#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00099 Uniform title: vātūlanāthasūtra Main title: vatūlanāthasūtra with vṛtti by anantaśaktipāda Secondary title: vatūlanāthasūtravṛtti Author : vatūlanātha Commentator : anantaśaktipāda Editor : śāstrī m k Description: Transcribed from volume 39 of the Kashmir Series of Texts and Studies. Notes: Date entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0: August 01, 2006 Publisher : Research Dept. Jammu and Kashmir State Publication year : 1923 Publication city : Bombay Publication country : India #################################################### ओं नमः संविद्वपुषे परमशिवाय | अथ श्रीवातूलनाथसूत्राणि | श्रीमदनन्तशक्तिपादविरचितवृत्तिसमेतानि | संघट्टघट्टनबलोदितनिर्विकार- शून्यातिशून्यपदमव्ययबोधसारम् | सर्वत्र खेचरदृशा प्रविराजते यत् तन्नौमि साहसवरं गुरुवक्त्रगम्यम् || १ || सर्वोल्लङ्घनवृत्त्येह निर्निकेतोऽक्रमक्रमः | कोऽप्यनुत्तरचिद्व्योमस्वभावो जयतादजः || २ || श्रीमद्वातूलनाथस्य हृदयाम्भोधिसंभवम् | पूज्यपूजकपूजाभिः प्रोज्झितं यन्नमामि तत् || ३ || येनेह सर्ववृतीनां मध्यसंस्थोऽपि सर्वदा | महाव्योमसमाविष्टस्तिस्ठाम्यस्मिन्निराविलः || ४ || तमपूर्वमनावेशमस्पर्शमनिकेतनम् | संविद्विकल्पसंकल्पघट्टनं नौम्यनुत्तरम् || ५ || योगिनीवक्त्रसंभूतसूत्राणां वृत्तिरुत्तमा | केनापि क्रियते सम्यक्परतत्त्वोपबृंहिता || ६ || प्. २) इह किल षड्दर्शनचतुराम्नायादिमेलापपर्यन्तसमस्तदर्शनोत्तीर्ण- मकथ्यमपि श्रीमद्वातूलनाथस्य पीठेश्वर्य उच्छुष्मपादौघमुक्त्वा तदनु परमरहस्योपबृंहितत्रयोदशकथासाक्षात्कारदृशा क्रमाक्रमास्ति- नास्तितथ्यातथ्यभेदाभेदसविकल्पनिर्विकल्पभवनिर्वाणकलङ्कोज्झितं किमप्य-नवकाशं परं तत्त्वं सूत्रमुखेनादिशन्ति - यत्रेदमादिसूत्रम् महासाहसवृत्त्या स्वरूपलाभः || १ || अतितीव्रातितीव्रतरविशृङ्खलशक्तिपाताघ्रातस्य स्वस्वरूपसमाविष्टस्य कस्यचित् क्वचित् कदाचित् अकस्मादेव ऽमहासाहसवृत्त्याऽ घस्मरमहाघनतरपर-नादोल्लासस्फारेण सविकल्पनिर्विकल्पात्मकसमस्तसंविन्निवहघट्टनान्निराव- रणमहाशून्यतासमावेशनिष्ठया ऽस्वरूपलाभःऽ समस्तकल्पनोत्तीर्णत्वा- दकृतकनिरवकाशनिरुत्तरनिस्तरङ्गनिरवधिनिर्निकेतास्पर्शसंवित्प्राप्तिर्भ् अवति, -इति रहस्यार्थः | महासाहसवृत्त्यानुप्रवेशश्च वक्ष्यमाणकथितक्रमेणा-धिगन्तव्यः || १ || प्. ३) झटिति सर्वोल्लङ्घनक्रमेणानिकेतस्वरूपप्राप्तिसाक्षात्कारमहासाहस- चर्चासंप्रदायं निरूप्य, इदानीं तत्रैव सर्ववृत्तिमहासामरस्यमेककाले प्रचक्षते तल्लाभा[च्छुरिता यु] द्युगपद्वृत्तिप्रवृत्तिः || २ || वृत्तीनां दृगादिमरीचिरूपाणां तथा रागद्वेषाद्युन्मेषवतीनां ऽयुगपत्ऽ तुल्यकालं क्रमपरिपाट्युल्लङ्घनेन अक्रमप्रवृत्त्या ऽतल्लाभाच्छुरिताऽ तत्तेन प्रागुक्तमहासाहसदशासमावेशक्रमप्राप्येण स्वरूपलाभेन कालाकालकल्पनोत्तीर्णालंग्रासवपुषा महानिरीहेणाच्छुरिता स्पृष्टा स्वस्व-रूपतां नीता ऽप्रवृत्तिःऽ प्रकर्षेण वर्तमाना वृत्तिः सततमच्युततया तत्समा-वेशेनावस्थानमित्यर्थः | इत्यनया उक्तिभङ्ग्या सर्ववृत्तीनां समनन्तरमेव सर्वोत्तीर्णमहाशून्यताधाम्नि धामरूपे तन्मयतया परस्परविभेदविगल-नेन उदयपदव्यामेव सततमवस्थितिः स्थितेत्यर्थः || २ || P. ४) इत्यनया उक्तिभङ्ग्या तुल्यकालकथनोपदेशमुक्त्वा, इदानीं पुस्तककथां निरूपयन्ति उभयपट्टोद्धट्टनान्महाशून्यताप्रवेश ः || ३ || श्रीमन्निष्क्रियानन्दनाथानुग्रहसमये श्रीगन्धमादनसिद्धपादैर-कृतकपुस्तकप्रदर्शनेन या परपदे प्राप्तिरुपदिष्टा सैव वितत्य निरूप्यते | सप्तरन्ध्रक्रमोदितसप्तशिखोल्लासात्मकः प्राणप्रवाहोदयः स एवोर्ध्वपट्ट-कः पूर्णवृत्त्युदयः, रन्ध्रद्वयसुषिरनालिकाप्रवाहप्रसृतोऽपानरूपोऽधः पट्टकः पञ्चेन्द्रियशक्तिवेष्टितः पञ्चफणधर्मानिबन्धकोऽधःस्थितः | तस्य वलयद्वयं जाग्रत्स्वप्नात्मकमुन्मुद्य ग्रन्थिनिबन्धनमपहृत्य ऽउभयपट्टोद्धट्टनात्ऽ प्राणापानद्वयविदारणात् मध्यवर्ती यः प्राणरूपो महाशून्यतास्वभावः कुलाकुलविकल्पदशोज्झितोऽव्यपदेश्यमहानिरावरण- निरत्ययवेद्यवेदकनिर्मुक्तो वर्णावर्णनिवर्णोत्तीर्णः स्पर्शास्पर्शप्रथापरि-वर्जित उपचारात्परमाकाशाद्यभिधानैरभिधीयते | तत्र ऽप्रवेशःऽ तत्समावेशतया सामरस्यावस्थितिः स एव प्राप्तमहोपदेशनामाविर्भवतीत्यर्-थः || ३ || प्. ५) इत्थं महानयोक्तदृशा सर्वशास्त्रप्रपञ्चोत्तीर्णत्वादवाच्यं किमपि महोपदेशसाक्षात्कारमुभयपट्टकाकारसदसद्रूपद्वयनिवारणेन निस्तरङ्गपरव्योमसमावेशसर्वावेशविवर्जितमासूत्रितमहाशून्यतास मावे-शमावेद्य, इदानीं युग्मोपसंहारात् कैवल्यफलं तन्मयतया उपवर्ण्यते युग्मग्रासान्निरवकाशसंविन्निष्ठा || ४ || पृथिव्यादिमहाभूतपञ्चकस्य एकैकस्मिन् ग्राह्यग्राहकतया युग्मवृत्त्युदयसंव्यवस्थितिः | तत्र गन्धप्राधान्यात् धरातत्त्वस्य पायुघ्रा-णरूपेण द्विप्रकारता | अप्तत्त्वस्य च रसप्रधानतयोपस्थरसनारूपेण द्वैविध्यम् | तेजस्तत्त्वस्य रूपप्राधान्यात् पादनेत्रभेदेन द्वयरूपता | वायुतत्त्वस्य स्पर्शप्राधान्यात् त्वक्पाणिस्वभावतो द्विधा गतिः | आकाशतत्त्वत्य शब्दप्राधान्यात् वाक्च्छ्रोत्रभेदेन द्विप्रकारतयैव बहुधा-त्वम् | अथवा पृथिव्यप्स्वरूपौ भोग्यस्वरूपाववस्थितौ | तेजोवायवाख्यौ भोक्तृस्वभावौ संस्थितौ | आकाशं चैतद्युग्मान्तरस्थं सत्सुषिरतया सर्वप्रनाडिकान्तरोदितं प्. ६) च बहुधा विभक्तम् | पृथिव्यादिवायवन्तं भूतचतुष्टयं भोग्यरूप-माकाशं च भोक्तृस्वभावमिति वा | भोग्येऽपि भोक्ता सदैव तिष्ठति; भोक्तर्यपि भोगो नित्यं विभाति | एवमुक्तयुक्त्या प्रत्येकं पृथिव्यादिमहाभूत-पञ्चकं युग्मेन द्वयविभूत्या अनारतं प्रोल्लसतीत्यभिप्रायः | अथवा प्रत्येकं व्यक्ताव्यक्ततया बहिरन्तरतया शान्तोद्रिक्ततया वा विभाति | एतत्पञ्चकस्थानसंस्थितयुग्मस्य ऽग्रासात्ऽ संहरणात् ऽनिरवकाशसंविन्निष्-ठाऽ निरवकाशा येयं संवित् तस्या निष्ठा सम्यगविपर्यस्ततया संस्थितिः | निरवकाशसंवित्त्वेन नापि सविकल्पसंविदुन्मेषैरवकाशो लभ्यते, नापि निर्विकल्पसंवित्स्वभावेन प्रवेशोऽधिगम्यते | इत्थमप्रमेयत्वान्निरुत्तरपर- माद्वयस्वभावत्वाच्च निरवकाशसंविदिहोच्यते | तस्या निष्ठा वरगुरुप्रदर्-शितदृशा सततमच्युता गतिः केषांचिद्भवतीत्यर्थः | एवं द्वयात्मककुल-कौलकवलनेन निरुपाधिनीरूपनिःस्वरूपतादात्म्यं भवतीत्यर्थः || ४ || प्. ७) द्वयविगलनेन परतत्त्वावस्थितिं युग्मचर्चागमनिकया इह उक्त्वा, तदनु संघट्टकथासाक्षात्कारो निरूप्यते सिद्धयोगिनीसंघट्टान्महामेलापोदयः || ५ || सिद्धाश्च योगिन्यश्च ताः सिद्धयोगिन्यः विषयकरणेश्वरीरूपाः | तासां संघट्टः संगमो ग्राह्यग्राहकोभयसंश्लेषः परस्परागूरण-क्रमेणालिङ्गनम् | तेन आलिङ्गनेन सदैव ऽमहामेलापोदयःऽ महामेलापस्या-हन्तेदन्तात्मकद्वयविगलनात् निरुत्तरचिद्व्योम्नि सततं महासामरस्यात्मकस्य सर्वत्र प्रत्यक्षतया उदयः समुल्लासो भवति इत्यर्थः | वेद्यवेदकद्वयाप्रथन-प्रवृत्त्या परमाद्वयसमावेशः सर्वत्रावस्थित इत्युक्तं भवति || ५ || उभयविगलनेन सदैव महामेलापोदयमुक्त्वा, तदनु कञ्चुकत्रयोल्लङ्-घनेन निरुत्तरपदप्राप्तिं कटाक्षयन्ति त्रिकञ्चुकपरित्यागान्निराख्यपदावस्थितिः || ६ || त्रिकञ्चुकस्य भाविकभौतिकशून्यभेदभिन्नस्य | प्. ८) तत्र भाविकं शब्दाद्यहंकारपर्यन्तं तन्मात्ररूपं, भौतिकं पृथिव्यादिरूपं, शून्यं निरीहाख्यं वासनास्वरूपं च | अथवा भाविकं घटाकारं बाह्यं ग्राह्यविषयरूपं, भौतिकं पुनरान्तरमिन्द्रियात्म-कं ग्रहणरूपं, शून्यं तदुभयमध्यमाकाशम् | अथवा भाविकं स्वप्नावस्था सृष्टिरुच्यते, भौतिकं जाग्रत्प्रथा स्हितिर्निगद्यते, शून्यं सुषुप्तदशा संहारोऽभिधीयते | इत्थं संस्थितस्य त्रिकञ्चुकस्य ऽपरित्यागात्ऽ सन्न्यासात् ऽनिराख्यपदावस्थितिःऽ निर्गता आख्या अभिधानं यस्य असौ निराख्यः अव्यपदेश्यमनुत्तरं वागुत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णा-निकेतनपरमाकाशेऽवस्थितिः सदैव अपरिच्युतस्वभावनिष्ठा भवतीति संबन्धः || ६ || इत्थं कञ्चुकत्रयोल्लङ्घनेन तुर्यपदप्राप्तिं निरूप्य, इदानीं सर्ववाक्प्रथासु निरावरणासु स्वरभूतिविजृम्भैव प्रथते सदैव, - इति निरूपयन्ति वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते || ७ || आदौ तावत् वाक्चतुष्टयं निर्णीयते | निरावरणनिरवकाशोदयनिरुत्तरनिस्तरङ्गपरमनभसि- उच्छलत्किंचिच्चलनात्मकप्रथमस्पन्दविकासस्वभावा प्. ९) वर्णरचनां मयूराण्डरसन्यायेन अद्वयमहासामरस्यतया अन्तर्धारयन्ती परेति प्रथिता | सैव च अनाहतनादस्वरूपतामवाप्ता निर्विभागधर्मिणी समस्तवर्णोदयं वटधानिकावदन्तर्धारयन्ती द्रष्ट्टस्वभावा पश्यन्तीति व्यपदेश्या | सैव च संकल्पविकल्पनिवहनिश्चयात्-मबुद्धिभूमिं स्वीकृतवती वर्णपुञ्जं शिम्बिकाफलन्यायेन अन्तर्धारयन्ती मध्यमा इत्यभिहिता | सैव हृत्कण्ठताल्वादिस्थानकरणक्रमेणाहता सती वर्णविभवमयश्लोकादिवत् भेदरूपं प्रकटयन्ती रूपादिसमस्तविश्वप्र-थां च व्यक्ततामापादयन्ती वैखरीत्युक्ता | इत्थं निरवकाशात् संवित्पदात् वाक्चतुष्टयमविरतमनिरोधतया प्रथते | एवमीदृक्स्वभाववाक्चतुष्टयस्य उदयश्च विरामश्च तावुदयविरामौ सृष्टिसंहारौ, तयोः प्रथा व्यक्ताव्यक्त-तया सदैव अविरतमुल्लसन्त्यः स्फुरन्त्यः, तासु प्.१०) ऽस्वरःऽ अनाहतहतोत्तीर्णमहानादोल्लासविकासस्वभावः ऽप्रथतेऽ सविकल्पनिर्विकल्पसंविदुत्तीर्णपरवियदुदयमेव प्रकाशितं सततमकरणप्र-वृत्त्या प्रयातीत्यर्थः | इत्थं नानाभेदोल्लासप्रकाशरूपेषु वर्णनिवहोदयेषु मध्यात् प्रतिवर्णान्तरे वाक्चतुष्टयक्रमेण अखण्डितवृत्त्या स्वस्वरूपमपरि-त्यज्य यथामुखोपदिष्टनीत्या स्वर एव प्रथते, - इत्युक्तं भवति || ७ || इति वाक्चतुष्टयोदयक्रमेण निरावरणस्वरोदयः सर्वत्र सर्वकालं स्फुरति, - इति निरूप्य, इदानीं रसत्रितयाभोगे सति परं धामैव निरुत्तरं चकास्ति, - इति निगद्यते रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म || ८ || रसत्रयं गुरुमुखोदितदृशा मनागीषत् प्रकाश्यते | मूलाधार- पयोधराधारप्रथिताकृत्रिमरसत्रितयाभोगे सति ऽअनिच्छोच्छलितंऽ निष्कामतया प्रोल्लसितं ऽविगतबन्धंऽ विरहितभेदप्रथात्मकसंसारा- वग्रहं शान्तचित्रोभयविधब्रह्मस्वरूपसमुत्तीर्णं प्. ११) किमपि निरुत्तरप्रकृष्टतरामर्शसंवित्स्वभावं परं ब्रह्मैव सततमनस्तमितस्थित्या विजृम्भत इत्यर्थः | एतदेव रहस्यक्रमेणोच्यते | मूलाधारस्तु प्रथमप्रतिभोल्लासमहानादविशेषः सृष्टिस्वभावः भेदाभेदात्मकसंवित्पदार्थप्रथमाश्रयभित्तिभूतत्वात् | पयोधरस्तु पयः समस्ताप्यायकत्वात् सर्वाश्रयसंवित्स्वरूपं तदेव धारयति स्थितिप्ररोहमवलम्बयति यः स्पन्द आद्योन्मेष एव सर्वपदार्थावभास- नात् स्थितिरूपः | आधारस्तु जडाजडभावपदार्थोपसंहारकत्वात्प्रत्- यावृत्तिसंवित्स्वभावः संहारः | एतत्त्रयोद्भूतं रसरूपं तत्तदनु- भवचमत्कारसामरस्यमास्वाद्य स्वात्मनि अकृतकखमुद्रानुप्रवेशात् विमृश्य, तुर्यस्वभावो महासंहाराख्योऽनवरतं परमाद्वयतया विभातीति रहस्यार्थः || ८ || एवं निरवकाशभङ्ग्या रसत्रितयचर्चासंप्रदायं निरूप्य, इदानीं देवीचतुष्टयकथासाक्षात्कारः प्रकाश्यते प्. १२) देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यवस्थितिः || ९ || देवीचतुष्टयं क्षुत्तृडीर्ष्यामननाख्यम् | तत्र च सर्वग्रासनिरत- त्वात् क्षुदेव महासंहारः | सर्वशोषकत्वात् तृडेव संहारः | ईर्ष्या द्वयप्रथापादिका ग्राह्यग्राहकपरिग्रहग्रथिता स्थितिरूपा | मनना च संकल्पविकल्पोल्लासरूपा सृष्टिः | एतद्रूपस्य देवीचतुष्टयस्य च ऽउल्लासेनऽ घस्मरसंवित्प्रवाहप्रवृत्त्या प्रथनेन ऽसदैवऽ सर्वकालं प्रत्येकं चातुरात्म्येनोद्योगाभासचर्वणालंग्रासवपुषा स्वस्वरूपा- वस्थितिः पञ्चमपदातिशायिनी निरवकाशसंविन्निष्ठा स्थितेत्यर्थः || ९ || इत्यनेन सूत्रेण देवीचतुष्टयकथाक्रमं प्रकाश्य, इदानीं द्वादशवाहचक्ररहस्यं निरूप्यते द्वादशवाहोदयेन महामरीचिविकासः || १० || मनःसहितं श्रोत्रादिबुद्धीन्द्रियपञ्चकं, तथा बुद्धिसहितं वागादि- कर्मेन्द्रियपञ्चकम्, एतदुभयसमूहो ऽद्वादशवाहःऽ | प्. १३) तस्य उल्लासः अहेतुकेन केनापि अतिविशृङ्खलतरधामनिरुत्तरनिस्तर- ङ्गपरस्वातन्त्र्यवृत्त्या घस्मरसंवित्प्रवाहः | तेन महामरीचीनां निरावरणक्रमेण प्रत्येकस्मिन् प्रवाहे उद्योगावभासचर्वणालंग्रास- विश्रान्तिरूपाणां महासंविद्रश्मीनां ऽविकासःऽ नियतानियतचिदचित्- प्रथाविगलनेन नित्यविकस्वरस्वभावो महाप्रबोधः सततमविनश्वर- तया सर्वत्र सर्वतः सर्वदैव स्थित इति महावाक्यार्थः || १० || इत्यकरणसिद्धं सदैव निरावरणपदसमावेशं द्वादशवाहो- दयदृशा प्रकाश्य, इदानीं चर्यापञ्चकसंप्रदायं निरूपयन्ति चर्यापञ्चकोदये निस्तरङ्गसमावेशः || ११ || चर्यापञ्चकं त्वनाश्रितावधूतोन्मत्तसर्वभक्ष्यमहाव्यापक- स्वरूपम् | तस्य उदयो नियतानियतशक्तिसमूहान्तरोदितो विकासस्वभाव उल्लासः | तस्मिन्सति ऽनिस्तरङ्गसमावेशःऽ आणव - शाक्त -शाम्भवोदय- रूपसमस्ततरङ्गपरिवर्जितसमावेशलक्षणनिरुत्तरसमावेशधर्मैव प्. १४) प्रथत इत्यर्थः | चर्यापञ्चकक्रमं च वितत्य निरूपयामि | तत्र अनाश्रिता निराधारत्वात् परमाकाशरूपा श्रोत्रसुषिरप्रदेशगमनेन स्वग्राह्यवस्तूपसंहरणाय उद्गता | अवधूता च अनियततया सर्वत्र- विहरणदृक्शक्तिमार्गेण स्वसंहार्यस्वीकरणाय उन्मिषिता | उन्मत्ता च विचित्तवत्स्वतन्त्रतया ग्राह्यग्राह्यसंबन्धाविवक्षया स्वविषयग्रह- णाय प्रथिता | सर्वभक्ष्या भक्ष्यसंस्कारनिखिलकवलनशीला स्वसंहार्यपदार्थग्रसनाय उदिता | सर्वव्यापिका च त्वग्वृत्तिगमनिकया निखिलव्यापकत्वात् अशेषस्पर्शस्वीकरणाय उन्मिषिता; - इति चर्यापञ्चकोदयः || ११ || सततसिद्धचर्याक्रमं निरूप्य, इदानीं निर्निकेतपरज्ञानप्रकाशावलम्बनेन पुण्यपापनिवृत्तिकथां निरूपयन्ति महाबोधसमावेशात्पुण्यपापासंबन्धः || १२ || ऽमहाबोधःऽ च ज्ञातृज्ञानज्ञेयविकल्पसंकल्पकालुष्यनिर्मुक्तो प्. १५) निःशमशमानिकेतनिर्धामधामप्रथात्मकः परतरज्ञानस्व- भावः क्रमाक्रमोत्तीर्णत्वात् महागुरुभिः साक्षात्कृतः | तस्य ऽसमावेशःऽ अकरणक्रमेण यथास्थितसंनिवेशेन त्यागस्वीकारपरिहार- तः सततमुच्युतवृत्त्या तद्रूपेण स्फुरणं | तस्मात् ऽमहाबोधसमावेशात्ऽ पुण्यपापयोः शुभाशुभलक्षणकर्मणोर्द्व- योः स्वफलद्वयवितरणशीलयोः ऽअसंबन्धःऽ असंश्लेषः असंयोगश्च अनवरतं जीवत एव वीरवरस्य अपश्चिमजन्मनः कस्यचित्सर्वकालमकृत- कानुभवरसचर्वणसंतृप्तस्य भवभूमावेव बन्धमोक्षोभयोत्तीर्णमहामुक्तिः करतलामलकवत् स्थितेत्यर्थः || १२ || स्वस्वरूपप्राप्तिपूर्वकं पुण्यपापतिरस्कारचर्चाक्रममुक्त्वा, इदानीं स्वरसिद्धमौनकथामुद्धाटयन्ति अकथनकथाबलेन महाविस्मयमुद्रा- प्राप्त्या खस्वरता || १३ || अकथनकथाबलं गुरुमुखोपदिष्टसंप्रदायक्रमेण प्. १६) मनागिह चर्च्यते | अस्य अकारस्य हतानाहतानाहतहतानाहतहतोत्- तीर्णतया चतुर्धोदितरूपस्य कथनं वक्त्राम्नायचर्चासंनिवेशन- मित्यकथनम् | तत्र हतस्तावत् कथ्यते - हृत्कण्ठताल्वादिस्थानकरणसं- निवेशैर्हतः अकारादिहकारपर्यन्तनानापदार्थावभासकः | अनाहतश्- चास्वरमूलोल्लसितपरनादविस्फारस्तन्त्रीमध्यमास्वरसंकेतक आकण्ठकूपान्तादुपचारतः कृतप्रतिष्ठः | अनाहतहतश्च उभयाश्रि- तोन्मिषितोऽहतो विश्रान्तशष्कुलीश्रवणगोपनोद्भिन्नप्रथः श्रवणयुग्ममध्यवर्त्याकाशात् तत्त्वप्रतिबिंबतत्त्वदेहतोऽपि हतोऽना- हतहतः | अनाहतहतोत्तीर्णश्च महानिरावरणधामसमुल्लसितोऽविकल्प ईषच्चलत्तात्मकमहास्पन्दप्रथमकोटिरूपः स्वरः संकोचविकासविर- हात् परमविकासरूपः अस्पर्शधर्मानुच्चार्यमहामन्त्रप्रथात्मकः | तथा च अनाहतहतोत्तीर्णो यः स शृंगाटकाकारो रौद्रीस्वभावस्तुर्यः | अनाहतहतश्च अनच्ककलात्मकवक्त्रसंस्थानो वामारूपः सुषुप्तः | अनाहतश्च बाहुरूपाम्बिकाशक्तिर्या आगमे प्. १७) निरूपिता तत्स्वरूपः स्वप्नः | हतश्चायुधाकारो ज्येष्ठास्वभावो जाग्रत् | इत्येतच्चतुष्टयस्वभावस्य आद्यवर्णस्य कथनं पारम्पर्य- मुखयुक्तिविशेषः | तस्य बलं हतादिरूपत्रयोल्लसितानाहतहतोत्तीर्णराव- स्फुरत्तारूपं वीर्यं तेन ऽअकथनकथाबलेनऽ | तत्रैवमकथनं वाक्- प्रपञ्चोत्तीर्णमकथनमेव कथनं संक्रमणक्रमेण निर्निकेतस्वरू- पावधानं तदेव बलमकृतकस्फारसारम् | तेन संक्रमणं च मनागिह वितन्यते | प्राणपुर्यष्टकशून्यप्रमातृनिविष्टाभिमानविगल- नेन निस्तरङ्गप्रविकचच्चिद्धामबद्धास्पदो दैशिकवरो निःस्पन्दानन्द- सुन्दरपरमशून्यदृग्बलेन कार्यकरणकर्मनिरपेक्षतया यद्यत्किंचित्- सर्वगतात्मस्वरूपप्रत्तिपत्तौ अवलोकयति तत्तत्परतरचिन्मयमेव सततं भवति, - इति नास्त्यत्र सन्देहः | तथा चान्यद्व्याख्यान्तरमाह - कथनं तावत् षड्दर्शनचतुराम्नायमेलापक्रमसमूहेषु पूजनक्रमोदितनिय- तानियतदेवताचक्रावलम्बनेन स्फुरति | प्. १८) इह पुनः पूज्यपूजकपूजनसं-बन्धपरिहारेण श्रीमद्वातूल- नाथादिसिद्धप्रवरवक्त्राम्नायदृशा सततसिद्धमहामरीचिविकास एव सर्वोत्तीर्णस्वरूपाविभिन्नः सर्वदैव सर्वत्र विराजते, - इत्यकथनकथा- बलं तेन महाविस्मयप्राप्तिर्भवतीति सम्बन्धः | ऽमहाविस्मयःऽ च विगतो विनष्टः स्मयो मितामिताहंकारदर्पः सर्वोल्लंघनवृत्त्या स्वरूपानुप्रवेशः | अथ च महाविस्मयः स्वपरभेदविस्मरणात् झटिति निरन्तरनिरर्गलखेचरवृत्तिसमावेशः | सैव सर्वमुद्राणां क्रोडीकर- णात् ऽमुद्राऽ तस्या मौनपदसमावेशमयता | तया हेतुभूतया ऽखस्वरताऽ त्रयोदशकथाकथनसामरस्यात्मकः खस्वरस्तस्य भावः सामरस्यप्रथनं भवतीत्यर्थः | खस्वरस्तु खमपि भावशून्यमपि स्वेन राति व्याप्नोति स्वीकरोति आदत्ते, - इति खस्वरः || १३ || षड्दर्शनचातुराम्नायिकसर्वमेलापकथात्रयोदशकथासाक्षात्- कारोपदेशभङ्ग्यानुत्तरपदाद्वयतया कस्यचिदवधूतस्य पीठेश्वरी- भिर्महामेलापसमये प्. १९) सूत्रोपनिबद्धो वक्त्राम्न्यायः प्रकाशितः | तस्यैवेह मनाक् सतामवबोधार्थमस्माभिर्वृत्तिरियं कृता इति शिवम् | इति परमरहस्यं वाग्विकल्पौघमुक्तं भवविभवविभागभ्रान्तिमुक्तेन सम्यक् | कृतमनुपममुच्चैः केनचिच्चिद्विकासा- दकलितपरसत्तासाहसोल्लासवृत्त्या || समाप्तेयं श्रीमद्वातूलनाथसूत्रवृत्तिः | कृतिः श्रीमदनन्तशक्तिपादानाम् | श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येयं प्रकाशिता || ########### END OF FILE #######