#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00253 Uniform title: vīrāgama Manuscript : IFP/EFEO transcript T0029 Description: Transcribed from IFP transcript T0029 which is copied from a manuscript from Kilvelūr See Muktabodha IFP/EFEO on-line catalog for bibliographic details at www.muktabodha.org . Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: April 3, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. ३) वीरागमः || विघ्नवारण विघ्नेशः सर्वदेव नमस्कृतः | संनिधत्तां च मे वाणी भुवनत्रयवन्दिता || १ || मेरुमध्ये समासीनं ऋषिसंघैस्समावृतम् | सेवितं भूतसंघैश्च भूतप्रेत पिशाचकैः || २ || गन्धर्वैश्च समायुक्तं सोमार्घकृतशेखरम् | तदा ब्रह्मा समुत्थाय प्रणम्य स्तुतवान्प्रभुम् || ३ || प्रसीद देवदेवेश ! प्रसीदपरमेश्वर ! | प्रसीद जगतां नाथ ! प्रसीदानन्ददाव्यय ! || ४ || सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः | सहस्रपादयुक्ताय शर्वाय परमात्मने || ५ || सहस्ररूपशान्ताय महेशाय पिनाकिने | हुंकाराय नमस्तुभ्यं वषट्काराय ते नमः || ६ || फट्काराय नमस्तुभ्यं स्वाहाकार नमो नमः | सर्वज्ञाय शरण्याय सद्यो जाताय ते नमः || ७ || तत्पुरुषाय नमस्तुभ्यं श्रीकण्ठाय शिखण्डिने | अनन्तासन संयुक्तमनन्तायान्त कारिणे || ८ || विमलाय विशालाय विशाखानाय ते नमः | योगपीठान्तरस्थाय योगिने योगदायिने || ९ || योगिनां हृदि संस्थाय योगगम्याय ते नमः | पराय परमेशाय निर्गुणाय नमोऽस्तुते || १० || प्. ४) आत्मत्रयोपरिस्थाय निष्कलाय कपर्दिने | अध्वानदायिने तुभ्यं षडध्वाय नमोऽस्तुते || ११ || प्रत्याहाराय ते नित्यं प्रत्याहाराय ते नमः | प्रत्याहारस्थितानां तु प्रतिष्ठानां स्थिताय च || १२ || धारणाय नमस्तुभ्यं धारणाभिधराय च | धारणाभ्यास युक्तानां पुरस्तात्संस्थिताय च || १३ || ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः | ध्येयाय ध्येयगम्याय ध्येयाध्येयाय ते नमः || १४ || ध्येयानामपि ध्येयानां नमो ध्येयतमाय ते | समाधिनाऽधिगम्याय समाधानाय ते नमः || १५ || समाधानरतानां तु हृदिस्थाय शिवाय ते | सहस्राक्षरदेवाय अयुताक्षररूपिणे || १६ || अयुताक्षरदेवाय अयुताक्षर ते नमः | * * * * * * * णि त्वयान्तमपुरा प्रभो || १७ || तेषां तु वीरतन्त्राणि ब्रूहि मे परमेश्वर | पितामह महाप्राज्ञ ! मया निगदिता शृणु || १८ || ज्ञानचर्याक्रिया योगैश्चतुष्पादैस्समन्वितः | अष्टाष्टौ च स्थानानि शृणु च तपोधन || १९ || वाराणस्यां महादेवः प्रयागे तु महेश्वरः | नैमिशे देवदेवश गयायां प्रपितामह || २० || प्. ५) कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् | पुष्करे जरजे गन्धिं विश्वन्तविमलेश्वरम् || २१ || अट्टहासं महानादं महेन्द्रे तु महावृतम् | उज्जयिन्यां महाकाल्यं महाकाटे मदोत्कटम् || २२ || शंकुकर्णे महादेवं गोकर्णे तु महाबिलम् | रुद्रकोट्यां महायोगी महालिंगं स्थलेश्वरे || २३ || केदारे शम्भुमीशानं रुद्रं रुद्रहिमालये | स्वर्णाक्षे सहस्राक्षं वृषे च वृषभध्वजम् || २४ || भैरवे भैरवं चैव भवं भ(व)प्रदे विदुः | सूर्यं कनखले चैव भद्रकर्णे सदाशिवम् || २५ || देवदारुवने दण्डी शंकरं वरुजंकरवे | ऊर्ध्वरेतास्त्रि सिद्धायां कारण्डे तु कपर्दिनम् || २६ || कृत्तिवासं तु वामोढ्रे क्ष्मा * * * * लेश्वरे | ध्याने शुद्धेश्वरं चैव गायत्र्या मुक्तकेश्वर || २७ || विजयं चैव काश्मीरे जयन्ती मरुकेश्वरे | समलिंगं विरस्थाणुं कपालिं करवीरके || २८ || त्र्यम्बकं त्रिसन्ध्यायां वीरजायां त्रिलोचनम् | दीप्ते मरुकेश्वरो ज्ञेयं नेपाले तु पशोः पतिम् || २९ || श्रीकायारोहणे लकुली देविकायामुमापतिम् | गंगासारे अमर * * * * मोकारमरे || ३० || प्. ६) हरिश्चन्द्रेऽब्धिनं चैव कुरुश्चन्द्रे वृशंकरम् | जटिलं वामेश्वरं चैव सौम्यं च ककुदेश्वरौ || ३१ || सप्तगोदावरे भीमं स्वयंभुं नागलेश्वरौ | जप्येश्वरे त्रिशूलं च श्रीशैले त्रिपुरान्तकम् || ३२ || कर्णिकारोहणेऽध्यक्ष्यं कैलासे तुर्गणां पतिम् | हेमकूटे विरूपाक्षं भूभुवं गन्धमादने || ३३ || भूतेश्वरे भस्मगात्रमनलं गन्धवामुखे | दानवानां वधार्थाय वाराहं विन्यकेश्वरे || ३४ || पर्वते श्लिष्टकोटीश्वरे तीर्थं वरिष्ठायांमिष्टकापरे | लंकायामर्धदेवैसं पाताले हाटकेश्वरम् || ३५ || लिंगेश्वरे तु वरदमल्लिंगे जलप्रियम् | अष्टषष्टिं तु नामानि मया प्रोक्तानि तेऽनघ || ३६ || इति वीरतन्त्रे अष्टषष्टिस्थान (कथनं नाम) प्रथमः पटलः || १ || प्रणम्य भगवन्तं हि पर्यपृच्छत्पितामहः | तन्त्राणामुद्भवं किंचित्तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | तनोति विपुलानर्थान्तत्वमन्त्र समाश्रितान् || २ || प्. ७) त्राणं च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् | कामिकं योगजं चिन्त्यं कारणं चाजितं तथा || ३ || दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् | विजयं चैव निश्वासं स्वायंभुवं तथानलम् || ४ || वीरं च रौरवं चैव माकुटं विमलं तथा | चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा || ५ || सिद्धं सन्तानं शर्वोक्तं पारमेश्वरमेव च | किरणं वातुलं चैव अष्टाविंशतिसंहिताः || ६ || कामिकादीनि तन्त्राणि तेषां भेदं ततः शृणु | कामिकं चैव विप्रेन्द्र त्रिविधं भेदमुच्यते || ७ || योगजं च विशेषेण पंचभेदेन * च्यते | चिन्त्यं च षड्विधं प्रोक्तं सप्तधा कारणं भवेत् || ८ || अंशुमान्द्वादशं भेदं प्रोच्यते कमलासन ! | सुप्रभेदस्य विख्यातं भेदमन्यन्न विद्यते || ९ || शिवभेदं मया प्रोक्तं रुद्रभेदं शृणुष्वथ | विमलं च विशेषेण अंशुमान्सुप्रभेदकम् || १० || विजयं चैव निश्वासं स्वायंभुवमथानलम् | वीरं च रौरवं चैव मकुटं विमलं तथा || ११ || चन्द्रज्ञानं च बिम्बं च शेषाणां भेदमुच्यते | स्वायंभुवे विशेषेण तद्विधेन प्रवक्ष्यते || १२ || प्. ८) आग्नेयमेकरुद्रं तु भेदमन्यन्न विद्यते | वीरतन्त्रं च विप्रेन्द्र त्रयोदशं भेदमुच्यते || १३ || रौरवं षट्सुभेदेन प्रोच्यते सकलं मया | मकुटाख्यं महातन्त्रं द्विविधेनाभिधीयते || १४ || विमलाख्य महातन्त्रं चतुर्दशविधं भवेत् | चन्द्रज्ञानं च बिम्बं च चतुर्दशविधं भवेत् || १५ || मुखबिम्बं च विप्रेन्द्र भेदं पंचदशं भवेत् | प्रोद्गीताख्यं महातन्त्रं षोडशं भेदमुच्यते || १६ || ललिताख्यं महातन्त्रं त्रिधा भेदेनचोच्यते | सिद्धतन्त्रं च विप्रेन्द्र चतुर्विधेन चोच्यते || १७ || सन्तानाख्यमहातन्त्रं सप्तभेदेन चोच्यते | शर्वोक्तं तु महातन्त्रं पंचभेदेन चोच्यते || १८ || पारमेश्वर तन्त्रं तु सप्तभेदेन वक्ष्यते | किरणाख्यं महातन्त्रं नवधा भेदमुच्यते || १९ || वातुलं तु महातन्त्रं भेदं द्वादशमुच्यते | तन्त्रकायं प्रवक्ष्यामि तव स्नेहाद्विशेषतः || २० || हस्तौ च पादौ च ऋज्वागातस्थितं भवेत् | जटामकुटसंयुक्तं देववन्मुखमुच्यते || २१ || शुक्लवस्त्रपरीधानं शुक्लयज्ञोपवीतिनम् | मुखं प्रति त्रिणेत्रं स्यात्सर्वांगलक्षणैर्युतः || २२ || प्. ९) पदमूर्ध्वस्थितं देवं सर्वाभरणभूषितम् | तत्र कायं महाप्रोक्तं सर्वकामार्थसाधनम् || २३ || पुस्तकस्य प्रमाणं च शृणुष्व कमलासन | चतुर्दशांगुलं वापि पंचदशांगुलं तु वा || २४ || षोडशांगुलमेवं वा सप्तदशांगुलं तु वा | अष्टादशांगुलं वापि नवदशांगुलं तु वा || २५ || अथवा विंशतिर्वापि एकविंशतिरेव वा | द्वाविंशतिर्वा विप्रेन्द्र कारयेद्देशिकोत्तमः || २६ || एवं पुस्तकं चैव मानांगुलेन कारयेत् | उत्सेधं चाष्टधा हित्वा एकांगुलं चैव विस्तरम् || २७ || विस्तारार्धं घनं प्रोक्तं पार्श्वौ कंपदयेण्यजेत् | त्रिभागं तु चतुर्भागं मध्ये सुषिरमुच्यते || २८ || वसुभिर्गुणितं तत्रास्विभिश्च हरेत्ततः | शेषमायमिति प्रोक्तं गुणैरेव विवर्जयेत् || २९ || हरेच्चतुर्दशेनैव शेषं व्यय मिहोच्यते | पदं प्रतिगुणे वृद्धिरष्टभिर्ह्रासयेत्ततः || ३० || शेषं योनिरितिख्यातमष्टाभिर्वर्धितं पदम् | सप्तविंशतिभिर्ह्रासं लब्धमिष्टमिति स्मृतम् || ३१ || शेषं नक्षत्रमेवोक्तमष्टाभिर्व्यर्धितं पदम् | त्रिंशद्भिर्ह्रासयेत्तानि शेषं तिथिरिहोच्यते || ३२ || एवं पुस्तकमानं तु आद्य व्यायदिकं शृणु | लब्धोच्चं चैव विप्रेन्द्र मानांगुलेन भाजयेत् || एकांगुलं पदं प्रोक्तं हीनांगुलं च वर्जयेत् | समं चेत्तत्परिग्राह्य मायव्ययमिहोच्यते || प्. १०) अष्टाभिर्वृध्य तं चैव सप्तभिर्ह्रासयेत्ततः | शेषं वारमिति प्रोक्तं आयं व्ययं च योनि च || ३३ || आयुष्यं चैव नक्षत्रं तिथिवारमुदाहृतम् | आयाधिकं व्ययं हीनं संपत्करमिहोच्यते || ३४ || आयहीने व्ययाधिक्ये दोषाकरमिहोच्यते | तस्मात्सर्वप्रयत्नेन आयहीनं न कारयेत् || ३५ || ध्वजसिंहं च वृषभो हस्ति चेध्वच्चनाय च | धू?म्रश्वा गर्दभं काको दोषान्येतानि वर्जयेत् || ३६ || यजमानस्य ऋक्षेण नक्षत्रं चानुकूलकम् | एवं परीक्ष्य बहुधा कर्तव्यं पुस्तकं परम् || ३७ || ऋषिच्छन्दोधिदेवानां वक्ष्ये तु कमलासन | विश्वामित्रोऽथ वाल्मीकिः काश्यपश्चाङ्गिरास्तथा || ३८ || गौतमो मुद्गलो गार्ग्यो वसिष्ठश्चोशनास्तथा | चतुर्दशांगुलादीनि क्रमाद्विन्यस्य देहिनः || ३९ || त्रिष्टुभचैलानुप्रकृतिमविकृतिस्तथा | जगती शत्वरी चैव अतिशत्वरि एव च || ४० || उत्तमण्यक्तमेवं तु छन्दसानां विधीयते | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च || ४१ || कालरुद्रो नीलरुद्रः प्रलयानिल सदाशिव | चतुर्दशांगुलादीनि देवानामिहचोच्यते || ४२ || प्. ११) मषिणा लेखयेद्वापि वर्णेनैव तु लेखयेत् | षट्पंक्तिर्वाथ पंचैर्वा लेखयेत्पुस्तकं ततः || ४३ || ऋषिश्च वसवश्चैव ग्रहदिक् त्वैकशूद्रकम् | पंक्तिरेवं समाख्यातं तत्तन्नामाधिदेवता || ४४ || एवं लक्षणसंयुक्तं राजराष्ट्र विवर्धनम् | ऋषीणां भूर्जपत्रे तु लेखयेत्तु द्विजोत्तम || ४५ || स्वर्णया तालपत्रे तु लेखयेद्देशिकस्सदा | द्वौ पार्श्वकम्प संयुक्तौ पुस्तकायमतत्समम् || ४६ || प्रतिष्ठाविधिं प्रवक्ष्यामि लक्षणेन समन्वितम् | शिवाग्रे मण्डपं कुर्यादीशाने दक्षिणेऽपि वा || ४७ || मण्डपं तु त्रिधामध्ये वेदीं कृत्वा विचक्षणः | वेदीबाह्ये तु परितः पंच कुण्डानि कारयेत् || ४८ || वृत्तं वा चतुरश्रं वा कुण्डान्येतानि कारयेत् | स्थण्डिलं वा प्रकर्तव्यं लक्षणेन समन्वितम् || ४९ || मण्डपे नैर्-ऋते भागे शालिना स्थण्डिलं कुरु | यथांकुरार्पणं कुर्यात्पंचाहे वा त्र्यहेपि वा || ५० || सोमकुम्भं च तन्मध्ये स वस्त्रं सापिधानकम् | स हिरण्यं सकूर्चं च सोमराजाधिदैवतम् || ५१ || कृत्वा नवपदं तत्र मध्यमे सोमकुम्भकम् | विन्यसेत्तु विशेषेण पालिकाश्चाष्टदिक्षु च || ५२ || प्. १२) माषमुद्गकुलस्थं च सर्षपं चैव वापयेत् | हृदयेन तु मन्त्रेण बीजानि विन्यसेत्ततः || ५३ || दैवतात्कुंभानभिषिच्य ततो जलम् | सुप्तदेशे समुत्थाप्य पालिकाः स्थापयेत्ततः || ५४ || पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् | स्वर्णेन तन्तुना विप्र कौतुकं बन्धयेद्धृदा || ५५ || एलालवंगतक्कोलमुशीरश्चन्दनैर्युतम् | लेपयेत्पुस्तकं तत्र शयने शाययेत्ततः || ५६ || शालिना विकिरेद्वेदिं पद्ममष्टदलं लिखेत् | शाल्यर्धांस्तण्डुलान्न्यस्य तण्डुलार्धं तिलान्न्यसेत् || ५७ || पंचधा शयनं कल्प्य शाययेत्पुस्तकं तदा | तत्तदागमबीजेन शाययेच्छयनोपरि || ५८ || ह्रस्वं ब्रह्म समाख्यातं दीर्घाण्यंगानि चोच्यते | आद्यक्षरसमायुक्त मनुस्वारसमन्वितम् || ५९ || ब्रह्ममंगमिति प्रोक्तं सर्वेषां च विधीयते | वस्त्रेणावेष्टयेत्तत्र पुस्तकं च विशेषतः || ६० || दर्पणं चैव विप्रेन्द्र एवमेव क्रमेण तु | सरस्वतीं न्यसेत्तत्र पुस्तकस्य तु मध्यमे || ६१ || पुस्तकस्यैशदिग्भागे विन्यसेत्कुम्भमेव च | शुद्धोदकेन संपूर्य स कूर्चं सापिधानकम् || ६२ || प्. १३) स वस्त्रं स हिरण्यं च सरस्वतीं न्यसेत्ततः | मूलमन्त्रेण विन्यस्य अर्चयेत्तु विशेषतः || ६३ || पूर्वादीशानपर्यन्तं विन्यसेद्वर्धनीषु च | स वस्त्रं सहिरण्यं च सकूर्चादीनि विन्यसेत् || ६४ || वामाज्येष्ठा च रौद्री च काली कलविकरणी तथा | बलविकरिणीं बलप्रमथिनीं सर्वभूत दमनीम् || ६५ || पूर्वादीनि च विन्यस्य पुस्तके च मनोन्मनीम् | हृदयादीषसंघैश्च पूजयेत्तु विधानतः || ६६ || हविर्निवेदयेत्तत्र पश्चाद्धोमं समाचरेत् | पालाशः पूर्वतोभागे अश्वत्थं दक्षिणे तथा || ६७ || पश्चिमे बिल्वमेवं तु अपामार्गं तथोत्तरे | उदुम्बरं तथैशान्यां पालाशैर्वापि हूयते || ६८ || समिदाज्य चरुं लाजान्सर्षपांश्च यवांस्तिलान् | समिधं सद्यमन्त्रेण ईशानेनाज्यमेव च || ६९ || चरुं वै हृदयेनैव लाजान्वामेन चैव हि | सर्षपान्सद्यमन्त्रेण नेत्रेण तु यवांस्तथा || ७० || कवचेन तिलान्हुत्वा सप्तद्रव्यमिहोच्यते सहस्रं वा तदर्धं वा तदर्धं वापि हूयते || ७१ || अष्टोत्तरशतं वापि पंचाशत्पंचविंशतिः | द्रव्यान्ते व्याहृतिं हुत्वा पुस्तकं स्पर्शयेद्धृदा || ७२ || प्. १४) सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || ७३ || ततः प्रभाते विमले पूर्णाहुतिं विशेषतः | तत्तदागमबीजेन प्रोक्षयेद्बर्धनीं ततः || ७४ || सन्निधौ दर्पणं न्यस्य अभिषेकं तु कारयेत् | हविर्निवेदयेत्पश्चात्ताम्बूलं दापयेत्ततः || ७५ || आचार्यं पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः | ब्राह्मणान्पूजयेत्तत्र सप्तकन्याश्च पूजयेत् || ७६ || बोद्धमार्हतं चैव शैवं पाशुपतं तथा | कापालं पंचरात्रं च षडेते समयाः स्मृताः || ७७ || एतेषां संकारं चैव तन्त्र संकरमुच्यते | तन्त्रसंकरदोषेण राजराष्ट्रं विनश्यति || ७८ || तस्मात्सर्वप्रयत्नेन संकरं नैव कारयेत् | अष्टाविंशतिभेदेन शैवभेदं विधीयते || ७९ || एतेषां संकरं चैव न दोषाय प्रकल्पते | दीक्षितस्य सुबीरस्य शिवभक्तिरतस्य च || ८० || तस्मै देयं ततो ग्राह्यं * * तन्त्रमिहोच्यते | अदीक्षितं न श्रोतव्यं न देयं यस्य कस्य चित् || ८१ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | तन्त्रावतारमेवोक्तं पंचाक्षरं ततः शृणु || ८२ || इति वीरतन्त्रे षट्सहस्त्रिकायां तन्त्रावतारो द्वितीयः पटलः || २ || प्. १५) पितामह उवाच | नमस्कृत्य जगन्नाथं पर्यपृच्छत्पितामहः | श्रीपंचाक्षरकल्पं च तत्सर्वं वद मे प्रभो ! || १ || ईश्वर उवाच || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन | नमस्कारेण संयुक्तं शिव इत्यक्षरद्वयम् || २ || आदिवर्गचतुर्थ्यन्तं यवर्गं च द्वितीयकम् | तद्वर्गान्तं सप्तमं स्यात्पंचाक्षरमिति स्मृतम् || ३ || एतन्मन्त्रमनुस्मृत्य बिन्दुनादसमायुतम् | चतुर्थ्या तु समायुक्तं पंचाक्षरमिति स्मृतम् || ४ || नकारं च मकारं च शिकारं च वकारकम् | यकारेण समायुक्तं पंचाक्षरमिहोच्यते || ५ || प्रणवेन समायुक्तं पंचाक्षरमिति स्मृतम् | ऋग्वेदो जायते विप्र नकाराक्षरमुच्यते || ६ || मकारस्तु यजुर्वेदः शिकारः सामवेदकः | अथर्ववेदे वाकारं यकारमितिहासके || ७ || नकारं पृथिवी ज्ञेयं मकारं चाप एव च | शिकारं तैजसमायुक्तं वाकारं वायुमेव च || ८ || यकारं व्योमसंभूतं तत्तद्भूतेषु संस्थितम् | नकारं श्वेतवर्णं तु ईश्वरेण समायुतम् || ९ || सावित्रीछन्दसायुक्तं गौतमेन समायुतम् | स्थानं सद्योमुखं चैव नकाराक्षरमुच्यते || १० || प्. १६) मकारं पीतवर्णं तु ब्रह्मसूत्राधिदैवतम् | अनुष्ठुभ्छन्दसायुक्तं मन्त्रिणा च समायुतम् || ११ || स्थानं च वामदेवं स्यान्मकाराक्षरमुच्यते | वाकारं रक्तवर्णं तु स्कन्दस्तत्राधिदैवतम् || १२ || बृहती छन्दसायुक्तं अंगिरा च समन्वितम् | पुरुषस्य मुखं स्थानं वाकाराक्षरमुच्यते || १३ || यकारं शुक्लवर्णं तु विघ्नेशोऽत्राधिदैवतम् | सावित्री छन्दसा युक्तं भारद्वाजेन संयुतम् || १४ || ईशानस्य मुखस्थानं यकाराक्षर मुच्यते | पंचाक्षरमिति प्रोक्तं प्रणवं शृणु तत्वतः || १५ || अकारश्च उकारश्च मकारश्च त्रिधा भवेत् | अकारं ब्रह्मदैवत्यमुकारं विष्णुदैवतम् || १६ || मकारं महेश्वरस्तत्र अधिदेवाः प्रकीर्तिताः | ऋग्वेदस्तु अकारः स्याद्यजुर्वेदमुकारकम् || १७ || मकारं सामवेदं तु इदमन्यच्छृणुष्व तु | अकारं सात्विकं विद्यादुकारं राजसं भवेत् || १८ || मकारं तामसं ज्ञेयं अकारं शान्तिकं भवेत् | उकारं पौष्टिकं विद्यान्मकारमाभिचारकम् || १९ || अकारं श्वेतवर्णं स्यादुकारं रक्तवर्णकम् | मकारं पीतवर्णं स्यादेवमेव क्रमेण तु || २० || प्. १७) गुणेन संधिकारं स्यादोंकारं शिवमुच्यते | ओंकारेण समायुक्तं षडक्षरमिहोच्यते || २१ || रुद्राक्षेण जपं कुर्यात्पंचाक्षेण समायुतम् | अंगुल्या प्रजपेदेकं पंचधा मृण्मयं भवेत् || २२ || रेखादष्टगुणं प्रोक्तं बीजैर्दशगुणं भवेत् | शतसंख्यैस्तु विज्ञेयं प्रवालैस्तु सहस्रकम् || २३ || स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमेव च | पद्माक्षैः कोटिगुणितं सौवर्णैर्दशकोटिकम् || २४ || शतकोटिक * * ल्याद्रुद्राक्षैः स्यादनन्तकः | न्यासं कुर्यात्ततो मन्त्री पंचाक्षरमिहोच्यते || २५ || अंगुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् | कनिष्ठाद्यंगुष्ठान्तं संहारन्यासमुच्यते || २६ || यकारं करतले विप्र संकुर्यादन्ततो बुधः | करन्यासं पुराकृत्वा अंगन्यासं ततः शृणु || २७ || यकारं शिरसान्यस्य वाकारं तु ललाटके | शिकारं कर्णदेशे तु मकारं हृदये न्यसेत् || २८ || नकारं नाभिदेशे तु विन्यसेत्तु विशेषतः | सर्वांगेषु च विप्रेन्द्र ओंकारं विन्यसेत्ततः || २९ || सहस्रं वा तदर्धं वा त्वष्टोत्तरशतं तु वा | पंचाशत्पंचविंशैर्वा जपं कुर्याद्विशेषतः || ३० || प्. १८) प्रासादेन तु मन्त्रेण हृदयेन समन्वितम् | जपं कुर्यात्तु विप्रेन्द्र प्रणवेन समायुतम् || ३१ || गृहेषु फलमेकं स्याद्गोष्ठे दशगुणं भवेत् | नदीतीरे शतं विद्यात्सहस्रं देवतालये || ३२ || जप्त्वा विंशतिभिर्लक्षैः स्वयं भूपदमाप्नुयात् | पंचविंशन्ततो लक्षैर्वैष्णवं पदमाप्नुयात् || ३३ || लक्षलक्षं ततो जप्त्वा रौद्रं पदमवाप्नुयात् | प्रविशेच्छिवमीशानं * * संसार सागरात् || ३४ || श्रीपंचाक्षरमेवोक्तं मन्त्रोद्धारं ततः शृणु | इति वीरतन्त्रे षट्सहस्रसंहितायां श्रीपंचाक्षरकल्पस्तृतीयः पटलः || ३ || अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् | सर्वपाप(प्रणाशा)र्थं मन्त्रोद्धारः कथं भवेत् || १ || ईश्वर उवाच || मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलासन | मननं सर्वमन्त्राणां त्राणं संसारसागरात् || २ || मननत्राणधर्मिभ्यां मन्त्रमित्यभिधीयते | महेन्द्रे मलये चैव सह्ये विन्ध्ये तथैव च || ३ || केदारे निर्मदे चैव गये वापि विशेषतः | गंगाकूले समुद्रे वा प्रभासे वा विशेषतः || ४ || प्. १९) गवां गोष्ठे विशेषेण नद्यां वापि तटागके | अन्येषु शुद्धदेशेषु मन्त्रमुद्धारयेत्क्रमात् || ५ || हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना | स्नानं कृत्वा तु विप्रेन्द्र तत्स्थाने मन्त्रमुद्धरेत् || ६ || पुण्याहं वाचयेत्तत्र पवमानं समुच्चरन् | आचार्यस्तु शुचिर्भूत्वा कृतोपवाससंयुतम् || ७ || पूर्वं नेत्राधिवासं तु प्रभाते मन्त्रमुच्चरन् | रत्नेन * * * विप्र अक्षरं लेखयेद्धृदा || ८ || शिवतत्वे परे सूक्ष्मे बिन्दुरुत्पद्यते तदा | बिन्दोर्नादस्समुत्पन्नस्तस्माच्छक्तिरजायत || ९ || शक्तेस्तु वाग्भवो जातो वाचः षोडषकाः कलाः | कलाया व्यंजनं जातं व्यंजना * * मन्त्रकः || १० || सान्तं सर्वगतं शून्यं शिवरूपमिति स्मृतम् | अवर्गं च कवर्गं च चवर्गं च टवर्गकम् || ११ || तवर्गं च पवर्गं च यवर्गं च शवर्गकम् | आदिवर्गेषु ऋ-ऋच चतुरक्षरं वर्जयेत् || १२ || वर्जयेच्चैव विप्रेन्द्र अवर्गं च दशाक्षरम् | पूर्वं हृस्वं समाख्यातं परं दीर्घमिहोच्यते || १३ || हृस्वा ब्रह्मसमाख्याता दीर्घा अंगानि चोच्यते | सद्योजातं तु गोक्षीर सदृशं वर्णमुच्यते || १४ || प्. २०) जपापुष्पनिभं वाममघोरं त्वंजनप्रभम् | पुरुषं कुंकुमप्रख्यं ईशानं स्फटिकं भवेत् || १५ || ब्रह्मवर्णाः समाख्याता रूपं वक्ष्यामि तेऽधुना | द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् || १६ || द्विपादं च द्विहस्तं च पंचब्रह्ममिहोच्यते | षदंगं संप्रवक्ष्यामि हृदयं च शिरस्तथा || १७ || शिखा कवचनेत्रं च अस्त्रमन्त्रेण संयुतम् | इन्दुधूम्रं सुवर्णं च किंचिद्धूम्रं तथैव च || १८ || रवेर्निभं युगान्तानि समप्रख्यं पितामह | षडंगानां च सर्वेषां मन्त्रं वर्णं विचिन्तयेत् || १९ || द्विनेत्राश्च द्विहस्ताश्च द्विपादेन समन्विताः | जटामकुटसंयुक्तां यज्ञोपवीतसंयुताम् || २० || शुक्लवस्त्रसमायुक्तं षडंगानामिहोच्यते | स्त्रीरूपं भावयेद्ब्रह्मा षडंगं पुरुषो भवेत् || २१ || जपाकुसुमसंकाशं कुन्दपुष्पनिभं भवेत् | अतसीपुष्पसंकाशं पद्मपुष्पसमं भवेत् || २२ || नीलजीमूतसंप्रख्यं कुंकुमप्रभमेव च | रक्तपंकजसंयुक्तं भिन्नाञ्जनसमप्रभम् || २३ || विद्येश्वराणां वर्णं च तव स्नेहात्प्रकाशितम् | अक्षरस्यादिसंयुक्तं बिन्दुं चैव समायुतम् || २४ || प्. २१) अष्टवर्गात्तृतीयं तु षष्ठस्वरसमन्वितम् | शिवविष्णुसमारूढं प्रथमं चाष्टवर्गके || २५ || आदिवर्गात्तृतीयं तु बिन्दुनादसमन्वितम् | प्रथमस्याकादसंगृह्य शिवविष्णुसमायुतम् || २६ || एकरू * * तत्वं तु शिवविष्णुसमायुतम् | पंचमस्य प्रथमं स्याद्वितीयं सप्तमस्य च || २७ || प्रथमस्य द्वितीयं तु शिवविष्णु समायुतम् | अष्टमस्यादि समायुक्तं मायानलसमन्वितम् || २८ || शिवविष्णुसमारूढं अष्टमस्यादि संयुतम् | प्रथमस्य द्वितीयं तु बिन्दुनादसमन्वितम् || २९ || विद्येश्वराणां बीजानि क्रमशो वक्ष्यतेऽधुना | गणाम्बिका च चण्डेशो नन्दीशश्च तथैव च || ३० || महाकालश्च वृषभो विघ्नेशश्च तथैव च | भृंगीशश्च महासेनः स्वनामाद्यक्षरैर्युतम् || ३१ || इन्द्रश्चाग्निर्यमश्चैव निर्-ऋतिर्वरुणस्तथा | वायुस्सोमस्तथेशानो ब्रह्मा विष्णुश्च संयुतम् || ३२ || स्वनामाद्येन बीजेन बिन्दुनाद समन्वितम् | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् || ३३ || गदा त्रिशूलं चक्रं च पद्मं चैव दशायुधम् | स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् || ३४ || प्. २२) दर्पणं पूर्णकुम्भं च वृषभं युग्म चामरम् | श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् || ३५ || स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् | षष्ठवर्गाद्द्वितीयं तु चतुर्थाद्येन संयुतम् || ३६ || द्वितीये पंचमं चैव आद्याक्षरसमायुतम् | विसर्गेण समायुक्तं पाशुपतास्त्रमुच्यते || ३७ || ओं चीचिरिक्षितुञ्चैव क्षुरिकास्त्रमिहोच्यते | बिन्दुनादसमायुक्तमाचार्यं बीजमुच्यते || ३८ || भूतानां च पिशाचानां गन्धर्वयक्षरक्षसाम् | मात्राणां राक्षसानां च * * * गणमेव च || ३९ || स्वनामाद्यक्षरं विप्र बिन्दुनाद समन्वितम् | मूर्तिपानां च शिष्याणामेवमेव क्रमेण तु || ४० || अकारादि पंचवर्गं तु पंचाक्षरमिहोच्यते | यकारादिद्वयं वर्गं चतुरक्षरमुच्यते || ४१ || वकारद्वयंताद्वस्य बिन्दुनादसमन्वितम् | अनन्तासनं तद्विप्रेन्द्र योगासनं तथैव च || ४२ || सिंहासनं तथैव स्यात्पद्मासनमतः परम् | विमलासनं तु विप्रेन्द्र स्वनामाद्यक्षरैर्युतम् || ४३ || बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते | आग्नेयमण्डलं चैव विन्यसेत्तु विशेषतः || ४४ || प्. २३) तत्वस्य मण्डलं चैव रजोमण्डलमेव च | तत्वामण्डलमेवोक्तं स्वनामाद्यक्षरैर्युतम् || ४५ || बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते | व्योमव्यापि महामन्त्रं षण्णवत्यक्षरैर्युतम् || ४६ || अस्मिन्तन्त्रे च विप्रेन्द्र कथयामि तवाखिलम् | द्वादशस्य पदस्य बहिश्यद्विवितथा पुनम् || ४७ || चतुरावणैर्युक्तमभ्य नरादीवाह्यकम् | मन्त्रमुच्चार्यते विप्र सर्वकामानवाप्नुयात् || ४८ || भूतान्तं चैव भूतानां भूतभूतान्तमेव च | शिवविष्णुसमारूढं शिवमन्त्रमिहोच्यते || ४९ || चक्रमध्ये स्थितं विप्र सर्वलोकहिताय च | व्योमश्च रूपाश्च वश्चैवं रूपायश्वत एव च || ५० || घोरं च देश्वतश्वेमश्वराश्च त एव च | तश्च यश्चैव ध्वायश्च पुकमश्वदृदृमश्च च || ५१ || मश्च योश्च रसश्च मूश्चमी ऋषयश्च च | दश्च पाश्च विनेरश्च नेश्च मिश्च न एव च || ५२ || एश्च नश्च विकारश्च म्राश्च वायश्च एव च | एवं क्रमेण विप्रेन्द्र विन्यसेदस्त्रमन्त्रवित् || ५३ || वश्च तश्च समूधिश्च विश्चैव ओं वच | निश्चयश्च गीपश्चैव तुमगुश्च जातश्च भाश्च त || ५४ || प्. २४) गर्गणश्च स्यनरोगाश्च तश्च नश्च इमा एव च | व्योश्चश्चैव ये योश्च ओमश्च धश्च एव च || ५५ || अधश्च योयेश्च मोश्चैव वश्च सश्च स एव च | विश्च सर्व ओं भ्रश्च जश्चेदीरिश्च वायनिश्च || ५६ || प्रदक्षिणक्रमेणैव विन्यसेद्देशिकः सदा | एवं क्रमेण विन्यासं सर्वकामानवाप्नुयात् || ५७ || व्योमव्यापीरितं मन्त्रं ऋषिछन्दो देवतां शृणु | अगस्त्येन समायुक्तं बृहतीच्छन्दसा युतम् || ५८ || ईश्वरेण समायुक्तं व्योमव्यापिमिहोच्यते | वसिष्ठेन समायुक्तं प्रकृतिच्छन्दसा युतम् || ५९ || शिवरूपेण संयुक्तं शिवमन्त्रमिहोच्यते | आचार्यस्य तु बीजस्य ऋषिच्छन्दो देवता || ६० || कौशिकः काश्यपश्चैव भारद्वाजश्च गौतमः | अत्रिणा च समायुक्तं पंचवक्त्रेषु दीक्षिताः || ६१ || तत्तत्कुलेषु जातानां तत्तत्प्रभृतिकदा हृतम् | जगती शक्वरी चैव अनुष्टुब्त्रिष्ठुभेव च || ६२ || प्रकृतिश्चैव विप्रेन्द्र छन्दसानामिहोच्यते | आगमेव तु बीजानि प्रवक्ष्याम्यनुपूर्वशः || ६३ || द्वितीयस्यादिसंयुक्तं द्वितीयस्वरसंयुतम् | * * * * द्वितीयं तु बिन्दुनादविभूषितम् || ६४ || प्. २५) कामिकाक्षरमेवोक्तं योगजस्य शृणुष्वथ | सप्तमस्यादिसंयुक्तं त्रयोदश समन्वितम् || ६५ || बिन्दुनादसमायुक्तं योगजाक्षरमुच्यते | तृतीयस्यादिमं गृह्य सप्तमस्य तृतीयकम् || ६६ || आमध्य च चतुर्थं तु बिन्दुनादसमन्वितम् | चिन्त्याक्षरमिदं प्रोक्तं द्वितीयस्यादिसंयुतम् || ६७ || सप्तमस्य द्वितीयं तु बिन्दुनादसमन्वितम् | कारणाख्यमिदं प्रोक्तं प्रथमस्यादि संयुतम् || ६८ || आकाशबीजसंयुक्तं सप्तमस्य द्वितीयकम् | बिन्दुनादसमायुक्तमजिताक्षरमुच्यते || ६९ || पंचमस्य तृतीयं तु सप्तमस्यादिसंयुतम् | द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् || ७० || दीप्तबीजमिदं प्रोक्तमष्टवर्गद्वितीयकम् | द्वादश स्वर संयुक्तं बिन्दुनादसमन्वितम् || ७१ || सूक्ष्मबीजमिदं प्रोक्तं अष्टवर्गद्वितीयकम् | सप्तमस्य द्वितीयं तु मायाबीजेन संयुतम् || ७२ || बिन्दुनादसमायुक्तं सहस्रं चोच्यते मया | अन्त्याक्षरसमायुक्तमाद्यक्षरसमन्वितम् || ७३ || बिन्दुनादसमायुक्तमंशुमानक्षरं भवेत् | अष्टवर्गात्तृतीयं तु अनलेन समायुतः || ७४ || प्. २६) पंचमस्वरसंयुक्तं बिन्दुनादसमन्वितम् | सुप्रभेदाक्षरं प्रोक्तं सप्तवर्गस्य चादिकम् || ७५ || तृतीयस्वर संयुक्तं बिन्दुनादसमन्वितम् | विजयं चैव विप्रेन्द्र पंचमस्यान्तसंयुतम् || ७६ || मायानलसमायुक्तं बिन्दुनादसमन्वितम् | निश्वासतन्त्र मेवोक्तमष्टवर्गतृतीयकम् || ७७ || सप्तमस्य चतुर्थं तु मायाबीजसमन्वितम् | बिन्दुनादसमायुक्तं वीरतन्त्रमिहोच्यते || ७८ || सप्तमस्यादिमं बीजं मायानलसमन्वितम् | अक्षराणां परश्रेष्ठं रौरवं प्रोच्यते मया || ७९ || षष्ठमस्यान्तिमं बीजं अन्त्याक्षरसमायुतम् | मायानलसमायुक्तं मकुटाक्षरमुच्यते || ८० || सप्तमस्यादिमं बीजं मायानलसमन्वितम् | बिन्दुनादसमायुक्तं विमलं चैव कथ्यते || ८१ || तृतीयस्यादिमं प्रोक्तं मायानलसमन्वितम् | बिन्दुनादसमायुक्तं चन्द्रज्ञानमिहोच्यते || ८२ || षष्ठवर्गतृतीयं तु द्वादशस्वरभूषितम् | बिन्दुनादसमायुक्तं बिम्बस्याक्षरमुच्यते || ८३ || अष्टवर्गादिमं बीजं द्वादशैवानलो भवेत् | बिन्दुनादसमायुक्तं प्रोद्गीतं च मयोच्यते || ८४ || प्. २७) सप्तमस्य तृतीयं तु एकादशेन संयुतम् | बिन्दुनादसमायुक्तं ललितस्य तु मन्त्रकम् || ८५ || अष्टवर्गतृतीयं तु सप्तस्वरसमायुतम् | अनलेन समायुक्तं सिद्धतन्त्रमिहोच्यते || ८६ || अष्टवर्गात्तृतीयं तु अष्टमस्वरभूषितम् | सप्तमस्य द्वितीयेन बिन्दुनादसमन्वितम् || ८७ || सन्तानस्य तु मन्त्रोयं अष्टवर्गादिसंयुतम् | द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ८८ || शर्वोद्गीतमिदं प्रोक्तं षष्ठवर्गादिसंयुतम् | मायानलसमायुक्तं बिन्दुनाद समन्वितम् || ८९ || पारमेश्वरमेवोक्तं द्वितीयस्यादिसंयुतम् | द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ९० || किरणस्याक्षरं प्रोक्तं सप्तमस्य चतुर्थकम् | मायानलसमायुक्तं बिन्दुनादसमन्वितम् || ९१ || वातुलस्य तु मन्त्रोऽयमष्टाविंशति भेदकम् | ऋषिच्छन्दोदैवतान्वक्ष्ये आगमानां विशेषतः || ९२ || वसिष्ठेन समायुक्तं शक्वरीच्छन्दसायुतम् | तवरूपेण संयुक्तं कामिकादीनि सप्त च || ९३ || सहस्रादीनि सप्तैते व्यासेनैव समायुतम् | जगतीच्छन्दसायुक्तं विष्णुस्तत्राधिदैवतम् || ९४ || प्. २८) एवमेवक्रमेणैव मन्त्राणां प्रोच्यते मया | अदीक्षितं न श्रोतव्यं न देयं न प्रकाशतः || ९५ || शिष्याणां चैव दातव्यं समासात्कथयामिते | अष्टवर्गतृतीयान्ता आद्यक्षरसमायुतम् || ९६ || अष्टवर्गात्तृतीयं तु आद्याक्षर विवर्जितम् | शक्तिबीजमिदं प्रोक्तं सर्वकर्मार्थसाधनम् || ९७ || सदाशिवस्य रूपं तु वक्ष्यामि शृणु तत्वतः | शुद्धस्फटिक संकाशं त्र्यक्षं दशभुजैर्युतम् || ९८ || पंचवक्त्रयुतं देवं जटामकुटमण्डितम् | दिव्याम्बरधरं देवं सर्वाभरणभूषितम् || ९९ || परशुं खड्गवज्रं च अभयं दक्षिणे करे | पाशं चांकुशघण्टां च नागवह्निं च वामके || १०० || पद्मासनसमासीनो नेत्रैः पंचदशैर्युतम् | एतत्सकलमाख्यातं धर्मकामार्थमोक्षदम् || १०१ || मन्त्रोद्धारं मया प्रोक्तं पुष्पाणां च शृणुष्वथ | इति वीरतन्त्रे षट्सहस्र संहितायां मन्त्रोद्धारश्चतुर्थः पटलः || ४ || पुष्पाणां चैव सर्वेषां पात्राणां च तथैव च | विशेषं श्रोतुमिच्छामि तं मे ब्रूहि महेश्वर || १ || प्. २९) यावत्पुष्पस्य संख्यानि पूजनायोग्यमेव च | अयोग्यानि च पुष्पाणां पत्राणां च तपोधन || २ || अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते | करवीर सहस्रेभ्यो बिल्वपत्रं विशिष्यते || ३ || बिल्वपत्रसहस्रेभ्यः पद्ममेकं विशिष्यते | पद्मपत्र सहस्रेभ्यः पुण्डरीकं विशिष्यते || ४ || पुण्डरीकसहस्रेभ्यः शतपत्रं विशिष्यते | शतपत्रसहस्रेभ्यः सहस्रपर्णं विशिष्यते || ५ || सहस्रपर्णसहस्रेभ्यो बकपुष्पं विशिष्यते | बकपुष्पसहस्रेभ्यो धुर्धूरकं विशिष्यते || ६ || धुर्धूरक सहस्रेभ्यो द्रोणपुष्पं विशिष्यते | द्रोणपुष्पसहस्रेभ्यो अपामार्गं विशिष्यते || ७ || अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते | कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते || ८ || शमीपुष्पसहस्रेभ्यो व्याघातं तु विशिष्यते | व्याघातकसहस्रेभ्यः शंखपुष्पं विशिष्यते || ९ || शंखपुष्पसहस्रेभ्यो व्याघ्रपुष्पं विशिष्यते | व्याघ्रपुष्पसहस्रेभ्यः सदाभद्रं विशिष्यते || १० || सदाभद्रसहस्रेभ्यो (विशिष्टा) कृष्णगन्धिका | * * * * * * द्विप्र बृहत्पुष्पं विशिष्यते || ११ || प्. ३०) बृहत्पुष्पसहस्रेभ्यो श्वेतार्कं (तु) विशिष्यते | श्वेतार्कस्य सहस्रेभ्यो बृहद्द्रोणं विशिष्यते || १२ || बृहद्द्रोणसहस्रेभ्यो नीलोत्पलं विशिष्यते | स्वर्णधुर्धूरपुष्पं तु नीलोत्पलसमोद्भवैः || १३ || प्रक्षाल्य पंचगव्येन नीलोत्पलं तु काञ्चनम् | पुनः पूजाः प्रकर्तव्याः सर्वलोकहिताय च || १४ || जपापुष्पं कदम्बं च * * पुन्नागमेव हि | द्रोणपुष्प सहस्रेभ्यो ज्ञेयं विष्णुक्रान्तिं च पस्तथा || १५ || अजाय मल्लिका जाति धूर्धूरसंज्ञेयं चम्पकं तु कटस्तथा | बिल्वपत्रसमं ज्ञेयं * * * * * * * * || १६ || केरब्जमालती चैव करवीरसमं भवेत् | पद्मपुष्पसमं ज्ञेयं वकुलं प * * * * || १७ || अशोकं श्वेतमन्दारं व्याघातं च समं भवेत् | श्वेतंकुसुम * रक्तोत्पलमपामार्गं भवेत् || १८ || पटकारत्तकस्वा च व्याघ्रपुष्पसमं भवेत् | गन्धपुष्पी गन्धपुष्पा पद्मपुष्पसमं भवेत् || १९ || कोरण्डकस्य पुष्पं च अपामार्गसमं भवेत् | वेदसी से का चोत्पलं चैव कल्हारं कृन्तकं तथा || २० || नीलनीलरपुष्पं च अपामार्गसमं भवेत् | मुसली पलाशपुष्पं च द्रोणपुष्पसमं भवेत् || २१ || प्. ३१) बकपुष्पसमं ज्ञेयं अम्बिका अत शिंशुपा | सूर्यावर्तं च नागं च * * * * * मेव च || २२ || धुर्धूरकसमा ज्ञेयां महाभद्रनृणामपि | वज्रं च पद्मरागं च मरकतमौक्तिकानि च || २३ || इन्द्रनीलं महानीलं वैडूर्यं च प्रवालकम् | नीलोत्पलसमा ज्ञेया सर्वरत्नानि चैव हि || २४ || सिंके * * परपालं च * * * * मेव च | अंकोलसंकरश्चैव प्रियंगुश्चम्पकेव च || २५ || अर्कपुष्पसमायुक्तं पूजयेत्तु विशेषतः | पालाशपुष्पं विप्रेन्द्र रविरश्मिसमायुतम् || २६ || नवभाण्डे परिग्राह्य षण्मासं पूजयेच्छिवम् | यवगोधूमनीवार ब्रीहिवैणवकानि च || २७ || निष्पावमाषश्यामं च नीलमुद्रक एव च | अंकुराणि प्रकर्तव्यं पूजयेच्छिवमादरात् || २८ || व्याघातसममेवं तु इदमद्य शृणुष्व यः | कदम्बार्जुन सिन्दूरं कुडुमं कुसुमानि च || २९ || श्वेता तु गिरिकर्णी च नन्द्यावर्तं च शारिबा | कदलीपुष्पपुन्नाग नागनन्दी तथैव च || ३० || गिरिवैरिं च पत्रं च करवीरसमं भवेत् | मधूक धूर्तपुष्पं च करपाद्धिर्धवानि वा || ३ || प्. ३२) पद्मश्चैव विप्रेन्द पद्मपुष्पसमं भवेत् | गिरिरागककौ गिरिककच धुर्धूरक समं भवेत् || ३२ || निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत् | पुष्पाणामप्यलाभे तु फलानां पूजयेत्ततः || ३३ || फलानाप्यभावे तु मूलेनैव तु पूजयेत् | मूलानामप्यभावे तु भक्त्या चैव तु पूजयेत् || ३४ || एवमेवं क्रमेणैव पूजयेद्देव कर्मणि | केतकीमाधवीपद्मं मधुधी पूजयेत्सदा || ३५ || शिरीषसद्बन्धूक किं शुकद्युनितं तथा | नीलकण्ठी च मेवश्च तलपोटकमेव च || ३६ || मत्स्याज्याक्षी च शिग्रुश्च वर्जयेल्लिंगकर्मणि | एवमेवं क्रमेणैव यो नरः पूजयेत्सदा || ३७ || स मुक्तः सर्वपापेभ्यो रुद्रलोकं च गच्छति | पुष्पाध्यायमिदं प्रोक्तं कर्षणस्य विधिं शृणु || ३८ || इति वीरतन्त्रे षट्सहस्रसंहितायां पुष्पलक्षणं पंचमः पटलः || ५ || पितामह उवाच || कर्षणं कीदृशं देव वास्तुलक्षणमेव च | एतत्सर्वं समासेन ब्रूहि मे परमेश्वर || १ || ईश्वर उवाच || प्. ३३) कर्षणस्य विधिं यावत्तावच्छृणु तपोधन ! | पुष्यमासादिषण्मासं देवतानां दिवा भवेत् || २ || आषाढादिकषण्मासं रात्रिरित्यभिधीयते | दिवामासं च गृह्णीयाद्रात्रिमासं च वर्जयेत् || ३ || प्राजापत्यं च यत्सौम्यं हस्तपौष्णत्रिरुत्तराः | मैत्रादित्यमखास्वाती त्वष्टार्वाश्रवणाश्शुभा || ४ || एषामेव दिनं श्रेष्ठं धनधान्यविवर्धनम् | द्वितीया च तृतीया च पंचमी षष्ठिसप्तमी || ५ || दशम्येकादशी वापि शुक्लपक्षे त्रयोदशी | प्रतिपत्पौर्णमास्यां वा कारयेत्तु शिवद्विजः || ६ || राशयश्च चरा वर्ज्या ग्राह्याधनुरशोभनम् | सोमभार्गवसौम्यानां वारा श्रेष्ठतमाः स्मृताः || ७ || एषा मेवोदयः शस्तस्तत्र सोमोदयं विना | अष्टमस्था ग्रहाः सर्वे कर्तुः कुर्वन्तु सुस्थितम् || ८ || खण्डस्थ क्रान्तनक्षत्रे गुलिकावीष्ट्ययस्त्यजेत् | ग्रहणे विषुवे चैव अयने व्यतिपातके || ९ || षडशीतिमुखे वापि कृतं कार्यं विनश्यति | एवं परीक्षा कर्तव्या सर्वसंपत्कराय च || १० || अथ भूमिं परीक्ष्यैव पश्चात्कर्षणमारभेत् | ऊषरं कुकुमिमिष्टर्ज? वल्मीकाढ्यं च वर्जयेत् || ११ || प्. ३४) श्वेतानु ब्रह्मभूषमिति रक्ता वै क्षत्रियस्य च | पीता वैश्या इति प्रोक्ता कृष्णा शूद्रा इति स्मृताः || १२ || हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना | अधिकं चोत्तमं ज्ञेयमधमं न्यूनमेव च || १३ || समं मध्यममेवं स्याद्वर्जयेच्छिवमन्त्रतः | एवं परीक्ष्य बहुधा कुर्यात्कर्षणमुत्तमम् || १४ || नागहीनवृषौ ग्राह्य श्वेतौ वा रक्तकापिला | सर्वलक्षणसंयुक्तो वलवान्मध्यमोवरः || १५ || संपूज्यवृषमन्त्रेण हेमशृंगसमन्वितौ | क्षीरवृक्षयुगं बध्वा गोचर्मेणैव बन्धयेत् || १६ || आसनं खदिरं वाथ फलं कृत्वा स्थलोहकम् | आचार्यः सकलीकृत्य नववस्त्रेण वेष्टयेत् || १७ || सर्वाभरणसंयुक्तं अर्चयेच्छिवमन्त्रतः | तीक्ष्ण शृंगाय विद्महे वेदपादाय धीमहि (तन्नो वृषः) प्रचोदयात् || १८ || अरश्चाद्य वृषभं तत्र कर्षयेच्छिवमन्त्रतः | प्रागुदक्कर्षयेत्तत्र आचार्यं पूजयेत्ततः || १९ || शालिमुद्गकुलस्थं च भूतले विन्यसेत्ततः | आचार्याय प्रदातव्यं सहगौ वृषभौ तथा || २० || तेषु पक्वेषु कालेषु गोगणानां निवेदयेत् | शल्यं विमोचयेत्तत्र लक्षणेन समन्वितम् || २१ || प्. ३५) पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छिवमन्त्रतः | पूजान्ते स्पर्शयन्कर्तायिदंगस्तन्निरीक्षयेत् || २२ || वास्तुदेहेन तत्रैव शल्यन्द्रूथा यथा क्रमम् | अस्थिशल्यं शिरस्पर्शान्तदधस्तं च द्वयमानतः || २३ || कर्णस्पर्शे गले तद्वद्वृद्धस्तत्त्रयमानतः | त्रिहस्ते शृंगलाशल्यमंघ स्पर्शात्तु देशिकः || २४ || हस्तमात्रे करस्पर्शात्खलापादिं समादिशेत् | अंगारकत्रिहस्ते तु बाहुस्पर्शनमुच्यते || २५ || गुल्फेनपादिनिर्दिष्टं वितस्ति प्रमाणादेकांगमुच्यते | कनिष्ठां गुष्टयोः स्पर्शात्करार्धैकांगमुच्यते || २६ || कटस्पर्शात्तु लोहं च करद्वयप्रमाणतः | नाभिकोर्परं हस्ते जानुस्पर्शमेव च || २७ || एवं परीक्ष्य बहुधा शल्यमुद्धरते जमात् | कुघ्नंसत्वा तु विप्रेन्द्र गोमयेनानुलेपयेत् || २८ || पुण्याहं वाचयेत्तत्र षण्णवत्या तु प्रोक्षयेत् | अश्वत्थोदुम्बरो वाथ शंकुं ग्राहयेत्ततः || २९ || आयामद्वादशांगुल्यं नाहं स्यात्तु षडंगुलम् | तत्र मध्ये स्थितं शंकुं तन्मानेन तु भ्रामयेत् || ३० || सूत्रद्वयं च * * * * * * नैव मात्ततः | पूर्वाह्ने च पराह्ने च शंकुच्छायां विलोञ्चयेत् || ३१ || प्. ३६) तत्रसूत्रद्वयं प्राचीं पातयेच्छंकुमध्यमे | वास्तु देवान्समर्भ्यर्च्य पुरुषं पूजयेत्ततः || ३२ || असुराणां हितार्थाय शुक्रः कृत्वा महातपः | महातपसि संभूतं भूताकारं महाबलम् || ३३ || भूम्यामधोमुखस्थं तु तद्वास्तु पुरुषो भवेत् | प्रागेव तत्तन्मानेन मध्यस्थेनैव कारयेत् || ३४ || उदक्सूत्रं भवेदत्र कृत्वा तु चतुरश्रकम् | पंचगव्येन संप्रोक्ष्य षण्णवत्येन मन्त्रतः || ३५ || एवमेव क्रमं ज्ञात्वा वास्तुं तत्रैव कल्पयेत् | दशसूत्रांश्च प्रागग्रानुदगग्रांस्तथैव च || ३६ || एकाशीतिपदं कृत्वा वास्तुदेवान्प्रकल्पयेत् | मध्ये नवपदं कृत्वा चतुर्दिक्षु च विन्यसेत् || ३७ || ब्रह्माणं पूर्वतो भागे समन्याकं तु षट्पदम् | दक्षिणे तु विवस्वांश्च षट्पदं चैव भुज्यते || ३८ || मित्रं चैव तु विप्रेन्द्र पंचमे षट्पदस्तथा | उत्तरे षट्पदं भुंक्ते पृथिवीधर एव च || ३९ || आपश्चैवापवत्सश्च ऐशान्यं तु पदद्वयम् | सावित्र सविताश्चैव आग्नेययां तु पदद्वयम् || ४० || इन्द्रश्चेन्द्रजयश्चैव नैर्-ऋत्यां तु पदद्वयोः | रुद्ररद्रोजयश्चैव वायव्यां तु पदद्वये || ४१ || प्. ३७) ईशानश्चैव पर्जन्यो जयन्तश्च मत्तेन्द्रकः | आदित्यस्सत्यकभ्रंश अन्तरिक्षश्च पूर्वशः || ४२ || अग्निः पूषा च वितथो ग्रहक्षतयमस्तथा | गन्धर्वो भृंगरागश्च भृंगश्चैव तु दक्षिणे || ४३ || पितृ दौ वारिकश्चैव तथा सुग्रीव एव च | पुष्पदन्तश्च वरुण अप्सरश्च तथैव च || ४४ || शोषश्च पापयक्ष्मा च पश्चिमेषु व्यवस्थितः | उत्तरेषु तथा रोगान्नागो मुख्यस्तथैव च || ४५ || भल्लाटश्च तथा सोमो ऋगोदितिदितिस्तथा | पूतना नैर्-ऋते चैव पापराक्षसि वायवे || ४६ || वास्तुपानां तु सर्वेषां ब्रह्माभिमुखमेव च | एवं विन्यस्य देवांश्च पुरुषः प्रोच्यते मया || ४७ || समनीय केसरं विद्याद् बृजकायमथोच्यते | आपापवत्सके विप्र वामबाहुरिति स्मृतः || ४८ || सावित्री सविता चैव दक्षिणो बाहुरुच्यते | रुद्रो रुद्रोदयश्चैव वामपादं प्रकीर्तितम् || ४९ || इन्द्रो इन्द्रजयश्चैव दक्षिणं पादमुच्यते | मित्रश्चैव तु लिंगस्य वृषणं पृष्ठमेव च || ५० || एवं वास्तुरिदं प्रोक्तं चरवास्तुं शृणुष्वथ | मासे भाद्रपदेष्वादि पूर्वशीर्षकमुच्यते || ५१ || प्. ३८) मार्गशीर्षकमासादि कुचोमासं तु दक्षिणे | फल्गुन्यादित्रयो मासाः पश्चिमं शिर उच्यते || ५२ || ज्येष्ठमासादिविज्ञेयमुत्तरं शीर्षकं तथा | पूर्वशीर्षं तु मध्याह्ने साये दक्षिणशीर्षकम् || ५३ || मध्यरात्रे तु विप्रेन्द्र पश्चिमं शिर उच्यते | उषःकाले तु सर्वेषु उत्तरे शिर उच्यते || ५४ || एवं पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् | वक्ष्ये बलिविधिं यश्च तावच्छृणु तपोधन || ५५ || बलिं दातव्यं पायसान्नं घृतप्लुतम् | प्रदद्य फलभक्ष्यं तु समर्याके विशेषतः || ५६ || तिलमाषान्नसंयुक्तं विवस्वादि बलिं ततः | पूष्णे च दधिमित्रे च महिषक्षीरमेव च || ५७ || पर्जन्ये चैव सर्पिश्च जयन्ते नवनीतकम् | महेन्द्रे पिष्टमेवं तु * * * मधुरुच्यते || ५८ || मधुश्चक्रेदरुफलं सत्ये बलिरिहोच्यते | कक्वानश्चत * * थे बिम्बान च ग्रहक्षते || ५९ || कृसरं यममेवं तु गन्धर्वे खिल उच्यते | समुद्रमत्स्यं विप्रेन्द्र भृंगराजबलिं ततः || ६० || दध्यन्नं च मृगे दद्यात्पितृपिण्याकतैलकम् | इष्टेव शतपिष्टे दौवारिश्च ग्रवके || ६१ || प्. ३९) पुष्पदन्ते च कुसुमं पायसं वरुणे तथा | असुरे मधुकं विद्याच्छोषे च तिलतण्डुलैः || ६२ || रोगो हि शुष्कं हीनागौचाजबलिं तथा | मुख्येऽपि धान्यचूर्णं तु दधि संयुतमेव च || ६३ || भल्लाटे तु गुलान्नं स्यात्सोमे गुलान्नमेव च | ऋग्वेदवे गुलं चैवदितिदैवस्तु मोदकैः || ६४ || दितौ च तिलभक्ष्येण क्षीरान्नं सर्षपशीरके | आपे तथा पवत्से च अजमांसं च मत्स्यकम् || ६५ || सविता सावित्रिके चैव जंगगन्धोदनं ततः | इन्द्रे बलिस्तथा दद्यादिन्द्रजये तु मुद्गकम् || ६६ || रुद्रे रुद्रजये चैव मांसं क्षीरबलिं ददेत् | चरकीघृतमेनं तु पितारि लवणं तथा || ६७ || तिलापिष्टं पूतना चैव गुलमांसं पापराक्षसी | स्फटितः कृतोपवासं च एवमेव बलिं ददेत् || ६८ || देवतानामसंयुक्तं माषमुद्गसमन्वितम् | आचार्यश्च शुचिर्भूत्वा उपवाससमन्वितम् || ६९ || नववस्त्रपरीधानं सोष्णीषं सोत्तरीयकम् | प्रणवाद्येन संयुक्तं बलिं दद्याच्छिवद्विजः || ७० || आचार्यं पूजयित्वा तु वस्त्रधान्यादिकांचनैः | एवमेव महाशान्तिस्सर्वसंपत्कराय च || ७१ || प्. ४०) एवं यः कुरुते मर्त्यो देवकर्मणि सारिणः | शिवलोकमवाप्नोति शिववन्मोदते सदा || ७२ || कर्षणस्य विधिः प्रोक्त आचार्यलक्षणं शृणु || ७२ || इति वीरतन्त्रे षट्सहस्रसंहितायां कर्षण विधिः षष्ठः पटलः || ६ || पितामह उवाच || देशिकाः कीदृशा ज्ञेयाः शैवास्सप्तविधाः कथम् | कस्मिन्कुले तु संजातास्तत्सर्वं ब्रूहि मे प्रभो ! || १ || साधु साधु महाप्राज्ञ यत्वया परिचोदितम् | समासात्कथयिष्यामि तन्मे निगदतः शृणु || २ || देश आदिश्यते येन देशिकस्स ततः स्मृतः | सर्वेषां च गुरुश्चैव गुरुरित्यभिधीयते || ३ || लिंगस्थापनयोग्यत्वात्स्थापको नाम उच्यते | अप्रमत्तो भवेन्नित्यं नित्यं वा गुरुपूजकः || ४ || एवं लक्षणसंयुक्त आचार्यस्समुदाहृतः | शैवास्सप्तविधा ज्ञेयास्तेषां भेदं शृणुष्वथ || ५ || अनादिशैवः प्रथम आदिशैवो द्वितीयकः | तृतीयस्तु महाशैवाश्चतुर्थश्चानुशैवकः || ६ || पंचमोवान्तरः शैवः षष्ठः प्रवर उच्यते | सप्तमो वा न्यशैवस्तु शैवानां भेद उच्यते || ७ || प्. ४१) अनादिशैवस्स शिव आदिशैवः शिवद्विजः | महाशैवः केवलो विप्रः क्षत्रियो वैश्य एव च || ८ || अनुशैवो समाख्यातौ शूद्रस्वान्तरगौ स्मृतौ | सवर्णाम्बष्ठ मध्यस्थौ कुलालपारशवास्तथा || ९ || प्रावरणशैवा विप्रेन्द्र प्रोच्यते सकलं मया | अन्येषामिहजाती नामन्य शैव मिहोच्यते || १० || आदावेव तु शैवत्वादादिशैव इति स्मृतः | कौशिकः काश्यपश्चैव भारद्वाजो त्रिरेव च || ११ || गौतमश्चेति पंचैते पंचवक्त्रेषु दीक्षिताः | शिवेन दीक्षिताश्चैव शिवब्राह्मण उच्यते || १२ || शिवः शिखस्तथा ज्योतिः सावित्री व्योम एव च | कौशिकश्चोत्तरमुखः काश्यपश्चैव दक्षिणे || १३ || भारद्वाजः पुराज्ञेयः पश्चिमे गौतमस्तथा | अत्रिरूर्ध्वमुखं ज्ञेयं एवमेतेषु दीक्षिताः || १४ || पंचगोचरशुद्धात्मा * * * * * * * * | कौशिकः शिवभक्तस्तु काश्यपस्त्वीश्वरेण तु || १५ || ईशानेन भरद्वाजो ब्रह्ममूर्तिस्तु गौतमः | अत्रेस्सदाशिवश्चैव उमाधूर्तस्तु दीक्षितः || १६ || पंचगोचरशुद्धात्मा ऋषयः पंच उच्यते | शिवदीक्षात्परं जातः शिवब्राह्मण उच्यते || १७ || प्. ४२) कौशिकस्य मही चित्रं पाण्डरीकं तु काश्यपे | गोकर्णे तु भरद्वाजो नागरिकस्तु गौतमः || १८ || अदनायस्तु वरण्डेस्सममेतद्विनिर्दिशेत् | शैवं पाशुपतं सोमं लाकुलं च चतुर्विधम् || १९ || शैवभेदमिदं ज्ञेयं संकरं न समाचरेत् | एतेषामपि तन्त्राणां नवत्वैकस्य तु संकरः || २० || तन्त्रसंकरमेवोक्तं न कुर्यात्तत्रसंयुतम् | तन्त्रसंकरदोषेण राजराष्ट्रं विनश्यति || २१ || अष्टाविंशति भेदेन शैवभेदं विधीयते | कामिकं योगजं चिन्त्यं कारणं चाजितं तथा || २२ || दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेकम् | विजयं चैव निश्वासं स्वायंभुवमथानलम् || २३ || वीरं च रौरवं चैव माकुटं विमलं तथा | चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा || २४ || सिद्धं सन्तानशार्वोक्तं पारमेश्वरमेव च | किरणं वा तुलं त्वेतास्त्वष्टाविंशति संहिताः || २५ || एतेषां संकरं चैव न दोषाय प्रकल्पयेत् | आचार्यं शिवमेवाहुः शिव आचार्य उच्यते || २६ || अभेदं यो विजानाति एतद्भेदास्तमुच्यते | सौभद्रो विषयाख्याता कौशला मागधास्तथा || २७ || प्. ४३) मालवाश्चैव पाञ्चाला कलिंगौ च पुलिन्द च | केरलश्चार्यदेशश्च मालवं च मरूणि च || २८ || पंचराश्चैव केतुश्च सिंहलो दक्षिणसु च | जोनकास्तुलुवाश्चैव कर्णाटकश्च देशतः || २९ || विषयभेदं समाख्यातं समासात्कथयामि ते | कुमारी हिमवन्मध्ये * * * * * * * * || ३० || तस्मात्सर्वप्रयत्नेन स देशः पुरुषोत्तम | हैहलं बघरं जोन्यं वर्जयेल्लिंगकर्मणि || ८१ || गृहस्थं चोत्तमं विद्यादथवा ब्रह्मचारिणा | आदिशैवकुले जातस्स तु वैदिक उच्यते || ३२ || शिखी बोद्बद्धकेशी वा भस्मोद्धूलितविग्रहः | दीक्षितस्य कुले जातस्सर्वागमविशारदः || ३३ || अप्रमत्तो भवेन्नित्यं देवाग्निगुरुपूजकः | सर्वायवसंपूर्णः सर्वलक्षणसंयुतः || ३४ || क्रिया वान्निपुणश्चैव शुभाचार समन्वितः | क्रियादि ज्ञानपर्यन्ततन्त्रज्ञान विशारदः || ३५ || एवं लक्षणसंयुक्त आचार्यस्समुदाहृतः | सनाभिः कुनखो * * बालो वृद्धस्तथैव च || ३६ || निर्दयश्च निराहारो परापवादशीलवान् | अतिदीर्घोऽतिहृस्वश्च अतिस्थूलः कृशस्तथा || ३७ || प्. ४४) कपालं हाप्रदिश्चैव अन्येषां सम एव च | नग्नप्रभा तथा क्षीबश्मश्रुरोमादिवर्जितः || ३८ || * * * * लिं पोषाश्च मत्सरो गायनास्तिकाः | अनबद्याश्च विप्रेन्द्र गणकाश्च तथैव च || ३९ || अनग्निश्चैव विप्रेन्द काणश्चैव विवर्जयेत् | व्यसनाः क्रूरकर्माणः पारदारिक चोरकाः || ४० || शिपिविष्टा बहिः कीर्णा द्विपदाश्च तथैव च | कुष्ठिनश्चक्षुहीनाश्च बधिराः श्रुतिदूषकाः || ४१ || एभिस्तु लक्षणैर्युक्ता न कुर्युः स्थापनार्चनात् | राजराष्ट्रापि नश्यन्ति तस्मिन्देशे न वर्षति || ४२ || तस्मात्सर्वप्रयत्नेन आचार्ये लक्षणान्विते | आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् || ४३ || अन्यथा वीकरयेद्यस्तु माहिचाराय चैव हि | स गोत्रेण तु सम्बन्धं न कर्तव्यं कदाचन || ४४ || तत्र यो जायमानस्तु तत्कुलं स्यान्न वर्धते | एषामृषीणां विप्रेन्द्र जातानां च पुनः पुनः || ४५ || शिवद्विजानां दीक्षां च न कुर्वीत कदाचन | उपनयन कालान्ते मण्डले पूजयेच्छिवम् || ४६ || स्नपनं चांगशुद्ध्यर्थं कारयेत्तु शिवद्विजः | स्थिरलिंगं तु शूद्राणां स्पृश्यते त्वभिचारतः || ४७ || प्. ४५) अद्भुतं यादितद्देशं तदा देशक्षयो भवेत् | आत्मार्थं पूजयेन्नित्यं सर्वेषां जातिरेव च || ४८ || तस्मात्सर्वप्रयत्नेन देशिको नैव कारयेत् | आचार्यहस्तयोर्दद्याच्छिव लोकमवाप्नुयात् || ४९ || ऋषिरान्वयजातीनां स विशेषो हि सर्वशः | शिवद्विजानां सर्वेषां न दोषाय प्रकल्पयेत् || ५० || ईश्वरार्थं हि भूम्यादि सर्व वस्तु द्विजोत्तमः | आचार्यहस्तयोर्दद्याच्छिव लोकमवाप्नुयात् || ५१ || आवृत्त वंश * * * * वन्दाहं च षण्डकम् | पतितं चानुचाण्डाल धूपदेशेविकं शिविम् || ५२ || आरूढपतितं चैव धूतिकं च विशेषतः | ग्रामकुक्कुटमेवं तु संस्पृष्ट्वाग्निं तथैव च || ५३ || भुञ्जानोश्वमृदृष्टाश्चेद्विसृज्यैव तु भोजनम् | स्नानं कृत्वा तु विप्रेन्द स प्रासादेन संयुतम् || ५४ || मानस्तोकैस्त्रिभिर्जप्त्वा शुद्धं भवति ध्रुवम् | प्रयं प्रातस्त्रयं सायं * * मद्यादयाचितम् || ५५ || त्र्यहं परं तु या तु प्राजापत्यं चरेन्नरः | षोडशानां क्रियाणां च पूर्वमेवाचरेत्तथा || ५६ || आचार्यलक्षणं प्रोक्तं दीक्षा(या) मण्डलं शृणु || ५६ || इति वीर तन्त्रे षट्सहस्रसंहितायां आचार्य लक्षणं सप्तमः पटलः || ७ || प्. ४६) पितामहः || सर्वप्राणि हितार्थाय सर्वपापविमुक्तये | मण्डलं कीदृशं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || साधु साधु महाप्राज्ञ यत्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || २ || गंगाकूले समुद्रे वा नद्यां वापि तटाकके | उद्याने चैव गोष्ठे वा महातटाकतीरके वा || ३ || देवालय समीपे तु पुण्यनद्याश्च तीरके | अथ शुद्धगृहे वापि कारयेन्मण्डपं ततः || ४ || मण्डपं वापि कूटं वा कर्तव्यं तु प्रपा तथा | श्रुतिहस्तं पंचहस्तं वा षढस्तमधमत्रयम् || ५ || सप्तहस्ताष्टहस्तं वा नवहस्तं तु मध्यमम् | दशैकादशहस्तं तु द्वादशं चोत्तमं भवेत् || ६ || एवमेवक्रमेणैव मात्रांगुलं तु कारयेत् | षोडशस्तम्भ संयुक्तं पंक्तिमानमथोच्छ्रये || ७ || जाती च चम्पकं वापि खदिरस्तम्भमेव वा | क्रमुकं वेणुदण्डं वा वकुली केतकी तथा || ८ || याज्ञिकैरेव वृक्षैर्वा नाहं विंशतिरंगुलम् | नालिकेरस्य पत्रेण विधेयमाच्छादनं ततः || ९ || वस्त्रेण वेष्टयेद्गात्रं चतुस्तोरणभूषितम् | दिग्ध्वजैश्च समायुक्तं वितानोपरिशोभितम् || १० || प्. ४७) मुक्तादामैरलंकृत्य पुष्पदामप्रलम्बनम् | एवमेव क्रमेणैव पूर्वं भूमिं परीक्षयेत् || ११ || ब्राह्मणस्य महीश्वेता रक्ता वै क्षत्रिया भवेत् | वैश्यस्य वसुधा पीता कृष्णा शूद्रा इति स्मृता || १२ || मधुरा ब्राह्मणा भूमिः कषाया क्षत्रियाय वै | वैश्यस्य षड्रसा ज्ञेया शूद्रस्तु कटुका स्मृता || १३ || आज्यगन्धं तु विप्रे च रक्तगन्धं नृपस्य तु | मूत्रगन्धा तु वैश्यस्य शूद्रा विष्ठानुगन्धिनी || १४ || वक्रगन्धरसानां च तत्तज्जात्यर्हकं भवेत् | हस्तमात्रं खनेद्भूमिं पूरयेत्तेन पांसुना || १५ || अधिकं चोत्तमं विद्यान्मध्यमा समपांसुभिः | हीनाचाप्यधमं ज्ञेयमधमं च विवर्जयेत् || १६ || तस्मात्तस्मांगन्तुषा केशाहस्तिमूर्धरिते ततः | पंचगव्येन संप्रोक्ष्य शिवमन्त्रेण देशिकः || १७ || पंचरत्नं क्षिपेद् तत्र षण्णवत्येन मन्त्रतः | पांसुभिश्छाययित्वा तु धिष्ण्यं सम्यक् प्रकल्पयेत् || १८ || दर्पणोदरसंकाशं चतुरश्रं समन्ततः | पूर्वाग्रं सप्तहस्तं स्यादुदगग्रं तथैव च || १९ || कृष्णसूत्रद्वयं कृत्वा तस्याग्रे मूलमुच्यते | ईशो जयन्त आदित्या सत्यकश्च भृशस्तथा || २० || प्. ४८) अग्निश्च वितथश्चैव गृहक्षतयमस्तथा | भृंगश्च पितृ सुग्रीवो वरुणश्चासुरस्तथा || २१ || रोगनाशश्च मुख्यश्च सोमश्चादित एव च | अर्धार्धद्विपदं भुंक्ते पूर्वे तु समरीचकः || २२ || विवस्वान्दक्षिणे चैव मित्रश्चैव तु पश्चिमे | अर्धार्धद्विपदं भुंक्ते उत्तरे पृथिवीधरः || २३ || आपापवत्ससावित्री इन्द्रजयस्तथैव च | रुद्रजयश्च विप्रेन्द्र ईशानैक पदस्थिताः || २४ || ब्रह्मा चतुष्पदं भुंक्ते षट्त्रिंशं पदभागिना | चरकी विदारी चैव पूतना पापराक्षसी || २५ || चतुश्शूल्ये न्यसेत्तत्र गन्धपुष्पादिनार्चयेत् | पुरुर्षं पूर्वं संकल्प्य * * रीके शिरो भवेत् || २६ || ब्रह्मकायदिति प्रोक्तं वामबाल्य वत्सरे | सावित्रीं चन्द्र च विप्रेन्द्र दक्षीमबहुरुच्यते || २७ || शूद्रजायास्तथा चैव वामपादं प्रकीर्तिता | इन्द्रजयस्तथैव स्याद्दक्षिणं पादमुच्यते || २८ || मित्रश्चैव तु लिंगः स्यादधोंमुखं तु कारयेत् | गन्धैः पुष्पैश्च धूपैश्च वरुणश्चैव पूजितम् || २९ || मण्डलं वर्धयेद्धीमान्पुण्याहं वाचयेत्ततः | पूर्वे चतुष्पदे चैव अष्टादश तु भाजयेत् || ३० || प्. ४९) एकांशं वर्तयेत्तत्र अन्तर्मध्यादि भ्रामयेत् | एवमेव क्रमेणैव चतुर्दिक्षु च भ्रामयेत् || ३१ || मध्यात्कर्णं परिग्राह्य ददद्धेनैव भ्रामयेत् | अभ्यन्तरकर्णपदे वर्तयेद्दलमेव च || ३२ || एवमेव क्रमेणैव चत्वारे दण्डमुच्यते | बाह्यकार्णं पदे चार्धो वर्तयेद्वृत्तमेव च || ३३ || अष्टाभिर्दलमेवं तु दलाग्रस्तत्र योजयेत् | प्रतिवारणरेखा च एकांगुलेन कारयेत् || ३४ || अंगुलीत्रयकार्यं तु शोभां चैवं त वर्जयेत् | अंगुलेनैव भूमित्वा * * * * * * * * || ३५ || अंगुलित्रयबाह्ये तु शोभां चैव तु वर्तयेत् | अंगुले नैव विप्रेन्द्र उपशोभां च वर्तयेत् || ३६ || मध्यात्पूर्वदलान्तं तु सीतयेत्केसरं ततः | केसरं तु त्रिभागैकं कर्णिकां चैव वर्तयेत् || ३७ || एवमेव क्रमेणैव वर्तयेन्मण्टपं ततः | मोक्षदं मण्डलं प्रोक्तं शान्तिकं च शृणुष्वथ || ३८ || पूर्वाग्रमुत्तराग्रं च सूत्रद्वयं प्रसारयेत् | नैर्-ऋते शानकोणे वा वायव्याग्नेयमेव वा || ३९ || सूत्रं प्रसारयेत्तत्र मध्ये शंकुं तत्रैव विन्यसेत् | खादिराः शंकवः कार्या बिल्वचूतकदम्बकैः || ४० || प्. ५०) मधुकं देवदारुं वा याज्ञिकं वृक्षमेव च | अष्टांगुलसमुत्सेधं तदर्धं नाहमुच्यते || ४१ || कर्तव्या चतुरंगुल्यं केसराश्च षडंगुलम् | दलायामं च विप्रेन्द्र चतुर्दशांगुलं भवेत् || ४२ || प्रतिवारण चांगुल्यं विधं च त्रियांगुलम् | शोभा वप्युपशोभां च वर्तयेदंगुलान्तरा || ४३ || एवमेवक्रमेणैव वर्तयेन्मण्दलं ततः | मण्डलं संप्रवक्ष्यामि मुक्ताचूर्णेन संयुतम् || ४४ || शालिगोधूम पिष्टैश्च पंचरागं च चूर्णकैः | गैरिकैष्टक चूर्णैश्च इन्द्रनीलस्य चूर्णकैः || ४५ || कृष्णांगारकचूर्णैश्च मरकतस्य च चूर्णकैः | हरिद्रा चूर्णसंयुक्तं मण्डले विन्यसेत्ततः || ४६ || केसरस्य तु मूले तु शुक्लवर्णं प्रकीर्तितम् | मध्यमे पीतवर्णं तु अग्रे श्वेतमिहोच्यते || ४७ || पूर्वायां तु दले चैव श्वेतवर्णमिति स्मृतम् | आग्नेययां रक्तवर्णं च याम्ये कृष्णमिहोच्यते || ४८ || श्वेतं वक्त्रेण विप्रेन्द्र विन्यसेत् प्रतिवारुणे | तदन्ते रजनीं न्यस्य शालिपिष्टं तदन्तके || ४९ || चतुर्द्वारसमायुक्तं लेखयेत्तु शिवद्विजः | एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा || ५० || प्. ५१) अष्टौ वा द्वादशं हस्तं षोडशं विंशतिस्तु वा | हस्तं च त्रिंशतिर्वापि इत उर्ध्वं न कारयेत् || ५१ || अष्टौ वा षोडशं वापि द्वात्रिंशद्दलमेव वा | अष्टोत्तरशतं वापि दलसंख्या विधीयते || ५२ || मन्त्रन्यासं प्रवक्ष्यामि शृणुष्व कमलासन | पुरुषं पूर्वदले न्यस्य अघोरं दक्षिणे दले || ५३ || सद्यं तु पश्चिमे न्यस्य वामदेवं तथोत्तरे | आग्नेययां हृदये न्यस्य शिरमीशानके दले || ५४ || नैर्-ऋते तु दले विप्र शिखामन्त्रं तु पूजयेत् | कवचं वायुदेशे तु नेत्रमीशान देशके || ५५ || अस्त्रं दिशासु संपूज्य एवमेव क्रमे न्यसेत् | दैत्यके तु पदे चैव शिष्याधिवासनं भवेत् || ५६ || मनुष्येऽपि च कुण्डं स्यात्पैशाचे गुरु तिष्ठति | ब्राह्मीके मण्डले कुर्यादेवमेव क्रमेण तु || ५७ || कर्णिकायां शिवं पूज्य ऐशान्यां केसरे न्यसेत् | प्रोक्षयेदम्भसा चैव पुण्याहं वाचयेत्ततः || ५८ || गन्धैः पुष्पैश्च धूपैश्च हृदयेन तु पूजयेत् | आवाहयेत्ततो देवं सद्यो जातेन मन्त्रतः || ५९ || स्थापयेद्वामदेवेन अघोरेण निरोधयेत् | सांनिध्यं पुरुषेणैव ईशानेन तु पूजयेत् || ६० || प्. ५२) पंचावरणमार्गेण पूजयेद्विधिपूर्वकम् | निवेदच्चरणं तस्मात्सर्वोपदंश संयुतम् || ६१ || अर्धं निवेदयेद्देवे चार्धार्धं बलि चाग्निभिः | पात्रशेषं चतुर्थांशं तं तच्छिष्याय प्रदापयेत् || ६२ || पंचब्रह्मैरनुस्मृत्य पंचपिण्डं कुरुष्वथ | आचम्य विधिनानेन दन्तेनास्पृश्य प्राशयेत् || ६३ || व्योमव्यापि जपेत्तत्र आचम्य च विधानतः | दन्तकाष्ठं ततः कुर्याद्द्वादशांगुलदैर्घ्यकम् || ६४ || पिप्पलं वटवृक्षं च खादिरं वापि कारयेत् | क्षीरवृक्षमपामार्गं दन्तधावनमुच्यते || ६५ || पाशुपतास्त्रमन्त्रेण जपित्वा खानयेत्ततः | शोधयित्वा मलं विप्र आचम्य च विधानतः || ६६ || व्योमव्यापि जपेत्तत्र शिवांगं विन्यसेत्ततः | अघोरेण तु मन्त्रेण भस्म शिरसि विन्यसेत् || ६७ || पंचगव्यं ततो दद्याच्छिवमन्त्र समायुतम् | शिवांगैर्ब्रह्मभिर्युक्तं जपित्वा पंचप्राशयेत् || ६८ || आचम्य च विधानेन पूतो भवति निश्चयः | शिष्यं चाधिवसेन्मन्त्री मण्डलस्य तु दक्षिणे || ६९ || भस्मदर्भसमारूढः शिवध्यानपरायणः | अग्निकुण्डं प्रकर्तव्यं द्वात्रिंशत्षोडशं तु वा || ७० || प्. ५३) अष्टौ वा पंचसंख्या वा दिकद्रान्नीव वा | वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् || ७१ || बिल्वोदुम्बरशमी चैव वैकंकतशमीं तथा | पालाशखदिराश्वत्थ प्लक्षन्यग्रोधमेव च || ७२ || अपामार्गं च विख्यातं समिद्भिस्समुदाहृतम् | समिदाज्य चरुं लाजान्बलिं च सर्षपं तथा || ७३ || यवांश्चैव तु विप्रेन्द्र होमयेत्तन्त्रपारगः | समिधं सद्यमन्त्रेण आज्यं हृदयमेव च || ७४ || शिखया चरुहोमं तु लाजान्वामेन चैव हि | शिलान्यन्नेयमं चैव शालीं च पुरुषेण तु || ७५ || सर्षपं शिरमन्त्रेण कवचेन यवांस्तथा | शिवाय दशहोतव्यं विद्येशाद्विगुणं भवेत् || ७६ || गणेशान्लोकपालांश्च त्रिगुणं होमयेत्ततः | त्रिगुणं लोकपालास्त्रं होमयेद्देशिकोत्तमः || ७७ || मण्डलस्य तु पूर्वे च कलशान्विन्यसेन्नव | स वस्त्रान्सापिधानांश्च समग्रे हेमसंयुतान् || ७८ || नवरत्नं च विप्रेन्द्र नवकुम्भे च विन्यसेत् | धान्योपरि विधातव्यं चन्दनोदकपूरितम् || ७९ || शिवमन्त्रेण संस्थाप्य प्रधानकलशं तथा | पुरुषं पूर्वतः स्थाप्य अघोरं दक्षिणेन तु || ८० || प्. ५४) सद्यं पश्चिमतः स्थाप्य वामदेवं तथोत्तरे | ऐशान्यामीशमन्त्रेण आग्नेययां हृदयेन तु || ८१ || शिखामन्त्रेण नैर्-ऋत्यां कवचं वायुगोचरे | तत्तन्मन्त्रेण संयुक्तं तत्तत्कुम्भेषु देशिकः || ८२ || गन्धैः पुष्पैश्च धूपैश्च दीपैरर्ध्यैर्विशेषतः | हृदयेन तु मन्त्रेण नैवेद्यं दापयेच्छिवे || ८३ || शुभाशुभानि स्वप्नानि यत्नेन तु परीक्षयेत् || ८३ || आरोहणं गोवृषकुंजराणां प्रासादशैलाग्रवनस्पतीनाम् | विष्ठानुलेपं रुधिरस्रुतिं च स्वप्नेषु गम्यं गमनं च धान्यम् || ८४ || पश्यते पिशजं स्वप्ने महा(न)र्थमवाप्नुयात् || ८५ || पद्मं पुष्पं च वृषभं मकुटं भूमिलाभकम् | अर्पितं पिलितं वापि पक्वं वा शुभवृक्षके || ८६ || वृष्टे वृष्टफलं चैव लभतेत्र न संशयः | शालिक्षेत्रे महं पक्वं दृश्यते शालिलाभकम् || ८७ || स्वप्ने महोदकं दृश्येद्धनधान्यमवाप्नुयात् | दृश्यते पुष्पमालाया अर्थलाभं विनिर्दिशेत् || ८८ || विविधानि फलान्येव मधुराणि तथैव च | स्वप्नेपि दृश्यते विप्र धनलाभं विनिर्दिशेत् || ८९ || धेनुं वापि वराश्वं वा शुकं वा मृग एव वा | शारिकां वा भयं वापि दृश्येत् कुटुम्बवर्धनम् || ९० || प्. ५५) यस्तु स्येते ससर्पेण दृश्यते दक्षिणे भुजे | पत्रं वा चार्थलाभं वा लभतेऽत्र संशयः || ९१ || गन्धिशालि महाशाली कलमाशालिश्च मेव वा | दातव्यमपि स्वप्नेपि (तु) दुःखनाशं भवन्ति वै || ९२ || सवत्सां सुरभिं पश्येदायुष्यं तस्य वर्धते | जनं वा वानरं वापि सर्पं वापि च दृश्यते || ९३ || धनधान्यमवाप्नोति पुत्रपौत्रविवर्धनम् | प्रासादारोहणं वापि समुद्रं दृश्यते नरः || ९४ || स राज्यं लभतेऽवश्यं स्वप्नान्ते दृश्यते नरः | आदित्यमण्डलं स्वप्ने दर्शनाद्राज्यमाप्नुयात् || ९५ || दैवज्ञं चैव राजानकन्यालसुरमेव वा | अर्थलाभमवाप्नोति दर्शनादर्थमाप्नुयात् || ९६ || रुधिरं वा सुरां वापि पानं वा दृश्यते यदि | विद्यालाभं द्विजानां तु इतरस्तु धनं लभेत् || ९७ || तरते सृक्नदी वापि महदर्थमवाप्नुयात् | अमेध्यं दर्शनं भक्ष्ये अर्थलाभं विनिर्दिशेत् || ९८ || क्षीरपाने महाव्याधिर्घृतपाने महद्भयम् | रक्तपाने महाव्याधिराज्यं च दधिभोजनम् || ९९ || पायसं चैव श्वानं वा तदर्धो लीयते ततः | महत्सुखमवाप्नोति मासा मरणमाप्नुयात् || १०० || प्. ५६) श्येनं वापि खरं वापि आधूर्त * मुलूककम् | मूढो वा लीयते पक्षे मासान्मरणमाप्नुयात् || १०१ || स्वदन्त पतिते चैव बन्धोर्मरणमाप्नुयात् | निगलं चात्र दृश्ये तु महद्व्याधिमवाप्नुयात् || १०२ || रक्तवस्त्रैश्च माल्यैर्वा कृष्णं वापि च धार्यते | पाददेशे स्थिता नारी व्याधितैर्मरणं भवेत् || १०३ || करयुक्तारथारुह्ये नीयते तु यमालयम् | मासान्मरणमाप्नोति स्वप्नान्ते दृश्यते यदि || १०४ || रूपे तु पतिते दृश्ये मरणं तस्य निर्दिशेत् | संन्यासिनं क्षपणं बोद्धं दृश्यते मरणं भवेत् || १०५ || शैवाच्चान्यद्विजं वापि रक्तवस्त्रां सुमंगलीम् | महास्त्रियमवाप्नोति स्वप्नान्ते दृश्यते यदि || १०६ || तालवृक्षफलं चैव फलानां वर्जयेत्ततः | किंशुकं रक्तपुष्पाणि करवीरं तु वर्जयेत् || १०७ || धूर्धूरकठिना विप्र श्वेतपुष्पं प्रशस्यते | नराणां ब्राह्मणः श्रेष्ठो राजानां मध्यमं भवेत् || १०८ || शुकं * * * * * * पक्षिणां तु प्रदर्शयेत् | धेनुं (च) वृषभं चैव सिंहं चैव मृगं तथा || १०९ || स्वप्नेपि दृश्यते विप्र आयुष्यं चैव वर्धयेत् | कुलस्थं सर्षपं मुद्गं दृश्यते व्याधिमाप्नुयात् || ११० || प्. ५७) कदली नालिकेरं वा पनसं मातुलुंगकम् | एतेषां तु फलं दृष्ट्वा धनधान्यं मवाप्नुयात् || १११ || देवतानामृषीणां वा देवपत्नी च चाप्सराः | यस्तु पश्यति स्वप्नान्ते धनमायुर्यशो भवेत् || ११२ || आयुधान्वाहनान्वापि दृश्यते कुटुम्बवर्धनम् | मांसं वापि च मत्स्यं वा लब्धो शुभदं भवेत् || ११३ || जुषं वा तस्करं वापि महर्षिं व्याघ्रमेव वा | राजा पीडामवाप्नोति प्रतारैर्व्याधिमादिशेत् || ११४ || स्नानकार्यं प्रकर्तव्यात्तु सद्यो व्याधिमुच्यते | रण्डां च मुण्डां वापि नग्नस्त्रीं वापि पश्यति || ११५ || धान्यक्षयं भवेत्तस्य स्वप्नान्तेऽपि न संशयः | पुरीषं वापि मूत्रं वा न स्वप्ने दर्शयेत्ततः || ११६ || वस्तु नश्यति स्वप्नान्ते अर्थहानिमवाप्नुयात् | शाल्यन्नं भुंजते यस्तु आयुः श्रीकीर्तिवर्धनम् || ११७ || स्त्रीभिः सुमंगलीभिस्तु संयोगं शयनं शुभम् | शुभे तु प्रविशेद्दीक्षामशुभे होममाचरेत् || ११८ || सहस्र परमा देवी शतमूला शतांकुरा | सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी || ११९ || इदं मन्त्रं जपित्वा तु दूर्वां शिरसि निक्षिपेत् | स्वप्नं तु प्रथमे यामे वत्सरत्रय पाकनम् || १२० || प्. ५८) द्वितीयेन द्वयं चैव तृतीयामे संवत्सरम् | चतुर्थे विश्वयामे च षण्मासात्सिध्यते ततः || १२ || उषायां तु दशाहं तु प्राहे (प्रगे) पंचदशं दिनैः | अरुणोदयवेलायां सप्ताहात्सिद्धिमाप्नुयात् || १२२ || एवमेव क्रमेणैव स्वप्नं चैव परीक्षयेत् | स्वप्नं परीक्ष्य बहुधा प्रभाते स्नपनं भवेत् || १२३ || दीक्षामण्डलतः प्रोक्तदीक्षामार्गमतः शृणु || १२३ || इति वीरतन्त्रे षट्सहस्रसंहितायां दीक्षामण्डलविधिरष्टमः पटलः || ८ || पितामहः || दीक्षामार्गः कथं देव मन्त्रन्यासः कथं प्रभो ! | शैवास्सप्तविधाज्ञेया तत्सर्वं ब्रूहि मे प्रभो ! || १ || साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || २ || दीयते ज्ञानसद्भावं क्षीयते पाशपंजरम् | तथोस्तु संघटीकृत्य सा दीक्षा इति कथ्यते || ३ || सप्तधा शैवमादिष्टं मत्तस्त्वं तन्मनाः शृणु | अनादि शैवं प्रथममादिशैवं द्वितीयकम् || ४ || महाशैवं तृतीयं तु चतुर्थं चानुशैवकम् | अवान्तरस्तु शैवं तु पंचमं तु विदुर्बुधाः || ५ || प्. ५९) षष्ठं प्रवरशैवं तु सप्तमं चान्य शैवकम् | शैवास्सप्तविधाः प्रोक्तास्तेषां भेदं शृणुष्व च || ६ || अनादिशैवं विज्ञेयमागमेनैव संयुतम् | शिवद्विजाश्च विप्रेन्द्र आदिशैवाः प्रकीर्तिताः || ७ || कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च | गौतमश्चैव पंचैव पंचवक्त्रेषु दीक्षिताः || ८ || एतेषां तु ऋषीणां तु जातानां तु शिवद्विजा(नाम्) | शिवदीक्षा न कर्तव्या कर्तव्या चेत्सुनिष्फला || ९ || उपनीय तु तत्काले तु मण्डले पूजयेच्छिवम् | स्नपनं चांगशुध्यर्थं कारयेत्तु शिवद्विजान् || १० || महाशैवं तु विप्राणां शिवदीक्षासमन्वितम् | अदीक्षितश्चतुर्वेदी शिवपूजां न कारयेत् || ११ || भृत्यार्थ परमेशान दीक्षाविरहिता द्विजाः | सण्मासात्पतनं यान्ति यजेद्देवलकाः स्मृताः || १२ || त्रीणिवर्षाणि भृत्यार्थं स्मितलिंगेऽपि दीक्षिताः | पूजयेद्यदि विप्रस्तु स वै देवलको भवेत् || १३ || एतेषां चैव सर्वेषां लोकानां च विशेषतः | स्थिरलिंगेषु यत्पूजान्नकुर्वन्ति कदाचन || १४ || क्षत्रियश्चैव वैश्यस्तु अनुशैवमिहोच्यते | शूद्रो वाप्यन्तरो वापि अन्तरे शैव चोच्यते || १५ || प्. ६०) सवर्णाम्बष्ठ मध्यस्थो कुलालो पारकिस्तथा | प्रवरशैवमिति ख्यातं इदमन्यच्छृणुष्व च || १६ || अन्येषां चैव जातीनामन्यशैवमिहोच्यते | * * * आदिशैवेन प्रतिष्ठाभ्यर्चनान्तकम् || १७ || अन्यथा कारयेद्यस्तु निष्फलं चैवमवाप्नुयात् | शैवभेदा मयाख्याता दीक्षाविधिमतः शृणु || १८ || रोहिणी श्रवणार्द्रा च श्रविष्ठा त्रीणि चोत्तरे | पुष्यं शतभिषक् चैव दीक्षानक्षत्रमुच्यते || १९ || वृषभं वाथ सिंहं वा वृश्चिकं कुम्भमेव वा | मिथुनं वापि कन्या वा धनुर्वा मीनमेव वा || २० || एते हि राशयः प्रोक्ताश्चरराशिं च वर्जयेत् | द्वितीया पंचमी वापि षष्ठी वापि विशेषतः || २१ || द्वादशी वाथ कर्तव्यं त्रयोदश्यामथापि वा | एते हि तिथयः प्रोक्ता वारांश्चैव शृणुष्व च || २२ || सोमशुक्रबुधावापि जीवा रविसुतापि वा | बृहस्पत्युदयं वापि शुक्रोदयमथापि वा || २३ || बुधोदयं वा कुर्वीत सोमोदयमथापि वा | अष्टमस्था ग्रहाश्चैव पश्चाच्छिष्यानुपोषितान् || २४ || स शुद्धहृदयान्भक्तान्कृतशौचो जितेन्द्रियः | पादप्रक्षालनं कुर्यादाचम्य विधिना ततः || २५ || प्. ६१) नेत्रबन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः | दुकूलपट्टसंयुक्तं कार्पासिकमथापि वा || २६ || उत्तमं द्वादशं हस्तं दशहस्तं तु मध्यमम् | अधमं नवहस्तं तु चतुस्तालं तु विस्तृतम् || २७ || वर्णेन स्फटिकेनैव दध्ये तु मरुणं भवेत् | सदशाहतवस्त्रेण नेत्रबन्धं तु कारयेत् || २८ || अस्त्राचयेन संयुक्तं नेत्रमन्त्रदशं जपेत् | व्योमव्यापि जपेत्तत्र तत्पुरुषेण समायुतम् || २९ || नेत्रबन्धं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् | उत्तमं दशनिष्कं तु अष्टनिष्कं तु मध्यमम् || ३० || अधमं पंचनिष्कं तु लक्षणं चोच्यते मया | दरिद्राणां तु सर्वेषां यथालाभेन कारयेत् || ३१ || उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् | ईशानेन तु मन्त्रेण पुष्पं हस्ते निधापयेत् || ३२ || प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः | ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् || ३३ || मण्डले विकिरेत्पुष्पं स्वस्तिमंगलवाचकैः | ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् || ३४ || यस्मिन्मन्त्रे पदे पुष्पं नामगोत्र तदात्मकम् | तन्मन्त्रं सिध्यते तस्य कुरुतो वाप्यनुग्रहम् || ३५ || प्. ६२) ईशानस्य दलेर्वाराग्नेयांशोकदं तथा | नैर्-ऋत्यां श्रीकरं प्रोक्तं अनायुष्यं तु वायु च || ३६ || चतुर्दिक्षु च विप्रेन्द्र तच्छ्रीकरमिति स्मृतम् | कर्णिके पतिते पुष्पे सुखं चैव भवेत्तदा || ३७ || ईशानस्य दले चैव नेत्रं नाममिहोच्यते | उदकेन समायुक्तं भस्म शिरसि निक्षिपेत् || ३८ || सुगव्यादिभिरभ्यर्च्य हृदयेन तु मन्त्रतः | शिवाग्रे चैव तु कुंभं तु शाल्योपरि च विन्यसेत् || ३९ || ससूत्रां सापिधानां च स वस्त्रान्हेमसंयुतान् | शिवमन्त्रमनुद्धृत्य स्थापयेत्कुंभमेव च || ४० || तस्योदकेन विप्रेन्द्र प्रोक्षयेच्छिष्य मुर्धनि | ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् || ४१ || अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | सद्योजातं न्यसेत्पादौ विन्यसेच्छिष्यदेहके || ४२ || हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् | शिखायां तु शिखां न्यस्य कवचं हस्तमध्यतः || ४३ || अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् | देवस्य दक्षिणे पार्श्वे पलाशपत्रं च संयुतम् || ४४ || कूर्चेनैव समायुक्तमासनं तत्प्रकीर्तितम् | आसनस्था तु शिष्याणां पूर्वाभिमुखमेव च || ४५ || प्. ६३) अग्निबीजेन विप्रेन्द्र त्रिकोणमण्डले स्थिते | पादांगुष्ठात्समारभ्य दहेद्यावच्छिरोन्तकम् || ४६ || अभूते नार्पयेत्तत्र एकचित्तेन वै बुधः | चन्द्रमण्डलसंकाशमकारं चात्मसंभवम् || ४७ || विद्यातत्वमुकारं तु शिवतत्वं मकारकम् | ओमित्येकेन मलं योगपीठमधोमुखम् || ४८ || चिन्तयेदमृतं तोयं सुषुम्ना भिन्नमस्तकम् | तेन प्लावितमात्मानमार्य * न्तं विचिन्तयेत् || ४९ || इमालं योश्यते नित्यं समाधी मृत्युनाशनम् | न तस्य जायते मन्युरत्र शास्त्रस्य निश्चयः || ५० || षडध्वा विन्यसेत्पश्चाच्छिष्येदेहे (तु) विशेषतः | मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनात्मकम् || ५१ || वर्णाध्वा च कलाध्वा च विंशत्येकं शिवं पदम् | सत्वो रजस्तमश्चैव आत्म त्रयमेव च || ५२ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चाष्टशक्तिभिः | पंचब्रह्मशिवांगां च प्रासादं तु सदाशिवम् || ५३ || शिष्यदेहे न्यसेद्विप्र प्रणवादिनमोन्तकम् | तत्तन्मन्त्रमनुस्मृत्य योजयेच्छिष्यदेहके || ५४ || मन्त्राध्वा विन्यसेन्मूर्ध्नि कलाध्वा मुखमेव च | तत्वाध्वा हृदये न्यस्य नाभौ तु भुवनात्मकम् || ५५ || प्. ६४) वर्णाध्वा मेढ्रदेशे तु पादयोस्तु कलाध्वकम् | पादाध्वा तु पुनर्योज्य पादारभ्य शिरोन्तकम् || ५६ || सद्यः कलाभिरष्टाभिर्वामदेवं त्रयोदशम् | अघोरमपि चाष्टौ तु तत्पुरुषं तथैव च || ५७ || ईशानस्य कलाः पंच अष्टत्रिंशत्कला न्यसेत् | विद्येश्वराणामष्टौ तु गणेशानां चतुष्टयम् || ५८ || द्विपदं लोकपालानां अस्त्राणां पदमेकशः | एवं पदाध्वा विन्यस्य तत्वाध्वा च पुनर्न्यसेत् || ५९ || पृथिव्यापस्तथातेजो वायुराकाशमेव च | श्रोत्रं चक्षुश्च जिह्वाश्च घ्राणं त्वक्चैव पंचमः || ६० || वाक्पादपाणि पायूपस्थं च पंचमम् | शब्दस्पर्शोरूपरसो गन्धश्चापि च पंचमम् || ६१ || मनोहंकारबुद्धिश्च प्रकृतिः पुरुषस्तथा | रागो माया च विद्या च कला नियतिमेव च || ६२ || स गृहेश्वरकालश्च शुद्धमाया तथैव च | शुद्धविद्या शुद्धकला सदाशिवः शिवः परम् || ६३ || षट्त्रिंशत्तत्वमेवं तु क्रमेणैवं तु विन्यसेत् | भुवनाध्वा ततो न्यस्य कलानां तु शिवान्तकम् || ६४ || भुवनाध्वा न्यसेत्पश्चान्मेढ्रमेवं क्रमेण तु | अधस्ताद्धृदयादीनि कल्पयेत्कल्पवित्तमः || ६५ || प्. ६५) कालाग्निश्चान्धकारं तन्नरकानेक विंशतिः | रौरवं कुम्भीपाकं च महारौरवमेव च || ६६ || क्षुधानासी न काक्तं चे जंलं च शीतलेन च | उष्णसंतापनं चैव लोहतप्ततपस्तथा || ६७ || कूटशाल्मलिकूपं च तिलयन्त्रेषु यन्त्रकम् | धनुर्निरयमाधानं क्षुरिकानीयमेव च || ६८ || पाषाणं तप्तपांसुर्वै तरणी च तथैव च | तलं च वितलं चैव नितलं च तलातलम् || ६९ || अतलं च तलानील * * * रौतलमतो | परहलोकश्च भुवर्लोकः स्वर्लोकश्च तथैव च || ७० || महल्लोकश्च विज्ञेयो जनलोकस्तथैव च | तपोलोकं सत्यलोकं गन्धर्वाक्षयलोककम् || ७१ || विद्याधराणां लोकं च सोमलोकं तथैव च | ईशानं देवलोकं च ब्रह्मलोकं तथैव च || ७२ || ब्रह्मलोकोपरिस्तस्य विष्णुलोकमतः परम् | अनन्ते सत्यलोकं तु सूक्ष्मलोकमतः परम् || ७३ || शिवोत्तमस्य लोकं तु एकनेत्रस्य लोककम् | एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च || ७४ || महेश्वरस्य लोकं तु सदाशिवस्य लोककम् | गोलोकं शिवलोकं च क्रममेषां प्रकीर्तितम् || ७५ || प्. ६६) शिवलोकोपरिष्टात्तु लोकमन्यन्न विद्यते | नाभिमूलात्समारभ्य यावद्धृदयदेशकम् || ७६ || वर्णाध्वा विन्यसेद्विप्र कादिपादान्तमेव च | अकारं मूर्ध्निदेशे तु आकारं तु ललाटके || ७७ || इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके | ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके || ७८ || ए ऐ च तालुरन्ध्रे तु ओ औ ओष्ठद्वयेपि च | दन्तपंक्तिद्वये न्यस्य अं अः इत्यक्षरद्वयम् || ७९ || कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके | टवर्गं दक्षिणे पादे तवर्गं वामपादके || ८० || पवर्गं दक्षिणे पार्श्वे वामपार्श्वे बभौ न्यसेत् | मकारं हृदये न्यस्य यकारं चैव विन्यसेत् || ८१ || रेफं तु रक्तमेवोक्तं लकारं मांसमेव च | लकारं मेदे विन्यस्य शकारं चाधिदेशके || ८२ || मज्जदेशे षकारं तु सकारं शुक्लमेव च | हकारं प्राणमित्याहु लकारं मेढ्रमेव च || ८३ || क्षकारं वृषणे प्रोक्तं सर्वानेतान्समान्न्यसेत् | नवत्रिंशत्कला विप्र कादिपादान्तविन्यसेत् || ८४ || रास्वताधारमणीताय पंक्तिश्च दारुणि | निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || ८५ || प्. ६७) शान्त्यतीतं परं व्योम क्रमाद्विन्यस्य तत्वतीः | ततो मोहौ क्षुधानिद्रा मृत्युमायजरा मया || ८६ || राजारक्ष्यारतः पाल्यारम्याक्षणमतिक्रिया | धृतिः कार्या च रात्री च भ्रामणी मोहिनी तथा || ८७ || सिद्धिद्धिः शान्तिलक्ष्मी मेधा कान्तिः स्वधा स्थितिः | नवत्रिंशत्कलाव्याता देवदेवेन धीमहि || ८८ || हृदये चाग्नि विन्यस्य मुखे वा * * विन्यसेत् | आकाशं मूर्ध्नि विन्यस्य पंचतत्वान्क्रमान्न्यसेत् || ८९ || मन्त्राध्वा सद्यमन्त्रेण वामेनैव पदाध्वकम् | तत्वा वैश्यघोरेण भुवनाध्वा पुरुषेण तु || ९० || वर्णाध्वा च कलाध्वा च ईशानेन तु विन्यसेत् | एवमेव क्रमेणैव शिष्यदेहे न्यसेत्ततः || ९१ || ईशानं मूर्ध्नि विन्यस्य मुखे विष्णुरिति स्मृतम् | हृदये ब्रह्मणः प्रोक्तं अश्विन्यां हस्तयोर्न्यसेत् || ९२ || एवं यः कुरुते मर्त्यः भूमौ भवति मानवः | देशिकश्चात्मना विप्र शिवस्तत्रैव तिष्ठति || ९३ || तस्मात्सर्वप्रयत्नेन देशिकं पूजयेत्ततः | यद्द्रव्यं पात्रशेषादि शिवस्य परमेष्ठिनः || ९४ || होतव्यं देशिकस्यापि न दोषाय प्रकल्पयेत् | शिवमुद्दिश्य सर्वं तु वस्त्रधान्यादिकाञ्चनम् || ९५ || प्. ६८) दद्यादाचार्यहस्ते तु शिवलोकमवाप्नुयात् | दीक्षाविधिरिति प्रोक्तं अभिषेकमतः शृणु || ९६ || इति वीरतन्त्रे दीक्षाविधिः नवमः पटलः || ९ || पितामहः || दीक्षितानां तु शिष्याणां पापकर्मविशुद्धये | अभिषेकं कथं देव तत्सर्वं वद मे प्रभो || १ || ईश्वरः || यक्तमन्यस्य या दृष्टं तत्सर्वं वक्ष्यतेधुना | सुमुहूर्ते सुलग्ने च योगे च करणान्विते || २ || देवाग्रे मण्डपं कुर्यात्पूर्वोक्तविधिना सह | अथांकुरार्पणं कुर्याल्लक्षणेन समन्वितम् || ३ || पालिका घटिका चैव शरावं च त्रिधा भवेत् | नीवारं यवशाली च तिलं वैणवमेव च || ४ || श्वेतशाली महाशाली मुद्गमाषकुलस्थकम् | कलमाशालियवोक्तं वा सर्षपं शिम्बमेव वा || ५ || निष्पावं च प्रियंगुश्च ग्राहयेल्लक्षणान्वितम् | पयसा क्षालयेद्विप्र ! प्राच्यादीनां तु बापयेत् || ६ || सोमकुम्भं तु विप्रेन्द्र स्थापयेन्मध्यमेव च | सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् || ७ || आचार्यश्च शुचिर्भूत्वा सोष्णीषः सोत्तरीयकः | बीजानि वाथयेत्तत्र ताम्बूलं दापयेत्ततः || ८ || प्. ६९) ततो मण्डपसंस्कारं पुण्याहं वाचयेत्ततः | अष्टोत्तरशतं वापि पंचाशत्पंचविंशतिः || ९ || अधमं नवकुम्भांश्च स्थापयेद्देशिकोत्तमः | सूत्रपात्रं तु कर्तव्यं शालिना विकिरेत्ततः || १० || अष्टद्रोणसमायुक्तं तदर्धं तण्डुलैरपि | तण्डुलार्धतिलैर्लाजादर्भैश्चैव परिस्तरेत् || ११ || मध्यमे शिवकुम्भं तु स्थापयेच्छिवमन्त्रतः | स सूत्रान्सापिधानांश्च स वस्त्रान्हेमसंयुतान् || १२ || वर्धनीं तस्य वामे तु गौरी बीजेन संयुतम् | सव्यादीशानपर्यन्तं स्थापयेदष्टकुम्भकान् || १३ || प्रधाने कुम्भे शिवः पूज्यो वर्धन्यामम्बिकां न्यसेत् | अनन्तेशश्च सूक्ष्मश्च शिवोत्तमश्चैकनेत्रकः || १४ || एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च | अधिदेवास्समाख्याता द्रव्याणां च शृणुष्व च || १५ || प्रधाने कलशे विप्र नवरत्नं क्षिपेत्ततः | वर्धनीं गौरिबीजेन सुवर्णं तत्र निक्षिपेत् || १६ || स्वर्णं रजत ताम्रं च * * * त्र पुसीसकम् | आरकूटं च विपुलं कांस्यं पूर्वं न्यसेत्ततः || १७ || आग्नेययां कलशे विप्र नवधातूंश्च विन्यसेत् | हरितालं च * * * * * * * चनातिलाम् || १८ || प्. ७०) माषकं चैव सौराष्ट्रं रसपंकैकतुं ततः | रसेन नवकं चैव विन्यसेत्तु विशेषतः || १९ || वृक्षपत्रं च विप्रेन्द्र दक्षिणे कलशे न्यसेत् | पालाशं चादि खदिरं तार्क्ष्य न्यग्रोधमेव च || २० || पिप्पलं पनसं बिल्वं शिरीषं (चं)पकमेव च | नैर्-ऋते स्थापिते कुम्भे पुष्पाणां नवकं न्यसेत् || २१ || नद्याश्चोभयतीरे च नागवल्लीकरी * * | * * * देवशिरौ च निवेद्यां च तु सागरे || २२ || वारुणे स्थापिते कुम्भे पुष्पाणां नवकं न्यसेत् | पंकजं चंपकं चैव कुमुदं नीलोत्पलं तु वा || २३ || पाटली करवीरं च रक्तोत्पलमेव च | नन्द्यावर्तं च घातं च नवपुष्पमिहोच्यते || २४ || वायव्यां चैव कुम्भेषु गन्धपुष्पादि विन्यसेत् | चन्दनं कुंकुमं नीलोत्पलं खगजानश्च वानरम् || २५ || तक्कालारजकं पत्रं विन्यसेत्स्वस्वनामतः | सौम्यायां स्थापिते कुम्भे नवबीजानि विन्यसेत् || २६ || यववेणुप्रियंगुश्च शालिनीवारमेव च | गोधूमयवमुद्गांश्च सर्षपं च यथाक्रमम् || २७ || ऐशान्यां कुंभमेवं तु ओषधीनां क्रमान्न्यसेत् | लक्ष्मी च सहादेवी च विष्णुक्रान्तिं त्रयंबला || २८ || प्. ७१) इन्द्रपर्णं शंखपुष्पं सूर्यावर्तं च गन्धिकाः | विन्यसेत्तु विशेषेण स्वस्वनामानुमन्त्रतः || २९ || एकाशीतीनि कुम्भानि कारयेद्या विशेषतः | अष्टदिक्षु च होमः स्याल्लक्षणेन समन्वितम् || ३० || अथवा पंचहोमं स्यादीशान्यां च चतुर्दश | पलाशखदिराश्वत्थ प्लक्षन्यग्रोध बिल्वकैः || ३१ || औदुम्बरशमी चैव पूर्वादि परिकल्पयेत् | समिदाज्यचरुन्लाजान्यवशालितिलानपि || ३२ || प्रियं सिद्धार्थकश्चैव प्रत्येकं तु सहस्रकम् | यावद्वै कुम्भसंख्या तु तावत्संख्या तु होमयेत् || ३३ || अष्टोत्तरशतं वापि पंचाशत्पंच विंशतिः | यागस्थानस्य वारुण्यां महादेवस्य * * * * || ३४ || होमं कुर्यात्तु विप्रेन्द्र शिवदीक्षा समायुताम् | अध्ययनं च कर्तव्यं चतुर्वेदैश्चतुर्दिशि || ३५ || गन्धैः पुष्पैश्च धूपैश्च शिवं संपूजयेत्ततः | यागस्थानस्य वारुण्यां महादेवस्य पूर्वतः || ३६ || अभिषेकं कारयेत्तत्र प्रासादेन तु मन्त्रतः | ब्रह्मैरंगैश्च संयुक्त व्योमव्या(पि)समायुतम् || ३७ || अभिषेकं कारयेत्तत्र शिष्यदेहं विशेषतः | गन्धपुष्पादिना पूज्य प्रासादेन तु मन्त्रतः || ३८ || प्. ७२) तत्रैव भोजयेच्छैव विप्रान्देशिकः शिष्यसंयुतः | सा वर्णक * अत्राद्य * न्त सिंहहनि भोजनम् || ३९ || दीक्षोपकरणं सर्वं देशिकाय प्रदापयेत् | * * * * * * * * * * पर्वतवाहनम् || ४० || पावपादुकंतया | माहिषाल्गोश्चदासी च धान्यान्वस्त्रांश्च सर्वशः | आचार्याय प्रदातव्यं मानं च निवेदयेत् || ४१ || भोजनं पायसं दद्यात्क्षीरेणैव पूरितम् | सगुलं गोघृतैर्युक्तं कदलीफलसंयुतम् || ४२ || अनेकोपदंश संयुक्तं प्रासादेनादिमन्त्रतः | आचार्यःशिष्यसंयुक्तं भोजयेद्विधिपूर्वकम् || ४३ || समयाद्भोजयेत्तत्र तत्राग्रे तु बलिंक्षिपेत् | लाजान्त संयुक्तमपूवं घृतसंयुतम् || ४४ || देशिकेन बलिं दद्याच्चरुणा दधि संयुतम् | चतुष्पथे पथे चैव द्विपथेकै च विधिरवे || ४५ || सर्वदेवालयं चैव पंचरात्रं तु पूजयेत् | एवमेवक्रमेणैव अभिषेकं तु कारयेत् || ४६ || सर्वमंगलमांगल्यं सर्वव्याधिनिवारणम् | विधिना कारयेद्यस्तु तस्य मृत्युर्न विद्यते || ४७ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | अभिषेकं मया प्रोक्तं शैवाचारं ततः शृणु || ४८ || इति वीरतन्त्रे षट्सहस्रसंहितायां अभिषेको नामदशमः पटलः || १० || प्. ७३) आचार्यस्यादिशैवादि महाशैवानुशैवकान् | कीदृशानीह सर्वं तद्वक्तुं सर्वमिहार्हसि || १ || ईश्वरः | त्रैवर्णिकानां शैवानां आचाराः षोडश क्रियाः | निषेकादि सपिण्डान्तं श्रूयतां कमलासन || २ || अत्रैवोदाहरन्तीममग्निमुखं द्विजोत्तम ! | शुचौ देशे समं कृत्वा सितान्विन्यसेत्ततः || ३ || तुषांगारकलोहं च केशकीटं च वर्जिता | हस्तमात्रेण विप्रेन्द्र कुर्याद्वै स्थण्डिलं ततः || ४ || त्रिप्राचीनमुदीचीनं सकले * * लेखयेत् | व्यपोष्य कलशं तत्र हस्तौ प्राक्षालयेत्ततः || ५ || अथवाग्निं समाभूय श्रोत्रियस्य गृहेथवा | व्याहृत्यावानयेदग्निं षोल्कालयेत्ततः || ६ || जुष्टोदमूना मन्त्रेण उपस्थानं करोति च | परिस्तीर्य ततो दर्भैर्हस्तमात्रैश्चतुर्दिशि || ७ || पूर्व * न्तु नवानां तु * * * * चतुर्दिशि | दक्षिणानुत्तरानग्रानधस्ताद्विन्यसेत्ततः || ८ || प्रागुदग्विन्यसेद्दर्भानुपरिष्टात्तु विन्यसेत् | परीधीन्हस्तमात्रेण * * * * * चैव हि || ९ || दक्षिणे पश्चिमे चैव उत्तरे विन्यसेत्ततः | हृदयेन तु दर्भांश्च परिधी शिखया सह || १० || प्. ७४) ऊर्ध्वं सन्धाद्वयं चैव शिरोमन्त्रेण विन्यसेत् | दर्भोपरिन्यसेद्विप्र शरावं समिधा सह || ११ || आज्यं चैव तु विप्रेन्द्र साधयेद्धृदयेन तु | प्रोक्षयेदम्भसा चैव गन्धपुष्पादिनार्चयेत् || १२ || तूष्णीं पात्रं समुत्तीर्य प्रोक्षयेदम्भसा पुनः | स्थण्डिलादक्षिणे भागे ब्राह्मणान्भोजयेत्ततः || १३ || प्रणीतामुत्तरे स्थाप्य गन्धपुष्पादिनार्चयेत् | द्वेदर्भाग्रसमायुक्तं तिरः पवित्रं विन्यसेत् || १४ || आज्यस्थाल्यां न्यसेदाज्यं पश्चादंगारके न्यसेत् | दर्भानेकेर विप्रेन्द्र आज्याधिश्रवणं भवेत् || १५ || द्वेदर्भाग्रसमायुक्तमग्निना द्योतयेत्ततः | स्रुवं चैव तु दर्भांश्च मार्जयेद्देशिकोत्तमः || १६ || तस्मात्सूत्रेण होतव्यं अग्निमुखं विशेषतः | परिषेचनं ततः कुर्याद्धृदयेन समन्वितम् || १७ || इध्मं षोडशसंयुक्तं तूष्णीमग्नौ निधापयेत् | प्रजापतये स्वाहेति स्रुवेणैव तु होमयेत् || १८ || स्वाहेति परिधीसन्धौ स्पृशन्ती * * * * * | अथाज्यभागं होतव्यं अग्नेस्वाहेति मन्त्रतः || १९ || उत्तरां च पूजाढ्यं होतं देदा * * * * * | युक्तौ वहादि षड्भिश्च भूयते क्रमशोधनम् || २० || प्. ७५) व्याहृतिं जुहुयात्तत्र प्रसादेन तु होमयेत् | इत्यग्निमुखं समाप्तम् || ऋतुस्नातानां स्त्रीणां च ऋटुसंगमनं शृणु || २१ || ऋतुस्नातायास्त्रियाश्चैव हृदयेनाभिषेचयेत् | तत्र चाग्निमुखं कार्यं ऊर्ध्ववक्त्रं चतुर्भुजम् || २२ || त्रिणेत्रैर्युक्तमेवं स्याच्छिवेदशाहुतिं ददेत् | हृदयेन तु मन्त्रेण हूयते क्रमशोधनम् || २३ || आज्यस्थाल्यां स्रुवेणाज्यं नैर्-ऋत्यां स्रावयेत्क्षितिम् | एवमेव प्रकारेण राक्षसानां तु तृप्तये || २४ || अनुयाजित निक्षिप्य आमोपयामि तत्र च | अयन्तयोनिरित्याश्च अग्नयेराज्ञया तनु || २५ || इत्येते नैव मन्त्रेण आत्ममारोपणं भवेत् | प्रणीतस्योष्ठ प्रक्षाल्य प्रोक्षिण्यामुदकेन तु || २६ || दशदिक्षु विसृज्याथ ऊर्ध्वश्चैव पितामह ! | वर्धनीं व्यापयेत्तत्र प्रोक्षयेदम्भसा ततः || २७ || तस्या रात्रौ स्त्रीणां च क्षीरभोजनमुत्तमम् | शयने शाययेत्तत्र दंपतिभ्यां समन्विते || २८ || प्रजापतिस्त्रिधा शयया मन्त्रैश्चैवाभिमन्त्रयेत् | विष्णुर्योनिति मन्त्रेण मूललिंगं भवन्ति वै || २९ || अहं गर्भमादधादहमस्मिन्निति संयुतः | योनिसंगमनं कुर्यादुक्तरेत स संयुतम् || ३० || प्. ७६) दिने युग्मे पुमानश्चेदयुग्मे स्त्री प्रजायते | सोमाभिवर्ध इत्युक्तं तदस्यांगं च तिष्यति || ३१ || निषेकमेतदुद्दिष्टं तव स्नेहाद्विशेषतः || ३१ || इति वीरतन्त्रे ऋतु संगमनविधिः एकादशः पटलः || ११ || गर्भाधानविधिं वक्ष्ये समासाच्छृणु सांप्रतम् | रोहिणी रेवतीहस्ता श्रवणं चाननायकम् || १ || स्वातीशतभिष(ज)मुत्तरत्रयमेव च | सौम्य जीवसितेन्दूनां द्रेक्काणावसांशकम् || २ || अहं गर्भं विधामीति गर्भं ध्यायीत तत्वतः | पुरुषं जीवनामेति प्रदक्षिणमथाचरेत् || ३ || असुप्तकेपि गर्भे तु अग्निमुखं च कल्पयेत् | सद्येन होमयेत्तत्र पंचविंशतिराहुतिः || ४ || ज्येष्ठश्रेष्ठाश्रविष्ठा च होतव्यं तु तथैव च | ततः पंक्ति विप्रेन्द्र सकलीकृतविग्रहः || ५ || पुरुषेणोदस्पर्श गर्भाधानं भवन्ति वै || ५ || इति वीरतन्त्रे गर्भाधानविधिः द्वादशः पटलः || १२ || प्. ७७) अथ पुंसवनं वक्ष्ये शृणु तत्वं तपोधन | मासद्वयान्ते कर्तव्यं सर्वालंकार संयुतम् || १ || पुष्ये वा श्रवणे वापि कुर्यात्पुंसवनं बुधः | गुरुशुक्रबुधज्ञानां उदयं शस्तमेव च || २ || चन्द्रोदयं प्रशस्तं हि ग्रहा नेष्टास्तु चाष्टमे | अंकुराणीह कर्तव्यं पुण्याहं वाचयेत्ततः || ३ || कौतुकं बन्धयेत्तत्र विश्वेत्वेति हि मन्त्रतः | अग्निमुखं समास्तीर्य युक्तो वाहादि भूयते || ४ || प्रजापते न त्वदेतानि चरु होमं तु कारयेत् | गर्भौ अग्नौ विधानं तु आज्याहुतिमथाचरेत् || ५ || वामदेवेन मन्त्रेण हूयते तु शताष्टकम् | न्यग्रोधौदुम्बराश्वत्थ पलाशं खादिरा सह || ६ || आज्येन वामदेवेन नववस्त्रं निधापयेत् | दक्षिणे चैव नासा च अस्मै देवान मन्त्रतः || ७ || नासौधोप विप्रेन्द्र नारीमावद्यतेत्र च | प्राचीनं वाप्युदीचीनं च्छेददर्शपं ततः || ८ || पंचब्रह्मेण वास्यांश्च विसृज्यति * तस्ततः | ध्रुवायेतत्यरुन्धत्यामिति ब्रुवन्दर्शयेत्ततः || ९ || तद्दृश्यते तदा विप्रमृद्धेमसराजतम् | स्त्रिधर्मस्या तु स्त्रीणां तु कुरुते नात्र संशयः || १० || प्. ७८) हरणं बन्धनं वापि चोतकं हन्तु क्रिया | तीर्थानां तु नखाकोश वानादिरेव च || ११ || नोदं ततोम्भसा स्नानं न च श्वश्रूणि वापयेत् | अन्तर्वर्त्न्याः पतिः कुर्यान्न प्रजा भवति श्रुवम् || १२ || इति वीरतन्त्रे पुंसवनविधिः त्रयोदशः पटलः || १३ || सीमन्तं तु प्रवक्ष्यामि शृणुष्व कमलासन | मासाच्चतुष्टये प्राप्ते षण्मासे वापि कारयेत् || १ || प्र * * गर्भांश्चैव सीमन्तं कारयेत्ततः | रोहिण्यां चैव पुण्ये च उत्तरा च पुनर्वसु || २ || हस्तश्रवणरेवत्यां मृगशीर्ष(क)मेव च | सीमन्तोन्नयनं कुर्याच्छुभास्ये शुभलग्नके || ३ || सिंह वृश्चिकजीवः स्यादष्टमे ग्रहवर्जितम् | पुण्याहं वाचयेत्तत्र अग्निमुखं च कारयेत् || ४ || जयाहुतिश्च कुर्वीत धाताददातु नो रयिम् | आज्या हुतिं करिष्यामि * * * * * * * * || ५ || अघोरेण तु मन्त्रेण हूयतेष्टशतं ततः | कामयेदिति मन्त्रेण राविखरेणखयेत् || ६ || वास्तोके मयन्तिंश्च दर्भांकुरेण लेखयेत् | सिनीबली खमन्त्रेण औदुम्बरेण होमयेत् || ७ || प्. ७९) रुद्रदेवेति मन्त्रेण यवनैव तु लेखयेत् | वनवासी चासीव पाश्वेतिकेशार्वनिलं बध्यते ततः || ८ || सोम एव न राजेति स्त्रीणां चैव तु कारयेत् | शेषं पुंसवनादेव कर्तव्यं स्यात्सुरोत्तम || ९ || इति वीरतन्त्रे सीमन्तविधिः चतुर्दशः पटलः || १४ || विष्णुबलिं प्रवक्ष्यामि शृणुयास्तु पितामह | पुण्याहं वाचयित्वा तु विष्णुमभ्यर्चयेत्ततः || १ || विष्णुमावाहयेत्तत्र व्याहृत्या घोरमन्त्रतः | अग्निमुखं च संकल्प्य पूर्ववल्लक्षणान्वितम् || २ || आपोहिष्ठेति मन्त्रेण अर्घ्यं दत्वा विशेषतः | केशवं नारायणं चैव गोविन्दं माधवं तथा || ३ || विष्णुं मधुसूदनं चैव त्रिविक्रमं वामनं तथा | श्रीधरं च हृषीकेशं पद्मनाभं तथैव च || ४ || दामोदरं च विप्रेन्द्र नामद्वादशमेव च | चरुभोजनं च कर्तव्यं याद्धृदवसानके || ५ || षड्भिर्विष्णोर्नुकं चैव अन्नाहुतिमिहोच्यते | आज्याहुतिस्तथैवं स्यात्पुण्याहं वाचयेत्ततः || ६ || अष्टानां ब्रह्मचारीणां भोजयेत्तु विशेषतः || ६ || इति वीरतन्त्रे विष्णुबलिविधिः पंचदशः पटलः || १५ || जातकर्मविधिं वक्ष्ये सर्वकामार्थसाधनम् | अभिजातं कुमारं च दर्शयेद् हृदयेन तु || १ || अस्त्रेणैव तु मन्त्रेण नाभिं छित्वा विशेषतः | अद्भ्यस्संभूतमन्त्रेण स्नापयेद्विधि पूर्वकम् || २ || अंगादंगादिनि ब्रह्म मूर्ध्नि जिघ्रति देशिकः | ईशानादिमन्त्राणां मूर्ध्नि जिघ्रतिमुच्यते || ३ || दक्षिणे चैव श्रोत्रे च तत्पुरुषं जपेत्ततः | अश्वाभव परशुभं जप्त्वा चैव विशेषतः || ४ || नक्षत्र नाम वक्ष्यामि अह्निया पुनमन्त्रतः | ब्रूहितान्तेन संप्रार्च्यां हिरण्येन समायुतम् || ५ || व्यापकेन पुनश्चैव स्नापयेत्तु यथाविधि | आयुरारोग्यमेधावीति प्राशयेत् || ६ || मातुर्हस्ते ददामीति वितत्वं च वा जपेत् | यस्तेस्तेनेमिमन्त्रेण मातुस्सव्यस्तनेत्रेण मातुस्तनं ददेत् || ७ || पूर्णोदकुम्भ * * * * शिरःस्थाने विन्यसेत् | स चैवं स्थापयित्वा तु अग्निमुखं च कल्पयेत् || ८ || आपः सुप्तेन तु मन्त्रेण पक्वाहुतिरिहोच्यते | हरिहरं च मुच्च * * प * * तथैव च || ९ || ईशानेन तु मन्त्रेण अष्टाशताहुतिं हुनेत् | सद्यं च कमनाय अश्वत्थापर्णसंयुतम् || १० || प्. ८१) हुतशेषं च विप्रेन्द्र बलिं दद्याद्विशेत् | * * * * * तं च गौ तिलसर्षपहोमयेत् || १ || आवेशनाव्यत्र खीफलीकरण होमयेत् || ११ || इति वीरतन्त्रे जातकर्मविधिः षोडशः पटलः || १६ || नामकरणं वक्ष्यामि शृणुष्व कमलासन | उत्तरारेवतीहस्ता शतभिषङ्मूलपुष्यकाः || १ || पुनर्वसुश्रवणं स्याद्रोहिणी मृगशीर्षकम् | श्रविष्ठा चोनति नक्षत्रात्प्रशस्ता नामकर्मणि || २ || अग्निमुखं च संकल्प्य विधिवद्देशिकस्तथा | ईशानं प्राजापत्ये नामकरणं च भूयते || ३ || स्वस्ति मूर्ध्नि च जप्त्वा तु युगाक्षर शिवान्तकम् | मार्गसीर्षे तु पुष्येशं शंभुरिति स्मृतः || ४ || माघे महेश्वरं नाम महादेवं तु फाल्गुने | चैत्रे तु स्थाणु नामं च वैशाखे तु शिवस्तथा || ५ || ज्येष्ठे पशुपतिं नाम चाषाढे चोग्रनामतः | श्रवणे सर्वनामं तु भाद्रमासे त्रियम्बकम् || ६ || अश्वनीश्वरनामं च कृत्तिका रुद्र नामतः | एतेषां नाममुच्चार्य गुरोर्नामस्तु वाचयेत् || ७ || प्. ८२) नामकरणं च मेवं तु कर्तव्यं स्यात्सुरोत्तम || ७ || इति वीरतन्त्रे नामकरणविधिः सप्तदशः पटलः || १७ || निष्क्रमण विधिं वक्ष्ये मालाचश्शारु उच्यते | अश्विनी सोमदैवत्यं रेवती च पुनर्वसु || १ || श्रवणं च श्रविष्ठा च हस्तस्वात्यनुराधकः | चित्रादिरुत्तराश्चैव शतभिषग्रोहिणी तथा || २ || पुष्यं चैव नक्षत्रा प्रशस्ता नैष्क्रमणं ततः | दशमस्था ग्रहाश्चैव नेष्टास्सर्वप्रयत्नतः || ३ || शुभे मुहूर्ते मंगल्ये अग्निमुखं च कारयेत् | ईशानेन तु मन्त्रेण स्वस्यात्रेण जुहोति च || ४ || बाह्ये गोचर्ममात्रेण गोरोचनोलोप्यलिप्य च | सिकतैः स्थण्डिलं कृत्वा अश्वत्थं स्थापयेत्ततः || ५ || स्वान्निग्रहान्नामयन्तीति एवमेव विधीयते || ५ || इति वीरतन्त्रे उपनिष्क्रमणविधिरष्टादशः पटलः || १८ || अथान्नप्राशनं वक्ष्ये समासात्सुतपोधन | षष्ठमे मासि संप्राप्ते अन्नप्राशनमेव च || १ || अश्वी मृगशिरश्चैव रेवती च पुनर्वसु | श्रवणं च श्रविष्ठा च हस्तस्वात्यनुराधकः || २ || प्. ८३) चित्रा त्रिरुत्तरा चैव शतभिषग्रोहिणी तथा | पुष्यं चैव तु नक्षत्रा प्रशस्ताश्चान्न भोजने || ३ || दशमस्था ग्रहास्सर्वे नेष्टास्सर्वप्रयत्नतः | पूर्वेद्युर्भोजयेद्विप्रान्युग्मं नादिमुखं ततः || ४ || पुत्रं गन्धादिना चैव अलंकृत्य विशेषतः | शुभं संपूजयेत्तत्र चित्रेणच्छादयेत्तथा || ५ || आचमनं तु पुनर्गच्छेत् पिता तत्पुरुषेण तु | पुत्र च मूर्ध्नि मध्ये तु अतिजिघ्रत्प्रतिपद्मजः || ६ || अग्निमुखं च संकल्प्य अग्निसूक्तेन संयुतम् | पंचब्रह्मसमायुक्तं गोमये सप्त चाहुतिः || ७ || अहमस्मिनिति मन्त्रेण दध्याज्यमधु संयुतम् | यामात ओषधीस्तेति मधुनो मधुनोप्य च || ८ || सुमुहूर्ते सुलग्ने च भोजयेत्पायसं ततः | ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः || ९ || इति वीरतन्त्रे अन्नप्राशनविधिरेकोनविंशः पटलः || १९ || चौलकर्मविधिं वक्ष्ये आयुरारोग्यवर्धनम् | * * * त्रीणि संप्रोक्ते शुभनक्षत्र संयुतम् || १ || चित्राश्रविष्ठहस्ता च रेवती श्रवणाः शुभाः | पुष्या पुनर्वसू चैव मृगशीर्षकमेव च || २ || प्. ८४) एते चैवा शुभाः प्रोक्ता अष्टमे वा हवजत | पुण्याहं वाचयेत्तत्र कुरु ब्राह्मण भोजनम् || ३ || अग्निमुखं समास्तीर्य गन्धपुष्पादिनाऽर्चयेत् | एके सिनोऽतिनक्तं च इति हुत्वा हुतिं ततः || ४ || हृदयेना रोहणं प्रोष्ठं आज्यमथाचरेत् | ईशानेन तु मन्त्रेण पंचाशज्जुहुयात्ततः || ५ || कुमारस्योत्तरे पार्श्वे माता हस्तेऽपि गोशकृत् | पिण्डं साक्षत संयुक्तं शरावे साधयेत्ततः || ६ || शीतोष्ण वारिणा चैव आपनुन्दन्तु जीवसे | केशाश्च सेचयेत्तत्र कुंशेन प्रोक्षयेत्ततः || ७ || देशिको वापयेत्पूर्वं पश्चान्नापितपूर्वकम् | कर्ममध्ये शिखांस्थाप्य गवामभिमुखं ततः || ८ || दर्भोदुम्बरमूले वा केशांश्च निर्वपेत्ततः | कुमारं स्नापयेत्तत्र प्रोक्षयेद्धृदयेन तु || ९ || स्वस्ति वाचकसंयुक्तं दद्यादाचार्यदक्षिणाम् || ९ || इति वीरतन्त्रे चौलविधिर्विंशतिः पटलः || २० || उपनयनं प्रवक्ष्यामि आयुरारोग्यवर्धनम् | गर्भाष्टमेषु विप्राणां राजन्यैकादशं ततः || १ || द्वादशेषु च वैश्यानां वसन्ते कारयेत्ततः | षोडशाब्दाविधिंश्चैव ब्राह्मणान्भोजयेत्ततः || २ || प्. ८५) रोहिण्यां हस्तचित्रे च उत्तरास्वानुराधके | स्वाती मृगशिराश्चैव पुनर्वसुः प्रकीर्तितः || ३ || वृषे च मिथुने चैव कन्या कर्कटके तथा | स्नानं कृत्वा तु विप्रेन्द सर्वं चाभि प्रदक्षिणम् || ४ || यज्ञोपवीतमन्त्रेण दद्याद्यज्ञोपवीतकम् | अग्निमुखं च संकल्प्य गन्धपुष्पादिनार्चयेत् || ५ || अग्नेरुत्तरतो मानमधिष्ठाने च पीडयेत् | यावत्कुन्तन्ततावत्या वस्त्रयुग्मं तु वेष्टयेत् || ६ || यादुक्तेनेति मन्त्रेण * * * * * बन्धयेत् | आपञ्च आचमित्रस्य कृष्णाजिनं ददेत्ततः || ७ || पलाशदण्डं हस्तेपि यस्मिन्भूतं च दापयेत् | देवस्यत्वेति सव्येन पक्वाहुतिमथाचरेत् || ८ || यद्यंहंसामघोरेण आज्याहुतिमथाचरेत् | ब्रह्मसूक्तेन हुत्वा तु हुत्वा व्याहृति नामतः || ९ || पलाशपत्रे चान्नं तु नीलग्रीवेति दापयेत् | चतसॄः पलाशसमिधो होतव्यं नीचजीविना || १० || अग्ने व्रतपते चैव वायो व्रतपतेति च | आदित्य व्रतपते चैव व्रतानां व्रतपतेपि च || ११ || तच्छकेयं तन्मेराध्यतां जुहुयात्क्रमशस्ततः | अग्नेर्दक्षिणतः स्थाप्य अस्त्रेणाभ्युक्षयेत्ततः || १२ || प्. ८६) जयादिरभ्यधानं च राष्ट्रभृच्चैव होमयेत् | ब्रह्मचार्यस्याभिमुखं सावित्रीं च जपेत्ततः || १३ || हुतशेषं ब्रह्मचारिं च सावित्र्या प्राशयेत्ततः | तत्काले मण्डलं लिख्य यथा विधिपुरस्सरम् || १४ || शिवं संपूजयेत्तत्र नैवेद्यं दापयेच्छिवे | मण्डलस्योत्तरे भागे कलशांस्थापयेत्ततः || १५ || स्थापयेच्छालिमध्ये तु स्नापयेच्छिवमन्त्रतः | ईशानादिव्याहृतिभिर्नवसमिधा समायुतम् || १६ || अग्नौ तु होमयेत्तत्र यथा विधिपुरस्सरम् | आचार्यं पूजनं कुर्याद्गोभूमीकांचनादिभिः || १७ || भिक्षापात्रं समानीय दद्यान्माणवके करे | अर्घ्येणैव तु मायांश्च दद्यान्माणवके ततः || १८ || शिखी वा तस्य वादी च शौचं कृत्वा विशेषतः | प्रातः स्नात्वाऽप आचम्य सूर्यश्चेति जलं पिबेत् || १९ || आपः पुनन्तु मन्त्रेण हृदयेन समन्वितम् | अग्निश्चेति च सान्नेति काले काले पिबेत्ततः || २० || दधिक्राविण्णेति मन्त्रेण अभिषिच्य ततो जलम् | अञ्जल्योदकमादाय व्याहृत्या सूर्याभिमुखं सृजेत् || २१ || उदकं ग्राहयेद्धस्ते प्रोक्षयेदस्त्रमन्त्रतः | * * * सहारं * * * * * * * प्रविशेत् || २२ || प्. ८७) * * * * * * धीमान्कर्तव्यमं समाचरेत् | प्राणायामत्रयं कृत्वा सावित्र्याष्टशतं जपेत् || २३ || पूर्वसिद्धं समुत्तिष्ठन्नासीनापरमेव च | मित्रस्समेत्य नयश्चि सिद्धसन्ध्योपस्थानमाचरेत् || २४ || स्वगृहं प्रविशेद्धीमान्नित्यकर्म समाचरेत् | अग्निं चैव परिस्तीर्य परिषेचनमाचरेत् || २५ || जुषुन्नस्नं च मन्त्रेण भस्मना च त्रिपुण्ट्रकम् | एवमेवक्रमेणैव सायं प्रातश्च होमयेत् || २६ || आचार्यश्चोपदिश्येत् वेदशास्त्रं विशेषतः | क्षारं च मधुमांसादि लवण चैव वर्जयेत् || २७ || न दिवा चैव सुप्तं च न इच्छन्ति कदाचन | एवमेव क्रमेणैव बलं प्रायेण नक्तकम् || २८ || अग्नेरुत्तरतो भागे शालिना स्थण्डिलं कुरु | द्वे स्त्रियौ समलंकृत्य श्रद्धा मेधा प्रयामिति || २९ || गन्धमाल्यैरलंकृत्य धूपदीपबलिं ददेत् | एवमेव क्रमं कुर्यादायुष्यं बलमाप्नुयात् || ३० || चतुर्थे हनि विप्रेन्द्र ब्रह्मवृक्ष च वार्चयेत् | अग्निमुखं च संकल्प्य स्रुक्स्रुवे चेति मन्त्रतः || ३१ || पलाश स्पर्शनं चैव सावित्रं च व्रतं चरेत् | चतस्रसमिधा चैव पूर्ववद्धूपयेत्ततः || ३२ || प्. ८८) प्रदक्षिणक्रमं कुर्यादीशानेनैव भूयते | पलाशमूले दण्डं च अजिनं मौञ्जीमणि वा सखा || ३३ || निक्षिपेत्सद्यमन्त्रेण अन्यमन्यं च धारयेत् | अप आचम्य विप्रेन्द्र जयादिं हूयते ततः || ३४ || ब्राह्मणान्भोजयेत्तत्र शिवदीक्षासमन्वितान् || ३४ || इति वीरतन्त्रे उपनयनविधिः एकविंशतिः पटलः || २१ || श्रावण्यां चैव वक्ष्यामि पौर्णमास्यां विशेषतः | नदीतटाके गत्वा तु नवर्षींस्तर्पयेत्ततः || १ || प्रजापतिं काण्डर्षिं तर्पयेदेवमेव च | अग्निमुखं च संकल्प्य ऋषीणां च हूयते || २ || सावित्रं च ततो भूत्वा वेदादींश्च हुनेत्क्रमात् | पुनः परिषेचनं कृत्वा यथा विधि च हूयते || ३ || केशश्व?श्रुवपनं कृत्वा चाचम्य देशिकः | सहस्रसमिधां च हूयते क्रमशस्ततः || ४ || अथवा सावित्रि रेवं स्याज्जपं च कुरुते सदा | ४ | इति वीरतन्त्रे उपाकर्मविधिः द्वाविंशति पटलः || २२ || शुक्रीयं चैव वक्ष्यामि नदीतटाकतीरके | स्नात्वा तु शुचिवासाश्च हुत्वा वै शुक्रियावृतः || १ || प्. ८९) ब्रह्मांगेन (च) होतव्यं पलाशसमिधा सह | गात्रं च वेष्ठकं कुर्यान्नववस्त्रेण देशिकः || २ || रात्रौ जागरितं तत्र प्रभाते कर्म चारभेत् | ब्राह्मणान्भोजयेत्तत्र शिवभक्तिसमन्वितान् || ३ || इति वीरतन्त्रे शुक्रियव्रतविधिस्त्रयोविंशतिः पटलः || २३ || समावर्तविधिं वक्ष्ये समासाच्छृणु पद्मजः | स्वातीमूलानुराधा * * * * * * * स्तथा || १ || हस्तरेवति रोहिण्या * * * मुत्तरात्रयम् | ते नक्ष(त्रा)णि सुरश्रेष्ठ सप्तमे ग्रहवर्जितम् || २ || अग्निमुखं च संकल्प्य घृतमुक्त्वा विशेषतः | मौञ्ज्या * * * * * * ब्रह्मचारिकरे ददेत् || ३ || उदुम्बरस्य मूले तु मौञ्ज्यादि निक्षिपेद्बुधः | कृष्णकेशा * * * * * * रोम तथैव च || ४ || दर्शनं च विशोध्यैव स्नात्वा कालकरोति हि | स्नातकस्य व्रतं चैव हुत्वा चैव विशेषतः || ५ || अर्हन्ती पीतान्वानो पक्वाहुतिमथा चरेत् | आज्याहुतिं मयामं तु सर्वानेव हुनेत्ततः || ६ || हुतशेषं बिल्वशाखे तु तस्मात्सहस्रशाखया | एवं मन्त्रमनुस्मृत्य बिल्वं चैव तु निक्षिपेत् || ७ || प्. ९०) यथा व प्रवदीयन्ती चरु चैव प्रदर्शयेत् | प्रतिवेशानिमन्त्रेण उदरं चोऽभिमन्त्रयेत् || ८ || अंजनं दर्पणं चैव ईशानेन तु दर्शयेत् | पूर्वस्यां दिशि शास्त्रेण दिव * तं च वन्दयेत् || ९ || उत्तराभिमुखं गत्वा उपानच्छुत्रसंयुतः | समावर्तन वृद्ध्यादि व्याहृत्याज्येन हूयते || १० || पंचब्रह्मेण मन्त्रेण नवाहुतिं च हूयते | पाणिग्रहण प्र * * तीर्या चैर्वा व्रीहिस्तुलाः || ११ || अग्नये स्वाहेति प्रजापतये सायं चैव हूयते | सूर्याय प्रजापतये प्रातश्चैव हूयते || १२ || अयाश्चाग्नेति मन्त्रेण होतव्यं दीर्घजीविनाम् || १२ || इति वीरतन्त्रे समावर्तनविधिश्चतुर्विंशः पटलः || २४ || विवाहं चैव वक्ष्यामि शुभनक्षत्र शोभनम् | स्वातीमूलानुराधा च मघा मृगशिरस्तथा || १ || हस्तरेवतिरोहिण्यामुत्तरेषु शुभास्त्रिषु | कन्यायां मिथुने चैव तुलायां मृगकुम्भयोः || २ || एतेषां लक्षणं श्रेष्ठं सप्तमे ग्रहवर्जिताः | सर्वलक्षणसंपन्नां कन्यां चैव परिग्रहेत् || ३ || श्रीमान्ब्राह्मणसंयुक्तं जपेत्प्राजापतिस्त्रिधा | उदङ्मुखं समभ्यर्च्य पुण्याहं वाचयेत्ततः || ४ || प्. ९१) कौतुकं बन्धयेत्पश्चाच्छिवात्मकं जपेत्ततः | विश्वेत्वेति हि मन्त्रेण ब्रह्मन्सामेति मस्तकम् || ५ || एवमेव क्रमेणैव तुंगमानादि बन्धयेत् | स्नातो वस्त्रधरो भूत्वा वपुर्जात हिरर्पितम् || ६ || एभिर्लक्षणसंयुक्तं वधूं चैव समीक्षते | पितुरुत्संगमाविश्य तस्य पुरुषं तु मन्त्रकम् || ७ || अभ्रातृघ्नीमघोरेण चक्षुर्दर्भेति मार्जयेत् | पुण्याहं वाचयेत्तत्र दक्षिणे पति तिष्ठति || ८ || पत्नीमुत्तरतः स्थाप्य पूर्वाभिमुखमेव च | ताभ्यां हूससंभूय हन्तलाश्च विशेषतः || ९ || अभिमुखं च कल्पेत तस्य पश्चिमतो दिशि | सावित्रं च ततो दत्वापहांसि शिरसि निक्षिपेत् || १० || अथैनं दक्षिणे हस्ते चिन्त * * * * * यत् | दर्भान्तन्मूलसंयुक्तान्सप्तपंचानि निक्षिपेत् || ११ || एकमिष्टे विष्णुत्वादि सप्तपादं च जप्यते | सखा सप्तपदं चैव विशेष * * ल्पे तस्य पश्चिमतोदिशि || १२ || उत्तरे पति विन्यस्य दक्षिणे पद्मं विन्यसेत् | हृदयेनेति मन्त्रेण हृदयं स्पर्शयेत्ततः || १३ || ततस्तेनेति मन्त्रेण होमयेद्देशिकस्सदा | अग्नेरुत्तरतः स्थानं स्थापयेत्तु विशेषतः || १४ || प्. ९२) आतिष्ठेनेति मन्त्रेण कन्यापादं च संस्पृशेत् | हस्तं प्रक्षालयेत्तत्र लाजान्हस्तौ तु पूरयेत् || १५ || यन्नार्युपब्रूतें तुभ्यमग्रेति शिवमन्त्रतः | पुनः पत्नीति मन्त्रेण हृदयेन समायुतम् || १६ || आज्यहोमं तु कुर्यात्तु व्याहृतिं जुहुयात्ततः | जयादिमभ्यधानं च राष्ट्रभृच्चैव हूयते || १७ || व्योमव्यापिं च विप्रेन्द्र हुत्वा चैव विशेषतः | हुत्वान्ते तु यदस्येति स्विष्ट कृय चैव हूयते || १८ || पुण्याहं वाचयेत्तत्र (दर्शयेद्) धूपदीपकम् | अरुन्धतीं च दृश्येत ध्रुवोसीति मन्त्रतः || १९ || पयसा क्षालयेत्पादौ सवाहं प्राशयेत्ततः | चतुभिर्मंगलीभिश्च शयनं कल्पयेत्ततः || २० || दंपती चैव सहितौ शयने शाययेत्ततः | चतुर्थदिवसे चैव अग्निमुखं च हूयते || २१ || अग्ने प्रायश्चित्तेति हव्यवाहादि हूयते | जयादिरभ्यधानं च रात्रिश्च क्रमाद्धुते || २२ || स्वीकृतं च हूयते क्रमाद्धोमं समाचरेत् | शिवं प्रदद्याद्दंपत्योबीजश्चैव तु राहयेत् || २३ || प्. ९३) पुरुषेण जपेत्तत्र कर्णौ चैव विशेषतः | गुह्ये वामेन संस्पृश्य ऋतुगमनं च सेहते || २४ || पंचमेहनि विप्रेन्द्र वापितं च कुरुष्वथ | ग्रामात्प्रागि प्रयातु उदुम्बरं च दृश्यते || २५ || प्रदक्षिणत्रयं कृत्वा अरुन्धतीं च दृश्यते | जानुदघ्नजले स्थित्वा वस्त्रे * * म्यांश्च ग्राहयेत् || २६ || उदुम्बरस्य मूले तु बलिं दद्याद्विशेषतः | दशमेहनि विप्रेन्द्र अग्निमुखं च कल्पयेत् || २७ || विश्वे देवा ऋतपक्व आहुतिं च न हूयते | दशबलिं ततः कुर्याद्गृहं प्राप्य च देशिकः || २८ || इति वीरतन्त्रे विवाहविधिः पंचविंशतिः पटलः || २५ || प्रेत संस्कारकं वक्ष्ये तूष्णीं चैव तु स्नापयेत् | उदुम्बरेण शाखा च अप्ते विधिना मार्जयेत् || १ || अवटं खानयेत्तत्र दर्भान्संस्तीर्यते ततः | यमाय दहनपतयेत्यसदेति विनिक्षिपेत् || २ || चितां चैव तु संस्तीर्य प्रोक्षयेदम्भसा ततः | चिताय प्रेतं विन्यस्य प्रोक्षयेद्धृदयेन तु || ३ || इदं त आत्मना चैव होतव्यं च तथैव च | वातास्ते पसतीस्वीति नवां चैव तु कारयेत् || ४ || प्. ९४) इमा अपेति मन्त्रेण घटभिन्नमिहोच्यते | अस्मात्त्वमभिजातो सीत्यग्निंविक्षिप्य देशिकः || ५ || अथघेहेति मन्त्रेण गम्यतां मन्त्रदेशिकः | शरावं पाषाणसंयुक्तं द्वारवामे विनिक्षिपेत् || ६ || सप्तरात्रबलिं कुर्याद्दशाहं चैव कारयेत् | एकादश्यामेकाद्दिष्टस्थानमेनैव कारयेत् || ७ || इति वीरतन्त्रे प्रेतसंस्कारविधिः षड्विंशः पटलः || तृणसंस्कारं वक्ष्ये शृणुष्व कमलासन | शूद्रादिना दर्शयित्वा तु सवर्ण संस्कारमेव च || १ || पातकानामधारांश्च मारणोनन्यदेशके | अस्त्रेण गवा सर्पादीन् क्रियाहीना तथैव च || २ || दर्भैर्वापि कुशैर्वापि शरीरं कल्पयेत्ततः | पालाशपत्रैस्त्रिशिखै रंगप्रत्यंगकल्पनम् || ३ || एवं प्रेतशरीरं च वस्त्रमाभरणं तथा | वाससा उपवातेन कर्णसूक्तं जपेत्ततः || ४ || पूर्ववद्दहनं कृत्वा पाषाणं पूर्ववत्कृतम् | दशरात्रं बलिं कृत्वा सप्ताहं पूर्ववत्कृतम् || ५ || एकादशाहे तत्रैव एकोद्दिष्टं च कारयेत् || ५ || इति वीरतन्त्रे तृणसंस्कारविधिः सप्तविंशः पटलः || २७ || प्. ९५) अथातो गर्भिणीनां तु संस्कारं वक्ष्यतेधुना | स्नानं कृत्वा तु विप्रेन्द्र अघोरेण तु मन्त्रतः || १ || वस्त्रमाल्यैरलंकृत्य पूर्ववच्छवमुद्धरेत् | निक्षिपेच्छवमेवं तु प्रोक्षयेत्पुरुषेण तु || २ || शिल्पक्रियेणचालिख्य गर्भं दर्शयेत्ततः | सजितपीतात्रममयान्ति मरणे घनं भवेत् || ३ || हिरण्यावर्तमन्त्रेण सवर्णा * * * * * | मम पुत्रं च बालं वै जीवितं स्नापयेत्ततः || ४ || यस्तेस्ते नेति मन्त्रेण स्तनं चैव प्रणाशयेत् | पंचगव्येन संप्रोक्ष्य तत्पुरुषेण तु मन्त्रतः || ५ || प्रस्थासाय च मन्त्रेण आज्याहुतिमथाचरेत् | प्राणापानाय व्यानाय उदानाय समानाय स्वाहन्तेति || ६ || यदस्येति जुहुयात्तदन्तरे * * * * * | काष्ठे प्रेतं समारोप्य विधिना च दहेत्ततः || ७ || सर्वासां च क्रियाणां तु पूर्ववत्कारयेत्ततः || ७ || इति वीरतन्त्रे गभिणीसंस्कार विधिरष्टाविंशः पटलः || २८ || अष्टकाविधिं वक्ष्ये शृणुष्व कमलासन | अष्टमी चापरे पक्षे चतुर्दर्श्यामथापि वा || १ || प्. ९६) सप्तम्यां च नवम्यां च चतुर्दश्यामपि वा | पूर्वेद्युश्चैव शैवाश्च क्षणं कुर्वन्ति देशिकाः || २ || अथ द्वयं च कर्तव्यं विश्वेदेवाश्च चोत्तरे | पितॄणां दक्षिणां चैव पादप्रक्षालनं कुरु || ३ || ताम्बूलं चैव दत्वा तु स्नानं कृत्वा विशेषतः | अग्निमुखं च कृत्वा तु पितॄंश्चैव पितामह || ४ || प्रपितामहश्च विप्रेन्द प्रोक्षयेदम्भसा ततः | ओदनं चैवापूपांश्च पक्वाहुतिमथाचरेत् || ५ || आयुष्मान् ब्राह्मणं तत्र क्षणं कुर्वन्ति देशिकाः | वस्त्रैः पुष्पैश्च धूपैश्च माल्यैः प्रपूजयेत् || ६ || ओदनमाज्यसंयुक्तं पितृभ्यां चैव होमयेत् | अग्नेर्दक्षिणतोभागे दर्भेनैकेन विन्यसेत् || ७ || पिण्डं दध्यादघोरेण अग्निर्दश तु कीदृशः | ओदनं जलसंयुक्तं ऊर्जं वहन्ति दापयेत् || ८ || प्रायश्चित्तानि हूयन्ते हूयतां क्रमशोधुना || ८ || इति वीरतन्त्रे अष्टकाविधिरेकोनत्रिंशः पटलः || २९ || सपिण्डीकरणं वक्ष्ये द्वादशाहे तथैव च | चतुर्थे द्वादशे मासे स पिण्डीकरणं कुरु || १ || प्. ९७) अग्निमुखं च संकल्प्य विश्वेदेवा समारभेत् | आयान्तु पितर इति आवाह्य पितृपितामहान् || २ || यवपर्णवासमन्त्रेण दक्षिणांगुष्ठभीम्रसेत् | पितॄणां रुद्रदेवानां स्वाहेति जुहुयात्ततः || ३ || चत्वारिंशच्छरावांश्च उदकेनैव पूरयेत् | शन्नो यवोसीति आत्म * * महन्तुरेव च || ४ || तिलासतिसलं चैव मधुवातं मधुं ददेत् | वामस्य त्वितावश्चेति रसनमुचेत्ततः || ५ || स्वधां चैवाष्ट दिक्षु च निरसनं च तथैव च | गन्धैः पुष्पैस्तथा धूपैर्दीपैश्चैव समायुतम् || ६ || पितृपितामहान्संविश्यस्तप्ततिलससंयुतम् | अपहन्तेति मन्त्रेण विकिरेत्तत्र देशिकः || ७ || ब्राह्मणांश्च समाहूय क्षणं कुर्वन्ति तत्र वै | ये दिव्या आप इत्यर्घ्यं * * * तत्र वै || ८ || हिरण्यकं स वासांश्च पंचब्रह्मेण दर्पयेत् | यन्मे मातेति मन्त्रेण सप्ताज्याहुतिमेव च || ९ || पितॄणां भोजयेत्तत्र ततः पिण्डं समावहेत् | ओदनं तिलसंयुक्तं दधि च मधुसंयुतम् || १० || पिण्डं कृत्वा तु विप्रेन्द्र प्रेतनाम्ना तु संयुतम् | पृथिव्याद्येन मन्त्रेण दद्यात्पितृपितामहान् || ११ || प्. ९८) समानीयंतुति मन्त्रेण प्रेतपितृपात्रके | उदकं विन्यसेत्तत्र मधुमानी च यन्त्रिभिः || १२ || प्रेतं पितॄणां पिण्डेषु नियतेत्सव्यमेव च | प्रदक्षिण नमस्कारं कृत्वा चैव तु देशिकः || १३ || पितृभिश्च शिवे योज्य एवं हुत्वा विशेषतः | आदिशैवानुशैवांश्च * * * * * सर्वशः || १४ || देवोक्तेन च मन्त्रेण चैवाचारं समाचरेत् || १४ || इति वीरतन्त्रे सपिण्डीकरणविधिः त्रिंशः पटलः || ३० || अवान्तराणां शैवानां वक्ष्याम्याचारमुत्तमम् | हृदयेन तु मन्त्रेणं महेचैवक्तवन्ततः || १ || इष्टकोद्वे बलिं दद्या स्वस्वनामेन चैव हि | शोकाचोर्ध्व * * * * दीपोत्सवं प्रकल्पयेत् || २ || स्थलिके च शिवं पूज्य धारयेच्छिरसोपरि | द्विनेत्रं चतुर्भुजं चैव उपवीतसमन्वितम् || ३ || जटामकुट संयुक्तं कृपापरशुधारिणम् | कुण्डलैः कर्णिकैर्हारैः कटिसूत्रारबन्धनैः || ४ || यज्ञोपवीतसंयुक्तं दिव्याम्बरधरं शिवम् | पद्मासनस्थं विप्रेन्द्र ध्यात्वा वैदेशिकस्तथा | यचद्वयसि शैवानां यत्तु दीपं प्रयोजयेत् | शंखभेर्यादिनिर्घोष वितन्यध्वनिशोभिते || नाना समायुक्तं शूलदीपैस्समायुतम् | * * * * * * नमस्कारशैवान्प्रकाशयेत् || ५ || प्. ९९) शैवान्संभोजनं योग्यान्दद्याच्छक्त्या तु दक्षिणाम् || ५ || इति वीरतन्त्रे अवान्तरशैवाचारविधिः एकत्रिंशः पटलः || ३१ || प्. ३२. ग्रहाभिषेकं वक्ष्येहं शृणुष्व कमलासन ! | शुचौ देशे समं कृत्वा गोमयेनोपलेपयेत् || १ || शालिना स्थण्डिलं कृत्वा तदोपरि घटान्न्यसेत् | स सूत्रान्सापिधानांश्च स हिरण्यान्सवस्त्रकान् || २ || कुम्भदक्षिणपार्श्वे तु स्थापयेत्तु नव ग्रहान् | आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् || ३ || आग्नेययां चन्द्रदैवत्यं अंगारकं तु दक्षिणे | मध्यादीशानपर्यन्तं स्थापयेत्कलशान्नव || ४ || मध्यमे स्थापयेत्कुम्भं गन्धपुष्पादिनार्चयेत् | केतुं चैव तु वायव्यां उत्तरे च बृहस्पतिम् || ५ || ऐशान्यां बुधदेवस्तु स्थापयेत्तु कुशैस्सह | सनस्वे च स्वैनामेन संयुक्तं हृदयेन समन्वितम् || ६ || अर्चयेच्चैव विप्रेन्द्र हविर्निवेदयेत्ततः | बिल्वपत्रं शिरीषं च पूर्वा चैव पलाशकम् || ७ || विष्णुक्रान्तिं शमीपत्रं पद्मपत्रं तथैव च | बकुलाकस्य पत्रं च अश्वत्थोदुम्बरं तथा || ८ || प्. १००) करवीरं च भृंगारं कुम्भे कुम्भे विनिक्षिपेत् | गन्धपुष्पादिनाऽभ्यर्च्य पूर्वेद्युरधिवासयेत् || ९ || ततः प्रभाते विमले अभिषेकन्तु दापयेत् | आपोहिष्ठामयो चैव तान्समन्दीय एव च || १० || शुद्धपाद्यादिमन्त्रेण अभिषेकं तु कारयेत् | एवमभ्यर्च्य विधिवद् ग्रहपीडां व्यपोह्य च || ११ || उपनयनादिकार्येण एवमेवाभिषेचयेत् | सर्वे दोषा विनश्यन्ति एवमेव समाचरेत् || १२ || आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः || १२ || इति वीरतन्त्रे ग्रहाभिषेकविधिः द्वात्रिंशः पटलः || ३२ || पितामहः || मुद्राया लक्षणं सर्वं कीदृशमिहकथ्यते | एतत्सर्वं समासेन भगवन्वक्तुमर्हसि || १ || श्रीभगवानुवाच || पितामह महाप्राज्ञ यत्त्वया परिचोदितम् | तत्सर्वमखिलं (विप्र प्र) वक्ष्ये चतुरानन || २ || सुरभिमुद्रा लिंगमुद्रा मुकुली शशकर्णिकाः | आवाहनी च मुद्रा च निर्वीरमुद्रा च पंचब्रह्मस्य मुद्रिका || ३ || पडंगस्य राज तथैव च | मुद्रा च शोधनी कल्याशं तथा || ४ || प्. १०१) पद्मं शूलं च परशुं खड्गपाशं तथांकुशम् | धनुर्बाणं च पण्डा च वज्रमुद्रा तथैव च || ५ || उत्तरात्मकरौ कृत्वा तर्जन्याग्रे तु मध्यमे | कनिष्ठिकानामिका तु मध्यमांगुलि संस्थितः || ६ || अग्रमग्रेण संयुतम् || चत्वारस्तनमेवं तु अमृतं स्रा- वयेत्सदा | सुरभिमुद्राभवेदेषा सर्वारिष्टविनाशिनी || ७ || दक्षिणे तु करे चैव मध्यमांगुलिसंस्थितः | अनामिकासशुद्धि सर्वेष्य तर्जनीनं च वेष्टयेत् || ८ || अंगुष्ठं च कनिष्ठाग्रे वेष्ठयेत्तु विशेषतः | लिंगमुद्रा भवेदेषा सर्वकामार्थसाधनी || १० || द्वौ हस्तावेकदा कृत्वा मध्ये सुषिरमुच्यते | सुराजे मुकुलाकारमुद्रेयं मुकुली भवेत् || ११ || उभौ हस्तौ कनिष्ठौ च तयोरंगुष्ठ शिरसि तर्जन्यंकुञ्चितौ तथा | अंगुष्ठमध्यमादीनि शेषा ऋज्वा स्थितानिति || १२ || उभौ च मणिबन्धं स्यान्मुद्रेयं शशिकर्णिका | उभौ हस्तौ कनिष्ठौ च अंगुष्ठांगं तु मूलके || १३ || विन्यसेच्चैवं विप्रेन्द्र ! मुद्रा चा वाहनी स्मृता | द्वौ हस्तौ मुष्टिसंबध्वा एकैकेन तु ता येत् || १४ || मुद्रेयं निष्वरा चैव सर्वशत्रुविमर्दिनी | प्रसार्य दक्षिणे हस्ते अंगुष्ठमूर्ध्वसंयुतम् || १५ || प्. १०२) सृष्टिमुद्रा भवेदेषा सर्वेषां हितकारिणी | प्रसार्यदक्षिणं हस्तं अंगुष्ठं चोर्ध्वसंयुतम् || १६ || मुष्टिं कृत्वा तु विप्रेन्द्र एषां संहारमुच्यते | द्वौ हस्तौ तु प्रसार्याथ अंगुष्ठं मूर्ध्नि संस्थितम् || १७ || सद्यमुद्रा भवेदेषा वामदेवं ततः शृणु | उत्तानौ तु करौ कृत्वा अनामिकाद्यौ प्रसारयेत् || १८ || वामदेवस्य मुद्रा तु अघोरं च ततः शृणु | द्वौ हस्तौ मणिबन्धं तु मध्यमौ द्वौ प्रसारयेत् || १९ || अघोरस्य तु मुद्रेयं सर्वशत्रु विमर्दिनी | द्वौ हस्तौ मणिबन्धं तु तर्जनीं द्वौ प्रसारयेत् || २० || तत्पुरुषस्य महामुद्रा सर्वकामार्थसाधिनी | पूर्ववद्धस्त संयुक्तौ प्रसार्याथ कनिष्ठिकौ || २१ || ईशानस्य तु मुद्रां च षडंगान्कथ्यते ततः | द्वौ हस्तौ च प्रसार्याथ प्रोतं कृत्वा परस्परम् || २२ || अंगुष्ठौ कंचितौ कृत्वा मुद्रेयं हृदयस्य तु | उभौ हस्तौ संप्रसार्य नामिका चैव मध्यमौ || २३ || तर्जनी चैव विप्रेन्द्र स्थित्वा चैव करद्वयोः | कनिष्ठिकाया मूले तु अंगुष्ठाग्रं निधापयेत् || २४ || द्वौ हस्तौ च त्रयांगुल्यौ परस्परकृतौ तथा | शिरो मुद्रा भवेदेषा सर्वकामार्थसाधिनी || २५ || प्. १०३) उत्तानौ तु करौ कृत्वा तर्जन्यंगुष्ठगोपितौ | शेषात्परस्परौ कृत्य शिखा मुद्रा इति स्मृताः || २६ || उत्तानौ तु करौ कृत्वा अंगुष्ठमध्यशोभितौ | शेषान्परस्परं कृत्वा कवचेयं प्रकीर्तितम् || २७ || उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् | तर्जनी मध्यमा चैव अधोमुखं तु कारयेत् || २८ || अंगुष्ठौ द्वौ गोप्य नेत्रमुद्रा प्रकीर्तिता | द्वौ हस्तौ च प्रसार्याथ कनिष्ठांगुष्ठतान्विते || २९ || अस्त्र (मुद्रा) भवेदेषा (सर्व) शत्रु विमर्दिनी | हस्तौ तु मणिबन्धं स्याद्धृदये संस्थितानि तु || ३० || हस्तौ संताडयेत्तत्र मुद्रेयं शोधनी भवेत् | उत्तानौ तु करौ कृत्वा मणिबन्धं तु कारयेत् || ३१ || वामहस्तस्य चोर्ध्वे तु दक्षिणं विन्यसेत्ततः | वामांगुष्ठस्य मध्योर्ध्वे दक्षिणांगुष्ठं विन्यसेत् || ३२ || मध्यमे सुषिरं कुर्याच्छैषांगुल्यास्तु बन्धयेत् | कलशमुद्रा भवेदेषा स्नानकाले प्रयोजयेत् || ३३ || उभौ करौ च विप्रेन्द्र मणिबन्धं तु कारयेत् | मुकुलीकृत हस्तौ द्वौ पद्ममुद्रा इति स्मृताः || ३४ || दक्षिणं च प्रस्यणासार्या कानिष्ठिकां गुष्ठगोपितौ | शूलमुद्रा भवेदेषा सर्वशत्रुविमर्दिनी || ३५ || प्. १०४) उत्तानौ तु करौ कृत्वा सर्वमूर्ध्वं तु कारयेत् | करपृष्टद्वयं भूयात्समाश्लिष्ठौ परस्परम् || ३६ || परशुमुद्रा भवेदेषा सर्वकामफलप्रदा | उत्तानौ च करौ कृत्वा तर्जनी द्वौ च तिष्ठति || ३७ || शेषामुष्टिं तु संबध्वा खड्गमुद्रा भवन्ति वै | उत्तानौ तु करौ कृत्वा ऊर्ध्वहस्तं तु कारयेत् || ३८ || दक्षिणे च परं हस्तौ संप्रकीर्य विशेषतः | पाशमुद्राभवेदेषा सर्वशत्रुविमर्दना || ३९ || दक्षिणं हस्तमुत्तानं तर्जन्यौ कुंचितौ तथा | शेषां मुष्टिं च संबध्वा मुकुलीयं कृशस्य तु || ४० || उत्तानौ तु करौ कृत्वा वामहस्तं विसारयेत् | दक्षिणं कर्णमूले तु धनुर्मुद्रा भवन्ति वै || ४१ || उत्तानौ तु करौ कृत्वा तर्जन्यो होर्ध्वो संस्थितौ | शेषा मुष्टिं च संबध्वा शरमुद्रा भवन्ति वै || ४२ || दक्षिणं हस्तमुत्तानं मुष्टिं कृत्वा तु मण्डलम् | चंचलं च ततः कृत्वा घण्टमुद्रा तथैव च || ४३ || उत्तानौ तु करौ कृत्वा कनिष्ठांगुष्ठपीडितौ | उभौ परस्परं हस्तौ वज्रमुद्रा भवन्ति वै || ४४ || मुद्राणां लक्षणं प्रोक्तं नैवेद्यं च ततः शृणु || ४४ || इति वीरतन्त्रे मुद्रालक्षणविधिस्त्रयस्त्रिंशत्पटलः || ३३ || प्. १०५) पितामहः || भगवन्देवदेवेश लोकनाथ जगत्पते | नैवेद्यस्य विधानं किं ब्रूहि मे परमेश्वर ! || १ || ईश्वरः || साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् | तत्सर्वम * * * वक्ष्ये शृणुष्व कमलासन || २ || यावतीस्तण्डुलास्तस्मिन्नैवेद्य परिसंख्यया | तावद्युगसहस्राणि रुद्रलोके महीयते || ३ || शुद्धोदनसहस्रेभ्यः पायसं च विशिष्यते | कृसरान्न सहस्रेभ्यो गौड?न्नं च विशिष्यते || ४ || गौडान्नस्य सहस्रेभ्यो मुद्गान्नं च विशिष्यते | एवमेव क्रमेणैव सहस्र गुणितं फलम् || ५ || श्वेतशाली महाशाली रक्तशाली यवास्तथा | कृष्णशाली च नीवारं वेणुगोधूममेव च || ६ || प्रियंगुं चैव विप्रेन्द नवधा चोच्यते मया | तण्डुलार्धं गृहीतव्यं उत्तमं च विनिर्दिशेत् || ७ || सर्वेषां चैव व्रीहीणां मध्यमं च विनिर्दिशेत् | अधमं पक्षिनामं च तस्मात्तान्परिवर्जयेत् || ८ || प्रांकणं चैव विप्रेन्द्र गोमयेनानु लेपयेत् | हृदये प्रोक्षयेत्सर्वशालिं नेत्रेण विन्यसेत् || ९ || रवेश्वरश्मि संतप्तान्कर्तनं कुर्यात्ततः | उत्तमं द्विजनारीभिः क्षत्रविट्कन्यया ततः || १० || प्. १०६) मध्यमं कर्तनं प्रोक्तं शूद्रीभिरधमं भवेत् | उलूखल्वोऽथमृत्कुण्डे हृदयेनैव निक्षिपेत् || ११ || उलूखलं ब्रह्मदैवत्यं मुसलं शिवमेव च | शूर्पं वै विष्णुदैवत्यं इत्येते अधिदेवताः || १२ || तुषान्यपोह्य शूर्पेण कणकंबुज वर्जयेत् | शतद्वयं पंचविंशति व्रीहिभिश्शुक्तिरुच्यते || १३ || तलं च प्रसृतिं चैव कुडुवं च तथैव च | अंजलिं चैव विप्रेन्द्र प्रस्थं चैव तथैव च || १४ || पात्रसंख्या भवेत्तत्र आढकं च तथैव च | शिवं च द्रोणकं चैव खारी चैव तथैव च || १५ || अंजलिं चैव विप्रेन्द्र प्रस्थं चैव तथैव च | पात्रसंख्या भवेत्तत्र आढकं च एकैकं द्विगुणं || १६ || स्याच्च वर्धते क्रमशोऽधुना | प्रस्थं कुडवसंयुक्तं पिशाचानां बलिं भवेत् || १७ || चरुप्रस्थद्वयं चैव आढकं हविरुच्यते | नैवेद्यं नवधा चैव कल्पयेत्कल्पवित्तमः || १८ || प्रस्थद्वयं त्रिसन्ध्या तु आढकं चैव तद्व च | शिवं चेव तु विज्ञेयं मध्यमत्रयमुच्यते || १९ || द्रोणं चैव तु खारी च हारं चैव त्रयो भवेत् | मध्यमत्रयमेवोक्तं उत्तमं च शृणुष्वथ || २० || प्. १०७) अष्टद्रोणसमायुक्तं भारद्वयसमायुतम् | भारत्रयं च विप्रेन्द्र उत्तमत्रयमुच्यते || २१ || आढकादीनि नैवेद्यं श्रीबलिं च न कारयेत् | न दोषान्तण्डुलान्ग्राह्य निर्वापनं तु कारयेत् || २२ || नवभाण्डे विनिक्षिप्य क्षालयेदस्त्रमन्त्रतः | त्रिभिर्वाक्षालयित्वा तु जलमर्धाधिकं भवेत् || २३ || भाण्डोपरि न्यसेत्तत्र ईशानेन तु मन्त्रतः | अग्निं प्रजालयेत्तत्र अग्निबीजेन देशिकः || २४ || शुद्धान्नं चैव निक्षिप्य सद्यमन्त्रेण देशिकः | कृमिकोटरसंयुक्तं पिपीलिकादिवर्जितम् || २५ || विस्फुलिंगयुतैश्चापि काष्ठैरग्निं न दीपयेत् | अतिपक्वमपक्वं च धूम्रगन्धं च शीतलम् || २६ || वर्जयेच्चैव विप्रेन्द्र सुपक्वान्नं निवेदयेत् | बाह्यशुद्धिक्रमं कुर्यात्त्रिपुण्ट्रं कारयेद्दिशि || २७ || वामदेवेन मन्त्रेण उत्थापयेद्विशेषतः | उपदंशं प्रवक्ष्यामि शृणुष्व कमलासन || २८ || कदलीपनसं चैव त्रपुषोर्वारुकमेव च | बृहतीद्वयं च कुष्माण्डं बृहन्मुद्गं चालाबुनी || २९ || कोशातकीर्ततांश्च पत्यगन्धं तथैव च | शिशुकं बृहत्कन्दं सारणस्य तु कन्दकम् || ३० || प्. १०८) शम्बकदम्बलीकन्दं कर्कन्धूद्वयमेव च | राजमाषाढकी चैव मुद्गशिम्बं कुलस्थकम् || ३१ || कुक्कुटाण्डफलं चैव उपदंशमिहोच्यते | एते वक्षोपदंशा सा कारवल्ली तथैव च || ३२ || प्रस्थस्य त्रिपलं चैव यथा क्रमेण वर्धयेत् | एवमेव क्रमं कुर्याद्यथा लाभे च कारयेत् || ३३ || लवणेन समायुक्तं मरीचिना समायुतम् | तण्डुलाश्चैव द्वित्रिंशदुपदंशमिहोच्यते || ३४ || गुल्माषं षोडशांशं तु मुष्टांशं दधिसंयुतम् | सूपं कृत्वा विशेषेण * * * पिष्ट संयुतम् || ३५ || गुलं चैव समायुक्तं कदलीफलमेव च | पनसेन समायुक्तं सूपमाज्यं निवेदयेत् || ३६ || हाटयामासमायुक्तं आज्येनैव सुपाचितम् | पूगीफलद्वयं चैव अष्टपत्रसमायुतम् || ३७ || किंचिच्चूर्णसमायुक्तं द्विप्रस्थस्य विधीयते | मातुलुंग फलाद्यासु पक्वादीनि निवेदयेत् || ३८ || एवमेव क्रमेणैव कुर्याद्यत्नानुसारतः | एकस्थाने तु विप्रेन्द्र निधाय सकलं ततः || ३९ || हृदयेन प्रोक्षयेत्तत्र कुशेनैव तु वारिणा | गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् || ४० || प्. १०९) षडंगैः पूजयेत्तत्र बहुभिर्दीपमुच्यते | स्थलिका चैव सौवर्णं रजतं कांस्यमेव च || ४१ || ताम्रेण वापि कर्तव्यं भस्मना शुद्धिमाचरेत् | अथवा कदलीपत्रं वस्त्रोपरि न्यसेत्ततः || ४२ || प्रोक्षयेदम्भसा चैव घृतेनैवाभिधारयेत् | वामदेवेन मन्त्रेण पात्रे चान्नं क्षिपेत्ततः || ४३ || व्यंजनानेक संयुक्तं हृदयेन निवेदयेत् | चरुणां तु चतुर्भागं द्विभागं च निवेदयेत् || ४४ || बलेरग्नेश्च भागेत्यात्पात्रशेषैकमुच्यते | हृदयेन तु मन्त्रेण दद्यात्पानीयमेव च || ४५ || विसर्जयेत्तु निर्माल्यं शुद्धं कृत्वा तु भूतलम् | प्रोक्षयेदम्भसा चैव ताम्बूलं दापयेत्ततः || ४६ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | अग्निकार्यं ततः कुर्याच्छास्त्रदृष्टेन कर्मणा || ४७ || एवमेव क्रमेणैव शुद्धान्नं प्रोच्यते मया | पायसान्नक्रमं वक्ष्ये मुद्गं वै तण्डुलार्धकम् || ४८ || द्विगुणं क्षीरमित्युक्तं पचेयुः पायसात्मकम् | गुलान्नं वक्ष्यते विप्र क्षीरं वै तण्डुलार्धकम् || ४९ || तण्डुलार्धं गुलं प्रोक्तं आज्यं चैव गुलार्धकम् | गुलान्नमिति विज्ञेयं कृसरान्नं ततः शृणु || ५० || प्. ११०) तिलान्वै चूर्णितांस्तत्र तण्डुलस्य चतुर्थकम् | तिलार्धं प्रक्षिपेदाज्यं कृसरान्नमिहोच्यते || ५१ || तण्डुलस्य चतुर्थांशं मुद्गं तत्रैव योजयेत् | नालिकेरफलैर्युक्तं मुद्गान्नं संप्रकीर्तितम् || ५२ || मरीचिरजनीयुक्तं जीरकं सर्षपान्वितम् | आलोढ्य पाचितं ह्येतत्कदली बृहतीद्वयम् || ५३ || व्यंजन स्योत्तमं ह्येतच्छुद्धान्नं च निवेदयेत् | त्रित्रिपादं च घटिकामुधमत्र य शेषतः || ५४ || संध्याकालमिति प्रोक्तं मध्यमत्रयमुच्यते | कालं यामसमायुक्तं श्रीबल्यं तु त कारयेत् || ५५ || दशनाडिकया युक्तमुत्तमत्रयमुच्यते | विसर्जयेत्तु निर्माल्यं चण्डेशाय निवेदयेत् || ५६ || निर्माल्य लंघनं दानं भक्षणं सममेव तु | निर्माल्य लंघनाद्दानात्तत्क्षणान्नरकं व्रजेत् || ५७ || तस्मात्सर्वप्रयत्नेन अभोज्यं सर्वथा जनैः | भूमौ वा खानयेत्तत्र अग्निना दसमेव च || ५८ || जलैः पशु गजैर्वापि नद्यां वै देशिकोत्तमः | सकलानां निवेद्यं तु शूद्रादीनां तु भोजनम् || ५९ || विनायकस्य नैवेद्यं विप्रादीनां तु भोजनम् | उमादेव्याश्च नैवेद्यं सर्वेषां चैव भोजनम् || ६० || प्. १११) दिवाकरस्य नैवेद्यं सर्वेषां भोजनं भवेत् | अभोज्यं सूर्यभक्तानां ज्येष्ठा चैव सरस्वती || ६१ || श्रीदेवी भूमिदेवी च नैवेद्यं भोजनं भवेत् | इतरेषां तु नैवेद्यं न भोज्यं सर्वदेहिनाम् || ६२ || अन्यजातैर्न भोक्तव्यमेवमेव क्रमेण तु | पूर्वद्वारेऽथ दक्षिण्ये पश्चिमद्वारमेव वा || ६३ || उत्तरद्वारमेवं स्यात्प्रासादान्यं विशेषतः | द्वारभेदेषु भेदानां पूजाभेदं न विद्यते || ६४ || तत्तद्वारप्रदेशे तु नैवेद्यं च निवेदयेत् | अन्यथा कारयेद्यस्तु अभिचारायमूच वहि || ६५ || तस्मात्सर्व प्रयत्नेन नैवेद्यं चैव कारयेत् | एवं यः कुरुते मर्त्यः सर्वपापाद्विमुच्यते || ६६ || कुलैकविंशमुत्तार्य शिवलोकमवाप्नुयात् || ६६ || इति वीरतन्त्रे नैवेद्यविधिश्चतुस्त्रिंशः पटलः || ३४ || पितामहः || शौचमाचमनं कृत्वा स्नानकर्म च कीदृशम् | एतत्सर्वं समासेन भगवन्वक्तुमर्हसि || १ || ईश्वरः || पितामह महाप्राज्ञ यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || २ || प्. ११२) उत्थायत - प्रातश्चर्म * * न वृतसमन्वितः | ग्रामात्प्राचीमुदीचीं वा गत्वाचार्यो विशेषतः || ३ || उत्तराभिमुखो वापि दक्षिणाभिमुखोपि वा | नवताभिमुखस्थं तु मलं चैव विसर्जयेत् || ४ || विसर्जयेन्नहि विण्मूत्रं कीटकन्नेकिनं भुवम् | ऊषरं चैव विप्रेन्द शिवक्षेत्र समीपतः || ५ || रविं दक्षिणः कृत्वा दिवा विण्मूत्रवर्जनम् | शिरोवगुण्ठनं कृत्वा मौनेन तु विसर्जयेत् || ६ || दक्षिणेन तु हस्तेन मृदं संग्राहयेत्ततः | वामे शिश्नं गृहीत्वा तु कर्णयज्ञोपवीतकम् || ७ || नद्यां वापि तटाके वा पुष्करे वा हृदेपि वा | शुद्धस्नानजलं प्राप्य आचमेत्तु यथाविधि || ८ || गुदेव दशधा दद्याज्जटं चैव विशेषतः | पंचभिः क्षालयेद्वामं करयोः सप्तमृत्तिका || ९ || मेढ्रे चैकं मृदं दद्यात्करं पंचैव क्षालयेत् | आमलीफलमात्रेण पादौ प्रक्षालयेत्ततः || १० || आपोश्यो द्विर्मृज्य आचम्य च विधानतः | मृत्पिण्डं च त्रिधा कृत्वा हृदयेन तु मन्त्रतः || ११ || तत्पुरुषेण मन्त्रेण पूर्वे पिण्डं त्रिधा भवेत् | दक्षिणे घोरमन्त्रेण उत्तरे वाममन्त्रतः || १२ || प्. ११३) पूर्वेणैव मृदा दद्यादस्त्रेण दशदिक्षु वै | दक्षिणे घोरमन्त्रेण उत्तरे वाममन्त्रतः || १३ || पूर्वेणैव हृदादद्यादश दिक्षु वै | दक्षिणेन हृदा चैव शिवदीक्षां तु कल्पयेत् || १४ || जलमध्ये स्थितं चैव पंचब्रह्मेण देशिकः | तैलं चामलकायुक्तं अंगमालिप्य सर्वशः || १५ || गोमयेन पुनश्चैव उपलिप्य च स्नापयेत् | मार्जयेच्छिरमीशानं पुरुषेण मुखं ततः || १६ || हृदयं चैव सौरेण वामेन गुह्यमेव च | पादयोस्सद्यमन्त्रेण मार्जयेद्देशिकोत्तमः || १७ || व्योमव्यापि जपेत्तत्र मार्जयित्वा तु मन्त्रवित् | कालमुद्रां तु बध्वा तु प्रासादेनाभिषिंचयेत् || १८ || गोमयेन हृदा चैव सर्वांगं लेपयेन्मृदा | नाभिमात्रोदके स्थित्वा आच(म्यच) विधानतः || १९ || त्रिःप्राश्यापो द्विर्विमृज्य ऊर्ध्वाघोरेकमेव च | अंगुष्ठानामिकाभ्यां च चक्षुषीसमुप स्पृशेत् || २० || घ्राणद्वयं च श्रोत्रं च मध्यमांगुलिना स्पृशेत् | अंगुष्ठतर्जनीभ्यां तु बाहुं चैव स्पृशेत्ततः || २१ || सर्वाभिरंगुलीभिश्च मूर्धानं चैव संस्पृशेत् | दक्षिणेन तु हस्तेन उदकं ग्राहयेत्ततः || २२ || प्. ११४) वामदेवेन संयुक्तं सूर्यश्चेति जलं पिबेत् | ईशानेनाग्निश्चेति सायाह्नेति जलं पिबेत् || २३ || आचम्य च विधानेन ईशानेन तु संयुतम् | सावित्रीं च भवेत्तत्र सूर्योदकं ददेत् || २४ || देवान्वै तर्पयेत्तत्र वामदेवेन मन्त्रतः | ऋषीणां दापयेत्तत्र अघोरेण तु मन्त्रतः || २५ || पितॄणां तर्पयेत्तत्र सद्यमन्त्रेण देशिकः | प्रासादेन समायुक्तं सावित्रीं च शताष्टकम् || २६ || मित्र सत्येन वर्चनी हृदयेन समायुतम् | जपेद्वै देशिकस्तत्र धौतवस्त्रं च वेष्टयेत् || २७ || आचमेत्पूर्ववत्तत्र सोष्णीषस्सोत्तरीयकः | तीरे समतलं कृत्वा हस्तमात्रेण लेपयेत् || २८ || सूर्यमावाहयेत्तत्र षडक्षरेण मन्त्रतः | पाद्यमाचमनं चैव अर्घ्यं तस्य निवेदयेत् || २९ || दैविकेन तु तीर्थेन देवानां तर्पयेत्ततः | आर्षेण तु तीथैन ऋषीणां चैव तर्पयेत् || ३० || पितॄणां चैव पूर्वेषां पैतृकेण तु तर्पयेत् | विमानं प्राविशेत्तत्र पुष्पहस्तौ विचक्षणः || ३१ || प्रदक्षिणत्रयं कृत्वा प्रविशेत्तु कवाटकम् | प्रणम्य दण्डवद्भूमौ अर्चयेत्तु कवाटकम् || ३२ || प्. ११५) गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव हृदा ततः | पूजयेद्विधिना विप्र कवाटस्थांस्तु देवतान् || ३३ || भुजंगं च पतंगं च कवाटस्याधि देवतान् | ततो गर्भगृहं गत्वा एवं प्रणम्य एव च | एवं यः कुरुते नित्यं सर्वपापैः प्रमुच्यते || ३४ || स्नाने देवार्चने चैव समाधौ च जपेत्तथा | भोजने देवकार्ये च मौनं षट्सु विधीयते || ३५ || स्नानं पंचविधं ज्ञेयं वारुणं स्नानमेव च | आग्नेयं दिव्यमेवं तु वायव्यं मानसं स्मृतम् || ३६ || वारुणं स्नानकार्यं च वारुणं स्नानमेव च | आग्नेयं भस्मना स्नानं सा पथावर्जयेत्ततः || ३७ || दिव्यस्नानं वाय - वहन्तु रजोभवम् | मन्त्रैर्मानसमित्युक्तं पंचस्नानं विधीयते || ३८ || एवमेव प्रकारेण कुर्याद्वै देशिकोत्तमः | स्नानमेवं मया प्रोक्तं सर्वकामार्थसाधनम् || ३९ || इति वीरतन्त्रे शौचाचमन स्नानविधिः पंचत्रिंशः पटलः || ३५ || पितामहः || भस्मस्नानं कथं देव तत्स्नानं कीदृशं भवेत् | एतत्सर्वं समासेन ब्रूहि मे परमेश्वर || १ || ईश्वरः || भस्म स्नानं प्रवक्ष्यामि शृणुष्व कमलासन | भासत्वान्मनुष्याणां भासत्वभस्य चि || २ || प्. ११६) सर्वरोगसमुत्पन्ना व्याघ्रसर्वभयेषु च | अन्यैदुष्टमृगैर्दुष्टैर्भस्मस्नानेन नश्यति || ३ || आग्नेयं प्रथमं चैव द्वितीयमनतं भवेत् | तृतीयं शैवमित्युक्तं चतुर्थं भोगदं भवेत् || ४ || पंचमं श्रीकरं प्रोक्तं तेषामेवं शृणुष्वथ | नन्दा भद्रा च सुरभिः सुशीला सुमनं तथा || ५ || एषां वर्गेषु संजातं गोमयं चैव संगृहेत् | उत्तमं श्वेतवर्णं तु मध्यमं रक्तमेव च || ६ || अधमं कृष्णवर्णं तु अन्यद्वर्णं तु वर्जयेत् | विकटांगश्च विप्रेन्द्र अंगहीनं च वर्जयेत् || ७ || पतितं गोमयं ग्राह्य हृदयेन तु मन्त्रतः | कपिला गोमयं चैव उत्तमोत्तममुच्यते || ८ || गोमयं वायुसंबद्धं शान्तकं वायुमन्त्रकैः | आकाशो ग्राहयेदंगैर्दर्भे तत्पौष्टिकं भवेत् || ९ || भूतले पतिता ये तु प्रासादेन तु गोमयम् | पौर्णमास्याममावास्यां षष्ठ्यां (च) शुक्लकृष्णयोः || १० || शिवाग्निना दहित्वा तु बुधैर्वापि तुषैस्तु वा | पिण्डं कृत्वा तु हृदयं शिखामन्त्रेण देशिकः || ११ || शुष्कं वै शिरसा चैवं दग्धं वै शिखया तथा | सद्यो जातेन मन्त्रेण ग्राहयेत् (च) विशेषतः || १२ || प्. ११७) सौवर्णमुत्तमं पात्रं मध्यमं रजतं भवेत् | अधमं ताम्रपात्रं स्यादलाभे मृण्मयं भवेत् || १३ || अलाबुपात्रे संग्राह्य वामदेवेन मन्त्रतः | एतदाग्नेयमित्युक्तं मारुतं च शृणुष्वथ || १४ || अंगैर्लातेन वोद्भूतदग्निना च दहेत्ततः | मारुताख्यमिति प्रोक्तं शैवलक्षणमुच्यते || १५ || शिवाग्नि कुण्डे विप्रेन्द्र संजातं भस्म एव च | भोगदं च प्रवक्ष्यामि कुलालानां दहेप्यतः || १६ || एवं चतुर्विधेनोक्तं श्रीकरं च शृणुष्वथ | चत्वारि भेद संयुक्तं भस्मना च विशेषतः || १७ || एवमेव प्रकारेण भस्मना लेपयेत्ततः | व्योम व्यापि समायुक्तं ब्रह्ममंगेन संयुतम् || १८ || ईशानेन तु मन्त्रेण शिर उद्धूलयेत्ततः | मुखं तत्पुरुषेणैव स्वीतौ चैव कटी तथा || १९ || पार्श्वयोरुभयोश्चैव पादयोरुभयोरपि | सद्यो जातेन मन्त्रेण उद्धूलयेद्विशेषतः || २० || उद्धूलयेत्तु सर्वांगं ब्राह्मणानां विशेषतः | त्रिपुण्ट्रं कारयेत्तत्र नृपाणां वैश्यमेव च || २१ || शूद्राणां चैव सर्वेषामेवमेव क्रमेण तु | मध्यहात्प्रकृजलैर्युक्तं तोयं तमन वर्जयेत् || २२ || प्. ११८) स्थानभेदं प्रवक्ष्यामि मूर्ध्नि ललाटमेव च | कर्णौ च चक्षुषी चैव नासिकौ चास्य एव च || २३ || ग्रीवे स्कन्धे च बाहुभ्यां कोर्परौ च तथा मणौ | हृदि नाभौ च मेढ्रे च पुयूरुकु च जानुनी || २४ || जंघयोः स्थीत्यक्त्व पादौ च तदा पृष्ठौ च एव च | द्वात्रिंशत्स्थानमेवोक्तं भस्मना लेपयेत्ततः || २५ || ललाटग्रीवसन्धौ च बाहुकोर्परयोरपि | हृदये जठरे चैव नाभौ पार्श्वे तु पृष्ठके || २६ || पार्श्वयोश्चैव विप्रेन्द्र षोडशस्थानमुच्यते | मूर्ध्नि चैव ललाटे च कण्ठे बाहु तथैव च || २७ || हृदये चैव नाभौ च पृष्ठे चैव विशेषतः | अष्टस्थानेषु विप्रेन्द्र विन्यसेद्भस्ममेव च || २८ || ब्रह्मास्कन्दं च विष्णुं च विघ्नश्चैव शिवस्तथा | वसुन्धरा च पितरौ अधिदेवाः प्रकीर्तिताः || २९ || षडंगुलं च चत्वारौ स्त्र्यंगुलं वाथ चांगुलम् | ब्राह्मणादीनां वर्णानां विस्तारसि विविस्तरं भवेत् || ३० || क्षणां तथैव मार्गेण भस्मना लेपयेत्ततः | ज्ञानासूचन्दनं लिप्य वैश्यार्थं पूर्णमेव च || ३१ || जयार्थी चैव विप्रेन्द्र लेपयेद्रक्त चन्दनैः | देशिकानां तु सर्वेषामनामिका मध्यमतर्जनी || ३२ || प्. ११९) भस्मना लेपयेत्तत्र सर्वपापात्प्रमुच्यते | दुस्वप्ने दुर्जनस्पर्शे आतुराणां तु सर्वतः || ३३ || भस्मस्नानेन शुध्यन्ति रक्षार्थमिह मोच्यते | भोजने तुषकेशं च चितारि नखान्यपि || ३४ || मन्त्रणं मर्थकाञ्चबरी सृपणि सर्वशः | दधिक्षीर घृतेतैल मिश्रिते तु विशेषतः || ३५ || भस्मस्नानाच्छुद्धिमाप्नोति सिंहनस्येव यथा गजः | पूर्वाह्ने भोजनेकाले गमनेऽपि तथैव च || ३६ || * * * * * * * * सर्वरक्ता विधीयते | एवमेव क्रमेणैव भस्म दध्यात्तु भक्तितः || ३७ || सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् | भस्मस्नानं मया प्रोक्तं मन्त्रन्यासं शृणुष्वथ || ३८ || इति वीरतन्त्रे भस्मस्नानविधिः षट्त्रिंशः पटलः || ३६ || प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः | मन्त्रन्यासं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || यत्सर्वं तु मया पृष्टं मर्त्यानां तु हिताय च | तवस्नेहादहं वक्ष्ये श्रूयतां कमलासन || २ || शिवाग्रे मण्डपं कुर्यान्मण्डपाद्दक्षिणे ततः | मण्डपं चैव विप्रेन्द्र गोमयेनानुलेपयेत् || ३ || प्. १२०) गन्धपुष्पं च धूपं च दीपं चैव समायुतम् | कूर्चं चैव तु निक्षिप्य पूर्वना(थ) विधिपूर्वकम् || ४ || उत्तराभिमुखो भूत्वा तत्रान्ते कूर्चमध्यमे | सद्येन प्रोक्षयेत्तत्र कुशकूर्चेन वामतः || ५ || गन्धपुष्पादिना विप्र स्वदेवीं पूजयेत्ततः | घृताशिखाग्रे द्वादशांगुल्ये शिवतत्वं विचिन्तयेत् || ६ || स्वात्मानं योजयेत्तत्र तनुं चैव दहेत्ततः | त्रिकोणमण्डले विद्यादद्वितीयं विचिन्तयेत् || ७ || पादांगुष्ठात्समारभ्य दहेव्रायं शिरोन्तकम् | भस्मभूतः शिवं ध्यात्वा अमृतं प्लावनं कुरु || ८ || शिखाद्धस्तप्रमाणेन ऊर्ध्वे चैव विचिन्तयेत् | श्वेतपद्मो परिष्टात्तु चन्द्रबिम्बमधोमुखम् || ९ || तुरीयममृतं ध्यायेदोंकारेण समन्वितम् | चिन्तयेदमृतं तोयं सुषुम्नाभिन्नमस्तकम् || १० || तेन प्लावितमात्मानं पूरयन्तं विचिन्तयेत् | मृत्युनाशनमेवं तु इति शास्त्रस्य निश्चयः || ११ || पश्चात्स्वदेहं संचिन्त्य गन्धपुष्पादिनार्चयेत् | रेचकं पूरकं चैव कुम्भकं त्रिविधं मतम् || १२ || न मुञ्चति न गृह्णाति वायुरन्तर्बहिः स्थितम् | आपूर्णकुम्भवत्तिष्ठेदचलस्य तु कुम्भकम् || १३ || प्. १२१) एवमेव प्रकारेण कारयेद्देशिकोत्तमः | हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च || १४ || अंगुष्ठतर्जनीभ्यां तु अस्त्रे मन्त्रेण संयुतम् | दिवि दिक्षु च दातव्यं ऊर्ध्वाधश्चैव विन्यसेत् || १५ || आजानु पृथिवी ज्ञेया अप्सिद्धिर्नाभिदेशतः | गलाद्द्वे तेजसंशुद्धि ललाटाद्वायु शुध्यति || १६ || तदूर्ध्वे द्वादशांगुल्ये गगनशुद्धिरुदाहृतम् | प्रथमं सृष्टिन्यासं तु स्थितिन्यासं द्वितीयकम् || १७ || संहारं तु तृतीयं स्यात् त्रिविधं चोच्यते मया | गृहस्थः सृष्टिमार्गेण ब्रह्मचारी स्थितिर्भवेत् || १८ || वानप्रस्थ यतीनां च संहारन्यासमुच्यते | अंगुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृतम् || १९ || ईशादि पंचमंत्राणि अंगुष्ठादीनि विन्यसेत् | ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् || २० || अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | सद्योजाते न्यसेत्पादौ पुनरंगानि विन्यसेत् || २१ || विन्यसेत्तु षडंगानि देवतान्यासकं शृणु | ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे विष्णुरुच्यते || २२ || चन्द्रसूर्यौ च नयनौ नासिक्यां पृथिवीं तथा | सरस्वतीं तु वश्वारे हृदये ईश्वरं तथा || २३ || प्. १२२) हस्तौ चैवेन्द्रदैवत्यं वायुः स्यात्कुक्षिरेव च | सुब्रह्मण्यस्य लिंगे च पार्श्वयोरम्बिका तथा || २४ || पादयोर्मरुतश्चैव एवमेव क्रमान्न्यसेत् | अकारं मूर्ध्नि विन्यस्य आकारं तु ललाटके || २५ || इकारं दक्षिणे नेत्रे ईकारं वामलोचने | उकारं दक्षिणे नासे ऊकारं वामनासिके || २६ || ऋकारं दक्षिणे श्रोत्रे ऋकारं वामश्रोत्रके | ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके || २७ || ए ऐ (च) तालुरन्ध्रे च ओ औ ओष्ठद्वयेऽपि च | दन्तपंक्तिद्वये न्यस्य अंअः परिकीर्तितौ || २८ || कवर्गं दक्षिणे पाणौ चवर्गं वामपाणिके | टवर्गं दक्षिणे पादे तवर्गं वामपादके || २९ || पफौ दक्षिणपाश्वौ तु वामपाश्वौ बभौ न्यसेत् | मकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् || ३० || रेफं च रक्तमेवोक्तं लकारं मांसमेव च | वकारं मेदोदेशे तु शकारं चास्थिदेशके || ३१ || मज्जादेशे षकारं तु सकारं शुक्लमेव च | हकारं प्राण इत्याहुः क्षकारं मेढ्रमेव च || ३२ || लकारं वृषणं चैव सर्वामेतान्क्रमान्न्यसेत् | सृष्टिन्यासमिति प्रोक्तं न्यासं स्थितिमतः शृणु || ३३ || प्. १२३) मध्यादि दण्ड * * * पंचब्रह्म न्यसेत्क्रमात् | ईशानं मध्यमे चैव अनामिकेन पुरुषं न्यसेत् || ३४ || कनिष्ठिकां च न घोरः स्याद्वाममंगुष्ठके न्यसेत् | सद्योजातं तु तर्जन्यां विन्यसेत्पृष्ठमेव च || ३५ || हृदयं मध्यमे न्यस्य शिरोमन्त्रं तु नामिके | शिखां कनिष्ठिके न्यस्य कवचांगुष्ठके न्यसेत् || ३६ || नेत्रं तु तर्जनीं न्यस्य अस्त्रं करतले न्यसेत् | एवं षडंगं विन्यस्य विद्येशान्विन्यसेत्ततः || ३७ || अनन्तं मूर्ध्नि विन्यस्य ललाटे सूक्ष्ममुच्यते | शिवोत्तमं मुखे न्यस्य एकनेत्रं तु कर्णयोः || ३८ || एकरुद्रं तु बाहौ तु त्रिमूर्तिं हृदये न्यसेत् | लिंगे श्रीकण्ठमेवोक्तं शिखण्डिं पादयोर्न्यसेत् || ३९ || हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् | शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः || ४० || अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् | हस्तौ तु मणिबन्धं तु ईशब्रह्माणिमेव च || ४१ || स्थिति न्यासमिदं प्रोक्तं संहारं च ततः शृणु | सद्योजातं कनिष्ठे तु वामदेवेन नामिका || ४२ || अघोरं मध्यमे न्यस्य पुरुषं तर्जनीं न्यसेत् | ईशमंगुष्ठके न्यस्य षडंगान्विन्यसेत्ततः || ४३ || प्. १२४) हृदये कनिष्ठिकां न्यस्य कवचं स्तनमध्यतः | शिरोमन्त्रं च नामिके | शिखामन्त्रं तु मध्यं स्यात् कवचं || ४४ || तर्जनी न्यसेत् | नेत्रमंगुष्ठके न्यस्य अस्त्रं करतले न्यसेत् | पादयोः सद्यमन्त्रेण कुक्षौ वामं न्यसेत्ततः || ४५ || अघोरं हृदये न्यस्य मुखे तत्पुरुषं न्यसेत् | ईशानं मूर्ध्नि विन्यस्य पादयोर्हृदयं न्यसेत् || ४६ || मेढ्रे तु शिरोमन्त्रं तु कुक्षौ शिखां तु विन्यसेत् | कवचं हृदये न्यस्य नेत्रं बाहुद्वयोर्न्यसेत् || ४७ || मुखे चास्त्रमिति प्रोक्तं शिवमन्त्रं तु सर्वशः | इन्द्रं तु पादयोर्न्यस्य मेढ्रे तु पावके न्यसेत् || ४८ || यमं कुक्षौ तु विन्यस्य निर्-ऋतिं हृदये न्यसेत् | बाह्वौ वरुणदैवत्यं कण्ठे वायुरिति स्मृतः || ४९ || मुखे तु सोमदैवत्यं ईशं शिरसि विन्यसेत् | एवमेव क्रमे ज्ञात्वा विन्यसेद्देशिकस्तथा || ५० || आचार्यस्त्वादिशैवः स्याद्गृगस्थो वा द्विजोत्तमः | सृष्टौ स्थितिं च संहार न्यासं कुर्याद्विचक्षणः || ५१ || एवं न्यस्त्वा विधानेन देशिकः पापहा भवेत् | गन्धैः पुष्पैश्च पाद्यैश्च स्वदेहं पूजयेद्धृदा || ५२ || द्वारपालान्समभ्यर्च्य गन्धपुष्पादिभिस्सह | पूर्वे तु द्वारपालं तु नन्दिकालौ तथैव च || ५३ || प्. १२५) दक्षिणद्वारपालौ तु दण्डिमुण्डिस्तथैव च | पश्चिमद्वारपालौ तु भृंगिटिर्विजयस्तथा || ५४ || उत्तरद्वारपालौ तु नन्दः पशुपतिस्तथा | नन्दिनं दक्षिणे स्थाप्य श्यामवर्णसमन्वितम् || ५५ || दण्डहस्तसमायुक्तं लकारं मन्त्रमुच्यते | कालं कुंकुमवर्णामं उत्तरे तु प्रतिष्ठितम् || ५६ || वटवृक्षायुधैर्युक्तं मन्त्रं ह्रीं कारमेव च | दण्डिं पूर्वे तु विन्यस्य इन्द्रगोपस्य संनिभम् || ५७ || खड्गायुध समायुक्तं ह्रौंकारं मन्त्रमुच्यते | मुण्डी तु पश्चिमे न्यस्य शुद्धस्फटिकसंनिभम् || ५८ || भिन्दिपालसमायुक्तं सृंकारं मन्त्रमुच्यते | भृंगिटिं दक्षिणे स्थाप्य मयूरग्रीवसंनिभम् || ५९ || शक्त्यायुधसमायुक्तं ह्रींकारं मन्त्रमुच्यते | विजयं चोत्तरे स्थाप्य रक्तवर्ण समायुतम् || ६० || शूलायुधसमायुक्तं ह्रींकारं मन्त्रमुच्यते | अनन्तं पश्चिमे स्थाप्य कनकाभं तथैव च || ६१ || वज्रायुधसमायुक्तं ह्रींकारं मन्त्रमुच्यते | पशुपतिं पूर्वतः स्थाप्य नीलरूपसमन्वितम् || ६२ || पाशायुध समायुक्तं ह्रींकारं मन्त्रमुच्यते | एवमेव क्रमैः स्थाप्य एतैर्मन्त्रैश्च पूजयेत् || ६३ || प्. १२६) सर्वे चतुर्भुजाश्चैव त्रिणेत्राश्चैव संयुतम् | सर्वे ऋज्वागताः स्थित्या क्रूरदृष्टिभयावहाः || ६४ || मकुटैः कुण्डलैर्हारैः कटिसूत्रं तु वीरकम् | नानाभरणसंयुक्ता घोरभयावहाः || ६५ || सर्वे कुंचितपादास्तु रूपयौवनसंयुताः | एवमेव क्रमेणैव पूजयेद्देशिकस्सदा || ६६ || मन्त्रन्यासमिदं प्रोक्तं यजनं शृणु तत्वतः || ६६ १/२ || इति वीरतन्त्रे मन्त्रन्यासः सप्तत्रिंशत्पटलः || ३७ || पितामहः || प्रणम्य भगवन्तं हि पर्यपृच्छत्पितामहः | शिवार्चनं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || एतत्सर्वं समासेन श्रूयतां कमलासन | नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् || २ || नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् | सर्वपापहरं चैव सर्वतीर्थफलं भवेत् || ३ || अदीक्षितश्चतुर्वेदी शिवलिंगं च न स्पृशेत् | दीक्षितश्चापि यो विप्रो भृत्यर्थं न प्रपूजयेत् || ४ || प्. १२७) धर्मानुष्ठानमभ्यर्थं सर्वदाकाले आदिशैवः शिवं यजेत् | सन्धिस्वधर्मानुष्ठानं न दोषाय प्रकल्पयेत् || ५ || आत्मार्थं पूजयेत्तेषां शास्त्रमार्गेण चैव हि | तत्काले वाप्यकाले वा एवमेव क्रमेण तु || ६ || आत्मशुद्धिं पुरा कृत्वा स्थान शुद्धिं द्वितीयकम् | तृतीयं द्रव्यशुद्धिस्तु चतुर्थं लिंगशोधनम् || ७ || पंचमं मन्त्रशुद्धिस्तु उच्यन्ते पंच शुद्धयः | पूर्वोक्तेन विधानेन आत्मशुद्धिं च कारयेत् || ८ || द्वितीयं स्थानशुद्धिं च कुर्याद्वै देशिकोत्तमः | हुंकारेण समायुक्तं फट्कारेण समायुतम् || ९ || स्थानशुद्धिं ततः कुर्याद् दशदिक्षु समन्ततः | गोमयेनोप लिप्याथ प्रोक्षयेद् हृदयेन तु || १० || उदकभाण्डं वर्धन्यां पाद्याचमन पात्रकम् | अर्घ्यपात्रं पुष्पपात्रं धूपदीपस्य पात्रकम् || ११ || चरुस्थाली जलकुम्भं च नीराजनस्य पात्रकम् | हृदेन क्षालयित्वा तु अस्त्रेण शोधयेत्ततः || १२ || दर्भोपरि न्यसेत्तत्र कवचेनावगुण्ठयेत् | पंचब्रह्मेण मन्त्रेण उदकं सेचयेत्ततः || १३ || गन्धं हृदयो लो * * शिरसा गन्धकं ददेत् | द्रव्याणि प्रोक्षयेत्तत्र हृदयेन तु मन्त्रतः || १४ || प्. १२८) द्रव्यशुद्धिर्भवेदेवं लिंगशुद्धिं ततः शृणु | हृदयेनैव मन्त्रेण घण्टां चैव तु ताडयेत् || १५ || हुंकारेण तु मन्त्रेण यवनीक्रापमनीयते | पूजापर्यषितानां तु हृदयेन विसर्जयेत् || १६ || सद्योजातेन मन्त्रेण पुष्पं शिरसि विन्यसेत् | अपनीय च निर्माल्यं चण्डेशाय प्रदापयेत् || १७ || न शून्यमस्तकं लिंगं कृत्वाभिषेकं तु साधकः | लिंगं प्रक्षालयेत्तत्र हृदयेन तु मन्त्रतः || १८ || लिंगे वा कौतुके वापि भित्तिचित्रे च मण्डले | एवमेवक्रमेणैव लिंगशुद्धिमथाचरेत् || १९ || पंचमं मन्त्रशुद्धिं तु कारयेद्देशिकोत्तमः | पंचब्रह्मशिवांगैश्च प्रासादेन समन्वितम् || २० || व्योमव्यापिसमायुक्तं विद्येश्वरांश्च एव च | गणेशान्लोकपालांश्च लोकपालास्त्रमेव च || २१ || ओंकारमादितः कृत्वा नमस्कारान्तं योजयेत् | मन्त्रशुद्धिर्भवेदेवं कारयेद्देशिकोत्तमः || २२ || शुद्धयः पंच यो वेत्ति स पूजां कर्तुमर्हति | आसनं कल्पयेद्विद्वान् अनन्तान्तान्यथाक्रमम् || २३ || अनन्तासनं तु प्रथमं योगासनं द्वितीयकम् | सिंहासनं तृतीयं स्याद् योगासनं चतुर्थकम् || २४ || प्. १२९) विमलासनं चतुर्थे तु पद्मासनमिहोच्यते | शक्त्यक्षरसमायुक्तं नवमांकुरसंयुतम् || २५ || बीजाक्षरसमायुक्तं नालान्तं परिकीर्तितम् | मध्ये नालसमायुक्तं पंचाशत्कर्णिकायुतम् || २६ || पद्मासनान्तकैर्दैर्घ्यैः तदूर्ध्वे कर्णिका न्यसेत् | अनन्तं पूर्वतो भागे वासुकिं चाग्निगोचरे || २७ || तक्षकं दक्षिणे स्थाप्य कार्कोटकं तु नैर्-ऋते | शंखपालं च वारुण्यां गुलिके वायुगोचरे || २८ || पद्मं तु सौम्यके भागे महापद्मीशगोचरे | अनन्तासनं तु प्रदद्यात् कूर्मस्योपरि संश्रिताः || २९ || मध्यस्थं चैव नालं तु शिवांगं वेष्टयेत्ततः | आधारं चाप्यते विप्र देवानां च शृणुष्वथ || ३० || अनेन्तेशश्च सूक्ष्मश्च शिवोत्तमश्चैकनेत्रकः | एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः || ३१ || पूर्वादीशानपर्यन्तं क्रमाद्विन्यस्य देशिकः | शेषश्चैव तु नागेन्द्रा गुलिकाश्च चतुर्दिशि || ३२ || अनन्तासनमिह प्रोक्तं योगासनमिहोच्यते | चतुरश्रं तु योगं स्यात् शेषस्योपरि विन्यसेत् || ३३ || प्राणं तु पूर्वतः स्थाप्य अपानं वह्निगोचरे | देवदत्तधनंजयौ मध्यमे च विकीर्यते || ३४ || प्. १३०) आधारं तु मया प्रोक्तं देवतानां शृणुष्वथ | प्रणवं मध्यदेशे तु आकारं पूर्वदेशके || ३५ || नकारमीश दिग्भागे ओंकारं पूर्व संस्थितम् | अधश्चाथोर्ध्वच्छदनं योगासनमिति स्मृतम् || ३६ || योगासनोपरिष्टात्तु सिंहासनमिहोच्यते | आग्नेययां धर्म विन्यस्य नैर्-ऋत्यां ज्ञानमेव च || ३७ || वैराग्यं चैव वायव्यां ऐश्वर्यमीशगोचरे | चतुष्कोणे महासिंहं आसनं पादनिर्मितम् || ३८ || शंखस्फटिकपीतं च रक्तं सिंहस्य वर्णकम् | अधर्मं पूर्वतो भागे अज्ञानं दक्षिणे तथा || ३९ || वैराग्यं पश्चिमे न्यस्य ऐश्वर्यं चोत्तरे दिशि | कृष्णवर्ण समायुक्तं इलिकां तत्र विन्यसेत् || ४० || अव्यक्तो नियतिः कालः कला चेति चतुष्टयम् | महादिक्षु न्यसेदेनं मध्यपादस्तु केशवः || ४१ || त्रिणेत्रं भीमसंकाशं विदिक्ष्वभिमुखांस्तथा | एवं सिंहासनं प्रोक्तं पद्मासनमथोच्यते || ४२ || पृथ्वीं पूर्वदलश्चैव आपश्चैवाग्निगोचरे | तेजोरूपं तु दक्षिण्यां वायुरूपं तु नैर्-ऋते || ४३ || आकाशं चैव विप्रेन्द्र वारुण्यां दलमुच्यते | सत्वं वायव्यके न्यस्य रजोविन्यस्य सोमके || ४४ || प्. १३१) ईशाने तु दले विप्र तमोरूपं प्रकल्पयेत् | तत्ववर्णसमायुक्तं आधारं चोच्यते मया || ४५ || मूलं सद्येन मन्त्रेण नालं वामेन कारयेत् | अघोरं दलमेवाहु स्तत्पुरुषं गुह्यदेशके || ४६ || सुषिरमीशमन्त्रेण कुर्याद्वै देशिकोत्तमः | देवताः संप्रवक्ष्यामि कालीं पूर्वे तु विन्यसेत् || ४७ || कलविकरणीं चाग्ने रौद्रीं चैव तु दक्षिणे | बलविकरणीं नैर्-ऋत्यां वामां पश्चिमतो न्यसेत् || ४८ || बलप्रमथनीं वायव्ये ज्येष्ठां चैवोत्तरे दिशि | सर्वभूतदमनीमीशान्ये मनोन्मनीं तु मध्यमे || ४९ || एवं पद्मासनं प्रोक्तं विमलासनमुच्यते | चतुर्वेदस्वरूपं तु विन्यसेद् व्याघ्रचर्मवत् || ५० || इलिकोपरि विन्यस्य देवतां च शृणुष्वथ | अम्बिकां पूर्वतः स्थाप्य गणाम्बिकां च दक्षिणे || ५१ || गौरीं च पश्चिमे न्यस्य प्रज्ञां चैवोत्तरे दिशि | विमलासनमिदं प्रोक्तं इदमन्यच्छृणुष्वथ || ५२ || आवाहनासनं पद्मं पद्मासनमनन्तकम् | विमलमर्चनेषूक्तं भोज्यासनं तु योगतः || ५३ || एवमेव प्रकारेण आसनक्रममुच्यते | गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् || ५४ || प्. १३२) स्वनामाद्यक्षरेणैव हृदयेन तु देशिकः | सत्वं रजस्तमश्चैव उपर्युपरि विन्यसेत् || ५५ || अग्नेस्तु मण्डले चैव तदन्ते सूर्यमण्डलम् | चन्द्रबिम्बं न्यसेत्पश्चा आत्मानं चान्तरात्मकम् || ५६ || परमात्मानमेवं च स्वनामाद्येन विन्यसेत् | दक्षिणे ह्यात्मतत्वं तु विद्यातत्वं तु चोत्तरे || ५७ || मध्यमे शिवतत्वं तु विन्यसेत्तु यथाक्रमम् | एवं न्यस्त्वा तु विधिवच्छिवं संपूजयेत्ततः || ५८ || शुद्धस्फटिकसंकाशं स्फुरन्तं दीप्ततेजसम् | त्र्यक्षं दशभुजं चैव चन्द्रार्धकृतशेखरम् || ५९ || जटामकुटसंयुक्तं चारुगात्रसमायुतम् | पंचवक्त्रं च देवेशं पंचमूर्धसमन्वितम् || ६० || सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् | मकुटं कुण्डलं चैव केयूरकटकं ततः || ६१ || कटिसूत्रोदरं बद्धमेखलं नूपुरैर्युतम् | दिव्याम्बरधरं देवं दिव्यगन्धानुलेपितम् || ६२ || पाशं परशुखड्गं च वक्त्रं चाभयदक्षिणे | वामांकुशं चैवां घण्टां नागं च वह्नि च || ६३ || एतेषामायुधा विप्र वामहस्ते ददेत्ततः | एवं सदाशिवं ध्यात्वा सर्वलोकसुखावहम् || ६४ || प्. १३३) आवाहयेत्ततो देवं सद्योजातेन मन्त्रतः | स्थापयेद्वामदेवेन अघोरेण निरोधयेत् || ६५ || सांनिध्यं पुरुषेणैव ईशानेन तु पूजयेत् | पूर्वे द्वारगेहे तु दक्षिणे वा विशेषतः || ६६ || पश्चिमद्वारगेहं वा उत्तरद्वारमेव वा | निष्कले सकलं ध्यात्वा आसनं चैव कल्पयेत् || ६७ || द्वारस्याभिमुखं स्थाप्य पूजयेत्पूर्ववत्ततः | द्वारभेदेषुभेदानां पूजाभेदं न विद्यते || ६८ || ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरषं न्यसेत् | अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || ६९ || सद्योजातं न्यसेत्पादं पुनरंगानि विन्यसेत् | हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् || ७० || शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् || ७१ || पंचवक्त्रेषु विप्रेन्द्र अक्ष्णां पंचदशेषु च | पाद्यं पादौ प्रदातव्यमर्घ्यं शिरसि विन्यसेत् || ७२ || मुखेष्वाचमनं विद्याद् हृदयेन तु मन्त्रतः | उशीरं चन्दनोपेतं पाद्यद्रव्यमुदाहृतम् || ७३ || फलत्रयं च कर्पूर मादिपत्रं च पालिकम् | आचमनीयमिति प्रोक्तं मुखे दद्याद्विशेषतः || ७४ || प्. १३४) आपक्षीरकुशाग्राणि अक्षतैर्यवतण्डुलैः | तिलैस्सिद्धार्थकैश्चैव अर्घ्यमष्टांगमुच्यते || ७५ || नेत्रे चैव तु विप्रेन्द्र नेत्रमुद्रां च दर्शयेत् | क्षुरिकां कल्पयेत्तत्र दक्षिणेकदिरेव च || ७६ || शिवास्त्रं विन्यसेत्तत्र दलाग्रे दशदिक्षु वै | शिवस्य दक्षिणे पार्श्वे न्यसेत्पाशुपतास्त्रकम् || ७७ || अघोरास्त्रं पश्चिमे न्यस्य स्वस्वबीजेन मन्त्रतः | एवं न्यस्य विधानेन पश्चादर्चनमारभेत् || ७८ || अभिषेकं कारयेत्तत्र हृदयेन तु मन्त्रतः | आदित्योदयपूर्वे तु पंचस्नानं तु कारयेत् || ७९ || आदित्योदयमारभ्य जलेनैवाभिषिंचयेत् | पंचब्रह्मषडंगैश्च व्योमव्यापि जपेत्ततः || ८० || रत्नोदकं सुवर्णाभः पुष्पोदकसमन्वितम् | जलभाण्डे विनिक्षिप्य अभिषेकं तु कारयेत् || ८१ || नवकुम्भेन वा कुर्यात् षोडशैः कुम्भमेव वा | द्वात्रिंशद्वा चतुस्त्रिंशत्पंचाशत्पंचविंशतिः || ८२ || अष्टोत्तरशतं वापि कारयेद्देशिकस्तथा | आढकेन तु संपूर्णं कुम्भलक्षणमुच्यते || ८३ || कुम्भं चैव प्रकर्तव्यं सौवर्णं रजतं तु वा | ताम्रं वा मृण्मयं वापि अभिषेकं तु कल्पयेत् || ८४ || प्. १३५) दधिक्षीरघृतं चैव मधु वा पंचगव्यकम् | नालिकेरस्य सलिलं इक्षुकाण्डसमन्वितम् || ८५ || अभिषेकं कारयेत्तत्र पुनर्गन्धोदकेन च | नृत्तगेयसमायुक्तं स्तोत्रशब्दसमायुतम् || ८६ || वाद्यध्वनिरवैर्युक्तं भरतोक्तेन मार्गतः | तस्यान्ते पूजको विप्र आचमनीयं तु कारयेत् || ८७ || कुंकुमं चन्दनं चैव अगरुं खड्गमेव च | निर्यासं त्रिफलं चैव उशीरं च विशेषतः || ८८ || आलोढ्य सर्वमेवं तु लेपयेल्लिंगमेव च | हृदयेन तु गन्धं स्याद् वस्त्रं वामेन दापयेत् || ८९ || वस्त्रेणावेष्ट्य लिंगं तु नानावर्णैरनेकशः | नानाविधैश्च पुष्पैश्च पूजयेत्परमेश्वरम् || ९० || अस्त्रमन्त्रेण शिरसा पुष्पं दद्याच्छिवस्य तु | पीठपूजा प्रकर्तव्या लक्षणेन समन्विता || ९१ || पीठस्योत्सेधमानेन फलकं चतुरश्रकम् | विस्तारं तावदेवस्यान्मृदेनैव तु लेपयेत् || ९२ || उत्तमं शालिपिष्टेन लेपयेत्फलकान्ततः | पुष्पैर्नानाविधैर्युक्तं नालिकेरस्य पात्रकम् || ९३ || गजसिंहं च अंगाचं च अश्वं च पद्मपुष्पकम् | सर्वद्वयं च पीठं च गोपुरं मण्डपं तथा || ९४ || प्. १३६) विमानं चैव मत्स्यं च मकारं च तथैव च | दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् || ९५ || श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् | वज्रं शक्तिं च दण्डं च खड्गंपाशं तथांकुशम् || ९६ || गदात्रिशूलशक्रं च पद्मं चेति दशायुधम् | दिनं प्रति न्यसेदेकं त्रिंशद्दिनान्तमेव च || ९७ || पुष्पैः पत्रैश्च विप्रेन्द्र अलंकृत्य विशेषतः | पीठपूजां च विप्रेन्द हृदयेन तु मन्त्रतः || ९८ || पीठे चैव न्यसेद्विद्वान् गन्धपुष्पादिनार्चयेत् | मासे मासे प्रकर्तव्यं एवमेव पुनः पुनः || ९९ || विन्यसेत्पि पूर्वे तु प्रासादेन मन्त्रतः | धूपं चैव तु विप्रेन्द्र धूपपात्रं विशेषतः || १०० || शीतारिं चैव निक्षिप्य यथा वित्तानुसारतः | एकभागं तु कर्पूरं लोहं चैव चतुष्टयम् || १०१ || चन्दनं चैव षट्तांगं वारं सप्तधा भवेत् | मधुना सेचयेद्धूपं पात्रे तु परि निक्षिपेत् || १०२ || देवदारुं च मेरुं च सर्जं श्रीलासकुन्दकम् | श्रीफलं चाज्यसंमिश्रं धूपं दद्याद्विशेषतः || १०३ || धूपघण्टासमायुक्तं वामहस्ते विचक्षणः | दक्षिणे धूपपात्रं तु हृदयेन तु दापयेत् || १०४ || प्. १३७) हुंकारेण तु मन्त्रेण यवनिकामपनीयते | प्रोक्षयेदम्भसा चैव दीपं दद्यात्तु सद्यतः || १०५ || प्रोक्षयेदम्भसा चैव पुष्पं शिरसि निक्षिपेत् | रक्षादीपं तु कर्तव्यं तत्काले तु विशेषतः || १०६ || सायाह्नसमये विप्र यक्षेश्वरं च पूजयेत् | तद्दीपं बलिपीठे तु स्त्रीभिश्चैव तु धारयेत् || १०७ || विसर्जयेत्तु विप्रेन्द पादप्रक्षालनं कुरु | आढकं वा शिवं वापि द्रोणं वा तण्डुलं पचेत् || १०८ || वेदनं तु कर्तव्यं अनेकोपदंशसंयुतम् | आज्येन दधिसंयुक्तं पूर्वोक्तेन विधानतः || १०९ || अर्धं निवेदयेद्देवं एकांशं बलिचाग्निभिः | पात्रशेषं चतुर्थांशं देशिकाय प्रदापयेत् || ११० || पंचवर्णाभिश्चरुभिः पंचवक्त्रे निवेदयेत् | निर्माल्यं चैव विप्रेन्द्र चण्डेशाय प्रदापयेत् || १११ || पादप्रक्षालनं कृत्वा मुद्रां चैव तु धारयेत् | पद्मं शूलं च परशुं खड्गं पाशं तथांकुशम् || ११२ || धनुर्बाणं च घण्टां च वज्रमुद्रां ददर्शयेत् | सुरभिमुद्रां लिंगमुद्रां दर्शयेत्तु विधानतः || ११३ || एवमेव क्रमं कुर्यात् पश्चाद्ब्रह्मांगपूजयेत् | पुरुषं पूर्वतः पूज्य अघोरं दक्षिणे यजेत् || ११४ || प्. १३८) सद्यं पश्चिमतः पूज्य वामदेवं तु चोत्तरे | ईशानं कर्णिकायां तु पूजयेद्देशिकस्सदा || ११५ || आग्नेययां हृदयं पूज्य ऐशान्यां तु शिरो यजेत् | नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् || ११६ || अस्त्रं दिशासु संपूज्य नेत्रमीशानके यजेत् | मध्यमे शिवतत्वं तु आत्मतत्वं तु दक्षिणे || ११७ || विद्यातत्वं तु सौम्यायां गन्धाद्येनैव पूजयेत् | मध्यमे तु यजेद्देवं शिवं परमकारणम् || ११८ || किंचिदीशानमाश्रित्य सदाशिवं यजेत्ततः | महेश्वरं यजेन्मध्ये किंचिदाग्नेयमाचरेत् || ११९ || स्थूलं महेश्वरं विद्धि सूक्ष्मरूपं सदाशिवम् | परं शिवमयं ज्ञेयं शिवात्परतरं न च || १२० || गर्भावरणमेवं तु विद्येशावरणं शृणु | अनन्तं पूर्वतः पूज्य सूक्ष्मं वै दक्षिणेन तु || १२१ || शिवोत्तमं पश्चिमे पूज्य एकनेत्रं तथोत्तरे | एकरुद्रं तु ईशान्यां त्रिमूर्तिस्त्वग्निगोचरे || १२२ || श्रीकण्ठश्चैव नैर्-ऋत्यां शिखण्डिं वायुगोचरे | विद्येशावरणं ह्येतद् गणेशावरणं शृणु || १२३ || उमादेवीं चोत्तरे देशे पूजयेद्देशिकस्सदा | चण्डेशमीशदिग्भागे नन्दीशं पूर्वतो यजेत् || १२४ || प्. १३९) महाकालं वह्निदेशे तु वृषभं दक्षिणे यजेत् | विघ्नेशं निर्-ऋते चैव भृंगीशं वारुणे यजेत् || १२५ || महासेनं च वायव्यां पूजयेद्गन्धपुष्पकैः | गणेशावरणं ह्येतत् लोकपालान्शृणुष्वथ || १२६ || इन्द्रं तु पूर्वतः पूज्य शक्तिं चाग्नेयमेव च | याम्यायां तु यमं पूज्य नैर्-ऋत्यां निर्-ऋतिं यजेत् || १२७ || वारुण्यां पूज्य वरुणं वायव्यां वायुमेव च | सौम्यायां सोमं संपूज्य ऐशान्यामीशमेव च || १२८ || ब्रह्माणं नैर्-ऋते भागे ईशान्यां विष्णुरुच्यते | लोकेशावरणं ह्येतत् लोकपालास्त्रमुच्यते || १२९ || पूर्वे तु वज्रं संपूज्य शक्तिं चाग्नेयमेव च | याम्ये दण्डं यजेत्तत्र खड्गं निर्-ऋतिगोचरे || १३० || वारुण्यां तु यजेत्पाशं अंकुशं वायुगोचरे | गदायुधं चोत्तरे पूज्य शूलं चीशानगोचरे || १३१ || पद्मं तु नैर्-ऋते भागे चक्रं त्वीशानगोचरे | गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् || १३२ || सर्वावरणदेवांश्च आसनं बिन्दुरुच्यते | आसनस्थांश्च देवांश्च शिवस्याभिमुखः स्थितः || १३३ || पंचब्रह्मशिवांगानां सुरभिमुद्रां च दर्शयेत् | विद्येशानां गणेशानां लिंगमुद्रां च दर्शयेत् || १३४ || प्. १४०) लोकपालांश्च हस्तांश्च पद्ममुद्रां च दर्शयेत् | तत्काले ताडयेद् घण्टां पटं चैव विसर्जयेत् || १३५ || धूपं दद्यात्तु विप्रेन्द्र हृदयेन तु मन्त्रतः | प्रोक्षयेदम्भसा चैव दीपं दद्याच्छिखासह || १३६ || प्रोक्षयेदम्भसा चैवं ईशानेन विशेषतः | पंचवर्णहविर्दद्यात् पंचवक्त्रेषु देशिकः || १३७ || पानीयं चैव दद्यात्तु वस्त्रपूतेन वारिणा | उशीरं चैव कुष्ठं च एलं चन्दन संयुतम् || १३८ || तत्कालं चैव विप्रेन्द्र पानीये च दापयेत् | मुखवासं च ताम्बूलं कर्पूरं त्रिफलैर्युतम् || १३९ || मातुलुंगफलाद्यादि दद्यात्ताम्बूलकैः सह | अपूपं पृथुकं चैव फट्कुली च समन्वितम् || १४० || गुलाज्येन समायुक्तं बृन्देन सह पाचयेत् | निवेदयेत्तु शर्वाय क्षेत्रपालांश्च पूजयेत् || १४१ || तालुजंघो लोहजंघः तथा पर्वत जंघकः | समुद्रघोषो वायुघोषो अनलाक्षः प्रमर्दनः || १४२ || अघोरदंष्ट्र इत्यष्टौ दण्डहस्तैस्सुभीषणाः | नीलजीमूत संकाश ऊर्ध्वकेशसमन्वितम् || १४३ || पूजयेत्क्षेत्रपालानां स्वस्वनाम्ना तु पूजयेत् | एवमेव क्रमेणैव पूजयेद्देशिकोत्तमः || १४४ || प्. १४१) प्रदक्षिण त्रयं कृत्वा नमस्कारं तु कारयेत् | शिरो हस्तौ द्विजान्वोश्च चिबुकं बाहुयुक् तथा || १४५ || अष्टांगं च नमस्कारं पंचांगं च ततः शृणु | शिरो हस्तौ द्विजानू च पंचांगमिहोच्यते || १४६ || पूजयेद्द्वारपालांश्च परिवारांश्च पूजयेत् | पंचावरणं प्रोक्तं एकावरणमुच्यते || १४७ || प्रथमं सिंहासनं चैव पद्मासनं द्वितीयकम् | विमलासनं तृतीयं स्याद् आसनं त्रीणि कल्पयेत् || १४८ || पंचब्रह्मशिवांगैश्च पूजयेत्पूर्ववत्ततः | एकावरणमेवोक्तं पूजयेद्देशिकस्सदा || १४९ || स्वगुरुं पूजयेत्तत्र गन्धपुष्पादिना सह | अग्निकार्यं ततः कुर्याल्लक्षणेन समन्वितम् || १५० || परिषेचनं ततः कुर्याधृदयेन तु मन्त्रतः | गन्धपुष्पादिना चैव अग्निदेवं समर्चयेत् || १५१ || आज्येनान्त समायुक्तं होतस्वं देशिकस्सदा | प्रासादेन तु मन्त्रेण शिवे दशाहुतिं हुनेत् || १५२ || गौरीबीजेन मन्त्रेण होतव्यं पंच एव च | पंचब्रह्मशिवांगानां एकैकं होमयेत्तदा || १५३ || विद्येशानां गणेशानां लोकपालान्सहस्रकः | एकाहुतिं च होतव्यं तत्तत्स्वनाममन्त्रतः || १५४ || प्. १४२) परिषेचनं ततः कृत्वा नित्योत्सवं तु कारयेत् | पुस्तकाराधनं तत्र गन्धपुष्पादिना सह || १५५ || चुलुकोदकेन विप्रेन्द्र स्वात्मानं च निवेदयेत् | उक्तानुक्तं च तत्सर्वं हृदयेन तु दापयेत् || १५६ || हृदयेन तु मन्त्रेण विसर्जयेत्तु बुद्धिमान् | प्रविश्य विगृहं पश्चाद् गृहदेवान्समर्चयेत् || १५७ || न संपूज्य शिवं मोहाद् भुंजीतैव कदाचन | तस्मात्सर्वप्रयत्नेन पूजयेच्छिवमादरात् || १५८ || एष धर्मपरो नास्ति भुवनत्रितयेऽपि वा | आत्मार्थं पूजयेद् नित्यं चललिंगं विशेषतः || १५९ || सप्तभक्तिं समाश्रित्य पूजयिष्यति यो नरः | आभिचारं करिष्यामि एकधा दशधा ततः || १६० || पूजयेन्मण्डलं चापि पूर्वोक्तविधिना सह | एवमेव क्रमेणैव अर्चयेद्देशिकस्सदा || १६१ || अर्चनाया विधिः प्रोक्तः अग्निकार्यं ततः शृणु || १६१ || इति वीरतन्त्रे अर्चनाविधिः अष्टत्रिंशः पटलः || ३८ || पितामहः || शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः | कीदृशं चाग्निकार्यं च तत्सर्वं ब्रूहि मे प्रभो || १ || प्. १४३) ईश्वरः || एतत्सर्वं त्वया पृष्टं अग्निकार्यं च सर्वशः | समासेन प्रवक्ष्यामि शृणुष्व कमलासन ! || २ || ग्रहणे विषुवे चैव नित्यनैमित्तिकेऽपि च | प्रतिष्ठा चोत्सवे चैव शत्रूणां च प्रदर्शने || ३ || अयने दर्शपूर्णे च प्रोक्षणे मन्त्रसाधने | दीक्षाकाले तु वा कुर्याच्छान्तिके पौष्टिकेऽपि वा || ४ || स्नपने चैव वा कुर्यात् अग्निकार्यं समारभेत् | चौके वा चोपनयने समावर्तनकेऽपि वा || ५ || विवाहे चान्नप्राशे च पुंसवने तथैव च | सीमन्तोपरिनिष्क्रामे अग्निष्टोमादियागके || ६ || विधिना चाग्नि कार्यं तु कारयेत्तु समाहितः | कुण्डं वा स्थण्डिलं वापि कारयेद्देशिकस्तथा || ७ || हस्तमात्रं भवेत्कुण्डं चतुरश्रं च जायते | वृत्तं * * * * कुर्यान् नित्यकर्म इहोच्यते || ८ || यावदग्रं भवेत्पीठं तावदश्रं च कुण्डकम् | त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् || ९ || अश्वत्थपत्रवद्योनिं मेखलां परिकल्पयेत् | खननं हस्तमात्रं तु दर्पणोदरवत्ततः || १० || स्थण्डिलं वापि कर्तव्यं गतैश्शुद्धदेशकैः | शोषितं पाचितं चैव शोषणं पाचनं तथा || ११ || प्. १४४) आज्यपात्रं चरुस्थालीं समिधा विष्ठरमाकुशाः | प्रणीता स्पृश्यपात्रं तु सुधापरिधयः स्रुवाः || १२ || दर्वी चैव च स्रुक् चैव होमद्रव्यांश्च सर्वशः | वस्त्रं चोष्णीषमेवं तु अर्घ्यं गन्धं च पुष्पकम् || १३ || धूपदीपं तथा चैव अग्निरुत्तरतो न्यसेत् | आज्यं चैव चरुं चैव होमद्रव्यं च सर्वशः || १४ || दर्भेणोपरि विन्यस्य प्रच्छादयेत्तु दर्भकैः | साधयेद्धृदयेनैव प्रोक्षयेदम्भसा ततः || १५ || उल्लेखनं ततः (कुर्याद्) अभ्युक्ष्य कवचेन तु | तिसॄः पूर्वमुखा रेखा उदग्रेखास्तथैव च || १६ || ब्रह्मा विष्णुश्च रुद्रश्च दक्षिणाद्यधिदैवतान् | अर्चयेद्गन्धपुष्पांश्च हृदयेन तु मन्त्रतः || १७ || अरण्युद्भवमेवाथ सूर्यकान्तोद्भवं तु वा | श्रोत्रियस्याग्निहोत्राच्च जनयेज्जातवेतसम् || १८ || अरणिं चैव विप्रेन्द्र षोडशांगुल दैर्ध्यकम् | विस्तारं तु षडंगुल्यं विष्कम्भं तु त्रियंगुलम् || १९ || शमी पिप्पल पत्रं च कारयेदरणीं ततः | मथित्वा पंचब्रह्मेण पात्रे विन्यस्य देशिकः || २० || तदग्निं सर्वकार्येषु उपनयनादि कारयेत् | हृदा चाग्निं प्रतिष्ठाप्य अग्न्याधानं तु कारयेत् || २१ || प्. १४५) अग्न्याधानमुपस्थानं परिस्तरणमेव च | पात्राणां सादनं चैव प्रोक्षणं प्रोक्षणी तथा || २२ || कूर्चाधानं प्रणीता च घृतसंस्कारमेव च | ऊर्ध्व प्रवेशनं चापि तत्तन्मन्त्रेण देशिकः || २३ || प्रासादेन तु मन्त्रेण उपस्थानं तु कारयेत् | अग्नौ काष्ठं विनिक्षिप्य शिवमन्त्रेण देशिकः || २४ || परिस्तरणं पुनः कुर्यात्प्रागग्रं चोत्तराग्रकम् | कुशेनैव परिस्तीर्यः पूर्वे तु चोत्तराग्रजात् || २५ || तदूर्ध्वे दक्षिणास्तीर्य पश्चिमे चोत्तराग्रकम् | उत्तरे पूर्वमूर्ध्वं तु विन्यसेद्देशिकस्तथा || २६ || परिधी विन्यसेत्तत्र दक्षिणे पश्चिमोत्तरे | ऊर्ध्वं संस्थाद्वयं चैव आग्नेययामीशदेशतः || २७ || मध्यमे चैव संस्थाप्य वागीशीं तु विशेषतः | ऋतुस्नानं च संकल्प्य योनिमार्गेण जायते || २८ || हृदयेनाहुतिस्सप्त गर्भाधानं भवन्ति वै | तत्पुरुषेण मन्त्रेण पुंसवनं भवन्ति वै || २९ || शिरोमन्त्रेण विप्रेन्द्र सीमन्तं सप्तहूयते | वामदेवेन मन्त्रेण जातकर्म च हूयते || ३० || एका हृदयं त्रिपादं च द्विवक्त्रं च द्विनासिकम् | चतुःशृंगसमायुक्तं षण्णेत्रेण समन्वितम् || ३१ || प्. १४६) सप्तजिह्वा सप्तहस्ता उपवीतसमन्वितम् | जटामौंजि समायुक्तं कृष्णाजिनसमायुतम् || ३२ || हिरण्या कनकारक्ता कृष्णा चैव तु सुप्रभा | अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः || ३३ || हिरण्या वारुणे जिह्वा कनका मध्यमे स्थिता | उत्तरा रक्तमाख्यातं याम्ये कृष्णा इति स्मृता || ३४ || सुप्रभा पूर्वदेशे तु अतिरक्ताग्नौ व्यवस्थिता | बहुरूपा चैव जिह्वा स्यात् सप्तजिह्वाः प्रकीर्तिताः || ३५ || कनकाख्या तु जिह्वायां सर्वं होमं तु कारयेत् | जातकर्म मया प्रोक्तं नामं तु हृदयेन तु || ३६ || निष्क्रामणं तु शिरसा प्राशनं हृदयेन च | चौलमन्त्रेण कर्तव्यं उपनयनं हृदयेन तु || ३७ || व्रतानां चैव सर्वेषां शिरसा चैव हूयते | हृदयेन तु मन्त्रेण समावर्तनविवाहकम् || ३८ || पृथक् पृथक् क्रियाणां च सप्तचैवाहुतिर्भवेत् | दक्षिणे ब्रह्मणः स्थानं दर्भासनोपरि न्यसेत् || ३९ || प्रणीतामुत्तरे स्थाप्य सपवित्रसमायुतम् | विष्णुस्तत्राधिदैवत्यं गन्धपुष्पादिनार्चयेत् || ४० || प्रोक्षणीपात्रमादाय उदकं सेचयेद्धृदा | कुशेनैव तु विप्रेन्द्र उदकोपवनं कुरु || ४१ || प्. १४७) प्रणीतापात्रमादाय उदकं सेचयेद्धृदा | उत्प्लावनं ततः कुर्यात् प्रणवे नैव निक्षिपेत् || ४२ || आज्यपात्रं समादाय आज्यं चैव तु पूरयेत् | अग्नेरुत्तरभागे तु अंगारकोपरि न्यसेत् || ४३ || स्वदेशे विन्यसेत्तत्र दर्भेणोत्प्लवनं कुरु | आज्याधिश्रयणं कार्यं दर्भानन्दे विनिक्षिपेत् || ४४ || नाग्नौ तु प्रज्वाल्व प्रोक्षयेदम्भसा ततः | स्रुवं चैव तु विप्रेन्द्र क्षालयेद्धृदयेन तु || ४५ || कुशेनैव समायुक्तं अग्रमग्रेण संस्पृशेत् | मध्यं मध्येन संस्पृश्य मूलं मूलेन संस्पृशेत् || ४६ || प्रोक्षयेदम्भसा चैव परिषेचनं तु कारयेत् | अतीते तु मवस्वेति दक्षिणे परिषिञ्चति || ४७ || अनुमतेऽनुमन्यस्वेति पश्चिमे परिषिञ्चति | सरस्वतेऽनुमन्यस्वेति उत्तरे परिषिञ्चति || ४८ || देव सवितः प्रसुवेति समन्तात्परिषिञ्चति | पलाशसमिधश्चैव इध्मं षोडशमेव च || ४९ || तूष्णीमिध्मं तु दातव्यं अघोरं चैव हूयते | प्रजापतये स्वाहेति दक्षिणार्धपूर्वाधके || ५० || इन्द्राय स्वाहेति उत्तरे * * * पूर्वार्धके | सोमाय स्वाहेति मन्त्रेण दक्षिणार्धपूर्वार्धके || ५१ || प्. १४८) अग्निमुखं च होतव्यं पंचब्रह्मेण मन्त्रवित् | एवमेव क्रमेणैव होतव्यं दीर्घजीविना || ५२ || नित्यहोमं च होतव्यं लक्षणेन समन्वितम् | अग्निमर्चयते चैव आज्ये वामेन संयुतम् || ५३ || प्रासादेन तु शिवस्य होमयेत्तु शताहुतिः | गौरीबीजेन तद्वच्च पंचब्रह्मशिवांगकैः || ५४ || विद्येश्वराणां मन्त्राश्च लोकपालान्सहास्त्रकैः | होमयेच्चैव विप्रेन्द्र नित्यहोममिहोच्यते || ५५ || पुनः परिषेचनं कृत्वा नित्योत्सवमथाचरेत् | वर्णाग्निगन्धशब्दानि लक्षयेच्चैव देशिकः || ५६ || आदित्योदयवर्णाभं पद्मरागसमप्रभम् | रक्तपंकजसंकाशं किंशुकस्य समप्रभम् || ५७ || एते द्वादशवर्णानि जातवेदस्तु सिद्धिदम् | उशीरं कुष्ठगन्धं च कर्पूरागरुमेव च || ५८ || चन्दनं जातितक्कोलं कौशिकं तुटिरेव च | पद्मं कुसुमगन्धं च शुभान्येतानि निक्षिपेत् || ५९ || शिखायां लक्षयेत्तत्र पूर्वे चैवोर्ध्व सिद्धिदः | वारुणे शान्तिकं प्रोक्तं सौम्यायां मृत्युनाशनम् || ६० || ऊर्ध्वे तु सर्वकामार्थं लभते नात्र संशयः | आग्नेययामग्निदग्धं च मृत्युं चैव तु याम्यके || ६१ || प्. १४९) नैर्-ऋत्यां युद्धमरणं वायव्यां कलहं भवेत् | ईशान्यां ज्ञानलाभं च शिखानिष्क्रान्तलक्षणम् || ६२ || कांसवद् ध्वनिनाशब्दं मासान्मरणमाप्नुयात् | उलूकध्वनिते वह्नौ कारागृहमवाप्नुयात् || ६३ || पिंगलध्वनिते वह्नौ नृपस्य मरणं भवेत् | वृषभध्वनिते वह्नौ अगम्यागमनं भवेत् || ६४ || अशनिध्वनिते वह्नौ षण्मासान्मरणं भवेत् | खरवद् ध्वनिते वह्नौ अपमृत्युवशं गतः || ६५ || तडित्वद् ध्वनिते वह्नौ भार्याया मरणं भवेत् | गोखरवद्भवेच्छब्दं स्वद्रव्यं तस्करावहम् || ६६ || समुद्रघोषवच्छब्दं मातामरणमाप्नुयात् | गोवच्च ध्वनिते वह्नौ सर्पेण मरणं भवेत् || ६७ || झल्लरीव भवेच्छब्दं चण्डालीगमनं भवेत् | भाण्डवद् ध्वनिते वह्नौ रोगो भवति निश्चयम् || ६८ || श्वानवद् ध्वनिते वह्नौ भ्रूणहत्यामवाप्नुयात् | कपिलध्वनिते वह्नौ सुरापानमवाप्नुयात् || ६९ || बालवद् ध्वनिते वह्नौ विषूच्या मरणं भवेत् | लशुनगन्धं भवेदग्नौ क्षयरोगमवाप्नुयात् || ७० || हिंगुगन्धं भवेदग्नौ प्रमेहं चैव जायते | अतिगन्धं भवेदग्नौ महाज्वरमवाप्नुयात् || ७१ || प्. १५०) मेध्यगन्धं भवेदग्नौ भगन्दरमरणं भवेत् | मूत्रगन्धं भवेदग्नौ पाण्डुरोगमवाप्नुयात् || ७२ || शवगन्धेन वै विप्र संनिपातमवाप्नुयात् | रोमगन्धं भवेद्विप्र कुक्षिरोगमवाप्नुयात् || ७३ || तस्मात्सर्वप्रयत्नेन लक्षयेद्देशिकस्सदा | शुभाशुभं मया प्रोक्तं अग्निदेवस्य पद्मज || ७४ || ग्रहाणामुक्तकालेषु प्रतिष्ठादि मुहूर्तके | परिषेचनं तु कुर्यात्तु तद्दोषशमनाय च || ७५ || होमं कुर्यात्तु विप्रेन्द्र लक्षणेन समन्वितम् | समिदाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान् || ७६ || प्रासादेन तु मन्त्रेण पंचाशत्समिधो हुनेत् | हृदयेनाज्यहोमं तु चरुं च शिखया हुनेत् || ७७ || लाजं वामेन मन्त्रेण सर्षपं सद्यमन्त्रतः | अघोरेण यवं हुत्वा कवचेन तिलानपि || ७८ || सप्तद्रव्येन होतव्यं पंचदशाहुतिं ततः | सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् || ७९ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् | कृत्वान्ते तु यदस्येति स्विष्टकृत् चैव हूयते || ८० || पूर्वेण दक्षिणे चैव पश्चिमे चोत्तरे तथा | ईशान्यां चैव होतव्यं कुण्डे वा स्थण्डिलेऽपि वा || ८१ || प्. १५१) एवं कृते महाशान्तिः राजराष्ट्रसुखावहम् | इन्द्रधनुश्च दृष्ट्वा च तद्दोषशमनाय च || ८२ || एवमेवक्रमं हुत्वा अन्ये दोषैश्च संभवैः | आचार्यपूजनं कृत्वा वस्त्रांगुलीयकादिभिः || ८३ || अग्निकार्यं मया प्रोक्तं नित्योत्सव मतः शृणु || ८३ || इति वीरतन्त्रे अग्निकार्यविधिः एकोनचत्वारिंशः पटलः || ३९ || पितामहः || लोकनाथं प्रणम्याथ ब्रह्मा वचनमब्रवीत् | नित्योत्सवं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || श्रूयतामभिधास्यामि नित्योत्सवं विशेषतः | सर्वपापहरं पुण्यं सर्वलोकसुखावहम् || २ || सर्वशान्तिकरं चैव सर्वारिष्ट विनाशनम् | नित्यं नित्यार्चनान्ते तु नित्योत्सवमथाचरेत् || ३ || राक्षसाश्चासुराश्चैव पिशाचा ब्रह्मराक्षसाः | उच्छिष्टाश्चैव वेताला कूष्माण्डार्हतथागतम् || ४ || तथा मारगृहाश्चैव भूताश्चान्ये मरुद्गणाः | नित्योत्सवस्य शब्दांश्च श्रुत्वागर्जन्ति तत्र वै || ५ || प्रथमं दक्षिणे विप्र तव प्रीतिकराय वै | द्वितीयं प्रदक्षिणं चैव विष्णुप्रीतिकराय च || ६ || प्. १५२) तृतीयं प्रदक्षिणं चैव मम प्रीतिकराय वै | पूर्वाह्ने च तव प्रीति पुष्पलिंगसमन्वितम् || ७ || मध्याह्ने चान्नलिंगं तु मम प्रीतिकरं महत् | साये तण्डुललिंगं स्याद् नारायणप्रियं तथा || ८ || स्थितलिंगे तु विप्रेन्द्र श्रीबलिं चैव कारयेत् | चललिंगेषु सर्वेषु श्रीबलिं च न कारयेत् || ९ || आढकाधीन नैवेद्यं श्रीबलिं च न कारयेत् | एवमेव क्रमेणैव नित्योत्सवं तु कारयेत् || १० || सौवर्णं राजतं वापि ताम्रं वा कांस्यमेव वा | बलिपाकं तु कर्तव्यं लक्षणेन समन्वितम् || ११ || मात्रांगुलेन कर्तव्यं द्वितालमुत्तमं भवेत् | एकतालेन हीनं तु मध्यमं पात्रमुच्यते || १२ || द्व्यंगुलेन हीनं तु मध्यमं पात्रमुच्यते | त्रिपात्रं च त्रिधाहर्म्यं मध्ये पद्मं तु कारयेत् || १३ || ओष्ठमध्यांगुलेनैव कारयेत्तु विचक्षणः | पद्मस्योत्सेधमानं तु एकांगुलमिहोच्यते || १४ || अष्टपद्मसमायुक्तं विद्येशांस्तत्र दैवतान् | एवमेव क्रमेणैव बलिपात्रं तु कारयेत् || १५ || पूर्वोक्तेन विधानेन चरुं चैव तु पाचयेत् | द्विप्रस्थमधमं प्रोक्तं आढकं मध्यमं भवेत् || १६ || प्. १५३) उत्तमं शिवमेवाहुः शालिनां चैव पाचयेत् | अत्युष्णमतिशीतं च आम्लं लवणवर्जितम् || १७ || पाषाणं व्याधितं चैव शोकदं तुषमेव च | कर्णकम्बुसमायुक्तं मारणं तु विनिर्दिशेत् || १८ || एवमेव क्रमं ज्ञात्वा पाचयेद्विधिपूर्वकम् | शिवाग्रे मण्डपं कृत्वा मण्डपस्योत्तरे दिशि || १९ || गोमयेनोपलिप्याथ बलिपात्रं न्यसेद्धृदा | प्रोक्षयेदस्त्रमन्त्रेण कुशेनैव तु वारिणा || २० || चरुं वै हृदयेनैव बलिपात्रे तु विन्यसेत् | क्षीरं वा दधिसंयुक्तमाज्येनैव समायुतम् || २१ || संमिश्रं तु समंचान्नं अन्नलिंगं तु कारयेत् | अष्टांगुलं तु चोत्सेधं द्विगुणं तस्य मूलकम् || २२ || अग्रमष्टांगुलं नाहं आनुपूर्वात्क्षयं भवेत् | अधमं लिंगमित्युक्तं मध्यमं तु ततः शृणु || २३ || दशांगुलं तु चोत्सेधं द्विगुणं तस्य मूलकम् | अग्रमष्टांगुलंनाहं उत्तमं शृणु तत्वतः || २४ || द्वादशांगुलमुत्सेधं द्विगुणं मूलनाहकम् | अग्रं दशांगुलं नाहं अन्नलिंगमिहोच्यते || २५ || त्र्यक्षं चतुर्भुजं रौद्रं ऊर्ध्वकेशं सदंष्ट्रकम् | दक्षिणं हस्तं * * * वामहस्तं कटिस्पृशम् || २६ || प्. १५४) पद्ममध्ये स्थितं देवं सर्वाभरणभूषितम् | एवं स्वरूपकं ध्यात्वा बलिलिंगे तु विन्यसेत् || २७ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव तु पूजयेत् | गन्धं हृदयमन्त्रेण शिखया पुष्पमुच्यते || २८ || सौवर्णं राजतं ताम्रं मृण्मयं वापि कारयेत् | हस्तमात्रं भवेद्दण्डं अग्रे चक्रद्वयं भवेत् || २९ || एवं लक्षणसंयुक्तं दण्डहस्तौ विचक्षणः | प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः || ३० || ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || ३१ || सद्योजातं न्यसेत्पादौ पुनरंगानि विन्यसेत् | हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् || ३२ || शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् || ३३ || सर्वांगेषु च विप्रेन्द्र अस्त्रमन्त्रं न्यसेत्ततः | स्थलिकां चैव चोद्धृत्य हृदयेन तु मन्त्रतः || ३४ || शिरोमन्त्रेण संयुक्तं तस्यां शिरसि निक्षिपेत् | जपेत्पाशुपतास्त्रं च शनैर्गच्छेत्प्रदक्षिणम् || ३५ || न तिष्ठन्तं न शीघ्रं च गच्छेत्पदे पदे ततः | पुरस्तात्प्रतिमं गच्छेल्लिंगं तु तदनु व्रजेत् || ३६ || प्. १५५) कुर्यात्तु पृष्ठतो वापि पादुकं न व्रजेत्ततः | शिवस्याभिमुखं चैव गोमयेनानुलेपयेत् || ३७ || भेरीं तत्रैव विन्यस्य हृदयेन तु मन्त्रतः | गन्धपुष्पादिनाभ्यर्च्य वाद्यकं पूजयेत्ततः || ३८ || वाद्यकान्वादयेत्तत्र पंचध्वनिसमन्वितम् | सुषिरं गानवं चैव शब्दभेदं तथैव च || ३९ || तन्त्रीकृत ततो वाद्यं पंचध्वनिरिहोच्यते | एवं विधिसमायुक्तं वाद्यकान्वादयेत्ततः || ४० || प्रथमं दक्षिणं कुर्याद् अंगिणी तालवाद्यकम् | द्वितीयं दक्षिणं कुर्याद् अष्टताल समन्वितम् || ४१ || पूर्वे तु समहस्तं स्याद् आग्नेययां भृंगिणी तथा | दक्षिणे कदुवाद्यं स्यान् नैर्-ऋत्यां संकरी तथा || ४२ || वारुण्यामुत्कटं चैव वायव्यां कुब्जतालकम् | नटप्रहारं सौम्यायां ऐशान्यां मल्लतालकम् || ४३ || गोपुरो वाद्यनिश्शब्दं शंखध्वनि समायुतम् | बाह्यपीठे क्रमावृत्य प्रासादं त्रिप्रदक्षिणम् || ४४ || त्रिविधं बलिपीठं स्यात् पूर्वतश्चैव दक्षिणे | पश्चिमे वा त्रिसंध्यायां प्रदक्षिणमथाचरेत् || ४५ || पूर्वाह्ने पूर्वपीठे तु मध्याह्ने दक्षिणे तथा | सायाह्ने पश्चिमे चैव बलिमेवं विसर्जयेत् || ४६ || प्. १५६) अथवा चाग्रपीठे तु दक्षिणं बलिरुच्यते | सर्वद्वारे तु कर्तव्यं पूर्वे तु बलिपीठकम् || ४७ || इन्द्रस्य बलितालं तु अग्नेर्मध्यवणं भवेत् | यमस्य भृंगिणी तालं नैर्-ऋत्यां मल्लतालकम् || ४८ || वारुण्यां नवतालं तु वायव्यां नागतालकम् | सौम्ये च कोटिकाः प्रोक्ता ईशान्यण्डंकरी तथा || ४९ || एवमेव क्रमेणैव प्रासादं त्रिः प्रदक्षिणम् | गायं गान्धारपूर्वं स्याद् दक्षिणे कौशिकं तथा || ५० || पश्चिमे कान्तमरं चैव तक्कारागं तथोत्तरे | आग्नेययां चैव कोल्ली च नैर्-ऋत्यां नाट्टभाषया || ५१ || तक्केशी वायुदिग्भागे शाकापाणीशगोचरे | द्वारदेशमनुप्राप्य वृषभस्याधिदैवतम् || ५२ || पादुकं विन्यसेत्तत्र प्रोक्षयेदम्भसा ततः | निर्माल्यं च विसृज्याथ जले चैवाभिषेचयेत् || ५३ || अघोरेण तु दीपं स्यात् सद्येनार्घ्यं तु दापयेत् | अर्चयेत्पादुकौ विद्वान् * * * * * * द्वयोः || ५४ || धरित्रीं चैव पूर्वे तु धरणीं दक्षिणेन तु | पृथिवीं पश्चिमे न्यस्य मेदिनीं चोत्तरे न्यसेत् || ५५ || वामा ज्येष्ठा च रौद्री च काली कलविकरिणी | बलविकरिणी बलप्रमथिनी सर्वभूतमनोन्मनी || ५६ || प्. १५७) पूर्वादीशानपर्यन्तं विन्यसेदष्टशक्तिभिः | मनोन्मनी न्यसेन्मध्ये अर्चयेद्गन्धपुष्पकैः || ५७ || प्रविशेदालयं तत्र विन्यसेत्पूर्वमण्डले | विसर्जयेत्तु चास्त्रेण नमस्कारं तु कारयेत् || ५८ || तदन्ते कारयेन्नृत्तं भरतोक्तेन मार्गतः | गणिकां स्नापयेत्तत्र गन्धपुष्पादिनार्चयेत् || ५९ || तदग्रे मण्डलं कृत्वा शिवं संपूजयेत्ततः | तस्य दक्षिणपार्श्वे तु ब्रह्माणं पूजयेत्ततः || ६० || मध्ये न लंघयेत्तत्र लंघनात्स्नपनं भवेत् | अष्टोत्तरशतं नृत्तं भावयेद्गणिका ततः || ६१ || नृत्तस्यान्ते तु विप्रेन्द्र देवं देवीं विसर्जयेत् | अग्निमुखीकरणं यत्तु तदा वाहनमुच्यते || ६२ || पूजापरिसमाप्तौ तु विमुखं तद्विसर्जयेत् | प्रदक्षिणत्रयं कृत्वा नमस्कारं तथैव च || ६३ || लिंगे सव्यापसव्यं तु प्रासादादिषु विसर्जयेत् | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ६४ || पर्यष्टिपरिवारांश्च ततो न्यासे व तेजनाः | शिवलोकमवाप्नोति शिववन्मोदते सदा || ६५ || नित्योत्सवमिदं प्रोक्तं परिवारांच्छृणुष्वथ || ६५ || इति वीरतन्त्रे नित्योत्सव विधिश्चत्वारिंशः पटलः || ४० || प्. १५८) प्रणम्य शिरसा देवं पृच्छतिस्म पितामहः | परिवारं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || यत्सर्वं तु त्वया पृष्ठं श्रूयतां कमलासनं | परिवारं प्रवक्ष्यामि यथाविधि पुरस्सरम् || २ || अन्तर्मण्डलके कुर्याद् देशे चण्डेश्वरालयम् | पुरतो वृषभस्थानं स्थापयेद्वृषभं ततः || ३ || आग्नेययां चैव देशे तु दुर्गां स्थाप्य विशेषतः | ईशान्यां शैव विप्रेन्द्र भास्करं विन्यसेत्ततः || ४ || एवं * * * हारे तु विन्यसेदष्टदैवतान् | इदमन्यप्रकारेण वक्ष्येहं चतुरानन ! || ५ || पश्चिमद्वारगेहस्य वृष पश्चिमे वृषभे न्यसेत् | दक्षिणे मातृदेवांश्च विघ्नेशं नैर्-ऋते तथा || ६ || वारुण्यां स्थापयेत्तत्र कुमारं वाप्यजं भवेत् | ज्येष्ठां वायव्यदेशे तु विष्णुं चोत्तरदेशके || ७ || वायव्यां चैव ज्येष्ठां च सर्वयत्नेन देशिकः | उत्तरायां दिशि चैव दुर्गां देवीं च विन्यसेत् || ८ || ऐशान्यां चैव विप्रेन्द्र क्षेत्रपालो विधीयते | पूर्वे तु भार्गवस्थानं कुमारं * * * * * || ९ || दुर्गां चैवेश दिग्भागे भास्करं पूर्वतो न्यसेत् | आग्नेययां गणपतिंस्थाप्य विन्यसेत्तु दैवतान् || १० || प्. १५९) उत्तरद्वारगेहस्य उत्तरे वृषगोचरे | दक्षिणद्वारगेहस्य दक्षिणे वृषभालयम् || ११ || मातृस्थानं च नैर्-ऋत्यां सुब्रह्मण्यं तु वारुणे | ज्येष्ठां च वायुदेशे तु (उत्तरे) विष्णुरुच्यते || १२ || ऐशान्यां भास्करं न्यस्य पूर्वन्ते विष्णुरुच्यते | दुर्गामाग्नेयदिग्भागे क्षेत्रपालं तु विन्यसेत् || १३ || इन्द्र आग्नेययोर्मध्ये अश्विनी द्वौ तु विन्यसेत् | मर्यादा वीरदिग्भागे याम्ये मातृगणाः स्मृता || १४ || नैर्-ऋत्यां विघ्नराजं तु कुमारं वारुणे भवेत् | वायव्यां विन्यसेज्ज्येष्ठां विशेषेण विचक्षणः || १५ || एवमेव क्रमेणैव अन्तर्हारे तु विन्यसेत् | षोडशद्वारदेवांश्च वक्ष्यामि मुनिसत्तम || १६ || दक्षिणानलयोर्मध्ये सप्तरोहिणी विन्यसेत् | यमनैर्-ऋतयोर्मध्ये वसवोऽष्टौ च विन्यसेत् || १७ || सोम ईशानयोर्मध्ये अप्सरोगणमुच्यते | वरुण वायव्ययोर्मध्ये ऋषीणां स्थानमुच्यते || १८ || वायव्यसोमयोर्मध्ये वसवोऽष्टौ च विन्यसेत् | सोम ईशानयोर्मध्ये अष्टनागं प्रकल्पयेत् || १९ || इन्द्र-ईशानयोर्मध्ये द्वादशादित्यमेव च | एवमेव प्रकारेण मर्यादौ च विन्यसेत् || २० || प्. १६१) पितामहः || प्रणम्य शिरसादेवं पर्यपृच्छत्पितामहः | रक्षादीपं कथमेतत् तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || यत्सर्वं तु त्वया पृष्टं तत्सर्वं शृणु पद्मज ! | रक्षादीपं विशेषेण त्रिविधं चोच्यते मया || २ || शान्तिकं पौष्टिकं चैव कामदं च त्रिधा भवेत् | सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा || ३ || स्थालिका च प्रकर्तव्या त्रिंशदंगुल विस्तरा | पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा || ४ || मध्यमे तु समायुक्तं पंच कुम्भानि विन्यसेत् | अष्टांगुलसमुत्सेधं * * * * * * भवेत् || ५ || कुम्भोर्ध्वे दीपं संस्थाप्य शिल्पिना कारयेत्ततः | पादं चैव दशांगुल्यं उत्सेधं तु विधीयते || ६ || विस्तारं तावदेवाहुः दीपपात्रं च कारयेत् | * * * * * संयोज्य रक्षादीपं तु कारयेत् || ७ || एतच्छान्तिकमित्युक्तं पौष्टिकं च ततः शृणु | विस्तारं तु चतुर्विंशद् अंगुल्या स्थलिता भवेत् || ८ || शालिपिष्टं न्य * * * * * * * * * * * | एतत्पौष्टिकमित्युक्तं कामदं च ततः शृणु || ९ || स्थलितां पूर्ववत्कृत्वा सप्तपात्रं च विन्यसेत् | सप्तपात्रा * * * * के तेषामूर्ध्वे तन्तथा || १० || प्. १६२) एतत्कामदमित्युक्तं त्रिविधं प्रोच्यते मया | निन्नित्याने कुर्यात् तस्यान्नंदीपमुच्यते || ११ || सायाह्ने शयने कुर्याद् यक्षेश्वरीं च पूजयेत् | नित्याग्नि कुण्डे विप्रेन्द्र ! * * * * * दीपयेत् || १२ || तस्य दक्षिणभागे तु मण्डलं चतुरश्रकम् | स्थलिकां विन्यसेत्तत्र शिखामन्त्रेण संयुतम् || १३ || गोघृतेन समायुक्तं तिलतैलेन वा पुनः | वर्तिं तत्रैव * * * * * * दीपयेत्ततः || १४ || प्रासादेन तु मन्त्रेण मध्यमे दीपमुच्यते | पूर्वे तु पुरुषं चैव अघोरं दक्षिणेन तु || १५ || सद्यं पश्चिमतो न्यस्य वामदेवं तु चोत्तरे | ईशानेन तु मन्त्रेण व्योमव्यापि समन्वितम् || १६ || पूजयेत्तु विशेषेण शिरसोपरि धापयेत् | गणिका (वाथ) दासी वा धारयेद्दीपमुत्तमम् || १७ || मन्त्रगेय समायुक्तं गणिकानृत्तसंयुतम् | * * * * समायुक्तं शंखध्वनि समायुतम् || १८ || भेरी मृदंगवाद्यैश्च स्तोत्रशब्दैस्समन्वितम् | गच्छ प्रदक्षिणं तत्र निनयेच्छिवसंनिधौ || १९ || त्रिपादीं मध्यमे न्यस्य संप्रोक्ष्यास्त्रेण वारिणा | ईशानेन तु मन्त्रेण अर्चयेद्दीपमेव च || २० || प्. १६३) पुष्पेण दीपं संयोज्य लिंगमूर्धनि वर्जयेत् | एकं वापि त्रयं वापि प्रदक्षिणमथाचरेत् || २१ || विसर्जयेत्तु निर्माल्यं बाह्यपीठे तु विन्यसेत् | एतच्छान्तिकमित्युक्तं पौष्टिकं च ततः शृणु || २२ || शिवाग्रे मण्टपं कुर्याद् त्रिपात्तत्रैव विन्यसेत् | विन्यसेत्स्थलिकां तत्र हृदयेन तु मन्त्रतः || २३ || पिष्टं वामेन संस्थाप्य प्रोक्षयेत्तु हृदा तथा | गर्भगेहस्थितोर्ध्वे तु * * वर्ति सयेत्ततः || २४ || पूजयेदस्त्रमन्त्रेण प्रोक्षयेदम्भसा ततः | हृदयेन तु मन्त्रेण दीपं दद्याच्छिवस्य तु || २५ || एकं वापि त्रयं वापि लिंगं चैव प्रदक्षिणम् | * * जपेत्ततो मन्त्री भस्मं शिरसि निक्षिपेत् || २६ || शिवस्य रक्षो पूजीत सर्वप्राणि हिताय च | एवं पौष्टिकमेवा तु कामदं शृणु तत्वतः || २७ || अग्निकुण्डेपि वा कुर्याद् गर्भगेहेऽपि वा पुनः | सप्तपात्रे तु विप्रेन्द्र दीपं संयोजयेत्ततः || २८ || पौष्टिकस्य क्रमेणैव कुर्याद्वै देशिकस्तथा | शिवे दीपं सुसंयोज्य विसर्जयेत्तु वा मतः || २९ || एतत्कामदमित्युक्तं समासात्कथयामि ते | उत्तमं दीपमाख्यातं सप्तांगुलसमुच्छ्रयम् || ३० || प्. १६४) पंचांगुलं तु मध्यं स्यात् त्र्यंगुलमधमोच्छ्रयम् | उत्तमं गोघृतं चैव मध्यमं ज संभवम् || ३१ || अधमं तैलमेवाहुः वस्त्रपूतं तु कारयेत् | दूर्वाक्षतैश्च संयुक्तं दर्पणं भस्ममेव च || ३२ || पाद्यमाचमनं चार्ध्यं गन्धं पुष्पं च धूपकम् | दीपस्य दर्शनादूर्ध्वं शिवे दद्याद्विशेषतः || ३३ || यक्षेश्वरीस्वरूपं तु शृणुष्व कमलासन ! | यान्तेनैव समायुक्तं ईकारस्वरसंयुतम् || ३४ || ओंकारादि नमोन्तं च मध्ये यक्षेशि बीजकम् | एतन्मन्त्रं परं गुह्यं तव स्नेहात्प्रकाशितम् || ३५ || द्विभुजं चैकवक्त्रं च द्विपादं च द्विनेत्रकम् | करण्डमकुटोपेतं सौम्यरूपं सुलोचनम् || ३६ || दीपमध्ये न्यसेद्देवीं अंजल्यमनस्कृतम् | एवं विधस्वरूपं तु ध्यात्वा वै पूजयेत्ततः || ३७ || वामाज्येष्ठा च रौद्री च काली कलविकरिणी | बलविकरणी बलप्रमथिनी सर्वभूतदमन्यथ || ३८ || पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः | मध्ये मनोन्मनीं न्यस्य पूजयेद्देवि बाह्यतः || ३९ || सोमांगारबुधाश्चैव जीवशुक्रशनैश्चरान् | राहुकेतुं च विप्रेन्द्र तद्बाह्ये पूजयेत्ततः || ४० || प्. १६५) इन्द्रश्चाग्नियमौ चैव निर्-ऋतिर्वरुणोऽथ च | सोमेशानसमायुक्तं ताद्बाह्ये पूजयेत्ततः || ४१ || एवमेव क्रमेणैव यक्षेश्वरीं च पूजयेत् | भस्म दद्याच्छिवे तत्र दद्याच्छेषं जनाय च || ४२ || सायाह्ने शयने कुर्याद् एवमेव क्रमेण तु | परिषेचनकाले तु रक्षादीपं करोति यः || ४३ || सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् | रक्षादीपं मया प्रोक्तमंकुरार्पणकं शृणु || ४४ || इति वीरतन्त्रे रक्षादीपविधिद्विचत्वारिंशः पटलः || ४२ || प्रणम्य शिरसा देवं पृच्छतिस्म पितामहः | अंकुरार्पणकं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || मंगलांकुरकर्मं तु यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! || २ || प्रथमं ध्वजांकुरं ज्ञेयं द्वितीयं चोत्सवांकुरम् | उत्सवांकुरमेवोक्तं तृतीयं तु विशेषतः || ३ || तीर्थांकुरं चतुर्थं स्याच्चण्डांकुरं तु पंचमम् | अथवात्र्यंकुरं विद्याद् ध्वजांकुरं तु चोच्यते || ४ || तीर्थांकुरसमायुक्तमंकुरांकुरमुच्यते | स्थापने प्रोक्षणे यागे उत्सवे स्नपनेऽपि च || ५ || प्. १६६) अन्ये च मंगले कार्ये मंगलांकुरमुच्यते | श्रीकरं श्रीनिवासं च श्रीप्रदं च त्रिधा भवेत् || ६ || पूर्वाग्रं तु चतुस्सूत्रं उत्तराग्रं तथैव च | कृत्वा नवपदं तत्र दैवतांश्च शृणुष्वथ || ७ || पदे पूर्वे तु ऋग्वेदं आग्नेययां तेज उच्यते | दक्षिणे तु यजुर्वेदं एकारं चैव निर्-ऋते || ८ || पश्चिमे तु पदे चैव सामवेदं तथैव च | वायव्ये पवनश्चैव अथर्वं सोमके पदे || ९ || आपश्चैव तु ईशान्यां मध्ये वाम प्रतिष्ठितम् | मध्यमे तु पदे चैव सोमकुम्भं प्रतिष्ठितम् || १० || घटिकां दिक्षु विन्यस्य पालिकां च विदिक्षु च | एतच्छ्रीकरमित्युक्तं श्रीनिवासमतः शृणु || ११ || पूर्वाग्रं पंचसूत्रं स्याद् उत्तराग्रं तथैव च | षोडशान्पदमेवाहुः देवपादां शृणुष्वथ || १२ || ईशानो जयन्त आदित्यः अग्निश्च वितयो यमः | सुग्रीवो वरुणः शोष मुख्य सोमादितिस्तथा || १३ || ब्रह्मा चतुष्पदे चैव मध्यमे तु व्यवस्थितः | ईशानोग्निश्च सुग्रीवो मुख्यस्य तु पदानि च || १४ || पालिकां विन्यसेत्तत्र घटिकास्थानमुच्यते | जयन्तो वितथश्चैव वरुणस्सोम एव च || १५ || प्. १६७) घटिकास्थानमेवोक्तं शरावस्थानकं शृणु | आदित्यश्च यमश्चैव शोषश्चैव दिति स्थितः || १६ || * * * सोमकुम्भं तु परितो द्वादश न्यसेत् | एतद्वै श्रीनिवासं तु श्रीप्रदं च शृणुष्वथ || १७ || षट्सूत्रं चैव पूर्वाग्रं उत्तराग्रं तथैव च | पंचविंशत्पदं कृत्वा पूजयेत्क्रमशस्तथा || १८ || ईशो जयन्त आदित्यो भ्रमोऽग्निर्निर्-ऋतो यमः | स्वभृंगश्च सुग्रीव वरुणाः शोषमारुतौ || १९ || मुख्यस्सोमोदितिश्चैव बाह्यदेवाः प्रकीर्तिताः | आपवत्सार्य सावित्री विवस्वानिन्द्रमित्रका || २० || रुद्रेरो भूतरश्चान्तर मध्ये ब्राह्मणमुच्यते | ब्रह्मणश्च पदे चैव स्थापयेत्सोमकुम्भकम् || २१ || ईशानं च जयन्तं च अग्निं च वितयं तथा | पितृदौवारिकौ चैवं मरुतश्चैव मुख्यकः || २२ || पालिका विन्यसेत्तत्र शरावं च शृणुष्वथ | आदित्यश्च प्रथश्चैव यमश्चैव तु भृंगराट् || २३ || वरुणश्चैव शोषश्च सोमश्च अदितिस्तथा | शरावान्विन्यसेत्तत्र घटिकांश्च शृणुष्वथ || २४ || आपश्चैवा पवत्सादि देवाष्टौ स्थानमुच्यते | लक्षणं संप्रवक्ष्यामि शृणुष्व चतुरानन ! || २५ || प्. १६८) सौवर्णं राजतं ताम्रं मृण्मयं वापि कारयेत् | तत्रांगुलेन कर्तव्यं पालिकादीनि चैव हि || २६ || पालिकामुखविस्तारं विंशत्यंगुलमुत्तमम् | षोडशांगुलं मध्यं स्याद् अधमं च दशांगुलम् || २७ || विस्तारेण समोत्सेधं तदर्धं पादविस्तरम् | परितोष्टौ च विप्रेन्द्र षड्भागैकमिति स्मृतम् || २८ || मध्यमे बलि संयुक्तं दर्पणोदरवत्कृतम् | घटस्योत्सेधमानं तु पालिकासममेव च || २९ || घटस्योदरविस्तारं द्वादशांगुलमुच्यते | वक्त्रं चैव षडंगुल्यं पंचवक्त्र समन्वितम् || ३० || पालिकापादवत्कुर्याद् घटलक्षणमुच्यते | वक्त्रं चैव षडंगुल्यं पंचवक्त्र समन्वितम् || ३१ || अष्टांगुलं तु विस्तारं शरावस्य मुखे भवेत् | तदर्धं पाद विस्तारं त्रिपादं वा समुच्यते || ३२ || भेदच्छेदं च कालं च सुषिरं च विवर्जयेत् | घटिका ब्रह्मदैवत्यं पालिका विष्णुरुच्यते || ३३ || शरावस्येश्वरं प्रोक्तं इत्येते अधिदैवताः | चतुर्विंशति संख्या तु उत्तमं तु विनिर्दिशेत् || ३४ || पालिका षोडशं चैव मध्यमं तद्विनिर्दिशेत् | पालिकाष्टकसंयुक्तं अधमं तदिहोच्यते || ३५ || प्. १६९) उत्सवस्यादिरात्रात्तु बीजनिर्वापमुच्यते | नवमे सप्तमे वापि त्रिशूलेन समन्वितम् || ३६ || प्रतिमेन समायुक्तं चण्डेशेन समन्वितम् | तदन्ते पालिकादीनि धारयेच्छिवभक्तकान् || ३७ || प्राङ्मुखोदङ्मुखोवाथ दक्षिणो वा विशेषतः | सुशुद्धभूतलं प्राप्य प्रोक्षयेच्छुद्धवारिणा || ३८ || पुण्याहं वाचयित्वा तु अर्चयेद्धृदयेन तु | कुन्दालीं चैव संपूज्य हृदयेन तु मन्त्रतः || ३९ || हृदयेन तु मन्त्रेण खानयेद्देशिको भुवि | मृदं संग्राह्य वामेन वामेन मृदमर्चयेत् || ४० || सर्वातोद्यसमायुक्तं प्रविशेदालयं प्रति | प्रासादस्याग्रतो वापि ईशाने दक्षिणेऽथ वा || ४१ || उत्तरे वापि विप्रेन्द्र गोमयेनानुलेपयेत् | अष्टद्रोणेन शालिस्यात्स्थण्डिलं कारयेत्ततः || ४२ || पद्ममष्टदलं लिज्य प्रोक्षयेद्धृदयेन तु | मध्यमे सोमकुम्भं तु विन्यसेत्सोमबीजकैः || ४३ || स कूर्चं स हिरण्यं च सवस्त्रं वारिपूरितम् | गन्धपुष्पादिनाभ्यर्च्य नैवेद्यं दापयेत्ततः || ४४ || तद्बाह्ये पूर्वं विन्यस्य पालिकादीनि सर्वशः | दर्भेण सुषिरं न्यस्य मृदं तत्रैव पूरयेत् || ४५ || प्. १७०) गोमयेन समायुक्तं पूजयेद्धृदयेन तु | पुण्याहं तत्र कुर्वीत ताम्बूलं दापयेत्ततः || ४६ || मुद्गमाषकुलस्थं च तिलनीवारमेव च | निष्पावं शिम्बसंयुक्तं अपामार्गं च सर्षपम् || ४७ || श्यामगोधूमसंयुक्तं यववेणुं तथैव च | पयसा क्षालयेत्तत्र हृदयेन तु मन्त्रतः || ४८ || प्राङ्मुखोदुङ्मुखो वापि आचार्यो मन्त्रविग्रहः | वापयेच्छिवमन्त्रेण शिवभक्ताश्च वापयेत् || ४९ || रुद्रगणिका दासी च वापयेत्तु विशेषतः | सोमाधिदेवतान्कुम्भात्परिषिच्य ततो जलम् || ५० || पालिकादीनि सर्वांश्च वातातपविवर्जिते | सुगुप्तदेशे संस्थाप्य सोमकुंभेन संयुतम् || ५१ || तद्दिनादीनि तीर्थान्तं सोमराजस्य देशिकः | हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः || ५२ || कृष्णसूत्रनिभं चेत्तु प्रासादेन शताहुतिः | होमयेच्चैव विप्रेन्द्र अपूपानि तथैव च || ५३ || एवमेव क्रमेणैव अंकुरार्पणमुच्यते | अंकुरार्पणहीने तु राजराष्ट्रस्य दोषकृत् || ५४ || तस्मात्सर्वप्रयत्नेन कुर्याद् (वै) मंगलांकुरम् | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ५५ || अंकुरार्पणमेवोक्तं उत्सवस्य विधिं शृणु || ५५ || इति वीरतन्त्रे अंकुरार्पणविधिस्त्रयश्चत्वारिंशः पटलः || ४३ || प्. १७१) प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः | उत्सवस्य विधिः को वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || उत्सवं यत्त्वया पृष्टं तव स्नेहाद्विशेषतः | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! || २ || सवों दुःखं समाख्यातं सर्वसंपत्तिवारणम् | उद्गतं तु सवों यस्मात् तस्मादुत्सवमुच्यते || ३ || दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणान्ते तथैव च | ज्वरमार्या प्रकर्तन्तु शूत्रूणां पीडनेऽपि वा || ४ || धनधान्यसमृद्धाय क्षामक्षयकराय च | सर्वेषामिष्टकाम्यार्थं सर्वव्याधिविनाशनम् || ५ || एषु कालेषु कुर्यात्तु उत्सवं विधिना युतम् | द्विविधमुत्सवं चैव तयोर्भेदं शृणुष्वथ || ६ || मार्गशीर्षकमासे तु आर्द्रान्तं स्याद् शिवोत्सवम् | पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् || ७ || फाल्गुने चोत्तरान्तं स्याच्चैत्रे चित्रान्तमुच्यते | वैशाखे तु विशाखान्तं ज्येष्ठान्तं ज्येष्ठमासके || ८ || आषाढे चोत्तराषाढं श्रावणे श्रवणान्तकम् | पूर्वाषाढे तु मेवोक्तं पूर्वभद्रेति मासकम् || ९ || अश्वयुक्सवमासे तु अश्विन्यन्तं तु कारयेत् | कार्तिके कृत्तिकान्ता तु कारयेत्तु शिवोत्सवम् || १० || प्. १७२) सर्वमासेषु कर्तव्यं आर्द्रान्त च शिवोत्सवम् | राज्ञां जन्मदिनान्ते वा ग्रामनक्षत्रमेव वा || ११ || कर्तुश्च जन्मनक्षत्रे कुर्यादुत्सवमुच्यते | शैवं गौणं विभूतिं च भौवनं दैविकं तथा || १२ || पंचभेदेन कर्तव्यं शिवोत्सव विधिक्रमम् | एतेषां भेदकं वक्ष्ये शृणुष्व कमलासन ! || १३ || शैवभेदं समाख्यातमेकाहमुत्सवं ततः | त्रियहेन समायुक्तं गौणमित्यभिधीयते || १४ || पंचाहं भौतिकं प्रोक्तं सप्ताहं भौवनं स्मृतम् | एतेषां तु क्रमाणां तु वक्ष्यते विधिनाऽधुना || १५ || सायंकाले समारभ्य तत्पूर्वं रात्रिसंयुतम् | प्रातःकाले तु तीर्थं स्यादेकाहे तु बलिद्वयम् || १६ || इदमन्यप्रकारेण एकाहमुत्सवं शृणु | सायंकाले समारभ्य तद्रात्रौ चाधिवासयेत् || १७ || होमं कुर्यात्तु तद्रात्रौ तदादौ बलिमाहरेत् | बलिमेकं मया प्रोक्तं एकाहे चोत्सवे तथा || १८ || अपरैश्चैव विप्रेन्द्र तीर्थं कुर्यात्तु देशिकः | एवमेव क्रमेणैव विविधं चोच्यते मया || १९ || त्रियहेषु च विप्रेन्द्र सायंकाले तदारभेत् | प्रातःकाले तृतीये स्याद्बलिर्विप्र षडेव तु || २० || प्. १७३) द्वितीये तु दिने चैव बलिद्वयं तु कारयेत् | तृतीये तु दिने चैव बलिरेको विधीयते || २१ || बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् | चूर्णोत्सवान्ते तीर्थं स्याद्द्विविधं चोच्यते मया || २२ || पंचांगं तु प्रवक्ष्यामि शृणुष्व कमलासन ! | सायंकाले समारभ्य तत्पूर्वं होममाचरेत् || २३ || पंचाहे तु च विप्रेन्द्र बलिं तत्र न कारयेत् | षष्ठाहे तु च पूर्वाह्ने चूर्णोत्सवं तु कारयेत् || २४ || तीर्थं चैव प्रकर्तव्यं इति चान्यच्छृणुष्वथ | सायंकाले समारभ्य तद्रात्रौ चाधिवासयेत् || २५ || होमं कुर्यात्तु तद्रात्रौ तद्रात्रौ बलिमाहरेत् | द्वितीये तु दिने चैव बलिरेको विधीयते || २६ || बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् | चूर्णात्सवान्ते तीर्थं स्याद् द्विविधं चोच्यते मया || २७ || पंचाहं तु प्रवक्ष्यामि शृणुष्व कमलासन ! | सायंकाले समारभ्य तत्पूर्वं दिनमारभेत् || २८ || पंचाहे तु च विप्रेन्द्र ! बलिं तत्र न कारयेत् | षष्ठाहे तु च पूर्वाह्ने चूर्णोत्सवं तु कारयेत् || २९ || तीर्थं चैव प्रकर्तव्यं इति चान्यच्छृणुष्वथ | सायंकाले समारभ्य पंचाहं स्याद्दिने तथा || ३० || प्. १७४) होमं कुर्यात्तु तद्रात्रौ बलिरेको विधीयते | द्वितीये च तृतीये च चतुर्थे च बलिद्वयम् || ३१ || पंचाहे बलिरेकः स्याच्छेषोत्सवं तु कारयेत् | कुर्याद्वै तीर्थकर्मं तु द्विविधं चोच्यते मया || ३२ || सप्ताहे चैव वक्ष्यामि शृणुष्व कमलासन ! | अष्टाहे चैव सायाह्ने अधिवासनमारभेत् || ३३ || होमं कुर्यात्तु तद्रात्रौ बलिं चैव पुनः पुनः | चतुर्दशबलिं दद्याच्चूर्णोत्सवं च कारयेत् || ३४ || तीर्थं कुर्याद्विशेषेण इदमन्यच्छृणुष्वथ | सप्ताहे सायंमारभ्य अधिवास्य ततो बुधः || ३५ || होमं कुर्यात्तु तद्रात्रौ बलिमेकं ददेत्पुनः | द्वितीये दिवसे चैव (तृतीये च चतुर्थके) || ३६ || (पंचमे षष्ठे) विप्रेन्द्र बलिद्वयं समाचरेत् | सप्ताहे बलिरेवं स्याद् बल्यन्ते चूर्णमुच्यते || ३७ || ततस्तीर्थं समारभ्य * * * * * मुत्तमम् | सप्ताहे द्विविधं प्रोक्तं नवाहं च शृणुष्वथ || ३८ || तत्पूर्वरात्रमारभ्य तद्रात्रौ चाधिवासयेत् | होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् || ३९ || तद्दिनादिद * * * तत्काले बलिरुच्यते | चूर्णोत्सवं ततः कुर्यात् तीर्थं कुर्यात्ततो बुधः || ४० || प्. १७५) इदमन्यत्प्रवक्ष्यामि शृणुष्व कमलासन ! | नवाहे चैव सायाह्ने अधिवासनमारभेत् || ४१ || होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् | द्वितीये दिवसे चैव तृतीये तु चतुर्थके || ४२ || पंचाहे चैव षष्ठाहे द्वितीयं बलिमाचरेत् | नवाहेऽपि च विप्रेन्द्र बलिना द्वितयं भवेत् || ४३ || चूर्णोत्सवं ततः कुर्यात् तीर्थकर्म समारभेत् | नवाहं द्विविधं चैव प्रोच्यते कमलासन ! || ४४ || एवमेव क्रमेणैव कुर्यात्पंचविधानि च | सूर्यवारं प्रवक्ष्यामि शृणुष्व कमलासन ! || ४५ || प्रातः काले समारभ्य द्विगुणं पूजयेच्छिवम् | पुण्याहं वाचयेत्तत्र हविर्निवेदयेत्ततः || ४६ || इन्द्रादीशानपर्यन्तं लोकपालान्बलिं ददेत् | नित्योत्सवस्य काले तु कुर्याद्ग्राम प्रदक्षिणम् || ४७ || रथे वा शिबिकायां वा शिरसा वाहयेत्ततः | प्रविशेदालयं तत्र पादुकार्चनमाचरेत् || ४८ || सूर्यवारमिदं प्रोक्तं शनिवारं शृणुष्वथ | लिंगे वा प्रतिमायां वा तैलाभ्यंगमिहोच्यते || ४९ || अभिषेकं तु कर्तव्यं हृदयेन तु मन्त्रतः | हविर्निवेदयेत्पश्चाल्लोकपालबलिं क्षिपेत् || ५० || प्. १७६) शैवान्संपूजयेत्तत्र परिवेषक्रमं कुरु | ग्रामप्रदक्षिणं कुर्यात् सर्वातोद्य समन्वितम् || ५१ || मार्ताण्डीयं प्रवक्ष्यामि शृणुष्व कमलासन | सायंकाले समारभ्य प्रातःकाले बलिं ददेत् || ५२ || तीर्थान्ते पूर्वरात्रौ तु लोकपालबलिं क्षिपेत् | मण्टपाद्दक्षिणे पार्श्वे स्थापयेत्कलशान्नव || ५३ || ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् | समिदाज्यचरुं चैव हुत्वा वै पंचविंशतिः || ५४ || अन्नलिंगसमायुक्तं अस्त्रराजसमन्वितम् | बलिं दद्यात्तु विप्रेन्द्र सायंकाले विशेषतः || ५५ || ततः प्रभाते प्रतिमां कुर्याद्ग्राम प्रदक्षिणम् | तीर्थं कुर्यात्ततो बिद्वान्प्रविशेदालयं प्रति || ५६ || एवमेव क्रमेणैव बुधवारे विशेषतः | मार्ताण्डीयमिदं प्रोक्तं * * रम्भं शृणु द्विज ! || ५७ || अंकुरार्पण पूर्वं च ध्वजारोहणपूर्वकम् | भेरीताडनपूर्वं च त्रिविधं चोच्यते मया || ५८ || अंकुरानर्पयेद्विद्वान् ध्वजमारोपयेत्ततः | भेरीं तु ताडयित्वा तु अंकुरार्पण पूर्वकम् || ५९ || ध्वजमारोपयेद्विद्वान् भेरी ताडनपूर्वकम् | एवमेव क्रमेणैव त्रिविधं चोच्यते मया || ६० || प्. १७७) तद्दिनं चैव विप्रेन्द्र द्विगुणीकृतरोपयेत् | द्विगुणीकृत्य वा कुर्याद् ध्वजमारोपयेत्ततः || ६१ || उत्सवस्यादि रात्रौ तु ध्वजारोहणमुच्यते | भौवने दैविके कुर्याद् अन्येषु च विवर्जयेत् || ६२ || समुद्रस्नानमुत्पन्ने पूर्वयुक्तो विधीयते | यत्पक्षे यद्दिने वारे अस्तं याति दिवाकरः || ६३ || तद्दिने संक्रमे भागं दिवा तीर्थं च निश्चयः | अन्येषां तिथि न स्पृष्टं तस्मात्पूर्वं विधीयते || ६४ || तद्दिनेषु च वा कुर्यात् तत्पूर्वे चापरेऽपि वा | इतरेषां च विप्रेन्द्र तन्नदीषु न कारयेत् || ६५ || नदीतटाकतीरेषु नक्षत्रे तीर्थमुच्यते | यत्पक्षे वारे अस्तं याति दिवाकरः || ६६ || तद्दिने संक्रमे भागे दिवा तीर्थं च निश्चयः | शिवस्य च व्रतं कुर्यात् स्नपनं तदनन्तरम् || ६७ || एवमेव क्रमेणैव उत्सवं कारयेत्ततः | उत्सवारम्भमेवोक्तं वृषयागमतः शृणु || ६८ || वृषयागं प्रवक्ष्यामि शृणुष्व कमलासन ! | प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् || ६९ || मण्टपस्य तु तन्मध्ये कुर्यात्तद्वृषयागकम् | दर्भमालाभिरावेष्ट्य पुष्पमाला वलम्बितम् || ७० || प्. १७८) इन्द्रादीशानपर्यन्तं अष्टदिक्षु ध्वजाष्टकम् | लोकपालाधिदैवत्यं स्वस्वरूपं तु लांच्छयेत् || ७१ || विन्यसेत्तु ध्वजांस्तत्र चतुस्तोरणभूषितम् | वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलंकृतम् || ७२ || वृषदेवं समभ्यर्च्य गन्धपुष्पादिना ततः | मुद्गान्नं चैव दातव्यं उपदंशैस्समन्वितम् || ७३ || तदग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः | अष्टद्रोणेन शालिं तु तदर्धं तण्डुलैरपि || ७४ || तदर्धं तु तिलान्न्यस्य पद्मं कृत्वा विशेषतः | तस्योपरि न्यसेत्तत्र कलशान्नवसंख्यया || ७५ || मध्यमे स्थापयेदेकं ससूत्रान्सापिधानकान् | पूरयेद्गन्धतोयेन सुवर्णं तत्र निक्षिपेत् || ७६ || वृषबीजमनुस्मृत्य गन्धपुष्पादिनार्चयेत् | पूर्वादीशानपर्यन्तं विन्यसेदष्टकुम्भकान् || ७७ || पाद्यं पूर्वं न्यसेत्तत्र आग्नेययां पुष्पमुच्यते | आचमनं दक्षिणेन्यस्य शुद्धोदकं तु नैर्-ऋते || ७८ || अर्घ्यं पश्चिमतो न्यस्य बिल्वोदकं तु वायवे | उत्तरे पंचगव्यं तु ईशाने रत्नोदकं न्यसेत् || ७९ || गन्धादिनार्चयेत्तत्र दैवतान्विन्यसेत्ततः | वृषभं मध्यमे न्यस्य उक्षाणं पूर्वतो न्यसेत् || ८० || प्. १७९) गोपतिं चाग्निदिग्भागे शृंगिणं चैव दक्षिणे | नैर्-ऋत्यां नन्दिनं चैव पश्चिमे तु पशोः पतिम् || ८१ || विषाणिं वायुदिग्भागे शंकुकर्णं तथोत्तरे | महोदकं तथैशान्यां विन्यसेत्कलशेषु च || ८२ || कलशात्पूर्वदिग्भागे शालिना स्थण्डिलं कुरु | अष्टपद्मं समालिख्य दर्भैश्चैव परिस्तरेत् || ८३ || ध्वजपटं विन्यसेत्तत्र लक्षणेन समन्वितम् | उत्तमं दशहस्तं तु मध्यमं नवहस्तकम् || ८४ || अधमं चाष्टहस्तं तु मध्यमं नवहस्तकम् | अर्धाधिकत्रितालं तु ध्वजदैर्घ्यमिहोच्यते || ८५ || षट्तालमुत्तमं प्रोक्तं पंचतालं तु मध्यमम् | अर्धाधिक त्रितालं तु कन्यसं त्विह चोच्यते || ८६ || पटविस्तारमेवं तु चतुर्भागैकमेव वा | ब्राह्मणस्य भवेच्छ्वेतं क्षत्रियस्य च रक्तकम् || ८७ || पीतं वैश्यमिह प्रोक्तं कृष्णवर्णं तु शूद्रकम् | विस्तारेण समं पुच्छं पुच्छार्धं शिखरं भवेत् || ८८ || मध्यमे वृषभं लांछन् स्थितं वा शयितं तु वा | वृषभं श्वेतवर्णं तु रक्तवर्णं तु शृंगकौ || ८९ || खुराणां रक्तवर्णं तु पीतं लांगूलमेव वा | नेत्रं श्वेतमयी चैव मध्यं रक्तमयी तथा || ९० || प्. १८०) वृषभं पद्मपीठन्तु मणिमालाविभूषितम् | पार्श्वौ दीपद्वयौ न्यस्य चित्रमूर्ध्वे तु कारयेत् || ९१ || द्वौ पार्श्वौ चामराभ्यां तु लेखयेद्वृषभं ततः | पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः || ९२ || पूर्वेद्युरधिवासं स्याद् ध्वजदण्डेन संयुतम् | प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः || ९३ || गन्धपुष्पादिना पूज्य वृषगायत्रिमन्त्रतः | पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः || ९४ || तदन्ते लोकपालांश्च पूजयेत्तु विशेषतः | तद्बाह्ये पूजयेत्तत्र लोकपालास्त्रमेव च || ९५ || तस्यैव पूर्वदिग्भागे शालिना स्थण्डिलं कुरु | पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् || ९६ || तदूर्ध्वे विन्यसेच्छूलं पूजयेत्तु विशेषतः | वामादीनां तु शक्तीनां शूलं मूले प्रतिष्ठितः || ९७ || कुमारं फलके न्यस्य कुम्भे तु वरुणं न्यसेत् | तटी चैवाग्निदैवत्यं सरस्वतीं चैव दण्डके || ९८ || पीठे तु पार्वती न्यस्य भूमिभागे वसुन्धराम् | गन्धपुष्पैश्च धूपैश्च षण्णवत्येन पूजयेत् || ९९ || पुण्याहं वाचयेत्तत्र ताम्बूलं दापयेत्ततः | ततो होमं प्रकुर्वीत स्थण्डिलं चतुरश्रकम् || १०० || प्. १८१) शिवाग्निं जनयेत्तत्र अग्निमुखं च हूयते | समिदाज्यचरुं लाजान् सर्षपं चैव हूयते || १०१ || पंचब्रह्मेण संयुक्तं ईशानादीनि हूयते | प्रत्येकं शतमर्धं वा तदर्धं वापि हूयते || १०२ || वृषाधिवासनं प्रोक्तं ध्वजारोहणकं शृणु | ध्वजारोहणमेवं तु वक्ष्यामि मुनिसत्तम || १०३ || श्वेतवर्णध्वजं चैव राजराष्ट्रविवर्धनम् | वर्णं वै रक्तवर्णं तु स्तम्भनं पीतवर्णकम् || १०४ || बिजयं कपिलाभं च कृष्णं चैवाभिचारकम् | धूम्रं व्याधिप्रदं चैव एवमेव क्रमेण तु || १०५ || यान्यान्कामयते कामांस्तांस्तान्वै साधयेद् ध्वजम् | वर्षार्धं श्यामवर्णं तु क्षीराभं सर्वशान्तिकम् || १०६ || शंखं स्फटिकमुक्ताभं रक्षार्थं शान्तिपुष्टिदम् | पूर्वाह्ने ब्राह्मणप्रीतिर मध्याह्ने राजवृद्धिदम् || १०७ || रात्रौ च वैश्य शूद्राणां वर्धनं क्रमशस्तथा | ध्वजस्थानमहं वक्ष्ये श्रूयतां कमलासन ! || १०८ || पीठगोपुरयोर्मध्ये वृषस्य पुरतोऽपि वा | पीठाग्रेवाऽथ कुर्यात्तु ध्वजस्थानं विधीयते || १०९ || क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् | चम्पको देवदारुं च स्तम्बको बिल्वकैरपि || ११० || प्. १८२) अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् | प्रासादस्य समं वापि प्रासादग्रीवमेव वा || १११ || वृषस्थलसमं वापि गोपुरोत्सेधमेव वा | मूलान्तं तु कुलान्तं वा दण्डस्योत्सेधमुच्यते || ११२ || हस्तसंख्येन वा कुर्यात् त्रिंशद्धस्तमथापि वा | द्वादशं दशहस्तं वा ध्वजस्योत्सेधमुच्यते || ११३ || सप्तत्रिंशांगुलं वापि चतुर्विंशतिरेव वा | द्वाविंशत्यंगुलं वाथ नाहस्तस्य विधीयते || ११४ || वेणुयष्टिं ततो ग्राह्य द्यवकृन्निपुणं ततः | एकपूर्वं विनाशार्थं द्विपूर्वेण भयंकरम् || ११५ || त्रिपूर्वं व्याधिना पीड्यं चतुष्पर्व विनाशनम् | पंचपर्वद्वयं लोके षट्पर्वं श्रियमावहेत् || ११६ || सप्तपूर्वान्क्षयान्गाव अष्टपर्वसु वर्धते | नवपर्वं कुलक्षीणं दश वै सर्वकामदम् || ११७ || एकादशं पुत्रकामं द्वादशं पुष्टिकामदम् | इत ऊर्ध्वं न कर्तव्यं हस्तमानं ततः शृणु || ११८ || षट्तालं पंचतालं वा तस्याग्रे घटिकां न्यसेत् | आधारफलकादीनि याज्ञिकैर्वृक्षसंभवैः || ११९ || हस्तमात्रान्तरं ज्ञेयं हस्तार्धं मात्रमेव वा | सुषिरद्वयसंयुक्तं क्रमुकं वेणुना सह || १२० || प्. १८३) योजयेच्चैव विप्रेन्द्र शिल्पिना च तथैव च | पंचषट्सप्तमांगुल्यं वेणुदण्डस्य नाहकम् || १२१ || रज्जुना बन्धयेत्तत्र दर्भेणा वेष्टयेत्ततः | कनिष्ठांगुलीप्रमाणेन तन्तुना रज्जुरुच्यते || १२२ || अग्रे घटिकां मूलौ तद्द्विगुणं चैव कारयेत् | माणवकः शुचिर्भूत्वा प्रोक्षयेदम्भसा ततः || १२३ || नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः | * * अन्यध्वजंबन्ध कुर्याद्ग्रामप्रदक्षिणम् || १२४ || तस्यान्ते चास्त्रराजानं अन्नलिंगसमायुतम् | नानाध्वजसमायुक्तं नानापिंछसमायुतम् || १२५ || नानाजनसमाकीर्णं नानावाद्य समायुतम् | नानाच्छत्र समायुक्तं ब्रह्मघोष समन्वितम् || १२६ || मंगलांकुरसंयुक्तं नृत्तगेय समन्वितम् | अग्रतः पृष्ठतो गत्वा आचार्यो यजमानकः || १२७ || शनैः प्रदक्षिणं गत्वा ध्वजस्थानं प्रवेशयेत् | अवटं खानयेत्तत्र हस्तद्वयप्रमाणतः || १२८ || तस्य मूले प्रकर्तव्यं वेदिलक्षण संयुतम् | षट्तालमध्येन विन्यस्य सुवर्णं कूर्ममेव च || १२९ || पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छुद्धवारिणा | हृदयेन तु मन्त्रेण क्षालयेद् ध्वजदण्डकम् || १३० || प्. १८४) दर्भमालाभिरावेष्ट्य पुष्पमाला समन्वितम् | वृषगायत्रीमन्त्रेण प्रोक्षयेत्कलशोदकैः || १३१ || उत्थाप्य ध्वजदण्डं तु व्योमव्यापि समुच्चरन् | वालुकेन हृदा चैव पूरयेदवटं ततः || १३२ || तस्य मूले प्रकर्तव्यं वेदिलक्षणसंयुतम् | षट्तालं पंचतालं वा चतुस्तालमथापि वा || १३३ || विस्तारं प्रोच्यते विप्र उत्सेधं तु तदर्धकम् | तदूर्ध्वे पद्मं संकल्प्य अष्टपत्रं सुशोभनम् || १३४ || एकमेखलमेवस्यान् मेखलात्रयमेव वा | उत्सेधं तु त्रिधा भज्य एकैकं मेखलोच्छ्रयम् || १३५ || अधस्तान्मेखला चैव भूमिदेवीं च विन्यसेत् | श्रीदेवीं मध्यमे पूज्य तृतीये च सरस्वतीम् || १३६ || त्रिमेखलेषु विप्रेन्द्र शक्तयस्त्रीणि कल्पयेत् | एकमेखलया कुर्याद् भूमिदेवीं न्यसेत्ततः || १३७ || एवमेव प्रकारेण पीठं कुर्याद्विशेषतः | यागस्थाने तथा देवं स्नापयेत्कलशेन तु || १३८ || स्नाने वृषभदेवं तु गन्धपुष्पादिनार्चयेत् | वृषगायत्रिमन्त्रेण पश्चात्सूत्रे तु सूत्रयेत् || १३९ || उद्धृतं तु क्रमेणैव उद्धारे ध्वजमेव वा | रज्जु यन्त्रेण वा कुर्याद् ध्वजमारोपयेत्ततः || १४० || प्. १८५) कुम्भोदरो वृषभश्चैव पाशहस्तो मदोत्कटः | शूलहस्तः पिनाकी च अष्टनाडी दण्डमुण्डियः || १४१ || एतानि चाष्टदिक्येव पूर्वादीशान्त विन्यसेत् | पूजयेद्गन्धपुष्पेण धूपदीपैः समन्वितम् || १४२ || स्थण्डिलं कारयेत्तत्र चतुर्द्रोणेन शालिना | पुण्याहं कारयेत्तत्र कलशान्नव विन्यसेत् || १४३ || मध्ये वृषभकुंभं तु वृषमन्त्रेण विन्यसेत् | इन्द्रादीशानपर्यन्तं विन्यसेत्कलशांस्ततः || १४४ || सवस्त्रान्सापिधानांश्च लोकपालाधिदेवतान् | स्थापयित्वा यथान्यायं वृषगायत्रिमन्त्रतः || १४५ || निवेदयेत्तु मुद्गान्नं दध्युपदंश संयुतम् | तत्काले तु प्रजार्थीनां पिण्डान् (वै) भोजयेत्ततः || १४६ || कुक्कुटाण्डप्रमाणेन पिण्डं कुर्यात्तु देशिकः | वृषगायत्रिमन्त्रेण पिण्डं दद्यात्तु देशिकः || १४७ || वृषस्तम्भं ध्रुवं स्थाप्य त्रिः कृत्वा तु प्रदक्षिणम् | * * * * * कर्तव्यं ध्वजमूले समाश्रितः || १४८ || एवं कुर्यात्तु विप्रेन्द्र चातुर्वण्यं तु नारिणाम् | अन्त्यजातिस्तु सर्वेषां प्रतिलोमं च कारयेत् || १४९ || आचार्यं पूजयेत्पश्चात् वस्त्रहेमांगुलीयकैः | ताम्बूलं दापयेत्तस्मै जनान्सर्वान्विशेषतः || १५० || इति वीरतन्त्रे ध्वजारोहण विधिश्चतुश्चत्वारिंशः पटलः || ४४ || प्. १८६) इत ऊर्ध्वं प्रकर्तव्यं भेरीताडनमुत्तमम् | प्रातर्मध्याह्नसायाह्ने ध्वजमारोपयेत्ततः || १ || तद्रात्रौ ताडयेद्भेरीं लक्षणेन समन्वितम् | लक्षणं संप्रवक्ष्यामि शृणुष्व कमलासन ! || २ || आसनं चन्दनं वापि वकुलं च शिरीषकम् | व्याघ्रवृक्षेण वा कुर्याद्भेरीं वा पटहं तु वा || ३ || आयामस्तु त्रिहस्तं स्यादुत्तमं तु विधीयते | पंचतालं तु मध्यं स्यात् षडंगुल्यविहीनकम् || ४ || अधमं चैतदुद्दिष्टं त्रिविधं चोच्यते मया | आयामस्य समं नाहं मध्ये पटहमुच्यते || ५ || वक्त्रं वै द्वादशांगुल्यं नवैर्वा सप्त एव वा | एवमेव क्रमेणैव कुर्यात्पटहमुत्तमम् || ६ || गोचर्मणा तु बन्धः स्यान्महाध्वनि समायुतम् | मर्दलैर्हाहलैश्चैव हंसध्वनिसमायुतम् || ७ || झल्लरी झर्झरीमोहैः करण्डिकाम समन्वितम् | अन्यैश्च सर्ववाद्यैश्च यथा लाभेन ताडयेत् || ८ || प्रासादस्याग्रतश्चैव मण्डपं कारयेत्ततः | मण्डपस्य तु मध्ये तु गोमयेनानुलेपयेत् || ९ || स्थण्डिलद्वितयं कृत्वा शालिना च तथैव च | अष्टद्रोणेन शालि स्यात् स्थण्डिलौ द्वौ तु कारयेत् || १० || प्. १८७) पटहं विन्यसेत्तत्र नववस्त्र * * * * | तदर्धं तण्डुलैर्युक्तं प्रोक्षयेदम्भसा ततः || ११ || पद्ममात्रं समालिख्य तन्मध्ये दर्भैः परिस्तरेत् | पटहस्य तदाकारं स्थण्डिलं कारयेत्ततः || १२ || पटहं विन्यसेत्तत्र नववस्त्र समन्वितम् | ततोऽग्रे स्थापयेच्छलं अस्त्रमन्त्रेण देशिकः || १३ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चरुं निवेदयेत् | एवं वै पूजयेच्छूक्तं पश्चाद्भेरीं समर्चयेत् || १४ || उत्तराभिमुखो भूत्वा अर्चयेद्गन्धपुष्पकैः | आपोहिष्ठेति मन्त्रेण प्रोक्षयित्वा कुशाम्भसा || १५ || पटहं विन्यसेत्तत्र हृदयेन तु पूजयेत् | दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुरिति स्मृतम् || १६ || ब्रह्माणं पूजयेन्मध्ये एवमेव क्रमेण तु | वासुकी चर्मसूत्रे तु वलयौ रवि चन्द्रमाः || १७ || कौमातरः सप्तकीलं तु मुदरे तु व्यवस्थितः | कौणदण्डेन संयुक्तं पूजयेदस्त्रमन्त्रतः || १८ || वाद्यकं च समाहूय स्नानकर्म समाचरेत् | शुक्लवस्त्र परिधानं गन्धमाल्यं तु लेपनम् || १९ || नन्दिकेश्वर बाहुभ्यां नन्दिमन्त्र समन्वितम् | अर्चयित्वा यथा न्यायं गन्धपुष्पादिना ततः || २० || प्. १८८) पटहस्यैव विप्रेन्द्र ! हविर्निवेदयेत्ततः | आचार्यं पूजयेत्तत्र वाद्यकं पूजयेत्ततः || २१ || वामदेवेन मन्त्रेण * * * * * * * * | ताडयेच्छिवमन्त्रेण आचार्यौ मन्त्रविग्रहः || २२ || वाद्यकस्ताडयेत्पश्चान् नन्दिमन्त्रेण संयुतम् | कुलोद्गतोऽपि दीनाश्च ताडयेत्तालमेव च || २३ || चच्चत्पुटं तु प्रथमे चाचत्पुटं द्वितीयके | इन्द्रस्य समतालं तु अग्नौ बध्वा वणं भवेत् || २४ || एतैस्तालैश्च संयुक्तं वाद्यकान्वादयेत्ततः | ततोग्रामबलिं दद्याल्लक्षणेन समन्वितम् || २५ || नानाध्वजसमायुक्तं नानाच्छत्रसमायुतम् | धूपदीपसमायुक्तं नानापिंछ समन्वितम् || २६ || शंखदुन्दुभिनिर्घोषैः गीतवाद्य समाकुलम् | त्रिशूलेन समायुक्तं अन्नलिंग समायुतम् || २७ || एवमेव प्रकारेण कुर्याद्ग्राम प्रदक्षिणम् | विमान प्रदक्षिणं कुर्याच्छिवभक्त समन्वितम् || २८ || ध्वजपीठे बलिं दद्यात् परिवार बलिं ददेत् | ब्रह्माद्यैशानपर्यन्तं ग्रामे चैव बलिं ददेत् || २९ || अश्राव्य तीर्थ दिवसमावाह्य सर्वदैवतान् | सर्वेषां तु गणानां तु भूतानां तु पिशाचकैः || ३० || प्. १८९) तदा प्रभृति तीर्थान्त रात्रौ ग्रामबलिं ददेत् | ध्वजमूले तु चावाह्य बलिं तत्रैव निक्षिपेत् || ३१ || एवं कृते महाशान्ते राजराष्ट्रसुखावहम् | भेरीताडनमेवोक्तं यागस्य मण्डपं शृणु || ३२ || इति वीरतन्त्रे भेरीताडनविधिः पंचचत्वारिंशः पटलः || ४५ || यागस्य मण्डपं वक्ष्ये शृणुष्व कमलासन ! | प्रतिष्ठा चोत्सवे चैव दीक्षायां प्रोक्षणेऽपि च || १ || महाशान्त्यादिकार्येषु यागमण्टपमुच्यते | पूर्वमेव मया प्रोक्तं भूमिसंग्रहणं द्विज || २ || प्रासादस्याग्रतश्चैव याम्ये वा वारुणेऽपि वा | इन्द्र ईशानयोर्मध्ये (मध्ये) चानलशक्रयोः || ३ || याम्याग्नेययोर्मध्ये सौम्य ईशानमध्यमे | कारयेन्मण्डपं तत्र लक्षणेन समन्वितम् || ४ || द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् | सप्तषट्पंचहस्तं वा सप्त * * * चोच्यते || ५ || प्रागग्रं दशसूत्रं स्याद् उदगग्रं तथैव च | एकाशीति पदं कृत्वा प्रोक्षयेद्गन्धवारिणां || ६ || मध्ये नवपदं चैव वेदिस्तत्र प्रकल्पयेत् | वेदितारत्निचोत्सेधं दर्पणोदरवत्कृतम् || ७ || प्. १९०) षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् | मध्यमे तु पदे चैव होमकुण्डं विधीयते || ८ || पूर्वे तु चतुरश्रं च दक्षिणे पश्चिमोत्तरे | उत्तरे चैव विप्रेन्द्र कुण्डं स्याच्चतुरश्रकम् || ९ || विदिक्षु वृत्तकुण्डं स्यात् त्रिमेखल समन्वितम् | सर्वेषां चतुरश्रं वा सर्वेषां वृत्तमेव वा || १० || यावत्पीठाकृतिं चैव कुण्डं स्या * * तु * * | ईशान इन्द्रयोर्मध्ये वृत्तकुण्डमिति स्मृतम् || ११ || नवाग्निर्वाऽथ पंचाग्नि रेकं निर्वाधि कारयेत् | त्रिमेखला समायुक्तमेकमेखलमेव वा || १२ || पुण्याहं वाचयेत्तत्र प्रोक्षयेत्पंचगव्यकैः | चतुस्तोरण संयुक्तं चतुर्द्वारेषु देशिकः || १३ || उत्तमं पंचहस्तोच्चं मध्यमं चतुर्हस्तकम् | त्रिहस्ततालसंयुक्तमधमं त्विति कथ्यते || १४ || उत्सेधार्धं च विस्तारमपक्रोशोर्ध्व समायुतम् | पलत्रय समायुक्तं शूलं तालसमं भवेत् || १५ || मात्रांगुलेन संयुक्तं मध्यमं पंच एव च | उत्तमं सप्तदर्भैश्च हस्तमात्र प्रलम्बितम् || १६ || तस्याग्रे चैव रज्जुं च कुर्याद्वै * * * * * | वितानोपरिसंच्छन्नं मुक्तास्रग्दाम संयुतम् || १७ || प्. १९१) दिग्ध्वजं विन्यसेत्तत्र चतुस्तालप्रमाणतः | पूर्वायां श्यामवर्णं तु आग्नेययां रक्तवर्णकम् || १८ || याम्यायां कृष्णवर्णं तु मुक्ताभं नैर्-ऋते तथा | पश्चिमे पीतवर्णं तु वायव्यां नीलमेव च || १९ || सौम्यायां स्फटिकाभं च ऐशान्यां धूम्रमुच्यते | लोकपालस्य रूपं तु ध्वजानां मध्यमे न्यसेत् || २० || दर्भणं पूर्णकुम्भं च वृषभं युग्म चामरम् | श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् || २१ || वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् | गदा त्रिशूलं चक्रं च पद्मं चेति दशायुधम् || २२ || शिल्पिना कारयेत्तत्र लक्षणेन समन्वितम् | हस्तमात्र प्रमाणेन कारयेदष्टमंगलम् || २३ || दशायुधानि तद्वच्च कारयेच्छिल्पिना ततः | क्षालयेत्तु मृदा चैव शुद्धतोयेन संयुतम् || २४ || पुण्याहं वाचयेत्तत्र प्रोक्षयेच्छिवमन्त्रतः | वेदिबाह्ये न्यसेच्छालि तत्समं समलंकृतम् || २५ || तस्योपरि न्यसेदस्त्रं अष्टमंगलसंयुतम् | दर्भोपरि न्यसेच्चैव कूर्चेनैव पिधाय च || २६ || अस्त्रं प्रति न्यसेत्कुंभान् स्वस्व नाम्ना समायुतान् | एवमेव न्यसेद्विद्वान् अष्टमे नवमेव च || २७ || प्. १९२) गन्धपुष्पादिनाभ्यर्च्य प्रासादेन तु मन्त्रतः | वज्रादीनर्चयेत्तत्र स्वैः स्वैर्नाम्ना च मन्त्रतः || २८ || हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः | ततो होमं प्रकर्तव्यं एकं वा पंचमेऽपि वा || २९ || प्रोक्षयेत्कुम्भतोयेन आयुधानष्टमंगलान् | आचार्यपूजनं कृत्वा पादाथीन्पूजयेत्ततः || ३० || इति वीरतन्त्रे मण्डपलक्षणं षट्चत्वारिंशः पटलः || ४६ || अधिवासविधिं वक्ष्ये संक्षेपाच्छृणु पद्मज ! | उत्सवस्यादिरात्रो तु आरभेदधिवासनम् || १ || प्रासादस्याग्रतः कुर्याच्छालिना स्थण्डिलं तथा | विन्यसेत्पालिकादीनि मध्यमे सोमकुम्भकम् || २ || हृदयेन तु मन्त्रेण पालिकान्वापयेत्ततः | सुगुप्तदेशे संस्थाप्य पालिकादीन्यथाक्रमम् || ३ || कौतुकं बन्धयेत्पश्चाच्छिवाग्रे स्थण्डिलं कुरु | प्रतिमां विन्यसेत्तत्र अस्त्रं चैव तु विन्यसेत् || ४ || सौवर्णमूर्णासूत्रं वा स्थलिकोपरि विन्यसेत् | कार्पाससूत्रं वा कुर्यात् प्रोक्षयेद्धृदयेन तु || ५ || प्रतिमां प्रासादमन्त्रेण बन्धयेत्ततः कौतुकं | ताम्बूलं दापयेत्पश्चाज्जनान्सर्वान्विशेषतः || ६ || प्. १९३) मण्डलं वेदिमध्ये तु अष्टद्रोणेन शालिना | तण्डुलैस्तल संयुक्तं दर्भैश्चैव परिस्तरेत् || ७ || शिवकुम्भं प्रतिष्ठाप्य वर्धनीं तस्य वामतः | ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान् || ८ || पंचरत्नसमायुक्तान् शिवमन्त्रेण स्थापयेत् | रत्नानि विन्यसेद्धेमं गौरीबीजेन विन्यसेत् || ९ || गन्धपुष्पादिना पूज्य धारयेच्छिरसोपरि | नाना वाद्यसमायुक्तं नानापिंछ समायुतम् || १० || नानागेयसमायुक्तं नानादीप समन्वितम् | विमानं प्रदक्षिणं कुर्यात् प्रविशेद्यागमण्टपम् || ११ || पुण्याहं वाचयेत्तत्र प्रोक्षयेदम्भसा ततः | आचार्यश्च शुचिर्भूत्वा मन्त्रदेहसमन्वितः || १२ || स्थण्डिलं कारयेत्तत्र पूर्वोक्तेन विधानतः | गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रतः || १३ || वेदिमध्ये न्यसेत्कुम्भं व्योमव्यापि समुच्चरन् | यज्ञमूर्तिं प्रवक्ष्यामि एकवक्त्र समन्वितम् || १४ || चतुर्भुजं त्रिणेत्रं च सौम्यरूपसमन्वितम् | पद्ममध्ये सुखासीनं जटामकुट संयुतम् || १५ || सर्वाभरण संयुक्तं कृष्णापरशुधारिणम् | वरदाभयहस्तं च दिव्याम्बरधरं हरम् || १६ || प्. १९४) हत्थंरूपं शिवं ध्यात्वा गौरीं वै ध्याययेत्ततः | द्विनेत्रां चारुवदनां द्विभुजां च सुयौवनाम् || १७ || प्रशान्तमानसां चैव किंचित्प्रहसिताननाम् | सर्वाभरण संयुक्तां वर्धनीमध्यमे न्यसेत् || १८ || प्रासादद्वारवत्कृत्वा यागमण्टपमेव च | द्वारस्याभिमुखं चैव विन्यसेद्यागमूर्तिनम् || १९ || वर्धनीं विन्यसेद्वामे गौरीबीजेन मन्त्रतः | पूर्वादीशानपर्यन्तं अष्टकुंभान्क्रमान्न्यसेत् || २० || सवस्त्रान्सापिधानांश्च स हिरण्यान्सकूर्चकान् | वेदिकाश्चैव दिग्भागे शूलं वै स्थापयेत्ततः || २१ || अनन्तादिशिखण्ड्यन्तान्विन्यसेद्घटमध्यमे | अर्चयेद्गन्धपुष्पाद्यैः स्वस्वनाम्ना विशेषतः || २२ || वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् | गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् || २३ || पूर्वादीशान्तदिग्भागे पूजयेत्स्वस्वमन्त्रकैः | पद्मास्त्रं नैर्-ऋते भागे चक्रं चैशानगोचरे || २४ || दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् | श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्ट मंगलम् || २५ || पूर्वादीशानपर्यन्तं विन्यसेद्देशिकोत्तमः | गन्धपुष्पादिनाभ्यर्च्य तत्तत्स्वनाममन्त्रतः || २६ || प्. १९५) द्वारकुम्भान्न्यसेत्पश्चात् स्वस्वमन्त्रेण वा जपेत् | ततो होमं प्रकुर्वीत लक्षणेन तु देशिकः || २७ || सायं प्रातर्हुतं कुर्याद् होमद्रव्यसमायुतम् | समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् || २८ || वेणुं मुद्गं च शालिं च दशद्रव्यमिहोच्यते | समिधः सद्यमन्त्रेण आज्यं वामेन हूयते || २९ || अघोरेण चरुं हुत्वा लाजांश्च पुरुषेण तु | सर्षपानीशमन्त्रेण यवान्वा यममन्त्रतः || ३० || तिलान्वैशिखया हुत्वा वेणुं वा कवचेन तु | नेत्रेण मुद्गं हुत्वाथ शालीनस्त्रेण होमयेत् || ३१ || अष्टोत्तरशतं वापि पंचाशत्पंचविंशतिः | हुत्वा चैव विशेषेण द्रव्यं प्रति विशेषतः || ३२ || द्रव्यान्ते व्याहृतिं हुत्वा परिषेचन माचरेत् | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || ३३ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे | जयादिरभ्यधानं च राष्ट्रभृच्च क्रमाद्धुनेत् || ३४ || यागेश्वरादिदेवानां नैवेद्यं दापयेत्ततः | कुर्यादध्ययनं तत्र चतुरोवेदपारगान् || ३५ || प्रासादमन्त्रं जप्त्वा तु स्तोत्रं जप्त्वा विशेषतः | सायं प्रातर्बलिं दद्याद् होमान्ते तु विशेषतः || ३६ || प्. १९६) बलिक्रमविधिं वक्ष्ये शृणुष्व कमलासन ! | अन्नलिंगं प्रकर्तव्यं पूर्ववल्लक्षणान्वितम् || ३७ || चतुर्भुजं त्रिणेत्रं च दक्षिणे चैव शूलधृक् | पाशं वामकरे चैव अभयं दक्षिणे करे || ३८ || वरदं वामहस्ते तु रौद्ररूपसमन्वितम् | एवं पाशुपतं ध्यात्वा बलिलिंगं सुयोजयेत् || ३९ || बलिपात्रे न्यसेदन्नं सर्वद्रव्यसमायुतम् | प्रथमं विघ्नरात्रं तु द्वितीयं भूतरात्रकम् || ४० || तृतीयं ब्रह्मरात्रं तु चतुर्थं गरबमुच्यते | पंचमं त्विन्द्ररात्रं स्यात् षष्ठं वै ऋषिरात्रकम् || ४१ || सप्तमं वैष्णवं प्रोक्तं अष्टमं राक्षसं तथा | नवमं शैवमित्याहु रित्येते रात्रिदेवताः || ४२ || सप्ताहे चैव विप्रेन्द्र ब्रह्मरात्राधिदैवतम् | पंचाहे तु प्रकर्तव्यं इन्द्ररात्राधिवर्धयेत् || ४३ || त्र्यहं चैवोत्सवं तत्र कारयेद्वैष्णवादिकम् | एकाहमुत्सवे चैव शिवरात्रमिति स्मृतम् || ४४ || बलिद्रव्यमहं वक्ष्ये शृणुष्व कमलासन | शुद्धान्नं दधिसंयुक्तं अपूपं लड्डुकान्वितम् || ४५ || प्रथमेहनि दातव्यं विष्णुमन्त्रं समुच्चरन् | पद्मपुष्पं च रजनी लाजपायससंयुतम् || ४६ || प्. १९७) द्वितीयेहनि दातव्यं भूतमन्त्रं समुच्चरन् | पद्ममूलं कुशाग्रं च शाल्यन्नं घृतमिश्रकम् || ४७ || तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् | हरिद्रान्नं स सर्पिश्च नालिकेरफलैर्युतम् || ४८ || चतुर्थेहनि दातव्यं गन्धर्वमन्त्रमुच्चरन् | इन्द्रवल्ली हरिद्रान्नं प्रियंगुघृतसंयुतम् || ४९ || पंचमेहनि दातव्यं इन्द्रमन्त्रमनुस्मरन् | गुलोदनं ससर्पिश्च कदलीपनसायुतम् || ५० || षष्ठेऽहनि प्रदातव्यं ऋषीणां मन्त्रमुच्चरन् | गुलोदनं घृतं युक्तं बृहतीफलसंयुतम् || ५१ || सप्तमेहनि दातव्यं वैष्णवं मन्त्रमुच्चरन् | माषान्नं घृतसंयुक्तं मांसं चंप समन्वितम् || ५२ || अष्टमेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् | शुद्धान्नं दधिसंयुक्तं लाजापूपसमन्वितम् || ५३ || कदलीफलसंयुक्तं घृतेनैव परिप्लुतम् | नवमेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् || ५४ || कुक्कुटाण्डप्रमाणेन बलिं दद्याद्विशेषतः | ब्रह्मादीशानपर्यन्तं बलिपीठे बलिं क्षिपेत् || ५५ || यन्त्रपीठं प्रकर्तव्यं तालमात्र प्रमाणतः | मात्रांगुलेन कर्तव्यं विस्तारायाम तत्समम् || ५६ || प्. १९८) षडंगुलं तदुत्सेधं मेखलात्रयसंयुतम् | मेखलोच्चं द्वयांगुल्यं वेशनं तावदेव तु || ५७ || यन्त्रपीठमिदं प्रोक्तं इदमन्यच्छृणुष्वथ | हस्तमात्रं तु विस्तारं उत्सेधं तालमात्रकम् || ५८ || त्रिमेखलासमं कृत्वा उत्सेधस्तु विधीयते | विस्तारं तु त्रिधा कृत्वा एकैकं द्विद्विहस्तकम् || ५९ || मृदैर्वा याज्ञिकैर्वापि कृत्वा पीठं विशेषतः | रंगेष्वारूढतो वापि रथेद्यामौ व्रजेत्ततः || ६० || बलिक्रममहं वक्ष्ये शृणुष्व कमलासन ! | प्रथमे तु पताकाश्च द्वितीये वाद्यकास्तथा || ६१ || तृतीये समयी प्रोक्तः चतुर्थे शूलमुच्यते | पंचमे वान्नलिंगं तु वितानवस्त्र संयुतम् || ६२ || दशायुधानि परितो धारयेच्छिरसोपरि | धूपदीपसमायुक्तं घण्टारव समन्वितम् || ६३ || एवमेव क्रमेणैव बलिं कृत्वा तु देशिकः | चण्डरुद्राय गोस्थाने व्याप्य * * दराय च || ६४ || कूपे तु शंकुकर्णः स्याद् गंगायां च नदी तथा | क्षेत्रेषु क्षेत्रपालं स्यात् सभास्थाने सरस्वती || ६५ || दुर्गा ज्येष्ठाबलिं दद्यात् सर्वलोकसुखावहम् | एवमेव बलिं कुर्याद् बलिपीठे विनिक्षिपेत् || ६६ || प्. १९९) बलिपीठे तु विप्रेन्द्र अन्नलिंगं विशेषतः | कौतुकं बलिदानान्ते कुर्याद्ग्रामप्रदक्षिणम् || ६७ || यन्त्ररंगसमायुक्तं नानाविधैरनेकशः | नानाजनपदैर्युक्तं नानाध्वज समन्वितम् || ६८ || नानावाद्यसमायुक्तं नानापिंछ समन्वितम् | प्रथमे च पताकाश्च द्वितीये वाद्यकस्तथा || ६९ || तृतीये डोलयन्त्राश्च अश्वयन्त्राश्चतुर्थके | पंचमे नृतयन्त्राश्च तदा यष्टितटातकान् || ७० || सप्तमे तु सुखासीनं अष्टमे गोलका ततः | नवमे तु * * * * वृषभं दशमे ततः || ७१ || गंगाधरं तथा चैव द्वादशं नृत्तरूपकम् | भिक्षाटनं तदन्ते तु अर्धनारीं चतुर्दश || ७२ || चन्द्रशेखरमेवोक्तं पंचदशं विशेषतः | षोडशे हरिरर्धं तु तदन्ते कालहा व्रजेत् || ७३ || तदन्ते त्रिपुरघ्नं तु अष्टादश विशेषतः | बिम्बकोर्ध्वे तु विप्रेन्द्र उमास्कन्दहितं व्रजेत् || ७४ || चण्डेश्वरं तु विंशच्च तदन्ते महेश्वरान्विदुः | ग्रामप्रदक्षिणं कृत्वा बलिदानस्य देशिकः || ७३ || अन्यदेशे न कर्तव्यं अशुद्धत्वात्कदाचन | आलयं प्रविशेद्विद्वान् परिवेषमथोच्यते || ७६ || प्. २००) मण्डपं कारयेत्तत्र प्रपां वाप्यथ कारयेत् | दक्षिणाभिमुखो वापि पूर्वाभिमुख एव वा || ७७ || प्रासादस्याग्रतो वापि दक्षिणे चोत्तरेऽथवा | महामर्यादौ मर्यादौ कुर्यान्नोद मण्डपम् || ७८ || कौतुकं विन्यसेत्तत्र निर्माल्यं च विसर्जयेत् | स्नानं कुर्यात्तु विप्रेन्द्रं गन्धपुष्पादिनाऽर्चयेत् || ७९ || देवस्य दक्षिणे भागे आग्नेये चैव देशिकः | उत्तरे नृपतिं विद्याद् द्वौ पार्श्वौ योषितो न्यसेत् || ८० || नर्तको मर्दको याम्यां उत्तरे गायवंशकः | दक्षिणेन तु शैवानां उत्तरे समयान्स्मितान् || ८१ || देवस्य संनिधौ चैव गणिकानृत्तसंयुतान् | तत्काले चैव विप्रेन्द्र पूर्वोक्तविधिना सह || ८२ || रक्षादीपं प्रकर्तव्यं देवदेवाय शूलिने | अर्चयेद्गन्धपुष्पाद्यैः दद्याद्वै धूपदीपकम् || ८३ || लवणं चैव पुष्पाद्यैः पुष्पमर्घ्यं तथैव च | पृथक् पात्रे विनिक्षिप्य गणिका धारयेत्क्रमात् || ८४ || रक्षादीपं शिवे दद्याद् बलिपीठे विसर्जयेत् | एवमेव प्रकारेण दिनं प्रति समाचरेत् || ८५ || इति वीरतन्त्रे अधिवासनविधिः सप्तचत्वारिंशः पटलः || ४७ || प्. २०१) वैष्णवे दिवसे चैव नृत्तरूपं प्रदर्शयेत् | राक्षसानां तु दिवसे वनयात्रां समारभेत् || १ || पूर्वादीनि चतुर्दिक्षु गम्यतां वन * * * | त्रिपुरान्तकरूपं गच्छेदायुधकं धरेत् || २ || युद्धारम्भ प्रभावेन सर्वायुधधरा जनाः | केचिद्धनुर्धराश्चैव केचित्खड्गधरास्तथा || ३ || केचित्तोमरहस्ताश्च केचिच्चैव गदाधराः | एवमेव दिवा कुर्याद् रात्रौ कौतुकबन्धनम् || ४ || सौवर्णं राजतं वापि क्षौमं कार्पासमेव वा | कौतुकं चैव शूलं च वर्धयेत्कौतुकं हृदा || ५ || शिवाग्रे मण्टपे चैव * * नाविरिरेन्ततः | स्थलिकां विन्यसेत्तत्र तण्डुलानुपरि न्यसेत् || ६ || तस्योर्ध्वे कौतुकं न्यस्य प्रोक्षयेद्धृदयेन तु | गन्धपुष्पादिनाभ्यर्च्य प्रासादेन तु मन्त्रतः || ७ || शूले नैव समायुक्तं कुर्याद्ग्राम प्रदक्षिणम् | नानादीप समायुक्तं नानावाद्य समन्वितम् || ८ || प्रविशेदालयं तत्र कौतुकं बन्धयेद्धृदा | पूर्वोक्तेन तु मन्त्रेण शूलं वै बन्धयेत्ततः || ९ || * * * * * विप्रेन्द्र ! मानस्तोकेति मन्त्रतः | तीर्थसंग्रहणं कुर्याच्छिवाग्रे मण्टपं ततः || १० || प्. २०२) शालिना स्थण्डिलं कृत्वा दर्भैश्चैव परिस्तरेत् | मध्यमे विन्यसेत्कुम्भं सवस्त्रं सापिधानकम् || ११ || पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् | हेमं तत्रैव निक्षिप्य गन्धपुष्पादिनार्चयेत् || १२ || समुद्रे वापि नद्यां वा तटाके वा विशेषतः | तीरे समतलं कृत्वा स्थापयेत् * * * ततः || १३ || अनन्तादि शिखण्ड्यन्तान्विद्येश्वरांश्च विन्यसेत् | दिग्बन्धनं तु कर्तव्यं अस्त्रमन्त्रेण देशिकः || १४ || आवाहयेत्तु तीर्थांश्च पुण्यस्थानं तथैव च | साधितैः कलशैस्तत्र शूलं वै स्नापयेत्ततः || १५ || प्रविशेदालयं तत्र गन्धपुष्पादिनार्चयेत् | इति वीरतन्त्रे यात्रा कौतुकविधिरष्टचत्वारिंशः पटलः || ४८ || चूर्णोत्सवं प्रवक्ष्यामि शृणुष्व कमलासन ! | कौतुकं बलिदानान्ते कुर्याद्ग्रामप्रदक्षिणम् || १ || पश्चाच्चूर्णोत्सवं कुर्यात् प्रासादाग्रे ततोपि वा | कौतुकस्याग्रतो वापि चूर्णमभ्युक्ष्य लूखले || २ || वायव्यां दिशि दिग्भागे याम्ये कौतुकयेपि वा | गोमयालेपनं कृत्वा स्थण्डिलं शालिना कुरु || ३ || प्. २०३) अष्टद्रोणसमायुक्तं तदर्धं तण्डुलं न्यसेत् | पद्ममष्टदलं न्यस्य दर्भैश्चैव परिस्तरेत् || ४ || तस्याग्रे स्थण्डिलं कृत्वा लूखलं च विशेषतः | प्लक्षोदुम्बरमश्वत्थं पदंवै न तु लूखलम् || ५ || मुसलं दायसे * * * * * * न बन्धयेत् | क्षालयेदस्त्रमन्त्रेण स्थापयेद्धृदयेन तु || ६ || वस्त्रेणैव समाच्छाद्य गव्येनैव तु शोसितुम् | लूखले * * विन्यस्य मध्येन हृदयेन तु || ७ || व्योमव्यापि समुच्चार्य चूर्णयेद्देशिकोत्तमः | * * * व्यजनैर्युक्तं गणिका चूर्णयेत्ततः || ८ || सर्वगन्धं प्रवक्ष्यामि एलालवंगसंयुतम् | तक्कोलं चैव जाती च गणिका चूर्णयेत्ततः || ९ || चूर्णं तु कलशे स्थाप्य सकूर्चं सापिधानकम् | सवस्त्र हेमसंयुक्तं गन्धपुष्पादिनार्चयेत् || १० || चूर्णं तु शिरसा धार्य विमानप्रदक्षिणं कुरु | मूलबिम्बे न्यसेत्तत्र चूर्णं चैव तु तैलकम् || ११ || कौतुकं चास्त्रराजानं हृदयेनैव दापयेत् | भक्तानां परिवाराणां चूर्णं दद्याद्विशेषतः || १२ || ग्रामप्रदक्षिणं कुर्याच्छूलचूर्णसमन्वितम् | इन्द्रादि लोकपालानां चूर्णं दद्यात्तु देशिकः || १३ || प्. २०४) गेहं प्रवेशयेत्तत्र ततस्तीर्थं समाचरेत् || १३ || इति वीरतन्त्रे चूणोत्सवविधिरेकोनपंचाशः पटलः || ४९ || तीर्थं चैव प्रवक्ष्यामि आलयाग्रे विशेषतः | स्थण्डिलं शालिनाकुर्यात् तण्डुलैस्तिलसंयुतम् || १ || नवकुम्भान्समादाय पूरयेद्गन्धतोयकैः | गौरीबीजेन मन्त्रेण वर्धनीं तस्य वामतः || २ || स्थापयित्वा तु विप्रेन्द्र विद्येश्वरसमन्वितम् | स्वस्वनाम्ना च मन्त्रेण पूजयेत्तु विशेषतः || ३ || कलशान्शिरसा धार्य अष्टमंगलचास्त्रकम् | कौतुकं शिवसंयुक्तं कुर्याद्ग्रामप्रदक्षिणम् || ४ || समुद्रे वा तटाके वा नद्यां वापि विशेषतः | तीरे समतलं कृत्वा शालिना स्थण्डिलं कुरु || ५ || प्रतिमां विन्यसेत्तत्र तस्याग्रे कलशं न्यसेत् | अर्चयित्वा तु गन्धाद्यैः शूलं कलशसंयुतम् || ६ || आहूय सर्वदेवांश्च तीर्थानाहूय सर्वशः | कौतुकं च विसृज्यैव प्रतिमां शूलमेव च || ७ || शूलं वै स्नापयेत्कुम्भैः जलक्रीडां च कारयेत् | सहस्नानं तु योमर्त्यः सर्वपापाद्विमुच्यते || ८ || प्. २०५) गेहं प्रवेशयेत्तत्र यागशालां प्रवेशयेत् | पूर्णाहुतिं च कृत्वा तु अग्निं चैव विसर्जयेत् || ९ || वेद्यां स्थापित कुम्भैश्च स्नापयेच्छिवमादरात् | स्नपनं कारयेत्तत्र लक्षणेन समन्वितम् || १० || विशेषात्पूजनं कृत्वा शिवस्य पुरतोऽपि वा | तद्रात्रौ चैव विप्रेन्द्र बलिं दद्याद्विशेषतः || ११ || अस्त्रमन्त्रेण विप्रेन्द्र ! शूलेनैव तु च्छेदयेत् | वापयेत्सृतयेनापि पिण्याकेन समायुतम् || १२ || अपूपेन समायुक्तं बलिं दद्याद्विशेषतः | सन्धौ चतुष्पथे चैव देवालये श्मशानके || १३ || उद्याने चैव कूपे च वने चैराजस्वेश्मनि | बलिं दद्याद्विशेषेण राजराष्ट्रसुखावहम् || १४ || इति वीरतन्त्रे तीर्थविधिः पंचाशः पटलः || ५० || ध्वजावरोहणं वक्ष्ये यथावदनुपूर्वशः | तीर्थाहे वा तृतीये वा पंचाहे सप्तमेऽपि वा || १ || ध्वजावरोहणं वक्ष्ये यथावदनुपूर्वशः | तीर्थाहे वा तृतीये वा पंचाहे सप्तमेऽपि वा || १ || ध्वजावरोहणं कुर्याच्चण्डयागसमन्वितम् | सप्ताहात्परमं चैव स्नपनं तत्र कारयेत् || २ || शान्तिहोमं ततः कुर्याद् ध्वजावरोहणं कुरु | चण्डेश्वराग्रतश्चैव गोमयेनानुलेपयेत् || ३ || प्. २०६) शालिना विकिरेत्तत्र शाल्यर्धं तण्डुलैरपि | तिलान्विन्यस्य विप्रेन्द्र दर्भैश्चैव परिस्तरेत् || ४ || पद्ममष्टदलं लिख्य प्रोक्षयेद्धृदयेन तु | नवकुम्भान्समादाय सूत्रेण परिवेष्टयेत् || ५ || गन्धोदकेन संपूज्य चण्डमन्त्रमनुस्मरन् | स्नापयेच्चैव चण्डेशं चण्डमन्त्रेण बुद्धिमान् || ६ || नैवेद्यं दापयेत्पश्चात् ताम्बूलं दापयेत्ततः | चण्डेशस्याकृतिं कृत्वा ब्रह्मचारी शुचिर्भवेत् || ७ || नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः | पुष्पमाल्यैरलंकृत्य गन्धचन्दनकादिभिः || ८ || भोजयेच्चैव विप्रेन्द्र सर्वोपदंशसंयुतम् | टंकहस्तसमायुक्तं भस्मोद्धूलितविग्रहम् || ९ || चण्डमन्त्रं न्यसेत्तत्र ध्वजस्थाने प्रवेशयेत् | शिबिकोर्ध्वे न्यसेत्तत्र ध्वजस्थाने प्रवेशयेत् || १० || शिबिकोर्ध्वे न्यसेत्तत्र चण्डेशप्रतिमां ततः | ध्वजाग्रे स्थण्डिलं कृत्वा स्थापयेत्कलशान्नव || ११ || सवस्त्रान्सहिरण्यांश्च सकूर्चान्सापिधानकान् | वृषमन्त्रमनुस्मृत्य ध्वजं वै स्थापयेत्ततः || १२ || मुद्गान्नं दापयेत्पश्चाद् वृषबीजमनुस्मरन् | दिशां बलिं ततः कृत्वा ध्वजं चैव विसर्जयेत् || १३ || प्. २०७) ध्वजावरोहणं कृत्वा हृदयेन तु मन्त्रतः | टंकेन च्छेदयेत्तत्र ध्वजवेदीं विशेषतः || १४ || शूलदेवसमायुक्तं ततोग्रामबलिं ददेत् | लाजसक्थु समायुक्तं हरिद्रान्नं दधिसंयुतम् || १५ || सर्वोपदंश संयुक्तं बलिं दद्याद्विशेषतः | सन्धिस्थं पीठमुद्वास्य टंकेनैव तु छेदयेत् || १६ || प्रविश्य भवनं पश्चाद् बलिपीठे बलिं क्षिपेत् | आचार्यश्चैवं विप्रेन्द्र ! पादप्रक्षालनं कुरु || १७ || स्नपनं कारयेत्तत्र लक्षणेन समन्वितम् | आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकांचनैः || १८ || भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् | गणिकानां च दासीनां दक्षिणां दापयेत्ततः || १९ || एवं यः कुरुते मर्त्य उत्सवं विधिपूर्वकम् | कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति || २० || सेवितांश्च मनुष्यांश्च गजाश्वादीनि सर्वशः | गच्छेच्छिवपुरं दिव्यं यावन्तो धृति संप्लवम् || २१ || शिववन्मोदते सर्वं इति शास्त्रस्य निश्चयः | उत्सवस्य विधिः प्रोक्तः प्रायश्चित्तविधिं शृणु || २२ || इति वीरतन्त्रे उत्सवविधिरेकपंचाशः पटलः || ५१ || प्. २०८) पितामहः || शिवं प्रणम्य विधिवद्ब्रह्मा वचनमब्रवीत् | प्रायश्चित्तं कथं देव तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || साधु साधु महाप्राज्ञ ! यत्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! || २ || प्रायो विनाश इत्यर्थः चित्तं सन्धानमुच्यते | विनाशस्य तु संधानं प्रायश्चित्तमिति स्मृतम् || ३ || प्रमादाद्बुद्धिवैषम्याद् द्रव्याणां च परिक्षये | अकृतानां विनष्टानां प्रायश्चित्तं विधीयते || ४ || प्रासादे पतिते भिन्ने बालस्थानं तु कारयेत् | (प्रासादं पूर्ववत्कृत्वा जलसंप्रोक्षणं कुरु) || ५ || प्रासादं भिन्नमेव स्यात् पूर्वेण शिरं भवेत् | आग्नेययां वह्निना दग्धं दक्षिणे मरणं भवेत् || ६ || नैर्-ऋत्यां धनलाभं च वारुण्यां धान्यमेव च | वायव्यां बन्धुवृद्धिः स्याद् उत्तरे पुत्रवर्धनम् || ७ || ऐशान्यां शिवमाप्नोति एवमेव क्रमेण तु | रवात्वं व्यपोह्य सर्वं तु सकलिकेन्न बन्धयेत् || ८ || पुण्याहं वाचयेत्तत्र स्नपनं कारयेत्ततः | प्रासादं नष्टमेवं स्यात् प्रासादं चैव कारयेत् || ९ || स्थापयेल्लक्षणैर्युक्तमिदमन्यच्छृणुष्वथ | पूर्वस्थानगतं लिंगं अन्यस्थानगतं भवेत् || १० || प्. २०९) तल्लिंगं च विसृज्याथ नवलिंगं प्रतिष्ठितम् | पूर्वदेशे चलं लिंगं किंचिदेव तु संस्थितम् || ११ || स्वस्थाने स्थापयेद्विद्वाञ्जलसंप्रोक्षणं कुरु | लिंगं वा पीठमेवं वा स्फुटिते दग्धमेव वा || १२ || बालस्थानं प्रकर्तव्यं पूजां कुर्वीत देशिकः | व्यपोह्यैव तु तल्लिंगं स्थापयेन्नवलिंगकम् || १३ || नद्यां वापि गजैर्वाथ उद्धरेच्छतदण्डकम् | तल्लिंगं स्थापयेदन्यद्देशिलक्षण संयुतम् || १४ || सूतकैः प्रेतकैश्चैव शवैर्वा स्पृश्यते ततः | जलसंप्रोक्षणं कुर्याल्लक्षणनेन समन्वितम् || १५ || अष्टबन्धविहीनं तु कारयेदष्टबन्धनम् | गुलं साक्षान्मधूच्छिष्टं सज्जरसमन्वितम् || १६ || लिंगं चैवान्यजातीनां स्पर्शते * * * * * * | जलसंप्रोक्षणं कुर्यात् समीपे स्नपनं भवेत् || १७ || गर्भगेहे सुधाहीने सुधाकर्म समाचरेत् | * * * * * * * * शान्तिहोमं तु कारयेत् || १८ || पुण्याहं वाचयेदेव स्नपनं तत्र कारयेत् | प्रतिमस्यांगहीनं तु शिल्पिना कारयेत्ततः || १९ || योजयेत्प्रतिमं विप्र स्नपनं तत्र कारयेत् | प्रतिमां चैव देवेशं परितो विश्वरैर्युतम् || २० || प्. २१०) शयने शाययेद्बिम्बं परितो होममारभेत् | हुत्वा प्रतिष्ठामार्गेण स्थापयेत्तद्वदेव च || २१ || पीठं वापि प्रभाहीनं शिल्पिना कारयेत्ततः | योजयेत्प्रतिमां विप्रस्नपनं तत्र कारयेत् || २२ || आयुधानि मृगाद्यानि आभरणानि तु चैव हि | भिन्ने च स्फुटिते चैव प्रमादाच्छेदनेऽपि च || २३ || पूर्ववत्कारयेद्धीमान् शिल्पिना च तथैव च | जलसंप्रोक्षणं कृत्वा शान्तिहोमं तु कारयेत् || २४ || उत्सवेषु च कालेषु प्रमादमेन्तु संभवेत् | सद्योगन्धादिनापूज्य शिवमष्टशतं जपेत् || २५ || शेषवीथीं ततो गत्वा आलयं प्रविशेत्ततः | पूर्ववत्परिमन्या वा संप्रोक्षणादि कारयेत् || २६ || पूरणलिंगे स्फुटिते भिन्नेच्छिन्ने तथैव च | ज्वरादिपीडनं कुर्याद् उपशान्तिं करोति च || २७ || दिशाहोमं ततः कुर्याल्लक्षणेन समन्वितम् | चतुदिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || २८ || अष्टोत्तरशतप्रस्थैः क्षीराभिषेकमुच्यते | समिदाज्यचरुं लाजा सक्तुं चैव तु हूयते || २९ || ईशानं * * * * न्तं ईशान्यां दिशि होमयेत् | अष्टोत्तरशतं चैवं होमयेद्देशिकोत्तमः || ३० || प्. २११) स्नपनं कारयेत्तत्र अष्टोत्तरशतं ततः | एवमेव क्रमेणैव सप्ताहं कारयेद्द्विजः || ३१ || दिने दिने च विप्रेन्द्र ब्राह्मणान्भोजयेत्ततः | शैवांश्च भोजयेत्तत्र सव्यष्टिपरिचारकान् || ३२ || आचार्यं भोजयेत्तत्र वस्त्रधान्यादि कांचनैः | दिनान्ते चैव विप्रेन्द्र ! रात्रौ ग्रामबलिं ददेत् || ३३ || मुद्गान्नं दधिसंयुक्तं * * * पत्र संयुतम् | ब्रह्मादीशानपर्यन्तं स्वस्वनाम्ना विनिक्षिपेत् || ३४ || ईशानान्ते बलिं कुर्यादेवमेव क्रमेण तु | नित्यार्चना विहीने तु शान्तिहोमं तु कारयेत् || ३५ || सन्ध्यातिक्रमणे चैव द्विगुणं पूजयेत्ततः | सन्ध्यां च द्वित्रयो हीने पंचगव्याभिषेचनम् || ३६ || शान्तिहोमं ततः कुर्यात् संख्यया पूजयेच्छिवम् | एकाहे त्रितये वापि पंचाहे वापि हीनके || ३७ || शान्तिहोमं ततः कुर्यात् स्नपनं तत्र कारयेत् | दिशाहोमं चार्धमासे तु स्नपनं चैव कारयेत् || ३८ || इत ऊर्ध्वं तु मासंस्याज्जल संप्रोक्षणं कुरु | स्थितलिंगमिदं प्रोक्तं चललिंगमतः शृणु || ३९ || एकाहादि विहीने तु द्विगुणं पूजयेत्ततः | त्रिंशात्तु दिवसादूर्ध्वं स्नपनं कारयेत्ततः || ४० || प्. २१२) षण्मासात्परतो विप्र ! जलसंप्रोक्षणं कुरु | नित्याग्नौ च विहीने तु द्विगुणं होममुच्यते || ४१ || नैवेद्ये च विहीने तु द्विगुणं च निवेदयेत् | परिवारे तु विच्छिन्ने स्थापयेत्परिवारकान् || ४२ || तन्मन्त्रेण शतं हुत्वा स्नपनं कारयेत्ततः | गर्भगेहे दीपहीनं पुण्याहं तत्र कारयेत् || ४३ || दीपं संयोजयेत्तत्र प्रासादेन तु मन्त्रतः | नित्योत्सवे दीपहीने तु पुण्याहं तत्र कारयेत् || ४४ || पुनर्दीपं समायोज्य पुनर्नित्योत्सवं कुरु | शुद्धनृत्तविहीने तु स्नपनं तत्र कारयेत् || ४५ || नित्योत्सवे चान्नलिंगं पतितं हीनमेव वा | शान्तिहोमं ततः कुर्यान्नवलिंगं प्रकल्पयेत् || ४६ || स्नपनं तत्र कर्तव्यं नित्योत्सवं ततः शृणु | प्रतिमे पतिते वापि स्नपनं तत्र कारयेत् || ४७ || भिन्नं च स्फुटितं चैव * * * * * * * * | जलसंप्रोक्षणं कृत्वा पश्चान्नित्योत्सवं कुरु || ४८ || वाद्यहीनं तु तत्काले शिवमष्टोत्तरं हुनेत् | श्वानकाकादिभिः स्पृष्टे लिंगे वा प्रतिमेऽपि वा || ४९ || पंचगव्येन संप्रोक्ष्य शान्तिहोमं तु कारयेत् | काले चोत्सवहीने तु स्नपनं तत्र कारयेत् || ५० || प्. २१३) बलिकर्म विहीने तु स्नपनं दिवसे तथा | पंचाहे बलिहीने तु दिशाहोमं तु कारयेत् || ५१ || पुनर्बलिक्रमं कुर्यात् पूर्वोक्तविधिना सह | बलिद्रव्यविहीने तु द्विगुणं च प्रयोजयेत् || ५२ || ग्रामप्रदक्षिणे काले कौतुकं शूलमेव वा | पतिते चैव विप्रेन्द्र ! अस्त्रमन्त्रेण देशिकः || ५३ || शिवमष्टोत्तरं जप्त्वा प्रदक्षिणं ततः कुरु | भिन्ने वांगविहीने तु प्रतिशूलं तथैव च || ५४ || अस्त्रं कृत्वा तु दर्भेण प्रोक्षयेदस्त्रमन्त्रतः | आवाह्य शूलं तत्रैव बलिशेषं समाचरेत् || ५५ || पूर्ववत्क्षालयेद्विप्र ! जलसंप्रोक्षणं कुरु | अष्टमंगलरूपे वा आयुधे वा विहीनके || ५६ || तत्तन्मन्त्रेण होतव्यं अष्टोत्तरशतं पृथक् | तत्स्वरूपं पुनः कृत्वा प्रोक्षयेत्पूर्ववत्क्रमात् || ५७ || ध्वजे वा पतिते भिन्ने छिन्ने नष्टेऽथवा पुनः | स्नपनं तत्र कुर्वीत चण्डयागं तु कारयेत् || ५८ || मूर्ति होमं तु कर्तव्यं ध्वजमुत्थापयेत्क्रमात् | चण्डयागविहीने तु स्नपनं तत्र कारयेत् || ५९ || स्नपने च तथा हीने द्विगुणं स्नपनं भवेत् | यागशालाविहीने तु शान्तिहोमं हुनेत्ततः || ६० || प्. २१४) तद्देशे दीपहीने तु शान्तिहोमं समाचरेत् | दीपं तत्रैव संयोज्य तद्दोषशमनाय च || ६१ || द्विगुणं होमयेद्विप्र ! समिद्धीने विशेषतः | गन्धपुष्पविहीने तु धूपहीने तथैव च || ६२ || पुण्याहं कारयेत्तत्र द्विगुणं दापयेत्ततः | आचार्यस्तु विप्रेन्द्र ! प्रमादाव्याधिसंभवे || ६३ || अन्यैः प्रमादमुत्पन्नैः स्नपनं कारयेद् बुधः | पुत्रपौत्रादिना चैतच्छिष्येणैव तु कारयेत् || ६४ || पुरतो वृषभं हीनं शान्तिहोमं तु कारयेत् | वृषभं तत्र संस्थाप्य स्थापयेद्विधिना सह || ६५ || बाह्यपीठे विहीने तु स्नपनं तत्र कारयेत् | शिल्पिना कारयेत्पीठं स्थापयेल्लक्षणैर्युतम् || ६६ || परिवारार्चनाहीने पुण्याहं कारयेत्ततः | पुनः पूजां समारभ्य तद्दोषशमनाय च || ६७ || नैमित्तिकं च नुक्तं तु विच्छेदं संभवेदिह | पुण्याहं वाचयेत्तत्र पुनः कर्मसमारभेत् || ६८ || वारोत्सवविहीने तु शान्तिहोमं तु कारयेत् | स्नपनं तत्र कुर्वीत पुनर्वारोत्सवं कुरु || ६९ || अमावास्या विहीने तु स्नपनं तत्र कारयेत् | शान्तिहोमं ततः कुर्यादमावास्यां पुनः कुरु || ७० || प्. २१५) मासोत्सवविहीने तु शान्तिहोमं तु कारयेत् | स्नपनं तत्र कुर्वीत पुनर्मासोत्सवं कुरु || ७१ || संक्रान्ति स्नपने हीने शान्तिहोमं तु कारयेत् | पुण्याहं वाचयेत्तत्र पुनः स्नपन माचरेत् || ७२ || प्रासादे वाथ गर्भे वा वल्मीकं दृश्यते ततः | खनित्वा चास्त्रमन्त्रेण वल्मीकैः पूरयेत्ततः || ७३ || शान्तिहोमं ततः कुर्यात् स्नपनं तत्र कारयेत् | प्राकारे मण्टपे वापि प्रासादस्य समीपके || ७४ || धाम्नश्चतुर्दशं दण्डं स्त्रीणां च ऋतु संभवे | तत्काले पंचहव्यं तु तदेवं प्रोक्षयेत्ततः || ७५ || पुण्याहं कारयेत्तत्र स्नपनं कारयेत्ततः | भूतवल्यं च विप्रेन्द्र ! दीपहीनं भवेत्ततः || ७६ || पुण्याहं वाचयित्वा तु पुनदीपं तु योजयेत् | अग्निकुण्डविहीने तु शान्तिहोमं तु कारयेत् || ७७ || पूर्ववद्विन्यसेदग्निं तद्दोषशमनाय च | होमगर्भे प्रतिष्ठायां प्रोक्षणे चोत्सवेऽपि वा || ७८ || अन्येषु सर्वकार्येषु दीक्षा सु विहितो द्विजः | शान्तिहोमं ततः कृत्वा स्नपनं तत्र कारयेत् || ७९ || पुनर्दीक्षाभियुक्तं तु कारयेत्सर्वकर्मसु | त्रैवर्णिककुले जाता स्त्रीणामार्तव संयुतम् || ८० || प्. २१६) लिंगं वा कौतुकं वापि समीपे ऋतुसंभवे | प्राकारे गोपुरे चैव पंचगव्येन शुध्यति || ८१ || पुण्याहं वाचयेत्तत्र शान्तिहोमं तु कारयेत् | स्नपनं तत्र कर्तव्यं तद्दोषशमनाय च || ८२ || स्पृशेद्वापि विप्रेन्द्र ! जलसंप्रोक्षणं कुरु | मन्त्रहीने क्रियाहीने द्रव्यहीनस्य कालके || ८३ || पुण्याहं वाचयेत्तत्र पुनः कुर्यात्तथैव च | उपदंशादि विच्छिन्ने पुण्याहं वाचयेत्ततः || ८४ || उपदंशं पुनर्दद्याद् वस्त्रहीनं तथैव च | पीठपूजा विहीने तु पुण्याहं वाचयेत्ततः || ८५ || पुनः पूजा प्रकर्तव्या पूर्वोक्तविधिना सह | शुद्धनृत्तविहीने तु कुर्यात्स्नपनमुत्तमम् || ८६ || तत्काले गणिका चैव पतिते स्नपनं भवेत् | शान्तिहोमं ततः कुर्याच्छुद्धनृत्तं तु कारयेत् || ८७ || प्रासादे वान्तर्हारे वा मण्टपे वा तथैव च | गणिकाभृत्यवर्गे वा रजोदृष्टेन संभवे || ८८ || पुण्याहं कारयेत्तत्र स्नपनं कारयेत्ततः | दिशाहोमं ततः कुर्यान् महाहविर्निवेदयेत् || ८९ || बहिः प्रकारये चैव शावमुत्पाद्यते यदि | पुण्याहं कारयेत्तत्र शान्तिहोमं च कारयेत् || ९० || प्. २१७) प्रायश्चित्तमिदं प्रोक्तं क्षीरस्नानं शृणुष्वथ | ९० | इति वीरतन्त्रे प्रायश्चित्तविधिः द्विपंचाशः पटलः || ५२ || पितामहः || कीदृशानि विधानीह क्षीरस्नानविधिः परः | एतत्सर्वं समासेन वक्तुमर्हसि मे प्रभो ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | अनावृष्ट्यादिकालेषु ज्वरमारी प्रवर्तने || २ || महारोगसमुत्पन्ने युद्धारम्भे तथैव च | शत्रूणां पीडने काले क्षीरस्नानं विधीयते || ३ || उत्तमं कपिलाक्षीरं मध्यमं श्वेतजं भवेत् | अधमं रक्तजं प्रोक्तं स्नापयेद्देशिकोत्तमः || ४ || नन्दा भद्रा च सुरभिः सुशीला सुमनस्तथा | पंचगावसमुत्पन्ना लोकानुग्रहकाम्यया || ५ || तासां वर्गेषु जातानां क्षीरं संगृह्य देशिकः | क्षीरस्नानं त्रिधा प्रोक्तः मुत्तमं मध्यमाधमम् || ६ || धारोष्णं पयसा चैव स्नपयेद् हृदयेन तु | अधमं चैतदुद्दिष्टं मध्यमं च ततः शृणु || ७ || प्. २१८) गोक्षीरं गृह्य सर्वासां एकभाण्डे प्रपूरयेत् | शिवस्य पुरतो विप्र ! गोमयेनानुलेपयेत् || ८ || शालिना स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः | सूत्रपातं प्रकर्तव्यं शास्त्रदृष्टेन तन्तुना || ९ || चतुर्दशानि सूत्राणि पूर्वाभिमुखमेव च | उत्तराग्रं तथा सूत्रं विन्यसेद्देशिकोत्तमः || १० || मध्ये नवपदं स्थित्वा तद्बाह्येकं परित्यजेत् | तद्बाह्यावरणाद्बाह्ये पदमेकन्तु ह्रासयेत् || ११ || द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् | मध्यमेन पदे चैवं शालिना विकिरेत्ततः || १२ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | परिस्तरेत्तु दर्भैश्च प्रोक्षयेद् हृदयेन तु || १३ || सुदृढान्निष्कलंकांश्च आढकेनैव पूरितान् | कलशान्ग्राहयेत्तेन सूत्रेण वेष्टयेत्ततः || १४ || क्षालयेद्वारिणा चैव ईशानेन तु प्रोक्षयेत् | मध्यमे शिवकुम्भं तु क्षीरेणैवाभिपूरयेत् || १५ || वर्धनीं तस्य वामे तु पूरयेत्क्षीरमेव च | शिवबीजेन मन्त्रेण स्थापयेच्छिवकुम्भकम् || १६ || गौरीबीजेन वर्धन्यां स्थापयेद्देशिकोत्तमः | सवस्त्रं स हिरण्यं च सकूर्चं सापिधानकम् || १७ || प्. २१९) गन्धपुष्पादिनाभ्यर्च्य स्थापनं तु समारभेत् | प्रथमावरणे चैव कलशानष्ट विन्यसेत् || १८ || द्वितीयावरणे चैव विंशतिं कलशान्न्यसेत् | तृतीयावरणे चैव षट्त्रिंशत्कलशान्न्यसेत् || १९ || चतुर्थावरणे चैव चतुश्चत्वारिकं भवेत् | क्षीरेण पूरयेद्धीनं सवस्त्रं सापिधानकम् || २० || विन्यसेत्तु विशेषेण देवतानां शृणुष्वथ | प्रथमावरणे चैव विद्येश्वरांश्च विन्यसेत् || २१ || द्वितीयावरणे चैव विघ्नेशस्तत्र देवता | तृतीयावरणे चैव ब्रह्मा तत्राधिदेवता || २२ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव निवेदयेत् | ततो होमं प्रकर्तव्यं नवपंचैकमेव वा || २३ || कुण्डं वा स्थण्डिलं वापि चतुरश्रं वृत्तमेव वा | अग्निमुखं च संकल्प्य पूर्वोक्तेन क्रमेण तु || २४ || समिदाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान् | मुद्गमाषसमायुक्तं नवद्रव्यमिहोच्यते || २५ || समिध ईशमन्त्रेण आज्यं च पुरुषेण तु | अघोरेण चरुं हुत्वा लाजान्वामेन चैव हि || २६ || सर्षपं सद्यमन्त्रेण यवान्हृदयमन्त्रतः | तिलान्वै शिरोमन्त्रेण मुद्गं तु शिखया युतम् || २७ || प्. २२०) माषं नेत्रेण हुत्वाथ यथाक्रमेण हूयते | अष्टोत्तरशतं वापि पंचाशत्पंचविंशतिः || २८ || हुतंसंख्या इति प्रोक्ता द्रव्यान्ते व्याहृतिं हुनेत् | घृतमिक्षेति मन्त्रेण जुहुयात्तदनन्तरम् || २९ || हुत्वान्ते च यदस्येति पूर्णाहुतिमथाचरेत् | आचार्यं पूजयेत्तत्र पदार्थीन्पूजयेत्ततः || ३० || प्रासादेन तु मन्त्रेण (जुहुयात्तदनन्तरम्) | गौरीबीजेन मन्त्रेण वर्धनीं स्नापयेत्ततः || ३१ || शेषांश्च कलशाश्चैव स्नापयेत्तु यथाक्रमम् | पंचाशद्भिः पंचविंशद्भिः स्नापयेत्स्नपनोक्तवत् || ३२ || पूर्वेण विधिनाऽनेन स्नापयेत्कलशं ततः | दधिस्नानं प्रकर्तव्यं घृतस्नानं तथैव च || ३३ || क्षीराभिषेकमेवोक्तं कुण्डानां लक्षणं शृणु | ३३ || इति वीरतन्त्रे क्षीराभिषेकविधिस्त्रिपंचाशः पटलः || ५३ || पितामहः || देवदेवं प्रणम्यादौ पर्यपृच्छत्पितामहः | कुण्डानां लक्षणं किं च तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || प्. २२१) एतेषां लक्षणं चैव आयुधानष्टमंगलान् | स्रुक्स्रुवाणां विधिं चैव शृणुष्व कमलासन ! || २ || कुटीदहनमाचष्टे यन्त्राग्निः समिदाहुतिः | दहत्यशेषभावेन तत्कुण्डमिह संज्ञितम् || ३ || प्रतिष्ठाद्युत्सवे काले जलसंप्रोक्षणे तथा | स्नपने दीक्षाकाले तु पवित्रारोहणादिषु || ४ || एवमादिषु कालेषु वर्तयेत्कुण्डमेव च | * * * * * ले चैव दर्पणोदरवत्समम् || ५ || त्रीणि सूत्राणि पूर्वाग्रं उदगग्रं तथैव च | हस्तमात्र प्रमाणेन मात्रांगुल समन्वितम् || ६ || वर्तयेच्चतुरश्रं तु भावयेच्च क्रमेण तु | योन्यादि सर्वकुण्डानि चतुरश्रे प्रजायते || ७ || पूर्वे तु चतुरश्रं स्याद् अग्नावश्वत्थपत्रवत् | याम्यायामर्धचन्द्रं च नैर्-ऋत्यां तु त्रिकोणकम् || ८ || वारुण्यां वर्तुलं चैव वायव्यां पंचकोणकम् | सौम्यायां सप्तकोणं तु ऐशान्यामष्टकोणकम् || ९ || एवमेव क्रमेणैव कुण्डानि वर्तयेत्ततः | कर्णसूत्रस्य मोक्षांशं पश्चिमे विन्यसेत्ततः || १० || वर्तयेत्तेन मानेन कोणान्तं तु विशेषतः | दक्षिणे चोत्तरे वृत्तं कारयेद्देशिकोत्तमः || ११ || प्. २२२) सप्तांशं विभजेत्कर्णं इन्द्रेणैकांशकं न्यसेत् | कोणादि तत्र सूत्रं च विन्यसेद्देशिकोत्तमः || १२ || एवमेव क्रमेणैव कुण्डं योन्याकृतिर्भवेत् | चतुरश्रस्य कर्णं तु ग्राहयेत्तु द्विजोत्तमः || १३ || ततो विसृज्यक्षेत्रार्धं शेषं कुर्यात्त्रिभागिकम् | भागमेकं न्यसेत्पूर्वे मध्यात्पूर्वादि भ्रामयेत् || १४ || वर्तुलं कृतमेवं तु तत्रार्धं धनुरुच्यते | अष्टभागकृतं क्षेत्रं एकभागं तु दक्षिणे || १५ || उत्तरे चैकभागं तु एकभागं तु पूर्वतः | विन्यसेच्चैव विप्रेन्द्र ! तेन मानेन सूत्रकम् || १६ || एवमेव क्रमेणैव त्रिकोणं प्रोच्यते क्रमात् | सप्तभागकृतं क्षेत्रं विन्यसेत्पूर्वमेकशः || १७ || तस्मान्मध्यं गृहीत्वा तु वृत्तं कृत्वा तु देशिकः | कर्णार्धमष्टधा भित्वा कर्णार्धेन समन्वितम् || १८ || तेन मानेन प्राच्यादि पंचकोणं करोति हि | लिकेशांशं तु क्षेत्रं स्यात्पूर्वमेकेन विन्यसेत् || १९ || तस्मान्मध्यं गृहीत्वा तु वृत्तकुण्डं करोति हि | क्षेत्रं द्वात्रिंशदंशं तु क्षेत्रार्धेन तु योजयेत् || २० || सप्ताश्रं कुण्डमित्युक्तं प्रागादि विन्यसेत्ततः | वसुभागकृतं क्षेत्रं दक्षिणे चार्धभागतः || २१ || प्. २२३) उत्तरे चार्धभागं तु विन्यसेद्देशिकोत्तमः | तस्मान्मध्यं गृहीत्वा तु कृत्वा षट्कोणमेव च || २२ || पूर्वे च पश्चिमे चैव द्वौ द्वौ कर्णमिहोच्यते | दक्षिणे चोत्तरे चैकं कोणमित्यभिधीयते || २३ || पूर्ववद्वृत्तकुण्डं तु कुर्याद्वै देशिकोत्तमः | अष्टपत्रसमं कृत्वा पद्मकुण्डमिहोच्यते || २४ || क्षेत्रं चैवं चतुर्विंशद् भागं कृत्वा तु देशिकः | अभ्यन्तरे तु विन्यस्य चतुर्दिक्षु विशेषतः || २५ || मध्यात्कर्णं गृहीत्वा तु चतुर्दिक्षु च लांछयेत् | लांछनं कोणकं गृह्य एतदभ्यन्तरस्य तु || २६ || अष्टकोणं प्रकर्तव्यं सूत्रमानेन देशिकः | अथवान्यप्रकारेण कुण्डं कुर्यात्तु देशिकः || २७ || यावदश्रं भवेत्पीठं तावदश्रं तु कुण्डलम् | मेखलां च प्रकर्तव्यं विस्तारोत्सेधतत्समम् || २८ || ऊर्ध्वे तु चतुरंगुल्यं मध्यमं तु त्रियंगुलम् | अधस्तान्मेखला विप्र ! द्व्यंगुलं तदिहोच्यते || २९ || योनिं प्रकल्पयेद्विद्वान् मेखलोपरि देशिकः | विस्तारं चतुरंगुल्यं सप्तांगुलं तु दैर्घ्यकम् || ३० || गजोष्ट्रसदृशाकारं मेखलां तन्तुनालकम् | हस्तमात्रं खनेद्भूमिं विस्तारं तलमेव तु || ३१ || प्. २२४) निम्नोन्नतक्षयं कुर्याद् दर्पणोदरवत्कृतम् | मध्ये नाभिं प्रकल्प्याथ एकांगुलं तु विष्ठरम् || ३२ || कुण्डानां लक्षणं प्रोक्तं अस्त्राणां लक्षणं शृणु | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् || ३३ || गदा शूलं च चक्रं च पद्मं चेति दशायुधम् | सौवर्णं राजतं ताम्रं याज्ञिकं वृक्षमेव वा || ३४ || प्लक्षोदुम्बरमश्वत्थं वटं चैव तु खादिरम् | वैकंकतमयं वापि कुर्यादस्त्रमनुत्तमम् || ३५ || द्वात्रिंशदंगुलं दैर्घ्यं मात्रांगुलं तु कारयेत् | विस्तारं च षडंगुल्यं घनं तस्यार्धमुच्यते || ३६ || षडंगुलप्रमाणेन शूलं कृत्वा तु देशिकः | मध्ये पद्ममृजुं कृत्वा बहिर्वक्रं तु पार्श्वयोः || ३७ || तदधो गण्डिका चैव अंगुलोच्चं तु कारयेत् | तदधो गण्डिकां कुर्यादर्धांगुलेन कारयेत् || ३८ || षडंगुलपरीणाहं मध्ये दण्डं प्रकल्पयेत् | मध्यमे गण्डिकां कुर्यादंगुलद्व्यमानतः || ३९ || तदूर्ध्वे तदधश्चैव द्वाभ्यामंगुलिना कुरु | एवमेव क्रमेणैव द्वयोरग्रं तु शूलवत् || ४० || एवं वज्रं समाख्यातं शक्तिलक्षणमुच्यते | चतुरंगुलविस्तारं दीर्घं पूर्ववदेव तु || ४१ || प्. २२५) द्वयोरग्रं तु विप्रेन्द्र ! शूलस्य मध्यपत्रवत् | तस्योच्छ्रयं षडंगुल्यं एकांगुलेन गण्डिका || ४२ || मध्यमे गण्डिकां कुर्यादंगुलद्वयमेव च | तदूर्ध्वे तदधश्चापि द्वाभ्यामंगुलिना भवेत् || ४३ || गण्डिका तत्र कर्तव्या शक्तिलक्षणमुच्यते | वज्रवत्फलका चैव तदूर्ध्वे गण्डिकांगुलिः || ४४ || अष्टांगुलं तु विस्तारं दण्डस्यैव विशेषतः | घटस्योच्चं षडंगुल्यं तदधो गण्डिकांगुलिः || ४५ || षडंगुलप्रमाणेन दण्डनाहमिहोच्यते | पूर्ववद्दीर्घमेवं स्यान् मध्ये वक्रं तथैव च || ४६ || वक्रादूर्ध्व क्रमेणैव कृशं कुर्याद्विचक्षणः | मूले तु फलकां कृत्वा विस्तारं तु षडंगुलम् || ४७ || तदूर्ध्वे वर्तुलाकारां फलकां कारयेत्ततः | तद्दीर्घं फलकां कृत्वा मध्ये पाशं तु लेखयेत् || ४८ || अंकुशस्य प्रमाणं तु प्रवक्ष्याम्यनुपूर्वशः | दीर्घं तु पूर्ववत्कृत्वा अग्रे सूचीमुखं ततः || ४९ || अग्रात्षडंगुले चैव अधस्ताच्चक्र सूचिना | चतुरंगुलदैर्घ्यं तु नाहमेकांगुलं भवेत् || ५० || एवमंकुशवक्रं च दण्डनाहं षडंगुलम् | गदां तु दण्डवत्कृत्वा अग्रे सूचिं तु कारयेत् || ५१ || प्. २२६) त्रिशूलं पूर्ववत्कृत्वा त्रिपत्रं पालिकायुतम् | पालिका तु चतुष्कोणे वृषभं स्थापयेत्पुनः || ५२ || एवं शुलं समाख्यातं चक्रलक्षणमुच्यते | चक्रस्य शूलवन्मानं वृत्तरूपमिहोच्यते || ५३ || द्वादशार समायुक्तं मध्ये नाभिसमायुतम् | एवं चक्रं समाख्यातं पद्मं चैव शृणुष्वथ || ५४ || मुकुलं चाष्टांगुलं प्रोक्तं तदधो गण्डिकांगुलम् | पंचांगुलं तु विप्रेन्द्र ! दण्डनाहमिहोच्यते || ५५ || एवं पद्मं समाख्यातं अष्टमंगलमुच्यते | षोडशांगुलदैर्घ्यं स्यादष्टांगुलं तु विस्तरम् || ५६ || अधस्तात्तु षडंगुल्यं पद्मं चैव तु कारयेत् | दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् || ५७ || श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् | विन्यसेत्फलकामध्ये अष्टमंगलमुच्यते || ५८ || षड्विंशत्यंगुलं दैर्घ्यं विस्तारं तु दशांगुलम् | वर्णेन लेखयित्वा तु लांछयेच्छिल्पिना ततः || ५९ || तद्रूपमासनायुक्तं लेखयेदष्टमंगलम् | स्रुवस्य लक्षणं वक्ष्ये चतुर्विंशतिरंगुली || ६० || दीर्घमेवं समाख्यातं वृत्तं चैव षडंगुलम् | कर्णं त्रियंगुलं प्रोक्तं मानं पूज्याक्षयं भवेत् || ६१ || प्. २२७) लेखयित्वा तु विप्रेन्द्र ! नाहं चैव षडंगुली | नासिकावद्बलिं कृत्वा स्रुवलक्षणमुच्यते || ६२ || स्रुग्लक्षणमथो वक्ष्ये विविधं चोच्यते मया | षट्त्रिंशदंगुलायामं अष्टांगुलसुविस्तरम् || ६३ || उत्सेधं तु षडंगुल्यं फलकां चैव कारयेत् | अग्रं चैव त्रिभागैकं सप्तांगुलं तु दैर्घ्यकम् || ६४ || आनुपूर्व्यात्क्षयं कृत्वा निम्नोन्नत विवर्जितम् | रसांगुल प्रविस्तारं कर्णं चैव समाहितः || ६५ || कर्णोच्चं तु द्व्यांगुल्यं तदधः फलका भवेत् | अष्टांगुलेन वेदिः स्याद् विस्तार तावदेव तु || ६६ || वेदिबाह्ये तु परितः पट्टिकार्धांगुलेन तु | मध्यमे चतुरंगल्यं बलिं चैव तु कारयेत् || ६७ || परितो बिलबाह्ये तु पट्टिकार्धांगुलेन तु | द्वयोः पट्टिकयोर्मध्ये यवद्वयं तु निम्नकम् || ६८ || चतुरंगुलं बिलं निम्नं कृत्वा चैव तु देशिकः | बिलाच्चैव मुखान्तं स्यात्खातं कनिष्ठमानतः || ६९ || पद्मपृष्ठ समाकारं अधः पद्मसमन्वितम् | गजोष्ट्र सदृशाकारं मत्स्यपृष्ठाकृतिर्भवेत् || ७० || गण्डिका चैव कर्तव्या अंगुलीत्रयमुच्यते | तदधो गण्डिका बाह्यां तदधो गण्डिकां शृणु || ७१ || प्. २२८) दण्डं षडंगुलं नाहं दण्डमूले घटो भवेत् | द्वयांगुलप्रमाणेन घटं कृत्वा तु देशिकः || ७२ || स्रुग्लक्षणमिदं प्रोक्तं तोरणानां शृणुष्वथ | पंचहस्तप्रमाणेन उत्तमं तोरणोच्छ्रयम् || ७३ || चतुर्हस्तं मध्यमं प्रोक्तं तालहीनं तु चाधमम् | उत्सेधार्धं तु विस्तारं फलकां चैव विन्यसेत् || ७४ || तदूर्ध्वे तु द्वयंगुल्यं विन्यसेद्देशिकोत्तमः | एवं तोरणमाख्यातं दर्भमालां शृणुष्वथ || ७५ || उत्तमं सप्तदर्भैश्च मध्यमं पंच उच्यते | अधमं त्रीणि दर्भाणि तदग्रे रज्जु रुच्यते || ७६ || हस्तं प्रलम्बयेद्धीमान् कारयेद्दर्भमालिकाः | परिधीलक्षणं वक्ष्ये अवक्रं निर्व्रणं शुभम् || ७७ || द्वात्रिंशदंगुलायामं तिस्रः परिधयो भवेत् | षट्त्रिंशदंगुलायामं त्रिधा दर्भैः परिस्तरेत् || ७८ || चतुरंगुलमानेन ग्रथितं तु प्रदक्षिणम् | चत्वारि विष्ठरं कुर्यादाज्यस्थाल्यादिकं शृणु || ७९ || आज्यस्थालीं प्रणीतां च प्रोक्षणीं च तथैव च | विस्तारं च षडंगुल्यं उत्सेधं तु द्वयांगुलम् || ८० || समिधो लक्षणं वक्ष्ये द्वादशांगुलदैर्घ्यकम् | आज्यं स्रुवप्रपूर्णं च हस्तमात्रप्रमाणतः || ८१ || प्. २२९) तदधश्च तदूर्ध्वं च तिलादीन्शुक्तिमात्रकम् | अन्नमक्ष प्रमाणेन गुलं वै तत्प्रमाणतः || ८२ || द्रवं स्रुवेण होमं तु अन्यं हस्तेन हूयते | स्थलिका चैव कर्तव्या हस्तमात्र प्रमाणतः || ८३ || तदधश्च तदूर्ध्वे तु कुर्याद्वित्तानुसारतः | पीठोच्चं तु त्रिपादींश्च कारयेद्देशिकोत्तमः || ८४ || कूर्चानां लक्षणं वक्ष्ये अधमं तु त्रिदर्भकैः | मध्यमं पंचदर्भैस्तु सप्तदर्भैस्तु चोत्तमम् || ८५ || दक्षिणावर्त संयुक्तं तदग्रे ग्रथितं भवेत् | कूर्चानां लक्षणं प्रोक्तं वस्त्राणां लक्षणं शृणु || ८६ || अधमं चाष्टहस्तं स्यान्मध्यमं दशहस्तकम् | उत्तमं द्वादश प्रोक्तं विस्तारं पंचतालकम् || ८७ || वस्त्रलक्षणमेवोक्तं वितानस्य विधिं शृणु | षट्सप्त चैव दीर्घं स्यादष्टतालं तु विस्तरम् || ८८ || वितानलक्षणं प्रोक्तं एवमेव क्रमेण तु | कुण्डानां लक्षणं प्रोक्तं शान्तिहोमं शृणुष्वथ || ८९ || इति वीरतन्त्रे कुण्डादिलक्षणविधिश्चतुः पंचाशः पटलः || ५४ || शान्तिहोमं कथं देव ! दिशाहोमं कथं प्रभो ! | मूर्तिहोमं कथं शंभो ! ब्रूहि मे परमेश्वर ! || १ || प्. २३०) ईश्वरः || शान्तिहोममहं वक्ष्ये शृणुष्व कमलासन ! | पूर्वोक्तमण्डपं वापि अग्निशालामथापि वा || २ || अग्निकुण्डेषु होतव्यं स्थण्डिले वापि कारयेत् | चतुरश्रं वाथ वृत्तं अग्निकुण्डं तु कारयेत् || ३ || त्रिमेखलासमायुक्तं अथवा एकमेखला | एवं तत्रैव संकल्प्य दर्पणोदरवत्कृतम् || ४ || शोधनं क्षालनं चैव शोषणं पाचनं तथा | मथित्वा तु गृहीत्वा तु हृदयेन प्रतिष्ठितम् || ५ || काष्ठं तु शिरसा दद्याज्ज्वालयेदस्त्र मन्त्रतः | उपस्थानं शिरसा कृत्वा परिस्तरणमेव च || ६ || दशदर्भैः समायुक्तं पूर्वे चैव परिस्तरेत् | दक्षिणे पश्चिमे चैव उत्तरे च परिस्तरेत् || ७ || परिधीन्दक्षिणे न्यस्य पश्चिमे चोत्तरे न्यसेत् | पात्राणां साधनं चैव हूयते क्रमशस्ततः || ८ || समिधा पंचब्रह्मेण आज्यं चैव षडंगकैः | अघोरेण चरुं हुत्वा जुहुयात्तु शताहुतिः || ९ || द्रव्यं प्रति विशेषेण व्याहतिं जुहुयात्ततः | शान्तिहोममितिख्यातं दिशाहोमं ततः शृणु || १० || इति वीरतन्त्रे शान्तिहोमविधिः पंचः पंचाशः पटलः || ५५ || प्. २३१) अनुक्तं यद्भवेद्दोषं शान्तिहोमेन शाम्यति | दिशाहोमं प्रवक्ष्यामि शृणुष्व चतुरानन ! || १ || प्रासादस्य चतुर्दिक्षु दिशाहोमं तु कारयेत् | अग्निमुखं च संकल्प्य पूर्वोक्तेन विधानतः || २ || हस्तमात्रेण विप्रेन्द्र ! स्थण्डिलं कारयेत्ततः | प्रासादस्य चतुर्दिक्षु पूर्वे तु चतुरश्रकम् || ३ || दक्षिणे चार्धचन्द्राभं वृत्तं चैव तु वारुणे | पद्मं चैव तु सौम्यायां कुण्डं वा स्थण्डिलं तु वा || ४ || प्लक्षं चैव तु पूर्वायां उदुम्बरं च दक्षिणे | अश्वत्थं वारुणे चैव वटं चैवोत्तरे दिशि || ५ || एवं विधैः समिद्भिश्च हूयते देशिकस्तथा | सहस्रं वा तदर्धं वा अष्टोत्तरशतं तु वा || ६ || सद्यादीशानपर्यन्तं जुहुयात्तु शताहुतिः आज्येन चरुणा चैव जुहुयात्तु शताहुतिः || ७ || तण्डुलैस्तिलमिश्रैश्च ईशानेन शताहुतिः | द्रव्यान्ते चैव द्रव्यान्ते व्याहृतिं जुहुयात्ततः || ८ || दिशाहोममिदं प्रोक्तं मूर्तिहोमं ततः शृणु | शिवाग्रे मण्टपं कृत्वा स्थण्डिलं शालिभिः कुरु || ९ || मध्यमे स्थापयेत्कुम्भं स सूत्रं सापिधानकम् | स वस्त्रं स हिरण्यं च सकूर्चं वारिपूरितम् || १० || प्. २३२) अभितः कलशानष्टौ अष्टमूर्तिं च विन्यसेत् | आदित्यश्च तथाचाग्निः सोमो धरणिरेव च || ११ || आकाशश्चैव वायुश्च वरुणो यजमानकम् | पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः || १२ || पंचब्रह्मेण संपूज्य गन्धपुष्पादिना ततः | कलशान्बाह्यतो विप्र ! अष्टदिक्ष्वष्ट होमयेत् || १३ || समिदाज्यचरुक्षीरं यवने सह देशिकः | एकैकाष्टशतं चैव ईशानादीनि हूयते || १४ || पश्चात्तु स्थापयेत्तत्र मूलबेरे विशेषतः | हविर्निवेदयेत्पश्चात् शिवस्य परमेष्ठिनः || १५ || मूर्ति होममिति ख्यातं वास्तुहोममथ शृणु | प्रासादे मण्टपे चैव लिंगस्थापनकर्मणि || १६ || प्रतिमास्थापने चैव सभाकूपतटाकके | उद्याने वापि विप्रेन्द्र ! वास्तुहोमं तु कारयेत् || १७ || आदिशैवेन कर्तव्यं अथवा दीक्षितेन वा | समरीय पदे कृत्वा स्थण्डिलं सिकतेन वा || १८ || स्थण्डिलस्य तु पूर्वे तु जलावर्तं तु विन्यसेत् | शुद्धतोयेन संपूर्य होमं तत्रैव निक्षिपेत् || १९ || पश्चात्पूर्वशाखैश्च तस्य मध्ये तु निक्षिपेत् | गन्धपुष्पादिनाभ्यर्च्य उल्लेखनं तु कारयेत् || २० || प्. २३३) तिस्रः पूर्वमुखा रेखां तद्वदुत्तरमेव च | अघोरास्त्रेण चा लिख्य प्रोक्षयेत्पुरुषेण तु || २१ || हृदयेनाग्निं निक्षिप्य उपस्थानं तथैव च | परिस्तरेत दर्भैश्च पूर्वोक्तेन परिस्तरेत् || २२ || पात्राणि साधयेत्तत्र अग्नेरुत्तरतो बहिः | प्रणीतामुत्तरे स्थाप्य ब्रह्माणं दक्षिणे यजेत् || २३ || इन्द्रादिलोकपालांश्च पूरयेत्तु स्वदेशतः | आज्याधिश्रवणं कुर्यात् पूर्वोक्तेन विधानतः || २४ || स्रुवं चैव गृहीतव्यं संस्कारं पूर्ववत्कृतम् | दक्षिणे चोत्तरे चैव उत्तरे परिधीन्न्यसेत् || २५ || अघोरसमिधो न्यस्त्वा परिषेचनं ततः कुरु | तूष्णीमध्यं तु दद्यात्तु अघोरं चैव हूयते || २६ || सद्यादीशानपर्यन्तं दिक्षु मध्ये च होमयेत् | चरुं हुत्वार्थभस्मन्नाज्यं वास्तोष्पतेति च || २७ || वास्तु देवतानां तु अघोरं चैव हूयते | सद्यादीशानपर्यन्तं घृतेनैव तु होमयेत् || २८ || वास्तु दैवतनामानि स्वाहान्तं चैव हूयते | पायसान्नंगुलं युक्तं घृते नैव परिप्लुतम् || २९ || वास्तुदेवबलिं दत्वा लोकपालबलिं क्षिपेत् | जयादिरभ्यधानं च राष्ट्रभृच्चैव हूयते || ३० || प्. २३४) आज्येन चरुणा चैव हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || ३१ || आज्येनैव यदस्येति स्विष्टकृद्धूयते क्रमात् | परिषेचनं ततः कृत्वा परिधान्यानि धापयेत् || ३२ || विसर्जयेत्तु ब्रह्माणं दक्षिणां दापयेत्ततः | प्रणीतोदकेन संप्रोक्ष्य पवमानमुदीरयन् || ३३ || आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकांचनैः | सवत्सांगां प्रदद्यात्तु आचार्याय विशेषतः || ३४ || आचार्य दक्षिणाहीने क्रिया निष्फलतां व्रजेत् | क्रियाशरीरमित्युक्तं दक्षिणा जीव उच्यते || ३५ || क्रियायां दक्षिणाहीने निर्जीवं स्यात्तु निष्फला | तस्मात्सर्वप्रयत्नेन आचार्यं पूजयेत्सदा || ३६ || वास्तुहोममितिख्यातं सकलाराधनं शृणु || ३६ || इति वीरतन्त्रे मूर्ति वास्तुहोमः षट्पंचाशः पटलः || ५६ || पितामहः || शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः | सकलाराधनं किं वा तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | जलस्नानं पुरा कृत्वा भस्मस्नानं समाचरेत् || २ || प्. २३५) प्रतिमस्याग्रतश्चैव गोमयेनानुलेपनम् | उत्तराभिमुखो भूत्वा पूर्वाभिमुख एव वा || ३ || कूर्चं तत्रैव निक्षिप्य आसीनश्चैव देशिकः | तस्यैव वामभागे तु दर्भैश्चैव परिस्तरेत् || ४ || गन्धपुष्पं च धूपं च दीपं चैव तु विन्यसेत् | पाद्यमाचमनं चार्घ्यं हृदयेन तु विन्यसेत् || ५ || दर्भैः प्रच्छादयेद्विद्वान् ईशमन्त्रेण देशिकः | त्रिपादमध्यमे चैव शंखं चैव तु विन्यसेत् || ६ || कूर्चेन वा कुशैर्वापि प्रोक्षयेदम्भसा ततः | रेचकं पूरकं चैव कुम्भकं च समाचरेत् || ७ || अंगुष्ठतर्जनीभ्यां तु हुंकारेण समन्वितम् | फट्कारेण समायुक्तं दशदिक्षु च शोधयेत् || ८ || हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च | ईशानमंगुष्ठे न्यस्य तर्जन्यां चैव देशिकः || ९ || शेषांगुलाश्च विप्रेन्द्र अंगुष्ठेन तु विन्यसेत् | पुरुषं तर्जनीं न्यस्य अघोरं मध्यमे न्यसेत् || १० || अनामिकां वामदेवं तु सद्यं कनिष्ठिके न्यसेत् | षडंगं विन्यसेत्तत्र पूर्वोक्तेन विधानतः || ११ || हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् | शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः || १२ || प्. २३६) अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे च विन्यसेत् | ईशानमूर्तिं विन्यस्य मुखे तत्पुरुषं न्यसेत् || १३ || अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | सद्योजातं न्यसेत्पादे विन्यसेत्तु विशेषतः || १४ || ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे चेश्वरं न्यसेत् | मुखे विष्णुं न्यसेद्विद्वान्कर्णयोरश्विनौ न्यसेत् || १५ || कण्ठे च पितरश्चैव इन्द्रश्च हृदये न्यसेत् आदित्यं दक्षिणे बाहौ सोमं विन्यस्य वामके || १६ || कुक्षावग्निं न्यसेत्तत्र यमं मेढ्रे च विन्यसेत् | वरुणं दक्षिणे जानौ अपरे वायुरुच्यते || १७ || विश्वेदेवाश्च विप्रेन्द्र द्वौ पादौ विन्यसेत्ततः | विन्यसेत्सृष्टिमूर्तीनां सृष्टि न्यासमुदाहृतम् || १८ || स्थितिमूर्तेश्च विप्रेन्द्र ! स्थिति न्यासमुदाहृतम् | संहारमूर्तिनां चैव संहार न्यासमुच्यते || १९ || पूजकस्यादि देहे तु विन्यसेद्देहमेव तु | एवं न्यासविधानेन पश्चात्पूजनमारभेत् || २० || प्रतिमाश्चाग्रतश्चैव पीठलक्षणसंयुतम् | तालमात्रप्रविस्तारं तदर्धं चोच्छ्रयं भवेत् || २१ || त्रिमेखलासमायुक्तं अथवा चैकमेखलम् | मात्रांगुलेन कर्तव्यं मेखलोच्चं द्वयांगुलम् || २२ || प्. २३७) वेशनं तद्वदेव स्याद् दर्पणोदरवत्कृतम् | प्रतिमानां च सर्वासां पीठे कर्मार्चनं यजेत् || २३ || प्रतिमे वार्चयेद्विप्र ! गन्धपुष्पान्त संयुतम् | चलं चैवाचलं चैव द्विविधं प्रतिमं भवेत् || २४ || चलं लोहमयं प्रोक्तं अचलं च चतुर्विधम् | शिलाभिर्मृण्मयैर्वापि भित्तिचित्रे पटेऽपि वा || २५ || एवं चतुर्विधं प्रोक्तं अचलं देशिकोत्तमः | शैलजं प्रतिमं चैव अभिषेकं तु कारयेत् || २६ || मृण्मयं भित्तिचित्रं च पटं चैव तु प्रोक्षयेत् | लोहजं प्रतिमं चैव स्नापयेत्प्रोक्षयेत्तु वा || २७ || प्रासादे प्रतिमं स्थाप्य भित्तिचित्रे पटेपि वा | पीठे संपूजयेत्तत्र परिवार समन्वितम् || २८ || नैवेद्यं दापयेत्तत्र नित्योत्सवं तु कारयेत् | केवलं स्थापित इदमन्यच्छृणुष्वथ || २९ || एवं लिंगस्य स्थाने तु स्थापितं प्रतिमं ततः | परिवारं न कर्तव्यं श्रीबिल्वं च न कारयेत् || ३० || केवलं स्थापिते चैव सिंहं पद्मं तथैव च | वीरासनं तदूर्ध्वे तु कल्पयेद्देशिकोत्तमः || ३१ || गर्भावरण संयुक्तं पूजयेत्तु विधानतः | निष्कलाश्रितं यत्तु आसनावरणायुतम् || ३२ || प्. २३८) गन्धपुष्पादिना चैव अर्चयेत्तु विशेषतः | प्रतिमानां च सर्वासां तिष्ठन्तद्येनमेव वा || ३३ || स्नानादि सर्वकार्येषु आसीनश्चैव सर्पयेत् | आसीनस्तत्र सकलं पूजयेत्तु विशेषतः || ३४ || लिंगं वा प्रतिमां वापि स्वस्वरूपेण भावयेत् | अन्यरूपं न कर्तव्यं कर्तव्यं चेद्विनाशनम् || ३५ || पूजापर्युषितं सर्वं हृदयेन विसर्जयेत् | वस्त्रमाभरणं चैव क्षालयेच्छुद्धिरुच्यते || ३६ || आवाहयेत्तु सद्येन वामेन स्थापयेद्बुधः | पाद्यार्घ्याचमनीयं च दद्यात्पूर्ववदेव तु || ३७ | पंचब्रह्मेण मन्त्रेण अभिषेकं तु कारयेत् | वस्त्रं दत्वा त्वघोरेण गन्धं वै शिरसा ददेत् || ३८ || पुष्पमीशान मन्त्रेण धूपं दद्यात्तु वा मतः | दीपं सद्येन दद्यात्तु हृदयेन हविर्ददेत् || ३९ || ताम्बूलं शिरसा दद्यादेवमेव क्रमेण तु | पूर्वोक्तेन क्रमेणैव गर्भावरणकं यजेत् || ४० || शिवद्विजेन कर्तव्यं अन्यश्चैव न कारयेत् | एवं यः कुरुते मर्त्यः सर्वपापाद्विमुच्यते || ४१ || सकलाराधनं प्रोक्तं विघ्नेशस्थापनं शृणु || ४१ || इति वीरतन्त्रे सकलाराधनविधिः सप्तपंचाशः पटलः || ५७ || प्. २३९) अतः परं प्रवक्ष्यामि पंचब्रह्मोद्धृतं क्रमात् | गुरुवक्त्रात्तु विज्ञेयं अन्यथा नैव कथ्यते || १ || मुक्तिदं भुक्तिदं नॄणां शृणुष्व चतुरानन ! | ईशादिसद्यपर्यन्तं उद्धरेत्तु यथा क्रमम् || २ || सुसमे भूप्रदेशे तु निम्नोन्नत विवर्जिते | चक्रं त्रयोदशं ग्राह्य पंचदश समन्वितम् || ३ || प्रथममक्षरं प्रोक्तं द्वितीयं कथ्यते तथा | वासवस्य चतुर्थं च शूलाद्यं च ततः परम् || ४ || वज्रान्तर समायुक्तं वरुणस्यैव पंचमम् | वज्रं तेन समायुक्तं ईशानस्य तृतीयकम् || ५ || वज्रेण तु समायुक्तं यदनस्य चतुर्थकम् | तदेव पुनरुद्धृत्य अग्निबीजेन वा युतम् || ६ || रजनीका चतुर्थं तु वासवस्य तृतीयकम् | वरुणस्य तृतीयं तु वासवेन समन्वितम् || ७ || * * * * * * * * युज्ज बीजेन संयुतम् | वज्रद्वितीयसंयुक्तं वरुणस्य तु पंचमम् || ८ || पुरुहूत * * * * * * * * * * * * | प्. २४०) पितामहः || अस्मिन्तन्त्रे सुरेशान ! विघ्नेशस्थापनं कथम् | तत्सर्वं श्रोतुमिच्छामि भगवन्वक्तुमर्हसि || १ || ईश्वरः || साधु साधु महाप्राज्ञ ! यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! || २ || भूताश्चैव पिशाचाश्च राक्षसाश्चासुरास्तथा | लोकद्रव्याद्बुभुक्षन्ते एतेषां विघ्नाय पूजयेत् || ३ || ग्रामे वा नगरे वापि पत्तने खेटकेऽपि वा | प्रासादं कारयेत्तत्र शास्त्रदष्टेन कर्मणा || ४ || भूमिं समतलं कृत्वा कर्षणं कारयेत्ततः | व्योमव्यापि जपित्वा तु कर्षयेद्देशिकोत्तमः || ५ || तस्मिन्देशेऽपि विप्रेन्द्र ! बीजानि वापयेत्ततः | पक्षे सन्ति च सर्वाणि गोगणानां निवेदयेत् || ६ || शल्यं विमोचयेत्तत्र पांसुना पूरयेत्ततः | दर्पणोदरवत्कृत्वा गोमयेनानुलेपयेत् || ७ || वास्तुदेवान्समभ्यर्च्य सर्वकर्माणि कारयेत् | पूर्वोक्ते चैव नक्षत्रे योगे च करणान्विते || ८ || प्रथमेष्टकां प्रकर्तव्यं स्थिरराशौ विशेषतः | द्वारस्य दक्षिणे पार्श्वे प्रथमेष्टां तु विन्यसेत् || ९ || प्. २४१) दर्भासनं ततः कुर्याल्लक्षणेन समन्वितम् | शिलाभिरिष्टकाभिर्वा दारुमृद्भिरथापि वा || १० || प्रासादं च प्रकर्तव्यं लक्षणेन समन्वितम् | नवहस्तं पंचहस्तं वा त्रिहस्तं वापि कारयेत् || ११ || अर्धमण्टप संयुक्तं विमानं कारयेद्बुधः | प्रासादस्यवशाद्विद्वा प्राकारं कारयेत्ततः || १२ || प्रासादस्य चतुर्दिक्षु बलिपीठं प्रकल्पयेत् | पंचतालोत्तमं विद्धि चतुस्तालं तु मध्यमम् || १३ || त्रितालमधमं प्रोक्तं विस्तारोत्सेध तत्समम् | षोडशांशे विभज्यं तु उपानमेकभागिकम् || १४ || जगती स्याच्चतुर्भागं त्रिभागं कुम्भमुच्यते | एकेन पट्टिकां कुर्याद् ग्रीवा चैव त्रियंशकम् || १५ || द्व्यंशेन पट्टिकां कुर्यात् कंपमेकेन कारयेत् | पीठोत्सेधं चतुर्भागं पद्ममूर्ध्वे प्रकल्पयेत् || १६ || प्रतिमा * * * वक्ष्ये शृणुष्व कमलासन ! | उत्तमं लोहजं प्रोक्तं मध्यमं तु शिलामयम् || १७ || अधमं दारुमृद्भिश्च * * * प्रतिमा शुभा | सौवर्णं चैव सौभाग्यं मोक्षार्थी रजतं भवेत् || १८ || ताम्रेण पुत्रकामी च आयसं चाभिचारकम् | चलितं लोहजं चैव रत्नजं दारुजं तु वा || १९ || प्. २४२) (अ) पुनः प्रतिष्ठां कुर्वीत शास्त्रोक्तेन विधानतः | स्थापितं तु परार्थं स्यादन्यदात्यार्थमुच्यते || २० || बृहोदरं च विघ्नेशं नायकं वीरमेव च | गजाननं गजकर्णं लम्बोदरं तथैव च || २१ || भक्ष्य प्रियं च विप्रेन्द्र ! मूर्तयोष्टौ प्रकीर्तिताः | तेषां चैव तु मूर्तीनां स्वनामाद्यक्षरैर्युतम् || २२ || बिन्दुनादसमायुक्तं प्रणवाद्यमिहोच्यते | तस्य यन्त्रं वदामीह सर्वाशुभनिवारणम् || २३ || भूर्जैर्वा तालपत्रैर्वा शुभरक्षोक्तधातुना | लिखित्वाष्टदलं पद्मं केसरास्य सकर्णकम् || २४ || संलिखेत्कर्णिकामध्ये मूलमन्त्रं समाहितः | विन्यसेदष्टपत्रेषु अष्टमूर्त्यक्षरान्बुधः || २५ || लाक्षा वृत्ता तु गुलिकां कांचनेन समावृतम् | पूजयेत्तु विशेषेण मूलमन्त्रेण होमयेत् || २६ || गुलिकां धारयेत्पश्चा कण्ठे वा कर एव वा | सर्वरोग (हरं ह्येतत्) सिंहदृष्टगजं यथा || २७ || मन्त्रोद्धारं मया प्रोक्तं प्रतिष्ठाया विधिं शृणु | रोहिण्यादित्यपुष्येषु हस्तपौष्णत्रिरुत्तरा || २८ || स्वाती च स्थापने प्रोक्ता प्रतिष्ठांजक्षमेव च | स्थिरराशौ तु कर्तव्यं उभराशावथापि वा || २९ || प्. २४२ ) (ब्) चतुर्भुजं त्रिणेत्रं च करण्ड मुकुटान्वितम् | आसीनं वा स्थितं वापि वाहनारूढमेव वा || १ || नृत्तं व्याख्यानरूपं तु सर्वाभरणभूषितम् | नानाभरण संयुक्तं नागयज्ञोपवीतिनम् || २ || किंकिणीनूपुरोपेतं सर्वलक्षण संयुतम् | पंचतालेन कुर्यात्तु प्रतिमां कारयेच्छुभाम् || ३ || पंचांशेन विभज्यं तु ओष्ठार्धं तु त्रिभागिकम् | पादोच्चं तु द्विभागं तु कुर्यात्प्रतिममुत्तमम् || ४ || कचस्तं गजहस्ते तु दक्षिणे तु स्वदन्तकम् | वामे पाशसमायुक्तं दक्षिणे चाक्षसूत्रकम् || ५ || टंकः स्याद्वामहस्ते तु पद्मासनो परिस्थितम् | एवं लक्षण संयुक्तं प्रतिमां कारयेद्बुधः || ६ || श्वेतार्कमूले रिर्यात्म तत्र साध्यविशेषतः | षड्भुजेनैव कर्तव्यं परचक्र जयेच्छता || ७ || गर्भं तु नवधा कृत्वा पंचांशेनोत्तमं भवेत् | मध्यमं चतुरंशेन त्रयंशमधमं भवेत् || ८ || द्वियंशमेकमंशं वा प्रतिमां कारयेत्ततः | ताल संख्याक्रमं वक्ष्ये अधमं तालमुच्यते || ९ || द्वितालं मध्यमं प्रोक्तं त्रितालं चोत्तमं भवेत् | यजमानेच्छया युक्तं शिल्पिना कारयेत्ततः || १० || मंत्रोद्धारमहं वक्ष्ये शृणुष्व कमलासन ! | कामदं मोक्षफलदं सर्वपापविनाशनम् || ११ || सुलग्ने सुमुहूर्ते च सुनक्षत्रे विशेषतः | शुद्धस्नानमनुप्राप्य शुद्धिं कृत्वा ततो बुधः || १२ || तत्रैव गुरुमावाह्य पूजयेत्तु विशेषतः | अकारादि क्षकारान्ता न्यक्षराणि विलेखयेत् || १३ || विनायकस्य बीजं तु तेषां मध्ये समुच्चरन् | द्विवर्गस्य तृतीयं तु प्रथमस्य चतुर्थकम् || १४ || सप्तवर्ग तृतीयं तु बिन्दुनाद समन्वितम् | मूलमंत्रमिदं प्रोक्तं विघ्नेश्वरस्य पद्मज ! || १५ || ह्रस्वं ब्रह्म समाख्यातं दीघाहंगानि चोच्यते | प्. २४३) अष्टमस्था ग्रहाः सर्वे नेष्टा वै स्थापनेषु च | एतेषां स्थापनेषूक्तं विभवस्यानुरूपतः || २० || पूर्वोक्त लक्षणैर्युक्तां प्रतिमां कारयेत्ततः | प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् || ३१ || त्रिहस्तं पंचहस्तं वा षट्सप्ताष्टनवं तथा | स्तम्भैः षोडशभिर्युक्तं पंक्तिमानमथोच्छ्रयः || ३२ || आसनं खदिरं वापि जातिस्तंबकमेव वा | क्रमुकं वेणुदण्डं वा अवक्रं निर्व्रणं तथा || ३३ || स्तम्भानि कारयेद्धीमान् प्रपां पूर्वोक्तवत्क्रमात् | मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते || ३४ || मण्टपस्य तु मध्ये तु रत्नन्यासं तु कारयेत् | वज्रं पूर्वे तु विन्यस्य आग्नेययां तु प्रवालकम् || ३५ || मरकतं दक्षिणे स्थाप्य नैर्-ऋत्यां मौक्तिकं न्यसेत् | वारुण्यां पद्मरागं तु वैडूर्यं वायुगोचरे || ३६ || इन्द्रनीलं तु सौम्यायां ऐशान्यां स्फटिकं न्यसेत् | मध्यमे चैव माणिक्यं विन्यसेत्तु विशेषतः || ३७ || रत्नानामप्यलाभे तु सुवर्णं विन्यसेत्ततः | ततो देवं समायोज्य हृदयेन तु मन्त्रतः || ३८ || सुस्निग्धं कारयेत्तत्र शिल्पिनं पूजयेत्ततः | एवमेव प्रकर्तव्यं लोहजानां विशेषतः || ३९ || प्. २४४) अन्येषां स्थापनादौ तु विन्यसेत्तु विचक्षणः | नयनं मोक्षणं वक्ष्ये शृणुष्व कमलासन ! || ४० || सुमुहूर्ते सुनक्षत्रे नेत्रद्वययुते दिने | नयनं मोक्षणं कुर्यात् पूर्वोक्ते मण्टपे शुभे || ४१ || गोमयेनोपलिप्याथ शालिना स्थण्डिलं कुरु | अष्टद्रोणैश्च शालीभिः तदर्धैस्तण्डुलैरपि || ४२ || विकीर्य नववस्त्रेण दर्भैश्चैव परिस्तरेत् | तत्रैव प्रतिमां स्थाप्य पूर्वाभिमुखमेव वा || ४३ || प्रच्छादयेत्ततो बिम्बं नववस्त्रेण देशिकः | अभितः कलशानष्टौ विन्यसेत्तोयपूरितान् || ४४ || सवस्त्रान्सहिरण्याश्च अष्टमूर्तिसमायुतान् | गन्धपुष्पैश्च धूपैश्च हृदिना पूजयेत्ततः || ४५ || इन्द्रादीशानपर्यन्तान् लोकपालान्समर्चयेत् | अक्षिहोमं ततः कुर्यादाज्येनैव तु देशिकः || ४६ || अग्निमुखं च संकल्प्य नेत्रमन्त्रेण हूयते | अष्टोत्तरशतं हुत्वा पूर्णाहुतिमथाचरेत् || ४७ || हेमसूच्याऽऽलिख्य नेत्रे आचार्यः शिल्पिभिस्सह | पद्मरेखां समालिख्य तन्मध्ये कृष्णमण्डलम् || ४८ || ज्योतिर्मण्डलमालिख्य नेत्रमन्त्र समन्वितम् | हेमपूर्वं तथा चैव मध्वाज्यं विन्यसेत्ततः || ४९ || प्. २४५) ताम्रपात्रेऽथवा कांस्ये मधु चैव तु विन्यसेत् | मधुवातेति मन्त्रेणमधुना तर्पयेत्ततः || ५० || घृतमिक्षेति मन्त्रेण घृतं चैव तु तर्पयेत् | गणानां चेति मन्त्रेण सवत्सांगां प्रदर्शयेत् || ५१ || ततो ब्रह्म समुच्चार्य ब्राह्मणान्दर्शयेत्ततः | प्रोक्षयेद्ब्राह्मणास्तत्र साक्षतं सकुशोदकम् || ५२ || प्रच्छन्न पटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् | प्रोक्षयेत्कलशान्विप्र ! पंचब्रह्मेण संयुतम् || ५३ || गीतवाद्य समायुक्तं वीणावेणुरवैस्सह | गेयनृत्तसमायुक्तं जयशब्दैस्समन्वितम् || ५४ || ततः प्रतिमुद्धृत्य शुद्धिं कृत्वा तु देशिकः | पंचमृत्पंचगव्यैश्च पंचांगैश्च समन्वितम् || ५५ || पुण्याहं वाचयेत्तत्र पवमानेम प्रोक्षयेत् | रथेवा शिबिकायां वा प्रतिमां रोप्य भक्तितः || ५६ || ग्रामप्रदक्षिणं कृत्वा जले चैवाधि वासयेत् | प्रतिमां पंचगव्येन स्नापयेद्धृदयेन तु || ५७ || नववस्त्रेण संवेष्ट्य कूर्चेणास्त्रेण संयुतम् | मूलमन्त्रेण विप्रेन्द्र ! जले चैवाधिवासनम् || ५८ || चतुष्पाद समायुक्तं प्रपां कृत्वा तु देशिकः | अभितः कलशानष्टौ विद्येश्वर समन्वितान् || ५९ || प्. २४६) सवस्त्रान्सहिरण्यांश्च विन्यसेत्तु विशेषतः | एकरात्रं त्रिरात्रं वा पंचरात्रमथापि वा || ६० || जलाधिवासनं कुर्यात् सर्वालंकार संयुतम् | जलादुत्तीर्य पूर्वेद्युः शुद्धिं कृत्वा तु देशिकः || ६१ || गन्धद्रव्यं समालोढ्य लेपयेत्प्रतिमां ततः | नववस्त्रेण संवेष्ट्य मूलमन्त्रेण देशिकः || ६२ || वेदिमध्ये न्यसेद्विप्र ! अष्टद्रोणेन शालिना | शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || ६३ || परिस्तरेत्तु दर्भैश्च शयनं पंच कल्पयेत् | अन्डजं मुण्डजं चैव रोमजं चर्मजं तथा || ६४ || पद्मजेन समायुक्तं कल्पयेत् कल्पवित्तमः | तस्योपरि न्यसेद्बीजं कूर्चेनैव समन्वितम् || ६५ || गन्धपुष्पादिना पूज्य हृदयेन तु मन्त्रतः | अभितः कलशानष्टौ विन्यसेन्मूर्तिसंयुतान् || ६६ || बृहोदरादीन्विप्रेन्द्र ! विन्यसेत्स्वस्वनामतः | सवस्त्रान्सापिधानांश्च सहिरण्यान्सकूर्चकान् || ६७ || ईशान इन्द्रयोर्मध्ये प्रधानकलशं न्यसेत् | विघ्नेशं तत्र संस्थाप्य मूलमन्त्रेण देशिकः || ६८ || गन्धपुष्पादिनाऽऽपूज्य पायसान्नं निवेदयेत् | लोकपालांश्च कुम्भानि विन्यसेत्पूर्वमेव च || ६९ || प्. २४७) ततो होमं प्रकर्तव्यं नव वा पंच एव वा | वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् || ७० || ईशान इन्द्रयोर्मध्ये प्रधानाग्निर्विधीयते | प्लक्षाश्वत्थं च न्यग्रोधं बिल्वं चैव विशेषतः || ७१ || उदुम्बरं शमी चैव अपामार्गं च खादिरम् | पालाशं चैव विप्रेन्द्र ! नवकुण्डेषु होमयेत् || ७२ || चतुर्दिक्षु च ईशान्यां पंचकुण्डेषु होमयेत् | सर्वेषामप्यलाभे तु पलाशसमिधा युतम् || ७३ || समिदाज्यचरुं लाजान्सक्थुमाषयवांस्तथा | कदलीफलसंयुक्तं होमयेद्देशिकोत्तमः || ७४ || सद्योवाममघोरं च तत्पुरुषं तथैव च | हृदयं च शिरश्चैव शिखामन्त्रेण हूयते || ७५ || शतमर्धं तदर्धं वा होमयेदादिशैवकान् | हुत्वा हुत्वा स्पृशेद्बिम्बं द्रव्यं प्रति विशेषतः || ७६ || द्रव्यान्ते व्याहृतिं हुत्वा संप्रोक्ष्यंश्चैव हूयते | लड्डुकं नालिकेरं च मातुलुंगफलानि च || ७७ || सर्वभक्ष्यं च पनसं गणानां चैव होमयेत् | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ७८ || ततः प्रभाते विमले पूर्णाहुतिमथाचरेत् | स्नानवेद्यां समानीय स्नापयेन्मूलमन्त्रतः || ७९ || प्. २४८) गन्धपुष्पादिनाभ्यर्च्य पंचवर्णहविर्ददेत् | शिलादीन्स्थापयेद्विद्वान्देशेऽपि तु पदेऽपि च || ८० || किंचिन्मानुषमादृश्य स्थापयेद्विधिपूर्वकम् | यजनं संप्रवक्ष्यामि शृणुष्व चतुरानन ! || ८१ || स्नानं कृत्वा यथा विद्वान्प्रविश्य भवनं ततः | प्राणायामं चरेत्तत्र पश्चाद्ब्रह्माणि विन्यसेत् || ८२ || अंगुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् | हृदयात्पंच विन्यस्य विघ्नेशं हृदये न्यसेत् || ८३ || मधुश्च माधवश्चैव द्वारपालौ सु पूजयेत् | पाद्यमाचमनं चार्घ्यं गन्धपुष्पं च धूपकम् || ८४ || दीपं चैव निवेद्यं च प्रोक्षयेद्धृदयेन तु | ततो लोहजबेरं चेत् स्नात्वा पर्वणि पर्वणि || ८५ || शैलजं चेत्त्रिसंध्यायां स्नात्वा पर्वणि पर्वणि | मृण्मये भित्तिचित्रे वा पीठे कर्मार्चनं भवेत् || ८६ || पूर्वोक्तेनैव मार्गेण कल्पयेदासनत्रयम् | सिंहं पद्मं च विमलं यथा क्रमेण विन्यसेत् || ८७ || आवाहयेत्तु विघ्नेशं मूलमन्त्रेण देशिकः | चतुर्भुजं त्रिणेत्रं च प्रसन्नवदनान्वितम् || ८८ || गजवक्त्र समायुक्तं नानाभरणभूषितम् | निर्माल्यं च विसृज्याथ शिखामन्त्रेण देशिकः || ८९ || प्. २४९) पाद्यादींश्च हृदा दद्याच्छिरसा चन्दनं ददेत् | पुष्पं वै शिखया चैव वामो धूपं च दीपकम् || ९० || हविश्चैवास्त्रमन्त्रेण ताम्बूलं सद्य मन्त्रतः | भक्ष्यं चैव गणानांत्वा एवमेव क्रमेण तु || ९१ || पश्चादावरणं पूज्य गर्भावरणमेव च | पुरुषं पूर्वदेशे तु अघोरं दक्षिणेन तु || ९२ || सद्यं पश्चिमतो न्यस्य वामदेवं तथोत्तरे | ईशान्यामीशमन्त्रं तु आग्नेययां हृदयं न्यसेत् || ९३ || नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् | ईशान्यां च शिरश्चैव नेत्रमस्त्रं दिशासु च || ९४ || परिवारांस्तथा पूज्य तस्याग्रे मूलकं यजेत् | शुक्रं बृहस्पतिं चैव अश्विन्यौ च तथैव च || ९५ || विश्वेदेवौ च विप्रेन्द्र ! ज्येष्ठायां च तथैव च | शास्ता चैव तु दुर्गा च प्रदक्षिणे क्रमेण तु || ९६ || विन्यसेत्तु विशेषेण पूजयेत् स्वस्वनामतः | विबुधमीशदिग्भागे निर्माल्यं धारकं न्यसेत् || ९७ || अग्निकार्यं ततः कुर्याच्छास्त्रदृष्टेन कर्मणा | पूर्वोक्तेन विधानेन अग्निमुखं च कल्पयेत् || ९८ || आज्येनान्न समायुक्तं पुष्पेणैव समन्वितम् | सप्ताहुतिं च विघ्नेशं मूलमन्त्रेण देशिकः || ९९ || प्. २५०) परिवारांश्च सर्वेषां स्वनाम्ना चैकमाहुतिः | नित्योत्सवं ततः कुर्याद्विघ्नेश प्रतिमान्वितम् || १०० || प्रतिमां पात्रमध्ये तु विन्यसेद्धृदयेन तु | ब्रह्मचारी शुचिर्भूत्वा सोष्णीस्सोत्तरीयकः || १०१ || धारयेच्छिरसा चैव आलयं तु प्रदक्षिणम् | पादप्रक्षालनं कृत्वा आलयं तु प्रवेशयेत् || १०२ || विसर्जयेत्तु देवेशं स्वगृहं तु प्रवेशनम् | उत्सवं संप्रवक्ष्यामि शृणुष्व कमलासन || १०३ || पालिकाष्ट संयुक्तमंकुरानर्पयेत्ततः | प्रासादस्याग्रतः कुर्यान्मण्टपं कारयेत्ततः || १०४ || मण्टपं शालिनास्तीर्य पालिका मध्यमे न्यसेत् | मुद्गमाष समायुक्तं सर्षपेन समन्वितम् || १०५ || वापयेन्मूलमन्त्रेण तन्मध्ये सोमकुम्भकम् | सुगुप्ते स्थापयेत्तत्र ध्वजारोहणमारभेत् || १०६ || ध्वजपटं पंचहस्तं वा सप्तहस्तमथापि वा | विस्तारेण समं पुच्छं तदर्धं शिखरं भवेत् || १०७ || क्रमुकं वेणुदण्डं वा स्कन्धत्रय समन्वितम् | यष्टिना संघटित्वा तु ध्वजमारोपयेत्ततः || १०८ || रात्रौ ग्रामबलिं दद्यादाभूत सर्वदैवतान् | यागस्य मण्टपं कृत्वा ईशे वा चाग्निगोचरे || १०९ || प्. २५१) वारुण्यां सन्निधौ वापि कर्तव्यं यागमण्टपम् | पंचषट्सप्तहस्तैर्वा षोडशस्तम्भ संयुतम् || ११० || मध्यमे वेदिकां कुर्यात्तालमात्रोच्छ्रयं भवेत् | वेदिबाह्ये तु परितः पंचकुण्डानि कारयेत् || १११ || एकाग्निं वाथ कुर्वीत वृत्तकुण्डमिहोच्यते | वेदीमध्ये न्यसेच्छालीं दर्भैश्चैव परिस्तरेत् || ११२ || मध्यमे विघ्नकुम्भं तु मूलमन्त्रेण विन्यसेत् | अभितः कलशानष्टौ विन्यसेच्छालिमध्यमे || ११३ || दर्भैश्चैव पिधायाष्टौ बृहोदरादि विन्यसेत् | स वस्त्रान्सापिधानांश्च स हिरण्यान्सकूर्चकान् || ११४ || मूलमन्त्रेण चाभ्यर्च्य होमं कुर्यात्तु देशिकः | समिदाज्यचरुं लाजान् अपूपेन समन्वितम् || ११५ || विद्यादीशान्तकं हुत्वा प्रत्येकं पंचविंशतिः | गणानांचेति हुत्वा तु पूर्णाहुतिं यदस्य च || ११६ || ततो ग्रामबलिं दद्याद् विघ्नेशप्रतिमान्वितम् | शूलं परऽऽऽसुखड्गं च दण्डं पद्मं च संयुतम् || ११७ || पंचायुध समायुक्तं बलिं दद्याद्विशेषतः | प्रथमं भूतरात्रं तु द्वितीयं गन्धमुच्यते || ११८ || तृतीयमृषिरात्रं तु चतुर्थं मन्त्ररात्रकम् | सिद्धानां पंचमं प्रोक्तं षष्ठं राक्षसमुच्यते || ११९ || प्. २५२) सप्तमं विघ्नरात्रं तु इत्येता रात्रिदेवताः | पंचाहं ऋषिरात्रादि सिद्धादित्र्यहं भवेत् || १२० || आज्ययुक्तोदनं चैव ब्रह्मादीनां बलिं ददेत् | कौतुकं बलिदानान्ते कुर्याद्ग्राम प्रदक्षिणम् || १२१ || चूर्णोत्सवं ततः कुर्यात् ततस्तीर्थं समाचरेत् | स्नपयेत्कलशं तत्र हृदयेन तु देशिकः || १२२ || जलक्रियां पुनः कृत्वा प्रविशेदालयं प्रति | साधितैः कलशैस्तत्र स्नापयेन्मूलबेरकम् || १२३ || स्नपनं संप्रवक्ष्यामि शृणुष्व कमलासन ! | प्रागग्रं तु चतुस्सूत्रं उदगग्रं तथैव च || १२४ || शालिना विकिरेत्तत्र मध्यमे स्थापयेद्घटम् | पूर्वादीशानपर्यन्तं कलशान्न्यस्य वित्तमः || १२५ || मध्यमे विन्यसेद्विप्र ! बृहोदरादि चाष्टधा | द्वितीयावरणे चैव विद्येश्वरांश्च दैवतान् || १२६ || तद्धृतेन च धर्मादीन् क्रमात्पूज्य विशेषतः | प्रधान कुम्भे स्वर्णस्य पाद्यं पूर्वे तु विन्यसेत् || १२७ || आचमनीयं चाग्नै तु अर्घ्यं वै दक्षिणे न्यसेत् | नैर्-ऋत्यां गन्धतोयं च वारुण्यां तु कुशोदकम् || १२८ || वायव्यां पंचगव्यं तु सोमे क्षीरं च विन्यसेत् | ईशान्यां दधि संयुक्तं प्रथमावरणान्विते || १२९ || प्. २५३) घृतं लाजं च सक्तुं च पुष्पभस्म तथैव च | रजनी चूर्णं तु कदलीतिलसर्षप संयुतम् || १३० || पनसं नालिकेरं च दाडिमीमातुलुंगकम् | नारंगस्य द्वयं चैव द्वितीयावरणे तथा || १३१ || स कूर्चं वस्त्र संयुक्तं सद्रव्यं साधिदैवतम् | एवं वै स्नपनं कुर्यात् सर्वशान्तिकरं परम् || १३२ || कुलैकविंशमुद्धृत्य गणलोकं स गच्छति | स्थापने पंचनिष्कं तु उत्सवे तु द्विनिष्ककम् || १३३ || स्नपने निष्कमर्धं च आचार्यस्य तु दक्षिणा | मूर्तिपान्परिवाराणां यथा शक्त्या तु दक्षिणा || १३४ || इति वीरतन्त्रे विघ्नेशस्थापनार्चनस्नपनोत्सवविधिरष्टपंचाशः पटलः || ५८ || अतः परं प्रवक्ष्यामि पंचब्रह्मोद्धृतं क्रमात् | गुरुवक्त्रात्तु विज्ञेयमन्यथा नैव कथ्यते || १ || मुक्तिदं भुक्तिदं नॄणां शृणुष्व चतुरानन ! | ईशादि सद्यपर्यन्तं उद्धरेत्तु यथाक्रमम् || २ || सुसमे भूप्रदेशे तु निम्नोन्नत विवर्जिते | चक्रं त्रयोदशं ग्राह्य पंचादश समन्वितम् || ३ || प्रथममक्षरं प्रोक्तं द्वितीयं कथ्यते मया | वासवस्य चतुर्थं तु शूलाद्यं तु यथा तथा || ४ || प्. २५४) वज्रान्तेन समायुक्तं वारुणस्यैव पंचमम् | वज्रान्तेन समायुक्तं ईशानस्य तृतीयकम् || ५ || वज्रेण तु समायुक्तं धनदस्य चतुर्थकम् | तदेव पुनरुद्धृत्य अग्निबीजोर्ध्ववासवम् || ६ || रजनीका चतुर्थं तु वासवस्य तृतीयकम् | वरुणस्य तृतीयं तु वासवेन समन्वितम् || ७ || * * * * * * * * युज्य बीजेन संयुतम् | वज्राद्द्वितीयसंयुक्तं वरुणस्य तु पंचमम् || ८ || पुरुहूतद्वितीयं तु महेशस्य तु पंचमम् | वासवस्य चतुर्थं तु शंकरान्यमतः परम् || ९ || गदायास्तु चतुर्थेन युतं वज्रेण संयुतम् | सोमस्यैव द्वितीयं तु षोडशेन समन्वितम् || १० || शूलात्तृतीयं वज्रं च सोमस्यैव चतुर्थकम् | * * * * * * * * पुनस्तद्बीज संयुतम् || ११ || पवनस्य चतुर्थं तु देवेन्द्रात्तु षडक्षरम् | वरुणापति संग्राह्य चक्रस्यान्तेन संयुतम् || १२ || मंग्नास्य पंचमं ग्राह्य अनिलस्य तृतीयकम् | गदावायोस्तुकं द्वितीय स्थानेन समन्वितम् || १३ || ईशानस्य चतुर्थेन वायुपंचक्रयोजितम् | पुरुहूतद्वितीयं तु पूर्वोक्तेन समन्वितम् || १४ || प्. २५५) पर्जन्यस्य चतुर्थं तु वासवस्य द्वितीयकम् | मारुताद्यं समुद्धृत्य चक्रामुद्रा * * * * || १५ || वरुणाद्यं समुद्धृत्य वासवत्रय संयुतम् | मारुतस्य द्वितीयान्तं वह्नावासव संयुतम् || १६ || अग्निबीजाद्यकं कुर्याच्छूलस्यैव चतुर्थकम् | अनिलस्य पंचमेनैव वासवस्य द्वितीयकम् || १७ || * * * * * शंकर प्रियगस्य तृतीयकम् | धनदस्य चतुर्थेन युक्तं चक्रत्रयोदशम् || १८ || मरुतः पंचमं ग्राह्य वासवैकादशेन तु | शंकरस्य द्वितीयान्तं वरुणाद्येन संयुतम् || १९ || चक्रस्य पंचबीजेन युक्तं पूर्वोक्तमक्षरम् | द्वितीयान्तवासवस्यान्तं वासवस्य त्रयोदशम् || २० || चन्द्रान्तं प्रक्तहरयु * एवज्ञ समन्वितम् | सोमान्तं तु दशान्तेन पवनस्य चतुर्थकम् || २१ || सोमाद्येन समायुक्तं षोडशेन समन्वितम् | ईशानस्य तृतीयं तु वासवेन समन्वितम् || २२ || होमबीजाच्चतुर्थं तु तदेव पुनरुद्धरेत् | वह्निबीजोर्ध्व * * * द्वासवेन समन्वितम् || २३ || शि * * * नां चैवस्तद् * * * वह्निबीजकम् | एकादशेन संयुक्तं मारुतस्य चतुर्थकम् || २४ || प्. २५६) कुबेरेण समायुक्तं द्वादशान्तेन संयुतम् | जलाधिप चतुर्थान्तं वासवेन्नं समन्वितम् || २५ || * * पंचममुद्धृत्य वज्रेणैव समायुतम् | ईशानस्य तृतीयं तु वास * * * शान्तकम् || २६ || कुबेरान्तं वात् पंचवरुणान्तमुद्धरेत् | वह्निबीज समायुक्तं वासवेन समन्वितम् || २७ || कौबेरान्तं समुद्धृत्य वासवस्य तु षष्ठकम् | अनिलं तु समुद्धृत्य वासवैकादशेन तु || २८ || अनिल * * * हृत्य कुबेरं चाथ योजयेत् | षोडशेन समायुक्तं घोरं सर्वार्थकामदम् || २९ || द्वादशान्तं समुद्धृत्य पंचादश समन्वितम् | धनदस्य च चतुर्थं तु वज्रान्तेन समन्वितम् || ३० || अनिलात्पंचमं ग्राह्य वासवेन समन्वितम् | वरुणान्तं समुद्धृत्य वासवैकादशेन च || ३१ || इन्द्रस्यैव तु वज्रान्ते * * * न समन्वितम् | गदायुधं समुद्धृत्य वासवेन समन्वितम् || ३२ || वरुणात्पंचमं ग्राह्य वज्रेणैव समन्वितम् | पवनं गृह्य * * * * * न्ते नैव भूषितम् || ३३ || उपैशान्तं समुद्धृत्य गदादेकादशेन च | शूलस्यान्तं समुद्धृत्य खड्गान्तस्यादधस्ततः || ३४ || प्. २५७) वज्रान्ते तु समं भिन्नं कुबेरं वासवान्वितम् | वरुणस्य पंचमं गृह्य वासवेन समन्वितम् || ३५ || पवनस्य पंचमं पश्चाद् वायव्यस्य त्रयोदश | गदान्तान्तां समुद्धृत्य वज्रपंचमभूषितम् || ३६ || पाशान्तान्तं समुद्धृत्य वह्नयस्तात्सुभूषितम् | वज्रान्तेन तु संयुक्तं गदावासव संयुतम् || ३७ || वरुणस्य पंचमं पश्चाद् वज्रेणैव समायुतम् | पवनस्य पंचमं ग्राह्य षोडशेन समायुतम् || ३८ || अग्नाद्यभि समुद्धृत्य वज्रान्तेन सुभूषितम् | सोमान्तान्तं समुद्धृत्य वज्रान्तेन समन्वितम् || ३९ || चन्द्राद्यं तु समुद्धृत्य वासवेन समन्वितम् | ईशस्य पंचमं ग्राह्य वज्रेणैव समन्वितम् || ४० || पवनस्य पंचमं ग्राह्य षोडशेन समायुतम् | वह्निं चैव समुद्धृत्य वासवेन समन्वितम् || ४१ || गदान्तं च समुद्धृत्य वज्रेणैव समायुतम् | कुबेरस्य चतुर्थं तु * व तस्य तृतीयकम् || ४२ || वह्निबीजं समुद्धृत्य वासवेन समन्वितम् | चन्द्रान्तं तु समुद्धृत्य चक्रेणैव समायुतम् || ४३ || प्. २५८) निर्-ऋतेः पंचमं गृह्य वज्रान्तेन समायुतम् | कुबेरान्तं समुद्धृत्य इन्द्राद्येन समायुतम् || ४४ || पवनस्य पंचमं पश्चात् वासवस्य त्रयोदश | अंकुशस्य तृतीयं तु वज्रेणैव समायुतम् || ४५ || कुबेरान्तं समुद्धृत्य इन्द्राद्येन समायुतम् | चन्द्रस्यैव चतुर्थं तु वज्रान्तेन समायुतम् || ४६ || कृशानुं च समुद्धृत्य वज्रेणैव समायुतम् | कुबेरान्तं वासवेनैव खड्गं चैव तु पंचमम् || ४७ || वज्रान्तेन समायुक्तं गदा वासव संयुतम् | पाशस्य पंचमं ग्राह्य वासवेन समन्वितम् || ४८ || मारुतं तु समुद्धृत्य अग्निबीजमथोच्यते | वासवेन समायुक्तं वायुपंचममेव च || ४९ || वासवेन समायुक्तं पाशान्तं वज्रसंयुतम् | वरुणस्य पंचमं पश्चाद् वज्रेणैव समायुतम् || ५० || पवनस्य पंचमं प्रोक्तं षोडशेन समन्वितम् | ईशानान्तं समुद्धृत्य वज्रेणैव विभूषितम् || ५१ || धनदस्य चतुर्थं तु बीजं पुनरेव तु | अग्निबीजं ततोर्ध्वं तु वासवेन समायुतम् || ५२ || वायुपंचममुद्धृत्य द्वादशान्तेन संयुतम् | अनलस्य पंचमं पश्चाद् वज्रेणैव समायुतम् || ५३ || प्. २५९) पाशस्य पंचमं प्रोक्तं द्वादशान्तेन संयुतम् | पवनस्य चतुर्थं तु वासवेन समन्वितम् || ५४ || धनदस्य चतुर्थं तु षोडशस्वरसंयुतम् | सद्यादीशानां च धर्मकामार्थमोक्षदम् || ५५ || ब्रह्मोद्धारमिदं प्रोक्तं विजयं मण्डलं शृणु || ५५ || इति वीरतन्त्रे ब्रह्मोद्धारविधिरेकोनषष्टितमः पटलः || ५९ || प्रणम्य शिरसा देवं पृच्छति स्म पितामहः | विजयमण्डलमेवं तु ब्रूहि मे शशिभूषण ! || १ || ईश्वरः || विजयं मण्डलं वक्ष्ये सर्वपापहरं परम् | सर्वपूजाफलं चैव सर्वयज्ञ पितामह ! || २ || जयदं सर्वदेवानां विजयं जयमण्डलम् | सृष्टुवनामनुष्ठाभिः ब्रह्मणः पददायिका || ३ || विष्णु द्वितीयमाश्रित्य विष्णुशक्तिसमन्विता | विजयापतिमनुषुभिः सर्वानिस्य साधनम् || ४ || तस्मात्सर्वप्रयत्नेन नराणां दापयेद्बुधः | विप्रक्षत्रियविट्छूद्रैरन्यजातिस्तु वर्जयेत् || ५ || आर्द्रायां चैव नक्षत्रे मण्डले तत्र निक्षिपेत् | पंचगव्येन संस्नाप्य महा हविर्निवेदयेत् || ६ || प्. २६०) आचार्य स्यानुकूलं च ब्रह्म मण्डलकं लिखेत् | प्रासादस्य पुरोभागे गोमयेनानुलेपयेत् || ७ || ब्रह्मणो द्वादशांगुल्यं क्षत्रियस्य दशांगुलम् | वैश्यस्याष्टांगुलं चैव शूद्राणां च षडंगुलम् || ८ || तत्तज्जातिस्त्रियां चैव अंगुलां गुलहीनकम् | मण्डलं तत्र मध्ये तु पदपुष्पं तु विन्यसेत् || ९ || प्रपां कृत्वा विशेषेण चन्द्रबिम्बं प्रभावतः | मण्डलं तत्र विन्यस्य सहस्रं वा तदर्धकम् || १० || आचार्यस्य जनानां च ताम्बूलं दापयेत् पृथक् | नित्यं त्रिंशपश्चतमा वाष्टोत्तरं शतम् || ११ || पूर्वेद्युर्लक्षणैर्युक्तं मण्डलं शिवसन्निधौ | एवं संवत्सरं कृत्वा पूर्वरुक्षं समुद्धरेत् || १२ || संवत्सरत्रयं वापि षंच षट्सप्त चाष्टधा | यथा श्रद्धानुकालस्य नित्यं मण्डलपूजनम् || १३ || कुण्डलान्तात्तदूर्ध्वे तु अंकुरार्पणमुत्तमम् | पालिका घटिका चैव शरावं च यथाक्रमम् || १४ || कुम्भवर्धनया युक्तं स्थण्डिलं तु तदूर्ध्वकम् | अष्टद्रोणेन शालीनां तदर्धं तण्डुलं भवेत् || १५ || तदर्धं तु तिलं कुर्यात्सप्तबीजं रसांगुलम् | अंकुरानर्पयित्वा तु ज्वलद्भिर्दीपसंयुतम् || १६ || प्. २६१) उत्तमं तु त्रिसन्ध्यायां मध्यमं तु द्विसन्धिकम् | अधमं चैकसन्ध्यायां नित्यं दीपसमायुतम् || १७ || एवं सोमार्क पूर्वं मूलबेरं तु चार्चयेत् | एवं सप्तदिनं कुर्याद् रात्रौ चैवाधिवासयेत् || १८ || प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् | षोडशस्तम्भसंयुक्तं चतुर्द्वार समन्वितम् || १९ || पुण्याहं कारयेत्तत्र अधिवासनमारभेत् | उमा महेशकुम्भं तु मूल बिम्बं तु पूजयेत् || २० || कौतुकं बन्धयेत्तत्र अधिवासनमेव वा | स्थण्डिलं तु तदूर्ध्वे तु कुंभं चैव तु विन्यसेत् || २१ || गन्धद्रव्य समायुक्तं माल्याढ्यं कुम्भपूरिते | उशीरं चन्दनं चैव कर्पूरं चैव कुंकुमम् || २२ || एलालवंगकोष्ठत्वक् एतैर्लोढ्य सुपूजयेत् | होमयेत्तु विशेषेण सर्वद्रव्य समायुतम् || २३ || स्थापयेत्कुम्भकांस्तत्र सवस्त्रान्सहिरण्यकान् | स सूत्र कूर्चसंयुक्तं पूजयेत्तु विशेषतः || २४ || पूजान्ते तु हविः कुर्यान्मूलबेरं तु चार्चनम् | प्रभाते विमले कुर्यात्स्नानं कृत्वा तु देशिकः || २५ || विशेषात्पूजनं कुर्यात्सर्वातोद्य समायुतम् | नृत्तगेयसमायुक्तं स्तोत्रमंगलवाचकैः || २६ || प्. २६२) जयशब्दं समुच्चार्य हरशब्दसमाकुलैः | स्नपनं तु ततः कुर्याद्यथा शास्त्रोक्तमार्गतः || २७ || स्नपनान्ते हविः कुर्यान्महाहविर्निवेदयेत् | देवानां स्वर्णपट्टं तु उमाहे मत्स्य मंगलम् || २८ || पट्टगोलकसंयुक्तं मूलबिम्बं विशेषतः | स्थलिका दण्डिघण्टा च महाघण्टां तु दापयेत् || २९ || वस्त्रं नमनि संयुक्तं दापयेत्तु शिवं तथा | सप्तमण्डलमालिख्य सप्तलोकान्सुपूजयेत् || ३० || मण्डलाद्दर्शनं कृत्वा व्रतनारीं च नारिणाम् | मण्डलं तु पृथक्कुर्यात् प्रत्येकं प्रस्थशालिना || ३१ || व्रीहि पर्वतमेवं तु नीलपर्वतमेव वा | स्वर्णपर्वतमेवं तु लवणं पर्वमेव वा || ३२ || आर्हकं पर्वतं कुर्यान् माषपर्वतमेव वा | मुद्गपर्वतमेवं तु सप्तपर्वतमेव वा || ३३ || पर्वतानां तु दृष्ट्या तु पृतनारीत्वनामभिः | आचार्यं पूजयेत्पूर्वं वस्त्रांगुलीयकादिभिः || ३४ || अधमं त्वेकनिष्कं तु मध्यमं तु द्विनिष्ककम् | उत्तमं तु त्रिनिष्कं तु आचार्यस्य तु दक्षिणा || ३५ || परिचारकानां सर्वेषां वस्त्रदानं तु दापयेत् | सर्वं माहेश्वरैर्युक्तं बाहुजानां तु पूजयेत् || ३६ || प्. २६३) चण्डेश्वरस्य दद्यात्तु पूजयेत्तु विशेषतः | वस्त्रं धान्यं च ताम्बूलं चन्दनं दापयेत्तदा || ३७ || तत्सन्निधौ जनान्सर्वान्नारी नाम तु दापये तु | सर्वानमावृतं कुर्यात्तद्गृहं प्रविशेत्ततः || ३८ || आचण्डालादि सर्वेषामन्न पानं च दापयेत् | आर्द्रायां चैव नक्षत्रे देवेशं पूजयेत्ततः || ३९ || एवं यः कुरुते नारी शिवलोकं स गच्छति | कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति || ४० || इति वीरतन्त्रे विजयमण्डलविधिः षष्टितमः पटलः || ६० || पितामहः || लिंगस्य लक्षणं सम्यक् प्रतिष्ठाविधिमेव वा | तत्सर्वं ब्रूहि मे नाथ ! श्रोतुमिच्छाम्यहं प्रभो || १ || ईश्वरः || अथ वक्ष्यामि ते ब्रह्मन् लिंगलक्षणमुत्तमम् | शैलजं रत्नजं चैव धातुजं दारुजं तथा || २ || मृण्मयं क्षणिकं चेति षड्विधं लिंगमुच्यते | चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा || ३ || अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते | मृण्मयं द्विविधं प्रोक्तं क्षणिकं सप्तधोच्यते || ४ || प्. २६४) श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् | शैलजं लिंगमाख्यातं द्रव्यस्य लक्षणमुच्यते || ५ || गोक्षीरसन्निभं चैव शंखकुन्देन्दुसन्निभम् | सुश्वेतं च समाख्यातं जयदं लक्षणान्वितम् || ६ || पीतं सुवर्ण सदृशं रजनी चूर्णसन्निभम् | शिलालक्षण संयुक्तं धनधान्य सुखप्रदम् || ७ || माषगुग्गुलु संकाशं महिषाक्षनिभं तथा | भृंगमुद्गसमाकारं पूज * * करी स्मृता || ८ || शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका | विप्रक्षत्रियवैश्यानां अपि धान्यसमृद्धिदा || ९ || द्विजानां च नृपाणां च शिलारक्ता जयप्रदा | श्वेता प्रातिपदा प्रोक्ता ब्राह्मणानां विशेषतः || १० || माणिक्यं च प्रवालं च वैडूर्यं स्फटिकं तथा | मरकतं पुष्परागं च नीलं चैव तु रत्नजा || ११ || माणिक्यं श्रीप्रदं प्रोक्तं प्रवालं वश्यकारणम् | आकर्षणे तु वैडूर्यं स्फटिकं पुत्रवृद्धिदम् || १२ || विद्वेषं मरकतं कुर्यात् स्तम्भनं पुष्परागकम् | नी * * * रणे कार्ये रत्नजानां फलं भवेत् || १३ || हेमं च श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकम् | ताम्रं पुत्रसमृद्ध्यर्थं कांस्यं विद्वेषकारकम् || १४ || प्. २६५) प्रोच्चाटने चारकूटं आयसं क्षयकारकम् | सीसकं रोगकरणं * * मायुष्यवर्धनम् || १५ || एवं धातुमयं प्रोक्तं ततो दारुजमुच्यते | देवदारु शमीवृक्षं पिप्पलं चन्दनं तथा || १६ || आसनं खदिरं चैव बकुली शिंशुपा तथा | मधूकपद्मडुण्डूक कर्णिकारस्तथैव च || १७ || तिन्दुको * * का चैव प्लक्षोदुम्बरकस्तथा | एते वर्गास्तु चत्वारो द्विजातिक्रमयोगतः || १८ || मृण्मयं द्विविधं प्रोक्तं पक्वापक्वप्रभेदतः | सैकतं गोमयं चान्नं पैष्टं गौलं फलं तथा || १९ || नवनीतं च सप्तैते क्षणिकाः समुदाहृताः | सैकतं मोक्षकामानां गोमयं रोगनाशनम् || २० || अन्नमन्नाद्यकामस्य पैष्टं पुष्टि प्रदायकम् | गौलं प्रीतिप्रदं प्रोक्तं फलमिष्टार्थ सिद्धिदम् || २१ || ह्लादं तु नवनीतं च क्षणिकानां फलं भवेत् | क्षणिकानां तु लिंगानां न कुर्यात्पीठबन्धनम् || २२ || प्रयाणकाशक्र नानान्तु शुभाशुभपरीक्षकाः || २२ || विप्रस्य कन्या गजचित्रमांसं संपूर्णकुम्भं च फलं प्रदीपम् | सितं च पुष्पं दधि गो वृषाश्च ध्वजं च भेरी मुरजं शुभानि || २३ || प्. २६६) रिक्तकुम्भशवकेशविकीणाऽमंगली च खर प्रेतकरूपम् | सर्वशत्रु पतिताक्षय पीडा यात्रगशुभं सतता || २४ || सुनिमित्तं भवेद्गच्छेद् दुर्निमित्तमहे स्थितिः || २५ || आचार्यः शिल्पिभिश्चैव वस्त्राभरणभूषितः | यस्मिन्देशे तथा कृत्वा प्राङ्मुखः स पथि स्थितः || २६ || ततः प्रदक्षिणीकृत्य दोषादोषौ परीक्षयेत् | याततपास्थिगन्धांश्च संक्षिन्नाक्षर वारिणि || २७ || दुस्थानस्थांश्च सुस्थांश्च क्रमान्तर नियोजिता | वक्राश्चर्कराप्यं च क इक्षां झर्झरीदरीम् || २८ || रेखा बिन्दुकलंकांश्च वर्जयेत्तु शिलां बुधः | सूत्र पादवदाकारो रेखामिव त्रिधा स्मृता || २९ || खर्जूर पत्र सदृशाद् ऊर्ध्वस्तं समन्वितम् | वेणुंकरवदाकारं लूतापादसमायुता || ३० || इक्षोरग्रसमाकारा हिरिका पंचधा स्मृता | कलंक कृष्णरोगाभं कृष्णाभूक सन्निभम् || ३१ || शिखि पंच समाकारं कलिकं त्रिविधं भवेत् | त्रासं स्फटिकसंकाशं शुक्तिभ्यान्नरसन्निभा || ३२ || त्रासोपविविधो ज्ञेयो चतुर्थं बिन्दुरुच्यते | जम्बूफलसमाकारा स्नानचूच्चकसंनिभा || ३३ || बिन्दुरेखा समाख्यातं विमलं त्रिविधमुच्यते | विमलं हेमसदृशं कांस्यं लोहस्य संनिभम् || ३४ || प्. २६७) दरी कूपासमाकारा सर्वदोषकरा भवेत् | कृष्णे कृष्णानि नश्यन्ति श्वेते कृष्ण सुगन्धिता || ३५ || भिरिका कृष्णशैले तु सितवर्णेन दर्शिता | खर्जूरपत्र * * * दूर्वास्तम्बाकृतिः शुभा || ३६ || कन्याकृत न गृह्णाति धान्यगोनाशनाय च | कालकं रोगदं ज्ञेयं त्रासरं राष्ट्रवर्धनम् || ३७ || बिन्दुना पुत्रनाशः स्याद् विमलाः सर्वदुःखिताः | दरी विनाशयोर्धान्यं हन्ति तन्मले * * * || ३८ || एवं परीक्ष्य बहुधा कर्तव्यं लक्षणान्वितम् | एकवर्णाशिला ग्राह्या भुक्तिमुक्तिप्रदायिका || ३९ || गृह्यते बहुवर्णा चेत् सर्वदोषकरा भवेत् | स्त्रीपुं नपुंसका शैला बाला वृद्धा तु मध्यमा || ४० || सुभेदै * * त्रिभेदैर्लक्षयित्वा तु लक्षणम् | घण्टाशब्दात्तु पुल्लिंगाः स्वरहीना नपुंसकाः || ४१ || तालशब्दः शिलायां तु या शिला युवति स्मृता | दीर्घशब्दत या वृद्धा हृस्वा बाला इति स्मृताः || ४२ || पुल्लिंगेन भवेल्लिंगं लिंगं पिण्डिका भवेत् | पादाधानशिलां कुर्यान्नपुंसकेन विशेषतः || ४३ || प्रासादस्य वशाल्लिंगं लिंगमानेन हर्म्यकम् | यस्यगर्भ गृहार्धं तु लिंगं कन्यसमुच्यते || ४४ || प्. ३६८) नवभागं तु पंचांशं मध्यमं लिंगमुच्यते | पंचभागं त्रिभागं तु उत्तमं लिंगमुच्यते || ४५ || रत्नलोहं विशेषेण ब्राह्मणादिक्रमान्न्यसेत् | श्रीप्रदं चैव सौवर्णं राजतं राज्यदं भवेत् || ४६ || ताम्रं पुत्रप्रदं ज्ञेयं कांस्यं वै पुष्टिकारणम् | रोगनाशमिदं ज्ञेयं पैत्तलं लिंगमुच्यते || ४७ || श्वभ्रेणरंह्लितं कृत्वा कर्तव्या चेद्विनाशनम् | अंगुल्यादीव तस्यान्तं सर्वेषां जातिरुच्यते || ४८ || रत्नलिंगं प्रवक्ष्यामि शृणुष्व चतुरानन ! | स्फटिकं मरकतं चैव माणिक्यं पद्मरागकम् || ४९ || मौक्तिकं च तथानीलं वैडूर्यं च प्रवालकम् | इन्द्रनीलं पुष्परागं वज्रं चैव तु कारयेत् || ५० || (निर्दोषं रत्नसंयुक्तं तथा लाभं तु पूजितम्) | स्वयोनिं पौष्टिकं ज्ञेयं अन्योक्तं मोक्षकामदम् || ५१ || वज्राणां चैव सर्वेषां स्वप्रमाणेन कारयेत् | रत्नानां चैव सर्वेषां धातुजं पीठमुच्यते || ५२ || गोपुरं च चतुर्भागं श्वभ्रमेकांशतत्समम् | लिंगतारत्रिभागं तु पीठविस्तारमुच्यते || ५३ || पीठतारत्रिभागैकं गोमुखस्य तु दीर्घकम् | वृत्तं वा चतुरश्रं वा षोडशांशेन भाजितम् || ५४ || प्. २६९) घृतवारिं तु चैकांशं अध्यर्धांशेन पट्टिका | पद्मतुण्डं चतुर्थांशं द्वयंशं वलयं भवेत् || ५५ || अधः पद्मं तु पंचांशं अध्यर्धांशेन पट्टिका | एवं पीठं समाख्यातं स्त्वानां फलमुच्यते || ५६ || स्फटिकं पुत्रवृद्धिः स्यान्मरकतं पुष्टिदं भवेत् | माणिक्यं मुक्तिदं ज्ञेयं पद्मरागं धनार्थकम् || ५७ || मौक्तिकं धनलाभं तु सर्वसिद्धिस्तु नीलकम् | वैडूर्यमायुर्वृद्धिः स्याद्राष्ट्रवश्यं प्रवालकम् || ५८ || स्तम्भनं पुष्परागं च आकर्षणं तु वज्रकम् | एवमेव क्रमेणैव ज्ञेयं रत्नस्य लक्षणम् || ५९ || बाणलिंगस्य विप्रेन्द्र ! सुप्रमाणेन कारयेत् | एवं द्विविधमाख्यातं चलस्थापनकं शृणु || ६० || रोहिण्यां च पुनवस्वे पुष्ये मृगशिरस्यथ | हस्ता च रेवती चैव स्वाती चैव त्रिरुत्तरा || ६१ || स्थिरराशौ तु कर्तव्यं उभयोर्वाथ कल्पयेत् | प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् || ६२ || षोडश स्तम्भ संयुक्तं गोमयेनानु लेपयेत् | शालिनास्थण्डिलं कृत्वा तस्योर्ध्वे पालिका न्यसेत् || ६३ || चतुर्दिक्षु च विप्रेन्द्र ! पालिका विन्यसेत्क्रमात् | नवाहैर्वापि सप्ताहैः पंचाहैर्वा विशेषतः || ६४ || प्. २७०) अंकुरार्ण्यर्पयेत् पूर्वं पूर्वोक्तविधिना सह | प्रतिष्ठा मण्टपं कृत्वा पूर्वकल्पं तु वित्तमः || ६५ || नदीतीरेऽथ काष्ठे वा पर्वते वा विशेषतः | उद्याने शुद्धदेशे तु गृहे वापि विशेषतः || ६६ || त्रिहस्तं पंचहस्तं वा सप्तहस्तमथापि वा | षोडशस्तम्भ संयुक्तं मध्यमे वेदिका भवेत् || ६७ || चतुर्दिक्षु च ईशान्यां कुण्डं कुर्यात्तु देशिकः | यावदश्रं भवेत्पीठं तावदश्रं तु कुण्डकम् || ६८ || वृत्तपीठस्य लिंगस्य वृत्तकुण्डमिहोच्यते | मण्टपं भूषयेद्विद्वान् पूर्वोक्तेन विधानतः || ६९ || प्रतिमां क्षालयेत्तत्रः पंचगव्येन देशिकः | पुष्पमाल्यैरलं कृत्य कुर्याद्ग्रामप्रदक्षिणम् || ७० || विमानप्रदक्षिणं वाथ कर्तव्यं देशिकोत्तमः | प्रविशेन्मण्टपं तत्र जले चैवाधिवासयेत् || ७१ || पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् | सवस्त्रान्सहिरण्यांश्च विद्येश्वर समन्वितान् || ७२ || लोकपालबलिं दद्यात् तत्तन्मन्त्रेण देशिकः | जलादुत्तीर्य पूर्वेद्युः लिंगं प्रक्षालयेत्ततः || ७३ || प्रविश्य मण्टपं तत्र पंचगव्येन स्नापयेत् | शुद्धिं कृत्वा विशेषेण पुण्याहं वाचयेत्ततः || ७४ || प्. २७१) वेदि मध्ये न्यसेच्छालीन् अष्टद्रोण समन्वितम् | तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || ७५ || पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | शयनं पंचधा कल्प्य यथा पूर्वोक्तमार्गतः || ७६ || अण्डजं चैव विप्रेन्द्र ! पक्षिणां पिंछ संभवम् | मुण्डजं तु दुकूलं वा कार्पासिकमथापि वा || ७७ || रत्नकम्बलमेवोक्तं रोमजं तु विधीयते | वृक्षत्वचाच कर्तव्यं चर्मजं तु विधीयते || ७८ || वामजं चैवं विप्रेन्द्र ! कुशेनैव तु कारयेत् | शयने शाययेद्देवं प्रासादेन तु मन्त्रतः || ७९ || सर्वगन्धं समालोढ्य लेपयेल्लिंगमेव च | प्राकारं पश्चिमे पीठं शयने शाययेद्धृदा || ८० || नवकुम्भं समादाय सूत्रेण सह वेष्टयेत् | शुद्धोदकेन संपूर्य शरावेण पिधाय च || ८१ || लिंगाधिवासनात्पूर्वे तोरणानर्चयेद्धृदा | द्वारकलशं विन्यस्य द्वारपालान्समर्चयेत् || ८२ || इन्द्रादीशान पर्यन्तं लोकपालककुम्भकान् | स्थापयेद्विधिना विप्र ! स्वस्वनाम्ना विशेषतः || ८३ || ईशान्यां स्थापयेद्विप्र ! शिवकुम्भं च वर्धनीम् | वर्धनीं गौरिबीजेन विन्यसेद्देशिकोत्तमः || ८४ || प्. २७२) पूर्वादीशानपर्यन्तं विन्यसेदष्ट कुम्भकान् | दशायुधं प्रकर्तव्यं स्वर्णेनैव तु देशिकः || ८५ || कुम्भमध्ये विनिक्षिप्य अस्त्रमन्त्र समन्वितम् | विद्येश्वरान्न्यसेत्तत्र स्वस्वनाम्ना च मन्त्रतः || ८६ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् | नैवेद्यं पायसं दद्याद् हृदयेन तु मन्त्रतः || ८७ || ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् | समिदाज्य चरुं लाजान्सर्षपांश्च यवांस्तिलान् || ८८ || मुद्गमाषं च विप्रेन्द्र ! क्रमशो हूयते पुनः | समिधो हीशमन्त्रेण पुरुषेणाज्यमेव च || ८९ || अघोरेण चरुं हुत्वा लाजान्वामेन चैव हि | सर्षपं सद्य मन्त्रेण हृदयेन यवं तथा || ९० || तिलांस्तु शिरसा हुत्वा मुद्गं तु शिखया सह | घृतमिक्षेतिं मन्त्रेण घृतं चैव तु हूयते || ९१ || आपो राजेति मन्त्रेण चरुं हुत्वा तु देशिकः | रात्रौ जागरणं तत्र स्वप्नानि च परीक्षयेत् || ९२ || ततः प्रभाते विमले पूर्णाहुतिमथाचरेत् | एकाग्निं वाथ पंचाग्निं कुर्याद्वै देशिकोत्तमः || ९३ || वृद्धाग्निं देशिकेनैव कर्तव्यं होमकर्मणि | होमं न कारयेद्विद्वान् समिदाज्य चरुं विना || ९४ || प्. २७३) चित्तादींश्च जयादींश्च राष्ट्रभृच्चैव हूयते | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || ९५ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् | हुत्वान्ते तु यदस्येति जुहुयात्तु विशेषतः || ९६ || लिंगमुत्थापयेत् पश्चात् स्नानवेद्यां च विन्यसेत् | मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा ततो बुधः || ९७ || * * * * * कर्तव्यं व्योमव्यापि समुच्चरन् | स्नापयेच्छिवकुम्भं तु वर्धनीमपि पिण्डिकाम् || ९८ || अनन्तादिशि खण्यन्तान्स्था पयेल्लिंगमूर्धनि | स्नपनं कारयेत्तत्र शताष्टं पंचाशदेव तु || ९९ || अभिषेकं क्रियाद्विद्वान्गन्ध पुष्पादिना ततः | पंचवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः || १०० || आचार्यं पूजयेत्पश्चान्मूर्तिपान्पूजयेत्ततः | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || १०१ || चललिंग स्थापनं प्रोक्तमुमया सहितं शृणु || १०१ || इति वीरतन्त्रे चललिंग प्रतिष्ठांविधिः एक षष्टितमः पटलः || ६१ || शिवं प्रणम्य विधिवत् पर्यपृच्छत्पितामहः | सृष्टिमूर्तिप्रतिष्ठां तु ब्रूहि मे परमेश्वर ! || १ || प्. २७४) ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | उमास्कन्दहितं चैव सुखासनं तथैव च || २ || कल्याणसुन्दरं चैव चन्द्रशेखरमेव च | गंगाधरं च पंचैते सृष्टिरूपमिहोच्यते || ३ || एतेषां स्थापनं वक्ष्ये लक्षणेन समन्वितम् | प्रतिरूपसर्गं पूजा च तिष्ठा गति निवृत्ति च || ४ || उमा पूजा ईश्वरो गृह्णाति यथा प्रतिष्ठा | यमरोहिण्यादित्य पुष्येन्दु हस्त पौष्ण त्रिरुत्तरा || ५ || स्वती च स्थापनेषूक्ता अष्टमे ग्रहवर्जिता | स्थिरराशौ प्रकर्तव्यं उभराशावथापि वा || ६ || पूर्वोक्त विधिना चैव अंकुरार्पण मुच्यते | प्रतिष्ठा नक्षत्र पूर्वे तु अंकुरानर्पयेत्ततः || ७ || नवाहे चैव सप्ताहे पंचाहे वा विशेषतः | प्रासादस्याग्रतश्चैव मण्डपं कारयेत्ततः || ८ || पंचषट् सप्तहस्तं तु दशहस्तं तु मध्ययम् | एकादश द्वादशकरं त्रयोदशकरं तथा || ९ || दशपंचकरं वापि उत्तमत्रयमुच्यते | ऋषिच्छन्दो देवतानां वक्ष्यामि सुरसत्तम ! || १० || व्यासं चैव वसिष्ठं च जामदग्न्यं च काश्यपम् | भारद्वाजो भृगुश्चैव तथांगिरसगौतमाः || ११ || प्. २७५) मण्टपानां क्रमाद्विप्र छन्दसं शृणु सुव्रत ! | तृष्टुप् चानुष्टुप् च * * * * * प्रकृतिस्तथा || १२ || जगती चत्वरी चैव अतिचत्वरिरेवं च | उत्तमोत्तममेवं तु छन्दसानां विधीयते || १३ || इन्द्रश्चाथ कुबेरश्च सोमश्च वरुणस्तथा | विघ्नेशश्च कुबेरश्च ब्रह्मा विष्णुर्महेश्वरः || १४ || एतेषां देवतानां तु मण्डपस्याधिदेवताः | क्रमाद् ज्ञात्वा तु विप्रेन्द्र ! कारयेद्विधि पूर्वकम् || १५ || स्तम्भं कृष्णशिला चैव अथवान्यशिलान्यपि | दारुणा च प्रकर्तव्यं शिल्पिना लक्षणैर्युतम् || १६ || बकुलं च शिरीषं च याज्ञिकं वृक्षमेव वा | आसनं चापि वृक्षं वा क्रमुकं वैष्णवं तु वा || १७ || पनसं नालिकेरं वा केत * * * * * | अवक्रं निर्व्रणं चैव पुषकोटर वर्जितम् || १८ || गात्रात्संगृह्य यत्नेन पंक्तिमानमथोच्छ्रयम् | कूटं वा मण्टपं वापि प्रपां वापि च कारयेत् || १९ || क्रमुकं नालिकेरं वा आर्द्रशाखेन पातयेत् | एवं वै मण्टपं कृत्वा मध्ये वेदिं तु कल्पयेत् || २० || तस्यैव परितः कुण्डान् कल्पयेत्तु विशेषतः | चतुरश्रार्धचन्द्रं च वृत्तं पद्मं तथैव च || २१ || प्. २७६) पूर्वादीनि चतुर्दिक्षु कोणे योन्याकृतिर्भवेत् | ईशान इन्द्रयोर्मध्ये षट्कोणमिति कथ्यते || २२ || उमास्कन्दहितं प्रोक्तं स्कन्दकुण्डं विना कुरु | उमासहितमेवोक्तं एकासनस्थितेऽपि च || २३ || सुखासीनस्य देवस्य कुण्डानां शृणु पद्मज ! | चतुरश्रं च योनिं च त्रिकोइणं वृत्तमेव वा || २४ || पंचाग्रं चैव पद्मं च अष्टाश्रं कल्पयेत्क्रमात् | ईशान इन्द्रयोर्मध्ये सप्तकोणं तु कारयेत् || २५ || सुखासनं मया प्रोक्तं कल्याणं च शृणुष्वथ | पूर्वादीशाच्चतुर्दिक्षु वेदाश्रं कुण्डमुच्यते || २६ || कोणेषु वृत्तकुण्डं च शिवाग्निं पंचकोणकम् | कल्याण सुन्दरं प्रोक्तं चन्द्रशेखरमुच्यते || २७ || चतुरश्रं धनुर्वृत्तं कुण्डं चैव चतुर्दिशि | कोणेषु वृत्तकुण्डं तु शिवाग्निं चाष्टकोणकम् || २८ || गंगाधरस्वरूपस्य कुण्डं वक्ष्यामि सुव्रत ! | सुखासनवद्दिक्ष्वष्टौ शिवाग्निं चाष्टकोणकम् || २९ || एतेषां देवतानां तु भिन्नासनमिहोच्यते | एकासनस्थितादेव्या योन्याकारं विदिक्षु वै || ३० || एवमेव क्रमेणैव कुण्डं कुर्यात्तु पद्मज ! | वितानैश्चोर्ध्वमाच्छाद्य अष्टदिक्षु ध्वजान्न्यसेत् || ३१ || प्. २७७) गजाजमहिषाः सिंह मत्स्यकृष्णाश्व गोवृषाः | ध्वजमध्ये लिखित्वा तु अष्टदिक्षु च विन्यसेत् || ३२ || प्रथमं रत्नविन्यासं द्वितीयं नयनमोक्षणम् | तृतीयं प्रतिमाशुद्धिः चतुर्थं ग्रामप्रदक्षिणम् || ३३ || जलाधिवासनं पंच षष्ठं वै मण्टपं ततः | सप्तमं शयनं चैव अष्टमं होममेव च || ३४ || नवमं दक्षिणादानं दशमं स्थापनं भवेत् | दशरिमंमिह प्रोक्तं तेषां भेदं शृणुष्वथ || ३५ || पूर्वोक्तमण्टपे चैव सत्यकस्य पदेऽथवा | गोमयालेपनं कृत्वा शालिना विकिरेत्ततः || ३६ || शाल्यर्धतण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | परिस्तरेत्तु दर्भैश्च नववस्त्रेण छादितम् || ३७ || तस्योपरि न्यसेत्पीठं अवटं नव कारयेत् | ब्राह्मिके तु न्यसेद्वज्रं इन्द्रनीलं तु पूर्वतः || ३८ || मरकतं वह्निदेशे तु वैडूर्यं दक्षिणे ततः | नैर्-ऋत्यां पुष्परागं तु मौक्तिकं वारुणे न्यसेत् || ३९ || वायव्यां स्फटिकं प्रोक्तं प्रवालं सौम्यदेशतः | ईशान्यां तु महानीलं एवं देवस्य विन्यसेत् || ४० || देवीं चैव न कर्तव्यं रत्नन्यासं विशेषतः | चतुर्दिक्षु च मध्ये च स्वर्णानि निक्षिपेत्ततः || ४१ || प्. २७८) स्कन्दस्य हेमं विन्यस्य सुस्निग्धं कारयेत्ततः | प्रतिमां क्षालयेत्तत्र आम्वेनं वारिणा पुनः || ४२ || नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने | आदित्यस्य पदे चैव नेत्रमोक्षणमुच्यते || ४३ || स्थण्डिलं कारयेत्तत्र अष्टद्रोणेन शालिना | तण्डुलं च तदर्धं च तदर्धं तिलमेव च || ४४ || तस्यो परिन्यसेद्वस्त्रं दर्भैश्चैव परिस्तरेत् | उमा स्कन्दसहितं न्यस्य तस्योपरि विशेषतः || ४५ || प्रच्छन्न पटसंयुक्तं पुण्याहं वाचयेत्ततः | ताम्रपात्रेऽथवा कांस्ये मध्वाज्यं चैव निक्षिपेत् || ४६ || स्वर्णेन सूचिना युक्तं प्रहरं तत्र विन्यसेत् | अभितः कलशानष्टौ पूर्वादीशान्तं विन्यसेत् || ४७ || शुद्धोदकेन संपूर्य ससूत्रान्वस्त्र संयुतान् | ससूत्रान्सापिधानांश्च लोकपालाधिदेवतान् || ४८ || शिल्पिना प्रहरेत्तत्र पक्ष्मरेखां विशेषतः | कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् || ४९ || शिल्पिनं पूजयेत्तत्र पुण्याहं वाचयेत्तत्र | सुवर्णनख संयुक्तं हेमदूर्वा समन्वितम् || ५० || नेत्रमन्त्रमनु स्मृत्यं स्पर्शयेन्नेत्रमेव च | अक्षिहोमं ततः कुर्यात् तस्याग्रे तु विशेषतः || ५१ || प्. २७९) प्रतिमस्याग्रतश्चैव स्थण्डिलं तु त्रिधा भवेत् | पूर्वोक्तेनैव मार्गेण अग्निमुखं च कारयेत् || ५२ || आज्येन चरुणा चैव नेत्रमन्त्रेण हूयते | अष्टोत्तरशतेनैव प्रत्येकं हूयते क्रमात् || ५३ || उत्तरे चैव विप्रेन्द्र ! गौरी नेत्रेण हूयते | मध्यमे स्कन्दमेवं तु स्कन्दमन्त्रेण हूयते || ५४ || तत्काले दक्षिणां दद्यात् पवमानेन प्रोक्षयेत् | स्वर्णेन नखदूर्वेणमध्वाज्यं तु तर्पयेत् || ५५ || मधुवाता ऋतायेति मधु चैव तु तर्पयेत् | घृतमिक्षेति मन्त्रेण घृतं चैवं तु तर्पयेत् || ५६ || दर्शयेत्तु सवत्सांगां गौर्धेनुर्भव्यमन्त्रतः | ब्राह्मणान्दर्शयेत्तत्र ब्रह्मजज्ञानमन्त्रतः || ५७ || दर्शयेत्सप्तकन्याश्च उमादेवीं विशेषतः | दर्शयेद्ब्रह्मचारींश्च स्कन्दस्यैव तु देशिकः || ५८ || ब्रह्मजज्ञान मन्त्रेण प्रासादेन तु दर्शयेत् | आपोहिष्ठेति संप्रोक्ष्य अर्घ्य संयुतमेव च || ५९ || प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् | पंचगव्य समायुक्तं अभिषेकं तु कारयेत् || ६० || सत्यकस्य पदे चैव प्रतिमास्थान मुच्यते | शुद्धैरुत्थेति मन्त्रेण शुद्धोदकेन स्नापयेत् || ६१ || प्. २८०) पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् | ग्रामप्रदक्षिणं कुर्यात् सर्वालंकारसंयुतम् || ६२ || रंगे वा शिबिकायां वा आरोप्य प्रतिमां ततः | गीतवाद्य समायुक्तं शंखकाहल संयुतम् || ६३ || नानाध्वज समायुक्तं नानापिंछसमन्वितम् | नानाभक्तजनैस्सार्धं कुर्याद्ग्रामप्रदक्षिणम् || ६४ || नन्द्यादीन्प्रविशेत्तत्र जलाधिवासनं कुरु | नदीतटाकतीरे वा ह्रदे गत्वा विशेषतः || ६५ || तीरे समतलं कृत्वा गोमयेनानु लेपयेत् | शालिना स्थण्डिलं कृत्वा प्रतिमां तत्र विन्यसेत् || ६६ || अपनीय च निर्माल्यं प्रतिमां स्नापयेत्ततः | नववस्त्रेण संवेष्ट्य कूर्चेनैव समन्वितम् || ६७ || प्रतिमां चैव विप्रेन्द्र ! जले चैवाधिवासयेत् | चतुर्द्वार समायुक्तं प्रपां कृत्वा विशेषतः || ६८ || पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् | स वस्त्रान्सापिधानांश्च विद्येश्वर समन्वितान् || ६९ || लोकपालबलिं दद्याद् दिनं प्रति विशेषतः | एकरात्रं त्रितात्रं वा पंचरात्रमथापि वा || ७० || दीपहीनं भवेद् व्याधिः तस्माद्दीपं समाचरेत् | वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् || ७१ || प्. २८१) दिनान्ते चैव विप्रेन्द्र ! जलादुत्तीर्य देशिकः | आलयं प्रविशेत्तत्र पुष्पदन्तपदे स्थितः || ७२ || स्नापयेत्पंचगव्येन व्योमव्यापि समुच्चरन् | गौरीबीजेन देव्याथ गुहं वै स्कन्दबीजतः || ७३ || शुद्धोदकेन स्नात्वा तु स्नापयेद्गन्धपूर्वकम् | उशीरं चन्दनं चैव एलालवंग संयुतम् || ७४ || सुवर्णसूत्रं कार्पासं बन्धयेत्कौतुकं पुनः | ततोऽधिवासनं कुर्याल्लक्षणेन समन्वितम् || ७५ || षोडशद्रोण संयुक्तं शालिना विकिरेत्ततः | तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || ७६ || पद्ममष्टदलं लिव्य दर्भैश्चैव परिस्तरेत् | तोरणानर्चयेत्तत्र द्वारकुम्भांश्च विन्यसेत् || ७७ || वेदि बाह्ये तु परितो दशकुम्भांश्च विन्यसेत् | सवस्त्रान्सापिधानांश्च लोकपालाधिदेवतान् || ७८ || अर्चयेद्गन्धपुष्पाद्यैः नैवेद्यं दापयेत्ततः | शयनं पंचभिः कल्प्य अण्डजाद्यैरनुक्रमात् || ७९ || पक्षिणां पिंछसंयुक्तं रसज्ञं संप्रकीर्तितम् | क्षौमं कार्पासजं वायं मुण्डजस्येति कीर्तितम् || ८० || रत्नकम्बल संयुक्तं रोमजस्य प्रकीर्तितम् | वृक्षत्वचानुकर्तव्यं चर्मजं तद्विधीयते || ८१ || प्. २८२) कौशेयं वामजं प्रोक्तं शयनं पंच उच्यते | पंचब्रह्मेण मन्त्रेण शयनं पंच कल्पयेत् || ८२ || नववस्त्रेण संवेष्ट्य प्रच्छादयेत्तु कौतुकम् | प्रच्छादनेन संयुक्तं शयने शाययेच्छिवम् || ८३ || गौरीबीजेन देव्यास्तु स्कन्दमूल गुहान्न्यसेत् | प्राक्शिरः पश्चिमे पादं विन्यसेद्देशिकोत्तमः || ८४ || पिधाय नववस्त्रेण गन्धपुष्पादिनार्चयेत् | नवकुम्भान्समादाय त्रिसूत्रैर्वेष्टयेत्ततः || ८५ || शुद्धोदकेन संपूर्य शरावेण पिधाय च | पंचरत्न समायुक्तं वस्त्रयुग्मेन वेष्टयेत् || ८६ || प्रतिमस्येशदिग्भागे प्रासादेन तु मन्त्रतः | पंचब्रह्मेण संयुक्तं शिवकुम्भं च विन्यसेत् || ८७ || वर्धनीं तस्य वामे तु गौरीबीजेन संयुतम् | स्कन्दकुम्भं न्यसेन्मध्ये स्कन्दमूलेन मन्त्रतः || ८८ || तत्तद्बीजं न्यसित्वा तु तदाचार्यं विशेषतः | स वस्त्रान्सापिधानांश्च सहिरण्यान्सकूर्चकान् || ८९ || अष्टविद्येश्वरांश्चैव पूर्वादिषु च विन्यसेत् | अम्बिकां च उमादेवीं ईशपत्नीं तथैव च || ९० || गणाम्बिका च संयुक्तं स्कन्दमाता तथैव च | प्रज्ञां चागसुतां चैव पार्वती च तथैव च || ९१ || प्. २८३) अन्तराले न्यसेद्देवान् वर्धन्यां च विशेषतः | कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च || ९२ || सेनापतिं सुराग्रं च हरसूनुं तथैव च | शरवणोद्भवं चैव कार्तिकेयं च विन्यसेत् || ९३ || एवमेव कमान्न्यस्य तत्रादार्यकैस्सह | गन्धैः पुष्पैश्च धूपैश्च स्वस्वबीजेन पूजयेत् || ९४ || सुवर्णेनैव कर्तव्यं आयुधानां च विन्यसेत् | एलालवंगकर्पूर तिम्बुजातीफलं मुरम् || ९५ || लघुमां चैव संयुक्तं कुम्भमध्ये विनिक्षिपेत् | वर्धन्यां सुदकुम्भेषु एवमेव क्रमान्न्यसेत् || ९६ || हविर्निवेदयेत्पश्चात् प्रत्येकं तु विधीयते | ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् || ९७ || पलाशं पूर्वतो भागे अश्वत्थं दक्षिणे तथा | पश्चिमे चक्रवृक्षस्तु उदुम्बरं तु चोत्तरे || ९८ || ईशान इन्द्रयोर्मध्ये पलाशसमिधायुतम् | शमी चैव अपामार्गं बिल्ववृक्ष समन्वितम् || ९९ || प्लक्षं चैव समायुक्तं आग्नेयादि त्रिकोणके | सोम ईशानयोर्मध्ये पलाश समिधा तथा || १०० || समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् | मुद्गं माषं च विप्रेन्द्र ! नवद्रव्यमिहोच्यते || १०१ || प्. २८४) समिधः सद्यमन्त्रेण आज्यं वामेन हूयते | अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु || १०२ || सर्षपं त्वीशमन्त्रेण यवं हृदयमन्त्रतः | शिरसा च तिलं हुत्वा शिवमन्त्रेण मुद्गकम् || १०३ || माषं तु कवचेनैव घृतमिक्षे घृतं तथा | त्रियम्बकेन मन्त्रेण चरुं चैव तु हूयते || १०४ || आपोराजेति मन्त्रेण लाजहोमं तु कारयेत् | एवं क्रमेण होतव्यं तत्तन्मन्त्रेण देशिकः || १०५ || अष्टोत्तरशतं वापि पंचाशत्पंचविंशतिः | द्रव्यं प्रति विशेषेण होतव्यं देशिकोत्तमः || १०६ || शैवाचार्येण संयुक्तं होमकर्म तु कारयेत् | द्रव्यान्ते चैव द्रव्यान्ते प्रतिमां संस्पृशेत्ततः || १०७ || द्रव्यान्ते व्याहृतिं हुत्वा देवानामांश्च हूयते | चतुर्दिक्षु चतुर्वेदं कुर्यादध्ययनं ततः || १०८ || श्रीरुद्रं पूर्वतो भागे होतारश्चैव दक्षिणे | पश्चिमे चमकं प्राच्यां पवमानं तथोत्तरे || १०९ || चतुर्दिक्षु च गेहस्य गणिका नृत्तसंयुतम् | माहेश्वर समायुक्तं नृत्तं कृत्वा तु भक्तितः || ११० || सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || १११ || प्. २८५) एवमेव क्रमेणैव रात्रौ होमं तु कारयेत् | ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः || ११२ || मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा तु बुद्धिमान् | सृष्टिरूप प्रतिष्ठायां सृष्टिन्यासमुदाहृतम् || ११३ || ततो वासन होमं तु प्रधानाग्नौ च होमयेत् | समिदाज्यचरुं लाजान् दत्वा पंचदशाहुतिः || ११४ || ईशानेन तु मन्त्रेण समिदा हूयते क्रमात् | आज्यं सद्येन होतव्यं हृदयेन चरुं हुनेत् || ११५|| लाजान्वामेन होतव्यं क्रमात्पंचदशाहुतिः | अन्यैर्होमं न कर्तव्यं आचार्येणैव हूयते || ११६ || चित्तादीनि च वर्गाणि हूयतेऽत्र क्रमात्ततः | हुत्वान्ते तु यदस्येति पूर्णाहुति मथाचरेत् || ११७ || शिवोमास्कन्दकुण्डेषु होमयेद्देशिकोदयः (त्तमः) | आचार्यदक्षिणां दद्याद्यथा शास्त्रोक्त मार्गतः || ११८ || नववस्त्रेण संयुक्तः सोष्णीषस्सोत्तरीयकः | पंचांगभूषणं दद्यात् शिखाकर्णे गले तथा || ११९ || हस्ताभ्यां पादयोश्चैव एते पंचांग उच्यते | अधमं दशनिष्कं तु मध्यमं द्विगुणं भवेत् || १२० || त्रिगुणं चोत्तमं प्रोक्तं आचार्यस्य तु दक्षिणा | तदर्धमुपदेष्टा च वास्तुहोमं तदर्धकम् || १२१ || प्. २८६) मूर्तिपानां तु सर्वेषां तदर्धं दक्षिणां ददेत् | दैवज्ञद्विगुणं तस्य दक्षिणां दापयेत्ततः || १२२ || अध्येतृतन्त्रजप्तॄणां मूर्तिपार्धं तु दक्षिणा | पर्यष्टि परिवाराणां यथा शक्त्या तु दक्षिणा || १२३ || दीक्षितः शिवयोगी च समया चैव पूजयेत् | सुमुहूर्ते सुलग्ने च देवमुत्थापयेत्ततः || १२४ || स्नानवेदीमनुप्राप्य फलकोपरि विन्यसेत् | घृतं शिरोर्पणं कृत्वा हेमदूर्वांकुराक्षतैः || १२५ || घृतयुक्तं च देवस्य पादयोर्मूर्ध्नि निक्षिपेत् | मन्त्रन्यासोक्तमार्गेण पंचब्रह्मेण संयुतम् || १२६ || व्योमव्यापि समुच्चार्य प्रासादेन तु मन्त्रतः | ब्रह्ममंगेन संयुक्तं स्नापयेच्छिव कुम्भकम् || १२७ || वर्धनीं गौरी बीजेन स्नापयेत्तु विशेषतः | स्कन्दमूलेन विप्रेन्द्र ! स्कन्दकुम्भाभिषेचयेत् || १२८ || पूर्वादीशान पर्यन्तं स्थापयेत् स्थापितान् | वर्धनीं स्थापयेद्देव्याः सहासनगते यदि || १२९ || देशिकानां त्रयाणां च स्नापयेदेककालतः | स्नपनं कारयेत्तत्र नैवेद्यं दापयेत्ततः || १३० || ताम्बूलं दापयेत्पश्चाद् ब्राह्मणान्भोजयेत्ततः | भोजयेत्सप्तकन्याश्च ब्रह्मचारींश्च भोजयेत् || १३१ || प्. २८७) बौद्धं चैवार्हतं चैव शैवं पाशुपतं तथा | कापालं पांचरात्रं च षडैते समयाः स्मृताः || १३२ || आचण्डालान्तमन्नाद्यं अस्मिन्नहनि दापयेत् | शैवान्संभोजयेत्तत्र समयान्भोजयेत्ततः || १३३ || रात्रौ महोत्सवं कुर्यात् पंचाहे सप्त एव वा | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || १३४ || आदौ यतत्रमाश्रित्य तच्छिष्येणैव कारयेत् | प्रतिष्ठाकरणं सर्वं आचार्याय प्रदापयेत् || १३५ || इति वीरतन्त्रे सृष्टिमूर्तिप्रतिष्ठाविधिः द्वाषष्ठितमः पटलः || ६२ || स्थिति मूर्तिप्रतिष्ठां च कीदृशानीह शास्त्रके | वक्तुमर्हसि देवेश अनुग्रहार्थं प्रभो ! मम || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | रोहिणी च पुनवस्वे तिष्ये मृगशिरस्तथा || २ || हस्तं च रेवती चैव स्वाती चैत्र त्रिरुत्तरा | स्थिरराशौ च कर्तव्यं उभयोरपि कारयेत् || ३ || अष्टमे चेद्ग्रहास्सर्वे न कुर्वीत कदाचन | ऋषभं वाहनं चैव अर्धनारी तथैव च || ४ || किरातं चैव वीरेशं भिक्षाटनं तथैव च | एते तु पंचमूर्तिश्च स्थितिमूर्तिरुदाहृता || ५ || प्. २८८) प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् | पंचषट् सप्तहस्तं वा अष्टहस्तं नवं तथा || ६ || क्रमुकं वैणवं वापि केतकी नालिकेरकम् | अवक्रं निर्व्रणं कृत्वा पंक्तिमानमथोच्छ्रयम् || ७ || आम्रशाखाभिराच्छाद्य वितानध्वज संयुतम् | ध्वजमध्ये लिखेत्तत्र लोकपालस्य वाहनम् || ८ || यथा क्रमेण विन्यस्य तत्तद्देशेषु (देशि)कः | दर्भमालाभिराच्छाद्य मुक्तादामैरलंकृतम् || ९ || मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते | पूर्वे तु चतुरश्रं तु अग्नेरश्वत्थपत्रवत् || १० || याम्यायां चतुरश्रं च त्रिकोणं निर्-ऋतिगोचरे | वृत्तं तु वारुणे चैव वायव्यां पंचकोणकम् || ११ || पद्मं सोमे च विन्यस्य ऐशान्यां सप्तकोणकम् | इन्द्रईशानयोर्मध्ये अष्टकोणं तु कारयेत् || १२ || एकासने पद्मेन्धयो योनिः स्यात्तु विदिक्षु च | ईशान इन्द्रयोर्मध्ये षट्कोणं वृषभं न्यसेत् || १३ || ऋषभं वाहनं प्रोक्तं अर्धनारीं शृणुष्वथ | पूर्वादिषु चतुर्दिक्षु कुण्डं स्याच्चतुरश्रकम् || १४ || आग्नेयादि चतुर्दिक्षु योन्याकारादि कारयेत् | अर्धनारीश्वरं प्रोक्तं किरातार्जुनमुच्यते || १५ || प्. २८९) चतुरश्रं च योनिं च धनुश्चैव त्रिकोणकम् | वृत्तपंचाश्रपद्मं च सप्तकोणाष्टकोणकम् || १६ || पूर्वादीशानपर्यन्तं अष्टकोणं तु मध्यमे | सहासने तु विप्रेन्द्र ! आग्नेयादिषु योनिकम् || १७ || (वृत्तपंचाश्र पद्मं च पद्मं च सप्तकोणकम्) | किरातार्जुनमेवोक्तं वीरेशं शृणु तत्वतः || १८ || चतुरश्रं धनुर्वृत्तं पद्मं चैव चतुर्दिशि | अश्वत्थं च त्रिकोणं च पंचाश्रं चाष्टकोणकम् || १९ || आग्नेयादि न्यसेदेतान् इन्द्र ईशानमध्यमे | सप्तकोणं भवेत्कुण्डं वीरेशमधुनोच्यते || २० || वीरेशवत्कृतं कुण्डं भिक्षाटनस्य चैव हि | सोम ईशानयोर्मध्ये हरिणां वृत्तकुण्डकम् || २१ || इन्द्र आग्नेययोर्मध्ये भूतकुण्डं त्रिकोणवत् | एवमेव क्रमेणैव कुण्डं कुर्याद्विचक्षणः || २२ || रत्नन्यासं प्रकर्तव्यं आचार्यः शिल्पिभिस्सह | रत्नन्यासं प्रकर्तव्यं सत्यकस्य पदेऽथवा || २३ || शालिना विकिरेत्तत्र तण्डुलं च तिलं न्यसेत् | नववस्त्र समायुक्तां प्रतिमां तत्र विन्यसेत् || २४ || माणिक्यं मध्यमे स्थाप्य परितः स्थापयेत्क्रमात् | इन्द्रनीलं च वैडूर्यं स्फटिकं मरकतं तु वा || २५ || प्. २९०) पद्मरागं प्रवालं च वज्रं मौक्तिकमुच्यते | पूर्वादिषु न्यसेदेतान् पंचब्रह्म समुच्चरन् || २६ || सिंहासनस्य देव्याश्च रत्नन्यासं च कारयेत् | अर्धनारीश्वरं चैव शिवभागे तु विन्यसेत् || २७ || सुस्निग्धं कारयेत् तत्र क्षालयेत् प्रतिमां ततः | नयनं मोक्षणं कुर्यान् नेत्रयुग्मयुते दिने || २८ || आदित्यस्य पदे चैव नेत्रमोक्षणमुच्यते | शाल्योपरि न्यसेद् देवं प्रच्छन्नपटसंयुतम् || २९ || सुवर्णसूचिना युक्तं शिल्पिना चक्षुर्मोक्षणम् | शिल्पिनं पूजयेत् तत्र शिल्पिनं तु विसर्जयेत् || ३० || अन्यवस्त्रं प्रकुर्याथ पुण्याहं वाचयेत् ततः | पूर्वादीशानपर्यन्तं कलशानष्ट विन्यसेत् || ३१ || सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् | हिरण्य नखदूर्वा च घृतपात्रमपात्रकम् || ३२ || आचार्यश्च शुचिर्भूत्वा नववस्त्रसमन्वितः | पंचांगभूषणैर्युक्तः प्रोक्षयेत् प्रतिमां ततः || ३३ || अक्षिहोमं ततः कृत्वा प्रतिमाग्रे विशेषतः | आज्येन चरुणा चैव नेत्रेणैव शताहुतिः || ३४ || हिरण्यनखदूर्वा च नेत्रस्पर्शं च वामतः | मध्वाज्यं तर्पयेद् धीमान् नेत्रमन्त्रसमन्वितम् || ३५ || प्. २९१) मधुना पूरितं पात्रं मधुवातेति तर्पयेत् | घृतमिक्षे घृतं तर्प्य सवत्सांगां प्रदर्शयेत् || ३६ || ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान् दर्शयेत् ततः | प्रच्छन्नपटमावर्ज्य जनान् सर्वान् प्रदर्शयेत् || ३७ || एकासनगते वापि तत् तन्मन्त्रेण दर्शयेत् | पवमानं समुच्चार्य पंचगव्याभिषेचनम् || ३८ || पंचब्रह्मेण संयुक्तं शुद्धतो येन स्नापयेत् | ग्रामप्रदक्षिणं कुर्याद् रथे वा शिबिकेऽपि वा || ३९ || सर्वचिह्नसमायुक्तं गेयनृत्तादिशोभितम् | नदीतटाकतीरे वा गोमयेनानुलेपयेत् || ४० || * * * * * * * * प्रतिमां विन्यसेत् ततः | स्नापयेत् पंचगव्येन व्योमव्यापि समुच्चरन् || ४१ || गन्धपुष्पादिनाभ्यर्च्य जले चैवाधिवासयेत् | स वस्त्र परिधानेन कूर्चेनैवच्छादयेत् || ४२ || प्रतिमां कण्ठदघ्ने च जले चैवाधिवासयेत् | प्रपां कृत्वा तु विप्रेन्द्र ! कलशानष्ट विन्यसेत् || ४३ || स वस्त्रान्सहिरण्यांश्च विद्येश्वराधिदेवतान् | एकरात्रं त्रिरात्रं वा पंचरात्रमथापि वा || ४४ || जलादुत्तीर्य पूर्वेद्युः प्रविशेन्मण्टपं पुनः | वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् || ४५ || प्. २९२) पुष्पदन्तपदे स्थाप्य पंचगव्याभिषेचनम् | व्योमव्यापि समुच्चार्य स्नापयेद्गन्धतोयकैः || ४६ || स्वर्णसूत्रम संयुक्तं बन्धयेत् कौतुकं हृदा | सर्वगन्धं समालोढ्य लेपयेत् प्रतिमां ततः || ४७ || नववस्त्रेण संछाद्य कूर्चेनैव समन्वितम् | शालिना विकिरेद्बेदिं भारद्वय समन्वितम् || ४८ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | लाजैर्दर्भैश्च विकिरेद् अण्डजादीनि कल्पयेत् || ४९ || शयने शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् | वस्त्रेणैवोर्ध्वमाच्छाद्य व्योमव्यापि षडंगकैः || ५० || प्रतिमस्यैशदिग्भागे शिवकुम्भं च वर्धनीम् | स्थापयेच्छिवकुम्भं तु वर्धनीं स्थापयेच्छिवम् || ५१ || पूर्वोक्तेन तु मन्त्रेण सवस्त्रं पंचरत्नकम् | पूर्वादीशान पर्यन्तं अष्टकुम्भान्न्यसेत्ततः || ५२ || स वस्त्रान्सापिधानांश्च विद्येश्वराधिदेवतान् | तस्य बाह्ये तु परितो लोकपाल घटान्न्यसेत् || ५३ || गन्धपुष्पादिनाभ्यर्च्य स्वस्वमूलेन देशिकः | एकासनस्थ देव्याश्च अन्तरालाश्च वर्धनी || ५४ || प्रतिमाद्दक्षिणे भागे प्रतिकुम्भं न्यसेत्ततः | अश्वत्थोदुम्बरप्लक्षवटं पूर्वादिदिक्षु च || ५५ || प्. २९३) शमीखदिर बिल्वार्कं प्रधानाग्निं पलाशकम् | गौरी वृषभ कुण्डाभ्यां पलाशेनैव हूयते || ५६ || समिदाज्य चरूणां च सक्थुमाषतिलानि च | यवसर्षप संयुक्तं नवद्रव्यं च हूयते || ५७ || समिधानीशमन्त्रेण आज्यं वामेन हूयते | पुरुषेण चरुं हुत्वा लाजान्घोरेण चैव हि || ५८ || सक्तुं च सद्यमन्त्रेण माषं हृदयमेव च | तिलान्वै शिरोमन्त्रेण अष्टोत्तरशताहुतिः || ५९ || पंचब्रह्मषडंगैश्च स्वस्वमन्त्रेण हूयते | आद्याक्षरं तु हृस्वं च दीर्घं ब्रह्मांग मुच्यते || ६० || त्र्यम्बकेन घृतं हुत्वा देवस्य त्वा चरुं हुनेत् | द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेत्प्रतिमां ततः || ६१ || प्रभाते विमले चैव स्नानं कृत्वा तु देशिकः | स्थिति न्याय प्रकारेण न्यासं कुर्याद्विशेषतः || ६२ || उपदेष्ट्रा च संयुक्तो मूर्तिपैस्सह देशिकः | पूर्णाहुतिं ततो हुत्वा सर्वद्रव्य समन्वितम् || ६३ || हव्यवाहं समुच्चार्यं स्विष्टमग्नेति मन्त्रतः | ईशानेन तु मन्त्रेण कुर्यात् पूर्णाहुतिं ततः || ६४ || आचार्य दक्षिणां दद्यात् पूर्वोक्तविधिना ततः | उपदेष्टा मूर्तिपांश्चैव पदार्थीन् सर्वांश्च पूजयेत् || ६५ || प्. २९४) उत्थापयेत्तु प्रतिमां स्नानवेद्युपरि न्यसेत् | स्थितिमार्ग प्रकारेण अष्टत्रिंशत्कलशान् न्यसेत् || ६६ || आसनं कल्पयेत् तत्र * * * * * * चकम् | गेयनृत्तादिसर्वांश्च प्रासादं च प्रदक्षिणम् || ६७ || पंचब्रह्म षडंगेन व्योमव्यापि समुच्चरेत् | प्रासादेन प्रतिष्ठाप्य गन्धपुष्पादिनार्चयेत् || ६८ || स्नापयेच्छिवकुम्भाद्यैः स्वस्वमूलेन मन्त्रतः | गन्धपुष्पादिनाभ्यर्च्य वस्त्रैराभरणैरपि || ६९ || पंचवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः | ब्राह्मणान्भोजयेत्तत्र शैवान्संभोजयेत्ततः || ७० || स्थितिमूर्तिरिदं प्रोक्तं संहारस्थापनं शृणु || ७० || इति वीरतन्त्रे स्थितिमूर्तिप्रतिष्ठा त्रिषष्टितमः पटलः || ६३ || प्रणम्य शिरसा देवं पर्यपृच्छत्पितामहः | किं वा संहारमूर्तीनां स्थापनं परमेश्वर ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | नृत्तं चैव तु कामारि कालदाहं तथैव च || २ || गजघ्नं त्रिपुरघ्नं च जलन्धरवधं तथा | षष्ठे संहारमूर्तीनां स्थापनं त्विह चोच्यते || ३ || प्. २९५) रोहिणी च पुनवस्वो पुष्ये मृगशिरस्तथा | हस्ते च रेवती चैव स्वाती चैव त्रिरुत्तरा || ४ || स्थापयेत्स्थिरराशौ तु अष्टमे ग्रहवर्जिता | अंकुरानर्पयेत् पूर्वं नवाहे सप्तमेऽथवा || ५ || मण्टपं कारयेत्सम्यक् प्रासादस्याग्रके ततः | दक्षिणे चोत्तरे चापि कारयेल्लक्षणान्वितम् || ६ || कूटं वापि प्रपां वापि कारयेदथवा पुनः | मण्टपं चैव विप्रेन्द्र ! एकाशीतिपदं कुरु || ७ || मध्ये नवपदे चैव वेदिका रत्निरुच्छ्रयम् | तस्य बाह्ये तु परितो मानुषे कुण्डमुच्यते || ८ || चतुरश्रमग्निकुण्डं च अर्धचन्द्रं त्रिकोणकम् | वृत्तं चैव षडश्रं च पद्मं सप्ताश्रमेव च || ९ || पूर्वादिषु च विप्रेन्द्र ! अष्टदिक्षु क्रमान् न्यसेत् | ईशान इन्द्रयोर्मध्ये अष्टकोणं च कारयेत् || १० || एवं तु नृत्तरूपं स्यात् कामहारिं ततः शृणु | चतुरश्रं च षट्कोणं त्रिकोणं पंचकोणकम् || ११ || एतानि च महादिक्षु वृत्तं शेषं प्रकल्पयेत् | ईशान इन्द्रयोर्मध्ये सप्तकोणं तु कारयेत् || १२ || गजघ्नस्य चतुर्दिक्षु वेदाश्रं कुण्डमुच्यते | त्रिपुरघ्नं तथा दिक्षु चतुष्कोणं त्रिकोणकम् || १३ || प्. २९६) जलन्धरवधाच्चैव एवमेव क्रमेण तु | ईशान इन्द्रयोर्मध्ये सप्ताश्रं कारयेत्ततः || १४ || एवमेव प्रकारेण कुण्डं कृत्वा तु देशिकः | सत्यकस्य पदे चैव रत्नन्यासं तु कारयेत् || १५ || शालिना विकिरेत्तत्र तण्डुलं च तिलं न्यसेत् | तस्योपरिन्यसेद्देवं षण्णवत्यं विशेषतः || १६ || वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् | पुष्टिकं पद्मरागं च पुष्परागं तथैव च || १७ || इन्द्रनीलं च विप्रेन्द्र ! पूर्वादिषु च विन्यसेत् | माणिक्यं मध्यमे स्थाप्य शिवमन्त्रेण देशिकः || १८ || गन्धपुष्पादिनाभ्यर्च्य प्रतिमां तत्र विन्यसेत् | सुस्निग्धशालिना कुर्यात्पुण्याहं वाचयेत्ततः || १९ || आचार्यपूजनं कुर्यात् शिल्पिनं पूजयेत्ततः | रत्नन्यासमिदं प्रोक्तं नेत्रमोक्षणमुच्यते || २० || आदित्यस्य पदे चैव नेत्रमोक्षणमाचरेत् | नयनद्वययुक्ते तु दिने लग्ने शुभे तथा || २१ || शालिना स्थण्डिलं कुर्याद्दर्भैश्चैव परिस्तरेत् | नृत्तरूपं तदूर्ध्वे तु विन्यसेच्छिव मन्त्रकैः || २२ || प्रच्छन्नपटसंयुक्तं पूर्वाभिमुखमेव वा | स्थापयेत् कलशानष्टौ लोकपालाधिदेवतान् || २३ || प्. २९७) स कूर्चान्सापिधानांश्च वस्त्रेणैव समावृतान् | सुवर्णसूचिना विप्र ! शिल्पिना प्रहरेत्ततः || २४ || पक्ष्मरेखा प्रकर्तव्या कृष्णमण्डलमेव च | ज्योतिर्मण्डलमालिख्य नेत्रमन्त्र समायुतम् || २५ || अक्षिहोमं ततः कुर्याद् आज्येन चरुणा सह | नेत्रमन्त्रेण विप्रेन्द्र ! अष्टोत्तरशतं पृथक् || २६ || तत् काले दक्षिणां दद्यात् पुण्याहं वाचयेत् ततः | सुवर्णदूर्वया विप्र ! मध्वाज्यं चैव तर्पयेत् || २७ || हिरण्यनख संयुक्तं प्रासादेन समन्वितम् | ताम्रपात्रेऽथवा कांस्ये आज्यं चैव तु विन्यसेत् || २८ || तर्पयेन्मधुना विप्र ! मधुवातेति मन्त्रतः | घृतमिक्षेति मन्त्रेण घृतं चैव तु तर्पयेत् || २९ || सवत्सांगां समानीय नृत्तरूपस्य सन्निधौ | गोर्धेनुर्भव्यमन्त्रेण दर्शयेद्गां विशेषतः || ३० || ब्राह्मणान्दर्शयेत्तत्र ब्रह्मजज्ञान मन्त्रतः | षण्णवत्येन मन्त्रेण प्रोक्षयेत् तु विशेषतः || ३१ || कुशेन चाक्षतं युक्तं प्रोक्षयेच्छिव मन्त्रतः | प्रच्छन्नपटमावर्ज्य दर्शयेन्मानुषांस्ततः || ३२ || पवमानेन मन्त्रेण पंचगव्याभिषेचनम् | शुद्धिं कृत्वा विशेषेण तन्त्रीणां च संयुतम् || ३३ || प्. २९८) शुद्धैरुकेति मन्त्रेण पुण्याहं कारयेत्ततः | सर्वालंकार संयुक्तं कुर्याद्ग्राम प्रदक्षिणम् || ३४ || प्रतिमां कण्ठदघ्ने च जले चैवाधि वासयेत् | प्रपां कृत्वा विशेषेण कलशान् विन्यसेत् ततः || ३५ || स वस्त्रान्सापिधानांश्च स सूत्रानष्ट दिक्षु च | एकरात्रं त्रिरात्रं वा पंच वा सप्तरात्रकम् || ३६ || दैवज्ञं पूजयेत् पश्चाद् भक्तानां पूजयेत्ततः | मण्डपस्यैशदिग्भागे स्नानवेद्युपरि न्यसेत् || ३७ || निर्माल्यं च विसृज्याथ प्रोक्षयेच्छुद्धवारिणा | घृतं शिरोर्पणं कुर्यात् स्वर्णदूर्वांकुराक्षतैः || ३८ || षण्णवत्येन मन्त्रेण शिवमन्त्रेण संयुतम् | क्षालयेच्छुद्धतोयेन * * * नन्तु कल्पयेत् || ३९ || मूर्धादि पादपर्यन्तं पंचब्रह्म न्यसेत् क्रमात् | अष्टत्रिंशत् कलान्यासं षडंगेनैव विन्यसेत् || ४० || * * * दर्शयेत् तत्र गन्धपुष्पादिनार्चयेत् | सुमूहूर्ते सुलग्ने च नक्षत्रकरणान्विते || ४१ || शिवाख्यकलशांश्चैव शिवमन्त्रेण विन्यसेत् | षण्णवत्येन मन्त्रेण अभिषेकं तु कारयेत् || ४२ || उमाकुम्भं च विप्रेन्द्र ! पीठं चैव तु स्नापयेत् | पूर्वादीशान पर्यन्तं कलशे वा भिषेचयेत् || ४३ || प्. २९९) पंचब्रह्मेण मन्त्रेण स्नपनं तु यथा विधि | पूर्वोक्त लक्षणैर्युक्तं अर्चयेत् तु विशेषतः || ४४ || हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | प्रतिष्ठोपकरणं सर्वं आचार्याय प्रदापयेत् || ४५ || ब्राह्मणान् भोजयेत् तत्र पर्यष्टि परिचारकान् | शैवान् संभोजयेत् तत्र यथा शक्त्यादि दक्षिणा || ४६ || एवं यः कुरते मर्त्यः सर्वपापाद्विमुच्यते | यावद् रुद्रपुरं सर्वे दध्याक्षये नरः || ४७ || तद् दिनादि च विप्रेन्द्र ! उत्सवं कारयेत् ततः | आद्येषु त्रितयेष्वेषु न ध्वजारोहण क्रिया || ४८ || सप्ताहे वा न वाहे वा ध्वजारोहणमुच्यते | एवं कृते महाशान्ति राजराष्ट्रसुखावहम् || ४९ || एवं यः कुरुते मर्त्यः शिवलोकं स गच्छति || ४९ || इति वीरतन्त्रे संहारमूर्तिप्रतिष्ठविधिः चतुष्षष्टितमः पटलः || ६४ || प्रणिपत्य पुनर्ब्रह्मा उवाच परमेश्वरम् | कथं गौरी प्रतिष्ठा च ब्रूहि मे परमेश्वर ! || १ || ईश्वरः || एतत्सर्वं समासेन श्रूयतां चतुरानन ! | रोहिणी च पुनर्वस्वो पुष्ये मृगशिरस्तथा || २ || प्. ३००) हस्तं च रेवती चैव स्वाती चैव त्रिरुत्तरा | स्थिरराशौ तु कर्तव्यं अष्टमं ग्रहवर्जितम् || ३ || देव्या रूपमहं वक्ष्ये शृणुष्व कमलासन ! | द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् || ४ || द्विहस्तां च द्विपादां च नीलोत्पलयुतां कराम् | करण्डमकुटां चैव सर्वाभरणभूषितम् || ५ || दुकूलपट्टवसन छन्नवीर समन्विताम् | पादनूपुर संयुक्तां देव्या रूपमिहोच्यते || ६ || प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् | पूर्वोक्तलक्षणैर्युक्तं मण्टपं कारयेत्ततः || ७ || एकाशीति पदं कृत्वा वेदिका नव मध्यमे | तस्या वृतपदं त्रीणि मध्यमे कुण्डमुच्यते || ८ || पूर्वादीशानपर्यन्तं योनिरश्वत्थ पत्रवत् | लक्षणेन प्रकर्तव्यं पूर्वोक्तविधिना सह || ९ || रत्न न्यासं न कर्तव्यं उमा देव्या विशेषतः | हेमं तत्रैव निक्षिप्य अष्टदिक्षु क्रमेण तु || १० || सुस्निग्धं कारयेत्तत्र गौरीगायत्रिमन्त्रतः | द्वितीयवर्गे विप्रेन्द्र ! तृतीयाक्षर संयुतम् || ११ || सप्तमस्य तृतीयं तु प्रथमस्य चतुर्थकम् | बिन्दुनाद समायुक्तं मूलमन्त्रमिहोच्यते || १२ || प्. ३०१) द्वितीयस्य तृतीयं तु ब्रह्ममुद्धारते क्रमात् | हृस्वा ब्रह्म समाख्याता दीर्घाह्यंगानि चोच्यते || १३ || नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने | आदित्यस्य पदे चैव गोमयेनानुलेपयेत् || १४ || अष्टद्रोणेन शालिस्यात् स्थण्डिलं चतुरश्रकम् | तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || १५ || पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | नववस्त्रं न्यसेत्तत्र प्रतिमां विन्यसेत् ततः || १६ || वस्त्रेण वेष्टयेद् देवीं प्रच्छन्नपटसंयुताम् | अभितः कलशानष्टौ वामाद्यादीनि विन्यसेत् || १७ || हिरण्यसूचिकायुक्तं पक्ष्मरेखां लिखेत् ततः | कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् || १८ || शिल्पिनं पूजयेत् पश्चात् तदस्त्राणां विसर्जयेत् | वस्त्रेणावेष्ट्य तद् देव्याः प्रच्छन्न पटसंयुतम् || १९ || अभितः कलशानष्टौ वामाद्यादीनि विन्यसेत् || १९ || अक्षिहोमं ततः कुर्याद् आज्येनैव विशेषतः | अग्निमुखं च संकल्प्य पंचाशत्संख्यया हुनेत् || २० || नेत्रमन्त्रेण हुत्वा तु चरुं तत्रैव हूयते | ताम्रपात्रेऽथवा कांस्ये घृतं मधु च पूरयेत् || २१ || नेत्रमन्त्रशतं जप्त्वा हिरण्यनखसंयुतम् | मधुवाता ऋतायेति मधुना तर्पयेत्ततः || २२ || प्. ३०२) घृतमिक्षे घृतं तर्प्य नेत्रमन्त्रं च विन्यसेत् | गौर्धेनु भव्यमन्त्रेण सवत्सांगां प्रदर्शयेत् || २३ || ब्राह्मणान्दर्शयेत् तत्र सप्तकन्याश्च दर्शयेत् | नेत्रमन्त्रसमायुक्तं धान्यराशीं च दर्शयेत् || २४ || प्रच्छन्न पटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् | पंचगव्येन विप्रेन्द्र ! अभिषेकं समाचरेत् || २५ || अलंकृत्य च तां देवीं कुर्याद्ग्राम प्रदक्षिणम् | नदीतटाककतीरे वा गोमयेनानुलेपिते || २६ || पीठं तत्रैव निक्षिप्य गौरीं तत्रो परिन्यसेत् स्नापयेत् पंचगव्येन जलाधिवासनं कुरु || २७ || नववस्त्रेण संवेष्ट्य कूर्चेनैव समन्वितम् | जलमध्ये न्यसेद् देवीं गौरीबीजेन देशिकः || २८ || पूर्वादीशानपर्यन्तं वर्धनीं विन्यसेत्ततः | सवस्त्रं सापिधानं च वामाद्याश्चैव विन्यसेत् || २९ || तस्योर्ध्वे च प्रपां कृत्वा दीपयुक्तो विधीयते | एकरात्रं त्रिरात्रं वा पंचरात्रमथापि वा || ३० || जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति | स्नापयेत् पंचगव्येन नववस्त्रेण वेष्टयेत् || ३१ || वेदिमध्ये न्यसेत् तत्र अष्टद्रोणेन शालिना | तदर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || ३२ || प्. ३०३) परिस्तरेच्च दर्भैश्च शयनं चाण्डजादिभिः | तस्यो परिन्यसेद्देवीं गौरीमूलेन देशिकः || ३३ || प्राक्शिरः पश्चिमे पादं विन्यसेच्च विशेषतः | प्रच्छन्न पटसंयुक्तं पुण्याहं वाचयेत् ततः || ३४ || वर्धनीं नवमादाय सूत्रेण परिवेष्टयेत् | शुद्धोदकेन संपूर्णाः प्रत्येकं वस्त्रवेष्टिताः || ३५ || दिव्यानामीश दिग्भागे प्रधानां वर्धनीं न्यसेत् | गौरीबीजेन मन्त्रेण स कूर्चं सापिधानकम् || ३६ || पूर्वादीशान पर्यन्तं वर्धनीरष्ट विन्यसेत् | प्रत्येकं वस्त्रसंयुक्तं प्रधाने हेम विन्यसेत् || ३७ || मध्ये गौरीं च संपूज्य नवशक्तीः सुपूजयेत् | पूर्वादीशान पर्यन्तं मनोन्मनीं त्वीशगोचरे || ३८ || वर्णानामस्त्ररूपं तु विन्यसेद्वर्धनीं ततः | गन्धपुष्पादिनाभ्यर्च्य गौरीमूलेन मन्त्रतः || ३९ || नैवेद्यं पायसं दद्यात् ताम्बूलं च निवेद्य च | ततो होमं प्रकुर्वीत नव वा पंच एव वा || ४० || समिदाज्यचरुं लाजान् मूद्गमाषयवांस्तथा | गौरीमूलेन मन्त्रेण समिधा हूयते क्रमात् || ४१ || आज्यं गायत्री मन्त्रेण हृदयेन चरुं तथा | शिरोमन्त्रेण लाजश्च मुद्गं वामेन हूयते || ४२ || प्. ३०४) माषं सद्येन होतव्यं यवमीशानमन्त्रतः | एवमेव क्रमेणैव प्रत्येकं तु शताहुतिः || ४३ || घृतमिक्षेति मन्त्रेण घृतेनैव शताहुतिः | देवस्यत्वेति मन्त्रेण अन्नाहुतिमथाचरेत् || ४४ || द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेत्प्रतिमां ततः | हव्यवाहेति मन्त्रेण सर्वद्रव्य समन्वितम् || ४५ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे | नृत्तगेय समायुक्तं रात्रौ जागरमुच्यते || ४६ || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः | गौरीमूलं जपेत्तत्र आग्नेयादि चतुर्दिशि || ४७ || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | मन्त्रन्यासोक्तमार्गेण सृष्टि न्यासं तु कारयेत् || ४८ || ततो वासनहोमं तु कारयेद्विधिना ततः | समिदाज्यचरूणां तु होमयेद् देशिकोत्तमः || ४९ || गौरी गायत्रीमूलेन हृदयेन पृथक् छतम् | हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् || ५० || आचार्यदक्षिणां दद्यात् पंचांगभूषणादिकम् | वस्त्रैराभरणैर्युक्तं गोभूमीकांचनादिभिः || ५१ || पदार्थीन्पूजयेत्तत्र उपदेष्टा च पूजयेत् | ततो मुहूर्तमुद्वीक्ष्य देवीमुत्थापयेत् क्रमात् || ५२ || प्. ३०५) स्नानवेद्युपरिन्यस्य गन्धपुष्पादिनार्चयेत् | सृष्टिन्यास क्रमेणैव देव्या अंगेषु विन्यसेत् || ५३ || प्रधान वर्धनीं चैव विमान प्रदक्षिणं कुरु | स्नापयेत् तु विशेषेण गौरीमूलमनुस्मरन् || ५४ || पंचब्रह्म षडंगैश्च स्नापयेदष्टवर्धनीः | स्नपनं कारयेत्पश्चाद् यथा विभवविस्तरम् || ५५ || पंचवर्णहविर्दद्यात् ताम्बूलं दापयेत्ततः | ब्राह्मणान् भोजयेत्तत्र सप्तकन्याश्च भोजयेत् || ५६ || कल्याणं कारयेत् पश्चान्मण्डपे स विशेषतः | गोमयालेपनं कृत्वा शालिना विकिरेत्ततः || ५७ || शाल्योपरि सुसंस्थाप्य मानुषे तु पदे तथा | स्थण्डिले स्थापयेद्देवीं दिशि दक्षिणतो न्यसेत् || ५८ || तस्याग्रे स्थण्डिलं कृत्वा अग्निमुखं च कारयेत् | तत्र विष्णुं समाहूय दद्यादुदक पूर्वकम् || ५९ || गौरीबीजेन संयुक्तं ब्रह्मांगेन समायुतम् | हृदयेनातिष्ठ मन्त्रेण अश्मानं स्पर्शयेत् ततः || ६० || आचार्य हस्तं संपूर्य लाजान् हृदय मन्त्रतः | ईशानेन तु मन्त्रेण लाजहोमं तु कारयेत् || ६१ || प्रदक्षिणं ततः कृत्वा लाजहोमं पुनः पुनः | त्रिःकृत्वा तु विशेषेण हुत्वा चित्तादिभिस्तथा || ६२ || प्. ३०६) हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरम् | भिन्नासनमिदं प्रोक्तं सहासनमतः शृणु || ६३ || इति वीरतन्त्रे गौरी स्थापनविधिः पंचषष्टितमः पटलः || ६५ || पादुकास्थापनं वक्ष्ये शृणुष्व चतुरानन ! | सौवर्णं रजतं ताम्रं लोहजं वापि कारयेत् || १ || दन्तैर्वा दारुजैर्वापि कारयेत्तु विशेषतः | लक्षणं संप्रवक्ष्यामि यथा वदनुपूर्वशः || २ || उत्तमं द्वादशांगुल्यं मध्यमं तु नवांगुलम् | अधमं सप्तांगुलं प्रोक्तं पादुकस्य तु दैर्घ्यकम् || ३ || विस्तारं तु तदर्धं स्यात् तस्य मध्ये तदर्धकम् | अंगुल्यादि त्रयांगुल्यं उत्सेधं * * * * * || ४ || पादाधारं तु कर्तव्यं तस्योर्ध्वे वृत्तमुच्यते | एवं लक्षण संयुक्तां पादुकां कारयेत् ततः || ५ || पर्यन्तशोभितं कृत्वा माणिक्यादि सरत्नकैः | रत्नानामप्य लाभे तु सुवर्णादीनि कारयेत् || ६ || प्रतिष्ठा विधिं प्रवक्ष्यामि पूर्वोक्तमण्टपे शुभम् | मण्टपस्य तु संस्कारं विभवेन समन्वितम् || ७ || वास्तु होमं दिशां कुर्याल्लक्षणेन समन्वितम् | दर्भमालाभिरावेष्ट्य चतुस्तोरण संयुतम् || ८ || प्. ३०७) अष्टदिक्षु ध्वजान्न्यस्य वितानैरुपशोभितम् | मुक्तादामैरलंकृत्य पुष्पमालोपशोभितम् || ९ || वेदिका रत्निचोत्सेधं दर्पणोदरवत्कृतम् | अष्टद्रोणेन शालींश्च तन्मध्ये विन्यसेत्ततः || १० || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् || ११ || शयनं कल्पयेत् तत्र अण्डजाद्यैस्ततो बुधः | जलादुत्तीर्य देवेशं शुद्धिं कृत्वा विशेषतः || १२ || प्रासादं प्रविशेत् तत्र पुष्पदन्तपदे स्थितः | आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टयेत् || १३ || सोष्णीषः सोत्तरीयश्च सर्वाभरणभूषितः | आचार्यस्य च बीजेन सर्वांगेषु च विन्यसेत् || १४ || उपदेष्ट्रा समायुक्तं आचार्यद्वयमुच्यते | उपदेष्टा शरीरं तद् आचार्यो जीव उच्यते || १५ || सहिनस्तु भवेद्विप्र सर्वसंपत्कराय च | मन्त्रन्यासं प्रकर्तव्यं लक्षणेन समन्वितम् || १६ || हस्ताभ्यां संस्पृशेत्तत्र कादिपादान्तमेव च | अंगुष्ठादि कनिष्ठान्तं पंचब्रह्म न्यसेत् क्रमात् || १७ || मध्यमादि तर्जन्यन्तं षडंगं विन्यसेत्क्रमात् | अस्त्रं करतले चैव विन्यसेत् तु विशेषतः || १८ || प्. ३०८) अष्टत्रिंशत्कलाश्चैव विन्यसेद्देशिकस्य तु | प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत् || १९ || प्रतिमां पंचगव्येन स्नापयेच्छिव मन्त्रतः | स्वर्णसूत्रेण संयुक्तं कौतुकं बन्धयेत् ततः || २० || पलद्वयं च कर्पूरं काश्मीरं चन्दनेन तु | समालोढ्य च सर्वं तु लेपयेत् तु समन्ततः || २१ || सुमुहूर्ते सुलग्ने च शयने शाययेच्छिवम् | प्रतिमं नववस्त्रेण पिधाय सकलं ततः || २२ || प्रासादेन तु मन्त्रेण गन्धपुष्पादिनाऽर्चयेत् | नवकुम्भं समादाय सूत्रेणावेष्टयेत् ततः || २३ || शुद्धोदकेन संपूर्य स कूर्चं सापिधानकम् | स वस्त्रं स हिरण्यं च पंचरत्न समन्वितम् || २४ || द्रव्येणैव समायुक्तं विणिकादीनि विन्यसेत् | प्रतिमस्यैश दिग्भागे स्थापयेच्छिव कुम्भकम् || २५ || शिवकुम्भे शिवं पूज्य पंचब्रह्म षडंगकैः | वर्धनीं तस्य वामे तु गौरी बीजेन स्थापयेत् || २६ || पूर्वादीशान पर्यन्तं अष्टविद्येश्वरैर्युतम् | * * * * * * * * ताम्बूलं दापयेत् ततः || २७ || ततो होमं दिवा कुर्याद् भ्रंशमध्ये पदे तथा | ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् || २८ || प्. ३०९) पलाशाश्वत्थ बिल्वं चोदुम्बर प्लक्षमेव च | खदिरं च शमी चैव अपामार्गं तथैव च || २९ || पूर्वादीनि क्रमाद् एता मध्ये पालाशमेव च | सर्वेषामेव होमानां मध्ये पालाशमुच्यते || ३० || समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् | मुद्गमाषं च विप्रेन्द्र ! नवद्रव्यमिहोच्यते || ३१ || समिधो हृदये नैव आज्यं च शिर उच्यते | चरुहोमं शिखा चैव लाजान्वै कवचेन तु || ३२ || नेत्रेण सर्षपं चैव अस्त्रेणैव यवांस्ततः | ईशानेन तिलं हुत्वा मुद्गं सद्येन हूयते || ३३ || माषं वामेन होतव्यम् एवमेव क्रमेण तु | सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा || ३४ || शतमष्टोत्तरं वापि तिरीशे विजयस्तथा | उग्रोऽतिधाश्रीमो एते होमस्य दैवताः || ३५ || वामी ज्येष्ठी च काली च कलविकरणी तथा | बलविकरणी बलप्रमथिनी सर्वभूत मनोन्मनी || ३६ || क्रमात्कुण्डेषु विप्रेन्द्र ! शक्तीनां नाम उच्यते | द्रव्यान्ते प्रतिमां स्पृष्ट्वा पंचब्रह्म षडंगकैः || ३७ || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः | व्योमं प्रासादमन्त्रं च ब्रह्ममंगं तथैव च || ८८ || प्. ३१०) दीक्षितैर्ब्राह्मणैश्चैव चतुर्दिक्षु जपेत्ततः | त्राणि पर्वाणि ते यं नृत्त समाकुलैः || ३९ || सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || ४० || चित्तादीनि जयादींश्च राष्ट्रभृच्चादि हूयते | हूयते क्रमशो विप्र ! व्याहृतिं जुहुयात्ततः || ४१ || शिवदीक्षा प्रदातव्या लक्षणेन समन्विता | पर्यष्टि परिचारांश्च शिवदीक्षावहो विदुः || ४२ || एवं कृते तु विप्रेन्द्र ! राजराष्ट्र सुखावहम् | अथा वसानहोमं तु प्रधानाग्नौ तु हूयते || ४३ || यदस्य कर्मणेत्यादि स्विष्टकृद्धूयते क्रमात् | प्रभाते दक्षिणां दद्याद् आचार्यादि च सर्वशः || ४४ || आचार्यं पूजयेत् पूर्वं वस्त्रांगुलीयकादिभिः | पंचांगभूषणं दद्याद् आचार्यस्य विशेषतः || ४५ || अधमं दशनिष्कं तु मध्यमं द्विगुणं भवेत् | उत्तमं त्रिगुणं प्रोक्तं आचार्यस्य तु दक्षिणा || ४६ || दशभागैक भागं तु मूर्तिपानां तु दक्षिणा | स्तोत्रादध्वयीनादीनां तदर्धं दक्षिणा शुभे || ४७ || गोमया लेपनं कृत्वा पद्ममध्ये प्रकल्पयेत् | पद्मस्य पूर्वदिग्भागे वेदाश्रं कुण्डमुच्यते || ४८ || प्. ३११) पुण्याहं वाचयेत्तत्र शुद्धिं कृत्वा तु पादुकौ | पवमानेन संप्रोक्ष्य शुद्धैरुत्थै ततो द्रुवत् || ४९ || शालिना विकिरेत् तत्र तदर्धं तण्डुलांस्तिलान् | पादुकौ विन्यसेन्मध्ये नववस्त्रस्य चोपरि || ५० || पिधाय नववस्त्रेण गन्धपुष्पादि नार्चयेत् | भूतवर्गान्त वर्गेषु अग्निं संयोजयेत् ततः || ५१ || तद्व्यक्षौ समायुक्त विषध्वर समायुतम् | शिवविष्णुसमारूढं पादुकाबीजमुच्यते || ५२ || इदं मन्त्रमनुस्मृत्य स्थापयेत् पूर्वतो मुखम् | श्रीभूमी दक्षिणा दिशि तथा देवौ प्रकीर्तितौ || ५३ || वर्धनीं नवमादाय सूत्रेण परिवेष्टिताम् | पूरयेच्छुद्धतो येन स कूर्चान्सापिधानकान् || ५४ || स वस्त्रान् हेमसंयुक्तान् पूर्वादीशान्तके न्यसेत् | पादुकादीश दिग्भागे वर्धनीं विन्यसेत्ततः || ५५ || पूर्वादीशान पर्यन्तं विन्यसेद्वादिशक्तितः | मनोन्मनीं प्रधानस्य विन्यसेत्तु विशेषतः || ५६ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्च (च) रु विन्यसेत् | ततो होमं प्रकर्तव्यं पूर्वोक्तविधिना सह || ५७ || होमान्ते पंचगव्येन प्रोक्षयेत्सद्यमन्त्रतः | सुमुहूर्ते सुलग्ने च वर्धनीं विन्यसेत्ततः || ५८ || प्. ३१२) पूर्वादीशान पर्यन्तं स्थापयेन् मूलमन्त्रतः | गन्धपुष्पादिनाऽऽपूज्य विन्यसेच्छिवमन्त्रतः || ५९ || नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः | आचार्यं पूजयेत्पूर्वं पर्यष्टि परिचारकान् || ६० || भोजयेच्छिव भक्तांश्च सवर्णांश्च दक्षिणाम् | नित्योत्सवं तु काले तु प्रदक्षिणमथाचरेत् || ६१ || अग्रतः पृष्ठतो वापि व्रजेत् संपत्कराय च | ब्रह्मचारी वहित्वा तु पादुकावर्चयेत् ततः || ६२ || पादुकस्योपरिष्टात् तु कल्पयेदस्त्र राजतः | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ६३ || पादुका स्थापनं प्रोक्तं चित्रस्थापनकं शृणु || ६३ || इति वीरतन्त्रे पादुकास्थापनविधिः षषष्टितमः पटलः || ६६ || सुरेशानं नमस्कृत्य पर्यपृच्छत्पितामहः | चित्रप्रतिष्ठा किं देवब्रूहि मे परमेश्वर ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | चित्रं च त्रिविधं ज्ञेयं तेषां भेदं शृणुष्वथ || २ || शिला प्रतिमेऽपि विप्रेन्द्र चित्रकर्म तु कारयेत् | मृण्मयं शूलसंयुक्तं भित्तिचित्रे पटेऽपि वा || ३ || प्. ३३) एते त्रिविधमुच्यन्ते स्थापनं तु शृणुष्वथ | चित्रस्य संनिधौ चैव प्रतिष्ठामण्टपं कुरु || ४ || शैलजे मृण्मये चैव रत्नन्यासं तु कारयेत् | रत्नन्यासं च कर्तव्यं उमादेव्या विशेषतः || ५ || प्रतिष्ठा मण्डपं कृत्वा लक्षणेन समन्वितम् | वेदिका ब्रह्मभागे तु मानुषे कुण्डमुच्यते || ६ || वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् | देव्याश्चेद्दिक्षु विप्रेन्द्र ! योनिरश्वत्थ पत्रवत् || ७ || एकासनगता देव्याः चतुष्कोणेषु योनिकम् | नयनमोक्षणं कुर्यान् नेत्रयुग्मयुते दिने || ८ || पूर्वोक्तविधिना चैव नयनमोक्षणमारभेत् | जलाधिवासनं नोक्तं शयने शाययेत् ततः || ९ || वास्तु होमं दिवा कुर्याल्लक्षणेन समन्वितम् | भारशालि समायुक्तं वेदिमध्ये परिस्तरेत् || १० || शाल्यर्ध तण्डुलं न्यस्य तदर्धं तु तिलं न्यसेत् | परिस्तरेत् तु दर्भैश्च अष्टपत्रं सकर्णकम् || ११ || तत् तन्मन्त्रेण संस्मृत्य शयनं पंच कल्पयेत् | दर्पणं शाययेत्तत्र प्रच्छन्न पटसंयुतम् || १२ || पूर्वादीशान पर्यन्तं विद्येश्वर समन्वितम् | देव्याश्चैव तु वामादि विन्यसेत् तु विशेषतः || १३ || प्. ३१४) * * * * * * * * * * श्चैव तु विन्यसेत् | * * * * * * * देवं देव्या वर्धनीं न्यसेत् || १४ || स वस्त्रं सापिधानं च स हिरण्यं स कूर्चकम् | गन्धपुष्पादिनाऽभ्यर्च्य पायसान्नं निवेदयेत् || १५ || ततो होमं प्रकुर्वीत पालाशसमिधा सह | समिदाज्य चरुं लाजान् सर्षपा * गमेव च || १६ || माषं चैव तु विप्रेन्द्र ! सप्तद्रव्याणि हूयते | सद्येन समिधा हुत्वा हृदयेनाज्यमेव च || १७ || चरुं वामेन होतव्यं शिरो मन्त्रेण लाजकम् | सर्षर्पं नेत्रमन्त्रेण मुद्गमीशानमन्त्रतः || १८ || माषं नेत्रेण हुत्वा तु प्रत्येकं तु शताष्टकम् | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || १९ || स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरम् | ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः || २० || मन्त्र न्यासोक्तमार्गेण स्वदेहे विन्यसेत् ततः | ततो वासान होमं तु आज्येन चरुणायुतम् || २१ || अष्टोत्तरशतं हुत्वा द्रव्यं प्रति विशेषतः | चतुर्दिक्षु चतुर्वेदैः कुर्याद् अध्ययनं ततः || २२ || प्रायश्चित्तं तु होतव्यं चित्तादिभिर्जयादिभिः | हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरम् || २३ || प्. ३१५) आचार्य दक्षिणां दद्यात्पंचांगभूषणैर्युतम् | होमीनां तु पदार्थीनां पूजयेत् तु विशेषतः || २४ || प्रतिमस्याग्रतश्चैव जलभाण्डं खनेत् ततः | तस्योर्ध्वे दर्पणं स्थाप्य मूलमन्त्रेण संयुतम् || २५ || प्रोक्षयेच्चित्र कर्मे तु दर्पणे स्नापयेत् ततः | प्रधान कलशं चैव स्नापयेत् तु विशेषतः || २६ || पूर्वादीशान पर्यन्तं स्नापयेत् स्वस्वमन्त्रतः | हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः || २७ || ब्राह्मणान्भोजयेत् तत्र शैवान् (सं)भोजयेत् ततः | सर्वासां देवतानां च स्थापन क्रममेव हि || २८ || तत्तन्मन्त्रेण कर्तव्यं क्रियाभेदं न विद्यते | प्रतिष्ठोपकरणं सर्वं आचार्याय प्रदापयेत् || २९ || चित्रस्थापनमेवोक्तं शूलस्थापनकं शृणु | इति वीरतन्त्रे चित्रप्रतिष्ठाविधिः सप्तषष्ठितमः पटलः || ६७ || देवदेवं प्रणम्यादौ पृच्छतिस्म पितामहः | विमानस्थापनं किं वा ब्रूहि मे परमेश्वर ! || १ || ईश्वरः | तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | रोहिणी च पुनवस्वा पुष्यो मृगशिरस्तथा || २ || प्. ३१६) हस्तं च रेवती चैव स्वाती चैव त्रिरुत्तरा | द्वितीया पंचमी चैव द्वादशी वा त्रयोदशी || ३ || स्थिरराशौ तु कर्तव्यं अष्टमे ग्रहवर्जिताः | एवमादिषु कालेषु विमानस्थापनं कुरु || ४ || पंचाहे सप्तरात्रे वा अंकुरार्पणमुच्यते | प्रासादस्यैव पुरतः प्रपां कृत्वा विशेषतः || ५ || पूर्वोक्तेन प्रकारेण मण्टपं कारयेत् ततः | मध्यमे वेदिकां कुर्याद् हस्तमात्रोच्छ्रयं भवेत् || ६ || स्वबाह्ये तु परितो मानुष्ये कुण्डमुच्यते | नागरं द्राविडं चैव वेसरं तु शृणुष्वथ || ७ || चतुरश्रं तु योन्याश्च अर्धचन्द्रं त्रिकोणकम् | वृत्तं च पंचकोणं च पद्मं चैवाष्टकोणकम् || ८ || वेसरं प्रोच्यते विप्र अथा पंचमकुण्डकम् | चतुर्दिक्षु च ईशान्यां यथोक्तं कुण्डमुच्यते || ९ || चतुस्तोरणसंयुक्तं दर्भमालाव भूषितम् | वितानध्वजसंयुक्तं पुष्पमाल्यैरलंकृतम् || १० || प्रासादस्य चतुर्दिक्षु चतुरश्रं तु कुण्डकम् | कुबेरस्य विधिः प्रोक्तो द्राविडस्य तु वृत्तकम् || ११ || बेरस्यार्धचन्द्राभं कुण्डानि कारयेत् ततः | तस्य पूर्वे जलावर्तं वस्त्रमाल्यैरलंकृतम् || १२ || प्. ३१७) शुद्धोदकेन संपूर्य शाल्योपरि च संस्थिताः | चतुर्दिक्षु न्यसेत्तत्र हृदयेन तु मन्त्रतः || १३ || वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् | आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टितः || १४ || सोष्णीषस्सोत्तरीयश्च गन्धद्रव्येण लेपयेत् | प्रासादं दर्भमालाभिर्वेष्टयेत् तु विशेषतः || १५ || पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् | वास्तुदेवबलिं दद्यात् पूर्वोक्त विधिना सह || १६ || प्रासादं नववस्त्रेण वेष्टयेद्धृदयेन तु | लम्बयेन्नववस्त्रेण प्रासादेन तु मन्त्रतः || १७ || दर्भमाल्येन पुष्पेण वेष्टयेत्स्थूपिमेव च | प्रासादहोमं कर्तव्यं गर्भगेहे विशेषतः || १८ || मम आप्येति मन्त्रेण आज्येनैव शताहुतिः | समिधामीशमन्त्रेण आज्यं वामेन हूयते || १९ || चरुं हृदयमन्त्रेण हुत्वा चैव शताहुतिः | शान्तिहोमक्रमेणैव चतुर्दिक्षु च होमयेत् || २० || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः | प्रासादमेव होमेन शिवासनमथ शृणु || २१ || पूर्वोक्तमण्डपे वेद्यां गोमयेनानुलेपयेत् | शालिना विकिरेत्तत्र भारद्वयेन संयुतम् || २२ || प्. ३१८) शाल्यर्धतण्डुलान्न्यस्य तण्डुलार्धतिलान्न्यसेत् | पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् || २३ || नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् | शुद्धोदकेन संपूर्य वस्त्रकूर्चसमन्वितान् || २४ || प्रधानकलशं विप्र ! मध्यमे स्थापयेत्क्रमात् | नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् || २५ || सप्तमेवान्तवर्गैश्च * * * * द्वितीयकम् | चतुर्दशस्वरसंयुक्तं बिन्दुनादसमन्वितम् || २६ || विमानस्य तु विप्रेन्द्र ! मूलमन्त्र मिहोच्यते | प्रधानकलशे नैव * * * * * विन्यसेत् || २७ || विद्येश्वरसमायुक्तं मध्यमे शिवदैवतम् | पूर्वे तु विष्णुकुम्भास्यु दक्षिणामूर्तिदक्षिणे || २८ || लिंगोत्पत्तिं तु वारुण्यां उत्तरे तु पितामहः | पूर्वादिषु चतुर्दिक्षु शिवविद्येश्वरस्य तु || २९ || मध्यमे स्थापयेद्विद्वान् विघ्नेशं चाग्निविन्यसेत् | उत्तरे चैव दुर्गायां विन्यसेत् तु विशेषतः || ३० || गन्धपुष्पादिनाभ्यर्च्य स्वस्वमूलेन देशिकः | हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः || ३१ || ततो होमं प्रकुर्वीत पलाशसमिधासह | समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान् || ३२ || प्. ३१९) वेणुं माषं च मुद्गं च शिम्बं चैकादशं युतम् | ईशान्यादीनि सद्यान्तं हृदयेन त्रयं युतम् || ३३ || अष्टोत्तरशतं वापि पंचाशद्वापि हूयते | विमानबीजं सर्वेषु हुत्वा चैव शताहुतिः || ३४ || प्रभाते विमले पूज्य आचार्यः स्नानमाचरेत् | मन्त्रन्यासोक्तमार्गेण न्यासं कृत्वा विशेषतः || ३५ || सृष्टिस्थितिं च संहार न्यासादीनि च विन्यसेत् | ततो वासन होमं च कर्तव्यं देशिकोत्तमः || ३६ || समिदाज्यचरूणां तु प्रासादेन शताहुतिः | विमानबीजसंयुक्तं पंचविंशतिरुच्यते || ३७ || सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || ३८ || चित्तादींश्च जयादींश्च राष्ट्रभृच्चैव हूयते | हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् || ३९ || आचार्य दक्षिणां दद्यात् पंचांगभूषणैर्युतम् | शिरसोपरि विप्रेन्द्र ! कुम्भमुद्वाहयेत् ततः || ४० || विमान प्रदक्षिणं कुर्यात् प्रासादस्योपरि स्थितिः | विमानमूलसंयुक्तं व्योमव्यापि समुच्चरन् || ४१ || पंचब्रह्म षडंगेन स्नापयेत् कुम्भमेव च | पूर्वादीशानपर्यन्तं स्नापयेत् स्वस्वमन्त्रतः || ४२ || प्. ३२०) दिशामूर्तिं च विप्रेन्द्र ! स्वस्वमन्त्रेण स्नापयेत् | गन्धपुष्पादिनाभ्यर्च्य हविर्दद्याद्विशेषतः || ४३ || ब्राह्मणान् भोजयेत् तत्र शिवभक्तांश्च भोजयेत् | सप्तकन्याश्च विप्रेन्द्र ! वस्त्रादीनि च दापयेत् || ४४ || विमानस्थापनं प्रोक्तं मानुषस्थापनं शृणु || ४४ || इति वीरतन्त्रे विमानस्थापनविधिरष्टषष्टितमः पटलः || ६८ || पितामहः || लोकनाथ नमस्कृत्वा पर्यपृच्छत्पितामहः | मानुषस्थापनं को वा शिवज्ञानाभिपूरितान् || १ || ऋषीणां च नृपाणां च स्थापनं ब्रूहि मे प्रभो ! | ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! || २ || चातुर्वर्ण्यानुलोमांश्च प्रतिलोमांश्च सर्वशः | शिवप्रसाद सिद्धांश्च प्रतिमादीनि कारयेत् || ३ || सौवर्णै राजतैर्वापि ताम्रं पित्तलजं तु वा | शैलजं दारुजं वापि मृण्मयं चित्रमेव च || ४ || द्वारं तु नवधा भज्य भागैकं प्रतिमोच्छ्रयम् | चत्वारि पंचषट्तालं मात्रांगुलेन कारयेत् || ५ || सप्ताष्टनव तालं वा कर्तव्यं लक्षणैर्युतम् | शिवप्रसादकाले तु यद्रूपं संभवन्ति वै || ६ || प्. ३२१) तद्रूपं कारयेद्विप्र ! स्थितं चासीनमेव च | ऋषीणामृषिरूपं तु नृपाणां नृपवद्भवेत् || ७ || एवं कृत्वा विधानेन स्थापयेद् विधिपूर्वकम् | इला च पिंगला चैव सुषुम्ना च तथैव च || ८ || गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी | अलंपुरुषा रुह्री च शंखिनी दशमः स्मृतः || ९ || दशप्राणावहा एता नाडयः परिकीर्तिताः | विमला घोषणी चैव पृथिवी आविनी तथा || १० || तेजोवती वायुवेगी गगनी मर्दनी तथा | शोधनी व्याधिनी चैव रसावती च मुद्वती || ११ || स्रंसनी * * * शब्द स्पर्शा च नकुला तथा | सर्वगा चैव नाड्यस्ता विंशतिस्सहिताष्टभिः || १२ || प्रधान नाडयश्चैव तद्रूपे विन्यसेत् ततः | तस्य मन्त्रं प्रवक्ष्यामि शृणुष्व कमलासन ! || १३ || स्वनामाद्येन संयुक्तं द्वितीयं वापि गृह्यताम् | सप्तमस्य द्वितीयं तु प्रथमस्य चतुर्दश || १४ || बिन्दुनाद समायुक्तं मानुषं बीजमुच्यते | हृस्वा ब्रह्म समाख्याता दीर्घाह्यंगानि विन्यसेत् || १५ || राक्षसानां पिशाचानां असुराणां च सिद्धकान् | देवतानां वाहनानां स्थापयेदेवमेव तु || १६ || प्. ३२२) रत्नन्यासं प्रकर्तव्यं पद्मस्योपरि संस्थितः | नवरत्नं पंचरत्नं वा विन्यसेद्देशितोत्तमः || १७ || पूर्ववन् मण्टपं कृत्वा लक्षणेन समन्वितम् | मध्यमे कल्पयेद्देवीं परितः कुण्डमुच्यते || १८ || चतुरश्रं धनुर्वृत्तं त्रिकोणं चाष्टकोणकम् | पूर्वादिषु चतुर्दिक्षु ईशान्याद्यष्टकोणकम् || १९ || वेदिमध्ये न्यसेच्छालीं प्रतिमां विन्यसेत्ततः | नयनं मोक्षणं कुर्यात् पूर्वोक्तेन विधानतः || २० || ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् | एकरात्रं त्रिरात्रं वा अधिवास्य ततो बुधः || २१ || जलादुत्तीर्य पूर्वेद्युः स्नापयेत् पंचगव्यकैः | वास्तु होमं ततः कुर्याल्लक्षणेन समन्वितम् || २२ || शालिना विकिरेद् बेदीं तण्डुलार्ध तिलं न्यसेत् | शयनं पंचभिः कल्प्य कार्पासैर्वस्त्रवेष्टितम् || २३ || शयने शाययेद् बिम्बं प्रच्छन्नपटसंयुतम् | काये तु विन्यसेद्विप्र ! पंचविंशतिकं तथा || २४ || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पंचमः || २५ || वाक्पाणिपादपायू च उपस्थं चैव पंचमम् | श्रोत्रत्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पंचमम् || २६ || प्. ३२३) मनोहंकार बुद्धिश्च प्रकृतिः पुरुषस्तथा | पंचविंशति तत्वानि शरीरे विन्यसेत् ततः || २७ || मन्त्रन्यासोक्त मार्गेण सृष्टिन्यासं तु विन्यसेत् | गन्धपुष्पादिनाभ्यर्च्य पश्चात्कुम्भानि विन्यसेत् || २८ || सवस्त्रान् सापिधानांश्च स हिरण्यान् सकूर्चकान् | प्रतिमा दक्षिणे भागे कुंभं मूलेन स्थापयेत् || २९ || प्रतिमस्योत्तरे भागे कुंभमेकं प्रतिष्ठितम् | पूर्वादीशान पर्यन्तं स्थापयेत् कुम्भमष्टकम् || ३० || प्राणोऽपानश्च व्यानश्चो दानस्समान एव च | नागः कूर्मश्च कृकरो कुम्भे पूर्वादि विन्यसेत् || ३१ || प्रतिमा दक्षिणे कुम्भे देवदत्तं तु विन्यसेत् | धनंजयोत्तरे न्यस्य गन्धपुष्पादिनार्चयेत् || ३२ || नैवेद्यं पायसं दद्यात् ताम्बूलं दापयेत्ततः | ततो होमं प्रकुर्वीत पलाशसमिधा सह || ३३ || शिवाग्निं कल्पयेत् तत्र युक्तो वहति हूयते | समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् || ३४ || शालिनी वारगो धूमचम्पकेन समन्वितम् | पंचब्रह्म षडंगेन प्रत्येकं तु शताहुतिः || ३५ || सर्व(द्रव्य)समायुक्तं मूलमन्त्रेण होमयेत् | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ३६ || प्. ३२४) चित्तादीनि जयादीनि हुत्वा हुत्वा स्पृशेत् ततः | ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः || ३७ || मन्त्रन्यासोक्त मार्गेण सृष्टिन्यासं तु कारयेत् | ततो वासनहोमं तु समिदाज्य चरून्सह || ३८ || मूलमन्त्रेण विप्रेन्द्र ! एकैकं तु शताहुतिः | हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् || ३९ || आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः | उपदेष्टारं संपूज्य यथा शास्त्रोक्त मार्गतः || ४० || उत्थाप्य प्रतिमां तत्र स्नानवेद्युपरि न्यसेत् | मन्त्रन्यासोक्त मार्गेण सृष्टि न्यासं तु कारयेत् || ४१ || देवदत्तस्य कुंभं तु स्नापयेन् मूलमन्त्रतः | पंचब्रह्मषडंगेन प्राणादत्यय कुम्भकान् || ४२ || स्नापयेत् तु ततो विद्वान् आचम्येन विशुद्ध्यति | नैवेद्यं पायसं दद्यात् ताम्बूलं दापयेत् ततः || ४३ || ब्राह्मणान् भोजयेत् तत्र पर्यष्टीन् शैवमेव तु | हाटकं वस्त्र संयुक्तं सर्वेषां दापयेत् ततः || ४४ || मानुषं स्थापनं प्रोक्तं पिण्डिका स्थापनं शृणु || ४४ || इति वीरतन्त्रे मानुषस्थापनविधिः एकोन सप्ततितमः पटलः || ६९ || प्. ३२५) शिवं प्रणम्य विधिवत् पर्यपृच्छत् पितामहः | पिण्डिका स्थापनं किंचित् तत्सर्वं मे वद प्रभो ! || १ || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | प्रासादस्याग्रतः कुर्यान् मण्टपं चतुरश्रकम् || २ || पंचसप्ताष्टहस्तं वा नवहस्तमथापि वा | स्तम्भैः षोडशभिर्युक्तं चतुर्द्वारसमन्वितम् || ३ || मध्यमे वेदिकां कुर्यात् तालमात्रसमुच्छ्रयम् | वितानध्वजमाच्छाद्य दिग्ध्वजैश्च प्रलम्बितम् || ४ || दर्भमालाभिरावेष्ट्य तोरणैरुपशोभितम् | शालिभिर्विकिरेत्तत्र तण्डुलैश्च तिलैस्तथा || ५ || पंचभिः कबलैर्युक्तं पीठं तस्योपरिन्यसेत् | पीठं प्रक्षालयेद्विप्र ! प्रासादेन तु मन्त्रतः || ६ || अष्टमृत्सलिले नैवं पीठं प्रक्षालयेद्धृदा | वल्मीके च तटाके च कुशमूले तथैव च || ७ || नदी पर्वतदेशे तु गोष्ठे च गजदन्ततः | शुद्धक्षेत्रे तु वै ब्रह्म मृद्भिस्संक्षालयेद्बुधः || ८ || वस्त्रेण वेष्टयेत् पीठं शालिराशौ तु विन्यसेत् | पुण्याहं वाचयेत् तत्र स्वस्तिमंगलवाचकैः || ९ || वर्धनीश्च नवादाय त्रिसूत्रेणैव वेष्टयेत् | शुद्धोदकेन संपूर्य विन्यसेत् पीठबाह्यतः || १० || प्. ३२६) रत्नानि नवचैलाल वंगतक्कोलमेव च | वर्धन्यां निक्षिपेत् तत्र पूर्वादीशान्तमेव च || ११ || पीठस्यैशान दिग्भागे प्रधानां वर्धनीं न्यसेत् | सकूर्चं च सुवर्णं च वस्त्रयुग्मं पृथक् पृथक् || १२ || वामीं पूर्वे तु विन्यस्य ज्येष्ठामाग्नेय देशतः | दक्षिणे चैव रौद्री च काली निर्-ऋति गोचरे || १३ || कलविकरिणीं वारुण्यां बलविकरणीं तु वायवे | बलप्रमथिनीं सौम्ये विन्यसेत् तु विशेषतः || १४ || सर्वभूतदमनीं विन्यसेदीशतः क्रमात् | मध्ये मनोन्मनीं देवीं न्यस्त्वा गन्धादिना यजेत् || १५ || पायसान्नं तु नैवेद्यं ताम्बूलं दापयेत् ततः | ततो होमं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा || १६ || यावदश्रं भवेत् पीठं तावदश्रं तु कुण्डकम् | वृत्तपीठस्य हे ब्रह्मन् वृत्तकुण्डमिहोच्यते || १७ || समिदाज्य चरून्लाजान्वेणुमुद्गं च सर्षपान् | समिधस्सद्यमन्त्रेण आज्यं वामेन चैव हि || १८ || अघोरेण चरुं हुत्वा लाजं हृदयमन्त्रतः | वेणुमीशानमन्त्रेण मुद्गं च शिरसा तथा || १९ || शिखामन्त्रेण सर्षपं अष्टोत्तरशतं पृथक् | गौरीबीजेन मन्त्रेण प्रत्येकं तु शताहुतिः || २० || प्. ३२७) सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे || २१ || हुत्वा हुत्वा तदंगानि स्पृशेत् प्रसृतिमुद्रया | उपानं पादमित्युक्तं जगती जंघोनुजं तथा || २२ || कुमुदं तु कटिं प्रोक्तं नाभिमेव तु पट्टिका | कण्ठश्च हृदयं प्रोक्तं नाभिश्चैव तु पट्टिका || २३ || कर्णश्च हृदयं प्रोक्तं नाभिश्चैव तु पट्टिका | कण्ठश्च हृदयं प्रोक्तं बाहूचैवोर्ध्व वामनम् || २४ || पट्टिका कण्ठं मुखं पट्टिका हृदधारी च मूर्धजा | एवं वै पद्मपीठे तु तेषां रूपं प्रकल्पयेत् || २५ || हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे | ततः प्रभाते (विमले) सुमुहूर्ते सुलग्नके || २६ || आचार्यं पूजयित्वा तु शिल्पिनं पूजयेत् ततः | पश्चाद्गर्भगृहं गत्वा आचार्यः शिल्पिभिस्सह || २७ || मृण्मयं वृषभं कुर्यात् सुवर्णखुरशृंगकौ | वृषगायत्रिमन्त्रेण प्रासादेन समन्वितम् || २८ || वृषभस्य तु शृंगेण कर्षयेत् पीठमेव च | पीठं विसर्जयेत् तत्र जलमध्ये तु निक्षिपेत् || २९ || शैव पीठकमुत्सृज्य प्रासादेन तु मन्त्रतः | षण्णवत्यक्षरैर्युक्तं व्योमव्यापि समुच्चरन् || ३० || प्. ३२८) लिंगपीठं समायोज्य सुस्निग्धं कारयेत् ततः | अष्टबन्धं प्रकर्तव्यं लक्षणेन समन्वितम् || ३१ || लाक्षा चैव मधूच्छिष्टं शर्करासर्जनं तथा | वायुके नेष्टका चूर्णं सदृशं घनतैलकम् || ३२ || समं कृत्वा तु विप्रेन्द्र ! तैलमर्धं विधीयते | ताम्रपात्रे विशेषेण पाचयेच्छिल्पिना सह || ३३ || लिंगपिठकयोर्मध्ये पक्वद्रव्यं विनिक्षिपेत् | एवं यः कुरुते मर्त्यः शिवलोके महीयते || ३४ || क्षालयित्वा तु विप्रेन्द्र ! तैलमर्धं विधीयते | पुण्याहं वाचयेत् तत्र प्रोक्षयेत् पवमानतः | तत् तदंशानि विन्यस्य सूत्राग्रमुपकल्पनम् || ३५ || वेदिका स्थापितस्सर्वे वर्धन्यां स्थापयेत् ततः | तन्मध्ये वेदिकां कुर्यादरत्निमात्रमुच्छ्रिताम् || ३६ || दर्भमाला समायुक्तं चतुस्तोरणसंयुतम् | गात्रसंवेष्टनं कुर्याद् वितानेनोर्ध्वं वेष्टयेत् || ३७ || अष्टदिक्षु ध्वजान्न्यस्य अष्टमंगल संयुतम् | वेदिबाह्ये तु परितो नवकुण्डानि कारयेत् || ३८ || स्थण्डिलं चाथ कर्तव्यं लक्षणेन समन्वितम् | तत् तत् पीठाकृतिं ब्रह्मन् तत् तत् कुण्डमिहोच्यते || ३९ || शालिभिर्विकिरेद्विद्वान् अष्टद्रोणैर्विशेषतः | तदर्धं तण्डुलान् न्यस्य तण्डुलार्धतिलान् न्यसेत् || ४० || प्. ३२९) पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | बालस्थानस्य चाग्रे तु यात्राहोमं तु कारयेत् || ४१ || तदग्रे स्थापयेद् विद्वान् शिवकुंभं च वर्धनीम् | स सूत्रं सापिधानं च सवस्त्रं हेम संयुतम् || ४२ || नवरत्नं क्षिपेन्मध्ये सर्वद्रव्य समायुतम् | अभितः कलशानष्टौ विद्येश्वर समन्वितान् || ४३ || तत् तन्मन्त्रमनुस्मृत्य गन्धपुष्पादिनार्चयेत् | आचार्यश्च शुचिर्भूत्वा शिरसा धारयेद् घटम् || ४४ || नववस्त्र परीधानः सोष्णीषस्सोत्तरीयकः | विमान प्रदक्षिणं कुर्यान्वेदिमध्ये न्यसेत् ततः || ४५ || पूर्वादीशान पर्यन्तं विद्येश्वरांश्च विन्यसेत् | गन्धपुष्पादिना पूज्य पायसान्नं निवेदयेत् || ४६ || एलालवंगतक्कोलं उशीरं चन्दनं तथा | समालोढ्य विशेषेण लिंगमालोड्ययेत् ततः || ४७ || नववस्त्रेण संवेष्ट्य लिंगपीठं च देशिकः | ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् || ४८ || पालाशखदिराश्वत्थ प्लक्षन्यग्रोध एव च | उदुम्बरमपामार्गं खदिरं च विशेषतः || ४९ || पूर्वादीशान पर्यन्तं क्रमेण परिकीर्तितम् | ईशान इन्द्रयोर्मध्ये शमीं चैव तु विन्यसेत् || ५० || प्. ३३०) अष्टोत्तरशतं चैव पंचाशत् पंचविंशतिः | सर्वेषां चैव होमानां पलाशेध्यमिहोच्यते || ५१ || समिदाज्य चरूंलाजान् मुद्गमाषांश्च सर्षपान् | समिधं सद्यमन्त्रेण वक्त्रेणाज्यं तथैव च || ५२ || अघोरेण चरुं हुत्वा लाजान्वामेन होमयेत् | नेत्रेणैव तु मुद्गं स्यान् माषं हृदयमुच्यते || ५३ || ईशानेन तु मन्त्रेण सर्षपं चैव हूयते | प्रासादेन तु मन्त्रेण प्रत्येकं पंचविंशतिः || ५४ || गौरीबीजेन मन्त्रेण प्रत्येकं पंचविंशतिः | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || ५५ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे | जयादिरभ्यधानं च राष्ट्रभृच्चैव हूयते || ५६ || हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ५७ || श्रीरुद्रं चैव जप्येत पवमानं जपेत्ततः | पुरुषसूक्तं जपित्वा च स्तोत्रेणैव समन्वितम् || ५८ || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | नववस्त्रपरीधानः सोष्णीषस्सोत्तरीयकः || ५९ || कुण्डलैः कर्णिकैर्हारैः अर्घ्यांगुलीयकमेव च | प्रशान्तमानसो भूत्वा स्नापयेल्लिंग मूर्धनि || ६० || प्. ३३१) गौरीबीजेन वर्धन्यां स्नापयेत् पिण्डिकोपरि | पूर्वादीशान पर्यन्तं विद्येशान् स्नापयेत् ततः || ६१ || अष्टोत्तरशते नैव पंचाशत् पंचविंशतिः | स्नपनं कारयेत् तत्र यथाविभवविस्तरम् || ६२ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् | हविर्निवेदयेत् पश्चात् ताम्बूलं दपयेत् ततः || ६३ || ब्राह्मणान्भोजयेत् तत्र शैवान्संभोजयेत् ततः | पीठस्थापनमेवोक्तं जलसंप्रोक्षणं शृणु || ६४ || इति वीरतन्त्रे पिण्डिकास्थापनविधिः सप्ततितमः पटलः || ७० || प्रणिपत्य जगन्नाथं ब्रह्मा पृच्छति शंकरम् | जलसंप्रोक्षणं किं वा ब्रूहि मे परमेश्वर || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | प्रासादकरणे चैव शिल्पिना स्पर्शयेत् ततः || २ || पीठबन्धविधौ चैव चण्डालादीनि संस्पृशेत् | पतने दूषिते स्पृष्टे पूजाहीने तथैव च || ३ || एवमादिषु कालेषु जलसंप्रोक्षणं कुरु | त्रिरात्रे पंच सप्ताहे अंकुरार्पणमारभेत् || ४ || अष्टौ वा षोडशं वापि चतुर्विंशतिरेव वा | पालिका घटिका चैव शराबं च त्रिधा भवेत् || ५ || प्. ३३२) बीजानि वापयेत् तत्र पूर्वोक्तविधिना सह | प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् || ६ || नवहस्तं चाष्टहस्तं द्वादशं हस्तमेव वा | षोडशस्तम्भसंयुक्तं चतुर्द्वार विभूषितम् || ७ || ब्रह्मभागे तु वेदी स्यात् परितः कुण्डमुच्यते | समखण्डं वर्तमानं च शिवाधिक्यं तथैव च || ८ || त्रैराशिकं तदूर्ध्वे तु चतुर्वीर्येन चोच्यते | कुण्डानां लक्षणं लक्ष्ये समखण्डस्य पद्मज ! || ९ || दिशासु चतुरश्राणि वृत्तानि विदिशासु वै | इन्द्र ईशानयोर्मध्ये अष्टकोणं तु कारयेत् || १० || समखण्डमिदं प्रोक्तं शिवाधिकमथ शृणु | चतुरश्रं च योनिं च अर्धचन्द्रं त्रिकोणकम् || ११ || वृत्तं वै पंचकोणं तु पद्मं षट्कोणमेव च | पूर्वादीनि क्रमदृद्धिं ईशाने सप्तकोणकम् || १२ || शिवाधिक्यस्य कुण्डानि प्रोच्यते सकलं ततः | त्रैराशिकस्य कुण्डानि श्रूयतां चतुरानन ! || १३ || दिग्विदिक्षु च विप्रेन्द्र ! वृत्तकुण्डं तु कारयेत् | स्वयमुद्भूतलिंगस्य स्थापितस्य महर्षिभिः || १४ || देवैर्वा स्थापितं लिंगं रूपमानं न विद्यते | एतेषां प्रोक्षणे काले तत् तत् पीठाकृतिं यथा || १५ || प्. ३३३) तथा कुण्डा कृतिं प्रोक्तं प्रतिमानं शृणुष्वथ | पूर्वोक्तेन प्रमाणेन कुण्डं कुर्यात् तु देशिकः || १६ || एवमेव प्रकारेण मण्टपं कारयेत् ततः | गोमयेनोपलिप्याथ तोरण ध्वजसंयुतम् || १७ || दर्भमालासमायुक्तं मुक्तादामैरलंकृतम् | वेद्योपरि न्यसेच्छालिं भारद्वयसमन्वितम् || १८ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् || १९ || एलालवंग तक्कोलं निम्बजातिफलं मुरम् | चन्दनागरुकर्पूरं उशीरं कुंकुमैर्युतम् || २० || आलोढ्यलेपयेल्लिंगं नववस्त्रेण वेष्टयेत् | पुण्याहं वाचयेत् तत्र पंचगव्येन स्नापयेत् || २१ || सौवर्णसूत्रकार्पासं तण्डुलोपरि विन्यसेत् | कौतुकं बन्धयेत् पश्चात् हृदयेन तु मन्त्रतः || २२ || बालस्थानं तथा गत्वा यात्राहोमं समाचरेत् | तस्याग्रे स्थण्डिलं कृत्वा शालिभिस्तण्डुलैस्तिलैः || २३ || पंचब्रह्मसमायुक्तं षडंगेन समन्वितम् | वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् || २४ || सवस्त्रं हेमसंयुक्तं स कूर्चं सापिधानकम् | तस्याग्रे स्थण्डिलं कृत्वा यात्राहोमं तु कारयेत् || २५ || प्. ३३४) शिवाग्निं कल्पयेत् तत्र अग्निमुखं च हूयते | समिदाज्य चरूणां तु प्रत्येकं तु शताहुतिः || २६ || समिधः सद्यमन्त्रेण आज्यं वामेन हूयते | ईशानेन तिलं हुत्वा स्पृष्ट्वा लिंगं ततो बुधः || २७ || हुत्वा चित्तादि विरेन्द्र ! पूर्णाहुतिं यदस्य च | दशमुद्रा च दातव्यं लक्षणेन समन्वितम् || २८ || तस्याग्रे शिवकुम्भं तु शिरसा धारयेत् ततः | प्रविश्य मण्टपं विद्वान् - येद्वेदि मध्यमे || २९ || अभितः कलशानष्टौ विद्येश्वर समन्वितान् | बाले स्थाने कृते ह्येवं कर्तव्यं देशिकोत्तमः || ३० || इदमन्यत्प्रवक्ष्यामि शृणुष्व चतुरानन ! | नवकुम्भान्समादाय सूत्रेण परिवेष्टितान् || ३१ || शुद्धोदकेन संपूर्य कलशान् न्यस्य मण्डले | पंचरत्न समायुक्तं वस्त्रयुग्मेन वेष्टितम् || ३२ || स कूर्चान्सापिधानांश्च स्थापयेद्वेदि मध्यमे | पंचब्रह्मशिवांगैश्च शिवमन्त्रेण स्थापयेत् || ३३ || वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् | स वस्त्रान् सहिरण्यांश्च सकूर्चान् सापिधानकान् || ३४ || पूर्वादीशान पर्यन्तं अष्टकुम्भान् न्यसेत् क्रमात् | गन्धपुष्पादिनाभ्यर्च्य पायसान्नं निवेदयेत् || ३५ || प्. ३३५) ततो होमं प्रकर्तव्यं समिदाज्यादि द्रव्यकैः | समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् || ३६ || मुद्गमाषक संयुक्तं नवद्रव्यमिहोच्यते | पलाशं पूर्वतो भागे उदुम्बरं चाग्निगोचरे || ३७ || अश्वत्थं दक्षिणे चैव शमी निर्-ऋतिगोचरे | खदिरं पश्चिमे न्यस्य वायव्ये बिल्वमेव च || ३८ || प्लक्षं चोत्तरदेशे तु अर्कमीशानगोचरे | पलाशसमिधा चैव प्रधानाग्नौ तु होमयेत् || ३९ || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः | स्तोत्रमन्त्रं जपित्वा तु पवमानं जपेत् ततः || ४० || समिधं सद्य मन्त्रेण आज्यं वामेन हूयते | चरुं तत् पुरुषेणैव लाजान्घोरेण चैव हि || ४१ || सर्षपं हृदये नैव यवांस्तु शिरसा तथा | तिलान् हुत्वा तु शिखया मुद्गं तु कवचेन तु || ४२ || माषं तु नेत्र मन्त्रेण हूयते क्रमशस्तथा | द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा लिंगं तु सर्वशः || ४३ || सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे || ४४ || त्रियम्बकेन मन्त्रेण आज्यमष्टशतं हुनेत् | आपो राजा इदं विष्णोः प्रत्येकं चरु हूयते || ४५ || प्. ३३६) ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | मन्त्रन्यासोक्त मार्गेण स्वदेहे चैव विन्यसेत् || ४६ || ततो वासन होमं तु कर्तव्यं देशिकोत्तमः | सर्वद्रव्य समायुक्तं पूर्णाहुतिमथाचरेत् || ४७ || आचार्य दक्षिणां दद्यात् पादार्थीन्पूजयेत् ततः | पूजापर्युषितो लिंगं व्यपोह्य कलशं ततः || ४८ || स्नापयेत् पंचगव्येन पंचब्रह्म समुच्चरन् | पंचासनं तदाकल्प्य पूर्वोक्तविधिना सह || ४९ || पंचब्रह्मं न्यसेल्लिंगे षडंगं विन्यसेत् ततः | व्योमव्यापि महामन्त्रं विन्यस्य लिंगमूर्धनि || ५० || सुमुहूर्ते सुलग्ने च शिरसा धारयेद्घटम् | विमान प्रदक्षिणं कुर्याद् गर्भगेहं प्रवेशयेत् || ५१ || व्योमव्यापि समुच्चार्य ब्रह्मांगेन च संयुतम् | स्नापयेच्छिव कुम्भं तु गौरीबीजेन वर्धनीम् || ५२ || विद्येश कलशान् स्नाप्य स्वस्वमन्त्रेण देशिकः | स्नपनं तत्र कर्तव्यं यथा विभवविस्तरम् || ५३ || वस्त्रमाल्यैश्च विविधैः अर्चयेद् देवदेविकम् | पंचवर्णहविर्दद्यात् ताम्बूलं दापयेत् ततः || ५४ || ब्राह्मणान् भोजयेत् तत्र शैवान् संभोजयेत् ततः | विप्रादींश्च ददेच्छैवान् पर्यष्टि परिचारकान् || ५५ || प्. ३३७) एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ५५ || इति वीरतन्त्रे जलसंप्रोक्षणविधिरेक सप्ततितमः पटलः || ७१ || प्रणम्य भगवन्तं हि ब्रह्मा वचनमब्रवीत् | वृषभ स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | पूजांशोच्च प्रमाणेन अधमं वृषभं भवेत् || २ || पूजांशं पंचधा भित्वा एकांशेन समन्वितम् | पूजांशेन समायुक्तं मध्यमं वृषभं भवेत् || ३ || द्व्यंशाधिकं तु पूजांशं उत्तमं वृषभं भवेत् | अथवा गर्भमानेन यथावद् गर्भमुच्यते || ४ || एकादि नवभागान्तं लक्षणं वृषभस्य तु | अथवा तालमानेन त्रितालमधमं भवेत् || ५ || मध्यमं तु चतुस्तालमुत्तमं पंचतालकम् | सौवर्णं राजतं ताम्रं मृण्मयं वा शिला भवेत् || ६ || वृषोत्सेधं नवांशं तु द्व्यंशं (च) मुखदैर्घ्यकम् | गलमंशेन कर्तव्यं षडंशं पृष्ठदैर्घिकम् || ७ || अंशे नैव तु शृंगोच्चं बहिर्वक्र समन्वितम् | द्वन्द्वयोरधमांशं तु गोमुखाकृतिरेव च || ८ || प्. ३३८) नासिका चाष्टसंयुक्त दन्तपंक्तिद्वयं तथा | कर्णद्वयसमायुक्तं किंकिणीरुपशोभितम् || ९ || एकांशं पीठकोच्चं तु ताटीचार्धांशमुच्यते | पादाच्चत्वारमंशं तु चतुरंशं तु बालकम् || १० || खुरमर्धांशमेवं तु परिणाहं नवांशकम् | ऊरुमूलस्य विस्तारं द्वयंशमिति कथ्यते || ११ || एवं लक्षणसंयुक्तं वृषभं कारयेत् ततः | शैलजे मृण्मये लोहे रत्नन्यासं तु कारयेत् || १२ || वज्रं वैडूर्यकं चैव पद्मरागं तथैव च | इन्द्रनीलं च रत्नादि पूर्वादिक चतुर्दिशि || १३ || प्रबालं मध्यमे स्थाप्य सुस्निग्धं कारयेत् ततः | वृषभं क्षालयेद् विद्वान् पुण्याहं वाचयेत् ततः || १४ || नयनं मोक्षणं कुर्यान् नेत्रयुग्मयुते दिने | पूर्वोक्त विधिना कुर्याद् अक्षिहोमादिकारयेत् || १५ || जलाधिवासनं कुर्यान् नववस्त्रेण वेष्टयेत् | वृषगायत्रिमन्त्रेण जले चैवाधिवासयेत् || १६ || अभितः कलशानष्टौ लोकपाल समन्वितान् | जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति (ततः) || १७ || शिवाग्ने मण्डपं कुर्यात् पूर्वोक्तविधिना सह | मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते || १८ || प्. ३३९) चतुर्दिक्षु च ईशान्यां वृत्तकुण्डमिहोच्यते | सप्तवर्गाच्चतुर्थं तु तद्वर्गात्तु तृतीयकम् || १९ || चतुर्दशाक्षरैर्युक्तं बिन्दुनाद समन्वितम् | वृषभमूलमिदं ज्ञेयं हुत्वा ब्रह्ममिहोच्यते || २० || वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् | तदूर्ध्वे विन्यसेद्विप्र पंचभिः कम्बलैर्युतम् || २१ || शयने शाययेद्विप्र मूलमन्त्रेण देशिकः | प्रच्छन्न पट संयुक्तं अभितः कलशान् न्यसेत् || २२ || वृषभस्यैशदिग्भागे वृषकुम्भं प्रतिष्ठितम् | वृषगायत्रिमन्त्रेण विन्यसेद् देशिकोत्तमः || २३ || स वस्त्रं पंचरत्नं च वृषभस्तत्र देवता | अष्टविद्येश्वरान् बाह्य कलशस्याधि दैवतान् || २४ || अर्चयेद्गन्धपुष्पाद्यैः पायसान्नं निवेदयेत् | ततो होमं प्रकुर्वीत पलाशसमिधा सह || २५ || समिदाज्य चरून्लाजान् सर्षपेण समन्वितम् | ईशानादीनि सद्यान्तं क्रमान् मन्त्रमिहोच्यते || २६ || वृषगायत्रिमन्त्रेण आज्ये नैव शताहुतिः | वृषं स्पृष्ट्वा तु द्रव्यान्ते व्याहृतिं जुहुयात् ततः || २७ || गौर्धेनु भव्यमन्त्रेण चरुं हुत्वा शताहुतिम् | हव्यवाहादिमन्त्रेण पूर्णाहुतिमथाचरेत् || २८ || प्. ३४०) वृषभं स्थापयेद्विप्र ! वृषमूलेन मन्त्रतः | गायत्र्या पंचब्रह्मं तु स्नापयेत् कुम्भमेव च || २९ || हविर्दद्याद् विशेषेण ताम्बूलं दापयेत् ततः | आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः || ३० || ब्राह्मणान् भोजयेत् तत्र जनान् सर्वांश्च भोजयेत् | एवं यः कुरुते मर्त्यः शिवलोकं स गच्छति || ३१ || वृषभस्थापनं प्रोक्तं अथाग्निस्थापनं शृणु || ३१ || इति वीरतन्त्रे वृषभस्थापनविधिर्द्वासप्ततितमः पटलः || ७२ || देवदेवं प्रणम्यादौ पर्यपृच्छत् पितामहः | अग्निप्रतिष्ठां देवेश ! तत् सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासादस्याग्नि दिग्भागे अग्निविमानमुच्यते || २ || मूलबेरस्य पूजांशं प्रतिमोत्सेधमुच्यते | अथवा गर्भमानं वा नवधा भाजिते तथा || ३ || एकैकं समं * * * कारयेद्देशिकोत्तमः | द्वितालमधमं ज्ञेयं त्रितालं मध्यमं भवेत् || ४ || उत्तमं तु चतुस्तालं प्रतिमोत्सेधमुच्यते | एक हृदयं त्रिपादं च चतुश्शृंगंद्वयंशिरः || ५ || प्. ३४१) सप्तजिह्वास्सप्तहस्ताश्चत्वारो नेत्रमुच्यते | पद्मासनसमारूढं ऊर्ध्वकेश समन्वितम् || ६ || स्रुवं च शक्तिदण्डं च दक्षिणे तु करे ददेत् | स्रुवाक्षतोमरं चैवेत्येते वामकरेषु च || ७ || दक्षिणे तु करे चैकं देवानामाहुतिं ददेत् | एवं समासतः प्रोक्तं प्रतिष्ठालक्षणं शृणु || ८ || रत्नन्यासं तु कर्तव्यं पूर्वे वज्रं तथैव च | मरकतं दक्षिणे न्यस्य पश्चिमे तु प्रवालकम् || ९ || वैडूर्यमुत्तरे न्यस्य माणिक्यं मध्यमे न्यसेत् | नयनं मोक्षणं कुर्यान् नेत्रद्वययुते दिने || १० || यद्वर्गस्य तृतीयं तु प्रथमस्य चतुर्थकम् | बिन्दुनाद समायुक्तं अग्निमूल मुदाहृतम् || ११ || ह्रस्वा ब्रह्मा समाख्याता दीर्घाभ्यंगानि चोच्यते | नयनं मोक्षणं कुर्यात् पूर्वोक्तविधिना सह || १२ || स्नापयेत् पंचगव्येन ततो ग्रामप्रदक्षिणम् | जलाधिवासनं कुर्यात् तस्य मूलेन मन्त्रतः || १३ || एकरात्रं त्रिरात्रं वा पंचरात्रमथापि वा | प्रासादस्याग्रतश्चैव पूर्वोक्तमण्डपं कुरु || १४ || मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते | चतुर्दिक्षु च ईशान्यां त्रिकोणं कुण्डमुच्यते || १५ || प्. ३४२) जलादुत्तीर्य पूर्वेद्युः पंचगव्येन स्नापयेत् | प्रतिस्थैक दिग्भागे अग्निमूलेन विन्यसेत् || १६ || वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् | शयनं पंचभिः कल्प्यः प्रतिमां विन्यसेत् ततः || १७ || प्रच्छन्न पटसंयुक्तं कुम्भन्यासं तु कारयेत् | तस्यैव वामभागे तु स्वाहा बीजेन वर्धनम् || १८ || पूर्वादीशान पर्यन्तं अष्टकुम्भान्क्रमान् न्यसेत् | हुताशनं पावकं च अनलं हव्यवाहनम् || १९ || ज्वलनं सप्तजिह्वं च तपनं तु महानसम् | पूर्वादीशान पर्यन्तं विन्यसेत् तु विशेषतः || २० || सवस्त्रान् सहिरण्यांश्च स कूर्चान् सापिधानकान् | ततो होमं प्रकर्तव्यं पलाशसमिधायुतम् || २१ || समिदाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् | मुद्गमाषं च नीवारं बिल्वं चैकादशं भवेत् || २२ || पंचब्रह्मषडंगेन क्रमाद्धोतव्यमेव च | ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः || २३ || एतत् संहारमूर्तिस्तु संहार न्यासमुच्यते | ततो वासन होमं च समिदाज्य चरून् युतम् || २४ || मूलमन्त्रेण विप्रेन्द्र ! प्रत्येकं तु शताहुतिः | विमाने स्थापयेद्विद्वान् प्रतिमं पश्चिमं मुखम् || २५ || प्. ३४३) स्नापयेन्मूलमन्त्रेण वर्धनीं स्थापयेत् ततः | स्वस्वनाम्नैव मन्त्रेण स्नापयेत् कुम्भमेव च || २६ || हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | ब्राह्मणान् भोजयेत् तत्र पर्यष्टिपरिचारकान् || २७ || आचार्यं पूजयेत् पश्चात् पदार्थीन् पूजयेत् ततः | अग्निस्थापनमेवोक्तं मातॄणां स्थापनं शृणु || २८ || इति वीरतन्त्रे अग्निस्थापनविधिस्त्रिसप्ततितमः पटलः || ७३ || प्रणम्य शिरसा देवं ब्रह्मा पृच्छति शंकरम् | मातॄणां स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || २ || वाराही च तथेन्द्राणी चामुण्डा वीरभद्रकम् | विघ्नेशं प्रतिमं कृत्वा स्थापयेद् विधिपूर्वकम् || ३ || हस्तं वा गर्भमानं * * * ग्निं कारयेद् बुधः | चतुर्भुजां द्विनेत्रां च पद्मासनोपरि स्थितम् || ४ || वामे च दक्षिणे हस्ते कृष्णापरशुधारिणम् | वीरभद्रं मया प्रोक्तं ब्राह्मी चैव शृणुष्वथ || ५ || प्. ३४४) चतुर्भुजां त्रिणेत्रां च सुस्तनां च सुयौवनाम् | दक्षिणेऽदक्षिणे हस्ते अक्षसूत्रकमण्डलुम् || ६ || पद्मासनोपरिष्टात् तु ब्रह्माणीं चैव कारयेत् | त्रिनेत्रां चतुर्भुजां चैव जटामुकुट धारिणीम् || ७ || दक्षिणेऽदक्षिणे हस्ते कृष्णा परशुधारिणीम् | पद्मासनोपरिष्टात् तु माहेश्वरीं च कारयेत् || ८ || द्विनेत्रां द्विभुजां चैव सुस्तनां च सुयौवनाम् | दक्षिणेऽदक्षिणे हस्ते अक्षमालाकमण्डुलुम् || ९ || मकुटेन समायुक्तं कौमारीं चैव कारयेत् | द्विनेत्रां चतुर्भुजां देवीं शंखचक्रगदाधराम् || १० || करण्ड मकुटां देवीं सुस्तनां च सुयौवनाम् | कारयेद् वैष्णवीं देवीं वाराहीं च ततः शृणु || ११ || द्विनेत्रां चतुर्भुजां देवीं हलमुसलायुधाम् | मकुटेन समायुक्तां वराह मुख संयुताम् || १२ || दंष्ट्रया च समायुक्तां वाराहीं कारयेत् ततः | चतुर्भुजां द्विनेत्रां च श्यामवर्ण समायुताम् || १३ || वज्रतोमर संयुक्तां इन्द्राणीं कारयेत् ततः | चतुर्भुजं त्रिणेत्रं च विघ्नेशं कारयेत् ततः || १४ || यरलवशषसह गकारं गणपतिं तथा | मायानल समायुक्तं बिन्दुनाद समायुतम् || १५ || प्. ३४५) मूलमन्त्रमिदं प्रोक्तं सर्वकामफलप्रदम् | हृस्वा ब्रह्म समाख्याता दीर्घाह्यंगानि चोच्यते || १६ || रत्नन्यासमिदं प्रोक्तं सर्वासां पंचरत्नकम् | नयनं मोक्षणं कुर्यात् पूर्वोक्ते नैव मार्गतः || १७ || अक्षिहोमं तु नेत्रेण आज्ये नैव शताहुतिः | जलाधिवासनं कुर्यात् पूर्वोक्तेन विधानतः || १८ || जलादुत्तीर्य पूर्वेद्युः प्रविशेदालयं प्रति | पूर्ववन्मण्डपं कुर्यात् पूर्वोक्ते नैव मार्गतः || १९ || तन्मध्ये वेदिकां कुर्यात् परितः कुण्डमुच्यते | चतुरश्रं योनिकुण्डं अर्धचन्द्रं त्रिकोणकम् || २० || वर्तुलं पंचकोणं च पद्मं चैवाष्टकोणकम् | पूर्वादीनि क्रमान् न्यस्य कुण्डान्येतानि विन्यसेत् || २१ || इन्द्र ईशानयोर्मध्ये सप्ताग्रं तु गणाधिपम् | पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् || २२ || शालिना विकिरेद्वेदीं तण्डुलं च तिलं न्यसेत् | शयनं पंचभिः कुर्यात् तस्योपरि न्यसेत् ततः || २३ || ब्रह्माणीं मध्यमे स्थाप्य पूर्वे माहेश्वरीं न्यसेत् | कौमारीं वह्निदेशे तु वैष्णवीं दक्षिणे न्यसेत् || २४ || वाराहीं नैर्-ऋते चैव ऐन्द्राणीं पश्चिमे न्यसेत् | चामुण्डीं वायुदेशे तु उत्तरे वीरभद्रकम् || २५ || प्. ३४६) ईशाने गणपतिं न्यस्य प्रच्छन्न पटसंयुतम् | तस्यैव वामभागे तु कुम्भान्विन्यस्य देशिकः || २६ || अर्चयेद् गन्धपुष्पाद्यैः स्वस्वमन्त्रेण देशिकः | वस्त्रेण वेष्टयेद् विद्वान् सुवर्णे नैव संयुतान् || २७ || हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् || २८ || पलाशसमिधा युक्तं प्रत्येकं तु शताष्टकम् | समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् || २९ || मुद्गं माषं च बिल्वं च कदलीफलसंयुतम् | पंचब्रह्म षडंगैश्च प्रत्येकं तु शताहुतिः || ३० || घृतमिक्षेति मन्त्रेण पंचविंशति हूयते | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ३१ || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | ततो वासनहोमं तु समिदाज्येन संयुतम् || ३२ || मूलमन्त्रेण विप्रेन्द्र ! प्रत्येकं तु शताहुतिः | हुत्वान्ते तु स्पृशेद्बिम्बं द्रव्यं प्रति विशेषतः || ३३ || स्थापयेत् प्रतिमां तत्र वीरपश्चिमतो मुखम् | उत्तराभिमुखीर्देवीः स्थापयेद् देशिकोत्तमः || ३४ || पूर्वाभिमुखमेवं तु विघ्नेशं स्थापयेत् ततः | प्रतिष्ठाकुम्भमादाय स्नापयेत् स्वस्वमन्त्रतः || ३५ || प्. ३४७) हविर्दद्याद्विशेषेण ताम्बूलं दापयेत् ततः | ब्राह्मणान्भोजयेत् तत्र सप्तकन्याश्च भोजयेत् || ३६ || मातॄणां स्थापनं प्रोक्तं कुमारस्थापनं शृणु || ३६ || इति वीरतन्त्रे मातृस्थापनविधिश्चतुः सप्ततितमः पटलः || ७४ || प्रणिपत्य जगन्नाथं ब्रह्मा वचनमब्रवीत् | कुमारस्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | पूजाभागसमुत्सेधं प्रतिमं सोच्छ्रयं भवेत् || २ || गर्भं तु नवधा भज्य एकैकं प्रतिमोच्छ्रयम् | चत्वारः पंचतालं वा षट्तालं वापि कारयेत् || ३ || त्र्यक्षं चतुर्भुजं शान्तं मकुटेन समन्वितम् | वरदाभयहस्तं तु अक्षमालाकमण्डलुम् || ४ || स्वस्तिदं पद्ममध्ये तु पूर्वाभिमुखमेव च | जया च विजया चैव देव्यौ पार्श्व स्थिते सदा || ५ || शिखिनं कुक्कुटं वापि गजं वा स्थापयेत् ततः | एभिस्तु लक्षणैर्युक्तं प्रतिमां कारयेत् ततः || ६ || अष्टवर्गात् तृतीयं तु सप्तवर्गाद् द्वितीयकम् | प्रथमस्य चतुर्थं तु बिन्दुनाद समन्वितम् || ७ || प्. ३४८) मूलमन्त्रमिति प्रोक्तं त्रिदशैरपि दुर्लभम् | हृस्वा ब्रह्म समाख्याता दीर्घाभ्यंगानि चोच्यते || ८ || रत्नन्यासं प्रकर्तव्यं पूर्वादीनि क्रमाद् बुधैः | वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् || ९ || चतुर्दिक्षु च विन्यस्य इन्द्रनीलं तु मध्यमे | सुस्निग्धं कारयेत्तत्र नयनं मोक्षणं कुरु || १० || सुवर्ण सूचिना चैव सौम्य दृष्टिं लिखेत् ततः | अक्षिहोमं ततः कृत्वा नेत्रेणैव शताहुतिः || ११ || प्रच्छन्न पटसंयुक्तं मधुवातेति तर्पयेत् | घृतमिक्षेति सन्तर्प्य सवत्सांगां प्रदर्शयेत् || १२ || जया च विजया चैव मूलमन्त्रेण कारयेत् | * * * * तृतीयं तु मायानल समन्वितम् || १३ || बिन्दुनाद समायुक्तं जयाबीजमनुत्तमम् | सप्तवर्गाच्चतुर्थं तु मायातत्व समन्वितम् || १४ || बिन्दुनाद समायुक्तं विजयाबीजमुच्यते | ब्राह्मणान् दर्शयेत् तत्र पुण्याहं वाचयेत् ततः || १५ || स्नापयेत् पंचगव्येन प्रतिमां क्षालयेद्धृदा | नववस्त्रसमाधानः कुर्याद्ग्रामप्रदक्षिणम् || १६ || जलाधिवासनं कृत्वा त्रिरात्रं पंचरात्रकम् | मूलमन्त्रेण विप्रेन्द्र ! प्रच्छन्न पटसंयुतम् || १७ || प्. ३४९) अभितः कलशानष्टौ लोकपालाधिदैवतान् | जलादुत्तीर्य पूर्वेद्युः स्नापयेत् पंचगव्यकैः || १८ || वास्तुहोमं दिवाकुर्यान् मण्डपं कारयेत् ततः | मध्यमे वेदिकां कुर्यात्परितः कुण्डमुच्यते || १९ || चतुरश्रं चतुदिक्षु आग्नेयादौ (त्रि)कोणकम् | इन्द्र ईशानयोर्मध्ये कुर्यात्कुण्डं त्रिकोणकम् || २० || सोम ईशानयोर्मध्ये पंचाश्रं बिन्दुमयं तथा | शालिना विकिरेद्वेदीं तण्डुलं च तिलं न्यसेत् || २१ || शयनं पंचभिः कल्प्य मूलमन्त्र समन्वितम् | शाययेद् वेदिकामध्ये प्राक्शिरस्का विधीयते || २२ || जया च विजया चैव द्वौ पार्श्वौ विन्यसेत् ततः | कौतुकं बन्धयेत् पूर्वे हृदयेन तु मन्त्रतः || २३ || प्रतिमस्येशदिग्भागे स्थापयेत् स्कन्दकुम्भकम् | जया च विजया चैव द्वौ पार्श्वौ स्थापयेत् क्रमात् || २४ || सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् | पूर्वादीशान पर्यन्तं अष्टकुम्भान् क्रमान्यसेत् || २५ || कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च | सेनापतिं सुराग्रं च हरसूनुं तथैव च || २६ || शरवणोद्भवं चैव कार्तिकेयं च विन्यसेत् | गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्ना च मन्त्रतः || २७ || प्. ३५०) नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः | ततो होमं प्रकुर्वीत पालाशसमिधा सह || २८ || समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् | शालिनीवारगोधूम मुद्गैश्चैव समन्वितम् || २९ || पंचब्रह्मषडंगेन क्रमाद्धुत्वा विशेषतः | स्कन्दमूलेन होतव्यमाज्ये नैव शताहुतिः || ३० || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | ततो वासनहोमं तु समिदाज्यचरूयुतम् || ३१ || मूलमन्त्रेण विप्रेन्द्र ! पंचदशाहुतिं हुनेत् | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ३२ || सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे || ३३ || पूर्णाहुतिं यदस्येति जुहुयाद्देशिकोत्तमः | उत्थाप्य शयनाद्देवीं सृष्टिन्यासं तु कारयेत् || ३४ || आचार्य दक्षिणां दद्यात् पंचांगभूषणैर्युतम् | स्नापयेत् स्कन्दमूलेन स्कन्दकुम्भं विशेषतः || ३५ || जयां च विजयां चैव तत् तन्मूलेन स्थापयेत् | आवाहयेत् तु वामेन सद्येन स्थापनं भवेत् || ३६ || ईशानेनाभिषेकं तु * * * * * * * * | गन्धाद्या हृदया चैव पुष्पं तु शिरसा तथा || ३७ || प्. ३५१) वस्त्रादीनि सर्वांश्च हृदये नैव दापयेत् | नैवेद्यं हृदये नैव नित्योत्सवं तु कारयेत् || ३८ || स्थलिके स्थण्डिलं न्यस्य अर्चयेद् गन्धपुष्पकैः | प्रतिमां पूर्वतो गत्वा पश्चात् तु क्षणिकं भवेत् || ३९ || आलयं प्रविशेत् तत्र नैमित्तिकमिहोच्यते | उत्सवं कारयेत् तत्र लक्षणेन समन्वितम् || ४० || स्कन्दस्थापनमेवोक्तं ज्येष्ठा स्थापनकं शृणु || ४० || इति वीरतन्त्रे स्कन्दस्थापनविधिः पंचसप्ततितमः पटलः || ७५ || प्रणिपत्य जगन्नाथं ब्रह्मा पृच्छति शंकरम् | ज्येष्ठाया स्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | पूजांशोच्च प्रमाणेन प्रतिमोत्सेधमुच्यते || २ || नवधा गर्भगृहं भित्वा एकैकं प्रतिमोच्छ्रयम् | चत्वारः पंचषट्तालं प्रतिमस्योच्छ्रयं भवेत् || ३ || द्विहस्तां च द्विनेत्रां च सौम्यवदन संयुताम् | मकुटेन समायुक्तां रक्तवस्त्र समन्विताम् || ४ || किंचित् कुंचित पादाभ्यां पद्मासनोपरि स्थिताम् | दक्षिणे पुत्रसंयुक्तां सूकराननसंयुताम् || ५ || प्. ३५२) वामे पुत्रिसमायुक्तां तस्यां शिरसि हस्तयोः | एवं लक्षणसंयुक्तं देव्या रूपं प्रकल्पयेत् || ६ || काकध्वजसमायुक्तां पूर्वाभिमुखमेव च | मूलमन्त्रं प्रवक्ष्यामि द्वितीयस्य तृतीयकम् || ७ || सप्तमस्य द्वितीयं तु प्रथमस्य चतुर्थकम् | बिन्दुनादसमायुक्तं ज्येष्ठामूलमिति स्मृतम् || ८ || हृस्वा ब्रह्म समाख्याता दीर्घाभ्यंगानि चोच्यते | प्रथमस्यैकादशं युक्तं बिन्दुनाद समन्वितम् || ९ || पुत्रबीजमिति ज्ञेयं पुत्रीबीजमतः शृणु | पंचमात् पंचमं गृह्य बिन्दुनाद समन्वितम् || १० || पुत्रीबीजमिति ख्यातं स्थापनं शृणु तत्वतः | रत्नन्यासं तु कर्तव्यं पंचरत्नं तु मूलतः || ११ || नयनं मोक्षणं कुर्याद् पंचब्रह्म समन्वितम् | अक्षिहोमं ततः कुर्याद् आज्येनैव शताहुतिः || १२ || तर्पयेन्मधुसर्पिश्च सवत्सांगां प्रदर्शयेत् | जलाधिवासनं कुर्यान् मूलमन्त्रेण देशिकः || १३ || प्रच्छन्न पटसंयुक्तं कलशान्लोकपालकान् | एकरात्रं त्रिरात्रं वा पंचरात्रमथापि वा || १४ || जलादुत्तीर्य पूर्वेद्युः पंचगव्येन स्नापयेत् | पूर्वोक्तमण्डपे रम्ये मध्ये वेदिकया युतम् || १५ || प्. ३५३) कुण्डानि कारयेत् तत्र नव वा पंच एव वा | वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् || १६ || आग्नेययां पुत्र कुण्डं तु नैर्-ऋत्यां पुत्रिकुण्डकम् | वास्तु होमं दिवा कुर्याल्लक्षणेन समन्वितम् || १७ || वेदिमध्ये न्यसेच्छालिं तण्डुलं च तिलं न्यसेत् | शयनं पंचभिः कल्प्य गन्धपुष्पादिनार्चयेत् || १८ || प्रतिमस्येश दिग्भागे ज्येष्ठा कुम्भं न्यसेत् क्रमात् | दक्षिणे वामपार्श्वे तु पुत्रं पुत्री समन्वितम् || १९ || पूर्वादीशानपर्यन्तं अष्टकुंभान् न्यसेत् क्रमात् | वामादि शक्ति संयुक्तं काकं च क्रमान् न्यसेत् || २० || वामादिशक्ति संयुक्तं काकं चाग्नेयकुम्भकम् | सवस्त्रां सापिधानां च सहिरण्यं स कूर्चकम् || २१ || गन्धपुष्पादिनाभ्यर्च्य पायसान्नं निवेदयेत् | ततो होमं प्रकुर्वीत पालाशसमिधा सह || २२ || समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् | शालिनीवारगोधूम मुद्गे नैव समन्वितम् || २३ || पंचब्रह्म षडंगैश्च हुत्वान्ते तु यथाक्रमम् | मूलमन्त्रेण विप्रेन्द्र ! अष्टोत्तरशताहुतिः || २४ || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || २५ || प्. ३५४) ततो वासनहोमं तु समिदाज्यचरूयुतम् | मूलमन्त्रेण होतव्यं प्रत्येकं तु शताहुतिः || २६ || हुत्वान्ते तु यदस्येति हुत्वा पूर्णाहुतिं ततः | उत्थाप्य शयनाद्देवीं स्थापयेन् मानुषे पदे || २७ || प्रधानकुम्भमादाय मूलेन स्थापयेत् पुनः | पंचब्रह्म शिवांगैश्च स्नापयेच्छक्ति कुम्भकान् || २८ || अर्चयेद् गन्धपुष्पाद्यैः पायसान्नं निवेदयेत् | ब्राह्मणान् भोजयेत् तत्र शैवान् संभोजयेत् ततः || २९ || नित्यार्चनविधिं वक्ष्ये शृणुष्व चतुरानन ! | अंगन्यासकरन्यासं पंचब्रह्मेण कारयेत् || ३० || पाद्यार्घ्याचमनीयं च हृदयेन तु दापयेत् | आवाहयेत् तु सद्येन वामेन स्थापनं भवेत् || ३१ || अभिषेकं तु मूलेन अर्चयेद् धृदयेन तु | हृदयेन चरुं दद्यान् नित्योत्सवं तु कारयेत् || ३२ || महोत्सवं प्रवक्ष्यामि ध्वजारोहणकं ततः | प्रासादस्य समोत्सेधं ध्वजदण्डं विधीयते || ३३ || * * * * ध्वजपटं हस्तमध्ये तु लेखयेत् | भेरीताडनकं कृत्वा अंकुरार्पणमेव च || ३४ || शिवोत्सव क्रमेणैव उत्सवं कारयेत् ततः | ततो ग्रामबलिं दद्यात् शुद्धान्नं प्रतिसमायुतम् || ३५ || प्. ३५५) प्रथमं भूतरात्रं तु द्वितीयं गणरात्रकम् | तृतीयमृषिरात्रं तु चतुर्थं गन्धमुच्यते || ३६ || पंचमं ब्रह्मरात्रं तु षष्ठं वा कलिरात्रकम् | ज्येष्ठांशं सप्तमं रात्रमित्येता रात्रिदेवताः || ३७ || चूर्णोत्सवं ततः कुर्यात् तीर्थं कृत्वा ततो बुधः | स्नपनं कारयेत् तत्र लक्षणेन समन्वितम् || ३८ || अष्टोत्तरशतं वापि पंचाशत् पंचविंशतिः | एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् || ३९ || इति वीरतन्त्रे ज्येष्ठा स्थापनविधिः षट्सप्ततितमः पटलः || ७६ || लोकनाथं प्रणम्यादौ ब्रह्मा पृच्छति शंकरम् | स्नपनं विविधं किं वा तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | ग्रहणे विषुवे चैव अयने व्यतिपादके || २ || षडशीति मुखे चैव प्रतिष्ठे चोत्सवान्तिके | अद्भुतानां समुत्पन्ने प्रायश्चित्तादि संभवे || ३ || एवमादिषु सर्वेषु स्नपनं तत्र कारयेत् | प्रासादस्याग्रतश्चैव मण्डपं चतुरश्रकम् || ४ || त्रिहस्तं पंचहस्तं वा षट्सप्ताष्टनवं तथा | एकादशकरं वाथ त्रयोदशकरं तु वा || ५ || प्. ३५६) पंचादशकरं वाथ मण्टपं कारयेत् ततः | अधमं पूर्वत्रयं सिद्धं मध्यमं चापरं भवेत् || ६ || प्रोक्तं तु नवभेदेन चोच्यते तन्मया द्विज ! | ऋषिच्छन्दो देवता वक्ष्ये शृणुष्व कमलासन ! || ७ || अगस्त्येन समायुक्तं जगतीच्छन्दसा युतम् | आदित्येन समायुक्तं उत्तमत्रयमुच्यते || ८ || वसिष्ठेन समायुक्तं शक्वरीच्छन्द उच्यते | विघ्नेशेन समायुक्तं मध्यमं त्रयमुच्यते || ९ || व्यासेन च समायुक्तं अनुष्ठुभ्छन्दसा युतम् | छन्देनैव समायुक्तं अधमत्रयमुच्यते || १० || चतुरश्रं समं कृत्वा प्रपां वा मण्टपं तु वा | मण्टपं नवषट्त्रिंशत् * * * गात्र संयुतम् || ११ || षोडशं द्वादशं वाथ पूर्वोक्तेन विधानतः | पूर्वोक्तेन विधानेन मण्टपं कारयेत् ततः || १२ || अधमत्रयं विद्धि मध्यममुत्तरं चापरं भवेत् | प्रोक्तं तु नवभेदेन प्रोच्यते तु मया द्विज ! || १३ || ऋषिच्छन्दो देवताश्च तव स्नेहात् प्रजापते | वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलंकृतम् || १४ || अष्टदिक्षु ध्वजान् न्यस्य लोकपालान् लिखेत् ततः | चतुर्द्वार समायुक्तं चतुस्तोरण संयुतम् || १५ || प्. ३५७) दर्भमालाभिरावेष्ट्य नारिकेल फलैर्युतम् | सृक्पट्टदेवांगैः नेत्रदीपैरलंकृतम् || १६ || पुष्पमाला समायुक्तं सर्वालंकार संयुतम् | सहस्रकलशं चैव उत्तमोत्तममुच्यते || १७ || पंचशतेन संयुक्तं उत्तमं मध्यमं भवेत् | पंचाशदधिक द्विशतं उत्तमाधममुच्यते || १८ || अष्टोत्तरशतं चैव मध्यमोत्तममुच्यते | एकाशीतिस्तु मध्यं स्यान् मध्यमस्य विशेषतः || १९ || एवं नवविधं प्रोक्तं उत्तमोत्तमकं शृणु | सुमुहूर्ते च सुलग्ने च सूत्रपादं तु कारयेत् || २० || रजन्या शालिपिष्टेन कर्तव्यं लक्षणान्वितम् | अष्टाधिकं च विप्रेन्द्र ! चत्वारिंशच्च संयुतम् || २१ || सूत्रं पादं प्रकर्तव्यं प्रागग्राणि हविर्न्यसेत् | उत्तराग्रं तथैव स्यादेवमेव क्रमेण तु || २२ || मात्रांगुलेन विप्रेन्द्र ! अन्तरं ताल मात्रकम् | मध्यमे पंचविंशत्तु तद्द्वयावृत वीथिकान् || २३ || बाह्ये पंचदशं स्थित्वा पदद्वयं तु वीथिका | बाह्ये पदद्वयं न्यस्त्वा पंच पंच पदान्तरे || २४ || पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा | एवमेव क्रमेणैव विधीनां लोपयेत् क्रमात् || २५ || प्. ३५८) मध्यमात् परितो विप्र ! अष्टव्यूहान्व्यपोह्य च | व्यूहान्तरे प्रकर्तव्यं व्यूहस्थापनमाक्रमात् || २६ || तद्बाह्ये परितो विप्र ! कलशस्थानमुच्यते | पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् || २७ || शालिना विकिरेत् तत्र लक्षणेन समन्वितम् | कलशान्प्रति निक्षिप्य अर्धकं चोत्तमं भवेत् || २८ || द्विप्रस्थं मध्यमं प्रोक्तं प्रस्थं चाधममुच्यते | एवमेव प्रकारेण हीनं चापि न कारयेत् || २९ || हीनं चेच्छिव विप्रेन्द्र ! व्याधिरोगभयं ददेत् | शाल्यर्ध तण्डुलं न्यस्य तण्डुलार्धतिलं न्यसेत् || ३० || तिलतण्डुलहीने तु ज्वरादि पीडनं भवेत् | पद्ममष्टदलं चैव दर्भैश्चैव परिस्तरेत् || ३१ || पुण्याहं वाचयेत् तत्र शुद्धैरुत्थैरिति ब्रुवन् | कलशानां विधिं वक्ष्ये उत्तमं द्रोणपूरितम् || ३२ || शिवपूरितं मध्यमं आढकेनाधमं भवेत् | अपक्वमति पक्वं च हीनं कालं च वर्जयेत् || ३३ || एवमेव प्रकारेण कलशान्गृह्य यत्नतः | त्रिगुणी कृतमोरं वा वेष्टयेत् कुंजराक्षवत् || ३४ || क्षालयेद्वारिणा विप्र ! दर्भोपरि न्यसेद्धृदा | शुद्धोदकेन संपूर्णं कूर्चमध्ये विनिक्षिपेत् || ३५ || प्. ३५९) मध्यमे स्थापयेत् कुंभं प्रासादेन तु मन्त्रतः | पंचासनोपरिष्टात् तु स्थापयेत् कुम्भमेव च || ३६ || वर्धनीं स्थापयेद् विद्वान् गौरीबीजेन मन्त्रतः | गन्धपुष्पादिनाभ्यर्च्य व्योमव्यापि समुच्चरन् || ३७ || शिवकुम्भं च वर्धन्यां पूजयेत् तु विशेषतः | पूर्वादीशान पर्यन्तं अष्टकुम्भान् न्यसेत् क्रमात् || ३८ || विद्येश्वर समायुक्तान् गन्धपुष्पादिनार्चयेत् | विद्येशानां सुवर्णं च विन्यसेद्देशिकोत्तमः || ३९ || वस्त्रयुग्मेन संवेष्ट्य कलशानां प्रतिष्ठितम् | उत्तमं दशहस्तं तु मध्यमं चाष्टहस्तकम् || ४० || षट्सप्तमधमं प्रोक्तं वस्त्रदैर्घ्यमिहोच्यते | विस्तारं तु चतुस्तालं कलशान्वेष्टयेत् क्रमात् || ४१ || एलालवंग कर्पूरं तीन् पूजातिलं मुरम् | चूर्णितं हृदये नैव विन्यसेदेशिकुम्भके || ४२ || पूर्वादि विन्यसेद् व्यूहात्कलशान्देशिकोत्तमः | वस्त्रैर्धूपैश्च दीपैश्च गन्धैश्चैव तु पूजयेत् || ४३ || एकैकं कलशान् सर्वान् हृदयेन तु विन्यसेत् | मध्य व्यूहं तु विन्यस्य बाह्य व्यूहं पदं न्यसेत् || ४४ || व्यूहं प्रति न्यसेत् कुंभान् पंचविंशति संख्यया | आज्यं चैव तु पूर्वे तु आग्नेययां दधि विन्यसेत् || ४५ || प्. ३६०) गोमूत्रं याम्यदेशे तु क्षीरं निर्-ऋतिगोचरे | वारुण्यां तु मधुन्यस्य वायव्यां तु नलं न्यसेत् || ४६ || गोमयं चोत्तरे भागे ईशे गोरोचनां न्यसेत् | एवमेव प्रकारेण व्यूहं प्रति न्यसेत् ततः || ४७ || मुद्गं माषं च शिम्बं च यववेणु प्रियंगवः | सर्षपं शालिना चैव विदिक्षु विन्यसेत् ततः || ४८ || अजंगपालिविबुधो वज्रदेहः प्रमर्दनः | विभूतिरव्ययः शास्ता पिनाकी प्रमथाधिपः || ४९ || याम्ये मृत्युर्हरोधाता विधाता कर्तृकारकः | पूर्वादि विन्यसेद् विद्वान् प्रदक्षिणक्रमेण तु || ५० || एतद् द्रव्यांश्च सर्वेषां कलशानां प्रपूरयेत् | अलाभे चैव विप्रेन्द्र ! यथालाभं विनिक्षिपेत् || ५१ || तद्बाह्ये व्यूहमेवं तु चतुर्विंशतिरेव च | कलशान्पंचविंशांस्तु व्यूहं प्रति न्यसेत् क्रमात् || ५२ || एलालवंग तक्कोलनिम्बजातिफलं मुरम् | कुष्ठं च कुंकुमं चैव रघुमांचि तथैव च || ५३ || पनसं कदलीयुक्तं इक्षूदकं तथैव च | उशीरं चन्दनं चैव तृणकच्चोलजम्बकम् || ५४ || मनश्शिलाहरितालं च पुष्पोदकफलोदकम् | लोध्रं च कुंकुमं चैव चतुर्विंशति संयुतम् || ५५ || प्. ३६१) यावत् साधितकलशं तावद्वैचान्तरोदकम् | अग्निरुद्रोद्भुताशी च पिंगलः खाततो हरः || ५६ || ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकः | शालिनीवारगोधूम प्रियंगुं चैव संयुतम् || ५७ || पंचब्रह्मषडंगेन यथा क्रमेण हूयते | त्रियम्बकेन मन्त्रेण * * * * * * * * || ५८ || * * * * * * * * हव्यवाहं समुच्चरन् | लोहं च कुंकुमं चैव चतुर्विंशति संयुतम् || ५९ || यावद् ग्रथितकलशान्तां चैवान्तरोदकम् | कालरुद्रश्च विख्यातः सर्वधर्म पतिस्तथा || ६० || संयोक्ता च नियोक्ता च नियोक्ता च प्रकीर्तिता | लोकान्तरः स्फुटा लोकः त्र्यम्बको नागभूषणः || ६१ || विश्वक्लिन्नोदभासेन धर्मकृच्चैव कीर्तिताः | एतेषां देवतानां तु व्यूहे व्यूहे प्रकीर्तिताः || ६२ || द्रव्यं च देवतायुक्तं कलशेषूदकं न्यसेत् | पूर्वाभिमुखं संस्थाप्य शिवोमां चैव देशिकः || ६३ || इतरेषां तु देवानां शिवाभिमुखमेव च | गन्धपुष्पादिना चैव कलशान्प्रतिपूजयेत् || ६४ || वस्त्रेण वेष्टयेत् सर्वान् स्वर्णं तत्रैव निक्षिपेत् | ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् || ६५ || प्. ३६२) यावदश्रं भवेत् पीठं तावदश्रं तु स्थण्डिलम् | समिदाज्य चरून्लाजान् सर्वद्रव्य समायुतम् || ६६ || स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरे | चित्तादीनि जयादीनि होमयेत् तु विशेषतः || ६७ || हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे | गन्धपुष्पादिनाभ्यर्च्य शिवकुंभं च वर्धनीम् || ६८ || सर्वदेवान् समाहूय स्तोत्रशब्द समन्वितम् | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || ६९ || सृष्टि न्यासक्रमेणैव स्वस्वदेहे न्यसेत् क्रमात् | मूलबेरमनुप्राप्य निर्माल्यं च विसर्जयेत् || ७० || नववस्त्रपरीधानः सोष्णीषः सोत्तरीयकः | पंचासनो परिष्टात् तु शिवं ध्यायेद् विचक्षणः || ७१ || शिरसा धारयेत् कुम्भं वर्धन्यां चैव कारयेत् | ततो गर्भगृहं गत्वा प्रासादेन समन्वितम् || ७२ || व्योमव्यापिं जपित्वा तु पंचब्रह्मषडंगकैः | स्थापयेच्छिवकुम्भं तु वर्धन्यां पीठकं न्यसेत् || ७३ || पूर्वादीशान पर्यन्तं स्नापयेद् अष्टकुम्भकैः | यथा स्थापनमार्गेण स्थापयेत् परमेश्वरम् || ७४ || नालिकेरोदकं स्नाप्य शुद्धिं कृत्वा तु भूतलम् | वस्त्रं दद्याद् हृदा चैव गन्धपुष्पं च दापयेत् || ७५ || प्. ३६३) नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः | आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः || ७६ || स्नपनोपकरणं सर्वं आचार्याय प्रदापयेत् | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ७७ || सहस्रकलशं प्रोक्तं अथ पंचशतं शृणु | इति वीरतन्त्रे सहस्रकलशस्थापनविधिः सप्तसप्ततितमः पटलः || ७७ || प्रणम्य भगवन्तं हि पर्यपृच्छत् पितामहः | को वा पंचशतं स्नानं ब्रूहि मे परमेश्वर ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये श्रूयतां चतुरानन ! | प्रासादस्याग्रतः कुर्यान् मण्डपं चतुरश्रकम् || २ || वितानोपरि सं * * दर्भमालोपशोभितम् | चतुस्तोरण संयुक्तं दर्भमालोपशोभितम् || ३ || अष्टमंगलसंयुक्तं दिग्ध्वजैश्च प्रलम्बितम् | मुक्तादामैरलंकृत्य मण्डपं मण्डयेत् ततः || ४ || गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् | त्रिंशत् सूत्र समायुक्तं प्रागग्राणि विन्यसेत् || ५ || उदगग्रं तथैव स्याद् विन्यसेद् देशिकोत्तमः | मध्ये नवपदं पद्मं अष्टपत्रं सकर्णिकम् || ६ || प्. ३६४) द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् | तद्बाह्ये तु परितः पदं पंच स्थितानि तु || ७ || एवमेव प्रकारेण कर्तव्यं लक्षणान्वितम् | शालिना विकिरेत् तत्र आढकं कलशं प्रति || ८ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् || ९ || त्रिगुणीकृतसूत्रेण वेष्टयेत् कुंजराक्षवत् | शुद्धोदकेन संपूर्य कुम्भमादाय मण्डपे || १० || प्रासादेन तु मन्त्रेण स्थापयेच्छिवकुम्भकम् | वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् || ११ || वस्त्रयुग्मेन संवेष्ट्य वेष्टयेद् द्विगुणोपरि | कूर्चं तत्रैव निक्षिप्य नवरत्नानि विन्यसेत् || १२ || वर्धन्यां पंचरत्नं तु विन्यसेद् देशिकोत्तमः | शिवकुम्भे शिवं स्थाप्य वर्धन्यां च मनोन्मनीम् || १३ || अभितः कलशानष्टौ विद्येश्वर समन्वितम् | वस्त्रयुग्मेन संवेष्ट्य स्वर्णं तत्रैव विन्यसेत् || १४ || प्रथमावरणे ह्येवं द्वितीयावरणं शृणु | द्वितीयावरणे चैव षट्सप्तति च विन्यसेत् || १५ || पंचमावरणं चैव चत्वार्यधिकमेव च | अशीतिकलशं चैव विन्यसेद् देशिकोत्तमः || १६ || प्. ३६५) षष्ठावरणके चैव कलशान् विन्यसेद् बुधः | तृतीयावरणे चैव अष्टाविंशति विन्यसेत् || १७ || चतुर्थावरणे चैव नवतिं द्व्यधिकं तथा | सप्तमावरणे चैव शतकुम्भांश्च विन्यसेत् || १८ || अष्टोत्तरशतं चैव अष्टमावरणे न्यसेत् | कूर्चान् कलश संयुक्तान् शुद्धोदकेन पूरितान् || १९ || शाल्योपरि न्यसेत् कुंभान् हृदयेन तु मन्त्रतः | उत्कूर्चं पौष्टिकं चाहुरधः कूर्चं तु शान्तिकम् || २० || अतः कृत्वा तु सर्वेषां आभिचारिकमुच्यते | एलालवंगतक्कोल निम्बुजाती फलैर्युतम् || २१ || उशीरं चन्दनं चैव प्रथमावरणे न्यसेत् | गोमूत्रं गोमयं चैव दधिक्षीरं घृतं तथा || २२ || रोचनं चर्करं चैवमधुना च समन्वितम् | सर्षपं मुद्गमाषं च प्रियंगुं च समन्वितम् || २३ || द्वितीयावरणे न्यस्य देवतानां शृणुष्वथ | अजः कापालि बुद्धी च वज्रदेहः प्रमर्दनः || २४ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | अग्नीरुद्रो हुताशश्च द्वितीयावरणे न्यसेत् || २५ || कर्पूरं गिरिबेरं च तृणकच्चोलजम्बुकम् | तृतीयावरणे न्यस्य देवतानां शृणुष्वथ || २६ || प्. ३६६) ज्वलनो दहनो बभ्रुः भस्मान्तक क्षयान्तकौ | आग्नेयादिषु कोणेषु क्रमाद्विन्यस्य देवताः || २७ || धाता पूर्वा च तक्कोलं पुन्नागं जातिपाटली | चतुर्थावरणे न्यस्य देवतानां शृणुष्वथ || २८ || कालरुद्रश्च विख्यात धर्माधर्म परिस्तथा | संयोक्ता च समायुक्तं पंचमावरणे न्यसेत् || २९ || पंचासनं तु संकल्प्य स्नापयेच्छिवकुम्भकम् | व्योमव्यापिं जपेत् तत्र ब्रह्मांगैश्च समन्वितम् || ३० || वर्धन्यां गौरिबीजेन विन्यसेत् पीठके ततः | यथा स्थापितमार्गेण स्नापयेत् कलशांस्ततः || ३१ || पंचवर्णहविर्दद्यात् ताम्बूलं दापयेत् ततः | आचार्यदक्षिणां दद्यात् पंचांगभूषणैस्सह || ३२ || स्नपनोपकरणं सर्वमाचार्याय प्रदापयेत् | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ३३ || पंचशतस्नपनं प्रोक्तं पंचाशद् द्विशतं शृणु | इति वीरतन्त्रे पंचशतस्नपनविधिः अष्टसप्ततितमः पटलः || ७८ || पितामहः || पंचाशदधिकं चैव शतद्वयेन संयुतम् | स्नपनं कीदृशं देव ! तत्सर्वं ब्रूहि मे प्रभो ! || १ || प्. ३६७) ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासादस्याग्रतश्चैव मण्डपं चतुरश्रकम् || २ || सर्वालंकारसंयुक्तं सूत्रपादं तु कारयेत् | द्वाविंशतिश्च सूत्राणि पूर्वाभिमुखमेव च || ३ || उत्तराभिमुखं तद्वत् तालमात्रेण चान्तरम् | नवपादेषु पद्मं स्याद् अष्टपत्रं सकर्णिकम् || ४ || पद्मबाह्ये तु परितो ह्रासयेच्च पदत्रयम् | यद्बाह्ये वरणाद्बाह्ये पदद्वयं च ह्रासयेत् || ५ || द्वारार्थं च चतुर्दिक्षु पदमेकं तु ह्रासयेत् | शतद्वयं च पंचाशत् पदान्यत्र स्थितानि तु || ६ || शालिना विकिरेत् तत्र तण्डुलैश्च तिलैस्सह | दर्भैः परिस्तरेत् तत्र गन्धपुष्पादिनार्चयेत् || ७ || कलशान् गृह्य यत्नेन सूत्रेणैव समन्वितान् | त्रिगुणी कृतसूत्रेण वेष्टयेत् कुंजराक्षवत् || ८ || पूर्वेद्युरधिवासं स्यात् प्रासादेन तु मन्त्रतः | जलभाण्डं समादाय सेचयेदुदकं हृदा || ९ || गन्धद्रव्य समायुक्तं वस्त्रपूतेन वारिणा | एलालवंग तक्कोलैरुशीर चन्दनैर्युतम् || १० || पंचद्रव्येण संयुक्तं गन्धद्रव्यविमिश्रितम् | विन्यसेच्छिवकुंभं तु व्योमव्यापिं समुच्चरन् || ११ || प्. ३६८) वधनीं तस्य वामे तु गौरीबीजेन विन्यसेत् | अभितः कलशानष्टौ विद्येश्वर समन्वितम् || १२ || वस्त्र युग्मेन संवेष्ट्य विणिकादींश्तु वेष्टयेत् | वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् || १३ || पुष्यरागं च गोमेधमिन्द्रनीलं च मौक्तिकम् | विन्यसेच्छिव कुम्भे तु वर्धन्यां पंचरत्नकम् || १४ || विद्येश कलशे विप्र ! स्वर्णकं तत्र निक्षिपेत् | बाह्यावरणकं तत्र षट्त्रिंशत्कलशान् न्यसेत् || १५ || सिद्धार्थं तिलमुद्गं च शिम्बं चैव तु विन्यसेत् | कपालीशो वज्रपाणिः पिनाकी त्रिदशाधिपः || १६ || एतेऽधि देवताः प्रोक्ता द्वितीयावरणे न्यसेत् | तृतीयावरणे चैव कलशान् षष्टि विन्यसेत् || १७ || एलालवंग जाती च तक्कोलं चैव विन्यसेत् | पनसं कदली चैव मातुलुंगफलानि च || १८ || नारंगस्य द्वयं चैव विन्यसेत् तु फलोदकम् | याम्यं मृत्युहरं चैव धाता धर्मपतिस्तथा || १९ || एतेऽपि दैवताः प्रोक्ताश्चतुर्थावरणे न्यसेत् | पंचमावरणं चैव षट्सप्ततिं न्यसेत् ततः || २० || मुरं मांजीव कुष्ठं च तिम्बुं चैव तु विन्यसेत् | कालरुद्रो हुताशश्च ज्वलनो दहनस्तथा || २१ || प्. ३६९) एतेऽपि दैवताः प्रोक्ताः पंचमावरणे न्यसेत् | द्रव्यं च देवता युक्तं कोणे कोणे च विन्यसेत् || २२ || ततो होमं प्रकर्तव्यं चतुर्दिक्ष्वष्टदिक्षु वा | हृदा च समिधो हुत्वा हृतं तु शिरसा तथा || २३ || शिखया च चरुं हुत्वा लाजान्कवच मन्त्रतः | सर्षपं * * * * * नेत्रमन्त्रेण चैव हि || २४ || प्रशान्तमनसो भूत्वा प्रत्येकं तु शताहुतिः | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || २५ || स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरे | दिशास्वध्ययनं कुर्यात् स्तोत्रमन्त्रं जपेत् ततः || २६ || आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः | स्नापयेच्छिवकुम्भं तु प्रासादेन तु मन्त्रतः || २७ || प्रथमावरणे स्नात्वा द्वितीयावरणे पुनः | तृतीयावरणं पश्चात् चतुर्थावरणं पुनः || २८ || पंचमावरणं पश्चाद् पंचब्रह्मषडंगकैः | पंचवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः || २९ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | पंचाशद् द्विशतं प्रोक्तं उत्तम त्रयमुच्यते || ३० || मध्यम त्रयके विप्र ! अष्टोत्तरशतं शृणु || ३० || इति वीरतन्त्रे पंचाशद् द्विशतस्नपनविधिः एकोनाशीतितमः पटलः || ७९ || प्. ३७०) पितामहः || मध्यमस्योत्तमं देव ! कीदृशं स्नपनं प्रभो ! | एतत् सर्वं समासेन अष्टोत्तरशतं त्वथ || १ || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् || २ || पूर्वोक्तमण्टपे रम्ये विमानोपरिशोभिते | चतुस्तोरणसंयुक्तं दर्भमालाभिरावृतम् || ३ || अष्टदिक्षु ध्वजान् न्यस्य पुष्पमालावलम्बितम् | स्तम्भानि वेष्टयेत् तत्र गोमयेनानु लेपयेत् || ४ || सूत्रपादं प्रकर्तव्यं तालमात्रेण चान्तरम् | द्विविधं सूत्रपादं तु शान्तिकं पौष्टिकं तथा || ५ || चतुर्दशानि सूत्राणि पूर्वाग्रं चैव विन्यसेत् | उत्तराग्रं तथैव स्याद् सूत्रस्यैतानि निर्दिशेत् || ६ || मध्ये नवपदं स्थित्वा परिच्छेदपदं न्यसेत् | चतुर्दिक्षु च विप्रेन्द्र ! द्वारार्थं तु पदं ततः || ७ || तद्बाह्यावरणाद्वाह्ये परितो विधिरुच्यते | तस्य बाह्ये तु परितः पदद्वय स्थितानि तु || ८ || एवमेव क्रमेणैव शान्तिकं प्रविधीयते | इदमन्यत् प्रवक्ष्यामि चक्रस्थापनमुच्यते || ९ || पूर्वाग्रे चैव विप्रेन्द्र ! युग्मसूत्रं प्रदापयेत् | उत्तराग्रं तथैव स्यात् तालमात्रेण चान्तरम् || १० || प्. ३७१) तालत्रय प्रमाणेन भ्रामयेत् पूर्णचन्द्रवत् | तासां पूर्वे दिशो विप्र ! तालमात्रेण चान्तरम् || ११ || अष्टवृत्तं ततो भ्राम्य वीथी चत्वार एव च | चतुर्भिः कलशान्न्यस्य पौष्टिकं त्विह चोच्यते || १२ || द्वारार्थं च चतुर्दिक्षु ह्रासयेत् तु विशेषतः | शालिना विकिरेत् तत्र अधिकं कलशान्प्रति || १३ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् | परिस्तरेच्च दर्भैश्च पुण्याहं वाचयेत् ततः || १४ || कलशान् ग्राहयेत् तत्र शुद्धदेशे मृदं ततः | अस्त्रमन्त्रेण कृत्वा तु वामेन शोषणं भवेत् || १५ || ईशानेन दहेद्विद्वान् सर्वलक्षण संयुतम् | आढकेन तु संपूर्णान् अधमं तु विधीयते || १६ || मध्यमं शिवसंपूर्णं उत्तमं द्रोणपूरितम् | भिन्नं कालं च सुषिरं भेदच्छेदं च वर्जयेत् || १७ || सूत्रेण वेष्टयेत् कुम्भान् कुंजरस्याक्षिवद्भवेत् | शरावं चैव विप्रेन्द्र सूत्रेण वेष्टयेत् ततः || १८ || क्षालयेदुदके नैव दर्भस्योपरि विन्यसेत् | प्रधान कलशं विप्र ! शुद्धोदकेन पूरयेत् || १९ || पंचरत्नं क्षिपेत् तत्र वस्त्रयुग्मेन वेष्टयेत् | कलशस्य मुखे रुद्रं विष्णुं मध्यमके न्यसेत् || २० || प्. ३७२) पृष्ठे प्रजापतिः ख्यातो तीर्थानि कुक्षिरुच्यते | मध्यमे शिवकुम्भं तु प्रासादेन तु विन्यसेत् || २१ || वर्धनीं तस्य वामे तु गौरीबीजेन विन्यसेत् | शिवकुम्भे शिवं पूज्य वर्धन्यां गौरिमेव च || २२ || गन्धपुष्पादिनाभ्यर्च्य विद्येशकलशान् न्यसेत् | पूर्वादीशानपर्यन्तं अष्टकुम्भांश्च विन्यसेत् || २३ || सवस्त्रान्सहिरण्यांश्च सकूर्चान्वारिपूरितान् | प्रथमावरणं ह्येतद् द्वितीयावरणं शृणु || २४ || द्वादशान् कलशान् न्यस्य द्रव्याणां च ततः शृणु | पाद्यमाचमनं चार्घ्यं गोमूत्रं गोमयं पयः || २५ || दध्याज्यमष्टमं प्रोक्तं द्वितीयावरणे न्यसेत् | तृतीयावरणे चैव चतुर्विंशत् कला न्यसेत् || २६ || चन्दनं कुंकुमं कुष्ठं लघुमांचीमुरंगुलम् | लाजाचूर्ण शमी चैव नीवारं नालिकेरकम् || २७ || मधुरिक्षुरसं बिल्वं फलं कुशयवं तिलम् | कर्पूरं हरिबेरं च विंशतिं कलशान् न्यसेत् || २८ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | अग्नीरुद्रो हुताशश्च पिंगलः खातको हरः || २९ || ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ | एतेऽपि दैवताः प्रोक्ताः कलशेषूदके न्यसेत् || ३० || प्. ३७३) तृतीयावरणं प्रोक्तं चतुर्थावरणं शृणु | चतुश्चत्वारि कलशान् चतुर्थावरणे न्यसेत् || ३१ || लोहं प्रियंगु पुष्पं च लवंगं फलमल्लिका | दान्तदूर्वा च तक्कोलं पुंनागं जाति पाटली || ३२ || पर्णका शतपत्री च तैलं कस्तूरिरोचना | व्याघ्रनखीशतावेरी मंजिष्ठा नागकेसरम् || ३३ || नवनीतं द्राविलं सा गन्धपत्रं च धातकीइ | भीता च सहदेवी च विष्णुक्रान्तिः सुवर्चला || ३४ || * न्नि च शंखपुष्पी च लक्ष्मी स्थलारविन्दकम् | बलभद्री महाभद्री अपामार्गेन्दु वल्लिका || ३५ || रुद्रपर्णी महालक्ष्मी धूर्धूरेण समन्वितम् | चतुर्थावरणे चैव विन्यसेद् देशिकोत्तमः || ३६ || याम्यो मृत्युहरो धाता विधाता कर्त्ररेव च | कालरुद्रश्च विख्यातो धर्माधर्मपतिस्तथा || ३७ || संयोक्ता च वियोक्ता च नैर्-ऋते वारुणे तथा | हन्ता च क्रूरदृष्टिश्च ऊर्ध्वशेफो महाभुजः || ३८ || विरूपाक्षो धूम्रकर्णो लोहितो दंष्ट्रबाहुलः | अतिश्चलः पाशहस्तो महाबल एव च || ३९ || जयभद्रो महाबाहुर्बालान्तो बडवामुखः | विभीषणो महावेगो लघुवेगस्तथैव च || ४० || प्. ३७४) सूक्ष्मस्तीक्ष्णः क्षयान्तश्च पश्चाच्छान्तः पंचशेखरः | कपर्दी मेघवाहश्च जटामकुटधारकः || ४१ || नानारूपधरश्चैव निधीशोरूपवांस्तथा | धनुश्चैव तु विप्रेन्द्र ! कलशेषूदके न्यसेत् || ४२ || शिवस्य वर्धनीं चैव पूर्वाभिमुखमेव च | इतरेषां तु देवानां शिवाभिमुखमेव च || ४३ || एतच्छान्तिकमुद्दिष्टं पौष्टिकं च ततः शृणु | प्रथमावरणे चाष्टौ द्वितीये द्वादश न्यसेत् || ४४ || पूर्वोक्तेन तु मार्गेण यथा क्रमेण विन्यसेत् | देवतानां च विप्रेन्द्र ! चत्वारिंशद्घटान् न्यसेत् || ४५ || विन्यसेच्चैव विप्रेन्द्र ! पंचमावरणे बुधः | ततो होमं प्रकर्तव्यं चतुर्दिक्षु पलाशकैः || ४६ || समिदाज्यं चरुश्चैव सर्षपश्चैव हूयते | सद्यादीशानपर्यन्तं क्रमाद् हुत्वा शिवव्रतैः || ४७ || व्योमव्यापिं समुच्चार्य प्रत्येकं पंचविंशतिः | प्रासादेन तु मन्त्रेण पंचाशद्धूयते क्रमात् || ४८ || चित्तादिभिर्जयादिभिर्हूयते क्रमशस्ततः | हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे || ४९ || एकैकं कलशान्सर्वान् वस्त्रयुग्मेन वेष्टयेत् | आचार्यदक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः || ५० || प्. ३७५) गर्भगेहमनुप्राप्य निर्माल्यं च विसर्जयेत् | पश्चात् पंचासनं कल्प्य सृष्टिन्यासं प्रकल्पयेत् || ५१ || उत्थाप्य शिवकुंभं तु स्नापयेल्लिंगमूर्धनि | वर्धनीं तस्य वामे तु स्नापयेद् गौरि मन्त्रतः || ५२ || व्योमव्यापिं जपेत् तत्र शिवकुम्भं तु स्थापयेत् | पंचब्रह्म षडंगेन स्नापयेत् कलशं ततः || ५३ || प्रथमावरणं स्नात्वा द्वितीयं च तृतीयकम् | चतुर्थं पंचमं स्नात्वा एवमेवं क्रमेण तु || ५४ || पंचवर्ण हविर्दद्यात् ताम्बूलं तु निवेदयेत् | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || ५५ || मध्यमोत्तममेवं तु एकाशीतिं शृणुष्वथ | इति वीरतन्त्रे अष्टोत्तरशत स्नपनविधिः अशीतितमः पटलः || ८० || लोकनाथ नमस्कृत्य पर्यपृच्छत् पितामहः | एकाशीतिः कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || साधु साधु महाप्राज्ञ ! यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! || २ || प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् | पूर्वोक्ते नैव मार्गेण कारयेद् देशिकोत्तमः || ३ || प्. ३७६) कलशान्ग्राह्य यत्नेन सूत्रेणैव तु वेष्टयेत् | शुद्धोदकेन संपूर्य शरावेण विधायते || ४ || शालिनां विकिरेत् तत्र प्रत्येकमाढकैर्युतम् | शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || ५ || परिस्तरेत् तु दर्भैश्च स्थापयेच्छिव कुम्भकम् | प्रासादेन तु मन्त्रेण गौरीबीजेन वर्धनीम् || ६ || * * * सर्वरत्नं च कूर्चे नैव समन्वितम् | विन्यसेच्चैव विप्रेन्द्र ! अभितः कलशैर्युतम् || ७ || विद्येश्वर समायुक्तं सवस्त्रं सहिरण्यकम् | अधमं त्वष्टहस्तं स्यान् मध्यमं नवहस्तकम् || ८ || उत्तमं दशहस्तं च चतुस्तालं तु विस्तृतम् | पुराणं पुत्रनाशः स्यात् केशयुक्तं धनक्षयः || ९ || श्वेतं वा रक्तं पीतं वा संमिश्रं तु न कारयेत् | पूर्वे तु नव कुम्भं तु आग्नेययां नवकुम्भकम् || १० || याम्ये तु नव कुम्भं च नैर्-ऋत्यां नवकं न्यसेत् | वारुण्यां नवकं विद्वान् वायव्यां नवकं न्यसेत् || ११ || सोमे तु नवकं न्यस्य ऐशान्यां नवकं न्यसेत् | स वस्त्रान् सापिधानांश्च सकूर्चान् वारिपूरितान् || १२ || विन्यसेद् धृदये नैव शाल्योपरि विशेषतः | लोहं प्रियंगुपुष्पं च लवंगं फलमल्लिका || १३ || प्. ३७७) दान्ता दूर्वा च तक्कोलं पुन्नागं जातिपाटली | पर्णका शतपत्रं च तैलं कस्तूरि रोचना || १४ || व्याघ्रनखी शतावेरी मंजिष्ठा नागकेसरम् | रजनी भद्रकोष्ठं च सरलं कृष्णमालिका || १५ || भीता च सहदेवी च विष्णुक्रान्तिः सुवर्चला | सिंही च शंखपुष्पी च लक्ष्मी स्थलारविन्दकम् || १६ || बलभद्री महाभद्री अपामार्गेन्दुवल्लिका | रुद्रपर्णी महालक्ष्मीर्धूर्धूरेण समन्वितम् || १७ || एतेषां द्रव्यसंयुक्तं कलशेषु च विन्यसेत् | नद्यास्तीरे च गोष्ठे च बल्मीके वृषशृंगके || १८ || वराहगजदन्ते च पद्ममूले मृदा गृहेत् | विद्येशकुंभे निक्षिप्य पंचगव्येन संयुतम् || १९ || पूर्वायां नवके विप्र ! अमेव स्थापयेत् क्रमात् | वारुण्यां नवके चैव * * सं विन्यसेत् क्रमात् || २० || वायव्यं नवके चैव कुमारं विप्र ! विन्यसेत् | सौम्यायां विष्णुमावाह्य * * चण्डीशगोचरे || २१ || गन्धपुष्पादिनाभ्यर्च्य ततो होमं चतुर्दशी | समिदाज्य चरून्लाजान्सर्षपेन समन्वितम् || २२ || सद्यादीशानपर्यन्तं अष्टोत्तरशतं पृथक् | व्योमव्यापिं जपित्वा तु आज्येन पंचविंशतिः || २३ || प्. ३७८) हुत्वान्ते तु यदस्येति जुहुयात् तदनन्तरे | स्नापयेच्छिवकुम्भं तु व्योमव्यापिं समुच्चरन् || २४ || गौरीबीजेन वर्धन्यां स्नापयेद् देशिकोत्तमः | पंचब्रह्मषडंगेन स्नापयेत् कलशान् बुधः || २५ || पंचवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः | आचार्य दक्षिणां दद्यात् पदार्थीन् पूजयेत् ततः || २६ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | एकाशीतिरिति प्रोक्ता एकोनपंचाशत् शृणु || २७ || इति वीरतन्त्रे एकाशीतिस्नपनविधिः एकाशीतितमः पटलः || ८१ || पितामहः || प्रणम्य म् शिरसा देवं ब्रह्मा पृच्छति शंकरम् | एकोन पंचाशत्कोवा तत् सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् || २ || चतुस्तोरण संयुक्तं चतुर्द्वार विभूषितम् | दर्भमालाभिरावेष्ट्य वितानो परिसोभितम् || ३ || दिग्ध्वजैश्च समायुक्तं मुक्तादामैरलंकृतम् | गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् || ४ || प्रागग्रं दश सूत्राणि उदगग्रं तथैव च | मध्ये नवपदं स्थित्वा तद्बाह्येकं तु वीथिका || ५ || प्. ३७९) अष्टद्वार समायुक्तं कर्तव्यं लक्षणान्वितम् | शालिना स्थण्डिलं कृत्वा पूर्वोक्तेन विधानतः || ६ || शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिलं तथा | मध्यमेऽष्ट पदं कृत्वा गन्धपुष्पादिनार्चयेत् || ७ || शिवकुम्भं न्यसेन्मध्ये पंचरत्न समन्वितम् | वस्त्रद्वय समायुक्तं स कूर्चं सापिधानकम् || ८ || दिक्षु षट्कलशान् न्यस्य चत्वारि च विदिक्षु वै | कलशान् विन्यसेत् तत्र सवस्त्रं सापिधानकम् || ९ || गोमूत्रं गोमयं सर्पिर्दधि क्षीरं तथैव च | चन्दनं कुंकुमं चैव मेव मांजी मुरंगुलम् || १० || लाजं च गिरिवेरं च तृणकच्चोल जम्बुकम् | शतपुष्पं तथा व्याघ्री धात्री पूर्वा हरीतकी || ११ || हिता च सहदेवी च मातुलुंगं च दाडिमी | हंसपुष्पा गन्धपुष्पा महाद्रोणी समन्वितम् || १२ || कलशेषु न्यसेद् विद्वान् मुद्गं माषं च सर्षपम् | अजः कपालीं बुद्धिश्च वज्रदेहः प्रमर्दनः || १३ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | अग्नीरुद्रो हुताशी च पिंगलः पादको हरिः || १४ || ज्वलनो दहनो भद्रो भस्मान्तकक्षयान्तकौ | याम्यो मृत्युहरो धाता (विधाता) कर्णकारिका || १५ || प्. ३८०) कालरुद्रश्च संख्यातो धर्माधर्मपतिस्तथा | संयोक्ता च वियोक्ता च नियोक्ता च प्रकीर्तितः || १६ || अग्रगण्यः सदाचारः शर्वः शम्भुर्महेश्वरः | कालरुद्रश्च विख्यातो धाता धर्मपतिस्तथा || १७ || हन्ता च क्रूरदृष्टिश्च ऊर्ध्वकेशो महाभुजः | विरूपाक्षो धूम्रवर्णो लोहितो दंष्ट्र वा बुधः || १८ || पाशहस्तो महाबोधः कालकण्ठश्चतुर्भुजः | भूतपालो लोकपालः क्षेत्रपालस्तथैव च || १९ || सुखदुःखकरश्चैव * * * * * चिस्तथा | एतेपि दैवताः प्रोक्ताः कलशेषूदके न्यसेत् || २० || ततो होमः प्रकर्तव्यः चतुर्दिक्षु विदिक्षु च | ऐशान्यामेक होमं वा पलाशसमिधा सह || २१ || समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् | शालिनी वारगोधूम मुद्गे नैव समन्वितम् || २२ || पंचब्रह्म षडंगेन हुत्वा तु क्रमशो बुधः | हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् || २३ || व्योमव्यापिं जपित्वा तु स्नापयेच्छिवकुम्भकम् | गौरीबीजेन वर्धन्यां स्नापयेच्छिवकुम्भकम् || २४ || गौरीबीजेन वर्धन्यां स्नापयेत् पीठकोपरि | पंचब्रह्मषडंगेन स्नापयेत् सर्वकुम्भकम् || २५ || प्. ३८१) हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | एवं यः कुरुते मर्त्यः शिवलोके महीयते || २६ || प्रोक्तमेकोनपंचाशच्छृणुष्व पंचविंशतिम् | इति वीरतन्त्रे एकोनपंचाशत् स्नपनविधिः द्वयशीतितमः पटलः || ८२ || पितामहः || देवदेवं प्रणम्यादौ पर्यपृच्छत् पितामहः | स्नपनं पंचविंशच्च ब्रूहि मे परमेश्वर ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् || २ || चतुस्तोरण संयुक्तं दर्भमाला विभूषितम् | वितानोपरि संछन्नं दिग्ध्वजैश्च प्रलम्बितम् || ३ || सर्वालंकारसंयुक्तं मण्टपं कारयेत् ततः | गोमयालेपनं कृत्वा सूत्रपातं तु कारयेत् || ४ || प्रागग्रमष्टसूत्रं स्याद् उदगग्रं तथैव च | मध्ये नवपदं स्थित्वा तद्बाह्येक पदं त्यजेत् || ५ || अष्टवीथी समायुक्तं शालिना विकिरेत् ततः | आढकं वा तदर्धं वा प्रस्थं वा शालि विन्यसेत् || ६ || कलशान्प्रति विप्रेन्द्र तस्योर्ध्वे तण्डुलं न्यसेत् | तण्डुलार्धं तिलं न्यस्य दर्भांश्चैव परिस्तरेत् || ७ || प्. ३८२) शिवकुम्भं न्यसेन्मध्ये वस्त्रयुग्मेन वेष्टयेत् | पंचरत्न समायुक्तं स कूर्चं सापिधानकम् || ८ || गौरी बीजेन वर्धन्यां सवस्त्रं सहिरण्यकम् | पूर्वादीशानपर्यन्तं अष्टकुम्भांश्च विन्यसेत् || ९ || स्वर्णं तत्र विनिक्षिप्य विद्येश्वर समन्वितम् | पंचगव्य समायुक्तं सवस्त्रं सापिधानकम् || १० || चतुर्दिक्षु च विप्रेन्द्र ! द्वादशान्कलशं न्यसेत् | आग्नेयादिषु कोणेषु चत्वारः कुम्भ उच्यते || ११ || चन्दनं कुंकुमं चैव उशीरं मुद्गमेव च | एलालवंग तक्कोलं तिम्बुजातिफलंगुलम् || १२ || लघुमांचीरं चैव षष्ठं कुंकुममेव वा दान्ता दूर्वा च तक्कोलं पुंनागं जातिपाटली || १३ || लोघ्रं चैव प्रियंगुं च नालिकेर समन्वितम् | यथा क्रमेण विन्यस्य पूर्वादीशानमन्तकम् || १३ || अजः कपाली बुद्धिश्च वज्रदेहः प्रमर्दनः | विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः || १४ || अग्नीरुद्रो हुताशश्च पिंगलः खातको हरः | ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः || १५ || याम्यो मृत्युहरो धाता विधाता कर्तृकारकौ | कालरुद्रश्च विप्रेन्द्र ! कलशस्याधिदेवताः || १६ || प्. ३८३) गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्नैव मन्त्रतः | ततो होमं प्रकर्तव्यं पालाशसमिधा सह || १७ || स्थलिकं कारयेत् तत्र लक्षणेन समन्वितम् | समिदाज्यचरून्लाजान् सर्षपांश्च यवांस्तिलान् || १८ || शालिनी वारगोधूमयववेणु समन्वितम् | पंचब्रह्म षडंगेन यथा क्रमेण हूयते || १९ || हुत्वान्ते तु यदस्येति पूर्णाहुतिमथाचरेत् | आचार्य दक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः || २० || प्रासादेन तु मन्त्रेण स्नापयेच्छिवकुम्भकम् | गौरीबीजेन वर्धन्यां स्नापयेत् तु विशेषतः || २१ || व्योमव्यापिं समुच्चार्य स्नापयेत् कलशांस्ततः | पंचवर्ण हविर्दद्यात् ताम्बूलं दापयेत् ततः || २२ || एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् | पंचविंशतिरेवोक्ता षोडशं च ततः शृणु || २३ || इति वीरतन्त्रे पंचविंशति स्नपनविधिः त्र्यशीतितमः पटलः || ८३ || पितामहः || प्रणम्य भगवन्तं हि पर्यपृच्छत् पितामहः | कलशान् षोडशान् किं वा ब्रूहि मे परमेश्वर || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासाद स्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् || २ || प्. ३८४) दर्भमालाभिरावेष्ट्य चतुस्तोरणभूषितम् | विताने नोर्ध्वमाच्छाद्य दिग्धजैश्च प्रलम्बितम् || ३ || वस्त्रैरावेष्टयेद् विद्वान् मुक्तादामैरलंकृतम् | सर्वालंकार संयुक्तं सूत्रपातं तु कारयेत् || ४ || प्रागग्रमष्टसूत्रं स्याद् उदगग्रं तथैव च | मध्ये नवपदं स्थित्वा तस्यावृत पदं त्यजेत् || ५ || अष्टवीथी समायुक्तं तद्बाह्येक पदं स्थितम् | शालिना विकिरेत् तत्र पूर्वोक्तविधिना सह || ६ || शाल्यर्धं तण्डुलं न्यस्य तस्यार्धं तु तिलं न्यसेत् | परिस्तरेच्च दर्भैश्च गन्धपुष्पादिनार्चयेत् || ७ || मध्यमे शिवकुम्भं तु प्रासादेन तु विन्यसेत् | गौरी बीजेन वर्धन्यां स्थापयेद् देशिकोत्तमः || ८ || त्रयाणां कलशानां तु चतुर्दिक्षु च विन्यसेत् | आग्नेयादिषु कोणेषु चतुरः कलशान् न्यसेत् || ९ || शिवकुम्भे शिवं पूज्य चतूरत्न समन्वितम् | वस्त्रयुग्मेन संवेष्ट्य विणिकाभिरलंकृतम् || १० || गौरीं च वर्धनीं न्यस्य सवस्त्रं सहिरण्यकम् | गोमूत्रं गोमयं चैव क्षीरं दधिघृतं तथा || ११ || उशीरं चन्दनं चैव कुष्ठेनैव समन्वितम् | सद्यादीशानपर्यन्तं यथा क्रमेण विन्यसेत् || १२ || प्. ३८५) हुत्वान्ते तु यदस्येति पूर्णाहुति मथाचरेत् | स्नापयेच्छिवकुम्भं तु व्योमव्यापि समुच्चरन् || १३ || गौरीबीजेन वर्धन्यां स्नापयेत् तु विशेषतः | पंचब्रह्मषडंगेन स्थापयेत् कलशांस्ततः || १४ || नैवेद्यं पायसं दद्यात् ताम्बूलं तु निवेदयेत् | आचार्यदक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः || १५ || अधमे मध्यमं प्रोक्तं नवकुम्भं ततः शृणु | इति वीरतन्त्रे षोडशस्नपनविधिः चतुरशीतितमः पटलः || ८४ || पितामहः || प्रणम्य भगवन्तं हि परिपृच्छति शंकरम् | नवकुम्भाः कथं देव ! ब्रूहि मे परमेश्वर ! || १ || ईश्वरः || तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | प्रासादस्याग्रतः कुर्यान्मण्टपं चतुरश्रकम् || २ || चतुर्द्वार समायुक्तं चतुस्तोरण भूषितम् | वितानोपरिसंछन्नं दिग्ध्वजैश्च प्रलम्बितम् || ३ || दर्भमालाभिरावेष्ट्य मुक्तादामैरलंकृतम् | सर्वालंकार संयुक्तं गोमयेनोपलेपयेत् || ४ || पुण्याहं वाचयेत् तत्र स्वस्ति सूक्तं च वाचयेत् | सूत्रपातः प्रकर्तव्यः षट्सूत्रं प्राक्शिरो भवेत् || ५ || प्. ३८६) उदगग्रं तथैव स्याद् अष्टद्वार समन्वितम् | शालिना विकिरेत् तत्र आढकं कलशं प्रति || ६ || शाल्यर्ध तण्डुलान् न्यस्य तण्डुलार्धांस्तिलान् न्यसेत् | परिस्तरेत् तु दर्भैश्च पद्ममष्टदलं लिखेत् || ७ || शिवकुम्भं न्यसेन् मध्ये प्रासादेन तु मन्त्रतः | सवस्त्रं पंचरत्नं च सकूर्चं सापिधानकम् || ८ || वर्धनीं गौरी बीजेन विन्यसेद् देशिकोत्तमः | सवस्त्रान्सहिरण्यांश्च गन्धोदकेन पूरितान् || ९ || पूर्वादीशान पर्यन्तं विन्यसेदष्टकुम्भकान् | पूर्वे गोमूत्रकं चैव गोमयं चाग्निदेशके || १० || क्षीरं दक्षिणतो न्यस्य पश्चिमे दधि विन्यसेत् | आज्यं चोत्तरतः स्थाप्य नैर्-ऋते च कुशाम्बुजम् || ११ || वायव्यां फलतोयं च ऐशान्यां रोचना भवेत् | पूर्वादीशान पर्यन्तं अष्टविद्येश्वरान् न्यसेत् || १२ || गन्धपुष्पादिना चैव स्वस्वमन्त्रेण पूजयेत् | ततो होमं प्रकुर्वीत पलाशसमिधा सह || १३ || समिदाज्य चरून्लाजान् सर्षपांश्च यवांस्तिलान् | सप्तद्रव्येण संयुक्तं पंचब्रह्मसमायुतम् || १४ || हृदयं च शिरोयुक्तं क्रमेण परिहूयते | हुत्वान्ते तु यदस्येति स्विष्टकृद्धूयते क्रमात् || १५ || प्. ३८७) अष्टमंगलरूपाणि परितो विन्यसेत् ततः | आचार्य दक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः || १६ || व्योमव्यापिं जपित्वा तु स्नापयेच्छिवकुम्भकैः | गौरीबीजेन वर्धन्यामनन्तादि स्वमन्त्रकैः || १७ || हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | अधमस्याधमं प्रोक्तं शीतकुम्भं ततः शृणु || १८ || इति वीरतन्त्रे नवकुम्भ स्नपनविधिः पंचाशीतितमः पटलः || ८५ || पितामहः || शीतकुम्भं कथं देव ! तस्य साधनमेव च | एतत् सर्वं समासेन भगवन्वक्तुमर्हसि || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ! | ज्वरमारी विनाशाय सर्वारिष्टविनाशनम् || २ || द्वात्रिंशत्प्रस्थ संपूर्णं उत्तमं कुम्भमुच्यते | त्रिंशत् तन्मध्यमं प्रोक्तं अष्टाविंशति चाधमम् || ३ || अष्टांगुलं तु विप्रेन्द्र ! वक्त्रविस्तार उच्यते | बिम्बप्रभान्वभायुक्तं भिन्नं कालं च वर्जयेत् || ४ || त्रिगुणी कृतसूत्रेण वेष्टयेत् कुंजराक्षवत् | क्षालयेद् धृदये नैव दर्भैरुपरि विन्यसेत् || ५ || शिवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणेन शालिना | शाल्यर्धतण्डुलान् न्यस्य तण्डुलार्ध तिलान् न्यसेत् || ६ || प्. ३८८) पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | वस्त्रपूतेन तोयेन पूरयेद्घटमेव च || ७ || एलालवंग तक्कोलतिम्बुजाति फलैर्युतम् | उशीरं चन्दनं चैव कुम्भमध्ये हृदा न्यसेत् || ८ || वस्त्रयुग्मेन संवेष्ट्य विणिकाभिरलंकृतम् | वज्रं च पद्मरागं च वैडूर्यं मौक्तिकं तथा || ९ || प्रवालेन समायुक्तं कुम्भमध्ये विनिक्षिपेत् | सकूर्चं सापिधानं च पुष्पमाला समन्वितम् || १० || शाल्योपरि न्यसेत् कुंभं व्योमव्यापि समुच्चरन् | पंचब्रह्मषडंगेन अर्चयेद् गन्धपुष्पकैः || ११ || कुंभस्थमुदकं चैव अमृतं च चिन्तयेत् | पूर्वरात्रेऽधिवास्याथ नृत्तगेय समन्वितम् || १२ || हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः | एवमेव न्यसेत् कुंभं शिवस्तत्राधिदेवता || १३ || वास्तुहोमं दिवा कुर्याल्लक्षणेन समन्वितम् | कुम्भस्य संनिधौ विप्र ! शान्ति होमं तु कारयेत् || १४ || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं द्विजः | एवमेव प्रकारेण उपकुम्भं च विन्यसेत् || १५ || ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः | मन्त्रन्यासोक्तमार्गेण सृष्टिन्यासं तु कारयेत् || १६ || प्. ३८९) त्रिपादीं तत्र संकल्प्य याज्ञिकैर्वृक्षसंभवैः | लिंगस्योपरि विप्रेन्द्र ! हस्तमात्रोच्चमुच्यते || १७ || द्वादशांगुलनाहं स्यान् मात्रांगुलेन कारयेत् | अबक्रं निर्व्रणं कृत्वा विष्ठरत्रयसंयुतम् || १८ || तालमात्रेण तन्मध्ये सुषिरं कुर्यात् तु देशिकः | द्वौ पार्श्वौ पृष्ठतश्चैव विन्यसेत् तु त्रिपादिकान् || १९ || कुंभस्यैव तु पृष्ठे तु सुषिरं कारयेत् ततः | नालं तत्रैव विन्यस्य चतुरंगुलदैर्घ्यकम् || २० || स्वर्णे नैव तु कर्तव्यं घटाधस्तात् तु योजयेत् | व्योमव्यापिं समुच्चार्य कुम्भमारोपयेत् ततः || २१ || त्रियहे वापि पंचाहे सप्ताहे वापि कारयेत् | अहो रात्रं स्रवन् मूर्ध्नि सर्वदोषनिकृन्तनम् || २२ || महाहविर्ददेत् पश्चात् ताम्बूलं दापयेत् ततः | सन्ध्यायां पूजयेत् पश्चात् पूर्वोक्तविधिना सह || २३ || उपकुम्भाज्जलं विप्र ! शीतकुम्भे विनिक्षिपेत् | दिनान्तेऽपि च विप्रेन्द्र ! कुम्भावरोहणं कुरु || २४ || स्नपनं तत्र कर्तव्यं पूर्वोक्तविधिना सह | आचार्य दक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः || २५ || ब्राह्मणान् भोजयेत् तत्र पर्यष्टि परिचारकान् | शैवान् संभोजयेत् तत्र समयान् भोजयेत् ततः || २६ || प्. ३९०) शीतकुम्भविधिः प्रोक्त अद्भुतानां विधिं शृणु || २६ || इति वीरतन्त्रे शीतकुम्भविधिः षडशीतितमः पटलः || ८६ || नमस्कृत्य जगन्नाथं पर्यपृच्छत् पितामहः | अद्भुतानां विधिः को वा तत् सर्वं ब्रूहि मे प्रभो || १ || ईशवरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | भूमिकम्पे दिशादाहे धूमकेतानुपस्थिते || २ || सहस्रकलशं स्नात्वा तद्दोषशमनाय च | अनावृष्ट्यादिकाले तु ग्रहशान्तिं समाचरेत् || ३ || शिवाग्रे मण्टपं कुर्यात् पूर्वोक्तविधिना सह | शालिना स्थण्डिलं कृत्वा तण्डुलान् विन्यसेत् ततः || ४ || तालमात्रोच्च मानेन कुशैर्वा कूर्चमेव वा | स्थापयेच्चैव विप्रेन्द्र ! त्रयं चैव तु मध्यमे || ५ || पूर्वादीशान पर्यन्तं त्रयाणां कूर्चमुच्यते | त्रयाणां मध्यमे चैव ग्रहाणां चैव विन्यसेत् || ६ || आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् | चन्द्रमाग्नेय दिग्भागे अंगारकं तु दक्षिणे || ७ || राहुं च नैर्-ऋते न्यस्य वारुण्यां च शनैश्चरम् | केतुं च वायुदिग्भागे उत्तरे तु बृहस्पतिम् || ८ || प्. ३९१) ऐशान्यां च बुधं चैव विन्यसेद् देशिकोत्तमः | भास्करस्येश्वरो देवः पूर्वाभिमुख एव च || ९ || उमाचन्द्रस्य देवस्तु स्कन्दश्चांगारकस्य तु | राहोः कालिंग देवस्तु यमोदेवश्शनेस्तथा || १० || केतोश्च चित्रगुप्तश्च ब्रह्मदेवो बृहस्पतिः | बुधश्च विष्णुदैवत्य इत्येता ग्रहदेवताः || ११ || अग्निरापश्च भूमिश्च विष्णुरिन्द्रश्च देवता | इन्द्राणी च प्रजापत्यः सर्पा ब्रह्माधिदेवताः || १२ || सद्येन भूर्भुवैर्युक्तं आवाह्य देवतां ततः | तेषां पूर्वे तु विप्रेन्द्र ! सिकतैः स्थण्डिलं कुरु || १३ || अग्निमुखं तु संकल्प्य गन्धपुष्पादिनार्चयेत् | आदित्यस्य च वृत्तं स्याशुक्रस्य पंचकोणकम् || १४ || सोमे तु चतुरश्रं तु अंगारके त्रिकोणकम् | राहोः शूर्पाकृतिश्चैव धनुश्चैव शनैश्चरे || १५ || ध्वजवत् केतुरश्रं तु चतुरश्रं तु दैर्घ्यकम् | बृहस्पतेस्तु विज्ञेयं बुधस्य भगवान् भवेत् || १६ || एवमेव प्रकारेण कुण्डं वा स्थण्डिलं कुरु | तत्तद्वर्णानि पुष्पाणि पूजयेद् देशिकोत्तमः || १७ || आदित्येऽर्कं बिजानीयात् पलाशं सोम एव च | अंगारकस्य खदिरं अपामार्गं बुधस्य च || १८ || प्. ३९२) बृहस्पतेस्तु चाश्वत्थं शुक्रस्यौदुम्बरं भवेत् | शमीं शनैश्चरे विद्याद् राहोः दूर्वाहुतिर्भवेत् || १९ || केतोः कुश समिद्भिस्तु अलाभे पलाशमेव च | अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा || २० || प्रत्येकं चैव विप्रेन्द्र ! हूयते क्रमशोऽधुना | एवं लक्षण संयुक्तं होमयेच्छिवदीक्षितः || २१ || प्रासादेन तु मन्त्रेण आसत्येन समन्वितम् | एषामीशेति मन्त्रेण आदित्यस्यैव हूयते || २२ || मिन्दाहो विश्वतस्थश्चा इन्द्र नैर्-ऋतिस्ततः | शुक्रहोममिति प्रोक्तं आप्यायस्सोममब्रवीत् || २३ || गौरीमिमाय मन्त्रेण सोमहोमं प्रकीर्तितम् | अग्निर्मूर्धा च सोमेता अंगारकस्य हूयते || २४ || गौरी यत्ते देवि नृत्तिरापद्य चैव राहु च | शन्नो देवी प्रजापते शनिहोमं प्रकीर्तितम् || २५ || केतुं च ब्रह्मजज्ञानं होमं केतोरिहोच्यते | आदियस्यो बृहत्सामज्ञानमाचार्यं होममुच्यते || २६ || उद्बुध्यस्वेति विष्णोश्च बुधस्याहुतिरुच्यते | पंचब्रह्मषडंगेन प्रासादेन समन्वितम् || २७ || शिवबीजेन होमं तु ग्रहशान्तिरिहोच्यते | क्षीरस्नानं प्रकर्तव्यं श्रीरुद्रेण विशेषतः || २८ || प्. ३९३) आचार्यं पूजयेत् पश्चाद् ग्रहदोषो विमुंचति | अतिवृष्टिर्भवेत् तत्र सुभिक्षं कुरुते ततः || २९ || पुच्छनक्षत्र संदर्शे रात्राविन्द्रधनुर्युते | महामारी प्रवृत्ते तु स्नपनं तु सहस्रकम् || ३० || ज्वरादि पवने मारी शीतकुम्भं च कारयेत् | रक्तकन्या समुत्पन्ने शृणु तत्वं पितामह || ३१ || पिण्डिका लिंगमध्ये तु रक्तकन्यासमुद्भवे | राज्ञां ग्रामं क्षेत्रं वा विनाशं व्रजति ध्रुवम् || ३२ || प्राणिनाशो भवेदैन्द्रे अग्नौ धान्यक्षयं भवेत् | वाहनानां क्षयो याम्ये भार्यानाशस्तु नैर्-ऋते || ३३ || वारुण्यां तु पदे चैव चतुष्पान्नाशनं भवेत् | ज्वरापस्मारं वायव्यां सौम्ये व्याधिमवाप्नुयात् || ३४ || राजमन्त्रिक्षयं कुर्याद् ऐशान्यां तु विशेषतः | निर्माल्यकुण्डे दृश्येत राजराष्ट्रविनाशनम् || ३५ || पचनालये चाग्निशालां यामाचार्यायव दोषकृत् | धान्यशालाय नाशः स्याद्वारे द्वेश्मगृन्यकम् || ३६ || एवमेव प्रकारेण पंचप्राकारमुच्यते | ब्राह्मणक्षत्रियाणां च अन्तर्मण्डलके भवेत् || ३७ || वैश्यनाशकरं चैव अन्तर्हारेऽपि दृश्यते | मध्यहारेऽपि दृश्यन्ते शूद्राणां क्षयमाप्नुयात् || ३८ || प्. ३९४) चतुष्पान्नाशनं चैव मर्यादिभित्तिके ततः | अग्निजादिक्षयं चैव महामर्यादिभित्तिके || ३९ || शययादेशे समुत्पन्ने मरणं तद्विनिर्दिशेत् | एवमेव प्रकारेण अद्भुतं दृश्यते भयम् || ४० || तद्दोषशमनार्थाय खानयेत् तत् प्रदेशतः | व्यपोह्य सकलं तत्र पंचगव्येन प्रोक्षयेत् || ४१ || कपिलादोषहये तत्र पुण्याहं वाचयेत् ततः | घनं कृत्वा तु तद्देशे शान्तिहोमं तदूर्ध्वतः || ४२ || क्षीरस्नानं प्रकर्तव्यं श्रीरुद्रेण विशेषतः | पूर्ववद्विधिना युक्तं होमं कुर्यात् तु देशिकः || ४३ || पंचाहे सप्तरात्रे वा नवाहे वापि तारकः | एवं कृत्वा महाशान्तिं सर्वदोषहराय च || ४४ || वल्मीके तु समुत्पन्ने प्रासादे मधुकृद्भवे | व्यपोह्य सकलं तत्र दिशाहोमं तु कारयेत् || ४५ || दिवानक्षत्रदर्शे तु सहस्रकलशं ततः | स्नापयेद् देवदेवेशं महाहविर्निवेदयेत् || ४६ || विमानोर्ध्वे उलूकादि दृश्यते वापि तत्र च | पुण्याहं कारयेत् तत्र पवमानेन प्रोक्षयेत् || ४७ || स्नपनं तत्र कर्तव्यं शान्तिहोमं तु कारयेत् | अन्येवाचाद्भुतोत्पन्ने स्नपनं कारयेत् ततः || ४८ || प्. ३९५) शान्तिहोमं प्रकर्तव्यं तद्दोषशमनाय च | अद्भुतानां विधिः प्रोक्तः कृत्तिकादीप उच्यते || ४९ || इति वीरतन्त्रे अद्भुतशान्तिविधिः सप्ताशीतितमः पटलः || ८७ || प्रणिपत्य जगन्नाथं पर्यपृच्छत् पितामहः | को वा तु कृत्तिकादीपः तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | कार्तिके तु तथा मासे नक्षत्रे कृत्तिकायुते || २ || कृत्तिका दीपकर्माथ कारयेद् देशिकोत्तमः | कृत्तिकादीपहीने तु ज्वरमारी प्रवर्तते || ३ || अनावृष्टिर्भवेत् तत्र तस्माद्दीपः प्रयुज्यते | नववस्त्रेण कृत्वा तु वर्तिं कार्पास संयुतम् || ४ || एतानि याचितालोच्चं परिणाहं तु तद्वयम् | शिव प्रपूरिते पात्रे विन्यसेद् धृदयेन तु || ५ || गोघृतेन समायुक्तं शुद्धतैलेन वा पुनः | प्रासादमूर्ध्नि विन्यस्य हृदयेन तु मन्त्रतः || ६ || दीपदण्डं प्रवक्ष्यामि शृणुष्व चतुरानन ! | जाती वा चम्पकं वापि क्रमुकं वैणवं तु वा || ७ || कदली नालिकेरं वा आसनं बिल्वमेव वा | प्रासादसदृशं वापि गलान्तं वापि कारयेत् || ८ || प्. ३९६) कपोतोत्सेधमानं वा पंचहस्तोच्चमेव वा | एतद्दीपेन संयोज्य पंचाशत्पंचविंशतिः || ९ || चत्वारि चाष्टपंक्तिर्वा कर्तव्या शिल्पिना सह | वस्त्रेण वेष्टयेत् तत्र घृतेन च परिप्लुतम् || १० || पुण्याहं वाचयेत् तत्र यथा विभवविस्तरम् | दीपं संयोज्य विप्रेन्द्र ! सद्योजातेन मन्त्रतः || ११ || वामदेवेन शिरसा धारयेत् तु विशेषतः | विमान प्रदक्षिणं कुर्याद्गर्भगेहं प्रवेशयेत् || १२ || पूर्ववन्मण्डले स्थाप्य प्रोक्षयेदम्भसा ततः | आचार्य दक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः || १३ || प्रासादमूर्ध्नि विप्रेन्द्र ! शिवं दीपेन योजयेत् | दीपदण्डं तु विप्रेन्द्र ! विष्णुदीपेन योजयेत् || १४ || गर्भगेहादि दीपानां ब्रह्मदीपेन योजयेत् | प्रासादेन तु मन्त्रेण दीपान् सर्वत्र योजयेत् || १५ || नैवेद्यं दापयेद् देवे ताम्बूलं दापयेत् ततः | नानादीप समायुक्तं रात्रौ महोत्सवं कुरु || १६ || नृत्तगेय समायुक्तं नानापिंछ समायुतम् | अनादिवेश्या संयुक्तं गणिकादासिभिस्सह || १७ || आलयं प्रविशेत् तत्र परिवेषक्रमं ततः | एवं यः कुरुते मर्त्यः शिवलोकमवाप्नुयात् || १८ || प्. ३९७) वृक्षतैलेन कर्तव्यं उत्सवादौ विशेषतः | कृत्तिकादीप एवोक्तः अग्राशनमतः शृणु || १९ || इति वीरतन्त्रे कृत्तिकादीपविधिः अष्टाशीतितमः पटलः || ८८ || प्रणम्य शिरसा देवं पर्यपृच्छत् पितामहः | अग्राशनं कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! || १ || ईश्वरः || तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ! | शुभे मुहूर्ते मंगल्ये भूमि संग्रहणं भवेत् || २ || उत्तरे च मघायां तु स्वातौ पुण्यानुराधयोः | चैत्रे चार्यापभरणी कुर्यात् भूमिप्रवेशनम् || ३ || अयुग्मास्तिथयो ज्ञेया नवमी अथ वर्जिता | द्वितीया दशमी ग्राह्या वृषवृश्चिक कर्कटाः || ४ || वारमंगारकं श्रेष्ठं बुधजीवौ तु मध्यमौ | भूमिप्रवेशनं प्रोक्तं कृषिकर्म त्वथोच्यते || ५ || पुण्याहं वाचयेत् तत्र गन्धपुष्पादिनार्चयेत् | मूला पुनर्वसुश्चैव रोहिणी चोत्तरत्रयम् || ६ || रेवती पुष्यहस्ताश्च कृषिकर्मसु पूजिताः | नवमीं चैव विप्रेन्द्र ! वर्जयेत् कृषि कर्मसु || ७ || शुक्रार्कबुधजीवानां बुधवारं प्रशस्यते | वृषभे कर्कटे मीने मिथुने सिंहलग्नके || ८ || प्. ३९८) कृष्यारम्भस्त्वयं प्रोक्तो नक्षत्राणां विशेषतः | श्वेतौ रक्तौ च कपिलौ नागच्छिन्नौ वृषौ तथा || ९ || युग्मेन सह बध्वा च बलवान् मध्यमेव वा | गोचर्मरज्जुना चैव हलं चैव तु बन्धयेत् || १० || हृदयेन तु मन्त्रेण सर्वकर्म समाचरेत् | प्रागुक्त वसयेद्भूमिं सद्योजातेन मन्त्रतः || ११ || बीजानां वापनं कुर्याच्छुभनक्षत्र संयुते | मूलानुराधा हस्ता च मघारौहिणि रेवती || १२ || विशाखा त्र्युत्तरा स्वाती चैत्र श्रवणमेव च | शतभिषक् च नक्षत्रं प्रशस्तं बीजकर्मसु ||१३ || पंचमी सप्तमी चैव पौर्णमासी त्रयोदशी | एकादशी तृतीया च प्रशस्ता बीजकर्मणि || १४ || नागसिंहार्कमीनाश्च मकरश्चैव पूजिताः | यमकुम्भ तुला मध्याः शेषांस्तु परिवर्जयेत् || १५ || शुक्रेन्दु जीव सौम्यानां द्रेक्काणादि च सा शुभा | एवमेव प्रकारेण बीजावापनमुच्यते || १६ || प्रतिमां शिबिकोर्ध्वे वा हस्त्यश्वरथ एव वा | भूमि प्रवेशनं कृत्वा पूर्वाभिमुखमास्थितः || १७ || तस्याग्रे तु समं कृत्वा दिग्देवानां बलिं क्षिपेत् | मृदेन भूमिरूपं तु प्राक्शिरः कारयेद् बुधः || १८ || प्. ३९९) द्विहस्तां च द्विपादां च सुस्तनां च सुयौवनाम् | पुण्याहं वाचयेत् तत्र ताम्बूलं दापयेज्जनान् || १९ || षष्ठवर्गाच्चतुर्थं तु प्रथमात्षष्ठसंयुतम् | बिन्दुनाद समायुक्तं मूलमन्त्रमिहोच्यते || २० || एतन्मन्त्रं समुच्चार्य गन्धपुष्पादिनार्चयेत् | नैवेद्यं पायसं दद्याल्लाजापूप समन्वितम् || २१ || ताम्बूलं दापयेत् पश्चात् सर्वातोद्य समायुतम् | अंजलिं शालिचूर्णं तु मूलमन्त्र समन्वितम् || २२ || वसुन्धरेति श्रीदेवी पद्मपुष्पांजले पिता | नमोऽस्तु सुभगे ! नित्यं कृषिकर्मेध्यतामिह || २३ || एतन्मन्त्रं समुच्चार्य कर्तव्यं बीजवापनम् | आचार्यं पूजयेत् पश्चाद् दैवज्ञं पूजयेत् ततः || २४ || बीजानि दापयेत् तत्र जनान् सर्वान् विशेषतः | ततो भक्तजनैस्सार्धं प्रविशेदालयं प्रति || २५ || बीजस्य वापनं प्रोक्तं अग्राशनमिहोच्यते | चण्डेश प्रतिमायुक्तं सर्वातोद्य समन्वितम् || २६ || धान्यक्षेत्रमनुप्राप्य धान्यच्छेदनमारभेत् | हस्तत्रयोत्तरायां च रोहिण्यां च विशेषतः || २७ || वृश्चिके कर्कटे वापि * * ल्ववं कुर्याद् बुधः | शुकं ग्राह्यास्त्रमन्त्रेण शिरसा धारयेत् ततः || २८ || प्. ४००) ग्रामप्रदक्षिणं कुर्यात् सर्वातोद्य समन्वितम् | रविरश्मिसुसंतप्तं प्रभिन्नं क्षिपलूखले || २९ || हृदयेन तु मन्त्रेण सर्वकर्म समाचरेत् | हस्तं च श्रवणं चैव रेवत्यश्वतिरेव च || ३० || मूलं च रोहिणी स्वाती विशाखा च पुनर्वसू | श्रविष्ठा शतभिषक् चैव अनूराधा त्रिरुत्तरा || ३१ || मृगशीर्षं च पुष्यं च भोजने च प्रशस्यते | मेषवृश्चिकमीनास्तु वर्ज्याः शेषास्तु पूजिताः || ३२ || एवमेव प्रकारेण शिवे दद्याद् विशेषतः | तण्डुलं शर्करायुक्तं नालिकेरफलैर्युतम् || ३३ || व्योमव्यापिं समुच्चार्य शिवे दद्याद् विचक्षणः | प्रतिमानां च सर्वासां एवमेवाक्षमं ददेत् || ३४ || आचार्याय प्रदातव्यं पर्यष्टिपरिचारकान् | एवं निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः || ३५ || आचार्य दक्षिणां दद्याद् वस्त्रहेमांगुलीयकैः | अग्राशनमिदं प्रोक्तं बालस्थापनमतः शृणु || ३६ || इति वीरतन्त्रे अग्राशनविधिरेकोननवतितमः पटलः || ८९ || नमस्कृत्य जगन्नाथं ब्रह्मा पृच्छति शंकरम् | बालस्थानं कथं देव ! तत्सर्वं ब्रूहि मे प्रभो ! || १ || प्. ४०१) ईश्वरः || बालस्थानमहं वक्ष्ये शृणुष्व कमलासन ! | द्वारमानेन वा कु * भित्तिमानेन वा पुनः || २ || लिंगमानेन वा कु * तालमानेन वा पुनः | शैलजं दारुजं वापि बाललिंगं करोति हि || ३ || द्वारोच्चं नव चाभय एकैकं प्रतिमाच्छ्रयम्? | पूजांशोच्चं नव कुर्याद्विष्व? मागान्वितं तु ? || ४ || * *?मानं प्रवक्ष्यामि चतुस्तालं तु चोत्तमम् | त्रितालं मध्यमोक्तं अधमं तु द्विताल * * ? || ५ || एवमेव प्रकारेण बाललिंगं तु कारयेत् | तेन मानेन कर्तव्यं लिंगस्य भागमुत्तमम् || ६ || लिंगतार त्रिभागस्तु पीठादिस्तार? उच्यते | अधमो ब्रह्मभागः स्यान् मध्यमो * णु? उच्यते || ७ || ऊर्ध्वे तु शिवभागः स्याच्छत्राकार शिवो भवेत्? | लिंगसूत्रं तु कर्तव्यं नालं चैव तु कल्प * ? || ८ || अश्वत्थोदुम्बरं वापि बिल्वं चैव शमी तथा | बाललिंगं प्रकर्तव्यं एवमेव क्रमेण तु || ९ || प्रासादस्ये शदिग्भागे आग्नेययां पुरतोऽपि वा | वारुणे वापि कर्तव्यं बालस्थानमिहोच्यते || १० || कूटं वा मण्टपं वापि प्रासादं वाथ कारयेत् | त्रिहस्तं पंचहस्तं वा सप्तहस्तमथापि वा || ११ || प्. ४०२) समत्रिपादमधं वा मुख * * * * * * |? बालस्थानस्य वामे तु प्रपालित्वा * * * *? || १२ || मध्यमे वेदिकां कुर्यात् परितः मुण्डमुच्यते |? वृत्तं वा चतुरर्थं वा अ * *?नि * * * *? || १३ || मूल प्रासाद पूर्वं तु स्थापनं कारयेत् ततः | स्था *?लोपरि विन्यस्य शिवकुम्भं च वर्धनीम् || १४ || सवस्त्रं सहिरण्यं? च सकूर्चं सापिधानकम् | आवाह्य देवदेवेशं गन्धपुष्पादिनार्चयेत् || १५ || व्योमव्यापि समुच्चार्य ब्रह्मांगेन समायुतम् | पूर्ववत् स्थण्डिले विप्र ! अत्राह्येव? तु कारयेत् || १६ || अग्निमुखं च संधाय शिवाग्नेय हूयते क्रमात् | प्. १) मण्टपं कारयेत् सम्यक् प्रासादस्याग्रके ततः | दक्षिणे चोत्तरे वापि कारयेल्लक्षणान्वितम् || कूटं वापि प्रपां वापि कारयेद् अथवा पुनः | ततो मण्टपसंस्कारं विभवेन समन्वितम् | वास्तुहोमं निशाकुर्याल्लक्षणेन समन्वितम् || दर्भमालाभिरावेष्ट्य चतुस्तोरण भूषितम् | अष्टदिक्षु ध्वजा न्यस्य वितानैरुपशोभितम् || मुक्तादामैरलङ्कृत्य पुष्पमालोपशोभितम् | वेदिकारत्निकोत्सेधा दर्पणोदरवत् कृता || अष्टद्रोणमितान् शालीन् तन्मध्ये विन्यसेत् ततः | शाल्यर्ध तण्डुलं न्यस्य तण्डुलार्धं तिलं न्यसेत् || पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | शयनं कल्पयेत् तत्र अण्डजाद्यैस्ततो बुधः || जलादुत्तीर्य देवेशं शुद्धिं कृत्वा विशेषतः | प्रासादं प्रविशेत् तत्र पुष्पदन्त पदे स्थितः || आचार्यश्च शुचिर्भूत्वा नववस्त्रेण वेष्टितः | सोष्णीषस्सोत्तरीयश्च सर्वाभरणभूषितः || बीजमुख्येन मन्त्रेण सर्वाङ्गेषु च विन्यसेत् | उपदेष्ट्टसमायुक्तं आचार्यद्वयमुच्यते || उपदेष्टा शरीरं च आचार्यो जीव उच्यते | सहितस्तु भवेद्विप्र सर्वसम्पत्कराय च || प्. २) मन्त्रन्यासं प्रकर्तव्यं लक्षणेन समन्वितम् | हस्ताभ्यां स्पर्शयेत् तत्र कादिपादान्तमेव च || अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्म क्रमान् न्यसेत् | मध्यमादि तर्जन्यन्तं षडङ्गं विन्यसेत् क्रमात् || अस्त्रं करतलं चैव विन्यसेत् तु विशेषतः | ईशानं मूर्ध्नि विन्यस्य मुखे तत् पुरुषं न्यसेत् || अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | पादयोस्सद्यमन्त्रं तु विन्यसेत् तु विशेषतः || अष्टत्रिंशत् कलान्यासं विन्यसेद् देशिकोत्तमः | प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् || प्रतिमां पञ्चगव्येन स्थापयेच्छिवमन्त्रतः | सुवर्णसूत्रसम्युक्तं कौतुकं बन्धयेद् धृदा || फलत्रयं च कर्पूरं उशीरं चन्दनेन तु | तामालोड्य च सर्वं च लेपयेत् तु समन्ततः || सुमुहूर्ते सुलग्ने च शयने शाययेच्छिवम् | प्रतिमां नववस्त्रेण पिधाय सकलाङ्गकान् || प्रासादेन तु मन्त्रेण गन्धपुष्पादिनार्चयेत् | नवकुम्भान् समादाय त्रिसूत्रेणैव वेष्टयेत् | शुद्धोदकेन संपूर्य स कूर्चं सापिधानकम् || सवस्त्रं सहिरण्यं च पञ्चरत्न समायुतम् | द्रव्येणैव समायुक्तं वीणिकादीनि विन्यसेत् || प्रतिमायाश्चेशदिशि स्थापयेच्छिवकुम्भकम् | शिवकुम्भे शिवं पूज्य पञ्चब्रह्म षडङ्गकैः || वर्धनीं तस्य वामे तु गौरीबीजेन स्थापयेत् | पूर्वादीशान पर्यन्तमष्टविद्येश्वरैर्युतम् || प्. ३) तस्य बाह्ये तु परितो लोकपालं च कुम्भकम् | स्थापयेत् स्वस्वमन्त्रेण पूजयेद्गन्धपुष्पकैः || सुवर्णेनायुधं कृत्वा कुम्भमध्ये विनिक्षिपेत् | विद्येश्वराणां कुम्भानां स्वर्णं विन्यस्य देशिकः || नैवेद्यं दापयेत् पश्चात् ताम्बूलेन समन्वितम् | ततो होमं प्रकुर्वीत भ्रंशमध्यपदे तथा || पलाशाश्वत्थबिल्वं च उदुम्बरं प्लक्षमेव च | खादिरं च शमी चैवापामार्गं तथैव च || पूर्वादीनि क्रमान्येतान् मध्ये पालाशमेव च | सर्वेषां चैव होमानां इध्मं पालाशमेव च || समिदाज्य चरूल्लाजान् सर्षपाश्च यवांतिलान् | मुद्गमाषं च विप्रेन्द्र नवद्रव्यमिहोच्यते || समिधो हृदये नैवाज्यं च शिर उच्यते | चरुहोमं च शिखया लाजान्वै कवचेन तु || नेत्रेण सर्षपं चैव अस्त्रेणैव यवांस्तथा | ईशानेन तिलं हुत्वा मुद्गं सद्येन हूयते || माषं वामेन होतव्यं एवमेव क्रमेण तु | सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा || अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशतिः | षोडशद्वादशं वापि दशसंख्या विशेषतः || द्रव्यान्ते चैव द्रव्यान्ते व्याहृतिं जुहुयात् ततः | भवश्शर्वः पशुपतिः ईशानो विजयस्तथा || प्. ४) उग्रो रुद्रस्तथा भीमो एते होमस्य देवताः | वामा ज्येष्ठा च रौद्री च काली च कलविकरणी || बलविकरणी बलप्रमथिनी सर्वभूतमनोन्मनी | क्रमात् कुण्डेषु विप्रेन्द्र शक्तयश्चाधिधेवताः || द्रव्यान्ते प्रतिमां स्पृष्ट्वा पञ्चब्रह्म षडङ्गकैः | चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः || व्योमप्रासादमन्त्रं च ब्रह्माङ्गं च ततः शृणु | मण्टपस्येशदिग्भागे स्नानवेदिं प्रकल्पयेत् || उत्थाप्य शयनाद्देवं स्नानवेद्युपरि न्यसेत् | प्. १) || श्रीः || कुमार स्थापनविधिः (तिरुवाडुदुरैकोशे) अस्मिन् पटले तत्र तत्र केचन श्लोकाः अधिका दृश्यन्ते | आहत्य विंशति श्लोकाः अधिकतया विद्यन्ते || अतः संपूर्णोऽयं पटलः अधोलिख्यते | ब्रह्मोवाच- प्रणिपत्य जगन्नाथं ब्रह्मा वचनमब्रवीत् | कुमारस्थापनं किं वा तत्सर्वं ब्रूहि मे प्रभो || ईश्वर उवाच- तत् सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन | पूजा भागसमोत्सेधं प्रतिमस्योच्छ्रयं भवेत् || गर्भं तु नवधा भज्य एकैकं प्रतिमोच्छ्रयम् | चत्वारः पञ्चतालं वा षट्तालं वापि कारयेत् || त्र्यक्षं चतुर्भुजं शान्तं मकुटेन समन्वितम् | वरदाभयहस्तं च अक्षमालाकमण्डलुम् || सुस्थितं पद्ममध्ये तु पूर्वाभिमुखमेव च | जया च विजया चैव देव्यौ पार्श्वस्थिते सदा || शिखिनं कुक्कुटं वापि गजं वा स्थापयेत् पुरः | एभिस्तु लक्षणैर्युक्तं प्रतिमां कारयेद् बुधः || अष्टवर्गात् तृतीयं तु सप्तवर्गात् तृतीयकम् | प्रथमस्य चतुर्थं तु बिन्दुनादसमन्वितम् || मूलमन्त्रमिदं प्रोक्तं त्रिदशानां तु दुर्लभम् | ह्रस्वा ब्रह्मसमाख्याता दीर्घाह्यङ्गानि चोच्यते || प्. २) रत्नन्यासं प्रकर्तव्यं पूर्वादिषु क्रमाद् बुधैः | वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् || चतुर्दिक्षु च विन्यस्य इन्द्रनीलं तु मध्यमम् | सुस्निग्धं कारयेत् तत्र नयनोन्मीलनं कुरु || सुवर्णसूचिना चैव सौम्यं दृष्टिं लिखेत् ततः | अक्षिहोमं ततः कृत्वा नेत्रेणैव शताहुतिः || प्रच्छन्नपटसंयुक्तं मधुवातेति तर्पयेत् | घृतं मिमिक्ष सन्तर्प्य सवत्सां गां प्रदर्शयेत् || जयाया विजयाश्च मूलमन्त्रेण कारयेत् | द्वितीयस्य तृतीयं तु मायानल समन्वितम् || बिन्दुनाद समायुक्तं जयाबीजमनुत्तमम् | सप्तवर्गाच्चतुर्थं तु मायातत्व समन्वितम् || बिन्दुनाद समायुक्तं विजयाबीजमुच्यते | ब्राह्मणान् दर्शयेत् तत्र पुण्याहं वाचयेत् ततः || स्नापयेत् पञ्चगव्येन प्रतिमां क्षालयेद्धृदा | नववस्त्रपरीधानं कुर्याद्ग्रामप्रदक्षिणम् || जलाधिवासनं कुर्यात् त्रिरात्रं पञ्चरात्रकम् | यामं वा मूलमन्त्रेण प्रच्छन्नपटसंयुतम् || अभितः कलशानष्टौ लोकपालाधिदेवान् | जलादुत्तीर्य पूर्वे तु स्नापयेत् पञ्चगव्यकैः || वास्तुहोमं ततः कृत्वा मण्टपं कारयेत् ततः | प्रासादस्याग्रतः कुर्यात् पूर्वोक्तेन विधानतः || प्. ३) मध्यमे वेदिकां कुर्यात् परितः कुण्डमुच्यते | चतुरश्रं चतुर्दिक्षु आग्नेयादिषु वृत्तकम् || इन्द्र ईशानयोर्मध्ये कुर्यात् कुण्ड त्रिकोणकम् | सोमेशाने च योर्मध्ये पञ्चाश्रं विजयाय च || अथवान्य प्रकारेण षट्कोणं च प्रकल्पयेत् | त्रिकोणं कल्पयेत् कुण्डं शक्तिद्वयं कारयेत् || शालिभिर्विकिरेद् वेदीं तण्डुलं च तिलं न्यसेत् | शयनं कल्पयेत् पञ्च चर्मचाद्यैरनुक्रमात् || शाययेद् वेदिकामध्ये प्राक्शिरश्चोर्ध्ववक्तकम् | जयां च विजयां चैव पार्श्वयोरुभयोर्न्यसेत् || कौतुकं बन्धयेत् पूर्वं हृदयेन तु मन्त्रतः | प्रतिमायेश दिग्भागे स्थापयेत् स्कन्दकुम्भकम् || सवस्त्रं सहिरण्यं च सकूर्चं सापिधानकम् | पूर्वादीशानपर्यन्तं अष्टकुम्भान् प्रविन्यसेत् || कुमारं च गुहं चैव सुब्रह्मण्यं तथैव च | सेनापतिं सुराग्रं च हरसूनुं तथैव च || शरवणोद्बवं चैव कार्तिकेयं च विन्यसेत् | गन्धपुष्पादिनाभ्यर्च्य स्वस्वनाम्ना च मन्त्रतः || नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः | ततो होमं प्रकुर्वीत अग्निकार्योक्तवर्त्मना || समिदाज्य चरूल्लाजान् सर्षपां च यवां तिलान् | शालिनीवारगोधूम मुद्गं चैव समन्वितम् || प्. ४) पञ्चब्रह्मषडङ्गैश्च क्रमाद्धुत्वा विशेषतः | स्कन्दमूलेन होतव्यं आज्ये नैव शताहुतिः || ऋत्विग्भिस्सह होतव्यं तत् तद्दशांशतोऽशनम् | षडक्षरेण मन्त्रेण होमयेत् तु सहस्रकम् || अघोरेण तु मन्त्रेण प्रायश्चितं शताहुतिः | जया च विजयायाश्च प्रत्येकं तु शताहुतिः || जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत् क्रमात् | ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः || ततोऽवसानहोमं तु समिदाज्यचरूयुतम् | मूलमन्त्रेण विप्रेन्द्र पञ्चदशाहुतिं हुनेत् || चतुर्दिक्षु चतुर्वेदैः कुर्यादध्ययनं ततः | सर्वद्रव्य समायुक्तं हव्यवाहं समुच्चरन् || स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरम् | पूर्णाहुतिं यदस्येति जुहुयाद् देशिकोत्तमः || अर्चनाविधिवद्धुत्वा चतुर्द्वारादिकुम्भयोः | शिवलिंगप्रतिष्ठोक्तमार्गेणैव समाचरेत् || उत्थाप्य शयनाद् देवं सृष्टिन्यासं तु कारयेत् | गर्भन्यासं ततः कुर्यात् सप्तमे च पदे न्यसेत् || सुदृढं बन्धयित्वा तु शिल्पिनं च विसर्जयेत् | आचार्यदक्षिणां दद्यात् पञ्चाङ्गभूषणैर्युतम् || स्नापयेत् स्कन्दमूलेन स्कन्दकुम्भं विशेषतः | जयां च विजयां चैव तत् तन्मूलेन स्नापयेत् || प्. ६) प्राणप्रतिष्ठामन्त्रेण स्कन्दशक्तिं च कारयेत् | हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत् ततः || ब्राह्मणान् भोजयेत् तत्र शैवान् संभोजयेत् ततः | अर्चयेद् विधिना चैव सृष्टिन्यासं च कारयेत् || आवाहयेत् तु सद्येन वामदेवेन स्थापयेत् | ईशानेन तु मन्त्रेण अभिषेकं तु कारयेत् || गन्धं दद्याद्धृदा चैव पुष्पं तु शिरसा तथा | वस्त्रधूपादि सर्वाणि हृदयेन तु दापयेत् || नैवेद्यं हृदये नैव नित्योत्सवं तु कारयेत् | स्थलिके तण्डुला न्यस्य अर्चयेद् गन्धपुष्पकैः || प्रतिमा पूर्वतो गच्छेत् पश्चात् तु क्षणिकं व्यजेत् | आलयं प्रविशेत् तत्र नैमित्तिकमिहोच्यते || उत्सवं कारयेत् तत्र एकाहे वा त्र्यहेऽपि वा | पञ्चाहं वाथ सप्ताहे नवाहमुत्सवं क्रमात् || ध्वजारोहणकं कुर्यात् क्रमुकं वेणुमेव च | यष्टिकात्रय संयुक्तं तदग्रेवेणु संयुतम् || पटं तु पञ्चसप्तैर्वा हस्तयुक्तं समन्ततः | शिखरेण समायुक्तं मयूरं मध्यमे लिखेत् || स्थापयेत् कलशान् पञ्च ध्वजं चैव तु रोपयेत् | भेरीं तु ताडयेत् तत्र अङ्कुरार्पणमुच्यते || ऐशान्यां पावके वाथ यागशालां प्रकल्पयेत् | मध्यमे वेदिकां कुर्यात् पञ्चचूर्णैस्तु वृत्तकम् || प्. ७) स्थापयेत् कलशांस्तत्र पूर्वोक्तविधिना सह | प्रथमं भूतरात्रं तु द्वितीयं गणरात्रकम् || तृतीयमृषिरात्रं तु चतुर्थं गान्धर्वमुच्यते | पञ्चमं ब्रह्मरात्रं तु षष्ठं वै विष्णुरात्रकम् || सप्तमं स्कन्दरात्रं तु इत्येते रात्रिदेवताः | सायङ्कालं समारभ्य प्रातस्तीर्थं समाचरेत् || प्रतिमया च समायुक्तं अन्नलिङ्ग समन्वितम् | बलिं दद्याद् विशेषेण शुद्धान्नेन समन्वितम् || चूर्णोत्सवं ततः कृत्वा तीर्थकाले तु स्नापयेत् | स्नपनं कारयेत् तत्र अष्टोत्तरशतं क्रमात् || ध्वजावरोहणं पश्चात् सन्धिदेवान् विसर्जयेत् | मौनोत्सवं ततः कुर्यात् शक्तिमात्रं समाचरेत् || पश्चात् सुमित्रभागं तु कारयेत् तु विशेषतः | आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलीयकैः || भक्तानां परिचाराणां यथा वित्तानुसारतः | उत्सवोक्तं तथा कुर्यात् तीर्थान्तं सर्वमाचरेत् || स्नपनं कारयेत् तत्र लक्षणेन समन्वितम् | स्कन्द स्थापनमेवोक्तं मानुषस्थापनं शृणु || इति श्री वीरतन्त्रे षट्सहस्रसंहितायां गुहस्थापनविधिपटलः ########### END OF FILE #######