#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00298 Uniform title: vārāhopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: vārāha upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 6, 2014 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### वाराहोपनिषत् सह नाववतु- इति शान्तिः प्रथमोऽध्यायः तत्त्वसंख्याविकल्पाः अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशसंवत्सरं तपश्चचार | तदवसाने वराहरूपी भगवान् प्रादुरभूत् | स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति | सोदतिष्ठत् | तस्मै नमस्कृत्योवाच भगवन् कामिभिर्यद्यत् कामितं तत्तत् त्वत्सकाशात् स्वप्नेऽपि न याचे | समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः | अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच | तथेति स होवाच वराहरूपी भगवान् | चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः | केचित् षट्त्रिंशत्तत्त्वानि केचित् षण्णवतीति च || १ || तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु | प्. ४६५) विवरणम् श्रीमद्वराहोपनिषद्वेद्याखण्डसुखाकृति | त्रिपान्नारायणख्यातरामचन्द्रपदं भजे || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं वराहोपनिषत् षण्णवतितत्त्वप्रकाशनपुरस्सरं ज्ञानयोगप्रकटनव्यग्रा निष्प्रतियोगिकब्रह्मप्रणवार्थतुर्यतुर्यपर्यवसन्ना विजयते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | तपोब्रह्मचर्यदेवताप्रसादादि##- ऋभुवराहयोः निदाघ-ऋभ्वोश्च प्रश्नप्रतिवचनरूपेयमाख्यायिका ब्रह्मविद्यास्तुत्यर्था | आदावाख्यायिकामवतारयति- अथेति | तपश्चचार एवमत्युग्रं तपः कृतवान् | प्रादुरभूत् स्वपुरतः आविर्भूतवान् | एवमाविर्भूय तत्कृततपःफलदित्सया स होवाच | इत्थं भगवद्वाक्यमाकर्ण्य सोदतिष्ठत् | उवाच, किमिति ? भगवन्निति | पुनरन्यत् किं वाञ्छन् तपश्चरसि इत्युक्ते समस्तेति | सर्वे त्वद्रूपाज्ञानप्रभवं बन्धं त्वद्रूपज्ञानात् मुक्तिं च आहुः | ऋभुकृतप्रश्नमङ्गीकृत्य तथेति | आदौ स्वातिरिक्ततत्त्वेयत्तापरिज्ञानाभावे न हि स्वमात्रतत्त्वे शिष्यबुद्धिः प्रसरेदिति स्वातिरिक्ततत्त्वेयत्तामाचष्टे- चतुरिति || १ || चतुर्विंशतितत्त्वानि ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्लोचनादयः || २ || कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयः क्रमात् | प्राणादयस्तु पञ्चैव पञ्च शब्दादयस्तथा || ३ || मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् | चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः || ४ || किं तदित्यत्र- ज्ञानेति || २-४ || प्. ४६६) षट्त्रिंशत्तत्त्वानि एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च | पृथिव्यापस्तथा तेजो वायुराकाश एव च || ५ || देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः | अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः || ६ || आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो विदुः | षट्त्रिंशत्तत्त्वानि कानीत्यत्र- एतैरिति || ५-६ || षण्णवतितत्त्वानि पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् || ७ || षड्भावविकृतिश्चास्ति जायते वर्धतेऽपि च | परिणामं क्षयं नाशं षड्भावविकृतिं विदुः || ८ || अशना च पिपासा च शोकमोहौ जरा मृतिः | एते षडूर्मयः प्रोक्ताः षट्कोशानथ वच्मि ते || ९ || त्वक् च रक्तं मांसमेदोमज्जास्थीनि निबोधत | कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च || १० || एतेऽरिषट्का विश्वश्च तैजसः प्राज्ञ एव च | जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् || ११ || प्रारब्धागाम्यर्जितानि कर्मत्रयमितीरितम् | वचनादानगमनविसर्गानन्दपञ्चकम् || १२ || प्. ४६७) संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा | मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् || १३ || दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः | तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः || १४ || आहत्य तत्त्वजातानां षण्णवत्यस्तु कीर्तिताः | षण्णवतितत्त्वानि कानीत्यत्र- पूर्वोक्तैरिति || ७-१४ || तत्त्वातीतभगवद्भक्तेरेव मुक्तिः पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् || १५ || वराहरूपिणं मां ये भजन्ति मयि तत्त्वतः | विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते || १६ || उक्ततत्त्वेषु त्वं कीदृशः त्वज्ज्ञानफलं किम् इत्यत आह- पूर्वोक्तेति || १५-१६ || तत्त्वज्ञानफलम् ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः | जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः || १७ || इति || विशिष्टतत्त्वज्ञानफलमाह- य इति | सांख्यपरिगृहीतषण्णवतितत्त्वानि शैवपरिगृहीतषट्त्रिंशत्तत्त्वे अन्तर्भवन्ति | तानि च वेदान्त्येकदेशिपरिगृहीतचतुर्विंशतितत्त्वेषु प्. ४६८) अन्तर्भवन्ति | पुनस्तान्यपि स्वातिरिक्तमायैकतत्त्वे अन्तर्भवन्ति, सर्वस्य मायाकार्यत्वात् | स्वातिरिक्तमायातत्त्वस्य निष्प्रतियोगिकाभावरूपतया निष्प्रतियोगिकब्रह्मतत्त्वमात्रमवशिष्यत इति सर्ववेदान्तसिद्धान्तार्थः || १७ || इतिशब्दः अध्यायसमाप्त्यर्थः || इति प्रथमोऽध्यायः द्वितीयोऽध्यायः साधनचतुष्टयसंपत्तिः ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् | वरिष्ठां ब्रह्मविद्यां त्वमधीहि भगवन् मम || १ || एवं स पृष्टो भगवान् प्राह भक्तार्तिभञ्जनः | स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् || २ || साधनं प्रभवेत् पुंसां वैराग्यादिचतुष्टयम् | नित्यानित्यविवेकश्च इहामुत्र विरागता || ३ || शमादिषट्कसंपत्तिर्मुमुक्षा तां समभ्यसेत् | एवं सामान्यतः ब्रह्मतत्त्वमवगम्य विस्पष्टं ससाधनं ब्रह्मतत्त्वं ज्ञातुमिच्छन् मुनिः भगवन्तं पृच्छतीत्याह- ऋभुरिति || १ || किं प्राहेत्यत्र आदौ साधनानुष्ठानं कर्तव्यमित्याह- स्ववर्णेति || २ || किं तदभ्यसनीयचतुष्टयसाधनमित्यत्राह- नित्येति | ब्रह्मैव नित्यं ब्रह्मातिरिक्तमनित्यम् इति नित्यानित्यविवेकः | प्. ४६९) इह स्रक्चन्दनवनितादिषु अमुत्र स्वर्गादिभोगेषु च वान्ताशनमूत्रपुरीषादिष्विव इच्छाराहित्यं इहामुत्रविरागता || ३ || शमः दमः उपरतिः तितिक्षा श्रद्धा समाधानं चेति शमादिषट्कसंपत्तिः | अन्तःकरणनिग्रहः शमः, बाह्यकरणनिग्रहो दमः, उपरतिः सर्वकर्मसंन्यासः, शीतोष्णादिद्वन्द्वसहनं तितिक्षा, श्रुत्याचार्यवाक्यविश्वासः श्रद्धा, चित्तैकाग्रता समाधानम् | स्वातिरिक्तभ्रमतो मोक्तुमिच्छा मुमुक्षा | इत्थं साधनचतुष्टयाभ्यासतो जितेन्द्रियो भवतीत्यर्थः || ब्रह्मात्मज्ञान्येव कृतकृत्यः एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् || ४ || विहाय साक्षिचैतन्ये मयि कुर्यादहंमतिम् | दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम् || ५ || ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना | अतिवर्णाश्रमं रूपं सच्चिदानन्दलक्षणम् || ६ || यो न जानाति सोऽविद्वान् कदा मुक्तो भविष्यति | ब्रह्मातिरिक्तत्यागपूर्वकं ब्रह्ममात्रमतिं कुर्यादित्याह- एवमिति || ४ || एवं ज्ञानसाधनब्राह्मणादिदेहमाश्रित्य यः स्वात्मतत्त्वं न जानाति स कदा मुक्तो भवति ? न कदेत्याह- दुर्लभमिति || ५ || वेदान्तश्रवणादिनिष्पन्नं महाविष्णोः व्यक्तलिङ्गं पारिव्राज्यम् अव्यक्तलिङ्गं अतिवर्णाश्रममित्यर्थः || ६ || आत्मनः सुखरूपत्वम् अहमेव सुखं नान्यदन्यच्चेन्नैव तत् सुखम् || ७ || प्. ४७०) अमदर्थं न हि प्रेयो मदर्थं [तु] [तत्] स्वतःप्रियम् | परप्रेमास्पदतया मा न भूवमहं सदा || ८ || भूयासमिति यो द्रष्टा सोऽहं विष्णुर्मुनीश्वर | स्वात्मन एव सर्वप्रेमास्पदत्वमाह- अहमिति | अहं प्रत्यगेव पराभेदेन परमसुखं ब्रह्म भवामि नान्यत्, ब्रह्मातिरिक्तान्यस्य मृग्यत्वात् | वस्तुतो यद्यन्यत् तदा तद्ब्रह्म निष्प्रतियोगिकसुखं नैव भवति, यो वै भूमा तत् सुखं इति भूमब्रह्मणो निष्प्रतियोगिकसुखस्वरूपमात्रतावादिश्रुतेः || ७ || अत एव यत् मदर्थं तदेव सुखम्, अमदर्थं तु न हि सुखं भवितुर्मर्हति | मदर्थमपि न हि प्रियं भवतीति चेन्न ; तत् स्वत एव प्रियं भवतीत्यर्थः | स्वात्मानं सुखरूपतया यो जानाति सोऽहं विष्णुरित्याह- परेति | अहं निर्विशेषसुखरूपतया मा भूवमिति न, किं तु भूयासमेवेत्यर्थः || ८ || आत्मनः स्वयंप्रकाशत्वम् न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना || ९ || स्वप्रकाशं तमात्मानमप्राकाशः कथं स्पृशेत् | स्वयं भातं निराधारं ये जानन्ति सुनिश्चितम् || १० || ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः | सत्तामात्रत्वात् यत् सन्मात्रं तदेव स्वयंप्रकाशं ब्रह्मेत्याह- नेति | न प्रकाशोऽहमिति यत्प्रकाशतः पश्यति तत्स्वरूपं प्रकाशमात्रम् || ९ || तस्याप्रकाशग्रासत्वात् अप्रकाशस्पर्शो न युज्यत इत्यर्थः | एवं स्वयंप्रकाशमात्मानं ये मन्यन्ते ते कृतकृत्या इति मन्येऽहमित्याह- स्वयमिति || १० || आत्मनः मायातत्कार्यविलक्षणत्वम् स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः || ११ || प्. ४७१) न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः | अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् || १२ || स्वयंप्रकाशमात्मानं नैव मां स्प्रष्टुमर्हति | परमार्थदृष्ट्या स्वातिरिक्तं न किंचिदस्ति | यदि स्वाज्ञदृष्ट्या स्यात् तदा स्वज्ञदृष्ट्या तद्विलक्षणोऽस्मीत्याह- स्वेति || ११ || स्वातिरिक्तविलक्षणमपि त्वां स्वातिरिक्तं स्पृशेदित्यत आह- अज्ञानेति || १२ || ब्रह्मात्मज्ञानिनः ब्रह्मभावः सर्वसाक्षिणमात्मानं वर्णाश्रमविलक्षणम् || १३ || ब्रह्मरूपतया पश्यन् ब्रह्मैव भवति स्वयम् | भासमानमिदं सर्वं भानरूपं परं पदम् || १४ || पश्यन् वेदान्तमानेन सद्य एव विमुच्यते | देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् || १५ || आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते | प्रत्यक्प्रकाशमात्मानं ब्रह्मेति यो जानाति स प्रत्यगभिन्नं ब्रह्मैव भवतीत्याह- सर्वेति || १३ || भानातिरेकेण भास्यं नेति ज्ञानी भास्यभावतो विमुच्यत इत्याह- भासमानमिति || १४ || एवं सम्यग्ज्ञानी स्वयमेव मुच्यत इत्याह- देहेति || १५ || आत्मज्ञानिनः कर्मबन्धाभावः सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् || १६ || प्. ४७२) ब्रह्मानन्दं सदा पश्यन् कथं बध्येत कर्मणा | त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् || १७ || त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः | स्वात्मदर्शिनः कर्मबन्धासंभवमाह- सत्येति || १६ || स्वात्मनः कर्मबन्धाभावे हेतुः असक्तत्वमित्याह- त्रिधामेति || १७ || अज्ञानिज्ञानिनोः दर्शनस्थितिवैलक्षण्यम् सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते || १८ || अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् | प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् || १९ || एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् | तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् || २० || विदित्वा स्वात्मनो रूपं न बिभेति कुतश्चन | चिन्मात्रं सर्वगं नित्यं संपूर्णं सुखमव्ययम् || २१ || साक्षाद्ब्रह्मैव नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः | अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् || २२ || अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् | ज्ञानचक्षुः स्वात्मानं सर्वासक्तं पश्यति, स्वाज्ञानचक्षुस्तु दिवान्धवत् भास्वन्तमात्मानं न पश्यतीत्याह- सर्वगमिति || १८ || यादृग्ब्रह्मज्ञानी तादृग्ब्रह्मैव भवतीत्याह- प्रज्ञानमिति || १९ || ब्रह्मज्ञानी कुतश्चित् न बिभेदीत्याह- तदिति || २० || निर्भयब्रह्मविदां स्थितिः केत्यत आह- चिन्मात्रमिति || २१ || स्वज्ञगृहीतं स्वाज्ञो विपरीतं पश्यतीत्याह- अज्ञस्येति || २२ || प्. ४७३) आत्मनि वस्तुतो बन्धमुक्त्यभावः अनन्ते सच्चिदानन्दे मयि वाराहरूपिणि || २३ || स्थितेऽद्वितीयभावः स्यात् को बन्धः कश्च मुच्यते | स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् || २४ || नैव देहादिसंघातो घटवद् दृशिगोचरः | स्वात्मनोऽन्यतया भातं चराचरमिदं जगत् || २५ || स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय | स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः || २६ || अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् | ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् || २७ || पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् | मत्स्वरूपपरिज्ञानात् कर्मभिर्न स बध्यते || २८ || यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् | परमार्थैकविज्ञानं सुखात्मानं स्वयंप्रभम् || २९ || स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः | स धीरः स तु विज्ञेयः सोऽहं तत्त्वमृभो भव || ३० || अतः प्रपञ्चानुभवः सदा न हि स्वरूपबोधानुभवः सदा खलु | इति प्रपश्यन् परिपूर्णवेदनो न बन्धमुक्तो न च बद्ध एव तु || ३१ || प्. ४७४) वस्तुतो मम निष्प्रतियोगिकाद्वितीयत्वेन न कोऽपि बद्धो मुक्तो वा भवितुमर्हतीत्याह- अनन्त इति || २३ || अद्वितीयभावेन को बन्धः | चिन्मात्रमेव चिन्मात्रम् इति श्रुत्यनुरोधेन स्वस्वरूपमेव चिन्मात्रं न अन्यदित्याह- स्वस्वरूपमिति || २४ || स्वातिरिक्तदेहादिकं स्वमात्रमिति चिन्तयेत्याह- स्वात्मन इति || २५ || स्वातिरिक्तं नास्त्येव | यद्यस्तीति भ्रान्तिस्तदा तदप्यस्तित्वं ब्रह्मेत्याह- स्वेति || २६ || स्वज्ञानी स्वतिरिक्तं स्वातिरिक्तत्वेन न पश्यति, किंतु स्वमात्रतया पश्यतीत्याह- ब्रह्मेति || २७ || कर्मबन्धे सति कथमेवं पश्यतीत्यत्र आह- मदिति || २८ || शरीरादौ सति कथमेवं न बध्यते इत्याशङ्क्य तद्विलक्षणत्वेन आत्मानं यः पश्यति सोऽहमेव स्यामित्याह- य इति || २९-३० || एवं मद्भावापन्नस्य स्वात्मानुभूतिं विनानात्मप्रपञ्चानुभूतिः नास्ति | एवं स्वात्मानुभूतियोगिनो बन्धमोक्षविभ्रमो नास्तीत्याह- अत इति || ३१ || बन्धनिवृत्तये ब्रह्मात्मानुसंधानम् स्वस्वरूपानुसंधानान्नृत्यन्तं सर्वसाक्षिणम् | मुहूर्तं चिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते || ३२ || सर्वभूतान्तरस्थाय नित्यमुक्तचिदात्मने | प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः || ३३ || त्वं वाहमस्मि भगवोऽहं वै त्वमसि देवते | तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने || ३४ || नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च | किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् || ३५ || प्. ४७५) यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा | अन्तःअस्ङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् | सर्वसङ्गनिवृत्तात्मा स मामेति न संसयः || ३६ || अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव सुनारीं त्यक्तकामो विरागी | विषमिव विषयादीन् मन्यमानो दुरन्तान् जगति परमहंसो वासुदेवोऽहमेव || ३७ || इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते | अहं सत्यं ब्रह्म मत्तः किंचिन्न विद्यते || ३८ || बन्धनिवृत्तिहेतुः किमित्याशङ्क्य मच्चिन्तनमित्याह- स्वेति || ३२ || प्रत्यगभिन्नब्रह्मानुसंधानप्रकारमाह- सर्वेति || ३३-३४ || स्वस्याविक्रियतां परिपूर्णतामप्याह- किं करोमीति || ३५ || तव विभुत्वेन सर्वेऽपि त्वामेव प्रतिपद्यन्ते इत्यत्र- मां नित्यं प्राप्ता अपि स्वातिरिक्तसङ्गिनो मां नाप्नुवन्ति | तत्र यः कश्चित् स्वान्तर्बाह्यसङ्गविरलो भवति स एव मामेतीत्याह- अन्तरिति || ३६ || स्वातिरिक्तसङ्गत्यागोपायं तज्ज्ञानफलं चाह- अहिरिति || ३७ || अहमेव वासुदेवः सत्यं, मदतिरिक्तम् असत्यं न विद्यते, मदतिरिक्तस्य मृग्यत्वादित्याह- इदमिति || ३८ || ब्रह्माप्तिसाधनभूतस्योपवासस्य निर्वचनम् उप समीपे यो वासो जीवात्मपरमात्मनोः | उपवासः स विज्ञेयो न तु कायस्य शोषणम् || ३९ || कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् | वल्मीकताडनादेव मृतः किं नु महोरगः || ४० || प्. ४७६) सत्यब्रह्माप्त्युपायः क इत्यत्र आह- उपेति || ३९-४० || जीवन्मुक्तिसाधनमपरोक्षज्ञानम् अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् | अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते || ४१ || यस्मिन् काले स्वमात्मानं योगी जानाति केवलम् | तस्मात् कालात् समारभ्य जीवन्मुक्तो भवेदसौ || ४२ || अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् | परोक्षापरोक्षज्ञानस्वरूपमाह- अस्तीति || ४१ || अपरोक्षज्ञानसमकालं जीवन्मुक्तो भवतीत्याह- यस्मिन्निति || ४२ || सदा अहं ब्रह्मेति ज्ञानं मोक्षहेतुरित्याह- अहमिति || बाह्यान्तश्चिन्तात्यागविधिः द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च || ४३ || ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते | बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका | सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो || ४४ || देहादावहंकारममकारभावाभावौ बन्धमोक्षहेतू भवतः इत्याह- द्वे इति || ४३ || अहंभावाद्यनुदयहेतुः बाह्यान्तश्चिन्तात्याग एवेत्याह- बाह्येति || ४४ || भगवच्चिन्तनमेव सर्वचिन्तात्यागोपायः संकल्पमात्रकलनेन जगत्समग्रं संकल्पमात्रकलने हि जगद्विलासः | प्. ४७७) संकल्पमात्रमिदमुत्सृज निर्विकल्प- माश्रित्य मामकपदं हृदि भावयस्व || ४५ || मच्चिन्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् | मदेकपरमो भूत्वा कालं नय महामते || ४६ || चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च | चित्त्वं चिदहमेते च लोकाश्चिदिति भावय || ४७ || रागं निरागतां नीत्वा निर्लेपो भव सर्वदा | चिन्तामूलसंकल्पमुन्मूल्य निर्विकल्पं माम् आश्रयेत्याह- संकल्पेति || ४५ || संकल्पत्यागोपायमाह- मदिति || ४६ || त्वच्चिन्तनं कीदृशम् इत्यत्र सर्वं चिन्मात्रमिति चिन्तनमित्याह- चिदिति || ४७ || स्वतिरिक्तविषये रागम् || सर्वकल्पनातीतं ब्रह्मैव चिन्तनीयम् अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा || ४८ || श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम् | अनात्मतां परित्यज्य निर्विकारो जगत्स्थितौ || ४९ || एकनिष्ठतयान्तःस्थसंविन्मात्रपरो भव | घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ || ५० || एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ | या च प्रागात्मनो मे मा तथान्ते च तिरस्कृता || ५१ || प्. ४७८) ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः | मायातत्कार्यविलये नेश्वरत्वं न जीवता || ५२ || ततः शुद्धश्चिदेवाहं व्योमवन्निरुपाधिकः | जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् || ५३ || ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता | जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः || ५४ || त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः | लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः || ५५ || तस्मान्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः | कार्या किं तु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् || ५६ || अद्वितीयब्रह्मतत्त्वं न जानन्ति यथा यथा | भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् || ५७ || कर्मलेपस्यानिवार्यत्वात् निर्लेपत्वं कुतो मे स्यादित्यत आह- अज्ञानेति || ४८ || अनात्मनि सति स्वात्ममात्रज्ञानं कथमुदेतीत्यत आह##- स्यादित्यत आह- घटेति || ५० || जीवेशादिकल्पनामूलमायायाः सत्त्वात् निर्मायभावः कथं मे स्यात् इत्यत्र मायामूलविचारतो निर्मायं ब्रह्म प्रसीदतीत्याह- या चेति || ५१-५२ || उक्तलक्षणलक्षितजीवेशादिनानाकल्पनां हित्वा निर्विकल्पाद्वैतब्रह्मैव सदा चिन्त्यमित्याह- जीवेति | जीवेश्वरादिरूपेण इत्यादि निश्चलेन विचार्यताम् इत्यन्तं महोपनिषदि व्याख्यातम् || ५३-५६ || एवम् अखण्डैकरसब्रह्माज्ञानिनो भ्रान्ता एवेत्याह- अद्वितीयेति || ५७ || प्. ४७९) प्रत्यगभिन्नब्रह्म सर्वावस्थातीतम् उत्तमाधमभावश्चेत् तेषां स्यादस्ति तेन किम् | स्वप्नस्थराज्यभिक्षाभ्यां प्रबुद्धः स्पृश्यते खलु || ५८ || अज्ञाने बुद्धिविलये निद्रा सा मण्यते बुधैः | विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् || ५९ || बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते | विकारादिविहीनत्वाज्जागरो मे न विद्यते || ६० || सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते | संचारधर्मरहिते मयि स्वप्नो न विद्यते || ६१ || शिवजीवाद्युत्तमाधमभेदे सति कथम् अद्वितीयब्रह्मज्ञानम् उदेतीत्यत्र सदृष्टान्तं तन्निराकरोति | उत्तमेति || ५८ || अवस्थात्रयावृतस्य तुर्यानन्दानुभवः कुत इत्यत्र आह- अज्ञान इति | निद्रा सुषुप्तिः || ५९-६१ || निर्विशेषब्रह्मज्ञानेन ब्रह्मभावः सुषुप्तिकाले सकले विलीने तमसावृते | स्वरूपं महदानन्दं भुङ्क्ते दृश्यविवर्जितः || ६२ || अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् | स एव सक्षाद्विज्ञानी स शिवः स हरिर्विधिः || ६३ || एवं स्वातिरिक्तप्रपञ्चसुषुप्तिकाले || ६२ || चितः सर्वावस्थानुस्यूतज्ञानी चिदेव भवतीत्याह- अविशेषेणेति || ६३ || प्. ४८०) जगद्विलापनपुरस्सरं ब्रह्मैकत्वचिन्तनम् दीर्घस्वप्नमिदं यत्तद्दीर्घं वा चित्तविभ्रमम् | दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् | सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् || ६४ || आरोपितस्य जगतः प्रविलापनेन चित्तं मदात्मकतया परिकल्पितं नः | शत्रून् निहत्य गुरुषट्कगणान्निपातात् गन्धद्विपो भवति केवलमद्वितीयः || ६५ || अवस्थात्रयसंसृतेः चित्तविकल्पतामाह- दीर्घेति | दुःखसागरं विद्धीत्यर्थः | यत एवम् अतः तच्छान्तये सुप्तेरुत्थाय || ६४ || केनोपायेन ब्रह्मैकमिति चिन्त्यभित्यत आह- आरोपितस्येति | स्वाज्ञदृष्ट्या आरोपितस्य प्रविलापनेन विलापनाधिष्ठानमवशिष्यते | तत्राखण्डाकारवृत्तिमत् चित्तं मत्स्वरूपमेव भवतीत्यर्थः | शत्रून् सच्चिदानन्दावरणान् कामाद्यरिषड्वर्गान् वा गुरुषट्कगणात् गणेन शमादिषट्गुणासिना निहत्य निर्मूल्य इत्थं शत्रुनिपातात् निपातेन आत्मा गन्धद्वीपो मत्तगज इव केवलम् अद्वितीयः स्वात्मा अवशिष्यत इत्यर्थः || ६५ || प्रत्यगभिन्नब्रह्मविषयको विद्वदनुभवः अद्यास्तमेतु वपुराशशितारमास्तां कस्तावतापि मम चिद्वपुषो विशेषः | कुम्भे विनश्यति चिरं समवस्थिते वा कुम्भाम्बरस्य न हि कोऽपि विशेषलेशः || ६६ || प्. ४८१) अहिनिर्ल्वयिनी सर्पनिर्मोको जीववर्जितः | वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते || ६७ || एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते | प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके | नेति नेतीति रूपत्वादशरीरो भवत्ययम् || ६८ || शास्त्रेण नश्येत् परमार्थदृष्टिः कार्यक्षमं नश्यति चापरोक्ष्यात् | प्रारब्धनाशात् प्रतिभाननाश एवं त्रिधा नश्यति चात्ममाया || ६९ || ब्रह्मत्वे योजिते स्वस्मिन् जीवभावो न गच्छति | अद्वैते बोधिते तत्त्वे वासना विनिवर्तते || ७० || आरब्धान्ते देहहानिर्मायेत्थं क्षीयतेऽखिला | अस्तीत्युक्ते जगत् सर्वं सद्रसं ब्रह्म तद्भवेत् || ७१ || भातीत्युक्ते जगत् सर्वं भानं ब्रह्मैव केवलम् | मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् | जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः || ७२ || अज्ञानमेव न कुतो जगतः प्रसङ्गो जीवेशदेशिकविकल्पकथातिदूरे | एकान्तकेवलचिदेकरसस्वभावे ब्रह्मैव केवलमहं परिपूर्णमस्मि || ७३ || प्. ४८२) बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुषितात्मतेजसि | स्नानदानयजनादिकाः क्रिया मोचनावधि वृथैव तिष्ठते || ७४ || मद्भावापन्नविद्वदनुभव एवं भवतीत्याह- अद्येति | तत्र दृष्टान्तस्तु कुम्भे विनश्यति || ६६ || विदुषोऽपि शरीरदर्शनात् अशरीरत्वं कुत इत्याशङ्क्य अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति श्रुत्यनुरोधेन स्वाज्ञविकल्पितशरीरत्रये स्वात्मात्मीयाभिमतिकैवल्यमेव अशरीरत्वमिति सदृष्टान्तमाह- अहिनिर्ल्वयिनीति || ६७ || विद्वान् एवम् || ६८ || शरीरत्रयहेतुमायायां सत्यां कथम् अशरीरत्वम् इत्याशङ्क्य शास्त्रजन्यज्ञानविज्ञानसम्यक्तत्त्वज्ञानतो ब्रह्मातिरेकेण माया नास्तीति माया निर्मायं पदं भजति, तत्समकालं मायाकार्यागाम्यादिकर्मत्रयमपि सवासनं क्षीयते, ततो विद्वान् अशरीरब्रह्ममात्रतया अवशिष्यत इत्याह- शास्त्रेणेति | ब्रह्मैव सत्यं ब्रह्मातिरिक्तं न किंचिदस्ति इति शास्त्रजन्यज्ञानात् मायायाः परमार्थदृष्टिः नश्यति | तेन तद्बीजांशप्रभवभ्रान्तिजतादात्म्यास्पदागामिकर्मणोऽश्लेषो भवति | तदा स्वातिरिक्तं व्यावहारिकं प्रतिभाति | पूर्वाभ्यस्तशास्त्रजन्यज्ञानमनुभवारूढं चेत् विज्ञानपदं भजति तेन यत् कर्यक्षमं व्यावहारिकं तत् नश्यति | तेन स्वातिरिक्तं प्रातिभासिकं भाति | तेन सहजतादात्म्यास्पदसंचितकर्मापि नश्यति | विज्ञानिनः प्रारब्धकर्म भोगेन क्षीयते, न हि तदानीं नश्यति, आरब्धत्वात् | विज्ञानं दृढानुभवकलितं चेत् सम्यग्ज्ञानपदं भजति | तेन प्रतिभासिकतया भातं स्वातिरिक्तं शून्यभावं भजति | तेन कर्मजदात्म्यास्पदमायास्थूलांशारब्धं कर्मापि नश्यति | प्रारब्धनाशसमकालं मायायाः शून्यतया प्रतिभासोऽपि नश्यति | एवं माया त्रेधा विनश्यतीत्यर्थः | यदा स्वातिरिक्तसामान्यमस्ति नास्तीति विभ्रमापह्नवो भवति एवं स्वातिरिक्तापह्नववृत्तिः तत्त्वज्ञानपदं भजति | तेन ब्रह्म निष्प्रतियोगिकस्वमात्रमिति विद्वान् अवशिष्यत इति भावः || ६९ || प्. ४८३) उक्तार्थमेव पुनः दृढयति- ब्रह्मत्व इति | केवलशास्त्रजन्य-ज्ञानेन ब्रह्मत्वे योजिते || ७० || आत्यन्तिकदेहाभिमानवृत्तिः माया | अस्ति भाति प्रियमिति यद्यत् व्यवहृतं तत् सच्चिदानन्दं ब्रह्मेत्याह- अस्तीति || ७१ || यद्यत् प्रियं तदेव ब्रह्म सुखमिति बोध्यमित्यत्र- अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् | आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् || इति श्रुतेः | नामरूपसद्वितीयं ब्रह्मेत्यत आह- मरुभूमाविति || ७२ || कथं पुनः चिन्मात्रं निष्प्रतियोगिकं, जीवेशादिविकल्पजुष्टजगतः सत्त्वादित्यत आह- अज्ञानमिति | जगतः स्वाज्ञानकार्यत्वात् स्वज्ञानेन स्वाज्ञाननाशे तत्कार्यं जगत् कुतः सत्पदमर्हतीत्यत्र- कारणाभावतः कार्यं कथं सिद्धिपदं भजेत् इति परमाक्षरोक्तेः || ७३ || स्वातिरिक्तकलनामुक्ते ब्रह्मणि मूढाः स्वातिरिक्तं कल्पयित्वा तच्छान्तये मुधा व्याप्रियन्त इत्याह- बोधेति || ७४ || समाधिसाधनं नादानुसंधानम् सलिले सैन्धवं यद्वत् साम्यं भजति योगतः | तथात्ममनसोरैक्यं समाधिरिति कथ्यते || ७५ || दुर्लभोविषयत्यागो दुर्लभं तत्त्वदर्शनम् | दुर्लभा सहजावस्था सद्गुरोः करुणां विना || ७६ || उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः | योगिनः सहजावस्था स्वयमेव प्रकाशते || ७७ || रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः | रसो बद्धो मनो बद्धं किं न सिध्यति भूतले || ७८ || प्. ४८४) मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् | बद्धं खेचरतां धत्ते ब्रह्मत्वं रसचेतसि || ७९ || इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः | मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय || ८० || निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् | उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः | स्वावगम्यो लयः कोऽपि मनसां वागगोचरः || ८१ || पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि ब्रह्मावलोकनधियं न जहाति योगी | संगीतताललयवाद्यवशं गतापि मौलिस्थकुम्भपरिरक्षणधीर्नटीव || ८२ || सर्वचिन्तां परित्यज्य सावधानेन चेतसा | नाद एवानुसंधेयो योगसाम्राज्यमिच्छता || ८३ || इति || स्वातिरिक्तासंभवप्रबोधसिद्धं ब्रह्मास्मीति ब्रह्ममनसोरेकत्वं समाधिरिति सदृष्टान्तमाह- सलिल इति || ७५ || एवं तत्त्वदर्शनं गुरुकटाक्षतो भवतीत्याह- दुर्लभः इति || ७६ || कस्येयं सहजावस्था जायत इत्यत आह- उत्पन्नेति | ज्ञानसहकृतयोगाभ्यासपाटवेन उत्पन्नकुण्डलिनीशक्तिबोधस्य, ब्रह्मातिरिक्तं न किंचिदस्ति इत्यजडक्रियाज्ञानेच्छाशक्तिबोधस्य, सम्यग्ज्ञानिनो वा शक्तिबोधस्य || ७७ || ब्रह्मातिरेकेण मनसः सत्त्वं ये मन्यन्ते तद्दृष्टिमाश्रित्य प्. ४८५) मनसः चलनादिः बन्धमुक्तिहेतुरिति सदृष्टान्तमाह- रसस्येति || ७८-७९ || क्रमेण इन्द्रियमनःप्राणादिकं विलाप्य तल्लयाधिकरणं ब्रह्मास्मीत्याश्रयेत्याह- इन्द्रियाणामिति || ८० || कीदृशोऽयं लय इत्यत्र निश्चेष्ट इति | किंच- उच्छिन्नेति | लयशब्देन लयाधिकरणं ब्रह्मोच्यते इत्यर्थः || ८१ || विदुषो विषयेषु सत्सु तल्लयाधिकरणब्रह्मदृष्टिः कुत इत्यत्र सदृष्टान्तमुत्तरमाह- पुङ्खेति || ८२ || स्वातिरिक्तभ्रमासंभवप्रबोधसिद्धं परमात्मा स्वावशेषधिया अनुसंधेय इति अध्यायार्थमुपसंहरति- सर्वेति | योगसाम्राज्यं कैवल्यमिच्छता स्वातिरिक्तावकाशं न ददातीति नदः स एव नादः परमात्मैव निष्प्रतियोगिकस्वमात्रमित्यनुसंधेयः || ८३ || इतिशब्दोऽध्यायपरिसमाप्त्यर्थः || इति द्वितीयोऽध्यायः तृतीयोऽध्यायः अद्वितीयपरमात्मानुभवः न हि नानास्वरूपं स्यादेकं वस्तु कदाचन | तस्मादखण्ड एवास्मि यन्मदन्यन्न किंचन || १ || दृश्यते श्रूयते यद्यद् ब्रह्मणोऽन्यन्न तद्भवेत् | नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् | सत्यं ज्ञानमनन्तं यत् परं ब्रह्म भवामि तत् || २ || आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं घनचित्प्रकाशः | प्. ४८६) मेघा यथा व्योम न च स्पृशन्ति संसारदुःखानि न मां स्पृशन्ति || ३ || सर्वं सुखं विद्धि सुदुःखनाशात् सर्वं च सद्रूपमसस्यनाशात् | चिद्रूपमेव प्रतिभानयुक्तं तस्मादखण्डं मम रूपमेतत् || ४ || न हि जनिर्मरणं गमनागमौ न च मलं विमलं न च वेदनम् | चिन्मयं हि सकलं विराजते स्फुटतरं परमस्य तु योगिनः || ५ || कथं त्वं निष्प्रतियोगिकपरमात्मासि स्वप्रतियोगिनानात्वस्य विद्यमानत्वादित्याशङ्कमानमालक्ष्य भगवान् स्वस्य निष्प्रतियोगिकाद्वितीयत्वस्थापनाय स्वानुभवं प्रकटयति- न हीति | यस्मादेवं तस्मात् || १ || स्वान्यत् दृश्यते श्रूयते चेदित्यत्राह- दृश्यत इति | कीदृशं ब्रह्म त्वं भवसीत्यत्राह- नित्येति || २ || जीववद्देहधारणसामान्यात् त्वमपि संसारदुःखी भवसीत्यत आह- आनन्देति || ३ || सच्चिदानन्दाखण्डं मां विद्धीत्याह- सर्वमिति || ४ || निर्विशेषज्ञानयोगिनो मद्रूपमेव विभातीत्याह- न हि जनिरिति | योगी स्वात्मनो मम जनिमृतिगमनागमनादिविक्रिया नास्तीति मत्वा सर्वत्र मामेव निष्प्रतियोगिकचिन्मात्रं पश्यतीत्यर्थः || ५ || चिन्मात्रभावापत्तिसाधनमौनविधिः सत्यचिद्घनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् | यत् पदं विमलमद्वयं शिवं तत् सदाहमिति मौनमाश्रय || ६ || प्. ४८७) जन्ममृत्युसुखदुःखवर्जितं जातिनीतिकुलगोत्रदूरगम् | चिद्विवर्तजगतोऽस्य कारणं तत् सदाहमिति मौनमाश्रय || ७ || पूर्णमद्वयमखण्डचेतनं विश्वभेदकलनादिवर्जितम् | अद्वितीयपरसंविदंशकं तत् सदाहमिति मौनमाश्रय || ८ || तवेश्वरत्वेन निष्प्रतियोगिकचिन्मात्रत्वं युज्यते | ममानीशत्वेन तद्भावापत्त्युपायमादिशेति पृच्छमानमालक्ष्य भगवान् स्वभावापत्त्युपायमादिशति- सत्येति || ६-८ || भगवतः सच्चिदानन्दत्वम् केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः | विद्यमानत्वमस्त्येतत् सद्रूपत्वं सदा मम || ९ || निरुपाधिकनित्यं यत् सुप्तौ सर्वसुखात् परम् | सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम || १० || एवं मुनेः स्वभावापत्त्युपायमुपदिश्य तद्दार्ढ्याय स्वात्मनः सच्चिदानन्दत्वं साधनयति- केनेति || ९-१० || भगवद्भक्तिरेव मोक्षसाधनम् दिनकरकिरणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेति | घनतरभवकारणं तमो य- द्धरिदिनकृत्प्रभया न चान्तरेण || ११ || प्. ४८८) मम चरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः | न हि मरणप्रभवप्रणाशहेतु- र्मम चरणस्मरणादृतेऽस्ति किंचित् || १२ || आदरेण यथा स्तौति धनवन्तं धनेच्छया | तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् || १३ || मद्भावापत्तिहेतुमद्भक्तिं विना कोऽपि न मुच्यत इति सदृष्टान्तमुपपादयति- दिनकरेति | दिनकृत्प्रभया विनाशमेति || ११-१२ || कश्चिद्राजसेव्यपि दारिद्र्यतो मुच्यते तथा मामुपास्य को वा स्वातिरिक्तभ्रमतः न मुच्यत इत्याह- आदरेणेति || १३ || ईश्वरस्य सर्वसमत्वम् आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु | तथा मत्संनिधावेव समस्तं चेष्टते जगत् || १४ || शुक्तिकायां यथा तारं कल्पितं मायया तथा | महदादि जगन्मायामयं मययेव केवलम् || १५ || चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे | अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् || १६ || विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् | तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि || १७ || प्. ४८९) न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृतिः | न चित्तं नैव माया च न च व्योमादिकं जगत् || १८ || न कर्ता नैव भोक्ता च न च भोजयिता तथा | केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः || १९ || स्वाज्ञादिलोकप्रवृत्तिनिवृत्तिनिमित्तमप्यहमेवेत्याह- आदित्येति || १४ || मदतिरिक्तं मययेव विकल्पितम् | विषमेष्वपि समोऽहमेवेत्याह- शुक्तिकायामिति || १५-१६ || मदज्ञानविकल्पितं मज्ज्ञानतो न भातीत्याह- विनष्टेति | विनष्टदिग्भ्रमस्यापि भ्रमापाये || १७ || तवापि जगदन्तःपातिदेहेन्द्रियादिसत्त्वात् कथं जगत् न भातीत्युच्यते इत्यत्राह- न देह इति || १८-१९ || चित्तमेव संसारकारणम् जलस्य चञ्चलादेव चञ्चलत्वं यथा रवेः | तथाहंकारसंबन्धादेव संसार आत्मनः || २० || चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् | हन्त चित्तमहत्तायां कैषा विश्वासता तव || २१ || क्व धनानि महीपानां ब्राह्मणः क्व जगन्ति वा | प्राक्तनानि प्रयातानि गताः सर्गपरंपराः || २२ || कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् | स चाध्यात्माभिमानोऽपि विदुषोऽप्यासुरत्वतः || २३ || विदुषोऽप्यासुरश्चेत् स्यान्निष्फलं तत्त्वदर्शनम् | प्. ४९०) तव ईश्वरस्य देहादिवैरल्यमस्तु वस्तुतो निर्विशेषब्रह्मरूपत्वात् | जीवानां बन्धमोक्षहेतू कावित्यत्र अतस्मिंस्तद्भावातद्भावावित्याह- जलस्येति || २० || एवं संसारमूलं किम् इत्यत्र चित्तमित्याह- चित्तेति | संसारमूलचित्तस्य सत्त्वात् तद्विकल्पितं सर्वं सत्यम् इति मन्यमानं प्रत्याह- हन्तेति | चित्ततत्कार्यस्य भ्रान्त्युज्जीवकत्वात् तदपाये यथापूर्वमदर्शनात् चित्ततत्कार्यकलना नास्त्येवेत्यर्थः || २१-२२ || विदुषोऽप्येवं सत्यवत् भातं चेत् तस्य वैदुष्यं नास्तीत्याह- स चेति | यः अनात्मनि आत्मधीप्रभवः अविद्वद्गोचरः स चाध्यात्माभिमानः देहाभिमानः स्वान्यत्र ममतापि विदुषोऽप्यनर्थकर एव | कुतः ? देहादावात्मात्मीयाभिमानस्य आसुरत्वतः आसुरकृत्यत्वात् || २३ || अविदुष इव विदुषोऽपि आसुरश्चेत् तदार्जिततत्त्वदर्शनं निष्फलमेव स्यात् | तथा च श्रुतिः- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः | नचास्ति किंचित् कर्तव्यमस्ति चेन्न स तत्त्ववित् || इति || अनात्मनि रागाद्यनुभवो विद्वल्लक्षणम् उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना || २४ || यथा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् | यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः || २५ || तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् | अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति || २६ || द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर | नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् || २७ || आत्मनात्मनि संतृप्तो नाविद्यामनुधावति | ये केचन जगद्भावास्तानविद्यामयान् विदुः || २८ || प्. ४९१) कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो विमज्जति | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः || २९ || परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन | सर्वेच्छाकलना शान्तावात्मलाभोदयाभिधः || ३० || स कथं सिद्धिवाञ्छायां कथमर्हत्यचित्तकः || इति || अविद्वत्सेव्यासुरभावस्य विद्वद्दशासमकालमेव ज्ञानाग्निग्धत्वात् भस्मावशेषितस्य पुनः प्ररोहासंभवमाह- उत्पाद्येति || २४ || परदोषान्वेषणवत् स्वासुरभावोदितश्चेत् ततः को वा न मुच्यते इत्याह- यथेति || २५ || अनात्मज्ञोऽणिमादिसिद्धिं तदुचितसाधनतो गच्छति | आत्मज्ञस्तु तदनात्मकार्यं मत्वा तत्रोपरमते | तस्य तदिच्छैव नोदेतीत्याह- अनात्मविदिति || २६-२७ || महान्तस्तु ये केचन जगद्भावाः सिद्धिरूपाः तान् || २८ || द्रव्यादयः सिद्धिदा अपि ब्रह्मभावापत्तौ नोपकुर्वन्तीत्याह- द्रव्येति || २९ || जीवन्मुक्तस्य ब्रह्मातिरेकेण वाञ्छनीयाभावान्न किमपि अयं वाञ्छतीत्यर्थः || ३० || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति तृतीयोऽध्यायः चतुर्थोऽध्यायः १. ब्राह्मणम् सप्तभूमिकासु जीवन्मुक्तिभूमिकाचतुष्टयम् अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति || १ || तथेति स होवाच | सप्तभूमिषु जीवन्मुक्ताश्चत्वारः || २ || प्. ४९२) शुभेच्छा प्रथमा भूमिका भवति | विचारणा द्वितीया | तनुमानसी तृतीया | सत्त्वापत्तिस्तुरीया | असंसक्तिः पञ्चमी | पदार्थभावना षष्ठी | तुरीयगा सप्तमी || ३ || अचित्तजीवन्मुक्तलक्षणं जिज्ञासुः निदाघः ऋभुं तदियत्तां पृच्छतीत्याह- अथेति | पप्रच्छ- किमिति ? जीवन्मुक्तिलक्षणमनुब्रूहीति || १ || किं तदुवाचेत्यत्र- सप्तभूमिष्विति || २ || कीदृश्यः भूमयः इत्यत्राह- शुभेति || ३ || प्रणवविकृत्यकारादेः चातुर्विध्यम् प्रणवात्मिका भूमिकाः अकारोकारमकारार्धमात्रात्मकाः || ४ || स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः || ५ || प्रणवविकृतयस्तु अकारोकारमकारार्धमात्रात्मकाः || ४ || प्रणवविकृत्यकारादेः चातुर्विध्यमाह- स्थूलेति || ५ || अकारस्थूलादीनामध्यक्षाः तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः || ६ || अकारस्थूलांशे जाग्रद्विश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ७ || उकारस्थूलांशे स्वप्नविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ८ || मकारस्थूलांशे सुषुप्तविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तत्तुरीयः || ९ || अर्धमात्रास्थूलांशे तुरीयविश्वः | सूक्ष्मांशे तत्तैजसः | बीजांशे तत्प्राज्ञः | साक्ष्यंशे तुरीयतुरीयः || १० || प्. ४९३) या अकारादिप्रविभक्ताः तदवस्थाः || ६ || अकारस्थूलादिक्रमेण तदध्यक्षविभागमाह- अकारेति | समष्टिजाग्रज्जाग्रदाद्यध्यक्षा विराड्विराडादितुर्यबीजान्ताः, तद्व्यष्टिसमष्ट्यैक्याध्यक्षास्तु ओत्रोत्राद्यविकल्पानुज्ञैकरसान्ता भवन्तीति ज्ञातव्याः || ७-९ || व्यष्टिसमष्टिकलनाविरलसाक्ष्यंशप्रविभक्तसाक्ष्यंशेस्वातिरिक्तव्यष् ट्यादिकलनाकलिताकारस्थूलांशादिप्रविभक्तजाग्रज्जाग्रदादिपञ्चदशा वस्थातदध्यक्षपटलासंभवप्रबोधादपि पराभूमिरूपः तुरीयतुरीयः विजयत इत्यर्थः || १० || प्रणवावयवशः भूमिकाभेदाः अकारादितुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः | उकारतुरीयांशाः चतुर्थी भूमिका | मकारतुरीयांशाः पञ्चमी | अर्धमात्राप्रविभक्तप्रथमद्वितीयतृतीयांशाः षष्ठी भूमिका | तदतीता सप्तमी भूमिका || ११ || तत्र अकारादितुरीयांशाः | तदतीता सप्तमी भूमिका भवतीत्यर्थः || ११ || चतुर्विधाः जीवन्मुक्ताः भूमित्रयेषु विहरन् मुमुक्षुर्भवति | तुरीयभूम्यां विहरन् ब्रह्मविद्भवति | पञ्चमभूम्यां विहरन् ब्रह्मविद्वरो भवति | षष्ठभूम्यां विहरन् ब्रह्मविद्वरीयान् भवति | सप्तमभूम्यां विहरन् ब्रह्मविद्वरिष्ठो भवति || १२ || जीवन्मुक्तचातुर्विध्यं कथमित्यत्र- भूमित्रयेष्विति || १२ || प्. ४९४) २. मन्त्रः सप्तभूमिकानिर्देशः तत्रैते श्लोका भवन्ति- ज्ञानभूमिः शुभेच्छा स्यात् प्रथमा समुदीरिता | विचारणा द्वितीया तु तृतीया तनुमानसी || १ || सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका | पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता || २ || अत्र मन्त्रग्रामानुवादं दर्शयति- तत्रैते श्लोका भवन्तीति | संक्षेपतो भूमिकानामानि उक्तानि || १-२ || सप्तभूमिकाविवरणम् स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः | वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः || ३ || शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् | सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा || ४ || विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता | यत्र सा तनुतामेति प्रोच्यते तनुमानसी || ५ || भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् | सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता || ६ || प्. ४९५) दशाचतुष्टयाभ्यासादसंसर्गफला तु या | रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका || ७ || भूमिकापञ्चकाभ्यासात् स्वात्मारामतया भृशम् | आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् || ८ || परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् | पदार्थभावना नाम षष्ठी भवति भूमिका || ९ || भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भनात् | यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः || १० || तासां लक्षणमाह- स्थित इति | इमाः शुभेच्छेत्यादिसप्तभूमिकाः महदन्नपूर्णाक्ष्युपनिषत्सु प्रायशो व्याख्याताः || ३-१७ || सप्तभूमिकासु बुद्ध्यवस्थाभेदनिरूपणम् शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् | यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते || ११ || अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते | पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः || १२ || विच्छिन्नशरदभ्रांशविलयं प्रविलीयते | सत्वावशेष एवास्ते हे निदाघ दृढीकुरु || १३ || पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् | शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके || १४ || प्. ४९६) अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् | परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते || १५ || कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः | सप्तमी गूढसुप्त्याख्या क्रमप्राप्ता पुरातना || १६ || यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः | केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः || १७ || केवलब्रह्मात्मभावनाविधिः अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे | अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे || १८ || मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव | भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव || १९ || द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह | दर्शनप्रथमाभासमात्मानं केवलं भज || २० || हे निदाघ त्वम् अन्तर्बाह्यकलनाविरलं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति भजेत्याह- अन्तरिति || १८ || मनःकल्पितभेदजातं ग्राह्यं तद्ग्राहकं मानसं तदुभयं मा भवेत्यर्थः || १९ || अन्तःशून्य इत्यादि केवलं भज इत्यन्तं मैत्रेयोपनिषदि व्याख्यातम् || २० || जीवन्मुक्तलक्षणम् यथास्थितमिदं यस्य व्यवहारवतोऽपि च | अस्तंगतं स्थितं व्योम स जीवन्मुक्त उच्यते || २१ || प्. ४९७) नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा | यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते || २२ || यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते | यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते || २३ || रागद्वेषभयादीनामनुरूपं चरन्नपि | योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते || २४ || यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते || २५ || यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते || २६ || यः समस्तार्थजालेषु व्यवहार्यपि शीतलः | परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते || २७ || प्रजहाति यदा कामान् सर्वांश्चित्तगतान् मुने | मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते || २८ || चैत्यवर्जितचिन्मात्रे पदे परमपावने | अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते || २९ || इदं जगदहं सोऽयं दृश्यजातमवास्तवम् | यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते || ३० || जीवन्मुक्ताः चत्वारः इत्युक्तम् | तेषां लक्षणमाह- यथेत्यादि | यथा घटशरावादिसत्त्वासत्त्वाभ्यां व्योम यथास्थितं व्योमैव भवति तथा यस्य प्. ४९८) तूष्णींभूतस्य व्यवहारवतोऽपि च स्वापाद्यवस्थात्रये मनोऽस्तं गतं स्थितं वापि ब्रह्ममात्रगोचरं भवति स जीवन्मुक्त उच्यते इति || २१ || किंच- नोदेतीति || २२ || किंच- यो जागर्तीति || २३-२६ || शीतलः अन्तस्तापवैरल्यात् || २७-३० || भूमब्रह्मनिष्ठाविधिः सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते | आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव || ३१ || शिवो गुरुः शिवो वेदः शिवो देवः शिवः प्रभुः | शिवोऽस्म्यहं शिवः सर्वं शिवादन्यन्न किंचन || ३२ || तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः | नानुध्यायाद् बहूञ्छब्दान् वाचो विग्लापनं हि तत् || ३३ || त्वमपि सद्ब्रह्मणि | हे निदाघ सन्मात्रे भूमब्रह्मणि श्रुत्याचार्योपदेशेन प्रविश्य झटिति स्थिरो भव | तन्मात्रपदवीं भजस्वेत्यर्थः || ३१ || स्फारानन्दात्मा कीदृश इत्यत आह- शिव इति || ३२ || यः स्वातिरिक्ताशिवं ग्रसित्वा स्वमात्रमवशिष्यते तमेव | एतत् बृहदारण्यके व्याख्यातम् || ३३ || विहंगमपिपीलिकामार्गविवेकः शुको मुक्तो वामदेवोऽपि मुक्त- स्ताभ्यां विना मुक्तिभाजो न सन्ति | शुकं मार्गं येऽनुसरन्ति धीराः सद्योमुक्तास्ते भवन्तीह लोके || ३४ || प्. ४९९) वामदेवं येऽनुसरन्ति नित्यं मृत्वा जनित्वा च पुनःपुनस्तत् | ते वै लोके क्रममुक्ता भवन्ति योगैः सांख्यैः कर्मभिर्भक्तियुक्तैः || ३५ || शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते | शुको विहङ्गमः प्रोक्तो वामदेवः पिपीलिका || ३६ || अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा | महावाक्यविचारेण सांख्ययोगसमाधिना || ३७ || विदित्वा स्वात्मनो रूपमसंप्रज्ञासमाधितः | शुकमार्गेण विरजाः प्रयान्ति परमं पदम् || ३८ || यमाद्यासनजायासहठाभ्यासात् पुनःपुनः | संजातविघ्नबाहुल्यः अणिमादिवशादिह || ३९ || अलब्ध्वापि फलं सम्यक् पुनर्भूत्वा महाकुले | पूर्ववासनयैवायं योगाभ्यासं पुनश्चरन् || ४० || अनेकजन्माभ्यासेन वामदेवेन वै पथा | सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् || ४१ || द्वाविमावपि पन्थानौ ब्रह्मप्राप्तिकरौ शिवौ | सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः || ४२ || प्. ५००) ननु शुको मुक्तो वामदेवोऽपि मुक्तः इत्यनेन द्वावेव मुक्तौ भवतः | न हि ताभ्यां तृतीयो मुक्तत्वेन परिगणितो भवितुमर्हति | तथा सति किमर्थं लोके नित्यादिकर्मचित्तशुद्धिसाधनचतुष्टयसंन्यास##- यतन्ते | तद्यत्नो न हि फलवान् भवितुमर्हतीति चेन्न ; शुको मुक्तो वामदेवोऽपि मुक्तः इति श्रुतेः अन्यार्थत्वेन विहंगमपिपीलिकामार्गपरत्वात् | अतो ज्ञानसाधनप्रवृत्तिः फलवती भवतीत्याह- शुक इति | शुको विहंगममार्गानुसारी सद्योमुक्तो भवति | वामदेवः पिपीलिकामार्गानुसार्यपि क्रममुक्तो भवति | ताभ्यां तौ मार्गावतिक्रम्य न हि केऽपि मुक्तिभाजः सन्ति | इत्येतदर्थं विस्पष्टं श्रुतिरेव प्रकाशयति- शुकमिति || ३४-३६ || शुकमार्गसाधनमाह- अतदिति | नेति नेति न ह्येतस्मात् इत्यादि अतद्व्यावृत्तिरूपेण स्वातिरिक्तकलनासंभवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति साक्षाद्विधिमुखेन वा || ३७-३८ || वामदेवमार्गस्वरूपमाह- यमेति || ३९-४० || सोऽपि मुक्तिं क्रमेण समाप्नोति || ४१ || फलितार्थमाह- द्वाविति || ४२ || ब्रह्मविद्दृष्टिप्रसरस्य पावनत्वम् तत्र को मोहः कः शोक एकत्वमनुपश्यतः | यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते || ४३ || तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः | खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः || ४४ || सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः || इति || यत् सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति || प्. ५०१) इति स्मृत्यनुरोधेन मार्गद्वयप्राप्यफलयोः पर्यवसान एकत्वमित्यर्थे- तत्रेति | इत्थंभूतज्ञानिदृष्टिपूतोऽप्यशुभात् मुच्यत इत्याह- यस्येति | ब्रह्मवित् स्वातिरिक्तं यद्यत् पश्यति तत्तद्ब्रह्मातिरिक्तं न पश्यति || ४३ || तत्पुण्यप्रभावेन तद्दृष्टिपूताः कृतकृत्या भवन्तीत्यर्थः || ४४ || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति चतुर्थोऽध्यायः पञ्चमोऽध्यायः योगेच्छोः देहज्ञानमावश्यकम् अथ हैनम् ऋभुं भगवन्तं निदाघः पप्रच्छ योगाभ्यासविधिमनुब्रूहीति | तथेति स होवाच | पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः | काठिन्यं पृथिवीमेकां[ह्येषा]पानीयं तद्द्रवाकृति || १ || दीपनं च भवेत् तेजः प्रचारो वायुलक्षणम् | आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता || २ || देशिकमुखात् निदाघो जीवन्मुक्तिलक्षणं यथावदवगम्य जीवन्मुक्तिहेतुनिर्विशेषब्रह्मज्ञानोपायभूतयोगाभ्यासलक्षण##- ? योगेति | निदाघप्रश्नमङ्गीकृत्य तथेति स होवाच | योगाभ्यासस्य देहनिर्वर्त्यत्वादित्यादौ देहेयत्तामाह- पञ्चेति | देहस्य पञ्चभूतात्मकता कथमित्यत आह- काठिन्यमिति || १-२ || प्. ५०२) श्वाससंख्या षट्छतान्यधिकान्यत्र सहस्राण्येकविंशतिः | अहोरात्रवहैः श्वासैर्वायुमण्डलघातकः || ३ || यावदहोरात्रनिर्वर्त्यश्वाससंख्या का इत्यत्राह- षडिति || ३ || देहक्षयनिवारणाय भूतधारणविधिः तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् | तद्वदापोगणापाये केशाः स्युः पाण्डराः क्रमात् || ४ || तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये | वेपथुः संभवेन्नित्यं नाभसे नैव जीवति || ५ || इत्थंभूतक्षयान्नित्यं जीवितं भूतधारणम् | देहप्रविभक्तपञ्चभूतांशाः यावन्न क्षीयन्ते तावदविकलो देहो भवति | तत्क्षये तु विकृतिमेतीत्याह- तदिति || ४ || नाभसे क्षीणे || ५ || यतो भूतक्षयतो देहः क्षीयते अतो नित्यं देहस्य जीवितं प्रति तत्तद्भूतधारणं कर्तव्यमित्यर्थः || भूतधारणाय उड्याणबन्धाभ्यासः उड्याणं कुरुते यस्मादविश्रान्तं महाखगः || ६ || उड्यियाणं तदेव स्यात् तत्र बन्धोऽभिधीयते | उड्डियाणो ह्यसौ बन्धो मृत्युमातङ्गकेसरी || ७ || प्. ५०३) तस्य भुक्तिस्तनोः कायात् तस्य बन्धो हि दुष्करः | अग्नौ तु चलिते कुक्षौ वेदना जायते भृशम् || ८ || न कार्या क्षुधितेनापि नापि वुण्मूत्रवेगिना | हितं मितं च भोक्तव्यं स्तोकंस्तोकमनेकधा || ९ || भूतधारणानुकूलोड्याणबन्धमाह- उड्याणमिति || ६-७ || तस्योड्याणबन्धस्य मुक्तिः कायात् कायदार्ढ्यात् भवति | तस्य सदा कर्तुमशक्यत्वात् तस्य दुष्करत्वम् | सदाकरणे का हानिरित्यत्राह- अग्नाविति || ८ || क्षुच्छान्तये हितं मितं च भोक्तव्यम् || ९ || लयमन्त्रहठाख्यास्त्रयो योगाः मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् | लयमन्त्रहठा योगा योगो ह्यष्टाङ्गसंयुतः || १० || एवं क्षुच्छान्तिं कृत्वा योगाभ्यासः कर्तव्यः इत्याह- मृद्विति | मृदुः लयः, मध्यमो हठः, मन्त्रो नादानुसंधानं, नादस्य सर्वमन्त्रमूलत्वात् | तेषु मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं नादानुसंधानं, ततो लयं, तत्साधनं हठं विद्धि | तत्र लयहेतुः मन्त्रः, तद्धेतुः हठः | एवं योगाः त्रिप्रकारा भवन्ति | तत्र आद्यहठयोगस्तु यमाद्यष्टाङ्गसंयुतो भवतीत्यर्थः || १० || योगाष्टाङ्गानि यमश्च नियमश्चैव तथा चासनमेव च | प्राणायामस्तथा पश्चात् प्रत्याहारस्तथा परम् || ११ || धारणा च तथा ध्यानं समाधिश्चाष्टमो भवेत् | प्. ५०४) कानि योगाष्टाङ्गानि इत्यत आह- यमश्चेति || ११ || यमनियमभेदाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् || १२ || क्षमा धृतिर्मिताहारः शौचं चेति यमा दश | तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् || १३ || सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् | एते हि नियमाः प्रोक्ता दशधैवं महामते || १४ || संक्षेपतो यमाद्यष्टाङ्गनामानि निर्दिशति- अहिंसेति || १२-१६ || एकादशासनानि एकादशासनानि स्युश्चक्राद्या मुनिसत्तम | चक्रं पद्मासनं कूर्मं मयूरं कुक्कुटं तथा || १५ || वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा | मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः || १६ || चक्रसनलक्षणम् सव्योरु दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे | निदध्यादृजुकायस्तु चक्रासनमिदं मतम् || १७ || तत्र चक्रासनलक्षणमाह- सव्येति || १७ || प्. ५०५) प्राणायामः पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः | प्राणायामाः स्वनाडीभिस्तस्मान्नाडीः प्रचक्षते || १८ || यमादिप्रविभक्ताहिंसादीनि दर्शनाद्युपनिषद्रीत्या योजनीयानि | अथ प्राणायाममाह- पूरक इति || १८ || देहतदवयवमानानि शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् | तन्मध्ये पायुदेशात्तु द्व्यङ्गुलात् परतः परम् || १९ || मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते | मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते || २० || चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् | अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः || २१ || अथ देहमानप्रकाशनपूर्वकं नाडीचक्रं विवेचयति- शरीरमिति || १९-२४ || नाडीचक्रम् तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् | शरीरं ध्रियते येन वर्तते तत्र कुण्डली || २२ || ब्रह्मरन्ध्रं सुषुम्ना या वदनेन पिधाय सा | अलम्बुसा सुषुम्नायाः कुहूर्नाडी वसत्यसौ || २३ || अनन्तरारयुग्मे तु वारुणा च यशस्विनी | दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् || २४ || प्. ५०६) तदन्तरारयोः पूषा वर्तते च पयस्विनी | सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती || २५ || शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते | उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ || २६ || अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता | प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः || २७ || वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः | पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः || २८ || पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते | नादाधारा समाख्याता ज्वलन्ती नादरूपिणी || २९ || पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः | कुण्डल्या पिहितं शश्वद्ब्रह्मरन्ध्रस्य मध्यमम् || ३० || एवमेतासु नाडीषु चरन्ति दश वायवः | तदन्तरारयोः दलयोरन्तरा मध्य इत्यर्थः || २५-३२ || तुरीयदर्शनाभ्यासविधिः एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः || ३१ || समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः | नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् || ३२ || स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः | प्. ५०७) कालवञ्चनोपायभूतो योगः अपानं मुकुलीकृत्य पायुमाकृष्य चोन्मुखम् || ३३ || प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् | स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः || ३४ || कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते | मनसा चिन्तितं कार्यं मनसा येन सिध्यति || ३५ || जलेऽग्निज्वलनाच्छाखापल्लवानि भवन्ति हि | नाधन्यं जागतं वाक्यं विपरीता भवेत् क्रिया || ३६ || कालवञ्चनोपायमाह- अपानमिति || ३३ || प्रणवेन अपानमूर्ध्वमुत्थाप्य श्रीबीजेन प्राणम् अधो निवर्तयन् अपानप्राणयोः संधिदेशस्थं स्वात्मानं मुक्तिश्रियं भावयित्वा ततोऽमृतप्लावनम् अमृताभिषेचनं कुर्यात् || ३४ || इति यत् तदेव कालवञ्चनमायुस्स्तम्भनं, तदेव योगिनां मुख्यम् इत्याचक्षते | कालवञ्चनयोगफलमाह- मनसेति || ३५ || कीदृशी सिद्धिः सिध्यति इत्यत्र- जल इति | तेन यद्यदुक्तं तत्तत् नाधन्यम् || ३६ || कायदार्ढ्यबलादिसाधनभूताः योगाः मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने | शोषयित्वा तु सलिलं तेन कायं दृढं भवेत् || ३७ || गुदयोनिसमायुक्तमाकुञ्चत्येककालतः | अपानमूर्ध्वगं कृत्वा समानेन नियोजयेत् || ३८ || प्. ५०८) स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः | बलं समारभेद्योगी मध्यमद्वारभागतः || ३९ || भावयेदूर्ध्वगत्यर्थं प्राणापानसुयोगतः | एष योगवरो देहे सिद्धिमार्गप्रकाशकः || ४० || सुषुम्नामार्गे बिन्दुं मानसं समाबध्य आकुञ्चनेन जीवने मूलाधारे तत्रत्यवायुं प्रज्वाल्य तेन प्राणसहितवह्निना सुषुम्नानाडीगतवसात्मकं शोषयित्वा प्राणादिकं स्तम्भयेत् | तेन योगी दृढकायो भवेदित्यर्थः || ३७ || बलकृद्योगवरमाह- गुदेति | युगपत् गुदं योनिं च आकुञ्च्य ततोऽपानमूर्ध्वमुत्थाप्य समानेन नियोज्य || ३८ || प्राणापानसमानसंधिदेशाधिकरणम् आत्मानं ज्ञानश्रियं ध्यात्वा अमृतेन अभिषिच्य मध्यमद्वारभागतो योगी यथाबलं कुम्भकं समारभेत् || ३९ || ततः प्राणापानसुयोगतः ऊर्ध्वगत्यर्थमुदानसहितं प्राण भावयेदिति योऽभ्यासोऽभिहितः स एव योगवरो देहे सिद्धिमार्गसूचको भवति | अयं योगो ब्रह्मलोकप्रापक इत्यर्थः || ४० || देहच्छायाज्ञानविधिः यथैवापां गतः सेतुः प्रवाहस्य निरोधकः | तथा शरीरगा च्छाया ज्ञातव्या योगिभिः सदा || ४१ || देहावसानकालज्ञानाय स्वदेहच्छाया ज्ञातव्येत्याह- यथेति | यथा नदीगतपाषाणसेतुः प्रवाहनिरोधको भवति तथा शरीरगा चिच्छाया जीवशक्तिः तद्गतशक्त्यंशमपहाय प्रत्यगभिन्नकालात्माहमस्मीति योगिभिः प्रत्यगभिन्नपरचित् सदा ज्ञातव्या | ततो देहाभिमानावसानाधिकरणकालज्ञानी भूत्वा कालात्मरूपेण अवशिष्यते | अयं चिच्छक्तियोगयोगसेतुः पराक्प्रवाहनिरोधको भवतीत्यर्थः || ४१ || प्. ५०९) चतुष्पथबन्धोपायः संपुटयोगः सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः | बन्धस्यास्य प्रसादेन स्फुटीभवति देवता || ४२ || एष चतुष्पथो बन्धो मार्गत्रयनिरोधकः | एकं विकासयन् मार्गं येन सिद्धाः सुसंगताः || ४३ || उदानमूर्ध्वगं कृत्वा प्राणेन सह वेगतः | बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः || ४४ || अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः | बन्धत्रयमनेनैव सिध्यत्यभ्यासयोगतः || ४५ || चतुष्पथबन्धोपायरूपसंपुटयोगमाह- सर्वासामिति | वक्ष्यमाणोऽयं सर्वासामिति | अनेन किं भवेदित्यत्र- बन्धस्येति | देवता प्रत्यक् चित् प्रकाशत इत्यर्थः || ४२ || किंच- एष इति | यत्र सुषुम्नेडापिङ्गलाकुहूनाड्यः एकतां गच्छन्ति स एष चतुष्पथः चतुर्द्वारो मूलाधाराश्रयो भवति | तत्र बन्धो मूलबन्धः स[त]दाकुञ्चनात्मकः | तत्र येन सुषुम्नाबिलप्रवेशेन सिद्धा ब्रह्मभावभावितां सिद्धिं भजन्ति तमेकं सुषुम्नामार्गं विकासयन् इडापिङ्गलाकुहूनाडीगतमार्गत्रयनिरोधको भवति | कुहूशब्देन अपानबिलमुच्यत इत्यर्थः || ४३ || तत्प्रकारमाह- उदानमिति | प्राणेन सह वेगत उदानमूर्ध्वगं योगाभ्यासेन कृत्वा मूलबन्धं जालंधरं च समारोप्य बन्धोऽयं सर्वनाडीनां मार्गनिरोधकः सन् संपुटवद्विराजते || ४४ || तदानीं प्राणः कुण्डलिनीमनोदृष्ट्यग्निभिः सह सुषुम्नामार्गेण ऊर्ध्वं सहस्राचक्रं यातीति यत् तदयं योगः संपुट इत्यभिधीयते | मूलबन्धोऽप्ययमेवेत्यर्थः | एवम् अभ्यासयोगतः अनेन संपुटयोगेन बन्धत्रयमपि सिध्यति || ४५ || प्. ५१०) संपुटाभ्यासेन ब्रह्मज्ञानप्राप्तिक्रमः दिवारात्रमविच्छिन्नं यामे यामे यदा तदा | अनेनाभ्यासयोगेन वायुरभ्यसितो भवेत् || ४६ || वायावभ्यसिते वह्निः प्रत्यहं वर्धते तनौ | वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते || ४७ || अन्नस्य परिपाकेन रसवृद्धिः प्रजायते | रसे वृद्धिं गते नित्यं वर्धन्ते धातवस्तथा || ४८ || धातूनां वर्धनेनैव प्रबोधो वर्धते तनौ | दह्यन्ते सर्वपापानि जन्मकोट्यर्जितानि च || ४९ || यदा तदा दिवारात्रमविच्छिन्नं यामे यामे वा अनेन अभ्यासयोगेन प्राणोऽभ्यसितो भवेदित्यर्थः || ४६ || अनेन अभ्यासेन क्रमेण ब्रह्मज्ञानमपि प्रकाशत इत्याह- वायाविति || ४७-४८ || निःशेषसर्वपापनाशे ब्रह्माहमस्मीति निर्विशेषब्रह्मज्ञानमुदेति | तत्समकालं विद्वान् विमुक्तो भवतीत्यर्थः || ४९ || शिवशक्तिस्थाननिरूपणम् गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् | शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् || ५० || यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता | यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते || ५१ || प्. ५११) यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते | यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः || ५२ || मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् | कण्ठादुपरि मूर्धान्तं शांभवं स्थानमुच्यते || ५३ || शिवशक्तिस्वरूपमाह- गुदेति || ५०-५३ || ब्रह्मानुसंधानसहितप्राणायामः नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयाः | जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः || ५४ || हंसः शक्तेरधिष्ठानं चराचरमिदं जगत् | निर्विकल्पः प्रसन्नात्मा प्राणायामं समभ्यसेत् || ५५ || सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् | वेद्यं समुद्धरेन्नित्यं सत्यसंधानमानसः || ५६ || रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् | दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः || ५७ || स्वान्तस्थविषयं सर्वं रेचकः समुदाहृतः | पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् || ५८ || एवमभ्यासचित्तश्चेत् स मुक्तो नात्र संशयः | कुम्भकेन सदारोप्य कुम्भकेनैव पूरयेत् || ५९ || प्. ५१२) कुम्भेन कुम्भयेत् कुम्भं तदन्तस्थः परं शिवम् | पुनरास्फालयेदद्य सुस्थिरं कण्ठमुद्रया || ६० || वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ | एवं ज्ञात्वा प्राणायामं कुर्यादित्याह- नाडीनामिति || ५४ || हंसः प्रत्यगभिन्नपरमात्मा शक्तेरधिष्ठानम् | मायाशक्तिकार्यमेव चराचरम् || ५५ || एवं यथोक्तसाधनसंपन्नो योगी स्वातिरिक्तभ्रमतो मुक्तो भवतीत्याह- सम्यगिति | मूलोड्याणजालंधरभेदेन सम्यग्बन्धत्रयस्थोऽपि | वेद्यं प्रत्यग्ब्रह्मैक्यम् || ५६ || वक्ष्यमाणलक्षणरेचकम् || ५७ || स्वाज्ञविकल्पितस्वान्तस्थविषयम् | स्वस्वरूपानुसंधानमेव कुम्भकमित्यर्थः || ५८ || इत्थंभूतेन कुम्भकेन | रेचपूरविरलकेवलकुम्भकमेव ब्रह्मस्वरूपानुसंधानपूर्वकं सदा कुर्यादित्यर्थः || ५९ || यदि चित्तं बहिर्गतं स्यात् तदा पुनरास्फालयेत् | केवलकुम्भकतो यदि प्राणः स्वपरिकरेण साकं बहिः निर्गच्छति तदा जालंधरबन्धाख्यकण्ठमुद्रया अद्य सुस्थिरं यथा भवति तथा वायूनां ऊर्ध्वाधोगतिमावृत्य आक्रम्य पुनः पूरककुम्भकौ धृत्वा आस्फालयेत् अभ्यसेदित्यर्थः || ६० || वेधकयोगाभ्यासक्रमः समहस्तयुगं भूमौ समं पादयुगं तथा || ६१ || वेधकत्रययोगेन चतुष्पीठं तु वायुना | आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः || ६२ || पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् | सोमसूर्याग्निसंबन्धात् जानीयादमृताय वै || ६३ || प्. ५१३) मेरुमध्यगता देवाश्चलन्ते मेरुचालनात् | आदौ संजायते क्षिप्रं वेधोऽस्य ब्रह्मग्रन्थितः || ६४ || ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ | विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ || ६५ || रुद्रग्रन्थिं ततो भित्त्वा छित्त्वा मोहमलं तथा | अनेकजन्मसंस्कारगुरुदेवप्रसादतः || ६६ || योगाभ्यासात् ततो वेधो जायते तस्य योगिनः | इडापिङ्गलयोर्मध्ये सुषुम्नानाडिमण्डले || ६७ || मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् | एवं वेधकयोगाभ्यासक्रममाह- समेति | योगी योगमठस्थसमभूमौ पद्मासनमारुह्य समहस्तपादयुगं यथा भवति तथा निश्चेष्टो भूत्वा || ६१ || सपरिकरेण प्राणवायुना ब्रह्मविष्णुरुद्रग्रन्थिवेधनं कृत्वा, एवं वेधकत्रययोगेन वायुवक्त्रे सुषुम्नावदने प्रकोटिभिः स्वपरिकरैः प्राणकुण्डलिनी##- त्वासाद्य, तदुपरि विद्यमानमहामेरुं सहस्रारचक्रासनतुर्यचैतन्यम् अहमस्मीत्यास्फालयेत् आस्फारयेत् सर्वव्यापकतया ध्यायेदित्यर्थः || ६२ || ततः किमित्यत्र यदा भ्रूमध्याख्यत्रिकूटोपरि सोमसूर्याग्नि संबन्धात् सोमसूर्यकुण्डल्यग्निपुटद्वयनिष्पन्नममृतं समाकृष्य ग्रसित्वा सत्वरं यदा प्राणः स्फुरति तदा अमृताय अमृतत्वायैव प्राणादिलयस्फूर्तिः भवतीति जानीयादित्यर्थः || ६३ || विश्वविराडोत्रादयो ब्रह्मादयो वा देवाः कूटस्थचैतन्यात्मकमेरुमध्यगता भवन्ति | मेरावारोपितविशेषांशचालनात् निर्विशेषापादनात् तेऽपि चलन्ते निर्विशेषा भवन्तीत्यर्थः | सहस्रारगतकूटस्थावगतेः ग्रन्थित्रयभेदनपूर्वकत्वादिति ग्रन्थित्रयभेदनप्रकारमाह- आदाविति | आदावस्य प्. ५१४) योगिनः ब्रह्मग्रन्थितः ब्रह्मग्रन्थेः वेधो भेदनं जायते || ६४-६५ || ततः क्रमेण ब्रह्मादिग्रन्थित्रयं स्वाज्ञानमलं च भित्त्वा ब्रह्मातिरिक्तं न किंचिदस्ति इति ज्ञात्वा तज्ज्ञानसमकालं कृतकृत्यो भवतीत्यर्थः | इत्थं मुक्तिप्रदवेधकयोगं स्तौति- अनेकेति || ६६ || अनन्तकोटिजन्मसुकृतासादितश्रुत्याचार्यप्रसादलब्धवेधकयोगा##- वेधसिद्ध्युपायस्तु- इडापिङ्गलयोर्मध्ये विलसितसुषुम्नानाडिमण्डले इत्यादि || ६७ || सुषुम्नायां वायुगत्या उक्तलक्षणलक्षितवेधो भवतीत्यर्थः || विघ्नशान्तये प्रणवजपः ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदायकः || ६८ || आप्यायनः प्लुतो वापि त्रिविधोच्चारणेन तु | तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् || ६९ || अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् | ह्रस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् | द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये || ७० || सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा | वेधकोपायभूतप्राणोर्ध्वयोगसिद्धिविघ्नशान्तये प्रणवाग्रलक्ष्यधारणपूर्वकं चतुर्मात्रात्मकं प्रणवजपं कुर्यात् इत्याह- ह्रस्व इति | एकमात्राप्रणवजपतः पापहानिः भवति || ६८ || आप्यायनो नाम द्विमात्राप्रणवः तज्जपादस्य श्रीर्भवति | दीर्घः त्रिमात्रात्मकः चतुर्मात्रात्मकः प्लुतो वा मोक्षप्रदायको प्. ५१५) भवति | एवं त्रिविधोच्चारणेन यथोक्तफलम् अश्नुत इत्यत्र यदि ह्रस्वा भवति सर्वं पाष्मानं दहति अमृतत्वं च गच्छति यदि दीर्घा भवति महतीं श्रियं आप्नोति अमृतत्वं च गच्छति यदि प्लुता भवति ज्ञानवान् भवति अमृतत्वं च गच्छति इति श्रुतेः || ६९ || यतः एवम् अतः प्रणवानुष्ठानं कर्तव्यमित्याह- ह्रस्वमिति | बिन्दुगतं हृदयगतम् | द्वादशान्तगतं ब्रह्मरन्ध्रोर्ध्वभागगतम् | प्रसादं प्रसादकरं विद्धि || ७० || अतः सर्वेति | सर्वदोषहा भवतीत्यर्थः || आरम्भादियोगभूमिकाचतुष्टयम् आरम्भश्च घटश्चैव तथा परिचयस्तथा || ७१ || निष्पत्तिश्चेति कथिता श्चतस्रस्तस्य भूमिकाः | करणत्रयसंभूतं बाह्यं कर्म परित्यजन् || ७२ || अन्तरं कर्म कुरुते यत्रारम्भः स उच्यते | वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम् || ७३ || यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः | न सजीवो न निर्जीवः काये तिष्ठति निश्चलम् | यत्र वायुः स्थिरः खे स्यात् सेयं प्रचयभूमिका || ७४ || यत्रात्मानं सृष्टिलयौ जीवन्मुक्तिदशां गतः | सहजः कुरुते योगं सेयं निष्पत्तिभूमिका || ७५ || इति || प्. ५१६) एवं प्रणवजपशुद्धान्तरस्य महावेधकयोगोपायतया योगभूमिकाचतुष्टयमाह- आरम्भश्चेति || ७१ || तत्रारम्भभूमिकालक्षणमाह- करणेति | मनोवाक्कायाख्यकरणत्रयसंभूतम् || ७२ || द्वितीयभूमिकामाचष्टे##- यथा भवति तथा ग्रन्थित्रयं वेधं कुर्वन् यत्रावतिष्ठति सेयं घटभूमिका भवतीत्यर्थः || ७३ || प्रचयभूमिकालक्षणमाह- न सेति | चेष्टाभावान्न सजीवः | सप्राणत्वान्न निर्जीवः | यत्र सहस्राराकाशे वायुः स्थिरो भवति सेयं प्रचयभूमिकेत्यर्थः || ७४ || निष्पत्तिभूमिकालक्षणमाह- यत्रेति | यत्र तुरीयभूमिकायां ईश्वरात्मना योगी जाग्रदादिप्रपञ्चसृष्टिलयौ कृत्वा जीवन्मुक्तिदशामेत्य सहजः सहजं योगम् असंप्रज्ञाताख्यं कुरुते सेयं निष्पत्तिभूमिका भवति || ७५ || इतिशब्दो भूमिकाचतुष्टयसमाप्त्यर्थः || एतद्विद्यापठनवेदनयोः फलम् एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति | स वायुपूतो भवति | सुरापानात् पूतो भवति | स्वर्णस्तेयात् पूतो भवति | स जीवन्मुक्तो भवति || ७६ || तदेतदृचाभ्युक्तम् | तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम् | तद्विप्रासो विपन्ययो जागृवांसः समिन्धते | विष्णोर्यत्परमं पदमित्युपनिषत् || ७७ || एतद्विद्यापठनफलमाह- एतदिति | एतदुपनिषदम् एतामुपनिषदं योऽधीते | वेदनफलमाह- स जीवन्मुक्त इति || ७६ || अयं प्. ५१७) मन्त्रः आरुणिकोपनिषदि व्याख्यातः | इत्युपनिषच्छब्दो वराहोपनिषत्परिसमाप्त्यर्थः || ७७ || इति पञ्चमोऽध्यायः श्रीवासुदेवन्द्रशिष्योपनिषद्ब्रह्मयोगिना | वराहोपनिषद्व्याख्या लिखिता ब्रह्मगोचरा | वराहोपनिषद्व्याख्याग्रन्थजातं चतुश्शतम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे अष्टनवतिसंख्यापूरकं वराहोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######