणे नाशिकाय स्वाहा || ओं त्रां त्रां वामे व्रूं वमलवरयीं वामनाशिकाय स्वाहा || प्. १०) ओं कं कं कं कमलवरयीं क्रां दक्षिणकर्णाय स्वाहा || ओं क्रं क्रं क्रं कमलवरयीं कः कुरु वामकर्णाय स्वाहा || ओं वाक् व्रूं व्रूं वमलवरयीं वाक् द्वाराय स्वाहा || ओं कं कण्ठाय कमलवरयीं कण्ठाय स्वाहा || ओं ह्रां ह्रां ह्रां हमलवरयीं क्ष्म्रीं ह्रीं हृदयाय स्वाहा || ओं यमलवरयीं उदरे स्वाहा || ओं नां नाम्नीं रमरधमलहीं नाभिमूर्तये स्वाहा || ओं लिं लिङ्गं लमलवरह्रीं लिं लिङ्गाय स्वाहा || ओं ज्रां ज्रां नुं ज्रुं जमलवरह्रीं दं दक्षिणजंघाय स्वाहा || ओं व्रां व्रीं व्रां ज्रां जानुं हुं जमलवरह्रीं व्रां वामजंघाय स्वाहा || ओं प्रां द्रूं दक्षिणघमलतरीं दक्षिणपादाय स्वाहा || ओं प्रां प्रीं द्रूं लमलवरयीं वामपादाय स्वाहा || ओं ऐं ऐं ऐं अमलवरह्रीं अङ्गुष्टाभ्यां नमः || ओं आं आं आं तः तः तः तमलवरह्रीं तर्जनिभ्यां नमः || ओं ह्रूं ह्रूं ह्रूं म्रीं म्रीं ममलवरह्रीं मध्यमाभ्यां नमः || ओं कं खं गं घं ङं आं आं अमलवरह्रीं अनामिकाभ्यां नमः || ओं क्रां क्रीं क्रूं क्रैं क्रौं क्रः करलवरहीं कं कनिष्ठिकाभ्यां नमः || समाधानं ह्रैं अं समधलरवध्रीं कां हूं करतलकरपृष्टाभ्यां नमः ओं ह्रीं ह्रमलवरयीं हृदयाय नमः || प्. ११) ओं ऐं श्रीं शमलवरयीं शीं शिरसे स्वाहा ओं समलवरध्रीं शं शिखायै वषट् || ओं क्रां क्रीं कवचलवरहीं ओं कवचाय हुम् ओं * * * * * * * * * * * कनिष्टिकाभ्यां वौषट् || ओं फट् ३ हा ५ ह्रीं अमलवरयध्रीं ओं अस्त्राय फट् || ओं सं सां समलवरध्रीं सर्वाङ्गमूर्तये स्वाहा || ओं श्रीं श्रीं श्रमलवरह्रीं श्री-उन्मत्त आनन्दमूर्ति नामा ममलवरयीं रक्ष रक्ष दिग्बन्धनम् || ओं भ्रां भैरवाय कर अधकर पृष्टाभ्यां नमः ओं आनन्द मूर्तये स्वभावरहिताय कनिष्टिकाभ्यां नमः ओं व्रां वाराहि पतये व्रूं अनामिकाभ्यां नमः || ओं अं अघोरमूर्तये मूर्तये घ्रूं मं मध्यमाभ्यां नमः || ओं हूं डाकिन्या माननाशकाय हूं तं तर्जनिभ्यां नमः || ओं अद्भुताकारमूर्तये सर्वभयभञ्जनाय अंगुष्ठाभ्या नमः || ओं भूतप्रेतपिशाचनाशनाय भयभञ्जनाय दिक्पालाय ह्रीं दिग्बन्धनम् || फट् हूं भैरवनाथाय अस्त्राय फट् || द्वादशवाहवे बाहुधराय सर्वे ह्रीं अरिमर्द्दनाय हुं कवचाय हुम् | नानामूर्तये म्रं म्रूं दीर्घच्छन्दसि शिरसे स्वाहा || इति न्यासः प्. १२) वन्दे ज्वालमयोपते सुरगुरुं नानृत्य मातृपते सानन्दाभयभञ्जिताहरप्रियां षट् हुं युग्मं प्रियां * * || वाराही धृतवानसां पशुपति डाकिन्यविध्वंसिता वन्दे मत्तहरं भयं भुवरवं नत्वा गुरुं भैरवम् || इति ध्यानम् ओं श्रीं उन्मत्तभैरवाय विद्महे स्वभावरहिताय धीमही भवान् रुद्रः प्रचोदयात् || ओं भीमेश्वराय विद्महे लम्बकणाय धीमहि मान इन्द्रः प्रचोदयात् || ओं ह्रीं आनन्दाय विद्महे रत्नमुकुटाय धीमही लज्जाहीनः प्रचोदयात् || इति गायत्री || अथ मूलमन्त्रः ओं ऐं ह्रीं श्रीं उन्मत्तभैरवो हुंफट् दुष्टडाकिनी तेजं नाशय ममाभयं कुरु २ हुं डाकिनीं मारय मारय स्वाहा || चत्वारि सम्भवान्मन्त्रगायत्री सहितेन च | जप्त्वारण्ये श्मशाने वा क्षेत्रे वाराणसीथवा || १ || अशीतिलक्ष्य जप्त्वा वान् चित्तामणि भवेत्तरः | मुक्ताप्रवालै रुद्राक्षै फटिकाक्षैस्तथोत्तमैः || २ || प्. १३) उत्तमो हेमगुटिका मध्यमो रजतां गुटिः | मालाभिः शृणु शिष्यत्वं ग्रन्थिता ऊर्णसूत्रयः || ३ || गोमुखी तु परिमिता कृष्णवर्णोत्तमोत्तमाः | ऊर्णापवित्रवस्त्राङ्गम् आसनं साधकैः शृणु || ४ || उत्तमो नरचर्म स्यात्तदन्तहस्तिलाञ्छना | व्याघ्रचर्मो मध्यमारस्यादधमो मृगचर्मणा || ५ || पूजाविधानं हे रुद्र शृणु विस्तरतो भवान् | साधकेभ्यो नरश्रेष्ट कर्तव्यं भैरवस्य च || ६ || जलमानीय गङ्गाया सकल्प विधिपूर्वकम् | पूजां चकार भीमस्य अर्धरात्रेषु उत्तमाः || ७ || एकाकी शिष्यसहिता वरधूपं प्रशस्यताम् | श्रीखण्डचन्दनैर्युक्तां रक्तचन्दन संयुताम् || ८ || सिन्दूरै श्रीञ्च संयुक्तां नानागन्धानुलेपनाम् | दृष्टिर्पताकासंयुक्तां नानावस्त्रसमाकुलाम् || ९ || चाक्षतैर्कृष्णवर्णाभां यवैश्च तिलसंयुताम् | कृष्णसूत्रोपवीताङ्गां नवतन्तु समन्विताम् || १० || पुष्पै नानाविचित्राङ्गां सुगन्धां सुमनोहराम् | जपाकङ्कोलमालत्या पारिजातादिरञ्जिताम् || ११ || प्. १४) निंवोसारमयि सुधां सुगन्धामतसारसाम् | चन्द्रादित्यमयो रूपां तेजोमूर्तिमनोहराम् || १२ || काञ्चनैः संयुतां दिव्यां धूपदीपैः समन्विताम् | पूजां कृत्वा भीमरूपं भैरवं भोजनं ददे || १३ || नानापक्वान्नसंयुक्तैर्नानारस समन्वितैः | सक्कृच्चार्पयते देव नैवेद्यम् अर्पिता हरः || १४ || फलै नाना इक्षुदण्डनारङ्गैः कदलीफलैः | आम्रै मधुरसैर्युक्तैर्नैवेद्यं भानुरीश्वरः || १५ || तर्पणैमधुरोन्मत्तै ह्रीं बीजैस्त्रिविधैरसैः | कर्पूरैरर्पितादेव अर्घ्यं दद्यात् पयोऽमृतैः || १६ || पूगीफलैश्च ताबूलै खादिरादिमनोहरैः | सुवर्णं रजतं ताम्रं दक्षिणां चार्पयेत्किल || १७ || अथ पुष्पाञ्जलिस्तोत्रं मधुपानय भोजनम् | चकार विधिवत्पूजामाचार्यं चोपलभ्यताम् || १८ || ओं नमो रुद्राय देवाय सत्वनां पतये नमः | भवाय नरसिंहाय उन्मत्ताय नमो नमः || १९ || भैरवो लोकनाथाय लोकानां पतये नमः | नमः स्त्रैलोक्य नाथाय सत्वनां पतये नमः || २० || प्. १५) इति पठित्वा लाजा च पूर्तये तत् गुलालकैः | गुग्गुलैर्व्याप्तयेधूपं जपं विधिविधानतः || २१ || ओंकारो शिवभक्ति स्यात्त्रैलोक्यं व्याप्तयो जगत् | ऐंकारो कामराज स्यात्कामानुसार संयुताम् || २२ || भैरवी संयुतां बीजं भैरवीं व्याप्तयो जगत् | ह्रीं मायामातृकाबीजं देवगृहसमन्विताम् || २३ || ह्रीं बीजैरिति मन्त्रेषु गौर्यादिव्याप्तयो जगत् | उकारो विश्वकर्ता च विश्वेश्वर प्रशस्यताम् || २४ || लक्ष्मीबीजादिकं व्याप्तं महालक्ष्मी प्रणम्यताम् | महालक्ष्मी जगद्बीजं सकलं व्याप्तयो जगत् || २५ || नकारश्च मकारश्च विष्णुरिन्द्रो वसेत्सुखम् | ततः सर्वे कुमाराभ्यां अश्विनीमरवैद्ययो || २६ || भं बीजै भयहर्ता च स्वयं भैरवभानुमान् | ऐंकारसहितै बीजै भयै भैकारमुच्यते || २७ || रविजं रविरूपत्वं वबीजं वरुणस्तथा | ओंकारसहितो बीज वोकारो द्वन्द्वयुग्मकम् || २८ || प्. १६) हुं क्रोधैरसिताङ्गैस्तु अनुस्वारसमन्वितै | द-उवर्णौ प्रसङ्गानां दुकारः योगिनीः स्वयम् || २९ || सकारञ्च तकारञ्च संयोज्यं युग्मवर्णयोः | भवां मायां च सहितं तकारैश्च स्वयं शिवः || ३० || आं बीजैः सहितां बद्धां दकारमातृका स्वयम् | इकारो सहितो वर्गो आदिवर्गैः सरस्वतीः || ३२ || ईकारसहितै वर्गाः नकारो बीजमुत्तमाः | चतुः समुद्रां संयुक्तां वारिबीजं निकारकः || ३२ || तवर्गबीजं एकारसहितैरिन्दुवासिकाः | इन्दुरूपस्वयम् ब्रह्मा ब्राह्मणो नृपसत्तमाः || ३३ || ऐंकारबीज उक्तामान् अकारसहितं मुदा | जवर्गसंयुतां पुण्यां जयमङ्गलसंयुताम् || ३४ || आकारैः सहितां वद्धा नवर्गो नृत्यदैवता | सकारसुन्दरी देवी यकारो चैव पार्वती || ३५ || मकारं च महालक्ष्मी माकारो कालिकास्तथा | भकारो भयहर्ता च यकार भैरवी स्मृता || ३६ || कुबीजं चैव उन्मत्तं रूं बीजं ललितास्तथा | हुं बीजं निःस्वभावं च कामरूद्रस्तथैव च || ३७ || प्. १९) हूं हूं वर्णैश्च संयुक्तां पूर्वो पर तथैव च | डाकारो डाकिनी वर्गैकिकार किंकिणी तथा || ३८ || निवर्णै क्षेत्रपालैश्च ते कारो परमेश्वरः | मा मृत्युरमयां कान्ताद्वन्द्ववर्णप्रयत्नतः || ३९ || माकारैश्च माकालीरीकारो भीमभैरवः | यकारो यमभक्ताश्च वह्निजायाः प्रणम्यताम् || ४० || काशिनाथं रमानाथं यदुनाथं नमाम्यहम् | श्रीमहाभैरवोन्मत्तौ स्वभाररहितं स्वयम् || ४२ || हाहाकारै होम धूपै हुहु शब्दस्तथैव च | साख्ययोगै पानपात्रै मुण्डमालाविराजितै || ४२ || खड्गखट्वाङ्गपाशं च वज्रं घटाम्बिकापतिम् | नागबूषण शोभाढ्यां नागकुण्डलशोभिताम् || ४३ || नागहारविभूषाढ्यां व्याघ्रचर्मोत्तरीयकम् | पाणौ कात्यायनीरुद्रां वारुणीं वरुणाधिपाम् || ४४ || चामुण्डापतये तुभ्यं वाराहीपतये नमः | चण्डिकापतये तुभ्यं ब्रह्माणीपतये नमः || ४५ || वैष्णवीपतये तुभ्यं नमस्त्रैलोक्यशंकर | कौमारी ज्येष्ठभात्रात्वं नमोन्मत्तैव भैरवः || ४६ || प्. १८) इन्द्राणी वज्रहस्ता त्वं इन्द्राणीपतये नमः | चामुण्डापतये तुभ्यं नाथ त्रैलोक्य भैरवः || ४७ || विजयादशमीनाथं रोगहन्त्री हराम्यहम् | हाराकाचनवर्णाभां सात्विकी राजसी तथा || ४८ || इति वाग्गुरुणा वाक्यं श्रुत्वा शंकर शाम्बवः | हृदयं भैरवो नाथ वाराणस्योन्मत्तभैरवः || ४९ || साङ्गं हृदयमुन्मत्तं यो नरः पठ्यते सदा | वाञ्छिता लभते सिद्धि नानापीडां समाकुलाम् || ५० || ग्रहभूतादिजन्तूनां डाकिनी दोषनाशकम् | कामाक्षां चिन्तिदा नित्यां हृदये धारयेत्सदा || ५१ || विद्यार्थी चाप्नुयाद्विद्यां धनार्थी लभते धनम् | मोक्षार्थी लभते मोक्षं सिद्ध्यर्थी सिद्धिमाप्नुयात् || ५२ || त्रिकाले पठते नित्यं श्मशाने शिवमन्दिरे | जपित्वा रजनीमन्त्रै हृदयं भैरवस्य च || ५३ || कीलकं तत्प्रवक्ष्यामि यन्त्रोद्धारं समाकुल | भवान्कृत्येकचित्ते भो विस्तराद्वततामहम् || ५४ || हरिः ओं तत्सत्पारमेश्वरतन्त्रे वाराणसी पटले उन्मत्तभैरवोपाख्याने गुरुरुद्रसंवादे श्री-उन्मत्त भैरवहृदयं समाप्तम् | शुभम् || सं २९७२ शा २८३६ वैशाख २ गते २ वासरे श्री उन्मत्तभैरवदास ल० प्र० अ० शर्मणा लेखी || ०२३ साल वैशाख २३ गते प्रतिलिपि ########### END OF FILE #######