#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00317 Uniform title: vārāhītantra Manuscript : NGMCP manuscript no.: 3-315 Reel No. : B 144/9 Description: Description by Mark S.G. Dyczkowski: There is another texts with this name which is much shorter and is framed as a dialogue between Rādhā and Kṛṣṇa. This Vārāhī Tantra is 4,631 verses long. Another complete manuscript is deposited in the library of Saṃpūrṇānanda Sanskrit University in Vārāṇasi. Vārāhī, is one of the eight Mothers (mātṛkā). Although Tantras bearing the names of the other Mothers have not been recovered, Lakṣmīdhara quotes a verse in his commentary on the Saundaryalaharī which lists them as a standard group of Tantras. This Vārāhītantra associates itself with Kāmarūpa which is where it may possibly have been redacted. The colophons state that it belongs to the Dakṣiṇāmnāya. It draws extensively from other Tantras but also contains much original material. Indeed, it is a veritable compendium of śākta ritual procedures. It is quoted in several texts. These include the Mantramahārṇava, Tārābhaktisudhārṇava, āgamakalpalatā, Saubhāgyabhāskara, Tārārahasyavṛtti, āgamatattvavilāsa, Sarvollāsatantra, the Bengali Tantrasāra and Lakṣmīdharas commentary on the Saundaryalaharī. It is also quoted in the Puraścaryārṇava which is attributed to the Nepalese king, Pratāpasiṃhaśāha. It is known to have been which was completed in 1775 ce, thus establishing the terminus ante quem for the date of the Vārāhītantra. Incidently, this fact demonstrates that the aforementioned texts must all be later. Practically all colophons are in the following simple format: iti śrīvārāhītaṃtre dakṣiṇāmnāyanirvāṇapade mahātirahasyataṃtrāvatāre prathamaḥ paṭalaḥ || 1 | Notes: Revision 0: Nov. 15, 2014 Data-entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) ओं नमः श्रीसुंदरीकालिकावाराहीदेव्यै नमः || कामरूपे महापीठे रुण्डमुण्डोपरिस्थिते | नानागणसमाकीर्णे विचित्रयोगिनीगना || यस्या योग्य समादाय वाहनं च पृथक् पृथक् | तन्मध्य संस्थिता वीरः प्रचण्ड सूकरासनः || भावयुक्त नमस्कृत्य प्रप्रच्छ गुह्यकालिका | युक्त्वामृत कथं नाथ सर्वत्र श्रेष्ठ किं भवेत् || कौतुकं च मयाश्चर्यमपवित्रपवित्रकं | वाराहीसंज्ञया तंत्रं ध्यानागमकथं प्रभो || किंचित् स्मरणमात्रेण चतुर्वर्ग प्रकीर्तिता | नमस्कृत्य पुनप्राह विस्मयोत्फुल्ललोचनं || श्रीचण्डभैरव उवाच || शृणु कालि प्रवक्ष्यामि चित्तमादायगोप्तितं | पुराकृतयुगस्यार्धे विख्याता भुवनत्रयं || विडाल राक्षसः प्रोक्तं गजशूलायुधाकरं | उपद्रुता जगत् सर्वे युद्धाजय महावलं || तस्या उपासिता देवी वाराही सुमुखी सती | तस्या वश्य यदा दासी आज्ञा काली च तत्परः || कदाचित् नाममात्रेण वेक्तिता देवताश्रय | कम्पितांगोतिभीतिश्च निस्वासलुप्त संस्थिते || श्रीदेव्युवाच || कुत्रस्था गृहसंस्थाने दिग्द्वारमार्गपालकाः | एवं वीरकथं हत्वा मर्दिता केन भैरव || सत्यं व्रूहि महावाहो कोलध्वज महावलः | कां विद्यां लहता देवि विडालस्य वधार्थकम् || प्. १ब्) प्रचंडौवाच || शृणु देवी वरारोहे हेतुयुक्त वदाम्यहं | वनवासगते पूर्व रामलक्ष्मणजानकी || रावणस्य वधार्थाय देवता नर संभवः | किंचित् कालांतरे तत्र वनैकांतर जानकी || दानवे हरिता शीताद्धृते लंकापुरी गता | वेदेहीं च न दृष्टायं रामलक्ष्मणरोदितं || भ्रमतावन सर्वस्था वन शैलं च जंगमः | तेषां लभ्य महादेवी दैवसंयोगसंयुतं || शैल ऋक्ष मुखस्थाने कपिंद्रगणसन्मुखे | लभंते रामचंद्राग्रे विस्मृतं कपि पृच्छतं || कस्त्वं मनुष्यरोदायं किं दुःखं च समागमः | वक्त्रा शिघ्रं तु तत्सर्वं वस्त्रचिह्नं ददाति च || प्रचण्डौवाच || अहं न भाषिता देवी रामायण विचित्रता | मुक्तमाणिक्य सौवर्णं ग्रंथितालचिता यथा || वशिष्ठ उवाच || वशिष्ठलचिता ग्रंथ को व्रुवंति पृथक् पृथक् | रामवाण प्रयोगेन वाली प्राण हता गता || मित्रसंभाषनश्चेति रामसुग्रीवमर्कटः | परस्परौपकारेण प्रीतिमन्योन्यवर्द्धनं || तेषां सुग्रीवमुत्थाय नामाग्रे च निवेदयेत् | शृणु वालि सुतादीनि सहंतीसोगनाधिप || सर्वस्थाने चतुर्दिक्षु कुत्रस्था जानकीसजी | दृष्ट्वा संभाषणं कृत्वा शिघ्रं दृष्टामिहा गता || इति श्रुत्वा वालिमुख वलवीर्य पराक्रम | रामचंद्रादि सर्वेषां योग्यमार्ग नमस्कृता || रामलंकृतमादाय उदिता तिक्ष्णनादिता | लंकां गत्वा चतुर्दिक्षु दृश्यता कपि वल्लभः || प्. २अ) तेषांमशोक वनिका वैदेही दृश्यता कपि | नमस्कृत्वाति गुप्तेन यथा युक्तेन लंकृत || पूर्णकुंभे पतंती च मयिनी मध्यगुंथित | युक्तसंभाषणश्चैव जानकी लंकृतालयौ || नमस्कृत्वा प्रणामं च पुनौद्दिता महाकपिः | प्राप्तिंता शिघ्ररामाग्रे नमस्कृत्य प्रणम्यति || वाक्या लंकृतदास्याय रामचंद्राग्र विस्तरात् | एवं श्रुत्वा राघवानां सुग्रीवादि गणै सह || चतुरंगानेक सैन्य वलवीर्य प्रतापवान् | सर्वं गत्वा च संग्राम द्वारलंका तदाश्रय || लभंते सहसैन्येषां घोरविग्रहनादिता | तत् शब्द श्रुति लाभाय स सैन्य संयुता गतः || विडाल तिक्ष्ण दंष्ट्रा च गज शूत्वा युध द्वयः | अनेक गण संकीर्ण योद्धुता सन्मुख स्वयं || तेषां क्रोध समादाय हनुमंतोद्दिताय वै | लोहमुद्गरमादाय हन्निना पतिता यथा || काष्ठपाषाणशैलस्था यथा पतितराक्षस | इति दृष्टा विडालोयं स्मरेद् भीति परायते || वाराही मातमातंहीसंकस्तोहंतरेति च || विडालौवाच || आगतोसि महादेवी शूलखर्परधारिनी | संकष्टतारिणी देवी वाराही भयहारिणी || इति श्रुत्वा जगद् व्यापी माता त्रिभुवनेश्वरी | कार्तिशूलधरायं वै द्वाराग्रे शिघ्र लभ्यते || हूं हूं हूंकार नादायं घस्मरंति स सैन्य च | ग्रासिता घटिता सर्वे हनुमत् राम वर्जयेत् || प्. २ब्) इदं दृष्ट्या रामचंद्र मुर्च्छितोयं निपातिता | दृश्यता वलि मुख्याभि विस्मृतोयं महावल || रोदिताराधनं कृत्वा दुर्वासा मुनि मौक्तिका | नाथनाथादि शीष्टात्वं सत्वरागमतत्परं || मंत्रवाणसरश्चापकोट्याग्नि तेज मालय | श्रीरामचंद्ररक्षार्थं आगतोसि जगद्गुरु || ध्यानार्थी मुनिशार्दूल संकेत शब्दश्रूयते | वायुवेग महामंत्र स्मरेद् गमन सत्वरं || धावंति लंकाग्रे तत्र लंभते कपि सन्मुख | कपिं दृष्ट्वा द्विजं दाछस सैन्य कुत्रगामिना || मर्कटौवाच || शृणु विप्र महानाथमिदं भगवति स्वयं | घस्मरेद् ग्रासिता सर्वे सुग्रीवलक्ष्मणादिन || मयाभौभीतिता स्थित्वा तस्या स्मरण सत्वर | किं करोमि महाविप्र युक्त प्राप्ति स सैन्यका || दुर्वासौवाच || सामृतोदकसिंचोयं वेटिताराघवं दृशेत् | मुनि पाद समादाय प्रणम्परोदितं स्थितं || दृष्टोति मुनिकारुण्यं द्विकरे वाहु पृष्ठता | उत्थाय चुंविता वक्त्रा न रुदंति महानृप || वामौरौ रामसंस्थाप्य दक्षरौ स्थाप्यते कपि | जापिता मुनि विप्रेंद्र वाराहि मंत्रनायिका || मंत्रवाण धनुश्चंद्र वाणमंत्र सु सिद्धिदा | तस्यासौ त्यक्ततां गत्वा देव्याग्रे मुनि सत्वरं || स्तोत्रं कृत्वा मुनिंद्रोयं मंत्रं च जपमाचरेत् | अस्य श्रीमंत्रवाराह्या दुर्वासा ऋषयस्तथा || छंदोनुष्टुप् महादेवी वाराहिं देवता स्मृताः | सर्वदुष्टारिभंगा च विनियोगः प्रकीर्तितः || प्. ३अ) वाग्भवं पूर्वमुच्चार्य मायावीजं ततो वदेत् | लक्ष्मीवीजं ततः पश्चा ख्फ्रें वीजं समुद्धरेत् || वाराही च ततो ङेंतां वह्निजायांतको मनुः || चौहारपीठनिलयां वर शूकरास्यां घाणाविहारण परां महिषासनस्थां | हूंकार पीठनिलयांगणवेष्टं मानां वाराहिकां भवंभयकरणी नमामि || चण्डासुरारिहरणी मृगराजसंस्थाशंखेंदुकुंदधवलां कमलायताक्षी | पाशांकुशाक्षदधती मुनिदेववंद्यां पायात् सदावरुनदिग्दल शोभितासां || ओं ह्रीं ग्लूं ऌं व्रीं स्वाहा || इति ते कथितं कालि वाराहि मंत्रमुत्तमं | उत्पत्ति कथितं सर्वं किं मन्यच्छ्रोतुमिच्छसि || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्यतंत्रावतारे प्रथमः पटलः || १ | | श्रीदेव्युवाच || चतुस्पीठसमायुक्तं षट्प्रकारसमन्वितं | वालक्रमसमोपेतं श्रीक्रमं प्रणमाम्यहं || योगिनीपीठमारूढं श्रीक्रमं प्रतिवादिनीं | नित्यानंदकरी देव्यां श्रीदेवी प्रणमाम्यहं || संसारपारनिस्तारं पारायणमनुत्तमं | परापरविभेदज्ञं श्रीगुरुं प्रणमाम्यहं || आणवं सांभवं चैव शक्तयेमिति च त्रिधा | वेधभक्तस्य कुर्वाणं श्रीगुरुं प्रणमाम्यहं || प्रत्यक्षे च परोक्षे च सुतीव्राज्ञा प्रभावतः | सामर्थ्यवेधदीक्षायां श्रीगुरुं प्रणमाम्यहं || प्. ३ब्) अनादिजन्मसंप्राप्तः कर्मवंधविदायकः | ज्ञानानलप्रभावेन श्रीगुरुं प्रणमाम्यहं || अज्ञारश्मिभिरावृत्य नमो हृत्पद्म बोधकः | सर्वलोकदया नित्यं श्रीगुरुं प्रणमाम्यहं || ज्ञानविज्ञानसंपन्न अनिमाद्यष्टसिद्धिदं | रागद्वेषविनिर्मुक्तं श्रीगुरुं प्रणमाम्यहं || देव्युवाच || एहिकं मुष्मिकं कार्यं गुरुभ्यो ज्ञायते सदा | किं भूता गुरवः स्वामि प्रसादं कर्तुमर्हसि || ये केचिद् विचरं त्यस्मिं नाचाययाः पृथिवी तले | तेषां तु लक्षणं नूनं श्रोतुमिच्छामि तत्वतः || शिष्याणामपि यं व्रूहि लक्षणं दीक्षणस्तथा | समयाचारणं चैव निर्वाणं च सदाशिव || ईश्वरौवाच || साधु साधु त्वया भद्रे पृष्ठत् तत्व जिघृच्छया | सर्वं यथा क्रमेणैव * * * (?) श्रुयतामिदं || ये वेशदंभकालो वाराचार्यास्ते प्रबोधकाः | य एव पुनराचार्या न च ते वेशदंभकाः || पैशुन्यं क्रूरतासाठ्यं क्षुद्रकर्म परिग्रहः | अतीवाहमतीभावाः कौटिल्यं वा धनं तथा || अतिक्रोध महात्मादो माया च परनिंदनं | द्रव्य तृष्णा च मोहं च धूर्तत्वं कौतुकं तथा || परोपघाटीदौशीन्यं कृत्ति न व्यवहारिकः | एतैरिव गुणैर्युक्ता गर्हिता नामधारकाः || दंभकास्तेन चाचान्या न च पूजा महीतले | गुरु द्रव्याभिलाशी च योगिनी धनभक्षकाः || वीरभार्याभिकांक्षी च स्वपूजास्थान वंचकाः | प्रायश्चित्ती न संदेहो भ्रमते योनिजेच्छया || प्. ४अ) गुरुवाज्ञा लंघकोयं नरकं न निवर्तते | भये न द्रव्य लोभेन मोहाद् विषय कांक्षय || कश्चिदन्याय तस्यैव माहमार्थ प्रसिद्धये | दीक्षाविधि विहीनं तु गुणोद्भव विवर्जितः || स्वयमेवोददत्वा तु श्रीक्रमंयप्रयच्छति | तादृशश्च गुरोर्नित्यं श्रीमानाज्ञाय जीविनः || ददतो पृच्छतो वापि रौरवं नरकं व्रजेत् | निर्गुणाचार्य शिष्य संसारादि न चोत्तरे || भिन्ननावां यथा राज्ञा तथापरं न गच्छति | एवंऽदुःखरतोपेताराचार्य कुलदंभकाः || वर्जयेत् सद्गुना वक्ष्ये श्रूयतां कमलानने | तीव्राज्ञा वेध संपन्ना गुर्वाज्ञा प्रतिपालकाः || ज्ञानविज्ञान संपन्ना तुलागम विसारदाः | समाधि गुणसंपन्ना नित्य श्रीक्रमपूजकाः || निर्मोहो निष्प्रपंचाश्च नित्पदो निष्परिग्रहः | निसाध्यो निरहंकारी निस्तृष्णो निर्विकल्पकः || क्षमोधानित्य संतुष्टस्सत्यवादी जितेंद्रियः | स्वहित् स तत्परः स्वच्छ सर्वजीव दयापरः || शांतचित्त सदाचारो द्वंद्व त्यागी दृढव्रतः | न स्त्रीलोल्या न च क्रूरः क्षुद्रकर्मविवर्जितः || दंभमाया विनिर्मुक्तः क्रोधलोभ विवर्जितः | दिव्याज्ञानंद संतृप्त ऋजुसाधु सुबोधकः || आचार्यमीदृशः प्रोक्तस्तदृष्ट्वा त्रिप्रदक्षिणं | कृत्वा दंड नमस्कारं कुर्याछिष्यैः प्रयत्नतः || प्. ४ब्) भक्तियुक्त सदाकालं क्लेशं दात्मानुसारवत् | कृत्वानुग्रहलाभेन गति सिद्धिं समश्नुते || देव्युवाच || श्रीनाथ त्वत् प्रसादेन ज्ञातमाचार्य लक्षणं | शिष्यस्य लक्षणं स्वामि प्रसादं कुरु शंकर || श्रीभैरव उवाच || साधु पृष्ठं त्वया भद्रे शिष्यलक्षणमुत्तमं | कथयामि समासेन श्रूयतां कमलानने || धातुखन्य विलाक्षेत्र मंत्रतंत्र रसायणं | विषग्रहरसादौ च वादे योनाऽभिकोक्षितः || अन्यत्र निरपेक्षश्च गति सिद्धिरपेक्षकः | संसारभयभीतात्मा मुक्तिमार्गाभिलासकः || अधूर्तामतिमां शांत साठ्य कौतुक वर्जितः | अन्यं च देवता भक्ता प्रेसनार्थी प्रियंवडः || क्रोधव्यसन पैशून्य मिथ्या विनय वर्जितः | औदारं च परिच्छेदी भाव्यरूप क्षमापरः || शरीर प्राणमर्थं च सद्गुरुभ्यो निवेदयेत् | कर्मणा मनसा वाचा गुरुणा भक्तिवत्सले || मात्सर्या नात न्निर्मुक्तो नाभ्योंतर परीक्षकः | शिवतत्वाभिकांक्षी च शिष्ये यं कुलदीपक || एवं भूतगुणं शिष्ये स परीष्ये प्रयत्नतः | आचार्यो दीक्षयेन्नित्यं सु तीव्राज्ञावलोकमः || अन्यथा निर्गुणोपेतं शिष्यं यो दीक्षयेद् गुरुः | ददतो गृह्नतो वापि कुलश्रापो भवेत् सदा || देव्युवाच || स्वामि तव प्रसादेन विज्ञातशिष्यलक्षणं | तस्य दीक्षा विधानं तु व्रूहि मे परमेश्वर || श्रीभैरव उवाच || साधु देवि त्वया पृष्ठं यो दीक्षा विधितस्तथा | ताराचक्रं राशिचक्रं नामचक्रं तथैव च || प्. ५अ) अत्र चेत् स गुरोमंत्रो नान्य चक्रं विचारयेत् | विंशघद्यधिकामंत्राः मालामंत्राः प्रकीर्तिताः || नपुंसकस्य मंत्रस्य सिद्धादीन्नैव शोधयेत् | एकाक्षरस्य मंत्रस्य रालामंत्रस्य पार्वति || वैदिकस्य च मंत्रस्य सिद्ध्यादीन्नैव शोधयेत् | तारशुद्धि वैष्णवानां कोष्ठशुद्धिः शिवस्य च || राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः | वर्गचक्रं प्रवक्ष्यामि ज्योतिरागमसम्मतं || मंत्राणामरिशोधार्थं नामाद्यक्षर पूर्वकः | अष्टौ कोष्ठान् समापाद्य वर्गानष्टौ लिखेत् ततः || पंक्षिमार्जार पंचास्य गुरुसर्पाखुदंतिनः | मेष क्रमादकारादि वसुवर्गाश्रिता इमे || साध्यसाधकः यो प्रीतिर्ज्ञातव्या जातितः सदा | पक्षिमार्जारयोवैरं वैरंर्द कुक्कुर पंक्षिणो || वैरं पक्षि भुजंगानां शत्रुवं गजसिंहयोः | मेषकुक्कुरयो वैरं प्रीतियुक्त्या विचारयेत् || एवं चक्रवरं ज्ञात्वा गृह्नीया मंत्रमुत्तमं | मार्जार कुक्कुरष्कालैः पक्षिणां वैरिता भवेत् || मार्जारस्य शुनाखुभ्यां सिंहस्ये दंतिना सदा | कुक्कुरस्य खगाभ्यां तु खराखुभ्यां च भोगिन || उंदूरस्यौ तु सर्पाभ्यां हरिणा सहदंतिनः | भुजंग सिंहयोर्मैत्री गजमेषकयोस्तथा || लोकादन्यत्र विज्ञेयं व्यवहार प्रयोगतः | मंत्रारंभस्तु चैत्र स्यात् समस्त पुरुषार्थदः || वैशाखे रत्नलाभः स्या ज्येष्ठे तु मरणं भवेत् | आषाढे वंधुनाशः स्यात् पूर्णार्थः श्रावणे भवेत् || प्. ५ब्) प्रज्ञा नाशो भवेद् भाद्रे आश्विने रत्न संचयः | कार्तिके मंत्रसिद्धिः स्यात् मार्गशीर्ष तथा भवेत् || पौषे तु शत्रुपीडा स्यात् माघमेधा विवर्द्धनं | फाल्गुणे सर्वकामाः स्युर्मलमासं विवर्जयेत् || रविवारे भवेद् वित्तं सोमे शांति भवेत् किल | आयुरंगारकेहंति तत्र दीक्षा विवर्जयेत् || बुधसौंदर्यमाप्नोति ज्ञामं स्यात् तु वृहस्पतौ | शुक्रसौभाग्यमाप्नोति यशो हानिः शनैश्चरे || प्रतिपदि कृता दीक्षा ज्ञान नाशकरी मता | द्वितीयायां भवे ज्ञानं तृतीयायां शुचिर्भवेत् || चतुर्थ्यां चित्तनाशः स्यात् पंचमी बुद्धिवर्द्धनं | षष्ठ्यां ज्ञानक्षयः सौख्यं लभते सप्तमी दिने || अष्टम्यां बुद्धिनाशः स्यात् नवम्यां पुरुषः क्षयः | दशम्यां राजसौभाग्यमेकादश्यां शुचि भवेत् || द्वादश्यां सर्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता | तिर्यग् योनिः चतुर्दश्यां कृमिर्मासावसानके || पक्षांतेऽधर्मवृद्धिः स्याद स्वाध्यायं विवर्जयेत् | संध्यागर्जित निर्घोष भूकंपोल्कानिपातनं || एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत् | अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवं || कर्तिकायां भवेद् दूःखी रोहिन्यां पातकी भवेत् | मृगशीर्षे सुखावाप्तिराद्रायां मरणं ध्रुवं || पुनर्वसौ धनाढ्यः स्यात् पुष्पशत्रु विनाशनं | अश्लेषायां भवेन् मृत्युः मघायां दुःखमोचनं || प्. ६अ) सौंदर्यां पूर्वफाल्गुण्यं प्राप्नोति न च संशयः | ज्ञानं चोत्तरफाल्गुण्यां हस्तायां च धनं भवेत् || चित्रायां ज्ञानवृद्धिः स्यात् स्वात्यां शत्रु विनाशनं | विशाखायां सुखं चानुराधायां वंधुवर्द्धनं || जेष्ठायां शत्रु हानिः स्यात् मूलायां कीर्ति वर्द्धनं | पूर्वाषाढोत्तराषाढे भवती कीर्ति दायिके || श्रवणायां भवेत् दुःखी धनिष्ठायां दरिद्रता | बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् || सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्तिवर्द्धनं | शुभश्च सिद्धिश्चायुष्मान् ध्रुवयोगस्ततः परं || प्रीतिः सौभाग्य योगश्च वृद्धियोगस्ततः परं | हर्षणश्च तथा योगाः सर्व तंत्रे सुखावहाः || अन्य योगं प्रगृह्नीया विपरीत फलप्रदं | वववालतैतिलश्च वनिजस्तदनंतरं || करणानेति सा प्रोक्ता सर्वतंत्रेषु भाविनि | दीक्षालग्नं प्रवक्ष्यामि वाराहीतंत्र संस्थितं || वृषे सिंहे च कन्यायां धनुमीनाख्यलग्नके | चंद्रतारानुकूले च दद्यादीक्षां सदा गुरुः || स्थिरलग्ने विष्णुमंत्रं शिवमंत्रं चरं शुभं | द्वित्स्वभावगतं लग्नं शक्तिमंत्रेषु शस्यते || दीक्षास्थानं प्रवक्ष्यामि भैरवोक्त प्रकाशयेत् | गोशालायां गुरोग्रेहे देवांगारे च कानने || पुण्यतीर्थे तथोद्याने नदीतीरे च स्वाश्रमे | धात्री बिल्व समीपे च पर्वताग्रे गुहांशु च || गंगायां तत्कृतं सर्वं कोटि कोटि गुणं भवेत् | भक्षं हविष्यांशाकादि विहितं च फलं पयः || प्. ६ब्) मूलं सक्तुर्यवोत्पन्नो भक्षं नेतानि मंत्रिणात् | दीक्षां कृत्वा यदा मंत्री ह्युपवासं समाचरेत् || तस्य देवः सदा रुष्टः श्रापं पतति मूर्द्धनि | तदा गृहीतानोपाष्येदुपवासः श्रियं हरेत् || तस्यादन्नं समश्रीयाद्धविष्यान्नेन शांकरि | अथातः संप्रवक्ष्यामि मंत्रोद्धारः शृणु प्रिये || तारो नमो भगवते वराहाद्रुपमुच्चरेत् | भूपतित्वं मे देहीति दापयांतेग्नि गेहिनी || त्रयस्त्रिंशद्वर्णकोयं वाराहः कथितो मनुः | ओं पार्थिवे च पृथिवीतलवारिणि वायुमा || ततोलिनि च तारुण्यं कुरु युग्मं च धंचधं | स्वाहैकोन त्रिंशदर्णः पार्थिवाया मनुः स्मृतः || ओं ह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्गयुक् | ठद्वयं वह्निजायांतो मंत्रः पंचदशाक्षरः || ततो ध्यायेद् घन श्यामां त्रिनेत्रमुन्नतस्तनीं | कोलास्यां चंद्रभालां च दंष्ट्रोद्धृत वसुंधरां || खड्गैकुशैदक्षिणयोर्वामयोश्चर्म पाशकौ | अश्वारूढां च कोलास्यां नानालंकारभूषितां || रक्ताब्जकर्णिका पांतु शवासन समास्थितां | मुण्डमाला लसत्कंपं नीलाभां दधती करैः || अभयं मुशलं वापि फलं चापि वरं तथा | वराहास्यां तुंगकुंचां त्रिनेत्रा मरुणांवरां || इति ध्यात्वा महेशानि शिष्य शिरसि सिंचयेत् | पुष्पशंखाभिषेकं च तुला प्रत्ययमेव च || रजमंडलवेखा च दीक्षा पंचविधः स्मृता | शिष्यहस्तशतं पुष्पं स्वयमेव शिरंभलं || आरुहे ज्ञान सामर्थ्याद्दीक्षा पुष्पाभिषेचनम् | हस्तंस्थं शंखपानीयं स्वयमारुह्यमस्तकं || प्. ७अ) कुर्यात् तदाभिषेकं च तथा शंखाभिषेचनं | तुलया सम्मितं शिष्यं दीक्षयेत् तदनंतरं || लघुत्वे कर्म विछेदात् स तुलप्रत्यय स्मृतः | लिखित्वष्ट दलं पद्मं वाह्यतो वज्रमंडलं || तन्मध्ये स्थापयेच्छिष्यं योगिणी द्रव्यसंयुतं | संपूज्य योगिनी वृंदं गंधपुष्पे श्रगादिभिः || आचार्यमभिषेकस्तु रजो मण्डलमुच्यते | एवं दीक्षा चतुष्कं तु मया तंत्रेऽप्सुदीरितं || मूलाधारात् ततो वीजं ब्रह्ममार्गेण देशिकः | हंसेन पुष्करस्थाने परमात्माणि योजयेत् || वेधदीक्षा वरारोहे कथयामि समासतः | आणवं प्रथमं प्रोक्तं शाक्ते यस्तु द्वितीयकं || तृतीयं सांभवं देवि त्रिधा भेदं प्ररक्ष्यते | येन केणापि मंत्रेण पर्शे स्तोभ विधानतः || कालांतरे गुणोत्पत्तिराणवंशमुदाहृतं | कुंडलाद्यादि शक्तीनां शिष्यांगे संक्रमेण तु || तत्क्षणेन गुणोत्पत्ति शाक्तेयं संप्रकीर्तितं | दर्शरात् स्पर्शनश्चैव वाचिको मानसस्तथा || एवं चतुष्प्रकारेण सांभवः समुदाहृतं | कारुण्यं दृष्टिमात्रेण शिष्य सद्भक्तिवत्सले || सद्य एव गुणोत्पत्ति वेधो दर्शनिको भवेत् | दण्डकंठासनं पात्र इत्यादि स्पर्शनेन तु || अंगसंस्पर्शनाद्वापि स्पर्शनावेधमुच्यते | समचित्तं गुरोः शिष्य यदा विज्ञायते सदा || यत् किंचिद् ददते वाक्यं वेधा भवति वाचिकं | योजनानां शतैर्वापि द्वित्रिपंचशतेपि वा || दूरादाराध सद्भक्त्या त्रिशुद्ध्या च करोति यः | तस्य भक्तिं गुरुं ज्ञात्वा कारुणेन यदा स्मरेत् || प्. ७ब्) तदेव गुणसंप्राप्ति वेधोमान स उच्यते | एवं दीक्षाविधानेन शिष्यदीक्षाभिलासकः || दीक्षोपकरणं सर्वं आनीयं गुरुसन्निधौ | सुगंधमकृतं पुष्पं धूपदीप चरुं तथा || भक्ष्यभोज्य समायुक्तं वस्त्राणि स हिरण्यकं | कर्पूरपुष्पतांवूल भूषणां वादरानि च || यत् संभवति तत्सर्वं निवेद्य गुरवे तदा | पूजयेद् योगिनी वृंदमेकचित्त समाहितः || ततः पश्चाट् छरीरेण श्रीगुरुभ्यो निवेदयेत् | अन्यथा वित्तदीनापि गुरुक्लेश परायणं || कृत्वा दंड नमस्कारं स शरीरं निवेदयेत् | धनाढ्यं धनदीनां वा त्रिशुद्ध्या भक्तिवत्सलः || विनीतं शिष्यमाचार्य कारुण्यमवलोकयेत् | कारुण्यं दृष्टिमात्रेण शिष्यः पतति भूतले || अकथ्य ज्ञानसंयुक्तं वस्तु शीघ्रमुदीर्यतः | आनंदं चोद्भवकंपो निद्राघूर्मिश्च पंचमः || तत्व विद्वस्य देवेशि पंचावस्था प्रकीर्तितः | भूमित्यागंस्तथावेशं मुद्रावंधमनेकधा || दूराश्रवणविज्ञानं सर्वभाषा प्रगल्भता | योगाभूतं रसोत्मादो गीतं च हशिनं तथा || गीतं च वाद्यमावाद्यै स्वेच्छा क्रीडा प्रवर्तके | पूर्वमेव गुणोत् पादो गुणानां शतमुद्भवेत् || तद्विश्र?म सहस्रेण तल्लीने लक्षमुद्भवेत् | तस्मिन्नेव लयो गीते तीव्राज्ञाया प्रभावतः || प्राप्यते परमं स्थानं जरामरण वर्जितं | एवं दीक्षा विधानेन कृत्वा कर्मक्षयो गुरुः || समस्तगुणसंप्राप्ते दद्याच्च श्रीक्रमन्ततः || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्य द्वितीयपटलः || २ || प्. ८अ) देव्युवाच || भगवन् त्वत् प्रसादेन ज्ञात्वा दीक्षाविधि क्रमं | शिष्यस्याचारणं सत्यं व्रूहि मे परमेश्वर || श्रीभैरव उवाच || सम्यगेव त्वया पृष्ठं शिष्यस्याचार लक्षणं | अनुक्रमेण देवेशि तत्सर्वं शृणु सांप्रतं || वहुजन्मांतरै पूर्वं स्वकर्म क्षयकारिणः | दीक्षामात्रेण शिष्यस्य स भवेत् सिद्धिरुत्तमाः || यस्य जन्मांतरा यस्तु कर्मवंधस्तु विद्यते | न तस्य गुरु कारुण्यं यावत् कर्मं च मुंचति || यं लब्धा गुरु कारुण्यं शुद्धाचारो न विद्यते | यदि सिद्धि तदा नैव तस्मादाचार वाग्भवेत् || प्रातः श्रीमंडलं कुर्याद् गंधपुष्पो कृतादिभिः | कुर्याद् दण्ड नमस्कारं गुरुरादेश पूर्वकं || एकांते निर्जनस्थाने पूर्वसंपूज्य पुस्तकं | तत्वोपदेशसंयुक्तं शृणुष्व श्रीकुलागमं || श्रुत्वागमोपदेशार्थमवधाय प्रयत्नतः | यत्प्रेषयति तत्सर्वं क्लेशकुर्वीतदासवत् || श्रीमानन्यतपोवेशी शास्त्रक्रमेणयोपि वा | क्लेशदण्ड नमस्कारं नलज्य गुरुसन्निधौ || अति हास्यमवष्टव्यं लीलामंगप्रसारणं | विनादो ज्वलवेशं च विकारं दंतधावनं || पादप्रक्षालनश्वेच्छा भूषणं वादनं तथा | न कुर्याद् गुरुसो दृश्य यदि सिद्धिमपेक्षकः || गुरुणामासनं कंठा योगदण्डं च पादुकौ | अक्षमाला च शयनं कौपीनं वस्त्रमेव च || पात्र स्नान जलं चैव अन्योन्यपकरणानि च | भक्तिमान्न च पादाभ्यां न स्पृशन्न च लंघयेत् || गंधपुष्पं च ताम्वूलं भक्ष्यभोज्यासनादिभिः | निवेद्य गुरवे पश्चाद् गृहीता देशपूर्वकं || प्. ८ब्) एवं कृत्वा गुरुः क्लेश शिष्यो निश्चल भक्तिमान् | लभते गुरुकारुण्यमभिषेक चतुष्टयं || आज्ञा प्रवर्तनं शिष्ये शकासद् गुरुवाज्ञया | स्वेच्छया विचरेल्लोके सततं सिद्धिकाक्षितः || भिक्षान्नं देहरक्षार्थं कंठाशीतातमच्छदा | खर्परा भोजनार्थं तु गृह्नीतात्म परिग्रहः || वृक्षमूले श्मशाने च पर्वताग्र गुहांतरे | शून्यदेवालये वालये वापि वसेद् योगीश्वरस्सदा || मित्रामित्रं सुखं दुःख इष्टानिष्टं शुभाशुभ | एवमानापमानं च तथा निंदाप्रसन्सने || खर्परं च हिरण्यं च कान्सलोहादनं तथा | समानि चिंतयेद् योगी गति सिद्धि पदीछति || क्वचिद् भट्ट क्वचिच्चट्टः क्वचित् प्रव्रजितो नरः | स्वच्छारूपधरो योगी पच्यते तु महीतले || गुरुं च भवतीमां च तथाम्नायं कुलागमं | मंत्रं च मदिरा ज्येष्ठां भक्त्यात् संपूजयेत् सदा || अप्रियं क्षोभमालस्यं आज्ञाभंगं परिग्रहं | परस्त्री लौल्यमाक्षेयं न कुर्यान् मुक्तिकांक्षिणः || मंत्रमुद्राक्ष सूत्राणि योगिणी सङ्गमं तथा | योगवीर्यं वटं पीठं सिद्धद्रव्याणि गोपयेत् || रागद्वेष महंकार पैशुन्यं वेशदंभकः | क्रोधं लोभं च मोहं च हन्यान्येतानि दापयेत् || अन्येषां समयाचारां कुमारी योगिणीगणं | सिद्धद्रव्यं च तत्पीठ परवेष्टा न निंदयेत् || योगिणी सिद्धचारित्रं पारंपर्य क्रमागतं | अदृष्टा स्रूतपूर्वं च शास्त्र गुह्य वदेन तुः || मल्लकुर्जट् युधद्धं च नग्नस्त्री पटतस्तना | सर्वेषां चरति क्रीडा समयग्राहकस्तथा || प्. ९अ) ज्योत नृत्येंद्र जालानि मृगया? वीरविग्रहं | कन्या योनिं तथागुह्यं नेक्षयेत् कुलयोगिनः || वृद्धकुष्टांगहीनं च कीलालं व्याधितं शव | मात्मविट् मूत्र उर्गत्वं न जुगुप्सयेत् सरां तथा || वृक्षमूला लतावल्ली तृणादि स्थावरं सदा | विन्मूलयेन्न संभिद्यात् न छिद्यान्न च पीडयेत् || गंधपुष्पादिकं किंचित् योगिणी द्रव्यमेव च | यद्यत प्रार्थितं लध्वं तेन सत् पूज्यते क्षमं || तासामसंभवेद् योगी भावशुद्धि परायण | सदा स्मरण पुष्पेण पूजयेद् गुरुपादुकं || कौटील्यं वादगोष्ठां च मात्सर्यं पशु संगमं | पाशानकाष्ठ मृत्पुजा न कुर्यात् सिद्धिकारणं || एकांते शयनं कुर्यात् न कुर्याद् देहपीठनं | अत्यादारसनादानं क्षुद्र कर्माणि वर्जयेत् || नानागममभीप्सेत नागीतं विषयं स्मरेत् | प्राप्तं परिहरेत् तस्माद् यस्मात् कुर्याज्जितेंद्रियः || रोचते यत्र तत्रैव तत्र तत्रैव गम्यते | मनरोधन कर्तव्यं निर्विघ्नं सिद्धिमिच्छताः || इत्याचारेण मार्गेण सततं यः समाचरेत् | संचरंतिभ्यमत्यंतमनेकविधि सिद्धिभाक् || देव्युवाच || स्वामि त्वदीय कारुण्या ज्ञातमाचारणं परं | निर्वाणं ज्ञातुमिच्छामि वक्तव्यंमपरापरं || ईश्वर उवाच || साधुपृष्ठं वरारोहे निर्वाणं पदमव्ययं | वक्ष्य परापरं तत्वं शूयतामंवुजानने || समाचारणमार्गेण सम्यराचारणस्सदा | उद्भवंति गणास्सर्वे तीव्राज्ञा च प्रवर्तके || नाभि हृत्कंठ वक्त्रे तु नासाग्रे मध्यलोचने | कर्णाट् कर्णगतं तत्वं सदोदयमखंडितं || प्. ९ब्) समुद्रघोषणा दृश्यं किंकिणी घंठिका समं | मेघे ध्वनि निहं तत्वं सर्वकारमुदीरयेत् || गच्छततिष्ठशी वापि जाग्रतो स्वपतोपि वा | उन्मेषं च निमेषे च शुच्य वाप्य शुचावधि || क्षणानवे क्षणार्द्धे वा सदास्तमनवर्जितः | यथोदयं तथा वंदे वर्तते च निरंतरं || सदानंदोद्भवे देहे न निद्रा न तृषा क्षुधा | न मोहो न च वै द्वेषो न रागो नैव चिंतना || नाप्यसो न रतिश्चैव न शीतं चोष्णवेदना | गीतं च हसितं नृत्यं वाद्यमानेद्यमेव च || धावनं लंघनं चैव स्वेच्छालाप प्रवर्तते | एवमादि विकाराणि संपद्यंते यथा तथा || तथा तथा न भेतक्यं क्रीडते वसुधा तले | इत्येवं परमानन्दमुन्मत्ताकार चेष्टितं || दृष्ट्वा न ज्ञानिनस्सर्वे हसंते पुरुषोत्तमः | शास्त्रमार्गा यथा मूर्खो कुमारी स्त्री सुखं यथा || तथा च खलु पापिस्थो योगमार्ग हसंति च | ज्ञानिनो लोकचारित्रं भवत्युन्मत्त चेष्टितं || लोकिकैरपि तं ज्ञानं उन्मत्तरिव दृश्यते | लोके निंदाप्रशंसंति न जानं क्रीडनं सदा || परानंद स्वरूपेण शिवैनामैकरूपकैः | आत्मेति च शरीरस्थ स्वाहृत परमं पदं || दूती गमागमं सर्वं जानीयाद् योग तत्परः | आत्मतत्वमिदं ज्ञात्वा परतत्वे विमेलयेत् || तत्रद्गतीक्षयेन्नित्यं लभते सिद्धिमक्षयं | न स्नानं न जपो होमो न ध्यानं न च धारणा || न मुद्रा नाशनं चैव न शुसुम्ना न च पिंगला | कुंभकारे च के नैव पूरकम्य विधिन्न च || न तिथिन्न च नक्षत्रं नोपवास व्रतादिकं | तत्सर्वं भव वंधर्थं न कर्मक्षयकारणं || प्. १०अ) स प्रपंच निभा त्यज्य निष्प्रपंच समाचरेत् | मुक्तावस्थं जगत्सर्वं व्यामोहे नैव वाध्यते || इच्छाव्यामोह निर्मुक्तो मुक्ति स्वाभाविका भवेत् | न बुद्धिर्न मनश्चैव न च पंचेंद्रियाणि च || न भूमि न स्थलं नाग्निर्न्न च वायु न चांवरं | मतमोनरजः सत्वो न प्रप्यं प्रेरकन्न च || न च दूरं न चासन्नं न कार्यं कारणं न च | न क्षयं वृद्धिमायातं न वर्णावर्णभेदकं || एवमादी विधिर्मुक्तं अक्षयं परमं पदं | तिलमध्ये यथा तैलं काष्ठमध्ये यथानलं || पाषाणे च यथा हेमं क्षीरमध्ये यथा घृतं | तथा सर्वगततत्वे देहे देहे व्यवस्थितं || मूढचित्ता न जानंति परं सूक्ष्म निरंजनं | अन्यथा तर्क षट्कं तु शास्त्रताभ्यर्यमन्यथा || अन्यथा वेदमार्गार्थं अन्यथा गमशासनं | अन्यथा लोकिकं मार्गं अन्यथा पारमार्थिकं || तस्माद् भ्रांति त्यजेद् योगी निर्विकल्पं समाचरेत् | षट्त्रिंश तत्व निर्मुक्तं पंचपंचक वर्जितं || चंद्रनष्ट कलातीतं षोडशांत विवर्जितं | न चान्यातीतमत्यन्तं द्वादशांतांतरं परं || सर्वात्मा सर्वगन्नित्यं सर्वज्ञं सर्वतो मुखं | अखण्डित रविच्छिन्नमप्रमेयमनाहतं || निष्कलं निर्मलं शांतं निराचार पदे स्थितं | अनंतमक्षयं सूक्ष्मं रूपातीतं परापरम् || एवं शिव स्वरूपेण सिद्धि त्यष्ट्वानि मोदयः | दूराश्रवणविज्ञानं दूरादर्शननेन च || छायाविरहि तत्वं च परकाय प्रवेशनः | इच्छारूपं भवेन् नित्यं इति सिद्धि प्रवर्त्तते || प्. १०ब्) स्वयं गुरुः स्वयं शिष्यं स्वयं शक्ति स्वयं शिवः | स्वयं सूक्ष्म स्वयं स्थूलः स्वयमेव परापरं || आराध्यानं तु सर्वेषां मण्डलेस्तु कृते सति | नारिक्तमंडलं कुर्याद् यदिच्छेत् सिद्धिरुत्तमां || यदि लोभं कृते मूढरिक्तमंडलकं गुरोः | मंत्रश्रापो भवेत् तस्य योगिनी जननिंदकाः || द्रव्यादीनामलाभेन स्वदेहं च निवेदयेत् || इति श्रीवाराहीतन्त्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्य तृतीयः पटलः || ३ || भैरव उवाच || दीक्षितश्च शुकौ देशे गुरु शुक्रादये शुभे | लग्ने चोपचयस्थापि विहीने पापविक्षणै || पुण्यमासेप्य दिवसे शुभरक्ता विवर्जिते | शुभग्रहादि संयुक्ते पुरश्चरण मा लभेत् || कार्तिकाश्चिन द्वैशाखे माघेथ मार्गशीर्षके | फाल्गुणे श्रावणे दीक्षा पुरश्चरण शस्यते || रवौ गुरौ शिते मासे कर्तव्यं बुधवासरे | चन्द्रतारानुकूले च पुरश्चरण कर्म तत् || रोहिणी श्रवणाद्रा च धनिष्ठा चोत्तरा त्रयं | पुष्यशतभिषाहस्ता पुरश्चरण कर्मणि || पूर्णिमा पंचमी चैव द्वितीया सप्तमी तथा | त्रयोदशी च दशमी प्रशस्ता सर्वकर्मसु || सत्तीर्थेक विधुग्रासे तंतु द्वय न पर्वणे | पुरश्चर्या प्रकुर्वाणो मासक्षादीन्न शोधयेत् || मंत्राद्यारंभनं मेष धनधान्य प्रदं भवेत् | वृषमरण संप्राप्ति मिथुने जल्पनासिनी || कर्कटे सर्वसिद्धिः स्यात् सिंहे मेधा विनाशकः | कन्या लक्ष्मी तदा नित्यं तुलाया सर्वसिद्धयः || वृश्चिके स्वर्ण लाभं स्यात् धनुज्ञान विनाशकः | प्. ११अ) मकरः पुत्रदः प्रोक्तं कुंभोधनसमृद्धितः || मीने दुःख प्रदो नित्यं मैवं रासिफलं भवेत् | चंद्रतारानुकूले च शुक्लपक्षे शुभेहनि || आरभेत् तु पुरश्चर्या हरौ सुप्ते नवा चरेत् | पुण्यक्षत्रादिकं गत्वा कुर्याद् भूमि परिग्रहं || तथा चामुकमंत्रस्य पुरश्चरण सिद्धये | मयैव गृह्यते भूमि मंत्रोयं सिद्ध्यतामिति || नगरादावपि क्रोशं क्रोणयुग्ममथापि वा | आहारादि विहारार्थं तावतीं भूमिमा क्रमेत् || क्षीरवृक्षोद्भवान् कीलान् अस्त्रमंत्राभिमंत्रितान् | निखनेद् देश दिग्भागे तेष्वस्त्रं च प्रपूजयेत् || लोकपालान् पुरस्तेषु गंधाद्यैः पूजयेत् सुधी | क्षेत्रपालादिकं तत्र पूजयेद् विधिवत् ततः || क्षत्रशंवास्तु नामानं विघ्नराजं समर्चयेत् | दिक्पतिभ्यो वलिं दद्यात् ततः क्षेत्रं समविशेत् || ये रौद्रा रौद्र कर्माणो रौद्र स्थान निवासिनः | मातरोप्यग्ररूपा च गणाधिपतयेश्चये || विघ्नभूताश्चयं चान्ये दिग्विदिक्षु समाश्रिताः | सर्वते प्रीति मनसः प्रतिगृह्नं त्विमं वलिं || प्रातः स्नात्वा तु गायत्र्याः सहस्रं प्रयतो जपेत् | ज्ञाता ज्ञातस्य पायस्य क्षमार्थं प्रथमं ततः || ह्रीं ब्रह्मायणी विद्महे चतुर्दलायै धीमहि || तन्नो देवी प्रचोदयात् || माहेश्वर्यै विद्महे गौरी प्रियाय धीमहि || तन्नोश्चण्डी प्रचोदयात् || कौमारी च विद्महे विंदुसहिताय धीमहि || तन्नो देवी प्रचोदयात् || विष्णुशक्ति विद्महे रौद्रमुखाय धीमहि || प्. ११ब्) तन्नो काली प्रचोदयात् || वाराहि च विद्महे घोरमुखी धीमहि तन्नो काली प्रचोदयात् || इंद्रायणी विद्महे इन्द्रशक्ति धीमहि || तन्नोशक्र प्रचोदयात् || गुह्यकाली विद्महे गुप्तशक्ति धीमहि तन्नो काली प्रचोदयात् || महालक्ष्मी विद्महे महाशक्ति धीमहि || तन्नो श्रीय प्रचोदयात् || जया च विजयया चैव जयंती चापराजिता | नंदा भद्रा जया भीमा काली चैवाष्टकास्तथा || दिव्ययोग्नि महायोग्नि सिद्धियोग्नि गणेश्वरी | साकिणी काल रात्री च ऊर्द्ध्वकेशी निशाचरी || गम्भीराघोषणी स्थूला पवनांगी उलीनिता | भीषना च महानंदा ज्वालामुखी तथैव च || पिशाचि हस्तिनी चैव यक्षिणी धूर्जतीस्तथा | विषभक्ष सर्वसिद्धिस्तुति इच्छा तथैव च || हूं काली भाश्वरी दीर्घा धूम्राक्षि करह प्रिये | मातङ्गी काक दृष्टी च तथा त्रिपुर चांतकी || राक्षसी घोरनादाश्च रक्ताक्षि विश्वरूपिणी | भयंकरी रौद्रवीभ श्रीशुष्कांगनरभोजनी || वीरभद्र महाकाली कंकाली विकृतानरा | क्रोधरा भीमभद्राश्च वायुवेगा भयानना || ब्रह्मा च वैष्णवी रौद्री चर्चिका ईश्वरी तथा | वाराही नारसिंही च शिवदूती चतुष्टिका || इदं देव्या महायोग्निं वलिं गृह्नं तु सर्वदा | न कुर्याच्छाक्तिकी दीक्षामुपरक्ते विभावसौ || न कुर्यां वैष्णवीनां तु यदि चन्द्रमसो ग्रहे | अन्येषु पुण्ययोगेषु ग्रहणे चंद्रसूर्ययोः || सूर्यग्रहणकाले तु नान्यदत्वेपि तं भवे || प्. १२अ) शिष्यनाहूय गुरुणा कृपया यदि दीयते | तदा लग्नादिकं किंचिन विचार्यं कथंचन || सर्वे वाराग्रहाः सर्वे नक्षत्राणि न संशयः | यस्मिन्न हनि संतुष्टो गुरुः सुश्रुषहाचहाः || ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः | गयायां भास्करक्षत्रे विरजे चंद्रपर्वते || वटुले च मतंगे च तथा कन्याश्रमेषु च | न गृह्नीयात् ततो दीक्षां तीर्थेष्वतेषु पार्वति || शुक्रास्तो यदि वा वृद्धो गुर्वादित्यो भवेद् यदि | मेषवृश्चिक सिंहेषु तदा दोषो न विद्यते || कलमाला प्रवक्ष्यामि वाराहीतंत्र उक्त च | तर्जनी मध्यमा नामा कनिष्ठा चेतताः क्रमात् || तिस्रोगुल्यस्त्रिपर्वाणो मध्यमा चैक पर्विका | पर्व द्वयं मध्यमाया मेरुत्वेनोप कल्पयेत् || अनामा मध्यमारभ्य कनिष्ठादित एव च | तर्जनी मूलपर्यंतं दशपर्वसु संजपेत् || अनामामूलमारभ्य कनिष्ठादि न एव च | तर्जनी मध्य पर्यंतंमष्टपर्वसु संजपेत् || अनामिका त्रयं पर्व कनिष्ठादि त्रिपर्विका | मध्यमायाश्च त्रितयं तर्जनी मूलपर्वणि || तर्जन्यग्रे तथा मध्ये योजयेत् स तु पापकृत् | अनामा मध्यमारभ्य कनिष्ठादित एव च || तर्जनी मूलपर्यंतं दशपर्वसु संजपेत् | पर्वद्वयं मनो मायाः परिवर्तेन वै क्रमात् || पर्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत् | शक्तिमाला समाख्याता सर्वतंत्र प्रदीपिका || अनामा मूलमारभ्य प्रदक्षिण क्रमेण च | प्. १२ब्) मध्यमा मूलपर्यंतं जपेदष्ट सुपर्वसु || अनामिका द्वयं पर्व कनिष्ठादि क्रमेण तु | तर्जनी मूल पर्यंतं कलमालाः प्रकीर्तिताः || अंगुलींत विद्युतात किंचिदा कुंचिते तले | अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जप || अङ्गुल्यग्रे च पर्यंतं यज्जप्तं मेरु लंघने | पर्वसंधिषु यज्जप्तं तत्सर्वं निःफलं भवेत् || गणना विधिमुल्लंघ्य य जपेत् तज्जपं जनः | गृह्नंति राक्षसास्तेन गणयेत् सर्वदा वुधः || हृदये हस्तमारोप्य तिर्यक् कृत्वा कलांगुलैः | आछाद्य वा समाहस्तौ दक्षिणेन सदा जपः || क्रमात् क्रमगतैर्माला मातृकार्णैः समेरुकैः | स विंदुकैः साष्टवर्गौः रष्टौवर्गा प्रकीर्तिताः || पद्मवीजादिभिर्मालाः वहिर्यागे शृणुष्वताः | रुद्राक्ष पद्मसंख्याख्या पुत्र जीवक मौक्तिकैः || स्फाटिकैर्मणि रत्नैश्च सौवर्णैर्विद्रुमैस्तथा | राजतैः कुशमूलैश्च गृहस्थस्याक्षमालिका || अंगुली गणनादेकं पर्वणाष्ट गुणं भवेत् | पुत्रजीवैद् दशगुणं शतं शंखैः सहस्रकैः || प्रवालैर्मणि रत्नैश्च दशसहस्रेकं स्मृतं | तद्वंध स्फटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते || पश्चाक्षै दशलक्षं स्यात् सौवर्णैः कोटिरुच्यते | कुशग्रंथ्या कोटि शतं रुद्राक्षैः स्यामनंतकं || सर्वविरचितामाला नृणां मुक्तिफलप्रदा | पद्माक्षे रचिता माला शत्रूणां नाशिनी मता || कुशग्रंथि मयी माला सर्वपाप प्रणाशिनी | पुत्र जीव फलै कृप्ता कुरुते पुत्र संपदं || प्. १३अ) निर्मितारूप्यमालाभिः जपमालेप्सित प्रदा | प्रवालैर्विहिता माला प्रयछेद् विपुलं धनं || सुवर्णमणिभिर्मालां स्फटिकी शंखनिर्मितं | प्रवालैरेव वा कुर्यात् पुत्रजीवं च वर्जयेत् || पद्माक्षं चैव रुद्राक्षं भद्राक्षं च विशेषतः | महाशंख मयी माला ज्ञेया नील सरस्वते || नृललाटास्थि खंडेन लचिता जपमालिता | महाशंख मयी माला तारा ज्येष्ठा जपे प्रिया || कर्णनेत्रांतरे देवि महाशंख प्रकीर्तिता | रक्तचंदनमाला तु भोगमोक्ष प्रदा भवेत् || वैष्णवे तुलसीमाला गजदंते गणेश्वरे | त्रिपुराया जपे शस्ता रुद्राक्षै रक्तचंदनैः || अन्योन्य समरूपानि नाति स्थूलं कृशानि च | कीटादिभिरदुष्टानितजीर्णानि नवानि वै || पंचाशत्मनिभिर्माला विहिता सर्वकर्मसु | अकारादि क्षकारांतां वर्णमाला प्रकीर्तिता || क्षीर्णमेरु मुखं तत्र कल्पयेन् मुनिसत्तम | अनया सर्वविद्यानां जपः सर्वसमृद्धिदः || श्मशाने धुत्तूरैर्माला ज्ञेया धूमावती विधौ | नरांगुल्यस्थिभिर्माला ग्रथिता सर्वकामदा || नात्र्यसंग्रथनं कार्यं रेक्तेन वाससा अपि | सदा गोप्या प्रयत्नेन जनन्या जारवत् प्रिये || नित्यं जपं करे कुर्यात् न तु काम्यं कदाचन | काम्यमपि करे कुर्या मालाऽभावेन सुंदरि || ममासेनाक्ष सूत्रस्य विधानमिह कथ्यते | पंचविंशतिभिर्मोक्षं त्रिंशद्भिर्धनसिद्धये || सर्वेर्थोः सप्तविंशत्या पंचदश्याभिचालके | पंचाशद्भिः कार्य सिद्धिः स्यात् तथा चतुरुत्तरैः || प्. १३ब्) अष्टोत्तर शतैः सर्वे सिद्धिरुक्तो मनीषिभिः | काम्यार्थं कंवलं चैव स्रेष्टं च रक्तकंवलं || कृष्णाजिने ज्ञानसिद्धिः मोक्ष श्रीव्याघ्रचर्मणि | कुशासने मंत्रसिद्धि नात्रकार्याकार्याविचारणा || धरण्यां दुःखसंभूति दौभाग्यं दारुजासने | वंशासने दरिद्र स्यात् पाषाणे व्याधि पीडनं || तृणाशने यशो हानि पल्लवेचित्त विभ्रमः | जपहानि तपो हानि वस्त्रासनं करोति हि || नरचर्मासनं देवि वाराह्या मंत्र सिद्धये | महामाला महापात्रं मालामंत्रस्तु पार्वति || वज्रवाराहिका देवि दुर्लभं त्रिदशैरवि | दशसंस्कार मंत्राणां महामालास्तु साधनं || अधुना कथयिष्यामि शृणुत्वं कमलानने | छिन्नादि दोष दुष्टायं मनवः संप्रकीर्तिताः || सततं सेव्यमानास्ते नवसंति फलप्रदा | अतस्तद् दोषनासाय संस्कारान् दशवक्ष्यहं || त्रिकोण सप्तधा मंत्री विभज्यात् समभागतः | ईशकोणात् तथा कुर्यात् तथा पावक कोणतः || उनपंचाश देवस्युर्योनयस्तत्र सर्वतः | ईशान्यदिलित्मंत्री वारुणांतं लिपिं क्रमात् || अत्र देवीं समभ्यर्च्यो मंत्रान् सर्वसमुद्धरेत् | एतज्जननमित्याहुरथो दीप न मुच्यते || पुटितं हंसमंत्रेण सहस्रं संजपेन् मनुं | इदं दीपनमाख्यातं बोधनं तन्निगद्यते || वर्मणारेहयुक्तेन पुटितं संजपेन् मनुं | सहस्रैः पंचभिर्मंत्री वोधनं संस्मृतं त्विदम् || प्. १४अ) अस्त्र संपुटितं मंत्रं सहस्रं प्रजपेत् सुधीः | एतत् ताडनमाख्यातमभिषेक उदीर्यते || वाक् हंस प्रणवैर्मंत्री सहस्रं संजपेज्जलं | इमं मंत्रं पठेन् मंत्रमभिषिंच्याज्जलैः शुभैः || तावान् स्रौंमितिमंत्रेण वषडंतेन संपुटं | सहस्रं संजपेन् मंत्री विमली करणं त्विदं || स्वधा शिखा पुटं मंत्रं सहस्रं संजपेत् सुधीः | एतज्जीवनमाख्यातं दुग्धाज्यमिलितैर्जलैः || तर्पणं तर्पणं ख्यातं मायया संपुटो मनुः | सहस्रैः पंचभिर्जप्तो गोपनं तत्समुच्यते || मधुनाशक्ति मंत्रे तु वैष्णवे वेंदुमज्जलैः | घृतेन तर्पणं शैवे मंत्रीभिः सम्यगीरितं || श्वेतचंद्रानुग्रहेंदु संपुटं प्रजपेत् मनुः | एतदाप्यायनं प्राक्तं मंत्रशास्त्र विशारदैः || संप्रोक्ता दशसंस्कारा मंत्रार्णा तंत्र चोदितः | माले माले महामाले सर्वतत्वा स्वरूपिणी || चतुर्वर्गस्त्वयिन्यस्तस्तस्माने सिद्धिदा भव | माला वीजादिकं कृत्वा रक्तपुष्पैः समर्चयेत् || वाग्भवं च तथा लक्ष्मींमक्षादि मालिकां ततः | ङेतां हृदय वर्णांतां मंत्रेणानेन पूजयेत् || ओं ह्रीं श्रीं ह्रीं क्लीं हूं फट् स्वाहा || इति मंत्रेण सप्तधाऽभिमंत्र्य च कर्षे निःक्षिपेत् || तं तः आवाहनादि मंत्रादिभिर्भगवतीमावाह्य सपरिवारां षोडशोपचारैरभ्यर्च्य मूलमावर्त्य तार्तीयं वीजमनुस्मरन् | धेनुमुद्रयाऽमृतीकृत्य कवचेनावगुण्ठ्य महामुद्रया तदा छादयन् देवी रूपीतां माली ध्यायन् विंदुप्रेक्षयं कुर्यात् तत्र मंत्रः || प्. १४ब्) ओं ह्रीं स्वाहा ओंं हूं स्वाहा || ओं फट् स्वाहा || ओं स्त्रीं स्वाहा || ओं ह्रीं हूं स्वाहा || ओं ह्रीं फट् स्वाहा || अनेन दश तथा विंदु प्रक्षेपं कुर्यात् || कस्तूरिका गुरु सुधाकरैर्धूपादिकं दत्वा च कषादुत्तार्य एभिर्मंत्रयेत् || ओं ह्रीं श्रीं महावज्रिणि महाघोररूपे कर्कश महास्थिमण्डले प्रविश सर्वसिद्धिं प्रयच्छ ओं हूं ह्रीं स्वाहा महाकपालिनि महाघोररूपे स्वाहा || ओं ह्रीं ह्रीं हूं फट् स्वाहा दूर्वाक्षतैरभ्यर्च्यकं दर्पवीजेनोद्दीपनं कृत्वा षोडशोपचारैरभ्यर्च्य मातृकामंत्रेण संदीप्य हूंकारेण वेष्टयित्वा वलिं दद्यात् तद्यथा || ओं ह्रीं ह्रीं हूं हूं ओं फट् हूं ओं ओं हूं स्वाहा ओं हूं महायोगिनि त्रिभुवनतारिणि महाशंखास्थि मालामध्ये निवासं कुरु २ सर्वसिद्धिं देहि देहि सुरामांसोपहारान् गृह्न गृह्नापय ह्रीं स्त्रीं फट् स्वाहा || अनेन यथोदित द्रव्येण वलिं दत्वा देवीं विसृर्ज्य निभृत स्थाने मालां धारयेदिति || अष्टोत्तर सहस्रं तु कृत्वां तर्यागमादरात् | जपेत् प्रतिदिनं यत् तु नित्य एष जपः स्मृतः || मूलाधारात् ततो वीजं ब्रह्ममार्गेण देशिकः | हंसेन पुष्परस्थाने परमात्माणि योजयेत् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्य चतुर्थपटलः || ४ || भैरव उवाच || गुरोराज्ञां समादाय शुद्धांतः करणो नरः | ततः पुरस्क्रियां कुर्या मंत्रसिद्धि समीहया || प्. १५अ) जीवहीनो यथा देवी सर्वकर्मसु नक्षमः | प्. १५अ) पुरश्चरण हीइनोपि तथा मंत्रः प्रकीर्तितः || तस्मादादौ स्वयं कुर्याद् गुरु वा कारयेद् बुधः | गुरोरभावे विप्रं वा सर्वप्राणि हितेरतं || स्निग्धं मंत्रविदं मित्रं नानागुणसमन्वितां | आदौ पुरस्क्रियां कर्तुं स्नान नियम उच्यते || पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकं | तीर्थप्रदेशाः सिंधूनां संगमः पावनंगमं || उद्यानानि विविक्तानि बिल्वमूलतटं शिरेः | तुलसीकाननं गोष्ठ वृषशून्यं शिवालयं || अश्वत्थमलकी मूलं गोशाला जल मध्यतः | देवता यतनं कूलं समुद्रस्या निजं गृहं || गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् | कोटि देवालये पुण्यं मनंत शिवसन्निधौ || म्लेक्ष दुष्टमृगव्याध शंकाटक विवर्जिते | एकांते पावने निंदा रहिते भक्ति संयुते || स्वदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे | रम्यभक्तजनस्थाने निवसेत् तपस प्रिये || गुरुणां सन्निधाने च चित्ते काग्रे स्थले तथा | एतामन्यतमस्थाने माश्रित्य जपमारभेत् || यत्र ग्रामे जपेत् मंत्री तत्र कूर्मं विचिंतयेत् | पर्वते सिंधू तीरे वा पुण्यारण्ये नदी तटे || यदि कुर्यात् पुरश्चर्या तत्र कूर्मं विचिंतयेत् | ग्रामे वा यदि वा राष्ट्र गृहं तं च विचिंतयेत् || पुरश्चरण कृत्मंत्री भक्ष्या भक्ष्यं विचारयेत् | अन्यथा भोजना दोषात् सिद्धिहानिः प्रजायते || दधिक्षीरं घृतं गव्यंमैक्षवं गुड वर्जितं | तिलाश्चैव सिता मुद्गा कंदःके मूलवर्जितः || प्. १५ब्) नारिकेलफलं चैव कदली लवली तथा | आम्रमामलकं चैव पनसं च हरीतकी || प्रकारांतरे हविष्यं च प्रशस्तंमन्यथा बुधैः | भुज्यनो वा हविष्यान्नं शाकयावकमेव वा || पयोमूलं फलं वापि यत्र यत्रोपलभ्यते | वीजां च नालिकाशाकं कलायं च नकं तथा || कदंवं नालिकेलं च व्रते कुष्माण्डकं त्यजेत् | विवर्जयेत् मधुक्षारं लवनं तैलमेव च || तांवूलं कांश्यपात्रं च दिवा भोजनमेव च | तदा द्राक्षां च लवनं मांसं संगृंजन भोजनं || माषाढकी मसूराश्च कोद्रवांश्चनकानपि | कौटिल्यं क्षौरमत्यंगं अनिवेदित भोजनं || असंकल्पित कृत्यं च वर्जयेन् मर्दनादिकं | स्नायाच्च पंचगव्येन केवलां मलकेन वा || मंत्रजानान्न पानीयैः स्नाना च मन भोजनं | कुर्याद् यथोक्त विधिना त्रिसंध्यं देवतार्चनं || अपवित्रकरो नग्रः शिरसि प्रावृतोपि वा | प्रलेपत् प्रजपेद् यावत् तावन् निःफलमुच्यते || यस्मान्नयान पुष्टांगः कुरुते धर्मसंचयं | अन्नदातु फलस्यार्द्धे कर्तुश्चार्द्धन संशयः || तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः | पुरश्चरण काले तु सर्वकर्मसु शास्त्रवित् || जिह्वादग्धपरान्ने च करौ दग्धौ प्रतिग्रहा | मनोदग्धं परस्त्रीभिः कथं सिद्धिर्वरानने || वैदिकाचार युक्तानां शुचीनां श्रीमतां सतां | सत्कुलस्थानजातानां भिक्षाशी चाग्र जन्मनां || सकृश्च दुरिते शब्दे प्रणवं समुदीरयेत् | प्राक्ते पार्श्वे हरे शब्द प्राणायामं स कृच्चरेत् || प्. १६अ) वहुप्रलापीचाचस्य न्यास्यांगानि ततो जपेत् | क्षुते प्येतं तथाऽस्पश्य स्थानानां स्पर्शनेपि च || एवमादीश्च दियमान् पुरश्चरण कृच्चरेत् | विण्मूत्रोत्सर्गसंकादि युक्तं कर्म करोति यः || जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये | मलिनां वरकेशादि मुखदौर्गंध्य संयुतः || यो जपेत् सतहस्ताशु देवता गुप्तिसंस्थिता | आलस्य जंभनं निद्रां क्षुतं निष्ठीवनं भयं || नीचांग स्पर्शनं कोपं जपकाले विवर्जयेत् | एवमुक्त विधानेन विलंवं त्वरितं विना || उक्तसंख्यं जपं कुर्या पुरश्चरण सिद्धये | देवता गुरु मंत्राणांमैक्यं संभावयेत् धिया || जपदेकमनाः प्रातःकालं मध्यंदिनावधि | यत्संख्या या समालब्धं तत्कर्तव्य महर्निशं || यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन् नरः | यत्संख्यया समारब्धं तज्जप्तव्यं दिने दिने || न्यूनाधिकं न कर्तव्यं असमाप्तं सदा जपेत् | न्यूनाति रिक्तकर्माणि न फलंति कदाचन || यथाविधि कृतान्ये च तत्कर्माणि फलंति हि | भूशयया ब्रह्मचारित्वं मौनं चाचार्य सेवनं || नित्यपूजा नित्य दानं देवता स्तुति कीर्तनं | नैमित्तिकार्चनं चैव विश्वासो गुरु देवयोः || जपनिष्ठा द्वादशैते धर्मास्यु मंत्रसिद्धिदः | स्त्रीशूद्रपतिव्रात्य नास्तिको छिष्टभाषणं || असत्यभाषणं जिह्वा भाषणं परिवर्जयेत् | सत्यनापि न भाषेत जपहोमार्चनादिषु || अन्यथां तुष्टितं सर्वं भवत्येव निरर्थकं | शयातकुशशययायां शुचिवस्त्रधरः सदा || प्. १६ब्) प्रत्यहं जालये शययामेकाकी निर्भयः स्वपेत् | असत्यभाषणं वाचं कुटिलां परिवर्जयेत् || वर्जयेद् गीतवाद्यादि श्रवणं नृत्य दर्शनं | अत्यंगं गंधलेपं च पुष्पाधारणमेव च || त्यजेदुस्नोदक स्नानं अन्यदेव प्रपूजनं | नैकवासा जपेन् मंत्रं वहु वासा कुलोपि वा || पतिता नामं त्यजानां दर्शने भाषणे श्रुते | क्षुतेऽधो वा युगमने जृंभने जपमुत्सृजेत् || तथा तस्य च तत्प्राप्तौ प्राणायाम षडंगकं | कृत्वा सम्यक् जपोच्छेषं यद्वा सूर्यादि दर्शने || मनः संहरणं शौचं मौनं मंत्रार्थ चिंतनं | अव्यग्रत्वमनिर्वेदो जपसंपत्ति हेतवः || उष्णीषी कंचुकी नग्नो मुक्तकेशो गना वृतः | अपवित्रकराऽशुद्धः प्रलेयंत जपेत् क्वचित् || अनाशनः शयानो वा गच्छन् भुंजान एव वा | अपवृत्तौ करौ कृत्वा शिरसा प्रावृतोपि वा || चिंता व्याकुलचित्तो वा क्रूद्धो भ्रांतः क्षुधान्वितः | नीथ्यायाम शिवस्थाने न जयंति मिरांतरे || उपानद्गुढपादो वाद्यान शयया गतस्तथाः | प्रसार्य न जपेत् पादो वुत्कटासन एव च || मार्जारं कुक्कुटं क्रोंचं श्वानं शूद्र कपिं खरं | दृष्ट्वा चम्प जपेत् सम्यक् स्पृष्ट्वा स्नानं विधायते || अशूचिर्वाशुचिर्वापि गच्छन् तिष्ठन् स्वपन्नति | मंत्रैक शरणो विद्वान् मनसैव सदाचरेत् || न दोषो मानसे जप्ये सर्वदेशेपि सर्वदा | जपनिष्ठो द्विजः श्रेष्ठोऽखिल यज्ञफलं जपेत् || सर्वेषामेव यज्ञानां जायतेऽसौ महाफलैः | जपेन देवता नित्यं श्रूयमाना प्रसीदति || प्. १७अ) प्रसन्ना विपुलान् कामान् दद्यान् मुक्ति च शाश्वतीं | यक्षरक्षः पिशाचाद्याः ग्रहासर्पाः वभीषणाः || जापिनं ताय सर्पंति भयभीता समं ततः | यावं तः कर्मयज्ञाः स्युप्रतिष्ठानि तपांसि च || सर्वे ते जप यज्ञस्य कलानाहंति षोडशीं | महाम्यं वाचिकस्यै तत् जपयज्ञस्य कीर्तित || तस्माच्छत गुणो पाशुः सहस्रो मानसः स्मृतः | मानसः सिद्धिकामेन पुष्टिकामैरुपाशुकः || वाचिको मारणे चैव प्रशस्तो जप ईरितः | शाक्त्या शेषवनं स्नानं अन्यथा द्वे सकृच्चवा || त्रिसंध्यं प्रजपेन् मंत्रं पूजनं तत्समं भवेत् | एकदावा भवेत् पूजा न जपेत् पूजनं विना || जपांते वा भवेत् पूजा पूजांते वा जपेत् मनुं | प्रातःकालं समारभ्य जपेन् मध्यं दिनावधि || मनः संहृत्य विषयात् मंत्रार्थगतमानसः | न द्रुतं न विलंवं च जपेन् मौक्तिकहा भवेत् || जपः स्यादक्षरावृत्तिर्मानसोस्स? पांशुवाविकैः | धियाचार्णस्य पंक्ति वै वर्णस्वर पदात्मिकां || उच्चरेदर्थमुद्दिश्यः मानसः स जपः स्मृतः | जिह्वोष्टौ चालयेत् किंचिद् देवता गतमानसः || किंचिच्छ्रवणयोग्यः स्या उपांशुः स जपः स्मृतः | मंत्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः || निजकर्णा गोचरो यः मानसः स जपः स्मृतः | उपांशु निजकर्णस्य गोचरः परिकीर्तितः || निगदस्तु जनैर्वेद्यस्त्रिविधो जप इतिरितः | उच्चै जपाद् विशिष्टः स्यात् उपांशुर्दशभिर्गुणैः || जिह्वा जपाछतगुणैः सहस्रो मनसः स्मृतः | उच्चैर्जपोऽधमः प्रोक्तः उपांशुर्मध्यमः स्मृतः || प्. १७ब्) उत्तमो मानसो देवि त्रिविधः कथितो जपः | अति ह्रस्वो व्याधि हेतु अति दीर्घो वपुक्षयः || अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् | मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् || उभयं निःफलं यांति भिन्नभाण्डोदकं यथा | पशुभावे स्थिता मंत्राः केवलावर्णरूपिणः || सौसुम्नध्यन्यच्चरिताः प्रभुत्वं प्राप्नुवंति ते | मंत्राक्षराणि विछक्तौ प्रोक्तानि परिभावयेत् || तामेव परमव्योम्नि परमामृतवृंहिते | दर्शयित्वात् समुद्भावं पूजा होमादिभिर्चन || मनोन्यत्र शिवोन्यत्र शक्तिरंन्यत्रमारुतः | न सिद्ध्यति वरारोहे कल्पकोटि शतैरपि || जातसूतकमादौ स्यादंते च मृतसूतकं | सूतक द्वय संयुक्तो यो मंत्रः सनसिद्ध्यति || गुरोस्तद्रहितं कृत्वा मंत्रयावद्ययोद्धिया | सूतक द्वय संयुक्तः स मंत्रः सर्वसिद्धिदः || ब्रह्मवीजं मनौ दत्वा चाद्यंत परमेश्वरि | सप्तवार जपेत् मंत्रं सूतक द्वय मुक्तये || मंत्रार्थमंत्र चैतन्यं योनिमुद्रा नवेक्तितः | शतकोटि जपेनापि तस्य सिद्धिन्नजायते || लुप्तवीजाश्चये मंत्राः नदास्यंति फल प्रिये | मंत्राश्चैतन्य सहिताः सर्वसिद्धिकराः स्मृताः || चैतन्यरहिता मंत्राः प्रोक्ता वर्णास्तु केवलाः | फलं नैव प्रयच्छंति लक्षकोटि जपैरपि || मंत्रोच्चारै कृतै यादृक् स्वरूपं प्रथमं भवेत् | शतसहस्रलक्षे वा कोटि जाप्येन यत्फलं || हृदये ग्रंथि भेदश्च सर्वावयववर्द्धनं | आनंदा शृणि पुलको देहावेशः कुलेश्वरि || प्. १८अ) गङ्गदोक्तिश्च सहसा जायते नात्र संशयः | सकृदुच्चरितेप्येवं मंत्रचैतन्य संपुटे || दृश्यते प्रत्यया यत्र पारंपर्य तदुच्यते | मासमात्रं जपेत्येव भूतलिप्या तु संपुटं || क्रमत् क्रमात् सहस्रं तु तस्य सिद्धो भवेत् मनुः | पंचह्रस्वाः संधिवर्णाः व्योमरोग्नियेलंधराः || अंत्यमाद्यं द्वितीयं च चतुर्थमध्यमं क्रमात् | पंचवर्गाक्षराणि स्युर्चांते स्वेतेंदुभिः सहः || एता भूत त्विपिः प्रोक्ता द्विचत्वारिंशदक्षरैः | एवं जपं पुरा कृत्वा तेजोरूपं समर्पयेत् || देवस्य दक्षिणे हस्ते कुशपुष्पार्य वारिभिः | सफलं तद्विभाव्यैव प्राणायामं समाचरेत् || जपस्यादौ जपांते च त्रितयं त्रितयं चरेत् | एवं जपं पुरा कृत्वा गंधाक्षत कुशोदकैः || जपं समापयेद् देव्या वामहस्ते विचक्षणः | जपांते प्रत्यहं मंत्री होमयेत् तद् दशांशतः || तर्पणं चाभिषेकं च तद् दशांशं जपे प्रिये | प्रत्यहं भोजयेद् विप्रान् न्यूनाधिक प्रशांतये || अन्यथा सर्वपूर्णे च होमादिकमथाचरेत् | यद्यगंदं भवेद्भंगं तत्संख्या द्विगुणो जपः || होमाभावे जपः कार्यो होमसंख्या चतुर्गुणः | विप्राणां क्षत्रियाणां च रससंख्यागुणैः स्मृतः || वैश्यानां वसुसंख्याकमेषां स्त्रीणामयंविधिः | यः वर्णमाश्रितः शूद्रः स च तस्य विधिं चरे || शूद्रस्य विप्र भृत्यस्य तत्पत्न्याः सदृशो जपः | होमकर्मण्य शक्तानां विप्राणां द्विगुणो जपः || प्. १८ब्) इतरेषा तु वर्णानां त्रिगुणादि समन्वितः | प्रणवोच्चारणाद्धोमात् शारग्रामशिलार्चनात् || ब्राह्मणी गमनाच्चैव शूद्रश्चांडालतां व्रजेत् | अष्टाक्षरो महामंत्रः सप्तार्णस्तु स्त्रिशूद्रयोः || प्रणवादिश्चयो मंत्रः न स्त्रीशूद्रे प्रशस्यते | यद्यदंगविहीयेत तत्संख्या द्विगुणो जपः || कर्तव्यश्चांगसिद्ध्यर्थं तदंशक्ते न भक्तितः | न चेदंग विहीनेन तद्विशिष्टमवाप्नुयात् || यदि होमेन शक्तः स्यात् पूजायां तर्पणेपि वा | तावत् संख्य जपेन्नैव पुरश्चरणमाचरेत् || गुरवे दक्षिणां दद्यात् भोजना छादनादिभिः | गुरुसंतोषमात्रेण मंत्रसिद्धिर्भवेद्ध्रुवं || सम्यक् सिद्ध्यैक मंत्रस्य पंचांगोपासनेन च | सर्वे मंत्राश्च सिद्ध्यंति तत्प्रसादात् कुलेश्वरि || गुरुमूलमिदं सर्वमित्याहुस्तंत्रवेदिनः | एकग्रामस्थितो नित्यं गत्वा वंदेत वै गुरुं || गुरुरेव परब्रह्म तस्मादादौतमर्चयेत् | तदंते महतीं पूजा कुर्यात् साधकसत्तमः || सुवाशिनीं कुमारीं च भूषणैरपि भूषयेत् | मिष्टान्नं वहुसंकार्यं भुंजीत सहवंधुभिः || एवं सिद्धमनुर्मंत्री साधयेत् सकलेप्सितान् | अथवान्य प्रकारेण पुरश्चरणमिष्यते || ग्रहनेऽर्कस्य चेंदोर्वा शूचिः पूर्वमुखोषितः | नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः || स्पर्शाद्विमुक्ति पर्यंतं जपेन्मंत्रं मनंन्यधीः | यद्वा पुण्योदके स्नात्वा शुचिः पूर्वमुपोषितः || ग्रहणादि विमोक्षांतं जपेन्मंत्रं समाहितः | अथवान्य प्रकारेण पौरश्चरणको विधिः || प्. १९अ) चंद्रसूर्यो परागेन स्नात्वा प्रयतमानसः | स्पर्शादि मोक्षपर्यंतं जपेन्मंत्रमनन्यधीः || दृष्ट्वा स्नात्वा सुसंकल्पो विमोक्षांतं जपं चरेत् | जपाद् दशाशतो होमः तथा होमस्तु तर्पणं || एवं कृत्वा तु मंत्रस्य जायते सिद्धिरुत्तमा | तावद् यज्ञादिकं कुर्याद् ग्रहणांते शुचिः पुमान् || इति जपान् मंत्रं सिद्धि भवत्येव न संशयः | शाद्धादैरनुरोधेनदि जाप्यंतत्यजेत् नरः || स भवेद् देवता द्रोही पितृन् सप्तनयत्यधः | कल्पोक्त विधिना मंत्री कुर्याद्धोमं समाहितः || अथवा तद् दशांशेन होमादींश्च समाचरेत् | अनंतरं दशांशेन क्रमाद्धोमादिकं चरेत् || तदंते महतीं पूजां कुर्याद् ब्राह्मणभोजनं | ततो मंत्र प्रसिद्ध्यर्थं गुरुं संपूज्यतोषयेत् || एवं च मंत्रसिद्धिः स्याद् देवता च प्रसीदति | जपो होमस्तर्पणं चाभिषेको विप्रभोजनं || पंचांगोपासनं लोके पुरश्चरणमुच्यते || इति वाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्य पंचमोध्यायः || ५ || भैरव उवाच || पूर्णाभिषेकं वक्ष्यामि साधकानां शुभावहं | विनायेनाभिषेकेन साधकः पूर्ण बोधतं || आचार्यत्वं न चाप्नोति सद्गतिं च समाहितं | तस्माद् गुरुः प्रियं शिष्यं बोधयित्वाभिषेचयेत् || विरच्य विपुलं चक्रं मण्डपेऽति मनोहरे | खारीतोयभृतं कुंभ स्थापयेच्चक्र मध्यतः || अन्येषु कलशास्तत्र वस्त्र हेमसमन्वितान् | दलेषु विधिवत् स्थाप्य तत्रावाह्यष्टदेवतां || प्. १९ब्) अभ्यर्च्य मध्ये चान्येषुं चागा वरण देवतां | शिष्यस्य जन्मनक्षत्रे प्राग्वत्तैरभिषेचयेत् || नानोपचारैः संपूज्य सहस्रं जुहुयाच्छुचो | अभिषिंचेद् गुरुः शिष्ये रामास्यै प्रतिशेत् स्वयं || पूर्णाभिषेकः पातो यमाचार्यत्व प्रदायकः | अयं पूर्णाभिषेकः स्यात् साधकाभिष्ट सिद्धिदः || पलद्वयं तु प्रसृति कुडवं द्विगुणम् मतं | चतुर्भिः कुडवैः प्रस्थ आढकैश्च तु गुग्गुणैः || चतुर्गुणो भवेद् द्रोणः कुंभस्तद्वयतः स्मृतः | पूर्णाभिषेक हीनस्तु कौलिको श्रियते यदि || पिशाचत्व मवाप्नोति यावदा भूतसंप्लव | तीर्थासनं च संन्यासं व्रतधारणमेव च || उपवासं मुंडनं च सर्वथा परिवर्जयेत् | पूर्णाभिषेके शिरसि तेन तत्र न मुंडनं || कामरूपाश्च चंपाकानेपालोत्थाश्व सैंधकः | वागागांधारपौ लिंगाः सवैते चाधमाधमा || वीराणां कौलिकानां तु भर्ता दीक्षा समाचरेत् | भर्तु दीक्षाप्रदाने तु न दोषः कालिकागमे || शिवेन दीक्षापूर्वं तु गोर्यै दत्ता शुभावहा | सा च पुत्र्यथवा भार्या तद्वदत्रापि पार्वति || न पुत्री यदि तासा तु वीरभार्या प्रकीर्तिता | अदीक्षितकृतं श्राद्धं श्राद्धं चादीक्षितस्य वा || गृहित्वा पितरस्तेषां नरके च सुदारुणे | पतत्यवन संदेहो यावद्रिंद्राश्चतुर्दशैः || वहुप्रतिग्रहाशक्त आचार्य शिष्ययावह | स्वनाम्ना न गुरुकार्यो भार्या च मातृनामिका || देवी देव विशेषानी कर्मकृत्वा सुमंत्रिणा | महावलिप्रदानेन प्रसृते देशमंडले || प्. २०अ) वाममार्गे चतुर्दिक्षु मण्डलस्य वलिं चरेत् | ब्रह्मस्थाने तु वेतालो मेषस्तस्य वलिं सुरा || विष्णुस्थाने भैरवीस्यदजस्तस्यावलिं मतः | भैरवस्तु शिवस्थाने माहिषं वलिमिच्छति || गौडिमाध्वी च पैष्ठी च सुरास्तत्र क्रमात् मताः | मत्स्यमांसं मद्ययुक्तं भूतेभ्यो वलिलिख्यते || पितृभ्यः सासवपलं यक्षेभ्यः कुक्कुटो मधुः | भोक्तादुंदु वलिर्नागे वाममार्गे वलिंस्त्वयं || तृणपल्लवकाष्ठानि पाषाणां मृण्मयं तथा | वंशासनं च वस्त्रं च केवलं क्षितिमासनं || एकादशार्णोनेनोक्ता कपालार्चा तृतीयका | माया स्त्री हूं स्वर्ग कपालाय सर्वापदं वदेत् || देवी कपालाय नमश्चतुर्थो मंत्र ईरितः | षट्पंचाशत्कवर्णोयं कपालस्य तु पूजने || ततः स्तुस्मिं कपाले तु पूजयेदर्कमंडलं | सूर्यमंडलाये नमोंतोयं नवाक्षरः || सूर्यमंडल पूजाया नृकपाले मनूर्मतः | कूर्चयुग्मं महाकालं प्रसीदेति पदद्वयं || लज्जायुग्मं वह्निजाया संयुक्तः षोडशार्णकः | कोटिकालानलाभासां चतुर्भुज त्रिलोचनं || श्मशानाष्टक मध्यस्थं मुंडाष्टक विभूषितं | पंचप्रेतः स्थितं देवं त्रिशूलं डमरुं तथा || खड्गं च खर्परं चैव वामदक्षिणयोगतः | विभ्रतं सुंदरं देवं श्मशानभस्मभूषितं || नानाशवैमुंडमालं कालिका हृदयस्थितं | लालयंतं रतासक्तं घोरचुंवन तत्परं || गृद्धगोमायुतं युक्तं फेरवीगण संयुतम् | प्. २०ब्) जटापटल शोभाढ्या श्मशान्यालयचेस्थितं || सर्वशून्यं मुण्डभूषं प्रसन्नवदनं शिवं || त्रैलोक्यनाथ जगदीश महेश्वरस्त्वं ब्रह्माण्ड कोटि जठराद्भूत शांत्यचिन्त्य | यस्त्वं मयाल्पमतिना द्विभुजादि देही ध्यातो पराधशतकं ममतक्षमस्व || त्वं सूर्यचंद्रदहनेश गणेशविष्णुब्रह्मेन्द्रशक्तिमरयोगनगस्वरूपः | ध्यातौ शिवाल्म विषये परिपूजितोसि तन्मे पराधशतकं मम तत्क्षमस्व || वेदोपि नैव मुनयो न च भारतीत्वां जानाति मंदमतिमास्वरूक्तरीत्या | ध्यातस्त्वमेवमपराधकृता मयेदं दुःखं प्रलब्ध मधुना शरणागतोयं || ध्यानं करोमि मनसा न च ते ह्यनंत मंत्राक्षरात्मकमिदं परिभावयामि | रूपं त्वदीयमिति यत्प्रवदंति वेदाः सिद्धिर्जपान्न च वहिः कृतपूजनाद्यैः || मणिवंधादधां *? पादांगुल्यादधः शिवे | मुखं प्रक्षालयेद् देवी वीरस्नानमिदं भवेत् || तथा स्नानं न मे देहो न च पापं ममास्ति वै | किं स्नानं कस्यचित् स्नानं मस्नातः कृत भोजनः || सदा देव्युदकैः स्नायात् तदभावे यथोदकं | हकारः शिवरूपत्वा उकारः पापनाशकः || ईकारः कामरूपत्वात् माया तेन प्रकीर्तिता | वज्र सत्व भवे विंदु अर्द्धेंदु रोचनेस्तथा || रेषा रत्नाधिपश्चैव हकारश्चामृतंयुत | ऊकारं मेघसिद्धि स्यात् ज्ञात्वा पंचजिनात्मकं || श्मशान भैरवीन्देवीमुग्रतारां तथैव च | उच्चिष्ट भैरवी चण्डीः तारात्रिपुरसुंदरीं || वज्रवाराहिका देवी वेतालवाहन स्मृतः | प्. २१अ) यं चतुर्थापि वीजेन षष्ठस्वर विभूषितः || अग्निवेतालवीजोयं सर्वत्र भयनाशकः | यत् पूजयेत् तस्य मंत्र भूतादित्यो भयं न हि || द्विभुजः पीतवदनो रक्तनेत्र भयंकरः | दुंविकान् दक्षिणे पाणौ वामे रुधिर पात्रकं || दंष्ट्रा कराल वदनः कृशोधमनिशं ततः | जटां दीर्घापूरि विभ्रत घोरा वपुतस्तथा || मोहिनी उवाच || साधनां वीरकवचं न जानामि महेश्वर | कथं मंत्र विधिं कृत्वा ईश्वरस्त्वं मया प्रभु || श्री आनंददेवोवाच || कवचं शृणु पार्वत्या महाकाल स्वरूपिणीं || अस्य श्रीवेताल कवचस्य श्रीवीरवेताल ऋषिःरनुष्टुप्छंद भूतनाथो देवता डाकिनी शाकिनी शक्ति सर्वार्थ मंत्र सिद्धये विनियोगः || वीरध्वज वामहस्ते दाहिनापात्रहस्तके | तत् देवा भोजये नित्यं सुरामांसारत प्रिये || महाकाल स्वरूपा च कालरूपाय धीमता | अनेन कवचं श्रुत्वा यः पठेत् साधकोत्तमः || ओं ह्सौं पातु मस्तकानां परब्रह्म प्रकाशक | ललाटे भैरवी पातु एकाक्षरं तु नासिके || कंठे पातु विशालाक्षी हृदयकाल पातु मां | फ्रें पातु द्विभुजे चैव हुंपातु नाभिमध्यके || महावीरपातु उदरं लिंगे रक्षां महानिधि | मूलाधारं विघ्नराजो पादमध्य तु मालिकं || रक्ष रक्ष महावीर पातु पादांगुली पद | ओं ह्सौं महावीर २ वेताल सर्वकार्येषु संपद || नाममंत्रश्रुतं लोके सर्वशत्रु विदाहय || प्. २१ब्) हं हं हं भीमरूपं ज्वलति शिखि शिखा वीरनाथं नमामि | सं सं सं शत्रुघाट फणि फणि विभुषं पातुमां वीरनाथम् || श्रीं श्रीं श्रीं कालरूपं विघिनिविघ्नशं कालरूपं नमामि | वं वं वं वेतालनामं स षट् षट् भैरवो वाहनानां || ओं ओं ओं वीरनादं विषविषविनाशं भूमिकं पायमानं | फ्रीं फ्रीं फ्रीं वायुवेगं गत गत गदितं नाद हूं काल नेत्रं || कं कं कं कालकूट प्रणित फणि फणि भूषितं सर्व अग्रे | तं तं तं ताडनादं पट पट पतितं हंन्यते हंन्य पापं || घं घं घं गीतवाद्य घ घु घु रु घु घुर शब्दहास्यते वीरनाथं | पं पं पं पात्रहस्तं नररुधिरं भोगं रक्षमां वीरनाथं || इति कवचमज्ञात्वा यो भजेत् वीरसाधनं | शृणु पूजाविधिं कृत्वा कालोपचारमुच्यते || संतुष्टो वीरवीरोहं पीतरूपं भयंकरं | तारणं मारणं देवी उच्चाटं मोहनं तथा || चतुर्विद्या भवेत् शक्ती साधको दीयते पदं | प्रकाशे शमसारे वा जलमध्यवनांतरे || कालकुक्कुटवीरस्य तथा लुब्धभयंकरं | भोजपत्रे लिखे भक्ति दाहिना वाहु मूलके || सर्वशास्त्रकवीराणां जिह्वाऽग्रवीर आगते | वीरप्राकर्मसामर्थं निश्चये दीयतेत्सुधीः || ओं हूं फट् महावीर वेतालाय विद्महे भैरवासनाय धीमहि तन्नो वीर प्रचोदयात् || पताका ध्वजदंडादौस्सुतं वस्त्रं प्रपूजयेत् | अन्यत्र चरणादौ च तद्विनाशच्युतोपि च || रक्तं कौशेय वस्त्रं च महादेव्यै प्रपूजयेत् | प्. २२अ) पीतं नीलं च वै दद्यात् कौशेयं केशवाय च || रक्तं च कंवलं दद्या छिवाय परमात्मने | विचित्र सर्वदेवेभ्योः देवांशुकं निवेदयेत् || चूर्णकृतो वा घृष्टे वा दाहाकर्षित एव वा | रेस संसर्गयो वापि प्रणं गोर्भवमेव वा || गंधः पंचविधः प्रोक्त देवानां प्रीति दायकः | गंधचूर्णं गंधपत्रं चूर्णं सुमनसं तथा || प्रशस्त गंध चूर्णानां यत्र चूर्णी निपानि तु | तानि गंधाद्ध?यानिः स्युः स गंधः प्रथमः स्मृतः || घृष्टामलयजो गंध शरलश्च न मेरुणा | अगुरु प्रभृतीं चापि यस्य पंकः प्रदीयते || पृष्टोथ पृष्टगंधोयं द्वितीयः परिकीर्तितः | देवदारु गुरुः ब्रह्मदानसारा तु चंदन || प्रियोदीनां च यो दग्धा गृह्यते दाहतो रसः | स दाह कर्षितो गंधं तृतीये परिकीर्तितं || सुगंध करवीरासुगंधिनी तिल * तरं | प्रभृतीनां रसो योस्मै निःपीड्य परिगृह्यते || समस्यं मुद्भवो गंधः सर्वगंध इतीष्यते | मृगनाभि समुद्भूतस्तग्रातोद्भव एव च || गंधः प्राश्यं गजः प्रोक्ता मोददः स्वर्गवासिनां | कर्पूरगंधसाराद्या पक्वघृष्ट च संस्थितः || चंद्रभागादयश्चापि रसै पक्वरसद्गताः | गंधरारं तु सर्वत्र सर्मदादौ प्रपूज्यते || मृगनाभि भवेद् घृष्टश्चूर्णो यस्यैव योगतः | एवं सर्वस्तु सर्वत्रे गंधो भवति पंचधा || प्. २२ब्) पृष्टादि भावादेन्यान्यं गंधः प्रीतिकरः परः | गंधस्य विस्तरो भेदः प्रोक्त कालीपकांदयः || सर्वपंचविधैरेव प्रतिष्ठो भवति क्षणात् | गंधामलयजो यस्तु दैव पित्रे वसुर्मत || तत्वं कोवासरो वापि चूर्णवविष्णुस्तुष्टिदः | सर्वेषु गंधजातेषु प्रशस्त * मयोद्भवा || तस्मात् सर्वप्रयत्नेन देवा मलयजः सदा | पूर्णा गुरु स कर्पूर हितो मलयजोद् भवै || वैष्णवी प्रीतिदो गंध कामाख्यायाश्च भैरव | कुंकुमागुरु कस्तूरी चंदभागैः समीकृतः || त्रिपुरा प्रीतितो गंधस्तथा च द्विवशंभुना | देवता देवताः प्रोक्ता गंधात् संपूज्य साधकः || देवायष्टायविभवे सर्वसिद्धिप्रदं सदा | गंध न लभते कामान् गंधो धर्मप्रदः सदा || अर्थानां साधको गंधो गंधामोक्षः प्रतिस्थितः | अयंनौ कथितो गंधः पुत्रौ वेताल भैरवौ || शारं वा वादनं वस्त्रं जीर्णं मलिनमेव वा | उपभुक्तं चनादद्याद्वर्तिकार्थं च साधकः || उपदद्यात् मूलमेव सतेतं श्री विवृद्धये | क्रोधजं रामजं वस्त्रं वर्तिकार्थं नवाचरेत् || दीपवृक्षाश्च कर्तव्यास्त्रैजसाद्यस्थ भैरव | वृक्षा प्रदीपो दातव्यारतु भौमौ कदाचन || सर्वं सहावसुमती सहतेनन्निर्थ द्वयं | स्वका च पादघातं च दीपतापं तथैव च || प्. २३अ) नादत्ते त्वं जनं देवी वैष्णवी विधवा कृतं | न मृत्पात्रयोजये च साधको नेत्रलंजनं || न पूजाफलमाप्नोति मृत्पात्रे विहितांजनैः | चतुर्वर्गप्रदो धूपः कामदं नेत्ररंजनं || तस्माद्वारमिदं दद्याद् देवेभ्यो भक्तितो नरः | आमिक्षा परमानं च दधि वापि * शर्करं | महादेव्यै निवेद्यै च वाजिमेधलसंभवेत् | मूलकैरेण मांसेन लोहपात्र सुसंस्कृतं || व्यंजनं गंधसंयुक्तं देवीलोकमवाप्नुयात् || इति श्रीवाराहितंत्रे दक्षिणाम्नायनिर्वाणपदे महातिरहस्य षष्ठः पटलः || ६ || भैरव उवाच || वेतालादि महासिद्धिः कथं भवति चण्डिके | तन्मे कथय देवेशि यदि स्नेहोस्ति मां प्रति || श्रीभैरव्युवाच || मम हस्त स्थितो नाथ ममाज्ञां परिपालय | एवमंत्र्यस्तु वेतालं यत्र यत्र प्रमुच्यते || देशो नदी गया शैल गंगानर्मदपुष्करं | वाराणसी कुरुक्षेत्रं प्रयागं जंवुकेश्वरं || केडारं वामपादं च पुडवं पुष्कराह्वयं | सोमेश्वरं महारण्यं तथा च मरकंठकं || कालं जलं तथा विंध्यं यत्र वासो गुहस्य च | ब्रह्मणा निर्मितं देशं ब्रह्मावर्तं प्रचक्षते || यस्मिन् देशे यदाचारः पारंपर्य क्रमागतः | वर्णानां सांतरालानां स सदारह उच्यते || कुरुक्षेत्रं च मत्स्याश्च पांचालाः शूरसैनिका | प्. २३ब्) एष ब्रह्मर्षि देशो वै ब्रह्मवर्तादनंतरः || मत्स्या चिरागः पांचालाः कान्यकुब्जाः शूरसेनिका | हिमवद् विंध्ययोर्मध्ये यत् प्राग्विनशनादपि || प्रत्यगे च प्रयागाच्च मध्यदेश उदाहृतः | आसमुद्रा तु वै पूर्वा दासमुद्रात् तु पश्चिमात् || तयोरेवांतरंगिर्योरार्यावर्तं विदुर्वुधाः | कृष्णसारस्तु चरतिं मृगो यत्र स्वभावतः || स ज्ञेयो यज्ञि यो देशे म्लेच्छ देश * * सुतः | ब्राह्मणः क्षत्रिया वैश्या शूद्राश्चैव द्विजोत्तम || अर्चयंति महादेवं यज्ञदान समाधिभिः | व्रतोपवासनियमैर्होमस्वाध्याय तर्पणैः || तेषां वै देवि सायुज्यं सामीप्यं चाति दुर्लभं | स लोकतां च सारूप्यं जायते मत्प्रसादतः || स्नातै प्रमुदितैर्हृष्टै ब्राह्मणैः क्षत्रियैर्नृपैः | वैश्यैः शूद्रैर्भक्तियुक्तै म्लेच्छैरन्यैश्च मानवैः || गृहीत्वौ दुंवरं पात्रं वारि पूर्ण मुदश्मुखः | उपवासं तु गृह्नीयाद् यद्वासंकल्पयेद् वुधः || अभुक्त्वा प्रातराहारं स्नात्वा चम्यसमाहितः | सूर्याय देवताभ्यश्च निवेद्य व्रतमाचरेत् || क्षमासत्यं दयादानं शौचमिंद्रियनिग्रहः | देवपूजाग्नि हवनं संतोषस्तेयवर्जनं || सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्थितः | क्रोधात् प्रमादाल्लोभाद्वा व्रतभंगो भवेद् यदि || दिनत्रयं न भुंजीत मुंडनं शिरसोथ वा | असकृज्जलपानाच्च स कृत्तांवूलचर्वणात् || प्. २४अ) उपवासः प्रणश्चेत दिवास्वापाच्च मैथुनात् | अंत्यये चांवुपानेन नोपवासः प्रणस्यति || इक्षुचापपयो मूलं तांवूलं च महोषधं | भुक्त्वा चैव तु कर्तव्यं स्नानदानादिक क्रिया || रजस्वलां च चंडालं महापातकिनं तथा | सूतिकां पतितं चैव उच्छिष्ट रजकादिकं || व्रतानि मध्ये शृणुयाद् यद्येषां ध्वनिमुत्तमः | अष्टोत्तर सहस्रं तु जपेद् वै वेदमातरं || संध्या हीनो शुचिर्नित्य मनर्हः सर्वकर्मसु | यदन्यत् कुरुते किंचिन्न तस्य फलमश्नुते || अधो वायु समुत्सर्गे प्रहासेनतभाषणे | मार्जारमूषकस्पर्शे आकुष्टे क्रोधसंभवे || निमित्तेष्वेषु सर्वत्र कर्म कुर्वन्नयः स्पृशेत् | स्नानं संध्यातर्पणादि जपहोमामरार्चनं || उपवास व्रताकार्यं सायं संकाहुतीर्विना | गर्भिणी सूतिकादिश्च कुमारी चाथ रोगिणी || यदा शुद्धा तदान्येन कारये * यता स्वयं | भार्या पत्युर्व्रतं कुर्या भार्यायाश्च पतिर्व्रतं || असामर्थ्ये पतिणाभ्यां व्रतभंगो न जायते | उपवासे स्वशक्तस्तु आहिताग्निरथापि वा || पुत्राद्वाकारयेदन्याद्ब्राह्मणाद्वापि कारयेत् | उपवासं प्रकुर्वीतः पुण्यं शतगुणं लभेत् || नारी च ति * मुद्दिश्य देविभक्तमुपोषिता | पुण्यं शतगुणं या या दित्याह भैरवोदितः || काम्ये प्रतिनिधिर्नास्ति नित्यैनैमित्तिकेपि च | काम्येप्युपक्रमादूर्ध्वं केचित् प्रतिनिधिं विदुः || प्. २४ब्) नस्या प्रातिनिधिर्मंत्र स्वामि देवाग्नि कर्मसु | स देशकालयोर्नास्ति तारणेरग्नि चेतसा || हविष्येषु यवा मुख्यास्तदनुवीहयस्मृता | माषकोद्रवगोरादीन् सर्वाभावेपि वर्जयेत् || व्रीहि षष्ठि च मुद्गाश्च कलायाः सलिलं पयः | श्यामाकाश्चैव नीवाराः गोधूमाद्या व्रतेभिताः || कूष्मांडालावुकावार्ता पालक्यज्योत्स्निकास्त्यजेत् | चरुभक्षं सक्तुवाणाः शोकं दधिघृतं मधुः || श्यामाकाश्शालिनीवाराः पावकं मूलतंडुलं | हविष्ये व्रतनक्ताहावग्निकार्यादिके हितं || मधुमांसं विहायां न्यद्व्रते च हितमीरितं | षष्ठिका कालशाकं च मूलकंकेमुकेतरत् || कंदः सैन्धव सामुद्रे गव्ये च दधिसर्पिषी | पयोऽनूधृतसारं च पनसाम्लहरीतकी || पिप्पलीजीरकं चैव नागरंगकतिंकिणी | कदली लवली धात्री फलान्यगुडसैक्षव || सुवर्णं रजतं मुक्ताराजवर्तप्रवालकं | रत्नं पंचकमाख्यातं शेषं वस्तु व्रवीम्यहं || कनकं कुलिसंनीलं पद्मरागं च मौक्तिकं | एतानि पंचरत्नानि रत्नशास्त्र विदो विदु || अभावे सर्वरत्नानां हैम सर्वत्र योजयेत् | मुक्ताफलं हिरण्यं च वैदूर्यं पद्मरागकं || पुष्परागं च गोमेदं नीलं गारुन्मतं तथा | प्रवाल युक्तान्युक्तानि महारत्नानि वै नव || अश्वत्थो दुंवरप्लक्ष चूतन्यद्योधपल्लवाः | पंचभंगा इति प्रोक्ता सर्वकर्मसुशोभनाः || प्. २५अ) गोमूत्रं गोमयं क्षीरं दधिसर्पि कुशोदकं | निदृष्टं पंचगव्यं च पवित्रं काय शोधनं || गायत्र्यादाय गोमूत्रं गंधद्वारेति गोमयं | आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि || तेजोसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकं | एभिस्तु पंचभिर्युक्तं पंचगव्यं प्रचक्षते || पंचामृतं दधिक्षीरं सिता मधुघृतस्तथा | मधुराम्लं च लवणः कषायस्तिक्त एव च || कटुकश्चेति हे देवि रस षट्कमुदाहृतं | कस्तूरिकाया द्वौ भागौ चत्वारःश्चंदनस्य च || कुंकुमस्य त्रयश्चैकं शशिनः स्याच्चतुः समं | कुष्टं मासं हरिद्रे द्वे मूराशैलेय चंदनं || वचाचंपकमुस्तं च सर्वौषध्यो दश स्मृताः | इक्षवस्तृणराजं च निष्या वा जाति धान्यकं || विकारवच्च गोक्षीरं कुसुंभं कुंकुमं तथा | लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते || आपः क्षीरं कुशाग्राणि दध्यक्षत तिलास्तथा | यवाः सिद्ध्यर्थकाश्चेति ह्यर्घोष्टांगः प्रकीर्तितः || रजांसि पंचवर्णानि मंडलार्थं हि कारयेत् | शालितंडूलचूर्णेन शुक्लं वायवसंभवं || रक्तं कुसुमसिंदूरं गैरिकादि समुद्रवं | हरितालो द्रवं पीतं रजनी संभवं तथा || दूर्वाय * कुरश्चैव वालकं चूतपल्लवाः | हरिद्रा द्वय सिद्धार्थं शिखिपत्रोरग त्वचः || कंकणौषधयश्चैता कौतुकाख्या नव स्मृताः | गजाश्वरथ्या वल्मीक संगमाद् व्रज गो कुलात् || प्. २५ब्) मृदमानीय कुंभेषु प्रक्षिपेच्च त्वरा तथा | सुवर्णं रजतं ताम्रमारकूटं तथैव च || लौहं * पु तथा सीसंधातवः सप्तकीर्तितं | यमगोधूमधान्यानि तिलाकंगुस्तथैव च || श्यामाकंचनकं चैव सप्तधान्यमुदाहृतं | व्रीहयश्च यवाश्चैव गोधूमाः कंगुकास्तिलाः || प्रियंगवः कोविदराः कोरदूर्षाः सतांनकाः | माषामुद्गाससूराश्च निव्यावाः सकुलस्थकः || आढक्यश्चणकाश्चैव गणः सप्तदशः स्मृतः | यवगोधूमधान्यानि तिलांकंगुकुलत्थकः || माषामुद्मामसूरानि निष्यावाः श्यामसर्षपाः | गवेधूकाश्च नीवारा आढक्योथ गतीनका || चणकाश्चीनकाश्चैव धान्याष्टा दशशैव तु | मूलपत्रकरी रोग्र फलकांजधिरूढकाः || त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतं | हैमराजतताम्राश्च मृन्मया लक्षणान्विता || यात्रोद्वाह प्रतिष्ठादो कुंभास्युरभिषेचने | पंचाणांगुल वै पुत्या? उत्सेधे षोडशांगुलाः || द्वादशांगुलमूला स्युर्मुखमष्टांगुलं भवेत् | अनुक्त द्रव्य तत्संख्या देवता प्रतिमा प्रिये || सौवर्णी राजती ताम्री वृक्षजामार्तिका तथा | चित्त?जापित्तलेपोत्था निजवृत्तानुरूपतः || आमाषात्पलपर्यंता कर्तव्याः शाढ्यवर्जितैः | अगुष्ठपर्वादारभ्य वितस्त्यवधिका स्मृताः || अंगुष्ठपर्वादारभ्य पादारभ्याविदेव तु | गृहे तु प्रतिमा कार्या नाधिकाशस्यते वुधैः || प्. २६अ) होमोग्रहादि पूजायां शतमष्टोत्तरं भवेत् | अष्टाविंशतिको चापि यथाशक्ति विधीयते || यथोक्तवस्त्वसंपत्तौ ग्राह्यं तदनुकारियत् | यवानामिव गोधूमा व्रीहीणामिव शालयः || आज्यं हुत्यमनादेशे जुहोतिषु विधीयते | मंत्रस्य देवतायाश्च प्रजापतिरिति स्थितिः || प्रणवादि नमोंतं च चतुर्थ्यांतं च सत्तम | देवताया स्वकं नाम मूलमंत्रः प्रकीर्तितः || दध्यलाभे पयः कार्यं मध्यलाभे तथा गुडः | घृतप्रतिनिधिं कुर्यात् पयो वा दधि वा प्रिये || आज्यहोमेषु सर्वेषु गव्यमेव भवे हृतं | तदलाभे महिष्यास्तु आजमाविकमेव तु || तदलाभे तु तैलं स्यात् तदलाभे तु जातिलं | महाग्निषो मयावि च दरिद्रश्चैव जायते || तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन | कर्षमात्रमिदं होमे शुक्तिमात्रं पयः स्मृतं || उक्तानि पंचगव्यानि शुक्तिमात्राणि साधुभिः | तत्समं मधुदुग्धेत्रग्रासमात्रमुदाहृतं || दधिप्रसृतिमात्रं स्यात् लाजास्युर्मुष्टि संमिताः | पृथुकास्तत् प्रमाणास्युः शक्तवोपि तथा विधा || पलार्द्धं गुडमानं च शर्करापि तथा विधा | ग्रासार्द्धं मात्रं मत्नानामिक्षुः पर्वप्रमाणकः || एकं स्यात् पत्र पुष्पं च तथा धूपादि कल्पयेत् | मातु लिंगं चतुःखंडं पनसं दशधा कृतं || अष्टधा नालिकेरं च चतुर्धा कदलीफलम् | प्. २६ब्) त्रिधा कृतं फलं वैल्वं कपित्थं खंडितं द्विधा || व्रीहयो मुष्टिमानास्युर्मुद्गामाषायवास्तथा | तंडुलास्युस्तदर्धांशो कोद्रवामुष्टिसंमिता || लवणं शुक्तिमात्रं स्यान्मरीचान्येकविंशति | घृतस्य कर्षिको होमः क्षीरस्य मधुरस्तथा || शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य तु | खंडत्रयं तु मूलानां फलानां स्वप्रमाणतः || ग्रासमात्रं जुहोतव्या इतरेषां च तंडुलाः | अक्षतास्तु यवाः प्रोक्ता अभावे व्रीहयः स्मृताः || तद भावे तु गोधूमा न तु खंडतिलाजवः | येषांकषां चिदन्येषां द्रव्याणामथ संभवे || सर्वत्रा ह्यमुपादेयं भरद्वाज मुनेर्मतात् | सर्वप्रमाणमाकुत्या सूक्ष्माणि पंच पंच च || इक्षुणां पर्वकं मानं लतानामंगुलद्वयं | चंद्रं वदन काश्मीर कस्तूरी यक्षकर्दमात् || कलायं संतिता नेतान् गुग्गुलुं वदरास्थिवत् | द्रव्यं स्रुवेण होतव्यं पाणिना कठिनं हविः || स्रुव पूर्णाः द्रवाः प्रोक्ताः कथिनाग्रा समात्रकाः | व्रीहयो यवगोधूम प्रियंगुतिलशालयः || स्वरूपेणैव होतव्या इतरेषांरतंडुलाः | वालाग्निहोत्रिणां विप्रं सुरूपं च गुणान्वितं || सपत्नीकं च संपूज्य भूषयित्वा विभूषणैः | पुरोहितं मुखातमं कृत्वान्यांश्च तथा द्विजः || चतुर्विंशद्गुणोपेतान् सपत्नीकान्निमंत्रितान् | अहतां च रसं छन्नान् स्रग्विणः शुचिभूषितान् || प्. २७अ) वस्त्रयुग्मं यथोष्णीषं कुंडलं कंठभूषणं | अंगुलीभूषणं चैव मणिवंध स भूषणं || एतानि चैव सर्वाणि प्रारंभे धर्मकर्मणां | पुरोहिता पदत्वाथ ऋत्विग्भ्यः संप्रदापयेत् || पूर्वोक्त भूषणं सर्वं सोष्णीषं वस्त्रसंयुतं | दद्यादे नृत्प्रयोक्तस्य आच्छादन पदं तथा || संपूज्य मधुपर्केण ऋत्विजः कर्मकारयेत् | अपूज्यात् कारयेत् कर्म किल्विषे नैव पूज्यते || हेमासंकारिणः कार्याः पंचविंशति ऋत्विजः | दक्षयेच्च समं सर्वान् नाचार्ये द्विगुणं भवेत् || प्रागुदीच्यां गता रेखा कुर्यादेकोनविंशतिः | खंडेंदु स्त्रिपदः कोणाशृंखला पंचभिः पदैः || चतुर्विंशत् पदा वापीपलिधिर्विंशतिः पदैः | मध्य षोडशभिः कोष्ठैः पद्ममष्टदलं स्मृतं || श्वेतं दुःशृंखला कृष्णावल्लीनालेन पूरयेत् | भद्रारुणासिता वापी परिधिः पीतवर्णकः || वाह्यांतल दलश्वेता कर्णिका पीतकर्णिका | परिधा वेष्टितं पद्मं वाह्यंतरसरजस्तमः || तन्मध्ये स्थापयेद् देवां ब्रह्माद्यान्स्तु सुरासुरन् | चतुर्विंशतिरालेख्या रेखा प्राग्दक्षिणायतः || कोणेषु शृंखला पंच पदावल्यस्तु पार्श्वतः | पदैर्नवभिरालेख्याश्चतुर्भि लघुशृंखलाः || लघुवृत्त्यपदैः षड्भिस्ततोष्टावशभिः पदैः | कृत्वा लिंगानि वाप्यः स्युस्त्रयोदशभिरंतरा || ततो वांथी द्वय नैव पीठं कुर्याद् विचक्षणः | तस्या पादा पंचपदा द्वाराणपि तथैव च || प्. २७ब्) एकाशीति पदं मध्ये पद्मं स्वस्तिक मुच्यते | शृंखलाः कृष्णवर्णेन वल्लीनेलेन पूरयेत् || लक्षेन शृंखला लघ्वी वल्लीः पीतेन पूरयेत् | लिंगानि कृष्णवर्णानि श्वेते वापि च वापिकाः || पीठं स पार्श्वे ते नैव पीते न द्वारपूरणं | मध्ये स्युः शृंखला रक्ताः वल्लीं नीलेन पूरयेत् || भद्राणि पीतपर्वाणि पीतपंकज कर्णिका | दलानि श्वेतवर्णानि यद्वा चित्राणि कल्पयेत् || तिस्रो रेखा वहिः कार्या सितरक्ताः सिताः क्रमात् | रेखादष्टा दश प्रोक्ताश्चतुर्लिंग समुद्भवेत् || कोणेंदुस्त्रिपदः श्वेतस्त्रिपदैः कृष्ण शृंखलाः | वल्ली सद्य पदा नीला भद्रं रक्तं चतुष्पदं || भद्रपार्श्वै महारुद्रे कृष्णमष्टादशैः पदैः | शिवस्य पार्श्वतो वाण दक्षिणे रक्तवर्णकाः || पदमेकं तथा पीतं भद्रं वाप्यस्तु मध्यतः | शिरसि शृंखलायाश्च कुर्यात् पाने पद त्रयं || लिंगानां स्कंधतः कोष्ठा विंशती रक्त पर्णकाः | परिधिः पीतवर्णेस्तु पदैः षोडशभिस्मृतः || पदैस्तु नवभिपश्चाद् रक्तं पद्मं सकर्णिकं | प्रागुदीच्या यथा रेखाः षड्विंशद्धि प्रकल्पयेत् || पदानि द्वादशशतं पंचविंशतिरेव च | खडेंदुस्ति पदः कोणे शृंखला षट्पदैः स्मृताः || त्रयोदश पदावल्ली भद्रं तुरयभिः पदैः | त्रयोदश पदा वापी लिंगमष्टादशैः स्मृतं || लिंगत्रयस्य पंक्तौ तु शोभा कोष्ठाश्चतुर्दशः | प्. २८अ) तेषा सु परिपक्तौ तु कोष्ठाः सप्तदशैव तु || पूजापक्तिस्तु विज्ञेया परितः परिकल्पिताः | पूजापक्त्यंतरापंक्तौ कोष्ठद्व्यशीति संख्यया || परिधि स च विज्ञेयो मंडलरंतरा द्वयोः | परिध्वंतरकोष्ठेषुरर्चतो भद्रमालिखेत् || विशेषश्चात्र विज्ञेयः शृंखला षट्पदा भवेत् | त्रयोदश पदावल्ली भद्रं तु नवसः पदैः || पंचविंशत्पदा वापीरितुभिः षोडशात्मकः | मध्येन वै पदं पत्रे कर्णिका केशरान्वितं || सत्वं रजस्तमो वर्णाः पतितो मंडलस्य तु | त्रयः परिधयः कार्यास्तत्र द्वाराणि कारयेत् || सितेंदुः शृंखला कृष्णा वल्ली नीला प्रकीर्तिता | भद्रं वै वारुणं ज्ञेयं वापी स्याच्छ्वेतवर्णिका || लिंगानि कृष्णवर्णानि पार्श्वतो द्वादशैव तु | परिधिः पीतवर्णः स्यात् कमलं पंचवर्णकम् || इति श्रीवाराहीतन्त्रे निर्वाणपदे सप्तमः पटलः || ७ || श्रीदेव्युवाच || देवदेव जगन्नाथ भक्तानुग्रहकारणः | सर्वापत्य समाप्नोति पवित्रानं कथं नरः || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि गुह्यागुह्यन्तरं परं | आपदुधारणं नाम कवचं परमाद्भुतं || शतमष्टोत्तरं चैव जप्त्वा ध्यात्वा च कालिकां | इंद्रजिद्वन्धनान्मुक्त पुरादेवि सचीपतिः || भैरवोस्य ऋषिःछन्दो गायत्री देवता प्रभुः | कालिका विनियोगोस्य सर्वापद्विनिवारणे || ओं शिरो मे कालिका पातु क्रीमाद्यां ङे युतानपिः | ललाटे चंडिका पातु कंठं पातु परांविका || प्. २८ब्) चामुंडा हृदयं पातु नाभिंमंगलचंडिका | उग्रचंडा शिरः पातु प्रचंडा पातु पदयुगं || भैरवी त्वरिता दुर्गा चामुंडा चण्डनासिका | जयदुर्गा विशालाक्षी भद्रकालि कपालिनि || शिवदूतीतितापांतु दशदिक्षु च मां सदा | ताराकालि शिवा स्वाहा जयंती मंगला स्वधा || योगिनि योगनिंदा च छिन्नमस्ता च डाकिनि | राजद्वारे जलेऽररन्य संयोगे संकटे ग्रहे || राज्ञः खड्गनिपाते च कारागारादि भीषणे | इति सर्वत्र * रस्तु सदा मां परमो युधैः || इदं च कथितं देवि कवचं ब्रह्मरूपिनं | आपदुद्धारणं नाम सर्वापद्विनिवारकं || अस्या विधारणाद् देवि सर्वापन्नासि यत् क्षणा | देव्यै पुष्पांजलिं दत्वा कवचं प्रपठेत् सकृत् || सर्वापन्नाशयेत् सत्यं तत्क्षणान् नात्र संशयः | त्रिवार पठनात् सत्यं नाशयित्वाऽखिलापदं || सर्व प्रियतमो भूत्वा सर्वैश्वर्यमवाप्नुयात् | लोहयंजलमध्यस्थो गलपद्वंधनै दृढं || देवीं हृदि समाराध्य पठित्वाष्टाधिकं शतं | खड्गादिभिःरवध्यस्याद्वंधनान्मुच्यते ध्रुवं || गुरुवक्त्रात् समासाद्ये लक्षं यः प्रपठेच्छुचिः | परितुष्टा तदा काली तस्य प्रत्यक्षतां व्रजेत् || देव्युवाच || देवदेव महादेव सर्वागम विशारदा | इदानीं श्रोतुमिच्छामि मुद्राश्चैव तु लक्षणं || प्. २९अ) भैरव उवाच || षृणु देवि प्रवक्ष्यमि मुद्रायाश्चैव लक्षणं | संमुखी कृत्य हसौ द्वौ द्वौ हस्तौ किं चितांगुली || मुकुली तु समाख्याता पंकजं प्रसृतैव सा | पूर्वोक्ता मुकुलीया च प्रदेशे निःसृतांगुलिः || व्योकेश मुद्रा मुकुला पद्ममुद्रां प्रदर्शयेत् | अंगुष्ठैव चितीजौ तु स्वकीयांगुलि वेष्टितौ || उच्चैचाभिमुखौ हस्तौ योजयित्वा तु निष्टुरा | तर्जन्यो कुचिते कृत्वा तथैव च कनीष्ठयो || अधोमुखीदष्ट नखा स्थिता मध्ये करस्य तु | चतप्रश्चोत्थिताः पृष्ठे अंगुष्ठा वेकतः कुरु || नालं व्यवस्थितौ द्वौ तु व्योममुद्रा प्रकीर्तिता | देवता तेन संतुष्टा सर्वदा सन्मुखी भवेत् || अंगुष्ठौ निक्षिपेत् सेयं मुद्रात्वा वाहनी मता | संग्रथ्यनिक्षिपेत् सेयं मुद्रा वा वाहनी स्मृता || अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका स्मृता | उच्छ्रिता वुच्छितौ कुर्यात् संमुखी करणी भवेत् || प्रसृतांगुलिकौ हस्तौ मिथः श्लिष्टौ तु सन्मुखैः | कुयात् स्वहृदयं सोयं मुद्रा प्रार्थनसंज्ञिका || इत्येव सर्वदेवानां पूजने षट्प्रदर्शयेत् | उच्छ्रितं दक्षिणांगुष्ठं वामांगुष्ठेन वंधयेत् || वामांगुलार्दक्षिनाभिरंगुलीभिश्च वेष्टयेत् | लिंगमुद्रेय माख्याता शिव सान्निध्य कारिणी || श्रीकामः शीर्ष्णि कुर्वीत राज्यकामस्तु नेत्रयोः | मुखे त्वत्रद्य कामस्तु ग्रीवायां रोगशांति कृत् || प्. २९ब्) हृदय सर्वकामी च ज्ञानार्थी नाभिमंडले | राज्यकामस्तु गुह्यै वै राष्ट्रकामस्तु पादयोः || आवाहनी स्थापनी च संनिधी करणी तथा | सुसंनिरोधनी मुद्रा संमुखी करणी तथा || संकली करणा चैव महामुद्रा तथैव च | शंखचक्रगदापद्मधनुकौस्तुभगारुडाः || श्रीवत्सव न माले च योनिमुद्रां प्रदर्शयेत् | एताभिः सप्तदशभिर्मुद्राभिस्तु विचक्षणः || आवाहनीयं मुद्रा स्याद् देवार्चन विधौ प्रिये | एषैवाधो मुखी मुद्रा स्थापने शस्यते पुनः || उन्नतांगुष्ठयोगेन मुष्ठी हृदयका द्वयं | सन्निधीकरणी मुद्राद्देवार्चन विधौ प्रिये || अंगुष्ठगर्भिणी चैव मुद्रा स्यात् संनिरोधिनी | उत्तानमुष्टि युगला संमुखी करणी मता || अंगैरेवांग विन्यासः सकला करणी भवेत् | अन्योन्यांगुष्ठ स लग्ना विस्तारित कर द्वयी || महामुद्रेयमाख्याता न्युनाधिक समापनी | कनिष्ठानामिका मध्यां तस्यांगुष्ठ तदग्रतः || गोपितांगुष्ठमूलेन संरद्धा मुकुली कृता | करद्वयेन मुद्रा स्याच्छंखाख्येयं सुरार्चने || अन्योन्याभिमुखस्पर्शं व्यत्ययं न तु वेष्टयेत् | अंगुलिभिः प्रयत्नेन मंडलीकरणं प्रिये || चक्रमुद्रेयमाख्याता गदामुद्रा ततः परं | अन्योन्याभिमुखा श्लिष्टा ततः कौस्तुभ संज्ञका || कनिष्ठे न्योन्य संलग्नेभिमुखे हि परस्परं | वामस्य तर्जनी मध्ये मध्यानामिकयोरपि || प्. ३०अ) वामांनामिकसंसृष्टा तर्जनी मध्य शोभिता | पर्यायेणानतीगुष्ठ द्वयी कौस्तुभ लक्षणा || कनिष्ठानामिका मध्य तर्जन्यग्र करद्वयी | मुने श्रीवत्स मुद्रेयं वनमाला भवेत् ततः || कनिष्ठानामिका मध्यामुष्ठिरुन्नततर्जनी | परिभ्रांताणिरस्युच्चेस्तर्जनीभ्यां दिवौकसः || योनिमुद्रा समाख्याता द्योतत्कार द्वयाश्रिता | तर्जन्या कृष्ठमध्यांते स्थितानामिक युग्मिका || मध्यस्थलस्थितांगुष्ठे यं शस्तामर्चन इति | अष्टत्रिंशत् षोडश वा दशपंचोपचारका || तानि भज्य प्रवक्ष्यामि केतेतैश्च कृते च किं | अर्घ्यं पाद्याद्या चमने मधुपर्कमुपस्पृशं || स्नानं नीरांजनं वस्त्रमाचम्यचोपवीतकं | पुनराचमने भूषदर्पणालोकनं ततः || गंधपुष्पे धूपदीपो नैवेद्यं च ततः क्रमात् | पानीयंतोयमाचारं हस्तवासस्ततः परं || तांवूलमनुलेपं च पुष्पदानं पुनः पुनः | गीतवाद्यं तथा नृत्यं स्तुतिं चैव प्रदक्षिणं || पुष्पांजलि नमस्कारा चाष्टा त्रिंशत् समीरिता | आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकं || मधुपर्कासनस्ना च वसनाभरणानि च | सुगंधः सुमनो धूपो दीप सन्नेन तर्पणं || मालानुलेपने नैव नमस्कार विसर्जने | अर्घ्यपाद्याचमान्यव मधुपर्का च मान्यपि || गंधादयोनि निद्रांना उपचारादशक्रमा | प्. ३०ब्) गंधपुष्पैर्धूपदीपौ नैवेद्यं पंचमस्मृतः || गंधतैलमथो दद्याद् देवस्य प्रतिमां ततः | पूर्वा च विष्णुक्रांता च श्यामाकं पद्ममेव च || पाद्यांगानि च चत्वारि कथितानि समासतः | कर्पूरमगरं पुष्प द्रव्याण्याचमनीयके || सिद्धार्थमक्षतं चैव दूर्वा तिलकमेव च | पंचगंधं फलं पुष्पमष्टांगं त्वर्घ्यमुच्यते || स्नाने वस्त्रे तथा भक्ष्ये दद्यादाचमनीयकं | रजनी सह देवी च शिरीषं लक्ष्मणापि च || महाभद्रा कुशाग्राणि उद्वर्तनमिहोच्यते | अक्षतागंधपुष्पाणि स्नान पात्रे तथा त्रयं || द्रव्यामेव प्रदातव्याः क्षालितास्तंडुलाः शुभाः | तथा च मन पात्रेपि दद्याज्जाती फलं प्रिये || लवंगमपि कंकोलं शस्तमाचमनीयकं | तंडूलात् प्रक्षिपेत् तेषु द्रव्याभावेनु तत् स्मरन् || प्रतिमापट यंत्राणां नित्य स्नानं न कारयेत् | कारयेत् सर्व दिवसे यदा वा मलधारणं || नाक्षतैरर्चयेद् विष्णुं न तुलस्यागणाधिपं | न दूर्वया जयेद् देवीं विल्वपत्रैर्दिवाकरं || महाभिषेकं सर्वत्र शंख नैव प्रकल्पयेत् | सर्वत्रैव प्रशस्तोक्तः शिवसूर्यार्चनं विना || मंदारं पारिजातं च वश्य सौभाग्य दायकं | पीतजात सर्वकालं विशेषस्तंभनेहितं || खर्जूरपुष्पं जाती च कुंद श्रीवृद्धिदायकं | वंधूकं मोक्षसौभाग्यं जपा च त्रिपुरा प्रिये || उत्पलं धनवृद्धिं च पद्मं पौष्टिकमेव च | पुन्नाग सर्वसंपत्तिवभ्रूकं धनहानिकं || प्. ३१अ) कह्लादोह्लादसिद्धिं च केतकीं च विवर्जयेत् | मुहुश्च निस्फलं ज्ञेयं मल्लिका दुःखदायिना || चम्पकै पुत्र कामस्तु त्रिसंध्या दुःखमोचने | द्रोणं मोक्षमवाप्नोति सेवंती सर्वसिद्धिदा || सेफालिकाजयकरी कर्णिका वृद्धिदायिका | कुमुदे प्रीतिदं चैव सुदर्शने धनप्रदं || कुरुंठ सिद्धि सौभाग्यं नीलद्रव्यं तु हारिकां | दमन सर्वसंपत्ति बिल्वपत्रं पराप्रियं || निर्गंधोत्कटगंधच्च वर्जयेच्चक्र पूजने | कृष्णापराजिता मृत्यु सुतमाली तथैव च || मल्लिकानाम संज्ञाया दुःखदा मृत्युदा सदा | ऋदिव्याधि प्रदश्चैव केशयुक्तश्च हानिकं || क्रिमिमय महाभीति राजदंद महद्भयं | जवा पुष्पमहेशानि पूर्ववत् पूजयेच्छिवां || मासमात्रेण हंत्येव पातकं शतजन्मकं | सौभाग्यं वाग्भवे मंत्री त्रिपुराया प्रसादतः || श्वेतपुष्पैर्महेशानि महद्भिः पूजयन्नरः | नाशयेत् पाटकं सर्वमासमात्रं च पूजयेत् || त्रिलोकं वशगं तस्य सर्वपापं दहेद् बुधः | बिल्वपत्रेश्च जलजैः सत्यश्च परिपूजयेत् || पूर्ववत् परमेशानि मासमात्रं प्रसन्नधीः | समृद्धिवान् भवेन् मंत्री सर्वपापं हरेत् सदा || मल्लिमालति जाती च कुंदैश्च शतपत्रकैः | श्वेतोत्पल सुशीतैश्च पूजयेत् मासमात्रकं || कुलाचाल क्रपित पुष्पेषु पलाशं श्रेष्टमुच्यते | प्. ३१ब्) अशोकशोकहरणो देव्याः प्रीतिकरः परः || नमस्कृत्य जपेन् मंत्रे लक्षणात् सिद्धिदायकं | ये कलौ सिद्धिदा वत्स तान् वक्ष्य शृणु तत्वतः || वहुना वहुनोक्तेन सर्वशक्तिषु यच्छुभं | तन्वक्ष्येन समासेन विष्णुलोकेषु दुर्लभं || विना शक्तिं न सिद्धिः स्यात् नैवाशक्तिः प्रसीदतिः | तस्या छक्त्यान्वितं शक्तैः पूजा कुर्याद् विचक्षनः || अर्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत् | अहिंसा परमं पुष्पं पुष्पंमिंद्रियनिग्रहं || दया पुष्पं धर्मपुष्पं ज्ञानपुष्पं च पंचमं | कस्तुरी कुंकुमश्चैव कर्पूरं कमलं कुलं || ककार कौलिकं चैव देवता प्रीति कारकं || श्रीपार्वत्युवाच || केषु केषु च पुष्पेषु प्रभो कर्तः स्पृहा तव | पच्छिकांनिंतु पुष्पानि शुभानि कथयाश्च मे || ईश्वर उवाच || पृष्टोहं यस्त्वया देवि मम कौतूहलं हि तत् | कथयामि प्रयत्नेन लोकानां हितकान्यया || आषाढस्य तु मासस्य स्नात्वा कृष्णचतुर्दशीं | अर्चयेद् गुगुलुं दग्धा दत्वा पुष्पासनं तथा || उद्धृत्वा ब्रह्मलोके तु तेपि यांति पराङ्गतिं | श्रावणस्य तु मासस्य ए?काहारेण यो नरः || अर्चयेत् करवीरेण गोसहस्र फलं लभेत् | भाद्रपदस्य मासस्य अपामार्गेण योर्चयेत् || हंसध्वजेन युक्तेन विमानेन स गच्छति | आश्विन्या यस्य मासस्य अर्कपुष्पैः तु योर्चयेत् || प्. ३३अ) मयूरध्वजयुक्तेन विमानेन स गच्छति | कार्तिकस्य तु मासस्य समक्षीरेण स्नापयेत् || अर्चयेर्जाति पुष्पैस्तु शिवं पश्यन् निरंजनं | मार्गशीर्षस्य मासस्य वकेनार्चयते पुनः || स त्रैलोक्यमतिक्रम्य शास्त्रोहं तत्र गच्छति | पौषमासे तु मासस्य धूत्तुरेण तु योर्चयेत् || तुष्टेन सोमया देवि लभते परमः पदं | माघववतुमा देवि हरं बिल्वै च पूजयेत् || वालार्क शशि युक्तेन विमानेन स गच्छति | फाल्गुणस्य तु मासस्य गंधतोयेन स्नापयेत् || अर्चयेद्रोण पुष्पैस्तु इंद्रास्यार्द्धासनं लभेत् | चैत्रे चैव ततो मासि नृत्य गीतेन शंकरं || योर्चयेद् द्रोणपुष्पेण लाभे वहु सुवर्णकं | वैशाखस्य तु मासस्य घृतेन स्नापयेत् सदा || अर्चयेच्छुक्लमंदारैरश्वमेध फलं लभेत् | ज्येष्ठमासि ततो दग्धां स्नापयेत् सततन्नरः || अर्चये पद्मपुष्पैस्तु सौपि गच्छ च पराङ्गतिं | तपः शीलगुणोपेत पात्र वेदस्य पारगे || दत्वा दश सुवर्णानि हरे कुसुम दानदः | मालति मल्लिका चैव यूथिका चाति मुक्तभः || पातराकणवीरंच्च जया पावंतिरेव च | कुब्जकस्तगरश्चैव केटकीलोध्र चम्पकैः || पुन्नाग नाग वकुलैः पद्मैरुत्पल जातिभिः | एतैरन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः || अर्चयेद् देश स्वर्णस्य प्रत्येकं फलमाप्नुयात् | एकेन कनवीरेण सितेनाप्य सितेन च || प्. ३३ब्) हरिवाहरमभ्यर्च्य न पुनस्ते तपो भवेत् | मालति मल्लिका जाति यूथिका चेति सुक्तभः || पातलाकणवीरं च जयापावंतिरेव च | कब्जकुंभस्तरश्चैव कर्णिकारत् कुरुंठकः || चम्पको वातकाः कुंदो वाणो वर्वरमल्लिका | अशोकेस्तिलकश्चम्प तथा वै वातचूषकः || शमीपुष्पः प्रकारांतु शुभा केशव पूजने | पद्मान्यंवु समुन्थामि रक्तनीले तथोत्पलै || सितोत्पलं च कृष्णस्य दयितानि सदा प्रिये | तानि पुष्पाणि देयानि विष्णुवे प्रभ विष्णवे || द्रोण पुष्पस्तथैकस्मिन् माधवाय निवेदितं | दत्वा दशसुवर्णानां यत् फलं तदवाप्नुयात् || एवं पुष्पविशेषेण फलं तदधिकं प्रिये | ज्ञेयं पुरांतरस्यापि यथा स्यात् तं निवोधने || द्रोणपुष्पसहस्रेभ्यः खादिरं तु विलिथत | खदिरपुष्प सहस्रेभ्यः समीपुष्पं विशिष्यते || शमीपुष्पसहस्रेभ्यो विल्वपत्रं विशिष्यते | विल्वपत्रसहस्रेभ्यो वकपुष्पविशिष्यते || वकपुष्प सहस्राद्धि नंद्यावर्त्तं विशिष्यते | नद्यावर्तसहस्राद्धि कनवीरं विशिष्यति || कनवीर सहस्राद्धि चंपकं तु विशिष्यते | चंपपुष्प सहस्रनादशोकं पुष्पमुत्तमं || सेवंती पुष्प सहस्राणि कुब्जकं पुष्पमुत्तमं | कुब्जकस्य सहस्राणि त्रिसंध्या पुष्पमुत्तमं || त्रिसंध्याश्चत सहस्राणि कुंदपुष्पं विशिष्यते || कुंदपुष्पसहस्राणि शतपत्र सहस्राणि मल्लिकापुष्पमुत्तमं || प्. ३४अ) मल्लिकापुष्पसहस्राणि जातिपुष्प विशिष्यते | सर्वासा पुष्पजातिनां जातीपुष्पमिदोत्तमं || जातीपुष्पसहस्रेण यच्छेत्साला शुशोभना | विष्णुवे विधिवद् भक्त्या तस्य पुण्यं फलं शृणु || कल्पकोटि सहस्राणि कल्पकोटि शतानि च | वसेद्विष्णुपुरधीमान् विष्णुतुल्य पराक्रमः || शेषाणां पुष्पजातीनां यत्फलं विधि देशिकं | तत्फलस्यानुसारेण विष्णुलोके महीयते || विधिवदिति पुष्पोक्त लक्षणयुक्तकादिति | पत्राण्यपि च पुष्पाणि हरि प्रीति कलानि च || प्रवक्ष्यामि शृणु देवि तवाग्रे गदतो मम | अपामार्ग पत्र पुण्य तस्माद् भृंगराजस्य च || तस्मार्च खादिरं श्रेष्ठ तस्मार्च शमिपत्रकं | बिल्वपत्रादपि हरेः तुलसीपत्रमुत्तमं || एतेषां तु यथालब्धैः पत्रैश्चैवार्चये हरि | सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते || कमले कणवीरे द्वे तुलस्याजाति केटकी | नागकेशर यावंती कह्नारं चंपकोत्पलैः || नद्यावर्तं च यीथू च मल्लिका न च मल्लिका | कुंदमंदारकं चैव सौगंधिकं च केशरं || कुरंठा शोकलज्जानि बिल्वं च मुनि पुष्पकं | पत्रनामलकं चैव कर्णिकारं पलाशकं || एतान्यन्यानि पुष्पाणि यथा लाभं निवेदयेत् | सुरभीनि च सर्वाणि स्थलजान्यन्वुजानि च || तान्येव च प्रशस्तानि कुसुमानि महोप्रियं | प्. ३४ब्) यानि सुवर्णयुक्तानि रसगंधयुतानि च || वाणं च चंपकशोकं करं च यूथिकास्तथा | पालिभद्रपाटला च वकुलं गिरिशालिनी || कनकं जंवुवनजं प्रीतकं तगरेत्यपि | एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चन || मालती तुलसी पद्मं केतकी मुनिपुष्पकं | यीर्चयंति जगन्नाथ ते गच्छंति हरे पदं || विंशद्वर्ष सहस्राणि त्रिंशद्वर्ष शतानि च | प्रीतो भवति दैत्यानिः कदंव कुसुमार्चयेत् || यथा पद्मालयं प्राप्य प्रीतो भवति माधवः | कदंव कुसुमं दृष्ट्वा तथा प्रीति च केशवः || सकृत्कदंव पुष्पेण हेलया हरिरर्चितः | सप्तजन्मानि देवेशि वर्षे तस्यन्न दूरगाः || कदंव पुष्पानिकरं यः करोति शिरोपतिः | केशवस्य महाप्राज्ञो गोसहस्रफलं लभेत् || मालती मालया विष्णुः पूजितो येन कार्तिके | कपिला शतदानस्य लभते फलमुत्तमं || मल्लिका कुसुमैर्देव वसंते गरुडध्वज | योर्चयेत् परया भक्त्या दहेत् पापं त्रिधार्जितं || दमनेनापि देवेशं संप्राप्ते मधुमाधवे | कपिलाशत दानस्य अर्चनाललते फलं || केटकी पत्रनैकेन पूजितो गरुडध्वजः | समासहस्र सुप्रीतो भवते मधुसूदनः || मुनिपुष्प कृतं मालां येऽर्चयंति जनार्दनः | देवेंद्रापि मुनि श्रेष्ठ करोति कसमं पुटं || यः पुनः पाटला पुष्पैर्वसंते गरुडध्वजं | अर्चयेत् परया भक्त्या मुक्तो योगि भवेद् विसः || प्. ३५अ) वहुलाशोक कुसुमैययैऽर्चयंति जगत्पति | विशोकास्ते भविष्यंतिः यावच्चंद्र दिवाकरौ || येर्चयंति जलाध्यक्षं करवीरैः सितासितैः | चतुर्युगानि विप्रेंद्र विप्रो भवति मानवः || मंजर्या सहकारस्य केशव परिसर्वदा | योऽर्चयंति महाभागाः गोकोटि फलभागिनः || दुर्वाकुरैहरैर्यस्तु पूजाकाले प्रयच्छति | पूजाकाले शतगुणं सम्यप्राप्नोति मानवः || समीपत्रैस्तु यो देवं पूजयेत्यसुरद्विषं | यममार्ग महाघोरं निस्तीर्णंस्तेन तत्प्रिये || वर्षाकारे तु देवेशं कुसुमैश्चंपकोद्भवैः | येर्चयंति न ते मत्स्याः संसारेण पुनर्भवा || कुंभीपुष्पेण देवर्षे येऽर्चयंति जनार्दनं | सुवर्ण परमात्रस्य लभते तत्फलं प्रिये || सुवर्णकेटकी पुष्पं येऽर्चयंति चनार्दनः | कोटि जन्मार्जितं पापं द्रहते गरुडध्वजः || कुंकुमारुण पद्माभ्यां गंधाभ्यां शतपत्रिका | यो ददाति जगन्नाथ श्वेत द्वीपे वसेच्चिरं || यत्फलं सर्वपुष्पेषु पुष्पपत्रे च तं प्रिये | तुलसीदल मात्रेण प्रायते केशवार्चनात् || दृष्टा पृष्टा तथा ध्यातो कीर्तिता नमिता स्तुता | रोपिता सिंचितो नित्यं पूजिता तुलसी शुभा || रोपिता तुलसी यावत् कुरुते मूलविस्तरं | तावद् युग सहस्राणि तनोति सुकृतं प्रिये || रोपिता तुलसी पुंभिर्वर्द्धते वसुधातरे | कुलं तेषां तु य भाता ये भविष्यंति ये गता || प्. ३५ब्) कल्पायुः शतसाहस्र ते वसंति हरे गृहं | न रक्त चंदनं पातु गृह्नीयाद् रक्त पुष्पकं || बिल्वपत्रैस्तत्प्रसूनैर्नार्चये वक्त मे सुतं | शुष्कैस्तु नार्चये विष्णु पुष्पैपत्रैः फलैरपि || स्नात्वा नीतैष्पर्युषितैर्याचितैः कृष्णवर्णकैः | सुरभीति तथान्यानि वर्जयित्वा तु केटकी || मंदारमर्कधूत्तूल शाल्मलीका च पुष्पकं | निषिद्धं विष्णुपूजायां पुष्प वैभीतकं तथा || पुष्पैद्दैवीः प्रसीदंति पुष्पै देवाश्च संस्थिता | किं चाति वहुनोक्तेन पुष्पस्योक्तिमतंद्रिकां || परं ज्योतिः पुष्पमतं पुष्पे नैव प्रसीदति | त्रिवर्गसाधनं पुष्प पुष्प श्रीस्वर्गमोक्षदं || पुष्पमूले वसेद्ब्रह्मा पुष्पमध्ये च केशवः | पुष्पाग्रे च महादेवः सर्वदेवः स्थितादले || देवानां शुक्लपुष्पं तु दुर्गांधंदनवास्तथा | कर्कशं लोहितं चैव राक्षसानां प्रकीर्तितं || उद्धृतं वाप्यलेलायां पुष्पत्वन्येन पुष्पितं | तत्पुष्पं तु पितृणां स्यात् सत्यं देवी व्रवीम्यहं || दशसौवर्णिकं पुष्पं निर्गंधो यदि भामिति | शतसाहास्रकामाला महादेव प्रसीदति || निर्गंध कुसुम स्यापि विधिः ख्यातो द्विजोत्तमाः | शोभनैद्विद्धगंधाद्यै शृणु तत्र तु तत्फलं || एकपुष्प प्रदानेन लिंगेषु प्रतिमासुवा | अशीति कल्पकोटीनां दुर्गतिन्न नरो व्रजेत् || यस्य वृक्षस्य पुष्पाणि पत्राणि च फलानि च | महादेवाय युक्तानि सोपि गच्छेत् पराङ्गति || प्. ३६अ) स्वयमुपाद्य पुष्पाऽनि यः स्वयं पूजये स्थित | तानि साक्षात्व गृह्नाति भक्तितः शततं शिवः || प्रत्येकं मुक्तपुष्पाण्यं दशसौवर्णिकं फलं | स्रग्विवद्धे युते पुष्पे द्विगुण फलमीष्यते || पंचकृष्णेलकोमाषः सुवर्णस्ते तु षोडशीः | पुष्पैः पंचभिरप्यत्र पूजयित्वा महेश्वरं || दशनाम स्वमेधानां फलं प्राप्नोति पूरुषः | अष्टभिर्वा शिवपुष्पैरभ्यर्च विधिवत् नरः || सयाति शांकरंधाम किं न पुर्येः सहस्रशः | नित्य देवार्चने पुष्पं न दोषं क्रय चौर्ययोः || प्रार्थिनेन प्रयुनेन सर्वंत निःफलं भवेत् | कन्युषु यादृशी प्रीतिर्वर्त्तते परमेशि तु || उत्तमष्वपि नास्त्येव तादृशी ग्रामजेष्वपि || श्री उमोवाच || यस्त्वया कथितं सर्वंमर्चनं पूजनं तथा | पुष्पानां च विधानस्तु एतदाख्यास्तु मर्हसि || श्री ईश्वर उवाच || हिमवंते सुते सत्यं पुष्पाणां च यशस्विनी | यानि मे न विरोचके कथयामि विशेषतः || कनवीरोवुकंश्चैव अर्क उन्मत्तकस्तथा | पाटली वृहती चैव तथैव गिरिकर्णिका || अशोकंशं कुरुद्यानि मंदारश्चापराजिता | शनीपुष्पाणि चान्यानि कुब्जकः शिखिनी तथा || अपामार्गस्तथा पद्मं जाति पुष्पं सकोकनं | चंपको शीलतपनं तथा वै नागकेशरं || पुन्नागं किकरोसं च द्रोणपुष्पं तथा शुभं | शिंशपादुंवरं चैव जयामल्ली तथैव च || पुष्पानि यज्ञवृक्षस्य बिल्वपत्रं तथा शुभः | कुसुमस्य च पुष्पाणि तथा वै कुंकुमस्य च || प्. ३६ब्) नीलं च कुंकुमं चैव तथा रक्तोत्पराणि च | सुरभीति च सर्वाणि स्थलजान्यंवुनानि च || गृह्नानि शिरसा देवी यो मे भक्त्या प्रयच्छति || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे अष्टमः पटलः || ८ || भैरव उवाच || नास्ति पापसमं लोके न च धर्मदयापरं | नैव रुद्रात् परा देव न पुष्पं कनकादपि || मालाभिर्वासुगंधभियोसिंगं पूजयेन्नरः | स वेदिकं विशेषेण मनंत फलमश्नुते || बिल्वपत्रेन खंडेश्च स कृल्लिंगं प्रपूजयेत् | सर्वपाप विनिर्मुक्तं शिवलोके महीयते || धत्तूरकैश्च यो लिंगं सकृत् पूजयते नरः | स गोलक्षफलं प्राप्य लभते परमं पदं || वृहती कुसुमै भक्त्या यो लिंगं स कृदर्चयेत् | गवामयुतदानस्य फलं प्राप्नोति शिवं व्रजेत् || मल्लिकान्यलपद्मानि जाती पुन्नाग चंपकं | अशोकश्चैतमंदारकर्णिकारचुकानि च || कणवीरार्कमंदार शमीतगरकेशराः | कुशायामार्ग कुमुदकदंवद्रोणजैरपि || पुष्परेतै यथा लाभं यो नरः पूजयेत् शिवं | सूर्यतः पुण्यमाप्नोति तदेकाग्रे मनाः शृणु || सूर्यकोटि प्रकीकाशै विमानैः सर्वकामकैः | पुष्पमाला परिवृतैगीतवादित्र निःस्वनैः || तंत्रै मधुवादैश्च स्वच्छंदं गगनां तले | रुद्रकन्या समाकीर्णै द्वैवता नव दुर्लभैः || उद्धृयमानश्चामरैः स्तूयमानः सुरासुरैः | स गच्छति पुरं दिव्यं यत्र वा रुचितं भवेत् || प्. ३७अ) ये स्त्रैर्वापीहकुसुमैर्जलस्थलरुहैः शिवं | संपूज्य प्रोक्षिते भक्त्या शिवलोके महीयते || शिवस्योपरि यः कुर्यात् सुघनं पुष्पमंडलं | शोभितं पुष्पमंदारैरापीठांतं प्रलंविभिः || अभ्याश्चर्यै महायानैद्दिव्यपुष्पो * शोभितैः | सर्वपुष्प विचित्र श्रीनास्ते शिवपुरे सुखी || अनेककार संयुक्तं यः शिवं कुमुदं गृहं | कुर्वीटपर्वकालेषु विचित्र कुसुमोज्ज्वलं || स पुष्पकविमानेन सहस्र परिवारितः | दिव्य स्त्री सुखसंभोगि क्रीडारति समन्वितः || अक्षयं मोदते काले मतिरस्कृत शासनः | शिवादि सर्वलोकेषु यत्र दृष्टं तत्र यांति सः || सकृद्दत्तेवुके देवि गो सहस्रंफलं लभेत् | पक्षण योगी भवति मासे तु दिवसं व्रजेत् || मासद्वय नवाप्नोति क्रतुना फलमुत्तमं | तृभिर्मासैः प्रपद्यंते ब्रह्मलोके मनुत्तमं || चतुर्भिः सिद्धिमाप्नोति योगसिद्धिं च पंचभिः | षण्मासेन नरो यांति रुद्रलोकं न संशयः || रुद्रा कृति धरो भूत्वा चंद्रार्द्धकृतशेखरः | प्रति या वृषयानेन द्वितीय इव शूलधृक् || विल्वपत्र समीपत्रं भृंगराजस्य पत्रकं | आटरूषस्य पत्रं च पत्रेशिंशुकचोलिकं || तमालस्य च पत्रं च देवं पवित्र संभव | उन्मत्तश्वेतकृष्णं च पत्रं च केशरस्य च || गंगापत्तिकपत्रं च पत्रं कह्लालपत्रकं | जलकह्लालिकापत्रं पत्र यत्र मरूवकं || प्. ३७ब्) शतपत्र सदा प्रोक्तं गंधाद्यावुकपत्रकं | पत्रं दुंवरिकायाश्च ग्रामशिष्यौश्च पत्रकं || द्रोणापामार्गपत्रं च पत्रं च खदिरस्य च | येषां पत्रैः शिवपूजा तेषां पुष्पैश्च सर्वदा || रशाले किंतुकाशोक दुर्वायाश्च पुराणकैः | साधकैश्च सदा पूजा अभावेन सदाशिवः || पत्रे वा यदि वा पुष्पे फलं नेष्टमधोमुखं | दुःखदंतन्समाख्यातं यथोत्पन्नं निवेदयेत् || अधोमुखार्पणं नष्टं पुष्पांजलि विधानत | कनकानि कदंवानि रात्रौ दयानि शंकरे || दिवाशेषानि पुष्पानि अर्द्धरात्रौ च मल्लिका | प्रहरं तिष्ठते जाती कणवील महर्निसं || रात्रो देयानि पुष्पानि तोटनांत्रोटसागरः | अपामार्गर्चितं लिंगं मेतदुक्तं फलं मया || कामनाभ्यर्च मानं तु शृणु यस्यापि तत्फलं | चूकेन वरदा देवः कनवीरे धनप्रदः || अर्केण श्रियमाप्नोति लोक्षं धुत्तूरकेन तु | नीलोत्पलौद्भवेद्भोगो योऽर्चये लिंगमुत्तमं || रक्ताब्जैः प्राप्नुयाद् राज्यं पुंडरीकैश्च चक्रितं | चम्पकैः सर्वकामानि पुन्नागैन्नागकेशरैः || ईप्सिताल्लभते कामां तथा केशरदामकैः | मंत्रसिद्धिमवाप्नोति योऽर्चये लिंगपुष्पकैः || योर्चयेत् परमेशानि शितार्केण तथैव च | सर्वान् कामामवाप्नोति योऽर्चयेद् गंधपुष्पकैः || कुब्जिकैर्विपुलो लाभः सौभाग्याय? च वारुणी | कन्याकामस्तु जातीभिः योऽर्चयेत् परमेश्वरं || प्. ३८अ) लभते चोत्तमा कन्या षण्मासेन न संशयः | मल्लिका ज्ञान कामस्तु योऽर्चयंतो महेश्वरं || लभते परमं ज्ञानं संसारभयनाशनं | पुत्रकामाय कुंदैस्तु अर्चयीत शुचिन्नरः || लभते वहु पुत्रत्वं धनमंतचिरायुषं | आरोग्य कुशपुष्पैस्तु अशोकैः प्रिय संगमं || कर्णिकारैद्धनं विद्याद् वश्यार्थ द्रोणपुष्टिका | कदंवेनाऽर्चये लिंगं सततं नियते व्रतः || शत्रूणां वश्य कामाय नित्यमेव प्रदापयेत् | नश्यंति व्याधित तस्य योऽर्चयेदति मुक्तकैः || सिंधुवारस्य पुष्पेण वंद्धोमुच्यत वंधनात् | अंकटासितवर्णानि गंधकुसुममानिताः || तानि शत्रु विनाशाय देवदेवाय कल्पयेत् | पीतकानि तु पुष्पार्थे पुष्पानि विजयाय च || नित्यमेव तु यो दद्या सतत्काममवाप्नुयात् | जलजानि तु पुष्पाणि वश्यार्थे तु प्रकल्पयेत् || नीलरक्तानियान्येवतानि वश्यक चानि तु | सर्वकामपदं बिल्व दरिद्रस्य विमोचनं || बिल्वपत्रात्परं नास्ति येन तुष्यंति शंकरः | विजयार्थे दमनकं योजयेन् नियमे स्थितः || विजिताः शत्रुवस्तेन योऽर्चयेद् वृषभध्वजं | सुखमरुवके नैव जंवुडः सर्वकामदः || तिरकोधनकामाय गोकामायवचकुली | सौख्यदश्वापि तगरा किंकराटश्च कामदः || आरोग्यं वंधने नैव फलिनीकाददाः स्मृता | शालः प्रियकरं चैव किंशुकादायुराप्नुयात् || हस्त्यश्च पशुकामाय कुटजे नार्चयेच्छिवं | कर्पूर दमनं दद्यात् शत्रुणां च विनाशनं || प्. ३८ब्) नश्यंति शत्रुवः शीघ्रं देवदेवस्य पूजनात् | श्यामाचारोग्यदानित्यं जवापुष्पं तथैव च || कुरू नृपश्य वश्यार्थे नित्यं लिंग प्रपूजनात् | द्वेषिका यूथिका योज्या देवदेव महेश्वरः || केतकी शत्रुनाशाय क्रुद्धं लिंगं तु योर्चयेत् | सर्वकामपदे हस्ता व्याघ्री देवि प्रकिर्तिता || ज्योत्स्नाकरी तथैवेह नित्यमेव तु कामदा | वासकेनार्चयै देवै वलमायुश्च वर्द्धते || झिण्ठिका सुखदा नित्यं तथा चाप्सर चंपकं | त्रिंभकं व्याधिनाशार्थंमश्ववर्णं तथैव च || जयंती जयकामाये श्वेता च गिरिकर्णिका | विद्वेषाच्चाटनाथाय निंवपुष्पेण योऽर्चयेत् || भेण्डी चाकर्षणे योज्यादमती च जयो भवेत् | ऋषि पुष्पो रुद्रजटीहंति सर्वानुपद्रवान् || सनपुष्पं च यत्प्रोक्तं कोकिलाक्षस्तथैव च | सर्वशुक्लं दुशात्यर्थं सर्वपीतस्तु दौष्टिकं || कृष्णं चैवाभिचारे च देवदेवाय कल्पयेत् | पत्रं पुष्पं फलं तोयं तृणं चैव तथा प्रिये || प्रत्यहं संभवे दद्यात् नासौ दुर्गति माप्नुयात् | केटकी चाति युक्तं च कुंदयूथी पदंतिका || शिरीषसर्ज वंधूक कुसुमानि विवर्जयेत् | वा कूची पत्र कुसुमं करजेंद्र समुद्भवं || वैभीतिकानि पुष्पाणि पत्राणि परिवर्जयेत् | जवाकुंदशिरीषश्च यूथिका मालती तथा || केटकी भवपुष्पैश्च नैवाऽर्च शंकरः सदा | सर्जवंधूक पुष्पाणि कुंदो यूथीमदंतिका || प्. ३९अ) केटकी जाति पुष्पं च श्वेतं चैवापराजिता | प्रोषिताब्ज रक्तश्वेता तथा भंडिक पुष्पकैः || स्वर्णानु गर्भचाप्यक्षै वैभीति कुसुमेन च | पूजयित्वा तथा पुष्पैरेभिश्चैव नर सदा || अषीचि? नरके पापः पंचदेव न संशयः | कपित्थं केटकी पुष्पं मांदिनी काष्ठपत्रला || निंवपुष्पं करंजं च धातकी पुष्पमेव च | शिरीषगुंजला पुष्पमति मुक्तं च वर्जयेत् || किं तु परमया भक्त्या निषिद्धं पुष्पक प्रिये | शुभं वाप्यं शुभं वापि फलपुष्पसमन्वितं || भक्त्या निवेदयेत् सर्वं नाशुभं किविदाप्नुयात् | सर्वैः पुष्पैः सदा पूजा विहितविदितैरपि || कर्तव्या सर्वदेवानां भक्तियोगोजकारणं | यानि कंटककीर्णानि यानि चोपहतानि च || रात्रिपर्यूषितानीहदूरत परिवर्जयेत् || अंतर्जलक्षालितमासनच्छं स्वयं विशांचूर्ण तु विललीनं | एतानि पुष्पाणि समस्तदेव पूजाविधावाहुरकर्मकाणि || स्नात्वानं तु कृता केचित् पुष्पं चिन्वति वै द्विज | दैवतास्तन्न गृह्नंति भस्मी भवति काष्ठवत् || उग्रगंधामगंधं च क्रयः कीर्तं च निस्फलं | देवोपरिधृतं स्नानं नार्यये तु कदाचन || मलिनं भूमिसंस्पृष्टं हंति केशादि दूषितं | पर्यूषितानि पुष्पाणि वर्जये देवतार्चने || मुकुत्नरर्चये देवं तथा छिद्रैस्तु त्यंडितैः | स्वयंविकासितै पुष्पैः स्वयं च पतितं भुवि || वासोभिः संवृतेन्नीतैश्वंग पृष्ठे तथैव च | त्रिपदा न्युन कुसुमैनार्चये तु कदाचन || प्. ३९ब्) भूगतं वर्जयेत् पुष्पं शेफालि वकुलंविना | कालिकाभिस्तथा त्याज्या विनी चम्पक पद्मकै || बिल्वस्य खदिरस्यैव तथा धात्री दरस्य च | तमारस्य च पत्रस्य छिन्नभिन्नन्न दूष्यति || तुरस्यगस्त्य बिल्वानां नास्ति पर्यूषितन्मता | वर्ज्यं पर्यूषितं पुष्पं वर्जयंतितपूजनं || अवज्यं जाह्नवी तोयंमवर्ज्यं तुलसीदलं | तुलसी सर्वदा शूद्धा तथा बिल्वदलानि च || जलजानां च पुष्पाणां बिल्वपत्रस्य चैव हि | एकीपर्यूषिता संका कार्यं पंच दिनाक्ष हृत् || सप्तरात्र निवेद्यस्तु वुको रुद्राय धीमता | दिने दिने तु दातव्यं शेषयित्वा पुनः पुनः || सप्तरात्रमतिक्रम्य निर्माल्यत्वं प्रपद्यते | तिष्ठे दिनत्रयं शुष्क पद्ममासलकं तथा || दिनैकं कण वीराणि योग्यानि भुत सोधने | पर्यूते विष्ममाकार गृहे स्थितेषु न दोष || कुंचकंसित पद्मं च रक्तपद्मं महोत्पलं | पांडरमरविंदं च नीलोत्पलं च कैरवं || तगरं किंकिलातं च वहुलं वृहतीशमं | करवीरार्कलोध्राणि शिंशपामपराजितां || अतिमुक्तंवकं चैव वंधकं मदनं तथा | सुरभीं शल्लकी द्रोणं यूथिकां नवमल्लिकां || मालतीं माधवीं वज्रं पुन्नागं नागकेशरं | झिंठि सैरयकं चैव कुरु वकं कुरुंठकं || मार्घ्यमर्जुनमल्लीं वकदंवं शतपत्रिकां | विचकिल कुसुंभं च मरुपत्रं जवावुकं || शशरं कदलीपुष्पं शुभ्रं सु वहुपुष्पकं | प्. ४०अ) कशुकं परिभद्रं च शेफालिकां च शाल्मलं || वर्वरं नवनीलं च सेवंतीं वहुलं तथा | सर्जविकट शीर्षं च मदंतीं तूलसीं तथा || शिलीषं दाडिमी पुष्पं वनमालांमरूवक | लवंगश्वेतमंदारं मंदारं लोहितं पुनः || क्षुरकं मांवुकं चैव जयंती हेमपुष्पिकां | कुमारीं भूतकेशीं च अम्लावं नवमालिका || मधुरिकां कुब्जिकां च गिरिकर्णा पराजिते | भृंगराजं मति छत्रं अग्निज्वालां तथैव च || नागवल्लीदलं चैव अश्वत्थ पल्लवं तथा | सिंदूवारं पलाशस्य पत्रं दुर्वांकुरं तथा || जलजैः स्थलजैरेतैः पुष्पैश्चान्ये विशेषकैः | पंचवर्णैश्च कुसुमैः पूजयेज्जगदंविकां || स्वयंभु कुसुमै युक्तैः कुंडगोलोद्भवैरपि | तुलसी कुसुमैः पत्रैमर्चयेत् स्वविवर्द्धते || जाती द्वयं केतकी द्वे कह्लारं चंपकोत्परे | कुंदमंदार पुन्नाग पाटला नागचंपकं || आवकधकर्णिकारं पावंती नवमालिका | सौगंधिकं स कोरणं पलाशो शोकमल्लिका || धूस्तूरं सर्जकं बिल्वमर्जनं मुनि पुष्पकं | अन्योन्यपि सुगंधानि पुष्पन्येतानि पार्वति || ऋतुद्भवानि पुष्पाणि पूजयेत् कालिकां सदा | उपदिष्टानि पूजायामाहदीत विचक्षणाः || पुष्पैरशोक वंधूक पारिभद्रजवाद्भवैः | पलाश पाटला पद्म किंशुकैः करवीरजैः || जातीकेतकह्लार नागकेशर चंपकैः | अपरैश्चारुणैः पुष्पैर्गणनीयैश्च गंधिभिः || सुगंधि कुसुम स्वस्ति पत्रिकाभिश्च पूजयेत् | वकुलं शरवज्रं च मार्घ्यं कुंदं च शाल्मलं || प्. ४०ब्) करीरं चार्कपुष्पं च वंधूक कमले तथा | मालती मल्लिका जाती यूथिका मागधी तथा || नगरं कर्णिकारश्च द्रोणश्चोत्पल चंपकौ | अशोकः कुमुदश्चैव शेफालिका कदंवकौ || केतकी वनमाला च कुसुंभ किंशुकौ तथा | कह्लार वकुले चैव लवंग नागकेशरौ || सर्वासु पुष्पमालासु कालिका यास्य दैव हि | एतान्यपि प्रियाणि स्युर्न पत्रैरर्चयेच्छिवं || सर्वेषां पुष्पजातीनां रक्तं शुभ्रं तथा जवा | देवी प्रीतिकरं प्राज्ञ सर्वकाम फलप्रदं || रक्तपुष्पं च देवेशि तथा स्वर्णादि निर्मितं | माद्यादि सर्वमासेषु पूज्य पुष्पाणि द्वादश || कुंदं कुरुं केतकं च वकं झिण्ठीन्नवं तथा | नीलं च विकटं शीर्षे क्षुद्र भूद्गरजं तथा || वकुल वकुलं चैव नान्य मासे यजेत् क्वचित् | पुण्याण्यपि तथा दद्याद् रक्त कृष्णा सितानि च || श्वेतं रक्तं जवा पुष्पं करवीरं तथा प्रिये | तगरं मालती जाती सेवंती यूथिका तथा || धुस्तूरा शोक वकुलश्वेत कृष्णापराजिता | वकपुष्प बिल्वपत्रं चम्पकं नागकेशरं || मल्लिका झिंठिका कांची रक्तं यत्परिकीर्तितं | रक्ते च रक्त शेवंती पीते च पीतमालती || अर्कपुष्पं जवा पुष्पं वर्वरं च प्रियंवदा | अष्टम्यां च विशेषेण तुष्टा भवति पार्वती || पद्मपुष्पेण रक्तेन संतुष्टात् सर्वदेवता | देवीनामर्कमंदारावादित्य तवरं तथा || प्. ४१अ) गणेशस्य च सूर्यस्य रक्तपुष्प मतिप्रियं | आमलक्या सुपुष्पेण तुष्टा पत्रेण कालिका || पुष्पं कोकनदं पद्मं जवा वंधूकमेव च | सर्वेषां पुष्पजातीनां रक्तपद्मं विशिष्यते || सर्वपुष्पाणि चैकत्र जवाब्ज पारिजातकैः | न समानि प्रजायंते लक्षकोटि शतैरपि || जवाद्यभावेगंधाढ्य दूर्वायो श्रीफलप्रदं | विन्यने दूर्वया देवि पूजानास्तीह कर्हिचित् || तस्मा दूर्वाग्रहीतव्या सर्वपुष्पमयी हि सा | देवेभ्यः सर्वगंधाढ्यमभावे तुलसीदलं || तुलस्या पूजयेद् देवान् नात्र कार्या विचारणा | विना तुलस्यानासाङ्गं श्राद्धयज्ञार्चनं प्रिये || दूर्वा वा तुलसी तस्माद् गृहीतव्या च साधकैः | तुलसी वर्जिता पूजा न जातु फलदा भवेत् || सुंदरी भैरवी काली ब्रह्मविष्णुशिवस्वयं | विना तुलस्या या पूजा न संपूर्णा कदाचन || नानोपहार वलिभिर्नानापुष्पैर्मनोहरैः | अपामार्गदलै भंगैस्तुलसी वर्जितै शुभैः || पूजनीया सदा भक्त्या नृणां शीघ्र फलाप्तये | तुलस्या गंधमाघ्रायन् क्रुद्धा भवति सुंदरी || अर्चयेत् सुंदरीन् देवीन् न तुलस्या कदाचन | पूजनात् पातकी भूयाल्लग्ने चापि श्रियं हरे || रक्तपद्म सहस्राणि मनसायः प्रयच्छति | कल्पकोटि सहस्राणि कल्पकोटि शतानि च || स्थित्वा देवी पुरं श्रीमान् ततो राजाच्छितौ भवेत् | पत्रेषु बिल्वपत्रं तु देवाः प्रीतिकरं परं || प्. ४१ब्) चंपकैर्यो नरो देवीं यजये कालिकामिह | तस्य पुण्यं समाख्यांतुं ब्रह्मणापि न शक्यते || तस्यात् सदा पूजनीया चम्पकैः कालिका वुधैः | कालिकां यो नरः प्रीत्या पूजयेद् राज चंपकैः || न तस्य पुनरावृत्तिः संसारेसाररूपिणि | मल्लिकामुत्पलं पद्मं शमी पुन्नाग चंपकं || अशोकं कर्णिकारं च द्रोण पुष्पं विशेषतः | कनवीर शमीपुष्पं कुमुदं नागकेशरं || यः प्रयच्छति पुण्यार्थं पुष्पाण्येतानि साधकः | कालिकायै नरः श्रेष्ठो भक्त्या परमयायुतः || स कामानखिलान् प्रायदुर्गयानु वरो भवेत् | अर्कस्य पुष्पमेकं च यः शिवाये निवेदयेत् || दशदत्वा सुवर्णानि यत्फलं तदवाप्नुयात् | पुन्नागश्चंपकः कुंदो यूथिका नवमल्लिका || तगराजुन मल्ली च वृहती शतपत्रिका | तथा कुमुदकह्लारं बिल्वपाटलमालती || जवा बिल्वकला शोक रक्त नीलोत्पलानि च | दमनो मरुपत्रं च वहुपुण्ये प्रवृद्धये || केतकी चाति सुक्तं च वंधूक कुमुदानि च | कदंवः कर्णिकारश्च सिद्धवीरसमृद्धये || शमीपुष्प वृहत्याश्च कुसुमतुल्यमुच्यते | करवीर समाज्ञेया जाती विजयपाटला || श्वेतमंदार कुसुमंशित पद्मेनवत्समं | नागचंपक पुन्नाग धूस्तूर कसमाः श्रिये || यो नरः प्रेमसंयुक्तो देवी मरुवकैर्यजेत् | स सौभाग्यं परं लब्धा पार्वतीलोकमाप्नुयात् || प्. ४२अ) कनकादी कदंवानि रात्रौ देयानि सर्वदा | दिवा शेषाणि पुष्पाणि अर्द्धरात्रौ च मल्लिकाः || प्रहरे तिष्ठते जाती करवीर महर्निशं | बिल्वपत्रैरखंडै च सकृद् देवीं प्रपूजयेत् || सर्वपाप विनिर्मुक्तः शिवलोके महीयते | धस्तूरैकैश्च यो देवीं सकृत् पूजयते नरः || स गोलक्षफलं प्राप्य लभते परमं पदं | वृहती कुसुमैद्भक्त्या यो देवीं सकृदर्चयेत् || गवामयुतफलं प्राप्य शिवलोके परं व्रजेत् | मल्लिकोत्पल पद्मानि जाती पुन्नाग चम्पकं || अशोक श्वेतमंदार कर्णिकारवुकानि च | करवीरार्क मंदार शमीतगरकेशरा || कुशापामार्ग कुमुदकदंव द्रोणं जैरपि | पुष्पैरेतैर्व्यथा लाभं यो नरः पूजयेच्छिवां || सयत् पुण्यमवाप्नोति तदेकाग्रमनाः शृणु | सूर्यकोटि प्रतीकाशैर्विमानैः सार्वकामिकैः || पुष्पमाला परिक्षिप्तैःर्गीतवादित्र निष्ठनैः | तंत्री मधुरवादैश्च स्वच्छंदं गगनालये || रुद्रकन्या समाकीर्णै देवदानव दुर्लभौ | उद्धृत्यमानश्चमरैः स्तूयमानः सुरासुरैः || स गच्छति परं दिव्यं यत्र वा रुचितं भवेत् | यैस्तेर्वापीह कुसुमैर्जलस्थलरुहैः शिवां || संपूज्य प्रोक्षितैर्भक्त्या शिवत्माकं स गच्छति | यो नरः परया प्रीत्या मालती कुसुमैर्यजेत् || जायते सर्वसिद्धिस्तु कुवेर इवसांप्रतं | मालती कुसुमैर्यस्तु कालिकां योजते शुभैः || प्रतापमतुलं साक्षात् स लभेन्नात्र संशयः | यो नरः परया प्रीत्या * * * * * * * * (##? * * * * * * * * * * * * * * * * (?) | पूजयेत् सुंदरीं कालीं सिद्धय नात्र संशयः || प्. ४२ब्) यो नरः पूजयेद् देवी मरुणैः करवीरकैः | सर्वसिद्धीः स लभते ह्यचिरात् नात्र संशयः || अरुण करवीरैस्तु सुंदरीं यो हि पूजयेत् | स नरः सिद्धिमाप्नोति वत्सरान्नात्र संशयः || स्ववर्णदानं गोदानमश्वदानं तथैव च | करवीरस्य पूजायाः कलान्नार्हंति षोडशीं || यो नरः प्रीति संयुक्तः करवीरैः सितै यजेत् | पार्वती तस्य चरणा जायते नात्रसंशयः || यो नरः पूजयेत् कालीं सुंदरीं सिद्धिदायनीं | बंधूक कुसुमैस्तस्य गृहे श्रीरनपायिनीं || वंधूककुसुमैर्देवीं यो नरो यजते मुदा | लक्ष्मी तस्य गृहे साक्षात् निवासंमधि गच्छति || यो नरः पूजयेद् देवी जवापुष्पैरनन्यधीः | गृहे तस्य निवासः स्याल्लक्ष्म्याः श्रीशंकराज्ञया || जवापुष्पैर्नरो यस्तु भवानीमधिकं यजेत् | वाक्सिद्धिरतुला तस्य जायते वत्सरांतले || यो नरः परया प्रीत्या दाडिमा कुसुमैर्यजेत् | श्रीभवानीं परा तस्य जायते सिद्धिरुत्तमा || यो नरः पूजयेत् कालीं जाती पुष्पैः सुशोभनैः | सिद्धि यो वशगात् तस्य जायते नात्र संशयः || यूथिका कुसुमैर्यस्तु यजेद् देवीं विशालधीः | अश्वमेध सहस्रस्य फलमाप्नोति मानवः || यो नरः कमलैर्देवी मरुणैः सुंदरीर्यजेत् | सिद्धयेस्तस्य जायंते भुक्ति मुक्ति प्रदायकाः || श्वेतैश्च कमलैर्देवीं यजते प्रीति संयुतः | स वाक्सिद्धिं परां यांति वत्सरात् नात्र संशयः || प्. ४३अ) यो नरः श्वेतकमलेर्यजेद् देवी मनन्यधीः | श्रीकाली प्रीति संयुक्ता वरदो तस्य जायते || यो नरो नीलकमलैः श्रीकालीं पूजयेन् मुदा | राजानस्तस्य वशगा जायते नात्र संशयः || सर्वेषामेव पुष्पानां प्रवरत्नीलमुत्पलं | नीलोत्पल सहस्रेण यो मालां संप्रयच्छति || शिवायै विधिवद् भक्त्या तस्य पुण्यफलं शृणु | कल्पकोटि सहस्राणि कल्पकोटि शतानि च || वसेच्छिवपुरे नित्यं शिवं तुल्य पराक्रमः | अन्यान्यपि च कर्माणि सुरभीति महामताः || श्रीकाल्यैप्योषयेद् देव्यै भुक्ति मुक्ति फलाप्तये | यस्मिं पत्रे फले पुष्पे साधकस्य भवेद्रुचिः || तदेव देव्यै सुमनसा अर्पयेच्छंकराज्ञया | शेषानां पुष्पजातीनां यत्फलं परिकीर्तितं || एतत् फलानुसारेण शिवलोके महीयते | गंधहीनामपि ग्राह्यं पवित्रं यत्कुशादिकं || पूजयेत् परमेशानीं पुष्प भावात् तु पत्रकैः | पत्राणामप्य लाभे तु द्रुमगुल्मो फलादिभिः || तत्फलानामलाभे तु तत्फलेन प्रपूजयेत् | पत्रेषु तुलसी श्रेष्ठा बिल्वमामलकं शुभं || मरुको देव कह्लारी विष्णुक्रांता तथैव च | अपामार्गाऽथ गांधारी पत्री युवति संज्ञका || नागवल्ली दलं दूर्वा कुशपत्रं तथा मतं | पत्रं चागस्त्य वृक्षस्य पुण्यं धात्री दलं तथा || फलेप्यामलकं श्रेष्टं वा दलं तिंतिनी भवं | दाडिमं मातुलुंगं च जंवीरं पनसो भवं || प्. ४३ब्) कदली चूतसंभूतं श्रेष्ठं जंवुफलं तथा | यजे दलैः सदा देवीं पत्रैः पुष्पैः फलै तथा || हि वसेभिवसोत्पन्नैः पुष्पैः पूजा तथा निशि | पुष्पाभावे प्रवालैर्वा पूजयेच्च न कोरकैः || अन्यार्थमाहृतं दुष्टं तथैवान्योप भुक्तकं | पत्रेषु बिल्वपत्रं च दुर्वांकुर सुकोमलं || एषामलाभे तु सदा तत्फलेनापि पूजयेत् | अंगतैर्वा जलैर्वापि तदभावेपि सर्षपैः || सितैस्तस्याप्य लाभे तु मानसी भक्तिमाचरेत् | मुकुलैर्न्नार्चयेद् देवीमपक्वं न निवेदयेत् || फलं ज्ञात्वा विशुद्धं च वालपक्वमपि त्यजेत् | उन्मत्तमर्कपुष्पं च विष्णोवर्यं सदावुधैः || शिवे कुंदं मदन्तीञ्च यूथि वन्धूक केतकै | न रक्त चन्दनं जातु गृह्नीयाद् रक्त पुष्पकं || बिल्वपत्रैस्तत्प्रसूनैर्नार्चयेद् देवकी सुतं | शुष्कैश्च नार्चये विष्णुं पुष्पैः पत्रैः फलैरपि || स्नात्वा नीतैः पर्युषितैयाचितैः कृष्णवर्णकैः | स्वयंविकाशितैः पुष्पैः स्वयं च पतितैद्भुवि || वर्जयेद् वृहती पुष्पं निर्गंधञ्च विशेषतः | त्रिपत्र न्यून कुसुमैर्न्नार्चयेत् तु कदाचन || कुमुदं पाटलिं चैव शिरीषं परिवर्जयेत् | भूगतं वर्जयेत् पुष्पं सेफालीं वकुलं विना || वासोभिः संवृतैन्नीतं मतिमान्नार्पयेच्छिवे | कलिकाभिस्तथा त्याज्या विना चम्पक पद्मके || जवां रक्तात्त्रिसंध्ये द्वे मालतीं केतकीं तथा | प्. ४४अ) द्युसृणं कुमुदं रक्त हयारिञ्च हरेत्यजेत् || गुञ्जा पराजितोन्मत्तं वराह क्रांतया सह | आम्रातकमिदं पुष्पं निषिद्धं सूर्यपूजने || निषीद्धं विहितां सूर्यः तगरं कण्ठकालिका | मंदारमर्क धूस्तूरं शालालीकांचनार्जुनं || केतकी चाति युक्तश्च कुंदा यूथी मदंतिका | शिरीषमर्क वंधूक कुसुमानि विवर्जयेत् || अंकोलपत्र कुसुमं करंज नृतरूद्भवं | विभीतकानि धन्वानि कुसुमानि विवर्जयेत् || निषिद्धं विहितं विष्णोः शिरीषं शुक्रपुण्डकं | नरसिंहस्य पूजायां निषिद्धं केतकी द्वयं || शिरीष वन्धूक विभीतकानां मदंतिका केतकि पुण्डकानां | करञ्ज सर्जेन्द्र महीरुहाणां कुन्दस्य पुष्पं न शिवे प्रशस्तं || अंतर्जलक्षालितमाननस्कं स्वयं विणीर्णां भुवि संविलीनं | एतानि पुष्पाणि समर्च देव पूजा विधा वाहुरकर्मकाणि || दुर्गान्य देवी पूजायां मंदारार्कन्न शस्यते | महालक्ष्म्यास्तु तुलसीं झिण्ठिका कांचनं तथा || कुण्डेन नार्चयेत् सूर्यन्न तुलस्या विनायकं | कमलैः कमलान्नैव न शस्तुं शंखवारिणा || याचितं निष्फलं पुष्पं क्रयक्रीतं च निःफलं | आघ्राणं भूमिसंस्पृष्टं कृमिकीटादि दूषिते || त्यजेत् पर्यूषितं श्रेष्टं बिल्वब्ज तुलसीं विना | न पर्यूषित दोषोस्ति जलनोत्पल चम्पके || तुलस्य गस्त्यवकुले बिल्वे गंगाजले तथा | सद्यः पर्यूषिता वापि निर्माल्या नैव दुष्यति || प्. ४४ब्) तथान्यैर्न हरेस्तुष्टिस्तुलस्यातुष्यतुष्यते यथा | कृमि भक्ष्यानि भग्नानि वज्यानि पतितं भुवि || मलिनं भूमि संस्पष्टं कृमितेशादि दूषितं | अंगस्पृष्टं समाघ्रात त्यजेत् पर्युषितं प्रिये || पुष्पैपर्युषितैद् देवि नार्चयेत् स्वर्णजैरपि | निर्माल्य भूतैरुच्छिष्टैः कुसुमैः परमेश्वरि || सर्वपर्युषित वर्ज्यं अवद्यं तुलसीदलं | परकायं तथा घ्राणं स्तेयाहृतं च मर्द्दितं || पुष्पं च पंचगव्यं च उपचारास्तथापरान् | घ्राणान्निवेद्य देवेशि नरो नरकमाप्नुयात् || नैव पर्युषितैः पुष्पैः पत्रैश्चापि महेश्वरि | पूजयेत् परमेशानि महाकालिं च सुंदरीं || वज्यपर्युषितं पुष्पं वज्यपर्यूषितं जलं | अवर्ज्यं जाह्नवी तोयमवज्यं तुलसीदलं || सर्वैः पुष्पैः सदा पूजा विहिता विहितैरपि | कर्तव्या सर्वदेवाना भक्ति योगोत्र कारणं || देवी पूजा सदा शस्ता जलजैः स्थलजैरपि | विहितैर्वा निषीद्धैर्वा भक्ति युक्तेन चेतसा || लक्षपूजासु सर्वासु पुष्पमर्पयेत् | समुदायेन वेत्पूजा लक्षपुष्पार्पणं न तत् || भ्रांत्याकरात् पायत् पुष्पं दद्याच्छ्री मण्डले सुधीः | भूमौ पतति यत् किंचित् तदा दोषो न विद्यते || ज्ञानमुद्रा समायुक्तं पुनिक्षेपनञ्चरेत् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे नवमः पटलः || ९ || श्रीदेव्युवाच || प्. ४५अ) अथेतद्रस सर्वंत्वां तत्वाचारगणांविके | श्रुतं सर्वमशेषेण विधानरसनायके || दुर्भगानां च तन्नाथं न सिष्यंति कदाचन | अथ सौभाग्य हेत्वर्थं नराणां हितकाम्यया || तस्यात् संगगतायासा महात्रिपुरसुंदरी | तस्याः संसुचितं किंचित् मंत्रध्यानादिकं त्वया || पृथागाराध्यते सा तु यथा भाग्यार्थिभिन्नरैः | तथा कथय मे देवं कृपया प्राणिनां प्रभो || यथा चक्र तथा पूजा अंगपूजा यथा स्थिता | मूलविद्या यथा देवी परिवार समंवितः || तथा सर्व त्वया देव शास्त्रवे परमेश्वरः | सर्वमेव समाख्याता किंतु जन्प्रकटं न कि || अतस्तत्प्रकटीकर्तां कथ्यतां परमाद्भुतं | एवमाकर्णे देवेश पार्वत्या कथितं तव || प्रत्युवाच महावाक्यं सर्वसंदेह शांतय || श्रीभैरव उवाच || शृणु देवि परं गुह्यं योगिनी हृदयं परं | कर्णात् कर्णपदेशेन संचरंत्यवसीतले || एतज्जप्त्वा वरारोहे सर्वविघ्नैर्न वाध्यते | चक्रसंकेतको मंत्रो मुद्रा संकेतकस्तथा || त्रिविधा त्रिपुरा देव्याः संकेताः परमेश्वरी | यावद् देव न जानाति संकेतंऽत्रयमुत्तमं || नताव त्रिपुरा चक्रे परामाज्ञाधरो भवेत् | शृणु व्याख्या क्रमं गुह्यं पारंपर्यं क्रमागतं || येन ज्ञातेन गुरवो नेव गुह्यंति कुत्रचित् | भावार्थः संप्रदायार्थो निगर्भार्थश्च कौलिकः || तथा सर्वरहस्यार्था महातत्वार्थ एव च | एव मेतन् महादेवी षड्विधाम्पारमेश्वरी || प्. ४५ब्) व्याख्यातं सर्वतंत्रनाम्पारंपव्यण लक्षणे | एक एव हि भावार्थो वाह्यशास्त्रोषु लभ्यते || शब्दारंकारसारोक्ति संस्कार रचनात्मकः | भावार्थः संप्रदायार्थो दिक्शास्त्रेषु पथोच्यते || भावार्थो संप्रदायार्थो निगर्भार्थ समन्वितः | व्याख्यातं त्रिकतंत्रेषु त्रिविधं गौरि लभते || शिवा वाह्यार्थ संवादी महागुरुमुखे स्थितः | भावार्थः संप्रदायार्थे निगर्भर्थश्च कौलिकः || महाचतुष्क तंत्रेषु व्याख्यातं स्याच्चतुर्विधं | भावार्थः संप्रदायार्थो निगर्भार्थश्च कौलिकः || तथा सर्वरहस्यार्थ तंत्रेथ पंचरूपिणि | महाज्ञानार्णवे दृष्ट षट्कतंत्रेषु पार्वति || अक्षरार्थो हि भावार्थः केवल परमेश्वरी | संप्रदायो महावोध रुरो गुरु मुखे स्थितः || निगर्भो हि महादेवि रूपेणार्थावभासक | निस्तरंगो निराभासः संकल्प स्थिति पूर्वकः || रहस्यार्थो महागुप्तो दिव्यार्थ स्थिति पूर्वक | रहस्यार्थो महागुप्तो दिव्यार्थ स्थिति पूर्वकः || रहस्यार्थो महागुप्तो दिव्यार्थ स्थिति पूर्वकः | विद्यापीठ निवंधेषु संस्थितः पिंडसिद्धिदः || एवमेतत्परं ब्रह्म विज्ञानागमगोचरं | देवि विक्षिप्तमीशेन व्याख्यातं तु चतुर्विधा || एवमेष महादेव्या महासंकटकांविके | कथितौय प्रबोधेन वीरचक्रेश्वरो भवेत् || अथातः संप्रवक्ष्यामि चक्रसंकेतमुत्तमं | तदर्थ देवि कुर्वीत त्रिहस्त मंडलोत्तमं || प्. ४६अ) तस्य कुर्यात् त्रिमागेन कर्णिकं चक्र चिह्नतां | पद्म द्वयं तदर्द्धेन द्वारक्षत्रं च तत्समं || ब्रह्मसूत्रं पुरादत्वा कर्णिकाग्रेव मध्यतः | याम्या साम्यायतं दद्योत् तत्रस्थं सूत्रसप्तमं || तुल्यसूत्रं ततो लुप्त मध्याशंस्या विभावितं | तृतीय पंचमंसौ गो कृत्वात्यंश विवर्जितौ || ते मार्गेण च पुनर्मध्ये तावगंभिरवर्द्धयेत् | तृतीयस्यस्तद्वितीयस्य चाद्र्यसूत्रस्य चांतयोः || प्रसारयेदधोर्द्धेदः दष्टं तत्र सुद्वद्वयं | भ्रमे सप्तमके सूत्रे ब्रह्मस्थाने च संगतं || आपंचमादधःस्थाना त्रयानां च ततो नयेत् | भ्रमे प्रथमके सूत्रे विशांतिं च तृतीयकं || सूत्रद्वयं हे?यं चापि न्यंत्राश्चैव तिष्ठ षट् | चतुर्दशारमारभ्य वंदशारं च सिद्ध्यति || सूत्रा द्वितीयका स्वेष्टोद् ब्रह्मसूत्रस्य पार्श्वयोः | सूत्रद्वयं द्वयं देये मध ऊर्द्ध्व प्रसारितं || तत्कोटिसर्गतं पश्चात् सूत्रयुग्मं प्रसारितं | दशारमेवं कथितं मेतच्चक्रं तृतीयकं || सूत्रात् पंचतमादूर्द्धामन्यत् सूत्र द्वयन्नयेत् | ऊर्द्ध्वोधो मुखः मध्यस्थं ताम्रमर्म द्वयावधि || दद्यात् तृतीयसूत्रं तु तयोरन्योन्य संगतः | एवं चतुर्थरः मेकारश्चार त्रयपंचमं || इति संसिद्ध्यते चक्रं कर्णिकांतर्गतं समं | तच्छक्ति पंचकं सृष्टो लयनाग्नि चतुष्टयं || पंचशक्ति चतुर्वह्नि संयोगाच्चक्र संभवः | तत्रैव कष्टकर्मं च द्विदशांते चतुर्दश || चतुर्दश दशद्वंद्वमष्टाचक्रम्महेश्वरि | सृष्टिसंहारयोगेन शक्तिस्थानान्यनु क्रमात् || प्. ४६ब्) स्थितानि त्रिपुरा चक्रे चक्राधार मनो भवेत् | वहिः पद्म द्वयं कुर्यादष्ट षोडशकछदं || चतुरस्रं ततो दत्वा कुर्या द्वार चतुष्टयं | चतुष्कोण समायुक्तं मेतन्मांडलोत्तमं || रक्तेन रजसा पुण्यमेतच्छुक्लेच्च रेचकं | अस्य दर्शनमात्रेण सौभाग्यं देवि जायते || नश्यंति सर्वविद्यानि प्राप्यते तद्यदिप्सितं | अधुना चैव चक्राणां नामानि शृणु सुव्रते || त्रैलोक्यमोहनं चक्रं सर्वाशापूरणं तथा | सर्वसंक्षोभकं देवि सर्वसौभाग्यकारकं || सर्वार्थसाधनं चक्रं सर्वरक्षाकरं परं | सर्वरोगहरं चैव सर्वसिद्धिमयं तथा || सर्वानंदमयं चापी नवमं सुरसुंदरी | परिपूर्ण महाचक्रमजरामरकारकं || एवमेष महाचक्रमजरामरकारकं | एवमेष महाचक्रे संततः परमेश्वरः || कथितं स्त्रिपुरादेव्या जीवमुक्ति प्रवर्तकः | मंत्रसंकेतकं चैव मधुना कथयामिते || यद्वेधादमरावीर वीरचक्रेश्वरो भवेत् | चतुरस्र पुरा कृत्वा चतुर्विंशांगुलं शुभं || ईशानं पश्चिमं सूत्रंमग्निः पश्चिमगत्पुरा | पूर्वसूत्रं तु संस्थाप्य शेषाणि त्रीणि लोपयेत् || त्रिदंडो तु स्मृता योनिस्त्रियो माशास्त्र देवता | एकैकः दंडकप्राज्ञः षट् षट् सूत्राणि पातयेत् || योनयो योन जायंते समस्ताः समसंधयः | कोष्ठका ह्युनपंचाशद् भगरूपाणि तानि तु || प्. ४७अ) ऐशादकारमारभ्य वारुण्यां तु विनायकं | विन्यसेन् मातृकाः सर्वा विष्णोदि शिव पश्चिमाः || एकचक्रं लिखेत्येव दृढे दारुमये शुभे | त्रिकोणे च त्रिपादे च वर्णोत् कीलित लक्षणे || षण्मासाज्जायते सिद्धः पूजा जय परायणे | अतो मंत्रः समुद्धार्यो यथा देवि तथा शृणु || ओज मध्य गत स्वर्णमूर्द्ध शशि रसोरहं | अङ्गमध्यगतं वीजम्वर मध्यसनस्थितं || द्वितीयमेतत् कथिता मजमध्यं स विंदुकं | वहमध्यं आ अधःस्थ संकमध्येन लाछितं || प्रथम त्र्यक्षरी विद्या करशुद्धिकरी स्मृता | द्वयोः कृत्वा विपर्यासम्पूर्ववीजेन वै विना || आत्मन्यास विधेर्विद्यात् द्वितीयेयं कृशोदरि | षोधाय दुर्द्धगत्पिंडं माया विन्दुविभूषितं || अद्यायां वाग्भवस्थाने त्यस्यौत्मासन रूपिणी | गृहीत्वा वर्णमेकैमाद्यमाद्य तृतीययोः || मध्यांतमूद्धसाधेन विद्या चक्रासन स्थिता | षाध्येंत्रात्या युता पूर्वा ज्ञेया मंत्रासन स्थिता || विपरीत स्थितौ चांतौ सोर्द्ध न पूर्वसा स्थितौ | दत्वा तृतीय विद्यायाः कामवीजांत देशतः || साध्यसिद्धासन गता षष्ठि विद्या प्रकाशिता | दत्वा वीज त्रयश्चोर्द्ध वररूपार्द्धतंतगौ || गांतस्थाद्याद्य विद्ये च चावाहन विधौ परा | एवमेता महाविद्याः पूर्वोक्ता सुरसुंदरि || महात्रिपुरसुंदर्याः सांगोपांगास्त्र देवता | अथातः संप्रवक्ष्यामि मूलविद्यां वरानने || प्. ४७ब्) यया विज्ञातया सम्यक् सर्वमेव प्रसिद्ध्यति | अः ख मध्यं तु संगृह्य ऐं मध्यमधमः कुरु || तस्य मध्य न्यसेद् वर्णमकारोर्द्ध व्यवस्थितः | रांतषाधो यकारांतस्माया विंदु निरोधुयुक् || वाग्भवो यं समाख्यातः समारभ्य य कारकः | त्रयाणां षाधो वर्णो नामेकैकस्यामने न्यसेत् || गाद्यं सोद्धो यकारांतमेकम्प्रागाद्यलाच्छितं | आडमध्य न चाक्रांतं औ अः मध्यशिरो युतः || कामराजं महेशानि स रहस्यं प्रकाशिनं | अस्योच्चारणमात्रेण जगत्क्षोभः प्रजायते || तृतीयं संप्रवक्ष्यामि शक्तिवीज महाद्भुतं | वधोलाधः समायुक्तं गाद्यं फांधो हरात्मकं || अः ऊर्द्ध्वं पृष्ठसंयुक्तं शक्तिवीजसमुद्धरेत् | अनेन ज्ञातमात्रेण कुर्यात् सर्व विषक्षयः || एषा विद्या समाख्याता सर्वैश्वर्यकरीपरा | अनेन ज्ञातया सम्यक् नास्ति तद्यन्न सिद्ध्यति || अथातः संप्रवक्ष्यामि पाशांकुश धनुशरान् | येषां तु योगमात्रेण देवदेवी प्रसीदति || यत्पूर्व वर्णयुगलं आद्य न शिर आहुतं | पाश द्वयं समाख्यातं साक्तं मादनमेव च || जंभादि परमं युक्तं मेकमंकुशमुत्तमम् | प्. ४८अ) द्वितीयं कोट्ययोन्यत्रमकारांत लयांतगं || णां तस्याद्यं सकाराद्यं चापयुष्ममुदाहृतं | स वीजे तानि योक्तव्याः संप्रदाय समन्विता || पाधो नाधो लयां तंत्र हाधो लांत समन्वितं | औ अः मध्यगवीजेन सर्वशिरसि आहती || पिंडस्तो न नियोक्तव्याः संप्रदाय समन्विता | कामदेवस्य कथितं शरपंचकमुत्तमं || अधमध्यं द्विधोद्धृत्य वप मध्येन लांछितं | औ अः पृष्ट समापेतं कपूर्वेण शिरोयुतं || गाद्यंवांतं च सोर्द्धस्थौ आ ई अंत समन्वितौ | कद्ययुक्तो वषांतं च खाद्यंतं देवताः शराः || स वीजास्ते नियोक्तव्याः संप्रदाय समन्वितः | प्रागुद्धृतानि वीजानि वशिन्याद्याष्टकस्य च || माया लक्ष्मी मये वीजे आदि चक्रस्य पूजने | तत्संयुक्तं द्वितीयस्य स्वर षोडशकं पृथक् || मंत्र संकेतकः प्रोक्तः सर्वकाम फलप्रदः | पूजा संकेतकं चापि कथयामि तवेश्वरी || प्रथमे त्रिपुरा चक्रे द्वितीये त्रिपुरेश्वरी | तृतीये त्रिपुरा देव्या चतुर्थे त्रिपुरवासिनी || पंचमे त्रिपुराश्रीश्च षष्ठे त्रिपुरमालिनी | सप्तमे त्रिपुरासिद्धिरष्टमे त्रिपुरंविका || नवमे तु महेशानि महात्रिपुरसुन्दरी | मूलविद्या समाख्याता त्रैलोक्य वशकारिणी || प्. ४८ब्) एवं नवप्रकारायो पूजामात्रेण पार्वति | एकाकाराचादि शक्तिरजलामरकारिणी || मंत्रसंकेतकंस्तस्मा नानाकारो व्यवस्थिताः | नानामंत्र क्रमेणैव पारंपर्यण लभ्यते || प्रकटादौ ततो गुप्ता गुप्तोद्गुप्ततरापरा | संप्रदाय क्रमायाता तथान्यो कुलकौलिनी || महानिगर्भ योगिन्यो रहस्यस्था परापरा | परमा त्रिरहस्यस्था पूज्या त्रिभुवनेश्वरि || महापीठोपपीठेषु योगिनी वक्त्रसंभवे | कर्णात् कर्णोपदेशेन संचरभ्यवनीतले || ततः प्रकट योगिन्यश्चक्र त्रैलोक्य मोहने | तथैव गुप्तयोगिन्यः सर्वासा परिपूरिणे || गुप्तागुप्ततरादेवि सर्वसंक्षोभकारके | संप्रदाय क्रमायाताः सर्वसौभाग्य कारके || कुलकौलिक योगिन्यश्चक्रे सर्वार्थ साधके | निगर्भ देवता चक्रे सर्वरक्षाकरं परे || रहस्य देवताश्चान्याः सर्वरोगहरप्रभो | सर्वसिद्धिमये चक्रे परमातिलहस्यगा || तिष्ठंति देवताः सर्वाः सर्वसिद्धि फलप्रदाः | परापराति रहस्याद्या सर्वानंद मये परे || तत्र प्रकट योगिन्यश्चक्रे त्रैलोक्य मोहणे | अणिमाद्या महादेवि सिद्धियोऽष्टोष्टवष्टिताः || प्. ४९अ) तथैव गुप्तयोगिन्यः सर्वासा परिपूरणे | कामाकर्षण रूपाद्याः कलानित्या प्रकीर्तिताः || गुप्तागुप्ततरादेवि सर्वसंक्षोभकारके | अनंग कुसुमाद्यस्तु चक्रे सर्वा व्यवस्थिताः || संप्रदाय क्रमायाताश्चक्र सौभाग्य कारके | सर्वसंक्षोभणी पूर्वाः संस्थिता सुरसुंदरी || कुलकौलिक योगिन्यः सर्वसिद्धि प्रदायकाः | सर्वसिद्धिप्रदाद्याश्च चक्र सर्वार्थसाधके || निगर्भ देवताश्चक्रे सर्वरक्षाकरे परे | सर्वज्ञाद्या महादेवि संस्थिता वीरवंदिते || रहस्य देवतायाश्च सर्वरोगहरं प्रिये | वशिन्याद्या महादेव्यः संस्थिता परमार्थत || सर्वसिद्धिमये चक्रे परमाति रहस्यगः | स्थिता कामेश्वरा पूर्वाश्चतस्र पीठदेवताः || सर्वानंदमये चक्रे पूर्ण सर्वमयी स्थिताः | परापर रहस्याद्या महात्रिपुरसुंदरी || लोकातीत स्वभावा तन्प्रांत क्रम समन्विती | पराद्वयीत भावस्था सर्वप्रवरगोचरा || सर्वभाव परित्यत्वा सर्वद्वंद्व विवर्जिता | परमा निर्विकल्पस्था पूजा पापक्षयंकरी || स भैरव चतुःषष्ठि योगिनी चक्र मण्डले | संस्थितेयं महापूय द्वोधादमनरो भवेत् || देवताराधनाकाममेकमाश्रित्य पूजयेत् | सर्वकाम परित्यक्तः सर्वकामानवाप्नुयात् || प्. ४९ब्) सर्वेप्सित फलावाप्तिः सर्वकामसमाश्रयात् | यद्येतद् दृश्यते देवि कस्यश्चित् केनचित् क्वचित् || मुद्रा वंधं समासेन शृणु वक्षेहमीश्वरी | उभौ तौ तन्निरुद्धौ तु प्राणापानो व्यवस्थितौ || तत्र मध्य परं तत्वं भावाभावपदोद्भवं | तत्र मध्यविदं कुर्यात् मुद्रेषा खेचरी मता || अन्योस्तु करवद्धेन सर्वशास्त्रेषु संस्थिताः | वाचामगोचरं देव्याः सर्वानंदमयं वपुः || एकवक्त्र महारक्तं रक्त पद्मासनस्थितं | चतुर्भिरायुधैः युक्तं पाशांकुश धनुःशरैः || देवी किरणरूपस्तु शुद्धशक्तिर्गणं स्मरेत् | ध्यानं न विद्यते तस्मास्तदूर्द्धं वरवर्णिनि || एवं पूजाविधाने तु सर्वतीर्थे फलं लभेत् | सर्वजज्ञफल चापि सर्वयोगफलं तथा || एतद् रहस्यमाख्यातं तत्वया परिपृच्छितं | नैव देयमभक्तानां किमन्यन् कथयामिते || एकैवानेक रूपा सा विद्याश्री त्रिपुराभिधा | यस्याः संकट वोधेन जीवन्मुक्तः प्रवर्तते || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे दशमः पटलः || १० || श्रीदेव्युवाच || पृथिव्यापस्तथा तेज वायुराकाशमेव च | पंचतत्व गत सृष्टिषु नक्षत्र विलीयते || श्रीशिव उवाच || प्. ५०अ) प्रथमं शून्यमव्यक्त द्वितीय धूममेव च | तृतीये तेजमुत्पन्ना चतुर्थे आपजायते || पंचमे पृथिवी जाता पंचतत्वं प्रजायते | एतत् पंचाधिकारी च त्रिगुण परमेश्वरः || ब्रह्माधराधिपश्चैव विष्णुजराधिपस्तथा | तेजो च वायुराकाशं महेश्चव्यावृत्तेश्वरः || एतेषां जन्मं संहारं वक्ष्यामि शृणु पार्वति | क्रम्यव्युक्रमणे नैव शुद्धभावेन भावयेत् || पृथिव्यां लीयते * प्सु आपस्तेजसि लीयते | तेजो विलीयते वायुः वायुराकाश लीयते || एते पंचधिकारश्च पंचपंच प्रजायते | ब्रह्मांडं व्यापकं ज्ञेयं पंचभूतेन पार्वति || मलमस्थितथानाडीनखकेश तथैव च | पृथिपंचगुणाप्रेता ज्ञानि ज्ञानेन भाषितं || कामं क्रोधं च लोभं च विवादं विग्रहस्तथा | आपपंचगुणा प्रोक्ता ज्ञानि ज्ञानेन भाषितं || क्षुधा तृष्णा तथा निद्रा आरस्यं कुंठ्यमेव च | तेजपंच गुणा प्रोक्ता ज्ञानि ज्ञानेन भाषितं || पवनं धारणं चैव निरोधः संकुचिस्तथा | प्रशवो वायुरूपेण ज्ञानिज्ञानेन भाषितं || भयं मोहस्तथा लज्जा रागद्वेषस्तथैव च | लोभपंचगुणाप्रोक्ता ज्ञानिज्ञानेन भाषितं || अनंत भुवनं देवि ब्रह्मांडं क्रमसंख्यया | तेषां निष्ठा प्रवक्ष्यामि शृणुष्व सर्वभक्तितः || प्. ५०ब्) पाद द्वय तलं विद्या वितलं गुल्फदेशके | सुतलं जंघदेशस्तु तरातल तदुर्द्धत || महातलं उरुदेशे गुह्यदेशे रसातलं | पातालं कटिरंध्रे तु सप्तमं परिकीर्तितं || भूर्ल्लोकं नाभिदेशे तु भुवर्लोकं च कुक्षिणं | वामांगे स्वर्गलोकं च महर्ल्लोकं च वक्षसि || कंठस्तेज न लोकं च ततो लोकं ललाटके | सत्यलोकं भ्रुवोर्मध्ये भुवनानि चतुर्दशः || अध स्थितो भवे मेरुः ऊर्ध्वकोणे च मंदर | कैलासश्चोत्तरे कोणे दक्षकोणे हिमालये || माल्यवान् वामरेखायां दक्षिणे गंधमादनं | निषधश्चोर्द्धभागेन षडांगे परिपार्श्वतः || अस्थिवेषस्थितो जंवु मेधः प्लक्ष च वस्थितः | कुशद्वीपस्थितो मांस क्रौंच द्वीपं च शोणितं || शाल्म द्वीपं च मज्जायां साल्मली रोमसंचय | नखे पुष्कर द्वीपं च सप्तद्वीपा प्रकीर्तिता || लवणोदकस्तथा मूत्रे क्षीरो क्षीरोदमस्तके | सुरादधि रसायां च श्वनित्यक्षुदधि तथा || सर्पि सागर शुक्रे च तत्रापि जलसागर | दधिसागर श्लेष्मायां सागरा सप्त कीर्तिताः || नादस्थाने स्थिता सूर्य तेजस्थाने च चंद्रमा | लोचने मंगल प्रोक्ता हृदि सौम्य व्यवस्थिताः || प्. ५१अ) नाभि स्थाने गुरुं विद्या शुक्रे शुक्र व्यवस्थिता | नाभि स्थाने स्थितो मंदा मुखराहु व्यवस्थित || राहु स्थाने स्थित केतु शरीरे ग्रहमण्डल | सार्द्ध त्रयश्च कोटिश्च शरीरे शेष उच्यते || नव ज्वरं च प्रत्यक्षं शुद्धभावेन भावयेत् | गुडलिङ्गं च नेत्रञ्च मुखकर्णो च नाशिक || एतानि नवछिद्राणि द्वारानि नव उच्यते || देव्युवाच || कुत्र वा भावये चंद्रं सूर्यं वा कुत्र भावयेत् | मनं वा कुत्र स्थाने च देव देव वदस्व मे || शिव उवाच || तालुमूले स्थितश्चंद्र नाभिमूले दिवाकरः | सूर्यस्ते वसते वह्नि चंद्रास्ते वसते मनः || देव्युवाचः || कथमुत्पद्यते प्राणः कथमुत्पद्यते मनः || कथमुत्पद्यतेवाचा एता सर्ववदस्व मे || शिव उवाच || अव्यक्तादुत्पते प्राणाः प्राणादुत्पद्यते मनः | मनः सर्वविकारं च वाक्यानि सर्वधातुभिः || देव्युवाच || को वा करोति कर्माणि को वा लिप्यति पातकैः | तत्कथय महादेव सर्वज्ञ परमेश्वर || शिव उवाच || मनः करोति कर्माणि मनोलिप्यति पातकैः | मनोपि उन्ममी भूत्वा पापपुण्यै न लिप्यते || देव्युवाच || कस्मिन् स्थाने स्थिता शक्तिः कस्मिस्थाने स्थित शिव | कस्मिन् स्थाने स्थित कालः जला केन प्रजायते || प्. ५१ब्) श्रीशिव उवाच || आधारे वसते शक्तिः नादस्थाने वसेत् शिव | काला व्याप्त परिज्ञेया चलश्चित्तो जला भवेत् || श्रीदेव्युवाच || श्चासं वाक्यं गतिनिंद्रा प्राणस्य कण्ठमेव च | क्षुधा तृष्णा च पौरुष्यं कस्मादश प्रजायते || श्रीशिवोवाच || वायुश्च केवलं सूक्ष्म विकारेन च लभ्यते | तन्मयं च कृते भाव मुक्तो भवति तत्क्षणात् || श्रीदेव्युवाच || शिवशक्ति कथं देव दशवायुश्च कीदृशः | कीदृश परमं देवं देवदेववदस्वमे || श्रीशिव उवाच || शिवशक्तिश्च वायुंश्च सर्वं तिष्ठति वै क्रमं | वदांमि कारणं देवि शृणुत्व कथयामि ते || हृदि प्राण स्थितो वायुरपानो गुरु उच्यते | समानो नाभि देशे तु उदानो कण्ठ उच्यते || व्यान सर्वगतो देवि प्राणपंचक्रमोद्भव | एते पंचप्रकारेण प्राणो देहे व्यवस्थित || नागकर्म कृकश्चैव देवदत्तो धनंजय | उदानो पंचवायुश्च ज्ञायते क्रमयोगत || चैतन्य देहिनां सर्व नागवायु करोति च | कूर्मो वायु प्रयोगेन चक्षुनिमिष जायते || क्लिकवायु क्षुधा जाता देवदत्तो त्वनन्तयेत् | धनञ्जय सशब्देण पूरयेत् सर्वदेहिनां || प्. ५२अ) नागश्च ये गृहे वायु कूर्मश्च मतिनां सह | कृककरोति कर्माणि देवदत्तो गतो भवेत् || बुद्धिधर्मा च मध्यक्षमशेषमविलंवितं | नवद्धारं च प्रत्यक्षं दशमं स निगद्यते || शेषद्वारस्थितं तत्वं गुरुवाक्येन लभ्यते | शक्तिकुंडलनी रूपा त्रयोदश स नाडिका || द्विसप्तति * माह श्रीशरीरे ज्ञायते ध्रुवं | तेषां मध्ये प्रधानाश्च त्रयोदशमनाडिका || इडा च पिंगला चैव सुषुम्ना ऊर्द्ध्वनाडिका | गांधारी हस्ति जिह्वा च पुषाप्राणलतास्तथा || यसाचालंवुषा चैव दक्षमार्गे विलंविका | कुरंगि शंखिनी नित्या वाममार्गे विलंविता || एतानिभीद्यते येन स योगी योगलक्षणं | ममतुल्यो भवत्येव ज्ञानदेवि न संशयः || देव्युवाच || भूतनाथ महादेव व्रूहि मे परमेश्वर | त्रयो देवा कथं नामत्रयो भावाश्च कीदृश || शिव उवाच || रजोभाव स्थितो ब्रह्मा सत्वभाव स्थितो हरि | तमो भाव स्थितो रुद्र त्रयो देवा त्रयोगुण || एकमूर्ति त्रयोदेवा रुद्रविष्णु पितामह | नानाभाव मनो यस्य तस्य मुक्ति न विंद्यते || अहं श्रुतिरहंकार अहं सर्वगत शिव | अहं ब्रह्मारहं विष्णु अहं शून्यं निरञ्जनं || देव्युवाच || प्. ५२ब्) सर्वज्ञ सर्वभूतेषु सर्वलोक महेश्वर | त्वया च कथितो देव कथं माता पिता कथं || शिव उवाच || नवद्वारं च प्रत्यक्षं त्रिशून्यं पंच देवता | पंचेंद्रिया कुतुन्वश्च यत्र प्राण समे गृहं || अखिरा चतुरोवेदा सर्वशास्त्र तथैव च | सारं च योगिभिः पीतं तक्रं पिवति पंडिता || उंश्छिष्टं सर्वशास्त्राणि सर्वविद्या मुखे मुखे | नोश्छिष्टं ब्रह्मनो ज्ञानं व्यक्ताव्यक्त मनोमयं || पार्वत्युवाच || यस्त्वया कथितो देव न हि यानामि शंकर | निश्चितं व्रूहि मे देव मनो यत्र विलियते || शिवोवाच || मणः कर्मं च वाक्यं च त्रयो यत्र विलिप्यते | तत्रस्था परमाशक्ति शृणु देवि सुनिश्चितं || विनानिसा यथा निद्रा ब्रह्मज्ञानि स उच्यते | स्वगमध्य खगज्ञानि खमार्गेण यथा खग || तथात्मयो यजेत् सर्वं पंचभूत क्रमेण तु | मृतकस्य यथा निद्रा ब्रह्मज्ञानि स उच्यते || बालकस्य यथाभाव मोक्षे योगस्तथा खगः | य इदं ब्रह्मणो ज्ञानं परमात्मा समाहितः || शिवशक्ति समासंगो शतसूर्यस्य संगम | एकोपि ब्रह्मणो ज्ञानं यत्र चिंता विना मन || एतत् ते कथितं ज्ञानं ब्रह्मज्ञान स तत्वतः | एतच्च सर्वसंतोष यत्र चिंता विना मन || प्. ५३अ) षट्चक्रं षोडशाधारं केशत्रय स चक्रकं | स्वदेहे यो न जानंति कथं ध्यायंति योगिनः || आकाशमासनं कृत्वा मन ज्ञात्वा सुनिश्चितं | अहमेवमिदं सर्वं सिद्ध्या पश्यंतित सुखं || काश्यां वा ससतां संगो गंगांभशंभुपूजनं | ब्रह्मज्ञान समो धर्मो नान्यो धर्म विधीयते || अथ आह्लादिनी मंत्रं शृणु मत्प्राण वल्लभे | यस्योच्चारण मात्रेण कालिका सुप्रसीदति || कामवीजं कूर्चवीजं मेद्यवीजं मतः परं | प्रासादं राववीजं च पंचवीजानि चोद्धरेत् || सप्तवारं जपेन् मंत्रं वीजं पंच पुटीकृतं | एवं कृते महेशानि मंत्रसिद्धिरनुत्तमा || न कुल्लुकां जपेद् देवि न निर्वाण न सेतुकं | एके नैव हि मंत्रेण मंत्रसिद्धिस्तु जायते || अज्ञात्वा ह्लादिनी मंत्र कालिं यो भजति प्रिये | सर्वं निष्फलता याति भैरवस्य वचो यथा || झिल्लीरव्यक्त मधुरा कुजंती सततोत्थिता | गच्छंती ब्रह्मरंध्रेण प्रविशंति स्वकेतने || यातायात क्रमेणैव ततः कुर्यात् मनोलयं | कामवीजं स्मरेद् देवि मूलाधारे सुशोभने || खेचरी हृदये ध्याये साकिनी मस्तकोपरि | तेन मंत्र शिखा * जा सर्वमंत्र प्रदीपिका || नमः पूर्णै गृहे यद् वन्न किंचित् परिभाषते | प्. ५३ब्) शिखाहीनास्तथा मंत्रा न सिद्ध्यति कदाचन || शिखोपदेश देवेशि सर्वतंत्रेषु गोपिता | वर्णैः पंचाशता स्यादि विभक्तै व्याप्त विग्रह || वाक्प्रसादाय मे भूयात् मातृका विश्वमातृका | वर्णनिःघंठमालोक्य समुद्धृत्यागमांतरात् || वर्णभिधानं विदधे श्रीविनायक संविता || ओंकारंश्च ध्रुवस्तारः त्रिमात्रो वर्तुलस्त्रिकः | वेदादिः प्रणवः पंच दैवतश्च त्रिदेवतः || आदि वीजं विंदुशक्तिर्मंत्राद्यो गुणवीजकं | सावित्र्य मध्येमपरंर्गुण आदिरिति स्थितिः || ओं || अः केशवः स्याच्छ्रीकंठो विष्णुरादि स्वरश्च स | पूर्णोदरी समाख्यातः कीर्तिरप्येष कीर्तितः || वर्णाद्य आद्यजश्चैव मात्रो ह्रस्वः सुरेश्वरः | स्वराद्यो ब्रह्मणो वागीश्वरो कालो ललाटजः || निवृत्तिराद्यो मालाख्यः सारस्वत ललाटज || अ || आ अनंतः प्रतिष्ठात्मा विश्वात्मा मूकनायकः | नारायणो मुखवृत्तो दीर्घछाया विधानकः || द्वितीयस्वर आकारोदकंजो दीर्घ एव च | क्षीरो दधिः पयोदः श्याद् वज्र कांतिर्गुरुर्मतः || आ || इः सूक्ष्मो माधवश्चंद्रो दक्षनेत्रः सुगुह्यकः | नेत्राख्यः कोटरो विद्यो तृतीयस्वरनासिके || इः कारशाल्मली त्वष्टा रुद्रो दक्षिणलोचनः || प्. ५४अ) इ || ई चतुर्थस्वरः शांतिस्त्रिमूर्ति विंदुमालिनी | माया गोविंद ईकारो वामनेश्चंद शेखरः || शक्ति विष्णुश्च लोलाक्षी तुष्टि जिह्वाख्य नामकः | वाग्विशुद्धः स्मृतो लक्ष्मी नाम पर्याय एव च || ई || उ विष्णुरमरेशश्च कर्णनाभीषणीरुषः | दक्षकर्णः कर्णदक्षः उकारः पंचमस्वरः || वर्तुलाक्षी च षड्वक्त्रः इंधिका मोहिनी धृतिः | उग्रः श्रुतिः स्रवः स्रोतो मोहको मोहनोपि च || उ || ऊकांति वामकर्णाख्यो अर्घी च मधुसूदनः | षष्ठस्वरस्तथोकारः प्रजेशो नवभैरवः || दीपिका दीर्घघोणा च शूद्रः सव्यः श्रवोपि च || ऊ || ऋभारभूतिर्भीरूश्च दक्षनासा त्रिविक्रमः | ह्रिया निर्वृत्ति नासाख्य ऋकारः सप्तमस्वरः || शिरोमाला दीर्घमुखी रेचिका रुद्र एकपात् || ऋ || ऋ तिथीशो गोमुखी स्याद् वामनो वामनासिका | मायाग्निरूर्द्ध मूर्तिस्याःद्वामनासा पुटाभिधः || ॠ || ऌ श्रीधरो दीर्घ जिह्वास्थानुमेधा च पार्थिवः | दक्षगंडो ग * मासा अर्कारो नवमस्वरः || सूक्ष्मवक्त्रो गृध्रवरोमायेंद्रोजागलः स्मृतः | विद्याधरः कपोलाख्यः स्याद् दक्षिण कपोलकः || ऌ || ॡ हृषीकेश ॡकारो हर्षगंडोदरीहरः | सूक्ष्मामृता शुद्ध रुद्रो लोलुपो दशमस्वरः || प्. ५४ब्) नीलपादो वामगंडस्तथा वामकपोलकः | मायाविशकौमायेंद्रः शांतिकृन्सुस्थिरो मतः || ॡ || ए ऊर्द्ध्वोष्टश्च झिंठीश ओष्ठनामा भया ह्वयः | अग्निः शक्तिद्दक्षजानु ज्ञानि शक्तिश्च जंघजः || ऊर्ध्वकेशी तथैकारः केशाश्च वहुरूपिका | ज्ञानश्च पद्मनाभश्च ऊर्द्ध्वदंतः क्वचि स्मृतः || ए || ऐ भौतिको धरो लज्जा अधरोष्टक्षयात्मकः | दामोदरो वाग्भवाख्य पीठेशश्चौ शुमान् प्रभुः || द्वादशस्वर ऐकारो मृता विकृत मुख्यपि | समात्रिको वामजांनु च जगद्योनिर्वसुस्वरः || क्वचिच्चाधरदंतश्च वाक् सारस्वत ईरितः || ऐ || ओ सद्यः सद्यो जातश्च गायत्री दक्षजंघकः | ऊर्ध्वदंतो दंतनामा लक्ष्मी ज्वालामुखीरतिः || वासुदेवः पश्चिमास्याः पीयूषोऽजेश इत्यपि | त्रयोदश स्वरश्चाद्याय स्वोकारश्च कुत्रचित् || ऊर्द्ध्वोष्ट ओष्ठनामाख्य कंठाख्याः परिकीर्तितः || ओ || औ शांतिके रुग्रहेशस्तैजसो वामजंघकः | संकर्षणश्च कंठाख्यो नादाख्यश्च सरस्वती || चतुर्दश स्वरश्चाल्का मुख्यौकारः सदाशिवः | मनुस्वरोधो दंताव्यो व्याधिनीचर्दसस्वरः || क्वचित् स्यादधरोष्टाख्यो प्यध ओष्ठ मनुर्मतः || प्. ५५अ) औ || अं दंडोघंटिका नादो दंड्य क्रूरालवः पुमान् | वंचुपा * वीजयोः स्यात् सौख्यो दुःखप्रवंधकः || श्रीमुखी विंदुरिंदुश्च प्रद्युम्नः कामगुह्यकः | आत्मा शून्यो दीर्घनासानुस्वारो व्योमरूपिका || पुरुषाख्यः शिवः प्रीति रविः पंचदशस्वरः || अं || अः शशांको महासेनो द्विविंदुः प्रकृतीरतिः | इच्छा भद्रो निरुद्धश्च विद्यामुख्यरुघंटिकः || अमरेशोऽहि जिह्वाख्यो हरिः सर्गो विसर्गकः | अनंत शक्तिरित्युक्तः षोडशस्वर इत्यपि || अः || कः क्रोधीशो महाकाली जया चक्री हुताशनः | दक्षस्कंधः स्कंधनामा मन्मथस्तैजसोंतिकः || वाहुमूला ह्वयो दक्ष वाहुमूलश्च मादनः | प्रजापत्या ह्वयः सृष्टिः कपाली विंदु मालिनी || वामदेवोंतको रुद्रः ककारः क्रोधनायकः || क || ख चण्डेशो गदी दुर्गा दक्षवाहु सरस्वती | कक्ष?कूर्परकः शून्यः कूर्पराख्यः खकारक || कपाली दंत्यजातीशः शिखंड्याकाशनामकः | ऋद्धिश्च कालरूपी च वाहुमध्यग इत्यपि || ख || गः स्यात् पंचांतको दक्ष कूर्परांतश्च दंकणः | प्रभा गणेश्वरः शांगी शिवदर्शनसंज्ञकः || शिवात्मांगुलि मूलश्च दांतको घुर्घुरोपि च | ङ द्विजात्मैक रुद्रश्च दक्षहस्तांगुली नखः || प्. ५५ब्) एक पाखर्विकः कांतिः शंखी चंडा ङकारकः | यादेत्त्रैलोक्य विद्या च एकनेत्रा ह्वयस्तथा || ङ || च कूर्मो मंत्रशक्तिः स्याच्चर्ममुंड धरो हरी | वाणी लक्ष्मीश्चंडरूपा वामस्कंधाख्य नामकः || तृतीय लोचनो सव्य वाहुमूलो द्विनेत्रकः || च || चूलीगली दीर्घवाहुरेकनेत्रा विशालिनी | एकवामः पशुपतिः रेकपादपशुद्युति || छकारो मुखली वाम कूर्परो मंत्र शक्तिका | द्विशिरोश्च तथा सव्य भुजमध्य गतोपि च || छ || जरामः कंकणः शूली त्रिशूली विजया स्थिरा | आत्मशक्ति दीर्घवाहु जयंतश्चतुराननः || भूतमाताजकारश्च शाखोक्ता चैव कर्तरी || ज || झो जिह्वा वामहस्तश्च विरजा कृतमंडलः | पाशी लंवोदरी वाम शाखामूलो झकारकः || आकल्पतश्च झंकाली तथा स्थिति रजेश्वरः | दीर्घवाहुरसौरूपं नाददेवो निरंजनः || झ || ञ सर्वो द्राविनी विश्वा पामकरांगुलीनखः | धर्मदः सुखदो ज्ञानी कुज्ञाजी सिद्धिरंगुली || एकपादो ञकारश्च दुज्ञानी वामशाखिका || ञ || ट खेचरः सोमनाथो मुकुंदो विनदा जरा | दक्षकटि दक्षिणस्फि कपाली चैव नागरी || प्. ५६अ) पादमूलो दक्षपाद मूलो वामकरोटिका | होमेश्वरोर्द्ध चंद्रश्च टकारश्च पुनर्णवः || ट || ठगली पूर्णचंद्रः खेचरी विनदा शशी | नन्दजो वर्तुलो वृत्तो मृताख्यो दक्षजानुकः || वनजा जीवजा जीवो दक्षारुविषपूर्णकः | ठकारः पालिनी चापि तथा करतला ह्वयः || ड दारुकः स्मृति नंदीनंजीनी दक्षगुल्फकः | चलपको वामवाहु डकारो योगिनि प्रियः || शांतिद्दक्षिण जंघाख्यो योगिनी हृदयं गमः || ड || ढ ढकारोर्द्ध नारीशो रूपिणी च विनायकः | ऐश्वरी सिद्धिदाता च विघ्नेशः सव्यवाहुकः || सिद्धिर्नरो दक्षपादो दक्षिणांघ्रि गणाधिपः || ढ || ण दक्षपादांगुलिको द्विनेत्रो योगिनी प्रियः | दक्षपादा ह्वयश्चापि समृद्धि विरणीरति || नारायणो नरकजिदुमाकांतोणकारकः || ण || त वामस्फिग्वामकटिः शुद्धि० काकोदरी हरिः | आषाढीशो वामशक्तिः ताराख्यस्तारकापि च || ऊरुद्वयात्मकश्चोरु मूलश्च मध्यवर्णकः | शक्तीशः कामिका वा मयन्मूल स्त्रिजटी स्मृतः || त || थ दण्डी पूतना कृष्णो वामो रुर्वामजानुकः | महाग्रंथिश्च दण्डीशो ग्रंथिग्राहक इत्यपि || प्. ५६ब्) जशिनी शिरजो भुक्तिस्थकारो वरदापि च || थ || द वामजानुरद्रीशो दातादाधा च धातरिः | चंदलोः वामगुल्फश्च ह्रादिनी चर्मनामकः || सत्यो बुद्धिर्दक्षपादो दकारो भद्रकालिका || द || ध वामजंघा स्वस्थश्च मतिः प्रीति नरेश्वरः | त्रियश्च दर्शनो नेत्र द्वयनामा च सात्वतः || स्थाणु मीनेश्वरो मीनो धकारो योगिनीत्यपि || ध || न मेषो वामपादाग्रो वामां शौरिश्च दंतुरः | ऊर्ध्ववामी नाददेवः क्षमा दीर्घो निरंजनः || मकारः शंखिनी चापि नादिनीनादरूपकः | पलोहितो दक्ष पार्श्वे दक्षि कुक्षिश्च गर्जनी || कुक्षिः पार्श्वो निरीहेशो गुह्य कर्ता पकारकः | तपनः पंचमः शूरो रमातीक्ष्ण सदाशिव || पार्वती हृदयश्चापि शिव इत्यभि शब्दितः || प || फ शिखिं कालरा अ?मावामपार्श्वो जनार्दनः | वामपादो नंदि पादः फेत्कारो डाकिनी प्रियः || डाकिनी वल्लभो रौद्री फकारः शिख्य एव च | व कुब्जिनी पूज्य वंशो छगलंत्रोयुगंधरः || शिखि वाहो मखविंदो वलियुद्धे वलिप्रिय | योद्ध वरुण कल्केंदीन्यपि भूधरसंज्ञकः || वकाराख्यो भयाख्या तु पृच्च इत्यपि कीर्तितः || व || भ द्विरंडो शोभनाभि चतुर्भद्रश्च भीषणः | प्. ५७अ) दक्षस्कंधो महावाहुः क्लिन्ना निद्रा कपर्दिनी || भकारो भ्रामको भीमो विश्वमूर्तिः स्वनाह्वयः || भ || म महाकाल उग्राख्यः कालीवज्रात्मरोदरं | कालाख्यो हृषितः कालो भद्रश्चापि यमो विषं || तंत्री मकारः पुरुषो वैकुंठे वसुदारविः || म || य कृद्वाली सुगंतं क्षुद्धालीशो वायुसंज्ञकः | शंकु भद्रो जया वायु वेगी च पुरुषोत्तमः || त्वक् संज्ञो वसुधा प्राणः शीघ्रश्च प्राणि सेवकः || य || र रक्तनामा सुमुखोश्वरी रेफः परावलां | भुजंगोशो रविर्वह्निः स्थूलदंतःश्च दीपकः || दक्षिणां हंस नामानि क्रोधनी तैजसा ह्वय || र || ल पिनोकी शलाकीशः क्रिया चंद्रो वरानलः | कंदः परायणा पृथ्वी पिता वज्रा युधा युवा || रेवती शक्र नामाख्यः पृतनामांससंज्ञकः | लकारः कुटिलश्चापि तृतीय व्यापकस्तथा || सुधारः पीत शिथिलः पीताख्यश्चापि कः स्मृतः || ल || व खड्गीशः स्नायु धातु मेदो वामांशकः शुचिः | जलनामा मृताख्यश्च वज्रस्फिक् मुख संज्ञकः || शशाकः सागरः सूक्ष्मो काली वालश्च माधवी | वकारो वरुणाख्यश्च जगत्त्रावीति संज्ञकः || व || श शंखकोस्थि धातुश्च मन्मथः कुसुमा युधः | कामरूपः कामरूपी सौख्यदाता शुचिर्वकः || प्. ५७ब्) श्रीकण्ठो वारुणी संध्या वृतुघ्नी मृत्यु कारकः | दक्ष हृत्पूर्व वाहुश्च वामोरुश्च विशेषतः || षश्चेत तमा सूर्योग्निर्मज्जा पीता विनायकः | कालधूमः षकारश्च वायवी जठरो वृषः || प्रज्ञा लम्बोदरोख्यश्च यमः कालोंतका ह्वयः || ष || स भृग्वीशो भृगुः शुक्रोहंसारक्षोवदारिणी | श्वेताछः कुंडलः शक्ति संज्ञकश्चंद्र संज्ञकः || प्रकृति मूर्ति जगद् वीजं परमात्मा मृताख्यकः | सकरःश्चंद्र पिंडश्च जीवकुंडलकः प्रभा || स || ह वरारो निशाशांतो न कुलो न कुलीश्वरः | हकार आत्मजीवात्माऽकृशनामा शिवा ह्वयः || मादनः सहजा लक्ष्मी प्राणाहंसोरुणांवरः | नादघोषः प्राणसंधिरस्त्राख्यो मह संज्ञिकः || ह || ल शिरोमविलो मेघो लकारो व्यापिकासिता || ल || क्ष क्रोधनाम संहारोऽनंता संवर्त्तकः क्षयः | नृसिंहाख्यो महातेजाः क्षकारो नल मंडलः || संयोगजः शवर्गांतः सर्वांगो रोमसानुगाः | मेरुवंध्यो युगांतश्च वर्गांतस्तुंवुरुः परः || सर्वांतकोंतिकः प्रोक्तो विद्युता मातृकांतिकः || क्ष || ह्रीं मित्ये तस्य निर्देशे हृल्लेखा भुवनेश्वरी | माया शक्त्याख्ययाख्येयः किं वास्यमदना ह्वयः || प्. ५८अ) श्रीचास्य कमला नाम्ना फेंकार इति निर्दिशेत् | आं पाशेनांकुशेन क्रों गं गणेशेन निर्दिशेत् || प्रासादेन हौं वाग्भवेन नाम्न ऐं इति स्मृतं | आत्मना हंस इत्येवमजपा इति कीर्तितः || परमात्मना सोहमिति वीजं च चतुलाःकलं | भूमिवीजं पिंडवीजं ग्लौ वर्गव्यंजनान्वितं || कूट इत्युच्यते क्व्क्रीं च पिण्डवीजं च पिण्डकं | क्ष्रूं तुंवुरुरित्युक्तं नृसिंहाख्यं तु क्ष्रौं इति || चिंतामणि क्ष्म्यरौं दौर्गंदुं हूं वराख्यमीरितं || ह्सूं हयग्रीव संज्ञं विश्ववीजं तु श्रीमिति | हृदाख्यया नमो नत्या शिरो नाम्ना द्विठेन च || वह्निजायाख्यया स्वाहा वषट् शिखाख्यया मतं | नेत्राख्यया वौषडिति हूं क्रोध कवचाख्यया || फट् शस्त्रास्त्रशरैहंति संज्ञया ज्ञायते बुधैः | दिङ्मात्रमल्य बुद्धीनां मुखबोधाय कीर्तितं || अन्यदप्यत्र विज्ञेयमागमां * त दर्शनात् | मननं सर्वधर्माणां त्राणं संसार वंधनात् || मनन त्राण धर्म त्वात् मंत्र इत्यभिधीयते | भुक्ति मुक्ति प्रदा मंत्राः स गुप्ताः सर्वकर्मसु || धातुः शब्दनिषेध्यर्थः स्यान्मंत्र गुप्तभाषणे | मनो विदित संज्ञाभि निर्देशे स्फुटिटं भवेत् || प्. ५८ब्) तंत्रोक्त फलसिद्धिस्तु भवेन् मंत्रस्य गोपनात् | लब्धांगा वृर्त्ति संकेत शब्देन कृतवानतः || आगमे सर्वमंत्राणां निर्देशं गुप्तये शिवः || इति श्रीवाराही तंत्रे दक्षिणाम्नायनिर्वाणपदे एकादशः पटलः || ११ || भैरव उवाच || अधुना ध्यान वक्ष्यामि शृणु कमललोचने | प्रलयानलशंकाशा सिंदूरारुणविग्रहां || दाडिमी कुसुम प्रक्षा वंधूक कालिकोपमां | अस्थि चर्म वनद्धांगी भुजंगा करणान्वितां || सुंदराक्षी त्रिनेत्राढ्या सर्वालंकारसंयुता | सवजान समारूढा षट्भुजा परमेश्वरी || जटाजूट धरा रौद्री चंद्रार्द्धकृतशेखरा | कपालकर्तृक युक्ता खड्गखेटकधारिणी || वराभयधरा देवी सर्वसिद्धि फलप्रदा | लंवस्तनी महाघोरा दंष्ट्राली विकटाननां || नरचर्म परीधाना हाडाभरणभूषितां | दिव्यांवर धराधेया सर्वैश्वर्य प्रदायिनी || त्रैलोक्य विजया देवी सदाकालं कुलेश्वरी | यदा अष्टभुजा धेया पाशांकुशधरा भवेत् || पूर्वोक्ता युध संयुक्ता देवदेवी महेश्वरी | भावयेच्च तदा देवीं त्रिनेत्रां चंद्रशेखरां || प्. ५९अ) पद्मं च दक्षिणे पाणौ जपमालां च वामके | मंत्रस्यास्य प्रसादेन नरं भामपि ततो वशीं || कालानला व्रतनिभां ब्रह्मांड कवलाद्यताः | ताक्षं पक्षं विरचितां महाहि कृतशेखरां || क्षयनीरटनिघोटघोररावांदूरांशदां | गृध्र ध्वजं प्रेतसंस्था गोनामाचरणैवृतां || नरास्त्रंपूरितमुखीं तलित्कोट्या युतप्रभां | सिंहशूकर वक्त्रानि सूच्यभ्यां चिंतयेत् सवं || स्वसुष्को कोटराक्षीं तां भयापि न भयानकां | काकलाकिलकालालि हरकण्ठ निभोपमां || दीर्घकेशां दीर्घदंष्ट्रां दीर्घांत्र सुकुलंविनीं | अष्टादशभुजोद्दामां पंचवक्त्रां महांरवां || सर्वायुधधरां दीप्तां विश्वरूपां विचिंतयेत् | कपाल खट्वांगधरां नरमुंडोपशोभितां || हृदं वज्रधरां रौद्री दंष्ट्री दीर्घांत्रकलंविनीं | अष्टादशभुजोद्दामां पंचवक्त्रां महारवां || सर्वायुधधरां दीप्तां विश्वरूपां विचिंतयेत् | कपाला खट्वांगधरां नरमुंडोपशोभिताः || हृदं वज्रधरां रौद्री खड्गपट्टारिकोद्यतां | तुंवुरीणां वाद्यरतां गजचर्मकरौद्यतां || शूलटंकारराभीमां ध्यात्वा कृत्वाणि नाशयेत् | एवं ध्यात्वा न्यसेत् मध्ये देवदेवीं कृसोदरीं || सर्ववीरोपचारेण पश्चात् तां परिपूजयेत् | प्. ५९ब्) पंचवक्त्रम्महातेजं त्रिपंचनयनोज्वलं || दशवाहु महाभीम नाना स्रग्दाममंडितं | नानारत्न समायुक्तं हारकेयूरमंडितं || जटाजूटधरं दिव्यं चंद्राकृतशेखरां | गोक्षीरधवलं दिव्यं फेनाभ शुक्ल वर्चसः || पूर्ववक्त्रे संध्या येन महादीप्तिवरं प्रिये | दाडिमी कुसुमाकारं वंधूक पुष्पसंनिभं || तरुणादित्यसंकाशं वामवक्त्रं विचिंतयेत् | पीताभं पीतसृंकाशं कुकुमाभं त्रिलोचनं || महादीप्तिकरं दिव्यं पश्चिमेदस्तु सुंदरि | दंष्ट्राकराल रौद्रं च किंचिद्रक्षायते क्षणं || नीलो ल * निभं श्यामं नीलांजन समप्रभं | मणिसर्प कृता टोपं पिंगकेशं सुभीषणं || अययोरमिति विख्यातं ध्यान सर्वार्थसिद्धिदं | ईशान मूर्द्धवक्त्रं च सृष्टिरूपं परापरं || हिमकुंदेंदु संकाशं शुद्धस्फटिक निर्मलं | आप्ययंतं जगत्सर्वं चंद्राशुः किरणेन तु || वर्षयंतं महौघेन धारा पीयूष सन्निभं | ईशान मूर्द्धवक्त्रं तु अणिमादि गुणं लभेत् || त्रिशूलकर्तरी खड्ग नागराजक्षसूत्रकं | दक्षिणेन वरारोहे विराजंत्या युधानि मे || प्. ६०अ) कपाल डमरुं शक्ति पाशांकुशधरस्थि ये | वामे नासो भया दीव्यां दीप्यमाना शुशोभना || आभीतिं मुकुरं भुजंगमवरं श्रीवीजपूराक्षकं || वामेनोल्लसितायुधन्यरिंदहमाणिक्य मालान्वितं शूरस्थां स्थित पारिजात लतिका कर्तृकरे दक्षिणे || भूषाकांत * ल वचः मृगमदैवा चर्चितं साधकं | पंचाशांदशपाणि पल्लवधरः कर्पूरहारोपमं || दालन् कुंडलघृष्टगंडफलकं नागोपवीतिं शिवं || देवं पंकदशे कृतं कुलवधू लोपविधिष्टेः धिया ध्याये दीप्सितया विज्ञात विटपं सर्वज्ञ रूपं मुखी || नीलांजन निभाकारा द्विभुजाक्षलनायिका | एकवक्त्रा महादेवी त्रिनेत्रा चंद्रशेखरा || स्थूलरूपी स्वियं प्रोक्ता सर्वावयवरूपिणी | सूष्मरूपं महेशानि कथयामि तवाधुना || वध्वा पद्मासना योगी स्थिरकाय शुचिर्वृतः | कृत्वा षोडश न्यासं च स्मृत्वा श्रीगुरुपादुकां || चाकुंचा कुंडली शक्ति मति सूष्म स्वरूपिणी | खट्वांग वैदिनीं विद्यां प्रसुप्तभुजगोपमां || आनीय मूलमंत्रेण कुंभकेन समाधिना | कदंववनमध्यस्था शिवेन सहसं गतां || प्. ६०ब्) तत्पलापटला व्याप्तं देवी शरीर चिंतयेत् | प्रसन्न मनसा देवि न च किंचिद् विभावयेत् || भैरवासन रूपोहं सून्याकारं भुव स्मरेत् | एकाक्षरी महादेवीं कुंडली परिभावयेत् || सर्वरूपधरादेवी विश्वरूपामहोज्वला | पंचप्रेतासना दीप्ता वरदाभयशोभिता || नारीरूपधरादेवी नानाशस्त्रकशोभिता | वज्रवक्त्रा वहुभुजा वहुरूपा महारवा || विश्वरूपा महेशानि नीलं कुंचित मूर्द्धजा | यथाविभव रूपाशा महालक्ष्मी निभा स्मरेत् || शितहारेंद्र शदृशी पंचवक्त्रा त्रिलोचना | दशदोर्दण्ड सहिता नानायुध करोद्यता || रक्तारुणक्ष देवी तां स्मरेत् सर्वसुख प्रदा || पद्मप्रेताधिरूढा स्फटिकमणि निभपंचवक्त्र त्रिनेत्रा त्रैलोक्यं मोदयंतां भजदशक वृता दिव्य वस्त्रा वृतांगी || वामे कापालशूलोघ ततवरदवर महापाशमुंडं वहंतीं घंटाखट्वांगखड्गालयसृणिमहिता सिद्धिलक्ष्मी पुनातु || सर्वक्रमेषु सामान्या त्रिवक्त्रा नवलोचना | अतिगुह्या महाकाली अष्टवाह्वी नवाक्षरीं || दक्षपीतमुखं देव्या सर्वाभन्वामकं स्मरेत् | रक्तवस्त्रोत्तरीया च सर्वाभरणसंयुता || त्रिशूलांकुश वक्त्रं च मुद्गरं दक्षवाहुभिः | कपालपाशखट्वांग वामे मृतलमस्तकं || प्. ६१अ) विभ्रतीं क्रमराजेशी सहस्ररविसन्निभा | अष्टाष्टकं च मध्यस्था एकाशीति पदोद्धगाः || चित्कला कुलमध्यस्थं ज्योतिरूपं च भैरवं | काद्यविंदुक हस्तं च भावये न तगोद्भवेत् || तदा स्थूलनरां देवी सहस्राक्षरमालिका | दशप्रेत पदारूढा विराद्यो च करंकिनी || सहस्रवक्त्र नयना सहस्रभुजभासुरा | सहस्रदशग्रीवाद्या सहस्र चरणावृता || सहस्रायुध सव्यग्रा महापतक मोचनी | सहस्रकाल चरिता सहस्र यमभक्षिणा || काकोली गृध्रशृंगाली सरद्व्योमनिभा हि सा | ता ध्यायेत् विश्वविभव ग्रासोद् भट्टलयाननां || भीमाभांकार हूंकार संकारावविराविनी | गर्जं च प्रलयमेघोघ पटनोद्यतनिश्चना || चमत् कल्पहुतासोग्रग्रतचंद्रार्क तारकां | पापायमानभास ज्वाला भरित् भैरवे क्षणा || उक्ता सहस्रविक्षेप यक्षणी * तटावटा | दशशोणि निःपिचोष्ट सूतकल्पांत पावकाः || ब्रह्माण्डक हुताकार कूपनेत्रा सुभैरवां | कल्पक्षयहुतासोग्र वांदसांके करे क्षणं || प्. ६१ब्) सिहोरुहांरणास्फार ऐंद ब्रह्मा * मंडपां | लोकेश्वर सिरो पद्म रचितांदसु ग्रहज्वलां || ताक्षपक्ष महाभाग कपालकृतशेखरां | शतरुद्रा शिरसृहीतमुटावलिराजितां || ब्रह्मकंदलकं काल कापालकालधारिणीं | करंकिणीं कारण स्वकृतैका वलि भासुरां || विश्वतिष्पीडतोद्दाम रक्तचर्चित विग्रहां | वज्रासनि समस्फारखलारवस्त्रभैरवी || विशालयांदसंघातभग्न भ्रह्मांडमंडपां | ब्रह्माण्डशक्र * स्फारन्मालारंडितोरुतटावटां || सदाशिव महाघोर कंकाल कटि मेखलां | वज्रसूची समस्पर्शन स्वरा वलिभासुरां || लक्षवृक्ष समाकीर्णा दग्धारण्यनिवासिनीं | वज्रशंकुनिशातोग्र खरस्पर्शशिरोरुहां || महाभोगिकुलापीलघोर यज्ञोपवीतिनी | सर्वसंहार सर्वाज्ञा दीक्षितां भैरवाननां || करनिष्यपदह्न्योघ प्रज्वालित दिगंवरां | वज्रघंठादि मूलोग्र खट्वांगकरशोभितां || टंकचापशवशृंगशक्तितोमरधारिणी | महाडमरुकोद्वाम ध्वनिनात्राशिताखिला || सरक्षंत कपालाब्ज मुंडभूषितपाणिनीं | घोरवीणाभिंदिपालकुठालं च महायुधः || समग्रविश्वसंहारकालचाव विनीदिनीं | प्. ६२अ) कालाग्नि रुद्रकोट्याय पादमूलेदतलार्चिता || सर्वायुत्यजलौघेन किततान्य नदो घटाः | भीमभैरवटंकार भगन् सर्वाध्वसंततीं || नृसिंह भैरवापीष्ट कृत कर्णारतंसकां | मार्तंडलक्षमुंडौघ विराजित शिरोरुहा || महामतंग तत्कृत्य महारात * विग्रहां | सुष्कांतशायुनिर्मासोघोरवेहां भयानकां || आसनं तेजसंघाट पटनोद्भत तेजसाः | त्रुटदंतपटामाला पूरपूरित दिङ्मुख || सिंहशूकरगोनास सर्पव्याघ्र नरंवनीं | ऋक्षगामायु सिंहत्वा अश्वसूकर वक्त्रकां || चिल्लोल्लूक महागृध्र मार्जारनरजा शुरां | वक्त्रकुंडोद्भवज्वाला करालाखित तत्वयां || उदग्रा मेरु लक्षालनिपतद्वह्निं वाणाकुलं | विश्वरूपां विश्वमयां विधिलक्ष्मी विचिंतयेत् || यथाभि मत स्वरूपां यथाभि मन वाहनां | चिंतयेत् सरमांलाली सर्वकामफलप्रदा || एकवीरां महादग्रां नृत्यमानां शितासने | अष्टाननां महादेवं रक्तवर्ण सुभैरवं || देव्यालिंगित देहाढ्यं यथा देवी तथा शिवं | एवं ध्यानवरं प्रोक्तं स्थूल सूक्ष्म विभागत || सर्वकाममवाप्नोति ध्यानादस्मात् नमोत्तमः | एतत् सर्वसमाकिमन्यं परिपृच्छसि || प्. ६२ब्) नीलजीमूतसंकाशं निर्मासाम्नायु वद्धनी | उर्द्ध्वकेसोत् कटी भीमाः खड्गफेटकधारिणी || खट्वांग डमरुं चैव अभयावर शोभितं | पाशंकुशवरं देवी त्रिशूलघंठमुत्तमं || कर्तृकपालहस्तं च गदाचक्रसुसेभितं | वज्रहस्त महादेवी मुण्डहस्तं च शोभितं || इक्षु चापधरं देवी नागाभरणसोभित | नरचर्मपरीधानां व्याघ्रचर्मकटि स्थिता || मुंडमालाधरारौद्री सर्वाभरणसोभितां | दंष्ट्रा कराल वदना जिह्वाललभीषणा || ध्यानमध्याः प्रवक्ष्यामि स्मरणाच्छिवतां व्रजेत् | कराल वदनां घोरां मुक्तकेशी चतुर्भुजां || कालिका दक्षिणा दिव्यां मुंडमालाविभूषितां | सद्यच्छिन्न शिरः खड्ग वामार्द्धधः करांवुजां || अभय वरदं चैव दक्षिणाधोर्द्धपाणिकां | महामेघ प्रभा श्यामं तथा चैव दिगंवरीं || कंठावसिक्त मुंडाली गलद्रुधिर चर्चितां | कर्णावतं सतानीत शवयुग्म भयानकां || घोरदंष्ट्राकराला च पीनोन्नंतपयोधरी | शवानांकरसंघातैः कृतकांची सहन्मुखी || सृक्व द्वय गलद्रक्त धारा विस्फुरिताननां | प्. ६३अ) घोररावां महारौद्रीं श्मशानालयवासिनीं || वालार्कायुतभासुरान्त्रिनयनाम्मदं स्मितोद्यन्मुखीं राजंच्चंद्रकलाधरां सुकलली पुष्पालि वृंदा कुलां | कस्तूरी तिलकांघनस्तनभरां पाशांकुशश्चक्षुजंकोदण्डं कुसुमेषुमेव दधतीं हस्तांवुजैस्तांभजे || वंधूकाभं त्रिनयनां चंद्रार्द्धकृतशेखरां | रत्नपात्रं वामहस्ते दक्षपद्मंस्तनोन्नतं || रक्ताब्जकर्णिकायां तु शवासन समास्थितां | मुण्डमाला * सत्कण्ठां नीलाभां दधतीं करैः || अभयं मुशलं चापि फलं चापि वरं तथा | वाराहास्यांतुग कुत्सं त्रिनेत्रामरुणावरां || ततो ध्यायेद् घनश्यामां त्रिनेत्रामुन्नतस्तनी | कोलास्यां चंद्रभालां च दंष्ट्राद्धृत वसुंधरां || खड्गं कुशौ दक्षिणयोर्वामयोश्चर्मपाशकौ | अश्वारूढां च कोलास्यां नानालंकारभूषितां || प्रज्वल केश वदना भीमदंष्ट्रा भया पहाः | देवता इंद्रियोत्पन्ना ऊर्ध्व दृष्टि इतीरिताः || देवता भूतपादोत्थास्तिर्यग्वक्त्राः प्रकीर्तिताः | ध्यानमस्याः प्रवक्ष्यामि नानारत्नवये स्थितं || सुवर्णजं कल्पतरुं मणिकुट्टिमभूमिगं | तस्याधस्ताद्रत्नमयस्थिता सिंहासनोपरि || प्. ६३ब्) श्वेतपद्मे समासीनां मणिकुंडलभूषितां | केयूरहारमुकुटरसना नूपुरान्वितां || पद्मद्वयं पाशवरौ चांकुशेक्षुशरासने | अभीति पुष्पवाणांश्च दधानां कर पल्लवैः || हेमाभां सप्तदूतीभिस्तरुणाभीः समावृतां | वामरादर्शकरकतांवूलकरशोदिभिः || प्रसन्न दृष्ट्या पश्यंती साधकं त्विति चिंतयेत् | शक्त्यक्षस्रग्वराभीतिकरा वंधूकसन्निभां || मयूरध्वजिनीं रक्तवस्त्राभौदुंवरस्थितां | हरित्कंचुकिकांरस्या नानालंकारभूषिता || पंचवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनं | शक्तिशूल धनुर्वाण खेटखड्गवराभयान् || दक्षादक्षभुजैर्देवीं विभ्राणां भोगिभूषणां | शवासनां सर्पभूषां कर्त्री वापि कपालकं || वषकं च त्रिशूलं च दधतीं च चतुःकरैः | मुण्डमालां धरा त्र्यक्षां नीलवाराहिकां भजेत् || पद्मासनस्थामरुणामरुणांवरधारिणीं | कुंकुमक्षेद लिप्तांगीं प्रोत्फुल्ल कमलेक्षणा || मंदस्मितमुखी जेष्ठां सुधा पूर्ण नवंघटं | धनपूर्णं सृणीपाशं दधतीं भुजपल्लवै || वालार्कमण्डलाभासां त्रिनेत्रा च चतुर्भुजां | पाशांकुश धनुश्चापं सुंदरीं कालिकां भजेत् || प्. ६४अ) इयं देवी मया पूर्वं ललिता वश्य काम्यया | उपासिता तदा जप्ता ललिता ललिता वशा || त्रयस्त्रिंशत् कोटि देव नायिका ललिता तु या || खगेंद्रिन्न * न्दु शिवं प्रवदमृतरसा प्लावि चांगो त्रिनेत्रा सव्यपानो कपाले गलदसृजमथो मुक्तकेशा पिवंतीं | वद्ध कांची * * * * मणिमयमुकुटोद्यैद्यता दीप्त जिह्वा पापान्नीलोत्पलाभारवि शशि विलसत् कुण्डलीलीढपादा || चतुर्भुजा कृष्णवर्णा मुण्डमाला विभूषितां | खड्गश्च दक्षिणपार्श्वो विभ्रतींद्रावरद्वयं || कर्तृश्च कर्परं चैव क्रमा वामेन विभ्रतीं | मौनिखंती जटामेकी विभ्रतां शिरसा द्वयं || मुण्डमाला परां शीर्षे ग्रीवायांमपि चापरां | वक्षसा नागहारश्च विभ्रतीं रक्तलोचनां || कृष्णवस्त्रधरी कट्यां व्याघ्राजिन समन्वितां | वामा पादं शवहृदि संस्थाप्य दक्षिणं पदं || विलाप्य सिंहपृष्ठे तु लेलिहानां शवस्वयं | साट्टहास महाघोर रावयुक्त सुभीषणं || महामेघ प्रभादेवीं कृष्णवस्त्र विधायिनीं | ललजिह्वां घोरदंष्ट्रां कोटराक्षी हसन्मुखीं || नागहारनतोपेतां चंद्रार्द्धकृतशेखरां | द्योलिखंती जटामेकां लेलिहानां शवत्ययं || प्. ६४ब्) नागयज्ञोपवीतांगं नागशययानिषेदुतीं | पंचासन्मुंडसंयुक्तं नरमालामहोदरीं || सहस्रहनमंयुक्त मनंतं शिरसोपरि | चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकां || तक्षक सर्पराजेन वामकंकणभूषितं | अनंतनागराजेन कृत दक्षिणकंकणं || नागेन रसनाभार कल्पितं रत्ननूपुरां | द्विभुजां चिंतये देवीं नागयज्ञोपवीतिनीं || नरदेह समालब्धं कुंडलं श्रुतिमंडितं | प्रसन्नवदनां सौम्यां नवरत्न विभूषितां || नारदाद्यै मुनिगणैः सेवितां शिवगेहिणीं | अट्टहासां महाभीमां साधकाभीष्टदायिनीं || करालवदनां घोरां मुक्तकेशी चतुर्भुजां | कालिकां दक्षिणा दिव्यां मुंडमाला विभूषितां || सद्यच्छिन्नशिरः खड्गे वामोर्ध्वाधः कलांवुजां | अभयं वरदं चैव दक्षिणाद्धोर्द्धपाणिकां || महामेघप्रभां श्यामां तथा चैव दिगंवरीं | कंठे च सवमुंडाली गलभूषिरचर्चितां || कर्णावनं शवानीतं शवयुग्मभयानकं | घोरदंष्ट्रा करालास्यां पीनोन्नतपयोधरां || गवानांकरसंघातैः कृत कांची हसन्मुखी | सृक्व द्वंद्व गलद्रक्त धारा विस्फुरितानना || दंतुरां दक्षिणां व्यापि मुक्तरंवितचोर्चयं | शवरूप महादेव हृदयोपरिसंस्थितां || प्. ६५अ) शिवाभिघोररावाभिश्चतुर्दिक्षु समन्वितं | सुखप्रसन्नवदनां स्मेरानन सरोरुहां || एवं संचिंतयेद् देवी श्मशानालयवासिनीं || अंभोदः स्यामलांगीमति विकटदतीं लोलजिह्वा जटाली वामे मुंडं दधानां करकमलतले दक्षिणे चंद्रहासां || सृक्वद्वंदास्रधाराद्वयधरवदने प्रेतदोर्वल्लिकांचिं माध्वीकोन्मत्त नेत्रां शवहृदय गतां नौमि कालीकरालीं || अस्य मंत्रादिकं न्यासः सिद्धमंत्रस्य विद्यते | कृष्णतोयेन संपूर्णे घृत वा होम कालिकां || ब्राह्म्यादिभिश्च दूतीभि युक्तां संपूज्य भक्तितः | अष्टमी चंडिका स्तोत्र देवीं ध्यायेद् गृहे पुनः || पंचवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनं | शक्तिशूलधनुर्वाण खेटखड्गवराभयात् || दक्षदक्षभुजैर्देवीं विभ्राणां भोगिभूषणां | वर्णलक्षं जपेन्मंत्रं वामाचारेण साधकः || पिचुमर्दस्य समिधो घृताक्ता जुहुयात् ततः | यद्वा प्रज्वलिते वह्नौ तर्पणादि ततःश्चरेत् || एवं सिद्धिमतुर्मंत्री मारयेदरिराद्रिपुन् | विनीत चिति काष्ठाग्नौ अष्टोत्तरसहस्रकं || संध्यायां होमयेत् सप्त द्रव्यं सप्त दिनावधि | अवश्यं जायते मृत्युरवेवद्धापुषोपि च || श्मशानकीकसंग्रेहे धूम्रं भूत्थं विषं तथा | प्. ६५ब्) विभीतकं राजिकां च लाजास्या द्रव्य सप्तकं || दक्षिणस्यां दिशि स्थित्वा होमयेद् दक्षिणामुखः || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे द्वादशः पटलः || १२ || भैरव उवाच || अथातः संप्रवक्ष्यामि मंत्रयंत्रस्य निर्णयं | यस्य विज्ञानमात्रेण वाराही सुप्रसीदति || वक्ष्यामि सिद्धमेतस्यात् सर्वतंत्रेषु गोपितं | सुभक्ताय सुशिष्याय देयं नान्यत्र कुत्रचित् || तारमायारमा काम वीज पूर्वं तु नामकं | विप्राद्यैश्च चतुर्थ्यंतं नमोंतं प्रजपेदिति || वृद्धाद्धि प्राङ्ग्राह्यमेतदेक दातं च तोषयेत् | सिद्धोयं मंत्र * ऽदिष्टो गोप्यामातटिनारवत् || न गुरुं नादिमं नांतं न मध्यपीठभेदिकं | केवलं यदि लभ्येत तदाद्यं तु सुराधिपे || द्वीपाक्षरं तथा वालं तिथिनक्षत्रसंयुतं | साधकाद्यक्षरैर्युक्तं मंत्रमेतत् सुदुर्लभं || वालाश्च घटिकाश्चैव दिन नित्या ततः परं | वर्षमासयुगश्चापि परिवृत्तिरिति क्रमात् || अ ए च तय इति सूत्रेण घटिका परिगण्पते || प्रकासश्च विर्मसश्च आनंदो ज्ञान एव च | सत्यपूर्ण स्वभावश्य पतिभसुभगस्तथा || नववारानि कथ्यंते पारायण परायणा | तत्वादि दिवसा चैव दिवसा परिगण्पते || प्. ६६अ) चित्रादि कामेश्वर्यां तं कामेश्वर्यादि चित्रता | अनुरोमविरोमाभ्यां दिवसामिति कथ्यते || त्रिकोणं चैव षट्कोणं न च योनि पुनलिखेत् | वृत्तं चाष्टदलं चैव द्वादशादलमेव च || षोडशालं लिखेत् पश्चा भूपुलं च पुनर्लिखेत् | त्रिशूलं च चतुर्दिक्षु चतुद्वरि सुसोभनं || सुंदरी कालिकायंत्रं वाराही च प्रकीर्तिता | तारमुक्त्वा वज्र नख दंष्ट्राये च महाततः || सिंहाय हुं फट् हृच्चे मंत्रः सप्तदशाक्षरः | तारं चिटि द्वयं पश्चाच्चंडालि तदनंतरं || महत् पदाद्यांतां व्रूयादमुकं मे पदं ततः | वशमानय ठद्वंद्वं चतुर्विंशाक्षरो मनुः || तारो नमो भगवते वराहाद्रुपमुच्चरेत् | ङेंतं व्याहृतयः प्रोक्ता पतये पदमुच्चरेत् || भूपतित्वं मदेहीति दापयांतेग्नि गेहिनी | त्रयस्त्रिंशद्वर्णकोयं वाराहः कथितो मनुः || ओं पार्थिवे च पृथिवीतलचारिणि वा पुमा | ततोलिनि च तारुण्यं कुरु युग्मं चधं चधं || स्वाहिकोन त्रिंशदर्णः पार्थिवाया मनुः स्मृतः | ऐकं काली महाकाली केलिकालाभ्यमुच्चरेत् || स्वाहांत तिथि वर्णोयं लक्षमस्य जपोमतः | शुक्लांवरा शिवा यस्या रक्तकंचुक धारिणी || प्. ६६ब्) चित्रकंठी चित्रनाद स्वरं देहि युगं तथा | भीं रीं स्वाहेति मंत्रोयं मंत्रार्णः परिकीर्तितः || ओं ह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्ग युक् | ठद्वयं वह्निजायांतो मंत्रः पंचदशाक्षरः || ततोर्चये नृकपालं जपेन्मंत्र चतुष्टयं | कालि कपालाय नमो ह्रीं ह्रीं पूर्व * कं वदेत् || एकादशाक्षरो मंत्रोऽनेन पूजादिका मता | स्त्रीं स्त्रीं स्त्रू तारिणी त्युक्त्वा कपालाय नमोंतिकः || द्वादशार्णोनेन भवेत् कपालार्द्धा द्वितीयका | हां ह्रीं हूं प्रोच्य नीलाक कपालाय नम इत्ययं || एकादशार्णोनेनोक्ता कपालार्चा तृतीयका | माया स्त्रीं हूं स्वर्गकपालाय सर्वापदं वदेत् || ततो राय * सर्वाय तथा सर्वोद्भवाय च | सर्वशुद्धमयायेति सर्वासुररुधीति च || राचारुणाय च शुभ्राय सुराभाजनायेति च | देवी कपालाय नमश्चतुर्थो मंत्र ईरितः || षट्पंचाशत्कवर्णोयं कपालस्य तु पूजने | ततस्तस्मिन् कपाले तु पूजयेदर्कमंडलं || ओं सूर्यमंडलायेति नमोंतोयं नवाक्षरः | सूर्यमण्डलपूजायां नृकपाले मनुर्मतः || मूलमंत्रं पठं स्तस्मिन् सुधा बुद्ध्या सुरां क्षिपेत् | गंधपुष्पाक्षता क्षिप्त्वा त्रिखंडाख्यां प्रदर्शयेत् || प्. ६७अ) अथातः संप्रवक्ष्यामि तारकस्य वराय तु | ब्राह्मणोपासितां तारां द्वादशार्णां सुदुर्लभां || वाचं लज्जां रमां कामं हंसराजै प्रत्ययकारिणं | अथातः संप्रवक्ष्यामि महाकाली महामनुं || ओं क्ष्रें क्ष्रें क्रें अतः क्रेंच पशुं गृहाण चोच्चरेत् | हूं फट् स्वाहा शक्रवर्णं सिद्धमंत्र उदाहृतः || अथातः संप्रवक्ष्यामि सप्तवर्णं रमामनुं | ऐं ह्रीं श्रीं राज्यलति पदमुक्त्वा स्वयंभुवः || ह्रीं ज्येष्ठायै नमः प्रोक्त्वा मंत्र सप्तदशाक्षरः | अथ वक्ष्ये महाविद्याः कालिकायाः सुदुर्लभः || यासां विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः | नात्रर्चिता विशुद्धि स्यान्नारिमित्रादि लक्षणं || नवप्रयास वाहुल्यं समया समयादिकं | न चित्तव्यं य वाहुल्यं कायक्लेशकरं सदा || य एवं चिंतये मंत्रं सर्वकार्यसमृद्धिदां | अस्य हस्ते पदेवास्ति सर्वसिद्धिर्न संशयः || गद्यपद्यमयी वाणी सभायां तस्य जायते | तस्य दर्शन मात्रेण वादिनोनोः प्रभां गतः || राजानोपि च रासत्व भजंते पिंपरे जना | दिवारात्रिष्ठयश्चैव वशीकर्तुं क्षमो भवेत् || अंतेष भजते देव्या गणत्वं दुर्लभं नरः | कामत्रयं वह्नि संस्थौरति विंदुसमन्विति || कूर्चयुग्मं तथा लज्जा युगलं तदनंतरे | प्. ६७ब्) दक्षिणे कालिके चेति दूर्ववीजानि चोद्धरेत् || अंते वह्नि वधूदद्या विद्या शक्ति प्रकीर्तिताः | अथातः संप्रवक्ष्यामि दक्षिणा कालिका शुभं || कामक्षरं वह्नि संस्थं वामनेत्र विभूषितं | विंदुमेतत्समायुक्तं वीजमेतत् त्रयं लिखेत् || कूर्चद्वयं तथा देवि लज्जा योगमनंतरं | दक्षिणे कालिकां चेति संवोधन पदान्विते || स सवीजं पुन प्राह स्वाहांतमंत्रमुद्धरेत् | केवलं मातृकां कृत्वा मातृकां तारसंपुटां || मातृका पुटितं तारं न्यसेत् साधकसत्तमः | श्रीवीजपुटितानातु मातृकां पुटितं तु यत् || कामेरपुटितां देवी शक्तिं च तत्पुटां न्यसेत् | ह्रीं द्वंद्व पुनन्यस्त्वा ऋ ॠ ऌ ॡश्च पूर्ववत् || मूलेन पुटितां देवी तत्पुटं मेव च | अनुलोम विलोमेन न्यस्त्वा मंत्रं यथाविधि || मूले न्यष्ट शतं कुर्यात् व्यापक तदनंतरं | इति गुह्येन दुर्गाया अंगषोढा प्रकीर्तिता || ताराया कालिकायाश्च उन्मुखाश्च तथा परा | एतस्मिन्यास मात्रेण सर्वपापं प्रणश्यति || मूलविद्यां त्रिमंत्रेण प्रणवाद्यैर्यथाविधि | आत्मविद्या शिवे चैवस्तत्वं न्यासं समाचरेत् || ब्रह्मरंध्रे भ्रुवोर्मध्ये ललाटे नाभिदेशके | गुह्ये चक्रे च सर्वांगै सप्तवीजं क्रमान् न्यसेत् || प्. ६८अ) आदौ यंत्रं प्रवक्ष्यामि यत् ज्ञात्वा मरतां व्रजेत् | आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहि न्यसेत् || ततो वै विलिखेन्मंत्री त्रिकोण त्रयमुत्तमं | वृत्तं विलिख्य विधिवल्लिखेत् पद्मं सुलक्षणं || पीठपूजां ततः पश्चादाधारशक्ति पूर्वकं | प्रकृतिं कमरुंश्चैव शेषं पृथ्वी तथैव च || सुधांवुधिमणिद्वीपं चिंतामणि गृहं तथा | श्मशानं पारिजातं च तन्मूलं रत्नवेदिका || तस्योपरी मणेः पीठं न्यसेत् साधकसत्तमः | चतुर्दिक्षु मुनीन् देवान् शिवाश्च शवमुण्डकान् || देवेशि भक्ति सुरभे परिवार समन्वितं | यावस्त्वां पूजयिष्यामि तावस्त्वं सुस्थिरा भव || गुरुप्रदृष्टमंत्रेण उपचारां प्रपूजयेत् || ओं जय ध्वनि मंत्रमातः स्वाहा घंटावादन पूजयेत् | देव्यास्तु दक्षिणे भागे महाकारं प्रपूजयेत् || हूं क्षां यां वां लां आं क्रों महाकार भैरव स विघ्नान्नाशये २ ह्रीं श्रीं फट् स्वाहा || महाकालं यजेद्यत्नां पश्चाद् देवी प्रपूजयेत् | विसृज्य परया भक्त्या सन्निधा येन मुद्रया || हृदये देवि मुद्धास्य तन्मयो भवति ध्रुवं | सर्वसिद्धि स्वरौ भूमौ भैरवावत्सराद् भवेत् || लक्षमेकं जपेद् विद्या हविष्याशी दिवा शुचिः | रात्रौ तांवूलपुंगास्य शययायां लक्षमानवः || प्. ६८ब्) क्रमेण लक्षयं जप्त्वा तद् दशांशेन मंत्रवित् | अयुतं होमयेद् देवि दिवारात्रि विभेदतः || दिवालक्ष शुचिर्भूत्वा हविष्याशी जपेन्नरः | ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये || लक्षमेकं जपेन् मंत्रं हविष्याशी दिवाशुचिः | अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च || दशांशं होमयेन् मंत्री तर्पयेदभिषेचयेत् | लक्षमेकं जपेद् विद्यां हविष्याशी दिवाशुचिः || रात्रौ तांवूल पुरास्यः शययायी लक्षमाणवः | एवं लक्षद्वयं जप्त्वा तद्दशांशेन मंत्रवित् || अश्वत्थं होमयेद् देवि दिवारात्रि विभेदतः | गते प्रथमयामे च तृतीयपहरावधि || निशायां च प्रजप्तव्यं रात्रिशेषं जपेन्नरः | वर्गाद्यं वह्निमध्यस्थं रतिविंदु समन्वितं || एकाक्षरो महामंत्रः सर्वकाम फलप्रदः | त्रिगुणं तु विशेषेण सर्वशास्त्र प्रवोधिका || खदीर्घ षट्युताद्येन प्रणवाद्य न कल्पयेत् | षडंगानि मनोरस्य याति युक्तेन देशिकः || माया द्वयं कूर्चयुगं ऐंद्रांतं मादन त्रयं | माया द्वयंश्चर युते दक्षिणे कालिके पदं || संहार क्रमयोगेन वीजं सप्तकमुद्धरेत् | एकविंशत् परोमंत्रस्माराद्यः कालिका मनुः || प्. ६९अ) स्वाहांतश्च त्रयोविंशक्षरोयं मंत्रराजकः | विंशत्पर्णा महाविद्या स्वाहा प्रणववर्जित || ध्यान पूजादिकं सर्वं दक्षिणावसमाचरेत् | प्रणवं पूर्वमुद्धृत्य कुल्लुकावीजमुद्धरेत् || रतिवीज समुद्धृत्य प्रपंचमसमन्वितं | ठद्वयेन समायुक्तो विद्याराज्ञी प्रकीर्तिता || मंत्रस्य भैरव ऋषि विराच्छंदः प्रकीर्तिता | सिद्धिकाली ब्रह्मरूपा विनियोगः प्रकीर्तितः || जपे विंशति साहस्रं सहरैकेन संयुतं | होमये तद्दशांशेन मृतरूपेण मंत्रवित् || मूलवीजं ततो मायां लज्जावीजं ततः परं | महाविद्या काल्या महाकालेन भाषिता || वर्गाद्यं वह्निसंयुक्त रतिं विंदु समन्वितं | एतत् त्रयं वह्निजाया मूलत्रयं च वह्निया || निजवीजं पूर्ववीजं लज्जा च वह्नि वल्लभा | वाग्भवं च ततो मूलं कालिका वह्नि वल्लभा || अस्य मंत्रस्य वा देवि दक्षिणामूर्ति कीर्तितः | पंक्ति छंद समाख्याता कालिका देवता स्मृताः || लक्ष्मी द्वयं कूर्च लज्जा दक्षिणे कालिके च फट् | मूलवीजं द्वयं लज्जा पूर्ववत् वह्नि वल्लभा || निजवीजं कूर्च लज्जा दक्षिणे कालिके द्वयं | मूलवीजं कूर्चवीजं निजवीजं वह्नि वल्लभा || निजवीजं द्वयं कूर्च लज्जा वा वह्नि वल्लभा | मूलवीजं कूर्च लज्जा वह्निजाया च सुंदरी || प्. ६९ब्) मूलवीजं दक्षिणा च कालिके वह्नि वल्लभा | हृदयं वाग्भवं मूलं कालिकायै च ठद्वयं || वह्निजायां ततो मंत्र कालिकाया प्रकीर्तितः | अथ पंचक्षरी विद्या शृणुष्वेक मलानने || प्रजापतिं समुद्धृत्य वर्गारूढं ततः प्रिये | चतुर्थस्वरसंयुक्तं सर्वतंत्रसमन्वितं || वीजत्रयं क्रमेणैव तदंते वह्निसुंदरी | पंचक्षरो महाविद्या कथिता पद्म योनिना || षडक्षरी महाकाली वक्ष्यामि शृणु पार्वती | वीजत्रयं क्रमेणैव पुन वीजत्रयं सुधीः || स्वाहांता कथिता विद्या चतुर्वर्ग फलप्रदा | एकादशाक्षरी विद्या कथ्यते शृणु पार्वति || वाग्भवं हृदयं पश्चात् ब्रह्मारूढं प्रजापतिं | चतुर्थस्वरसंयुक्तं नादविंदुविभूषितं || द्विगुणं च ततः कृत्वा ङेंतश्च कालिका पदं | स्वाहांता कथिता विद्या प्रिये एकादशाक्षरी || ऋषिः स्याद् दक्षिणामूर्ति छंदः पक्तिरुदाहृदं | परात् परतरा शक्तिः कालिका देवता स्मृता || एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा | लक्षद्व * च ये विद्या पुरश्चरण कर्मणि || अन्यासां वर्णलक्षं तु कथिता पद्मयोनिना | मूलवीजं ततो माया लज्जावीजं ततः परं || दक्षिणे कालिके चेति अस्त्रांता समुदाहृता | अथापरं प्रवक्ष्यामि विद्याविंशति वर्णकां || प्. ७०अ) यस्या प्रसादमात्रेण भवे भूमि पुरंदरः | मूलवीजं द्वयं व्रूया ततः कूर्च द्वयं वदेत् || लज्जा द्वयं समुद्धृत्य संवोध्यंत पद द्वयं | पूर्ववत् षतधा वीजं न्यंते च वह्निसुंदरिं || ऋषिस्या दक्षिणामूर्तिः पंक्ति छंदरुदाहृतं | देवता कथिता सद्भिः कालि दक्षिण पूर्विका || अथापरं प्रवक्ष्यामि विद्या त्रिभुवनेश्वरी | निजवीजं समुद्धृत्य तदंते वह्नि सुंदरी || ऋषिंस्या दक्षिणामूर्तिः पंक्तिः छंद समन्वितं | अष्टाक्षरी मया प्रोक्ता सर्वतंत्रेषु गोपिता || निजवीजं द्वयं कूर्च द्वयं लज्जा द्वयं ततः | स्वाहांता कथिता काली सर्वकर्म फलप्रदा || निजवीजं तथा लज्जा तदंते तव सुंदरी | पंचाक्षरी महाविद्या पंचवक्त्र ऋषिः स्मृतः || नवाक्षरी महाविद्या शृणुष्व कमलानने | निजवीज त्रयं कूर्च युगं लज्जा युगं ततः || स्वाहांता कथिता विद्या सर्वसम्पत्करीमता | अथापरीन् प्रवक्ष्यामि विद्यातां च नवाक्षरीं || मूलवीजं समुद्धृत्य संवुध्यंतं पद द्वयं | स्वाहांता कथिता विद्या सर्वशत्रुक्षयंकरी || अथ चाष्टाक्षरी विद्या शृणुष्व कमलानने | निजवीजं ततः कूर्चं ततो मायां समुद्धरेत् || प्. ७०ब्) पुनस्तानि समुच्चार्य स्वाहांता मोक्षदायिनी | अथापरां प्रवक्ष्यामि दशतत्व समन्वितां || मूलद्वयं कूर्चयुग तथा लज्जा द्वयं ततः | पुनस्तानि समुच्चार्य स्वाहांता मोक्षदायिनी || अथापरां प्रवक्ष्यामि दशतत्व समन्वितां | मूल द्वयं कूर्च युगं तथा लज्जा द्वयं ततः || पुनस्तान्येव वीजानि तदंते वह्नि सुंदरी | चतुर्दशाक्षरी विद्या चतुर्वर्ग फलप्रदा || ब्रह्मा त्रयं समुद्धृ * रति वह्नि समन्वितं | नादविंदुसमायुक्तं लज्जा कूर्च द्वयं ततः || पुनः क्रमेण चोद्धृत्य वह्निजाया वधिर्मनुः | षोडशीयं समायुक्तं लज्जा कूर्चं द्वयं ततः || पुनः क्रमेण चोद्धृत्य वह्निजायावधिर्मनुः | षोडशीय समाख्याता विद्या कल्पद्रुमोपमा || हृदयं वाग्भवं देवि निजवीजयुगं ततः | कालिकायै पदं प्रोक्ता तदंते वह्निसुंदरी || नमः पाशांकुशौ द्वेधा फट् स्वाहा कालिकालिके | दीर्घतत्वछदं काली मनुपंचदशाक्षरः || एतासा पूजनं चैव दक्षिणावत्सुरेश्वरि | अथ वक्ष्ये महेशानि विद्यां सर्वफलप्रदां || चतुर्वर्गप्रदं साक्षान् महापातकनाशिनीं | सर्वसिद्धिप्रदा नित्यं भुक्तिमुक्तिप्रदायिनीं || गुह्यकालीं महाविद्या त्रैलोक्य चाति दुर्लभा | काली च दक्षिणा चैव गुह्यकालि तथैव च || प्. ७१अ) त्रिश्रीनामपि विद्यानासाद्यैव नामत स्मृताः | इंद्रादिरूढं वर्गाद्यं रतिविंदु समन्वितं || त्रिगुणं च ततः कृत्वा ईकारं च समुद्धरेत् | षष्ठेस्वरसमायुक्तं नादविंदु विभूषितं || तद्गुह्य कालिका प्रोक्ता चाथ वा दक्षिणे वदेत् | सप्तवीजं ततः पूर्व क्रमेण योजयेत् ततः || वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्य मोहनी | कामवीजं तथा कूर्च तदंते भुवनेश्वरीं || गुह्यं च कालिके चापि तथा वीज द्वयं भवेत् | स्वाहांता कथिता विद्या सर्वतंत्रेषु गोपिता || एषा तु षोडशी प्रोक्ता चतुर्वर्ग फलप्रदा | सप्तवीजं पुरा प्रोक्तं गुह्य च कालिके पुनः || स्वाहांता कथिता विद्या सर्वतंत्रेषु गोपिता | अस्या नामादिकं त्यक्त्वात् तदा पंचदशाक्षरी || कामवीजं परित्यज्य अथवा षोडशाक्षरी | कामवीजसमुद्धृत्य संवुध्यंतं पद द्वयं || पुनकामं तदंते च दद्याद् वह्नेश्च सुंदरीं | एषा नवाक्षरी विद्या गुह्य काल्या समन्विता || दक्षिणे पदमाभाष्य भवे वियं समुद्धरेत् | वामाक्षि वह्नि संयुक्तं नादविंदु विंभूषितं || तद्गुह्य कालिका प्रोक्ता चाथ वा दक्षिणे वदेत् | सप्तवीजं ततः पूर्व क्रमेण योजयेत् ततः || वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्यमोहिनी | कामवीजं तथा कूर्च तदंते भुवनेश्वरीं || प्. ७१ब्) गुह्य च कालिके चापि तथा वीज द्वयं भवेत् | स्वाहांता कथिता विद्या सर्वतंत्रेषु गोपिता || एषा तु षोडशी प्रोक्ता चतुर्वर्ग फलप्रदा | सप्तवीजं पुराप्रोक्तं गुह्ये च कालिके पुनः || स्वाहांता कथिता विद्या सर्वतंत्रेषु गोपिताः | अस्या नामादिकं त्यक्त्वात् तदा पंचदशाक्षरी || कामवीजं परित्यज्य अथवा षोडशाक्षरी | कामवीजसमुद्धृत्य संवुध्यंतं पद द्वयं || पुनकामं तदंते च दद्याद् वह्नेश्च सुंदरीं | एषा नवाक्षरी विद्या गुह्यकाल्या समन्विता || दक्षिणे पदमाभाष्य भवे विद्या दशाक्षरी | पूर्ववत्मासवर्गं तु पूर्ववत् पूजयेच्छिवां || पूर्ववच्च जपेद् विद्यां सर्वं पूर्ववदेव हि | वलिदानं तथा मंत्री पूर्ववत् परिकल्पयेत् || भद्रकाल्यादयो मंत्र कथ्यंते शृणु सुंदरी | कामवीजादिकं वीजं सर्वपूर्वा परे यजेत् || भद्रकाली तथा ङेंतां वीजमध्ये नियोजयेत् | स्वाहांता कथिआ विद्या विंशद्वर्णात्मिका परे || चतुर्वर्ग प्रद विद्या भद्रकाली शुभानने | सप्तवीजं समुद्धृत्य श्मशान कालिका तथा || पुनवीजं क्रमेणैव स्वाहांता सर्वसिद्धिदा | विंशत्येकाधिका विद्या श्मशान कालिका मता || वीजानि चोच्चरेत् पूर्वे महाकली पदं ततः | तदंते सप्तवीजानि स्वाहांता सर्वसिद्धिदा || प्. ७२अ) विंशत्पर्णा महाविद्या महाकाल्याः प्रकीर्तिता | भूपुरे लोकपालाः स्युस्तदस्त्राणि च तद्वहिः || भूपुरेषु चतुर्दिक्षु पूजयेत् क्रमतः सुधीः | विष्णुं शिवं तथा सूर्यं गणेशं पूजये ततः || त्रिकोणं चैव षट्कोणं नवकोण मनोहरं | त्रिवृत्तं साष्टपत्रं च सुकिज्जल्क समन्वितं || भूपुर त्रितयारूढं योनिमंडलमंडितं | त्रिपंचारमिदं पीठं सर्वतंत्रसमन्वितं || वलिमंत्रं प्रवक्ष्यामि सर्वतंत्रेषु गोपितं || एह्येहि जगन्मातजगन्मातांज्जगतां जननि गृह्न २ मम वलि सिद्धिं देहि देहि शत्रुक्षयं कुरु २ हूं २ ह्रीं २ हूं फट् ओं कालिकायै नमः फट् स्वाहा || एहि २ गुह्यकाल्यै गृह्न २ मम शत्रुन् नाशय २ खादय २ तुरु २ स्फुरु २ सिद्धि देहि हुं फट् स्वाहा || ओं हूं सदाशिव महाप्रेताय गुह्यकाल्याय नमः गुह्यकाल्यै नमः || मालामंत्रं प्रवक्ष्यामि वाराह्या सर्वसिद्धयः || ह्रीं श्रीं ऐं ग्लौं ऐं नमो भगवति वार्तारि २ वाराहमुखी २ अंधे अंधिनी नमः रुंधे रुंधिनी नमः जंभे जंभिनी नमः || मोहे मोहिनी नमः स्तंभे स्तंभिनी नमः || सर्वदुष्ट प्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुन्मुखागति जिह्वां स्तंभं कुरु २ ठः ठः ठः ठः हूं फट् स्वाहा वाराही रत्नेश्वरी स्वाहा || प्. ७२ब्) इति ते कथिता देव्या मंत्रयंत्र प्रकाशकं | यस्य विज्ञानमात्रेण वाराही सुप्रसीदति || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे त्रयोदशः पटलः || १३ || भैरव उवाच || चण्डी पाठफलं देवी शृणुष्व गदतो मम | एकावृत्त्यादि पाठानां यथावत् कथयामि ते || संकल्प पूर्वसंपूज्यत्यासांगेषु मनुन् सकृत् | परं वलि प्रदानं वा फलं प्राप्नोति मानवः || उपसर्गौ दशावृत्या त्रिरावृत्तं पठेद् वुधः | ग्रहदोष प्रकर्तव्यं पंचावृत्तं वरानने || महाभयसमुत्पन्न सप्तावृत्तं पठेत् सुधीः | नवावृत्या पठेच्छांति वाजपेय फलं लभेत् || राजवश्या च भूत्यै च रुद्रवृत्तमुदीरितं | अर्कवृत्त्या कामसिद्धि वैरहानिश्च जायते || मन्वो वृत्तादि पूर्वश्यास्तथा स्त्रीवश्यता भवेत् | मोक्षपंचदशावृत्या श्रिय प्राप्नोति मानवः || करा वृत्या पुत्रपौत्र धनधान्यागमं विदुः | राज्ञाभीविविमोक्षाय वैरस्योच्चाटनाय च || कुर्यात् सप्तदशावृत्या यथा द्वादशकं प्रिये | महाव्रण विमोक्षाय त्रिंशावृत्त पठेत् सुधीः || पंचाविंशावर्तनां तु भववंधविमोक्षणं | संकटे समुने प्राप्ते दुचिकित्सा मयेस्तथा || प्. ७३अ) जातिध्वंसे कुरोच्छेदे आयुरान्नाशनागमे | चौरवृद्धौ व्याधि वृद्धौ धननाशो प्रजाक्षय || तथैव त्रिविधोत्पाते पापेति पातके तथा | कुर्याद् यत्नाच्छता वृत्तं ततः संपद्यते शुभं || नश्यंति विपदस्तस्य अंते यांति परांगतिं | श्रियो वृद्धिच्छता वृत्याद् राज्यवृद्धिस्तथा परा || मनसा चिंतितं देवि सिद्ध्यदष्टोत्तरंछता | शताश्वमेध यज्ञानां फलं प्राप्नोति सुव्रते || सहस्रावर्तकं लक्ष्मीराविशोति स्वयं स्थिरः | मुक्त्वा मनोरथान् कामान् भोगमोक्षमवाप्नुयात् || यथाश्वमेध क्रतुरात् देवानां च यथा हरि | स्तवानामपि सर्वेषां तथा सप्तशतिस्तव || अथवा वहुनोक्तेन किमेतेन वरानने | चंड्याशतावृत्ति पाठात् सर्वं सिद्ध्यंतित प्रिये || आधारे स्थापयित्वा तु पुस्तकं प्रजपेत् स्फुटं | हस्तसंस्थापनाद् देवी इत्यद्धं फलसंयुतं || जावन्न पूज्यते ध्याय तावन्न चिरमेत् पठेत् | अथ क्रमं पठेद् देवी शिरः कंपादिकं त्यजेत् || पतिप्रमाददाध्याय विनासो भवति प्रिय | पुनध्याय समारभ्य पुनः सर्वततो विधी || नातः परतरं स्तोत्र किंचिदस्ति वरानने | भुक्तिमुक्तीपदं पुण्यं पापनाशं च पावनं || तद्रव्यज्ञश्च प्रथम दृष्टदेवान् प्रणम्य च | प्. ७३ब्) प्रणवं च ततो दृष्ट्वा स्तोत्रं वा संहितान् जपेत् || अंते च प्रणवं दद्याद्धित्युवाचादि पूर्वकं | शुद्धेनाचल कीर्तेन पठितव्य प्रयत्नतः || नमान संपठेत् स्तोत्रं वाचिकं तु प्रशस्यते | पुस्तकं वाचने शस्त्रं सहस्राद्वादिकं यदि || अतो न्यूनं भवेद् यत्र वाचिकं पुस्तकं विना | आधारे स्थापयित्वा तु पुस्तकं प्रजपेत् सुधीः || हस्तसंस्थापनाद् देवि यस्मादल्प फलं भवेत् | न स्वयं लिखितं तच्च कृतिनालिखितं भवेत् || आब्रह्मणे न लिखितं तत्सर्वं विफलं भवेत् | न स्वयं च कृतं स्तोत्रमनन्यपि कृतेन च || यस्मात् कणौ न प्रसाप्तं ऋषिभिः लिखितं पठेत् | ऋषिछंदादिकं न्यस्य पठेत् स्तोत्र विचक्षणः || स्तोत्रेण दृश्यते यत्र प्रभवं तु समाचरेत् | भीष्म पर्वणि योगीतं सुप्रशस्ता कलौ मता || विष्णो सहस्रनामाख्यं स्तोत्र पापप्रणाशनं | गजेंद्र मोक्षणं चैव कारुण्यस्तवमेव च || नरसिंह सहस्रख्यं श्रीराम समसंज्ञक | दिव्याः सप्तशति स्तोत्र तथा नाम सहस्रकं || त्रिपुराया प्रसादाख्यं सूर्यस्यस्तवराजकं | पौत्रो रुचिस्ततो यश्च इंद्राक्षी स्तोत्रमेव च || वैष्णवे च महालक्ष्मी स्तोत्रमिंदेन भाषितं | भर्गवाख्य नरामेण सप्तशत्यानि कारणा || प्. ७४अ) इत्युक्त्वा पार्वतिनाथ सप्त सत्या महाफलं | तस्य श्रवणमात्रेण सर्वरोगप्रशांतय || माधुर्यमक्षरव्यक्ति पदछेदस्तु सुस्वरः | धैर्यं लघु गुरुश्चैव षडेते पाठका गुणां || गीती शीघ्रं शिरः कंठी यथा लिखित पाठकां | अनर्थज्ञल्प बुद्धिश्च षडेते पाठकाधमा || अथातः संप्रवक्ष्यामि चामुण्डाया महामनुः | नवदुर्गात्मकं यस्य स्मरणाद् भुक्तिमुक्तयः || सुरथा यत्प्रसादेन राज्यं प्राप्त्य भवेन् मनुः | संसारवंधनासाणि ज्ञानप्राप्तं समाधिना || मार्कंडेयपुराणोक्तं चरित्रं त्रितयं तवा | जपाद्यस्य फलं दद्यात् तं मनुं वच्मि सांप्रतं || वाग्लज्जा कामवीजानि चामुण्डायै पदं वदेत् | विच्चे नवार्णमंत्रोयं शक्तिमंत्रोत्तमोत्तमः || ब्रह्माविष्णु महेशास्तु मुनयोस्य प्रकीर्तिताः | गायत्र्युष्णिगनुष्टुष्म छंदस्त्र यमुदीरिती || दैव्योस्य * महाकाली महालक्ष्मी सरस्वती | नंदाशाकंभरी भीमा शक्तित्रयमुदाहृतं || तिस्रोस्य शक्तयो दुर्गा भ्रामरी रक्तदंतिका | अग्निवायु सूर्यस्तत्वं प्राग्वदृष्यादिकं न्यसेत् || कृतेन येन देवस्य सारुष्य जातिमानवः | अथ द्वितीयं कुर्वीत न्यासं सारस्वताभिधं || वीजत्रयं तु मंत्राद्यं तारादि हृदयांतकं | षडक्षरो भवेन् मंत्रो नवस्थानेषु विन्यसेत् || प्. ७४ब्) कनिष्ठानामिका मध्य तर्जन्यंगुष्ठ युग्मके | करमध्ये हस्तपृष्ठे मणिवंधे च कूर्परे || हृदयादि षडंगेषु जातियुक्तं पुनः न्यसेत् | अस्मिन् सारस्वत न्यासे कृते जाड्यं विनश्यति || न्यासः कार्याः सप्तसत्याः पाठे कामविशेषतः | ततस्तृतीयं कुर्वीत न्यासं मातृगनादिकं || मायावीजादिका ब्राह्मी पूर्वतः पातु मां सदा | माहेश्वरी तथाग्नेययां कौमारी दक्षिणेव तु || वैष्णवी पातु काष्ठायां वाराही पश्चिमेव तु | इंद्राणी पावने कोणे चामुंडाचोत्तरेव तु || ऐशाने तु महालक्ष्मीरूर्द्धं व्योमेश्वरी तथा | सप्तद्वीपेश्वरी भूमौ रक्ष्मेत् कामेश्वरी तले || तृतीयस्मिन् कृते न्यासे त्रैलोक्य विजयी भवेत् | न्यास चतुर्थ कुर्वीत नन्दजादि समन्वितं || नन्दजापातु पूर्वांगं कमलांकुशमंडिता | खड्गंपात्र करा पातु दक्षिणे रक्तदंतिका || पृष्ठे शाकंभरी पातु पृष्ठे पल्लवसंयुता | धनुर्वाणकरा दुर्गा वामे पातु सदैव मां || शिरः पातु करा भीमा मस्तकाचरणावधि | पादादि मस्तकं याववद्भ्रामकांतिकाभृत || तुर्यं न्यासं नरः कुर्वन् जलामृत्युं व्यपोहति | ब्राह्माद्यमथ कुर्वीत न्यासं पंचकमुत्तमं || प्. ७५अ) पादादि नाभि पर्यंतं ब्रह्मा पातु सनातनः | नाभे विशुद्धि पर्यंत पातु नित्यं जनार्दनः || विशुद्धे ब्रह्मरंध्रांतं पातु रुद्रस्त्रिलोचन | हंसपातु पद द्वंद्वं वैनयेयः करद्वयं || चक्षुषी वृषभः पातु सर्वांगानि गजाननः | पारापरौ देहभागौ यान्वानंदमयो हरिः || कृतेस्मिन् पंचमे न्यासे सर्वान् कामानवाप्नुयात् | षष्ठं न्यासं तत कुर्यात् महालक्ष्म्यादि संयुतं || मध्य पातु महालक्ष्मीरष्टादशभुजान्विता | ऊर्ध्वं सरस्वती पातु भुजैरष्टाभिरुंजिता || अधःपातु महाकाली दशवाहु समन्विता | सिंहो हस्त द्वये पातुः परहंसोक्षि युग्मकम् || महिषादि समारूढो यमः पातु पद द्वयं | महिषश्चण्डिका युक्तः सर्वांगानि महेश्वरि || षष्ठेस्मिन् विहिते न्यासे सद्गति प्राप्नुयान्नरः | मूलाक्षरे न्यासरूपं ततः कुर्वीत सप्तमं || ब्रह्मरंध्रे नेत्रयुगे श्रुत्योर्नासिकयो मुखे | पायौ मूलमनो वर्णान् ताराद्यान्नमयो युतान् || विन्यसेत् सप्तमे न्यासे कृत्वा तेनोक्षयो भवेत् | पादयो ब्रह्मरंध्रांतं पुनस्तानेव विन्यसेत् || येत् तस्मिन्नष्ट मेदिन्याः सर्वे दुःखं विनश्यति | कुवीत नवमं न्यासं मंत्रं व्याप्ति स्वरूपकं || मस्तकार्चरणं यावच्चरणान् मस्तकावधि | पुरो दक्षे पृष्ठ देशे वामभागेष्टशोन्यसेत् || प्. ७५ब्) मूलमंत्रकृते न्यासो नवमो देवताप्ति कृत् | ततः कुर्वीत दशमे षडंगन्यासमुत्तमं || मूलमंत्रं जातियुक्तं हृदयादिषु विन्यसेत् | कृतेस्मिन् दशमे न्यासे त्रैलोक्यं वशमानयेत् || चण्डिपाठेपि कर्तव्या न्यासाः स्वेष्ट प्रदायकाः | दद्यान्न्यासोक्त फलदं कुर्यादेकादशं ततः || खड्गिनी शूलिनीत्यादि पठित्वा श्लोकपंचकं | आद्यं कृष्णतरं वीजं ध्यात्वा सर्वांगकं न्यसेत् || शूलेन पाहिनो देवीं त्यादि श्लोक चतुष्टयं | पठित्वा सूर्य सदृशं द्वितीयं पृष्ठतां न्यसेत् || ततः षडंग कुर्वीत विभक्तै मूलवर्णकैः | एकेनैकेन चैकेन चतुर्भियुग्मकेन च || समस्ते नैव मंत्रेण कुर्यादंगानि षट्क्रमात् | शिखायां नेत्रयोः श्रुत्यो नासो वक्त्रे गुदे न्यसेत् || मंत्रवर्णो समस्तेन व्यापकं श्रेष्टकंश्चरेत् || ततो देवी ततो ध्यायेत् कालिका ध्यानमुच्यते || दशास्यांदशपादा च दशहस्तां विधिस्तुतां | इन्द्रनीलद्युतिं खड्गं चक्रं शंखं शिरः शरान् || दक्षहस्तेषु दधतीं गदां शूलं तु तुंडिकां | परिघांश्च धनुर्वाणं दधतीं ब्रह्मसंस्तुतां || मधुकैटभनाशार्थं सालंकारांत्रिवीक्षणां | ततो ध्यायेन् महालक्ष्मीं महिषासुरमर्दिनी || प्. ७६अ) समस्तदेवता तेजो जाती पद्मासनस्थितां | अष्टादशभुजामक्षमालापद्मं च सायकं || खड्गं वज्रं गदां चक्रं दक्षहस्ते कमंडलुं | शंखं च दधती वामे शक्तिं च परशुं धनुः || चर्मदंडो सुरापात्रं घंटापाशं त्रिशूलकं | सरस्वतीं ततो ध्यायेच्छरश्चंद्र समप्रभां || शंखं च मुशलं चक्रे वाणों दक्षेषु विभ्रतीं | घंठां शूलं हलं चापं वामहस्तेषु विभ्रतीं || गौरीदेह समुद्भूतां नृणामानंददायिनीं | आधारभूतां जगतः शुभादिक विमर्दिनीं || अधिष्ठात्रीं तृतीयस्य त्रिचरित्र स्मरेत् सदा | एवं ध्यात्वा जपेल्लक्ष चतुष्कं तद्दशांशतः || पायसान्नेन जुहुयात् पूजिते हेमरत्नभिः | जयादि शक्तिभिर्युक्ते पीठे देवी समर्चयेत् || एतन् मंत्र्य निवृत्तस्य षट्कोणाष्ट दलान्वितः | श्रिया च नै-ऋते विष्णु वायव्ये भूमया शिवं || विडारयंतं महिष प्रोक्कोणे मृगपं यजेत् | षट्कोणेषु च पूर्वादौ नंदया रक्तदंतिकां || शाकंभरी तथा दुर्गां भीमां च भ्रामरीं यजेत् | तारस्ववीज पूर्वाश्च ङेन्ता हृदयसंयुताः || सर्वाशामेव शक्तीनां नाममंत्राजये मताः | ततश्चाष्टदले ब्राह्मी माहेशिं च कुमारिकां || वैष्णवीं चैव वाराहीं नारसिंहीं सुरेंद्रजां | चामुंडामथ तद्वाह्ये पंचविंशद्दले जयेत् || प्. ७६ब्) विष्णुमायां चेतनां च वुद्धिं निद्रां क्षुधां तथा | छायाशक्तिं परां तृष्णां क्षांतिं जातिं तदुत्तलं || लज्जां शांतिं तथा श्रद्धां कीर्तिलक्ष्मीं धृतिं तथा | वृत्तिं श्रुतिं स्मृतिं चापि दयां तुष्टिं ततः परं || पुष्टिं च मातरं भ्रांतिमर्चयेद् भूपुरेषु च | चतुःकोणेषु गणपं क्षेत्रेशं वटुकं तथा || योगिनीश्च सुरेशांद्यांस्तद्वाह्य चायुधानि च | मार्कण्डेय पुराणोक्तं नित्यं चंडीस्तवं पठेत् || पुटितं मूलमंत्रेण जपेन्नाप्नोति वांछितं | कलौ न चण्डी सदृशी सिद्धिदा भुवने त्रये || वामदक्षिणमार्गभ्यामधिकारि फलप्रदा | तत्रादिमं चरित्रं च रोगनाशाय योजयेत् || उपस्वर्ग विनाशाय मध्यमं योजयेद् वुधः | अंत्यविषयकामस्तु चरित्रं परशीलयेत् || चरित्र द्वय शीलस्य नवंशः छिद्यते क्वचित् | पठे दद्यात् त्रिचरित्रं तु विपत्तिस्तस्य नश्यति || अनाद्यं पठते यस्तु मारयेदचिराद्रिपून् | सार्धनुस्वारि पद्मं च सप्तसत्यास्त योजयेत् || यस्तन्मंत्रैशपुटितं प्रशाकंश्य च संख्यया | पठेच्चंडीं तथाद्यंते सकामस्तस्य सिद्ध्यति || स्वशत्रुं दैत्य भावेन स्वमित्रां देवताधिया | भावयेन् योजयेच्चण्डीं त्रिसंध्यं मासमात्रकं || प्. ७७अ) मृता वा मृतकल्पो वा शत्रवः स्यून संशयः | सितपक्षातिमारभ्य चाष्टस्यंतमियस च || जपेल्लक्षं मनु होमं खाद्यैस्त्रिमधुरप्लुतैः | प्रत्यहं पूजयेद् देवी चण्डीमाद्यंतये पठेत् || विप्रान् गुरुं समाराध्य वांछितं लभते द्रुतं | सप्तं सत्याश्चरित्रे तु प्रथमे पद्मभू मुनिः || छंदो गायत्रमुदितं महाकाली तु देवता | वाग्वीजं पावकस्तत्वं धर्मार्थे विनियोजनं || प्रयोगानां तु नैवेति मारणे मोहनेन तु | मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः || उष्णिक् छंदो महालक्ष्मीद्देवता वीजमद्रिजा | वायुस्तत्वं धनप्राप्त्यै विनियोग हृतः || उच्चाटस्तंभंने चात्र प्रयोगानां शतद्वयं | उत्तरस्य चरित्रस्य मुनिः शंकर उच्यते || महासरस्वती देवी त्रिष्टुप् छंद उदाहृतं | कामवीजं रविस्तत्वं कामाप्त्यै विनियोजनं || विद्वेष वश्य योगश्च प्रयोगादि कृतैर्मिताः | एवं सप्तशति चात्र प्रयोगाः परिकीर्तिताः || तस्मात् सप्तशतीत्येत्र प्रोक्तं व्यासेन धीमता | महाविद्येत्यादि सप्त सत्यः कल्पे तथा दिने || ब्रह्मेंद्र गुरुशक्राणां विष्णु रुद्रसुरद्विषां | उपास्य देवताजातास्तांश्चात्र ब्रह्मणास्तुताः || तस्मात् सप्तसतीत्यैव व्यासेन परिकीर्तिता | सौम्यानि यानि रूपाणी यत्रापि परिकीर्तिताः || प्. ७७ब्) उपास्या दक्षिणे मार्गे लक्ष्म्याद्याः सप्तशक्तयः | लक्ष्मी च ललिता काली दुर्गा गायत्र्यरुंधती || सरस्वती चेति सप्त उपास्या वाममार्गतः | कालीतारा छिन्नमस्ता सुमुखी भुवनेश्वरी || वाला कुब्जेति नवमः सुचितान्न प्रकीर्तिताः | नाम्ना सप्तसती चेति मध्यमे चरिते द्विधा || तत्तन्मंत्रोक्त संकेतैर्मंत्रव्यक्तिः प्रजायते | एवं स्तवाभियुक्ता नामित्यारभ्य तृतीयके || चरिते सप्तसभ्यस्तु चामुंडांताः प्रकीर्तिताः | हंसयुक्त विमानाग्रे इत्यारभ्य प्रकीर्तिताः || ब्रह्माण्याद्याः सप्तसत्यो वर्तमानास्तु तत्र च | वैवस्वतेंतरे प्राप्ते इत्यारभ्य च सप्त तु || सत्यप्रोक्ताः स्वयं देव्या तस्मात् सप्तसती मता | सप्तसत्यास्तु सकलं तत्वां ब्रह्माहमेव हि || प्रादोनं श्रीहरिद्वर्ति कोट्यंशमितरे जनाः | यथा मंत्रासु सिद्ध्यर्थं योज्यते क्रियते न्यथा || वीजादिकं तथा सद्भिः कामना वशतः क्वचित् | वर्णाणा च तदानां च व्यक्तामस्तु प्रपंचितः || शब्दशास्त्र विरूढोयः पाठे सौऽशुभकर्मणिः | शब्दशास्त्र विरुद्धस्तु पाठशांतिक पौष्टिके || प्. ७८अ) सार्थे स तु पठेच्चंडी स्तवं स्वेष्टपदाक्षरं | समाप्तौ तु महालक्ष्मीं ध्यात्वा कृत्वा षडंगकं || जपेदष्ट शतं मूलं देवतायै निवेदयेत् | एवं यः कुरुते सैत्रनावसीदति जातुचित् || शतचंडी विधानं तु प्रवक्ष्यामि प्रिये नृणां | नृपोपद्रव आपन्ने दुर्भिक्षे भूमिकंपने || अतिवृष्ट्यामती वृष्टौ परचक्र भये क्षये | सर्वविघ्ना विनश्यंति शतचंडी विधौ कृते || रोगाणां वैरिनाशाय धनपुत्र समृद्धये | शंकरस्य भवान्या वा प्रासाद निकटे शुभं || मण्डपं द्वारवेद्याद्यं कुर्यात् स ध्वजतोरणं | तत्र कुंडं प्रकुर्वीत प्रतीच्यां मध्यतोपि च || स्नात्वा च निकृतिं कृत्वा योजयेद् देश वाडवान् | जितेंद्रियान् सदाचारान् कुलिनान् सत्यवादिनः || व्युत्पन्नांश्चण्डिका पाठे रतान् लज्जा दयावतः | मधुपर्क विधानेन वस्त्र स्वर्णादि दानतः || जपार्थ चासनं मालां दद्यात् तेभ्योपि भोजनं | ते हविष्यान्नमश्नंतो मंत्रार्थ गतमानसाः || भूमौ शयनाः प्रत्येकं जपेसश्चंडिकास्तवं | मार्कण्डेय पुराणोक्तं दशकृत्यः स चेतसः || नवर्णे चंडिका तंत्रं जपेयुश्चायुतं पृथक् | यजमानं पूजये च कंन्यानां दशकं शुभं || द्विवर्षाद्यां दशाब्दांताः कुमारीं परिपूजयेत् | नाधिकांगी न हिनांगी कुष्टिनीं च व्रणांकितां || प्. ७८ब्) अंधकानां केकलां च कुरूपां रोगयुक्तनुं | दासीनां भोगयुक्तां च दुष्टां कन्यां न पूजयेत् || विप्रा सर्वेष्ट स सिद्ध्यै यशमे क्षेत्रियोद्भवां | वैश्यजां धनलाभाय पुत्राप्तौ शूद्रजां यजेत् || द्विवर्षा सा कुमार्युक्ता त्रिमूर्तिहायनत्रिका | चतुराब्दा तु कल्यानीं पंचवर्षा तु रोहिणी || षडाब्दा कालिका प्रोक्ता चंडिका सप्तहायना | अष्टवर्षाः शांभवी स्या दुर्गा तु नवहायना || सुभद्रा दशवर्षोक्ता ता मंत्रैः परिपूजयेत् | एकाब्दायाः प्रीत्यभावौ रुद्राब्दा तु विवर्जिता || तासामावाहने मंत्रः श्लोकरूपो निगद्यते | मंत्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीं || नवदुर्गात्मिका साक्षात् कन्यामावाहयाम्यहं | कुमारिकादि कन्यानां पूजामंत्रान् व्रुवेऽधुना || जगत्पूज्य जगद्वंद्ये सर्वशक्ति स्वरूपिणी | पूजां गृहान कौमारि जगन्मात्रे नमोस्तुते || त्रिपुरा त्रिपुराधाराः त्रिवज्ञान स्वरूपिणीं | त्रैलोक्यवंदितान् देवीं त्रिमूर्तिं पूजयाम्यहं || कलात्मिकां कलातीतां करुण्य हृदया शिवां | कल्याणजननीं नित्यां कल्याणीं पूजयाम्यहं || कामचारीं शुभां कांतां कालचक्र स्वरूपिणीं | कामदां करुणोदारां कालिकां पूजयाम्यहं || प्. ७९अ) चण्डिवीजां चण्डिमयीं चंडमुंड प्रभंजिनीं | पूजयामि सदा देवी चंडिकां चण्डविक्रमां || सदानन्दकरीं शांतां सर्वदेव नमस्कृतां | सर्वभूतात्मिकां लक्ष्मीं शांभवीं पूजयाम्यहं || दुर्गमे दुष्टरे कार्ये भव दुःख विनाशिनीं | पूजयामि सदा भक्त्या दुर्गादुर्गतिनाशिनीं || सुंदरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीं | सुभद्रा जननी देवी सुभद्रां पूजयाम्यहं || एतैमंत्रै लक्षनाढ्यां तां तां कन्यां समर्चयेत् | महामायायै विद्महे चण्डिकायै धीमहि तन्नो देवी प्रचोदयात् || गंधैः पुष्पैरक्ष्य भोज्यै वस्त्रैराभणैरपि | वेद्या विरचिते रम्य सर्वतो भद्रमण्डपे || घटसंस्थाप्य विधिवत् तत्रावाह्यार्चयेच्छिवां | तदग्रे कन्यकाश्चापि भोजयेद् ब्राह्मणानपि || उपचारैश्च विविधैः पूर्वोक्ता वरणान्यपि | एवं चतुर्दिनं कृत्वा पंचमे होममाचरेत् || पायसान्नैस्त्रिमध्वक्तैद्राक्षा रंभा फलैरपि | मातुलुंगैरिक्षु खण्डैर्नारिकेलैः पुरैस्तिलैः || जातीफलैराम्र फलैरन्यैर्मधुरवस्तुभिः | सप्तसत्यादशावृत्त्या प्रतिश्लोकं हुतं चरेत् || अयुतं च नवार्णेन स्थापितेग्नौ विधानतः | कृत्वा चरण देवानां होमतन्नात्र मंत्रतः || प्. ७९ब्) कृत्वा पूर्णाहुतं सम्यग् देवमग्निं विसृज्य च | अभिषिंच्चय * * ष्टारं विप्रौः कलशोदकैः || निष्कं सुवर्णमथवा प्रत्येकं दक्षिणां दिशेत् | भोजयेच्चाथवान् विप्रान् भक्ष्यभोज्यैः पृथग् विधैः || तेभ्योपि दक्षिणां दत्वा गृह्नीयादाशिखस्ततः | एवं कृते जगद्वश्यं सर्वे नश्यंत्युपद्रवाः || राज्यं धनं यशः पुत्रान् इष्टमन्यं लभेन च | एतद् दशगुणं कुर्याच्चंडी सहस्रजंविधि || विद्यावंतः सदाचारान् ब्राह्मणान् वृणुयाच्छतं | प्रत्यहं चंडिका पाठान् विघ्नध्वस्ते दशामितान् || अयुतं प्रजपे युद्धे प्रत्येकं नववर्णकं | पूर्वोक्तः कन्यकाः मंत्र पूर्वमंत्रैः शतं शुभा || एवं दशाहं संपाद्य होमं कुर्युः प्रयत्नतः | सप्तसत्याशता वृत्या प्रतिश्लोकं विधानतः || लक्षसंख्यं नवार्णं च पूर्वोक्ते द्रव्यसंचयेत् | होतृभ्यो दक्षिणां दत्वा पूर्वोक्तान् भोजये द्विजान् || सहस्रसंमितान् साधुन् देव्याराधन तत्परान् | एवं सहस्रसंख्याते कृते चंडी विधो नृणां || सिद्ध्यत्यहीप्सितं सर्वं दुःखैद्यश्च विनश्यति | मारी दुर्भगरोगाद्या नश्यंति व्यसनो च याः || नेमं विधिं वदे दुष्टे खले चौरे गुरुद्रुहि | साधो जितेंद्रिये दांते वदेद्विधिमिमं परं || प्. ८०अ) एवं सा चंडिका तुष्टायस्तृन् शोतॄन्यरक्षति || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे चतुर्दशः पटलः || १४ || भैरव उवाच || विप्रक्षत्रियविट्शूद्रचांडालादि न भेद च | कौलिकेषु च कर्मेषु सिद्धिमंत्रो गरीयसि || महाशून्यं तत्प्रवाहं त्रिशक्ति परिमंडितं | ततो विंदु ततश्चंड्र ततो योन्यष्टमं पुनः || तदधो योजयेद् विद्वा योनि कुण्डात् महेश्वरि | अष्टाविंशतिमं भद्रे नादात् सप्तम संस्थितं || तद्वेश्म शिरसाभिन्ननति प्रणववर्जित | पिंडमेतन्महाभागे सर्वमंत्रारणिं परं || पिण्डमेतन्महाभागे सर्वमंत्रारणिं परं | सर्वशान्नित्यकरणी सर्वसिद्धि भयावहं || भोग्यमोक्ष्यप्रदं सारं देव्या पिंडमनुत्तमं || ह्स्ख्फ्रें || सांतांतमादित कृत्वा षट्विंशं तु समुद्धरेत् | अधोर्द्धे वह्नि संरूढं मूर्द्ध्नि गुह्य नियोजितं || षष्ठवर्गंतं संभिन्नं देवी एकाक्षरा स्मृता || क्ष्र्झ्रीं || ओं क्रीं कंकाली देवी दुष्टमारिणी मम कार्यसाधिनी देवी हूंफट् स्वाहा || ककारात् सर्वमुत्पन्नं तेन सृष्टि स्वरूपिणीं || रेफः काराग्नि रुद्रश्च तेन संहाररूपिणी | ईकारे च महालक्ष्मी लोकत्रय विभाविनी || तेनेयं पालिका शक्तिः सामरस्यं च विंदुना | एवं च वेष्टिरूपेण सृष्टि स्थितिलयाम्विका || प्. ८०ब्) एवं समष्टिका रूपे तुरीय ब्रह्मरूपिणी | चिंदानंदमयी साक्षात् विद्याशक्ति स्वरूपिणी || शब्द ब्रह्म स्वरूपा च नित्यानंद स्वरूपिणी | सर्ववेदमयी साक्षात् नित्यानंद प्रदायिनी || जपसाध्यां पराशक्तिर्नादमार्ग नियोजिता | वाग्मंदिर पदारूढो भैरवी रूपधृक् प्रदा || तदा स्मरेन् महाविद्यामिति सिद्धकमध्यगा | सप्ताविंशति लक्षाणि जप्त्वा चैव तु सिद्धति || योनिरूष्मा तथानष्कं षट्कोणं कुण्डली कुलं | माया नारायणं हंस अष्टधा वाग्भव स्मृत || वाग्भवाष्टक मध्यस्थां एतद्वर्गविभेदतः | पूर्ववक्त्रं सिद्धि लक्ष्मी दक्षिणं गुह्यकालिका || कालशंकर्षनी वक्त्रंमुत्तरं समुदाहृतं | पश्चिमं तु कुजा वक्त्रं मूर्द्धं प्रत्यंगिराभिधं || ध्यानमूर्तिमिदं ज्ञेयं संसारार्णवतारणं | भुक्तिमुक्ति प्रदातारं सुखसौभाग्यवर्द्धनं || श्मशानाद्ये महाघोरे क्षत्त्रत्याधयतेथ वा | लघ्वाशी ध्यानसंयुक्तो कृष्णांवरविभूषितः || ध्यायेद् घोरां महाभीमां कृष्णरक्त भयानकां | कृशांगी प्रेतसंरूढा दिग्वासां विकृताननां || प्रेतप्रेंश्चात्र संरूढां शिशुकर्णावलंविनी | कपालहस्तां विकृतां रक्तपूर्णा सवोद्यतां || प्. ८१अ) सर्पाभरणसंयुक्तां व्यालयज्ञोपवीतिनीं || अष्टादशभुजा रौद्रा पंचवक्त्र तिलोचनं | सर्वायुध धरा रौद्री भुक्ति मुक्ति फलप्रदा || देवीं प्रत्यंगिरा नाम सर्वापत्ति विघातिनीं | ओं अं कं चं तथा ढं तं य ह्मं भां ह्रीं समुच्चरेत् || हूं स उक्त्वा हूं तथा स्त्रं स्वाहांतः षोडशाक्षरः | मुनिर्विधाताच्छंदोष्टिर्देवताः षट् प्रकीर्तिताः || महावायु महापृथ्वी महाकालस्तथैव च | महासमुद्रनामा च महापर्वत एव च || महाश्चिश्चेति हूं वीजं ह्रीं शक्तिः परिकीर्तिता | लज्जाया तु षडंगानि षड्दीर्घान्वितया चरेत् || मंत्र देवांस्ततो मंत्री ध्यायेत् सुस्थिरमानसः | नानारत्नच्चिराक्रांतं वृक्षांभः श्रवणैर्मतं || व्याघ्रादि पशुभिव्याप्तं मानयुक्तंगिरि स्मरेत् | मत्स्यकूर्मादि वीजाढ्यं नवरत्न समन्वितं || घनछयं स कल्लोलंमकूपारं विचिंतयेत् | ज्वालावली समाक्रांतं जगत्त्रितयमद्भुतं || पीतवर्णं महावह्निं संस्मरेच्छत्रुशांतये | स्वरासमुत्थरेकादौ मलिनं रुद्धभूदिवं || पचनं संस्मरेद् विश्व जीवनं प्राणरूपतः | नदीपर्वतवृक्षादिकलिताग्रामसंकुला || प्. ८१ब्) आधारभूता जगतो ध्येया पृथ्वींहमंतिना | सूर्यादि ग्रहनक्षत्र कालचक्रसमन्वितं || निर्मलं गगनं ध्यायेत् प्राणिनामाश्रयप्रदं | एव षड्देवतां ध्यात्वा सहस्राणि तु षोडशा || जपेन् मंत्रं दशांशेन षड् द्रव्यै होममाचरेत् | व्रीहयस्तंडुला आज्यं सर्षपाश्च जवास्तिलाः || एतै हुत्वा यथा भागं पीठे पूर्वोदिते यजेत् | अंगादिलंक्या वज्राद्यैरेवं सिद्धा भवेन् मनुः || शत्रुपद्रवमायंतो पूज्यात् तत्रन्नये मनुं | अकारं पर्वताकारं धावंतं शत्रुसंमुखं || पतरोन्मुखमत्युग्रं प्राच्यांदिशि विचिंतयेत् | ककारं क्षुच्च कल्लोलं प्लाविताखिल भूतलं || समुद्ररूपिणं भीमं प्रतिच्यांदिशि संस्मरेत् | तुरीय पंचमाद्यणौ पृथ्वागगणरूपिणौ || शत्रुवर्गं वंधनौब्धिं येन्नियजेततात्मन | तदश्रीमं वर्णयुग शत्रो निश्वासपद्धतिं || निराधानं स्मरेन् मंत्रं विदधद्रिरिपुमाकुलं | मायादि वर्ण त्रितयं शत्रो नेत्र शुतीमुखं || प्रत्येकं तु निरुंध्यानं चिंतयेत् साधकोत्तमः | वर्मसंक्षोभितं त्वस्त्रं रिपोराधारदेशतः || उत्थाप्य वह्नि तद्देहं प्रदेहन् स मनुं स्मरेत् | एवं वर्णान् स्मरेन् मंत्रं जपेद् वर्ण सहस्रकं || मंडलं त्रितयादर्वाद्ध्यारयत्येव विद्विषं | एवं यः कुरुते कर्म प्राणायामजयादिभिः || प्. ८२अ) एवं यः कुरुते कर्म प्राणायाम जपादिभिः | संशोधयित्वा स्वात्मानं स्वरक्षाद्यै हरिं स्मरेत् || अप्त्यग्नौ हृदये सूर्ये स्थंडिले प्रतिमासु च | षट् स्वेतेषु हरेः सम्यगर्चनं योग्यतोच्यते || आपो ह्याय * मंतस्य तस्मान्नासु सदा हरिः | आग्नि क्रियावत्तां विष्णुर्योगिनां हृदये हरिः || पंडितानां हरिः सूर्ये स्थंडिले भावितात्मनां | प्रतिमा स्वल्प बुद्धीनां षट्प्रकाराश्च याः स्मृताः || अकृत्तिमाः कृत्तिमाश्च अचलाश्च चलाचलाः | निर्जीवाश्च स जीवाश्च तासां वक्ष्यामि लक्षण || अकृत्त्रिमा च द्विविधा सालग्रामोति पावनः | तदभावे द्वारकायाश्चक्रं तद्वच्च पावनं || कृत्त्रिमा दशधा प्रोक्तोः श्रेष्ठास्ताः पूर्वपूर्वतः | स्याद् रत्नरचितास्त्वाद्या स्वर्णजा रूप्यजापि च || ताम्रजा पित्तली जाता स्फाटिकी रक्तशीतजाः | काष्ठजा मृत्तिका जाता चित्ररूपेति च क्रमात् || अचला क्षत्ररूपास्तु हरिद्वारं यथा गया | देवताभिः कृतायास्तु मूर्तयस्ताश्चलाचलाः || जगन्नाथो चैकदेश पांडुरंगादयस्तुतो | सजीव ब्राह्मणागावो निर्जीवा पिप्पलः स्मृतः || मंत्रं न्यासं पुरा कुर्यात् स्वदेह देवता सु च | गायोत्र्योंकारन्यस्तांगः पूजयेद् विष्णुमव्ययं || प्. ८२ब्) सर्वसिद्धिप्रदा देवि काश्यां पूजा कृते सति | ततोपि द्विगुणं पुण्यं विंध्यपर्वत मूर्द्धनि || गंगागयाकुरुक्षेत्रे प्रभासे भास्करे यथा | नैमिखारण्यकादौ च विंध्यपर्वत यत्फलं || ततोपि द्विगुणं पुण्यं पुरुषोत्तम सन्निधौ | ततश्चतुर्गुणं पुण्यं करतोया नदीजले || ततोपि द्विगुणं पुण्यं लोहित्य नदयाथसि | तत शतगुणं पुण्यं कामाख्या योनिमण्डले || ततोपि द्विगुणं पुण्यं नीलकंठस्य मूर्द्धनि | ततः कोटिगुणं पुण्यं नेपाले गुह्यमण्डले || पुष्पमात्र प्रदानेन सुमेरु सदृशं फलं | जलविंदु प्रदानेन सप्तसागर यत्फलं || गुह्येश्वरी समापीठे नास्ति ब्रह्माण्ड मण्डले | होममुद्रा त्रयं प्रोक्तं मृगी हंसी च शूकरी || शूकरीकर संकोची मृगी मुद्रा कनिष्ठिका | हंसी स्यात् तर्जनी मुक्ता त्रिधा मुद्रा प्रकीर्तिता || शांतिके पौष्टिके चैव मारणोच्चाटने तथा | विद्वेष स्तंभने चैव वश्ये च परमेश्वरि || शांतिके च मृगी ज्ञेया हंसी पौष्टिक कर्मणि | अभिचारे शूकरी स्याद् विद्वेषोच्चाटनादिषु || न देवाः प्रतिगृह्नंति मुद्राहीना मथाहुतिं | मुद्राहीनं तु यो मोहाद्धोतु मिच्छति मंदधी || प्. ८३अ) वश्य शांत्योः स्वर्णपात्रं मृत्पात्रं स्तंभनेन तं | विद्वेषे खादिरं पात्रमुच्चाटे लोहरिर्मितं || मारणे कुक्कुटांडं स्यात् पात्राणीमानि तर्पणे || भैरव उवाच || मातर्देवी महामाये वंधमोक्ष प्रवर्तिनी | इदानीं श्रोतुमिच्छामि गुरुपंक्ति मनुत्तमं || श्रीदेव्युवाच || गुरुक्रमस्तु वहुधा मंत्र विस्तरगौरवात् | कालानामप्यनादित्वं कथं तत्कथयामिते || अज्ञात्वा कुलवर्गस्तु नष्टमार्गो भविष्यति | नष्टमार्गे मंत्रविद्या न तादृग् फलगोचरे || गुरूणां शिष्यभूतानां नास्ति चेत्संति क्रमः | यंत्र तंत्राश्च विद्याया विहला नात्र संशयः || विंशति पुरुषान् यापि नवसप्तस्त्रयोपि च | अज्ञात्वा गुरुवंशानां शिष्येत्य नष्टसंतति || स्ववंशादधिकं ज्ञेयं गुरुवंश महाद्भुतं | जनका दधिको ज्ञेया मंत्रदश्च महेश्वर || तस्मात् सर्वत्र देवेश संक्षेपात् शृणुतान् गुरुन् | आदौ सर्वत्र देवेश मंत्रदः प्रथमो गुरुः || परापर गुरुस्त्वं हि परमेष्ठी त्वहं ततः | सर्वतंत्रेसु विद्यासु स्वयं प्रकृति निरूपिणी || प्. ८३ब्) ततः पुरुषरूपं च ततः स्वगुरु संततिः | तेवैव हिम दंशाश्व मद्भक्ताश्च विशेषतः || सर्वमंत्रेषु पुरतो सर्वत्रसिद्धिदायकाः | दिव्यैघा गुरवो देव सिद्धौघा गुरवस्तथा || मानवोघा समासेन कथयामि तवाग्रतः | तत्रासौ कालिका देवी तस्याः शृणु गुरु क्रमं || महादेवी महादेव त्रिपुरा चैव भैरवः | दिव्यौघ गुरवः प्रोक्ता सिद्धौघान् कथयामिते || ब्रह्मानंदश्च पूर्णश्चश्चरतश्च सुलोचन | कुमार क्रोधनश्चैव वरदस्मरदीपनः || मायामायावती चैव मानवौघान् शृणु प्रिये | विमलः कुशलश्चैव भीमसेनः सुधाकरः || मीनो गोरक्षकोश्चैव भोजदेवः प्रजापतिः | मूलदेवोवंति देवो विघ्नेशो वै हुताशनः || समयानंद संतोषा कालिका गुरवः स्मृताः | शून्यस्य शून्यभावेन नादरूप कलाथिनी || तत्रस्था परमा रौद्रा धर्मभूमिस्तु सा विदु | रावज्ञाराचगाराव्यारावस्थारावदा सदा || रवतेया इदं विश्वमंत्र भूमिस्तु सा विदु | उच्चयण अरुचार्याचारोच्चार विवर्जिता || चरते सर्वनां तेषामंत्र भूमिस्तु सा विदु | को दंडे तु चतुर्दण्डा दंडात द्वय दण्डगा || वर्णैस्तु समतो भिन्ना मंत्रभूमिस्तु सा विदुः | कहीनाकाद्यगाहस्ताकालाकालक्षयाकुला || प्. ८४अ) कलाते सर्वमंत्राणि मंत्रभूमिस्तु सा विदु | व्यापि रूपा अरूपस्था रूपातीता निरिंद्रिया || रूपकैस्तु शतैभिन्ना मंत्र भूमिस्तु सा विदु | प्रथमं प्रतिभोल्ला साद्ववंतीच्चलाचलं || निःस्वभावपदांवस्था मंत्रभूमिस्तु सा विदुः | स्फुरते यामदेदिक्का अक्षराक्षरमध्यगा || महास्थानेण भाविता मंत्रभूमिस्तु सा विदुः | अमनामानसै भावै हीनामानोनता सदा || मननेत्राणधर्मित्वा मंत्रभूमिस्तु सा विदुः | ककला कमला रूढा काकचंच पुटिश्रिता || या कला कालजननी मंत्र भूमिस्तु सा विदुः | झटित्यंतः प्रविष्टं या अष्टखंडात्र शून्यगा || व्यष्टिका तत्स्वरूपांता मंत्रभूमिस्तु सा विदुः | रोषां ता सर्वदावानांग्रासते लालसा सदा || सर्वभावेषु संलीना मंत्रभूमिस्तु सा विदु | व्याप्ति भावस्तु सर्वस्व हठांतु हरगोद्यता || आशवं परमानंदं मंत्रभूमिस्तु सा विदु | अंतपानियकाकचिदृश्यादृश्यषुवर्जिता || स्फुरंति परमे व्योम्नि मंत्रभूमिस्तु सा विदु | अध्यात्म ज्ञानरूपास्यहशांता परमाव्यया || निस्थूरो अच्युताशांता मंत्रभूमिस्तु सा विदुः | पक्षद्वय विनिर्मुक्ता मध्यमादा अमध्यगा || प्. ८४ब्) कलते तत्र संस्थाया मंत्रभूमिस्तु सा विदुः | अधोमुख निराकाकालाकालस्य भक्षकी || मंत्रातीता अमंत्रज्ञा मंत्र भूमिस्तु सा विदुः | अमात्रा द्विदशां तां तां षोडशांता पुनः सदा || मात्राहीनां तु या संधि मंत्रभूमिस्तु सा विदुः | तत्वास्ता तत्व गहनी तत्वा तत्व विवर्जिता || त्रितत्वभावतीया तु मंत्र भूमिस्तु सा विदुः | यत्र नास्ति परं ज्ञान यत्र ज्ञानं परापरं || यत्र गर्भात्रयोद्वाम मंत्रभूमिस्तु सा विदुः | राकाकाराकुहूरूपा कुहूराकाश भक्षकी || परभाव मनुप्रीता मंत्र भूमिस्तु सा विदु | अंत सूक्ष्म वहिः शूक्ष्मा चरते या चराचरे || अरूपा सर्वदा रूपा मंत्र भूमिस्तु सा विदु | यो वा क्रमेण तीताया परारूपे खरेश्वरि || सर्वमंत्ररणीया वै मंत्रभूमि सा विदु | अनक्षरो मंत्रयोनि महामंत्र कुलत्रय || सर्वमंत्रार्थ जनको महाविंदुरनक्षर | पंचाक्षरो महाशून्यो विंदु शून्यः शताक्षरः || सर्वकारो निराकारः षोडशाद्वार्द्ध विंदुधृक् | अकलंक कलातीतश्चतुर्थ ध्यान कोटि धृक् || सर्वध्यानकलाभिज्ञा समाधि कुलगोत्रवित् | समाधिका यदा ग्राह्या सर्वसंभोगकारनात् || करवीर श्मशानस्थां कालसंकर्षणी परां | चंडां प्रत्यंगिरां कालीं सिद्धिलक्ष्मी नमाम्यहं || प्. ८५अ) आनंदमययनं कुर्याच्छताष्टांतमनु क्रमात् | चरुं चापि महादीपं पारंपर्य क्रमागतं || विना त्रिकेन संसिद्धिः कल्पकोटि शतैरपि | महापात्रे धान्यपुंजमद्य पूर्णे घटेषु च || अक्षयं तद्भवेत् तस्य नित्यपूजारतस्य च | महातैल प्रदीप्तं वा मत्स्य तैलेन वा प्रिये || तत्र देवीं विधानेन यष्ट्वा चाधिकतं शतं | शांतिके पुष्टि रोगादि नाशनेश्चेत वर्तिका || उच्चाटे धूम्रवर्णा च वश्या कृष्णे च लोहिता | मारणे कृष्णवर्णा च रोगार्थे कृष्णवर्णिका || विद्वेषे च पंचवर्णा स्तंभने पीतवर्णिका | जयार्थे रक्तश्वेता च मेलापे किरणोपमा || सर्वकामानवाप्नोति साधको भक्ति संयुतः | देविकामकलाकालि देह्यनुज्ञां महेश्वरि || प्रयतिष्येमिदेशांते योगक्षेमार्थ सिद्धये | शक्तानामथ शैवानां तिलक द्वितयं प्रिये || भस्मनादौ त्रिपुंडं स्याच्चंदने नापरं भवेत् | सर्वानन श्रियो ग्रीव सर्वभूत गुहाशयः || सर्वव्यापी च भगवांस्तस्यात् सर्वगतः शिवः | देविमोप्राकृतं चित्तं पापाक्रांतमभूत्सदा || तन्निःसारयवित्तात्वं पापं फट् रचते नमः | सामान्यार्घ विशेषं च द्विविधं शोधनं मतं || प्. ८५ब्) सामान्यमल्यं कथितं विशेषो वहु विस्तरः | कुंडलिन्यादि चाज्ञांतं चक्रं षट्कं विशोधयेत् || तच्छोधनेन सकलं शुद्धिमेति कलेवरं | तद्वि शुद्धौ विशुद्धाः स्युर्न्यास पूजा जपादयः || महाफल्गुषरूपेण महारक्तेन पात्रकं | महातैलेन द्वीपादि दीपयेत् सर्वथा निशि || सप्तादशाक्षरा विद्या विद्याविद्येश्वरेश्वरी | सिद्धिकालीति विख्याता सिद्धिलक्ष्मी परेश्वरी || चरु उत्तम मध्यं च वाह्यपूज्य प्रयत्नतः | वाह्ये उत्तम मध्यस्थं चरुपूज्य गृहे सदा || अस्मिं तंत्रे समाख्याता सिद्धिलक्ष्मी जयद्रथ | गुह्यकाली राजलक्ष्मी शिवाप्रत्यंगिरेति च || नानया सदृशी विद्या सर्वकर्मकरी शुभा | एषाविद्या महाविद्या मालामंत्रगणा स्मृता || न चैषां दीयते युक्ता स्वभावेन तु दीपिता | यथा देवि तथा देहे मम तुल्यो भविष्यति || समकाय शिरो ग्रीवा धारयेद चलस्थितं | स पश्यन् नासिकाग्रे तु दिशश्च नावलोकयेत् || मज्जामेदावसा अंडा मांसं रुधिरमेव च | ते दद्याद् योगिनीमन्यां नाशयेत् सकलान्वितं || गुरुदेवाग्नि भक्तानां मंत्र ध्यानपरायणः | तत्र तन्मध्य दातव्या मित्याज्ञा पारमेश्वरी || प्. ८६अ) आज्ञायास्त्रिपुरा देवी मूलाधारस्य कुब्जिका | चंडेश्वरी स्वाधिष्ठानेऽनाहते गुह्यकालिका || मणिपूरक चक्रे तु छिन्नमस्ता प्रकीर्तिता | विशुद्धे राजमातंगी चक्राणां नायिका इमाः || ऊर्द्ध्व पश्चिम पूर्वोत्तराऽधो दक्षिण संज्ञकाः | यथा तालेश्वरी पूर्णा तथा पूर्णेश्वरी निसा || यथा निसेश्वरी कुब्जा तथा कुब्जेश्च गुह्यका | श्रीमहात्परा महाविद्या महात्रिपुरसुंदरी || प्रप्रासाद महामंत्रं सकलं निष्कला मयं | स्वदेहं सकलं प्रोक्तं निष्कलं परमादिभिः || सकलं निष्कलं ज्ञात्वा मोक्षभावेन पूजयेत् | षडाम्नाया अमी प्रोक्तास्तत्रे मानायिकाः क्रमात् || एकैको मंत्र एकैको न्यासो ध्यानमथैककं | जपश्चाष्टोत्तरशतं तदर्द्धं वाथ पादिकं || पश्चिमाम्नाय मध्ये तु मुख्या वै कुब्जिका मता | मूलाधारं चक्रमस्याः स्थित्यर्थं निलया कृति || मूलाधारे महाचक्रे कुब्जिकां परिचिंतयेत् | अस्ति कुंडलिनी ब्रह्म शक्तिराधारपंकजे || आब्रह्मरंध्रा नियतं नीतेयममृत प्रदा | कुंडलिल्याः समुत्पन्नं जगदेतच्चराचरं || द्वितीय जगदाकारं भौतिकं देहमेव च | सांख्य योगः समाचष्टे प्रकृतिं पुरुषं तथा || प्. ८६ब्) जगतः कारणत्वेन तद्वद्वैवंधमोक्षयोः | तत्रापि प्रकृति स्यादौ पुरुषस्तदनंतरं || प्रकृतिः शक्तिरूपा हि पुरुषः शिव उच्यते | आद्याशक्तिः कुंडलिनी चिन्मयी प्रकृतिः कला || इत्याद्या वाचकाः शब्दा वहवः शास्त्रगोचराः | परमात्मेश्वरः साक्षी मायेशः पुरुषः शिवः || पर्याय शब्दा एतेपि भूयासः परमेशितुः | तस्याः कंदा गृहं प्रोक्तं मूलास्याधार हेतुतः || मूलाधारमिति ख्यातं ब्रह्मगंथितया तथा | साध्यष्ट वलया तत्र प्रसुप्त भुजगाकृति || चेष्टयंतीं तनुं सर्वां तिष्ठत्यमृतरूपिणी | सदाशिवस्य भवनं ब्रह्मरंध्रमिति स्मृतं || सहस्रं दलमंभोजं तदुरिष्टमधोमुखं | ब्रह्मकारैशूष्मरंधै कुंडलिन्य हि रूपिणी || प्रविश्य तिष्ठति यातो ब्रह्मरंधं ततो मुखं | ब्रह्मरंध्रं शिरस्ये च ब्रह्मग्रंथि गुदोपरि || ग्रंथै विमोचने मोक्षो ब्रह्मग्रंथिस्ततः स्मृतः | मूलाधारेश्च कंदश्च ब्रह्मग्रंथिः सनातनः || ब्रह्मांडं ब्रह्मशयया च शब्दाः पर्या च वाचकाः | कुंडलिन्ये च हि सदा गच्छत्यूर्द्धं शिवांतिकं || न शिवोऽधुः समायाति कदापि हि तदंतिकं | यत्र यत्र च विश्रम्य गच्छत्य मृतलिंगया || क्रमणोर्द्धोद्ध संस्थानाच्चक्रमित्यभिधीयते | देवि कामकला कालि सृष्टि स्थित्यंत कारिणी || प्. ८७अ) अत्राधिष्ठानमाधे हि परिवारगणे सह | यथाशक्ति यथालाभं त्वदर्थ मु * कल्पिते || दृष्टिं निवेशयेशानि पूजोपकरणेऽखिले | जलेऽनुलेपने पुष्पे धूपदीपे वलौ तथा || नैवेद्येपि च तांवूले राजोपकरणे तथा | अधिष्ठितायां त्वप्यंव विघ्नान् रक्षंति सर्वशः || भूतानि विद्रविष्यंति मम रक्षा भविष्यति | मनोरथाश्च मे सर्वे सेत्स्यंति त्वत् प्रसादतः || पूजा च सफला देवि भवित्रीते कृपावशात् | नृचर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् || यथा गुरुमुखोद्दिष्ट निर्विकल्पेन शोधयेत् | लाक्षारस निभे नैव हेतुना परिपूरितं || फल्गु दत्वा तत्र मध्ये पात्रे हेतु प्रपूरिते | अष्टम्या वा चतुर्दश्यां नवम्यां वा विशेषतः || शिव रात्र्यांन्तथा पूजा निशायां परिपूजयेत् | यथा श्रीचक्रपूजां वै तथा सर्वं समाचरेत् || विंदुचक्रे त्रिकोणे तु महापात्रं तु स्थापयेत् | पंचकाल्यां तु पंचारे चरुकं पंच वै क्रमात् || नातः परतरं भद्रे कालिका क्रमपूजने | भोग्यं स्वर्गं सुखं मोक्षं आज्ञा सिद्धिं भवेद्ध्रुवं || सत्यं सत्यं महादेवि सत्यमेतद्ववीम्यहं | अन्यथा कुरुते यस्तु हेतुवादकुतर्कतः || परिश्रमं केवलं तु न स सिद्धिमवाप्नुयात् | मंगला च महामाया चंडकापालिनी शिवा || प्. ८७ब्) चामुंडा चर्चिका चण्डा सृष्टि स्थित्यंत कारिणी | अनाख्या च महाभागा गुह्यं काली जया परा || सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यंगिरा स्मृता | सुंदरी त्रिपुरा चारु उग्र चंडाप्रकाशिनी || विभिन्ना वहुधा जाता नानाभेद समाश्रिता | एका सा वहुरूपा च जानीयाद् दिव्य चक्षुषा || स एव साधकश्रेष्टः सिद्धिज्ञानस्य भाजनं | अंवरं पवनं वह्नि आपं च धरणी तथा || रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये | एकाक्षरी पराविद्या भोगमोक्षप्रदा स्मृता || शिखी च मधुहा युक्ता काली प्राणमुदाहृतं | ख्फ्रें मात्मकमालिख्य महाचंड मता लिखेत् || योगेश्वरी पदं दत्वा विद्येयं सा नवाक्षरी | मंत्रमातेति विख्याता त्रैलोक्यैश्वर्य दायकं || समस्तमंत्रजननी सर्वमंत्र प्रवाहिनी | वहुधा वर्णितुं मंत्र माता स च प्रवाहिनी || प्रत्यंगिरा महाकाली मोक्षसौख्यप्रदायिनी | षोडशाक्षरिया विद्या प्राणभूताश्च ता शृणु || यस्योपदेशमात्रेण ब्रह्मभूपाय कल्पते | त्रिपदं तु समुद्धृत्य महारावं ततो लिखेत् || प्. ८८अ) निशा माधवसंयुक्तं ज्ञेयं त्रिदशवंदिते | सत्यारूढे साश्वतश्चतुष्टिना कवलीकृतं || सत्यसत्या समारूढो शेक्ष्मेश केवली कृताः | ततश्चक्री जाठरं च नारायण समन्वितं || माधवेन समायुक्तो वलानुज पुनर्लिखेत् | मायाचंडी कूर्चरक्षा महाराव पुनर्लिखेत् || रति नियोजयेद् देवी शिरमंत्रं समुच्चरेत् | वर्ण षोडशमाख्यातं मंत्रराजमुदाहृतं || एकोच्चारण देवेशि वाजपेयस्य कोटयः | अश्वमेध सहस्राणि प्रादक्षिण्य भुवस्तथा || प्रयागे स्नानजत्पुण्यंमकलस्थे दिवाकरे | तस्य शतगुणं प्रोक्तं कालिका विधिनार्चनं || पातुराश्रमयत्पुण्यं क्रमेण परिसेवितं | यत्पुण्य वर्ण धर्मस्य तत्पुण्यं कालिकार्चनात् || काश्यदि तीर्थयात्रां च सार्द्धकोटि त्रयान्वितं | तुलादानाति देवेशि सत्यं सत्यं न संशयः || लक्षजापेन देवेशि किं पुनसिद्धि भाग्भवेत् | यस्याः सामर्थतो देव्या भुवनानि चतुर्दशः || सौम्यसिद्धिकृतांतेन देवी प्रत्यंगिराभिधाः | नारदानुमते नैव सज्ञा देव्या द्विधा कृता || शोनिताख्ये पुरेद् देवि हरिशंकर विग्रहे | नारदेन मुनींद्रेन कृष्णाय स प्रदत्तवान् || प्. ८८ब्) हरिणाट्टांभनाष्ट्रेषु प्रयाज्य हरमोहितः | वासुदेवो प्रियार्थाय रक्षार्थ प्रददौ पुरा || भृंगोपभुक्त पुष्पं तु शिवयोग्यं यथा भवेत् | तद्वत् निरक्षरं वस्तु अक्षरैरपि संयुता || नोद्धारं लेखयेद् देवि साक्षाद्वर्णेश्वरी परा | शापा भवति वै नूनं मंत्रहानि प्रजायते || विमुखा भवते काली पाया नामाश्रमो भवेत् | कर्णे कर्णे तु देवेशि हृदिस्थं कुरु सर्वदा || गुरुवक्त्रा विनिश्क्रांता श्रोत्रमार्गे हृदि स्थिताः | उदकं लिखितं तद्वत् मंत्रोद्धारं तथा भवेत् || भोगमोक्षप्रदा विद्या पुस्तके नैव लेखयेत् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे पंचदशः पटलः || १५ || श्रीभैरव उवाच || दिव्यार्क वोधकमलादरगर्भसंस्थं विस्वात्मकं परमनिर्मल सिद्धनाथं येनावतारित महार्णव मध्यचंद्रः द्वीपांतरं परमचिंचिनि चित्प्रकाशं | तन्मध्य निर्गत महाकुलवेधयंति दिव्यांतरिक्ष गगनांतर भूतरेषु | पातालचक्र विचरांतर ग्राहयंतीं नमामि पश्चिम क्रमात्वय श्रीकुकारां || कालाकाल विलुप्तकं दरघरनित्यनुरक्तं व्रतं द्वैताद्वैत विभेद भिन्न सदतं त्यक्त्वाश्च लाभादयं | तं तं भावरसंपरामृतघनं पीत्वाश्च घूर्मोदयं क्रीडंतीं रतिचक्र चर्चित परां संस्पर्श लक्ष्मी नमः || प्. ८९अ) याशा शक्तिर्भगाख्यं प्रकटित निलये दक्षिणे चैव कोणे वामे श्रीपूर्णपीठं पशुजनभय कृत् कामरूपं तदग्रे | एवं व्याप्तं समस्थं स्थितिलयजननी रुद्रशक्तिस्त्रिभेदैः तन्मध्ये देवदेवः मकुल * * मयं तन्मदाद्य स्वतंत्रं || यस्याज्ञा विंदूभूता पशुभयहरणी सिद्धिदा वोधरूपा नित्य क्लिन्ना स्वरक्ता भवमुदित सदा नंददात्री स्वतंत्रा | तन्मध्ये दिव्यलिंगं परमसुखऽकरं विंदुरूपं स्वरूपं नित्यानंदं स्वरूपं तदुभयमथनं षट्प्रकारै विभिन्नं कुर्वंती तत्र मांक्षुभित वरतनुं श्रीकुब्जिकाख्यं नमामि || नमो निर्णामनाम्नाय भगचक्रभगायिने || नमो आनंद दैव्यै च भगरूपे नमोस्तुते | रजस्वलामुखं दृष्टा सर्वपापै विमुच्यते || संभाषनं च कुरुते राजसूयादिकं फलं | तस्याः स्पर्शनमात्रेण लभेन्मुक्ति चतुर्विधा || तस्याः संगममात्रेण त्रैलोक्यात् पाटनै क्षमः | शुद्धया पूजनेत् तस्याः भगंसंरजसोभितं || न्यासं कृत्वा स्वदेहेषु कुलाभिः कामपूजितं | विशेषैः पूजिता योनिः पुण्यसंख्या न विद्यते || प्. ८९ब्) महायत्नेन देवेशी पुष्पवतीं सुलक्षणा | पूज्यते देवता बुद्ध्या पिसितालिसु संयुतां || जवपातं तु विधिवत् स्वयं भक्त्या यथैच्छया | पिबे दिव्यं सुरज्योति जाद्यता च हरे ध्रुवं || ब्रह्मभूत स्वयं भक्त्या निव जाप्य सुरेश्वरी | विसर्जने पुन पूजाः पुनः पात्रं पिवेच्छुभं || एवं कृते तु वारेण शिवतुल्यो भवे ध्रुवं | अन्यत गोपये देवि स्वयोनिमपने यथा || न प्रकाश्यं कुपुत्राय गोप्यात् गोप्य कृतं शुभं | प्रमादाच्च प्रकाशाति सत्यं सत्यं न संशयः || त्रिलोके दुर्लभं देवि गोप्य पूजा फलं महत् | भक्त्या च पठते वीरः पूजां तस्तवमुत्तमं || रतिकाले विशेषेन शिवं तुल्यो भवेन्नरः | इति द्वादशभिः श्लोकै स्तवनं परमाद्भुतं || रजस्वला समपितु पथ्यते सर्वसिद्धि कृत् | सत्यं सत्यं पुनः सत्यं सत्यसत्यं न संशयः || स पुष्प भगपूजा च ब्रह्मलोकेपि दुर्लभा | अस्य स्तोत्रस्य माहात्म्यं मया वक्तुं न शक्यते || विरंजिमघया विष्णु पठते च निरंतलं | स्तोत्रपाठ प्रभावेन सृष्टि स्थिति भवेद्ध्रुवं || तस्मात् सर्वेषु यत्नेन देवी गोप्यकरं शुभं | स्मरे प्रथम पुष्पानी रुधिल विंदु निलांवरा गृहित मधुपातृकां मदविपूर्ण नेत्राननांघनस्तनभरानता गलितनीविका श्यामलां कल स्फुरित वर्णविंशदसंवताटंकिनिं || प्. ९०अ) देव्युवाच || श्रुतं देव मया सर्वं अशेष क्रममुत्तमं | पारंपर्य विभागेन सर्वशास्त्र सुतोद्भवं || तंत्रसारं क्रियासारं कुलसारं सुविस्तरं | त्रिकसारं तथा नाथ योगिनी हृदयांतरं || कालचक्रोदयन्नाथ तेजो रासि समुद्भवं | यामलं तम सिद्धांतं भैरवाष्ट समुद्भवं || गारुडं भूततंत्रं च विद्यासार सुविस्तरं | अष्टाष्टसदं प्रस्तारं विस्तारं च श्रुतन्मया || पंचश्रोत विभेदेन शैवं श्रुत्या सुनिश्चयं | मंत्रतंत्रात्म भेदं च चक्र भेदं हृदांतरं || सारभेदं कलाभेदं नित्याभेदं श्रुतन्मया | रुद्रशक्ति पराशक्ति स्वराशक्तिश्च निश्चयं || स्वच्छंद परमं भेदमुत्तचोत्तरनिर्णयं | सौर वैष्णव पौधं च सारतर्क विभावितं || सांभवं आनवंशक्तं भेदं श्रुत्वा मया प्रभो | कष्टकष्टतरं क्लेषं सुधा साध्ययोगचित्तकैः || ध्यानयोगरकेचित्केचिजप्या परायणाः | प्राणायाम मया केचित् अर्द्धचंद्रकलाक्रमं || विंदुभेदरताकेचिच्छाख्य ज्ञान स्थिताः पराः | परकर्मरता केचिच्चक्षुन्मीलित संस्थिताः || अग्निकर्मरताः केचि पागादि जजने रताः | सर्वे क्लिष्यांतिते नाथेन किंचित् प्रत्ययो भवेत् || प्. ९०ब्) विनान्वय प्रभेदेन आज्ञासिद्धि प्रकाशितं | सर्वशास्त्रार्थ हृदयं सतानामुत्तमोत्तमं || श्रीचिंचिनीमतसारस्य समुच्चये वदस्व मे || भैरव उवाच || अति गुह्यतरं प्रश्नं योगिनी हृदयांतरं | दुःसाध्यं सर्वदेवानां गोपनीयं प्रयत्नतः || चिंचिनीमतसारोयं दिव्योघ परमं पदं | कथयामि न संदेहो वल्लभत्वाद्वरानने || शृणु देवि प्रवक्ष्यामि सारसंग्रहमुत्तमं | सिद्धान्वय परं कौलं भुक्तिमुक्ति फलप्रदं || कुलाकुलमतं लीनं व्योमव्योमांत भैरवं | विस्वोन्मिनिर्गतं शून्यं शक्तविश्रांतमंडलं || ततोत्पन्ना परा देवे कामिनी कामरूपिणी | कुमारी काल पीठेस्था महादिव्यौघवर्षिणी || देव्युवाच || दिव्योघं तत्कथं नाथ यन्त्वया चोदिनो ह्यहं | कथयं त्व प्रसादेन सौभाग्यं जननं परं || भैरव उवाच || शृणु देवि परं गुह्यं सर्वशास्त्र समुच्चयं | पारंपर्यक्रमं सूक्ष्मं दिव्यकौलावतारकं || कथयामि न संदेह तव स्नेहाद् वरानने | दिव्योघ परमानंदं पिचु वक्त्रस्तु कौलिकं || तन्मध्योदित चिद्वृक्षा मूलशाखा सुविस्तरं | अदृष्ट विग्रहारूढं सिद्धोघ फलमुत्तमं || स्थानानि देह विन्यासं महापीठ समुद्भवं | वर्णरासि परं दिव्यं सर्ववोदिम भैरवं || प्. ९१अ) रुद्रान् वीरां तथा सिद्धां क्षत्रपालान् स्वक्षेत्रजान् | योगिनी योगि वामांता सर्वशास्त्र कुलागमां || पीठोद्भवा पीठसिद्धां पीठोचारापपीठजान् | संदोहश्चन्वरं दिव्यं गुहावासं तु गह्वरं || ख्यचरं खेचरांतस्था खस्वरूपं क्षभक्षकं | एकैकोठिधा भिन्नं कुलशाखा सुविस्तरं || अनामावर्णनामं तु वाग्भवं खेचरी स्फुटं | अकारादि क्षकारांता प्रसुप्तन्नंदविग्रहं || चिंतामणि समप्रख्यं विस्तरं कुलभैरवं | स्थानं स्थानांतरं दिव्यं स्वस्थानं जप निर्गतं || अदिष्टविग्रहानन्दमतीतं विमलान्वयं | एवं तु कथितं देवि दिव्योघ क्रमनिर्णयं || भुक्तिमुक्ति प्रदातारं पूजासिद्धि फलप्रदं || देव्युवाच || अन्वयं कीदृशीन्नाथ त्वयोक्तं प्रश्नपूर्वकं | कथयस्व प्रसादेन यदि तुष्टोसि मे प्रभो || भैरव्युवाच || शृणु देवि प्रवक्ष्यामि अन्वयस्यैव लक्षणं | मतं मतन्तरं गुप्तं श्रीचिंचिनीमतमुत्तमं || सारात्सारतरं दिव्यं कथयामि वरानने | रविंदु सत्वामपदं चिदचित् कमलोदलं || उभयानंद संदोहं पारंपर्य विजृंभितं | कुलामूलाम्वयं देवि कुलाकौलं विनिर्गतं || प्. ९१ब्) कौलं तु षट्विधं सत्वा षट् कूट परितं ध्रुवं | षट् संज्ञा चः समुद्भूतं प्रसरात् पश्चिमान्वयं || देव्युवाच || कथं वै पश्चिमे संज्ञा अन्वयं गुरु कीदृशं | लक्षणं प्रत्ययं तस्य कौलाचारं तु कीदृशं || साधकं साधनं चैव दीक्षा समयमेव च | चरूंचारं कथं चार्या व्रतं चैव तु कीदृशं || द्वैतं चैव तथा द्वैतं द्वैताद्वैतं तथैव च | पादुका दर्शनं नाथ कीदृशं वद तत्वतः || सालंवं किं निरालंवं निस्तत्वं किं स तत्वकं | सानंदं किं निरानंदं निलक्षं कि सलक्षकं || साकारं किं निराकारं कीदृशं पश्चिमक्रमं | शाक्तं च सांभवं किं वा ज्ञानमानवमेव च || मंत्रवीर्यं विमर्थं च स्वरूपं च तथोदयं | वदनाथ महामुद्रा पाशजालश्च द्रावणी || कथं मूलं च संतानं पारंपर्यं च कीदृशं | कथं शास्त्रं च वीर्यं च विद्यावैशिकमेव च || के पीठाः के च पीठा साके सिद्धाकाश्च योगिणी | चतुष्कं पंचकं षट्कं त्रिकंश्चैव तु किं विधा || आधारं च श्वाधिष्ठानं मणिपूरमनाहतं | विशुद्धा च तथाज्ञा वै षट्प्रकार कथं स्थितं स्थितं || व्याप्तिश्च कीदृशी नाथ भेदं वै निर्णयं तथा | दिव्यभौमांतरिक्षं च त्रिविधं कीदृशं क्रमं || प्. ९२अ) वृक्षं पुष्पं गुहागोत्रं सङ्केतं च गृहं तथा | स्थितिं च जन्म कीर्तं च सिद्धिश्चैव तु कीदृशी || अधिकार त्रयन्नाथ जवल्लि त्रितयं तथा | षट्श्रोत्रेषु च को भेदः पादुका दर्शनं प्रभो || मण्डलोत्तारणश्चैव मंडलं मण्डलक्रमं | मण्डलांतन्तथा नाथ सप्ताविंशति मण्डलं || तेषां पूजा कथं नाथ व्याप्तिश्चैव तु कीदृशी | कथं दीपं च भक्षांते पूज्यते केन कारणे || विधिश्चैचार्घपात्रं च केषु द्रव्येषु कारयेत् | नुग्रहे निग्रहे नाथं कथं व्याप्ती परापरे || किं वीजो भय षट्कस्य कस्थानं पूजनेन तु | किं चरुं च कमामुद्रा दृष्टिपातं तु कीदृशं || नित्यनैमित्तिके नाथ का पूजा पादुका क्रमे | दीक्षा ज्यष्ठे स्थान ज्येष्ठं आज्ञा ज्येष्ठ तृतीयकं || क्रम ज्येष्ठ चतुर्थं हि अधिकं कोत्र पूज्यते | दीपं चरुं च पुष्पं च अर्घपात्र क्रमं तथा || कीदृशश्य तु देयेत पातुका दर्शनं परं | क्रमज्ञान क्रमज्ञेयट्क्रमलक्ष क्रमोदयं || क्रमभेदं क्रमोघं च क्रमातीतं तु कीदृशं | क्रमसिद्धि क्रमाभ्यासं अकुलं च कुलं तथा || नवसंज्ञा त्रिसज्ञा च षट्सज्ञा पंचमेव च | त्रिसंज्ञामेकसंज्ञा च सिद्धदेवी च पास्थिता || द्विपंच विश संज्ञा चऽतेषां भेदे वदस्व मे | कथं पर्वदिना नाथ के सिद्धास्तत्र पूज्यते || प्. ९२ब्) कीदृशेण क्रमेणैव आज्ञा शिष्यस्य दीयते | षड्रसा देह संस्था च पंचरत्नानि कीदृशं || वीर्यमाहरणन्नाथ प्रत्ययं व्याप्तिमेव च | भाषाच्छुम्माश्च मेलासं स वाह्याभ्यंतरं तथा || कीदृशस्य प्रकाश्येत कौलाचारं सुदुर्लभम् | एतत् पृच्छाम्यहं नाथ वदस्व मे मतत्वतः || सर्वशास्त्रसमुद्भूतं प्रश्न कृतं सुविस्तरं | येन निर्भ्रांत वुद्धिश्च भवामित्पदनुग्रहं || निष्कम्प कौलिके मार्गे संवरामि सदोदितं | नित्यं शयश्च निर्द्धत्वं वितृष्णं पुत्र दारयोः || जरापलित हीनं च नित्यानंद भयाम्यहं || भैरव उवाच || शृणु देवि प्रवक्ष्यामि प्रश्नकूट सुविस्तरं | आज्ञासिद्धिकरं दिव्य भुक्तिमुक्ति प्रदायकं || सर्वसौभाग्य जननं सर्वकाम फलप्रदं | वक्ष्यामि तव देवेशि पश्चिमश्चैव लक्षणं || लक्षांतरं लक्षभेदं लक्षपक्ष विवर्जितं | ह्यपक्ष विमलं भक्ष तद्भक्ष गृहलक्षणं || पश्चिमं तद्विदुर्देवि आन्वयं आन्वयान्वयम् | मानसेय परिक्षीण निस्तरङ्ग महोदधिः || गाधगंभीर गहनन्तदानंद गृह स्मृतः | स्वस्वभाव पराः कश्चित् पूर्वचक्रोदये स्थितः || प्. ९३अ) दक्षिणोत्तर तं भेदं नित्या कालि क्रमोदयं | सर्वं त्यक्त्वा स्वभावेन तल्लयं पश्चिमे गृहं || वक्त्रवक्त्री ललो लोली कविः कविः कुलाकुलं | चक्रचक्री क्रमाकामी गुहागूही हृदादिका || कुलक्रमार्थकं ज्ञात्वा यजेद् विमल भैरवं | पश्चिममुदयानंदं उत्पत्ति क्रमनिश्चयं || सिद्धाम्नाय रहस्यं तु कथितं तव सुव्रते | पुनरन्यं प्रवक्ष्यामि अन्वयी च महाप्रिये || त्रिकुलं त्रिकुलातीतं त्रिभवं त्रिभवांतरं | त्रिगर्भगर्भरहितं यो जानाति स चाम्वयी || कामकामी तयेद्रूप तद्रूप कुलमालिनी | चिदचिच्चिंचिनी गर्भम्वस्तुतं सिद्धनिर्मलं || आज्ञाधारं तु तं देवि निग्रहानुग्रहे रतं | तीव्रातीव्रतरं ज्ञेयो यो जानाति सचान्वयी || मदंत्पदांतरं मद्यं मदातीतं मदोद्भवं | मदं भुक्त्वा मदं दिव्यं यो जानाति स चान्वयी || एतद् देवि मयाख्यातं मन्वयी लक्षणं परं | पुनरन्यं प्रवक्ष्यामि गुरुलक्षणमुत्तमं || येन संवोधयेद्वापं सर्वशास्त्र समुद्भवं | अणोरनीय यद्ब्रह्म कारणानां च कारणं || तत्वंगुण अनादिं च यस्योर्द्धमपरन्नहि | सर्वादयं सर्वगतिं सर्वभोग विवर्जितं || प्. ९३ब्) सर्वाध्वा परिवोधा च षड्रसास्वादलं पदं | न ग्रहो यस्य निर्वाणे त्यागो नापि भवार्णवे || द्वाभ्यां संस्पृष्ट योगेन वर्तते सोच्यते गुरुः | एवं विधं महागुह्यं गुरुसर्वार्थ वोधतः || भ्रांति ज्ञान विचाराय गुरुरित्यभिधीयते | पुनरन्यं प्रवक्ष्यामि लक्षणस्यैवमुत्तमं || सर्वलक्षणसंयुक्तः सर्वागम विचारकः | सर्वभूत दयायुक्तः कृपाशीलान् स वत्सलः || वोधकश्चेदको दक्ष शांतचित्तश्च वर्णतः | तपस्वी व्रतधारी च गुहावासी जितेंद्रियः || कालचक्रा न भावी च भिक्षासी वीरविग्रहः | कुलोकालकुलाम्नायी क्रमशास्त्र विचारकः || वेधदीक्षात् स संवोधं त्यागी धीर्य परायणः | अनुद्विज न शीलज्ञ ईदृशं गुरुलक्षणं || पुनरन्यं प्रवक्ष्यामि गुरुप्रत्ययमुत्तमं | अदृष्टविग्रहः शांतो देवता सिद्धखेचरी || पश्यंति दिव्य चक्षूषां त्रिनेत्र गमनं प्रिये | मरुचिंतापहारी च परकाय प्रवेशनं || परवेध पराकर्ष ईदृशि गुरुप्रत्ययः | एतद् देवि मया * ख्यं गुरुप्रत्यय लक्षणं || पुनरन्यं प्रवक्ष्यामि कौलाचार मनुत्तमं | वर्णद्वारं प्रजाद्वारं मोक्षद्वारं निरंजनं || एतद् भेदवरं दिव्य कौलाचार प्रकीर्तितं || प्. ९४अ) देव्युवाच || वर्णद्वारं कथं नाथ प्रजाद्वारं कथं स्मृतं | मोक्षद्वारं महादेव निरंजन वदस्व मे || एतद्भेद चतुष्कं तु कथयस्व प्रसादतः || भैरव उवाच || शृणु देवि प्रवक्ष्यामि गुह्यं कौलिकमुत्तमं | संप्रदाय चतुष्कं तु भुक्तिमुक्ति फलप्रदं || खस्वरांतस्वरविस मुदितं वोधभास्करं | ध्वनि रूप समापन्नं तालुमध्या वलंवितं || प्राणसूत्र प्रवाहेन पंचाशद्वर्ण संयुतं | वैखरी वक्त्रयोक्त्री च वीरावलि कुलोद्भवं || विषालवक्त्र विषदं निर्गतं कुलभैरवं | एतद् देवि मयोक्तं च वर्णद्वार मनुत्तमं || प्रजासूतिमनोह्लादं स्रवदनंदिनिर्भरं | त्रिःप्रकारं त्रिशनवं त्रिधा च क्रममण्डलं || अमृताघ प्लुतं दिव्यं तन्मध्ये चिदचित्स्फुरं | त्रिमूर्ति वदनन्देवि प्रजाद्वारं प्रकीर्तितं || नाभिचक्रांतर गतं चिदचित् तेज मंडलं | महायोनि परं दिव्यं ब्रह्मनाडि प्रकाशकं || अध ऊर्द्ध्व प्रवाहेन व्यापकं सर्वतो मुखं | भेदयेत् तालु मार्गं तु द्रावयेच्चित् कलामृतं || मोक्षद्वारमिदं भद्रे निरंजन वदाम्यहं | शिवमंडल मध्यस्थं महाकालि क्रमोदयं || तत्रोद्योगामभाषं तु चर्चितं च विरोपकं | महासंहारसंहारं ग्राशी कृत कुलार्णवं || प्. ९४ब्) निरंजन सर्वगतं सर्वा भाषैकभाषकं | महाकल्पांतकल्पांतं महाशिव लयं गतं || महातेजो धरं वीरं महापशु प्रिया प्रिया | महासिद्ध पदं सिद्धं महादिव्योघ मंडलं || एतत् क्रममनाख्यं च योगिनी युक्ति गोचरं | चतुर्भेद विभागेन कौलाचारं प्रकीर्तितं || यो जानाति क्रमं दिव्यं स गुरुर्मोक्षदो भवेत् | पुनरन्यं प्रवक्ष्यामि साधना साधकं प्रिये || यत्र यत्र परीक्षीणो भावं तल्लयतां गतः | तत्र तत्र स्थितो योगी विवृत्ति परभावितः || पश्यते च परां दृष्टिं यद्वस्तु मनसेप्सितं | तत्क्षत् प्राप्यते सोहि अंतरात्मा श्वभावतः || हर्षशोक परित्यागातिद्वते च महीतले | स्थिरीय * ह्वमापन्ना साधना साधकं प्रिये || समागम विनिर्मुक्त स्वयस्तुस्तत्र तिष्ठति | तत्र विश्राम योगंदां भावितं विमलं प्रिये || पश्यते स्वकुलं तत्वं परभाव प्रभेदनं | परमाकासगमनं साधनासाधनं प्रिये || मुद्रा स्फोटकरं देवि दृष्टिपात निरीक्षणात् | प्रतिमाचारणं कुर्यात् पटदाह तथैव च || यक्षिणी साधनं चैव विलयंति प्रभंजनं | सिला स्फोटस्तु भूकम्प मंत्र ध्यानं च खेचरं || जीवाकृष्टिकरं देवि परचिंता पदारणं | पुरप्रवेशकरणं उन्मंत करण प्रिये || प्. ९५अ) अपमृत्यु विनाशाय ज्वररोग निवारनं | स्थिरीकृत्य तनुर्देवि वाक् स्तंभे करणं प्रिये || दूराश्रवण विज्ञानं प्राणिनां रुदितं शुतं | गमन स्तंभनं कृत्वा अनग्नि ज्वलनं तथा || पक्षीकगगणाकर्षयक्ष भूतनिवारणं | एवं तु कथितन्देवि योगेंद्रेस्य तु साधनं || पुनरन्यं प्रवक्ष्यामि दीक्षा कौलिकमुत्तमं | मंत्रदीक्षा स वीजा च आज्याज्यान्नतिलैहुतं || निवीजा कौलिकी दीक्षा वेधमात्म स्वरूपतः | सन्मुक्षीकरणं कृत्वा विश्रांतर्गगना प्रिये || तत्रस्थो भावयेद् देवि आज्ञा विमलभैरवं | पशु विग्रहयोस्फुल्यं संक्रामकरणं प्रिये || परमात्मस्वसंवोध ह्लादमानंदनिर्भरं | विकल्पभेदयुक्ता तु पशुविग्रहनिर्मलं || हाहाकार क्रमेणैव शिथलीकृत विग्रहं | ते नैव युक्ति भेदेन कादि संविदमाशृतं || स्वस्वभाव स्ववोधेन चर्चितं चऽकुलामृतं | पीत्वा तु युक्तिभेदेन ककंदर रसोद्भवं || पक्षाभयविकासोघ स्वानंदपदनिर्भरं | निर्गतहास्य रावेन वेधये स्नान विग्रहं || कथितं देवदेवेशि वेधदीक्षा स्ववोधतः | संसारभयभिच्छिन्ना भोगमोक्षप्रदायिनी || प्. ९५ब्) पुनरन्यं प्रवक्ष्यामि समयं कौलिकागमे | ब्रह्मादि स्वपचांतश्च सर्ववर्ण व्यवस्थिताः || परमात्मा पराशक्तिश्चिद्वत्म परभावितः | समता बुद्धिमापन्न सत्वस्थ समतेंद्रियः || सर्वभूतांतरचरस्तिर्यङ्मानुष भावितः | यत्र यत्रानुभावेन तत्र तत्र तु तल्लयं || गत्वांतरात्मा सर्वज्ञाः ख स्वरूप ख विश्रुतः | सर्वावारसमोपेतः समयं समयेश्वरः || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे षोडशः पटलः || १६ || भैरव उवाच || पुनरन्यं प्रवक्ष्यामि सारात्सारं वरानने | चरुं चारुं तथाचार्या व्रतस्यैव तु लक्षणं || भक्तियुक्तो हि योगींद्रश्चर्यापर्यतनेरतः | सरखत्पर संयुक्तः कौलव्रतपरायणः || भिक्षाचारं च गृह्नीयाद् यागार्थञ्जीवमंडले | योगाभ्यास परा नित्यं क्रमपूजारतत्सदा || आज्ञाधारं गुरोर्वाक्यं सैलिसंकेतलक्षणं | तस्य सिद्धिर्भवेद् देवि कौलिकी मोक्षदायिनीं || देव्युवाच || चरुं तु कीदृशं नाथ षट्परश्चैव कीदृशं | व्रतचर्यो क्रमं नाथ अध्यात्म कथयस्व मे || भैरव उवाच || शृणु देवि प्रवक्ष्यामिररषट् परलक्षणं | व्रतचर्या समायुक्तं पश्चिमान्वयमुत्तमं || प्. ९६अ) सरं षडुन्मि रहितं षट्पदार्थ पदार्झितं | षडंतस्थान विश्राम पारणासारमुत्तमं || सितासितपरः पक्ष सरेयेवगमुत्तमं | प्रणवस्फुलकं युक्तम्पश्चिमाम्वयमुत्तमं || ब्रह्मांडखंड परमं खत्परं परिकीर्तितं | सिक्षानुभवचारेण आनंदघरमुत्तमं || खचंद्रचण्डिकार्या च हालानादांतरे स्थितः | परामृत चरुं दिव्यं धारयेत् प्राणजीवितः || कथितं तु वरारोहे व्रतचारस्य लक्षणं | पुनरन्यं प्रवक्ष्यामि द्वैतं चा द्वैतलक्षणं || खपदं खपदातीतं स्वपदं स्वपदांतरं | कालचक्रोदयं यत्र तत्र भक्षयते परं || एवं क्रम विचारेण द्वैताद्वैतस्य लक्षणं | पादुकादर्शनं देवि कथितं मम तत्वतः || यद्वस्तु भावितं देवि विंदुनादांत मध्यतः | द्वैतं समरसी भूतं अद्वैतं च प्रकीर्तितं || पुनरन्यं प्रवक्ष्यामि प्रश्नं परमदुर्लभं | सालम्वं किन्निरालम्वं निस्तत्वं किं स तत्वकं || सानन्दं किं निरानन्दं निर्लक्षं किं स लक्षकं | साकारं किन्निराकारं कीदृशं पश्चिम क्रमं || सस्वरूपं चिदाकाशे स्थिता विंदुतियस्सुखं | सालंवं किं विजानीयान् निरालंवं तु नंत्यजेत् || भावना भाव्यते भाव्यं स्फुटं प्रकटगोचरं | स्फुरत् ह्लादोदयं नित्यं सतत्वं परिऽकीर्तितं || प्. ९६ब्) यश्चदंति परन्नित्यं तल्लयी भूतविग्रहं | सर्वसमरसानंदन्निस्तत्पंच प्रकीर्तितं || चिदचिन्मथनोद्भूतं स्वस्वभावरसोद्भवं | सा नंदं तं विजानीयान् निरानंदन्तु तन्मनं || यत्र सर्वगतं सूक्ष्मं तल्लयीकृत विग्रहं | निर्लक्षं तं विजानीयात् स लक्षङ्कथयाम्यहं || चित्प्रकाशं परं ज्योति बुद्ध्या परमयाभ्यसेत् | दृश्यते परया दृष्टा सालम्वमिति कथ्यते || तत्वाद् पर कला काल व्याप्तं येन चराचरं | साकारं तं विजानीयान् निराकारं तु तं त्यजेत् || पुनरन्यं प्रवक्ष्यामि साक्तं साम्भव मानवं | लक्षणं देवदेवेशि महाज्ञानोदयं प्रिये || इच्छाज्ञानं क्रिया चैव तथा कुण्डलिनी परा | मातृका पंचमी चेति शक्तिः पंचकमिष्यते || इच्छाया प्रसरोद्भूत ज्ञानं तत्रावलोकनं | कार्याकार्य क्रिया चैव कुंडलिन्या?न्मवोधनं || मातृकामीयते विश्वं पंचधाशक्ति लक्षणं | अनुनात्म स्वरूपं च चिच्छक्तिं परभावितः || आधारभेद योगेन कुलशाखा समाश्रितः | स्थानं स्थानांतरं देवि विश्रमंति परस्परं || पृथग्भेदं पृथक् सिद्धि नधुभावेन भावितं | एतद् देवि मयाख्यातं आनवं तत्प्रकीर्तितं || देव्युवाच || प्. ९७अ) आधारं तु कथन्नाथ पृथक् सिद्धिः कथं भवेत् | विश्रामयोगभेदेन पृथक् स्थानं पृथक् क्रमं || कथयस्व प्रसादेन येन सिद्धारहो भवेत् || भैरव उवाच || शृणु देवि प्रवक्ष्यामि शाखाज्ञानं सुविस्तरं | पृथक् सिद्धिः पृथग्भेदमनुभावेन भावितं || कथितं तव देवेशि सर्वसिद्धिफलं भवेत् | आधारं चैव संकोचं तुर्यजन्म तथैव च || कंदं कुंडलिनी देवि कुंभाख्यं च तथैव च | तचै संजीवनी स्थान भूतालां जीवसंपुटं || कुर्मोधारं स्पर्शगं च लोलाख्यं लंविकोदरं | गुरुवक्त्रं तथा देवि अंजवक्त्रं तथैव च || विशुद्धं च परं स्थानं वैसर्गिक मतः परं | विसर्गांतन् तथा देवि षोडशैत प्रकीर्तितः || एते षोडश चाधारे पृथक् सिद्धि वदाम्यहं | उद्गतये विषधरा स्वालयेच्च महीधरा || कम्पयेदखिला चोर्वी सर्वाधार स्थितः प्रिये | आकृष्य सर्वलोकानां पाताल विचरं विसेत् || स्तंभयेत् सर्वसैन्यानि संकोचस्थेन संशयः | ध्वंसयेद् दुष्ट चेतासि उन्मूल प्रतिपादपान् || दर्पे हरति नागानां मारुतस्यस्तु साधकः | द्रावयेद् पोषितः सर्वान् वसी कुर्याच्चराचरं || परं सौभाग्यमाप्नोति जन्मचक्रेसुसंस्थिता | चालयेत् प्रतिमादीनि आकर्षेत् सूरयोषिताः || प्. ९७ब्) प्लवतेत्खतलं योगी कन्दचक्रावलंवकः | कुंडल्याधारमारूढ आह्वयेत योगिणी गणं || वेधयेत् परवादीनि साधयेद् यद्यदीप्सितं | पूरयेद् विश्वमखिलं स्वारंदोद्य? न साधकः || सर्वसंक्रामणं कुर्याद् कुंभस्थो नान्य गामिनः | चित्तक्षोभवषाकृष्टि अपमृत्यु निवर्हणं || वेधदीक्षात्म संवोधं कुर्यात् संजीवनी गति | कूर्माधारसमाधिस्थो योगी परपुरं व्रजेत् || सरूजां निरूजां चैव निरूजां सरूजां प्रिये | स्थितो जीव पुटाधारे साधको योगचित्तकः || निधनं पस्थते सर्वं सर्वसिद्धीश्वरो भवेत् | लोलाख्यं स्थानमासाद्य भोगानि विविधानि च || प्राप्नोति साधकः क्षिप्रन्नात्र कार्य विचारणात् | लंविकांत स्थितो योगी क्षुत्पिपासपलंदरेत् || रसं रसायनं सिद्धं लभते मृत्युजिद् भवेत् | गुरुवक्त्रगुहांतस्थ साधको विगतत्पृह || अविनास तनुर्भूत्वा प्राप्नोति परमं पदं | विसुवस्था महादेवो जगदुद्धरनक्षमं || भवते नात्रसंदेहं पूजये योगिणीगणैः | वैसर्गिक समारूढं सर्वज्ञादि गुणाल्लभत् || हर्ताकर्ता भवद् योगी यथा देव सदाशिवः | परचित्त गत ज्ञानमतीतानागतं च येत् || प्. ९८अ) रूदितं सर्वभूतानां तत्वतोवेत्ति साधकः | विसर्गांत यथावस्थानि कम्पा देह वर्जितः || कलाकलंकारहितो भ्राजते दिवि सूर्यवत् | सर्वकामेश्वरी वीरो योगिणीभिः परावृतः || स्वानंद रससंपूर्णं क्रीडतेनंत वर्चसः | इति मे कथितस्तुभ्यं हरस्यं शिवभावितं || षोडशाधार योगाध्यां स्वान भूत्यैक लक्षणं | सद्यः प्रत्यय कृद्देवि वीराणां हितकाम्यया || स्वगोप्यंकार येन्नित्यं यथान्योनावधारयेत् | पुनरन्यं प्रवक्ष्यामि शांभवस्यैव लक्षणं || समं गतं लयं चैव अवबौधं चतुर्थकं | चतुर्द्धां भेदभिन्नं तु शांभवं परिकीर्तितं || भैरव उवाच || पुनरन्यं प्रवक्ष्यामि रहस्यं भुवि दुर्लभं | मंत्रवीर्यं विमर्षं च स्वरूपं च तथोदयं || एतत् प्रस्नवरं दिव्यं लक्षणं च वदाम्यहं | मननं सर्ववेत्यत्वं त्राणं संसारनुग्रहं || मननत्राणधर्मत्वा मंत्रमित्यभिधीयते | यस्य मूलं परामृष्य शक्तिमूलं तु सर्वगं || तत्पुंजभरिताकारं महाव्याप्ति परोदयं | उदितो मंत्रराजानां तद्वीर्यं तत्स्वरूपकं || तद्विमर्थ परामृष्य मंत्रराजा मनुस्मरेत् | साधनात् साधनं देवि अन्यथा जडवद्भवेत् || प्. ९८ब्) पुनरन्यं प्रवक्ष्यामि मुद्रावंधवरानने | स्वस्वरूप परादृष्टिर्विकास्य नयनोद्भवं || वध्वांजलि नाभिगतं हृदिचिंतं निधाय च | वध्वा तु खेचरी मुद्राम्पाशजालस्य द्रावणीं || सर्वदुष्ट प्रशमनी सर्वविघ्न विनाशिनी | ब्रह्मादि देवतास्सर्वां वध्वा तुष्यंति योगिणी || नृत्यंतिऽखेचरी चात्र खेचरी सिद्धमातरा | मातृकायोगिणी तस्य सिद्धं ददाति भैरवि || पूजाकाले तु देवेशि पादुका दर्शनं प्रिये | यो वध्वा खेचरी मुद्रां तस्य मोक्षो ध्रुवं भवेत् || पुनन्मूलावतारं तु कथितं च वरानने | या श्रीभगांतरे स्थित्वा भगरूपा भगोदया || भगद्रावक योनित्यां मूलस्थानीदितापरा || देव्युवाच || कथं तु भगमित्युक्तं निचैव तु * किं विधा | भगनित्यान्वयं दिव्यं कथयस्व प्रसादतः || भैरव उवाच || शृणु देवि प्रवक्ष्यामि भगन्नित्या च निर्णयं | कथयामि न संदेह तव स्नेहाद् वरानने || भगस्त्रिकोण विख्यातं धियस्थं गुप्तमंडलं | इच्छाज्ञान क्रियाकोणं तन्मध्ये चिंचिनी क्रमं || खसुधार्णव निर्याता स्वभासानंदरूपिणी | सर्वाह्लादकरी तृप्ता सा नित्या भगरूपिणी || विश्वस्य जननीया सा कालग्रासा वलंविनी | पीत्वा कामरसं शुद्धि सा नित्या भगरूपिणी || प्. ९९अ) ख कलाखेचरांतस्था ख चंद्रकलभक्षिणी | तेन पानपरोन्मत्त सा नित्या भगरूपिणी || निर्वीज वीजया सत्ता स्ववीजोद्भवरूपिणी | कुलकौलांतरगता सा नित्या भगरूपिणी || संकोचन्न विकासं च हन्सं यंत्र न विद्यते | तदंतर्लीन चित्तस्य नित्यानंद प्रवर्तते || सूर्याग्नि चक्रमथितं गलितं कुलचंद्रिणी | तदसंयत्र संतृप्ति सा नित्या भगरूपिणी || महाचक्रिणि चक्रांतो भगलिंगा समागमे | प्रस्फूरत् तत्र मध्येस्था सा नित्या भगरूपिणी || आस्वादितपिचुं वक्त्रैर्भगमध्ये चिदांकुरां | द्रावितं विश्वजननी सा नित्या भगरूपिणी || पराकाय प्रविष्टस्य परचित्तस्य द्रावणी | परभूमिं पराकृष्य सा नित्या भगरूपिणी || सर्ववृत्यादिताया सा त्रिकभेदं त्रिगर्भिणी | त्रिप्रकार त्रिश्रवणी सा नित्या भगरूपिणी || एवं तु कथितं देवि भगमूलस्य निर्णयं | पुनरन्यं प्रवक्ष्यामि प्रश्नं परमदुर्लभं || परंपर्ये तु संतानं कथयामि वरानने | कुलवीरोदयं यत्र तत्र सांतोद्यमंडलं || व्योमव्योमांतरं शैव मुदित तं वोधभास्करं | भास्कराद्रविसंजातं रवे जातं दिवाकरं || प्. ९९ब्) दिवाकरासद्मगर्भं पद्मगर्भंदितं जगत् | चिद्मयो चिदचित् तेज सर्वगं शिववीर्यकं || सर्वभूतांतरावस्थं पारंपर्य प्रकीर्तितं | क्रमं चक्रामकं चैव क्रम ओघविनिर्गतं || क्रम ओघं तु संतान निराचारपदे स्थितं | षडिंद्रिय परित्यागमस्त्रं दिव्यौघमंडलं || तद्गर्भचिंचिनी स्थानं विश्रमंति रमंति तं | तच्छास्त्रमिति विख्यातं नंतु वाग्जाल संग्रहं || अन्यं च कथितां देवी वीजस्यैव तु निर्णयं | परिवारांगविस्तारं नामजाति * वर्जितं || एवं मूलं स्मृतं मंत्रं संक्षिप्तं विधिसाधनं | शब्दावस्था परित्यज्य वोधरूपेन संस्थितं || चित्तानंदाग्र संपूर्णं वीजसृष्टिमयं स्थितः | अध्यात्मगर्भिणी विद्या स्वप्रकासत्वमर्षिणी || स्ववीजमंत्रवीर्यं च जन्मकर्म क्षयङ्करी | अनच्छवर्णविख्यातं कण्ठताल्वोष्ठवर्जितं || अर्घास्यं च अनुच्चार्यं नाक्षरं क्षरते क्वचित् | न कृष्णवर्ण रक्षं च तद्वर्णं परिकीर्तितं || पुनरन्यं प्रवक्ष्यामि पीठं पीठेशरक्षणं | प्रथमं कौलिकं पीठं द्वितीयं विनय कौलिकं || तृतीयं सिद्धकौलं तु दिव्यकौल चतुर्थकं | आदि षोडशकं चैव कादिसांत द्वितीयकं || प्. १००अ) यादिफान्तं तृतीयं तु रूहमं तु चतुर्थकं | सोमाख्यं कौलिनी पीठं सौरं विनय कौलिकं || सिद्धकौलं तथाग्नेयं विद्याख्यं दिव्य कौलिकं | एवमात्मनि संस्थानि वाह्यतः कथयामि ते || श्रीशैलं श्रीमहेंद्रं च चन्द द्वीपं वरानने | कैलाशं च चतुर्देवि शिवपीठमुदाहृतं || पीठशं च प्रवक्ष्यामि भुक्तिमुक्ति फलप्रदं | चंद्रं कुमार शिखरं महानंदं चतुर्थकं || गुप्तं गुप्ततरं दिव्यं पीठेशं च प्रकीर्तितं | सिद्धानां योगिनीनां च शृणु वक्ष्यामि सुव्रते || आधारं च स्वचक्रं च कुरङ्गीशं प्रकीर्तितं | मदन्दनाम देवेशि पीठसिद्ध प्रकीर्तितं || रक्ताकलाला चंडाक्षी महोच्छुष्मा चतुर्थिका | पीठसिद्धा मयाख्याता देव्या कौलिक रूपिणी || भैरव उवाच || पुनरन्य प्रवक्ष्यामि पूजाक्रम मनुत्तमं | चतुष्कं पंचकं षट्कं त्रिकञ्च परमेश्वरं || कथयामि चतुष्कं तु स वाह्याभ्यंतरं प्रिये | वुद्धिस्तु प्रथमं पीठं मनश्चैव द्वितीयकं || अहंकालं तृतीयं स्यादेव पीठन्तु उन्मनः || ओंकारं प्रथमं पीठं जालपीठं द्वितीयकं | पूर्णपीठं तृतीयं स्यादेवपीठं तु कामरूपं || एते शक्तिमयापीठा स वाह्याभ्यंतराणि च | पूजनीयं विधानेन सिद्धानां योगि युतं || प्. १००ब्) ओंकानंदं तथा सिद्ध विस्वानंद द्वितीयकं | तृतीयं च कुलानन्दं चंद्रगर्भ चतुर्थकं || पूजानामं तु देवेशि देवीपुत्रं तु मानसं | रक्ताक्षीतार जिह्वा च कराक्षी सोमजिह्विका || चण्डाक्षी अग्निजिह्वा च उच्छुष्मा सूर्यजिह्विका | पूजनीया विधानेन गुरुवक्त्रा गतं प्रिये || चतुष्कं कथितं देवि देव्या पंचक तच्छृणु | अनादि सर्वज्ञता देवी मुक्तयोगेश्वरी तथा || समरी सिद्ध संज्ञा च कुब्जिका समयी स्मृता | पंचकं कथितन् देवि योगषट्कं शृणु प्रिये || विमलाथ प्रकारं तु कुब्जिकाद्या वरानने | मातंगी सिखिनीषस्वीसुहिरानंद सुंदरी || नुग्रहं षट्क कथितं ज्ञानषट्कं शृणु प्रिये | आज्ञा तु कुब्जिका देवि मांतगी शुद्धमेव च || अनाहतं मालिनी च मणिपूर खगेश्वरी | स्वाधिस्थाने तु जिभ्रा च आधारं तु विजिभ्रिका || ज्ञानषट्कं तु कथितं त्रिकंठ शृणु सुव्रते | पारंपर्यविभागेन त्रिमूर्ति परव्यापिणी || तटस्थं पूजयेद् युङ्मं एकवामं तु भैरवि | ओं मिषं च पुनर्देवि ओं वलि त्रितयं तथा || नवसंकेतकं भद्रे गुरुवक्त्रां तु लभ्यते | गुरुपंक्ति तथा पूज्य संततिप्यस्य यादृशी || प्. १०१अ) उन्मूलमूलमाश्रित्य आज्ञातेनांतु संस्फुर | तत्र श्रीक्रमविख्यातं योगिणीनां तु वल्लभं || गदितं तत्क्रम संज्ञा पंचरत्नानि विश्रुतं | त्रिकं च कथितं देवि षट्प्रकारमतः शृणु || आधारं गुडमित्युक्तं स्वाधिस्थानं तु लिंगकं | मणिपूरं नाभिदंतं हृदये तु अनाहतं || विशुद्धं कंठदेशे तु आज्ञा भ्रूमध्यसंस्थितः | पुनरन्यं प्रवक्ष्यामि प्रश्नं गुप्तंतरं प्रिये || दिव्यं भौमांतरिक्षां च त्रिविधं क्रमनिर्णयं | भाण्डपृष्ठे तु देवेशि नवसंकेतकं प्रिये || पूजयेत् परया भक्त्या दिव्यं चैव वरानने | चतुष्का पूर्व चैवोक्तं पूजासंतति विस्तरं || वाह्यमंडलमध्ये तु यथाविभवमर्चयेत् | भौमानंत विजानीया भुक्तिमुक्ति फलप्रदं || पुनरन्यं प्रवक्ष्यामि अंतरिक्ष क्रमं शुभं | खचरं खेचरांतस्थं ख स्वरूपं खमुत्तमं || तेजोपि वृंहितपरं कालिचक्र क्रमोदयं | पूजयेच्च महाचक्रं भास्वंतं परमेश्वरि || मरीचि द्वादशयुतं भूरिशूर्य समप्रभं | पूजापरसवोधेन ख स्वभावेन भावितं || ख पुष्पमण्डले पूज्य ख मुद्राम्वन्वये प्रिये | ख स्वरूपानुभावेन पूजयेत् ख पदांतरम् || प्. १०१ब्) खगांतरासने स्थित्वा विश्रांतं सूर्यमंडलं | चिच्छक्तिगलितानंद पूजये खमरीचयः || एवं तु कथितं देवि अंतरिक्ष क्रमं शुभं || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे सप्तदशः पटलः || १७ || भैरव उवाच || पुनरन्यं प्रवक्ष्यामि वृक्षनाथस्य लक्षणं | रहस्यं सर्वशास्त्राणां गोपितं तांत्रिके क्रमं || गुप्तागुप्ततरं देवि पशुसंगं विवर्जयेत् | प्रवक्ष्यामि परं दिव्यं नवसौभाग्य भाजने || महाकौलार्णवं दिव्यं अनंतं विमलोदकं | तन्मध्य मध्य देवेशि चंदद्वीप समुद्भवं || पंचरत्नशिला चंद्रद्वीपमानंदशेषरं | तत्र मध्ये त्रिकोणाक्षं स्थान योगिनि वल्लभं || शृंमातमंडरांतस्थां तद्गर्भ हृदयांतरं | उदितं चिंचिनीनाथ सर्वकाम फलप्रदं || मूलशाखा सुविस्तीर्णं दिव्योघ फलसंभवं | कौलाकुलं कुलोन्मूलं उत्पत्ति शिवमंडले || स्वस्वभावरसां ध्याय सा नंदामृतसंभवं | साख्य त्रितय विस्तीर्णं वेदवेदांग पत्रवं || पुष्पेंद्रिय समाकीर्ण विषयामुगमुत्तमं | तत्र विश्रंति परमं सुखदुःखविवर्जितं || चिदामोदफलं दिव्यं अंतविभवमुत्तमं | एवं क्रमागतं देवि कथितं वृक्षनिर्णयः || प्. १०२अ) पुनरन्यं प्रवक्ष्यामि पुष्पसंकेतकं प्रिये | चतुर्भृमानसे पुष्पः पंचमं उभयं स्मृतं || पंचेंद्रियं पंचभूत द्वारणं पंचमेव च | एतत् पुष्पवरं दिव्यं सर्वसाधारणं प्रिये || पुराणां पुंगलाद्यानां योषयंति परस्पर | पारयंति जगत्सर्वं तस्मात् पुष्पाः प्रकीर्तितः || एवं तु कथितं देवि पुष्पस्यैव तु लक्षणं | पुनरन्यं प्रवक्ष्यामि गुहागोत्रयमुत्तमं || गुहा च त्रीणी विख्याता देहस्था तु वरानने | गुप्तागुप्ततरं दिव्यं अकथ्यं कथयामि ते || कदंव प्रथमा देवि सिद्धा चैव द्वितीयकं | त्रितया देवि गुहां चैव सैव्यते सर्वसिद्धिषु || कदंव मुखमध्यस्था नाभौ सिद्धवरानने | भगं तु कथितं देवि गुहादेव्यामुदाहृतं || एवं तु कथितं तुभ्यं गुहा चैव वरानने | गोशब्दममृतं दिव्यं पंचरत्न समुद्भवं || तत्र मध्ये महादेवि अपरिकागोत्रमुत्तमं | पुनरन्यं प्रवक्ष्यामि संकेतस्य तु लक्षणं || ऊर्द्ध्वदृष्टि निरीक्षेत दृशेद्दिव्योघमंडलं | संकेत एष विख्यातो ज्येष्ठनाथस्य सुव्रते || नासाग्रमंडलांतस्थं दिव्यतेजोद्गवं प्रिये | अधो दृष्टि निरीक्षेत हृदिचित्तविधाय च || संकेत एष विख्यातो वालनाथस्य सुव्रते | अंगुष्ठे मध्यमांगुल्या कनिष्ठा च वरानने || प्. १०२ब्) मुद्रा त्रितय संकेत सिद्धनाथमुदाहृतं | पूजाकाले तु देवेशि दर्शनान्मोक्षदो भवेत् || पुनरन्यं प्रवक्ष्यामि पीठसंकेतलक्षणं | व्योमावर्तमुखे कृत्वा निमेषस्थागत प्रिये || ओंकार पीठसंकेतं योगिणी प्रियमुत्तमं | कर्णं तु दक्षिणे देवि परां दृष्टि निपातयेत् || जालपीठस्य संकेतं सिद्धयोगिणि वल्लभं | वामकर्ण न्यसेद् दृष्टि पूर्णपीठोदयं प्रियं || संकेत एष विख्यात सिद्धयोगेश्वरी मते | घ्राणांत कामरूपी च तत्र दृष्टि न्यसेत् प्रिये || सर्वकाम फलत् तस्य यस्य संकेतकं विदुः | पीठसंकेतकं भद्रे कथितं तव दुर्लभं || सर्वसिद्धिप्रदं देवि सौभाग्यजननं परः | गोपितव्यं प्रयत्नेन तत्राज्ञा पारमेश्वरी || पुनरन्यं प्रवक्ष्यामि पीठमुद्रा वरानने | मुष्टिं वध्वाकरौ देवि प्रसायांगुष्ठकं प्रिये || ओंकार पीठमुद्रैषा सिद्धयोगिनि सेवितं | प्रसार्यहस्तौ देवेशि अंगुल्या विरला कृतं || जालपीठस्य मुद्रैषा वध्वा तुष्यं तु योगिणी | हस्तौ तु कुंभवत् कृत्या अंगुल्या सह वल्लभे || पूर्णपीठस्य मुद्रैषा वध्वा दहति कल्मषं | हस्तौ त्रिकोणवत् कृत्वा द्वौ अंगुल्या समानतः || कामरूपीठ मुद्रैषा कामिनीनां प्रियो भवेत् | तर्जनी ऊर्ध्वगा कार्या किंचिदुर्नाम पृष्ठिकः || प्. १०३अ) देवी संकेत मुद्रैषा खेचरी समदर्शनं | पुनरन्यं प्रवक्ष्यामि गृहं स्थिति वरानने || त्रिगर्भगर्भविश्रांतं रतिचक्र समुद्भवं | भावितं कुलकौलाख्यस्तद्गृहम्परिकीर्तितं || स्थित्वा तद्वोध मनसा भावाभावविवद्वये | क्रीडयेंति कुलाम्नाये अविलुप्त चिदालये || पुनरन्यं प्रवक्ष्यामि जन्मस्यैव तु लक्षणं | चतुर्माद्वरव्योम्नाये अवतार पृथक् पृथक् || देव्यांवये प्रभावं च पूर्वपश्चिमदक्षिणं | उत्तरं च तथा देवि कामयारूपमासृतं || प्रवक्ष्यामि समासेन वल्लभत्वाद् वरानने | गुप्तं गुप्ततरं प्रश्नं गोपनीयं च यत्नतः || रहस्यं सर्वशास्त्राणां आम्नाय हृदयं परं | वक्त्रावक्त्रगतं ज्ञान योगिनी मुखसंस्थितं || खेचराचारगुप्तं च कलाचारमनुत्तमं | भोगमोक्षप्रदं नित्यंमेतसारसमुच्चयं || पश्चिमाम्नाय देवेशि आज्ञा क्रम वरानने | गोपनीयं प्रयत्नेन तथापि कथयामि ते || शृणु देवि प्रवक्ष्यामि घरं पूर्वसुविस्तरं | योगिणी मतसारं तु आम्नायं कुलशासनं || प्रवक्ष्यामि समासेन देवता सस्वभावजं | कुलकौलांतरगतं कुमुदोदयकुंकुणं || प्. १०३ब्) स्थानं तत्रोदिता देवी स्ववोधानंदरूपिणी | कुलाचारचरं दिव्यं कुलगर्भकुलोदयं || तस्मात् कुलेश्वरी देवी कुमारी कुलभक्षिणी | यत्र वीरवरं सिद्धा वांछयंति पुनः पुनः || व्योमांतव्योधमठिका तत्र स्थानावतारकं | कृत्वा तु देवता देवि पूर्वान्वयमनुक्रमं || त्रिप्रकारगता सा तु देवी त्रिभुवनेश्वरी | चंद्रिणी भास्करी चैव तेजोत्कट वरानने || चंद्रिणी चंद्रगर्भस्था भास्करी रवि मध्यतः | तेजोत्कटा वह्निगर्भा मठिकात्रिक कीर्तिताः || चंद्रिणी निर्गता देवि मीननाथं वरानने | भास्करी मेषपादं च अवतारं कृतं भवेत् || तेजोत्कटा कूर्मनाथमुत्पन्नं स्वस्वभाजनं | खगेंद्रनाथ सा देवि व्योमार्द्धमठिकं प्रिये || निर्गता तत्र मध्या तु परमानंदभैरवं | तेन चाध्यापितं विश्वं दिव्योघं ज्ञानमुत्तमं || मठिका सिद्धसंतानं वृद्धो वल्लिरुदाहृतं | एवं तु कथितं देवि मठिका मूलमुत्तमं || आम्नाय सिद्धनाथं तु अवतारयुतक्रमं | प्रवक्ष्यामि समासेन शृणु स्वायतलोचने || आद्ययुगे खगेंद्रं तुंविजादूभ्यासहागतं | मानुष्यं सिद्धिमिच्छंति कौलिनी परमेश्वरी || यत्र क्रीडा प्रकुर्वाणं संतती संभवं तदा | विसलश्च सुशुभश्च तेषां दत्वा भिषेचनं || प्. १०४अ) गत्वाश्चकं पदं देवितस्वस्मंतनभंकृतं | कृत्वा वै मोदिता लोके यो स्थिता कुलगोचरे || द्वितीय कूर्मनाथश्च मंगला ज्योतिरेव च | क्रीमानां वै कुलाम्नायै जातास्तेषां द्वयस्सुतौ || अजितो विजितेश्चैव तेषा संतानकं कृतं | तृतीयं मेषपादं तु काममद्ग * या सह || क्रीडावारं मिलीतं च द्वयोस्संपद्ययोस्तथा | विचित्रं विधिंदुनासंसं संतानं तु शतद्वयं || एतेषां त्रिषु लोकेषु परिमानं तु संततिं | कृत्वाख कुलनाथेन चतुःषष्ठ्याधिकं कुलं || सिद्धस्तु अधिकारं च संततीमेलकं तथा | ओं वल्ली च सुरेशानि विस्तरं कथयामिते || कलायुगे महाघोरे चतुर्थमानपादकं | पिंगलं नामतन्नाथ तमागम * नामयं || गृहीतं ज्ञानसर्वस्वं मोक्षहेतु चराचरं | तं ज्ञानं कर्तिके येन सागरे न्यसितं तथा || तदा सप्तं तु तं क्रोधा सिद्धेश्वर वरार्चिते | यावत् कोट्या चतुःषष्ठि मुक्तिगा तु भवार्णवं || तावत् क्षत्राधिपं वंहि वटुकं च न संशयः | अन्यं च कथितं देवि संक्षेपान्न तु विस्तरं || राजकन्या महाभागे कुंकुमा तेन पूजिते | ज्यातित्वे विमलाऽशुद्धा तया क्रीडितमेव च || उत्पन्ना द्वादशा पुत्रा राजपुत्रा महाप्रिये | तेषान्नामानि वक्ष्यामि यथावत् स्व महेश्वरि || प्. १०४ब्) भट्टस्वामरपापश्च महेंद्रवरदेवकः | आहेंद्रश्च खगेंद्रश्च महीधर तथैव च || गुडिकानाथ पादश्च द्वादशैते प्रकीर्तितः | अमरो वरदेवश्च चित्रनाथस्तथैव च || अलिना चिद्वपादंश्च गुटिका षट्प्रकीर्तिताः | एतेषां साधिकारं तु संततीकृत सुव्रते || ज्ञानानि तव वक्ष्यामि प्रत्येको सैव सुव्रते | त्रिपुरोत्तरसंकेत सिद्धस्थानं तु तं विदुः || अमरस्य वरारोहे वरदेवस्य कामदः | चित्रस्य अट्टहासं वैदैविकोटं अलिस्य च || दक्षिणादि स विंध्यस्य कोलागिययां तु गोडिकः | सर्वेषां च दुहार्थं वै संविस्थानं प्रकीर्तितं || पुनरन्यं प्रवक्ष्यामि षणा चैव वरानने | व्रतं भिक्षाक्रमं स्थानं पृथक् पृथक् वदाम्यहं || वोधो वल्लीपरन्नाथ व्रत सा चरति प्रिये | श्रीसैलदक्षिणदिशां दुभालनगरं तथा || चर्या करोति तत्रस्थाः सिद्धनाथो वर प्रिये | व्रतं दत्वा मुनिभिऽख्य वनन्नरमुं * गीयते || श्रंविल्पां वाटिका मध्ये रुग्रहीतं वरानने | तेनैव मुनिभिस्तत्र व्रत सा चरितं प्रिये || द्वादशैव तु वर्षाणि पश्चात् कौमारिकुंकुने | गत्वा तेन महादेवि चर्या कुर्याद् वरानने || श्रीवरदेव प्रभाः वल्यां व्रतं सा चरितं प्रिये | श्रीसैलपश्चिमे दिशा कुंडीन नगरं तथा || प्. १०५अ) चर्या करोति तत्रस्थो योगाभ्यास महामुनिः | तत्र स्थानं व्रते दत्वा विद्यानंदस्य सा वरः || दिव्यसिद्धिवरं देवि वीरचर्यानुपालकः | योगिणीवृंद सहित क्रीडते यत्र यत्र च || श्रीचित्रनाथं महादेवि पादोवल्ली प्रकीर्तितं | श्रीसैल उत्तरदिशां चंदनन्नगरं तथा || चर्या करोति वत्रस्था चित्रनाथो महाप्रिये | विल्वार्क्षं च फलं यत्र वाटिका तत्र मध्यतः || व्रतं दत्वा महादेवि कौलसिंहमुनिस्तथा | त कुर्याद् व्रतचर्यास्तु स्वस्थाने तु महात्मने || द्वादशैव तु वर्षाणि सिद्ध्यते तत्र मंडले | श्री अलिनाथो महादेवि आनंदो वल्लिसंयुतं || श्रीसैलपूर्वदिशायां नगलं वालकं प्रिये | पुंगवृक्षफलं तत्र वाटिका तत्र मध्यतः || व्रतं दत्वा वरारोहे शृंगालमुनिरुत्तमं | तद्गता तु महादेवि कामरूपीठमुत्तमं || तस्य दक्षिणदिग्भागे चर्यां कुर्याद् वरानने | त्रिखंडी स्थानमाश्रित्य यत्र सिद्धो विजृंभति || तत्र स्थाने व्रतं कृत्वा सप्तवर्षाणि सुव्रते | सिद्ध्यते परमानंद ध्यानयुक्त महामुनिः || विंध्यनाथ महान्मायो योगोवल्ली प्रकीर्तितं | श्रीसैले तु महास्थानि पूर्वदक्षिणमध्यतः || प्. १०५ब्) पिंडा च नगरं देवि व्रतचर्या करोति च | खैर वृक्षवाटिकाया मध्ये चैव वरानने || व्रतं दत्वा वरारोहे सांडिलस्य महामुनिं | पश्चांगत्वा सहाविद्धं व्रतं चर्या करोति च || खेचरी भूचरी युक्त साकिणी वल्लभ प्रिये | श्रीगुडिकानाथ आवल्यां ओंवल्ली परिकीर्तिता || श्रीसैले तु महादेवि पूर्व उत्तरमध्यतः | गोडिकानगरं तत्र तत्र चर्यां तपोधनः || नारिकेल फलं यत्र तत्र मध्ये तु वाटिका | व्रतं दत्वा वरारोहे चंदविंव मुनिस्तथा || तेन तत्रैव देवेशि अष्टौ वर्षाणि सुव्रते | चर्यां करोति योगेंद्रो व्रत युक्ता महामुनिः || एवं तु कथितं देवि षडोवल्लि व्रतक्रमं | पारंपर्य विभागेन पूर्वाम्नायं प्रकीर्तितं || पुनरन्यं प्रवक्ष्यामि दक्षिणं घोरमुत्तमं | महासिद्धिप्रदं दिव्यं भुक्तिमुक्ति फलप्रदं || कामेश्वर्यावतारस्तु कथयामि वरानने | त्रिपीठोद्भव मध्यस्था सत्स्वभावानुरूपिणी || वालार्क सतते जाड्या विद्युत्कोटि समप्रभा | कामतः कामिनीकामा भक्षयंति स्वकामिनीं || तस्मात् कामेश्वरी देवि कुमारी कुमारी कुलभक्षिणी | कामपीठवरं दिव्यं परधामेश्वमण्डलं || कामेश्वर्यावतारं तु कृत्वा कौमारि रूपधृक् | स स्वभावस्तु तेजेन द्रावितं जन्ममंडलं || प्. १०६अ) तेन स्ववीर्य संकल्पा यायते कुलयोगिणी | दिव्यरूपधराशांत शुद्धस्फटिकनिर्मलः || ज्ञानसंक्रामदिव्योघं स्फुरंती परतेजसा | द्विभुजा एकवक्त्रा च त्रिनेत्रा निम्नमध्यगा || बालरूपा तु कौमारी योगिनी सिद्धपूजि * | महापीठ परस्थानं गत्वा मालिनि पर्वतं || वामभागे स्थिता देवी तस्य पृष्ठे तु गह्वरं | कोकिलाख्यम्महास्थानं दिव्यं परमनोहरं || हंसकारंडवाकीणं चक्र वाकोप शोभितं | खेचरी भूचरी सिद्धास्साकिणी दिव्यरूपिणी || निवसंति महादेवि योगध्यान परायणाः | तत्र स्थान महारम्ये त्रिकोणे दिव्यमंडले || चंद्रविंवगुहास्रें वा चंद्रकांति समप्रभं | तत्र तिष्ठंति सा देवी कुमारी शुक्रवाहिनी || पूर्वसिद्धा महादेवि मुनीनां च तपस्विनः | मुनिः क्रोधशुचपल महारौद्र वरं प्रिये || दिव्यं वर्ष सहस्रं तु तपमाराधितं कृतं | क्षीणगात्र महावृद्धे वायुभक्षमनोन्सनं || ऊर्द्ध्वदृष्टि निरीक्षेत स्थित्वा चांतमुखं प्रिये | दृष्ट्वा तु देवदेवेशि शुक्रदेवि महातपे || घूर्मावस्थागतो देवी मुनिभिर्दिव्य तेजसा | ज्ञानसंक्रामनं दिव्यं कृत्वा देवां वरानने || प्. १०६ब्) कामदेवगतः साक्ष्या दिव्यरूपधरास्तुते | कामेश्वर्या प्रभावेन द्रवन्वं भवते तदा || द्वौवीजावेकतः कृत्वा रुद्रयामलसंभवं | दिव्यतेजोत् कटं देवि दिव्यकाम फलप्रदं || ज्ञानयोगवलौत्कर्षा कृत्वा तेन वरानने | लक्षपादाधिकं देवि रुद्रयामल संहृतः(?) || स्वस्वभाव स्वयोगेन(?) वागीश्वर्यां प्रभावकं | तस्य पुत्रम्महादेवि कौलीशं तु वरानने || तेनावतारितं दिव्यं ज्ञानं परमदुर्लभं | कर्मसंसारवंधानां नराणां कथितं प्रिये || पुनरन्यं प्रवक्ष्यामि देवतानामनुत्तमं | कामेश्वर्यावतारं तु परिवारेन संस्थितं || हृल्लेखा क्लेदनी कंट्य(?) क्षोभयेत् म * नातुरा | निरंजना रागवती तथान्या मदनावती || खेचरा द्रावनी चैव तथा वेगवती स्मृता | एकावसैता देव्यास्तु मदनो द्वादश स्मृता || चक्रव्याप्तं महादेवि षट्कोणं वह्निमण्डले | अरकैरतरालैश्च पूजयित्वा वरानने || पार्श्वे तु मदनं दिव्यं पूर्वारांत व्यवस्थितं | मध्ये कामेश्वरी देवीं पूजयेद् दिव्यमंडले || एकादशाक्षरा विद्या वज्रप्रस्तार चोद्धृता | मदनं सरसंयुक्तं गुरुवक्त्रगतं प्रिये || कामं वंतगकं देवि रतिशुक्रं वरानने | वामदक्षिणकं पूज्य द्वारपालं तु सुव्रते || प्. १०७अ) देव्युवाच || कथयश्च महानाथ देवतालक्षणं परं | स्थानविश्रांति परमं संज्ञा चैव पृथक् पृथक् || भैरव उवाच || शृणु देवि प्रवक्ष्यामि देवतानां च संविदं | नामसंज्ञा स्वभावोस्था अध्यात्मं कथयामि ते || हृद्यात् सौसांतरगतं सामासोमार्कमंडलं | तत्रोदिता परा देवी हृल्लेख्या तु चिदास्क्षरी || शिवशक्तिस्तथा रुद्रा त्रिविधं क्लेदनो मयं | परामृतरसं सारं श्रवंती क्लेदनी मतं || षट्कोण कुहरांतस्थां शृंगाट परिमंडलं | विश्रांतवरनारावं तदानंदस्वनंदनी || इच्छाविच्चक्रमध्ये तु बोधयेद् गगनांतरं | तत्र कामकला नित्या क्षोभयेत् क्षोभनी स्मृता || शून्य द्वय समावेशाट्किवंद्रवति निर्भवं | यदा पूर्णे पूर्णमासा तदा सा मदनातुरा || महायोन्यांतरं चक्रं त्रिकार रससोद्भवं | निरंजना तत्र मध्ये उदिता बोधभास्करी || वह्निभास्कर योर्मध्ये चंद्रविंवं गुहांतरे | कामिनी रसहोत् कृत्वा तदाराश्रवती प्रिये || कामं कामांतरगतं काममंडलमध्यगं | चर्चितं ह्लादमतुलं मदनावति संकुलं || आनंदस्यंदिनी देवी या रसा सर्वगामिनी | खकला सा तु विज्ञेया चंद्र तु गर्भस्य गर्भिणी || प्. १०७ब्) त्रिधागोदयमध्ये तु विश्रांतं रविमंडलं | बंधयेच्चित्कलाचंद्रं द्रवितं द्रावणी स्मृतः || चंद्रस्य यो भयलिंगं मथितं मन्मथोदितं | यथानुभाव दिव्योघं तदा वेगवती स्मृता || शिवचंद्रकलाभेदं गलितं मदनोदयं | तेनाह्लादित विद्धक्ति प्रशूतदिव्यमंकुरं || अंकुरा भेदभिन्नं तु नानाः प्रकृति संभवं | तदासौ व्यापको नित्यं मदनोत्मादरूपिणं || देव्युवाच || कथं वागीश्वरी दिव्या त्रिपुरं च कथं भवेत् | वाग्भवीति कथं देवी नित्या वै सव भोगिणी || भगमालिनि कथन्नाथ लिंगं त्रितय भेदिनी | कामेश्वर्या प्रभावं तु कथयस्व प्रसादतः || भैरव उवाच || अतिगुप्ततरं प्रश्नं सर्वनित्या समुद्भवं | दक्षिणं घोरमात्मायं कथयामि तव प्रिये || त्रिकमेदांतरं कुर्यात् स्फुरछृंगाटमंडलं | निःस्वभावोदयं यत्र तत्र वादोद्भवं प्रिये || चतुर्भेदा पराद्येन उदिता विश्वमालिनी | तस्माद् वागीश्वरी सा तु अष्टधा कुलभेदिनी || त्रिस्वभाव पराशक्ति विषकामनिरंजना | अलिंगालिंगिनी सा तु त्रिभेद परिकीर्तिता || त्रिपुरा सांतविज्ञेया निरानंदस्वभैरवी | चंद्रविश्वगुहांतस्था रेतोद्यरसवर्षिणी || प्. १०८अ) स्वानंद स्वस्वनित्या च लिंगभेद द्रवाविनी | शृंगाटमंडलांतस्था भगभोक्ष्याभगोदया || भगमालिनि ससानित्या पंचकारण भक्षिणी | इतरं विषमित्युक्तं कामवाणप्रकीर्तितं || स्वयस्तु बीजमुत्पत्ति त्रिधालक्षं जपं कुरु | पश्चाभिमुखभेदेन यस्य लिंगस्य यादृशं || ततं स्थानसमासृत्य कामैश्वर्या प्रवर्तकं | एवं तु कथितं देवि घोरदक्षिणमुत्तमं || पुनरन्यं प्रवक्ष्यामि आम्नाय द्यरमुत्तमं | शांतस्वरोदय पदं जन्माधारंति खंडिनी || तत्रोदिता देवि कला काली कौलिक भक्षिणी | कौलाचारं कौलगर्भं कौलादय त्रिकौलकं || तस्मात् कामेश्वरी देवी कुमारी कुलभक्षिणी | तत्रावतारं कृत्वा तु यत्र स्थानमसो मुनि || खंडिनी स्थानपरमं निष्क्रिय ज्ञानमुत्तमं | कथितं क्रोधराजस्य वेधसंक्रमणं कृतं || परमाम्नाय दिव्योघं कर्णात्कर्ण क्रमं स्थितं | श्लोकद्वानिर्भिन्नं संप्रदाय परिस्फुटं || गुरुवक्त्रगतं देवि स्वानुभूत्यैक लक्षणं | कालिः कंकलसंक्राम अनाक्षपदमुत्तमम् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे अष्टादश पटलः || श्रीदेव्युवाच || कालिभेद कथं नाथ द्वादशैव कथं स्मृतं | मुखाम्नाय कथं नाथ केनोपायेन संक्रमं || कथयस्व प्रसादेन येन तुष्याम्यहं प्रभो | भैरव उवाच || शृणु देवि प्रवक्ष्यामि कालिका क्रममुत्तमं | द्वादशैव परं भद्रे संप्रदायं वदाम्यहं || अविलुप्तपराव्याप्ति भेदभिन्ना तु स्वप्रभं | वाचामतीत विशांति योगनिद्रा गुरोर्मुखात् || लभते च महाज्ञानं विद्याराजेन सुव्रते | क्रोधराजेन विख्यातम् पश्चाद् विद्यां परित्यजेत् || कथयामि महाज्ञानं निक्रियं शृणु सुव्रते | रविप्रदीपको लोके सूर्यमध्याद्विनिर्गतः || रविरंतर्गतो भानु भासयत्यखिलं जगत् | भानवी कौलिनी या सा तत्पुंज परितं जगत् || तत्रोत्पन्ना महामंत्रा भैरवाष्टाष्टयोनयः | रविभानु मयी देवी कौलेशाकुल गह्वरी || क्षोभानंद विरामा तु पश्यते कुलसंतति | महाव्योमार्णवे शैवे भानवे कुंडमध्यतः || तत्र प्रलीनास्सर्वे ते भैरवाष्टाष्टयोनयः | भानवी कुंडमध्ये तु लयचक्रं स्वभावतः || विलीने स्वस्वभावाख्यं तत्स्वभावोदयं ततः | भावाभाव क्षयो क्षीणं पश्चिनोभ्यशरीरिणः || साचिदानिश्च भावत्वाच्छुर्याकुलिकृषोदरी | प्. १०९) तत्स्वरूपोदितं चक्रं चिद्भान्वर्क गति स्थितः | प्रतबिंबमिवाभाति विंवग्रासैक लंपटं || नकुलं कौलिनी शक्तिर्न स्वभावोदयं ततः | न संहारस्य संहारं दिव्यासौ सर्वभोगभुक् || इच्छा चिन्मात्र धर्मेण अपृथग्भाववर्तिनी | सृष्टिस्सर्व गतस्यैव संहारकथयामिते || रसेनानंदजं रूपं यदा ग्राह्य न गृह्यते | यदा प्रत्यस्तमस्तत्र स च तं वृत्ति गोचरं || क्षीणवृत्तिः प्रलीनत्वाज्जायते परमाद्भुतं | त्रिकोणंतत्रिकोणस्थं सुशिरं सुशिराप्रतं || शून्यशून्यसुखैलीनं चित्तं चित्तांतरो चितं | चिदनादि चिदाहानौ चुंवनादि लिहागृहं || कदेंद्रियाणि संयोज्य परस्परविधि क्रमे | हित्वा भावन्न गृह्नाति यद भावांतर चितिः || तदा तत्परमं ब्रह्म स्वस्वभावं प्रवर्तते | एतत् कौलामृतं सिद्धं योगिनीभिरुदाहृतः || निष्क्रियानंद पादैश्च भूतले संप्रकाशितं | देव्युवाच || कथितं कस्य वै नाथं निष्क्रियानंदभूतले | महाकालिक्रमं दिव्यं संक्रांतं कस्य संक्रमं || भैरव उवाच || शृणु देवि प्रवक्ष्यामि संक्रामं यस्य संक्रमं | शिलाचितिन्मुनिवरं तस्य पुत्र तपोधनं || योगाभ्यासरतं देवि सिद्धसावररूपधृक् | विद्यानंदेति विख्यातं महाधीरवरं प्रिये || श्मशानवासि नित्यस्थो निसाटन रतः परं | सिद्धयोगेंद्र वीराश्च चक्रचार रति प्रिये || शिवपीठं महादेवि श्रीसैलं देवता प्रियं | तस्य उत्तर दिग्भागे नानाशिखरपर्वतः || तत्र हेमं मयं दिव्यं गुहासिद्धसुरार्चिता | तत्राराधनतं कृत्वा विद्या स विरमुत्तमं || करोति भक्ति योगींद्रो निष्क्रियज्ञान वांछिनः | भक्तिस्तीव्रतरादिव्या कृत्वा सावररूपधृक् || तस्य तुष्टं मुनिवरं श्रीनिश्क्रियानंदमुत्तमं | अमोघवाणी तस्यैव संक्रामं कालिका क्रमं || वामाज्ञानं तु कथितं पंचषट्भूमिका क्रमं | तेषां भेदं च दिष्यामि शृणु सर्वं तु पार्वति || विभक्ताद् भव चक्रांतं गगनं गगनोदितं | द्वादशांक प्रभाकाली व्योमरूपाश्च भक्षणी || स्फुरत् क्षीणास्वरं नं तत्क्षीणं * दिव्यगोचरं | क्रमं संहारसंहारं पारंपर्यक्रमानुगः || स्वकुलं स्वकुलातीतं स्वपदं स्वपदांतरं | स्पृष्ट्वा कालिक्रमं दिव्यं उदितं ओंघमंडलं || उमन्मन पदांतस्थं चिदर्कोदय मंडलं | तद्भावभावितं रसं विस्वोघ स्फुरते क्रमे || भित्वा बोधपदं दिव्यं बोधभास्करवेचितं | द्रावितं चिन्मरीचीभिः पीत्वा तु रसमुत्तमं || प्. ११०अ) चित्स्वरूपपराकाशं सदसद्भाववर्जितं | तदंतरः सररसं पराकासं विजृंभितं || अतः स्वोल्लासविषय नाना वैचित्र्य चित्रितः | अविनासपरो कामि कालि तेज समुद्भव || अनंत सप्त विश्रांत गगनोदित चित्स्वयं | स्फुरत् तेजो विकासोघ संक्रामंति पशुं वला || भगभगपदातीत मतं तन्मतमुत्तमं | क्रमं कुलकुलाम्नायं योगिणी युक्ति गोचरः || कामं कामांतरं कामं तेजं तेजेषु मैथुनं | भोगभोगांतरं भोगं मतयुक्ति प्रकीर्तितः || रुद्रश्च रुद्रशक्तिश्च युगपद्मेन भक्तितं | स रुद्रं द्रावक खं खे कं का के कुलकौलिकः || शक्तिमंडद्रवांतस्थं भावयोगे शिवांतके | स पिंडस्सिद्ध्यते रूपी रूपालय पदांत कृत् || आलमूलोत्तरासंगवोत्तरोत्तरतांतरः | रुद्रशक्तिसमावेसान् सिद्धोक्तो मनसासने || गुरुवक्त्रगतं ज्ञान लभ्यते स्वमते मते | बोधभास्करविज्ञानं कर्णात् कर्ण क्रमे स्थित || अंतर्गगनयाकानित्संविदानंदनंदिनी | तत्स्वरूपपरोल्लास विकासं स्फुरत् कौलिनी || कौलकंकालकलया ग्रासघस्मररूपिणी | कालीकालांजनी भीमा द्वादशौदित भानवी || क्रमाक्रमपरं क्राम संक्रामं कालिकाक्रमं | स्फुरत्यंतर्गतो घर्मिरनाख्यं स्पंदमुत्तमं || चिदचिच्चक्रमध्यस्थो योगनिद्रानुभावितः | शून्यं शून्यांतरगतो न विंदति कुलात्मकं || अंतर्गलितचिद्वाम स्वभावपदसंविदः | अनौपम्य परोल्लास कालिचक्रविजृंभितः || ब्रह्मादि देवतास्सर्वान् भैरवांत प्रकीर्तितः | लीयते च परं तेज कालवह्निघनीकृतं || चिदाकासपरं गुह्यं ओं दितं कुलभास्करं | द्वादशार सुतेजाढ्यं भूरिसूर्यसमप्रभं || जीवस्य जीवसंजीवम्प्रकाशयति तन्मनं | ते नैव युक्ति भेदेन पसुं वधयते वलं || शिवाद्वामांतरं देवि सह मोदित भावं न | हठक्रम्य पराशक्ति वधयंस्मानविग्रहं || व्योमातीतं व्योमपदमुदितं भानवी क्रमं | ज्वाला सहस्र तेजोढ्यं त्रैलोक्यं ग्रासघस्मरं || त्रिधामादंयमध्ये तु चित्तेज परभावितः | निर्विषं विषमाक्रम्य कालकूटविभक्षितः || कुलं कुलं कुलाम्नायं रसं रससमुद्भवं | पदं पदपदातीतं स्थानकौलिकमुत्तमं || गर्भस्था गर्भणी गर्भा पंचगर्भ प्रसूयिनी | एकासिद्धि त्रयो नीच उद्योग क्रममालिनी || स्वरादि वर्णविमलं स्थानंरतविभक्षितं | तद्विश्राम पराभूमिः कालितेजः प्रकाशितः || बोधाबोधयते बोध स्वबोधान्य रवोधितं | चक्रचारविभेदेन संक्रामंति परस्परं || स्वभूमिभूमिमाक्रांत खेचन्मूर्द्ध खमुत्तमं | तद्वद्वीर्या वहासेन पिंडपिंडतरद्गतं || कालाकालस्वकालं च त्यक्त्वा विश्रांतयस्सुखं | तत्सुखं क्रीडते योगी स्पृष्ट्वा चित्तेज मण्डलं || रूपारूपांतरं रूपं स्वरूपं रूपवर्जितं | भावाभावविनिर्मुक्तं सर्वतौदित निष्कलं || तत्रोदिता परा देवी काली कङ्कालभक्षिणी | कंकालकंदलम्पात्रं पीत्वा व्योमामृतोद्भवं || घूर्मिता वमिता ये च तेन विश्व समुद्भवं | निजधामस्वरूपस्थो योगीयोग वलावृतः || कंदकंदरसो कृष्य महाक्रमविचारकः | परंभुक्त्वा परंपात्वा परं दृष्ट्वा परोद्भवं || एवं समरसं भूत्वा कालिक्रमं विचारकः | कल्पांतकल्पितं कल्पं कुलकल्पविकल्पितं || कालिचक्रमभेदं च उदिता व्यक्तमंडलं | स्थूलसूक्ष्म तथा शून्य त्रिचैतन्य लयद्गतः || तत्रधामोदिता काचिद्विश्वाख्य समरीधिनी | बिंदुनादक्षये क्षीणे स्थाने चित्पदमंडले || भावयेद् दिव्य योनी च सिद्धानां पंचगर्भिनी | महाकाल कलांतस्था कालचक्र करीकला || प्. १११अ) तेन कालीति विख्याता कंकालकालभक्षिणी | भावाभवसुभावस्य विच्चक्र चिदचर्वितः || स्वादसंबोध ह्लादेन स्फुरत् कालिक्रमोदयः | भ्रमद्भ्रमरनिर्घोषं लीयते यत्परे पदे || तत्रोद्गलित योगेंद्रो योगिणीनां प्रियो भवेत् | विश्रांतबोधविमलो वेधयेत्कस्वमंडलं || कुलकालि विभेदेन निस्रोनि क्रममाश्रितं | कुलकालि विभेदेन निश्रोनि क्रममाश्रितं || गर्भादिवद्गर्भ पदं भगभंभगद्रावकं | महाचित्कमलानंदं विकसद्बोधभास्करं || हास्यलासविलाघा ततद्भ्राम्य भ्राम्य चोदकं | वीरादारहता कर्ष कालि पूजा क्रमोरुहः || हानादानविभेदेन त्याग ग्रहपरिक्षये | नरीक्षमानतत्वज्ञो ज्ञानार्कसंप्रकाशयेत् || विश्वाकारोदितं चक्रं विश्वा स्थित्यावभास्रकं | विश्वसंहारियं तेजस्तस्तेजो ग्रासघस्मरः || विविधेन विमार्गेन हठाक्रम्य मनुक्रमं | करोति क्रमिको योगी सद्योगी योगिनी प्रियः || खपक्षभक्षरी भक्षकक्षऽक्षीणाक्षलक्षगः | स्फुरद् घूर्मिरतानंद नित्यादित विजृंभितं || स्वस्वबोधपरामृक्ष भावाभाव विपर्यये | प्. ११२अ) विश्रांतसुत्कचिद्युक्ता गुरुवक्त्रा तुरभ्यते | नाधोनोर्द्धेन मध्ये वा न वाह्ये भ्यंतरेपि च || विस्मृतस्मयते यत्र तत्र कालि क्रमोदयः | श्रीनिष्क्रियानंदनाथेन सावरसैव भूतले || उक्तापंचासिका देवि कालिकाक्रममुत्तमं | देव्युवाच || श्रुतं देवमया सर्वे कालिकाक्रमपद्धतिं | सिद्धसंदोहविज्ञानं पारंपर्य क्रमागतं || अद्यापि संशयानाथ त्वयोक्तं प्रश्नपूर्वकं | द्वादशार्क प्रभाकाली नामसंज्ञा कथं भवेत् || एतदाख्या हि मे नाथ मंत्रपूजा समन्वितं | भैरव उवाच || शृणु देवि प्रवक्ष्यामि रहस्यं कालिकागमं | गोपनीयं महाभद्रे तथापि कथयामि ते || सृष्टिकालि स्थितिकाली संहारं च तृतीयकं | रक्तकाली च चतुर्थी च सूकाली पंचमी स्मृतां || यमकाली तथा षष्ठ मृत्युकाली च सप्तमी | अष्टमी भद्रकाली च परमार्का नवस्मृताः || महामार्तण्डकाली च दशमी परिकीर्तितः | एकादशी रुद्रकाली महाकालि द्वादशी || एतद् भेदक्रमं देवि नामसंज्ञा प्रकीर्तिताः | स्वभावा स्वस्वरूपा च व्योमांते व्योमभक्षणी || ह्रीं श्रीं मंत्रेण संपूज्य द्वादशारे सदोदिता | मध्ये तु परमा देवि कुमारी कुलभक्षणी || प्. ११२ब्) द्वादशांतं तु संपूज्य पूर्वोक्त विधि वल्लभे | गुरुपंक्ति तथा पूज्य पारंपर्य क्रमागतं || वाह्ये तु मध्य पृष्ठे च एवमेव क्रमं न्यसेत् | भैरव उवाच || पुनरन्यं प्रवक्ष्यामि पश्चिमान्वयमुत्तमं | कुलपर्वकुलोद्भूतमकुलं कुलवर्जित || स्थानं तत्रोदिता देवि पिद चिच्चिश्चिनी स्फुटं | ओघमोघ कलानंदं स च गर्भविनिर्गतं || तस्मात् कुब्जेश्वरी देवी कुमारी कुलभक्षणी | कृत्वावतारं देवेशि नुग्रहार्थं वरानने || चंद्रद्वीपावतारस्य निर्गता परमेश्वरी | कथितं देवदेवेशि संक्षेपान्न तु विस्तरं || श्रीकुब्जिकामतसारोयं विस्तरं कथितस्वया | जन्माम्नाय रहस्यं तु चतुघरसमन्वितं || कथितं परमं दिव्यं महिस्नेहाद् वरानने | पुनरन्यं प्रवक्ष्यामि सिद्धकीर्तिमनुत्तमं || त्रिगर्भोदय नाथस्य शृणुकीर्ति वदाम्यहं | मात्रीवनेन महास्थाने चिंचिनी येन पाटितं || पुनश्चोत्थापनं कुर्या कीर्तिख्यातिमनुक्रमं | द्वितीय कीर्तिनाथस्य बिल्ववृक्ष विदारितं || पुनश्चोत्थापनं कुर्याद् दिव्य कौलेन सुव्रते | तृतीयं कीर्ति नाथस्य विद्याधरसुपाटितं || गुटिका ग्राहयेद् देवि क्षिप्त्वा चैव महातपे | तडागे चिंचिनी नाम्ना स्नात्वा खगति माप्नुयात् || प्. ११३अ) विद्याधरंनुग्रहीतं पश्चात् तत्रैव सुव्रते | खेगतिः कुरुते तेन कीर्ति स्यात् परमेश्वरी || अन्यानि च तडागानि कृत्वा नागवरं प्रिये | अनुग्रहीतं फणि वरं वितंकटनु नामकं || अखंडमण्डलाकारं आज्ञासिद्धि प्रकीर्तितं | शतयोजनकं देवि पशुं वेधयते क्षणात् || एवं तु कथितं देवि सिद्धकीर्तिमनुक्रमात् | पुनरन्यं प्रवक्ष्यामि अधिकार त्रयं प्रिये || ओवल्लि त्रितयं देवि शृणुस्वायत लोचने | त्रिमूर्तिं च त्रिगर्भं च षट्प्रकारमुदाहृतं || क्रमसंतति कृद् देवि ज्येष्ठमध्यववालकं | पुनरन्यं प्रवक्ष्यामि षट्श्रोतस्यैव लक्षणं || शब्दं स्पर्शं तथा रूपं रसं गंधाश्च पंचमं | मनः षष्ठविजानीयाच्छोतव्यं तत् प्रकीर्तितं || मया तु व्यापिनी शक्तिस्सर्वदेहांतरे स्थिताः | षट् प्रकार गता सा तु षोडशाधारभेदिनी || पंचव्योमांतरे देवि त्रिलक्षपथमध्यगा | षट्चक्र व्यापिनी सा तु सर्वभाषमन स्मृता || नाडि मध्यगतं वायु वायुर्मध्यगतं नभं | नभो मध्यगतं शक्तिः शक्तिमध्यगतं शिवः || शिवात् परतरन्नास्ति इत्याज्ञा पारमेश्वरी | पुनरन्यं प्रवक्ष्यामि पंचप्रश्नैव निर्णयं || प्. ११३अ) मंडलोत्तारणं देविम्मंडलं मडलक्रमं | मंडलार्तिं तथा देवि सप्ताविंशति मण्डलं || प्रवक्ष्यामि समासेन शृणुस्वायत लोचने | मंडव्रजनमित्युक्त स्वरूपोत्तरणं प्रिये || विश्राममंडलं ज्ञेयं क्रमानंदक्रमोदयं | अर्तिं प्रकाशविज्ञानं क्रमाग्रेन तु योजयेत् || एवं विधविधानेन सर्वसिद्धारहो भवेत् | मंडले मदनन्नाम पश्चिमे सिद्धि पूजयेत् || उत्तरे सहजन्नाम भावमंडलपूर्वकं | अभावमंडलन्नाम दक्षिणं दिशि पूजयेत् || क्रममंडलमध्ये तु पूजयेत् पंचकं तथा | अनंतं महतं व्योम शून्यं अखंडमण्डलं || त्रैलोक्य घटपूर्णं च अक्षयं च तथैव च | प्रभामंडलसूर्यं च सोममाग्नेय मंडलं || पंचरत्न त्रिकोणं च पंचतत्व पुनः प्रिये | पंचव्योमं त्रिधाशून्यं आत्ममंडलमेव च || व्याप्ति मण्डलकं देवि अजपविजयं तथा | कुलकौलं गुरु सिद्धं योगिणी मंडलं प्रिये || एवं विधिविचारेण नाम भेद न सुव्रते | पूजयेत् क्रमवाक्यं तु इत्याज्ञा पारमेश्वरी || ईषत् पक्वसुपिष्ठेन कुर्याद् वेदा गुलोन्नतं | दीपां तु मरुकाकारां त्रिकोणांनति शोभनान् || कर्षाज्यग्राहिणः कुर्यान्नव सप्ताथ पंच वा | प्. ११४अ) अंतस्तेजो वहिस्तेज एकीकृत्य मितप्रभान् | त्रिधादेव्य परिभ्राम्य कुलदीपं निवेदयेत् || समस्तचक्रचक्रेशि युते देवि तथांविके | आरात्रिकमिदं देवि गृहाण मम सिद्धये || कुलदीपान् प्रदश्याथ शक्तिपूजां समाचरेत् | पुनरन्य प्रवक्ष्यामि दीपभक्षणपूर्वकं || अर्घपात्र क्रमं देवि शृणु वक्ष्यामि सुव्रते | चंद्रसूर्योदयांतस्थं दीपं विश्वावतारकं || उद्दीप स्नेहममृतं परानंद रसोद्भवं | सुखवर्ती छया देवि धारणा धारमण्डले || ज्ञानदीपं स्वविमलं बिंदुनालोकभाषकं | तत् तेज तेजयेत् तेज वाह्य दीपं प्रकाशयेत् || सालिचूर्णेन संस्कृत्य दापयेत् क्रमसन्निधौ | सुसृष्टन्निर्मलं शुद्धं स्नेहपूर्णं सुशोभणं || पूजयेच्च विधानेन क्रमेण क्रमवल्लभे | तुष्यंति खेचरी सिद्धा महाभैरवभैरवी || दीपं प्रज्वाल्य देवेशि सन्निधानं भवंति हि | गीतवाद्यं तथा नृत्यं स्तोत्रभक्ति परायण || अष्टांग प्रणिपातेन प्रार्थयेच्चरुकं प्रिये | ग्रहयेच्च पुनर्देवि वंदयेच्च मुहुर्मुहुः || प्राशयेद् दिव्य चरुकं परं सौभाग्यदायकं | जन्मांतरगतं पापन्नाशयेच्च वरानने || पश्चाद् दीपं प्रवक्ष्येत परादृष्टि निरीक्षतं | द्वौतेजो एकत कृत्वा कृतकर्म दहेद्ध्रुवं || वस्त्रमाछाद्यजत्नेन निर्विघ्नं च यथा भवेत् | तद्य तु भक्षयेद् दीपं यो मार्ग प्रकाशकं || शालिचूर्णेन कर्तव्यं गुडसेन्व च संयुतं | व्योमावर्तं त्रिकोणं वा उछ्वाया चतुरांगुलं || अथवा त्र्यंगुलं देवि त्रिकोणं कारयेत् प्रिये | सर्वविघ्नोप्रशमनं सर्वदुःखनिवारणं || सर्वोपतापसमनं क्रमदीपं समुद्धरेत् | कुमारी पूजितं देवी श्यामवर्णं सुलोचनं || व्योमासनस्थं घूर्मांतं वीरपानपरिप्लुतं | पूजयेत्तविधानेन पुष्पसग्दामभूषितम् || चतुर्भुजामेकवक्त्रा त्रिनेत्रं दिव्यरूपिणी | इदृग्रूप धरां देवि चिंतयेद् व्योममण्डले || कुमारीं सुकुमारीश्च कुलकौलक्रमागतं | प्रार्थयेद् विविधै स्तोत्रैरष्टांगैः प्रणिपातयेत् || पश्चादाज्ञा गृहीतं तु दीपं प्रज्वाल्य सुंदरीं | तद्वक्त्रोदिततत्तेज तत्तेज दीपमुच्चरेत् || क्रममण्डलदातव्यं सन्निधानं तु देवतां | करोति विविधाकारा भुक्तिमुक्ति फलप्रदा || वामालामा तु साकिन्या खेचरी भैरवी स्मृता | नृत्यमाना तु ता देवि प्रकाशक्रममण्डलं || एवं विधि क्रमायातं कथितं दीपलक्षणं | गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् || प्. ११५अ) पालनात् समयाचारा सिद्धिर्भवति सास्वती | पात्रं तु अलिना पूर्वं शिवपुष्पसमन्वितं || उभयानंदजं देवि यदि योग्या भवेत् सुखी | देव्युवाच || ज्योती च कीदृशी नाथ कर्तव्या साधकेन तु | कथयस्व प्रसादेन * ये निःसंशयं भवेत् || भैरवोवाच || ज्योती च सुभगाकाया शीलशुद्धा तपस्विनी | स्वभावरतसा नंदा सुक्राद्या शुभगा प्रिये || क्षेमाशीला क्रितक्रोधा सत्यवाक् प्रियवादिनी | क्रमभकाक्रमरता क्रमवेध क्रमोदया || क्रमचार रता देवि सुश्वार क्रमवर्तिनी | सुगुप्तायागकाले च समयेद्यदि पुष्पिता || तदा सिद्धिमवाप्नोति इत्याज्ञा पारमेश्वरी | पुनरन्यं प्रवक्ष्यामि निग्रहानुग्रहं प्रिये || पिंडाधारं पिण्डगर्भ पिंडांतं पिण्डनिर्गतः | तत्पिण्डव्यापकं विश्वं सर्वं जानाति सर्वगं || संचारक्रमभेदेन संक्रामंति परस्परं | मुखाम्नाय रहस्यं तु योगिनी संप्रदायकं || महामंथानमथितं कालचक्र विभेदितं | स्वस्वराणि च तेजोंतु चिंचिणी क्रमसंस्फुरं || स्फुरन्मानोघ विमलं परमात्मा स चेषणं | निरावेश स्वरूपेण स्पृशेद् दिव्योघमंडलं || यन्मुखं जयते भद्रे तन्मुखंनुग्रहं परे | प्. ११५ब्) निग्रहं संप्रवक्ष्यामि मंत्रभेदेन सुव्रते | देव्यानामादि वर्णं च उद्धृतं परमेश्वरि || उलकं सहवर्णं च पंचविंशयुतं प्रिये | तेजरूढं वायुयुतं रुद्रशक्ति समन्वितं || अर्द्धेंदु विन्दसंयुक्तं बीजं संहारमुत्तमं | सुधिवर्णं त्रिधा कृत्वा सर्वेषां वरवर्णिनी || अति दीर्घं त्रिययुक्तं मंत्रं त्रिदशमुत्तमं | देव्यामाद्यक्षरास्सर्वं पानुजेन समन्वितं || तेन युक्ता महादेवि एकादशसमन्वितं | श्रीपूर्वेण समायुक्तं देव्यानामसमुच्चरेत् || एतन्मंत्रवरं दिव्यं मंत्रमंत्रेश्वराधिपं | महासंहारसंहारं देवं त्रिभुवनेश्वरी || निग्रहं षट्कमित्युक्तं विश्वग्रासेक लंपटं | बीजोभयं च षट्कं च वक्ष्यामि तव सुव्रते || द्वादशांतर्गता शक्ति बीजरूपा तपस्विनी | सृष्टिसंहारभेदेन ह्रस्वदीर्घ क्रमोदयं || द्वादशस्वरभेदेन ह्रस्वदीर्घ परिप्लुतं | ह्रस्वषट्कञ्चन्द्रक्रमं दीर्घसूर्यमिति प्रिये || उभयं बीजषट्कञ्च कथितं तव सुव्रते | इति श्रीवाराहीतन्त्रे दक्षिणाम्नायनिर्वाणपदे उनविंशति पटलः || १९ || भैरव उवाच || पुनरन्यं प्रवक्ष्यामि चरुमुद्रां च वल्लभा | दृष्टिपात तथा दिव्यं शृणुवक्ष्यामि सुव्रते || चुल्लस्थानं तु संसोध्य गोमयेनोपलेपितं | प्. ११६अ) अर्घपुष्पं ददेद्धूपं तिलसर्षप प्रस्तरेत् | प्रक्ष्याल्य चरुकं दिव्यं संस्काराग्निं प्रदीयते || कपिलाक्षी लमादाय तण्डुलं शोभनं क्षिपेत् | अथवा ये नद्द्रव्येण चरुकं साधयेत् प्रिये || उत्तमाधममध्येन निर्विकल्पेन साधकः | कर्तव्यं दिव्यचरुकं पुनप्रक्ष्याल्यते प्रिये || लेपनं शोभनं दत्वा पुष्पधूपार्घमर्चये | वस्त्रमाछाद्ययतेन आनीतं यागमंडपे || अस्त्रमंत्रेण प्रोक्षत स्वमुद्रां वन्दयेत् प्रिये | परा दृष्टि निपातेन सर्वविघ्ननिवारणं || क्रममण्डलनैवेद्यं मूलमंत्रेण साधकैः | पश्चादाज्ञा गृहीतं तु चरुकं ग्राहयेत् प्रिये || शिरश्च वत्कमाछाद्य तदा चरुकमाहरेत् | सर्वविघ्नविनाशायं सर्वपापक्षयं भवेत् || अचिरात् सिद्धिमाप्नोति इत्याज्ञा पारमेश्वरी | पुनरन्यं प्रवक्ष्यामि नित्यनैमित्यलक्षणं || चिच्चक्रचर्चिता नित्यं चरुभक्षारति प्रिये | विश्रांत्रोत्पदसंचार नित्यमेव प्रकीर्तिता || सर्वसंपूर्णचिद्धृत्ति भावयेत् स्वस्वमण्डलं | यावन्न किञ्चित्तज्ञेय भल्लयी भूतविग्रहं || बोधभास्करमारूढनैमित्तिकमुदाहृतं | पुनरन्यं प्रवक्ष्यामि प्रश्नानाञ्चतुर स्मृतं || दीक्षा ज्येष्ठं स्थान ज्येष्ठां आज्ञा ज्येष्ठं तृतीयकं | क्रमं ज्येष्ठं चतुर्थं हि अधिकं कोत्र उच्यते || प्. ११६ब्) दीक्षानिर्वाजनगर्भे आज्ञासंस्फुर नित्यसः | स्थानं विशांति परमं जीवमुक्ति क्रमं लभेत् || एवं विचारयेद् देवि ज्येष्ठानुक्रमकारकः | तस्मात् सर्व प्रयत्नेन क्रम ज्येष्ठा हि पूज्यते || पुनरन्यं प्रवक्ष्यामि शृणु स्वायत लोचने | दीपं चरुं च पुष्पं च अर्घपात्रविधि क्रमं || कीदृशस्य च दीर्ये तत् साधकस्य वरानने | शिष्यस्य च सुवीतस्य गुरुभक्तस्य धीमतः || स्रद्दधानस्य वीरस्य जितक्रोधस्य निस्पृहंः | सत्यवाक् प्रियवादिन्य अभयं भय भावितः || क्रमभक्तानुभावा च त्यागी धर्म परायण | बिन्दुनादान्तर गतज्ञान योग सदात्यसः || विनयी देवता सक्ता अष्टांग प्रणिपातित | यज्ञपाजीनित्यरंत स्वाध्यायी च तपस्विनाः || समयाचार युक्तस्य गुरुवाक्यरतस्य च | नित्यानंद स्वभावज्ञो धीरो वीरक्रमान्वितः || युक्तं युक्तरतं दिव्य चक्राछिष्टस्य भाजनः | सिद्धसंतानपारज्ञा पश्चिमाम्नाय भाजनः || क्षेमापरश्च तेजस्वी धैर्यवान् बोधभास्कर | मानावमाननिर्मुक्तो वीरद्रव्याभिलासिकं || शीलसंकेतनिरता दिव्यकौलविचारकः | ईदृशस्य तु दातव्यं चरुदीपं वरानने || पुष्पक्रमविधानेन येन सिद्धारहो भवेत् | देशिकः सिद्धिमिछंति तदा गुणविचारयेत् || प्. ११७अ) निर्गुणे यदि तदातव्यं सिद्धिहानिर्भविष्यति | तस्मात् सर्वप्रयत्नेन देशिकश्च विचारयेत् || पुनरन्यं प्र्वक्ष्यामि शृणुसम्यक् वदाम्यहं | एकादश प्रस्नपरं त्वयोक्तं प्रस्नपूर्वकं || वक्ष्यामि तव देवेशि पश्चिमान्वयमुत्तमं | क्रमज्ञानं क्रमज्ञोयं क्रमलकृं क्रमोदयं || क्रमभेदं क्रमोद्दां चक्रमातीतस्तु कृष्यते | क्रमसिद्धि क्रमाभ्यासमकुलं च कुलं तथा || एतद् वक्ष्याम्यहं भद्रे वल्लभात्वद्वरानने | प्राणापानद्वयोन्मध्ये यत्किंचिदुपलभ्यते || क्रमज्ञानं विजानीयात् स्वरूपस्थोपलक्षणं | तस्मानुभवभावेन तल्लयी कृतविग्रहं || यदा न विंदते किंचित् क्रमज्ञेय * दा भवेत् | या दृष्टि दृष्टि तत्वानां भेदत्रयविवर्जितं || सा दृष्ट्वा सर्वगायेन स योगी क्रमलक्षकः | वस्त्वंतरं वस्तु शून्यं भावग्राह्य भवाद्भवं || भावाचारचरं नित्यं तत्वचारं क्रमोदयं | षट्प्रकार क्रमं भेद विमलं सर्वतोदयं || विशुद्धि षोडशै भेदैर्द्वादशैस्तु अनाहतं | दशभिर्मुनिभिर्भिन्नं स्वाधिस्थानं षडात्मकं || आधार भेदाश्चत्वार आज्ञा भेदं द्विकन्तथा | एतद्भेदवरं श्रेष्ठं क्रमभेदं समुच्यते || क्रमोघ शृणु देवेशि यथा सम्प * दाम्यहं | विद्याधरोत्तर गते अनुगर्भेश्च मण्डलं || प्. ११७ब्) व्यापकं व्याप्तिमकुलं चिंचिनी स्फुरविग्रहं | क्रमोघं क्रमसंतानं शिवशक्ति समुद्भवं || संतुराज्ञा स्फुरंति च वेधयेन् मातृमंडलं | हृदयं योगिणी पद्मं प्रस्फुरं जीवमंडलम् || ह्लादयेच्चेतना शक्ति परतत्वन् प्रकाशयेत् | पंचतत्व लयं तत्वा द्रावितं व्योममंडलं || लब्ध्वा तु हृदयानंद पंचावस्था प्रवर्तते | आनंदोश्चोद्भवः कम्प निद्रा घूर्मिस्तु पश्चिमः || तत्वविद्वस्य देवेशि पंचावस्था प्रवर्तते | देव्युवाच || अवस्था कीदृशी नाथ स्वानुभावं कथं भवेत् | कथयस्व प्रसादेन येन तुष्याम्यहं तव || भैरव उवाच || शृणु देवि प्रवक्ष्यामि अवस्था लक्षणं शुभं | आनंद जननं पूर्वं पराह्लादंतरः सुखं || दिव्योघ ऊर्द्धरोमानि आज्ञासिद्धि प्रवर्तते | मरीचि चक्र द्रवितं नाभिरंध्रविकाशितं || द्धनिष्टम्पप्लवो नित्यं हास्यरावं प्रमुच्यते | एषावस्थोद्भवा योगी आज्ञासिद्धि प्रवर्तते || द्वासप्तति सहःस्राणि नाडीरंध्रप्रपूरयेत् | स्वानंदाघन दिव्येन महापिण्डं प्रकम्पयेत् || व्योमवद्भ्रमते भूमौ भववंधविमर्दयेत् | कम्पावस्था भवेद्ध्येष आज्ञासिद्धि प्रवर्तते || सर्वभावपरित्यज्य शांतभूमौ समाविशेत् | प्. ११८अ) ग्राह्यग्राह्यग्रहाश्रेष्टा व्योमव्योमांतर स्थिता | तदा ह्लाद परानन्दा योगनिद्रात्मबोधकः || निद्रावस्था भवेत् ह्येष आज्ञासिद्धिः प्रवर्तते | चतुर्भिवस्थासंतृप्तो योगी ब्रह्माण्डभेदकः || परानंदरसे पूर्णं पुण्यमानापि नित्यसः | आज्ञासंक्रमणं दिव्यं नित्यानंदकरं परं || एषाघूर्मोदयावस्था आज्ञासिद्धिः प्रवर्तते | अवस्था कथितं देवि रुद्रशक्तिः प्रभावतः || रुद्रशक्तिसमावेशात् सिद्ध्यते स्वात्ममण्डलं | अनाख्यं च निराभाषं त्रितत्वं च निराश्रयं || अव्यक्तमण्डलांतस्थं क्रमातीतं क्रमोदयं | विकाश्य नयनोन्मेष यत्र दृष्टिर्निरीक्षते || तत्र भाव परिक्षीणे क्रमभ्यासस्य उच्यते | सर्वसंकल्पक्षीणेपि नित्यानंदः प्रवर्तते || निवर्तते चित्स्वभावं मोक्षलक्ष्मीश्च सिद्ध्यति | अव्यक्तमंडलं ज्ञेयं व्यक्तिजस्य न लभ्यते || पंचभौतिकनिर्मुक्तं मकुलं च प्रकीर्तितं | तस्य छाया पराशक्ति शुद्धातद्धर्म धर्मिणी || सा कुलेति समाख्याता परानंद फलोदया | पुनरन्यं प्रवक्ष्यामि संज्ञा भेदस्य लक्षणं || आतुलनवसंकेत कुकारत्रितमेव च | नुग्रहं षट्कविज्ञेयाद् देवी संज्ञा च पंचकं || त्रिमूर्ति त्रिकसंज्ञा च पारंपर्यकसंज्ञकं | प्. ११८ब्) सप्ताविंशति संज्ञा च एतद् भेद वरानने || पुनरन्यं प्रवक्ष्यामि पर्वाणां चतुलक्षणं | कृष्णपक्षे तु अष्टम्यां फाल्गुणे पूजयेन् मुदा || ज्येष्ठ नाथस्य ओवल्लि वर्यानाथस्य संज्ञिका | तस्य पर्वाति तं देवि पूजनीय प्रयत्नतः || भुक्ति मुक्ति प्रदं देवि आज्ञासिद्धि फलप्रदं | तस्य पर्व इदं देवि सर्वछिद्रनिवारणं || निछिद्रो भवते सोपि देवता प्रिय नंदनः | चैत्रमासे तु चाष्टम्यां कृष्णपक्षे तु पूजयेत् || मध्यमा वल्लि नाथस्य पद्मानंदस्य खेचरः | तस्य पर्व इदन्देवि सर्वछिद्र निवारणं || विज्ञान लाभ परमं देवतानां प्रियो भवेत् | सिद्धसाधनमर्त्यानां दातव्यं पूर्वपूजनं || कृष्णपक्षे तु अष्टम्यां श्रावणे पूजयेत् प्रिये | वालोवल्लि क्रमं सिद्धः कमलन्नाम सुन्दरि || पर्वऽसौभाग्य जननं पूजनीयं प्रयत्नतः | पर्वणस्तस्य माहात्म्यं शृणु वक्ष्यामि सुव्रते || सिद्धखेचरमातॄणां वामा * ला तु साकिनी | वीरामुक्ते शिखारौद्री गौरीकामसुखा स्मृता || एकनेत्र त्रिनेत्रा च चतुर्वक्त्रान्यनेकधा | विडाली सिंहवक्त्रा च नानारूपधर प्रिये || तुष्यंति सिद्धिमिछंति साधकस्य वरानने | एकाचान्वय वीराणां आज्ञासंस्फुरिता भवेत् || प्. ११९अ) दुःखशोकविनिर्मुक्तं भोगमोक्षफल प्रदं | दोषदारिद्र्य समनं पर्वचैत्र प्रपूजयेत् || त्रयोवल्लिक्रमं दिव्यं सर्वं च कथितं प्रिये | पुनरन्य प्रवक्ष्यामि आज्ञाशिष्यस्य लक्षणं || देशिकेन प्रदातव्यं साधकस्य वरानने | आज्ञाभिषेक देवेशि शृणु वक्ष्यामि लक्षणं || त्रिप्रकाराभिषेकं तु कुलं तत्र क्रमं प्रिये | आदौ तत्र क्रमं वक्ष्यदभिषेकं तु देशिकैः || दातव्यं साधकेंद्रस्य वक्ष्यामि तव पार्वति | यागणेहं तु संसोध्य भूमिभागं सुशोभनं || कृत्वा तु देशिकेंद्रेण यागं प्रस्तार्य सुव्रते | मांगल्यं सर्वतो भद्रे तत्र पूजां तु कारयेत् || कलश पंचभिः पूज्य तोयपूर्णं वरानने | सर्वोषधि समायुक्तं सप्तव्रीहि समन्वितं || वचाकुष्ट हिरण्यं च सर्षपातिलमेव च | सहदेवेन संयुक्तं लाज्यपुंगहलान्वितं || चंदनं रक्तमैल्लेप्य अर्घपुष्पादि पूयकं | मंत्रमूर्ति तथाभ्यर्च्य कलषं पंचकं प्रिये || हिरण्य रौप्यताम्रं च अलांबुन्मृमयं कृतं | पूजयेद् देवि केंद्रैस्तु एकचित्त समाहितः || स्वस्तिकं मंडलं कृत्वा पंचरत्न युतेन्द्रिय | तत्रोपविश्य देवेशि पूर्वाभिमुखसाधकं || अद्यार्घ पंचभिर्देवि कलसं पंचसंयुतं | गीतवादित्रसंयुक्तं शंखदुंदुभिरेव च || प्. ११९ब्) मङ्गलं मङ्गलार्थञ्च गीयते च वरानने | पश्चादभिमुखाचार्यं अभिषकं तु दापयेत् || यज्ञोपवीतकं ते च पादुका दीयते प्रिये | स्वस्तिकञ्चाक्षमाला च होमभाण्ड तथैव च || समयो श्रावयेत् पश्चाद् गछत्वं देशिको भवः | पशुनिस्तारणं कृत्वा भूतमार्गे चराचरे || तंत्राभिषेकं कथितं कुलाचार्यस्तु कथ्यते | शृणु देवि प्रवक्ष्यामि वस्तु योगं सुशोभनं || चतुष्कोणं चतुर्द्वारं क्षेत्रपालसमन्वितं | मध्ये तु वर्तुलं कृत्वा लोहितं भ्रामकारयेत् || तत्पृष्ठपट्टमादाय वस्त्रेण छद्यसुव्रते | पुनलोहितवस्त्रेण तत्पृष्ठे पूजयेत् कुलं || मध्ये कुलेश्वरी देवी कुलनाथेन संयुतं | पश्चात् कुलाष्टकं देवि पूजयेच्च प्रसन्नधी || अष्टाष्टकं ततः पूज्यं सिद्धसंतान पूजयेत् | क्षत्रपालं तु वटुकं विघ्नशं तु वरानने || एवं क्रमविचारेण कुलपूजां तु कारयेत् | पश्चां तु पूजयेद् देवि अष्टौ कलषपंक्तिभिः || मघादि वीरद्रव्येन पूजयेच्च वरानने | जायफलं पुंगफलं बिल्वं चैव हिरण्यकं || सहदेव वचाकुष्टं सर्वोषधि समन्वितं | सिद्धार्थकं तथा व्रीहि चूतपल्लवसोभितं || चंदनैः कुंकुमैलेप्य अर्घधूपसुगन्धिभिः | प्. १२०अ) पुष्पैर्नाना विधैर्देवि अर्चयेत यथाविधिं || ब्रह्माद्या देवताश्चाष्टौ कलशे पूजयेत् प्रिये | ह्रीं श्रीं मंत्रेण संपूज्य अष्टोत्तरशतं जपेत् || देवता पूजयेच्चाष्टौ अलिफल्गुषभोजनं | स तृप्ता तु वरारोहे नानाभोजनभोजितं || सानंदं नृत्यमाना च सर्वाभरणभूषिता | अकाररावरवकामुक्तकेशावरानने || कलषग्राहयेद्दस्तौ समाविष्टवर प्रिये | साधकस्याभिषेकं तु दत्वा च वरवर्णिनि || गछपुत्र कुलाचार्य विचरत्वं महीतले | अनुप्रहं च मर्त्यानां यथेछं कुरु देशिकः || भुक्ति मुक्ति प्रदन्नित्यं देवताकुलयोगिनी | ददंति साधकस्यैव इत्याज्ञा पारमेश्वरी || कुलाभिषेकं कथितं रहस्यं परमं पदं | पुनरन्यं प्रवक्ष्यामि कर्माचार्याभिषेचनं || आज्ञासिद्धि प्रदं नित्यं दिव्यस्पर्श स्वरूपकं | कथयामि न संदेहो वल्लभत्वाद् वरानने || स जीवमीनयुक्तेन सुरया पूरितेन तु | पंचामृतेन संपूर्णं शंखेन कलशेन वा || पूजिता तु कुमारीभिराम्नायघरसंतति | कुलेश्वरी कुब्जिका च काली कामेश्वरी स्मृताः || पुष्पधूपसुगंधैश्च चंदनै कुंकुमैः प्रिये | तांबुलवदनै दिव्यैर्नाना भोजनभोजितः || मुक्तकेशा कुमारी च कलशं स्थापयेत् प्रिये | प्. १२०ब्) साधकस्य वरारोहे आज्ञासिद्धि प्रदायकं | गछ पुत्र महाप्राज्ञा आज्ञासंस्फुरिता भवेत् || यजनैः सतमात्रेण पशुवक्षेयसे क्षणात् | वाह्य तु कथितं देवी अध्यात्म शृणु सुव्रत्रे || मीनं तु लंबिका देवी रुद्रं कलषमुच्यते | अलिनामृतसंपूर्णं शिष्यंतनाभिषेचयेत् || मीनाख्यं मीनपादौ सा तस्मात् तेनाभिषेचनं | अयं सिद्धाभिषेकं तु आज्ञासिद्धि प्रवर्तते || इति तत्कथितं देवि अभिषेकस्य लक्षणं | दीक्षितस्य स्वशिष्यस्य योगिणी तिलकांकितं || नामं कुर्याद् वरारोहे पूर्वनामाक्षरैर्युतं | आवलीनां प्रवक्ष्यामि मातृका भेदमुत्तमम् || अ प्रभूतानन्द || आ लोकानन्द || इ ललितानन्द || ई प्रतिमानंद || उ चपलानन्द || ऊ सिंहानन्द || ऋ ऋक्तानन्द || ॠ लीलानन्द || ऌ क्लिन्नानन्द || ॡ लोचनानन्द || ए शुभगानन्द || ऐ मन्मथानन्द || ओ परमानन्द || औ विजयानंद || अं खेचरानन्द || अः भषानन्द || क कुलानन्द || ख सुशिवानन्द || ग गगणानन्द || घ संपूर्णानन्द || ङ शिखानन्द || च मात्रानंद || छ भुवनानंद || ज परमानंद || झ वक्त्रानंद || ञ तेजानंद || ट वामानन्द || ठ भासुरानंद || ड मदनानंद || ढ रुद्रानन्द || प्. १२१अ) ण शवरानन्द || थ वैराग्यानंद || द देवानन्द || ध संख्यानंद || न वितानन्द || प सूक्ष्मानन्द || फ सर्वानन्द || व सिद्धानन्द || भ भास्वरानन्द || म मरुतानन्द || य योगानन्द || र चितानन्द || ल रूपानन्द || व असितानन्द || श भोगानंद || ष नक्तानन्द || स किराणानन्द || ह ज्ञानानंद || क्ष ज्वलितानंद || संस्थाप्यकुलनामैवं कुलद्रव्यं तु दापयेत् | कुलाभिषेचनं पश्चात् कर्तव्यं निर्विकल्पतः || क्रमदीक्षा समाख्याता आज्ञासिद्धि प्रवर्तकं | महासंसारपापौघामाचरं तु करं परं || इति ते कथितं देवि आज्ञाशिष्यस्य लक्षणम् || इति श्रीवाराहीतन्त्रे दक्षिणाम्नायनिर्वाणपदे विंशति पटलः || २० || भैरव उवाच || पुनरन्यं प्रवक्ष्यामि षड्रसं देहसंस्थितं | पंचरत्न परं देवि वीर्यं प्रत्ययलक्षणं || रक्तं मांसं वसामेदो मज्जाशुक्र तथैव च | षड्रसं देहसंधिं तु आहार्यं सर्वसिद्धिदं || इछारत्नं तु प्रथमं द्वितीयाकायसंस्थितं | तृतीयं ममृतं संज्ञा चतुर्थं वैन्दवं स्मृत || पंचमं परमानन्दं सुखसंदेह कारकं | एत रत्नमयाख्याता मंत्रवीर्यं शृणु प्रिये || गसपवन देवेशि इन्द्ररूपवरानने | षष्ठस्वरसमायुक्तं बिंदुमस्तकभूषितं || प्. १२१ब्) एते मंत्र वरादिव्या अमरिगोत्रमुद्धरेत् | वीर्यपूजाविधानं तु शृणु स्वायत लोचने || ह्रीं श्रीं ऐं ह्रीं फ्रें यरूं क्रों आं क्लीं ऐं प्लूं नित्यमदद्रवे हूं हं हीं नीलपताका नीरवाराहि नित्यायै स्वाहा || मंतपूजा विधि प्रोक्तं पंचरत्नानि सुव्रते | पुनरन्यं प्रवक्ष्यामि आहार्यं प्रत्ययं तथा || यस्य रत्नस्य यं स्थानं आहार्यं तत्र सुव्रते | तत्र श्री भवते सोहि तदा व्याप्ति प्रवर्तते || देव्युवाच || भाषासंकेतकं नाथ लक्षणं च वदस्व मे | यथा सम्यगहं वेत्मि स वाह्याभ्यंतराणि च || भैरव उवाच || शृणु देवि प्रवक्ष्यामि भाषासंकेत लक्षणं | स्थानानि क्रमभेदं च खेचरी कृत विग्रहं || कुवाकुषी कुवैः कुर्या कुभे कुक्षे कुलि क्षमः | अष्टौ संकेतकं भद्रे पारंपर्यत्वमावतः || पाकहा भाकहा देवि आकहा गुकहा तथा | मकहामंकहा देवि नोकहा तंकहा तथा || अष्टसंकेतकं भद्रे योगिणी मुखसंस्थिता | स वाह्याभ्यंतरं देवि शृणु स्थानि * वक्ष्यसे || कुकारे कुब्जिका देवि अष्टसंकेतसन्निधौ | स्थानानि तव पूज्यत स वाह्याभ्यंतराणि च || वा शब्द वमते नित्यं स्वपचीघरपूजितं | प्. १२१अ) सवाधारं तु तत्रैव स्थित्वा चांतरमालिनी | षीशब्दे शृणु देवेशि कुक्कशीघरपूजितं || तुर्यस्थानांतदर्गतं स्थित्वा चांतरमालिनी | वै शब्दं वषते देवि मांतंगी घरपूजितं || नाभि चक्रांतर गतं स्थित्वा चांतर | य शब्दे योगिणी स्थानं ओंवीघरमुदाहृतं || हृदये ह्यादि मध्यस्थं स्थित्वा चांतरमालिनी | तु शब्दे भुक्ति विज्ञेया घण्ठकीघर पूजितं || कण्ठस्थानं गतं देवि स्थित्वा चांतरमालिनी | क्षेशब्दे परमं क्षेत्रं वेश्याघर सुपूजितं || आज्ञाधारं तु तत्रस्थं स्थित्वा चांतरमालिनी | निशब्दे शृणु देवेशि त्रैलीघरसुनिर्मलं || ब्रह्मब्रह्मविलांतस्थं स्थित्वा चांतरमालिनी | क्षमास्थानं द्वादशांतं कंदकीघरपूजितं || वामास्थानवरं दिव्यं स्थित्वा चांतरमालिनी | एवं तु कथितं देवि अष्टौ संकेतदुर्लभं || खेचरी मतसंदेहम्पारम्पर्य क्रमागतः | पुनरन्यं प्रवक्ष्यामि योगिणीमुखसंस्थितं || पारुहापारुमूलं तु सवाधारोदयं प्रिये | कल्पपालीघरं तत्र स्थित्वाचांतरमालिनी || लोगहाभगमूलं तु स्पृष्ट्वा स्वयक्रमं शुभं | वचकीघरमाश्रित्य स्थित्वा चांतरमालिनी || आयातं सर्वतत्वानां जन्माधारं तु आहका | प्. १२२ब्) म्लेछीघर वलं दिव्यं स्थित्वा चांतरमालिनी | ओकहागुप्तविज्ञेयं जन्माधारं तु धीवरी || गृहं निर्वाण परमं स्थित्वा चांतरमालिनी | मकहा सर्वसंकेतं श्मशान हृदयं पर || योगिणीसंगमं तत्र स्थित्वा चांतरमालिनी | मंकहा मंगलं देवि कंथकूपं चतुष्पथं || क्षुत्पिपाशा परित्यागा स्थित्वा चांतरमालिनी | नाकहामेकवृक्षं तु नासाग्र परिकीर्तितं || विश्रांति सुखसंस्थानं स्थित्वा चांतरमालिनी | सुंकहाचुम्बकं देवि द्वादशांतं तदूर्द्धगं || कुमारी कुलभोक्ती च स्थित्वा चांतरमालिनी | आम्नायं कथितं देवि रहस्यं कौलिका गमे || पुनरन्यं प्रवक्ष्यामि छूष्मामेलापकं प्रिये | पीठसिद्धक्रमं स्थानं मातृमंडलमुत्तमं || गुप्तागुप्ततरं दिव्यं तर्जन्याग्रे तु संस्पृशेत् | तस्माछूष्मा विजानीयान्निर्दिष्टं कुलशासने || चलनं स्पन्दसंघट्ट विश्रांतगगनांतरे | लब्धामृतरसं दिव्यं पीत्वानंदमयो भवेत् || आनंदघूर्मविश्रांत तदा मेलापकं भवेत् | स वाह्याभ्यंतरं देवि प्रश्नं सारसमुच्चयं || शतं विंशतिकं देवि कथितं तव वल्लभे | देव्युवाच || प्. १२२अ) आसनं देवदेवेशि मतसारसमुच्चयं | महांतरि पंचकन्नाथ चक्रमक्ष्यन्यमेव च || क्षेत्रपालमहावीरः कथयस्व महेश्वरः | भैरव उवाच || अति प्रश्नवरं दिव्यं चिंचिनीमत संभवं | आसनं परमेशानि शृणु वक्ष्यामि सुव्रते || आधारशक्त्यानंतं च कालाग्निं च पुनस्तथा | बीजाकुल तथा देवि महार्णव तथैव च || प्रेतपद्मासनं देवि सिंहासनमतः फलं | सिद्धेश्वरं तथा गुह्यं नाभौ वीरेश्वरं तथा || हृदि कुलेश्वरं चैव कुलखं वातु कंठके | ललाटे नर्कनाथं तु एते आसनमुत्तमं || हृत्कमला कुलद्दीपा वर्वरावकुरूपिणी | महांतारी पंचमी च सर्वेषां विमलं ददेत् || पूजनीया महादेवि द्वारपारं वरानने | चतुर्भुजा एकवक्त्रा त्रिनेत्रा घोररूपिणी || गानासा भरणा देवी सर्वकुलविभूषिताः | महाज्वाला समाकीर्ण ऊर्द्धकेशाट्टहासिनी || खड्गत्रिशूलहस्ता च शक्तिमुद्गरधारिणी | दंष्ट्राकरालवदना गजचर्मोत्तरीयकं || नरांत्रमुंडमाला च धारितामलक प्रिये | रक्षितव्यं महास्थानं चंद्रद्वीपं वरानने || देवालयं सिद्धपूज्यं कुब्जिकास्थानमुत्तमं | अकचटतपयस वर्गविद्या प्रकीर्तितां || पूजनीया विधानेन अष्टौ देव्याष्टवर्गकौ | प्. १२२ब्) दिशा चाष्टौ तथा देवि पूर्वाद्यासुरसुंदरि | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही च तथा ऐंद्री चामुंडा च पराः स्मृता | एतद् देव्या मयाख्याता अक्षया च वरानने || पूजनीया विधानेन मंडलस्य तु वाह्यतः | भुक्ति मुक्ति प्रदातारं कुलदेव्याश्च पार्वति || वीरनाथ वलिर्देवि कथितं मंत्रमुत्तमं | वर्वरं पिंगकेशं च पिङ्गः पिंगललोचनं || दंष्ट्राकरालमत्युग्र कपालाभरणोज्वले | वकक्षेत्रपालमहाडामराधिपते वलिं || गृह्न २ लललल लुलुलुलु भक्ष २ वम २ पिव २ रररर रु रु रु घुरि लिलि ह्रां स्वाहा || पुष्पं धूपं च नैवेद्यं सर्वयत्कं च हा भवेत् | देव्युवाच || श्रुतं देवमया सर्वं मत्तनामुत्तमोत्तमं || चिंचिनी मतसारोयं त्वत् प्रसादात् मयाश्रुतं | अद्यापि संशयो नाथ हृदि मे वर्तटे स्फुटं || कथं वीरवृतन्नाथ कुमारी व्रतमेव च | तदाख्या हि च मे नाथ प्रसादं कुरु सत्कर || भैरव उवाच || शृणु देवि प्रवक्ष्यामि कुमारी व्रतनिर्णयं | चमरं खर्परं दिव्यं धारितं परमेश्वरी || दक्षवामधृतारसु कृत्वा व्रतमनुत्तमं | देव्युवाच || चमरं कीदृशं नाथ खट्परं चैव कीर्तितं || कथं स्थाने व्रतं कुर्यादेतदाख्या हि मे प्रभो | प्. १२३अ) भैरव उवाच || शृणु देवि प्रवक्ष्यामि संक्षेपा न तु विस्तरं || खट्परं पूर्वकथित चमरं शृणु सुव्रते | सर्वाधारोदिता देवि ककंदर परा कला || चारचक्र प्रवाहेन भेदयेत् परमं पदं | त्रिधामोदयमध्यस्थं द्रावितं चित्कलामृतं || चर्चितं चर्चिकाम्नायं तस्माच्चामरकत्प्रिये | धारिता परमा देवि कुमारी ब्रह्मचारिणी || कामाख्यपीठमध्ये तु व्रतमाचरितं प्रिये | द्वाभ्यां सखी परा देव्या वल्लभा परमेश्वरी || दिव्यरूपा कुमारी च रूपिकारत्नसुंदरी | चमरं धारयेद् रत्ना खट्परं रूपसुंदरी || मध्ये तु खेचरी देव्या चंद्ररेख तडिज्ज्वलं | चर्याचार्यं समुच्चार्यं दिव्योघ क्रममंडल || अचलेति पदं दिव्यं चंचलेति पद द्वयं | पवनेति महावेगे निर्मांसे व्योमभक्षणी || चरुकं च दिसिंही च भाषितं च मुहुर्मुहुः | स्थाने स्थानेषु गंतव्यं क्रीडाकुलमनुत्तमं || एतद् देवि मया ख्यातं कुमारी व्रतनिर्णयं | पुनरन्यं प्रवक्ष्यामि वीरव्रतमनुत्तमं || निसाटनं वीरधरं हस्ते पाकरसंयुतं | देव्युवाच || पाकरं कथितं नाथ संक्षेपान्न तु विस्तरं || भ्रांति ज्ञानविनाशाय सर्वसिद्धारहो भवेत् | भैरव उवाच || शृणु देवि प्रवक्ष्यामि वीरपानकलक्षणं || प्. १२३ब्) स्वप्रकाशप्रबोधेन चारसंचारचर्चितं | भवच्चेदं परोल्लास विश्रमंति पदं परं || व्योमातीत परायुक्ति कौलोपायेन संविदः | व्यक्तव्यक्त पदं दिव्यं तत्र पाकजसंस्मरेत् || भगमध्य चिदाकारं रविमध्य रति प्रिये | द्वाभ्यां मध्य शिवः साक्षात् तत्र पाकरसंस्मरेत् || अंवरांतर्गतं देवि भानवी कलसंस्थितं | जीवादिभ्योदितं यत्र तत्र पाकलसंस्मरेत् || गत्वा स्वरूपं दृष्ट्वा च क्रोधश्च भगसागरं | द्रावितं च महाघोर पीत्वा सह स भैरवं || वीरे वीरवरश्रेष्ठ संचरंति चराचरं | न भयं विद्यते तस्य यस्य मुक्ति स्वयं विदः || परादेव परावस्था स्वभावः सर्वगोव्ययः | वदंत्ययन्नंतो वीर कुलकोलाधिपः प्रभोः || कथितं देवदेवेशि वीरपाकरलक्षणं | देव्युवाच || श्रुतं देव मयासर्वं मतसारसमुच्चयं | अद्यापि संसयो नाथ मंत्रविद्या दशस्व मे || वत्त्री साष्टरिकन्नाथ बीजपंचकमेव च | खटिका भवप्रस्तारं वदस्व मम शंकर || भैरव उवाच || शृणु देवि प्रवक्ष्यामि मंत्रविद्या समुद्धरन् | भूप्रदेशे समे शुद्धं अलिना लेपयेत् प्रिये || पुष्पधूपवलिं देवि मद्यनैवेद्यमुत्तमं | प्रसन्न वदनो भूत्वा उद्धरेद् बीज पंचकं || प्. १२४अ) वाग्भवं प्रथमं देवि मायाबीजं द्वितीयकं | श्रीबीजं तु तृतीयं स्यात् चतुर्थं शृणु सुव्रते || पानजं वह्निमारूढं एकादश युतं प्रिये | बिंदुयुक्तं परं देवि योगिनीबीजमुत्तमं || सृष्टिसंहारसंयुक्तं चतुर्दश युतं प्रिये | कादियुक्तं परं देवि पंचमं बीजमुत्तमं || बीजपंचकमेतद्धि सर्वसाधारणं प्रिये | नमो भगवति पदमुद्धृतं प्रथमं प्रिये || संहारं सृष्टिसंयुक्तं पानजं तेजसंयुतं | एकादशं बिंदुयुतं एकत्रं सप्तमं प्रिये || श्रीकुब्जिकेति पदं दिव्यमेकादश प्रकाशितं | संहारं च तृधा कृत्वा तेन युक्तं वरानने || द्वितीयं स्वरबिंदु च प्रथमं परिकीर्तितं | चतुर्थस्वरसंबिंदुं द्वितीयं बीजमुत्तमं || चतुर्थस्वरबिंदुं च तृतीयं वरवर्णिनि | चतुर्दश परं बीजं उद्धृत्य परमेश्वरि || ङ ञ ण नमेति पदां कोन विंशति उद्धरेत् | अघोरमुखेति पदं चतुर्विंश वरानने || छां छीं ति परमं दिव्यं किणि किणि पदं परं | विच्चेति मंत्रसंदोहं द्वात्रिंशद्वर्णमुद्धृतं || एकवक्त्रेश्वरी देवी सर्वकामफल प्रदा | पूजते सर्वदेवेभ्यो लोकपाला महावलाः || ब्रह्मेंद्रविष्णुरुद्राणा नित्यं पूजयते प्रिये | जप्यमानाधिपं दद्यात् खेचरत्वं प्रयछति || इति श्रीवाराहीतंत्रे दक्षिणाम्नाय निर्वाणपदे एकविंशति पटलः || २१ || प्. १२४ब्) भैरव उवाच || दक्षिणाम्नाय वक्ष्यामि महावीर्या महावला | अघोरभैरवो दृष्ट्वा निश्वेशी च निलं गला || निरालंवेश्वरी नित्या अघोरंतछिवं विदुः | सिंहासन गता नित्या निशेशी रक्त चर्चिका || चैतन्य भैरवी केचिद् रक्तकालीति केचन | सुंदरी कालिका केचिदघोरेश्वरिकेन च || ध्यानरूपं तु वक्ष्यामि भैरव्यायाम्यदिग्स्थिताः | नित्या निरंजनिरता निःश्रेशी निर्गुणाश्रया || क्रतु नाराधिता देवि धर्मराजाय वै पुरा | संप्रदाय क्रमेणैव देवी चैतन्य भैरवी || चतुर्वेदासना देवी महाफेत्कारसंस्थिता | प्रज्वलंती चिता मध्ये दक्षिण्ये दक्षदक्षया || अलात चक्रवद्यस्या भ्रमंती शिरमालिका | स्नायु लक्षाकृशांगी च अस्थिचर्मवशेविता || व्याघ्रचर्म कटि वृता नरचर्मोत्तरीयका | सहस्रादित्य संकाशां तप्तकांचन संप्रभम् || पंचवक्त्रा चातिभीमा त्रिपंचनयनैर्युता | इषद्धास्य ललज्जिह्वा निम्ननाभि कृशोदरी || विकलालासनख्याता चक्र वक्त्रासन स्थिता | रौद्री भया पराघोरा चंद्रार्द्धकृत केतना || वर्वरार्द्धमुक्तकेशी नागराजविराजिता | प्. १२५अ) कवंध उष्णीष युता ब्रह्म शीर्षशिखामणि | सद्यश्छिन्न गलद्रक्तः शिरोमालाविभूषिता || भुजषोडशसंयुक्ता गजकंचुककिंकिणी | पाशांकुश कपालं च खट्वांगं मुण्डत्रिंडिमं || खड्गफेटवाणधनु चक्र दण्डकमंडलुं | अभयं वरदं चैव तर्जनी विधृता करैः || मुदिता सिद्धिमधुना शक्तिभिऽपरिवारिता | हुं हुं हुंकार नादेन त्रासयन् देवता गणान् || ऋग्यजुसामथर्वाख्या वेदस्योपरिस्योपरि | शवरूपी महादेव हृदयोपरिसंस्थिता || निःश्रेशी सामदोग्रा च सिंही दक्षिणका | प्रचण्डा उग्र चण्डा च उग्रतारा कपालिनी || त्वरिता छिन्न शीर्षा च बगलावाक्प्रदायिनी | नीला सरस्वती भीमा त्रैलोक्य डामरेश्वरी || त्रैलोक्य विजया चंडी रक्तचामुंडि भैरवी | तस्यांग देवताः सर्वे वहुभेदा महोज्वला || जंभिनी स्तंभिनी तारा मोहिनी अंधिनी शिवा | दक्षिणाम्नाय देवेशी नानाभेदविसारिणी || ब्राह्म्याद्याष्ट भैरवाष्ट क्षेत्रपालाष्टमेव च | स्वक्षेत्रनाथं वटुकं गणेशं योगिनी गणा || एकाविभिन्ना रूपा सा समयाक्षत्रनायका | अघोरस्य गणा सर्वे नाना पारिषदा वृता || प्. १२५ब्) महाचंडाट्टसंराव पूजयंतो दिगं तथा | वेताला वहुला तत्र डाकिनीगणसंवृता || वाललीला समापन्ना निशाचर गणावृता | दण्डपाशे धरद्यता सर्वसाधकसिद्धिदा || शाकपुष्कर द्वीपेषु साधकाभेददर्शिनी | चौहारेगंकरे पीठे योनिमण्डलमार्गगा || वामाचाररता पूज्या ह्यणिमाद्यष्टसिद्धिदा | सूत्रीयता मया प्रोक्ता दक्षिणाम्नाय तां गत || नीलवाराहिका ध्यानं कथयामि तवाधुना | नीलतोयदसंकाशां नीलकुंडलशोभिताम् || नीलपुष्पविभूषाढ्यां नीलालंकारभूषितां | नीलांगवागसंश्छंतां नीलवैडूर्यमालिनीं || इन्द्रनीलनिवधांशु महार्घमणि भूषणां | नीलवाजिसमारूढां नीलखड्गायुधां पराम् || निद्रापटेन नीलेन भुवनानि चतुर्दश | मोहयति महामायां द्रव्यनिंदकभक्षिणीं || वीरपानरतां वीरां पालयंतीं समं ततः | संकेतमंडलं दिव्यंश्चादयंती स्ववाससा || परमानंदवपुषीं परमानंदभैरवीं | परमानंद जननीं प्रणमामि परांविकां || मायालक्ष्मी द्वयस्यांते नमो भगवतीति च | माहेश्वरि स्वरूपांते सर्वपशुजनेति च || मनश्चक्षुस्तिरकरणं कुरु द्वंद्वं च ठ द्वयं | तथान्यतितस्करणीं लज्जां कामेश्वरीं ततः || प्. १२६अ) वाणीं ग्लौं तिरस्करिणीं सकलजनेति वै ततः | वाग्वादिनीति सकलपशुव्रत जनेति च || मनश्चक्षुः श्रोत्रजिह्वा घ्राणे क्षितिरस्करणं | कुरु द्वयं ठ द्वयं च सविसर्ग शिरोमनुः || उग्राम्नायमुत्तरं तु कालिकाकुलसंभवा | कोटि कोटि प्रमदोस्ति कालिकातीर्वनायिका || आज्ञासिद्धि प्रदा देवी विष्णुतेजोपवृंहिता | नारायणी महाकाली जगद्रक्षण तत्पर || कालिकालि महाकालि चण्डयोगेश्वरीति च | तिष्ठ शृछन्स्मरन्नित्यं मुच्यते महतो भयात् || आब्रह्मस्थावरांता च कालेन कलयंति च | तं कालं कलयेत् काली ततः सा कालिका स्मृताः || आनेग चक्रचक्रेशी नाना भेदो महागमा | शक्यते कालिका देव्या देवा ब्रह्मादयोपि हि || तथापि लेशमात्रस्तु कुमारीं क्रमत शृणु | नीलवर्णा महाकाली त्रिमुखानवलोचना || पीतं तु दक्षिणं वक्त्रं मुत्तरं पावकोपमं | मंडलं वितनेत्राश्च अष्टवाङ्की तनुद्धरा || पिंगलोर्द्ध जटाटोप चंद्रार्द्धकृतशेखरा | सप्ताविंशति मुंडंश्च रक्तविप्लुषसंयुता || अस्थिकुंडलशोभाढ्या मौलीकापालमालिनी | किंकिणी नौपुराराव वीरघंटारवोत्तमा || शिवाप्रेता समारूढा मुखशोनित निर्झराः | प्. १२६ब्) इंद्राद्या ब्रह्मविष्णुश्च रुद्रेश्वर सदाशिवः | पीतश्यामरक्तधूम्र श्वेताभा पंचकालकाः || वज्रदंडशक्तिशूल खट्वांगायुधधारकाः | तर्जनीमुखनिक्षिप्त्वा शिवाधस्था त्रिलोचना || वद्धपद्मासना देवी पीनोन्नत पयोधरा | वामहस्ते कपालं च रक्तपूर्णानि शोभने || धारयंति त्रिशूलं च शब्दं दक्षिणे करे | चक्रं च दक्षिणे हस्ते अंकुशं मुद्गरं तथा || वामे पाशं च खट्वांगं मृतवालं च धारिणं | चित्कला कलनातस्थां ज्योतिरूपाश्च केवला || निर्वाणपददातीता भावातीतामगोचरा | अस्मिन्मूर्तौ महादेव्या नववत्कानि पूजयेत् || वहुधा भेदरूपाणि कालिकाया महेश्वरी | आज्ञासिद्धि प्रदानित्या कौलमार्गप्रवर्तका || महाकुलालिकायाता विष्णुः कालित्वमागता | यस्याप्रभावामतुलं वर्णितुं नैव शक्यते || दुर्वासानारदोव्यासः वशिष्ठः कौशिकस्तथा | त्रिश्चतुः पंचकग्रेहादेकाहात् सिद्धिमागता || अनिमाद्या महासिद्धि तस्यांग सिद्धि यः स्मृताः | मोक्षदा सिद्धिदा काली निर्वाणेशीश्वरी शिवा || कैवल्यमेकासिद्धिस्या महाज्ञान प्रकाशिनी | साधको भैरवः साक्षाज्जरामरणवर्जितः || प्. १२७अ) धनदस्य समाभूमिन् न शक्रस्य प्रजायते | या भूति साधकस्यैव भवत्रैलोक्य दुर्लभा || पंचवक्त्रक्रमं देवी पंचकाल्यानुशासिता | गुह्यकाली महादेवी वैष्णवी ब्रह्मरूपिणी || वामदेवाश्रिता सर्वे महाभैरव कोटयः | गणेशवटुयोगिन्यः शतकोटि सहस्रका || भूतवेतालडाकिन्यो चेतका राक्षस खगाः | फेरवाकाकगृध्राश्च उलूका गरुडावकाः || शृंगालीकं कटियुगा नानारूपा महावला | आम्नायज्ञावदंतीह उत्तरं तु निरुत्तरं || अनेकशतसाहस्र श्रीनाथेनावतारितं | मंत्रं नानारहस्यं च जामलं लक्षसम्मितं || त्वनाभिमथनाद् देवी स्वकीय रसनापुरा | ब्रह्मांडं गर्भतस्तस्या जातं दिव्येत योनिना || तदारभ्य महेशानि कुजादेवीति विश्रुता | ज्येष्ठवालप्रभेदेन कुब्जि कालीक पूजिता || सद्योजातमुखोद्गीता पश्चिमाम्नाय देवता | कुब्जिका जगतामाद्या महाररूपिणी || अनंत देशिकः सेव्या नित्याशिवसमागतः | ज्येष्ठवाल प्रभेदेन वहुमार्गप्रवाहिनी || द्वात्रिंशता भेदयुक्ता कुब्जिका भैरवाश्रिता | वृषभे संस्थितं देवं खवर्णं रूपशोभितं || एकवक्त्रं त्रिनेत्रं च भुजाष्टादशधारिणं | डमरूं परशुं वाणं खड्गमंकुशवज्रकं || प्. १२७ब्) शंखं च वेणुवाद्यं च वरदाभयदक्षिणे | वामे खट्वांग शूलं च धनुः फेलकपाशकं || घंटाकलशवेणूं च अभयाभयनाशनं | पट्टेण वंधितं जानु वामोरुस्था च कुब्जिका || एकवक्त्रा त्रिनेत्रा च अरुणावर्णवर्णिता | द्विभुजावरदा देवी सिंहस्था भयसव्यसु || नागाभरणभूषांगी खंदेन्दुकृतमस्तका | वर्वरो केशपाशेन चारुपीनघनस्तनी || सर्वाभरणसंशोभा लक्षणेश्च सुशोभिता | एवं ध्येया कुजामाता पश्चिमाम्नाय भैरवी || तत्रैव वहु भेदोस्ति कुब्जिकाकुलमार्गता | विभिन्नसिद्धिनाथेन श्रीनाथेनावतारिता || कुजेशनाथ वीरेण कुजाम्नाय प्रकाशितां | नवात्मा श्रीशिखानाथ स्वछन्दललितेश्वरः || क्रमेशी च त्रिखंडा च महंतारि त्रिखण्डिका | त्रिशूद्धि उग्रचंडा च चण्डाचंडाकपालिका || अन्नपूर्णा कलाली च ज्वालामालिनि कामिनी | ब्राह्म्याद्यामातरगणा असितांगादि भैरवा || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव माहेन्द्री चामुंडासप्तमी स्मृता || अष्टमी च महालक्ष्मी एताः सर्वत्र पूजिता | असितांगो रुरुश्चंड क्रोधीशोत्मत्तकस्तथा || कपाली भीषणाख्याश्च संहारश्चाष्टमस्तथा | प्. १२८अ) षडाम्नाये प्रपूज्या वै मातृका सहभैरवैः | गणेशा वटुको क्षेत्र योगिनीसंघका स्मृता || डाकिनी भूतवेताल चेटिकागणसंवृताः | डाकिन्यादि महा * * षद्योगिन्यः प्रकीर्तिता || डाकिनी याकिनी घोरा लाकिनी काकिणी तथा | साकिणी हाकिणी प्रोक्ता याकिण्यः सप्तधारवः || संस्थिता देवता विद्या चरुरूपेण भैरवः | सद्योजातः साधिता सा कुब्जिका चक्रनायिकाः || अंगिरासाधिता विद्या दक्षाय प्रतिपादिता | रघुषाय ततो दत्वा ततो चंद्रा त्वयाय च || पार्थिवानां च सौम्यानां कुलदेवीति कीर्तिता | अनेक सिद्धिदा सर्वे क्रियां तु वहव स्मृता || दुर्वासाराधिता विद्या निराचारा कराश्रिता | वाममार्गे रतानित्या दक्षिणाफलवर्जिता || मकारपंचकैः पूज्या नान्यथा फलदा भवेत् | सौचाचारनिराचार निःकलंकानिराश्रया || अनिमादि महासिद्धि साधना छिघ्रसिद्धिदा | मोक्षदा भोगदा देवी कुब्जिका कुलमातृका || बहुधा वर्णिता देवि तवाग्रे श्रीमहादिषु | मंथानभैरवे चास्ति चतुर्विंशमतेषु च || सर्वचक्रेश्वरी नित्या सर्वाम्नाय प्रपूजिता | सर्वसिंहासनमयी ईशानासनसंस्थिता || परं ब्रह्मेश्वरी माया देवी नारायणी स्मृता | प्. १२८ब्) निद्राबुद्धि क्षमाख्यांति क्षुधा लज्जा स्मृति धृति | प्रज्ञाशांति प्रभाज्जातिमस्यापादांगुलीनखे || यस्यादृग्धातमात्रेण साक्षालक्ष्मी पतिर्भवेत् | यस्या वा कर्मसुरता यस्य मार्गानुसारिणी || राजाराजसमो भूत्वा सुरराजसमोपि वा | भुक्त्वा तु विपुलान् भोगान् नंते निर्वाणमाप्नुयात् || कदाचिद् योषितो भूत्ता कदाचित् पुरुषो भवेत् | विष्णुरूपेन सकलं दुष्टान् सर्वा विनाशयेत् || जगव्याप्तवती माया मोहयेत् ससुरासुरान् | अरूपारूपिणी भूत्वा सुंदरी कथयामि ते || पद्मरागप्रतीकाशं कुंकुमोदक संनिभा | सुभ्रवां च सुनेत्रा च सुस्तनी चारुहासिनी || कृशमध्य चतुर्द्वाहु खंडेंदु कृतशेखरां | त्रिनेत्रां सर्वभूषाढ्यां चारुवेशामनोरमा || पाशांकुशेक्षु चापं च पंचवाणधनुर्द्धरा | ब्रह्माविष्णुरुद्र ईशामं च मंडपादिका || सदाशिवाख्य पर्यंके संस्थिता परमेश्वरी | पराशक्तां सुंदरीति त्रिपुरेशीति गीयते || महामोक्षप्रदा देवी परं ब्रह्मस्वरूपिणी | बहुभेदा विशालाक्षी वहुरूपा प्रकाशिनी || कामेश्वरी रुद्रशक्ती पूर्णपीठावतारिणी | वज्रेशी वैष्णवी नित्या कामरूपनिवासिता || शाक्तीश्वरी भगेशी च जालंधर प्रतिष्ठिता | प्. १२९अ) ब्रह्माशक्ती समुल्लास पीठगह्वरविग्रहा || उद्यानपीठनिलया परं ब्रह्मात्मिका शिवा | सर्वचक्रेश्वरी सर्व पीठेश्री मंत्रविग्रहा || सर्वमंत्रेश्वरी सर्व देवेशी दिव्य विग्रह | उद्यानपीठ निलया परं ब्रह्मात्मिका शिवा || षडाम्नायेश्वरी नित्या निरंसानि परिग्रहा | नित्याषोडशविद्याया नवचक्रे व्यवस्थिता || नवचक्रेश्वरी नित्या नवकोणाग्रत स्थितः | त्रैलोक्य मोहनं चक्रं सर्वाशापरिपूरकं || सर्वसंक्षोभनं चक्रं सर्वसौभाग्यदायकं | सर्वार्थसाधनं चक्रं सर्वरक्षाकरं परं || सर्वकाम प्रदा चक्रं सर्वसिद्धि प्रदायकं | सर्वानंद मयं चक्रं नवमं चक्रनायिकां || सर्वैतद्वैन्दवे लीना तच्छ्री चक्रमुदाहृतं | त्रिपुरा त्रिपुरेशी च सुंदरीपुरवासिनी || श्रीमालिनी च सिद्धाम्वा महात्रिपुरभैरवी | अनेक देवतावृंद लीना चक्रेषु संस्थिता || वैन्दवे च त्रिकोणे च अंतलालेऽष्टकोणके | द्विदशारे च मन्वस्त्रे नागपत्रेषु सर्वतः || पत्रषोडशसंख्याते चतुरस्रे गुणस्पृहं | रेखायुक्त चतुर्द्वारे त्रैलोक्यं तत्र पार्वति || हिरण्य रजते ताम्रे मणोपत्रेथ भूर्जके | कौशेय स्थंडिले वापि दृष्टा तु प्रणमेत् प्रिये || प्. १२९ब्) सर्वतीर्थेषु सस्नात सर्वयज्ञेषु दिक्षितः | सर्वदः सर्वतसाक्षात् महेश्वर समो भवेत् || श्रीचक्रं कालयित्वा तु यो दद्यात् साधकाय च | भूचक्रं तेन दत्तं हि स शैल वनकानना || स वै महापाशुपतः सवै वैष्णवसत्तमः | सर्वदः सर्वदर्शी च ब्रह्मज्ञानी स वै सुधी || महादानानि ये प्रोक्ता मुनिभि ब्रह्मवादिभिः | तत्फलं लभते नूनं श्रीचक्रस्य प्रभावतः || कोटिलिंग प्रतिष्ठस्य यत्फलं समुदाहृतं | तत्फलं लभते नूनं श्रीचक्रस्य च पूजने || विष्णो हि * प्रतिष्ठायां फलं प्राप्नोति निश्चितं | हिरण्ये रजते ताम्रे मणौभूर्जे च पट्टके || अं किं भ्याधारयेद् यस्तु कले कंठे भुजेपि वा | यानि कानि च पापानि ब्रह्महत्या समानि च || मुच्यते सर्वपापेभ्यः श्रीचक्रस्य च धारणात् | पापाणि विलयं यांति ज्ञानाज्ञान कृतानि च || सर्वं स दह्यते शीघ्रं चक्रराजस्य धारणात् | भूतप्रेतपिशाचैश्च श्वापदै ब्रह्मराक्षसैः || डाकिनी साकिणीभिर्वा वीक्षितुं नैव शक्यते | महाक्रूरग्रहैर्वापि जन्मस्थान स्थितोपि वा || गोचरे लग्नगो वापि सर्वं शुभग्रहं भवेत् | अकालमृत्युं हरति सदासन्निहिता परा || परासन्निहिता तत्र किं कुर्वं न्यस्य देवताः | प्. १३०अ) श्रीचक्रधारयित्वा तु यस्तु प्राणात् परित्यजेत् | कीकटे चांतरिक्षे वा निखिद्धे कश्मलेपि वा || कृत्वा चेंद्रिय लौल्य न पापानि सुबहून्यपि | स कैवल्यं लभेन्नूनं न पूर्वजन्मभाग् भवेत् || यमदूता पलायंते दृष्ट्वा श्रीचक्रधारणं | ब्रह्मज्ञान न वा मोक्षः काश्यांवासः स्तनु त्यजेत् || श्रीचक्रं धारणाद्वापि त्रयो मोक्षस्य कारणं | सर्वदेवगणास्तत्र सर्वधर्मश्च तत्र वै || गंगाद्या सरिताः सर्वे पुष्पराद्या जलाश्रिताः | पुरुषोत्तममुख्याश्च क्षत्रानंदववरादयः || वाजिमेधादि यज्ञस्य फलत्वरिकलं भवेत् | वामदक्षिण योगेन सुंदरि द्विविधा स्मृताः || सुंदरी द्विविधा प्रोक्ता वामदक्षिणसाशने | अचिरेन भवेद् वामः सर्वकामान्न संशयः || दक्षिणाचार योगेन भिक्षुनां पारमा स्मृता | तदन्याचार योगेन आशुसिद्धिफलं लभेत् || वेदोक्तैद् दक्षिणाचारैः कैवल्यं केवलं फलं | अत एव महादेवि साक्षाद् ब्रह्मस्वरूपिणी || शब्दब्रह्मपरं ब्रह्म रूपिणी परमेश्वरी | शब्दब्रह्मविजाना हि साक्षावर्ण स्वरूपिणीं || षोडशार्णा महादेवी वाच्यरूपेण संस्थिता | तुरीया सा महाविद्या साक्षाज्जाग्रत् स्वरूपिणी || प्. १३०ब्) वक्त्रकोटि सहस्रैस्तु जिह्वाकोटि शतैरपि | वर्णितुं नैव शक्नोति श्रीविद्या षोडशाक्षरं || ब्रह्मविद्या स्वरूपा सा भुक्तिमुक्ति फलप्रदा | एकोच्चारण * देवि राजसूर्यस्य कोटयः || षोडशार्णा महाविद्या न प्रकाश्या कदाचन | विनागुरुप्रसादेन श्रीविद्या षोडशाक्षरी || दृष्ट्वा प्रजप्यते यस्तु स भक्षो योगिणी गणैः | श्रीगुरो कृपया लब्धा न प्रदाश्या कदाचन || विना गुरु प्रसादेन जपन्नैव कदाचन | श्रीगुरोकृपयालब्धा सर्वसाम्राज्यदायिनी || सुधातरंगिनी वेग शब्दचार्य दायिनी | सौभाग्य भोगसंपन्नो कलाकुशलदायिनी || भुवनत्रयसौभाग्यं त्रैलोक्यो कर्षणं तथा | परं ब्रह्मणि लीनत्वं ददाति जग उत्तमं || षोडशार्णा महाविद्या भुक्तिमुक्ति फलप्रदा | निःसरंति महाविद्या विस्फुलिंगा यथा प्रिये || साक्षात् संचिन्मयी नित्या विस्फुलिंगा यथा प्रिये | साक्षात् संचित् मयी नित्या ज्ञानमोक्षप्रदायिनी || महासंपत्प्रदाविद्या साक्षादक्षररूपिणी | षोडशार्णा महाविद्या श्रीविद्या कथिता पुरा || निधानां रक्षणं कार्यं चौरेभ्यस्तु यथा प्रिये | प्राणेनापि रक्षणीया श्रीविद्याषोडशाक्षरी || न देया यस्य कस्यापि देया प्राणप्रदायिनी | प्. १३१अ) राज्ञेराज्य प्रदेयानि प्राणेभ्योप्यधिकाय च | सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमथाधनं || ताम्रलक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् | सौवर्णं नंतफलदं अथासौ किं व्रवीमिते || वाला सा प्रथमा विद्या ततो वाग्मरवी स्मृता | संपत् प्रदाश्री प्रदाश्च ततो त्रिपुरभैरवीं || विंदुमालिनि * ल्लेखा हृल्लेखा श्रीपराकला | षट्कूटानवकूटा च लोपामुद्रा त्रिकूटिका || पंचमी पंचकामिन्ये विद्याश्री कामराजकं | षोडशार्णा महाविद्या सा वै श्री परमा परा || परायुक्ता च प्रासादः सांभवं समुदाहृतः | अणिमाद्या महासिद्धि अंतराय प्रकीर्तिताः || पंचसिंहासने देव्या महात्रिपुरसुंदरी | साक्षाज्जाग्र स्वरूपा च वैष्णवी परदेवता || सर्वस्वरूपिणी सत्या प्रकृति परमेश्वरी | सर्वजीवस्वरूपा च व्याप्य सर्वत्र संस्थिता || शिवशक्ति वयो नास्ति पुमान्नस्ती नपुंसकः | सर्वजीव स्वरूपा च दात्मलिंग स्वरूपिणी || सर्वोत्पत्ति हेतु भूता योनिरित्यविधीयते | सिंहासन स्वरूपाया ऊर्द्धाम्नाय मयोदितं || लेशमात्रं महादेवि साक्षाज्जाग्र स्वरूपिणी | प्रथमं पूर्ववक्त्रेन रूपं तत्पुरुषेन च || कथया मास प्राचिं तु सिंहासन महोद्धतं | प्. १३१ब्) नायिका रुद्रशक्तीर्या शिवं तत्पुरुषं परं | पूर्णेश्वरी महं गो सा पूर्वाम्नाय प्रकीर्तिता || चक्रेश्वर्यां तु वक्ष्यामि साधकानां हिताय वै | ध्यानं तु चित्ते धिष्ठाय ध्यातव्या परमेश्वरी || इंद्रनीलसमप्रख्यं दशदोर्द्दंडधारिणीं | वराभय करं रम्यं स त्रिशूलं कपालकं || डमरुं चाक्षमालां च शक्तीं चैव करांबुजे | इन्दु चापंशरं चैवं खड्गहस्तं सुशोभनी || महाप्रेतोपरिततौ सूर्य चंद्रासनास्थितां | प्रत्यालीढा त्रिनेत्रा च मुण्डमाला विभूषिता || वासुकी शंखपालौ तौ तौकर्णभूषतां गतौ | अनंतहारमालां च हाडालंकारभूषिता || विशाल प्रयनेत्रात्व चंद्रार्धकृतशेखरा | एषा पूर्णेश्वरी देवी हाहाराववर प्रिया || पूर्णेश्वरीति विख्याता साहंकारारजो युता | शिरौ पूर्णा लये पीठे लक्ष्मी वन श्मशानके || इंद्रे नाराधिता नित्या वहुरूपावतारिणी | पूर्वाम्नायति विख्याता पूर्वदेवर्षि पूजिता || ईश्वरी सर्वविद्यानां महाभाग्यभरावहा | नानारूपधरा नित्या वहुरूपावतारिणी || जयाजयंती विजया अजितानारसिंहिका | व्याघ्रेश्वरी कराला च राजेशी भुवनेश्वरी || प्. १३२अ) रक्तदंताविशालाक्षी कामेशी चंडमालिनी | विद्युज्जिह्वा डामरेशी नाटेश्री नृत्यनायिका || नंदी चैव महाकाल भंगिनी च कुलालिका | नवनाटेश्वरी तत्र चतुःपंचरसान्विता || वहुभेदा देव देवी भैरवाष्टक मातृका | नाटेश्वरेति विख्याता भैरवो चक्र पालकः || क्षेत्रविघ्नेश वटुक यागिणी मातृकाष्टकः | ब्रह्माण्याद्या प्रपूज्यंते कुमारी कामदा सदा || नृत्यमाने पुरा देवे भैरवो मातृभिर्वृतः | नृत्यभैरव नामा तु पूर्वचक्रे व्यवस्थिता || गणेशक्षत्र डाकिन्यो गणास्तत्पुरुषाश्रिता | वाममार्गैः समाराध्य न तद्दक्षिणतः क्रिया || प्लक्षद्वीपे कुशद्वीपे वहुधा च तदंवगा | वश्याकर्षस्तंभनं च सिद्धयत्वनिमादयः || मरीचिना समाराध्य शक्राय च प्रदत्तवान् | इत्येष पूर्वचाम्नाय प्राचि सिंहासन स्थिता || अधाम्नाय शृणुष्व त्वं सा वलीजिन मातृका | अशेषकर्म निर्माणा कलौशीघ्र फलप्रदा || बौद्धमार्गे निराटंकानिलङ्गं लनल प्रभा | आम्नायांतरसाराणि ख्याता सा वज्र योगिणी || त्रिवक्त्रा रक्तवर्णा च नृत्यपादा स वासना | त्रिनेत्रा मंडलं वीत हाडा भरणभूषिता || प्. १३२ब्) मुंडमालाविभूतांगी व्यालयज्ञो पवीतिनी | व्याघ्रचर्माम्वरां देवी सिंहचर्मोत्तरीयका || वैरोचनी वज्रपूर्वा वज्रघंठावर प्रिया | चतुर्भुजा प्रेतसंस्था वर्वरोर्द्ध शिरोरुहा || कर्तृकपालखट्वांगं डमरुं च धृताकरै | सौगतानुगमासाक्षात् कलौ शीघ्रफलप्रदा || इहैव फलदा नित्यारापवर्गफलप्रभा | सौगतानुगमा सर्वा नाना भेद समाश्रिता || कालचक्रं संवरं च हये ग्रीवाख्य भैरवं | योगांवरं च कालेशं शावली सौगमाश्रिता || इति श्रीवाराहीतंत्रे दक्षिणाम्नाय निर्वाणपदे द्वाविंशति पटलः || २२ || श्रीदेव्युवाच || यथा संसाधयेद् देव प्रयोगादि जगत्पते | साधकः संविभागेन तथा कथय शंकरः || श्रीसदाशिव उवाच || शृणु देवि प्रवक्ष्यामि यथासंसिद्धिसूचकं | येन संसाधयेद् वीरो वीराचाकुलसंतते || अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिछति | महापाटक कोटीनां भाजनं स भविष्यति || नातः परतरं देवि कुलमार्गस्य दूषका | तस्मात् सर्वव्ययेनापि प्राणांते नापि सर्वदा || कर्मणा मनसा वाचा पुरश्चरणमाचरेत् | वर्णलक्षजपेन्मंत्री हविष्यासी जितेंद्रियः || दिवा च ब्रह्मचर्येण रात्रौ कुर्याद् यथेछया | प्. १३३अ) पूजयेद् विधिना देवी मपंचक पुरस्कृतः | सांगं स परिवारं च तत्र नूनं न कारयेत् || दशांश हवनं कुर्या बिल्वपत्रै घृतप्लुतैः | छागमांसैस्तिमध्वक्तैर्देवी संतुष्ट हेतवे || तर्पयेत् सुधया देवी दशाशै हवनस्य वै | तर्पणस्य दशांशेन मार्जनं ह्यमुदाहृतं || तद्दशांशेन वै कुर्यात् कुमारी भोजनं महत् | कलौ चतुगुणं कुर्यात् पुरश्चर्यं तु साधकः || दीक्षा प्राप्यमकुर्याद् वै पुरश्चर्यां तु साधकः | दीक्षाप्राप्य न कुर्याद् वै पुरश्चर्या विलंवनं || आयूश्चंचलतां ज्ञात्वा स्वात्म श्रेयस्तु चिंतयेत् | दीक्षाप्राप्य पुरश्चर्या मकृत्वा म्रियते यदि || ब्रह्मभूता भवेन्नूनं शतवर्षमनाश्रये | चंद्रसूर्य परागे वा पुरश्चरण कारयेत् || स्पर्शान् मुक्तिं तु संपूज्य पुरश्चरणमुच्यते | दशांशं सर्वकर्माणि कारये पूर्वचोदितं || ततः प्रयोग कर्माणि शृणु वक्ष्यामि सांप्रतं | वीरदीक्षा न शक्ताय संपूज्य विधिवत् पुरा || श्मशान शिवदक्षे वा गृहे वावाहने स्थिता | दीपादि त्रिविधैन्नित्य महापर्वतपर्वणि नः || सत्यवाक् धैर्यसम्पन्नः कामक्रोध विवर्जितं | शक्तिसंहायसंयुक्तो वीरः संहायकोथवा || सहाय द्रव्यहीनाय भीक्षासी च निशागमे | सहस्रैकं जपेच्चादौ कायशुद्धार्थ हेतवे || प्. १३३ब्) देवी तुष्टा हुने चैव यथापूर्व मयादितं | ततो लक्ष जपेन्मंत्री दिवाचार विवर्जितं || भुक्तोर्द्धभावनाशक्ते संध्यायां शतमेककं | गायत्यां तु जपेद् युग्मं न्यस्त्वा चैव षडंगकं || ततो रात्रौ जपं कुर्याद् यथाशक्त्या क्रमेण तु | दशांशेन हुनेत् पश्चा मंत्रसंसिद्धिं हेतवे || होमांते कन्यका पूज्या कृतसिद्धि भवेद्ध्रुवं | अथवा द्विगुणं जाप्य यावद् वै सप्तवासरं || कुरादौ चाष्टमे सेवाद्धोमांते ग्रहशांतिकं | त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनं || वातादिसेकते शांति होमाद्रोग प्रमुच्यते | अष्टाम्यां च चतुर्दश्यां समारभ्य शिवावलि || भैरव उवाच || अथ विधास्य तंत्रस्थं सम्यक् षट्कर्मलक्षणं | सर्वतंत्रानुसारेण प्रयोगफलसिद्धिदं || शांति वश्य स्तंभनानि विद्वेषोच्चाटने तथा | मारणं च * ति संति षट्कर्मणि मनीषिणः || रोगग्रहादि पीडानां नाशनं शातिरीरितं | वश्यं जनानां सर्वेषां स्वाधीने त्वमुदीरितं || निवृत्ति कारणंदिश्च स्तंभनं समुदाहृतं | लोकाना द्वेषणमिथो विद्वेषणमुदाहृतं || उच्चाटन स्वदेशाहं भ्रंशनं समुदाहृतं | प्राणिनां प्राणहननं मरणं समुदाहृतं || प्. १३४अ) स्व देवता दिक्कालादीन् ज्ञात्वा कर्माणि साधयेत् | रतिर्वाणी रमाज्येष्ठा दुर्गाकाली यथा क्रमात् || षट्कर्म देवताः प्रोक्ता कर्मादौ ताः प्रपूजयेत् | ईशचंद्रेन्द्र नि-ऋतिवाम्वग्नीनां दिशः क्रमात् || ऋतवस्युर्वसंताद्या अहोरात्रं दिने दिने | वसंतग्रीष्मवर्गाश्च शरद्धेमंतशैशिलाः || हेमंतशांतिके प्रोक्ता वसंते वश्यकर्मणि | शिशिरे स्तंभने प्रोक्तो विद्वेष ग्रीष्म ईरितः || प्रावत्तुच्चाटने ज्ञेयो शरन्मारण कर्मणि | पद्मं च स्वस्तिकं वापि विकतट्कुक्कुटं क्रमात् || वज्रं च भद्रमित्याहुरासनानि मणीषिणः | षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाश गडा अपि || मुशलाः शनि खड्गाश्च शांतिकादिषु कर्मसु | जलं शांति विधौ प्रोक्तं वश्ये वह्निरुदाहृतः || स्तंभने पृथिवी प्रोक्ता विद्वेषव्योमकीर्तितं | उच्चाटने मतो वायुर्भूयोग्निमारणे मतः || तत्तद्भूतोदय संम्यक् तत्तन्मंडलसंयुतं | तत्तत् कर्मविधातव्यं मंत्रिणानिश्चितात्मना || शीतांशोरमृतक्षोणी व्योमवायुर्हविर्रुजां | वर्णास्यु मंत्रवीजानि षट्कर्मसुयथाक्रमं || ग्रंथनं च विदर्भाश्च संपुटश्च विरोधनं | योगः पल्लव इत्येते प्रयोज्या षट्सु कर्मसु || मंत्राणांतरिता कुर्यान् नामवर्णान्यथा विधि | प्. १३४ब्) ग्रथनं तद्विजानीयात् प्रशस्तं शांति कर्मणि | मंत्रार्ण द्वय मध्यस्थ मध्यनामाक्षरं लिखेत् || विदर्भ एव विज्ञेयो मंत्रिभिर्वश्य कर्मणि | आदावंते च मंत्रस्यान् नामोसौ संपुट स्मृतः || स एष स्तंभने शस्त इत्युक्तो मंत्रवेदिभिः | राम्न आद्यंत मध्येषु मंत्र स्याद् रोधनं स्मृतं || विद्वेषणविधानेषु प्रशस्तमिदमीरितं | मंत्रस्यांते भवेन् नाम योग उच्चाटन स्मृतः || अंते नाम्नो भवेन् मंत्र पल्लवो मारणे मतः | सितरक्तश्वेतकृष्ण कृष्णधूम्राः प्रकीर्तिताः || वर्णतो मंत्रसंप्रोक्ता देवताः षट्सु कर्मसु | मंत्राणां लिखने द्रव्यं चंद्रनरोचनादिकं || गृहधूमश्चितांगारो मारणेष्टविषाणि च | श्येनाग्नि लोष्टपित्तानि धूर्तूररससौ तथा || गृहधूमस्त्री कुक्कुटौ विषाष्टकमुदाहृतं | देवता कालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः || षट्कर्माणि प्रयुजीत यथोक्तफलसिद्धये | शांत्यास्तु मेष चर्म स्यादूर्णा चर्मरशोभनं || श्वेतचंदनादि लिप्ते शीतांशु बीजशोभिते | श्वेतपुष्पाभिर्देवीनां पूजनीयाथ देवता || चंद्रकोटि प्रभा भासा सुद्धादृष्ट्या सुसाधकः | संप्रपश्यंति साध्ययामंत्रिभिः शांतिकर्मणि || प्. १३५अ) व्याघ्रस्य वा खड्गिनो वा चर्मवश्य प्रशस्यते | चंदनादि युते यंत्रे सुधाबीजोपशोभिते || रक्तपुष्पादिभिर्देवि पूजनीयाथ देवता | रक्तवर्णं विभाव्यै च वश्याकर्षण साधक || वश्यकर्म यथा देवि तथा कर्षणमुच्यते | गजचर्मप्रधानं स्यात् स्तंभने मंत्रिणां सदा || चंदनादि युते यंते भूबीजेनापशोभिते | सितपुष्पादिभिर्देवि पूजनीयाथ देवत || कंवलं तु प्रशस्तस्यादासनं द्वेषकर्मणि | चितांगारसुनिर्माणे व्योमबीजोपशोभिते || कृष्णपुष्पादिभिर्देवि पूजनीयथ देवता | वायुबीजसमायुक्ते उच्चाटने तथैव च || तुरंगसस्य चर्मे तु मारण स्यात् प्रशस्यते | विषाणष्टकादि युक्ते वह्नि बीजेन संयुते || देवतां पूजयेत् पश्चा साधकेंद्रशिरोमणि | शांतिवश्याकर्षणेषु स्तंभने साधकोत्तमः || अंगुष्ठनामिकाभ्यां तु यथाकालं जपेन्मनून् | विद्वेषणोच्चाटनयोस्तर्जन्यंगुष्ठयोगतः || मनु जपेद् यथा कालं ध्यात्वा निश्चल मानसः | कनिष्ठांगुष्ठ योगेन मारणे समाज्जपोवरः || पश्चात् कल्पोक्तविधिना पूजयेद् दिष्ट देवतां | नानाप्रकारकुसुमैर्वस्त्रालंकारभूषणैः || कर्पूरागुरुकस्तूरी चंदनादि विलेपनैः | प्. १३५ब्) धूपै दीपैस्तथा वाद्यै भैरीवाद्यरवैः सहः | चर्यादि पंचभोज्यानि तस्यै देव्यै निवेद्यसः || छागैश्च महिषाद्यैश्च वलिं दद्याद् यथा विधिः | पुरश्चर्या विधानेषु शांतिकादिषु पार्वति || पश्चात् सः स्थिर चित्ते सन् जपेल्लक्षं यथाविधिः | गुरवे दक्षिणादेया गोभुम्यनु डुहादिका || सिद्ध्यर्थमंत्रराजस्य पुरश्चरण कारिणा | कृत्वा शांतौ पुरश्चर्या त्रिंशत्स्वर्णं तु लांघनं || गुरवे प्रणिप्रत्यार्थ देयाद् भक्ति पुरःसरं | अथवा विंशति तुलान् दद्यात् साधकसत्तमः || त्रिंशत् स्वर्ण तुलावापि वश्यकर्मणि शस्यते | चत्वरिंशत् स्वर्ण तुला आकर्षे तु विधीयते || पंचाशत् स्वर्ण तुला तु स्तंभने संप्रशस्यते | षष्ठिस्वर्ण तुलायां तुरिपोरुच्चाटने स्मृता || सप्तति स्वर्ण तुला तु रिपुणां मारणे स्मृता | शांतिर्वश्यस्तथा कर्षेः स्तंभनं च तथा पुनः || उच्चाटनं मारणं च षट्कर्माणि विदुर्बुधाः | परात्परतरा देव वृद्धानां दशदक्षिणा || अदत्वा दक्षिणां सम्यगं स्मृत्वा गुरुपादुकां | मंत्रप्रभावा देवेश कृतं तन्निस्फलं भवेत् || श्रीभैरव उवाच || षट्कर्माणां विधानं तत् कथितं मम दुर्लभं | येषां श्रवणमात्रेण स्वांतमूलसितं महत् || प्. १३६अ) यदि स्नेहोस्ति ते मातः कदाचिदभिमां प्रति | तर्हि मे कथया स्वाशु वलिदानं विधिं मुदा || श्रीदेव्युवाच || शृणु पुत्र प्रवक्ष्यामि वलिदानं विधिं शुभं | नदीतीरे प्रांतरे वा चतुस्पथेथ वा पुनः || मत्स्यमांसादि संयुक्तं वलिं दद्या तु साधकः | एह्येहीति च मंत्रेण वटुकाय वलिं भवेत् || गणपत्य तु मंत्रेण वलिं तस्य प्रदांपयेत् | योगिनी मनुना वत्स तासामथ वलिर्भवेत् || क्षेत्रपालश्च मंत्रेण वलिकस्य प्रदापयेत् | वाययादि चतुर्दिक्षु दद्याद् वलिं चतुष्टयं || नि-ऋतिर्वरुणर्मध्ये सर्वभूत वलिं भवेत् | महानिशि वलिं दत्वा ततः कर्म समाचरेत् || इष्टदेवीं प्रपूज्याथ उपचारै सुशोभनैः | स्वर्णादि कुसुमैर्देव पट्टवस्त्रादिभिः पुनः || ग्रथनादि विभेदेन कर्मभेदेन पुत्रका | इष्ट देवीं मनुं जप्त्वा क्रमाद्वामादिकं चरेत् || होमकर्म ततः कृत्वा तर्पणं समुपाचरेत् | अभिषेकं ततः कृत्वा भोजयेद्विजपुंगवान् || सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् | यदि न स्याद् विप्र भोज्यं तर्हि निस्फलतां भवेत् || भैरव उवाच || यथा यदृष्टि प्रख्यत्य भिन्नं सुकपयोमृतं | शवमानीय कर्तव्यं नाहरेत् स्वेछयामृतं || प्. १३६ब्) स्त्रीवश्य पतिता स्पृश्यामयवर्जहतं नरं | अव्यक्त लिंगकुष्ठानां प्रेतरार्चाशवं हरेत् || न दुर्भिक्षमृतं वर्द्धं न पर्युषितमेव च | स्त्रीजनं च दृशं रूपं सर्वथा परिवर्जयेत् || शून्यागार मरण्यं वा नीलाद्धृत्यविभूषयेत् | संस्थाप्यशवशययायां पुरुषं दिव्यरूपिणं || ततः शवं क्षालयित्वा स्नापयेच्च प्रयत्नतः | यदि रक्ताक्तकं तिष्ठे भैरवाच्च भयं भवेत् || एलालवंगकर्पूरा जाति खदिर सार्द्धकैः | तांबूलं चथुखे क्षिप्त्वा शवं कुर्यादिधो मुखं || स्नापयित्वा च तत्पृठे चंदनेन विलेपयेत् | वाहुमूलांत कट्यांतं चतुरस्रं विधाय च || मध्ये पद्मं चतुर्द्वारं दलाष्टक समन्वितं | ततश्चैलेयमजितं कमलांतरित न्यसेत् || पूजा द्रव्यं सन्निधौ च दूरे चोत्तर साधकः | संस्थाप्य शवमभ्यर्च्य तत्रश्चारोहणं विशेत् || कुशान्यावतले दत्वा शवकेशान् प्रसार्य च | दृढं निवध्य जुटिकां तच्च देवस्य रूपिणं || तस्या देवं सुसंस्पृश्य पठेद्रक्षाय संमुखे | सर्वे भवेच्च देवेशि सिद्धिं शवकृतांवरे || पट्टेन रजके नैव चरणौ वंधये दृढं | ओं भीमभीरु भयाभाव भाव्यलोचनभावुके || त्राहि मां देवदेवेश शवाशराधिपाधिप | इति पादतले तस्य त्रिकोणं तु समालिखेत् || प्. १३७अ) तेनोत्स्वातुं न शक्रोति शवस्तु निश्चलो भवेत् | उपविश्य पुनस्तत्र वाहुभिः सार्य पादयोः || हस्तयोः कुशनास्तीर्य पादौ तत्र निधापयेत् | ओष्ठौ संपुटकौ कृत्वा स्थिर चित्त स्थिरेंद्रियः || सदा देवं हृदि ध्यात्वा मौनौ जपमथाचरेत् | चरासनोद्भयं नास्ति भयजाते वदेत् ततः || यन्प्रार्थते वलित्वेन दातव्यं कुंजरादिकं | दिनांतरे तदा स्यामि स्वनाम कथयस्व मे || इत्युक्त्वा संस्कृतोक्त्या च निर्भयस्तु न पूजयेत् | ततश्च मधुरं वाक्यं वक्तव्यं लीलया नरैः || ततः सत्यं कारयित्वा वरं च प्रार्थयेत् नरः | यदि सत्यं न करोति वरं वान प्रयछति || तदा पुनर्जपेद्धिमानेकाग्र यतमानसः | सत्यं कृते वरं लब्ध्वे संत्यजे तु जपादिकं || फलं जातमिति ज्ञात्वा जूटिकां मोचयेत् ततः | शवप्रक्षाल्य संस्थाप्य मोचयेत् पादवंधनं || पादरज्जूं मोचयित्वा पूजाद्रव्यं जले क्षिपेत् | शवं जले वा गर्ते वा निक्षिप्य स्नानमाचरेत् || ततस्तु स्वगृहं गत्वा वलिं दद्याद् दिनांतरे | यजमानो प्रगृह्नं तु मयादत्तमिमं वलिं || अर्थै येर्याचितान् स्वानु नरकुंजर शूकरान् | दत्वादिष्ट मयीकेन कर्तव्यं समुपोषणं || परह्नि नित्यमाचार्य पंचगव्यं पिवेत् ततः | प्. १३७ब्) ब्राह्मणं भोजयेत् तत्र पंचविंशति संख्यकान् | पंचपंच विहीनां वा क्रमेणैव दशांवधि || तत्र स्नात्वा तु भुक्त्वा तु निवसेदुत्तमं स्थलं | यदि न स्याद् विप्रभोज्यं तदा निर्द्धनतां व्रजेत् || तेन चेन्निधनं तस्यात् तया देवः प्रकुप्यति | त्रिरात्रं वापि षड्रात्रं नवरात्रं तु गोपयेत् || त्रिशर्यो यदि शयेन तदा व्याधि विनिर्दिशेत् | शीतं श्रुत्वा च वधिरो निश्चक्षुर्नृत्य दर्शनात् || यदि वेक्ति दिने वाक्यं तदास्यं मूकता भवेत् | पंचदशदिनं यावद् देहे देवस्य संस्थितिः || शेषात् कुर्याद् गंधपुष्पं वहिषीति यदा यदा | गो ब्राह्मणानां निंदां च न कुर्यात् तु कदाचन || देव गो ब्राह्मणादिश्च प्रत्यहं संस्पृशेत् सुचिः | प्रातर्नित्य क्रियांते च बिल्वपत्रोदकं पिबेत् || ततः स्नानं तु गंगायां संप्राप्ते शेष वासरे | स्वाहांते मंत्रमुच्चार्य प्रोक्ता तारा नमः पदं || एवं शतत्रयं मूर्ध्न देवान्वै तर्पयेज्जलैः | स्नान तर्पणशून्यस्य न स्याद् देवस्य तर्पणं || इत्यनेन विधानेन सिद्धिं प्राप्नोति साधकः | इह भुक्त्वा चरां भोगानंते यांति हरे पदं || भैरव उवाच || कथयामि न संदेहः कुमार्या पूजनं शुभं | यस्या पूजनमात्रेण त्रैलोक्यं पूजनं भवेत् || प्. १३८अ) कुमारी पूजनं नाथ त्रिधामूर्ति व्यवस्थिता | परा चैवापरा चैव तृतीया या परा परा || यत्रे कालेन किंचित् स्वाद् देवासुर महोरगाः | त्रैलोक्यन्नत्वयाद्वं च तदा जाता कुमारिका || आद्या सृष्टि करी या तु प्रत्यक्षा सा भवेस्विधा | उमा कला तु सा जाता सृष्टिरूपा भवार्णवै || एकवर्षा भवे चंडि द्विवर्षा तु सरस्वती | त्रिवर्षा तु त्रिधा मूर्तिश्चतुर्वषा तु कालिका || शुभगा पंचवर्षा तु षष्ठवर्षा उमा भवेत् | सप्तभिर्मालिनी साक्षादष्टवर्षा तु कुब्जिका || नवभिः कालसंकर्षा दशभिश्चापराजिता | एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी || त्रयोदशे महालक्ष्मी द्विसप्ता पीठनायिका | क्षत्रज्ञा पंचदशभिः षोडशे चंडिका मता || एवं क्रमेण संपूज्य यावत् पुष्पं न विद्यते | प्रतिपदादि पूर्णांतं वृद्धिभेदेन पूजयेत् || महापर्वसु पर्वेषु विशेषाच्च पवित्रके | महा नवम्यां देवेशि कुमारी च प्रपूजयेत् || पिंगलां पूजयेद् यस्तु षोडशैश्चैव भक्तिमान् | भक्तितः पूजयित्वा तु सर्वसंपत्तिमान् भवेत् || पूजयेत् कुलविद्यानां मे कथा नवभैरवीं | एवं प्रणवयोगेन चैतन्य तनुमर्चयेत् || एवं द्वाभ्यां त्रिभिश्चैव सप्ताष्ट नवधा पुनः | प्. १३८ब्) नित्य क्रमेण देवेशि पूजयेद् विधिपूर्वकं || घ्नंति विघ्नान् पूजितास्तास्तथा शत्रुं महोत्कटं | व्याधयः सर्वरिष्टानि दुर्निमित्तानि नाशयेत् || ग्रहायक्षाः क्षयं यांति भूतवेतालपन्नगाः | असुरा गुह्यकाः प्रेता योगिनी गुह्य डाकिनी || महाभयानि दुर्भिक्ष उत्पातानि कुलेश्वरि | दुःस्वप्नमपमृत्यं च अन्ये ये ये समुद्भवा || कुमारी पूजना देव न तस्य प्रभवंति हि | अनिमादेष्ट सिद्धानि पातालगुटिकांजनं || उद्दिष्टं दिव्यवेतालो भवेत् कुमारिकार्चनात् | ऐंकारेण जलं दद्या ह्रींकारे पाद शौचनं || श्रींकारे नार्घं दद्यात् कूर्चबीजेन चंदनं | शक्तिबीजेन पुष्पानि षष्ठे धूपं च दापयेत् || ऐं ह्रीं श्रीं क्रों स्तौं इमां कुलकुमारिके हृदयाय नमः | ह्सैं ह्रैं श्रीं ह्रीं ऐं स्वाहा कुलकुमारिके शिरसे स्वाहा || ओं ह्रीं सं शिखायै वषट् || ऐं कुलवागीश्वरी इमां कुलकुमारिके कवचाय हूं || ह्रीं फट् स्वाहा || इमां कुलकुमारिके नेत्र त्रयाय वौषट् || ऐं ह्रीं सिद्धयाय पूर्ववक्त्राय नमः || ए ऐं जयाय उत्तरवक्त्राय नमः || ऐं ह्रीं श्रीं कुब्जिके पश्चिमवक्त्राय नमः || ऐं फ्रें कालिके दक्षिण वक्त्राय नमः || वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकं | श्रियो बीजे श्रियालाभं ह्रीं बीजेन विसंक्षयं || भैरवेन तु बीजेन खगस्वममरादिभिः | प्. १३९अ) कुमारिका ह्यहन्नाथ सदा त्वं च कुमारिका | अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् || पूजिता प्रतिपूज्यंते निग्रहंत्यपमानिता | कुमारी योगिणी साक्षात् कुमारी सर्वदेवता || भूर्भुवो मूर्तिपादैका कुमारी त्रिकपूजिता | असुरादुष्टरोगाश्च एते दुष्ट ग्रहादपि || भूतवेतालगंधर्व डाकिनीयक्षराक्षसाः | हृदये देवताः सर्वा भूर्भुवश्चैव देवता || पृथ्विव्यादीनि सर्वाणि ब्रह्मांडं स चराचरं | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || भेरुंडाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् | कालाग्नि शिवपर्यंतं तथा गौर्यादि संस्थिताः || सप्तद्वीपाः समुद्राश्च भुवनानि चतुर्दशः | विधियुक्तं कुमारी च भोजयेत् कुलभैरवः || पाद्यमर्घ तथा धूपं कुंकुमं चंदनं शुभां | भक्तिभावनसंयुक्त सर्वं तस्यै निवेदयेत् || प्रदक्षिण त्रयं कुर्या पादि मध्ये शुभं भवेत् | पश्चाच्च दक्षिणा देया रजत स्वर्ण मौक्तिकः || विवाहयेत् स्वयं कन्या ब्रह्महत्यां विनश्यति | गोहत्यां चैव स्त्री हत्या सर्वपापं प्रणश्यति || माता च पितरौ चैव भ्रातरश्चैव सर्वतः | ये तु पेच पुनः सर्वे कन्यादानं प्रकल्पयेत् || भुक्तिमुक्ति फलं तस्य सौभाग्यं सर्वसंपदः | रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः || प्. १३९ब्) षष्ठिकोटि सहस्राणि अश्वमेध फलं लभेत् | एतत् फलं लभेस्सद्य कन्यां यदि दिवाकरं || कन्यादानं महादानं सर्वदानेषु चोत्तमं | दौर्भाग्यं च प्रनश्यंति क्षिप्रं सौभाग्य वर्तते || राजद्वारे लभेत् पूजां राज्यमध्ये नरेश्वरः | सर्वेषां च कुमारीं च पूजयेच्च प्रयत्नतः || मरुद्भय समुत्पने पूज्यते ह्यति दारुणे | क्रोष्टुके सारमेये वा द्रोणकाके उलूकिके || गृध्रैकाके च पाराये यज्ञांते शांति कर्मणि | महापूजा प्रकर्तव्या कुमारी भोजयेद् विधि || नातः परतरं शांति नृणां कन्यां पचेत् परं | महाभय समुत्पन्ने कन्यः कांचैव पूजयेत् || तत्क्षणांल्लभते सौख्यं सत्यं सत्यञ्च भैरवी | इति श्रीवाराहीतंत्रे दक्षिणाम्नाय निर्वाणपदे त्रयोविंशति पटलः || २३ || श्रीदेव्युवाच || देवदेव महादेव सर्वज्ञ परमेश्वर | अत्यद्भुतमिदं मन्ये कालिक्रमकुलोद्भवं || मानसं कंपते तीव लोमहर्षश्च जायते | कथं सा कालिका देवीं शतकोटि प्रभेदतः || एतद् भेद त्रयं क्वापि न श्रुतं परमेश्वर | सर्वं कालि क्रमाश्रित्य स्थितेव भासते मनः || चक्रेश्वरी चक्रभेदं का च सर्वाधिकाश्रिता | क्रमभेद कुलोद्भेद कथं पूजा क्रमं प्रभो || तस्यार्चनेन देवेश लभेद् वा किं महाफलं | प्. १४०अ) इदं वा मुत्र किं भुक्ते साधकः परमेश्वरः | कथं काली ह्यनालं वा सालं वा काल घस्मरा || निर्गुणा निष्कला नित्या निरशेति त्वयोदिता | कोटि भेदे लक्षभेदे वक्तुं यदि न शक्यते || मुख्य मार्गानुशा देव्य नायिका वदशंकर | यस्यार्चनेन सकलं कालिकां पूजितं भवेत् || एक एव परा नित्यां या देवी चिति रूपिणी | सर्वस्वरूपा सर्वेशी चितिरूपाश्रिता परा || यस्या मुत्पद्यते विश्वं लीयते स्थियते पुनः | वद देव महेशान नमस्ते शशिशेखरः || तासां चक्रेश्वरी नित्या का रूपा कति संक्षका | अमृतस्यैव पानेन यथा तृप्यं तु देवता || नायितां क्रमभेदं च श्रुत्वा तृप्यामि पुष्पलः | वदष्येदो न ते देव सर्वज्ञ शर्व सर्वतः || श्रीसदाशिव उवाच || ब्रह्माण्डकोटि लक्षाणि भस्म सा कुरुते यया | तां कालग्रासनरतां कालसंकर्षणीन्नमः || यस्या क्रीडार्थमखिलं ब्रह्मांडं कंदुकायते | तां कालग्रासनरतां कालसंकर्षणीन्नमः || शृणु देवि प्रवक्ष्यामि यस्त्वया मनु पृछते | नित्वा निरंत सा देवी ब्रह्मसत्य प्रकाशिनी || वक्त्रकोटि सहस्रैस्तु जिह्वाकोटि शतैरपि | वर्णितुं नैव शक्नोति शताब्दे नापि सुंदरी || पंचवक्त्र न जिह्वाभिः पंचभिः परमेश्वरी | प्. १४०ब्) लक्षकोटि प्रभेदेषु देशमात्रं वदामिते | कालिका क्रमभेदेषु या श्रेष्ठा मोक्षदायिने || तानि ते कथयिष्यामि क्रमपंच विनिर्णयं | परं ब्रह्ममयी नित्या साक्षाज्जाग्र स्वरूपिणी || निल्लेपानिर्गुणा नित्या गुणैः संक्रीडते जगत् | न पुमान् न स्त्रियः साक्षात् न खंडो प्राकृतेन च || अव्यक्तव्यक्तरूपा च जाग्रद् गुणगुणालया | पृथिवी वायुरापोग्नि खपंचभूतसम्मता || तस्मारूपमिदं सर्वं सृष्टार्थं सृजते गुणैः | धारणी परमा देवी धरण्यादि शिवां तथा || पृथक् त्वात् पृथिवी त्युक्त्वा ततः सर्वं सहा ह्यभूत् | सर्वजीवं प्राणयंती सर्वत्र चरण क्षमः || सम सर्वत्र प्रत्यायु गुणैर्वायो समर्पितः | चतुर्विधं जीवनात्स्व? जगत्स्थावरजंगमं || जलैः संवर्द्धयेत् सर्वं तद्गुणं सा जलेर्पितं | दहत्य * जगत् सर्वं ममेध्यं मेध्यमेव वा || तेजसा प्रज्वलत्नेव तेजसा स्याः स्माश्रिता | व्यापकत्वात् महत्वा च निरंगत्वाद् गुणाग्रयात् || आकाश ह्यर्पिता देव्या सर्वसंधार्यते गुणा | महासौभाग्य जननी महासारस्वतः सदा || महासौन्दर्य शुभगा महामृत्युविनाशिनी | ब्रह्माविष्णुसुरेंद्रादि वंदिता पापहारिणी || सर्वतीर्थमयी देवी सर्वधर्म मयी शिवा | प्. १४१अ) सर्वक्षेत्रमयी पुण्या सर्वकार्यार्थसाधिनी | महाभोगप्रदाशांता महामोक्षफलप्रदा || महाप्रभावतो देवी सर्वं शुद्ध्यति नान्यथा | वामाचाररता वापि दक्षिणाचार कृद् भवेत् || निराचारापि सा चारायापोधर्म न विद्यते | किमाचार विचारेन यदि काल्यार्चने रतः || किमाचार विचारेण यदि काल्या न दीक्षिता | निराचारा क्रिया सर्वा सा चारा क्रियते यया || श्वेछत्र भक्ष नियमा निराहारसमस्मृतं | कालिनामाक्षर पदं जपन्यापानि नश्यते || महापाटक कोटीनां लीलयैव विनश्यते | दह्यते सर्वपापानि मूलराशिमिवानलः || चक्रोद्धारं प्रवक्ष्यामि शृणुष्वेक मना शिवे | बिन्दु त्रिकोणपंचार नवकोण पुनल्लिखेत् || अष्टारं चाष्ट दलकं दशद्वादशकं तथा | षोडशं दलसंलिख्य मुण्डप्राकालसंलिखेत् || चतुःपंचाशकं देवी कवंधसमुदाहृतं | त्रिशूलाग्रे मुण्डमाला चतुःपंचाशके प्रिये || अष्टदिक्षु श्मशानाष्ट विलिखे ज्वलदयके | चिताष्टदिक्षु प्रलिखेत् महापातक नाशनं || हिरण्यराजते वापि मणौ वापि च टंकिते | प्. १४१ब्) चंदनां गुरुकर्पूर नाभिकाश्मीर सिंदुरैः | रक्तचंदन युक्तेन हेतुना घृष्टयेत् सुधी || भाजने लेपयेत् तेन लिखेद्धेम शलाकया | ऋजुरेखा सुरेखेन रम्यदृष्टि मनोहर || प्रतिमायां पटे वापि स्थंडिले पुस्तके हृदि | खड्गे वाथ त्रिशूले वा महापात्रेथवा स्त्रियं || एतेन वसु वै पूज्या नवयोनि परा प्रिया | दिवायां ब्रह्मचर्यं वै मंगलायाः प्रपूजयेत् || रात्रौ यथेछया पूज्या कालिकाकुलशासिनी | कूटस्थ प्रकृति स्वास्या लीलाभुवन पावनी || वृहद्वृह देवि प्रोक्तारेण्ठादपि महामनु | अरूपायां तु वक्ष्यामि रूपमव्यक्तरूपिणिं || विनाध्यानेन वै पूज्या सकलापि कलास्मृता | तस्मात् साधक सिद्ध्यर्थं ध्यानयोगं वदामि ते || पितामहेन देवेन मांसमोराध्य पार्थिवा | तुष्टेन वै मया प्रादाद् ब्रह्मणे लोक सज्जने || ब्रह्मणापि पुलस्त्या यदत्तं कालि कुलक्रमं | तेन विश्रवसे प्रादाद् विश्रवाधनदाय च || ततो लंकाधिपाः सर्वं वंशाकालिक्रमानुगा | दशास्यं कुंभकर्णं च विभीषण महेंद्रजित् || हिरण्यकशिपूर्वाणो वलिर्जालंधरस्तथा | अंवरीषोथमांधाता नहुषोहहैयादयः || नारदाद्या मुनिगणो दुर्वासागाधिनंदनः | प्. १४२अ) विरूपाख्यादयः सिद्धारेमिरे स्वेछयामुदा | तस्या प्रसाद लेशेन त्रैलोक्य विजयी भवेत् || ब्रह्मणा प्रेरितः पश्चाल्लंकेश्वर वधाय च | विश्वामित्र वशिष्ठाभ्यां राघवाय प्रदत्तवान् || सरयूतीर तीर्थे वै दशोनाभृशताक्षरी | त्रिंशताक्षरि मंत्रो वै त्रिलोक्यैश्वर्य दायिनी || दशावर्ण मया देवि गोपिता यत्नतः पुरा | यदि पूर्णं भवेद् देवि मंत्रं वै त्रिंशताक्षरी || योजानाति स पुण्यात्मा भैरवोहं न संशयः | मंत्रमातेति विख्याता त्रैलोक्यैश्वर्य दायकं || समस्तमंत्रजननी सर्वमंत्रं प्रवृंहिणी | वहुधावर्णितं मंत्र माता सर्व प्रदायिनी || प्रत्यंगिरा महाकाली मोक्षसौख्य प्रदायिनी | नानयासदृशी विद्या विद्यते भुवनोदरे || राज्यदा धनदा मोक्षदभृकैवल्य दायिनी | तेनास्त्रेण च रामेण रावणो विनिपातितः || तदा प्रभृति सा देवी सूर्यवंशा नृपेश्वराः | इष्टत्वेन च संपूज्य सर्वतस्यानुगाश्रिता || आद्याकाली क्रमं पंच एका सा पंचधा गता | कालिकुलसमुद्भवं पुलस्त्येनावतारिता || कुमारी त्रिमुखाकाली नव एकाक्षरा स्थिता | आद्या या सृष्टि काली च द्वितीया स्थिति कालिका || प्. १४२ब्) संहारकालिका उग्रा भृतिया दिव्यरूपिणी | अनाख्या कालिका देवी चतुर्थ परमाश्रिता || भासा काली पंचमी तु अद्वैतभावमास्थिता | अभिन्नरूपास्ताः सर्वा गुह्यकालीस्तनौश्रिता || शरीरावयवा वक्त्रा व्यह्वादीनाशनादिका | पंचकाली महोग्रा सा एका सा भिन्नरूपिणी || आत्मा वैश्वरभूताया गुह्यकाली प्रकीर्तिता | तासां ध्यानं प्रवक्ष्यामि शृणु पाप भयापहं || अथ वक्ष्ये महादेव्या ध्यानयोगमनुत्तमम् | योगविज्ञानमात्रेण साधकसिद्धि भाग्भवेत् || नीलोत्पलदलश्यामा नीलरत्नविनिर्मिता | ज्ञानरश्मि छटाटोपा ज्योतिर्मंडलसंभवा || दशवक्त्रा महाकाली सप्ताविंशति लोचना | अष्टोत्तरशतार्द्धं च भुजादंडैर्नरानना || दीपकं ऊर्द्धकं वक्त्र चंडयोगेश्वरी मतं | ज्योतिर्मय महावक्त्रं निर्वाणपद दायिनी || तदधः सिंहवदनं श्वेतवर्णं सुभास्वतं | फेरुवक्त्रं च तदधः कृष्ण त्रैलोक्य डामरं || कपिन्द्रस्य मुख वामे रक्तवर्ण महोज्वलं | कोलवक्त्रं भवेर्दक्षं धूम्रवर्णं भयानकं || ताक्षवक्त्रं च वामं च पिंगवर्ण स चंचकं | दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितं || गजास्यं वामके प्रोक्तं गौरवर्णं महोज्वलं | हयास्यं दक्षिणे काल्या श्यामवर्णं विचिंतयेत् || प्. १४३अ) सर्वे द्रष्ट्राकराला च त्रिनेत्राभीमनादिनी | भ्रूभंगकुटिला भीमा कालास्या श्रीमुखोत्तमा || पिंगलोर्द्ध जटाटोप चंद्रार्द्धकृतशेखरा | नानारत्नैश्च घटिता श्वेतं काद्यालि मालिनी || सप्ताविंशति मुंडैश्च रक्तविप्लुषसंयुता | वज्रालि पुष्पसंयुक्तं शिरोमाला प्रकीर्तिता || चिद्रत्न च टिकाकाद्यं खड्गपाशं च शक्तिकं | खट्वांगं मुंडधनुषं चक्रघंटा च सुस्वना || वालप्रेतं च शैलं च कंकार नकुलं तथा | सर्पं च कुट्टनी वंगं षडम्रं ओडिका पुनः || वह्नि पात्रं च दंडं च श्रुवमष्टार केशरी | वस्त्रमुद्गर डमरुं विभ्रती वामवाहुभिः || चिद्रत्न चटिका कर्तृ तर्जन्यं कुशदंडकं | रत्नपूर्णं च कलशं त्रिशूलं दुष्टनाशनं || पंचपर्शु पटावाणं पद्मद्वीपमतांगमः | कुंतं च पारिजातं च छुरिका तोमरं तथा || पुष्पमाला डिंडिमं च गृध्रं स्वस्तिक वर्द्धनीं | कमंडलु श्रुवाश्चैव पशुपुष्टिभयापहं || नद्यावर्त कुंडलं च मांसखंडसुशोभनं | बीजपुनफलं शूची विभ्रती दक्षवाहुभिः || व्याघ्रचर्मपरीधाना कालचर्मोत्तरीयका | किंकिणी जालशोभाख्या वीरघंठानिनादिनी || नौपुरारावनिर्घोषा घर्घरारावभीषणा | प्. १४३ब्) कनकाद्गदकेयूरा महास्थि कृतशोभना || मुंडमाला गले देव्या आपदांता विलंविनी | रक्तपद्ममयी माला शुष्ककाद्यालिकास्तथा || कांची कट्टारको पेता कटि देव्या विराजिता | ब्रह्मसूत्री ज्वलत्कंठा योगपट्टोत्तरीयका || सौम्याग्रभूषणैर्युक्ता नागराजद्यलंकृता | रत्नकुंडलकर्णश्रीपंचकालासन स्थिता || शिवासनं तदूर्द्धं च नीलं नादौर्द्धलंछनं | महार्घरत्नमांसं च कृष्णवर्णं चतुर्भुजं || एकवक्त्रं त्रिनयनं भैरवाभरणान्वितं | कर्तृकापालहस्तं च डमरु खट्वांगधारिणं || एवं भैरवपीठं तु देव्या आसनमुत्तमं | पंचप्रेत्रं च तदधः ब्रह्माद्या पंचकारणाः || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पीठश्यामं रक्तधूम्रं श्वेताभा पंचकारणाः || दण्डचक्र शक्तिः शूल खट्वांगायुधधारकाः | तर्जनी मुखनिःक्षिप्ता शिवाधस्था त्रिलोचना || पिंगरक्तत्रिगुस्या हि फेत्काररवभीषणा | वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा || शचीपत्यादि रत्नं च दिगवर्णशवर्णकं | इंद्रपीताभ वज्रं च वह्निरक्तं स शक्तिकं || यमं कृष्णं च दंडाढ्यं धूम्रं नै-ऋत्यखड्गकं | वरुणं पाशशुभ्रास्यं वायुश्यामकरे ध्वजं || प्. १४४अ) कुबेरं कुंकुम गदां शुक्लमीशानशूलकं | दिगष्टपतयो ज्ञेयमासनं परिकीर्तितं || शुक्लं कृतयुगं ज्ञेयं पीतं त्रेतायुगं स्मृतं | द्वापरं चारुणं वर्ण श्यामं चैव करिस्मृतं || ऋग्वेदं शुक्लवर्णं च ययुपीतं सुवर्णवत् | सामरक्तमिति ख्यातं कृष्णाथर्वण उच्यते || उपवेदस्तथा वर्णा नवमास न मुच्यते | सहस्रसूर्य ज्वालाग्रमासनं परिकीर्तितं || पद्मोपरि स्थिता देवी नृत्यमाना सदोदिता | अथवा सुखमासीनं सर्वदेवाधि यंत्रिता || सहस्रसूर्य प्रतिभा दुर्निरीक्षांदुरासयां | सर्वदेवाश्रया नित्या मालिनी जयमंगलां || नूकुहूंकार जिह्वाग्रं लालयं तं विचिंतयेत् | प्रत्यालीढ पदावापि नृत्यमानापि वा स्मरेत् || सर्वमंत्रमयी धीरा सर्वलक्ष्मी जयेश्वरी | एवं ध्येया महाकालीमुद्भिन्न नवयौवना || भासाक्रमस्य मध्यस्था चक्रेशी परमेश्वरी | पंचकाली प्रभेदास्तु विशेषं शृणु पार्वति || नववक्त्रा महाकाली सप्ताविंशति लोचना | ऊर्द्ध्वज्योतिर्मयं वक्त्रं चंडयोगेश्वरी भिधां || चिद्रत्न वटिको मुद्रा मूलदेव्यास्तु एवसा | वक्त्रैकं रत्नमुद्रां च विहीना पंचकालिका || वक्रशस्त्रं भुजं माला मासनानि क्रमानि च | प्. १४४ब्) भूषणादीनि वर्णानि यथा श्रीगुह्यकालिका | सृष्टि स्थिति च संहार अनाख्यायां महेश्वरी || भासाकाल्या तुल्यरूपा विशेषं सच्चतान् शृणु | विशेषिका विशेषेण तद्वक्ष्यामि क्रमेण तु || नीलजीमुतसंकाशा नववक्त्रा महेश्वरीं | पूर्वोक्ते ध्यानराजे तु तुल्याचान्या महेश्वरी || वद्धपद्मासना देवी पीनोन्नतपयोधरा | जिह्वाग्रे च वामदंष्ट्रां दर्शयंतीं त्रिभंगिकां || मदघूर्णित दीर्घाक्षी ध्याना लोचन तत्परा | चिद्रत्न वटिकास्तज्या वरदा भयपानिनी || तर्जन्यग्रे स्थितं वज्र मूर्ति ज्वलन स प्रभां | रश्मि द्वादशसंयुक्तमनाक्षेशीं स्मृरेत् सदा || संहारचक्रमध्यस्थां निर्मांसा कोटरांविकां | प्रत्यालीढ पदा देवी दंतोष्टघृष्टपिंडिकां || लेलिहाना ललजिह्वा मुक्त हुंकारराविनी | वरदानं परित्यज्य विभ्राणामजकेशवौ || दशशक्ति समायुक्तं विश्वसंहारकारिणी | स्थिति क्रमस्य * मस्थ ईषत् प्रहसितानना || खर्वालंवोदरी देवीं राजलीलासनस्थितां | अजकृष्टौ परित्यज्यं ब्रह्मकंकालवल्लकी || वादयंती महाकाली स्थितिस्थां षोडशात्मिकां | सृष्टिक्रमध्यस्थामष्टहाससमन्वितं || ऊद्धासमयदाचारु ललिता तनुविग्रहा | प्. १४५अ) विहाय ब्रह्मवीणां च विभ्रती चंद्रभास्करौ | योनिपंचक्रमध्यस्थां ध्यायेत् सृष्टैक हेतव || अनाख्या चक्रमध्यस्थां ध्यायेत् सृष्टैक हेतव | अनाख्या चक्रमध्यस्था भासा देवी जगत्मयी || सर्वाकाली स्तुता देवी षोडशारे प्रतिष्ठिता | चंद्रसूर्य परित्यज्यामंजीर द्वय धारिणी || जगद्भासयते भासा काली विष्णु समुद्भवा | वालाकुमारि या काली सर्वासंसृतरूपिणी || त्रिमुखाष्टभुजा देवी कपालमालसंयुता | पिवं तु रुधिरं दिव्यं कृष्णवर्णं त्रिलोचनं || पाशांकुशं वज्रशूलं खट्वांगं मुद्गलं तथा | मृतवालमुंडहस्तं कपालं रक्त पूरितुं || एवं ध्यात्वा महादेवी नानाभोग फलप्रदा | एतदेव हि भेदोयं पंचकालस्य कारणं || ततः समस्त रूपाणि कालिका क्रम उद्भवा | विधिवत् पूजये नित्यं विधिलोपं न कारयेत् || यथा गुरोपदिष्टं तु तदैव व्रतमाचरेत् | देवतामंत्ररूपानि गुरुवेव न संशयः || शिवे रूष्टे गुरुत्राता गुरुरुष्टे कदाश्चनः | गुरुरेव सदापूजा कालिका तुष्टि हेतवे || अंधतमसिसंमग्ने गुरुरेव परागति | वधपुत्र सहस्रेषु मातुः पितुः शतेष्वपि || एतेभ्यो गौरव त्वाच्च गुरुरित्यभिधीयते | प्. १४५ब्) ब्रह्महत्यादि पापानां निःकृति समुदाहृतं | गुरुद्रोहि कृतानां तु निःकृति नास्ति पार्वती || गुरोश्च देवतायाश्च द्वैत भावं न कारयेत् | स्वात्मविक्रयतो वापि गुरुरेव प्रपूजयेत् || गुरु तुष्टे जगत् तुष्टे मित्याज्ञा पारमेश्वरी | न माता न पितापुत्रा भ्रातावंधु सुहृन्नृपः || गुरोर्गुरुतरं देवि न कुर्यात् त्रिभिः सर्वथा | यस्य प्रसादाज्जानीयात् त्रैलोक्यं स चराचरं || न तोषिता गुरुर्येन तस्य स्यान्निफला क्रिया | यस्य वक्त्राद्विनिर्याता देवी शब्द मयी परा || न गुरुं वंचय छिष्यैः प्राणैः कंठगतैरपि | देवता मंत्रसकलं लंघितं तेन भैरवः || गुरु दैवतमंत्राणि मनाग्भेदं न कारयेत् | भेदेन निलयं यांति समूलं विनिहंति वै || गुरुसंतोषयेद् यत्नैः स्वप्राणेनापि श्रद्धया | द्वीपकस्यैव वेताल परागतिमवाप्नुयात् || गुरुसंतोषितो येन रक्षितं भुवन त्रयं | नातः परतरं किंचिद् गुरोरभ्यधिकं प्रिये || अशरीरावर्ण रूपा ब्रह्मांड व्यापिनी शिवे | पिंडदानादि संस्कारं यथा पित्रो तथा गुरो || अकृत्वा नरकं याति षष्ठिवर्ष शताधिकं | शरीरदापिता देवि ज्ञानदा गुरुरेव च || पिंडदानादि संस्कारं यथा पित्रो तथा गुरो | प्. १४६अ) अकृत्वा नरकं याति षष्ठिवर्षशताधिकं | शरीर दापिता देवि ज्ञानदा गुरुरेव च || गुरोर्गुरुतरं नास्ति संसारदुःखसाधने | यस्य वक्त्राद्विनिर्याता वर्णं ब्रह्ममयं वपुः || तारयेत् नात्रसंदेहो नरकार्ण व्रते ध्रुवं | अतोहं संप्रवक्ष्यामि सारं सर्वार्थ कामदं || एकाक्षरी नवाक्षरीं च षोडशाक्षरि वारुणि | चतुपंचाशवर्णं च शताक्षरि विशेषतः || द्विशताक्षरि मंत्रं च दशाना तृशताक्षरी | सहस्राक्षरि देवेशि प्राणभूतास्तु कालिका || अम्बरं पवनं वह्नि आपं च धरणी तथा | रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये || एकाक्षरी परा विद्या भोगमोक्षप्रदा स्मृता | शिवशक्ति समायोगो भवेदत्र च पार्वति || महाकुण्डलिनी देवी महारावेति पूजिता | वह्नि शिवाक्षरांतं च कालं कालमवारुणं || शिखी च मधुहा युक्ता काली प्राणमुदाहृतं | ख फ्रें मात्मकलालिख्य महाचंडमता लिखेत् || योगेश्वरी पदं दत्वा विद्ययं सा नवाक्षरी | षोडशाक्षरि या विद्या प्राणभूताश्च ता शृणु || यस्योपदेशमात्रेण ब्रह्मभूयाय कल्पते | त्रिपदं तु समुद्धृत्य हामारवं ततो लिखेत् || प्. १४६ब्) निशामाधवसंयुक्तं ज्ञेयं त्रिदशवंदिते | सत्यारूढसास्वतश्च तुष्टिना कवली कृतं || सत्यमत्यासमारूढा शूक्ष्मेश कवली कृता | ततश्चक्री जाठरं च नारायण समन्वितं || माधवेन समायुक्तो वलानुजपुनर्लिखेत् | मायाचंडी कूर्च रक्षा महाराव पुनर्लिखेत् || न तिं नियोजयेद् देवी शिवमंत्रं समुच्चरेत् | वर्णषोडशमाख्यातं मंत्रराजमुदाहृतं || पंचपिंदाग्रतो दत्वा महासप्तदशी भवेत् | अनादिम महामंत्रं वर्णराजमुदाहृतं || शताक्षरं मंत्रराजं तथा पंचशताक्षरं | पंचाक्षरमादि मंत्रं तथाष्टाक्षर मंत्रकं || दशोनात्रिंशता विद्या महामंत्र उदाहृता | द्विशतं तु महादेवी नवत्यधिक सुव्रते || वशिष्ठ हेतो हि पुरा सहस्राक्षरमालिका | एतत् परतरं देवी कुलाचार क्रमे विधिः || परं ब्रह्मस्वरूपं तु नादबिंदु कलात्मिका | सकलार्णव मध्यस्था सकलार्णव रूपिणी || श्रीगुरोः कृपया देवि संप्रदाय क्रमागतं | लभ्यते यदि भाग्येन कोन्यधन्यतरौ भुवि || मनुष्यवपुराछन्ना स शिवो नात्रसंशयः | वर्णितुं नैव शक्नोति कालिकाया कुलक्रम || प्. १४७अ) वर्णषोडशकं विद्या राज्यदा प्राणदा स्मृताः | महासौख्य प्रदाशांता सा काली प्राणदायिनी || वैखरी चान्य भावत्वादशक्ता गुणवर्णने | ब्रह्मविद्या स्वरूपा सा भुक्तिमुक्ति फलप्रदा || एकोच्चारेण देवेशि वाजपेयस्य कोटयः | अश्वमेध सहस्राणि प्रादक्षिण्यभुवस्तथा || प्रयागे स्नानयत् पुण्यं मकरस्थ दिवाकरे | तस्य शतगुणं प्रोक्तं कालिका विधिना चरन् || चातुराश्रम्य यत्पुण्यं क्रमेण परिसेवितं | यत्पुण्यं वर्णधर्मस्य तत्पुण्यं कालिकार्चनात् || काश्यादि तीर्थ यात्रां च सार्द्धकोटि त्रयान्वितं | तुलानायति देवेशि सत्यं सत्यं न संशयः || लक्षजापेन देवेशि किं पुनः सिद्धभाग्भवेत् | यस्यामर्थ ततो देव्या भुवनानि चतुर्दशं || अभवत्यरमेशानि तेषां कारणरूपिणी | पुरश्चर्या कृता येन तेषां विद्या फलां गमं || अकृत्वा तु पुरश्चर्या न मंत्रं फलदो भवेत् | ब्रह्मांडकोटि जननी महामोक्ष प्रदायिनी || निःसरंति महामंत्रा विस्फुलिंगा यथा प्रिये | अग्ने सकाशाद्वहवा भेदा विद्या प्रकाशिता || प्रणवा सर्वमुत्पन्ना परं ब्रह्म मयी तु सा | प्. १४७ब्) यामाहर्ता रक्षिता च नान्या तु भुवनेश्वरी | नानाम्नाय स्वरूपेण नानारूपेण मायया || मोहयंती जगत्सर्वं पुत्रपौत्र प्रवर्द्धिनी | स्त्रीपुंभावेन सततं ग्रंथितं कामसूत्रके || सर्वत्र व्यापिनी चापि ब्रह्मस्थान निवासिनी | सौभाग्य वंधग्रहणा विश्वयोनिरितीरित || चतुर्वाङ्मय निष्ठेयं त्रैलोक्यवशकारिणी | साक्षात्संचिन्मयी देवी रूपिणी भाग्यदायिनी || महासंपत् पदानित्या साक्षादक्षररूपिणी | षोडशाक्षररूपेण विश्वं व्याप्य व्यवस्थिता || नवाक्षरी महाविद्या पंचचाष्टाक्षरी तथा | एकाक्षरी दशार्णा च शतार्णा च सहस्रकं || एतेष्व मंत्रवर्गेषु विश्वं व्याप्य व्यवस्थिता | चतुर्वेदेषु यत्सारं तदंगेषु च य स्मृतं || पुराणे स्मृति सारेषु यस्तु सारतमं महत् | तत्सर्वेभ्याधिकं सारं सारात्सारतरं परं || नवनीतं यथा दध्ना सारोद्धृत्य घृतं भवेत् | तदेव अमृतं नाम देवानां प्राणधारणं || तथा समस्त शास्त्रेषु वेदे मंत्रेषु चाग्नये | उद्धृत्य सर्वसारेभ्यो ब्राह्मणे प्रतिपादिता || ब्राह्मणोपि वशिष्ठाय वशिष्ठोराघवाय च | दत्तं सर्वात्मने तेन ततो मर्त्या वतारिता || अद्वैतो द्विविधा कृत्वा मुनिना ज्ञानदृष्टिना | दशोनात्रिंशता कुर्या मंत्रवीर्या प्रकाशिता || सौम्यसिद्धि कृता तेन देवी प्रत्यंगिराभिधा | नारदानुमते नैव संज्ञा देव्या द्विधा कृता || निधानं मिवचौरेभ्यो रक्षणीयो प्रयत्नतः | न देया यस्य कस्यापि देया प्राणप्रदायिने || निर्मलाय प्रशांताय प्राणेभ्योपि प्रियाय च | ज्ञाननिष्ठा यदातव्यं सारमेतन् महेश्वरि || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे चतुर्विंशति पटलः || २४ || श्रीदेव्युवाच || नमो देवाधिदेवाय सर्वज्ञाय महात्मने | सृष्टिस्थित्यंत कर्त्रे च सर्वव्यापि नमोस्तुते || जयदेव जगन्नाथ किंचि प्रष्टुं मम प्रभो | मनोमेतरलं जातो भयावक्तुं न चोत्सहे || प्रसीद परमेशानं संशयं छेतु मर्हसि | श्रीभैरव उवाच || मा शंका कुरु देवेशि त्वदन्यो नास्ति मत् प्रियां | निःशकं स्वछया देवी पृछयं हृदि वांछितं || यं यं त्वत् संशयं देवि तं तं पृछयथेछया | श्रीदेव्युवाच || नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरी | प्. १४८ब्) चिद्रूपिणी परा देवी कालिका त्वं गता यदा || तस्माद्वैध गता देव नारदानुमतेन च | सर्वागम विदः शूरः साधकानां वरो मुनि || किं भदं चैव कारथवशिष्ठनारदौ पुरा | भैरव उवाच || धन्योसि कृतकृत्यासि श्रोतुं जानासि तत्वतः | एतत् सूक्ष्माति भेदेन पुनः श्रोतुं मतिस्तव || जाता परमिका बुद्धि नमस्ते परमेश्वरि | सप्तादशाक्षरी विद्या विद्याया परमा कला || खंडस्य खंडिनी खण्डा खण्डखंडागखण्डिनी | खंडचक्र गता काली विद्यासप्तदशाक्षरा || फणिरूपस्य कालस्य अकुला विंदुभक्षणी | तृधा चारुहता लक्ष्मी विद्यासप्तदशी स्मृता || अकलाकलमध्यस्था कलास्था अकलाकला | अकरापरमानंदा सिद्धि सप्तादशाक्षरी || रावस्थं रावमध्यस्थं रावरावनियोजिता | रावलीरावराज्ञेया महासप्तादशाक्षरी || कांतगादि छांतजातं महाहृल्लोल हुंकृतं | रावलोलकराक्रांतं एता सप्तदशी कला || अक्षराक्षर योगेन कालि शब्दे नय स्थिता | योगेश्वरी पदं नास्ति विद्यासप्त दशाक्षरी || हहहाहहललीना विलीनां हहने हसा | प्. १४९अ) हनादाना पदैल्लीना विद्यासप्तदशीक्षरी | एवं सप्तदशं वर्णं वर्णयं परमेश्वरी || क्रमसर्वातुरं तीव्रं निर्गुणं परमेश्वरीं | शतद्वयं तु वर्णानां नवत्यधिक कीर्तितं || त्रिगुणै रहिता विद्या त्रिखंडा परिकीर्तिता | नवषोडशवर्णानां भेदानात्रैव विद्यते || अनया विद्यया देवी जन्ममृत्यु विहाय च | नारदाद्या मुनिः श्रेष्ठा योगिनः कपिलादयः || त्रिलोकविजयी भूत्वा स्वेछया विचरंति वै | अव्याहतगतिः प्राप्तत्त्रिकालज्ञो भवत् तदा || शोणिताख्ये पुरे देवि हरिशंकर विग्रहे | नारदेन मुनीन्द्रेन कृष्णाय संपदत्तवान् || हरिशाजृंभनास्त्रेषु प्रयोज्या हरमोहितः | वासुदेवोपि पार्थाय रक्षार्थं प्रददौ पुरा || भृगोपभुक्तपुष्पं तु शिवयोग्यं यथा भवेत् | तद्वत् निरक्षरं वस्तु अक्षरैरपि संयुता || नोद्धारं लेखयेद् देवि साक्षावर्णेश्वरी परा | शापो भवति वै नूनं मंत्रहानि प्रजायते || विमुख भवते काली पापा नामाश्रयो भवेत् | कर्णे कर्णे तु देवेशि हृदिस्थं कुरु सर्वदा || गुरुवक्त्रा विनिःक्रांता श्रोत्रमार्गे हृदि स्थिताः | उदके लिखितं यद्व मंत्रोद्धारं तथा भवेत् || प्. १४९ब्) भोगमोक्षप्रदा विद्यां पुस्तके नैव लेखयेत् | संवछलकृता वासे ज्ञात्वा कर्मशुभाशुभं || ततो मंत्र पदेष्टम्यायद्यान्मशुभमिछति | अपरिछित शिष्याय यस्तु मंत्रं प्रयछति || निरये नियतं वासो भविष्यति सुदारुणे | तस्मात् सर्वप्रयत्नेन न प्रकाश्यं कदाचन || अस्तिक्य बुद्धि यस्यास्ति तस्मै देवी प्रसीदति | सुंकाया जायतेग्नानि संकाया दुःखभाजनं || संकाया सिद्धि हानि स्यात् निर्विकल्पं समाश्रियेत् | कर्तव्यं वाप्यकर्तव्यं नैव तत्र विचारयेत् || मयापि विष्णुना सार्द्धं ब्रह्मणा मुनिभिः सह | एकपात्रं गृहीत्वा तु निर्विकल्प यथाश्रिता || देवगंधर्व दैत्यादीन् रक्षपन्नगमानवा | सप्तधातुभिः संक्लिन्नै मलमूत्रश्रवावहे || तेषांकित द्विचारेण निर्विकल्प समाचरेत् | सूर्योदये किं तमासि तिष्ठंति भुवनोदते || तथा देव्या प्रभावेन किमाचार विचारयेत् | किं वहुक्तेन देवेशि गोपनीयं प्रयत्नतः || सर्वसिद्धिन् महेशानि गोपनीयं प्रयत्नतः | प्रकटे मृत्युमाप्नोति सिद्धि हानिश्च जायते || यस्मिन् मंत्रे यदाचारस्तत्र धर्मस्तु तादृशः | कृतार्थस्तेन जाये तृस्वर्गं वामो क्षमेव वा || प्. १५०अ) नाः धर्मा नैव पापादि जायते तत् क्रमेण च | किं च धर्मो महान्वापि पुरापराशि प्रवर्द्धते || शक्ता सर्वसमुत्पन्नं यत्किंचिज्जगती गतं | तस्माछुद्धमशुद्धं वा शक्ति ब्रह्मस्वरूपकं || सर्वे वेदविदो विप्र सदाचारिणि सुव्रते | चांडालं वपचे पापे ह्यात्मा सर्वत्र वर्तते || आत्मा ब्रह्मविजाना हि भ्रांति ज्ञानं परित्यज | ज्ञानमेव परं तत्वं तस्माज्ञानं समाश्रये || ज्ञानमार्गेन सकलं विकल्पं परिवर्जयेत् | स विकल्पा महादोष पापभाक् जायते ध्रुवं || शिवशक्ती मयं देहं रजं शुक्रैमजायते | परं ब्रह्मणि संलीना परावाच्या परेश्वरि || नीराज्य मधुमैरेयै द्रव्य भेदा भवंति हि | सर्वज्ञे त्वे वरारोहे यज्ञे दोषा न विद्यते || अश्वमेधे महायज्ञे वाजिहत्या कथं भवेत् | जलं क्षीरं घृतं चैवं मधुमैरेयमैक्षवं || पौष्पंतरु भवं धान्यं संभवं तक्र निर्मितं | सहकार भवं चैव विविध वहुभेदतः || अज्ञानैः संस्कृतं सद्यो महापातक कृद्भवेत् | ब्रह्महत्यासुरापान स्वर्णस्तेयादि पातकान् || पूजनाद् देवनिर्वत्य निर्विकल्प स मंत्रवित् | जलं जलचंलं सर्वं घटपूर्णं समानये || स्थापिते दिन सप्ताहे जलं जीव समन्वितः | प्. १५०ब्) अनामिखं नास्ति किंचित् सर्वक्षीरादिकं प्रिये | समवृक्षः समो वह्निस्तथा सुंदरि तिष्ठति || सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः | काष्ठदि मथनाद् देवि प्रकटा वह्निरुच्यते || तत्काष्ठं दह्यते तेन तेन ब्रह्ममयं जगत् | धर्माधर्मपरित्यागात् सकलेपि परत्र च || विण्मुत्र स्त्रीरजं वापि यच्चास्ति सकलं प्रिये | विचारयेत् सुमुत्रादि भ्रांतिरेव हि कारणं || अन्नं ब्रह्मविजानीयात् तेन यस्य समुद्भवं | नाना जीवाश्रयं तं तु पुरीषं केन दुःख्यते || गोमूत्रं प्राणनं देवि गोमूत्रस्यापि भक्षणं | प्रायश्चित्तेषु कथितं ब्रह्महत्यादि मोचन || मलमूत्रेषुजे भ्रांति दोष एव न संशयः | स्त्रीरज परमेशानि देहस्ते नैव जायते || कल्पितं दूषितं तेन प्राप्यते परमं पदं | पुरुषस्य तु बीजं तु ख?दुरित्यविधीयते || बिंदुस्तु परमेशानि कायोयं शिवरूपधृक् | शिवतत्वेन शास्थादि दूषणं नास्ति वै तदा || सूतः पवित्रं देहस्य कारणं केन विद्यते | ज्ञानमार्गेन सकलं निर्विकल्पस्य सुंदरि || विकल्पस्य महेशानि पापभाग् जायतेन च | प्. १५१अ) निर्विकाल तया यस्य रसेना कुत्सिता भवेत् | तंतु दूषणसंयुक्तं मन्यत्सर्वं शुभं भवेत् || ब्रह्मानंद मयं ज्ञानं परं ब्रह्ममयो भवेत् | तं ज्ञात्वा परमेशानि कथयामि वरानने || न ब्रह्मणस्तुर ब्राह्म्यै नक्षत्रं क्षत्त्रियस्तथा | वैश्यो न वैश्यः शूद्रेण शूद्रस्तु परमेश्वरी || विचारे परमेशानि पुष्कसो नैव पुष्कशः | सर्वसांतु विजानी हि परमात्मा विनिश्चयात् || आकाशात् पतितं तोयं निम्नमार्गेन गछति | ग्राममध्य गतं सर्वं विष्ठामुत्रादि पूरितं || मृतगोश्वा हि मार्जार खराति रुधिरान्वितः | समस्तमपि देवेशि गंगायामिलितं यथा || गंगामृतं तदेवास्ति कालुष्यं नैव तिष्ठति | मलमूत्रेषु ये दोषा भ्रम एव हि कारिणी || पवित्रं स्त्री रजं प्रोक्तं यतो देह विनिःस्मृतं | रुधिरादि विधानेन प्राप्यते परमं पदं || पुरुषस्य तु यद्बीजं बिंदुरित्यभिधीयते | सर्वस्य कारणं रेतो तं देहं केन निन्द्यते || भगलिंगस्य संस्पर्शाद् गर्भाद्विनिःसृतः पुमान् | यदा तदा जन्मकाले कोन स्याद् गुरु तल्पगः || पुण्यपापविनिर्मुक्तं ज्ञानमेतच्छृणु प्रिये | ब्रह्मांडकोटि जननी एकैवाहं स्वरूपिणी || प्. १५१ब्) भुक्त्वा नानाविधैर्वाहं क्रीडार्थं सकलं जगत् | कुलालचक्र भेदेन घटाकालं यथा घटे || दृश्यते परमेशानि आकाश व्याप्य तिष्ठति | घटे भवति भिन्नत्वेनाकाशे भिन्नता भवेत् || यथा देहगतो जीवा देहनाशे वरानने | व्याप्यति सर्वत्र * * तस्माद् ब्रह्म पदं महत् || अत एव महेशानि निर्विकल्प सदा भवेत् | एवं सम्विन्मये ज्ञानं समता सर्वजंतुषु || सर्ववर्णेषु चाभावत् समता नात्र संशयः | यथासूर्य प्रकासेभ्य समत्वेन प्रवर्तते || दत्तमव्यापि चान्यस्य तमसं * हते क्षणात् | शोषयेत् सर्वमूत्रादि चंदनं नैव कर्दमं || अत एव महेशानि संति सर्वमयो भवेत् | सिद्धिस्तु देवि विज्ञेयु श्रीगुरो कृपया प्रिये || श्रीदेव्युवाच || यथासंसाधयेद् देव प्रयोगादीन् जगत्पते | साधकः संविभागेन तथा कथय शंकर || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि यथासंसिद्धि सूचकं | येन संसाधयेद् वीरो वीराचाकुलसंतते || अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिच्छति | महापाटक कोटीनां भाजनं स भविष्यति || नातः परतरं देवी कुलमार्गस्य दूषका | तस्मात् सर्व व्ययेनापि प्राणांतेनापि सर्वदा || प्. १५२अ) कर्मणा मनसा वाचा पुरश्चरणमाचरेत् | वर्णलक्षं जपेन् मंत्री हविष्यासी जितेंद्रियः || दिवा च ब्रह्मचर्येन रात्रौ क्रुयाद् यथेछया | पूजयेद् विधिना देविमपंचक पुरस्कृतः || सांगं स पचिवारं च तत्र नूनं न कारयेत् | दशांशं हवनं कुर्या बिल्वपत्रै घृतप्लुतैः || छागमांसैस्त्रिमध्वक्तैर्देवी संतुष्टहेतवे | तर्पयेत् सुधया देवी दशांशै हवनस्य वैः || तर्पणस्य दशांशेन मार्जनं समुदाहृतं | तद्दशांशेन वै कुर्यात् कुमारी भोजनं महत् || कलौ चतुर्गुणं कुर्यात् पुरश्चर्यां तु साधकः | दीक्षा प्राप्य न कुर्याद् वै पुरश्चर्या विलंवनं || आयुश्चंचलता ज्ञात्वा स्वात्म श्रेयं तु चिंतयेत् | दीक्षा प्राप्यपुरश्चर्यामकृत्वा म्रियते यदि || ब्रह्मभूता भवेन् नूनं शतवर्षमनाश्रये | तस्मात् सर्वात्मना देवी पुरश्चर्या समाश्रयेत् || चन्द्रसूर्योपरागे वा पुरश्चरण कारयेत् | पर्शान्मुक्तिं तु संजप्य पुरश्चरणमुच्यते || दशांशं सर्वकर्माणि कारये पूर्वचोदितं | ततः प्रयोग कर्माणि शृणु वक्ष्यामि सांप्रतं || वीरदीक्षा न शक्ताये संपूज्य विधिवत् पुरा | श्मशाने शिवदक्षे वा गृहे वा वाहने स्थिता || दीपादि त्रिविधैर्नित्यमभावात् पर्वणि पुनः | प्. १५२ब्) सत्यवाक् धैर्यसम्पन्नः कामक्रोधविवर्जितः | शक्तिसंहायसंयुक्तो वीरः सहायकोथवा || सहाय द्रव्यहीनोथ भीक्षासी च निशागमे | सहस्रैकं जपेच्चादौ कायशुद्ध्यर्थ हेतव || देवी तुष्टा हुने चैव यथा पूर्वमयोदितं | ततो लक्षं जपेन् मंत्री दिवा चाहारवर्जितं || भुक्तोर्द्धभावनाशक्तः संध्यायां शतमेककं | गायत्र्या तु जपेद् युग्मं न्वस्त्वा चैव षडंगकं || ततो रात्रौ जपं कुर्याद् यथाशक्त्या क्रमेण तु | दशांशेन हुनेत् पश्चात् मंत्रसंसिद्धि हेतवे || होमं ते जन्यका पूज्या कृत सिद्धिर्भवेद्ध्रुवं | अथवा द्विगुणं जाप्यं यावद् वै सप्तवासरं || क्रूरादौ चाष्टमेसेकाद्धोमां ते ग्रहशांतकं | त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनं || वातादि सेकतो शांति होमाद्रोगप्रमुच्यते | अष्टम्यां वा चतुर्दश्यां समारभ्य हरशतं || दशांश होमतः सेकात् महाशांति भवे स्फुटं | जप पंचशतं मंत्री यछग्यं त्रिशतं हुनेत् || होमांते सेकतः पश्य पुष्टि चैव समाप्नुयात् | त्रिशतं त्रिशतं हुत्वा जप्त्वा चैवाष्ट मे हनि || हामांते सेकतो जप्त्वा पुष्टिमाप्नोति मानवः | जप्त्वा चैव तु सहस्रं हुनेत् पंचशतानि वै || प्. १५३अ) नागाश्च गोष्टलोकानां पुष्टिमाप्नोति सैकतः | निर्गलाद्गल यंत्राणि आत्मनो वा परस्यथ || त्रिसंध्यावर्तनाद्वश्चा त्रिसप्ताहात् प्रजायते | श्मशान शर्करा गृह्य मंत्रैरष्ट शतं जपेत् || यत्र यत्र क्षिपेद् गौरि निगडा स्फोटनं भवेत् | भूतांकुशस्पदंदेन त्रिधाभिमंत्रितां दधान् || नावाशकट यंत्राणि स्तंभयेत् मोचयेश्लथात् | दूर्वातं तु विषक्षोभं दुःकुलं दुष्टजंतुषु || वालुका सप्तजप्त्वा तु महामेघ्यां तु वारयेत् | राजिका सप्तजप्त्वा तु ग्रस्त भूतादि भिन्नरः || ताडयेद्धृति मुद्रायां कृत्वा संत्यज्यते ध्रुवं | ज्वरा चातुर्थकाद्याश्च सप्तजप्तोदकेन तु || अत्युक्षणोनिवर्तंते चित्रागुग्गुलुधूपतः | लुतागर्दभविस्फोट व्याधयो विविधास्तथा || सप्तजप्तो दक्षसेकात् पानालोप द्विनाशयेत् | एकविंशति वारैस्तु जलं चैवाभिमंत्रितं || स्थावरं जगमं वापि विषपानाद्विनाशये | पुष्पान्न सिद्धिसिद्धार्थ श्मशानस्य च भस्मकं || सप्तमंत्राहने छत्रुं सशत्रुं मोहनाय च | महापात्रे धान्यपुंजे मध्यपूर्णघटेषु च || अक्षयं तद्भवेत् तस्य नित्य पूजारतस्य च | अर्थकोषे बिल्वगतां सौलिष्य पटके जपेत् || प्. १५३अ) धनदेन समंद्रव्यं न कदाचिद् विनश्यति | गजशाले मुक्तदामे पूजयेत् पंकजात्पलैः || न कदाचिद् विनश्यंति गजावृद्धिं प्रजायते | कृत्वा च नवकोणं थामश्वस्थानकदंवकैः || संपूज्या श्वान नश्यंति वृद्धिमायांति शोभनां | शितगुंजं च सर्पोखां धामव्याघ्रवराटिका || सप्तजप्तो मुखे धार्या अस्त्रनंगो न जायते | वालानां सर्षपा मंत्र्य शतयवेनामसंख्यया || कण्ठे वद्धा वृद्धियांति आयु वा प्रज्ञया दृढः | पुष्पार्के श्रीफलं पक्वं सहस्रार्द्धेन मंत्रितं || तर्जलेः सेचिता नारी अपुत्रो सूयते सुतः | अहोरात्रोषितो भूत्वा अनुदिग्धो जपे तु यः || स्वार्थ वाथ परार्थं वा अपमृत्युर्विनश्यति | पुण्डरीकांशुना वर्त्या का गुह्यं दीप्तसंमुखे || वने जायात् सहस्रेण अंजनी पश्यते निधिं | चतुःपथ मृदं गृह्य गृहार्द्धे पंचविंशति || जप्त्वा संक्षपयेन्निद्रां वंधो भवति दुर्भगा | तिलतंडुलसिद्धार्थं प्रत्येकं दशमंत्रितं || एकीकृत्य क्षिपेद् यस्तु पदं ना क्रमते अरि | फल्वालिवंसिकं पंचविंशाधिकशताभिधं || भूतायां संक्षिपेद् यत्र तत्र रोगी भवेज्जनः | लाजा चाक्षत सिद्धार्थं स भस्मशतमंत्रितं || प्. १५४अ) यत्र यत्र क्षिपेन् मंत्री ततो रोग्यं प्रवर्तते | कंठमात्रोदके स्थित्वा जपेत् पंच गतं यदि || वरुणेन तथा होमान् महावृष्टि भवेद्ध्रुवं | शतार्द्धं तु जपेन् मंत्री शतार्द्धं होमयेत् प्रिये || वशी कुर्यात् न संदेहो सप्ताहेन शची पतिं | जप्त्वा पंचशतं मंत्री शतार्द्धं होमयेत् पुनः || पुनपंचशतं जप्त्वा सिद्धार्थं चाक्षतं तथा | मस्तके कण्ठ वाहो वा धृता दीव्यस्य स्तंभनं || अपामार्ग शतं हुत्वा तत्कारं तस्य दीयते | दुर्भगो जायते नित्यं प्रीति नाशो मवाप्नुयात् || सिद्धार्थं गुग्गुलुं चैव एकीकृत्य शतत्रयं | होमांते च महाप्रीति विप्रीति स प्रजायते || हैमबीजः शताष्टौ च होमयेत् सप्तवासरं | उन्मत्तौ जायते शीघ्रं वर्तुलं वा घृतान्वितं || सप्ताहा च निशारात्रौ जपेच्छुद्धा समन्वितः | दिवा च ब्रह्मचर्येन रात्रौ कुर्या यथेछया || कर्पासास्ति तुषा तैल युक्तं पंचशतं हुने | एकविंश दिनें देवि शक्रस्यापि श्रियं हरेत् || गुरुशुक्ल तृतीया * पूजाकुंभे शतं जपेत् | हुत्वा त्रिमधुरं सेकाद् भष्ट श्रीलभते श्रियं || पिष्ठेन प्राकृतिं कृत्वा मंगुष्ठामष्टकावधि | छित्वापंचशतं हुत्वा स्वकुलां परिनेष्पति || प्. १५४ब्) सिंदूरमक्षतां युक्तं शताष्टपरिमंत्रितं | कृत्वा कन्याकरे दत्वा आविष्टावेष्टकं भवेत् || राजिका धूमजं क्षारं दशधा वाभिमंत्रितं | महोरगप्रशमनं स्नान मात्रेण निश्चितं || तैलं वाथ घृतं वाथ अष्टधा चाभिमंत्रितं | पानात्नाभि प्रदानाच्च प्रसूतें मुखनिद्रया || शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत् | हिताहितेषु कार्येषु स्वपरै चोदयं लभेत् || हताम्वरसमादाय कृष्णमावर्त्य लक्षकं | तथैवा दृश्यकः सत्यं क्रीडते वसुधा तले || पंचविंशति साहस्रं करे कृत्वा वचा जपेत् | जपांते भक्षयेत् प्राज्ञा वागीश्वर समो भवेत् || लक्षार्द्ध होमयेद् वीरः कदंवकुसुमैर्यदा | कुंडोदुत्तिष्ठते शीघ्रं वेतालाः सिद्ध्यते तदा || काकिनी वीरहोमेन तुष्टा भूतपिशाचिका | लक्षार्द्धार्द्धन होमेन नित्यं दद्यात्पलैकिका || कन्याहस्तं तलं गृह्न शतार्द्धं तु श्मशानके | जप्त्वा भूतभविष्यश्च वर्तमान भवत्त्वलिं || नृगोलोचनकौ गृह्य सलालशत * न्वितं | ललाटे तिलकं कृत्वा यः पश्येत् स वशो भवेत् || कुंकुमा गुरुकर्पूर रोचनामि सुमिश्रितैः | शताभिमंत्रितं कृत्वा तिलकं यः करिक्षति || प्. १५५अ) रणे राज कुले द्यूते विवादे स जयी भवेत् | सिद्धर्थ कवचाश्वेता प्रत्युषे कलशोदरे || कृत्वा प्रात चतुर्दश्यां संपूज्य मधुसंयुते | मुखे प्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् || श्रितश्रपुंखिका मूलं शताष्ट परिजापितं | शिरोवेष्टिकये वद्वा परवाण निवारणं || आचारवारभेदेन तत्र देवी न विद्यते | निराचारो पिशाचारा तस्मा देव्याप भावतः || विशेष किं बहुक्तेन सारमेतद् वदाम्यहं | नृ चर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् || यथा गुरु मुखोद् द्विष्ट निर्विकल्पेन साधयेत् | लाक्षारसनिभेनैव हेतुना परिपूरितं || फल्गुं दत्वा तत्र मध्ये पात्रहेतु प्रपूरिते | अष्टम्यां वा चतुर्दश्यां नवम्यां वा विशेषतः || शिवरात्र्यां तथा पूजा निशायां परिपूजयेत् | यथा श्रीचक्रपूजा वै तथा सर्वं समाचरेत् || बिंदुचक्र त्रिकोणे तु महापात्रं तु स्थापयेत् | पंचकाल्यां तु पंचारे चरुकं पंच वै क्रमात् || नातः परतरं भद्रे कालिका क्रम पूजने | भोग्यं स्वर्गं सुखं मोक्षंमाज्ञासिद्धिर्भवेद्ध्रुवं || सत्यं सत्यं महादेवी सत्यमेत व्रवीम्यहं | अन्यथा कुरुते यस्तु हेतवाद कुतर्कतः || प्. १५५ब्) परिश्रमं केवलं तु न स सिद्धिमवाप्नुयात् | इत्यतत् ते समाख्यातं कालिकाया कुलक्रमं || विधानं परमं दिव्यं शास्त्रैकालि क्रमागतैः | गोपनीयं प्रयत्नेन न दद्याद् यस्य कस्यचित् || गुरु भक्ति रतो यो हि महाशास्त्रमयी तु सा | रम्यपुष्पफलं दृष्ट्वा वस्त्रालंकारमेव च || स्वात्म प्रिया निभव्यानि यत् किंचिद् भुवि दुर्लभं | गुरवै प्रथमं दत्वा ततः स्वात्मनि धारयेत् || गुर्वागमक्रमारीशा पूजकाय प्रदापयेत् | गुरु संतुष्टमाने तु संतुष्टा कालिका क्रमं || येनेदं लिख्यते शास्त्रं यस्य हस्तेषु तिष्ठते | यत्र स्थितं प्रपूज्यंते विधिवत् परमेश्वरीं || सनिर्विघ्नं तु षण्मासं यावज्जिवति चैव हि | पुस्तकं पूजितं येन इदं कालि कुलक्रमं || समग्रं पूजितं येन कालिकाकालनाशिनी | आब्रह्मस्तंभ सकलं कालेन कलयेत् सदा || तं कालं कालिका देवी कलयेत् सायुगे युगे | न काली सदृशी यज्ञो न काली सदृशी तपः || न कालि सदृशी धर्मो न काली सदृशी भुवि | जीवन्मुक्तः स विज्ञेयो महापाशुपतः स वै || महायोगी विजानी हि कालिका पथसंश्रिताः | अहं मृत्युंजयो देवो मंगलार्चनतो भवेत् || प्. १५६अ) कलौ विशेषतो काली पूजितव्या प्रयत्नतः | देवता संयुतं विघ्नं वर्जितस्थानकं प्रिये || योऽज्ञाता भैरवो देवो श्रोतारुद्र समो भवेत् | स एव कधा च बहुधा साकानां हिताय च || नानातंत्र प्रवाहास्तु नानाम्नायत्वमागताः | तंत्र भेदे नाम भेदा एकाशक्ति सहस्रधा || मंगला च महामाया चंडकापालिनी शिवा | चामुंडा चर्चिका चंडा सृष्टि स्थित्यंत कालिणी || अनाख्या च महाभावा गुह्यकाली जया परा | सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यंगिरा स्मृता || सुंदरी त्रिपुरा चारु उग्रचंडा प्रकाशिनी | विभिम्ना वहुधा जाता नानाभेदसमाश्रिता || एकासा वहु रूपा च जानीयाद् दिव्य चक्षुषा | स एव साधका श्रेष्ठः सिद्धिज्ञानस्य भाजनं || अनुस्थानरता सर्वं सिद्धिभागी भवेद्ध्रुवं | इति श्रीवाराही तंत्रे दक्षिणाम्नायनिर्वाणपदे पंचविंशति पटलः || २५ || भैरव उवाच || कुर्यात् तदासनं तस्मादारोग्यं चांगलाघवं | वशिष्ठाद्यैश्च मुनिभिर्मत्स्यैंद्राद्यैश्च योगिभिः || अंगीकृतान्यासनानि कथ्यंते कानि चित्सदा | जानुर्चोरंतरे सम्यक् कृत्वा पादतले उभे || ऋतुकायः समासीनः स्वस्तिकं तन् प्रचक्षते | प्. १५६ब्) सव्ये दक्षिणगुल्फं तु पृष्टापार्श्वे नियोजयेत् | दक्षिणेऽतथा सव्यं गोमुखं गोमुखं तथा || एकं पादं तथैकस्मिन्विन्यस्योरुणि संस्थितं | इतरश्मिं तथा चैकं वीरासनमितिरितं || गुदं निष्पीडा गुल्फाभ्यां व्युक्तमेण समाहितः | कूर्मासनं भवेदेतदिति योगविदोविदः || पद्मासनंस्तु संस्थाप्य जानुर्वोरंतरे करैः | विन्यस्य भूमौ संस्थाप्य व्योमस्थः कुक्कुटासनं || कुक्कुटासनमध्यस्थोद्दौर्भ्यासं वंध्यकं धरा | सते कूर्म वदुत्तान एतदुतान कूर्मकं || पादांगुष्ठौ तु वाहुभ्यां गृहीत्वा श्रीवणावधि | धनुराकर्षणं कुर्याद्धनुरासनमुच्यते || वामोरुमूलार्पित दक्षपादं जानोर्वहि वेष्ठित वमपादं | प्रगृह्य तिष्ठेत् परिवेत्ति ताग्रः श्रीमत्स्यनाथोदित मासनं स्यात् || मत्स्येंद्र पीठ ज्वलन प्रदीप्तं प्रचंडरुग्मं न * खण्डनास्त्रं | अभ्यासतः कुंडलिनी प्रबोधं दंडस्थिरत्वं वददाति पुंसां || उत्तानशववद्भूमौ शमनं च सवासनं | सवासनं शांति हरं चित्त विशांति कारकं || चतुराशीति भ्यासनानि शिवेन कथितानि तु | प्. १५७अ) तेभ्यश्चतुष्कमादाय सारभूतव्रवीम्यहं | सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयं || श्रेष्ठ तत्र द्वयं तिष्ठेत् पद्मसिंहासने सदा | योनि स्यातकमंघ्रिमूलघंटितं कृत्वा दृढं विन्यसे मेढे पादमथैकमेव नियतं कृत्वा समं विग्रहं || स्थानु संप्रतितेंद्रियौ चलदृशा पश्यन्नुवोरं * चैतन्मोक्ष * कपाटभेदजनकं सिद्धासनं प्रोच्यते || मेढ्रादुपरिनिक्षिप्य सव्यगुल्फ तथोपरि | गुल्फांतर च निःक्षिप्य सिद्धासनमिदं भवेत् || एतत् सिद्धासनं प्राहुरन्ये वज्रासनं विदुः | सुक्तासनं वदंत्येके प्राहुर्गुप्तासनं परे || यमेष्विवमिताहारः अहिंसा नियमेष्विव | मुख्यं सर्वासनेष्वेकं सिद्धासिद्धासनं विदुः || चतुराशीति पीठेषु सिद्धमेव सदाभ्यसेत् | द्विसप्तति सहस्रैषु नाडीनां मल शोधने || आत्मध्यायी मि * हारी यावद्वादशवत्सरं | सदा सिद्धासनाभ्यासाद् योगिनी प्राप्तिमाप्नुयात् || किमाद्यैर्बहुभिः पीठैः सदासिद्धासने सति | प्राणानित्ये सावधाने वर्द्ध केवलकुंभके || उरुद्यंते विनिभ्यासा स्वयमेवोत्मनी यथा | तथैकस्मिन्नेव दृढे वद्धे सिद्धासने सदा || बंधत्रयसनायासात् स्वयमेवोपजायते | न चासनं सिद्धसनं न कुंभसदृशो निल || प्. १५७ब्) न खेचरी समामुद्रा न नाद सदृशो लयंः | वामोरूपरिदक्षिणं च वरणं संस्थाप्य चामं तथा जानु भूपरिपश्चिमेन विधिना धृत्वा कराभ्यां दृढं || अंगुष्ठौ हृदये निधाय चिबुकं नासाग्रमालांकये तद्व्याधिविनाशनाय यमिनां पद्मासनं प्रोच्यते || उत्तानौ चरणौ कृत्वा उरू संधौ प्रयत्नतः | उरू मध्ये तथोत्तानौ पाणौ कृत्वा ततो दृशौ || नासाग्रे विन्यसेद् दृष्टी दंतमूलं च जिह्वया | उद्धृत्य चिबुकं वक्ष्ये स्थापयेत् पचनैशनैः || इदं पद्मासनं प्रोक्तं सर्वव्याधि विनाशनं | दुर्लभं येन केनापि धीमता लभ्यते भुवि || कृत्वा संपुटितौ करौ दृढतरं बध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यानच्चतच्चेतसि || वा स्वा * रसपार्दमूर्द्धमनिलं प्रोल्लास यत् पूरितं मुंचन् प्राणमुपैति बोधमतुलं शक्तिं प्रबोधो दयात् || पद्मासने स्थितो योगी नाडी द्वारेण पूरयेत् | मारुतं यस्तु पिबति समुक्तो नात्र संशयः || गुल्फो च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् | दक्षिणे सव्य गुल्फं तु दक्षगुल्फं तु सव्यके || हस्तौ भुजानुनोः स्थाप्य स्वांगुलीः संप्रसार्य च | व्यात्तवक्त्रौ निरीक्षेत मासाग्रे न्यस्त लोचनः || प्. १५८अ) सिंहासनं भवेदेतत् पूजितं योगिभिः सदा | बंध त्रितयसंधानं कुरुते चासनोत्तमं || गुल्फो च वृषण स्याधः सीवन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढं बध्वा सुनिश्चलं || भद्रासनं भवेदेततत् सर्वं व्याधि नाशनं | गोरक्षासनमित्याहुरिदं वै सिद्ध योगिनः || एवमानवंधणेषु योगिंद्रो विगतं श्रमः | अथाभ्यसेन्नाडि शुद्धं मुद्रादि पवन क्रियां || क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् | न शास्त्र पाठमात्रेण योगसिद्धि प्रजायते || न वेषधारणं सिद्धे कारणं न च तत्कथा | क्रियैव कारणं सिद्धः सत्यमेव न संशयः || सिष्णोदररता ये हे न देयो वेषधारिणः | मयि बोधी बुधो स्वस्थे तुछोयं विश्वबुद्बुदः || मलीन उदितो वेत्ति विकल्पावसरः कुतः | आसनं कुंभकश्चित्रं मुद्रादि करणानि च || अथादानानु संधेन स्यादभ्यासान् क्रमो हठे | ब्रह्मचारी मिताहारी त्यागी योगपरायणः || अब्दादूर्द्धं भवेत् सिद्धिन्नात्र कार्याविचारणात् | सुस्निग्धा मधुराहार चतुर्थांशविवर्जितः || भुजाविमांसदधितक्र कुलत्थकोलपि | नद्याकहिंगुलशुनाद्यमपश्यमाहुः || भोजनमहितं विद्यात् पुनरघुलीकृतं | रुक्षं अतिलवणं तिलपिंडकदशनम् || प्. १५८ब्) वर्जयेद्धुर्जन प्रीति वह्निस्त्री पठसेवनं | प्रातस्नानोपवासादि कायक्लेशादिकं तथा || गोधूमशालि जवषष्ठिकशोभनान्तं क्षीराज्य खण्ड नवनीतसितामधूनि || सूढीपटोलफलकादि च शाकमुक्तं मुंगादि दिव्यमुदकं च यमीन्द्रपंथां || इष्टं स मधुरं स्निग्धं गव्यं धातु प्रपोषणं | मनोभिलषितं योग्यं योगीभोजनमाचरेत् || युवावृद्धोऽति * द्धो वा व्याधितो दुर्वलस्तथा | अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्ट तंद्रितः || पीठाति कुंभकश्चित्रं मुद्रादि करणानि च | सर्वस्य विह *? भ्यासे राजयोगफलावधि || अथासने दृढे योगी वशीति हमितासनः | गुरूपदिष्टमार्गेन योगमार्ग समभ्यसेत् || चलवातेजलंवित्तं निश्च निश्चलते तथा | योगीस्थाणुत्व माप्नोति ततो वायुं निरुंधयेत् || यावद्वातास्थितो देहे तावज्जीवनमुच्यते | मरन तस्य निःक्रांति तस्माद् वायु न रुंधयेत् || मलाकुलासु नाडीषु मारुती नैव मध्यगः | कथं स्यादुत्मनी भावः कार्यसिद्धिः कथं भवेत् || शुद्धिमेति यथा सर्वं नाडी चक्रं मलाकुलं | तदैव जाते योगी प्राणसंग्रहणे क्षमः || प्राणाभ्यासं ततः कुर्यान्नित्यं सात्विकयाधिया | प्. १५९अ) यथा सुखेमवस्थायमलाः शौषं प्रयांति च | वद्धपद्मासने योगी प्राणं चंद्रेण पूरयेत् || धारयित्वा यथा शक्त्या भूयः सूर्येण रेचयेत् | प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः || विधिवत् कुंभकं कृत्वा पुनः चंद्रेण रेचयेत् | येन त्येजेत्तेना पूर्यधारयेदविरोधतः || रेचयेच्च ततोऽन्येनशनैरेव न वेगतः | प्राणं त्रयापितेन्नियमितं भूयोऽन्ययारचयेत् पीत्वा पिंगलया समीरणमथो वध्वा त्यजेद् वामया || सूर्याच्चंद्रमसोरनेन विधिना विंवद्वयं ध्यायतां शुद्धानाडि गणा भवंति यमिनां मासत्रयादूर्द्धतः || प्रातर्मध्ये दिने शाय मध्यरात्रे च कुंभकान् | शनैरशीति पर्यंतं चतुर्वारं समभ्यसेत् || अधमं जायते स्वेदः कंपो भवति मध्यमे | उत्तिष्ठ चोत्तमे प्राणा वद्धे पद्मासने मुहुः || जलेन श्रमजातेन गात्रमर्दन माचरेत् | दृढता लघुता वापि तेन गात्रस्य जायते || अभ्याकाले प्रथमेशस्मक्षीराज्य भोजनं | ततोभ्यासे स्थिरी भूतेन तादृग् नियमग्रहः || यथा सिंहो गजो व्याघ्रो भवेद् वश्य शनैः शनैः | तथैव सेवितो वायुरन्यथाहंति साधनं || प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् | अयुक्ताभ्यांसयोगेन सर्वरोगसमुद्भवः || हिक्काकाशस्तथा श्वास शिरः कर्णाक्षि वेदना | प्. १५९ब्) भवंति विविधा दोषाः पवनस्य व्यति क्रमात् | युक्तं युक्त त्यजेद् वायुः युक्तं युक्त च सेवयेत् || युक्तं युक्त च वध्नीयादेवं सिद्धिमवाप्नुयात् | यदा नाडि विशुद्धिः स्यात् तदा चिह्नानि वाह्यतः || कायस्य क्रियते कांतिस्तथा जायेत निश्चितं | यथाष्टं धारणं वायोरानलस्य प्रदीपनं || नादाभिव्यक्तिरारोग्यं जायते नाडि शोधने | मेदः श्लेष्मादि नाशार्थं षट्कर्मादि समाचरेत् || अन्यथा नाचरेत् ज्ञानि दोषाणां समभावतः | धोतीवर्तिश्च नेतिश्च त्राटकं नौलिकं तथा || कपालभाथी चैतानि षट्कर्माणि प्रचक्ष्यते | कर्मषट्कमिदं गोप्यं घटशोधनकारकं || विचित्रगुणसंधायी पूज्यते योगपुंगवैः | चतुरंगुलविस्तारं हस्तपंचदशेन तु || गुरूपदिष्टमार्गेण सिक्तं वस्त्रंशनैग्रसेत् | ततः प्रत्याहरे चैव दुदितौ धौति कर्म तत् || श्वासः काशः प्लीह कुष्टां कफरोगाश्च विंशति | धौती कर्म प्रभावेन शुद्ध्यंते च न संशयः || नाभि दघ्नेन लेपायुन्यसनालोत्कटासनः | आधारात् कुंचनं कुर्यात् क्षालनं वस्ति कर्म तत् || गुल्पप्लिहोदलं वापि वातपित्तकफोद्भवं | वस्तिकर्म प्रभावेन क्षीयंते सकला मला || प्. १६०अ) धोन्विंद्रियांतकरणप्रसादं दधास्वकांतिं दहनप्रदीप्तिं | अशेषदोषोपचयंति हन्यादत्यस्य मानं जलपस्ति कर्म || मुत्रं वितस्ति सुस्निग्धनासानासप्रवेशयेत् | मुख निर्गमना देव नेति सिद्धैर्निपाद्यते || कपालशोधिनी कार्या दिव्य दृष्टि प्रदायिनी | यत्तूर्द्ध जातरोगोद्यानेतिराशुनिहंति च || निरीक्ष्यनिश्चला दृष्ट्या सूक्ष्मलक्षं समाहितः | अश्रुसम्पतपर्यंतमाचार्यैस्ताटकंस्ततं || स्फोटनं नेत्ररोगी च तंद्रानां तु कपाटकं | प्रयत्नात्त्राटकं गोप्यं यथा हाटकपेतकं || अमंदावर्तवेगेन तुंदसव्यापसव्यतः | अतशो भ्रामयेदेषा नौली गौलैः प्रशस्यते || मंदाग्निसंदीपनपाचकादि संधापकानंदकरी सदैव | अशेषदोषामलशोषणीव हटक्रियासो जयतीहनौली || लोहकालस्य भस्त्रीवत् कुर्यात् सव्यापसव्यतः | कपालभाष्यं विख्यात कफदोषविशोधिनी || षट्कर्मभिर्गतस्थौल्यं कफमेदो वलाधिक | प्राणायाम ततः कुर्यादनायासेन सिद्ध्यति || प्राणायामै सुखात् सर्वे प्रशुद्ध्यंति मलाशयाः | आचार्यानां तु केषांचिदन्यत् कर्म न सन्मतं || षट्कर्म योगमाप्नोति पचनाभ्यास तत्परः | ब्रह्मादयोऽपि विदशाः प्राणायामपरायणा || प्. १६०ब्) तेन सिद्धिं गतास्ते च तस्मात् पवनमभ्यसेत् | सुमनाकांतकाभव्य तस्मात् पवनमभ्यसेत् || यावद् वद्धौमरुद् देहे यावच्चित्तं निरामयं | यावत् पश्यद्भुवौर्मध्यं तावत् कालं भये कुतः || विधिवत्प्राणसंयामे नाडीचक्रे विशोधिते | सुषुम्ना वदनं भित्वा सुखद्विगतिमारुतः || मारुतमध्यसंचारे मनस्थैर्य प्रजायते | यो मनः सुस्थिरो भाव सैवावस्था मनोन्मनी || तत्सिद्धये विधानज्ञो चित्रात् कुर्वंति कुंभका | विचित्रकुंभकासाद्विचित्रां सिद्धिमवाप्नुयात् || सूर्यभेदनमुख्यायी तथाशीत्का * *? तली | भस्तीका भ्रमरीमूर्छा केवलश्चाष्टकुंभकाः || पूरकांते तु कर्तव्यो वंधोजालं धराभिधः | कुंभकांते रेचकादौ कर्तव्यस्तुड्डियानकः || अधस्ता कुंचने भाशुकंठसंकोचने कृते | मध्यपश्चिमतानेन स्यात् प्राणो मध्यनाडिगः || अपानमूर्द्धमुत्थाप्य प्राणं कंठादधो नयेत् | योगी जराविमुक्तश्च षोडशाब्द वयो भवेत् || अथासने सुखादेव वध्वावज्रासनं ततः | दक्षणाड्यासमाकृख्य वहिस्थापवनं शनैः || आकेशाग्रान्नखाग्रं च शिरोप्यवधिकुंभयेत् | कृत्वा वैवामनाड्या च चालयेत् पवनं शनैः || प्. १६१अ) कपालशोधनं वात दोषघ्नं कृमिनाशनं | पुनः पुनरिदं सूर्य भेदनं समुदाहृतं || मुखं स यस्य नासाभ्यां आकृष्य पवनं शनैः | यदा च गति कंठांतं हृत्पद्मवधिशोधनं || पूर्ववत् कुंभयेत् प्राणाद्द्रेचयेदितया ततः | श्लेष्मादौषहरं देह वलदीप्तिविवर्द्धनं || कुंभं कुर्यात् सदा वक्त्राद् घ्राणे चैव विजृंभितं | एवमभ्यासयोगेन कामदेवो द्वितीयकं || योगी चक्रं समासाद्य सृष्टिसंहारकारकः | न क्षुधा न तृषा निद्रा नैवालस्यं तु जायते || भवेश्वछंद देहश्च सर्वोपद्रव वर्जितः | अनेन विधिना सत्यं योगींद्रो भुवि मंडले || रसना तालु मूलेन यः प्राणं सततं पिबेत् | स भवेत् सर्वसिद्धीनां भाजनं नात्रसंशयः || रसना तालु मूलेन यः प्राणं सततं पिबेत् | अब्दार्द्धेन भवेत् तस्य सर्वगां सुस्थिरः क्रियां || जिह्वाया वायुमाकृष्य पूर्ववत् कुंभसाधनं | प्राणैस्तु प्रणरंध्राभ्यां रेचयेदनिलं शनैः || गुल्म श्लेष्मादयो दोषाः ज्वरपित्तक्षुधा तृषा | एतानि शीतली नामः कुंभकोऽयं निहंति च || उर्वोरुपारसंस्थाप्य उभे पादतले तथा | पद्मासनं भवेत् सम्यक् सर्वपापप्रणाशनं || सम्यक् पद्मासने वध्वा समगीवोदरः सुधी | प्. १६१ब्) मुखं संयस्य यत्नेन प्राणं घ्राणेन्द रेचयेत् | अथैव स्वशरीरस्थं चारयेत् पवनं स्थली || सुखसंम्यक् प्रयत्नेन प्राणं घ्राणेन रेचयेत् | यदा गलति हृत्कंठे कपालपवनं ततः || वेगेन पूरयेत् केचिद् हृत्पद्मावधिमारुतं | पुन विरेचयेत् तद्वत् पुरयेच्च पुनः पुनः || यथैव लोहकाराणां भस्त्री वेगेन चारयेत् | तथैव स्वशरीरस्थं चालयेत् पवनं शनैः || यदाश्रमो भवेन् देहे तदा सूर्येण रेचयेत् | अथोदरं भवेत् पूर्णं रेचनैर तथा लघु || धारयेन्नासिका मध्ये अंगुलीभ्यां तथा दृढं | कुंभकं पूर्ववत् कृत्वा रेचयेद्वित्रया निल || वातपित्त श्लेष्म हरं शरीराणि विवर्द्धनं | कुंडली बोधकः कुंभो रोगघ्नः सुखदः शुभः || ब्रह्मनाडी मुखे संस्थः कपालार्गल नाशनः | सम्यग्सस्त्रासमुद्भूतो ग्रंथि त्रय विभेदकः || वेगाद्दोषं पूरकं भृंगनादं भृंगी नादं रेचकं मंद मंदं | योगींद्राणामेवमभ्यासयोगाचित्तै पाताका चिदानन्दमूर्छा || पूरकांते वहुतरं वध्वा जालंधरै शनैः | रेचयेन् मूर्छनास्थोयं मनोमूर्छासुखप्रदः || अंतः प्रवर्तिता धार मारुता पूरितोदरः | साक्षात् पयस्य गाधोऽपि प्लवतो ब्रह्मपत्रवत् || प्राणायामस्त्रिधा प्रोक्तो रेचपूरक कुंभकैः | प्. १६२अ) सहितः केवलश्चेति कुंभको द्विविधो मतः | रेचकः पूरक कार्य स वै सहित कुंभकः || यावत् केवल सिद्धि स्यात् तावत् सहितमंन्यसेत् | रेचकं पूरकं मुक्त्वा मुखाद्वायु निरोधनात् || प्राणायामोऽयमित्युक्तः स वै केवल कुंभकः | केवलकुंभके सिद्धे रेचं पूरक वर्जितं || न तस्य दुर्लभं किंचित् त्रिषु कालेषु विद्यते | शुद्ध केवल कुंभेन यथेष्टं वायु धारणं || राजयोग पदं चैव लभ्यते नात्र संशयः | हठं विना राजयोगो राजयोगं विना हठ || न सिद्ध्यति ततो युग्मनानिष्पत्तेः समभ्यसेत् | कुंभकः प्राणरेचांते कुर्यात्रित्तं निरामयं || एवमभ्यासयोगेन राजयोग पदं व्रजेत् | कुंभकात् कुण्डली बोधः कुंडलो बोधतो भवेत् || अनुर्गता सुषुम्ना च हठसिद्धिश्च जायते | वपुः कृशत्वं वदने प्रसन्न नादस्फुटत्वं नयने च निर्मले || आरोग्यतां बिन्दु जयोग्नि दीपनं नाडीषु सिद्धिर्हठसिद्धिलक्षणं | स शैलवनधात्रीनां यथाधारो हि कुंडली | सुप्तागुरु प्रसादेन यथा यागर्ति कुंडली || तया पद्मानि सर्वाणि भिद्यंते ग्रंथयोपि च | प्राणस्य शून्य पदवी तदा राजपथायते || तथा चित्त निरालंबं तथा कालस्य वंधनं | प्. १६२ब्) सुषुम्ना शून्य पदवी ब्रह्मरंध्रं महापथः | श्मशानं शांभवी मध्य मार्गश्चेत्येककवाचका || तस्मात् सर्वप्रयत्नेन प्रबोधयतुमीश्वरी | ब्रह्मद्वारमुखसुप्तं मुद्राभ्यासं समाचरेत् || महामुद्रामहावंधो महावेधंश्च खेचरी | उड्डियानं मूलबंधः ततोजालंधराभिधः || करणी विपरीताख्या वज्रोली शक्ति चालनं | इदं च मुद्रा दशकं धरामरणनाशनं || आदिनाथोदितं सर्वं अष्टौश्वर्य प्रदायकं | वल्लभं सर्वसिद्धानां वल्लभं मनुजामपि || गोपनीयं प्रयत्नेन यथारत्न करंडकं | कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा || वज्रोली रमरोभिश्च सहजालिस्त्रिधा मता | एतेषां लक्षणं वक्ष्य कर्तव्यं च विशेषतः || पादमूलन वामेन योनि संपीड्यदक्षिणं | पादं प्रसारितं धृत्वा कराभ्यां धारितत्सुखं || कंठे वंधंसमारोप्य धारयेद्वायुमूर्द्धतः | यथादंडाहतः सर्पो दंडाकारः प्रजायते || ऋज्वा भूता तथाशक्तिः कुण्डली सहसा भवेत् | तदस्ति मननावस्था जायते द्विपुटाश्रिता || ततः शनैशनैरेव रेचयेन् न तु वेगतः | इयं खलु महामुद्रा महासिद्धैः प्रशस्यते || महाक्लेशादयो दोषा जायंते मरणादयः | प्. १६३अ) महामुद्रा च ते नैव वदंति विवुधोत्तमा | चंद्रासै च समभ्यस्य सूर्याशे पुनरभ्यसेत् || यावत् संख्या भवर्तुल्या ततो मुद्रां विसर्जयेत् | नापथ्यं न हि पथ्यं च रसा सर्वेऽपिरीरसा || अपि मुक्तं विषं घोरं पीयूषमिव जीर्यति | क्षयं कुष्टं मुदावत्तं तुल्याजीर्ण पुरोगमाः || दोषाः सर्वक्षयं यांति महामुद्रां तु योऽभ्यसेत् | कथितेयं महामुद्रा महासिद्धिकरी नृणां || गंभ्यनीया प्रयत्नेन न देया यस्य कस्यचित् | र्ष्णि भागेन पादस्य योनि स्थानं नियोजयेत् || वामोरूपरिसंस्थाप्य दक्षिणं चरणं तथा | पूरयित्वा ततो वायुं हृदयं चिबुकं दृढं || निक्षिप्य योनिमाकुंच्य मनो मध्ये नियोजयेत् | धारयित्वा यथाशक्त्या रेचयेदनिलंशनैः || संव्यागवसमभ्यास्य दक्षिणे नरमभ्यसेत् | मतमेतं तु केषांचित् कंठवंधं विवर्जयेत् || शतदंतस्य जिह्वायां वंधः शस्त्रो भवेद्वितः | अयं किल महावंधः महासिद्धि प्रदायकः || महामुद्रा च ते नैव वदंति विवुधोत्तमा | चंद्रासै च समभ्यस्य सूर्याशे पुनरभ्यसेत् || यावत् संख्या भवर्तुल्या ततो मुद्रां विसर्जयेत् | नापथ्यं न हि पथ्यं च रसा सर्वेऽपिरीरसा || प्. १६३ब्) अपि मुक्तं विषं घोरं पीयूषमिव जीर्यति | क्षयं कुष्टं मुदावर्तं तुल्याजीर्णपुरोगमाः || दोषाः सर्वक्षयं यांति महामुद्रां तु योऽन्यसेत् | कथिते यं महामुद्रा महासिद्धिकरी नृणां || गंभ्यनीया प्रयत्नेन न देया यस्य कस्यचित् | पार्ष्णि भागेन पादस्य योनि स्थानं नियोजयेत् || वामोरूपरिसंस्थाप्य दक्षिणं चरणं तथा | पूरयित्वा ततो वायुं हृदयं चिबुकं दृढं || निक्षिप्य योनिमाकुंच्य मनो मध्ये नियोजयेत् | धारयित्वा यथाशक्त्या रेचयेदनिलंशनैः || संव्यागवसमभ्यास्य दक्षिणे नरमभ्यसेत् | मतमेतस्तु केषांचित् कंठं वंधं विवर्जयेत् || शतदं तस्य जिह्वायां बंधः शस्तो भवेद्वितः | अयं किल महावंधः महासिद्धि प्रदायकः || कालपाशमहावंध विमोचन विचक्षणः | अयं च सर्वनाडीनामूर्द्ध्नं गति विबोधकः || त्रिवेणी संगमं धर्ते केदारं पापयेत् मनः | रूपलावण्य संपन्न यथास्त्री पुरुषं विना || महामुद्रा महावंधौ निःफलौ वेध वर्जितौ | महावेधा स्थितो योगी कृत्वा पूरकमेकधीः || वायी नामति मावृत्त्य निभृतं कंठमुद्रया | समहस्ता युगो भूयो स्फिचौ संताडयेछनैः || पुट द्वयं समाकृष्य वायुः स्फुरति सत्वरं | प्. १६४अ) सोमसूर्याग्निसंबंधा जायते च मृतोर्जयः | मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् || महावेधो यमभ्यासान् महासिद्धि प्रदायकः | वलीपलितवंधघ्नः सेव्यते साधकोत्तमैः || एतत् त्रयं महामुद्रा जरामृत्युविनाशिनी | वह्निवृद्धि करा चैव मनिमादि गुणप्रदं || अष्टधा क्रियते चैकं यामयामे दिने दिने | सर्वसंचारसंधायी पापौघाभिदुरं सदा || सम्यजिज्ञासतामेवं स्वल्पं प्रथमसाधनं | वह्निस्त्री पठिसेवा नामादौ वर्जनमाचरेत् || छेदनचालनदोहैः कला क्रमेण चोद्धयेत् | सायावद्भूमध्यं चेति तदा खेचर मुद्रया || कपालकुहरे जिह्वा प्रविष्टो विपरीतगा | भ्रूवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी || कलां परां मुखी * भ्यक्षणार्द्धेमपि तिष्ठति | क्षणेन मुच्यते योगी व्याधिमृत्युजलादिभिः || न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा | न च मूर्छा भवेत् तस्य यो मुद्रां वेष्टि खेचरी || वाध्यते न स रोगेन लिप्यते न स कर्मणा | बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरी || वित्तं चरति खे यस्माज्जिह्वा चरति खेगता | ते नैव खेचरी मुद्रा सर्वसिद्धिर्नमस्कृताः || खेचर्या मुद्रितं येन विवरलंबिकोर्द्धतः | तस्य न क्षरते विंदुः कामिन्या लिंग तस्य च || प्. १६४ब्) चरितोपि यदा बिंदुः संप्राप्तश्चाग्नि मंडलं | ब्रह्मत्युर्द्धं हठाछक्त्या निरोधो योगमुद्रया || ऊर्द्धजिह्वा स्थितो भूत्वा सोमपानं करोति यः | मासार्द्धेन न संदेहो मृत्युंजयति योगवत् || नित्य सोमकलापूर्णं शरीरं यस्य देहिनः | तक्षकेनापि दंष्टस्य विषं तस्य न सर्पति || गोमांसं भक्षयेन् नित्यं पिबेदमरवारुणीं | कुलीनं तमहं विद्या इतरे कुलघातकाः || गोशब्दे नोदिता जिह्वा तत्प्रवेशो हि तालुनि | गोमांसं भक्षणं तच्च महापातकनाशनं || जिह्वा प्रवेशनं भूतं बहुनात्यादितं खलु | चंद्रात् स्रवति या सम्यक् सास्यादमरवारुणि || मूर्द्धं षोडश पद्मपत्र गलितं प्राणांदवाप्तं हठादूर्द्धास्यो रसनां विधाय विपरे शक्तिं परां चिंतयेत् || तत्कल्लोलजः लाकुलं सुविमलं धारामृतं यः पिबेत् निर्दोषः समृणाल कोमल तनुर्योगी विरंजी पति || चुयंति यदि लंबिकाग्रमनिशं जिह्वारसस्पंदिनी स क्षाराकटु *? दुग्ध सदृशी सध्वाज्य तुल्यं तथा || व्याधीनां हरणं जरांतकरणं शास्त्रागमोद्गीरणं तस्य स्यादमरत्व गुष्ठगुणितं सिद्धां गणाकर्षणं || एवं सृष्टिमयं बीज एकामुद्रा च खेचरी | एको देवो निरालंब एकावस्था मनोन्मनी || प्. १६५अ) सुचिरं ज्ञानजनकं पंचस्रोतः समन्वितः | तिष्ठंती खेचरी मुद्रा तस्मिन् शून्यनिरंजने || यप्रालेपं पिहित सुखिलं मेरू मूर्द्ध्या तथैततस्मिंस्तत्वं प्रवदति सुधी चस्तन्मुख निम्नगा चंद्रात्सारस्रवति वपुषस्तेन मृत्युन्नराणांत वह्नीयाद्वरुणममृतं नान्यथा कार्य सिद्धि || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे षड्विंशति पटलः || २६ || भैरव उवाच || पार्ष्णि भागेन संपीड्ये योनिमाकुंचय दृढं | अपानमूर्द्धमाकृष्य मूलबंधोयमुच्यते || अधोगतमकारं वै ऊर्द्धगं कुरुते वरात् | आकुंच्य तेन तं प्राहु मूलबंध हि योगिनः || गुरुपाष्ण्या तु संपीड्ये वायुमाकुंचयद्वलात् | वारं वारं तथा चोर्द्ध समायाति समीर || प्राणादितोदितो बिन्दुः मूलबंधेन चैकतः | ततो योगससंसिद्ध्यै प्रमा तत्र न संशयः || अपानप्राणयोरैक्याक्षयो मूत्र पुरीषयोः | युवा भवति वृद्धौऽपि सततं मूलबंधनात् || अपाने चोर्द्ध माया ते मध्यतः नाभिमंडले | तथा नरे शिखा दीर्घा क्रियते वायुनाहता || ततो वायु वह्नि योगौ प्राणायाम स उच्यते | तेनात्यंतः प्रदीप्तस्तु कुतो देहक्षयस्तदा || तेन कुंडलिनी सुप्ता संतता संप्रबुद्ध्यते | प्. १६५ब्) दंडाहताभुजंगीवनिश्वस्य ऋजुनायिका | विलं प्रतिष्ठाच्च ततो ब्रह्मणाड्यंतरे व्रजेत् || तस्मान् नित्यं मूलबंधः कर्तव्यो योगिभिः सदा | उर्द्ध स्थितः सुषुम्नायाः प्राणस्तुड्डीयते यतः || तस्मात् त्वे उड्डियानाख्या योगिभिः समुदाहृतः | उडडीनं कुरुते यस्मादविश्रांतं महाखगः || उड्डियानं तदेयं स्यात् क्षत्रबंधोऽभिधीयते | उड्डियानं तु सहजं गुरुना कथितं सदा || अभ्यसे सततं यस्तु वृद्धोऽपि तरुणो भवेत् | नाभेरुर्द्ध्व मधश्चापितानं कुर्याच्च यं नतः || योगी समभ्यसेत् मृत्युंजयत्येवन्न संशय | अति वज्रासने पादौ कराभ्यां धारये दृढं || गुल्फदंशसमीपं च कदं तच्च प्रवीच्यते | पश्चिमतानंमुपरिकारयेद्धृदय गल || शनैः शनैर्यथा प्राप्तं तदा गंधिं प्रगछति | सर्वेषामेव वंधानामुत्तमोहुड्डियानकः || उड्डियाने दृढे वंधे मुक्तिः स्वाभविकी भवेत् | कंठमाकुंच्य हृदये स्थापये दृढमिछय || वंधोजारं धराख्योयं जरामृत्युविनाशकः | वध्नाति हि शिराजालं अधोगानि न भोजनं || ततो जालंधरो बंधः कंठदुःखाघनाशनः | जालंधरे कृते बंधे कंठसंकोचलक्षणे || मंपीयूषंयतत्यग्नौ न च वायुः प्रधावति | प्. १६६अ) संकोचलक्षणे नैव द्वे नाड्या स्तंभयेद् दृढं | मध्यं चक्रमिदं ज्ञेयं षोडशाधारबंधनं || बंधत्रयामिदं श्रेष्ठं महासिद्धैश्च सेवितं | सर्वेषां योगतंत्राणां सधेनं योगिनों बिदुः || अधस्म कुंचरेनाशुकंठसंकोचने कृते | मध्यमश्विमतानेन स्यात् प्राणामध्यनाडिगः || इडा च पिंगला चैव वाहयेत् पश्चिमं पथं | ब्रह्मस्थानस्थितोरोधः प्रयाति पवनोलयम् || ततो न जायते मृत्युर्जरारोगादिकं तथा | उर्द्ध्वनाभि * रः स्तालुरुर्द्धभानुरधः शशी || करणी विपरीताख्या सर्वव्याधिविनाशिनी | नित्यमभ्यासयुक्तस्य जठराग्नि प्रवर्द्धिनी || आहारोवहुलस्तस्य सम्पाद्यः साधकस्य तु | अल्वाहारो निराहारः क्षुधालस्य वसा भवेत् || अद्धाशिरश्चोर्द्धपादौ क्षण स्यात् प्रथमे दिने | क्षणाच्च किंचिदधिकं अभ्यासे च दिने दिने || वलितं परितं चैव षण्मासां तु न दृश्यते | मासत्रयं तु यो नित्यमभ्यसे स तु कालवित् || स्वेच्छाया वर्तमानोऽपि योगोकैर्नियमर्चिना | वज्रोलीय विजानाति स योगी सिद्धिमान् भवेत् || तत्र वस्तु द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् | क्षीरं चैव द्वितीयं तु नारी च वश वर्तिनी || मेढ्रेन वसनैः सम्यक् कृत्वा कुंचनमभ्यसेत् | प्. १६६ब्) पुरुषो वापि नारी वा वज्रोली सिद्धिमाप्नुयात् | प्रयत्नतः शिरो जाले फट्कारः कंचुकं धरे || शनैः शनैः प्रकुर्वंति वायुसंचार कारणात् | भार्या भगे पतद्विंदुरभ्यासेनोर्द्धमाहरेत् || वलितं वलितं विंदुमूर्द्धमाकृष्यरक्षयेत् | एवं रक्षति यो बिंदुं मृत्युं जयति योगवित् || मरणं बिंदुपातेन जीवितं विंदुधारणात् | सुगंधिर्योगिनो देहो जायते विंदुधारणात् || यावद् विन्दु स्थितो देहे तावन् मृत्यु भयं कुतः | चित्तायत्तं नृणां शुक्लं शुक्रायत्तं हि जीवितं || तस्माच्छुक्रं रजश्चैव रक्षणीयं प्रयत्नतः | बिंदुमध्ये रजोऽप्येवं बीजं बिंदु च रक्षयेत् || मेढ्रेमाकुंचयदूर्द्धं सम्यगभ्यास योगवित् | अप्रयासः पुण्यवतं धन्यानां तत्वदर्शितं || निर्म *? त्सरणा सिद्ध्यंतन तु मत्सरणालिनां | सहजोली चामरोली वज्रोल्या एकभेदतः || जलेषु भस्मनिःक्षिप्य दग्धमयसमुद्भवं | वज्रोली मैथुनादूर्द्धं स्त्रीपुंसाः स्वांगलेपनं || आसीनयोः सुखेनैव मुक्ताव्यापरयो क्षणं | सहयोलीरियं प्रोक्ता साध्येया योगिभिः सदा || अयं शुभं करो योगो भोगे भुक्तेऽपि मुक्तिदः | विहर्ये नित्यं प्रथमावधारां विहाय निःसारतमांऽत्यधारं || प्. १६७अ) निषव्यते शीतलमध्यधारां कपालिकैः कुण्ठमतैरमेध्या | अमरीयो पिबेन् नित्यं नस्यं कुर्याद् दिने दिने || वज्रालीमभ्यसेत् सत्वे अमरोलीति कथ्यते | पुंसो विंदुं समाकुंचे सम्यगभ्यास पाटवान् || यदि नारी रजो रक्षेत् संयोगी चासि योगिनी | तस्मा किंचिद् रजो नाशं न गछति न संशयः || तस्या शरीरे नादस्तु बिंदुना शब्द गछति | स बिंदुतद्रजश्चैव एकीभूतः स्वदेहजैः || वज्रोल्याभ्यासयोगेन सर्वसिद्धि प्रजायते | मेढ्रानाकुंचनादूर्द्धं रजसापि हि योगिनी || अतीतो नागतवेत्ति खेचरे च भवेद्रुवं | देहसिद्धिं च लभते वज्रोल्याभ्यास योगतः || तस्मादयं साधकानां भोगमुक्तिविमुक्तिद | तस्मात् पुण्यवतामेव योगोयं संप्रसिद्ध्यति || कुटिलांगी कुंडलिनी भुजंगी शक्तिमीश्वरी | कुण्डल्यारुंध देवीति शब्दाः पर्याय वाचका || उद्धात यत् कपाटं तु यथाकुंचितया हठात् | कुंडलिन्या तथा योगी मोक्षद्वारं विभेदयेत् || येन मार्गेण गंतव्यं ब्रह्मस्थानं निरामयं | मुखेनाछाद्यतद्द्वारं प्रसुप्ता परमेश्वरी || कंदोर्द्धकुण्डली शक्तिरष्टधा कुंतलाकृतिः | बंधनाय च मूढानां सदा मोक्षाय योगिनां || अंभोदि शैलद्वीपानां आधारः शेष कुंडली | प्. १६७ब्) अशेष योगतंत्रीणांमाधारः कुण्डली तथा | कुण्डली कुटिलान्य?रासर्पवत्परिकीर्तिता || सा शक्तिश्चालिता येन समुक्तो नात्रसंशयः | गंगायमुनयोर्मध्ये वालरंडातपस्विनी || ज्वालात्कारेण गृह्नायातद्विष्णोः परमंष्पदं | इडाभृंगवती गंगा पिंगला यमुना नदी || इडापिंगलयोर्मध्ये वालरंडा सरस्वती | पुछेत्प्रगृह्य भुजगी सुप्ताशुद्धोधयंवतां || निद्रां विहायस्य ऋज्वी ऊर्द्धमूर्तिष्टते हथात् | अवस्थिता वैव फणावतीतां प्रातश्च सायं प्रहरार्द्धमात्रं || प्रसार्य सूर्यात् परिधान मुक्ता प्रगृह्यते तत्परिवालनीया | वितस्ति प्रमिदं दीर्घं विस्तारे चतुरंगुली || मृदुलं धवलं प्रोक्तं वेष्टनांवरलक्षणं | वज्रासन स्थितो योगी पालयित्वा च कुंडली || कुर्यादनंतरं भस्त्री कुंडलीमाशु बोधयेत् | मनोराकुंचने नैव कुंडली चारयेत् तदा || मृत्योर्वक्त्रगतस्यापि तस्य मृत्युर्भयं कुत | नासादक्षिणमार्गवा हि पवनात् प्राणाभिदीर्घाकृतौश्चंद्राभः परिपूरिता मृततनुः प्राग्घंटिकायास्तथा || छिन्नात्कालविशालवह्निवशगाभ्रूरंधनाडीगणां तत्कार्य कुरुते पुनर्नवतरं चिन्नद्रुम स्कंधवत् || कुंण्डलि चालयित्वाथ कुर्याद्भ्रस्त्री विशेषतः | प्. १३८अ) एवमभ्यस्यते नित्यं यमिनस्तु कुतोयम || यदाभ्यसेत् सूर्यभेदमुज्ज्वयी वापि शीतली | एवमभ्यासयोगेन शमनोयमिना कुतः || मुहूर्त द्वय पर्यंतं निर्भयं वा दिशोदशः | ऊर्द्धमाकृष्यते किंचित् सुषुम्नायाः समुद्धृतः || तेन कुंडलिनी तस्याः सुषुम्नायाः समुद्धृता | जहाति तस्मात् प्राणोयं सुषुम्ना व्रजनिश्चला || तस्मात् संचालयेन्नित्यं सुखसुप्तामरंधती | यस्यासंचालयेनाशु योगी रोगात् प्रमुच्यते || येन संचालिता शक्तिः स योगी सिद्धिभाजनं | किमत्रवहुनोक्तेन कालं व्रजति लीलया || ब्रह्मचर्यरतं स्येवं नित्यं मितमितासिनः | मण्डलाद् दृश्यते सिद्धि कुंडल्याभ्यास योगतः || अभ्यासें विस्तृतां चांद्री विभूतां सहमिश्रयेत् | तां धारयेदुत्तमांगे दिव्यदृष्टि प्रदायिनी || द्विसप्तति सहस्राणां नाडीनामलशोधनं | गुडप्रक्षालनीपायः कुण्डलिभ्यास इष्यते || इति द्वादशधा प्रोक्ता आदि नाथेन शंभुना | कारणे सर्वसिद्धीनामेकैकापि क्षमेव सा || राजयोगं विना पृथ्वी राजयोगं विना निशा | राजयोगं विना मुद्रा विचित्रापिनु राजते || मारुताभ्यासनं किंचि मानो युक्तं समाचरेत् | इतरेऽत्र न कर्तव्या मनोवृत्ति मनीषिणा || प्. १६८ब्) विनापि मध्यमा नाडी दृढाभ्यासेन योगिनः | आसनं प्राणसंयाम मुद्राभि सरला भवेत् || अभ्यासेन हि मुद्राणां तदुतेति समाधिना | मुद्राणां चापरा मुद्रा भद्रासिद्धि प्रयछति || उपदेशं हि मुद्राणां यो धत्ते सांप्रदायकं | स एव श्री गुरुः स्वामी साक्षादीश्वर एव सः || तस्य वाक्य परो नित्यमथा * स समाहितः | अनिमादि गुणैस्वर्य लभते कालपंचकः || नमः शिवाय गुरवे नादविंदु कलात्मने | निरंजन पदं यांति यतो योगी परायणः || अथेदानीं प्रवक्ष्यामि समाधि क्रममुत्तमं | मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परं || राजयोगसमाधिश्च उत्मनीव * *? नी | अमरौघारयस्तत्र शून्या छून्यं परं पदं || अमनस्कं तथा द्वैतं निरालंबं निरंजनं | जीवन्मुक्त * ? क्ति पदं शब्द पर्याय वाचकं || सलिले सैधवं यद्व सम्यं भजति योगतः | यथात्ममनसौरैक्यं समा *? रभिधीयते || तत्समं च द्वयोरैक्यं जीवात्मा परमात्मना | समस्तनष्टसंकल्पः समाधिसोऽभिधीयते || समाधिस्तु तथा ज्ञानं कर्पूरं सलिले यथा | तथात्ममनसौरैक्यं समाधिः साभिधीयते || राजयोगस्य माहात्म्यं कोट्यजानाति तत्वतः | प्. १६९अ) ज्ञानमुक्ति स्थिति सिद्धिः गुरुवाक्य न सिद्ध्यति | दुर्लभो विषय त्यागो दुर्लभे तत्व दर्शनं || दुर्लभा सहजावस्था सद्गुरोः करुणाविना | यावत्नैव प्रविशंति चरन्मारुतो मध्यमार्गं यावविंदुर्न भवति दृढः प्राणवातः प्रबुद्धः || यावद्यौन्नः सहज सदृशं जायते नैव चित्तं तावज्ञानं वदति यदिदं दंभमिथ्या प्रलापः || वायुर्मार्गेन संचारे सकलं लभते महः | तथाष्टगुणमैश्वर्यं सत्यं सत्यं वरानने || विविधै रसनैः कुंभैर्विचित्रकरणैरपि | प्रबुद्धायामादि शक्तौ प्राणः शून्य विलीयते || उत्पन्न शक्ति बोधस्य त्यक्त निःशेष कर्मणाः | योगिनः सहजावस्था स्वयमेव प्रकाशते || सुषुम्ना वाहिनी प्राणे शून्यविंशति मारुतः | तदा सर्वाणि कर्माणि निर्मूलयति योगवित् || अमराय नमस्तुभ्यं सोपि काल त्वयाहतः | पतितं पवने यस्य जगदेतच्चराचरं || चित्ते समत्वमापन्ने वायुव्रजति मध्यमे | तथामरोली वज्रोली सहजोली मतोपि च || ज्ञानं कुतो मनसि जीवति देहि यावत् प्राणोपि जीवम * नोस्नि पतेन यावत् प्राणोसनो द्वयमिदं विलयं * याति मोक्षं स गछति नरो न कथं चिदन्यत् || ज्ञात्वा सुषुम्ना सद्भेदं कृत्वा वायुं च मध्यगं | प्. १६९ब्) स्थित्वा सदैदवस्थाने प्राणरंध्रं निरोधयेत् || सूर्यचंद्रसमाकृत्वा दत्वा कारापि पंजरे | सुषुम्नां शांभवी शक्ति शेषास्त्वेवं निरर्थकाः || वायुः परिचितो यस्मादनिमासहकुंडली | अथ चिंतांतरेऽभ्यास प्रत्यासा जीवयोगिना || पवंनो वध्यते येन ते नैव वध्यते मनः | हेतु द्वयं तु चित्तस्य वासना च समीरणे || तयार्विनष्ट एकस्मिन् भावनापि विनश्यतः | तत्रैव लीयते वायुः मनस्तत्रैव लीयते || दुग्धांवुधत्संमिलिता वुभौ तौ तुल्य क्रियौ मानसमारुती हि | यतो मरुन्निंद्य मनः प्रवृत्ति यतो मनस्तत्र मरुन्निवृत्तिः || एकस्यन्मसादपरस्य नाश तत्रैव वृत्तेरपस्य वृत्तिः | अधस्तयोश्चेंद्रिय वर्गवृत्तिः विज्ञातयोर्मोक्ष पदस्य सिद्धिः || रसस्य मनसश्चैव चंचरत्वं स्वभावतः | रसो वद्धो मनोवद्धं किं न सिद्ध्यति भूतले || मूर्छितो हरते व्याधिं मृतो जीवयति स्वयं | बद्धः खेचरतं धत्ते स जीवशो रसेश्वरः || वायुमार्गे च संचारे सफलं लभते महः | ततोऽष्टगुणमैश्वर्य सत्यमित्याह शंकरं || मनस्थैर्य स्थितो वायुस्ततो बिंदु स्थिरो भवेत् | बिंदुस्थैर्यादया सत्ये पिंडस्थैर्य प्रजायते || इंद्रियाणां मनो नाथे मनोनाथश्च मारुतः | प्. १७०अ) मारुतस्य लयोनाथस्तन्नाथं लयमाश्रयेत् | स्वयमेवामोक्षस्वऽस्ति वापि मंत्रांतरो मनः || प्राणापानमपानं ताल्लयकाश्चित्त वर्तिते | प्रनष्टौ छ्वासनिःश्वासः प्रनष्टविषय ग्रहः || निश्चलो निर्विकारश्च लयो जयति योगिनः | उछिन्नसर्वसंकल्पो निःशेषाशेषवेष्टितः || स्वावगम्यो लयः कोऽपि जायते वापि गोचरः | यत्र दृष्टि लयस्तत्र भूतेंद्रिय सनातनः || सा शक्तिर्जीवभूतानां दृष्टिल्लक्ष्यलयं गते | वेदशास्त्रपुराणानि सामान्या गणिका इव || एकैव शांभवी विद्या गोप्याकुलवधूरिव | अन्तल्लक्षमनोदृष्टिर्निमेषां मेषवर्जिता || एषा तु शांभवी मुद्रा सर्वमंत्रेषु गोपिता | अनंतल्लक्षविलीन चित्तपवनो योगी यथावर्तते दृष्ट्वा निश्चलतारया वहिरतः पश्यन्न पश्यन्नपि || मुद्रेयं खेचरी भवति सायुष्म प्रसादान्गुरोः शून्याशून्यविवर्जितं स्थलति यत्तत्वं पदं शांभवं || ताराज्योतिषु संयोज्यो किंचिदुच्चारयेद्भ्रुवौ | सूर्यगतस्य मार्गेषु उन्मनी काललक्षणं || केचिदागमयोगेन केचिन्निगमसंकुले | केचित्तर्केन मुह्यंति नैव जानंति तारकम् || अर्द्धोद्धाटित लोचन स्थिरमनोनाशाग्र दत्वे क्षणश्चंद्रार्कै च विलीयतांतर गतौ निक्षिप्य भासांतरे || प्. १७०ब्) ज्योतीरूपमशेष वाह्य रहितं देदीप्यमानं परं तत्व पश्चरमंचवस्तु परमं वाच्यं कमत्राधिकं || वासरे पूजयेल्लिंगं रात्रौ चैव न पूजयेत् | सततं पूजयेल्लिन्गं दिवारात्रौ न पूजयेत् || सुखिनं ज्ञानजनकं पंचस्त्रोतः समन्वितं | तिछते खेचरी मुद्रा तस्मिन् शून्यनिरंजने || सव्यदक्षिणनाडिस्थो मध्ये वाहीत मारुतः | तिष्ठंते खेचरी मुद्रा तत्र सत्यं न संशयः || सोमसूर्य द्वयोर्मध्ये निरालंबंऽतथा पुनः | संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी || सोमयोर्भेदिता धाम साक्षाद् वै शिववल्लभा | पूजयेदतुलां दिव्या सुषुम्ना दक्षिणे मुखे || पुरस्ताच्चैव पूर्यत निश्चिता खेचरी भवेत् | अत्यस्ता खेचरी मुद्रा उन्मनी संप्रजायते || अभ्यसेत् खेचरी मुद्रा तांवत्स्याद् योग निद्रता | संप्राप्त योगनिद्रस्य कालो नास्ति कदाचन || भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते | ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते || चंद्रसूर्य द्वयोर्मध्ये मुद्रां दद्याच्च खेचरी | निरालम्बे महाशून्य व्योमचक्र व्यवस्थितं || निरालंबं मन कृत्वा न किंचिदपि चिंतयेत् | स वाह्याभ्यंतरं व्योम्नि घटवर्तिष्ठति ध्रुवं || प्. १७१अ) वाह्यवायुर्यथा लीनस्तथा मध्ये न संशयः | स्वस्थान गछति प्राणः सूर्यान्गि पवने तथा || एवमभ्यस्य मानस्य वायुमार्गं सदानिशं | अभ्यासाज्जायते वायु मनस्तत्र विलीयते || अजरत्वं भवेद् देहे आपदतलमस्तके | सिद्ध्यते च महायोगो महावलपराक्रमः || शक्तिमध्ये मनःकृष्य शक्तिर्मनसि मध्यतः | मनसा मनसा लोक्ये धारयेत् परमं पदं || खमध्ये कुरु चात्मानमात्ममध्ये च स्वं कुरु | सर्वं मयं च खं कृत्वा न किंचिदपि चिन्तयेत् || अन्तः शून्यो वहिः शून्यो शून्यकुंभ इवाम्वरे | अंतः पूर्णो वहिः पूर्णः पूर्णकुंभ इवार्णवे || वाह्य चिंता न कर्तव्या तथैचांतरचिंतनं | सर्वचिंता परित्यार्या न किंचिदपि चिन्तये || ज्ञेयं सर्वमयी तञ्च ज्ञानं मनसि उच्यते | ज्ञानं ज्ञेयं मनश्चैव नान्यः पंथो द्वितीयकः || मनोदृश्यमिदं सर्वं यत्किंचित् स चराचरं | मनसो ह्युन्मनी भावो चैतन्नेवै प्रलभ्यते || ज्ञेयवस्तु परित्यागाद्विरयं याति मानसं | मानसो विलये याते कैवल्यमपि कल्पते || लयो लय इति प्राहुः कीदृशं लयलक्षणं | अमुनर्वा सनोत्थानाद्धृत्त्यया विश्वविस्मृतः || एवं नानाविधो पायाः सम्यक् स्वानु भवान्विता | समाधिमार्गा कथिताः पूर्वाचार्यै महात्मभिः || प्. १७१ब्) अशक्यं तत्वबोधीनामूढानामपि सर्मतं | प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते || श्री आदिनाथेन सपादकोटिलयः प्रकारः कथिता जयंति | नादानुसंधानकमेव धान्यं मन्यामहेरतर्नेसंलयानां || श्रवणपुटयनयुगलनासामुखरोधनेनव कर्तव्यं शुद्धसुषुम्नाशरणे स्फुटे ममलः श्रूयते नादः || आरंभश्च घटंश्चैवस्तथा परिचयस्ततः | निष्पत्तिः सर्वयोगेषु स्यादवस्था चतुष्टयं || ब्रह्मग्रंथि भवे भिन्ना नादः शून्यसमुद्भवः | विचित्रं कुणको देहे नाहतः श्रूयते ध्वनि || दिव्यगंधा दिव्यचक्षुस्तेजस्वी तु अरोगवान् | संपूर्ण हृदय शून्य प्रारंभो योगवान् भवेत् || द्वितीय भेदयुक्ते तु वायुर्भावति मध्यगः | हठासनो भवेद् योगी ज्ञानी देवसमस्तथा || विष्णुग्रंथस्तथा भेदा परमानंदसूचकः | अति शून्ये विसं मंदो भेरीशब्दस्तथा भवेत् || अथ ग्रंथि त्रयं भित्वा जायते मर्दल ध्वनिं | महाशून्य समायाति सर्वसिद्धि समाश्रयः || विना मनस्ततो जित्वा सहजानंदसंभवः | दोषद्वखजरामृत्युः क्षुधा निद्रा तृषा तथा || रुद्रग्रंथि ततो भित्वा सर्वपीठगतोऽनिलः | निष्पन्नो वेणवः शब्दो क्वणन्नादो क्वणो भवेत् || एकीभूतं तथा चित्तं राजयोगाभिधानकं | प्. १७२अ) सृष्टिसंहारकर्तासो योगीश्वर समो भवेत् | राजयोगपदं प्रस्तु मुखवायौऽल्प चेतसां || सद्यः प्रत्यूपसंधायी सेव्यते नादयो लयः | नादानुसंधानसमाधि भाजां योगीश्वराणां हृदि वद्धमानं || आनन्दमेकं वचसामवाच्यं जानातितं श्रीगुरुनाथ एव || मुक्तासना स्थितो योगी मुद्रासंधायशांभवी | शृणुयाद्दक्षिणे कर्णे नादमंतर्गते महत् || अभ्यस्य मानो नादोयं वाच्यमा शृणुते ध्वनि | पश्चाद्विपक्षमखिलं जित्वा योगी सुखी भवेत् || श्रुयते प्रथमाभ्यासे नादो नाम विधो महान् | वर्द्धमाने ततोऽभ्यासे श्रूयते शूक्ष्मशूक्ष्मतः || आदौ जलधिजीमूत भरीनिर्भर निःस्वनः | मध्यमर्दलशंखे च घंटाकोलाहलस्तथा || अन्ये तु किंकिणी वंश वीणाभ्रमरनिःस्वन | इति नानाविधानादा श्रूयते यत्र मध्यतः || महातिश्रूयमानेपि मेघभेर्यादिक ध्वनैः | तत्र शूक्ष्मं नादमेघ परितोऽपि परामृणेत् || ध्वनि मुत्सृज्य वा शूक्ष्मे शूक्ष्ममुत्सृज्य वायवे | श्मशानमपि क्षिप्तं च मनो नेत्र प्रचारयेत् || यत्र कुत्रापि वा नादे गलति प्रथमं मनः | तत्रैव निचलो भूत्वा तेन सार्द्धं विलीयते || कोष्ठ प्रवर्तते वह्नि कोष्ठेन सहसाम्यति | नादे प्रवर्तते चित्तं नादेन सह लीयते || प्. १७२ब्) औदासीन्य परो भूत्वा सदाभ्यासेन संशयः | उन्मनी कारकं सद्यो नादमेवादधारयेत् || ज्ञातेकाचौपटी वा कुटी वा पथ्याहारोगोपयोचापयो वा भोज्यं भुक्तं चान्नमाकंदयावा द्रोणी चाप्य चोप भोज्यैव पात्रं || सर्वचिंतां समुत्सृज्य सर्वचेष्टाश्च सर्वदा | नादमेवा न संधत्ते योगसाम्राज्यमिछति || मकरंदामिवं भृंगो गंधनोप्पक्षते यथा | नादाशक्तं तथा चित्तं विषया न हि कांक्षति || वद्धं विमुक्तं चावल्यं नादगंधकरीरणात् | मनः पारदमाप्नोति निरालंबाख्य खोटनं || वद्धाचेन्नाद गंधेन सद्यः स त्यक्त चापले | प्रयाति साश्वताश्चैव व्युपाछ छिन्न इद्रुमा || नादं प्रणत नित्तस्य मंतरंगा भुजंगमः | विस्मृत्य विश्वमेकाग्रं कुत्रचित्त हि धावति || मनोन्मर्तगजेंद्रस्य विषयाप्यनुचारिणः | लीयमानः समर्थोयं निलादनिशितांकुशं || नादांतरं तु संगस्य चाजिनः परिधावते | अंतरंग तुरंगस्य रोगो वा गीयतेऽपि च || अनाहत ध्वने चेतर्ज्ञेयं यत्सूक्ष्मसूक्ष्मकं | मनस्तत्र लयं याति तद्विष्णोः परमं पदं || भावनाकाशसंकल्पो यावछंदः प्रवर्तते | निःशब्दं तत्परं ब्रह्म परमात्मानुमीयते || नादः शक्तिरितिख्याता नादनामं सदाशिवं | प्. १७३अ) नादज्ञानेन नष्टेन तदुन्मन्येव शिष्यते || नादायावन्मनस्तावन्नादांते तु मनोन्मनी | स शब्द कथितं व्योम निःशब्दं ब्रह्म कथ्यते || यदा नादानुसंधानात् संक्षीणे वासनोदये | निरञ्जने वलीयन्ते निस्वरे मनसारुते || नादकोटि सहस्राणि बिन्दुकोटि शतानि च | सर्वे तत्र लयं यांति यत्र देवो निरञ्जनं || एवं सृष्टिमयं बीजं एकामुद्रा च खेचरी | एको देवी निरालंब एकावस्था मनोन्मनी || शंखदुंदुभिनादं च न शृणोति कदाचन | काष्ठवर्जायते देव उन्मन्या अवस्था ध्रुवं || सर्वावस्था विनिर्मुक्ता सर्वचिंता विवर्जिताः | मृतवत्तिष्ठते योगी समुक्तो नात्रसंशयः || अवध्यः सर्वशस्त्राणांमवध्यः सर्वदेहिनां | अग्रा * मंत्रतन्त्राणां योगी युक्तसमाधिना || प्रवेशे निर्गमे चैव दक्षिणे चोर्द्धमध्यमः | न पश्यवायुर्वहति समुक्तो नात्रसंशयः || चित्तं न सुप्तं नो जाग्रत् स्मृति वस्तु च नान्यथा | नास्ति मेति न चोदेति यथासौ मुक्त एवसः || सृष्टिः स्थिरा यस्य विनैव दृश्यं वायु स्थिरोय विना प्रयत्नतः चित्त स्थिरं यस्य विनावलंवनं स एव मुक्तः स गुरुः स सेव्यः || विद्या तीर्थे जगति विवुधा साधवः सत्य तीर्थे गंगातीर्थे मलिन मनसो योगिनो ज्ञान तीर्थे || प्. १७३ब्) धारातीर्थे धरणि पतनो दानतीर्थेश्च भक्त्याः लज्जातीर्थः कुलयुवतयः पातकं क्षालयंति || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे सप्तविंशतितम पटलः || २७ || भैरव उवाच || शृणु देवि प्रवक्ष्यामि षोडशमातृकांविका | वाराही नीलकाली च कथयामि यथाक्रमं || गौरी पद्मा शची मेधा सावित्री विजया जया | देवसेना स्वधा स्वाहा मातरो लोकमातरः || हृष्टि पुष्टिस्तथा तुष्टि तथात्मकुलदेवता | धम्मिल्लसंयतंकेवा विधोश्चाधो मुखी गलां || केशांते तिलकस्यार्द्धं दधती सुमनोहरा | मणिकुण्डलसंघृष्ट गंडामुकुटमण्डिता || स ज्योतिः कर्णपुराम्बा कर्णा वा पूर्य संगता | सुवर्णमणिमाणिक्य नागहारविराजिता || सदा सुगंधिभिः पद्मै रसानैरति सुंदरी | मालां विभर्ति ग्रीवायां रत्नकेयूर धारिणी || मृणालायत वृत्तैस्तु वाहुभिः कोमलैः शुभैः | राजती कंचुकोपेत पीनोन्नत पयोधरा || क्षीणमध्यापीतवस्त्रा त्रिवली मध्य भूषितां | शूलं वज्रं च वानं च खड्गं शक्तिं तथैव च || दक्षिणैः पाणिभिर्देवी गृहीत्वादित्य पूजिता | प्. १७४अ) गदां घंठां च चापं च चर्मं शंखं तथैव च | ऊर्द्धादि क्रमतो देवी दधती वामपाणिभिः || सिंहस्योपरि तिष्ठंति व्याघ्रचर्माणि कौशिकी | विभ्रतीरूपमतुलं ससुरासुरमोहनं || नीलोत्पलदलश्यामा चतुर्वाहु समन्विता | खट्वांगं चंद्रहासं च विभ्रती दक्षिणे करे || वामे चर्म च पाशं च ऊर्द्धाधो भावतः पुनः | दधती मुंडमालां च व्याघ्रचर्मधरासुरा || कृशांगी दीर्घदंष्ट्रा च अति दीर्घोति भीषणा | लोलजिह्वा निम्नरक्त नयनारारभीषणा || कवंधवाहनासीना विस्तारि श्रवनानना | एषा काली समाख्याता चामुंडेति च कथ्यते || जयंती मन्गला काली भद्रकाली कपालिनी | दुर्गाक्षमाशिवाधात्री स्वाहा स्वधा नमोस्तुते || अनेनैव तु मंत्रेण जपहोमौ तु कारयेत् | गंधपुष्पे तथा धूपो दीपो नैवेद्यमेव च || यस्य यद्दीयते वस्त्रमलंकारादि किंचन | तेषान्दैवतमुच्चार्य कृत्वा प्रोक्षण पूजयेत् || उत्सृज्यमूलमंत्रेण प्रतिनाम्ना निवेदयेत् | यद्दीयते वदेवेभ्यो गंधपुष्पादिकं तथा || अर्घपात्र स्थितैस्तोयैरभिषिंच्य तदुत्सृजेत् | विना पात्रेण य कुर्यात् प्रतिष्ठां याज्ञिकी क्रियां || विफला जायते सर्वा वाहनादि धनापहा | प्. १७४ब्) वलिहीने तु दुर्भिक्षं गंधहीने च शोकतां | धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयं || रत्नहीने म्रियेद्भार्या विपताकेचनायकः | छत्रहीने हरेछत्रं विताने मरणो भवेत् || वेदहीने तु नाशः स्यान् नगरस्य पुरस्य च | कलशैर्वंदुनाशश्च भवेद् वै मुनि उक्त च || तोरणानासभावात्तु हन्याज्ञाति स बांधवान् | दक्षिणा वहिते सर्वं व्यर्थं स्यान्नात्रसंशयः || मंत्रविद्या विहीनं तु संपूर्णमपि नश्यति | पात्रमंत्रसमायुक्तं सर्वदोषाहरं भवेत् || रात्रावुदं मुखः कुर्याद् देवकार्यं स देव हि | शिवार्चनं समाप्ये शुचिः कुर्यादुदंमुखः || शुचिः वस्त्र * धृक् प्राज्ञो मौनी ध्यानं परायणः | गतकामभये द्वंद्वो रागमोत्सर्य वर्जितः || आत्मानं पूजयित्वा च सुगंधसितवाससा | सर्वमूर्ते यजेद् देवान् स्वकीयामनसंस्थितान् || सर्वेषु गंधजातेषु प्रशस्तों मलयोद्भवः | तस्मात् सर्वं प्रयत्नेन दद्यामलयजं सदा || घृततिलाश्च होमार्थे मदश्चैवानुलेपनं | चंदनागुरुकर्पूरं नखं धूपे वरं मतं || चंद्राख्यं लेपनं देयं सर्वसिद्धि प्रदायकं | कृष्णागुरुः स कर्पूरः सहितो मलयोद्भवैः || कुंकुमागुरुकस्तूरी चंद्रभागैः समीकृतैः | गंधप्रीति प्रदादेव्या दुर्गायाः सह शंभुना || प्. १७५अ) मदकर्पूरकाश्मीर रोचनानां चतुष्टयं | एतेन लेपयेद् देवीं सर्वकामानवाप्नुयात् || पुष्पैररण्यसंभूतैः पत्रैर्वा गिरि संभवैः | अपर्यषित निश्छिद्रैः प्रोक्षितैर्जंतु वर्जितैः || अन्सरामोद्भवैर्वापि पुष्पैः संपूजये छिवां | स तु कालोद्भवैः पुष्पैमल्लिकाजाति कुब्जकैः || सितरक्तैस्तथा पद्मैन्नीलपद्मैश्च पाण्डुरैः | किंशुकैस्तगरैश्चैव किंकिरातैः स चम्पकैः || वकुलैश्चैव मंदारैः कुन्दपुष्पैस्तिरीटकैः | करवीरार्कपुष्पैश्च शांशसैश्चापराजितैः || सितरक्तैस्तथा पीतैः कृष्णैश्चैव चतुर्विधैः | धुत्तूरकांति मुक्तैश्च बंधूकागस्तिसंभवैः || मदनैः सिंदुवारैश्च सुरभीमुरुवकैस्तथा | लताभिर्ब्रह्मवृक्षस्य दुर्वांकुरैश्च कोमलैः || मंजरीभिः कुशानां च विल्वपत्रैः शुशोभनैः | उक्तानुक्तैस्तथा सर्वेर्जलजैस्थलसंभवैः || पत्रैः पुष्पैर्यथा लाभं सर्वोषधयतैः शुभै | धान्यानां सर्वपत्रैश्च पुष्पैश्चैव प्रपूजयेत् || अलाभे पुष्प जातीनां पत्राण्यपि निवेदयेत् | पत्राणामप्यलाभे तु ओषधीश्च निवेदयेत् || ओषधीनामलाभे तु भक्त्या भवति पूजिता | कदंवैरर्चयेद् रात्रौ मल्लिका उभयोः स्मृता || दिवावायाणि पुष्पाणि यथालाभं प्रपूजयेत् | प्. १७५ब्) केशकीटोपविद्धानि शीर्णपर्युषितानि च | स्वयं पतितपुष्पाणि त्यजेदुपहतानि च || मुकुलैर्नार्चयेद् देवीमपक्वं न निवेदयेत् | फलं कथित विद्धं च कालापक्वमपि त्यजेत् || सर्वेषांमेव धूपानां दुर्गायो गुग्गुलुः प्रिये | घृतयुक्तो विशेषेण सततं प्रीति वर्द्धनः || कृष्णा गुरुः स कर्पूरो महामाया प्रियः स्मृतः | धूपः कल्याण नामा तु नित्यं देव्याः प्रिया नृप || नासाक्षि रंध्र सुखदः सुगन्धाति मनोहर | दह्यमानस्य काष्ठस्य प्रियतस्येतरस्य वा || परागस्याथवाधूपो निस्तापो यस्य जायते | स धूप इति विज्ञेयो देवानां तुष्टि दायकं || रागी कृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् | मेदोमज्जसमायुक्तान्न धुपान्विनिवेदयात् || परकीयास्तथा घ्रातान् स्तेयी कृत्याभिमांकितान् | पुष्पं धूपं च गंधं च उपचारास्तथा परान् || घ्राणान्निवेद्य देवेभ्यो नरोनरकमाप्नुयात् | न भूमौ वितवेद्धूपं नाशनेन युते तथा || यथा तथा धावशतं कृत्वा तां विनिवेदयेत् | घृतदीपः प्रथमतस्तिलतैलोद्भवस्ततः || सार्षपः फलनिर्यास जातो वाराजिकोद्भवः | दधिजश्चान्नजश्चैव दीपासप्त प्रकीर्तिता || हविषा प्रथमः कल्पो द्वितीयश्चौषधी रसैः | वसामेदास्थि निर्यासैन्न कार्यः पुष्टिमिछता || प्. १७६अ) नेत्रा ह्लादकरं स्वर्चिर्दूरता परिवर्जितः | स्वशिखः शब्दरहितो निर्द्धूमोनति ह्रस्वकः || दक्षिणे दीपवृक्षस्तु प्रदीपः श्री सवृद्धये | सुवृत्तवर्ति स स्नेहं पात्रभवयुदर्शने || प्रदीप वृक्षकोटौ तु दीपन्दद्यान् प्रयत्नतः | लभ्यते यस्य तापस्तु दीपस्य चतुरन्गुलात् || न स दीप इति ख्याते ओसु वह्निस्तु संभृतः | वृक्षप्रदीपो दातव्यो न तु भूमौ कदाचन || सर्वं सहावसुमती सह तेन द्विदं द्वयं | स्वकायपादघातं तु दीपघात तथैव च || न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् | कृत्वा मिश्री कृतस्नेहं तामिस्रं नरकं व्रजेत् || पद्मसूत्र भवो दर्भ गर्भसूत्रभवाथवा | गणजावादरावापि फलोकोटिद्भवापि वा || वर्तिका दीप कृत्येषु सदा पंच विधा स्मृता | शानं वादरवस्त्रं च जीर्णं मलिनमेव च || उपयुक्तं तु नादद्याद्वर्तिकार्थं कदाचन | नैव निर्वापयेद् दीपं देवार्थमुप कल्पितं || दीपहर्ता भवेदंधः काणोनिर्वापना भवेत् | नैवेद्यं सुप्रभृतं च देय देव्याः सुभान्वितौ || परमान्नं पिष्टकं च यावकं कृशवं तथा | मोदकं प्र्थुकादीनिकंदु पर्वाणि चोत्सृजेत् || हविः शाल्योदनं दिव्यमाह्ययुक्तं स शर्करं | निवेदयेत् महादिव्यै सर्वाणि व्यंजनानि च || क्षीरादीन्पथगव्यानि महीषाणि च सर्वशः | कपित्थं लांगलं चैव द्राक्षाक्रमुकमेव च || वकुलं च मधुकं च रसालास्रोतके तथा | औदुंवरं च पुन्नागं करुणं कर्कटी फलं || हनीतकीमामलकं षड्विधं नागरंगकं | मातुलुंगं च कुंचकदलीकरमर्दकं || शृंगाटकं कशेरं च शालूकं च मृणालकं | कुमुदानी पंकजालां फलानि विनिवेदयेत् || वानप्रियैश्च नैवेद्यैलाजाक्षत फलादिभिः | इक्षुदंडिः सिताभिश्चलवतीनागरंगकैः || पूजयेज्जगतां धात्री सर्वकामार्थ सिद्धये | पंचाब्दं लक्षणोपेतं गंधधूपसुगंधितं || विधिवत् कालिकालिकालीति जप्त्वा खड्गेन घातयेत् | पंचाब्दं पंचवार्षीकं महिषमजमेष च || तदुस्यं रुधिरं मांसं गृहीतपूतनादिषु | नैर्-ऋतेभ्यः प्रदातव्यं महाकौशिकमंत्रितं || तस्याग्रतो नृपः स्नायाछत्रुं कृत्वाथ पिष्टकं | खड्गेन घातयित्वा तु दद्या स्कंद विशाखयाः || ततो देवीं स्नापये च क्षीरसर्पि जलादिभिः | कुंकुमा गुरुकर्पूर चंदनैश्च प्रपूजयेत् || हेमादि पुष्परत्नानि वासांसिन्नहतानि च | नैवेद्यं सुप्रभृतं च देयं देव्याः स्वभावितैः || देवी भक्ताश्च पूज्यंते कन्यकाः प्रथमादयः | प्. १७७अ) द्विजदीनानुपाखांडानन्नदानेन तोषयेत् | नन्दभक्ता न वाये तु महाव्रत धराश्चये || पूजयेत् तात्विशेषेण यस्मात् तद् रुपमाम्निकं | मातृकाणां च देवानां पूजाकार्या तदा निशि || ध्वजछत्रपटाकादि उछयेच्चंडिका गृहे | रजयात्रां वलिक्षेप वटुकाद्यश्च पूजयेत् || कारयेत् तुष्यते येन नानापशुनिपातनैः | अश्वमेधमवाप्नोति भक्तितः सुरसत्तमः || महानवम्यां पूजये च सर्वकाम प्रदायका | सर्वेषु वत्सवर्णेषु तव भक्त्या प्रकीर्तिता || कृत्वाप्नोति यशोराज्य पुत्रायुद्ध न सम्पदः | कन्यायां कृष्णपक्षे तु पूजयित्वा प्रभे दिवा || नवम्यां बोधयेद् देवीं गीतवादित निस्वनैः | शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनं || प्रातरेव तु पंचम्यां स्नापयेत् सुशुभै जलैः | सप्तम्यां पत्रिका पूजा अष्टम्यां चप्पुपोषणं || पूजा च जागरश्चैव नवम्यां विधिवद् वलिः | सप्रेषणं दशम्यां तु क्रीडाकौतुकमन्गलैः || नीराजनं दशम्यां तु वलिवृद्दिकरं महत् | रामस्यानु ग्रहार्थाय रावणस्य च धाय च || रात्रामेव महाकाली ब्राह्मणावोधिता पुरा | ततस्तु त्यक्त निद्रा सा नंदयामाश्विने सिते || रामारावणयोर्युद्धं सष्महं साम्ययोजयेत् | व्यतीते सप्तरात्रे तु नवम्यां रावणं ततः || प्. १७७ब्) रामणे घातया मास महामाया जगत्मयी | यावत् तयाः स्वयं देवी युद्धकोलिमुदैक्षत || तावत् तु सप्तरात्राणि सर्वदेवैः सुपूजिता | निहते रावणे वीर नवम्यां सकलैः सुरैः || विशेषपूजां दुर्गायाः चक्रे लोक पितामहः | ततः संप्रेषिता देवी दशम्यां शावरोत्सवैः || तथैव च नराः सर्वे कुर्युपूजां यथाविधि | वलनीराजनं राजा कुर्याद्ववलवृद्धये || दिक्पालं कारयुक्ताभिः काशिनीभिः प्रवर्तनं | कर्तव्यं गीतवाद्यादि क्रीडाकौतुक मंगलं || केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपद्दिने | षड्गादानं द्वितीयायां केशसप हेतवे || दर्पणं च तृतीयायां सिंदुरानक्तकं तथा | मधुपर्कं चतुर्थ्यं तु तिलकं नेत्रमंडलं || पंचम्या यद्गरागं च शक्त्यालंकरणानि च | षष्ट्यां विल्वतरौ बोधं सायं संध्यासु कारयेत् || सप्तम्यां प्रातरानीय गृह * ध्ये प्रपूजयेत् | उपोषणमथाष्टम्यां साष्टशक्तेश्च पूजनं || नवम्यांमुग्रचंडायास्तद्वदेवार्चनं दिवा | पूजा च वलिदानं च तद्वत्या तु प्रपूजयेत् || कुमारी पूजनीयावभूषणीया च भूषणैः | संपूज्य प्रेषणं कुर्याद् दशम्यां शावलोत्सवैः || अनेन विधिना यस्तु देवीं प्रीणयते नरः | स्कन्दवत् पालयेत् तस्तु देवी सर्वापदि स्थितं || प्. १७८अ) पुत्रदारधनर्द्धीरां संख्या तस्य न विद्यते | भुक्त्वेह परमान् भोगान् प्रेत्य देवगणो भवेत् || बोधयोद्विल्वशाखायां षष्ठ्यान्देवी फलेषु च | सप्तम्यां बिल्वशाखांतामाहृत्य प्रतिपूजयेत् || पुनः पूजां तथाष्टम्यां विशेषेण समाचरेत् | जागरं च स्वयं कुर्याद् वलिदानं महानिशि || प्रभूतवलिदानं तु नवम्यां विधिवर्चयेत् | ध्यायेद् दशभुजान् देवीं दुर्गातंत्रेण पूजयेत् || विसर्जनं दशम्यां तु कुर्याद् वै शावरोत्सवैः | कृत्वा विसर्जनं तस्यां तस्यानक्तं समाचरेत् || अन्तपादो दिवाभागे प्रणवस्य यदा भवेत् | तदा संप्रेषणं देव्या दशम्यां शावरोत्सवैः || वाणिनीभिः कुमारीभिःर्वेश्याभिर्न्नर्तकैस्तथा | शंखतूर्यनिनादेश्च मृदन्गै पटहैस्तथा || ध्वजैरस्त्रैर्वहुविधैर्लाज पुष्प प्रकीर्तिकैः | धूलिकर्दमविक्षेपैः क्रीडाकौतुकमंगलैः || भगलिंगोभिधानैश्च भगलिंगप्रगीतकैः | भगलिंगक्रियाभिश्च क्रीडये युवलंजनाः || परैर्नाक्षिप्यते यस्तु यः परं नाक्षिपत्यपि | तस्य क्रुद्धा भगवती शापं दद्यात् सुदारुणं || मूलं प्राप्य प्रथम चरणेभ्यर्चनं चण्डिकायाः कृत्वाष्टम्यामशनरहितस्त्यक्त निद्रश्च पूजां प्रातः काले पशुवलिविधिः स्नानदानं नवम्यां निर्माल्यं तु श्रवणदशमीवासवर्क्षेषुजत्यात् || प्. १७८ब्) मूलेन प्रतिपूजयेद् भगवतीं चंडीं प्रचण्डा कृतिं चाष्टम्यामुपवाससद्गततया भक्त्या समाराधयेत् || नानापाशवमज्जमांसरुधिरैः कृत्वा नवम्यां वलिं नक्षत्रश्रवण तिथिं च दशमी संप्राप्य संप्रेषयेत् || ऋक्षत्रये च मूलादौ सप्तम्यामाश्विनेसिते | चण्डिकामुपहारैश्च पूजयेद्राष्टवृद्धयेत् || कुर्याज्जागरमष्टम्यां नवम्यां विधिवद्वलिं | दशम्यां वलवृद्ध्यर्थं कुर्यान्नीराजनं प्रिये || मूलेन बोधयेद् देवी पूर्वेण प्रतिपूजयेत् | उत्तरेणार्चनं कृत्वा श्रवणेन विसर्जयेत् || तिथिः शरंतिथिरेव कारणं तिथिः प्रधानं तिथिरेव साधनं | तिथिं विनानैव च दृश्यते शशी विनेंदुनानैव च कर्मसिद्धिः || तिथिनक्षत्रयोर्योगे द्वयोरेवानु लेपनं | योगाभावे तिथि ग्राह्या देव्याः पूजनकर्मणि || उमा या नवमी प्रोक्ता हरस्य तिथिरष्टमी | द्वयोरैक्य महापुण्या उमामाहेश्वरी तिथि || अष्टम्यां नवमी युक्ता नवम्या चाष्टमी युत | अर्द्धनारीश्वर प्रायातिथिः सर्वव्रतादिषु || आश्विनस्य सिते पक्षे या तुस्या तिथिरष्टमी | तस्य रात्रौ पूजनीया महाविभवविस्तरै || यो मोहादथ वानस्यद्देवी दुर्गा महोत्सवे | प्. १७९अ) न पूजयति दंभाद्वाद्वेव्याद्वाप्यथ भैरव | क्रुद्धा भगवती तस्य कामान्निष्ठान्निहंति वै || परत्र च महामाया वलिर्भूत्वा स जायते | तस्माल्लोक हितार्थाय सर्वलोकविभूतये || दुर्गातंत्रेण मंत्रेण पूजितस्य उभे अपि | भद्रकाली चोग्रचण्डी महामायै महोत्सवे || प्रागुत्तरेण तस्माच्च दध्यक्षत समन्वितं | चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितं || पंचरत्नसमायुक्तं पंचभंगदलान्वितं | स्थापयेदत्रणं कुंभं वरुणं तत्र विन्यसेत् || गंगाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च | गजाश्च रथ्यावल्मीकसंगमाद्वदशो कुलात् || मृदमानीय विप्रेंद्र सर्वौषधि जलान्वितं | स्नानार्थं विन्यसेत् तत्र यजमानस्य धर्मचित् || सर्वे समुद्राः सरितः सरांसि वनदा ह्रदाः | आयां तु यजमानस्य दुरितः क्षयकारकाः || श्रीकामस्तुल्य सन्म्यक देशवृद्धिकरं शुभं | कांचनं घृतगोधूमान् दूर्वारोचनया सह || अग्निर्ब्रह्म भवानी च गजवक्त्रो महोरगः | स्कंदोभानुर्मातृगणो दिग्पालाश्च नवग्रहाः || एषां घटेषु प्रत्येकं पूजयित्वा यथाविधि | मूर्तिपवित्रमेकैकं दद्यादेभ्यः समाहितः || कदली दाडिमी धान्यं हरिद्रामानकंकचुः | विल्वाशाखा जयंती च विज्ञेयानवपत्रिका || प्. १७९ब्) ब्रह्माणी कदलीकांडे दाडिमे रक्त चंडिका | धान्यलक्ष्मीर्हरिद्रायां दुर्गामानक पत्रके || चामुंडाकालिकां कच्यां शिवाविल्वप्रतिष्ठिता | अशोकशोकरहिता जयंत्यां कार्तिकीष्ठितां || तस्मिन् देवी प्रकर्तव्या हैमी वाराजती तथा | मृद्वाक्षी लक्षणोपेता बिल्व खड्गे च पूजयेत् || तत्राष्टम्यां भद्रकाली दक्षयक्ष विनाशिनी | प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह || अतार्थं पूजनीया सा तस्मिन्नहनिमानवैः | उपोषितैर्वस्त्रधूपमाल्यरत्नोनुलेपनैः || दीपैर्नरैस्तथा भक्ष्यैः फलैर्मलैश्च धान्यकैः | आमिषैर्विविधैः शोकैः होमैर्ब्राह्मण तर्पणैः || बिल्वपत्रैः श्रीफलैश्च चंदनेन घृतेन च | पशुभिः पानकैर्हृद्यैरात्रिजागरणेन च || दुर्गा गृहे तु शस्त्राणि पूजनीयानि पंडितैः | वाद्यभांडानि चिह्नानि कवचान्यायुधानि च || रात्रौ च शिल्पिभिस्तानि स्वानि पूज्यानि सर्वदा | कन्यास्थे रवयश्चैव शुक्लाष्टम्यां प्रपूजयेत् || सोपवासो निशार्द्धं तु महाविभवविस्तरैः | पूजां समारभेद्देव्या नक्षत्रे वारुणेपि वा || पशुघातश्च कर्तव्यो गवलाजवधस्तथा | वलिक्षेपं सुरेशानां कृत्वा सर्वं निशांतये || प्. १८०अ) कन्यासंस्थे रवी वत्स शुक्लाष्टम्यां प्रपूजयेत् | सोपवासो निशार्द्धे तु महाविभवविस्तरैः || पूजां समारभेद्देव्य रक्षर्क्षवारिभेयि वा | पशोर्घातः प्रकर्तव्यो गवदोजवधस्तथा || वलिक्षेपस्तु रक्षोभ्यः कार्यः सर्वारिशांतये | कन्यासंस्थेरवा विषेया शुक्लातिथिरष्टमी || तस्यां रात्रौ पूजितव्या महाविभवविस्तरैः | नवम्यां वलिदानं तु कर्तव्यम्वै यथाविधि || जपहोमं च विधिवत् कुर्यात् तत्र विभूतये | मातृणां चैव देवीनां पूजाकार्या तदा निशि || हतघोरे महावीरे सुरासुरभयं करे | देव्या उपासका देवाः प्रभुताराक्षसास्तथा || आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयं | ब्रह्माविष्णुसुरेशानां इंद्रचंद्रयमानिलाः || आदित्या वसवो रुद्रा ग्रहानागः स गुह्यकाः | समभ्य सर्वदेवास्ते देवी भक्त्या प्रतुष्टुवुः || चरं च सर्वलोकानां प्रददौ भयनाशिनी | वलिंदुदुश्च भूतानां महिषाजानिषेण च || प्रणेदुःशंखभेदैश्च शमशोध सहस्रशः | हताद्वंद्वभिनादाश्च पट्टशब्दाः समर्दना || पताका ध्वजसंछन्नं घंटाचामरशोभितं | तद्दिनं कारयामासुर्देवी भक्ताः सुरोत्तमाः || कृत्वा च सर्वदेवैश्च महापूजा च शाश्वती | प्. १८०ब्) आश्विने मासि मेषांते महिषारिणि वर्हिणीं | देवीं संपूजयित्वाय अर्द्धरात्रेष्टमीषु च || घातयंति पशुन् भक्त्या ते भवंति महावलाः | वलिं च ये प्रयछंति सर्वभूतविनाशनं || तेषां तु तुष्यते देवी यावत् कल्पं तु शांकरं | क्रीडंति विविधैर्भोगैर्देवलोके सुदुर्लभे || नाधयो व्याधयस्तेषां न च शक्र भयं भवेत् | न च देव ग्रहा दैत्या नासुरा न च पन्नगाः || पीडयंति सुराध्यक्ष देवी पादौ समाक्षितान् | यावदुर्वायुवाकाशं जलं वह्नि शशि ग्रहाः || तावच्च चण्डिका पूजा भविष्यति सदा भुवि | प्रावृकाले विशेषेण आश्विने ह्यष्टमीषु च || महाशब्दो नवम्यां च लोकेख्यातिं गमिष्यसि | एतत् ते देवराजेंद्र स्वर्गवासफलप्रदं || प्ररापरा विभागेन क्रियायोगा च कीर्तितं || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे अष्टाविंशति पटलः || २८ || श्रीभैरव उवाच || नवपद्मात्मके स्थाने पूजा दुर्गाः स्वमूर्तितः | आदौ मध्ये तथेंद्रादौ नवतत्वाक्षरैः क्रमात् || अष्टादशभुजैः कांत पीनवक्षस्थलोरूका | मूर्द्धजं खेटकं घंठामादर्शं तर्जनीं धनुः || ध्वजं डमरुकं पाशं विभ्रती वामके ततः | शक्तिमुद्गर शूलं च वज्रं खड्गमथांकुश || रशरं चक्रलोकां च एतैरेवायुधैर्युताः | प्. १८१अ) शेषाः षोडशहस्ता च तर्जनीं डमरुं विना | रुद्रचंडा प्रचंडा च चंडोग्रा चंडनायिका || चण्डाचंडवती चैव चंडरूपाति चंडिका | नवमी चोग्रचंडा च मध्यस्था च प्रकीर्तिता || रोचनांगारुणा कृष्णा नीलाशुक्ला च धूम्रिका | पीता च पांडरोरक्ता अनीटस्था हरि स्थिता || महिषोथ महाशस्त्री तत्केच ग्रहमुष्टिका | स्थाप्यावृत्ते च पंक्त्या च इत्युक्तं स्कंद यामले || महिषघ्निर्महामाय चामुंडे मुंडमालिनी | द्रव्यमारोग्य विजयं देहि देवि नमः सदा || रूपं देहि यशो देहि भगं भगति दे हिमे | पुत्रा देहि धनं देहि सर्वान् कामान् प्रदे हिमे || आदौ प्रथमतः पद्म मध्य स्थित्वा च चंडिका | पुष्पमारोप्य हस्तेन शारदामंबिकेन्मुहु || एह्येहि परमेशानि सान्निध्यमिह कल्पया | पूजाभागं गृहाणेमं दुर्गे देवि नमोस्तुते || दुर्गे दुर्गे इहा गछ गणैः परिकरैः सह | पूजा भागं गृहाणेसं मखरक्ष नमोस्तुते || नारायण्यै विद्महे * चण्डिकायै तु धीमहि | शेषभागे तु गायत्र्यास्तन्न चंडी प्रचोदयात् || दत्वा स्नानमनेनैव दुर्गा तंत्रेण वै पुनः | चतुरक्षरमंत्रेण पाद्यादीनथ षोडश || वितरेदुपचाराश्च पूर्वोक्तंश्चैव भैरव | प्. १८१ब्) दुर्गातंत्रेण मंत्रेण देव्या अंगानि पूजयेत् | दुर्गे अनेन हृदयं पर दुर्गे अनेनकं || शिखा कवच नेत्राणि वाहु?पादांश्च पंचभिः | वादिपंचाक्षरैः शेषैः पूजयेत् क्रमशः सुधी || पूर्वभागे मंडलस्य देव्याः शक्तीश्च पूजयेत् | उग्रचंडा प्रचंडां च चंडोग्रां चंडनायिकां || चंडां च दवतीं चैव चण्डरूपां च चंडिकां | देव्यास्तु कर गृह्याणि शस्त्रास्त्रादीनि वाहनं || पंचाननं कामसरं च दैत्यमग्रे च पूजयेत् | जप्त्वा स्तुत्वा वलिं दद्यान् नमस्कृत्वावगुण्ठ्य च || योनिमुद्रां प्रदश्यार्थ निर्माल्यं दिशि शूलिनः | चंडेश्वर्यै नम इति निवाप्य च विसर्जयेत् || उग्रचंडादिकाः पूज्या योगिन्योष्टौ तथा शुभाः | योगिनीश्च चतुःषष्ठिं तथा वै कोटि योगिनी || नवदुर्गास्तथाभ्यर्च्यद्देव्याः सन्निहिताः शुभाः | जयंत्याद्यागंधपुष्पैस्ताद्देव्या मूर्तयो यतः || देव्याः शस्त्राणि चास्त्राणि भूषणानि तथैव च | अंगप्रत्यंगयुक्तानि वाहनं सिंहमेव च || महिषासुरमर्दिन्याः पूजयेद् भक्तये सदा | ग्रहाश्च दशदिक्पालान् पूर्वोक्तेन क्रमेण तु || पूर्ववत्पूजयेद्धीमान् भैरवं भैरवीमपि | दक्षिणे पूजयेदेताश्चतुःषष्ठिश्च योगिनी || शृणु देवि प्रवक्ष्यामि चतुःषष्ठिकरूपकं | महाभाग्यं विशेषेण धनधर्मसमन्वितं || प्. १८२अ) पूजयेद् विजयां देवीं शूलपद्माक्षधारिणीं | वरोद्यतां सिंहसंस्थां सर्वसिद्धिप्रदायिनीं || मंगलां पूजयेद् देवीं सर्वसिद्धि प्रदायिनीं | सिंहपद्मासनां सौम्यां जटामुकुटधारिणीं || शूलाक्षसूत्रवरदामभयं दक्षणे करे | भद्रां तु पूजयेद् देवीं भद्रासन व्यवस्थितां || नीलोत्पलकरां शूलाक्षसूत्रवरधारिणीं | धृतिसंपूजयेद् देवीं चंडासन व्यवस्थितां || पद्मदर्पणधारिणीं सर्वाभरणभूषितां | शांतिः शांति प्रदाकार्या पद्मासन व्यवस्थिता || अक्षसूत्रधरा देवी वरदो वामपाणिका | शिवावृषासनां कार्या त्रिनेत्रावरपाणिका || डमरुरगधारिणी स शूला चाभय प्रदा | जटामुकुटखंडेन्दु वासुकि कृतकंकणा || क्षमापद्मासनस्था तु प्रतिसूर्योपपाणिका | मेखलाशूलसंयुक्ता योगपंत्तोत्तरीयका || सिद्धिश्चंडासमाकार्या सिद्धार्थके वरप्रदा | अथ पद्मासनस्था तु प्रतिसूर्योपशोभिता || तुष्टिं च पूजयेद् देवीं कलशोपरिसंस्थितां | पाशांकुशधरां सौम्या पद्मस्वस्तिक धारणीं || उमापद्मासना कार्या मृगसिंहपरावृता | योगपट्टोत्तरासंगा कमंडलुकरा शुभा || वराद्यतत्रिशूलाज्य जयाद्यैः परिवारिता | गहमालाविराजंती पद्मकुंडलधारिणी || प्. १४२ब्) शिवार्चनरता देवी पुष्टिः कार्या यथा शृणु | खड्गहस्ता महारूढा चर्ममुद्गरधारिणी || अश्वारूढा स्वरूपाद्या पुष्टिवेवं विधा भवेत् | श्रिया पद्मासना कार्या पद्मश्रीफलधारिणी || गजैर्भूहीतकलशैः स्नाप्यमानासुशोभना | ऋद्धिं पूजय पद्मस्थां वरदाभय पाणिकां || दानोद्यत करां देवीं व्याहरंतीं शुभानि च | वीणावाद्येन पद्मस्था रतिः कार्या सुलोचना || दीप्ता चंडासनाकार्या किरणोज्ज्वलधारिणी | सिंहासना गदा वापि पद्महस्ता सुशोभना || नीलोत्पल स्थिता कांतिः कमलोत्पलधारिणी | मुड्मालां भूषिता देवी सर्वाभरण चर्चिता || पर्यंकोदर संस्था च यशाः कार्यासुशोभना | शंखपुस्तकधारी च सुन्माला भरणोज्वला || लक्ष्मीः पद्मासना कार्या पद्मश्रीफलधारिणी | ईश्वरी वृषभस्था तु जटामुकुटधारिणी || चंद्रार्द्धशेखरा देवी त्रिशूलोरंगभूषणा | कलस्था * भवेद्वर्द्धिर्बीजपूरकधारिणी || योगपट्टोत्तरासंका रत्नमाला धरा शुभा | शाक्री गजासना कार्या वज्रहस्तासुशोभना || जयावती सिंहसंस्था शरशृंगधरा शुभा | हंसासना भवेद् ब्राह्मी मुंजमेखलधारिणी || चतुर्वक्त्रा स्वरूपाद्या दंडकाष्ठं कमंडलुं | प्. १८३अ) अक्षसूत्रं च विभ्राणा स्रुच हस्ताज्य धारिणी | योगपट्टकखट्वांगी सर्वदो गिरणानना || जयंती नकुलस्था च कुंडशूलकरा शुभा | खड्गखेटकराकार्या वरदाभय पाणिका || अपराजिता तु कर्तव्या सिंहारूढो महावला | पिनाकशरहस्ता तु खड्गखेटकधारिणी || त्रिनेत्रा स जटाजूटा कृतवासुकि धारिणी | पद्मांकुशकरा देवी अजितामकरासना || रथस्थामानसी कार्या घंटामुद्गरधारिणी | वज्रांकुशधरा देवी सर्वाभरणभूषिता || श्वेतापंकजसंस्था तु दंडाक्षसूत्रधारिणी | दितिर्दंडधरा कार्या सर्वाभरणभूषिता || फलनीलोत्पलवरा उत्संगे वालकान्विता | माया पाशांकुशवरा माया वामरधारिणी || शूकरस्था महामाया मोहयंती चराचरं | मोहनी मृगया रूढा ध्वजशूलाक्षधारिणी || वेणुहस्तासुरापात्र हारकेयूरभूषिता | लालसागजसंस्था तु मलादर्पणधारिणी || ताराकरशमारूढा विमला हृद्यचर्चसा | मुक्ताक्षसूत्रधारि च कमंडलु कला शुभा || गौरी पद्मासनस्थां तु वरदाभय पाणका | अक्षसूत्रकरा देवी कमंडलु धरा शुभा || शरण्या सिंहमासीना वरदाभयपाणिका | कौशिकी कौशिकारूढा त्रिशूलमुंडधारिणी || प्. १८३ब्) कपालकर्तिका हस्ता घोररूपा महावला | मतिमनस्था कर्तव्या सर्वाभरणभूषिता || वीणावादनशीरा च नृत्यमाना सुशोभना | दुर्गादिद्य * मस्त्राणि पृष्टगा रिपु सुंदनी || पिनाकशरचर्मासि धारिणी महिषापहा | तछीर्षोत्थ महाकार्यैस्तद्भटैः परिवारिता || रक्तस्रुद्रक्त नेत्रैश्च तजिता तन्महावलैः | वेष्टितानागपाशेन कचिकेच्छिगतासवः || देवी शूलगताः कार्याः सर्वते संमुखान *? | पादीपद्मासने चैकमेकं मिहनिवेशितं || एवं विधेन रूपेण दुर्गाकार्यामचान्यथा | वट्टोपरिसमासीना क्रियाकार्यासुशोभना || पुष्पमालाविराजंती प्रभामंडलभूषिता | स्रवमेखनधारी च सर्वशोभासमन्विता || व्रतस्था रुंधती कार्या पुष्पोदकरा शुभा | घंठां तु पूजये देवी घंठहस्तां त्रिशूलिनीं || कर्णा स्वरूपा कर्तव्या स कर्ता तु सुशोभना | पद्माक्षसूत्रधारी च महाव्रत धरा शुभा || कपालिनी सदा कार्या कपालशूलधारिणी | रुद्ररूपा तथा रौद्री वृषसंस्था सुशोभना || जटामुकुटसार्द्धें दुःकृत वासुकिकंकणा | रथस्थां पूजयेत् कालीं कपालशूलधारिणीं || मयूरी शिखि संस्था च पाशशक्तिं धरा शुभा | त्रिनेत्रा शक्रकर्तव्या सर्वाभरणभूषिता || दण्डासन समारूढं पद्मस्वस्तिकधारिणी | प्. १८४अ) स्वरूपां पूजयेद् देवीं हारकेयूरभूषितां || शूलखड्गधरा देवीं वहुरूपां नरासनां | त्रिनेत्रां पूजयेद् देवीं शूलपट्टिसधारिणीं || जटोरगशिरश्चंद्र भूषितां शिवरूपिणीं | रिपुहाशत्रु नाशार्थं वज्रचक्रधनुर्द्धरा || अश्वारूढा तथा पूज्या सर्वाभरणभूषिता | अंबिकां शूलसूत्राक्ष धारिणीं पूजयेत् तदा || पद्मासनस्थां देवेंद्र चर्चिकां सांप्रतं शृणु | प्रेतारूढां महादेवीं नागाभरणभूषितां || ऊर्द्धकेशी करालीं तु मुंडकर्तिकधारिणीं | सुरपूजिता तु कर्तव्या गजारूढा महावला || वज्रांकुशधरां देवी तथा वैवस्वतीं शृणु | कापालदंडहस्तां तु शूकरास्यां यमासनां || कौमारी पूज्यते देवी मयूरासन शक्ति भूत् | त्रिदंडी वानरूपा तु रक्तमाल्या स कुक्कुटा || माहेश्वरी वृषारूढा त्रिनेत्राशूलधारिणी | वीणावादनशीला च हारकेयूरभूषिता || शंखचक्रधरा पूज्या वैष्णवी गरुडासना | वनमाला धरादेवी महालक्ष्मीस्तथा शृणु || गगणोद्भिसि शूलां च नृत्यमानां कपालिनीं | सौम्याननां सुसंपूर्णा त्रिनेत्रामुंडभूषितां || तस्याः संमुखगाकार्या कार्तिकी प्रेतसंस्थिता | शिवदूती च कर्ती च यौवना भरणोज्ज्वला || शिवावज्रांकुशधरानिर्मांसा कोटरे क्षणा | प्. १८४ब्) अविरलौ तथैवोष्ठौ विकेशानागवंधना | मुद्रालंकृतकर्णा तु वामोरुकरसंस्थिता || पीठसंस्थेन याम्ये च तथाठविकृतानना | चामुंडा पूज्यते देवी ऊर्द्धकेशी भयानका || प्रेतासनस्था निर्मांसा मालाखट्वांगधारिणी | कपालशूलहस्ता च कर्णिका भरणोज्ज्वला || मुद्रावस्थे धरे चौष्ठे संस्थिता वामकांगुलिः | गजचर्मासुरा रौद्री नागाभरणभूषिता || चतुःषष्ठेस्तु देवीनां रूपकं कथितं तव | सांप्रतं च सुधाध्यक्ष महाभाग्यं वदाम्यहं || यथा शिवस्य नैवांतो विद्यते देवि पूजने | तथा चांतं न पश्यामि चतुःषष्ठेस्तु पूजनात् || सुवर्णभूमिदानस्य गोदानस्य च यत्फलं | फलं तदधिकं देवि चतुःषष्ठि स्मृतेरिह || प्रासादे मंडपे गेहे चित्रे वस्त्रे वलार्थता | चतुःषष्ठिर्महाभाग पूजिताराज्यदा शुभा || चतुःषष्ठि प्रतिष्ठाप्य द्वात्रिंशषोडशाथवा | वसुसंख्यामथा देवि सर्वं तरति दुकृतं || मातॄणां लक्ष्यणं वक्ष्ये यथावदन पूर्वशः | ब्रह्माणी ब्रह्मसदृशी चतुर्वक्त्रा चतुर्भुजा || हंसाधिरूढाकर्तव्या साक्षसूत्रकमंडलुः | महेश्वरी स्वरूपेण तथा माहेश्वरी मता || जटामुकुटसंयुक्ता वृषस्था चंद्रशेखरा | कपालशूलखट्वांग वरदाथ चतुर्भुजा || प्. १८५अ) कुमाररूपाकौमारी मयूरवरवाहिनी | रक्तवस्त्रधरा तद्वछूलशक्ति धरा मता || हारकेयूरसम्पन्ना कृकंराकुठरा तथा | वैष्णवी विष्णु सदृशी गरुडासनसंस्थिता || चतुर्बाहुश्च वरदा शंखचक्रगदाधरा | सिंहासन गता वापि चालकेन समन्विता || वाराही च प्रवक्ष्यामि महिषा परिसंस्थिता | वाराह सदृशीं देवीं घंटाचामरधारिणीं || गदाचक्रधरा तद्वद् दानवेंद्र विनाशिनीं | इंद्राणीमिंद्रसदृशीं वज्रशूलगदाधरां || गजारूढास्तुतां देवीं लोचनैर्वहुभिर्वृतां | तप्तकांचनवर्णाभां वस्त्राभरणभूषितां || तीक्ष्णखट्वांगधरां तद्व योगीश्वरं मिमां शुभां | दीर्घजिह्वामुर्द्धकेशीमछिखण्डेश्च मंडितां || दंष्ट्रा करालवदनां कुर्याद् वै च कुशोदरीं | कपालमालिनीं देवीं मुण्डमालाविभूषितां || कपालं वामहस्ते तु मांसशोणितपूरितं | स केशं च शिरोत्यस्मिन् शस्त्रिकां दक्षिणे तथा || गृध्रस्था वा शवास्था वा निर्मांसा विगतादरी | करालवदना तद्वत् कर्तव्या सा तिलोचना || चामुण्डा च द्वघंठा च द्वीपि चर्मधरा शिवा | दिग्वासा कालिका तद्वद्रासभस्था कपालिनी || सुरक्त पुष्पा भरणा वर्द्धनी ध्वज संयुता | प्. १८५ब्) विनायकं च कुर्वीत मातृणा मंत्रिके तथा | वीरेश्वरश्च भगवान् वृषारूढो जटाधरः || वीणाहस्त त्रिशूली च मातॄणां पुरतो भवेत् | मातरः पूजनीयास्तु दृष्टादृष्ट फलार्थिना || गंधनैवेद्यधूपेन वलिमालाविभूषणैः | तथा मातृगणं पूज्य देवं भैरवरूपिणं || स्त्रीसंयुकन्यका विप्राः पूजनीयाश्च शक्तितः | ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी स्मृत || वाराह्य न त चन्द्राणी चामुण्डा सप्तमी सता | अष्टमी स्यान् महालक्ष्मीः प्रोक्ताः स्युः विश्वमातरः || चंडिका तंत्र मंत्रस्य योगिन्योष्टौ प्रकीर्तिताः | ब्रह्मणी प्रथमा प्रोक्ता ततो माहेश्वरी पर || कौमारी वैष्णवी चैव वाराही च तथा परा | नारसिंही तथैचेन्द्री शिवदूती तथाष्टमी || भैरवः पाण्डनाथश्च रक्तगौरश्चतुर्भुजः | गदापद्मं च शक्तिं च चक्रं चापि करेषु च || विभ्र देव्याः पुराभागे पूज्योयं विष्णु रूपधृक् | मम प्रवर्तते पूजा यत्र यत्र च तत्र ते || पूज्यश्चिंत्यतश्च तत्रैव कायोयंत च दानव | त्रिशूलं दक्षिणे दद्यात् खड्गचर्मं तथोर्द्धतः || तीक्ष्णवाणं तथाशक्तिं वामतोपि निबोधते | खेटकं पूर्णचापं च पाशमंकुशमेव च || घण्ठा वा परशुं वापि वा मेधः स निवेशयेत् | प्. १८६अ) द्विभुजा दिव्यवस्त्राणि खड्गखेटकधास्तथा | दिव्यसुंदरिं रूपा च पाशशूलधरास्तथा || धनुर्वाणधराचान्या घंठाचक्रकरोद्यता | वज्रदण्डधरा देवीं दशवाहुरथा परा || कर्तिकां मद्गरं कुंभं कुठारं तर्जनी पुरः | डमरुं धारयंती च शक्ति हस्ता महावलाः || पद्माभय करा देवी तर्पणं विंशकेकरे | एवं विध स्वरूपा तु सिंहस्योपरिसंस्थिता || महामाया प्रकर्तव्या सिंहयुग्मगताथवा | पद्मासनस्था वरदा नवयौवनभाविता || सर्वावयवशोभाढ्या जयाद्यरूपशोभिता | अथ वा युध्यमाना तु महिषासुरघातिनी || ध्याता प्रपूजिता नित्यं सर्वकामफलप्रदा | न तथा तुष्पत्ते देवि होमदानजपेन तु || कुमारी पूजने नात्र यथा देवी प्रसीदति | पितरो वसवो रुद्रा आदित्यागणलोकपाः || शुक्लाष्टमी चतुर्दश्या नवम्यां च विशेषतः | कृष्णपक्षे विशेषेण भोजयेत् तु कुमारिकाः || प्रक्षाल्यपादौ सर्वासां कुमारीणां च वासव | स्वलिप्ते भूतले दिव्य तत्रता आसने स्थिता || पूजयेद् गंधपुष्पैश्च प्राग्भवश्चापि ननारसैः | पूजयित्वा विधानेन भोजनं तालु दापयेत् || प्. १८६ब्) खण्डल तु गुडं सर्पिर्दधीक्षीरं स माक्षिकं | तासां देयं कुमारीणां सनैर्भञ्जापयेच्चताः || पानीयं याचितन्देय मत्रम्वा याचितं शुभं | तास्भृप्तास्तु यदा सर्वास्तदा स्वाचनं ददेत् || आचम्यताक्षतान् सर्वान् दत्वा त्वयाक्षतं तत | दातुः शिरसि दातव्याः कन्यकाभिरथाक्षताः || तेनपि प्रणिपातंन्तु कर्तव्यो भक्तिपूर्वकः | अनेन विधिनाश्चैव देवी क्षिप्रं प्रसीदति || ददाति विविधान् कामान् मनोभीष्टान् सुराधिप | राज्यं कृत्वा ततः पश्चाद् देवलोकं च गच्छति || प्रभूतवलिदानं च नवम्यां विधिव चरेत् | वलिं च ये प्रयछक्ति सर्वभूतविनाशनं || तप्यन्तु तुष्येतेद्देवी यावत् कल्पन्तु शाद्कुरं(?) | सर्वभूतविनाशानां महिषा छेदनं || नवधा पशुघातन्तु महिषा जायो विघातनं | कर्तव्यं भूतवेताल नवम्यां नात्मिकाम्यया || पक्षि *? कछपा ग्राहा वराहास्द्वो?गलास्तथा | महिषो गोधिका मेषस्तथा नवविधामृगा || नवविधामृगाः कृष्णा साररुरु प्रभूतयः | ददतुष्टौ वलिं चैव निज गात्रा सृगुक्षितं || सहस्रं भृप्ति मायाति स्वदेहं रुधिरेण तु | तर्पिता विधिवदुर्गा भित्वा वाहुं च जंघके || अजश्व महिषश्चैव नरश्चैव यथा क्रमात् | वलिर्महावलिश्च ति वलिश्वेति प्रकीम्भताः | प्. १८७अ) नारेशशिरसावीर पूजिता विधिवन्नृप | तृष्णाभूतं भवेद् दूर्गा वर्षाणां लक्षमेव च || शोनितं मंत्र पूतन्तु शार्षपीयुषमुच्यते | तस्मात् तु पूजने दद्याद् वलः शीर्षं च शाणितं || पूजयेद् विधिवद् भक्त्या चामुण्डसूदिनीं | रुधिरेण तथा वीर शिरो हिव्विविधि नृपः || अजारि महिषाणांश्च स्वदेहस्य च भेदनात् | छिन्नलाङ्गुलकर्णाक्षि भग्नदन्त तथैव च || भग्नशृंगादिकं चापि न दद्यात् तु कदाचन | काशव्यंगञ्चापि वृद्धं रोगिणञ्च गलद् व्रणं || क्लिवंदीनाङ्गमंथवा विद्ध लिङ्गं स्रवत् ककं | न च त्रैमासिका न्युनं पशुन् दद्याछिवावलिं || न च त्रैपक्षिकान्न्युनं प्रद्याद् वै षतत्रिणं | पशूना पक्षिनाम्नापि नरानां च विशेषतः || स्त्रियन्न दद्याभुवलिं दत्वा नरकमाप्नुयात् | अनुक्तं नापि दद्यात् तथाऽज्ञाता ऋगद्विजान || प्ंचाब्दं लक्षणोपेतं विधिवत् कालिका वलि | विधिवत्कालिकासिनि जप्त्वा खड्गेन घातयेत् || उत्तराभिमुखो भूत्वा वलिं पूर्वमुखं तथा | निरीक्षासाधकः पश्वादिमंमन्तमुदीरयेत् || नरस्त्वं वलिरूपेण मम भाग्यदुपस्थितः | प्रणमामि ततः सर्व रूपिणं वलिरूपिणं || चंडिका प्रीति दानेन दातुरापद्विशन | चामुंडा वलिरूपां यं वले तुभ्यं नमोस्तुते || यज्ञार्थे वलयः सृष्टः स्वयमेव स्वयंभुवा | प्. १८७ब्) अतस्त्वां घातयाम्पद्य तस्माद् यज्ञेपधोऽवधः | एं ह्रीं श्रीं मिति मंत्रेण वलिंमेतस्वरूपिणं || चिन्तयित्वा न्यसेत् पुष्पं मूर्द्धितस्य तु भैरव | ततो देवो समुद्दिश्य काममुद्दिश्य चात्मनः || अभिषिच्यत तथा कृष्णं पिनाकपाणि च कालरात्रि स्वरूपिणं | उग्रं रक्तास्य नयनं रक्तमाल्यानुलेपनं || रक्तावरधरं चैक पाशहस्त्रं कुटुम्वितं | पिचमानं च रुधिरं भुजानं द्रव्यसंहितं || असिर्विशसनः खड्गस्तीक्ष्णधारीदरा सहः | श्रीगर्हो विजयंश्चैव धर्मपाल नमोस्तुते || पूजयित्वा ततः खड्गं आं हुं फडिति मंत्रकैः | गृहीत्वा विमलं खड्गं छेदयेद् वलिमुत्तमं || ओं एं ह्रीं कौशिकीति रुधिरंणाप्यायतामिति | स्थान नियोजयेद् रक्तं शिरश्च सप्तदीपकं || एवं दत्वा वलिं पूर्ण फलं प्राप्नोति साधकः | हीनन्तु स्याद् विनंतायां निष्कलं स्याद् विपर्ययात् || अन्येषां महीषादीनां वलिनामथ पूजयेत् | कायो मध्यत्वमायाति रक्तं गृह्नाति वै शिवा || वलिदाने तु दुर्गायाः सर्वत्रायम्विधिः स्मृतः | दैत्यानां मत्स्यमांसानि देवीनां पलनौदनं || कुष्माण्डमिक्षुदण्डश्च मद्यमांस वयं व च | एत वलिं समाज्ञयास्भृप्तौ छागसमासमाः || चंद्रहासेन कर्तारै छेदनं संख्यमिष्यते | प्. १८८अ) दात्रासिधेनुक्रकवशट्कुलाभिस्तु मध्यनं || असिधेनुः छरिशं चक्रलावर्ततथैव च | कर्तरीक्षुर भग्नश्च अधमं परिकीर्तितं || एत्यौन्यैः शक्तिशूलाद्यैः वलिछेद्यः कदापि नः | नास्ति देवीं वलिं तन्तु दाता मृत्यु नवाप्नुयात् || वलिदाने वलिं छित्वा खंगैस्ते रुधिरैः सकैः सर्वं वश्य न मंत्रेण ललाटे तिलकं न्यस्येत् || राजा वा राजपुत्रे वा स्त्रियो वा यक्षराक्षसाः | सर्व तस्य वशं यान्ति भूतग्रामश्चतुर्विधः || अजानां महिषानाञ्च मेषाणां च तथा वधात् | प्रीणयेद् विधिवद् दुर्गा मांसशोणिततर्पणेः || अहन्य हनि यो दुर्गा पूजयेद् रधिरादिभिः | कुलानां शतमुद्धृभ्यं ब्रह्मे लोके महीयते || स्वमेकमेकं वरदा भृप्ता भवति चण्डिका | रुधिरेणोरणस्येह तर्पिता विधिवन्नृप || अजस्पद वर्षाणि रुधिरेण सुतर्पिता | महिषेण शतं वीर भृप्ता भवति चण्डिका || सहस्रं भृप्ति मायाति स्वदेहरुधिरेण तु | तर्पिता विधिवद् दुर्गा भित्वा वाहु च जंघके || नरेण शिरसा वीर पूजिता विधिवन् नृप | भृप्तारावेद् दृश दुर्गा वर्वाणां लक्षमेव तु || छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जिगत् | प्रणम्य शिरसा देवीः स पापैस्तु न लिप्यते || दुर्गाया दर्शनं पुण्यं दर्शनादभिवंदनं | प्. १८८ब्) वन्दना स्पर्शनं श्रेष्ठः स्पर्शनादभि पूजनं | पूजनात् स्नपनं श्रेष्ठं स्नपनार्तर्पणं स्मृतं || तर्पणान्मांस दानं तु महिषाजनिपातनं | सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलं || तत्फलं लभते वीर प्रणम्य शिरसा * सीं | संप्रसारित देहो यो दण्डवत् पतितो भुवि || चंडिका पुरतो वीर स याति परमां गतिं | तपतीर्थ प्रदानैश्च यज्ञैर्वा वहु दक्षिणैः || न ताद्गतिं लभंते त्रयांस्तु त्वा च सुरेश्वरीं | आयुरारोग्यसौष्यानि सम्पदो दयितास्त्रियः || भवंति तस्य यस्मैति देवीं वासव भैरवीं | चण्डिकां पूजयित्वा तु प्रहृष्टेनां नरात्मना || कृतांजलिं पुटो भूत्वा इदं स्तोत्रमुदीरयेत् | ओं दुर्गां शिवां शांति करीं ब्रह्माणीं ब्रह्मणः प्रियां || सर्वलोकप्रणेत्री च प्रणमामि सदा शिवां | मंगलां शोभनां सिद्धां निःकलां परमा कलां || विश्वेश्वरीं विश्व मातां चंडिकां प्रणमाम्यहं | सर्वदेवमयीं देवीं सर्वरोगभयापहां || ब्रह्मेशविष्णु नमितां प्रणमामि सदा उमां | विंध्यस्था विंध्यनिलयां दिव्यस्थाननिवासिनीं || योगिनीं योगमातां च चण्डिका प्रणमाम्यहं | ईशानमातरं देवीमीश्वरीमीश्वर प्रियां || प्रणतोस्मि सदा दुर्गा संसारार्णव तारिणीं | य इदं पठति स्तोत्रं शृणुयाद्वापि यो नरः || प्. १८९अ) स मुक्तः सर्वपापैस्तु मोदते दुर्गया सह | मंत्रेणानेन वृत्तारे प्रार्थयेत् तां सुरेश्वरी || महिषग्नि महामाये चामुण्डे मुंडमालिनी | द्रव्यमारोग्य विजयं देहि देवि नमोस्तुते || भूतप्रेत पिशाचेभ्यो रक्षोभ्योश्च महेश्वरि | देवेभ्यो मानुषेभ्यश्च मयाभ्यो रक्षमां सदा || सर्वमंगलमाङ्गल्य शिवे सर्वार्थसाधिके | उमा ब्रह्माणि कौमारि विश्वरूप प्रसीद मे || रूपं देहि यशो देहि भगं भवति देहि मे | पुत्रान् देहि धनन् देहि सर्वान् कामान् प्रसीद मे || चंदनेन समालब्धे कुंकुमेन विलेपिते | बिल्व पत्र कृता पीडे दुर्गेहं शरणं गतः || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे उनत्रिंश पटलः || २९ || श्रीभैरव उवाच || दुर्गा गृहे तु शस्त्राणि पूजनीयानि पंडितैः | वाद्यभांडानि चिह्नानि कवचान्या युधानि च || अशिर्विससनः खड्गस्तीक्ष्णधारोद्वरासनः | श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च || इत्यष्टौ तव नामानि प्रयमुक्ता निवेधसा | न क्षेत्रं कृत्तिका ते तु गुरु देवा महेश्वरा || रोहिण्यश्च शरीरंते दैवतं च जनार्दनः | पितापितामहादेवस्त्वंमांपानय सर्वदा || नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्राः कृशोदरः | भावशुद्धोमर्षणश्च अति तेजास्तथैव च || इयं येन धृताक्षोणी हतयश्च महासुरः | प्. १८९ब्) तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः || सर्वायुधानां प्रथमं निर्मितासि पिनाकिना | शूलायुद्धाद्विनिष्कृष्य कृत्वामुष्टि गृहं शुभं || चंडिकायाः प्रदत्तानि सर्वदुष्टनिवर्हिणी | तया विस्तारिता चाग्नि देवानां प्रतिपादिता || सर्वसत्वांग भूतानि सर्वाशुभनिवर्हिणी | छुरिके रक्षमान्नित्यं शांतियेछ नमोस्तुते || रक्षांगानि ग्रजान्रक्ष रक्षवाजिधनानि च | मम देहं सदारक्ष कट्टारक नमोस्तुते || सर्वायुध महामात्र सर्वदेवारिसूदन | चापमांसमरेरक्ष शाकं शरवरैरिह || धूतं कृष्णेन रक्षार्थं संहाराय हरेण च | त्रयी मूर्ति गतं देवं धनुरस्त्रं नमाम्यहं || प्राणान् पातय शत्रूणामनयातीक्ष्ण धारया | गृहाण जीवितं तेषां कुंतस्यैन्पंच रक्ष मे || शर्मप्रदस्त्वं समरे वर्मन् सैन्य यशोद्यमां | रक्षमां रक्षणीयोहंतापनेय नमोस्तुते || शशांककरसंकाश हिमदिंडिरपांडर | प्रोत्सारय त्वंदुरितं चामचामर वल्लभः || यथांवुदश्छाद यज्ञ शिवायमां वसुंधरां | तथामांछादय छत्रयुद्धे ध्वनि गतं सदा || शक्रकेतो महावीर्यः स्वयं तुस्त्वां समाश्रितः | पक्षिरोजावैनतेयस्तथा नारायणध्वजः || काश्यपयो मृताहर्ता नागारिर्विष्णुवाहनः | अप्रमेयो दुराधर्षो रणदेवानि सूदनः || प्. १९०अ) गरुत्मान् मारुत गति त्वयि सन्निहितः स्थितः | साश्च चर्मायुधान् योधान् योधान् रक्षात्मकं रिपुं || हुतभूग्वसवो रुद्रा वायुः सोमामहर्षयः | नागकिंनरगंधर्वायक्षभूतमहोरगाः || प्रमथाश्च महादेव्यै भूतशामातृभिः सह | सक्रसेनापतिस्कंद वरुणश्चाश्रितस्त्वयि || प्रतिहंतु रिपुन् सर्वान् राजविजयमृछतु | यानि प्रयुक्तान्यरिभिर्दुषणानि समं ततः || निहतानि सदातानि भवं तु तव तेजसा | कालनेमि वधे युद्धे युद्धे त्रिपुरघातिने || हिरण्यकशिपो युद्धे युद्धे देवासुरे यथा | शोभितासि तथैवाद्य शोभसुरमयं स्मर || रक्तां नीलांसितां दृष्ट्वा नश्चत्त्वाशुममारयः | दुंदुभे त्वं सपत्नानां घोषावृदय कम्पनः || भवभूमिपसैन्यानां तथा विजयवर्द्धनः | यथा जीमूतघोषेण हृष्यंति वरवारणाः || तथास्तु तव शब्देन हर्षोस्माकं जयापहः | यथाजीमूतशब्देन स्त्रीणां त्रासोभिजायते || तथा तत्र च शब्देन तस्यंत्वस्माद् द्विषोरणे | पुण्यस्त्वं शंखपुण्यानां मंगलानां च मंगलं || विष्णुनात्वं धृतो नित्यं मतः शांतिं प्रयछ मे | विजयो जयदोजेतारिपु भेत्ताभयंकरः || दुःखहाशर्मदः शांतः सर्वारिष्टविनाशनः | इत्यष्टौ तव नामानि यस्मात् सिंहपराक्रमः || प्. १९०ब्) तेन सिंहासने तित्वं नाम्ना देवेषु गीयते | त्वयि स्थितः शिवः शाक्षास्त्वयि शक्रः सुरेश्वरः || त्वयि स्थिते हरिदेवंस्त्वदर्थं तन्यते तपः | समस्त सर्वतो भद्र शिवो भव महीपते || त्रैलोक्य विजय सर्वं सिंहासन नमोस्तुते | तुरंगमचिरं जीव परशस्त्रैव लक्षितः || सदामांसमरेरक्ष स्वामि कार्यं सदा कुरु | गंधर्व कुलजातोसि सा भूया कुलदूषकः || ब्राह्मणः सत्य वाक्येन सोमस्य वरुणस्य च | तेजसी चैव सूर्यस्य मुनीनां तपसा तथा || रुद्रस्य ब्रह्मचर्येण पवनस्य वलेन च | प्रभावाच्च हुताशस्य वर्द्धसुद्धं तुरंगमः || स्मरत्वं राजपुत्रासि कौस्तुभंजमणिं स्मर | सुरासुरैर्मध्यमानात् क्षीरोदादमृतादिभिः || जात उच्चैः श्रवाः पूर्वं तेन जातोसि तत्सर | यां गतिं ब्रह्महा गछेत् पितृहा मातृहा तथा || भूम्यर्थे नृतवादी चरणेयश्च परांमुखः | सूर्याचंद्रमसौ वायुर्यावत् पश्यंति दुःकृतां || तां गतिं व्रजसि क्षिप्रं तच्च पापं भवै भुव | विकृतिं यदि गछेथा युद्धे ध्वंनि तुरंगम || रिपुन् विजिन्य समरे सहभत्ता सुखी भवे | शिवाः कंकाल वेतालाः पूतना जंभकादयः || ते सर्वे तृप्तिमायां तु वलिदानेन तोषिता | योजागरणं गिरिसुताभिरतो ददाति चैत्रोत्सवादि दिवसे व्यधिदूर्यनादं || प्. १९१अ) वीणासुरेणु मधुरसुरभाषिणीभिः संगीयते सहि कृशोदर किन्नरंभिः | गीतवाद्य प्रदानेन सौख्यं प्राप्नोत्यनुत्तमं | प्रदक्षिण प्रदानेन रूपवानमि जायते || मासि चाश्वयुते वीरः शुक्लपक्षे त्रिशूलिनीं | नवम्यां पूजयेद् यस्तु तस्य पुण्यं फलं शृणु || अश्वमेध सहस्रस्य वाजपेयशतस्य च | तत्फलं लभते वीर दिविदेवगणैर्द्धृतः || अजानां महिषाणां च मेषाणां च तथा वधात् | प्रीणयेद् विधिवद् दुर्गां मासशोणित तर्पणैः || उत्तिष्ठ देवि चंडेशि शुभां पूजा प्रगृह्य च | कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह || गछ गछ परस्थानं स्वस्थानं देवि चंडिके | वज्रसोतो जलवृद्ध्यै तिष्ठ गेहे च भूतये || ओं दुर्गे देवी जगन्मातः स्वस्थानं गछ पूजिते | संवत्सरे व्यतीते तु पुनरागमनाय वै || इमां पूजां मया देवी यथाशक्त्या निवेदितां | रक्षणार्थं समादाय व्रजसुस्थानमुत्तम || चतुर्भुजां पीतवस्त्रां सर्वाभरणभूषितां | दक्षिणवामयो रूपरि तलहस्तयोः खड्गचर्मधरां मधस्तन हस्तयोर्वराभयं चिह्नं त्रिनेत्रांमीषत् प्रहसित वदं नाम पराजितां चारुणामुखपद्मेन विचित्रकनको ज्वला || जया देवि शिवे भक्ता सर्वान् कामां ददातु मे | कांचनेन विचित्रेण कर्पूरेण विभूषिता || प्. १९१ब्) जयाप्रदा महामाया शिवभावित चेतसा | विजयाव सदाभागां ददातु विजयं मम || हारेण सुविचित्रेण भास्वत् कनक मेखल | अपराजिता रुद्ररता करोतु विजयं मम || इति स्तुत्वा हरिद्रा च पीतोपचार पूजयेत् | सदा पराजिता यस्मात् त्वं लतासूक मातृता || सर्वाकामार्थ सिद्धार्थ कस्मात् स्वाधारयाम्यहं | भवा पराजिते देवि मम सर्वार्थ मृद्धये || पूजितायां त्वयि श्रयो ममास्तु दुरितं हतं | ओं जय देवरदेदेवि दशम्याम पराजिते || धारयामि भुजं दक्ष जललाभाभिवृद्धये | वलमाधे हि वलयं मयि शत्रोः पराजय || त्वद्धारणाद्भवेयुर्मेधनधान्यसमृद्धये | सुरास्त्वामभि * चेस्तु ब्रह्मविष्णुमहेश्वराः || वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः | प्रद्युम्नश्च निरुद्धश्च भवं तु विजयायते || आखण्डलाग्नि भगवान् यमे वै निर्मतिस्तथा | वरुणाः पवनश्चैव धतोध्यक्षस्तथा शिवः || ब्रह्मणा सहिताः शेषां दिग्पालाः पांतु ते सदा | कीर्ति लक्ष्मीर्द्धृतिर्मेधा पुष्टिः श्रद्धाजियामति || बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिश्च मातरः | एतास्त्वामंभिषिंचं तु देवापन्यः समागताः || आदित्य चंद्रमासोमो बुधजीवसितार्कटाः | गृहास्त्वमभिषिंचंतु राहुकेतुश्च तर्पिताः || प्. १९२अ) दत्वादानवगंधर्वा यक्षराक्षसपन्नगाः | ऋषयो मानवो गावो देवामांगल एव च || देव पत्न्यो उमानागा देभ्याश्चाप्सरसां गणाः | अस्त्राणि सर्वशास्त्राणि राजनो वाहनानि च || ओषधानि च रत्नानि कालस्या वयवाःश्चये | सरितः सागराशैलास्तीर्थानि जलदानवाः || एतास्तु मभिषिंचं तु सर्वकामार्थसिद्धये | श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि प्रायश्चित्तविधिं तव | गुरुत्याग करः शिष्यः प्रायश्चित्ति भवेद्ध्रुवं || लक्षं श्रीपादुकां जप्त्वा तस्मात् पापाद् विशुद्ध्यति | मंत्रत्यागकरो यस्तु तत्संगं वर्जयेत् प्रिये || लक्षमेकं जपेन् मंत्रं होमतर्पणतः शुचिः | नित्यादि क्रमदोषाणां शांत्यं विद्याशतं जपेत् || नैमित्तिकाति क्रमणे सहस्रं प्रजपेन्मनुं | मधुलोभाद्यथा भृंगः पुष्पात् पुष्पांतरं व्रजेत् || गुरुलुब्धास्तथा शिष्यो गुरोर्गुर्वतरं व्रजेत् | यदि दैवात् पशोर्विद्या लभ्यते कुलजैर्नरैः || द्विजं तु कौलिकं प्राप्य पुनर्विद्यामुपालभेत् | शकलो जीवहीनस्तु संदिग्धो निंदितस्तथा || मनवस्तु न सिद्ध्यंति गुरुः स्याद्ब्रह्मघातकः | तदा तं सहसा ज्ञात्वा मंत्रं देव गुरुं त्यजेत् || क्षमस्वमातस्तत्पापं हरदेवि कृपां कुरु | अनेकधा पशो रत्नं भुंजते ये तु कौलिकाः || लक्षत्रयं जपेल्लोपां लक्षं वाप्य जपां जपेत् | प्. १९२ब्) होमयेद्धविषान्तेन निःपापः स्यात् तथा ध्रुवं | एकपात्रो पिबेद् द्रव्यं वीरो माहेश्वरो यदि || श्वानोच्छिष्टं भवेत् पापं प्रायश्चित्तं स कौलिकः | गायत्र्यास्तु सहस्रेण उपवास त्रयेण च || सम्यक् शोधित चित्तस्तु सुवर्णं गुरुवे ददेत् | वलात् स्वरसतो वापि योरमेन्मंत्र मातरं || दशलक्षं मनुं जप्त्वा तुषानलं समाचरेत् | मंत्रपुत्र्याः स्वपुत्र्याश्च भगिन्याश्च कुलस्त्रियः || रमणाल्लक्षजापेन पूतो भवति कौलिकः | मंत्र पुत्री पुत्रत्वेनप्युपदेशोभिधानतः || कृत्वा वीरवधं मंत्री वृथापानं गुरो * *? | * * * * * * * * *? स्थित्वा लक्षमा जपेत् || अनस्थि प्राणिसंघातं हत्वा च नरकं व्रजेत् | * * * * * * * * * * *? चैकादशं जपेत् || सर्पमार्जारनकुलमूषमुष्ट्रखरं हयं | गजाद्याश्च * * * * * * * * * * * *? || *? पदष्ट सहस्रं तु क्षुद्रं जंतु वधे कृते | वलिदानं * * * * * * * * * * * *? || * * * * * * * *? प्रायश्चित्तं मणीषिभिः | गो वधे दशभि * * * * * * * * * *? || * * * * * * * * * * * * * * * *? | गुरुहत्वा प्रसादेन पंचलक्षैर्भवेद् * *? || * * * * * * * * * * * * * * * *? | * * * * * * *? पं पीठ क्षेत्र परिभ्रमन् || प्. १९३अ) प्रमादात् पतिते विप्रे लक्षैर्विंशतिभिः शुभिः | क्षेत्रादयो यथोक्तेन मुच्यंते किल्विषादितः || ब्राह्मणस्य वधेलक्षं क्षेत्रिये द्विगुणं स्मृतं | वैश्य त्रिगुणमुद्दिष्टं पादजे च चतुर्गुणं || अर्हद्वौद्धवधे मंत्री खाद्धिलक्षं मनुं जपेत् | वभ्रोश्च शूकराणां च वधे पंच सहस्रकं || पक्षिणां हनने मंत्री द्विसहस्रेण शुद्ध्यति | सर्पमार्जारमत्स्यानां वधे वेदसहस्रकं || देवद्रोहाद् गुरुद्रोहात्त्रिंशत्कोटि मनुं जपेत् | निंदते समयानां च योगिनी वीरयोः शिवः || शास्त्राणां मंत्रिणां स्त्रीणां सहस्रं जपमाचरेत् | वामदक्षिणसिद्धांते शैव व्रत धरे हते || चतुःकोटिमितां मंत्री जपन् शुद्ध्यति किल्विषात् | आद्यादिनींदने मंत्री दशावर्तेन शुद्ध्यति || अर्घामृतं पिबेत् पूर्वं देवीमुत्थापयेत् ततः | पशुपानं भवेत् तस्य तत्क्षयो लक्षतो भवेत् || वीरपत्नीं वृथापानं वीरपत्नीस्नुषे तथा | प्रायश्चित्तं चरेन् मंत्री दिव्यवीरार्चनादिकं || दीपनाशे पात्रनाशे पात्रप्रस्खलने तथा | पूजयित्वा महादेवीं जपेदष्टोत्तरं शतं || अज्ञानादेतदुद्दिष्टं ज्ञानतो द्विगुणं भवेत् | भग्नं च स्फुटितं यंत्रं हृतं चौरेण वा प्रिये || उपवासं प्रकुर्वीत दिनमेकमतेंद्रितः | लक्षमात्रं जपेद् विद्यां होमतर्पणपूर्विकां || प्. १९३ब्) सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोजयेत् | कदाचिल्लुप्त चिह्नं वा स्फुटितादि विभूषणं || भग्नं करोति यो मर्त्यो मृत्युस्तस्य भवेद्ध्रुवं | तस्मात् स तीर्थराजे वा गंगादि सरितांवरे || समुद्रे वा क्षिपेद् देवि अन्यथा दुःखमाप्नुयात् | आंबिके यो यदा मंत्री देहधर्ममुपाश्रितः || अंत्यष्टिस्तत्र कर्तव्या तच्छिष्याद्यैर्विधानतः | कर्ता नित्य क्रियां कृत्वा पंचरत्नैर्विशोधयेत् || प्रेतं नेत्रादि मार्गेण लोकांतरविनिर्गतं | आकृष्य स्थापयेत् प्रेते जीवात्मानं गुरुक्तितः || पंचप्रणव योगेन वियद्वह्य निलात्मकैः | मोक्षदे पदमुच्चार्य चक्षुरादि समुच्चरेत् || प्रेतनामसमुच्चार्य वदेदावाहयामि च | अनेनावाहयेत् प्रेतं तत्र प्राणाश्च विन्यसेत् || अंगप्रकल्पनं कुर्या मायया दीर्घसंयुता | प्रतिष्ठाप्य घटं मंत्री परेतं स्नापयेत् सुधीः || पंचगव्यैरघोरेण वर्द्धिन्या त्वभिषिच्यतं | शुद्धतोयेन संस्नाप्य भस्मनास्नापयेत् पुनः || प्रेतं दक्षिणमूर्द्धानं न्यसेदर्भास्तने सुधीः | नववस्त्रस्रगा लेपैरलंकृत्यविभूषणैः || अभ्यर्च्य गंधपुष्पाद्यैर्मूलमंत्रेण साधकः | सम्यक् विमानं संकल्पा मृतकं तत्र विन्यसेत् || ग्रामं प्रदक्षिणी कुर्वन् शंखभेर्यादि निस्वनैः | प्रेतस्थानं समाविश्य दक्षिणोत्तरमायतं || उपविश्यसमां भूमिं तत्र लाजातिलाक्षतान् | प्. १९४अ) विकिरेत् सर्षपो पेतान् विमानमथविन्यसेत् | संस्थाप्य तत्र चित्यग्निं परिस्तीर्य विलोमतः || पावाण्यासादयेन् मंत्री दक्षिणे विष्णु देवतं | प्रणीत पात्रमासाद्य संपूज्य कुसुमादिभिः || दर्भेराछादिते मंत्री वह्निकोणे प्रविन्यसेत् | दक्षभागे यजेद् देवं भैरवं मंडलं क्रमात् || उक्तेन विधिना कृत्वा वह्ने जिह्वादि कल्पनं | तिलतंडुलसंमिश्रं श्रवयेच्चरुमुत्तमं || मृत्युंजयेन मंत्रेण शतमष्टोत्तरं सुधीः | साच्चेन चरुणाहुत्वा पंचरत्नर्विशेषतः || जुहुयान्मूलमंत्रेण क्रमादावरणांतिकं | एवं विलोमता होमान् सर्वमंत्रान् गुरोस्तनौ || क्रमेण विलयं नीत्वा जुहुयाद् वाग्भवेन च | हुत्वाथ मूलमंत्रेण प्रेत देहि विलोमतः || तत्वानि विलयं नीत्वा सर्वमात्म नियोजयेत् | पुण्यपापे तस्य जुहुयान् मंत्रमुच्चरन् || ततः पूर्णाहुतिं दत्वा योजयेत् परमं पदे | शिवशक्त्यात्मके शुद्धे पुनरावृद्धि वर्जिते || सच्चित्सुखमये साक्षात् तत्वातीते निराकुले | इति संयोजितः प्रेतः शिष्येन परमे पदे || संपूज्यमलकालुष्यं शस्तु भावाय कल्पने | आज्येन जुहुयाद्वह्नावघोरास्त्रेण मूलतः || अनुलोमविधानेन प्रायश्चित्ताय साधकः | परेतदेहमानेन शयनं परिकल्पयेत् || वह्नेर्दक्षिण दिग्भागे कुलवृक्षसमुद्भवैः | प्. १९४ब्) शंकुभिर्दक्षिणाग्रैस्तु बिल्वजैर्वाकुशैस्तथा | आस्तीर्य शयनं मंत्री त्रिगुणी कृति तंतुना || संवेष्ट्य पूजयेद् गंध पुष्पाद्यैरुपचारकैः | आछाद्यनं वा वस्त्रेण तत्र यंत्रं लिखेत् सुधीः || पद्मं त्रिकोण षट्कोण कर्णिकं साष्ट पत्रकं | सार्द्धरेखं ततस्तत्र पुष्पाण्याकीर्य सर्वतः || प्रेतं दक्षिणमूर्द्धानं विन्यसेदिह साधकः | रक्षामंत्रेण संकल्प्य ज्वलामालिनि विद्यया || प्रज्वाल्या घोरमंत्रेण दहेत् पादादितो बुधः | अघोरास्त्रेण मंत्रेण मंत्री पाशुपतेन वा || यावद्भस्मी भवत्येष तावद्धोमं करोत्विह | स्तोत्र मंत्र जपं कुर्यत् समयज्ञाः समागताः || भस्मीभूते परे तेस्मिन् देवा सम्यक् समर्चयेत् | चिंत्यग्निं रक्षयेन् मंत्री संप्राप्ते सप्तमे हनि || निर्वापय ससास्थीनि वेष्टयेत् नव वाससा | तद्भस्म निःक्षिपेत् क्वापि विशुद्धे सलिलासयेत् || अस्थिकूटं खनेन् मंत्री देवमातृ गृहेऽथवा | स्वगृहे वा निखन्येत त्रिसंध्यं पूजयेदिदं || पूर्वपूजां मृतदिने प्रतिमासं प्रकल्पयेत् | संपूर्ण वत्सरे कुर्यात् महोत्सव मतंद्रितः || ततोस्ति कूटमुद्धृत्य नद्यां वा विधिसंस्पृशि | * निःक्षिपेन्निखेत् क्वापि विशुद्धे धरणी तले || केनापिकीकसे नास्य प्रतिमां पादुकेऽथ वा | कृत्वा संपूजयेत् मंत्री गुरुभक्तिपरायणः || प्. १९५अ) देशांतरमृतानां च जीवतामपि साधकः | दर्भपूजैः पलाशैर्वा शालिपिष्ठेन वा पुनः || देहं कृत्वा यथा पूर्वं शेषं कुर्याद् विचक्षणः | अथवा मनसा कुर्यादेकांते स्वयमास्तिकः || वाग्भवं दीपिनी ज्वाला मालिनीति पदं ततः | क्रोध हंसेन्दुहेत् पर्णान् संपुटत्वेन योजयेत् || एतानि तत्र बीजानि प्रणवो जीवकेशवै | हंसेंदुगांत कुटिलवह्नि बिंदुन् भगाश्रितान् || शिवशक्ति क्षमेंद्रांवु वह्निवातार्घिसंचयं | ज्वालामालिनि मंत्रोयं कथितो मंत्रको विदैः || मायाबीजं स्फुरद्वंद्वं प्रस्फूर द्वितयं तथा | घोरघोरतरेत्यंते तनुरूप पदं वदेत् || चटप्रचट द्वितयं कथितोयं महामनुः | कह द्वंद्व समुच्चार्य घातये द्वयमुच्चरेत् || वर्मांतास्त्रस्समुद्दिष्टो वर्णामघोरमंत्रकः | तारिणीं पशुवर्णाते कवचास्त्राक्षरो वदेत् || मनुः पाशुपतास्त्रोयं क्षुद्रग्रहनिवारकः | पंचातकेंदु पार्श्वार्णान्यमधांतसमन्वितान् || इंद्रारूढात् सुधीः कुर्याद् वामकर्णेंदु संयुतान् | पंचरत्नमिदं प्रोक्तं मनोभिलषित प्रदम् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे त्रिंश पटलः || ३० || श्रीभैरव उवाच || कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे | महाकाले च काश्यां च दीपस्थानं न चिंतयेत् || प्. १९५ब्) नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन | न न्यासो योषितां चात्र न ध्यानं न च पूजनं || केवलं जपमात्रेण मंत्रात् सिद्ध्यंति योषितां | पुरश्चरण काले च परशक्तिं प्रपूजयेत् || दीक्षितो वस्त्रपुष्पाद्यैर्भोज्यैः पायससंभवैः | शून्यगेहे समानीय अर्घोदकं विशोधितं || अमृतीकरणं कृत्वा शक्तीरभि मुखं नयेत् | अर्घोदकेन सर्वास्तास्संप्रयोक्ष्य विधि पूर्वकं || अमृतीकरणं कुर्यात् सकली करणं ततः | अथाष्ट कन्यका वक्ष्ये देवी रूपधरायतः || ब्राह्मणी क्षत्रिया वैश्या शूद्राल्लकुलभूषणा | वेश्यानापित कन्या च रजकी योगिनी तथा || विशेष वै दग्धा युताः सर्वष्टवशुभांगनाः | अष्टकन्यारूपभेदं विलोक्यामर्षचेष्टितं || ब्राह्मण्याद्यष्टशक्तीनां नामभिः कृतसंज्ञकाः | गौरकृष्णादिकं रूपं सौम्यत्वं च गुणादिकं || आसनं प्रथमं दत्वा स्वागतं च वदेत् पुनः | अर्घ्यपाद्यं च पानीयं मधुपर्कं जलं ततः || स्नापयेद् गंधपुष्पाभिः केशसंस्कारमाचरेत् | धूपयित्वा ततः केशं कौशेयं विनिवेदयेत् || ततः स्नानोत्तरे पीठमास्तीर्य पादुका द्वयं | दत्वा तत्र समासीनां नानालंकारभूषणैः || भूषयित्वानुलेपं च गंधमाल्यं निवेदयेत् | तां तां शक्तिं समावाह्य मूर्द्ध्नि तासां समानयेत् || प्. १९६अ) भोज्यमंडपमध्ये तु स्वर्णपात्रे सुशोभने | चव्यं चोष्यं लेह्यपेयं भोज्यं चैव हि भक्षकं || अदीक्षिता यदा स्युस्तु तदा माया निवेदयेत् | तत्रासांसव्यकर्णेनु ततः स्तोत्रं समाचरेत् || मातर्देवि नमस्तेऽस्तु ब्रह्मपुत्रि धरेऽनघे | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || माहेशि वरदे देवि परमानन्दरूपिणी | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || कौमारि सर्वविघ्नेशि कुमारक्रीडने वने | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || विष्णुरूप धरे देवि विनतासुतवाहिनि | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || वाराहि वरदे देवि दंष्ट्रोद्धृत वसुंधरे | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || शक्ररूपधरे देवि शक्रादि सुरपूजिते | कृपया हरविघ्नं मे मंत्र सिद्धिं प्रयछ मे || चामुण्डे मुंडमाला सृक् चर्चिते विघ्ननाशिनि | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || महालक्ष्मि महामोक्ष क्षोभसंतापनाशिनि | कृपया हरविघ्नं मे मंत्रसिद्धिं प्रयछ मे || मिति मातृमये देवि मिति मातृ वहिः कृते | एके वहुतरे देवि विश्वरूपे नमोऽस्तुते || एतत् स्तोत्रं पठेद् यस्तु मंत्रारंभेषु संयुतः | विदग्धां वा समालोक्य तस्य विघ्नं न जायते || यदि क्रीडापरास्तास्तु भोजने तद्गृहाद्वहिः | स्थितः स्तोत्रं पठेत् तावद् यावत् तृप्तिः प्रजायते || प्. १९६ब्) आचम्य मुखवासादि तांबूलं च निवेदयेत् | ततो दद्यात् पुनर्माल्यं चंदनं पंक्तितं शुभं || विसृज्य प्रदक्षिणी कृत्य वरं प्रार्थ्य सुखी भवेत् | ज्योति पश्यति सर्वत्र शरीरं वा प्रकाश युक् || निजं शरीरमथवा देवता मयमेव हि | क्रूरकर्मसु देवेशि कर्म कृत्वा यथाविधि || तैलात्यक्तः पुनः स्नातः सांगां सावरणां बुधः | अभ्यर्च्य देवतासिष्टामात्मरक्षार्थमंत्रिके || जपेन् मंत्रं प्रशन्नात्मा सहस्रं साष्टकं प्रिये | मां रक्ष रक्ष चेत्युक्ता प्रणम्य विसृजेच्छिवे || अन्यैः सुहृद्भिः सुस्निग्धैरात्मरक्षां तु कारयेत् | मृत्युंजयादिभिर्देवि प्रयोगास्त्रेण चाणुना || जपहोमार्चनाद्यैश्च ब्राह्मणाराधनादिभिः | प्रयोगांते तथा चक्र पूजां मंत्री समाचरेत् || एकलक्षं जपेन्मंत्री ध्यान न्यास समन्वितः | प्रयोगादोषशांत्यर्थमात्मरक्षार्थमेव च || न चेन्न फलमाप्नोति देवता शापमाप्नुयात् | प्रणवाद्या मुक्तिकरी श्रीबीजाद्याधनागमे || हृल्लेखाद्या महासिद्धिकरी सर्ववशंकरी | वाग्भवाद्या चरद्विद्यां कामाद्या जमरंजिनी || ऊर्द्धदृष्टिर्जपेच्छांन्ता वधो दृष्टिस्तु मोहने | समदृष्टिस्नंपने च पार्श्वतो दर्शन क्रमात् || विरोधे च समुच्चाट मारणे सूर्य दर्शनः | प्. १९७अ) विद्यार्थं जलमध्यस्थो भानुमंडलदर्शनात् | भ्रूमध्य दर्शनाद् देवि सर्वत्रशुभकर्मणि || नित्यं जपं करे कुर्यान् न प्रयोगे कदाचन | प्रयोगे विहिता माला तत् तत् कर्मानुरूपतः || होममुद्रा त्रयं प्रोक्तं सृंगीहंसी च शूकरी | शूकरी करसंकोची मृगीमुक्तकनिष्ठिका || हंसी स्यात् तर्जनी मुक्ता त्रिधा मुद्रा प्रकीर्तिता | शांतिके पौष्टिके चैव मारणोच्चाटने तथा || विद्वेषे स्तंभने चैव वश्ये च परमेश्वरि | शांतिके च मृगी ज्ञेया हंसी पौष्टिक कर्मणि || अभिचारे शूकरी स्याद् विद्वेषोच्चाटनादिषु | न देवाः प्रतिगृह्नंति मुद्राहीनामथाहुतिं || मुद्राहीनां तु यो मोहाद्धोत्तुमिछति मंदधीः | वश्यशांत्योः स्वर्णपात्रं मृत्पात्रं स्तंभने मतं || विद्वेषे षादिरं पात्रमुच्चाटे लौहनिर्मितं | मारणे कुक्कुटांडं स्यात् पात्राणी मनि तर्पणे || देव्युवाच || भगवन् सर्वतत्वज्ञो लोकानुग्रहकारक | केनोपायेन देवेश देहशुद्धिः प्रजायते || तन्मे कथय सर्वज्ञ यदि स्नेहोस्ति मां प्रति | ईश्वर उवाच || देवेशि भक्ति सुरभे औषधं कथयामि ते | न प्रकाश्यमिदं क्वापि त्रिषु लोकेषु दुर्लभं || कुमारीं छत्रधारीं च राजमाषेण पेषयेत् | एकवर्णगवाक्षीरै रंभाबीजेन मेव च || प्. १९७ब्) प्रभाते लेपयेदंगं वश्यसिद्धिः प्रजायते | श्वेतापराजिता मूलं सधुना सह भक्षयेत् || श्वेतकुष्टविनाशं च लेपयित्वा रवेर्दिने | अशोकस्य फलं पुष्पं मेरंडस्य फलैस्सह || निमंत्रयेत् पूर्वदिने भक्षयेदपरेहनि | वातांजीर्ण भवे रोगस्तस्य देहेन जायते || द्वादशाधारमादाय तद्ग्रंथिं परिभेदयेत् | तस्माज्जिह्वाग्रमानीय दीपाकारं विचिंतयेत् || लक्षमेकमिदं जप्त्वा सर्वपापानि निर्दहेत् | ततश्चराचरं सर्वं ज्ञात्वा सर्वज्ञतां लभेत् || ततो जपेत् महाविद्यां वाक्यतिर्जायते नरः | वादेसदसिया वाक्य स्तंभिनी प्रतिवादिनी || तत्पंडित घटाटोप ततो प्रतिहत प्रभः | स तर्कपदवाक्यार्थ शब्दालंकारसारवित् || जिह्वायां न्यसना देव मुकोपि सुकविर्भवेत् | सुकुमारतरस्फार शब्दालंकारसारवित् || ततो * *? समुद्रोस्मि माला तुल्यै रूपन्यसेत् | पदगुप्तैर्महाकाव्यं वरकारपिता भवेत् || अव्याहतामति शास्त्रे विजयो वाक्यतेरिव | वालकस्य तु जिह्वायां त्रिदिनाभ्यंतरे लिखेत् || सुवर्णमययालेखिन्यामधुना श्वेत दुर्वया | वाग्भवाद्यां लिखेद् विद्यां समाराध्य प्रजप्य च || स एव पण्डितः श्रीमान् न तु मूर्खः कदाचन | प्. १९८अ) एतद् वागीश्वरी विद्यां वारिशस्यापि मूर्द्धनि | करं दत्वा जपेद् विद्यां शतमष्टोत्तरं नरः || सोपि श्लोकानशेषास्तु करोति वाक्य तिर्यथा | जिह्वायां भावयेद् यस्तु तारिणी दीपसन्निभां || वृहस्पति समस्तस्य कविता शुक्रनिर्जिता | ब्राह्मे मुहूर्ते चोस्याय कृता वश्यः ससंयुतः || जिह्वाया भावयन् विद्यां ततो रूपां जपेत् सुधीः | अमृतसंदिनी तस्य वाणी सर्वविधा भवेत् || प्रातर्विद्यां विभाव्यैव जिह्वायां दीपरूपिणी | मातृकां सहितां विद्यां त्रिरावर्त्य जलं पिबेत् || जलपानविधानेन मुकोपि सूकविर्भवेत् | जिह्वायां चिंतना देव त्रिकालज्ञो भवेन् नरः || यस्तु विद्यामभेदेन चिंतयेत् साधकोत्तमः | जीवन्मुक्तो विमुक्तश्च अंते सोपि भवेद्ध्रुवं || मधुना तर्पण देव्यास्सर्वकामफलप्रदं | अष्टसिद्धिकरं साक्षात् महापातकनाशनं || हविष्याशी मुक्तकेशो जपेदयुतमादरात् | गद्यपद्य मयी वाणी तस्य सर्वविधा भवेत् || शताभिजप्तमात्रेण रोचना तिलकं नरः | कृत्वा पश्यति यं मंत्री तं कुर्याद् दासवद् वशं || पुष्करिण्यां जले गाढे यष्टिकाष्ठं तमो ग्रहे | दंतेनानीयतत्तूर्णं कीलकं तेन कारयेत् || ते नैव मधुनोक्तेन पद्मिनी पत्रमात्रके | लिखेद् वज्रावली मध्ये मूलमंत्रं तु सिद्धिदं || प्. १९८ब्) अमुकं कुरुमायांते वदेत् साधक सत्तमः | तत्कुंड चतुरस्रे तु निःक्षिप्य जुहुयाद् दधि || सहस्रं क्षीरनीरक्त पद्मां मां लोहित त्विषं | प्रणवं पूर्वमुच्चार्य पद्मे युगलमेव च || महापद्मे पदं ब्रूयात् पद्मावति पदं ततः | हुं हुं स्वाहेति मंत्रेण यथापूर्वं वलिं हरेत् || एवं यः कुरुते कर्म सस्याद्रुत कविद्ध्रुवं | अर्द्धरात्रे ततो नित्यं बलिं दद्याच्चतुः पठे || प्रणवं पूर्वमुद्धृत्य हृल्लेखां च ततः परं | एकजटे पदांते तु महाशब्दमुदीरयेत् || यक्षादि पदमाभाष्य मतये च ततो मम | उपनीत पदं चोक्त्वाद्वलिं गृह्नेति ठद्विधा || गृह्नापय द्विधाठोक्ता मम सर्व पदं ततः | शांतिं कुरु पदं चैव परविद्या मनंतरं || द्विधा कृत्वेतिठ ब्रूयात्रुट छिंधी च तद्विधा | माया स्वाहेति मंत्रोयं वल्यादौ बुद्धिसिद्धिदः || परसैन्यग्रहारिष्ट रोगकृत्याविनाशनः | प्रयोगे वलिमंत्रोयं प्रयोगात् साधयेद् यदि || अर्द्धरात्रे गते नित्यं वलिं दद्याच्चतुःपथे | परसैन्य ग्रहारिष्ट रोगकृत्याविनाशनः || प्रणवं पूर्वमुच्चार्य चोग्रतारे ततः परं | विकटदंष्ट्रे परपक्षं क्षोभय द्वयमुच्चरेत् || खादय द्वय पठमठ्य तथा द्वयं द्वयं वदेत् | ये मां हिंसि तु मुद्यंतास्तथा निंदितुमुद्यता || योगिनी चक्रसहितैस्तान्नाशय हूं फट् स्वाहा || प्. १९९अ) परविद्यामाकर्षय छेदय स्वाहा कपिले गृह्न २ स्वाहा | अथवा मधुलाजाभ्यां जिह्वायां वालकस्य च || नादी छेदात् तदा पूर्वं लिखेद्धेम शलाकया | मूलमंत्रं लिखेन् मंत्री यद्वेष्टो श्वेत दुर्वया || वाक्योच्चारणतो वालो वाग्मीद्रुतकविर्भवेत् | जन्मसंस्कारकं सद्यः पुत्रे जाते प्रशस्यते || जिह्वायां तु लिखेन् मंत्री यज्ञदारु शलाकया | वारत्रयं तु संपूज्य दक्षिणे नैव पाणिना || मंत्रमुच्चार्य प्रत्येकं पंक्तिं कुर्यात् सुशोभनं | आदौ कृत्वा तु संस्कारं उदंते विलिखेन् मनुं || गंध चंदनपुष्पैश्च पूजयेत् तारिणीं शिवां | उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमं || पूजयेत् तारिणीं देवीं नाना भक्षैः सुशोभनैः | कविर्वाग्भी भवेत् पुत्रस्सत्यवादीज् इतेंद्रियः || कुशमूलेन मधुना लिखेन्मंत्रं प्रयत्नतः | पितुर्भ्राताथवा मंत्रं मातुर्भ्राताथवा पुनः || पिता वा विलिखेन् मंत्रं नान्य एव कदाचन | अथ भ्राता प्रशस्तश्च अग्रजश्च भवेत् सदा || तस्माद् देवि न्यसेन् मंत्रं सर्वकामफलप्रदं | मातुः क्रोडे तु संस्थाप्य दर्भा नास्तीर्य यत्नतः || शांतिं कुर्याद् वालकस्य साधकैः सहसंयुतः | मातुः सव्ये तु कर्णे च पूर्वः स्तोत्रं समाचरेत् || ब्राह्मी भया वचा वासा पिप्पली मधुसंयुता | प्. १९९ब्) अस्य प्रयोगात् सप्ताहा किन्नरैः सह गीयते | देव्युवाच || जिह्वा मार्जनकं द्रव्यं स्वाभि रक्षा च कीदृश | पुत्र रक्षा च किं देव वेश्म रक्षा किमौषधं || श्रोतुमिच्छाम्यहं देव कथ्यतां तदनुग्रहात् | ईश्वर उवाच || कृष्णा जयंती पुष्पं च अपामार्गस्य मूलकं | लेपयित्वा च जिह्वायां षष्ठे च दिवसे सुतं || रक्षा द्रव्यं च जानीयाद् यज्जन्म दिवसे कृतं | विप्रदारुपद्ममूलशुष्कगोमुण्डमेव च || स्थापयेद् द्वाह देशे च नास्ति किंचिद् भयं तदा | जंबुत्वचंशिम्बि पत्रं जटानां धारयेच्छिरे || राक्षसानां भयं नास्ति रोग कृत्यादिकं तथा | चतुःकोणे तु गेहस्य रोपयित्वा तु पिप्पलं || वहिः संस्थापयेद् द्वारे वध्नियाच्छागलं कपिं | रंभामूलं द्वयं रोहे षष्ठे च दिवसे निशि || तत्रैव स्थापयेत् खड्गं ब्राह्मणं च सुशोभनं | वृद्धांस्त्रियं प्रतिष्ठाप्य श्यालं वा विनयान्वितं || जयंत्याः सुरसे नैव कुमारं स्नापयेत् ततः | जयंती घृतयोगेन चोदकेन च सिंचयेत् || अष्टपत्रे प्रतिष्ठाप्य सुपुत्रो मतिमान् भवेत् | नागेश्वरस्य मूलं च त्वच मानीय यत्नतः || पूर्णं कृत्वा घृताक्तं च वर्तिकां कारयेत् ततः | दीपं कृत्वा तु मंत्रज्ञः पुत्रनाडीं तु छेदयेत् || सुविनीतो भवेत् पुत्रो मेधावी च गुणान्वितः | प्. २००अ) स्थापये द्वारदेशे च अशोकदक्षिणत्वचं | एतानि स्थातु द्रव्याणि जंबूत्वचं सलोणकं || यः सदा स्थापयेद् द्वारे तस्य विघ्नविनाशनं | निशाभागे त्रयोदश्यां पूजयित्वा तु तारिणीं || अर्कत्वचंकरे धृत्वा स्पर्शयेत् तारिणीं शिलां | काममुद्दिश्य यत्नेन लभते नात्रसंशयः || चूतमूलं करे धृत्वा यः स्मरेत् तारिणीं मनुं | त्रयोदश्यां विशेषेण सर्वकामफलं लभेत् || कुल्लुकेतारमारे च परमानंददायिनि | संसारे दुस्तरे घोरे त्राहि मां परमेश्वरि || सर्वपापविनाशे च सर्वपापविनाशिनि | चित्कालाज्ञान रूपे च त्राहि मां परमेश्वरि || ओं नमःश्चंडिका देवि नमस्तेय च मातरी | पंच नद्या स्थिता नित्यं नित्यं मधुर वाशिनी || गजमुखः वामकूटं च एकदंत त्रिलोचन | गणेसं विघ्नसंहारं गंगासुतं नमोस्तुते || प्रणम्य ब्रह्माणि देवी कनकांगी मलासनी | वंद्यातंद्री चतुःषष्ठी क्षेत्रक्षेचरगामिनी || नागकुंडलशूलास्त्रं कपालचंद्रशेखरी | नमस्ते योग्नि रुद्राणि त्रिनेत्र वृषवाहनी || पद्मरागतनुर्वाय सद्यसूर्य समप्रभा | शक्ति हस्तामलं काली कौमारी मयुरासनी || विभक्ता च समाक्रीडा निःशेष भय नाशिनी | शंखचक्र गदापाणि जयंती गरुडाशनी || प्. २००ब्) रक्तकेशपटाटोय कर्तृहस्त त्रिलोचनी | दंष्ट्रावदन वाराही नमामि महिषासनी || जातरूपी स्वरूपी च सौम्यरूपीनिमित्रता | नमस्तेश्वर ऐंद्राणी वज्रहस्त गजासना || वराभयधरी वज्रं शक्रणिं च त्रिलोचनी | अग्निप्रभे महाज्वाला सुष्कांगी कमलाशनी || पंचभूतेश्वरी देवी निर्मले ज्ञानरूपिणी | नमस्तेस्तु महालक्ष्मीं निर्विघ्न शुभकारिनी || चंडिचामुंडिका देवी चर्चिका चण्ड ईश्वरी | सर्वसिद्धि करी सर्व सर्वविघ्न विनासनी || पाशांकुशशक्तिहस्तशूलखट्वांगधारिणी | दहनी मालिनी चंडी दानवादर्पनाशनी || रूरवः रक्तकेशागी रक्ताभरणभूषिणी | द्वादशादित्य संकाशंमलक्ष्मीमलनाशनी || दुर्गंतारी उग्ररूपी हरणं त्रैलोक्य कारिणी | डाढामुखमुखज्वाला मुंडमालासना कुले || जयजगन्मातरी देवी नमस्ते त्रिभुवनेश्वरी | नरचर्मधरी देवी व्याघ्रचर्मनिवासिनी || कपालभरभूषांगी सुरापानविलासिनी | डमरुं चाटकं यंत्र घंतान्येव च भूषनी || साडंवरी अहंकारा प्रचंडं प्रेतवाहनी | नानाशब्दसमाकीर्णा फे फट्कारमहारवा || त्रैलोक्यत्रासनी रौद्री प्रचंडी प्रेतवाहनी | कुल्याग्निरसमाकाली ज्वालाभरणभूषणी || प्. २०१अ) चण्डिमुंडी च चांडाली संग्रामे जयमंगलं | जालंधरे ओडियान देवीकोट निवासिनी || नानारूपधरा देवी नमस्त्रैलोक्य पालनी | मुखोज्वाला गंडरेखा ललाटसिंदुरधारणी || डाकिनी भूतवेताली पिशाचायानवस्तनी | देवदानवगंधर्वा यक्षकिन्नरपुटना || गंधचंदनलिप्तांगी पुष्पमालाविभूषणी | वटुकनाथ महाकाल क्षेत्रपालसमायुता || श्रीमछक्तिश्च संयुक्त योगेश्वरि स्ववंदिता | कृष्णाष्टमी चतुर्दश्यां चाष्टमी वज्रमंडला || कपालसंस्थिता देवी नरकंकारसंकुले | रक्तपात्रवसामेढं मत्स्यमांसवलि प्रिये || महाभैरवसंयुक्ता नमामि जयभैरवी | क्षेत्रे पीठे महापीठे गुह्यासि पुण्यवासनी || कामाक्षी कामरूपी च मोहमाया निरंजिनी | दुःखशोकजरामारी भयपातक नाशिनी || खड्गसिद्धिकरी देवी लक्ष्मीश्रीशुभदायनी | पंथितं भक्तिभावेन ये पठंति स्तुतिमान्नरः || कामसिद्धि फलं प्राप्य शुभगानंददायिका | भैरव उवाच || नमोस्तु वीरचामुंडे नमोस्तु परमेश्वरी | जननी सर्वभूतानां सर्वसंरक्षकारिणी || चंडमुंडसमाकीर्णा वरदांगी मनासनी | नानारूपधरी देवीमरागीसोमरूपिणी || पीनस्तनी विशालाक्षी सर्वाभरणभूषिता | प्. २०१ब्) मुक्ताकनकमाणिक्यं कुंडलामुकुटधारिणी || तनु युग्मदिव्यकेयूरं मुक्तासृग्दामशोभनी | नानारत्नाणि वंधं ते मेखलाकटिवंधने || हस्तयो दर्श्यसर्वांग नाना प्रहरमंदिता | भैरवीरूपसंकाशा रक्ताक्षी भीमविक्रमा || निर्जनी अरिहंतारि सर्वशत्रुक्षयंकरी | नानाशस्त्रधरी देवी नानाशास्त्रसुरेश्वरी || अष्टादशभुजारौद्री नानाशस्त्रा सुरेश्वरी | परशुपाश गदा चक्राभिंदिपारश्च तोमरा || शक्ति नाना च गान्दी च त्रिशूला शूरधारिणी | खड्गफेटकसंधारी कर्तारी कर्तृधारिणी || ऊर्द्धकेशमुखो भीमा भैरवाकारनादिनी | सूर्यरश्मिरिवाकीर्णा सर्वदोषप्रणासिनी || चतुष्पीठेच्चतुर्वृक्षे श्मशाने च त्वमेव च | त्वं देवी सर्वभूतानामनेकाकामरूपिणी || दाह्याध्यात्म स्वरूपत्वं सर्वज्ञा जीवरूपिणी | पद्मासनसमारूढा पद्मिनी चक्रनायिका || खितिजला च पाताले पंचभूत त्वमेव च | इडा च पिंगराश्चैव दशवानादरूपिना || नाभिकण्ठे हृदिस्थाने ब्रह्मरंध्रे व्यवस्थिता | मूर्द्ध्नि स्थाने महाज्ञानेममृतामृतरूपिणी || कुलमध्ये स्थिता देवी ज्ञानमध्ययरूपिणी | भुक्ति मुक्ति प्रदं देवी सर्वज्ञा रुद्रनायिका || ब्रह्मेंद्रविष्णु चेंद्रेण ईश्वरे शिवसेविता | नागेंद्र यक्षगंधर्वा सर्वदेवमनोहरः || प्. २०२अ) चत्वारो लोकपालानां सर्वत्र त्वाश्च मातरा | ऋषयो मुनयश्चैव दानवासुरपूजिता || हाहाराव महाघोरा अट्टहासा महारवा | वामहस्ते महाशंखं खट्वांगं डमरु धारिणी || अट्टाट्टहासते नित्यं अघोराघोररूपिणी | श्मशाने क्रीडेते नित्यं भैरवी भैरवस्सह || गृद्ध्रकाकशिवास्वान पिशागनराक्षसा | डाकिनी रुद्रवेतारा योगिणीगणमंदिता || कपालमालिका देवी कपालवरधारिणीं | रक्तांवर प्रिया नित्यं जगत्संहाक्षकारिणी || अनेकनामसंपन्नामनेका मम नायका | नानारूपाणि नामानि वहुरूपा नमोस्तुते || भगवती चंडिका दुर्गा भवानि व्योमरूपिणी | कालिका कालदंडी च कात्यायणि नमोस्तुते || वेदमती विशालाक्षी गायत्री गंदमादिनी | सावित्री शोभनी चंडि भूचपद्मी वसुंधरी || जयाश्च विजयाश्चैव अजिता चापराजिता | नन्दा भद्रास्तथा पूर्णा उमा देवी नमोस्तुते || गौरीजामुक्षगंगा च शिवानिशिवरूपिणी | भ्यश्वरी चंडिकाभ्याशी गंधर्वा त्रिभुवनेश्वरी || प्रज्ञाधरी विधाता च सृष्टिसंहारकारिणी | भंजनीस्तंभनीश्चैव सुमुखी भयपारगा || मोहनी चर्चिका चंडी हंसिनी नादरूपिणी | अनेकज्ञानसंशोधिकालिनी कुलनायका || प्. २०२ब्) षडक्षरी भद्रवेदनीलसरस्वती | मातंगी कालिकाश्चैव हरा लक्ष्मी नतस्मने || मनोंनेंद्रा त्रिपुरा च त्रिपुरा भैरवीस्तथा | शून्यता भवसंधानी भावाभावविवर्द्धिनी || अनेकमंत्रसंस्थाने मंत्रांगीनेकरूपिणी | चतुर्भुजसमारूढा चतुर्मुखा हेमरूपिणी || पितामही वेदमाता ब्रह्मायणि नमोस्तुते | नमामि शिरसा देवी त्रिशूलाशूलधारिणी || त्रैलोक्यमोहनी देवी माहेश्वरि नमोस्तुते | शक्तिहस्ता महाकाया मयूरासनसंस्थिता || वारभावेकरक्तांगी कौमारी च नमोस्तुते | चतुर्भुजा गरुडारूढा शंखचक्रगदाधरी || गौरवर्णा महामाया वैष्णवी च नमोस्तुते | दण्डहस्ता महाकायो भीषणाश्च विभीषणी || त्रिनेत्रा रौद्रघोराक्षी वाराही च नमोस्तुते | कुंजरासनमारूढा सहस्राक्षी वज्रधारणी || अनेकरिपुहंतारी इंद्रायणि नमोस्तुते | प्रेतासनी महारौद्री मुंडमाला सुशोभनी || ऊर्द्धकेशी च कंकाली चामुंडा च नमोस्तुते | दिग्धांगी चंद्रसंहारी त्रिशूलवरधारणी || वृषवाहनी महादेवी महालक्ष्मी नमोस्तुते | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही इंद्र चामुण्डा महालक्ष्मी गणेश्वरी | अनेक देवता रूपीत्वं देवीकालरूपिणी || भैरवी अष्टसंयुक्तं भैरवी च नमोस्तुते | प्. २०३अ) जयधूमश्च सिंहश्च नै-ऋत्यावारुणेन च | वायव्या चोत्तरे भागे ईशाने च नमोस्तुते || अध ऊर्द्धस्त्वया देवी अंत-ऋक्षे जले भुवि | त्वं शक्ति शक्तिसंधारी शक्तिरूपी नमोस्तुते || प्रणम्य शक्तिसंयुक्तं सततं योगिनी कुला | क्रियाकुर्वंति योगिन्य भवछेदकुठारक || यः पठे स्तोत्र विधिनामेक चित्तसमाहितः | भुक्ति मुक्ति प्रदं दिव्यं लभते नात्र संशयः || श्मशाने वा प्रवासे वा स्वस्थाने वा वनांतरे | संग्रामे चौरसंस्थाने अग्निदाहे महाभये || य इमां पठते नित्यं जयो भवति मानवः | येर्चितं तत्फलं दिव्यं लभते धामतां शुभं || इत्युक्तेन च पुण्ये * सर्वसत्वासुखावह | मातापिताश्च सर्वांश्च भविष्यति शिवव्रदा || भैरव उवाच || वाराही सुंदरी काली सुंदरी वदना शुभा | सौम्यरूपा च सौम्यस्था सर्वसौभाग्यदायनी || वामाचार लता देवि वामाचारस्तु पूजिता | पूजिता शुभगा दात्री सौम्यरूपी नमोस्तुते || महिषासनमारूढा महिषासुरघातिनी | त्वया स्तुति न जानामि क्षम्य त्वां परमेश्वरी || सिंहस्था सौम्यरूपा च सिंहासन फलप्रदा | राजमातास्त्व मे कालि राज्यैश्वर्य प्रदायनी || त्वमेव जननी काली वाराही च नमोस्तुते | प्. २०३ब्) रनेराज कुले द्यूते सर्वत्र विजयो भवेत् | य इदं पठित स्तोत्रं सर्वान् कामानवाप्नुयात् || जवापुष्प सहस्रेण नीलोत्पल सहस्रकं | जपित्वा पूजिता कालि प्रत्यक्ष चण्डिका भवेत् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे एकत्रिंश पटलः || ३१ || भैरव उवाच || पवित्रं यदि नश्येच्चेत् स्यात् पवित्रवते चरु | यदा हविरपक्वं स्यात् तेनैव हविषा यजेत् || चतुःशराव मात्रं तु पचेद्धीहिति रोदनं | भोजयेत् तेन चान्तेन चतुरो ब्राह्मणान् पथां || वहुदग्धं च यत्सूत्रं किंचिदेव यथा हविः | शिष्टेनष्टा पुनर्यागः स्यादारत्याऽदितस्तदा || कृत्स्नदग्धं यदा तस्यात्पुनरुत्पादयेद्धविः | स एव योगः कर्तव्यः पुनर्यागस्तु नेष्यते || मध्यात् पूर्वाद्धतो वर्तं यदि दुष्टं हविर्भवेत् | तस्यैव हविषो वद्यन् मध्यात् पूर्वार्द्धतः पुनः || इध्माद्याने कृते दुष्टं प्रधानहविरत्रयेत् | तत्स्थाने जुहुयादाज्यमदुष्टं च जुहोत्पथ || एवं समाप्ययदुष्टं तदप्सुप्रक्षिपेत् पुनः | अन्वाधानादिको यागः पुनकर्तव्य एव तु || प्रागिध्याधानतो दुष्टं प्रधानहविषिन्वथ | तद्धविः पुनरुत्पाद्य पूर्ववत् तत् समापयेत् || अंगानां चेद्धविर्दुष्टं तदप्सुप्रक्षिपेत् पुनः | स्वष्टकृद्धविदोषस्य आज्येनैव समापयेत् || प्. २०४अ) प्रच्युतैस्तु नखैः केशैः कीटैर्वा मध्यसेविभिः | वसासृवछुक्रमज्जास्थि सूत्रविट् मेददुषकैः || श्लेष्माद्यैरपि वीभत्सैद्द्रष्टानिस्युर्हवीषिचेत् | भिन्नानि चैव सिक्तानि दुष्टानि स्युः क्षिपेज्जले || पर्वर्ण्यार्त्ताश्रुपातेन कुर्याद्वत भृते चरुं | समान तत्र कुर्वंति पार्वणेन तु कर्मणा || अकृताग्रयणोश्नीयान्नवान्नयस्तु चैततः | वैश्वानराय कर्तव्यंश्चरुः पूर्णाहुति स्रुवा || द्विषदन्नं यदा भुक्तें तत्राप्येष चरुर्भवेत् | समारूढं समित्ताशे पुनराधेयमिष्यते || श्रोतोस्तुमविरोध्यन्यमग्धातु शतसस्त्विदं | प्रायश्चित्त विशेषस्य यत्र नोक्तो भवेद् विधिः || होतव्या ह्याहुतिस्तत्र भूर्भुवः स्वरिहीहतु | निमित्तानंतरं सर्व प्रायश्चित्तं भवेदिह || प्रागेवोत्पद्यते दोष आज्यसंस्कारतो यदि | प्रायश्चित्तं भवेदाज्य संस्कारानंतरं तदा || व्यक्रमो देवतानां तु संकल्पादौ भवेद् यदि | मंत्राणां व्युक्रमस्तद्वद्धोमादौ तु भवेद् यदि || मध्यात् पूर्वार्द्धतश्चेति व्युक्रमोस्य भवेद् यदि | द्रव्याणां व्युक्रमः स्याच्चेत् तथा निर्वपणादिषु || यद्वा देवारुचां ब्रह्मा जुहुयात् तु स्रुवाहुतिं | यन्मुख्यं स्वगृहे द्रव्यं होमकर्त्र ददातित || यजमानस्तु जुहुयाद् ब्रह्मा भवे स्रुवाहुतिः | कस्मैचिद्ब्राह्मणा यस्मिन् पक्षे द्रव्ये ददाति तत् || प्. २०४ब्) होतव्यैकाहुतिश्चात्र व्याहृत्याख्यैः समुच्चयात् | प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै || कार्यमित्येक आचार्यनेभ्यन्ये तु विपश्चितः | जपहोमहरास्वेते असुरादिव्यरूपिणः || पवित्रकृ * हस्तस्य विद्रवंति दिशोदश | वह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितं || तस्य तावति शास्त्रार्थं कृते सर्वकृतो भवेत् | सप्तहस्त चतुःशृंगः सप्तजिह्वो द्विशीर्षकः || त्रिपान्प्रसन्नवदनः सुखासीनः शुचि स्मितः | स्वाहां तु दक्षिणे पार्श्वे देवी वामे स्वधां तथा || विभद् दक्षिण हस्तैस्तु शक्तिमन्त्रं श्रुवं स्रुव | तोमरं व्यंजनं वामे घृतपात्रं तु धारयन् || आत्माभिमुखमासीन एवं रूपो हुताशनः | यस्य स्मृत्या च नानोक्त्या ततो यज्ञ क्रियादिषु || न्यूनं संपूर्णतां याति सद्योवंदेतमच्युतं | पाचको लौकिको स्वग्निः प्रथमः संप्रकीर्तितः || अग्निस्तु मारुतो नाम गर्भाधाने विधीयते | ततः पुंसवने ज्ञेयः पवमानस्तथैव च || सीमंते मंगलो नाम प्रवलोजात कर्मणि | नाम्ना वै पार्थिवो ह्यग्निः प्राशनं तु शुचिः स्मृतः || सत्यो नामस(?) चौले तु व्रतादेशे समुद्भवः | गोदाने सूर्य नामाग्निर्विवाहे योजको मतः || प्. २०५अ) आवसथ्यो द्विजो ज्ञेयो वैश्वदेवे तु * क्सकः | प्रायश्चित्ते विपश्चैव पावक यज्ञेषु पावकः || देवानां हव्य वाहश्च पितॄणां कव्यवाहनः | शांतिकं वरदः प्रोक्तः पौष्टिके वलवर्द्धनः || पूर्णाहुत्यामिलोनामक्रोधाग्निश्चाभिचारके | वश्यार्थे कामदो नाम वनदा हेतु दूषकः || कुक्षौ तु जाठरो ज्ञेय क्रव्यादो मृतदाहने | वह्निनामलक्षहोमे कोटिहोमे हुताशनः || समुद्रे ताडवो स्वग्निः क्षये संवर्त * कथा | ब्रह्मा वै गार्हपत्यश्च ईश्वरो दक्षिणस्तथा || विष्णुराहवनीयः स्यादग्निहोत्रे त्रयोग्नयेः | ज्ञात्वैवमग्नि नामानि गृह्यकर्मसमारभेत् || सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः | आयां तु यजमानस्य दुरितक्षयकारकः || देवदानवसंवादे मथ्यमाने महोदधौ | उत्पन्नोसि तदा कुंभ विधृतो विष्णुना स्वयं || तत्त्वोय सर्वतीर्थानि देवाः सर्व त्वयि स्थिताः | त्वयि तिष्ठति रूपानि त्वयि प्राणाः प्रतिस्थिताः || शिवं स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः | आदित्या वसवो रुद्रा विश्वे देवाः स पेतृकाः || त्वयि तिष्ठति सर्वेपि यतः कामफलप्रदाः | त्वत् प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भवः || सान्निध्य कुरु देवेश प्रशन्नाभवसर्वदा | स्फुरत् पद्मांसनां देवींमर्द्धपद्मासन स्थितां || प्. २०५ब्) सर्वालंकारशोभाढ्यां पीनोन्नत पयोधयं | सदामृत प्रवंती च पीतकौशेय वाससां || चतुर्भुजां दक्षिणेन स्थूलदण्डं च विभ्रती | वामेन चोर्धहस्तेन धृतनीलोत्पलां शुभां || वामदक्षिण हस्ताभ्यां गृहीत विविधा युधां | आयाहि वरदे देवि महाषष्ठीति विश्रुते || शक्तिभि रक्ष मे देवि मह षष्ठी नमोस्तुते | जयदेवि जगन्मातर्जगदानंदकारिणी || प्रसीद जयकल्याणी नमस्ते देवि षष्ठिके | षष्ठि देवि महासत्वे सर्वेषां च सुत प्रदे || वरदे त्वत् प्रसादेन चिरंजीव तु बालकः | देवतानामृषीणां च भक्तानां भक्तवत्सले || इमं च रक्ष मे पुत्रं षष्ठि देवि नमोस्तुते | गौर्याः पुत्रो यथा स्कंदः शिशुः संरक्षितस्त्वया || तथा ममाप्ययं वालो रक्षती षष्ठिके नमः | षष्ठि देवि नमस्तुभ्यं सूतिका गृहशायिनि || पूजितासि परं भक्त्या स बालां रक्षमातर | जननी सर्वभूतानां वर्द्धनी धनसंपदां || बोधिनी सर्वविद्यानां जन्मदेत्वं न तावयं | जननी सर्वलोकानां वालानां च विशेषतः || नारायण स्वरूपेण सुतं मे रक्ष सर्वतः | शक्तिस्त्वा सर्वदैवानां वालानां हितकारिणी || मते वरक्ष मे पुत्रं महाषष्ठि नमोस्तुते | प्. २०६अ) रुद्राणी रुद्ररूपेण सर्वविघ्नविनाशिनी | प्राणदेवि रक्षवालं शुभदा भवसर्वदा || अमुं मम कुलोत्पन्नं रक्षन्वमिह वालकं | रक्षोभूतपिशाचेभ्यो डाकिनी योगिनीषु च || माते च रक्ष मे वालं श्वापदे पन्नगेषु च | त्वमेव वैष्णवी देवी ब्राह्माणी च व्यवस्थिताः || रुद्रशक्ति समाख्याता महाषष्ठी नमोस्तुते | धात्रीत्वं कार्तिके यस्य महाषष्ठंति विश्रुते || त्वत् प्रसादादविघ्नेन चिरंजीव तु बालकः | बालेन येन विधृतं शैलं शृंगसमुच्छ्रितं || कृष्णेनैकेन हस्तेन तद्वलं स्यात् सुते मम | शांतिरस्तु शिवं चास्तु प्रणरुपत्व शुभं च येत् || यतः समागते चायं तत्रैव प्रति गछतु | चंद्रार्कयो दिगीशानां यमस्य च भवस्य च || निक्षेपमिवमययान्तं ते मे रक्षं तु बालकं | अप्रमत्तं प्रमत्तं वा दिवारात्रावथापि वा || रक्षं तु सर्वतः सर्वे देवाः शक्र पुरो गमाः | आयुर्वेदोक्त मंत्रेण रक्षां वालसमी पठेत् || नागाः पिशाचागंधर्वाः पितरो यक्षराक्षसाः | यथेत्वाभि भवतिस्य ब्रह्माताहंतु सर्वदा || पृथिव्यामंतरिक्षं च ये रक्षंति निशाचराः | विदिक्षु दिक्षु ये चान्ये त्वां रक्ष तु जगस्ततः || पां तु त्वां ऋषयो देवा शस्ताराजर्षयस्तथा | प्. २०६ब्) पर्वताश्चैव नद्यश्च तथा सर्वे च सागराः | अग्निरक्ष तु जिह्वायां प्राणात्वायुस्तथैव च || सोमो व्यानं च पानं ते पर्जन्यः परिरक्षतु | उदानं विद्युतः पातु समानंस्तनपित्नवः || वलमिंद्रो वलपतिर्वाचं वाचमतिस्तथा | कामांस्ते पातु गंधर्वाः सत्वमिंद्रोभिरक्षतु || प्रज्ञांते वरुणो राजा समुद्रो नाभिमंडलं | चक्षुः सूर्यो दिशः श्रोत्रं चंद्रमाः पातु ते मनः || नासिकां पातु ते वायुरोमाण्यैषधयस्तथा | आकाशं त्वरिशं पातु देहं तव वसुंधरा || वैश्वानरस्तव शिरो विष्णुस्तव पराक्रमं | पौरुषपुरुषः श्रेष्ठो ब्रह्मापादौ तथा भ्रुवौ || एव देहे विशेषेण तवमित्या भवन्विह | एतद् वेदोक्त मंत्रैस्तु कृत्वा व्याधि विनाशनं || मयैवं कृत रक्षत्वं दीर्घमायु मवाप्नु हि | व्रवी तु स्वस्ति ते विष्णुः स्वस्ति ते नारदादयः || स्वस्ति चाग्निश्च वायुश्च स्वस्ति देवामहारगाः | पितामह कृत स्वस्ति ह्यायुः कुर्वंतु ते सदा || निर्वाणं निर्विकल्पं निरूप ममलं निर्विकारं स कोपं चक्रं दंड दधानं दूतवदनं रुद्रवन्मंत्र भावं फुत्कारावद्धरावं भृकुटि तटमुखं भैरवं शूलपाणिं खट्वांगैः कोटिभी मंडमरुकसहितं क्षेत्रपालं नमामि || नानारूपधराः सर्वे गन्धर्वा देव योनयः | प्. २०७अ) स्वयं रक्ष तु मे पुत्रं दृष्टा गृह्न तु मे वलिं | आदित्याद्या ग्रहाः सर्वे नित्यं स्वर्ग निवासिनः || रक्षां कुर्वं तु मे सर्वे स्वयं गृह्नं त्विमं वलिं | दिक्पालाश्च तथेंद्राद्याः स्वस्थान प्रतिवासिनः || शांति रक्षं तु ते सर्वे तुष्टा गृह्नं त्विमं वलिं | कृष्णो नंतो च्युतश्चक्री वैकुण्ठोथ जनार्दनः || उपेंद्रो यज्ञपुरुषो वासुदेवस्तथा हरिः | योगीशः पुण्डरीकाक्षो मासे नामान्यनुक्रमात् || चंद्राकायोर्दिगीशानां दिशां च वरुणस्य च | निक्षेपार्थमिपंदक्षिते त्वा रक्षे तु सर्वदा || अप्रमत्तं प्रमत्तं वा दिवारात्रावथापि वा | रक्षं तु सततं सर्वे देवाः शक्र पुरोगमाः || रक्षैणं वसुधे देवि सदा सर्वगतं शुभे | आयुः प्रमाणं निखितं निःक्षिप स्वहरि प्रिये || अचिरादायुषस्त्वस्य ये केचित् परिपंथिनः | जीवतारोग्य चित्तेषु निर्दह स्वाचिरेण तान् || धारिण्य शेष भूतानां मातस्त्वमधिकाद्यसि | कुमार पाहिमातस्त्वं ब्रह्मा तदनुमन्यतां || सर्वेश्च जन्मदिवसे स्नातैर्मंगलवारिभिः | गुरुदेवाग्निविप्राश्च पूजनीया प्रयत्नतः || स्वनक्षत्रं च पितरस्तथा देव प्रजापतिः | प्रतिसंवत्सरं यत्नात् कर्तव्यश्च महोत्सवः || मार्कंडेय नमस्तेस्तु सप्तकल्पांत जीवन | आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन् मुने || प्. २०७ब्) चिरंजीवि यथात्वं तु मुनीनां प्रवर द्विज | कुरुष्व मुनिशार्दूल तथामा चिरजीविनं || मार्कंडेय महाभाग सप्तकल्पांत जीवन | आयुरारोग्यसिद्ध्यर्थंमस्माकं वरदो भव || स तिलं गुडसंमिश्रमंजल्पर्द्धमितं पयः | मार्कंडेयाद्वरं लब्धापिवां वायुर्विवर्द्धये || अश्वत्थामा वलिव्यासौ हनुमाश्च विभीषणः | कृपः परशुरामश्च सप्तंते चिरजीविनः || सप्तैतान्यः स्मरन्नित्यं मार्कण्डेयमथाष्टके | जीवेद्वर्षणतं साग्र सर्वव्याधि विवर्जितः || आरभ्या धानमाचौलात् कालेतीते तु कर्मणा | व्याहृत्यज्य समस्कृत्य हुत्वा कर्म यथाक्रमं || एतेष्वेके कलोवेपि पाद कृछ्रं समाचरेत् | चूडाया अर्द्धकृछ्रं स्यादापदित्वेवमीरितं || अनापरि तु सर्वत्र द्विगुणं द्विगुणं चरेत् | जातकर्मादि संस्काराः स्वकालेन भवति चेत् || चौलादर्वाक् प्रकुर्वीत प्रायश्चित्तादनंतरः | * यश्चित्त कृते पश्चादतीतमकवै || कार्यमित्येक आचार्या न त्वन्ये तु विपश्चितः | माघादि पंचमासेषु मेखला वंधन शिशोः || ज्येष्ठमासेन ज्येष्ठस्य जन्ममासेन सर्वसु | पितापितामहो भ्राता ज्ञातयोगोत्र जाग्रजाः || उपायनेधिकारि स्यात् पूर्वाभावे परः परः | पितैवोपनयेत् पुत्रे तद भावे पितुः पिता || प्. २०८अ) तद भावे पितुर्भ्राता तद भावे तु सोदरः | मध्ये शिरसि चूडा स्यात् वशिष्ठानां तु दक्षिणे || उभयोः पार्श्वयोरत्रिः काश्यपानां शिखा मता | शिशोमातरि गर्भिण्यां चूडाकर्म न कारयेत् || पंचमा द्वादथोर्द्धं तु गर्भिण्यामपि कारयेत् | महोपनीभ्या कुर्याच्चेत् तदा दोषो न विद्यते || रसंध्यागर्जिते काले न वृष्णत्पातदूषिते | ब्रह्मौदनं पचेदग्नौ पक्वं चेन्ननिवर्तते || तं बोधि या जपेन् मंत्रं लक्षं चैत्र शिवालये | ब्रह्मचारी स्वधर्मं च न्यूनं चेत् पूर्णमेव तत् || अमाश्रमी न तिष्ठेत दिनमेकमपि द्विजः | आश्रमेण विना तिष्ठत् प्रायश्चित्ति यते हि स || गुरवे तु वरं दत्वा स्नायी तदनुराज्ञया | वेदव्रतानि वा प्रारं नीत्वाद्यु भय मेव वा || अविष्णुता ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्दहेत् | अनन्य पूर्विकां तामस पिंडांयवीयसीं || पंचमा सप्तमादूर्ध्व मातृतः पितृतस्तथे | वध्वावरस्य वातातः कूटस्थाद्यदि सप्तमः || पंचमी चेतयोर्माताः सां पिंड्यं विनिवर्ततः | कूटस्थो मूलपुरुषः यतः संतान भेदतः || कुलं च शीलं च वयस्वरूपं विद्या च वित्तं च स नाथता च | एतान् पुण्यन् सप्त परीक्ष्य देया कन्या वुधैशेषमचिंतनीयं || कुले ऋतु त्रयी दर्वाङ्भुंद्धे नादपि मुंडनं | प्. २०८ब्) प्रवेशान्निर्गमं नैष्टं न कुर्यान्मुंडन त्रयं | कुले ऋतु त्रयादर्थाश्मुंडनान्न तु मुंडनं || पुत्रोद्वाहान्नैव पुत्री विवाहोपि ऋतु त्रये | अब्दांतरान्मुंडनं च नैकदा मुंडन द्वयं || फाल्गुणे चैत्रमासे तु पुत्रोद्वाहोपनयने | भेदादब्दस्य कुर्वंति ऋतु त्रय विलंवन || जन्मार्क्षे जन्मदिवसे शुभाशुभं त्यजे बुधः | ज्येष्ठमासस्याद्यगर्भं शुभवर्जंस्त्रिया अपी || एकामातृजयोरेक वत्सरे पुरुषेस्त्रियोः | एकक्रिया न कर्तव्या क्रिया भेदे विधीयते || स्वसृ युगे भ्रातृ युगे स्वसृभ्रातृ युगे तथा | एकस्मिन् मंडपे चैव न कुर्यान् मुंडन द्वयं || पुत्री परिणाया बूध्वं यावद् दिन चतुष्टयं | पुत्र्यं तरस्य कुर्वंति नोद्वाहमिति सूरयः || एकोदर प्रसूतानानेकस्मिन् वासरे पुनः | विवाहं नैव कुर्वंति मंडपोपरिमुंडनं || पिता दद्यात् स्वयं कन्यां भ्राता वा मनुतेपि तु | मातामहो मातुलश्च सकुल्यो वाधवस्तथा || मातात्व भावे सर्वेषां प्रकृतो यदि वर्तते | तस्मामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः || ब्राह्मो दैवस्तथा चार्यः प्रजापत्यस्तथा सुरः | गांधर्वो राक्षसश्चैव पैशाचराक्षसश्चयः || यज्ञसाधन भूताया विश्वस्याद्य प्रणाशिनी | विश्वरूपधरो देवः प्रीयतामनयाग वा || प्. २०९अ) सर्वे शस्या शुया भूमी वराहेण समुद्धता | अनंतफलदातारं अतः शांतिं प्रयछ मे || इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता | सदा कर्मकरी योग्या पयेष्टं भद्रमस्तुते || अशून्यं शयनं नित्यं मनूनां श्रियमुन्नतिं | सौभाग्यं देहि मे नित्यं शम्पादानेन केशवः || हिरण्यगर्भसंभूतं सौवर्णं चांगुलीयकं | सर्वप्रदं प्रयच्छामि प्रीणा तु कमलापति || क्षीरोदमथने पूर्वमुद्धृतं कुंडल द्वयं | श्रिया सह समुद्भूतं ददेश्रीः प्रीयतामिति || इदं गृहं गृहाणत्वं सर्वापस्करसंयुतं | तव विप्र प्रसादेन ममास्त्व हि मतं फलं || इन्द्रादि लोकपालानां पाराज्य महिषी शुभा | महिषासुरस्य जननी सास्तु मे सर्वकामदा || परापवोदपैशून्यादभक्ष्यस्य च भक्षणात् | उत्पन्न पाप दानेन ताम्रपात्रस्य नश्य तु || यानि पापान्यरेकानि कामोत्थानं कृतानि च | कांस्यपात्र प्रदानेन तानि नश्यतु मे सदा || वंशो वंशकरः श्रेष्ठौ वंशोवंशसमुद्भवः | अनेन वंश दानेन तुष्टौ वृद्धि करोतु मे || वंशपात्रमिदं पुण्यं वंशजात समुद्भवं | वंशानामुत्तमं दानं अतः शांतिं प्रयछ मे || वंशपात्राणि सर्वाणि मया संपादितानि वै | उमा कार्यायदत्तानि मम गोत्राभि वद्धये || प्. २०९ब्) वंशवृद्धि करं दानं सौभाग्यादि समन्वितं | वस्त्रेणाछादितं पूगफलहेमसमन्वितं || सर्वपापक्षयकरं नानाद्रव्यैस्तु पूरितं | दानानामुत्तमं दानं अतः शांति प्रयछ मे || सप्तवर्षा त्वियं कन्या पुत्रवत् पालिता मया | इदानी तव पुत्राय दत्ता स्नेहेन कल्पतां || नित्यपाने गृहे जीर्णे प्राशनांतेषु सप्तसु | वधूप्रवेशमांगल्ये नमौद्ये गुरु शुक्रयोः || व्यतीपाते च संक्रांतौ ग्रहणे वैधृतावपि | श्राद्धं विना शुभं नैव प्राप्तकालेपि मानवः || अमासंक्रांति विष्ण्यादौ प्राप्त कालेपि ना चरेत् | दाने विवाहे यज्ञे च संग्रामे देशविप्लवे || आपद्यपि वकष्टायां सद्यः शौचं विधीयते | विवाहोत्सव यज्ञेषु त्वंतरामृतसूतके || पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः | विवाहोत्सव यज्ञेषु त्वंतरामृत सूतके || परैरत्नं प्रदातव्यं होक्तव्यं च द्विजोत्तमः | व्रतयज्ञे विवाहेषु श्राद्धहोमेर्चने जपे || प्रारब्धे सूतकेन स्यादनारब्धे तु सूतके | प्रारंभो वरणं यज्ञे संकल्पो व्रत सत्रयोः || नांदीमुखविवादौ श्राद्धे पाक परिक्रिय | अनालब्धविशुद्ध्यर्थं कूष्मांडैर्जुहुयाद् घृतं || गां दद्यात् पंचगव्याशी ततः शुद्ध्यति सूतकी | मम प्रीति करायेयं मया सृष्टा पुरातनी || प्. २१०अ) अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्ष तु | नमस्ते मंगले देवि नमः सवितुरात्मजे || त्राहि मां कृपया देवि पत्नी त्वं मे इहा गता | अर्कत्वं ब्रह्मणा सृष्टः सर्वप्राणि हिताय च || वृक्षाणामादि भूतस्त्वं देवानां प्रीतिवर्द्धनं | तृतीयो द्वाहजं पापं मृत्युं चाशु विनाशयः || प्रच्युतैस्तु नखैः केशैः कीटैर्वा मध्य सेविभिः | वसा सृक् शुक्रमज्जास्थि मूत्रविश्मेददूषकैः || श्लेष्माद्यैरपि वीभत्सै दुष्टानि स्युर्हविंषि तु | भिन्नानि चैव सर्वाणि दुष्टानि स्युः क्षिपेज्जले || स्रुक् चे भिद्यत तर्जन्यामाहृत्य जुहुयाद्धविः | वनस्पत्यानि भिन्नानि प्राग्दंडान्यनलेक्षिपेत् || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे द्वात्रिंशति पटलः || ३२ || भैरव उवाच || कालज्ञानकला युक्तो संभूनाथेन भाषितं | जेनषण्मासते पूर्वं ज्ञायते मृत्युरोहिणी || कालस्यात्पति भूतानि कालसंहरते प्रजा | कालः स्वप्नोपि जागर्ति कालो हि दुरित क्रमात् || काले देवा विनस्यंति काले चासुर पन्नगाः | नरेंद्रा सर्वजीवानां सर्वकाले विनस्यति || विरचंति दिने मध्ये पतन्नींद्रा चतुर्दशः | अब्दानां सतमंते तु सोपि कालो विनश्यति || प्. २१०ब्) मनुष्यं सत जीवी च पुरादैवेन भाषितं | विकर्मणा प्रभावेन सीघ्रकाले विनस्यति || वर्षासीत तथाचोष्णं प्रत्यूष मध्यमं दिनं | अपराह्ने तस्य रूपे कालः कालेन कथ्यते || कालेन फलते वृक्षा काले वीजमवाप्यते | काले पुष्पवती नारी सर्वकालेन जायते || क्रोधलोभ प्रसंगेन कालः कलति प्राणिनां | ज्ञानयोगि सदाभ्यासै विपरीतं विनासकृत् || कालाग्नि जठरे जाते तस्य वांछा च जायते | आहारं मुदकं निन्द्रा कमश्चैव चतुर्थकं || अन्नहीनादहं धातु मंबुहीना च स्रोणितं | कामहीना दहेद् देह निद्राया रोग कारिणी || लवनं व्यंजनं हीनं नेत्र श्रोत्रं विनस्यति | दुग्धहीनं घृतं हीनं मांसहीनं मांसनाशनं || मद्यहीनं वीर्यनाशं मत्स्यहीनं तथैव च | षट्स्वाद विहितं भोज्यं महारोगश्च जायते || औषधी साकहीनानां मंदाग्नि जठरायते | घृतस्नेहमपक्वं स्यात् समस्त रोग जायते || शुष्कमांसं मत्स्यशुष्कं फलमूलनिसस्वदं | तांबूलयुगहीनां च मुखरोगश्च जायते || सज्याहीन वस्त्रहीनं कंपरोगश्च जायते | पानियं ममृतं हित्वा कफश्वासश्च जायते || शिलामृद्वासना देवि सितताप फलप्रदं | अत्यंबुमानाविसमासनं च दिवा सयाजागलना च रात्रौ || प्. २११अ) संधारणा मूत्रपूलीषनं च षड्भि प्रकारै प्रभवंति रोगा | अति पापादति क्रोधा मिथ्यादि दूषणं सदा | देवद्रोहि स्वामि द्रोहि कुष्टरोगश्च जायते || अगम्यागमनश्चैव अभक्ष्या भक्षयो नरः | गुरु देव ब्रह्मद्वेषि अपस्मारस्तु जायते || षट्चक्रं षोडशाधारं त्रिशून्यं व्योम पंचकं | स्वदेहेजोनजानाति कथं वैद्य स उच्यते || एक स्तंभनवद्वार त्रिशून्यं पंच देवता | पंचेंद्रीय कुटुंबेषु जडात्मा तत्र मे ग्रहं || सकलं कालहीनं च निष्कला कालसंयुतं | इंद्रीयानि विकारैश्च जायते मृत्यु जीवितं || सौम्यदृष्टिभिः वैद्यस्य श्रोतावक्ता तथैव च | गुडणंतौ भवेद् यस्य सव साध्यो न संशयः || पानिपादौ भवेदुस्नो दाघस्वल्प वरो स्मृत | जिह्वाकोमलतां जाति स रोगी न विनश्यति || स्वेद हीनो ज्वरोजस्य नासास्वास प्रवर्तते | कण्ठोपि कफहीनस्य स रोगी जीवति ध्रुवं || निद्रास्वैरद्य भवेस्य सरीरं स्योद्यमंस्तथा | इंद्रीयानि प्रशन्नानि स रोगी न विनश्यति || चैतन्यं सकलं यस्य गंधस्वादु स्फुटं भवेत् | कफपूरितकंठस्य स जीवे नात्रसंशयः || विकारो इंद्रया नास्ति सर्वं चैतन्य भाषितं | अन्नस्वाद जलं पित्वा स जीवे नात्र संशयः || प्. २११ब्) उडरो रोग नास्तिं च मूत्राभ्यां शुद्धरोगिनः | सर्वेंद्रियाणि दुःखानि स जीवे नात्रसंशयः || शिरोदुःखं नेत्रदुःखं कर्णजिह्वा तथैव च | दन्तदुःखं कण्ठदुःखं स जीवे नात्रसंशयः || बाहु दुःखं हृदिदुःखं त्रिसंधि दुःखमेव च | जानुभ्यां पादयो दुःखं स जीवेनात्रसंशयः || संधिस्थाने दुःख नास्ति भ्रमस्वासश्च दूरकं | रक्तव्रमभवेन्नास्ति स जीवे नात्रसंशयः || गुडलिंगेन दुःखानि हृदिकंठेन दुःखकं | नास्तिदुःखं कर्णमूले स जीवे नात्रसंशयः || नेत्र ज्वाला शिरोधूमं दृष्ट्वा स्वदेहछायया | कर्णशब्दं नेत्रदृष्टं स जीवे नात्रसंशयः || जिह्वास्वादं दंतकिर्णं हस्तपादौ न दुःखकं | इछायागमनं स्वछं स जीवे नात्रसंशयः || सुस्वरं शुभवार्ता च प्रलापं नास्तिकश्चन | अपूर्ववार्ता न कथितं स जीवे नात्र संशयः || क्षेमासत्यंदमोदानं पंचनेंद्रिय निग्रहं | परदारा भवेत्यागि स जीवे नात्रसंशयः || रोभोनास्ति परक्षेत्रे परद्रव्येषु निस्पृह | परनिंदा न कर्तव्यं स जीवे नात्रसंशयः || स्वात्मा परात्मा तुल्यं च स्वदेह परदेहयोः | समदृष्टो भवेल्लोके स जीवे नात्रसंशयः || दानशिरतपो सिर स्वर्गमार्ग सदारतः | गौ ब्राह्मण सदा पूज्या स जीवे नात्रसंशयः || प्. २१२अ) अनिलो जाति पित्तस्य पित्तं जाति कफ ग्रहे | कफस्तु कंठ मायाति दुर्लभं तस्य जीवितं || रात्रौ दाहो भवेद् यस्य दिवासीतं च जायते | कफपूरित कंथस्य तस्य मृत्यु भविष्यति || हीनः स्वरो गुडः भ्रष्टो काशस्वाश समाकुलः | हिक्वासं फृ समायुक्ते कुछिरोगेन जीवितं || हृदयं नाभि नासां च पाणिपादौ च सीतलः | शिरस्तापो भवेद् यस्य तस्य मृत्यु भविष्यति || हुंकारो शीतलो यस्य फुत्कारो अग्निसंनिभः | महादाहो भवेद् यस्य तस्य मृत्यु भविष्यति || अङ्गकंपो गतिर्भंगो वर्णयारावते वचः | गंधस्वादं न जानाति स गछयमशासनं || दंतपक्त्यंतरेभ्यस्य त्याविसेदंगुलि त्रयं | स जाति सप्तरात्रेण निश्चितं जममंदिरे || शीर्षस्वेद भवेजस्य मुखे वायु चरेषयेत् | अष्टनाडी अनिर्वाहं सोपि कालेन जीवित || अरुंधती ध्रुवंश्चैव निन्मोत्रिनि पदानि च | आयु हीनं न पश्यंति चतुर्थे मात्रमंडलं || अरुंधती भवेत् जिह्वा ध्रुवं नासाय मुच्यते | ध्रुवं विष्णो परे मध्ये तारिका मात्र मंडलं || जिह्वा कृष्णा भवेद् यस्य मुखं वै कुंकुमानुनं | उद्रसलछनजस्य तस्य मृत्यु भविष्यति || वृक्षस्य मूलशाखायां स्फुलिंगा वह्निसंनिभम् | प्. २१२ब्) प्रसूति यद्भिमासैश्च मृयते मानव ध्रुवं | कुंडली पीड्य तेजस्य वातेनाहारवंधनात् || आहारे हृदयं जस्य स वर्षे न विनस्यति | धाराविंदु समाजस्य पतने च महीतले || सप्तहा जायते मृत्यु कालज्ञानेन भाषितं | स्त्री ह्रीं प्रमादसंयुक्तं प्रमादा क्रोधभाषनं || षद्भिर्मासैश्च नो जीव स गछेजमसासनं | असक्त पांदुवर्णश्च वहुनिःस्वाससंयुतः || जलं प्रवर्तते नित्यं मासमेक स जीवति | लक्षं लक्षनलक्ष तेन पयसासंशुद्ध भानोर्जले || क्षीर्णदक्षिण पश्चिमोत्तर पुरः षट्त्रिद्विमासैककं | मध्ये छिद्रगतं भवेद् दशदिनं धूमं || कुले तद्दिनं * सर्वजौ परिभाषितं जिनमने आयुः प्रमाणं ध्रुवं | उत्तला च तथा लंवामंदाशुभंतरा तथा | कथिता च स्थिरा सूक्ष्माः मृधिरौद्द्री प्रकीर्तिता || स्यामानिरामा इत्युग्रा ज्ञातव्यं नाडिलक्षणं | त्रिविधं चिंतयेत् प्राज्ञ सूतकर्म समाचरेत् || अनुग्राधनुपातेन सत्सहापित्तलानि च | रामारूपं कराज्ञेया कफेन परिपूरिता || मंदास्फंदति आहारो कफ वातेन संयुता | वहुदाधकरी रक्ते प्लावयंती विशेषतः || आदौ प्रवहते पित्तं मध्ये श्लेष्मांस्तथैव च | अंते प्रभजना प्रोक्तो चात्र श्लेष्मा चिकित्सकै || प्. २१३अ) वातनाडी प्रगल्भा च वहते पित्तसंयुता | कफभेदयते वायु वातपित्तं च उच्यते || पित्तनाडी प्रगंधा च वहते कफसंयुता | वित्तं च कफसंयुक्ता ज्ञातव्यं विवुधैर्जनैः || स्तोकवातकफेनस्थे पित्तं च हंति श्लेष्मकं | पित्तश्लेष्मविजानीयात् भैषजं तस्य कारयेत् || आतुरे वहते वायु कफश्च कंठसंयुतं | नष्टे पित्ते च नाज्या तु सन्निपातोभिधीयते || स्कंदं च स्फुटते नित्यं युयोऽलगति वागुलौ | असाध्ये संविनिर्दिष्टा नारीदूरे न वर्जयेत् || वातपित्तकफश्चैव यस्मकत्व समाश्रितं | तस्य मृत्यु विजानीया इत्येवं नाडि लक्षणं || आदौ मृगशिरस्यांते मध्ये मूलप्रतिष्ठितं | रविंदुनामनक्षत्रं एकनाड्योजदा भवेत् || तदा हि जायते मृत्यु यथा सर्वत्र भाषितं | तदा तंद्रा हि भासंते विषे या भैषजं बुधैः || ज्वरस्य प्रथमे स्थाने लंघनं च दिन द्वयं | न देयं कथितं तोयं भैषजं चापि रोगिनां || प्रवातं नापि निर्वातं न पथ्यं न च लंघनं | कायसाधरनाकार्या मानुषे ज्वरसंस्थिते || मार्गे पौषे तथामाघे आषाढे श्रावणे तथा | भाद्रपदे चित्साजैवाते राजा प्रकीर्तिता || आश्विने कार्तिके मासे वैशाखे ज्येष्ठयो ध्रुवं | सर्वशास्त्रविचारोजै पित्तोराजा प्रकीर्तिता || प्. २१३ब्) फाल्गुणे चैत्रमासे च जंतु पीडा करोत्तमं | शीतानाज्यांस्तमुत्पन्ना श्लेष्मराजा दृढ स्मृता || कृसोरुछो विकेशाश्च चलचित्तो धनु स्थितः | वाहु वाक् व्योमगः स्वप्ने वातप्रकितिको नर || अकालपलितो गौरः प्रस्वेदी कोपतो बुधः | स्वप्ने च दीपवत् प्रेछे पित्त प्रकृति को नर || अति कृष्ण कफः पीत स्थिरचित्त क्षमान्वित | स्वप्ने जलसता लोके श्लेष्मा प्रकृति को नरः || नाभौ च सनितो वह्नि अक्षयं हृदि वर्तिनि | विनिर्दिशेरुकंठे तु स्वरभंग च नाडिषु || वातोदये वातक लक्षणं च पित्तोदये पित्तकरं च भद्रे | श्लेष्मोदये श्लेष्मकरं च लक्षणं प्रयुक्त पुंसां प्रकरोति रोगी || शत्तेषु जीवयेत् फूष्णी सहस्रेषु भलोदरी | मेहीदससहश्लेषु राजमंदी न जीवति || प्ररुरं च त्रिभागं च वातधातुश्च जायते | तनोत्मानं च पित्तोकं कफं चैव विनिर्दिशेत् || वातधालुश्च जयद्भुक्तं रोगीनां च विहारतः | विष्टं भयंति चाहारं रोगवृद्धि करो मतः || पित्ते च वहते माने यद्भुक्तं रुचि संयुतं | आहारमुष्टिगृह्नाति यदि निंद्रा न कारयेत् || वैद्या श्लेष्मे च वै पथ्यं यो ददाति च रोगिना | सोपि सत्र भवे तस्य प्राणसंदेहकारक || प्. २१४अ) स ज्वरो विज्वरो वापि पित्तलः परिभुंजयेत् | ये गुनालंघने प्रोक्ता ते गुना लघु भोजने || आहारे भैषजं वारि जीर्णे वारि वलप्रलः | अमृतं भोजनार्द्धे तु भोजनां तु * तद्विषं || आदौ च हरते वह्नि मध्ये वारि रसायनं | भोजनांते जलं पीत्वा तज्जलं द्विजलं भवेत् || न संपत्ति क्रियाशक्ति भैषजं च न विद्यते | सर्वरोगविनाशाय निसांते तु जलं पिबेत् || पिबे घट सहस्राणि यावन्नास्तमते रवि | अस्तं गते दिवा नाथे विंदुरेको घटायते || विरुची विरसो हारः छर्दिपीडा तथोदरे | भवेत्येतानि चिह्नानि विष्टध्वाजीर्णक ज्वरे || सोषदाद्यप्रलापं च भंगभ्रमशिरोव्यथा | एतानि यस्य चिह्नानि संभवेत्व मलजलः || निंद्रा विजृंभनं स्फोटि भंगस्वादस्तथैव च | एतानि यस्य चिह्नानि सषेद ज्वर उच्यते || शिरोर्ति भ्रममूर्छा त्रिप्रलापो रक्तमूत्रता | अक्षिह्नि घोमुषकटुकं पित्तज्वरस्य लक्षणं || जृंभोदर वृथा स्फोटि रसक्ति छर्दिनं तथा | एतानि यस्य चिह्नानि सोपि दृष्टि ज्वर स्मृत || श्वेतकंपोतृमोरोमहर्षस्फोटिशिरोव्यथा | कषायमुषतो शुष्ककासो वातोद्भवे ज्वरो || अंगस्येदशिरस्ताप शीतता हस्त पादयो | प्. २१४ब्) एतानि यस्य चिह्नानि स काल ज्वर उच्यते | अङ्गभङ्गो मुखश्वासो गात्रस्थौ जाति रक्तता || एतानि यस्य चिह्नानि सः कार ज्वर उच्यते | निंद्रा स्वेदो रुचिछर्दि हृल्लासो मुषफेनता || उष्णाभिलाषिता चैव काशस्वासे कफे ज्वरे | एकाद्वित्र्यंतराजाते नाना पीडा मया ज्वरा || तत्र पोपिहि विज्ञेयो स्वकारेव लक्षणं | आरंभविषमो यस्तु ज्वरा वा दीर्घ रात्रिषु || गंभारीतीक्ष्णवेगर्ता ज्वरांतं परिवर्जयेत् | नोन्मीलयति नेत्राणि गदकृत् गात्र दृश्यते || आलस्य मरुचिश्चैव ज्वरे पथ्ये ततै भुवोत् | गुर्विण्यां वालवृद्ध्या च कामासाकनवज्वरे || लंघनं नैव कर्तव्यं पूर्वाचर्या वदंति ते | निर्घात सेवतो स्वेदल्लंघनां उष्णवारिणां || पाणादामज्वरे छिप्ते पश्चात् कथं प्रयूज्यते | आलस्यं मरुचितिष्णा विदाह पर्वनां चरुक् || सग्लाणि मूत्र वाहुल्यां ज्वर स्यात् तस्य लक्षणं | ज्वरे वेगाधिका तृष्णा प्रलापस्वत्रनं भ्रमा || मल्फं स्वेदो मुखपाकश्च ज्वरमुक्तस्य लक्षणं | आत्माकंक्षसिरकंदुक्ष वस्तुगत्रिलाघवं || प्रत्वेदो मुख पाकश्च ज्वरमुक्तस्य लक्षणं | संधिगस्तान्द्रिकश्चैव साध्यं च वित्तविभ्रम || कष्टसाध्य कण्ठकुब्जः कर्णिको जिह्वकस्तथा | प्. २१५अ) कष्टात्कष्टतराज्ञेया रुग्दाहोहंति वानवा | अंतको भग्ननेत्रश्च रक्तष्ठी वीप्रलापकः || शीतांगश्चेत्यभि न्यासः षडसाध्यश्च मारकाः | ज्ञातव्या सर्वथा वैद्यैः सन्निपातास्त्रयोदशाः || सहास्मं श्लेष्मणा पूर्वं शूलंकाशाति वेदना | शोषं च लक्षणा ह्येतो संधिगे सन्निपातिके || अतितंद्राज्वरश्वास क्रमस्तापोति रंजित | स्थूलकंठ युता श्यामा जिह्वाकंठे च कंदुता || श्रुतिः स्वल्पा कफश्चेता तांद्रिके सन्निपातके | मदो मोहो भ्रमस्ताप भास्यं गीत प्रलापनं || मृत्युं वैकल्पिता पीडा विकपक्षेपवीक्षणं | लक्षणैः सन्निपातोयं ज्ञातव्यश्चित्तविभ्रमं || कंठग्रहो ज्वरो मूर्छा दाहः कंपो विलापनं | मोहस्तापः शिरोवर्तिर्वार्तार्ता प्रलनस्वपन् || कंठकुब्जसन्निपातः कष्टसाध्यं विनिर्दिशेत् | ज्वरकर्णांतशोफं च श्वासंकंथ प्रलापनं || स्वेदः कंठग्रहस्तापो हृल्लासोद्गव्यथापि वा | कर्णिके सन्निपातैतं लक्षणानि भवंति वैः || संकटाकठिना जिह्वा काशश्वासाति विह्वलः | मूकोवधिरतापाको वलहीनीतिलक्षणैः || जिह्वकः सन्निपातोयं कष्टसाध्यो वलक्षयेत् | मोहस्तापः प्रलापश्च व्यथा कंठे भ्रमः श्रमः || प्. २१५ब्) वेदनाति तृषाजाड्यश्वासश्च लक्षणैरिमैः | ज्ञेयो कष्टतमः साध्यं रुग्दाहं सन्निपातकं || सन्निपातं त्रिदोषोत्थं साध्यसाध्यविनाशयेत् | दाही मोहः शिरास्कंपो हिक्वाकास्यंग कंपनं || संतापश्चांतको ज्ञेया सन्निपातेति सारकः | श्वसनं लोचने भग्ने स्मृतिः शून्या ज्वरोधिकः || मोहो प्रलापनं कंप भ्रमो निद्रा च लक्षणैः | ज्ञातव्यं भग्ननेत्रोयं सन्निपात क्षयंकरः || रक्तनिष्ठीवनं मूर्छा ज्वरो मोहस्तृषा भ्रमः | वांति हिक्काति सारं च संज्ञाता व्यथा स्वसन || मंडलाश्यावरक्ताश्च देह स्याल्लक्षणैरिमैः | ज्ञातव्यं सन्निपातोयं रक्तष्टीवीनिघातकः || प्रलाःपकंपचित्तार्तः प्रज्ञानाशाति तापवान् | पद्भ्यांशो अङ्गपीडा च विकलः प्रतिपादनं || ज्ञेयः प्रलापकश्चिह्नैः सन्निपातो निकृंतकः | शरीरं हिमवछीतछर्द्यती सारकंपनं || क्षणं नादो गताश्चायं हिक्वा श्वासं क्लमं वसन् | सर्वाङ्गशिथिलाहंति शीतांगः सन्निपातकः || त्रिदोषं च मुखं स्निग्धं निद्रा वैकल्प नष्टवान् | निश्चेतनमनिश्वासो मंदाग्निर्वलहानि च || मृत्युतुल्यो ह्यभिन्यासः सन्निपातं सुलक्षये | क्षीयंते धातवस्सर्वे ततः शुष्यति मानवः || भक्तद्वेषो ज्वरः श्वास काशः शोणित दर्शनं | प्. २१६अ) स्वरभेदश्च जायंते षड्डुपे राजयक्ष्मणः | अंशपार्श्वाभितापश्वासंतापः करपादयोः || सत्वहानिश्च दौर्वल्यं राजरोगस्य लक्षणं | वलिनो वहुदोषस्या स्निग्ध खिन्नस्य शोधनं || ऊर्द्धोधो यक्ष्मिणः कुर्यात् क्षीणे शुद्धिं न कारयेत् | आलस्यं वहु निद्रा च स्वल्पदाहोद्वरो भ्रमः || वांति श्रोणितपूयोत्था पित्तश्लेष्मोद्भवे क्षयेत् | धूमोपघाताद्रजत साव्यायामरुक्ष सेवनात् || विमार्ग त्वाद् भुक्तस्य क्षुद्रोधाद्वेग सेधवात् | प्राणा ह्युदान गमनात् काशः पुंसां विजायते || पंचकासाः स्मृता वात पित्त श्लेष्म क्षतक्षयैः | पूर्वरूपं भवेत् तेषां शुकपूर्णगलास्यत || कंठे कंदु भवेच्चैव भुक्त्वा रोधश्च जायते | वाता हृच्छंखशूलं च मूर्द्ध्नि पार्श्वे हरेपि च || क्षामानये वलक्षीणं भिन्नकाश स्वरस्तथा | केवला निलजं काशं स्नेहैरादावुपा चरेत् || वातघ्नसिग्धौ सिद्धैश्च पेयायूषरसादिभिः | यदा श्रोतांसि संरुध्यमारुतः कफपूर्वकः || सर्वव्रजति * क्रूद्धत्तदा श्वास करो भवेत् | प्रणष्टज्ञानविज्ञानस्तथा विभ्रान्त लोचन || ऊर्द्धश्च सितियो दीर्घं न च प्रत्याहरत्यधः | श्लेष्मावृतमुखश्रोता ह्युर्द्ध दृष्टि विपश्यति || प्. २१६ब्) आनाहस्येदमूछार्तो भृशं भवति दुःखितः | इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे कालज्ञानजीवितमृत्युलक्षणनिर्णयो नाम त्रयत्रिंश पटलः || ३३ || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि उत्पातं भूमिकंपयो | कृत्तिका च विशाखा च पूर्वभाद्रपदस्तथा || मघातिष्य भरंण्यां च पूर्वफाल्गुणरेव च | यद्यय चलते वायु परिवेश्म शशी सूर्ययोः || भूमिकंपोथ निर्घातमुल्का वा पतने यदि | ग्रहणं चंद्रसूर्यस्य केतुश्चैव तु दर्शनं || रक्तविष्टिपांशु वृष्टिपाषाण पतनस्तथा | तारकं पतनश्चैव अन्यश्चैव महाद्भुतं || आग्ने मंतं विजानीयात् तस्य वक्ष्यामि लक्षण | नेत्ररोगमतीसार अग्निश्च पवनो भवेत् || अल्पक्षीर धृता गावो अल्पपुष्पफलद्रुमा | वारिदेश्य विनश्यंती अल्पवृष्टिविनिर्दिशेत् || कपालदुष्टदृश्यंते नराणां च प्रपीडिता | सैंधवायमुनाश्चैव कान्यकुब्जाथवाह्निका || जालंधरं च नेपालं काश्मीलं चोत्तरा पथं | कावो जावालिकाश्चैव तथा नागपुरोपि च || एते देशा विनश्यंति अग्नेय मंडलं फलं | ज्येष्ठा च रोहिणी चैवनुराधा श्रवणस्तथा || धनेष्ठा चोत्तराखाढ अभिजित्सप्तमस्तथा | प्. २१७अ) यद्यत्त चलते किंचिद् विकारं च यदा भवेत् | माहेंद्र तं विजानीयास्तस्य वक्ष्यामि लक्षण || प्रजाप्रमुदिताः सर्वे तस्मान्रोगविवर्जित | संधि कुर्वंति लाजानं सुभिक्षं पार्थिवो भवेत् || समुद्रामागधाश्चैव मध्यदेशेस्तथैव च | कुरुक्षेत्र समस्तं च पाणिपथ्यस्तथैव च || एते देश विनश्यंति तस्मिनुत्पातदर्शनं | अश्लेषां चैव मूलं च पूर्वाषाढस्तथैव च || रेवती वारुणं रौद्र प्रोष्ठपद्युत्तरास्तथा | यद्यत्र चलते किंचिद्विकालं च यदा भवेत् || वारुणं तं विजानीयात् तस्य वक्ष्यामि लक्षणं | वहुंक्षिल धृतागावो वहुपुष्प फलद्रुमा || आरामास्तत्र जायंते वहुशश्य च मेदिनी | किटकामूषकाश्चैव शलभामर्कटास्तथा || मत्स्याशरीसृपाश्चैव पिप्पलीकंस्तथैव च | एते स्थलेषु वृष्टिः स्यात् वारिवेगा भयावहा || धान्यानि च समर्घंति सुभिक्षं पार्थिवो भवेत् | अति जला पृथ्विभि स्यात् जंतवो न भयं क्वचित् || नागराकीरसौराष्टस्तथैव सिषुसागराः | औडुंवरा हि छत्रं च तथा नागपुरेपि वा || एते देश विनश्यंति तस्मिंनुत्पातदर्शनं | प्. २१७ब्) हस्तचित्रा तथा स्वाति मृगशिरो पुनर्वसु | उत्तराफाल्गुणिश्चैव तथा अश्विनि रेव च || यद्यत्र चलते किंचिद् विकालं च यदा भवेत् | वायव्यंत विजानीयात् तस्य वक्ष्यामि लक्षणं || महापाव भय चाथ महाभयमुपस्थितं | उर्णयंति यदा मेघा न मुंचंति तथा जलं || प्रकारा गिरि शृंगाश्च तोरणेद्यानमेव च | वायुविध्वंसमानेन पतकी च महीतले || देवविप्रास्तथा राजा वृक्षाणि तु जदानि च | नष्टधर्मस्तथा सर्व हाहाभूतं च जायते || पाञ्चलासुरसेनाश्च उज्जैन्याम्लेछ वर्चसा | उद्धरामगधाश्चैव अंधकाद्राविडास्तथा || कर्णाटकास्तथा सर्वे ये चान्ये विंध्यवासिनः | एते देश विनश्यंति तस्मिंनुत्पात दर्शनं || स्वप्नाध्यायं प्रवक्ष्यामि यथासर्वत्रभाषितं | अविज्ञात स्वरूपाणां नराणां ज्ञान हेतवे || स्वप्नेस्तु प्रथमे यामे सम्वत्सर फलप्रद | द्वितीये चाष्टभिर्मासैस्त्रीभिर्मासैस्त्रियामिकः || चातुर्थ चार्थमासेन दृश्यते नात्र संशयः | अरुणोंदय वेलाया सद्यः स्वप्ने फलं लभेत् || तस्माच्च शोभने स्वप्ने पश्चात् स्वीपो न विद्यते | प्रत्यूषे मंगलं कृत्वा पश्चात् प्रस्तवनं शुभं || अत ऊर्द्धं प्रवक्ष्यामि पुण्य पापोद्भवानिते | प्. २१८अ) आरोहनं गो वृषकुंजलानां प्रासादशैलाग्रवनस्पतीनां | आरुह्यनावं प्रतिगृह्य वीणां भुत्वा रुधित्वा ध्रुवगर्थलाभः || स्वप्ने भवेयुः क्रिमिपूर्ण देहारणे क्षतं गात्र विभूषणं च | विष्ठानुलेपोरु * तं क्षुतं च स्वप्नेष्ठ गम्यं गमनं च धन्यं || यस्तु पश्यंति स्वप्नांते राजानां कुंजलं हयं | सुवर्णं रजतं गां च कुटुंवं तस्य वर्द्धते || क्षीरिणं फलिनं वृक्षमेकाकीयो वरोहति | अपिदाशकुले जातः सोपि राजा भविष्यति || दीपमन्नं फलं पक्वं कन्याछत्रं रथं ध्वजं | यस्तु पश्यति स्वप्नांते तस्य श्रीः सर्वतो मुखीं || मानुषाणां च मासानि स्वप्ने यस्तु * भक्षयेत् | हरितानि च पक्वानि शृणु तस्य यये गुणाः || पादे पंचशतं लाभः सहस्रं वाहु भक्षणे | राज्यं शतसहस्रं वा लभते मूर्द्ध्नि भक्षणात् || अंत्रैर्वष्टयते यस्तु ग्रामं नगरमेव वा | ग्रामे स्यात् मंडला भोगी नगरे पार्थिवो भवेत् || छत्रं चोपानहं चैव लब्धयं प्रतिबुध्यते | अषिंवी निर्मलं तीक्ष्ण सध्वानं तस्य निर्दिशेत् || नौकां च रोहयेद् यस्तु भिन्नानष्टां समुत्तरेत् | प्रवासं निर्दिशेतुस्य शीघ्रमागमन पुनः || वलीकीं कुक्कुटी क्रांची लब्धयः प्रतिबुद्ध्यते | प्. २१८ब्) स भार्यां लभते हृद्यां स धनं प्रिय वादिनीं | नित्यमभ्यर्चितां दृष्ट्वा प्रतिमां च विशेषतः || व्यवहारे जयस्तस्य धनं च विपुलं लभेत् | आदित्य मंडलं स्वप्ने चंद्रे वा यदि पश्यति || रोगैर्विमुच्यते रोगी ह्यरोगी श्रियमाप्नुयात् | यस्तुश्चेतेन सर्पेण दस्यते दक्षिणे भुजे || धनलाभो भवेत् तस्य संपूर्ण दशमे दिने | निगलेर्विविधैर्वद्धः क्रोशते च पुनः पुनः || पुत्रश्च जायते तस्य प्रतिष्ठां च विनिर्दिशेत् | रुधिरं पिवति स्वप्ने सुरां वापि कथंचन || ब्राह्मणो लभते विद्यामितरस्तु तथा धनं | क्षीरं पिवतितः स्वप्ने फलं दाहरनी कृतं || सोमपानं भवेत् तस्य अपूर्वं हेतुमादिशेत् | यस्तु मध्य तदागस्य भुंजीत दधि पायसं || विस्तीर्णे पौष्करे पात्रे पार्थिवोसौ न संशयः | उरगो वृश्चिकश्चैव जलौका पृश्यते यदि || विजयश्चार्थ लाभश्च पुत्रलाभो भवेदिति | दधि दृष्ट्वा भवेद् वृधि गोधुमैश्च धनागमः || यवैर्यज्ञा गमं विद्या लाभः सिद्धार्थकेन तु | फलिते फलितं विद्यात् पुष्पिते वृद्धिमाप्नुयात् || धूमं यत्तं ज्वलंतं वाययत्तं श्रियमाप्नुयात् | आशने शयने याने शरीरे वाहने गृहे || ज्वलमने विवुद्ध्येन तस्य श्री सर्वतो मुखी | प्. २१९अ) देवताश्च द्विजागावः पितरोलिगिनस्तथा | यद्वदंतिमरं स्वप्ने तत् तथैव भवेदिति || पितांवर धरानारी पितगंधानुलेपना | अवगुहति यं स्वप्ने तस्य श्रीसर्वतो मुखी || शुक्लांबर धरा नारी शुक्लगंधानुलेपना | अवगूहति यं स्वप्ने लक्ष्मी तस्य विनिर्दिशेत् || सर्वानि सुशोभनानि कर्पास भस्मास्थि कपालवर्जिं सर्वानि कृष्णानि न शोभनानि गो हस्ति देवद्विज वाजिवर्जिं || शैलप्रासाद नागानां वृषभानां च रोहणं | द्रूमाणां श्वेतपुष्पाणां गजानां च तथा द्विजः || तृणद्रूमोत्तदो नाभौ तथा चैव हुतासनः | तथैव वहुशिर्षत्वं पलितोद्भवमेव च || शक्र ध्वजा लिंगनं च तदुत्थान क्रिया तथा | भूमौ शक्र प्रपातश्च शत्रूणां च वध्व क्रिया || जयो विवादे द्यूते च संग्रामे च तथा द्विज | भक्षणं चाम्रमांसस्य मत्स्यस्य पायसस्य च || दर्शनं रुधिरस्यापि स्नानं वा रुधिरेव च | सुरारुणि रमद्यानां पानं क्षीरस्य राप्यथ || अंत्रेण वेष्टनं भूमौ निर्मलं गगने तथा | मुखेन दोहनं सस्तं महिषाणां तथा गवां || सिंहीनां हस्तिनीनां च वलवानां तथैव च | प्रासादश्चैव विप्रेभ्यो गुरुभ्यश्च तथा शुभं || प्. २१९ब्) अंभसात्वभिषेकं च गवां शृंगोदकेन च | चन्द्रग्रस्थेन वाराजेन् ज्ञेयं राज्य प्रदंहितं || राज्याभिषेकश्च तथा छदनं शिरसोपि वा | मरणवह्निलाभश्च वह्निदाहो गृहादिषु || लब्धिश्च राजलिंगानां तंत्रिवाद्यादि वादनं | तथोदकानां तरणं तथा विषमलंघनं || हस्तिनीनां गवां चैव नारीणा प्रशवो गृहे | आरोहनंमश्वरथे रोदनं च शुभ प्रदं || परस्त्री सुतलाभश्च तथा लिंगनमेव च | निगडैर्वंधनं धन्य तथा विष्ठानुलेपनं || जीविता भूमि पालानां सुहृदामपि दर्शनं | दर्शनं देवतार्चानां विमानानां तथांभसां || शुभान्मथैतानि नरस्तु दृष्ट्वा प्राप्नोति यस्माद्रुवमर्थलाभं | स्वप्नानि धर्मज्ञमृतावधिः स्याद् व्याधे विमोक्षस्तु तथा वरोपि || रक्तांवरधरा नारी रक्तगंधानुलेपना | अवगूहति यं तस्य नित्यं व्याधि विनिर्दिशेत् || कृष्णांवर धरा नारी कृष्णगंधानुलेपना | अवगूहतिय स्वप्ने मरण तस्य विनिर्दिशेत् || दंतायस्य वशीयंत स्वप्नांते निपतंति वा | धननाशो भवेत् तस्य पीडां वापि शरीरतः || अभिद्रवंति ये स्वप्ने शृंगिणो दंष्ट्रिणोपि वा | वानरो वा वरारोहे तस्य राजकुलोद्भयं || अत्यंगितस्तु तैलेन घृतेन पयसापि वा | प्. २२०अ) वेहेन वा तथान्येन व्याधि तस्य विनिर्दिशेत् || नर्तका यत्र दृश्यंते गायंति च हसन्ति च | उत्सवं चैव कुर्वंति मरण तत्र विनिर्दिशेत् || खरोष्ट्र महिषयस्तु यानमारोहते नरः | अत्यंगितस्तु तैलेन समृत्युं शीघ्रमाप्नुयात् || देवता यत्र नृत्यंति गायंति च हसंति च | आस्फोटयति धावंति देशस्तत्र विनश्यति || नाभिर्विनान्यत्र गात्रेषुः तृणवृक्षसमुद्भवः | वुंतनं मूर्द्ध्नि कास्यानां मुण्डनं भग्नतां तथा || मलिनां वलधारित्वं मत्यंगं पंकदिग्धत | उच्चाप्रपटनं चैव दोलाद्रोहनमेव च || अनुपयुक्तं लोकानां हयानामपि मारणं | रक्तपुष्पद्रुमानां च चांडारस्य च दर्शनं || वराहर्क्षखरोष्ट्राणा तथा चारोहणं क्रिया | भक्षणं पक्षिमासानां तैलस्य कृशरस्य च || नत्तनं हसनं चैव विवाहो गीतमेव च | तंत्री वाद्य विहीनानां वाद्यानांमपि वादनं || स्रोतो वाहाति गमनं स्नानं गोमय वारिणा | पादोदकेन च तथा महीतोयेन वाप्यथ || मातुः प्रवेशो जठरे तालारोहनमेव च | शक्रध्वजाभिपतने पतनं शशिसूर्ययो || दीव्यांतरिक्ष भौमानांमुत्पातानां च वर्शनं | एवमादीनि चान्यानि स्वप्नानि परिवर्जयेत् || प्. २२०ब्) एतान्न परतरं धन्यं पुनः सुस्वप्नकं तथा | कार्यं स्नानां तिलै होमो ब्राह्मणानां च रक्षण || स्मृतिश्च वासुदेवश्च तथा तस्य च पूजनं | गजेन्द्र मोक्ष श्रवणं ज्ञेयं दुःस्वप्ननाशनं || रक्तचन्दनकाष्ठानि घृताक्तानि च होमयेत् | गायत्र्यष्ट सहस्राणि जपे दुःस्वप्ननाशनं || चिंतास्वप्नेन शोकेन व्याधिग्रस्तेन वा पुनः | कामोन्मत्तक चित्तेन स्वप्नं न फलभाग्भवेत् || इति श्रीवाराहीतन्त्रे दक्षिणाम्नायनिर्वाणपदे भूमिकंपस्वप्ननिर्णय चतुस्त्रिंश पटलः || ३४ || श्रीभैरव उवाच || अथातः संप्रवक्ष्यामि योगिनीन्यासमुत्तमं | येन विन्यस्त देहस्तु षण्मासाद्भैरवायते || महासमर्पितं मंत्रं तत्सप्त * हृदंबुजे | भावये लक्षसूर्याभ्यां तदुद्भूतां स्वकां तनुं || कोटिसूर्य समप्रेष्यां भावयेदेकधा स्थितः | मूर्द्ध्नि श्रीनाथं सध्याये स्ववामे पादुका वलिं || दक्षणे गणपत्यस्त्वा क्षेत्रं * पृष्ट देशके | कात्यायनी च पुरतस्तत्तन्मंत्रैः प्रविन्यसेत् || विन्यसेन्मातृकामादौ देवीमेनोद्यशांतये | शुद्धाविंदु विसर्गादि विंदुर्था विंदुसर्गकैः || विन्यसेभियतं छ्रेयो ऋष्यादि न्यास पूर्वकं | शिवशक्त्यात्मकं रूपं ध्यात्वा विजितमत्सरः || प्. २२१अ) श्रीकंठादि अविन्यस्ये छक्तियुक्तात् स्वसिद्धये | नीसर्वभूतानां त्राशिनी || अक्षि शूलं || कर्णशूलं ललाटशूलं पादशूलं | योनिशूलं लिंगशूलं गुडशूलं || संधिशूलादि समस्तशूलानि विस्फोटिनी | दोषाणां प्रभेदिनी || सर्वा हि हितमोयशमनी || आत्मरक्षा || पररक्षा || अग्निरक्षा || व्याघ्र रक्षा || चतुर्वर्ण रक्षा || भैषणभयानकरक्षा || भयं बालकस्य कण्ठं वध्नामि || हाहा कालेन हस्त्येना पंचशक्तिषु प्राणीन्मं मात्राणां सुखहस्तेन कस्यापि कलहपिंगुलाकंठंतर हाहा मातंगी हूं हूं मातङ्गीश स्वरो ईश्वरी ब्रह्मदंडेन ईश्वरी विष्णु दण्डेन ज्वरः || अग्निदंडेन शामय || नै-ऋत्य दंडेन वंधि || कुवेरदण्डेनभिष || ईशानदंडेन || नृत्या चक्रणी || शूलनी || पद्मनी || कृष्णाक्षी || कृष्णसर्पसदृशी || ओं वायवे स्वाहा || ओं उत्तराय स्वाहा || ओं क्लीं स्वाहा || ओं क्लीं क्लीं स्वाहा || ओं भ्लीं स्वस्वाहा || ओं भ्लीं भ्लीं स्वाहा || ओं म्लीं स्वाहा | ओं म्लीं म्लीं स्वाहा || ओं ज्वीं स्वाहा || ओं ज्वीं ज्वीं स्वाहा || ओं ह्रीं स्वाहा || ओं ह्रीं ह्रीं स्वाहा || ओं भूः स्वाहा || ओं भुवः स्वाहा || ओं स्वः स्वाहा || ओं भूर्भुवः स्वः स्वाहा || ओं यत्रैवा गतं पायं तत्रैव परिगछतु स्वाहा || प्. २२१ब्) ओं क्रतु स्वाहा || ओं स्फुट् स्वाहा || ओं ब्रह्मणे स्वाहा || ओं वैष्णवे स्वाहा || ओं प्रजापतये स्वाहा || ओं अग्निये स्वाहा || ओं गंधर्वाय स्वाहा || ओं कूष्मांदाय स्वाहा || ओं येमां हिसंति भूतप्रेतपिशाचा चौर || रक्षराक्षसवेतालशाकिनी कुष्मांडवासिनी अय केचिदुष्टास्तेषां दिशं वध्नामि || आकाशं वध्नामि || पातालं वध्नामि || जलं वध्नामि || स्थलं वध्नामि || हस्तौ वध्नामि || पादौ वध्नामि || चक्षुर्वध्नामि || गतिर्वध्नामि || मतिर्वध्नामि || मंत्रं वध्नामि || पंचयोजनविस्तीर्ण रुद्रो वंधति मंडलं || तस्य मण्डलमध्ये || ओं रुद्रमंडलवंधिवंधिरक्ष २ माचल माचलं ध्येमाकर्मि स्वाहा || ओं नमो भगवते रुद्राय याम्यां दिशायां महिषस्तुध समारूढ || दंडहस्तोयमोवंधति मंडलं || यममंडलवंधिरक्ष २ माचल माचल मा कर्मि स्वाहा || ओं नमो भगवते रुद्राय नै-ऋत्यादिशायां स च स्कंधसमारूढ खड्गचर्म धरो हस्तेन नै-ऋतिवंधति मंडलं नै-ऋतिमंडल वंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || ओं नमो भगवते रुद्राय वरुणदिशायमरुतस्कंध समारूढपाशहस्ते वरुणो वंधति मंडलं वरुणमंडलं वंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || प्. २२२अ) ओं नमो भगवते रुद्राय वायव्य दिशायां मृतस्कंध समारूढपाताहस्तो वायव्यो वंधिति मंडलं || वायव्यमंडलं वंधि रक्ष २ माचल २ माकर्मि स्वाहा || ओं नमो भगवते रुद्राय कुबेरदिशायां गिरिस्कंध समारूढमुद्गरहस्तकुवेरो वंधति मंडलं कुबेरमंडलवंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || ओं नमो भगवते रुद्राय ईशान्य दिशाया वृषभस्कंधमारूढ त्रिशूलहस्तो ईश्वरो वंधति मंडलं ईश्वरमंडलं वंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || ओं नमो भगवते रुद्राय प्राची दिशायां गजस्कंध समारूढ वज्रहस्त इंद्रावंधति मंडलं इंद्रमंडलं वंधि २ रक्ष २ माचल २ माकर्मिणी स्वाहा || ओं नमो भगवते रुद्राय ऊर्द्धदिशायां हंस स्कंध समारूढ श्रुति हस्ते ब्रह्मावंधति मंडलं ब्रह्ममंडलवंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || ओं नमो भगवते रुद्राय अधो दिशायां गरूढस्कंध समारूढां शंखचक्रगदा हस्तेन विस्म्ये वंधति मंडलं विष्णु मंडलं वंधि २ रक्ष २ माचल २ माकर्मि स्वाहा || ओं ग्लीं स्वाहा || ओं भ्लीं स्वाहा || ओं स्त्वीं स्वाहा || ओं ज्लीं स्वाहा || ओं शिरोरक्षे तु कौमारी मुखं माहेश्वरी तथा || प्. २२२ब्) कंठे रक्ष तु वाराही इंद्राणि तु भुजद्वयं | चामुण्डी हृदयं रक्षे ब्रह्माणी मे कटिश्रिता || वैष्णवी पादयोर्देवी सर्वांगे तु भुजद्वयं | ओं ब्रह्मायणी रक्ष २ हस्तस्तदंडेन ठः ठः स्वाहा || ओं माहेश्वरी रक्ष २ त्रिहस्तेन मठः ठः स्वाहा || ओं कौमारी रक्ष २ कमल हस्तेन ठः ठः स्वाहा || ओं चामुंडा रक्ष २ चक्र ई ब्रह्मांडमंडरहस्तेन ठः ठ स्वाहा || ओं नमो भगवते रुद्राय क्षेत्रपालाय नमः रक्ष २ खड्ग हस्तेन ठः ठः स्वाहा || अष्टौ ब्रह्मणान् ग्राह्यत्वा लिखित्वा तु समर्पयेत् || आमान्यावादसंयुक्तं वास्तु विद्या प्रसिद्ध्यति | अथवा गनसिद्ध्यंति रुद्रो वै ब्रह्महा भवेत् || शिष्यहस्तेन यो पाठे स वै च ब्रह्महा भवेत् | नाहं नदीषु संजाता नम युद्ध्य न पर्वत || शत्रुस्य हृदयं जाताः अहं काम स्वरूपणा | इमां विद्यां भवे रक्षा जपे स्त्री पुरुषोपि वा || सर्वसिद्धिमवाप्नोति नात्रकार्या विचारणं | महाविद्या पठेन्नित्यं संध्या कृत्वा तु यो द्विजः || अपुत्रो लभते पुत्रान् निर्द्धनो धनवान् भवेत् | कन्यार्थी लभते कन्या सुतार्थी लभते सुतं || वंध्या तु लभते पुत्रं मैत्रीकरणमुत्तमं | सर्वारिष्ट भवे यांति सर्वविघ्नो विनश्यति || भूर्जपत्रे लिखेद्देतत् अष्टगंधन् शुभे दिने | शतवर्त पठेद् विद्या रक्तसूत्रेण वेष्टयेत् || प्. २२३अ) स्थापनं स्वर्णमध्ये तु रौप्यं वा ताम्रमेव वा | धार्या शिरसि वा कंठे करे दक्षिणवामके || सर्वसिद्धि भवेत् तस्य वांछितं लभते ध्रुवं | सर्वरक्षा भवे नित्यं महाविद्या प्रसादतः || इति महाविद्या मंत्रपालायण || श्रीभैरव उवाच || षोढान्यासो निसाद्याश्च मूलदेव्यादिकं प्रिये | कलशुद्ध्यादिकं चैव शक्तिन्यासादिकं तथा || अंगुली हृद्यगुंथानमासनं त्रिस्विकाखिलं | नादकोणास्त्रलिप्यंग वशिनी पीठ तत्वकं || नवयोणिश्च मंत्रश्च विन्यस्यच्च पृथक् पृथक् | प्रातःकालेथवा पूजा समये होमकर्मणि || जपकालेथ वा सम्यग् विनियोगः पृथक् पृथक् | ह्रीं श्रीं अं आं सौः मध्यमादि कनिष्ठांतं अंगुष्ठादि तलांतं अंगुलिं न्यास || ऐं क्लीं सौंः श्रीमन्महात्रिपुरसुंदरी ममात्मारी रक्ष २ हृदि दक्षिणभागे विन्यसेदिति न्यासः || सौं अस्त्राय फट् || छोटिकाभि दिग्वंधनं || ततः च मूलबीजखण्ड त्रयेण तत् तेजसो देहं व्याप्य प्रथम कूटेन मूलादि हृदयांतं द्वितीयेन हृदयादि भ्रूमध्यांतं तृतीयेन भ्रूमध्यादि ब्रह्मरंध्रांतं व्याप्य प्राणायाम त्रयात्मकं त्रयं कुर्यात् || इत्युत्थानं न्यासः || ह्रीं श्रीं ह्रीं क्लीं सौंः देव्यात्मासनाय नमः || इति पादादि जान्वांतं || प्. २२३ब्) ह्रीं श्रीं हैं ह्म्क्लीं ह्सौः चक्रासनाय नमः || जान्वादि गुह्यांतं || ह्रीं श्रीं ह्सैं ह्म्व्लीं ह्सौंः सर्वमंत्रासनाय नमः || मूला || ह्रीं श्रीं ह्रीं क्लीं व्लं साध्यसिद्धासनाय नमः || स्वाधि || इत्यासनं न्यासः || मूलखण्डश्रयेण करे द्वयस्य मूलमध्याग्रेषु मूलहृदय भ्रूमध्येषु च यथासंख्यं न्यसेत् || त्रिस्त्रिकं न्यासः || ततश्च पूर्णविद्यायामस्तकादि पादांतं पादादि मस्तकांतं त्रिव्याप्यं न्यसेत् || अखिलं न्यासः || ह्रीं श्रीं अविकृतनादाय नमः || मूर्द्ध्नि || ह्रीं श्रीं शून्यनादाय नमः || ललाटे || ह्रीं श्रीं स्पर्शनादाय नमः || भ्रूमध्ये || ह्रीं श्रीं बिंदुनाय नमः || मुख || ह्रीं श्रीं नादनादाय नमः || कंठे || ह्रीं श्रीं बीजनाय नमः || ह्रीं श्रीं ध्वनि नादाय नमः || नाभौ || ह्रीं श्रीं अंकुरनादाय नमः || स्वाधि || ह्रीं श्रीं अक्षरनादाय नमः || मूलाधा || नादं न्यासः || ततश्च स्वशिरसि षट्कोणं ध्यात्वा || अग्रकोणदक्षावर्तेन षट्कोणेषु न्यसेत् || ह्रीं श्रीं वामायै नमः || ह्रीं श्रीं ज्येष्ठायै नमः | ह्रीं श्रीं रौद्र्यै नमः || ह्रीं श्रीं अंबिकायै नमः || ह्रीं श्रीं शांतायै नमः || ह्रीं श्रीं शांभृतायै नमः || इति कोणं न्यासः || ततः श्रीं ह्रीं द्रां द्रीं क्लीं व्लूं सः यां रां वासां जंभनेभ्यः कामेश्वरवाणेभ्यो नमः || प्. २२४अ) २ यां ५ द्रां ५ जं जंभनेभ्यः कामेश्वरी वाणेभ्यो २ || दक्षाधो हस्ते || २ द्रां ५ यां ५ धं संमोहनाय कामेश्वर धनुवे २ || २ द्रां ५ यां ५ खं संमोहनाय कामेश्वरी धनुषे २ || वामाधो हस्ते || २ द्रां ५ यां ५ आं वशीकरणाय कामेश्वर पाशाय २ || २ यां ५ द्रां ५ ह्रीं वशीकरणाय कामेश्वरी पाशाय २ || वामोर्द्ध हस्ते २ || २ द्रां ५ यां ५ क्रों स्तंभनाय कामेश्वरांकुशाय २ || २ यां ५ द्रां ५ क्रों स्तंभनाय कामेश्वयं कुशाय २ || दक्षोर्द्धहस्ते || इत्यस्त्रं न्यासः || ततश्च मूलखण्ड त्रयांते अं नमः इत्यादि क्षं नमः || इत्यंतं मातृकास्थाने न्यसेत् || इति लिपिं न्यास || २ ऐं सर्वज्ञायै मध्यमाभ्यां २ || २ क्लीं नित्य तृप्तायै अनामिकाभ्यां स्वाहा || २ सौः अनादि बोधायै कनिष्ठिकाभ्यां वषट् || २ ऐं स्वतंत्रायै अंगुष्ठाभ्यां हूं || २ क्लीं नित्यमलुप्तशक्तये तर्जनीभ्यां वोषट् || २ सौः अनंतशक्तये करतरपृष्ठयोः अस्त्राय फट् || अस्त्र || एवं हृदयादि || इति अङ्गं न्यास || अथ वशिनी || २ अं १६ र्व्लूं वशिनी वाग्देवतायै २ || ब्रह्म || २ कं ५ क्म्प्रीं कामेश्वरी वाग्दे २ || ललाटे || २ ल्व्रीं मोदिनी वाग्दे २ || जिह्वा || २ टं ४ यलुं विमला वाग्दे २ || कण्ठे || २ तं ४ क्ष्म्रीं अरुणावाग्दे २ || प्. २२४ब्) हृदि || २ पं ४ ह्म्क्ष्मल्व्र्यूं जयनी वाग्दे २ || नाभौ || २ यं ४ झ्म्रीं सर्वेश्वरी वाग्दे २ || इति वशिनी || ततः || २ ऐं १ अग्नि चक्रे कामगिर्यालये मित्रीशनाथात्मके कामेश्वरी देवी रुद्रात्मशक्त्यै २ || २ क्लीं सूर्यचक्रे पूर्णगिरि गह्वरे षष्ठीशनाथात्मके वज्रेश्वरी देवी विष्णात्म शक्त्ये २ || हृदि || २ सौः सोमचक्रे जालंधरपीठे उड्डीशनाथात्मके भगमालिनी देवी ब्रह्मात्म शक्त्यै २ || जिह्वा || २ ऐं क्लीं सौ ब्रह्मचक्रे ओड्यानपीठे चर्यानाथात्मके श्रीमहात्रिपुरसुंदरी देवपरब्रह्मात्मशक्त्यै २ || ब्रह्मा || इति पीठं न्यास || ततः २ प्रथमं आत्मतत्वाव्यापिकायै श्रीमन्महात्रिपुरसुंदर्यै २ || * * *? हृदयांतं व्याप्य || २ द्वितीयं विद्या तत्व व्यापिकायै श्रीमन्महात्रिपुरसुंदर्यै २ || हृदयादि भ्रूमध्यांतं || २ तृतीयं शिवतत्वव्यापिकायै श्रीमन्महात्रिपुरसुंदर्यै २ || भ्रूमध्याद्ब्रह्मरंध्रांतं २ || त्रयमुच्चार्य सर्वतत्व व्यापिकायै श्रीमन्महात्रिपुरसुंदर्यै २ || ब्रह्मरंद्रादि पादांतं पादादि ब्रह्मरंध्रांतं न्यसेत् || इति तत्वं न्यासः || ततो नवयोन्यादिकं न्यासं कुर्याद्वीजैस्त्रिभिस्त्रिभिः कर्णयोश्चिबुके भूयः शंखयोर्वदने पुनः || नेत्रयोन्नासिकायां च अंशयो हृदयाम्बुजे || प्. २२५अ) स्तनयोर्नाभिदेशे च जानुनोर्ध्वजमूर्द्धनि | पादयोर्गुह्य देशे च पार्श्वयो हृदयोपरि || स्तनाधः कंठदेशे च दक्षिणाद्यं तु विन्यसेत् | ततश्च मंत्राक्षरं न्यासः || मूर्द्ध्नि गुह्य च हृदये नेत्र तृतयमेव च | कर्णयो मुखदेशे च अंशयो पीठके पुनः || तथा सर्वं विजानीया जानुनोर्द्धजमूर्द्धनि | इति मन्त्रन्यासः || ततश्च पादादि मूर्द्धान्तं मूर्द्धादि पादान्तं मंत्रमयमात्मानं विभाव्य || इति सुन्दरी वाराही कालि षोढाः || अस्या होमपद्धति || साधकेंद्रः संभृतसंभारः आशने उपविश्या चम्य प्राणाश्चम्य देशकालौ संकीर्त्यकामनानुसारेण होमसंकल्पं विधाय तदंगमग्निं स्थापनं करिष्ये इति संकल्पा भूतशूधि प्राणप्रतिष्ठा मातृका न्यासान् विधाय कुंडं मूलमंत्रेण वीक्ष्य अस्त्रमंत्रेण प्रोक्ष्य || अस्त्रेण कुशैः संताड्या || कवचेनाभ्युक्ष्य || अस्त्रेण खनित्वा || अस्त्रेण तां मृदमंगुष्ठानामिकाभ्यां उद्धृत्य हृदयमंत्रेण शुद्धमृदाख्यातमापूर्य अस्त्रेण समीकृत्य कवच न जलैरासिंच्य अस्त्रेण कुष्टयित्वा || कवच मंत्रेण संमार्जनं || कवचे नैव गोमयाद्भिर्विलेपनं कवचे नैवाग्नि सूर्यसोमानामष्टत्रिंशत्कलात्मना चिंतनं || प्. २२५ब्) कवचेन त्रिसूत्रीकरणं || ओं अमुक कुंडाय नम इति पूजनं || अस्त्रेण वज्रवद्दृढमिति चिंतनं || हृन्मंत्रेण कुशैः चतुःपथकरणं || कवचेन कुशैः कुंडस्या सर्वत आछादनमित्यक्षपाटनं || अथवा आदिक्षांतानां वर्णानां लिखिनं || इत्येष्टादशसंस्काराः || स्थडिलं मूलमंत्रेण वीक्ष्य अस्त्रेण कुशैः संताड्य कवचेनात्युक्.य || तत्र हृन्मंत्रेण प्रागग्रा उदग्राश्च तिस्रस्त्रिस्रो रेखाः कुशमूलेन विलिख्य प्रणवेनात्युक्ष्य प्रागग्रासुरेखासु || ओं विष्णवे नमः || ओं रुद्राय नमः || ओं इंद्राय नमः || उदग्रासुरेखासु || ओं ब्रह्मणे || ओं यमाय || ओं चंद्राय || इति संपूज्य तत्र मंडुकादि परतत्वांतं योगपीठं संपूज्य || ओं जयायै || ओं अजितायै || ओं अपराजितायै || ओं नित्यायै || ओं विलासिन्यै || ओं दोग्यै || ओं अघोरायै || ओं मंगलायै नमः || इति पीठ देवताः संपूज्य || ह्रीं सर्वशक्तिकमलासनाय नमः || इति वाराह्यासने पुष्पांजलिं दत्वा वाराहीमुपचारैः संपूज्य तत्र शिवं ध्यात्वा संपूज्य देवी मृतुमतीं देवं चंदनमत्तं विचिंत्य सूर्यकांतादि भवं श्रोत्रियागारादीतं वा वह्निमादायास्त्र प्. २२६अ) मंत्रेण क्रव्यादांशसेकमंगारां नैर्-ऋत्ये परित्यज्य देवंशं वीक्षणादि चतुर्भिः संस्कारैः संस्कृत्य औदर्य वैन्दव पार्थिव वह्नीनां ऐक्यं विभावयन् र इति वह्नौ चैतन्यं संयोज्य प्रणवे नाभि मंत्र्यवंधेनु मुद्रयाऽमृतीन्यास्त्रेण संरक्ष्य कवचेनावगुंठ्य ओं रं वह्नय नमः || इति संपूज्य जामवनिंगतस्तत्पात्रं कराभ्यामादाय प्रदक्षिणमग्न्याय तनोपरि त्रिःपरिभ्राम्य देव्या योनौ श्रीदेववीजधिया स्वाभिमुखं ओं भूर्भुवः स्वरित्याग्न्यायतनमध्ये संस्थाप्य मैथुनांतधिया देवदेव्यो नाचमनं दत्वा ओं चित्पिंगल हन पच २ दह २ सर्वज्ञापये स्वाहा || इति अग्निं प्रज्वलितं कृत्वा काष्ठैः पट्टत् कृत्यकृतांजलिं रुत्थाय || ओं अग्नि प्रज्वलितं देवजातवेदहुतावहं || सुवर्णवर्णममलं ससिद्धं सर्वतौ मुखमित्युपस्थोयोपविश्य || ओं वैश्वानरजातवेद इहावहलोहिताक्ष सर्वकर्माणि साधय स्वाहा || इति मंत्रेण प्राणायामत्रयं विधाय शिरसि ओं भृगवे ऋअषये नमः || मुखे गायत्री छंदसे नमः || हृदये श्रीवह्नि देवतायै नमः || मम होमे न्यासे विनियोगः || इति न्यास्य ततः लिंगे ओं शूं हिरण्यायै अमर्त्याधि देवतायै नमः गुह्ये || प्. २२६ब्) ओं ष्यूं गगनायै पित्रधि देवतायै नमः || इति शिरसि || ओं श्म्रूं रक्तायै गंधर्वादि देवतायै नमः || मुखे || अं कृष्णायै यक्षाधि देवतायै नमः || नासिकायां ल्यूं सुप्राणायै नागाधि देवतायै नमः || नेत्रयोः || म्रूं अति रक्तायै पिशाचाधि देवतायै नमः || सर्वांगे || ययरूं वहुरूपायै राक्षसाधि देवतायै नमः || इति सप्तजिह्वा विन्यस्य || ओं सहस्रार्चिषे हृदयाय नमः || ओं स्वस्ति पूर्णाय शिरसे स्वाहा || ओं उत्तिष्ठ पुरुषाय शिखायै वषट् || ओं धूमव्यापिने कवचाय हूं || ओं सप्तजिह्वाय नेत्राय वौषट् || ओं धनुर्द्धरास्त्राय फट् || इति षडंगमंत्रांतरयोर्न्यस्य || हृदयादिषु च न्यसेत् || शिरसि ओं अग्नये जातवेदसे नमः || वामांसे || ओं अग्नये सप्तजिह्वाय नमः || वामपार्श्वे || ओं अग्नये हव्यवाहनाय नमः || वामकट्यां || ओं अग्नये अश्वादराजाय नमः || लिंगे || ओं अग्नये वैश्वानराय नमः || दक्षिणकट्यां || ओं अग्नये कौमारतेजसे नमः || दक्षिणपार्श्वे || ओं अग्नये विश्वमुखाय नमः || दक्षिणांगे || ओं अग्नये देवमुखाय नमः || सर्वाङ्गे || इति विन्यस्य सप्तजिह्वामुद्रां प्रदर्श्यमुंचयेत् || ततो वह्नेः षट्कोणाष्टदलचतुरस्ररूपं पीठं विचिंत्य तत्र मंडूकादि योगपीठांतं संपूज्य || प्. २२७अ) ओं पीतायै नमः || ओं श्वेतायै नमः || ओं अरुणायै नमः || ओं कृष्णायै नमः || ओं धूम्रायै नमः || ओं तीव्रायै नमः || ओं विस्फुलिंगिन्यै नमः || ओं विरायै नमः || ओं ज्वालिन्यै नमः || इति पीठशक्तिसंपूज्य रं सर्वशक्तिकमलाय नमः इति पीठं संपूज्य वह्निं ध्यायेत् || करैर्वरस्वस्तिकशक्त्यभीतिर्दधानमंभोजगतं त्रिनेत्रं सिंदूवर्णं तपनीय भूषं वह्निं जटाभूषित मौलिमीडे || इति ध्यात्वा ओं वैश्वानरजातवेद इहावहलोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मंत्रेणाग्निं आसनादि पुष्पांतं संपूज्य ततः षट्कोणेषु ईशाणादि प्रादक्षिण्येन ओं म्प्रूं हिरण्यायै नमः || ओं प्प्रूं गगनायै नमः || ओं ग्प्रूं रक्तायै नमः || ओं प्प्रूं कृष्णायै नमः || ओं ल्प्रूं सुप्रभायै नमः || ओं यरूं अति रक्तायै नमः || मध्य ययूं वहुरूपायै नमः || ततोऽष्टदलकेशरेषु ओं सहस्रार्चिषे हृदयाय नमः || ओं स्वस्ति पूर्णाय शिरसे स्वाहा || ओं उत्तिष्ठ पुरुषाय शिखायै वषट् नमः || ओं धूमव्यापिने कवचाय हूं नमः || ओं सप्तजिह्वाय नेत्राय वौषट् नमः || ओं धनुर्द्धरायास्त्राय फट् नमः || प्. २२७ब्) ततोष्ट दलेषु प्रागादि ओं अग्नये जातवेदसे नमः || ओं अग्नये सप्तजिह्वाय नमः || ओं अग्नये हव्य वाहनाय नमः || ओं अश्वोदरजाय नमः || ओं अग्नये वैश्वानराय नमः || ओं अग्नय कौमार तेजसे नमः || ओं अग्नये विश्वमुखाय नमः || वहिश्चतुरस्रे लोकेशाना युधानि च संपूज्य धूपादि नादे वं संपूज्य अग्ने रुत्तरतो दर्भात् संस्तीर्य पात्राण्या सादयेत् || स्रुक्स्रुच प्रोक्ष्यणीताज्यस्थाली चरुस्थाली परिधि पंच समिध इध्मं वर्हि ब्रह्मदक्षिणार्थं पूर्णपात्रं पूजावलि द्रव्यादि न्यासाद्य पवित्रं कृत्वा प्रोक्षणी पात्रमंत्रेण प्रक्षाल्य तस्मिन् पवित्रां तर्हितेप आनीयास्त्रेण त्रिरुत्पूर्याताभि रूर्ध्वमुखानि सर्वाणि पात्राणि मूलमंत्रेण त्रिःप्रोक्ष्यदक्षिणतो ब्रह्माणमुपवेश्यप्रणीता पात्रं प्रोक्षणीवत् संस्कृत्याग्नेरुत्तरतः कुशेषु सादयित्वा तज्जलं किंचित् प्रोक्षणी पात्रे कृत्वा तेन जलेन सर्वं हवनीयं प्रोक्ष्य प्रोक्षणी तलेनाग्नि परिसमुह्य चतुर्भिश्चतुर्भिर्दभैरग्निं परिस्तीर्य प्राची वर्जं परिधायरिधाय दक्षिणपरिधौ ब्रह्माणं पश्चिमे विष्णुं उत्तरे रुद्रं पूजयेत् ततोग्नि पश्चात् वर्हिरास्तीर्य प्. २२८अ) सुकुशै स्रुक्स्रुवौ आदाय प्रताप्याग्रैरग्रं मध्यैर्मध्यं मूलं संसृज्य पुनः पतप्य प्रोक्ष्यवर्हिष्या सादयेत् || ततोर्मूलमध्याग्रेषु ज्ञानेछा क्रियाशक्तिः पूजयेत् || स्रुचि मायां स्रुवे शिवं च संपूज्य आज्यस्थालीमादायास्त्रमंत्रेण प्रक्षाल्य तस्यां पवित्रवत्यामाज्यं निरूप्य चतुर्भि वीक्षणादिभिः संस्कृत्य वायव्यंगारान पोह्यतेष्वाज्यं हृदाधि श्रित्य कुशद्वयं प्रक्षाल्य हृन्मंत्रेणाज्ये निक्षिप्याग्नौ प्रास्यपुनरन्यद्दर्भ द्वयं प्रक्षाल्य कवच मंत्रेण पर्यग्नि कृत्वाऽग्नौ प्रक्षिप्य पुनरन्यर्दर्भ द्वयं प्रज्वाल्यास्त्रेणाग्नें | प्रदर्श्य वह्नौ प्रक्षिप्य आज्यस्थाली मुद्वास्य प्रदक्षिणेन वर्हिषा साद्य अंगारारति सृज्य अंगुष्ठा अनामिकाभ्यां पवित्रे धृत्वा अस्त्र मंत्रमुच्चरन् घृतं त्रिरुत्पूर्यतद्धन्मंत्रेणात्म संमुखं घृतं संप्लाव्य पवित्रमाज्यस्थाल्या मध्ये प्रागग्रं निधाय भागद्वयं कृत्वा दक्षिणभागं शुक्लपक्षं वामभागं कृष्णपक्षं परिकल्प्या वामभागे इजं दक्षिणभागे पिंगलां मध्ये सुषुम्नां संचिंत्य स्रूवेण दक्षिण भागात् नमो मंत्रेणाज्यमादाय ओं अग्नये स्वाहेति वह्नेर्दक्षिण नेत्र हुत्वा संस्रावं यत आज्यं ग्रहितं तत्र निदध्यात चतुराहुति पर्यंतं || प्. २२८ब्) ओं अग्नये इदं नमः इत्युर्देशात्यागं कुर्यात् || पुनर्वामभागादाज्यमादाय सोमाय स्वाहेतिर्वामनेत्रे हुत्वादाज्यमादाय ओं अग्नीषोमाभ्यां स्वाहेति वह्नेस्तृतीय लोचने हुत्वा पुनर्दक्षभागादाज्यमादाय ओं अग्नये स्विष्टकृते स्वाहेति वह्नेर्वक्त्रे हुत्वा सर्वत्र तत्तदेवतोद्देशेन त्यागं विदध्यात् | ततः ओं स्वाहा परमात्मने इदं ओं भूः स्वाहाऽग्नये इदं || ओं भुवः स्वाहा वायवे इदं || ओं स्वः स्वाहा सूर्यायेदं || ओं भूर्भुवः स्वः स्वाहा प्रजापतये इदं || ओं वैश्वानरजातवेद इहावलोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मंत्रेणाहुति त्रयं हुत्वा ततः अग्नि गर्भाधानं संपादयामि स्वाहा || एवं पुंसवनं सीमंतोन्नयनं जातकर्म || ततः पंचसमिधात्याधायनयनेन सूतकं संशोध्य नामकरणं निःक्रमनं अन्नप्राशनं चौलं उपनयनं महानाम्नी व्रतं महाव्रतं || औपनिषदं गोदानं समावर्तनं विवाहं संपादयामि स्वाहेति प्रतिकर्म अष्टावाज्याहुतीर्हुत्वाग्नेर्गर्भाधाराद्युद्वाहांतात् संस्कारान् विधाय वह्नेः सितरो देवदेव्यौ विसृजेत् || ततः पंचसमिधमभिधार्य प्रजापतिं मनसा ध्यायन् ओं स्वाहेति वह्नावादध्यात् || प्. २२९अ) ततोंग देवतानां एकैकामाहुतिं जुहुयात् | स्त्र्यूं हिरण्यायै स्वाहा || ष्पूं गगनायै स्वाहा || श्र्पूं रक्तायै स्वाहा || व्यरूं कृष्णायै नमः स्वाहा || ल्प्रूं सुप्रभायै स्वाहा | प्प्रूं अतिरक्तायै स्वाहा || यप्रूं वहुरूपायै स्वाहा || ओं सहस्रार्चिषे हृदयाय नमः || ओं स्वस्ति पूर्णाय शिरसे स्वाहा || ओं उत्तिष्ठ पुरुषाय शिखायै वषट् स्वाहा || ओं धूम्रव्यापिने कवचाय हूं स्वाहा || ओं सप्तजिह्वाय नेत्रत्रय वौषट् स्वाहा || ओं धनुर्द्धरायास्त्राय फट् स्वाहा || ओं अग्नये जातवेदसे स्वाहा || ओं अग्नये सप्तजिह्वाय स्वाहा || ओं अग्नये हव्यवाहनाय स्वाहा || ओं अग्नये अश्वोदरजाय स्वाहा || ओं अग्नये वैश्वानराय स्वाहा || ओं अग्नये कौमार तेन स्वाहा || ओं अग्नये विश्वमुखाय स्वाहा || ओं अग्नये देवमुखाय स्वाहा || ओं लुं इंद्राये स्वाहेत्यादि लोकपालानां तदा युधानां वैकैकाहुतिं जुहूयात् || ततः स्रूवेण चतुराज्यं स्रुवि गृहीत्वा अधोविलं स्रुवं निधायोत्थाय ओं वैश्वानरजातवेद इहावहलोहिताक्ष सर्वकर्माणि साधय स्वाहा वौषट् इति हुत्वोपविश्य ओं स्वाहा ओं श्रीं स्वाहा || ओं श्रीं ह्रीं स्वाहा || ओं श्रीं ह्रीं क्लीं स्वाहा || ओं श्रीं ह्रीं क्लीं ग्लौं स्वाहा || ओं श्रीं ह्रीं क्लीं ग्लौं गं स्वाहा || ओं श्रीं ह्रीं क्लीं ग्लौं गणपतये वरद स्वाहा || ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे स्वाहा || ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरद सर्वजनं मेवशमानये स्वाहा || इति दशधा विभक्तेन हुत्वा समस्तेन चतुर्द्वारं महागणपति मंत्रेण जुहूयात् || ततश्चरुहोमार्थं चरुंपयेत् || इत्येवं संस्कृते वह्नौ || ओं अग्ने त्वमैश्वरं तेजः पवित्र परमं यतः || तस्मात् त्वदीय हृत्पद्मं पूजयामि परं शिवं || इत्यग्निं प्राथ्य स्वेष्ट देवं पीठपूजा पूर्वकं सांगं सावरणं संपूज्यमूलमंत्रेण वक्त्रैकीरणार्थं पंचविंशति राज्याहुती जुहूयात् || तथैव मूलेन नाडीसंधानार्थं एकादशाज्याहुतीर्जुहूयात् || ततः आवरण देवतानामेकैकामाज्याहुतिं हुत्वा प्रधान द्रव्येण स्वेष्ट देवता होमं यथा संख्यं समाप्य षडंग देवतानां मावरण देवतां च पूर्ववदेकैकामाज्याहुतिं जुहूयात् || ततो महाव्याहृति होमं कुर्यात् || ओं भूरग्नये च पृथिव्यौ च महते च स्वाहा || ओं भुवोवाचते चांतरिक्षाय च महते च स्वाहा || ओं सुवनादित्याय च दिवे च महते स्वाहा || ओं भूर्भुवश्वश्चंद्रमसे वनक्षेत्रेभ्यश्च दिग्भाश्च महते च स्वाहा || इति चतुस्र आहुति || प्. २३०अ) ओं स्वाहेति पंचमीं च हुत्वा ओं इतः पूर्वं प्राणबुद्धि देहधर्माद्विकारतो जाग्रत् स्वप्न सुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यांमुदरेण शिश्न यत् स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा इत्यष्टायाज्याहुतिर्जुहूयात् || ततो वह्निं प्राग्वत् संपूज्य न्यूनाति रिक्त सिद्ध्यर्थं ददामि सघृततिलं || ओं हूं सांगं कुरु २ स्वाहा || इति तिलैरेकामाहुतिं हुत्वा || ओं सहस्रार्चि महारेता नमस्ते वहुरूपधृक् || सर्वाशिने सर्वगतपावकाय नमोस्तुते || त्वं रौद्र घोरकर्मा च घोरहा च नमामिते || विष्णुत्वं लोकपालेति शांतिमेत प्रयछ मे | इत्यग्निं प्रार्थ्यं चतुर्गृहीतेन घृतेन स च मापूर्य तदुपर्यधो मुखं स्रुवं च निधायोत्थाय इष्ट देवता मंत्रेण वौषडिति पूर्णाहुति स्वरूपं वायवीय संहितायामुक्तं || ततोमावशिष्ठेन घृतेनापूर्य च स्रुवं || निधाय पुष्पं तस्याग्रे स्रुवेणाधो मुखेन तां | सदर्भेण समाछाद्य मूलेनांजलिनोत्थितः || वौषडंतेन जुहुयात् धारां तु वयसंसितामिति || वौषडंतेन पूर्णाहुति त्रयं हुत्वा देवं संपूज्य वह्नेः सकाशादुद्धास्य देवपार्षदायवंडेशायलोकपालेभ्योपि वलिं दत्वा प्. २३०ब्) विसृज्य पूर्ववद्धह्नौ चातुर्व्याहृतिं जिह्वा षडंगादि मूर्ती नामेकैकामाहुतिं हुत्वा वर्हिषि प्रणीतां निनाय नित्याति रिक्ते परिस्तरण परिधानमग्नौ प्रास्य प्रोक्षणी जलेनाग्निं परिषिंच्या संपूज्य भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक || कर्मांतरेपि संप्राप्ते संनिधिं कुरु सादरं || इत्यग्निं प्राथ्य संहारमुद्रयाद्वाश्य ब्रह्मण पूर्णपात्रं प्रदाय ब्रह्माणमुद्वासयेदिति || इति श्रीवाराहीतंत्रे दक्षिणाम्नायनिर्वाणपदे सिद्धांतहोमपद्धति निर्णयो नाम योगिनी न्यास महाविद्या पंचत्रिंश पटलः || ३५ || श्रीदेव्युवाच || पूर्वखण्डं मया श्रुत्वा वाराह्या कथितं त्वया | अधुना छ्रोतुमिच्छामि पंचांगं कथय प्रभो || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि वाराह्याः कथयामि ते | पंचांगं शृणु सारंगि सारसारं च कथ्यते || यस्यात् स्मरण मात्रेण महापातक नासिनी | अधुना कथयिष्यामि पंचांगं पटलंस्तथा || नमोस्तुते महामाया वाराही नाम धारिणी | कोलास्या च महारौद्री वज्रतुंडधरायमी || सहस्रसूर्यसंकाशा तेजपुंजसमन्वितं | रुद्ररूपमहाघोरा घोररूपी भयंकरी || वंधूकपुष्पसंकाशा डादिमी कुसुमोपमा | प्. २३१अ) तीक्ष्णसिंदूरसंकाशा जवाकुसुमसन्निभा | जौवनस्था मदोन्मत्त तुंगपीनपयोधरा || सर्वालंकारभूषांगी मुंडमालाविलंविनी | त्रिनेत्रारक्तघोराक्षी दंष्ट्राकरालभासुरा || चतुर्भुज धरा देवी अथ चाष्टभुजाधरी | दक्षिणे च फलं धृत्वा वामे च मुशलं करे || काद्यं वर धरा देवी नानालंकारमंडिता | रक्तांभोजासना देवी प्रेतस्योपरिसंस्थिता || सर्वलक्षणसंयुक्तं सर्वावयवशोभिता | मद्यमांस प्रिया देवी मदिरानंदवंदिता || पूजिता सर्वलोक्यस्तु त्रैलोक्य स चराचरं | त्रिकोणस्थे महाचक्रे संस्थिता विश्वयोगिनी || पंचकोणे महाचक्रे संस्थिता पंचदेवता | अंधनी युधिनी चैव जंभनी मोहनी तथा || स्तंभनी च समायुक्ता पूजनीया सदा बुधै | वाह्य षट्कोण चक्रं च शृंगमध्ये तु पूजिता || ईशानकोण मध्ये तु डाकिनी च प्रपूजयेत् | भक्षनी त्वच कर्माणी सर्वाणी क्षय कारिणी || अग्निकोणे च राकिन्या शत्रुरुधिरपायनी | पश्चिमे कोन मासृज्य लाकिनी मांसभक्षणी || काकिनी वायु कोणे तु अस्थि धातुं च भक्षनी | पूर्वकोणे तु शाकिन्या मेदधातुं च गृह्नति || राक्षसी कोणमासृत्य हाकिनी मर्जभक्षनी | प्. २३१ब्) याकिनी कुसुमालिन्या षटश्रुपूरमध्यगा || शुक्रधातुं च भक्षंति कायसंहारकारनी | इदं देव्या समाराध्य निग्रहानिग्रहात्मनि || पूजिता तु समाध्यात्वा सर्वसिद्धिकरी परां | मारणोच्चाटनो देवी कृष्णवर्णसुतेजसा || प्रेतस्योपरिमास्थाय भुजाष्टकं च धारिणी | खड्गचक्रं च मुशलं वलदं दक्षिणे करे || खेलंशख हलं चैव अभयं वामकंकरे | मारणे सर्वभूतानां सर्वशत्रु क्षयंकरी || पिता स्तंभादि योगेन मोहने रक्तरूपिणी | वंदनी रोदनी चैव कृष्णानलसमन्निभा || जंभके धूम्रवर्णाभा स्फटिकामुक्ति हेतवे | यस्य कार्येषु रक्तांगी संग्रामे कृष्णरूपधृक् || पूजयेद् विविधाकारा अनेकाकालमूर्तिभिः | आहवेषु च सर्वेषां निरष्टाहाररूपिणी || त्रैलोक्यो वमिता देवी उग्ररूपभयंकरी | तुण्डप्रहारसापूर्णा घोरात् घुत्कारनादिनी || चर्वयंती महाशत्रुं कटकरायमंडिता | रुधिरायान पीता च महाघूर्णित लोचना || नृत्यमान महादेवी नित्यं श्मशान वासिनी | तालने सर्वसत्वानां स्मर्णात् सर्वसंकटे || रणे राजकुले चैव चौरव्याघ्र भयादिषु | भूतप्रेतपिशाचेषु देवेषु चाप्सरादिषु || अष्टनाग कुले चैव राक्षसानां भयं तथा | प्. २३२अ) अन्ये च विविधानेतास्मरणा सर्वनश्यति | खड्गादिभिश्च शस्त्रेन अस्त्रैरन्यैप्यनेकधा || वारणा त्वत् प्रसादेन धारणा तव मंत्रणा | वंध्या च विविधै चैव निगदै सुखलादिभिः || स्मरणात् पाश मुच्यंति वंधमोक्षं च कारिणी | देवी श्रीपंचमी माता उग्ररूपा भयापहा || क्रोधेन ध्यायते देवी जपहोमार्चनं विधि | वलिप्रदाने पूजाया विशेषार्चन भैरवी || सप्तरात्र प्रयोगेन सर्वशत्रु विनाशिनी | शांति पुष्टि वसं सिद्धि मोहस्तंभन कारिणी || जंभने मारणे देवी सर्वसिद्धि प्रदायनी | पूजयेद् विविधाकारा पुष्पधूपादिभिस्तथा || पशुभिः मद्यमांसादि नैवेद्यादिकसन्ददे | पुष्पांजलि त्रयं दत्वा दण्डवत् प्रणतो मतं || ध्यान जप तथा कृत्वा नमस्तस्यै नमो नमः | वाराहि वरदे देवि सुंदरी रूपयौवनी || भक्तेभ्यो वरदे देवी सुन्दरी त्वां नमोस्तुते | महिषछागकुक्कूटा मेषादि नरघातकाः || वलिदानेन संतुष्टा संग्रामे जयदायनी | सुन्दरी कालिका देवि वाराही वरदायनी || वरदात्री महाकालि महिषासुरघातिनी | कौमारी पूजयित्वा च अष्टोत्तरशतं प्रिये || पूजयित्वा विधानेन देवि संतोषमाप्नुयात् || इति श्रीवाराहीतंत्रे * * * * * * * * * * * * * * * * * * * * *? || ३६ || यदक्षरपदभ्रष्टं मात्राहीनं च यद् भवेत् | तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरी || वाराहीतंत्रपूर्वखण्ड || श्रीवाराहीतंत्रसमाप्ति पत्र २३३ || ########### END OF FILE #######