#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00608 Uniform title: vīrāgama Manuscript : IFP transcript T000031 copied from a MS belonging to Kunnakkudi Description: viraśaiva text Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### इfप् त्००३१ वीरागमः विषयानुक्रमणिका क्र० सं० पटलनाम पुटसंख्या श्लोकसंख्या १. तन्त्रावतारपटलः प्रथमः १ ८३ २. पञ्चाक्षरपटलः, द्वितीयः १८ ३३ ३. मन्त्रोद्धारपटलः, चतुर्थः २५ ९८.५ ४. पुष्पलक्षणपटलः, पञ्चमः ४५ ३५ ५. दीक्षामण्डलविधिः (कर्षण, वास्तुलक्षण, बलि, दीक्षामण्डलविधयः) ५२ १७६ ६. दीक्षाविधिः, नवमः पटलः ८७ ९९.५ ७. ग्रहाभिषेकविधिः, दशमः पटलः १०७ १२ ८. शौचाचमन स्नानपटलः, एकादशः ११० ३८ ९. भस्मस्नानपटलः ११७ ४१ १०. मन्त्रन्यासविधिः, अग्निकार्यविधिः १२५ १३१.५ ११. नित्योत्सवविधिः १५१ ६६ १२. परिवारलक्षणविधिः १६४ २९ १३. रक्षादीपपटलः १७० ४१.५ १४. अऽऽन्कुरार्पणविधिः १७९ ५४.५ १५. उत्सवसूचनम् १९० ६५.५ १६. वृषयागः २०३ ३४ १७. ध्वजारोहणविधिः २१० ४१ १८. भेरीताडनम् (असमग्रः) २१८-२२२ २३ ११०२ पृ० १) पटलः १ श्रीः शुभमस्तु ओं श्रीसच्चिदानन्द उमामहेश्वराभ्यां नमः वीरागमः समस्तविद्याकुसुमैरलंकृतां शशिप्रभां बालशशाऽऽन्कशेखराम् | अयुग्मनेत्रामरविन्दजप्रियां नमामि देवीं वरदां सरस्वतीम् || १ || प्रणम्य भगवन्तं हि परिपृच्छत् पितामहम् | तन्त्राणामुद्भवं किञ्चित् तत्सर्वं ब्रूहि मे प्रभो || २ || ईश्वर उवाच- तत्सर्वमखिलं वक्ष्ये श्रृणुष्व कमलासन | तनोति विपुलानर्थान् तत्त्वमन्त्रसमाश्रितान् || ३ || पृ० २) त्राणं च कुरुते पुंसां तेन मन्त्रमिति स्मृतम् | कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा || ४ || दीप्तं सूर्यसहस्रं च अंशुमान् सुप्रभेदकम् | विजयं चैव निश्वासं स्यायंभुवमथानिलम् || ५ || वीरं च रौरवं चैव मकुटं विमलं तथा | चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा || ६ || सिद्धं सन्तानं सर्वोक्तं पारमेश्वरमेव च | किरणं वातुलं चैव अष्टाविंशतिसंहिता || ७ || कामिकादीनि मन्त्राणि तेषां भेदं च तच्छृणु | * * * चैव विप्रेन्द्र त्रिविधं भेदमुच्यते || ८ || पृ० ३) योगजं च विशेषेण पञ्चभेदेन चोच्यते | चित्यं च षड्विधं प्रोक्तं सप्तधा कारणं भवेत् || ९ || अजितं च विशेषेण चतुर्णां भेदमुच्यते | दीप्तं चैव तु विप्रेन्द्र नवधा भेदमुच्यते || १० || सूक्ष्मे च एकमन्त्रं स्यात् साहस्रं दशधा भवेत् | अंशुमान् द्वादशं भेदं प्रोच्यते कमलासन || ११ || सुप्रभेदं च विख्यातं भेदमन्यन्न विद्यते | शिवभेदं मया प्रोक्तं उपभेदं श्रृणुष्वथा || १२ || विजयं च विशेषेण अष्टधा भेदमुच्यते | निश्वासं च विशेषेण अष्टधा भेदमुच्यते || १३ || पृ० ४) स्वयंभुव विशेषेण द्विविधेन प्रवक्ष्यते | आग्नेयमेकरुद्रं तु भेदमन्यन्न विद्यते || १४ || वीरतन्त्रं च विप्रेन्द्र त्रयोदशभेदमुच्यते | रौरवं षट्सु भेदेन प्रोच्यते कमलासन || १५ || मकुटाख्यमहातन्त्रं द्विविधेन विधीयते | विमलाख्यं महातन्त्रं चतुर्दशविधं भवेत् || १६ || चन्द्रज्ञानं च बिम्बं च चतुर्दशविधं भवेत् | मुखं विप्रं च विप्रेन्द्र भेदपञ्चदश भवेत् || १७ || प्रोत्गीताख्यं महातन्त्रं षोडशं भेदमुच्यते | ललिताख्यं महातन्त्रं त्रिधा भेदेन चोच्यते || १८ || पृ० ५) सिद्धतन्त्रं च विप्रेन्द्र चतुर्विधेन चोच्यते | सन्तानाख्यं महातन्त्रं सप्तभेदेन चोच्यते || १९ || सर्वोक्तं तु महातन्त्रं पञ्चभेदेन चोच्यते | पारमेश्वरतन्त्रं तु सप्तभेदेन वक्ष्यते || २० || क्षरणाख्यं महातन्त्रं नवधा भेदमुच्यते | विमलाख्यं महातन्त्रं भेदं द्वादशमुच्यते || २१ || तन्त्रकायं प्रवक्ष्यामि तव स्नेहाद्विशेषतः | द्विहस्तौ च द्विपादौ च ऋत्वा वात स्थितं भवेत् || २२ || जटामकुटसंयुक्तं भेदवन्मुखमुच्यते | शुक्लवस्त्रपरीधानं यज्ञोपवीतसंयुतम् || २३ || पृ० ६) मुखं प्रति त्रिणेत्रं स्यात् सर्वाऽऽन्गं लक्षणैर्युतम् | पद्ममध्ये स्थि(तं) दैवं सर्वाभरणभूषितम् || २४ || तन्त्रकायं मया प्रोक्तं सर्वकामार्थसाधनम् | पुस्तकस्य प्रमाणं च श्रृणुष्व कमलासन || २५ || चतुर्दशाऽऽन्गुलं वापि पञ्चदश्याऽऽन्गुलं तु वा | अष्टादशाऽऽन्गुलं वापि नवदशाऽऽन्गुलं तु वा || २६ || अथवा विंशतिर्वापि एकविंशतिरेव च | द्वाविंशतिर्वा विप्रेन्द्र कारयेत् देशिकोत्तमः || २७ || एवं पुस्तकमाख्यातं मानाऽऽन्गुलेन कारयेत् | उत्सेधं चाष्टधा हित्वा एकांशं चैव विस्तरम् || २८ || पृ० ७) विस्तारद्वयतं प्रोक्तं पार्श्वौ कम्पद्वयौ न्यसेत् | त्रिभागं तु चतुर्भागं मध्ये सुषुरमुच्यते || २९ || एवं पुस्तकमानां तु आयामादिकं शृणु | लब्धौच्चं चैव विप्रेन्द्र मानाऽऽन्गुलन भाजयेत् || ३० || एकाऽऽन्गुलं पदं प्रोक्तं हीनाऽऽन्गुल विवर्जयेत् | समं चेत् तत्परिग्राह्यमायव्ययमिहोच्यते || ३१ || वसुभिर्गणितं तत्र राशिभिश्च हरेत्ततः | शेषमायमिदं प्रोक्तं गुणेनैव विवर्धयेत् || ३२ || हरेच्चतुर्दशेनैव शेषं व्ययमिहोच्यते | पदं प्रति गणैर्वृद्धिरष्टभिर्ग्रासयेत्ततः || ३३ || पृ० ८) शेषं योनिरिति ख्यातमष्टभिर्वृद्धिदं पदम् | सप्तविंशतिभिर्ग्रासं लब्धमिष्टमिति स्मृतम् || ३४ || शेषं नक्षत्रमेवोक्तमष्टभिर्वृद्धिदं पदम् | त्रिंशद्भिर्हासयोक्तानि शेषं स्थितिरिहोच्यते || ३५ || अष्टाभिर्वृद्धिदं चैव स * * हासयेत्ततः | शेषं वारमिति प्रोक्तं आयव्यय चयेति च || ३६ || आयुष्यं चैव नक्षत्रं तिथिवारमुदाहृतम् | आयाधिकं व्ययं हीनं संपत्करमिहोच्यते || ३७ || आयहीने व्ययाधिक्ये दोषाकारमिहोच्यते | तस्मात्सर्वप्रयत्नेन आयहीनन्न कारयेत् || ३८ || पृ० ९) ध्वजं सिंहं च वृषभो हस्तिश्चेद्ध्ययनाय च | धूम्रश्च गर्दभः काको दोषाण्येतानि वर्जयेत् || ३९ || यजमानस्य ऋक्षेण नक्षत्रं चानुकूलकम् | एवं परीक्ष्य बहुधा कर्तव्यं पुस्तकं परम् || ४० || ऋक्छन्दोधिदेवानां वक्ष्ये तु कमलासन | विश्वामित्रोऽथ बाल्मीकिः काश्यपांश्चाऽऽन्गिरस्तथा || ४१ || गौतमो गालवो गार्ग्यो वसिष्ठश्चोशनास्तथा | चतुर्दशाऽऽन्गुलादीनि क्रमाद्विन्यस्य देशिकः || ४२ || त्रिष्टुप् चैव अनुष्टुप् च प्रकृतिर्विकृतिस्तथा | गति चत्वारिदश्चैव कति चत्वारिरेव च || ४३ || पृ० १०) उत्तमं त्यक्तमेवं तु छन्दसानां विधीयते | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्शिव एव च || ४४ || कालरुद्रो नीलरुद्रः प्रलयानि सदाशिव | * * * शांगुलादीनि वेदनामिह चोच्यते || ४५ || ऋषीणां लेखयेद्वापि वर्णेनैव तु लेखयेत् | षट्पतिर्वाथ पञ्चैर्वा लेखयेत् पुस्तकं ततः || ४६ || ऋषयो वसवश्चैव ग्रहदित्वैक * * * | पऽऽन्क्तिरेवं समाख्यातं तत्तन्नाम्नाधिदैवतः || ४७ || एवं लक्षणसंयुक्तं राजराष्ट्रविवर्धनम् | ऋषीणं भुजपत्रे तु लेखयेत्तु द्विजोत्तमः || ४८ || पृ० ११) स्वर्णे वा ताम्रपत्रे तु लेखयेद्देशिकस्सदा | द्वौ पार्श्वे कः प * * * पुस्तकायाम तत्समम् || ४९ || प्रतिष्ठा विधिं प्रवक्ष्यामि लक्षणेन समन्वितम् | शिवाग्रे मण्टपं कुर्यादीशाने दक्षिणेऽपि वा || ५० || मण्टपं त्रिविधं मध्ये वेदिं कृत्वा विचक्षणः | वेदि बाह्ये तु परितः परिवारानि कारयेत् || ५१ || वृत्तं वा चतुरश्रं वा कुण्डान्येतानि कारयेत् | स्थण्डिलं वा प्रकर्तव्यं लक्षणेन समन्वितम् || ५२ || मण्टपे नैरृते भागे शालीना स्थण्डिलं कुरु | अथाऽऽन्कुरार्पणं कुर्यात् पञ्चाहे सप्तकेऽपि वा || ५३ || पृ० १२) वेदिकुम्भं च तं मध्ये शिवास्त्रं सापि धानकम् | सहिरण्यं सकूर्चं च सोमराजाधिदेवतम् || ५४ || कृत्वा तव पदं तत्र मध्यमे सोमकुम्भकम् | विन्यसेत्तु विशेषेण पालिका अष्टदिक्षु वै || ५५ || माषमुद्गकुलस्थं च सर्षपं चैव दापयेत् | पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् || ५६ || सुवर्णतन्तुना विप्र कौतुकं बद्धयेद्धृदा | एलालवऽऽन्गतक्कोलमुशीरं चन्दनैर्युतम् || ५७ || लेपयेत् पुस्तकं तत्र शयने शाययेत्ततः | शालिना विकरेद्वेति पद्ममष्टदलं लिखेत् || ५८ || पृ० १३) शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिला न्यसेत् | पञ्चधा शयनं कल्प्य शाययेत् पुस्तकं तथा || ५९ || तत्तदागमबीजेन शाययेच्छयनोपरि | ह्रस्व ब्रह्म समाख्यातं दीर्घाऽऽन्गानि न चोच्यते || ६० || आद्यक्षरसमायुक्तं अनुस्वारसमन्वितम् | ब्रह्ममऽऽन्गमिह प्रोक्तं सर्वेषां च विधीयते || ६१ || वस्त्रेण वेष्टयेत्तत्र पुस्तकं च विशेषतः | दर्पणं चैव विप्रेन्द्र एवमेव क्रमेण तु || ६२ || सरस्वतीं न्यसेत्तत्र पुस्तकस्य तु मध्यमे | पुस्तकस्येन्द्र दिग्भागे विन्यसेत्कुम्भमेव च || ६३ || शुद्धोदकेन संपूर्य सकूर्च स्या विधानकम् | सर्वत्र सहिरण्यं च सरस्वतीं न्यसेत्ततः || ६४ || पृ० १४) मूलमन्त्रेण विन्यस्य अर्चयेत्तु विशेषतः | पूर्वादीशानपर्यन्तं विन्यसेद्वर्धनीषु च || ६५ || सवस्त्रं सहिरण्यं च सकूर्चादीनि विन्यसेत् | वामा ज्येष्ठा च रौद्री च बलवीं बलप्रमथनीं ? सर्वभूतमनोन्मनीम् || ६६ || पूर्वादीनि च विन्यस्य पुस्तके च मनोन्मनीम् | हृदयादि षडऽऽन्गैश्च पूजयेत्तु विधानतः || ६७ || हविर्निवेदयेत्तत्र पश्चाद्धोमं समाचरेत् | पालाशं पूर्वतो भागे अश्वत्थं दक्षिणे तथा || ६८ || पश्चिमे * * * वं तु अपामार्गं तथोत्तरे | औदुम्बरं तथैशान्यं पालाशैर्वापि होमयेत् || ६९ || पृ० १५) समिदाज्य चरून् लाजान् सर्षपांश्च यवांस्तिलान् | समिधा सद्यमन्त्रेण ईशानेनाज्य होमयेत् || ७० || चरुं वै हृदयेनैव लाजं वै शिरसा हुनेत् | सर्षपं सद्यमन्त्रेण नेत्रेण तु यवांस्तथा || ७१ || कवचेन तिलान् हुत्वा सप्तद्रव्यमिहोच्यते | सहस्रं वा तदर्धं वा तदर्धं वापि हूयते || ७२ || अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशतिः | द्रव्यान्ते व्याहृतिं हुत्वा पुस्तकं स्पर्शयेद्धृदा || ७३ || सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् | स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् || ७४ || पृ० १६) ततः प्रभाते विमले पूर्वभूति विशेषतः | तत्तागमं च बीजेन प्रोक्षयेद्वर्धनीं ततः || ७५ || सन्निधौ दर्पणं तस्य अभिषेकं तु कारयेत् | हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत्ततः || ७६ || आचार्यं पूजयेत्पश्चाद्वस्त्रहेमादिरेव च | ब्राह्मणान् भोजयेत्तत्र सप्तकन्यांश्च पूजयेत् || ७७ || बौद्धमार्हतं चैव शैवं पाशुपतं तथा | कपालं पाञ्चरात्रं च षडैते समया स्मृताः || ७८ || एतेषां संकरं चैव तत्र संकरमुच्यते | मन्त्रसंकरदोषेण राजा राष्ट्रं विनश्यति || ७९ || पृ० १७) तस्मात् सर्वप्रयत्नेन संकरन्नैव कारयेत् | अष्टाविंशति भेदेन शैवभेदं विधीयते || ८० || एतेषां संकरं चैव न दोषाय प्रकल्प्यते | दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च || ८१ || तस्मै देवं ततो ग्राह्यं त्रैवर्णिकमिहोच्यते | अदीक्षितं तत् स्रोत स्यान्न देयं यस्य कस्यचित् || ८२ || एवं यः कुरुते मर्त्यः शिवलोकं महीयते | तन्त्रावतारमेवोक्तं पञ्चाक्षरविधिं शृणु || ८३ || इति वीरतन्त्रे षट्सहस्रसंहितायां तन्त्रावतारपटलो(लः) प्रथमः || पृ० १८) पटलः २ (पञ्चाक्षरपटलः) पितामहौवाच(ह उवाच)- नमस्तुत्वा जगन्नाथं परीपृच्छत् पितामहः | श्रीपञ्चाक्षरकल्पं च तत्सर्वं वद मे प्रभो || १ || ईश्वर उवाच- तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन | नमस्कारेण संयुक्तं शिव इत्यक्षरद्वयम् || २ || आदिवर्गं चतुथ्यन्तं यवर्गं च द्वितीयकम् | तद्वर्गान्तं सप्तमं स्यात् पञ्चाक्षरमिति स्मृतम् || ३ || एतन्मन्त्रमनुस्मृत्य बिन्दुनादसमायुतम् | चतुर्थ्या तु समायुक्तं पञ्चाक्षरमिति स्मृतम् || नकारं च मकारं च शिकारं च वकारकः | यकारेण समायुक्तं पञ्चाक्षरमिहोच्यते || ४ || पृ० १९) प्रणवेन समायुक्तं षडक्षरमिति द्वयम् | ऋग्वेदाज्जायते विप्र नकाराक्षरमुच्यते || ५ || मकारं तु यजुर्वेदं शिकारं सामवेदकम् | अथर्वेद तु वकारं यकारमितिहासके || ६ || नकारं श्वेतवर्णं तु ईश्वरेण समायुतम् | सावित्रीछन्दसा युक्तं गतमेन समायुतम् || ७ || स्थानं सद्यमुखं चैव नकाराक्षरमुच्यते | मकारं पीतवर्णं तु ब्रह्माण त्राधिदैवतम् || ८ || शिकारं श्यामवर्णं तु विष्णुस्तत्राधिदैवतम् | त्रिष्टुप्छन्दस्समायुक्तं विश्वामित्रसमन्वितम् || ९ || पृ० २०) स्थानं अघोरवक्त्रं स्यात् शिकाराक्षरमुच्यते | वकारं रक्तवर्णं तु स्कन्दस्तत्राधिदैवतम् || १० || बृहस्पतिसमायुक्तं विश्वामित्रसमन्वितम् | स्थानं अघोरवक्त्रं स्यात् शिकाराक्षरमुच्यते || ११ || बृहस्पतिसमायुक्तं आऽऽन्गीरससमन्वितम् | पुरुषस्य मुखं स्थानं वकाराक्षर कीर्तितम् || १२ || यकारं शुक्लवर्णं तु विघ्नेशस्तत्र दैवतम् | सावित्रीछन्दसायुक्तं भारद्वाजेन संयुतम् || १३ || ईशानस्य मुखं स्थानं यकाराक्षरमुच्यते | पञ्चाक्षरमिह प्रोक्तं शृणु तत्वाक्षरत्वतः || १४ || पृ० २१) अकारश्च उकारश्च मकारश्च त्रिधा भवेत् | अकारं ब्रह्मदैवत्यं उकारं विष्णुदैवतम् || १५ || मकारं महेश्वरस्तत्र अधिदेवाः प्रकीर्तिताः | ऋग्वेदं तु अकारस्स्यात् युजुर्वेदं मकारकम् || १६ || मकारं सामवेदं तु इदमन्यत् शृणुष्व तु | अकारं सात्विकं विद्यादुकारं राजसं भवेत् || १७ || मकारं तामसं ज्ञेयं मकारं शान्तिकं भवेत् | इकारं पौष्टिकं विद्यात् अकारं माभिचारकम् || १८ || अकारं श्वेतवर्णं स्यादुकारं रक्तमेव च | मकारं पीतवर्णं स्यात् देवमेवं क्रमेण तु || १९ || पृ० २२) गुणेन संधिकार्यं स्यादोंकारं शिवमुच्यते | ओंकारेण समायुक्तं षडक्षरमिहोच्यते || २० || रुद्राक्षेण जपं कुर्यात् पञ्चाक्षरसमायुतम् | अऽऽन्गुल्यां तु जपेदेकं पञ्चायाम्रमयं भवेत् || २१ || रेखे अष्टगुणं प्रोक्तं दीपैर्दशगुणं भवेत् | शतशयैस्तु विज्ञेयं प्रवालं तु सहस्रकम् || २२ || स्फटिकं दशसाहस्रं मौक्तिकैर्लक्षमेव च | पद्माक्षं कोटिगुणितं सौवर्णं दशकोटिकम् || २३ || कुशग्रन्थ्या कोटिशतं रुद्राक्षेण त्वनायकम् | न्यासं कुर्यात्ततो मन्त्री पञ्चाक्षरमिहोच्यते || २४ || पृ० २३) अऽऽन्गुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृतम् | कनिष्ठाद्यऽऽन्गुलानां तु संहारन्यासमुच्यते || २५ || यकारं करतले विप्र न्यासं कुर्यात्ततो बुधः | करन्यासं पुरा कृत्वा अऽऽन्गन्यासमथ शृणु || २६ || यकारं मूर्ध्नि विन्यस्य वकारं तु ललाटके | शकारं कण्ठदेशे तु मकारं हृदये न्यसेत् || २७ || नकारं नाभिदेशे तु विन्यसेत्तु विशेषतः | सर्वाऽऽन्गेषु च विप्रेन्द्र ओंकारं विन्यसेत्ततः || २८ || सहस्रं वा तदर्धं वा अष्टोत्तर शतं तु वा | पञ्चाशत् पञ्चविंशैर्वा जपं कुर्याद्विशेषतः || २९ || पृ० २४) प्रासादेन तु मन्त्रेण हृदयेन समन्वितम् | जपं कुर्यात्तु विप्रेन्द्र प्रणवेन समायुतम् || ३० || गृहेषु फलमेकं स्यात् गोष्ठे दशगुणं भवेत् | नदीतीरे शतं विद्यात् सहस्रं देवतालये || ३१ || जप्त्वा विंशतिभिर्लक्षैस्स्वायम्भुवमवाप्नुयात् | लक्षलक्षं तता जप्त्वा रौद्रं पदमवाप्नुयात् || ३२ || प्रवेशे शिवमीशानं त्यक्त्वा संसारसागरात् | श्रीपञ्चाक्षरमेवोक्तं मन्त्रोद्धारण शृणुष्वथ || ३३ || इति वीरतन्त्रे श्रीपञ्चाक्षरपटलो द्वितीयः || पृ० २५) पटलः ३ (मन्त्रोद्धारपटलः) अज्ञानां तव मग्नानां सर्वेषां प्राणिनामथ | सर्वपापविशुद्ध्यर्थं मन्त्रोद्धारं कथं भवेत् || १ || ईश्वर उवाच- मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलासन !| मननं सर्ववक्त्राणां त्राणं संसारसागरात् || २ || मननत्राणधर्मित्वं मन्त्रमित्यभिधीयते | महेन्द्रे मलये चैव सह्ये विन्ध्ये तथैव च || ३ || केदारे निर्मदे चैव गृहे वापि विशेषतः | गऽऽन्गाकूले समुद्रे वा प्रासादे वा विशेषतः || ४ || गवां गोष्ठे विशेषेण नद्यां वापि तटाकके | अन्येषु शुद्धदेशेषु मन्त्रमुद्धारयेत्क्रमात् || ५ || पृ० २६) आचार्यश्च शुचिर्भूत्वा कृतोपवाससंयुतः | पूर्वरात्राधिवासं च प्रभाते मन्त्रमुद्धरेत् || ६ || रक्तेन धातुना विप्र अक्षरं लेखयेद्धृदा | शिवतत्त्वे परे सूक्ष्मे बिन्दुरुत्पद्यते तथा || ७ || बिन्दोर्नादस्समुत्पन्नो नादाच्छक्तिरजायत | शक्तेस्तु वाक् भवन्नादं वाक् भवात् षोडशा कलात् || ८ || कलधात्वञ्जनं जातं व्यञ्जनात् सर्वतन्त्रकम् | शान्तं सर्वगतं शून्यं शिवरूपमिति ब्रुवन् || ९|| अवर्गं च कवर्गं च चवर्गं च टवर्गकम् | तवर्गं च पवर्गं च यवर्गं च शवर्गकम् || १० || पृ० २७) आदिवर्गेषु ऋ ऋ च चतुरक्षर वर्जयेत् | वर्जयेच्चैव विप्रेन्द्र अवर्गं च दशाक्षरम् || ११ || पूर्वं ह्रस्वं समाख्यातमपरं दीर्घमुच्यते | ह्रस्व ब्रह्म समाख्यातं दीर्घाऽऽन्गानि च चोच्यते || १२ || सद्योजातं तु गोक्षीर सदृशं वर्णमुच्यते | जपापुष्पनिभं वाममघोरमञ्जनप्रभम् || १३ || पुरुषं कुऽऽन्कुमप्रख्यमीशान स्फटिकं भवेत् | ब्रह्मवर्ण समाख्यातं तद्रूपं वक्षतेऽधुना || १४ || द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् | द्विपादां च द्विहस्तां च पञ्चब्रह्ममिहोच्यते || १५ || पृ० २८) षडऽऽन्गानि प्रवक्ष्यामि हृदयं च शिरस्तथा | शिखा कवच नेत्रं च अस्त्रमन्त्रेण संयुतम् || १६ || इन्दुधूमं तथा चैव किंचिद्धूम्रं तथैव च | रविनिभ युगान्तानि संप्राप्यं तु पितामहा || १७ || षडऽऽन्गान्यैव सर्वेषां मन्त्रवर्णं विचिन्तयेत् | द्विनेत्रां च द्विहस्तां च द्विपादेन समन्विताम् || १८ || जटामकुटसंयुक्तामुपवीतसमायुताम् | शुक्लवस्त्रसमायुक्तां षडऽऽन्गानामिहोच्यते || १९|| स्त्रीरूपं भावयेत् ब्रह्म षडऽऽन्गान् पुरुषो भवेत् | जपाकुसुमसंकाशं कुन्दपुष्पनिभं भवेत् || २० || पृ० २९) अतसीपुष्पसंकाशं पद्मपुष्पनिभं भवेत् | नीलजीमूतसप्रख्यं कुऽऽन्कुमं ब्रह्ममेव च || २१ || रक्तपऽऽन्कजसंयुक्तं भिन्नाञ्जनसमप्रभम् | विद्येश्वराणां वर्णं च तव स्नेहात् प्रकाशितः || २२ || अकारस्यादिसंयुक्तं बिन्दुश्चैव समायुतम् | अष्टवर्गं तृतीयं तु षष्ठस्वरसमन्वितम् || २३ || शिवविष्णुसमारूढं प्रथमं चाष्टवर्गकम् | आदिवर्गं तृतीयं तु बिन्दुनादसमन्वितम् || २४ || शिवविष्णुसमारूढमष्टमस्या सुसंयुतम् | प्रथमस्य द्वितीयं तु बिन्दुनादसमन्वितम् || २५ || पृ० ३०) विप्रेश्वराणां बीजानि क्रमशो वक्ष्यतेऽधुना | गणाम्बिका च चण्डेशो नन्दीशश्च तथैव च || २६ || महाकालश्च वृषभो विघ्नेशश्च तथैव च | भृऽऽन्गीशश्च महासेन स्वनामाद्यक्षरैर्युतम् || २७ || इन्द्रश्चाग्निर्यमश्चैव निरृतिर्वरुण एव च | वायुस्सोमस्तथैशानः बह्मा विष्णुश्च संयुतम् || २८ || स्वानामाद्येन बीजेन बिन्दुनादसमन्वितम् | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाऽऽन्कुशम् || २९ || गदा त्रिशूली चक्रं च पद्मं चैव दशायुधम् | स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् || ३० || पृ० ३१) दर्पणं पूर्णकुम्भं च वृषभं युगचामरे | श्रीवत्सं स्वस्तिकं शऽऽन्खं दीपो देवाष्टमऽऽन्गलम् || ३१ || स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् | षष्ठवर्गात् द्वितीयं तु चतुर्थ्याद्येन संयुतम् || ३२ || द्वितीये पञ्चमं चैव आद्यक्षरसमायुतम् | विसर्गेण समायुक्तं पाशुपदास्त्रमुच्यते || ३३ || ओं छि चि रि क्षी कूर्चैव क्षुरिकास्त्रमिहोच्यते | भूतानां पिशाचानां गन्धर्वा यक्षकिन्नराः || ३४ || मन्त्राणां च राक्षसानां अन्येषां गणमेव च | स्वनामद्यक्षरं विप्र बिन्दुनादसमन्वितम् || ३५ || पृ० ३२) बिन्दुनादसमायुक्तमाचार्यं बीजमुच्यते | मूर्त्तिपानां च शिष्याणामेवमेव क्रमेण तु || ३६ || अकारादि पञ्चवर्गं पञ्चाक्षरमिहोच्यते | यकारादि द्वयं वर्गं चत्वार्यक्षरमुच्यते || ३७ || वकारद्वयं त्वाद्यस्य बिन्दुनादसमन्वितम् | अनन्तासनं तु विप्रेन्द्र योगासनं तथैव च || ३८ || सिंहासनं तथैव स्यात् पद्मासनमतः परम् | विमलासनं तु विप्रेन्द्र स्वनामाद्यक्षरैर्युतम् || ३९ || बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते | आग्नेयमण्डलं चैव विन्यसेत्तु विशेषतः || ४० || पृ० ३३) तत्त्वस्य मण्डलं चैव रजोमण्डलमेव च | ततो मण्डलमेवोक्तं स्वनामाद्यक्षरैर्युतम् || ४१ || बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते | व्योमव्यापिमहामन्त्र षण्णवत्यक्षरैर्युतम् || ४२ || अस्ति तत्रैव विप्रेन्द्र कथयामि तवाखिलम् | द्वादशारस्य पद्मस्य बहिस्स्याद्विविधा पुनः || ४३ || चतुराभरणैर्युक्तं अभ्यन्तरादिबाह्यकम् | मन्त्रमुद्धरते विप्र सर्वकाममवाप्नुयात् || ४४ || भूतान्तं चैव भूतान्नं भूत भूतान्तमेव च | शिवविष्णुसमारूढं शिवमन्त्रमिहोच्यते || ४५ || पृ० ३४) चक्रमध्ये स्थितं विप्र सर्वलोकहिताय च | व्योमरूपाश्च पञ्चैव रूपा यश्चत एव च || ४६ || ? घोरश्च देश्च मं चेवच्चरा च भये व च | तच्चयं चैव घ्नायश्च वृश्च यश्च भ्रमं च च || ४७ || व्योमश्च योश्च ईशश्च मूर्छी ऋषयश्च च | दश्च पाश्च विनेरश्च मेश्च भिश्च न येव च || ४८ || यश्च नश्च वकारश्च त्राश्चा वायश्च एव च | एवं क्रमेण विप्रेन्द्र विन्यसेदस्त्रमन्त्रवित् || ४९ || वश्च तश्च समूधिश्च विश्चैव ओ म एव च | निश्च तश्च धिपश्चैव कूर्मराजगताश्च ता || ५० || पृ० ३५) गुणश्चस्य न रोगाश्च तश्च नश्च इह एव च | व्योमश्च श्चैव ये यो श्च ओ मि च श्च य एव च || ५१ || अदश्च योश्च मोश्चैव वश्च सं च स एव च | वश्च ओं भूश्च अश्चेति निश्च वा य नि नि श्च च || ५२ || प्रदक्षिण क्रमेणैव विन्यसेद्देशिकस्सदा | एवं क्रमेण विन्यासं सर्वकाममवाप्नुयात् || ५३ || व्योमव्यापिनि तन्मन्त्रं ऋषिच्छन्दे स्वि श्रुणु | अगस्त्येन समायुक्तं जगति च्छन्दसंयुतम् || ५४ || ईश्वरेण समायुक्तं व्योमव्यापिमिहोच्यते | वसिष्ठेन समायुक्तं प्रकृतिच्छन्दसंयुतम् || ५५ || पृ० ३६) शिवरूपेण संयुक्तं शिवमन्त्रमिहोच्यते | आचार्यस्य च बीजं च ऋषिछन्दोऽधिदेवताः || ५६ || कौशिकः काश्यपश्चैव भरद्वाजश्च गौतमः | अत्रीयश्च समायुक्तं पञ्चवक्त्रेषु दीक्षिताः || ५७ || तत्तत्कुलेषु जातानां तत्तत् दृष्टिरदाहृतः | जगदी शक्वरी चैव अनुष्टुप् तृष्टुपेव च || ५८ || प्रकृतिश्चैव विप्रेन्द्रश्छन्दसानामिहोच्यते | आगमस्यैव बीजानि प्रवक्ष्याम्यनुपूर्वशः || ५९ || द्वितीयस्यादिसंयुक्तं द्वितीयस्वरभाषितम् || बिन्दुनादसमायुक्तं कामिकाक्षरमुच्यते || ६० || पृ० ३७) कामिकाक्षरमेवोक्तं योगजं च शृणुष्वथ | सप्तमेन च संयुक्तं एकादश समन्वितम् || ६१ || बिन्दुनादसमायुक्तं योगजाक्षरमुच्यते | तृतीयस्यादिमं ग्राह्य सप्तमस्य द्वितीयकम् || ६२ || आदिमध्यचतुर्थ्यां तु बिन्दुनादसमन्वितम् | चिन्त्याक्षरमिदं प्रोक्तं द्वितीयस्यादिसंयुतम् || ६३ || सप्तमस्य तृतीयं तु बिन्दुनादसमन्वितम् | कारणाख्यमिदं प्रोक्तं प्रथमस्यादिसंयुतम् || ६४ || आकारबीजसंयुक्तं सप्तमस्य द्वितीयकम् | बिन्दुनादसमायुक्तमजितं त्विह चोच्यते || ६५ || पृ० ३८) पञ्चमस्य तृतीयं तु सप्तमस्यादिसंयुतम् | द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् || ६६ || दीप्तबीजमिदं प्रोक्तमष्टवर्गं तृतीयकम् | द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् || ६७ || सूक्ष्मबीजमिदं प्रोक्तमष्टमस्य तृतीयकम् | सप्तमस्य द्वितीयं तु मायाबीजेन संयुतम् || ६८ || बिन्दुनादसमायुक्तं सहस्रं चोच्यते मया | अन्त्याक्षरसमायुक्तं बिन्दुनादसमन्वितम् || ६९ || सुप्रभेदाक्षरं प्रोक्तं सप्तवर्गस्य चान्तिकम् | तृतीयस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ७० || पृ० ३९) विजयं चैव विप्रेन्द्र पञ्चमस्यान्तसंयुतम् | मायालेपसमायुक्तं बिन्दुनादसमन्वितम् || ७१ || निश्वासतन्त्रमेवोक्तं अष्टवर्गतृतीयकम् | सप्तमस्य चतुर्थं तु मायाबीजसमन्वितम् || ७२ || बिन्दुनादसमायुक्तं स्यायंभुवमिति स्मृतम् | अन्त्याक्षरमिति प्रोक्तं द्वितीयस्वरभूषितम् || ७३ || बिन्दुनादसमायुक्तमाग्नेयमिह चोच्यते | सप्तमस्यादिमं बीजं मायानलसमन्वितम् || ७४ || बिन्दुनादसमायुक्तं वीरतन्त्रमिहोच्यते | सप्तमस्य द्वितीयं तु द्वादशस्वरभूषितम् || ७५ || पृ० ४०) आकाशबीजसंयुक्तं बिन्दुनादसमन्वितम् | अक्षराणां परं श्रेष्ठं रौरवं प्रोच्यते मया || ७६ || षष्ठमस्यान्तिमं बीजं अन्त्याक्षरसमायुतम् | मायानलसमायुक्तं मकुटाक्षरमुच्यते || ७७ || सप्तमस्यादिमं बीजं मायानलसमन्वितम् | बिन्दुनादसमायुक्तं विमलं चैव कथ्यते || ७८ || तृतीयस्यादिमं बीजं मायानलसमन्वितम् | बिन्दुनादसमायुक्तं चन्द्रज्ञानमिहोच्यते || ७९ || अष्टवर्गात्तृतीयं तु द्वादशस्वरभूषितम् | बिन्दुनादसमायुक्तं बिम्बस्याक्षरमुच्यते || ८० || पृ० ४१) षष्ठमस्यादिमं चैव द्वादशे चानलो भवेत् | बिन्दुनादसमायुक्तं प्रोत्गीतमिह चोच्यते || ८१ || सप्तमस्य तृतीयं तु एकादशेन संयुतम् | बिन्दुनादसमायुक्तं ललितस्वर भूषितम् || ८२ || अष्टवर्गतृतीयं तु सप्तमस्वरसंयुतम् | अनलेन समायुक्तं सिद्धां तन्त्रमिहोच्यते || ८३ || अष्टवर्गतृतीयं तु अष्टस्वर विभूषितम् | सप्तमस्य द्वितीयेन बिन्दुनाद समन्वितम् || ८४ || सन्तानस्य तु मन्त्रोऽयमष्टवर्गादिमं युतम् | द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ८५ || पृ० ४२) शर्वोत् गीतमिदं प्रोक्तं पृष्ठवर्गादिसंयुतम् | मायानलसमायुक्तं बिन्दुनादसमन्वितम् || ८६ || पारमेश्वरमेवोक्तं द्वितीयस्यादिमं युतम् | द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ८७ || किरणस्याक्षरं प्रोक्तं सप्तमं च चतुर्थकम् | मायानलसमायुक्तं बिन्दुनादसमन्वितम् || ८८ || वातुलस्य तु मन्त्रोऽयमष्टाविंशतिभेदकम् | छन्ददैवतान्वक्ष्ये आगमानां विशेषतः || ८९ || वसिष्ठेन समायुक्तं चत्वारि छन्दसंयुतम् | तव रूपेण संयुक्तं कामिकादीनि सप्त च || ९० || पृ० ४३) सहस्रादीनि सप्तैते व्यासेनैव समायुतम् | अजितश्छन्दसंयुक्तं विष्णुस्तत्राधिदैवतम् || ९१ || एवमेव क्रमेणैव मन्त्राणां प्रोच्यते मया | अदीक्षितैर्न श्रोतव्यं न देयं न प्रकाशितम् || ९२ || शिष्याणां चैव दातव्यं समासात् कथयामि ते | अष्टवर्गात्तृतीयान्तं आद्यक्षरसमायुतम् || ९३ || अष्टवर्ग तृतीयं तु आद्यक्षरविवर्जितम् | शक्तिबीजमिदं प्रोक्तं सर्वकामार्थसाधनम् || ९४ || सदाशिवस्य रूपं तु वक्ष्यामि शृणु तत्त्वतः | शुद्धस्फटिकसंकाशं त्र्यक्षं दशभुजैर्युतम् || ९५ || पृ० ४४) पञ्चवक्त्रयुतं देव जटामकुटमण्डितम् | दिव्याम्बरधरं देवं सर्वाभरणभूषितम् || ९६ || परशुं खड्ग वज्रं च अभयं दक्षिणे करे | पाशं चाऽऽन्कुश घण्टा च नागं वह्निंश्च वामके || ९७ || पद्मासनासिनो देवं नेत्रैः पञ्चदशैर्युतम् | एतत्सकलमाख्यातं धर्मकामार्थमोक्षदम् || ९८ || मन्त्रोद्धारं मया प्रोक्तं पुष्पाणां च शृणुष्वथ || ९८.५ || इति वीरतन्त्रे मन्त्रोद्धारपटलश्चतुर्थः || ? पृ० ४५) पटलः ४ (पुष्पलक्षणपटलः) पुष्पाणां चैव सर्वेषां पत्राणां च तथैव च | विशेषं श्रोतुमिच्छामि तं मे ब्रूहि महेश्वर || १ || ईश्वर उवाच- यावत्पुष्पस्य संख्यानि पूजानां योग्यमेव च | अयोग्यं हि च पुष्पाणां तावच्छृणु तपोधन || २ || अर्कपुष्पसहस्राच्च करवीरं विशिष्यते | करवीर सहस्रेभ्यः बिल्वपत्र विशिष्यते || ३ || बिल्वपत्रसहस्रेभ्यः पद्मपत्रं विशिष्यते | पद्मपुष्पसहस्रेभ्यः पुण्डरीकं विशिष्यते || ४ || पुण्डरीकसहस्रेभ्यः शतपत्रं विशिष्यते | शतपत्रसहस्रेण * स्रकर्णं विशिष्यते || ५ || पृ० ४६) सहस्रकर्णं विशिष्टेभ्यः बकपुष्पं विशिष्यते | बकपुष्पसहस्रेभ्यः धूद्धूरकं विशिष्यते || ६ || धूद्धूरकं सहस्रेभ्यः द्रोणपुष्पं विशिष्यते | द्रोणपुष्प सहस्रेभ्यः अपमार्गं विशिष्यते || ७ || अपामार्ग सहस्रेभ्यः कुशपुष्पं विशिष्यते | कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते || ८ || शमीपुष्पसहस्रेभ्यः व्याघातं तु विशिष्यते | व्याघातानां सहस्रेभ्यो शऽऽन्खपुष्पं विशिष्यते || ९ || शऽऽन्खपुष्प सहस्रेभ्यः व्याघ्रपुष्पं प्रशस्यते | व्याघ्रपुष्प सहस्रेभ्यो सदाभद्रं विशिष्यते || १० || पृ० ४७) श्वेतार्कस्य च विप्रेन्द्र बृहद्द्रोणं विशिष्यते | बृहद्द्रोणविशिष्टेभ्यः नीलोत्पलं विशिष्यते || ११ || ? सुवर्ण धूद्धूरपुष्प नीलोत्पल समुद्भवेत् | प्रक्षाल्य पञ्चगव्येन नीलोत्पलं तु काञ्चनम् || १२ || पुनः पूजां प्रकर्तव्यां सर्वलोकहिताय च | जपापुष्पकदम्बं च पुन्नागं च तथैव च || १३ || द्रोणपुष्पसमं ज्ञेयं विष्णुक्रान्ति जपस्तथा | अंजयं मल्लिका जाजी जाती जवन्तिरेव च || १४ || धूद्धूरकसमं ज्ञेयं चम्पकं कटकं तथा | बिल्वपत्रसमं ज्ञेयं पुन्नागं च विशिष्यते || १५ || पृ० ४८) कोब्जं मालती चैव करवीरं समुत्भेवेत् | पद्मपुष्पसमं ज्ञेयं वकुलं परमेव च || १६ || अशोकं शोकमन्दारं व्याघातं सममुच्यते | श्वेतं कुसुमं रक्तोत्पलमपामार्ग समं भवेत् || १७ || पट्टिका रक्तकंख्या च व्याघ्रपुष्पसमं भवेत् | गन्धपुष्पं गण्डपुष्पं पद्मपुष्पसमं भवेत् || १८ || इन्द्रवल्ली च तुलसी अर्कपुष्पसमं भवेत् | कोरण्डकस्य पुष्पं च अपामार्गसमं भवेत् || १९ || बकपुष्पसमं ज्ञेयं अम्बिका अथ शिंशुका | सूर्यवर्त्ता नाग * * * * ञ्च शऽऽन्खमेव च || २० || पृ० ४९) धूर्द्धूरकसमं ज्ञेयं महाभद्रनृणावपि | वज्रं च पद्मरागं च मरकतं मौक्तिकानि च || २१ || इन्द्रनीलं महानीलं वैडूर्यं च प्रवालकम् | नीलोत्पलसमं ज्ञेयं सर्वरत्नानि चैव हि || २२ || संके परि पालाशं च कदम्बपुष्पमेव च | अंकोलं सकरं चैव प्रियऽऽन्गु जम्बु चैव च || २३ || अर्कपुष्पसमं ज्ञेयं पूजयेत्तु विशेषतः | पलाशपुष्पं विप्रेन्द्र रविरश्मिसमायुतम् || २४ || नवसाण्डे परिग्राह्य षाण्मासं पूजयेच्छिवम् | यवगोधूमनीवार व्रीहि वैणवकानि च || २५ || पृ० ५०) निष्पाव मानश्यामं च नीलमुद्गक एव च | अऽऽन्कुराणि प्रकर्तव्यं पूजयेच्छिवमादरात् || २६ || व्याघातक समेवं तु इदमन्यत् शृणुष्वथ | कदम्बार्जुनसिन्दूरं * * * कुसुमानि च || २७ || श्वेतस्तु गिरिकर्णी च नन्द्यावर्त्तं च शारिका | कदलीपुष्पपुन्नागनागनन्दी तथैव च || २८ || गिरिबेरि च पत्री च करवीरसमं भवेत् | गिरियार्कौ गिरिकर्णी च धूर्द्धूरक समं भवेत् || २९ || निर्गन्धात्यग्रगन्धानि कुसुमानि विवर्जयेत् | पुष्पाणामप्यलभेत्तु फलानां पूजयेत्ततः || ३० || पृ० ५१) फलानामप्यलाभेत्तु मूलेनैव तु पूजयेत् | मूलानामप्यलाभे तु भक्त्या चैव तु पूजयेत् || ३१ || एवमेवक्रमेणैव पूजयेदेवकंकणी | केतकी माधवी कुन्दमधुदीम्रदयंतिका || ३२ || शिरीषसर्ज बन्धूक किंशुकं धुरितं तथा | नीलकर्णकमेवाथ पोटकामेन्वमेव च || ३३ || मध्याक्षीं चैव शिग्रुं च वर्जयेल्लिऽऽन्गकर्मणी | एवमेव क्रमेणैव यो नरः पूजयेत् सदा || ३४ || स मुक्तस्सर्वपापेभ्यो रुद्रलोकं स गच्छति | पुष्पाध्यायमिदं प्रोक्तं कर्षणस्य विधिं शृणु || ३५ || इति वीरतन्त्रे पुष्पलक्षणपटलः पञ्चमः || ? पृ० ५२) पटलः ५ (दीक्षामण्डलविधिः) ? (कर्षण, वास्तुलक्षण, बलि, दीक्षामण्डल विधयः) ? पितामह उवाच- कर्षणं कीदृशं देव वास्तुलक्षणमेव च | एतत्सर्वं समासेन ब्रूहि मे परमेश्वर || १ || ईश्वर उवाच- कर्षणस्य विधिं यावत् तावत् शृणु तपोधन | पुष्यमासादिषाण्मासं देवानां तु दिवा भवेत् || २ || आषाढादिषु षाण्मासं रात्रिरित्यभिधीयते | दिवामासं च गृह्णीयात् रात्रिमासं च वर्जयेत् || ३ || प्राजापत्यश्च यत्सौम्य हस्तश्चैव त्रिरुत्तराः | ? मैत्र्यादित्य मघास्यादिवष्टाद्राश्रवणाः शुभाः || ४ || एषामेव दिनं श्रेष्ठं धनधान्य विवर्धनम् | ? द्वितीयां तृतीयां पञ्चमी षष्ठी सप्तमी || ५ || पृ० ५३) दशम्येकादशैर्वापि शुक्लपक्षे त्रयोदशी | प्रतिपत्पूर्णमावास्यां कारयेत्तु शिवद्विजः || ६ || राशयश्चरवज्यश्च ग्राह्या धनुरशोभना | सोमभार्गवसौम्यायां वारा श्रेष्ठतमा स्मृताः || ७ || एषामेयोदयं शस्तं तत्र सोमोदयं विना | अष्टमस्था ग्रहास्सर्वे सर्वं कुर्वन्ति दुस्थितम् || ८ || खण्डस्पूणान्तनक्षत्रे गुलिका विष्टयस्यजेत् | ग्रहणे विषुवे चैव अयने व्यतिपातके || ९ || (दुस्थितः) षडशीतिमुखे वापि कृतं कार्यं विनश्यति | एवं परीक्ष्य कर्तव्यं सर्वसंपत्कराय च || १० || पृ० ५४) अथ भूमिं परीक्ष्यैव पश्चात्कर्म समारभे | ऊषरं कृमिभिर्जुष्टं वल्मीकाढ्यं त वर्जयेत् || ११ || श्वेता तु ब्रह्मभूमि स्यात् रक्ता वै क्षत्रियस्य तु | पीता वैश्या इति प्रोक्ता कृष्णा शूद्रा इति स्मृताः || १२ || हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना | अधिकं चोत्तमं ज्ञेयमधमं न्यूनमेव च || १३ || आराद्ध्य विषमन्त्रेण हेमशृऽऽन्गखुरान्वितौ | क्षीरवृक्षयुगं बध्वा गोचर्मेणैव बद्धयेत् || १४ || असनं खादिरं वा हलं कृत्वा यलेहकः | आचार्यस्सकलीकृत्य नववस्त्रेण वेष्टयेत् || १५ || पृ० ५५) सर्वाभरण संपूज्य अर्चयेच्छिवमन्त्रतः | ओं तीक्ष्णशृऽऽन्गाय विद्महे वेदपादाय धीमहि | तन्नो वृषभः प्रचोदयात् | आराध्य वृषभं तत्र कर्षयेत् शिवमन्त्रतः || १६ || ओं - प्रागुक्त कर्षयेत्तत्र आचार्यं पूजयेत्ततः | शालिमुद्गकुलस्थं च भूतले विन्यसेत्ततः || १७ || आचार्याय प्रदातव्यं सहगौ वृषभौ तथा | तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् || १८ || शाल्यं विमोचयेत्तत्र लक्षणे * समन्वितम् | पुण्याहं वाचयेत्तत्र प्रोक्षयेत् शिवमन्त्रतः || १९ || पूजानांते स्पृशा कर्ता यदऽऽन्गस्तं निरीक्ष्यते | वास्तुदेहेऽपि तत्रैव शल्यं ब्रूयाद्यथाक्रमात् || २० || पृ० ५६) अस्थिशल्यं शिरस्पर्शं तदद्धस्तद्वमानतः | करस्पर्शे गले तच्च वृद्धस्त त्रयमानतः || २१ || त्रिहस्ते शृऽऽन्गला शल्यमुरस्पर्शात्तु देशिकः || हस्तमात्रे करस्पर्शात् ख वा पादं समादिशेत् || २२ || अऽऽन्गारकं त्रिहस्ते तु भावस्पर्शनमुच्यते | ? गुल्फेन पादनिर्दिष्टं वितस्ति द्वय वित प्रमाणापादे कर्णाऽऽन्गमुच्यते || २३ || कनिष्ठाऽऽन्गुष्ठयोः स्पर्शात् करा पेकाकमुच्यते | कटस्पर्शा तु लोहं च करद्वयप्रमाणतः || २४ || ? नाभिकोर्परं ह जानुस्पर्शमेव च | एवं परीक्ष्य बहुधा शल्यमुद्धरते क्रमात् || २५ || पृ० ५७) घनं कृत्वा तु विप्रेन्द्र गोमयेनानुलेपयेत् | पुण्याहं वाचयेत्तत्र षण्णवत्या तु प्रोक्षयेत् || २६ || अश्वत्थोदुम्बरं वाथ शऽऽन्कुं वै ग्राहयेत्ततः | आयामद्वादशाऽऽन्गुलन्नाडीं स्यात्तु षडऽऽन्गुलम् || २७ || तत्र मध्ये स्थितं शऽऽन्कुं तन्मानेन तु भ्रामयेत् | सूत्रद्वयं तनैव * * * * * * मानतः || २८ || पूर्वाह्णे च पराह्णे च शऽऽन्कुछायं च लंघयेत् | ततस्सूत्रद्वयं प्राचि पादयोश्चक्रमध्यमे || २९ || प्रगेत सूत्रमानेन मध्यस्थेनैव कारयेत् | उदात् सूत्रं भवेत्तत्र कृत्वा तु चतुरश्रकम् || ३० || पृ० ५८) पञ्चगव्येन संप्रोक्ष्य षण्णवत्येन मन्त्रतः | वास्तुदेवान् समभ्यर्च्य पुरुषं पूजयेत्ततः || ३१ || असुराणां हतार्थाय शुक्रः कृत्वा महातपाः | ? महत्तप ससं * * * * * भूतकां बलः || ३२ || भूम्यामयो मुखस्तं तु दद्यात्तु पुरुषो भवेत् | एवमेव क्रमं ज्ञात्वा वास्तु तत्रैव कल्पयेत् || ३३ || मध्ये नवपदं ब्रह्मा चतुर्दिक्षु च विन्यसेत् | ब्रह्माणं पूर्वतो भागे समययक तु षट्पदम् || ३४ || दक्षिणे तु विवस्वांश्च षट्पंदं चैव पूज्यते | मित्रश्चैव तु विप्रेन्द्र पश्चिमे षट्पदस्तथा || ३५ || पृ० ५९) उत्तरे षट्पदं भुऽऽन्क्ते पृथिवीधर एव च | आपश्चैवापवत्सश्च ऐशान्यां तु पदद्वये || ३६ || सावित्री सविता चैव आग्नेये तु पदद्वये || इन्द्रश्चेन्द्रजयश्चैव नैरृत्यां तु पदद्वये || ३७ || रुद्रो रुद्रपदश्चैव वायव्यां तु पदद्वये | ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः || ३८ || ? आदित्यक भृंगावन्तरिक्षश्च पूर्वगा | अग्निः पूषा च वितथो ग्रहः क्रतुर्यमस्तथा || ३९ || गन्धर्वो भृऽऽन्गराजश्च मृगश्चैव तु दक्षिणे | पितृदौवारिकश्चैव तथा सुग्रीवमेव च || ४० || पृ० ६०) पुष्पदन्तश्च वरुणो असुरश्च तथैव च | शोषश्च पाप यक्ष्मा च पश्चिमे तु व्यवस्थि * || ४१ || उत्तरे तु तथा रोगान्नागो मुख्यस्तथैव च | भल्लोटश्च तथा सोमो ऋगोदिति दितिस्तथा || ४२ || पूतना नैऋते चैव पापराक्षसि . वायवे | वास्तवानां तु सर्वेषां ब्रह्मभिर्मुख एव च || ४३ || एवं विन्यस्य देवांश्च पुरुषं प्रोच्यते मया | समानीय शिरं विद्वान् ब्रह्मकायमिहोच्यते || ४४ || मित्रश्चैव तु लिऽऽन्गं स्याद्वृषणं पृष्ठमेव च | एवं वास्तुरिदं प्रोक्तं चरवास शृणुष्वथ || ४५ || पृ० ६१) मासे भाद्रे पदे स्वादिपूर्वशीर्षमुच्यते | मार्गशीर्षकमासादि त्रयो मासास्तु दक्षिणे || ४६ || फल्गुन्यादि त्रयो मासं पश्चिमे शिर उच्यते | ज्येष्ठमासादिसंज्ञेया उत्तरे शीर्षं तथा || ४७ || पूर्व शीर्षमध्याह्ने साये दक्षिणशीर्षकम् | मध्यरात्रौ तु विप्रेन्द्र पश्चिमे शिर उच्यते || ४८ || उषः काले तु सर्वे तु उत्तरे शिर उच्यते | एवं पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् || ४९ || वक्ष्ये विधि बलिर्यावत् तावच्छृणु तपोधन | सर्वेषां बलि दातव्य पायसान्नं घृतप्लुतम् || ५० || पृ० ६२) प्रदद्यात् फलभक्ष्यं तु समर्यक विशेषतः | तिलमष्टान्नसंयुक्तं विवस्वाति बलिं ततः || ५१ || पूर्वापदधि मित्रे च महिष क्षीरमेव च | पर्जन्ये चैव सर्पिश्च जयन्ते नवनीतकम् || ५२ || महेन्द्रे पिष्टमेवं तु * * * मधुरुच्यते | मधु चित्रोदरफलं सत्ये बलिमिहोच्यते || ५३ || ? कंक्वान्नं च विधे बिम्बा * विनां च ग्रहक्षिते | कृसरं यमदेवं तु गन्धर्वे खिलमुच्यते || ५४ || समुद्रमत्स्य विप्रेन्द्र भृऽऽन्गराजबलिं ततः | दध्यान्नं च मृगे दद्यत् पितृपिण्डाकतैलकम् || ५५ || पृ० ६३) इष्टे वायु शतं पिष्टे दौ * वरि सुग्रीवके | पुष्पदन्ते ज कुसुमं पायसं वरुणे तथा || ५६ || असुरे मधुकं विद्यात् शोषे तु तिलतण्डुलैः | ? रोगोभि शुष्कमस्यं हि नागौ चार्चं बलिं तथा || ५७ || प्रख्ये पि धान्यवर्णं तु दधिसंयुतमेव च | भल्लोटे तु गुलं सं स्यात् सोमे गुलान्नमेव च || ५८ || ऋभेदवे गुलं चैव दिति देवस्तुमोमकैः | दितौ च तिलभक्ष्येण क्षीरान्नं सर्वरीशके || ५९ || आपे तया पवत्सेव अजमांसं च मत्स्यकम् | सविता सावित्रके चैव जऽऽन्गमं धोदनं ततः || ६० || पृ० ६४) इन्द्रो बलिस्तदा दद्यात् इन्द्रजये तु मुद्गकम् | रुद्रो रुद्रजये चैव मासं क्षीरं बलिं ददेत् || ६१ || चरकी घृतमेवं तु विदारी लवणं तथा | तिलपिष्टं पूतना चैव गुल्माष पापराक्षसी || ६२ || स्थापितः कृतोपवासश्च एवमेव बलिं ददेत् | देवतानामसंयुक्तं चतुर्थ्यन्तं समायुतम् || ६३ || नमस्कारसमायुक्तं बलमद्वि विनिर्दिशेत् | आचार्यैर्बलि दातव्यं वास्तुहोमादिकर्मसु || ६४ || ब्राह्मणः सुधा पिता कृष्णा शूद्रस्य संस्मृता | मधुरा ब्रह्मणो भूमिः कर्षया क्षत्रियस्य वै || ६५ || पृ० ६५) वैश्यस्य क्षदसा ज्ञेया शूद्रस्तु कामका स्मृताः | आज्यगन्धं तु विप्रस्य रक्तगन्धा नृपस्य तु || ६६ || मूत्रगन्धा तु वैश्यस्य शूद्रस्येष्टा सुगन्धिनी | वर्णगन्धरसानां च तत्तज्जात्यर्हकं भवेत् || ६७ || हस्तमात्रं खनेत् भूमिं पूरयेत्तेन पांसुना | अधिका चोत्तमं विद्यात् मध्यमा समपांसुला || ६८ || उत्तमं विद्यहीनाच्चाप्यधमं ज्ञेय वर्जयेत् | भासत्करा तुषा केशा हस्तमुद्धरते तथा || ६९ || पञ्चगव्येन संप्रोक्ष्य शिवमन्त्रेण देशिकः | पञ्चरत्न क्षिपेत्तत्र षण्णवत्या च मन्त्रितम् || ७० || पृ० ६६) पांसुभिश्चाद * * तु धिण्यं साम्यं प्रकल्पयेत् | दर्पणोदरसंकाश चतुरश्रं समन्ततः || ७१ || पूर्वाग्रं सप्तसूत्रं स्यात् उदगग्रं तथैव च | कर्णसूत्रद्वयोपेतं तस्याग्रे मुखमुच्यते || ७२ || ईशे जयन्तमादित्ये सत्यकश्च भृशस्तथा | अग्निश्च वितथश्चैव ग्रहक्षत यमस्तथा || ७३ || भ्रंशं च पितृ सुग्रीवो वरुणश्चासुरस्तथा | रोगनागश्च मुख्यश्च . . . . मोमश्चादितरोऽपि च || ७४ || अर्धार्ध द्विपदं भुऽऽन्क्ते * * * समरीयकम् | विवस्वान् दक्षिणश्चैव मित्रश्चैव तु पश्चिमे || ७५ || पृ० ६७) अर्धार्धा द्विपदं भुऽऽन्क्ते उत्तरे पृथिवीधरा | आप वत्सश्च सावित्री इन्द्रजस्तं तथैव च || ७६ || रुद्रं जयश्च विप्रेन्द्र ईशाने कपदस्तिथा | ब्रह्मश्चतुष्पदं भुऽऽन्क्ते षट्त्रिंशत्पदभागिनी || ७७ || चरकी चारकी चैव पूतना पापराक्षसी | चतुश्शूले न्यसेत्तत्र गन्धपुष्पादिनार्चयेत् || ७८ || पुरुषं पूर्व संकल्य सरीर्यके शिरो भवत् | ब्रह्मकायमिति प्रोक्तं वामाम्बायवत्सकें || ७९ || सावित्र्यन्तं च विप्रेन्द्र दक्षिणे बाहुरुच्यते | रुद्रे जयस्तथा चैव वामभागः प्रकीर्तितः || ८० || पृ० ६८) इन्द्रं जयस्तथा च स्यात् दक्षिणो पाद उच्यते | मित्रश्चैव तु लिऽऽन्गं स्यादयोमुखं तु कारयेत् || ८१ || गन्धैः पुष्पैश्च धूपैश्च वरुणश्चैव पूजयेत् | मण्डलं वर्धयेद्धीमान् पुण्याहं वाचयेत्ततः || ८२ || पूर्वे चतुष्पदे चैव अष्टांशं तु विभाजिते | एकांशं वर्तयेत्तत्र तत्तन्मध्यादि भ्रामयेत् || ८३ || एवमेव क्रमेणैव चतुर्दिक्षु च भ्रामयेत् | मध्यात् कर्णे परिगृह्य तदर्धेनैव भ्रामयेत् || ८४ || अभ्यन्तरं कर्णपदे वर्तयेद्दलमेव च | एवमेव क्रमेणैव चत्वारो दलमुच्यते || ८५ || पृ० ६९) वाह्यकर्णपदे चार्धो वर्धयेद्वृत्तमेव च | अष्टाभिर्दलमेवं तु दलाग्रं तत्र योजयेत् || ८६ || प्रतिवारणरेखा च एकाऽऽन्गुलेन कारयेत् | अऽऽन्गुलीत्रयकार्ये तु शोभां चैव तु वर्जयेत् || ८७ || अऽऽन्गुलेनैव विप्रेन्द्र उभ शोभां च वर्त्तयेत् | मध्यात्पूर्वदलान्तं तु वर्त्तयेत्केसरं ततः || ८८ || केसरं तु त्रिभागैकं कर्णिकाश्चैव वर्त्तयेत् | एवमेव क्रमेणैव वर्तयेन्मण्डलं ततः || ८९ || मोक्षदं मण्डलं प्रोक्तं आकाशं च शृणुष्वथ | पूर्वाग्रमुत्तराग्रं च सूत्रद्वयं प्रसारयेत् || ९० || पृ० ७०) निरृत्यैशानकोणे च वायव्याग्नेयमेव च | सूत्रप्रकारयोर्मध्ये शक्रं तत्रैव विन्यसेत् || ९१ || खादिराश्शऽऽन्कवः कार्या बिल्वचूतकदम्बकैः | मधूकं देवदारुं वा याज्ञिकं वृक्षमेव च || ९२ || अष्टाऽऽन्गुल समुत्सेधं तदर्धं नाहमुच्यते | कर्तव्याच्चतुरऽऽन्गुल्यं केबराश्च षडऽऽन्गुली|| ९३ || दलायामं च विप्रेन्द्र चतुर्दशाऽऽन्गुलं भवेत् | प्रतिवारण चाऽऽन्गुल्यं विधायाऽऽन्गुलिरेव च || ९४ || शोभमप्यप शोभां च वर्त्त * दऽऽन्गुलान्तरम्| एवमेव क्रमेणैव वर्त्तयेन्मण्डलं ततः || ९५ || पृ० ७१) मण्डलं संप्रवक्ष्यामि मुक्ताचूर्णेन संयुतम् | शालिगोधूमपिष्टैश्च पञ्चरागं च चूर्णकैः || ९६ || गैरिकैष्टकचूर्णैश्च इन्द्रनीलस्य चूर्णकैः | तुषाऽऽन्गारकचूर्णैश्च मरकतस्य च चूर्णकैः || ९७ || हरिद्राचूर्णसंयुक्तं मण्डले विन्यसेत्ततः | केसरस्य तु मूले तु शुक्लवर्णं प्रकीर्तितम् || ९८ || मध्यमे पीतवर्णं तु अग्रे पीतमिहोच्यते | पूर्वायां तु दलं चैव श्वेतवर्णमिति स्मृतम् || ९९ || आग्नेययां रक्तवर्णां च याम्ये कृष्णमिहोच्यते | नैरृते धूम्रवर्णं तु वारुणे मौक्तिकं भवेत् || १०० || पृ० ७२) वायव्यां श्यामवर्णं तु सोमे तु रजनी भवेत् | ऐशान्यां नीलमेवं तु दलवर्णमिहोच्यते || १०१ || श्वेतवर्णेन विप्रेन्द्र विन्यसेत् प्रतिवारणे | तदन्ते रजनी यस्य शालिपिष्टं तदन्तके || १०२ || चतुर्द्वारसमायुक्तं लेखयेत्तु शिवद्विजः | एकहस्तं द्विहस्तं वा चतुर्हस्त तथोपि व || १०३ || अष्टौ वा द्वादशं हस्ते षोडशं विंशतिस्तु वा | हस्तौ त्रिंशतिभिर्वापि इदमिद्धन्न कारयेत् || १०४ || अष्टौ वा षोडशं वापि द्वात्रिंशद्दलमेव च | अष्टोत्तरशतं वापि दलसंख्या विधीयते || १०५ || पृ० ७३) मन्त्रन्यासं प्रवक्ष्यामि शृणुष्व कमलासन | पुरुषं पर्वदले न्यस्य अघोरं दक्षिणे दले || १०६ || सद्यं तु पश्चिमे न्यस्य वामदेवं तथोत्तरे | आग्नेययां हृदये न्यस्य शिरमीशानके दले || १०७ || नैरृत्यां तु दले विप्र शिखामन्त्रं तु योजयेत् | कवचं वायुदेशे तु नेत्रमीशानदेशके || १०८ || अस्त्रं दिशासु संपूज्य एवमेव क्रमान्न्यसेत् | दैन्यके तु पदे चैव शिष्यादिवासनं भवेत् || १०९ || मनुष्येऽपि विकुण्डस्स्यात् पेशाचे गुरु तिष्ठति | ब्रूहि मे मण्डलं कुर्यात् एवमेव क्रमेण तु || ११० || पृ० ७४) कर्णिकायां शिवं पूज्य ईशानं केसरे न्यसेत् | प्रोक्षयेदम्भसा चैव पुण्याहं वाचयेत्ततः || १११ || गन्धैः पुष्पैश्च धूपैश्च हृदयेन तु पूजयेत् | आवाहयेत्ततो देवं सद्योजातेन मन्त्रतः || ११२ || स्थापयेद्वामदेवेन अघोरेण निरोधयेत् | सान्निध्यं पुरुषेणैव ईशानेन तु पूजयेत् || ११३ || पञ्चावरणमार्गेण पूजयेद्विधिपूर्वकम् | निवेदयेच्चरुं तस्य सर्वोपदंशसंयुतम् || ११४ || अर्धं निवेदयेद्देवे चात्यात्थ्यं बलिरग्निभिः | पात्रशेषं चतुर्थ्यन्तं शतं शिष्याय प्रदापयेत् || ११५ || पृ० ७५) पञ्चब्रह्मैरनुस्मृत्य पञ्चपिण्डं कुरुष्वथ | आचम्य च विधानेन दन्तैरस्पृश्य प्राशयेत् || ११६ || व्योमव्यापिं जपेत्तत्र आचम्य च विधानतः | दन्तकाष्ठं ततः कुर्याद्द्वादशाऽऽन्गुलदैर्घ्यकम् || ११७ || पिप्पलं वटवृक्षं च खादिरं वापि कारयेत् | क्षीरवृक्षमपामार्गं दन्तधावनमुच्यते || ११८ || पाशुपतास्त्रमन्त्रेण जपित्वा खात(द)येत्ततः | शोधयित्वा मलं विप्र आचम्य च विधानतः || ११९ || व्योमव्यापिं जपेत्तत्र शिवाऽऽन्गं विन्यसेत्ततः | अघोरमन्त्रेण भस्म शिरसि विन्यसेत्ततः || १२० || पृ० ७६) पञ्चगव्यं ततो दद्याच्छिवमन्त्रसमायुतम् | शिवाऽऽन्गैर्ब्रह्मभिर्युक्तं जपित्वा पश्चात् प्राशयेत् || १२१ || आचम्य च विधानेन पूतो भवति नित्यशः | शिष्यं चाधिवसेन्मन्त्री मण्डलस्य तु दक्षिणे || १२२ || भस्मदर्भसमारूढ शिवध्यानपरायणः | अग्निकुण्डं प्रकर्तव्यं द्वात्रिंशत्षोडशं तु वा || १२३ || ? अष्टौ च पञ्चसंख्या वा दिक् द्राव च * * * * | वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् || १२४ || बिल्वो दुम्ब शमीश्चैव वैकतंकत समित्तदा | पालाशखादिराश्वत्थपक्षन्यग्रोधमेव च || १२५ || पृ० ७७) अपामार्गं च विख्यातं समिद्भिस्समुदाहृतम् | समिदाज्यचरूलाजान् शालीं च सर्षपं तथा || १२६ || यवांश्चैव तु विप्रेन्द्र होमयेत्तन्त्रपारगाः | समिधस्सद्यमन्त्रेण आज्यं हृदयमेव च || १२७ || शिखया वात्र होमं तु लाजं वामेन चैवहि | तिलां धत्ते यमं चैव शालीं च पुरुषेण तु || १२८ || सर्षपं शिरमन्त्रेण कवचेन यवांस्तथा | शिवाय दश होतव्यमविद्ये द्विगुणं भवेत् || १२९ || गणेशान् लोकपालाश्च त्रिगुणं होमयेत्ततः | त्रिगुणं लोकपालास्त्रं होमयेद्देशिकोत्तमः || १३० || पृ० ७८) मण्डलस्य तु पूर्वेश कलशान्विन्यसेन्नव | सवस्त्रान् सापिधानांश्च समन्त्रान् हेमसंहितान् || १३१ || नवरत्नं च विप्रेन्द्र नवकुम्भेषु विन्यसेत् | धान्योपरि विधातव्यं चन्दनोदकपूरितम् || १३२ || शिवमन्त्रेण संस्थाप्य प्रधानकलशस्तथा | पुरुषं पूर्वतः स्थाप्य अघोरं दक्षिणेन वा || १३३ || सद्यः पश्चिमतः स्थाप्य वामदेवं तथोत्तरे | ऐशान्यामीशमन्त्रेण आग्नेययां हृदयेन तु || १३४ || शिखामन्त्रेण नैरृत्यां कवचं वायुगोचरे | तत्तन्मन्त्रसमायुक्तं तत्तत्कुम्भेषु देशिकः || १३५ || पृ० ७९) गन्धैः पुष्पैश्च धूपैश्च दीपैरर्घ्यैर्विशेषतः | हृदयेन तु मन्त्रेण नैवेद्यान् दापयेत्ततः || १३६ || पश्यते विजयं स्वप्ने महदद्ध्यमवाप्नुयात् | पद्मं पुष्पं च वृषभं मकुटं भूमिलाभकम् || १३७ || अर्पितं फलितं वापि पक्वं वा शुभवृक्षकैः | दृष्टे मृष्टफलं चैव लभतेऽत्र न संशयः || १३८ || शालिक्षेत्रे महत् पक्वं दृश्यते शालिलाभकम् | अर्पितं फलितं वापि अन्यैर्वा शुभवृक्षकैः || १३९ || ? दृष्टे मृष्टफलं चैव लभतेऽत्र न संशयः | शालिक्षेत्रे महत्पक्वं दृश्यते शालिलाभकम् || १४० || पृ० ८०) स्वप्ने महोदकं दृश्ये धनधान्यमवाप्नुयात् | दृश्यते पुष्पमालायां अर्थलाभं विनिर्दिशेत् || १४१ || धेनुं वापि वराहं वा शुक्लं वा मृगमेव च | शारिकां वा भयं वापि दृश्येत् कुडुम्बबन्धनम् || १४२ || यस्तु श्वेतेन दर्पेण दृश्यते दक्षिणे भुजे | पत्रं वा चार्थलाभं वा लभतेऽत्र न संशयः || १४३ || गन्धशालि महाशालि कलिमाशालि रेव च | दातव्यमपि स्वप्ने तु दुःखनाशा भवन्ति वै || १४४ || सवत्सां सुरभीमुद्रां पश्येदायुश्च वर्द्धत | जनं वा वानरं वापि सर्पं वा दृश्यतेऽथवा || १४५ || पृ० ८१) धनधान्यमवाप्नोति पुत्रपौत्रविवर्धनम् | प्रासादरोहणं वापि समुद्रमुत्तीर्यते नरः || १४६ || स राज्यं लभतेऽवश्यं स्वप्नान्तं दृश्यते नरः | चन्द्रस्य मण्डलं दृश्ये भक्षणे वा विशेषतः || १४७ || भक्षणाद्राज्यमाप्नोति दर्शनादर्धमाप्नुयात् | सुरं वाप्यसुरं वापि पानं वा दृश्यते यदि || १४८ || विद्यालाभं द्विजानां तु इतरस्तु धनं लभेत् | तरते सृक्निशी वापि महदर्थमवाप्नुयात् || १४९ || अमेध्यदर्शनं वक्ष्ये अर्थलाभं विनश्यति | क्षीरपाने महाव्याधिर्घृतपाने महद्भयम् || १५० || पृ० ८२) रक्तपानेन स्याद्व्याधी राज्यं च दधिभोजनम् | पायसं चैव वैश्वानरं वा वाद लीयते ततः || १५१ || महत्सुखमवाप्नोति मासान्मरणमाप्नुयात् | श्येनं वा कपिं वापि धूर्त्तं चैव समूलकम् || १५२ || मूर्ध्नि वा लीयते भक्षे मासान्मरणमाप्नुयात् | स्वदन्ते पतिते चैव बन्धुर्मरणमाप्नुयात् || १५३ || ? मतं मलिनवस्त्रं संयुतं * * * * * * | ते तु महाव्याधि रक्तं वा भामवाप्नुयात् || १५४ || निगले चात्र दृष्टे तु महाव्याधिमवाप्नुयात् | रक्तवस्त्रैश्च माल्यैर्वा कृष्णं वापि च धार्यते || १५५ || पृ० ८३) पाददेशे स्थिता नारी व्याधितो मरणं भवेत् | कथयुक्त रथारु * * * ते तु यमालयम् || १५६ || मासान्मरणमाप्नोति स्वप्नान्ते दृश्यते यदि | रूपे तु पतिते दृश्ये मरणं तस्य निर्दिशेत् || १५७ || सन्यासं क्षपणं बोध्यः दृश्यते मरणं भवेत् | शै . . . . . चान्यद्वयं वापि रक्तस(व)स्त्रां सुमऽऽन्गलीम् || १५८ || * * * मघा स्त्रीयमवाप्नोति दृश्यते यदि | तालवृक्षफलं चैव फलानां वर्जयेत्ततः || १५९ || किंशुकं रक्तपुष्पाणि करवीरं तु वर्जयेत् | धूर्द्धूरकं विना विप्र श्वेतपुष्पं प्रदृश्यते || १६० || पृ० ८४) नराणां ब्राह्मणश्श्रेष्ठ राज्ञां तु मध्यमं भवेत् | शुकहस्तं च विप्रेन्द्र पक्षीणां तु प्रदर्शयेत् || १६१ || धेनुं च वृषभं चैव सिंहं चैव मृगं तथा | स्वप्ने प्रदृश्यते विप्र आयुष्यं चैव वर्धनम् || १६२ || मरीचं सर्षपं मुद्गं दृश्यते व्याधिमाप्नुयात् | कदली नालिकेरं वा पनसं मातुलऽऽन्गकम् || १६३ || एतेषां तु फलं दृश्ये धनधान्यमवाप्नुयात् | देवानां च ऋषीणां वा देवपत्नी च वा स्थिरा || १६४ || यस्तु पश्यति स्वप्नान्ते धनमायुर्यशो भवेत् | आयं चाहनं वापि दृश्यात् कुडुम्बवर्धनम् || १६५ || पृ० ८५) मासं वापि च मत्स्यं वा लब्धो शुभप्रदं भवेत् | ऋक्षां वा तस्करं वापि महिषं व्याघ्रमेव च || १६६ || राजा पीडामवाप्नोति प्रातरेवाधिमादिशेत् | स्नानकार्यं प्रकुर्यात्तु सद्यो व्याधिर्विमुच्यते || १६७ || रण्डां च मुण्डनं वापि नग्नां स्त्रीं वापि पश्यति | धान्यक्षयं भवेत्तस्य स्वप्नान्तेऽपि न संशयः || १६८ || पुरुषं वापि मूत्रं वा स्वप्ने संदर्शयेत्ततः | वास्तु नश्यति स्वापान्ते अर्थहानिमवाप्नुयात् || १६९ || शाल्यन्नं भुञ्जते यस्तु आयुश्श्रीकीर्तिवर्धनम् | स्त्रीभिस्सुमऽऽन्गलीभिस्तु संयोगं मैथुनं शुभम् || १७० || पृ० ८६) शुभे तु प्रविते दीक्षामशुभे होममाचरेत् | सहस्र परमां देवी शतमूला शताऽऽन्कुरा || १७१ || सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी | इदं मन्त्रं जपित्वा तु दूर्वां शिरसि निक्षिपेत् || १७२ || स्वप्नं तु प्रथमे यामे वत्सरत्रयसाकिनः | द्वितीयेन द्वयं चैव द्वियामे चैकवत्सरम् || १७३ || चतुर्थेऽपि च यामे च षण्मासात्सिध्यते ततः | उषायां तु दशाहे तु प्राहे पञ्चदशं दिनम् || १७४ || अरुणोदय वेलायां सप्ताहात् सिद्धिमाप्नुयात् | एवमेव क्रमेणैव स्वप्नं चैव परीक्षयेत् || १७५ || एवं परीक्ष्य बहुधा प्रभाते स्नपनं भवेत् | दीक्षाया मण्डलं प्रोक्तं दीक्षाविधिमथ शृणु || १७६ || इति वीरतन्त्रे दीक्षामण्डलपटलोऽष्टमः ? (कर्षण, वास्तुलक्षण, बलि दीक्षामण्डलविधयः) ? पृ० ८७) पटलः ६ (दीक्षाविधिः) पितामह उवाच- दीक्षामार्गं कथं देवं मन्त्रन्यास कथं प्रभो | शैवास्सप्तविधा के वा तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- पितामह महाप्राज्ञ यत् त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || २ || श्रीयते सत्वसद्भावं श्रीयते पाशपञ्चरम् | तयोस्तु संपुटीकृत्य सा दीक्षा इति कथ्यते || ३ || सप्तधा शैवमुद्दिष्टं मतानि गदतश्श्रृणु | अनादि शैवं प्रथमं आदिशैव द्वितीयकम् || ४ || महाशैवं तृतीयं तु चतुर्थं चानुशैवकम् | अवान्तरं तु शैवं तु पञ्चमं च विदुर्बुधाः || ५ || पृ० ८८) षष्ठ प्रवर शैवं तु सप्तमं चान्त्य शैवकम् | शैवास्सप्त तया प्रोक्तास्तेषां भेदं शृणुष्वथा || ६ || अनादि शैव विज्ञेयं अहमेव न संशयः | शिवद्विजाश्च विप्रेन्द्रा आदिशैवाः प्रकीर्तिताः || ७ || कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च | गौतमश्चाप्यगस्त्यश्च पञ्चवक्त्रेषु दीक्षिताः || ८ || एतेषां तु ऋषीणां तु जाता ये च शिवद्विजः | पुनर्दीक्षां न कुर्वन्ति कर्तव्या चेत्तु निष्फलम् || ९ || उपनयीत काले तु मण्डले पूजयेच्छिवम् | स्नपनं चाऽऽन्ग शुद्ध्यर्थं कारयेत्तु शिवद्विजान् || १० || पृ० ८९) महाशैवं तु विप्राणां * * ञ्चैव समन्वितम् | अदीक्षितश्चतुर्वेदी शिवपूजां न कारयेत् || ११ || श्रुत्यर्थं परमेशानं दीक्षापरहितो द्विजः | षाण्मासात्पतनं याति यजेद्देवलक स्मृताः || १२ || त्रीणि वर्षाणि भृत्यर्थमन्यलिऽऽन्गेऽपि दीक्षिताः | पूजयेद्वृति विप्रैस्तु स वै देवलको भवेत् || १३ || एतेषां चैव सर्वेषां मलकानां च सर्वशः | स्थितलिऽऽन्गे तु यत्पूजा न कुर्वीत कदाचन || १४ || क्षत्रियश्चैव वैश्यश्च अनुशैवमिहोच्यते | शूद्रोऽप्यन्तर शैवस्तु उच्यते क्रमशोऽधुना || १५ || पृ० ९०) सवर्णाम्बष्ठमध्ये स्थो कुलालो पारशिवस्तथा | प्रवर शैवमिति ख्यातमिदमन्य शृणुष्वथा || १६ || अन्येषां चैव जातीनामन्यशैवमिहोच्यते | ? आदिशैव न कर्तव्य प्रतिष्ठा अर्चनान्तकम् || १७ || अन्यथा कारयेद्वस्तु निष्फलं चैवमाप्नुयात् | शैवभेदं मया ख्यातं दीक्षाविधिमथ शृणु || १८ || रोहिणी श्रवणार्द्रा च श्रविष्ठा त्रीणि चोत्तरा | पुष्यश्शतभिषक् चैव दीक्षानक्षत्रमुच्यते || १९ || वृषभं वाथ सिंहं वा वृश्चिकं कुम्भमेव च | मिथुनं वापि कन्या वा धनुर्वा मीनमेव च || २० || पृ० ९१) एते च राशयः प्रोक्ताश्चरराशिश्च वर्जयेत् | द्वितीया पञ्चमी वापि षष्ठा वापि विशेषतः || २१ || द्वादशीं वाथ कर्तव्यं त्रयोदश्यामथापि वा | एतेषां तिथयः प्रोक्ता वारांश्चैव शृणुष्वथ || २२ || सोमश्शुक्रबुधो वापि जीववारमथापि वा | बृहस्पत्युदयं वापि शुक्रोदयमथापि वा || २३ || शुक्रोदये तु कुर्वीते सोमोदयमथापि वा | ? षष्ठस्वरगृहाणात्तु पश्चात् शिष्यांस्तु प्रेषितान् || २४ || स शुद्धहृदयान् भक्तान् कृतशौचो जितेन्द्रियः | पादप्रक्षालनं कुर्यादाचम्य च विधानतः || २५ || पृ० ९२) नेत्रे बन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः | दुकूलपट्टसंयुक्तं कार्पासिकमथापि वा || २६ || उत्तमं द्वादशं हस्तं मध्यमं दशहस्तकम् | अधमं नवहस्तं तु चतुस्तालं तु विस्मृतम् || २७ || जीर्णेन स्फटिकेनैव दण्डे तु मरणं भवेत् | स दशाहतवस्त्रेण नेत्रे बद्धं तु कारयेत् || २८ || वस्त्रद्वयेन संयुक्तं नेत्रमन्त्रदशं जपेत् | व्योमव्यापिं जपेत्तत्र तत्पुरुषेण समायुतम् || २९ || नेत्रबद्धं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् | उत्तमं दशनिष्कं तु अष्टनिष्कं तु मध्यमम् || ३० || पृ० ९३) अधमं पञ्चनिष्कं तु लक्षणं चोच्यते मया | दरिद्राणां तु सर्वेषां यथालाभेन कारयेत् || ३१ || उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् | ईशानेन तु मन्त्रेण पुष्पहस्ते निधापयेत् || ३२ || प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः | ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् || ३३ || मण्डले विकिरेत्पुष्पं स्वस्तिमऽऽन्गलवाचकैः | यस्मिन्मन्त्रे पदेत् पुष्पं नामगोत्रं तु तन्मतम् || ३४ || समन्त्रं सद्यते तस्य कुरुते * * व्याप्य तु | ईशानस्य दले द्व्याधिराग्नेययां शोधनं तथा || ३५ || पृ० ९४) नैरृत्यां श्रीकरं प्रोक्तं मनायुष्यं तु वायुदिक् | चतुर्दिक्षु च विप्रेन्द्र तन्त्रिकारमिति स्मृतम् || ३६ || कर्णिके पतिते पुष्पे सुखं चैव भवेत्तदा | ईशानस्य दले चैव नेत्रन्नाम मिहोच्यते || ३७ || उदकेन समायुक्तं भस्मं शिरसि निक्षिपेत् | गन्धादिभिर्यमभ्यर्च्य हृदयेन तु मन्त्रतः || ३८ || शिवाग्रे चैककुम्भं तु शाल्योपरि च विन्यसेत् | ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् || ३९ || शिवमन्त्रमनुस्मृत्य स्थापयेत् कुम्भमेव च | तस्योदकेन विप्रेन्द्र प्रोक्षयेत् शिष्यमूर्धनि || ४० || पृ० ९५) ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || ४१ || सद्योजातं न्यसेत्पादे विन्यसेत् शिष्यदर्शके | हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् || ४२ || शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् || ४३ || देवस्य दक्षिणे भागे कमठाकारमाक्रमम् | कूर्चेनैव समायुक्तमासनं तत्प्रकीर्तितम् || ४४ || आसनस्य तु शिष्यश्च पूर्वाभिमुखमेव च | अग्निबीजेन विप्रेन्द्र त्रिकोणमण्डले स्थिते || ४५ || पृ० ९६) पादाऽऽन्गुष्ठं समारभ्य देहे दद्यात् शिरोऽन्तकम् | अमृतेन प्लावयेत्तत्र एकचित्तेन वै बुधाः || ४६ || चन्द्रमण्डलसंकाशमकारं जन्मसंभवम् | विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारकम् || ४७ || ओमित्यनेन कमलं योगपीठमधोमुखम् | चिन्तयेदमृतं तोयं सुषुम्नाभिन्नंमस्तकम् || ४८ || तेन प्लावितमात्मानमापूर्यं तं विचिन्तयेत् | इमां योऽभ्यसते नित्यं समाधिं मृत्युनाशकम् || ४९ || न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः | षडध्व विन्यसेत्पश्चात् शिष्यदेहे विशेषतः || ५० || पृ० ९७) मन्त्राध्वा च पदाध्वा च तत्त्वाध्वा भुवनात्मकम् | वर्णाध्वा च कलाध्वा च विंशत्येकपदं शिवम् || ५१ || सत्त्वं रजस्तमश्चैव आत्मा दिन्द्रियमेव च | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चाष्टशक्तिभिः || ५२ || पञ्चब्रह्म शिवाऽऽन्गानि प्रसादान्ते सदाशिवः | शिष्ये देहे न्यसेद्विप्रः प्रणवादि नमोऽन्तकम् || ५३ || तत्तन्मन्त्रमनुस्मृत्य योजयेत् शिष्यदेहके | मन्त्राध्वा विन्यसेन्मूर्ध्नि कलाध्वा मुखमेव च || ५४ || तत्त्वाध्वा हृदये न्यस्य नाभे तु भुवनात्मकम् | वर्णाध्वा मेढ्रदेशे तु पादयोस्तु कलाध्वकम् || ५५ || पृ० ९८) पदाध्वा तु पुनर्योज्य पादारभ्य शिरोन्तकम् | सद्यं कलाभिरष्टाभिर्वामदेवं त्रयोदश || ५६ || अघोरमपि चाष्टौ तु चतुर्वृत्तस्तथैव च | ईशानस्य कलाः पञ्च अष्टत्रिंशत्कला न्यसेत् || ५७ || विद्येश्वराणामष्टौ च गणेशानां चतुष्टयम् | प्रासादं लोकपालानां अस्त्राणां पदमेकः || ५८ || एवं पदाध्वा विन्यस्य तत्त्वाध्वा च पुनर्न्यसेत् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ५९ || श्रोत्रं त्वक् चक्षु जिह्वा च घ्राणश्चैव तु पञ्चमः | वाक्पाणिपादपायूरुपस्थं चैव तु पञ्चमम् || ६० || पृ० ९९) शब्दस्पर्शे रूपरसे गन्धश्चापि च पञ्चमम् | मनोऽहंकारबुद्धिश्च प्रकृतिः पुरुषस्तथा || ६१ || रसो माया च विद्या च काला नियतिरेव च | वि * * * बरकाश्च शुद्धमाया तथैव च || ६२ || शुद्धविद्या शुद्धकला सदाशिव शिवः परः | षट्त्रिंशतत्त्वमेवं तु क्रमेणैव तु विन्यसेत् || ६३ || भुवनाध्वा ततो न्यस्य कालं नाला शिवान्तकम् | भुवनाध्वा न्यसेत्पश्चात् पश्चादूर्ध्वं क्रमेण तु || ६४ || अधस्थाद्धृदयादीनि कल्पयेत्कल्पवित्तमः | कालाग्निश्चान्धकारं त नरको नेक विंशतिः || ६५ || पृ० १००) रौरवं कुम्भिपाकं च महा * * * एव च | क्षुरधारासिकादीनि जलं च शीतलेन च || ६६ || उष्णसन्तापनं चैव लोहतप्तं तथैव च | कूटं शाल्मलि कूपं च तिलयन्त्रेषु यन्त्रकम् || ६७ || धनुर्निरयमाधानं क्षुरिकानिरयमेव च | पाषाणं तप्तपांसुर्वै धरणी च तथैव च || ६८ || तलं च वितलं चैव नितलं च तलातलम् | सुतलं च तलातलं रसातलमथोपरि || ६९ || भूलोकश्च भुवर्लोकस्सुवर्लोकस्तथैव च | महर्लोकश्च विज्ञेयो जनलोकस्तथैव च || ७० || पृ० १०१) तपोलोकं सत्यलोकं गन्धर्वा यक्षलोककः | विद्याधरणां लोकं च सिद्धचारणलोककान् || ७१ || असुराणां लोकं च कर्णिकानां च लोककम् | इन्दुलोकाग्निलोकं च यमो निरृतिलोककम || ७२ || वरुणं वायुलोकं च सोमलोकं तथैव च | ईशानं देवलोकं च ब्रह्मलोकं तथैव च || ७३ || ब्रह्मलोकोपरिस्तस्य विष्णुलोकमतःपरम् | अनन्तेशस्य लोकं तु सूक्ष्मलोकमतःपरम् || ७४ || शिवोत्तमस्य लोकन्तु एकनेत्रस्य लोककम् | एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च || ७५ || पृ० १०२) महेश्वरस्य लोकं तु सदाशिवस्य लोककम् | लोकं च शिवलोकं च क्रममेषां प्रकीर्तितम् || ७६ || शिवलोकोपरिष्टात्तु लोकमन्यन्न विद्यते | नाभिमूलात्समारभ्य यावद्धृदयदेशिकम् || ७७ || वर्णाध्वा विन्यसेद्विप्रा कपोतान्तरमेव च | अकारं मूर्ध्नि देशे तु उकारं तु ललाटके || ७८ || उकारं दक्षिणे नेत्रे ईकारं वामलोचने | उकारं दक्षिणनासायां ऊकारं वामनासिके || ७९ || ऋकारं दक्षिणे श्रोत्रे ऋकारं वामकर्णके | ऌकारं दक्षिणे गण्डे ऌल्कारं वामगण्डके || ८० || पृ० १०३) ए ऐ च तालुरन्ध्रे तु ओ औ ओष्ठद्वयोरपि | दन्तपऽऽन्क्तिद्वये न्यस्य अं अः इत्यक्षरद्वयः || ८१ || कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके | टवर्गं दक्षिणे पादे तवर्गं वामपादके || ८२ || पा पौ दक्षिणपार्श्वे वा वामपार्श्वे ब भौ न्यसेत् | मकारं हृदये न्यस्य यकारं त्वक् च विन्यसेत् || ८३ || रेफं रक्तकमेवोक्तं लकारं मांसमुच्यते | मकारं मेद विन्यस्य चकारं च सुदेशिके || ८४ || मज्जादेशे षकारं तु शकारं शक्लमेव च | हकारं प्राणमित्याहुः क्षकारं मेढ्रमेव च || ८५ || पृ० १०४) लकारे वृषणे प्रोक्तं सर्वान्येतानि विन्यसेत् | नवत्रिंशत्कलान्विप्र कादिपादान्तं विन्यसेत् || ८६ || रसुतारा रमणीय तरयं तु सुदारुणी | निवृत्तश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || ८७ || शान्त्यतीतं परं व्योम क्रमाद्विन्यस्य तत्त्ववित् | ततो मोहा क्षुधा निद्रा मृत्यु माय जरा भया || ८८ || राजा रक्षा रतिः पाल्या रम्याक्षणमिति क्रिया | धृतिं कार्या परा त्री च भ्रामिणी मोहिनी तथा || ८९ || सिद्धं ऋद्धिर्द्युतिर्लक्ष्मी मेधा कां तु स्थिरा स्थितः | नवत्रिंशत्कला ह्येता देवदेव न धीमहि || ९० || पृ० १०५) हृदये चाग्नि विन्यस्य मुखे वायुश्च त न्यसेत् | आकाशं मूर्ध्नि विन्यस्य पञ्च त क्रमणा न्यसेत् || ९१ || मन्त्राध्वा सद्यमन्त्रेण वामेनैव पदाध्वकम् | वर्णाध्वा चा ह्यघोरेण तत्त्वाध्वा पुरुषेण तु || ९२ | भुवनाध्वा कलाध्वा च ईशानेन तु विन्यसेत् | एवमेव क्रमेणैव शिष्यदेहे न्यसेत्ततः || ९३ || ईशानं मूर्ध्नि विन्यस्य मुखे विष्णुरिति स्मृतम् | हृदयं ब्रह्मणा प्रोक्तं अचिन्त्यां हस्तयोर्न्यसेत् || ९४ || इन्द्रश्चैव तु कुक्षि स्याद्वामाग्नौ पार्श्वयोर्न्यसेत् | वृषणे निरृतिश्चैव वायू वरुण पादयोः || ९५ || पृ० १०६) पृष्ठे चन्द्र इति ख्यातं शिष्य हो तु विन्यसेत् | एवं यः कुरुते मर्त्यः पूतो भवति मानवः || ९६ || देशिकश्चान्मना विप्रा शिवस्तत्रैव तिष्ठति | तस्मात् सर्वप्रयत्नेन देशिकः पूजयेत्ततः || ९७ || यद्द्रव्यं पात्रशेषादि शिवस्य परमेष्ठिनम् | होतव्यं देशिकस्यापि तद्दोषाय प्रकल्पयेत् || ९८ || शिवमुद्दिश्य सर्वं तु वस्त्र धान्यादि काञ्चनम् | दद्यादाचार्य हस्ते तु शिवलोकमवाप्नुयात् || ९९ || दीक्षाविधिरिति प्रोक्तमभिषेकं ततश्शृणु | ९९.५ इति वीरतन्त्रे दीक्षाविधिपटलो नवमः || ? पृ० १०७) पटलः ७ (ग्रहाभिषेकविधिः) ईश्वर उवाच- ग्रहाभिषेकं वक्ष्यामि शृणुष्व कमलासन | शुचौ देशे समं कृत्वा गोमयेनानुलेपयेत् || १ || शालिस्तस्योपरि न्यस्य * * * * घटं न्यसेत् | ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् || २ || पूर्वादीशानपर्यन्तं स्थापयेत्कलशान्नव | मध्यमे स्थापयेत्कुम्भं गन्धपुष्पादिनार्चयेत् || ३ || कुम्भदक्षिणपार्श्वे तु स्थापयेत्तु नवग्रहान् | आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् || ४ || आग्नेयं चन्द्रदैवत्यं अऽऽन्गारकं तु दक्षिणे | राहुं च नैरृते भागे पश्चिमे शनिरुच्यते || ५ || पृ० १०८) केतुश्चैव तु वायव्यादुत्तरे तु बृहस्पती | ऐशान्या बुधदेवस्तु स्थापयेत्कुम्भकैस्सह || ६ || स्वस्वनामो तु संयुक्तं हृदयेन समन्वितम् | अर्चयेच्चैव विप्रेन्द्र हविर्निवेदयेत्ततः || ७ || बिल्वपत्रं तु शिष्यं च दूर्वा चैव पलाशकम् | विष्णुक्रान्तिश्शमीपत्रं पद्मपत्रं तथैव च || ८ || वकुलार्कस्य पत्रं च अश्वत्थोदुम्बरस्तथा | करवीरं भृऽऽन्गराजं कुम्भे चैव तु निक्षिपेत् || ९ || गन्धपुष्पादिनाभ्यर्च्य पूर्वेद्युरधिवासयेत् | एवमभ्यर्च्य विधिवत् ग्रहपीडां व्यपोह्य तु || १० || पृ० १०९) उपनयनादिकार्येण एवमेवाभिषेचयेत् | सर्वे दोषान्विनश्यन्ति एवमेवं समाचरेत् || ११ || आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः | ग्रहाभिषेकमिदं प्रोक्तं शौचमार्गविधिं शृणु || १२ || इति वीरतन्त्रे ग्रहाभिषेकविधिर्दशमः पटलः || पृ० ११०) पटलः ८ (शौचाचमन स्नानपटलः) पितामह महाप्राज्ञ यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन् || १ || उत्थाय तत्तथा प्रातः मौनव्रतसमन्वितः | श्रीमान् प्राचीमुदीचीं वा तत्त्वाचार्यो विशेषतः || २ || उत्तराभिमुखो वापि दक्षिणाभिमुखं तु वा | नवमाभिमुखस्यं तु मलं चैव विसर्जयेत् || ३ || वर्जयेदस्थिविण्मूत्रवर्जनं शिरोवकुण्डनम् | दक्षिणेन तु हस्तेन मृदं संग्राहयेत्ततः || ४ || वामे शिश्नं गृहीत्वा तु कण्ठे यज्ञोपवितकम् | नद्यां वापि तटाके वा पुष्करे वा ह्रदेऽपि वा || ५ || पृ० १११) शुद्धस्नाने जलं प्राप्य आचम्ये तु यथाविधिः | गदे च दशथा दद्यात् मृदं चैव विशेषतः || ६ || पञ्चभिः क्षालयेद्वामं कारयेत्पञ्चमूर्त्तिकाः | मेढ्रे चैकमृदं दद्यात् करं पञ्चैव क्षालयेत् || ७ || अमृतं फलमात्रेण पादौ प्रक्षालयेत्ततः | त्रिः प्राश्योद्विदं मृज्य आचम्य च विधानतः || ८ || मृत्पिण्डं च त्रिधा कृत्वा हृदयेन तु मन्त्रतः | तत्पुरुषेण तु मन्त्रेण पूर्वं पिण्डं त्रिधा भवेत् || ९ || दक्षिणे घोर मन्त्रेण उत्तरे वाममन्त्रतः | पूर्वेणैव मृदं दद्यात् अस्त्रेण दशदिक्षु वै || १० || पृ० ११२) दक्षिणेन मृदा चैव सर्वाऽऽन्गमुपलिप्य च | हृदयेन तु सर्वाऽऽन्गमस्त्रमन्त्रेण लेपयेत् || ११ || उत्तरेण मृदा चैवा शिवतीर्थं तु कल्पयेत् | जलमध्ये स्थितं चैव पञ्चब्रह्मेण देशिकः || १२ || तैलं चामलकं युक्तमऽऽन्गं लालिप्य सर्वशः | गोमयेन पुनश्चैव उपलिप्य च स्नापयेत् || १३ || मार्जयेच्छिरमीशानं पुरुषेण मुखं तथा | हृदयं चैव घोरेण वामेनाऽऽन्गुष्ठमेव च || १४ || पादयोस्सद्यमन्त्रेण मार्जयेद्देशिकोत्तमः | व्योमव्यापिं जपेत्तत्र मार्जयित्वा तु मन्त्रवित् || १५ || पृ० ११३) कलशमुद्रां तु बध्वा तु प्रासादेनाभिषिञ्चयेत् | गोमयेन मृदा चैव सर्वाऽऽन्गं लेपयेद्धृदा || १६ || नाभिमात्रोदके स्थित्वा आचम्य च विधानतः | त्रिः प्राश्यापो द्विरामृज्य ऊर्ध्वाधश्च क्रमेण च || १७ || अऽऽन्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् | प्राणद्वयं च श्रोत्रं च मध्यमाऽऽन्गुलिना स्पृशेत् || १८ || अऽऽन्गुष्ठतर्जनीभ्यां तु बाहुं चैव स्पृशेत्ततः | सर्वाभिरऽऽन्गुलीभिश्च मूर्धानं चैव संस्पृशेत् || १९ || दक्षिणेन तु हस्तेन उदकं ग्राहयेत्ततः | वामदेवेन संयुक्तं सूर्यश्चेति जलं पिबेत् || २० || पृ० ११४) ईशानेना चाग्निश्चेति सायाह्ने तु जलं पिबेत् | आचम्य विधिनानेन ईशानेन समायुतम् || २१ || सावित्रीं च भवेत्तत्र सूर्यस्यो वोदकं ददेत् | देवान्वै तर्पयेत्तत्र वामदेवेन मन्त्रतः || २२ || ऋषींश्च तर्पयेत्तत्र अघोरेण तु मन्त्रतः | पित्राणां तर्पयेत्तत्र सद्यमन्त्रेण देशिकः || २३ || प्रासादेन समायुक्तं सावित्रीं च शताष्टकम् | मित्रस्सत्येन वर्चस्वी हृदयेन समायुतम् || २४ || जपद्वै शिरसस्तत्र धौतवस्त्रं च वेष्टयेत् | आचम्ये पूर्ववत्तत्र सोष्णीषं चोत्तरीयकम् || २५ || पृ० ११५) तीरे समतलं कृत्वा हस्तमातेण * * * | सूर्यमावाहयेत्तत्र षडक्षरेण मन्त्रतः || २६ || पाद्यमाचमनं चैव अर्घ्यं तस्मै निवेदयेत् | देविकेन तु तीर्थेन देवान् संतर्पयेत्ततः || २७ || आकर्ष्णे तु च तीर्थेन ऋषीणां चैव तर्पयेत् | पितृर्णां चैव पूर्वेषां पैत्रकेण तु तर्पयेत् || २८ || विमानं प्रविशेत्तत्र पुष्पहस्तो विशेषतः | प्रदक्षिणत्रयं कृत्वा प्रविशेत्तु कवाटकम् || २९ || प्रणम्य दण्डवद्भूमौ अर्चयेत्तु कवाटकम् | गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव हृदा तदा | पूजयेद्विधिना कृत्वा कवस्था तु देवताः || ३०.५ || पृ० ११६) भुजऽऽन्गश्च पदऽऽन्गश्च कवटस्याधिदेवताः | ततो गर्भगृहं गत्वा शिवं प्रणम्य एव च || ३१.५ || एवं यः कुरुते नित्यं सर्वपापाद्विमुच्यते | स्नाने देवार्चने चैव समाधौ च जपे ततः || ३२.५ || भोजने देवकार्ये च मौनं षट्सु विधीयते | चर्दितेऽप्युदिते सूर्ये श्मश्रुकर्मणि मैथुने || ३३.५ || दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते | स्नानं तु द्विविधं ज्ञेयं वारुणस्नानमेव च || ३४.५ || आग्नेययां दिव्यमेवं तु वायव्यं मानसं तथा | वारिणा स्नान कार्यं च वारुणं स्नानमुच्यते || ३५.५ || आग्नेयं भस्मना स्नानं सातपं वर्षयेत्ततः | दिव्यस्नानमिति प्रोक्तं वायव्यं तु रजो भवेत् || ३६.५ || मन्त्रे मानसमित्युक्तं पञ्चस्नानं विधीयते | एवमेव प्रकारेण कुर्याद्वै देशिकोत्तमः || ३७.५ || स्नानकर्म मया प्रोक्तं भस्मस्नानमथशृणु || ३८ || इति वीरतन्त्रे शौचाचमनस्नान एकादशः पटलः || पृ० ११७) पटलः ९ (भस्मस्नानपटलः) भस्मस्नानं कथं देवं तत्स्नानं कीदृशो भवेत् | एतत्सर्वं समासेन ब्रूहि मे परमेश्वर || १ || ईश्वर उवाच- भस्मस्नानं प्रवक्ष्यामि शृणुष्व कमलासन | भासकत्वं मनुष्याणां भासकाभा शुभस्य च || २ || भस्मनत् सर्वपापानां भस्मेति परिकीर्तिताः | क्रमाद्ग्रहाश्च भूताश्च असुरा यातुधानकाः || ३ || पिशाचा गुह्यकाद्याश्च डकिन्या विविधास्तथा | सर्व * ग समुत्पन्ना व्याघ्र सर्व भयेषु च || ४ || ? अन्यैश्चक्रमुकैर्भस्मस्नानेन नश्यति | आग्नेयं प्रथमं चैव द्वितीयं मारुतं भवेत् || ५ || पृ० ११८) तृतीयं शैवमित्युक्तं चतुर्थं भोगदं भवेत् | पञ्चमं श्रीकरं प्रोक्तं तेषां भेदं शृणुष्वथ || ६ || नन्दा भद्रा च सुरभि सुशीला सुमनास्तथा | तेषां वर्गेषु संज्ञातं गोमयं चैव संगृहे . . || ७ || उत्तमं श्वेतवर्णं तु मध्यमं रक्तमुच्यते | अधमं रक्तवर्णं तु अन्यद्वारं तु वर्जयेत् || ८ || विकटाऽऽन्गं च विप्रेन्द्र अऽऽन्गहीनं च वर्जयेत् | पतितं गोमयं ग्राह्य हृदयेन तु मन्त्रतः || ९ || कपिला गोमयं चैव उत्तमोत्तम उच्यते | गोमयं वायुसंबन्धं शान्तिकं ब्रह्ममन्त्रकैः || १० || पृ० ११९) आकाशे ग्राहयेदऽऽन्गैर्दहेत् तत्पौष्टिकं भवेत् | भूतले पतितं यत्तु प्रासादेन तु कामदम || ११ || पौर्णमास्याममावास्यां षष्ठ्यां शुक्लकृष्णयोः | शिवाग्निना द * * * * * * पि तुषैस्तथा || १२ || अण्डं कृत्वा तु विप्रेन्द्र शिखामन्त्रेण देशिकः | शुक्लं च शिरसा चैव दण्डं वै शिखया तथा || १३ || सद्योजातेन मन्त्रेण ग्राहयेत्तु विशेषतः | सौवर्णमुत्तमं पात्रं मध्यमं रजतं भवेत् || १४ || अधमं ताम्रपात्रं स्यात् अलाभे मृण्मयं तथा | अलाबपात्रे संग्राह्य वामदेवेन मन्त्रतः || १५ || पृ० १२०) एतदाग्नेयमित्युक्तं मारुतं च शृणुष्वथ | अऽऽन्गे वा तेन चोद्भूतमथनाच्च दहेत्ततः || १६ || मारुताख्यमिति प्रोक्तं शैवलक्षणमुच्यते | शिवाग्निं कुण्ड विप्रेन्द्र सजातं भस्ममेव च || १७ || भोगदं च प्रवक्ष्यामि कुलालां दहेद्यतः | एतच्चतुर्विधेनोक्तं श्रीकरं च शृणुष्वथ || १८ || चत्वारि भेदसंयुक्तं भस्मना च विशेषतः | एवमेव प्रकारेण भस्मनां लेपयेत्ततः || १९ || * * भ्योमसमायुक्तं ब्रह्ममऽऽन्गेन संयुतम् | ईशानेन तु मन्त्रेण शिवमुद्धूलयेत्ततः || २० || पृ० १२१) मुखं तत्पुरुषेणैव शिखाया हृदये न्यसेत् | बाहुभ्यां कवचेनैव जठरं नाभिवामके || २१ || मेढ्रं चैव तु पृष्ठे च वामदेवेन धूलयेत् | ऊरू च जानुनी चैव स्फिकौ चैव कटी तथा || २२ || पार्श्वयोरुभयोश्चैव पादयोरुभयोरथ | सद्योजातेन मन्त्रेण उद्धूलयेद्विशेषतः || २३ || उद्धूलयेत्तु सर्वाऽऽन्गं ब्राह्मणानां विशेषतः | त्रिपुण्ड्रं कारयेत्तत्र नृपाणां वैश्य एव च || २४ || शूद्राणां चैव सर्वेषामेवमेव क्रमेण तु | मध्याह्नात्प्राक् जलैर्युक्तमतोयादनुवर्जयेत् || २५ || पृ० १२२) स्थानभेदं प्रवक्ष्यामि मूर्धनी ललाट एव च | कर्णौ च चक्षुषी चैव नासिकौ चास्य एव च || २६ || (हृदयेये चैव नाभौ च) ग्रीवास्कन्धौ च बाहुभ्यां कोपरौ च तथा मणौ | हृदि नाभौ च मेढ्रौ च पाठयूरूपजानुनी || २७ || जऽऽन्घयो स्विकपातश्च तथा पृष्ठौ च एव च | द्वात्रिंशस्थानमेवोक्तं भस्मना लेपयेत्ततः || २८ || ललाटं ग्रीवास्कन्धौ च बाहुकोर्परयोरपि | हृदये जठरे चैव नाभौ पार्श्वे तु पृष्ठके || २९ || पादयोश्चैव विप्रेन्द्र षोडशस्थानमुच्यते | मूर्ध्नी चैव ललाटे च कण्ठे बाह्वोस्तथैव च || ३० || पृ० १२३) हृदये चैव नाभौ च पृष्ठे चैव विशेषतः | जानुन्योरष्टस्थानेषु विन्यसेद्भस्ममेव च || ३१ || ब्रह्मा स्कन्दे च विघ्नेशं विष्णुं चैव शिवं तथा | वसुन्धरा च पितरो अधिदेवाः प्रकीर्तिताः || ३२ || षडऽऽन्गुल्य च चत्वारो स्त्र्यऽऽन्गुल्या वाथ चाऽऽन्गुला | ब्रह्मणादीनि वर्णानि विस्तारमिव चोच्यते || ३३ || स्त्रीणां तथैव मार्गेण भस्मना लेपयेत्ततः | ज्ञानार्थं चन्दनं लिप्य वश्यार्थश्चूर्णमेव च || ३४ || जयार्थी चैव विप्रेन्द्र लेपयेद्रक्तचन्दनैः | देशिकानां तु सर्वेषां अनामिका मध्यतर्जनी || ३५ || पृ० १२४) भस्मना लेपयेत्तत्र सर्वपापात्प्रमुच्यते | दुस्वप्नवर्जनस्पर्शे आनुराणां तु सर्वशः || ३६ || भस्मना तेन शुद्ध्यन्ति रक्षार्थमिह चोच्यते | भोजने तुषकेशं च चिताऽऽन्गार नखान्यपि || ३७ || मत्कुणं मक्षिकाश्चापि सरीसृपांश्च सर्वशः | दधिक्षीरघृतैस्तैलैर्मिश्रिते तु विशेषतः || ३८ || भस्मात् शुद्धिमवाप्नोति सिंहस्येव यथा गजः | पूर्वाह्णे भोजने काले गमनेऽपि तथैव च || ३९ || भस्मनो धारणं यत्तु सर्वरक्षा विधीयते | एवमेव क्रमेणैव भस्मं दद्यात्तु भक्तितः || ४० || सर्वपापविनिर्मुक्तश्शिवलोकमवाप्नुयात् | भस्मस्नानं मया प्रोक्तं मन्त्रन्यासं शृणुष्वथा || ४१ || इति वीरतन्त्रे भस्मस्नानपटलः || पृ० १२५) पटलः १० (मन्त्रन्यासविधिः, अग्निकार्यविधिश्च) पितामह उवाच- प्रणम्य शिरसा देवमपृच्छच्च पितामहः | मन्त्रन्यासं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- यत्सर्वं तु त्वया पृष्टं मर्त्यानां तु हिताय च | तव स्नेहादिदं वक्ष्ये श्रूयतां कमलासन || २ || शिवाग्रे मण्टपं कुर्यान्मण्टपाद्दक्षिणे ततः | मण्डलं चैव विप्रेन्द्र गोमयेनानुलेपयेत् || ३ || गन्धं पुष्पं च धूमं च दीपं चैव समायुतम् | पूर्वं चैव तु निक्षिप्य पूर्वाग्रं विधिपूर्वकम् || ४ || उत्तराभिमुखो भूत्वा तत्रान्ते कूर्चमध्यमे | सद्येन प्रोक्षयेत्तत्र कुशकूर्चेन वा ततः || ५ || पृ० १२६) गन्धपुष्पादिना विप्र स्वदेवीं पूजयेद्धृदा | शिखाग्रे द्वादशाऽऽन्गुल्ये शिवतत्त्वं विचिन्तयेत् || ६ || स्वात्मानं योजयेत्तत्र तन्मं चैव दहेत्ततः | त्रिकोणं मण्डले विद्यां द्वितीयं विचिन्तयेत् || ७ || पादाऽऽन्गुष्ठं समारभ्य देहेद्यावच्छिरोऽन्तकम् | भस्मीभुतमिमं ध्यात्वा अमृतप्लावनं कुरु || ८ || शिखाध्वस्तप्रमाणेन ऊर्ध्वं चैव विचिन्तयेत् | श्वेतपद्मोपरिष्टं तु चन्द्रबिम्बमधोमुखम् || ९ || तुरीयममृतं ध्यायेत् ओंकारेण समन्वितम् | चिन्तयेदमृतं तोयं सुषुम्नाभिन्नमस्तकम् || १० || पृ० १२७) तेनाप्लावितमात्मानं पूरयन्तं विचिन्तयेत् | मृत्युनाशनमेवं तु इति शास्त्रस्य निश्चयः || ११ || पश्चात्स्वदेहे संचिन्त्य गन्धपुष्पादिनार्चयेत् | रेचकं पूरकं चैव कुम्भकं च त्रिधा मतम् || १२ || न मुञ्चति न गृह्णाति वायुरन्तर्बहिस्थितम् | आपूर्य कुम्भकं तिष्ठेदचलं स्यात्तु कुम्भकम् || १३ || एवमेव प्रकारेण कारयेद्देशिकोत्तमः | हस्ताभ्यां संस्पृशेत्पूर्वं कादिपादान्तमेव च || १४ || अऽऽन्गुष्ठतर्जनीभ्यां तु अस्त्रमन्त्रेण संयुतम् | दिक् विदिक्षु च दातव्यं मूर्धा यश्चैव विन्यसेत् || १५ || पृ० १२८) आचार्यानु पृथिवी ज्ञेया स्फुयिन्नाभिदेशितः | गलाद्वै तेजस्संशुद्धि ललाटाद्वायु शुध्यति || १६ || तदूर्ध्वे द्वादशाऽऽन्गुल्ये घनशुद्धिरुदाहृतम् | प्रथमं सृष्टि विन्यस्य स्थितिन्यासं द्वितीयकम् || १७ || संहारं तु तृतीयं स्यात्त्रिविधं चोच्यते मया | गृहस्थं सृष्टिमार्गेण ब्रह्मचारी स्थितो भवेत् || १८ || वानप्रस्थयतीनां च संहारन्यासमुच्यते | अऽऽन्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम् || १९ || ईशानादिपञ्चमन्त्राणि अऽऽन्गुष्ठादीनि विन्यसेत् | ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् || २० || पृ० १२९) अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | सद्योजातं न्यसेत्पादे पुनरऽऽन्गानि विन्यसेत् || २१ || हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् | शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः || २२ || अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् | विन्यसेत्तु षडऽऽन्गानि देवतान्यासकं शृणु || २३ || ब्रह्माणं मूर्ध्नि विन्यस्य ललाटे विष्णुरुच्यते | चन्द्रसूर्यौ तु नयने नासिकां पृथिवी तथा || २४ || सरस्वतीं तु वाग्द्वारे तु हृदये ईश्वरं तथा | हस्ते वै इन्द्रदैवत्यं वायुस्स्यात्कुक्षिरेव च || २५ || पृ० १३०) सुब्रह्मण्यस्य लिऽऽन्गे च पार्श्वयोरश्विनौ तथा | पादयोर्मरुतश्चैव एवमेव क्रमां न्यसेत् || २६ || अकारं मूर्ध्नि विन्यस्य आकारं तु ललाटके | इकारं दक्षिणे नेत्रे ईकारं वामलोचने || २७ || उकारं दक्षिणनासायां ऊकारं वामनासिके | ऋकारं दक्षिणे श्रोत्रे ऋकारं वामकर्णके || २८ || ऌकारं दक्षिणे गण्डे ऌर्कारं वामगण्डके | ए ऐ तालुरन्ध्रे च ओ औ ओष्ठद्वयोरपि || २९ || दन्तपऽऽन्क्तिर्द्वयोर्न्यस्य अं अः द्वौ परिकीर्तितौ | कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके || ३० || पृ० १३१) टवर्गं दक्षिणे पादे तवर्गं वामपादके | पपौ दक्षिणपार्श्वे तु वामपार्श्वे बहौ न्यसेत् || ३१ || मकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् | रेफं रक्तं च मेवोक्तं लकारमसमेव च || ३२ || वाकारमासदैवं तु शकारं चास्यदेशिके | मज्जादेशे षकारं तु सकारं शुक्लमेव च || ३३ || भकार प्राणमित्याहुः क्षकारं मेढ्रमेव च | लकारं वृषणं चैव सर्वानेतान् क्रमान्न्यसेत् || ३४ || सृष्टिन्यासमिति प्रोक्तं स्थितिन्यासमथ शृणु | मध्यादितष्षडऽऽन्गं च पञ्चब्रह्म न्यसेत्ततः || ३५ || पृ० १३२) ईशानं मध्यमं चैव अनामिके पुरुषं न्यसेत् | कनिष्ठिकायां च घोरं स्याद्वाममऽऽन्गुष्ठके न्यसेत् || ३६ || सद्योजातं तु तर्जन्यां विन्यसेद्ब्रह्ममेव च | हृदयं मध्यमे न्यस्य शिरोमन्त्रं त्वनामिके || ३७ || शिखा कनिष्ठिके न्यस्य कवचमऽऽन्गुष्ठके न्यसेत् | नेत्रं तु तर्जनिं न्यस्य अस्त्रं करतले न्यसेत् || ३८ || एवं षडऽऽन्ग विन्यस्य विद्येशान्विसेत्ततः | अनन्तं मूर्ध्नि विन्यस्य ललाटे सूक्ष्ममुच्यते || ३९ || शिवोत्तमं मुखे न्यस्य एकनेत्रं तु कर्णयोः | ? एकनेत्रं तु बाहौ तु त्रिमूर्तिं हृदये न्यसेत् || ४० || पृ० १३३) लिऽऽन्गे श्रीकण्ठमित्युक्तं शिखण्डी पादयोर्न्यसेत् | हृदये हृदये न्यस्य शिरश्शिरसि विन्यसेत् || ४१ || शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् || ४२ || हस्तौ तु मणिबन्धौ तु ईशं ब्रह्माणमेव च | स्थितिन्यासमिति प्रोक्तं संहारं च ह्यथ शृणु || ४३ || सद्योजातं कनिष्ठां तु वामदेवमनामिका | अघोरं मध्यमे न्यस्य पुरुषं तर्जनीं न्यसेत् || ४४ || ईशमऽऽन्गुष्ठके न्यस्य षडऽऽन्गान्विन्यसेत्ततः | हृदयं कनिष्ठिके न्यस्य शिरोमन्त्रमनामिके || ४५ || पृ० १३४) शिखामन्त्रं तु मध्ये स्यात् कवचं तर्जनी न्यसेत् | नेत्रमऽऽन्गुष्ठके न्यस्य अस्त्रं करतले न्यसेत् || ४६ || पादयोस्सद्यमन्त्रं तु कुक्षौ वामं न्यसेत्ततः | अघोरं हृदये न्यस्य मुखे तत्पुरुषे न्यसेत् || ४७ || ईशानं मूर्ध्नि विन्यस्य पादयोर्हृदये न्यसेत् | मेढ्रं तु शिरोमन्त्रं तु कुक्षौ शिखां तु विन्यसेत् || ४८ || कवचं हृदये न्यस्य नेत्रं बाहुद्वयोर्न्यसेत् | मुखे चास्त्रमिति प्रोक्तं शिवमन्त्रं तु सर्वशः || ४९ || इन्द्रन्तु पादयोर्न्यस्य मेढ्रं तु पावके न्यसेत् | यमं कुक्षौ तु विन्यस्य निरृतिं हृदये न्यसेत् || ५० || पृ० १३५) बाह्वोर्वरुणदैवत्यं कण्ठे वायुरिति स्मृतम् | मुखे तु सोमदैवत्यमीशानं शिरसि न्यसेत् || ५१ || एवमेव क्रमं ज्ञात्वा विन्यसेद्देशिकस्सदा | आचार्यस्त्वादि शैवस्स्याद्ग्रहस्थो वा द्विजोत्तमः || ५२ || सृष्टिस्थितिकं संहारं न्यासं कुर्याद्विचक्षणः | एवं न्यस्त्वा विधानेन देशिकाश्चापि भावयेत् || ५३ || गन्धैः पुष्पैश्च धूपाद्यैस्स्वदेहं पूजयेद्धृदा | द्वारपालान्समभ्यर्च्य गन्धपुष्पादिना सह || ५४ || पूर्वे च द्वारपालौ तु नन्दिकालस्तथैव च | दक्षिणद्वारपालौ तु दण्डी मुण्डीस्तथैव च || ५५ || पृ० १३६) पश्चिमद्वारपालौ तु किरीटी विजयस्तथा | उत्तरद्वारपालौ तु अनन्तपशुपतिस्तथा || ५६ || नन्दिं तु दक्षिणे स्थाप्य श्यामवर्णसमन्वितम् | दण्डहस्तसमायुक्तं हुंकारं मन्त्रमुच्यते || ५७ || कालं कुऽऽन्कुमवर्णाभं उत्तरे तु प्रतिष्ठितम् | वटवृक्षायुधैर्युक्तं मन्त्र हिंकारमेव च || ५८ || दण्डिं पूर्वे तु विन्यस्य इन्द्रकोपस्य सन्निभः | खड्गायत समायुक्तो ह्रौंकारं मन्त्रमुच्यते || ५९ || दण्डी तु पश्चिमे न्यस्य शुद्धस्फटिकसन्निभः | भिण्डिपालसमायुक्तं ह्रूंकारं मन्त्रमुच्यते || ६० || पृ० १३७) भृऽऽन्गीरिटिं दक्षिणे तु दुर्द्धूवग्रीव सन्निभः | शक्त्यायु समं युक्तं मन्त्रं ह्रुंकारमुच्यते || ६१ || विजयं चैवोत्तरे स्थाप्य रक्तवर्णसमायुतम् | शूलायुधसमायुक्तं ह्रंकारं मन्त्रमुच्यते || ६२ || अनन्तं पश्चिमे स्थाप्य कनकाभं तथैव च | वज्रायुधसमायुक्तं ह्रींकारं मन्त्रमुच्यते || ६३ || पशुपतिः पूर्वतस्स्थाप्य नीलरूपसमन्वितम् | पाशायुधसमायुक्तं ह्रींकारं मन्त्रमुच्यते || ६४ || एवमेव क्रमात्स्थाप्य एतैर्मन्त्रैश्च पूजयेत् | सर्वांश्च चतुर्भुजांश्चैव त्रिणेत्रेणैव संयुतान् || ६५ || पृ० १३८) सर्वानृज्वागता स्थित्वा क्रूरदृष्टीन् भयावहान् | मकुटैः कुण्डलैर्युक्तान् प्रोक्षयेदम्भसा ततः || ६६ || उक्तक्रमं ततः कृत्वा अभ्युक्ष्य कवचेन तु | तिस्रः पूर्वमुखा रेखा उदग्रेखां तथैव च || ६७ || ब्रह्मा विष्णुश्च रुद्रश्च दक्षिणोद्यधिदेवताः | अर्चयेद्गन्धपुष्पैश्च हृदयेन तु मन्त्रतः || ६८ || अरण्युद्भवते वाथ सुर्यकान्तो भवं तु वा | श्रोत्रियस्याग्निहोत्रेण यजन जातवेदसम् || ६९ || अरीं चैव च विप्रेन्द्र षोडशाऽऽन्गुलदैर्घ्यकम् | विस्तारं तु षडऽऽन्गुल्यं विष्कम्भं तु त्रियऽऽन्गुलम् || ७० || पृ० १३९) शमीपिप्पलपत्रं च कारयेदरणी ततः | मयित्वा पञ्चब्रह्मेण पात्रं विन्यस्य देशिकः || ७१ || तदग्निं सर्वकार्येषु उपनयनादि कार्यके | हृदा चाग्निं प्रतिष्ठाप्य अग्न्याधानं तु कारयेत् || ७२ || अग्न्याधानमुपस्थानं परिस्तरणमेव च | पात्राणां साधनं चैव प्रोक्षणीं प्रोक्षणीं तथा || ७३ || कूर्चाधानं प्रणीता च घृतसंस्कारमेव च | इध्मं प्रवेशनं चापि तत्तन्मन्त्रेण देशिकः || ७४ || प्रासादेन तु मन्त्रेण उपस्थानं तु कारयेत् | अग्नौ काष्ठं विनिक्षिप्य शिखामन्त्रेण देशिकः || ७५ || पृ० १४०) परिस्तरणं पुनः कुर्यात् प्रगग्रं चोत्तराग्रकः | कुशैर्नैव परिस्तीर्य पूर्वे तु चोत्तराग्रकम् || ७६ || तदूर्ध्वदर्भा नास्तीर्य पश्चिमे चोत्तराग्रकम् | उत्तरे पूर्वमूर्ध्नी विन्यसेद्देशिकस्सदा || ७७ || परिधीन्विन्यसेत्तत्र दक्षिणे पश्चिमोत्तरे | ऊर्ध्व समिध द्वयं चैव आग्नेययामीशदेशके || ७८ || मध्यमं चैव संस्थाप्य वागीशं तु विशेषतः | ऋतुस्नानं च संकल्प्य योनिमार्गेण जायते || ७९ || हृदयेनाहुतीस्सप्त गर्भाधानं भवन्ति चेत् | ? तत्पुरुषेण पुंसवनं भवन्ति वै || ८० || पृ० १४१) शिरोमन्त्रेण विप्रेन्द्र समन्तात्सप्तभिर्यते | वामदेवेन मन्त्रेण जातकर्मं च हूयते || ८१ || एकहृदयं त्रिपादं च द्विवक्त्रं च द्विनासिकम् | चतुश्शृऽऽन्गसमायुक्तं षण्णेत्रेण समन्वितम् || ८२ || सप्तजिह्वा सप्तहस्ता उपवीतसमन्वितम् | जटामौञ्जीसमायुक्तं कृष्णाजिन समन्वितम् || ८३ || हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा | अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिता || ८४ || हिरण्ये वरुणे जिह्वा कनका मध्यमे स्थिता | उत्तरोत्तरमाख्यातं याम्या कृष्णे इति स्मृताः || ८५ || पृ० १४२) सुप्रभा पूर्वदेशे तु अतिरक्ताग्नौ व्यवस्थिता | ईशाने बहुरूपा च सप्तजिह्वाः प्रकीर्तिताः || ८६ || कनकाख्यायां जिह्वायां सर्पहोमं तु कारयेत् | जातकर्ममिदं प्रोक्तं नामकरणं हृदयेन तु || ८७ || निष्क्रामणं तु शिरसा प्रासादं हृदयेन तु | चौलं शिखाय कर्तव्यं उपनयनं हृदयेन तु || ८८ || व्रतानां चैव सर्वेषां शिरसा चैव हूयते | हृदयेन तु मन्त्रेण समावर्तविवाहकः || ८९ || पृथक् पृथक् क्रियाणां च सप्त वै वाहुतिर्भवेत् | दक्षिणे ब्रह्मस्थानं च दर्भासनोपरि न्यसेत् || ९० || पृ० १४३) प्रणीतामुत्तरे स्थाप्य सपवित्रसमायुतम् | विष्णुस्तत्राधिदैवत्यं गन्धपुष्पादिनार्चयेत् || ९१ || प्रोक्षणीपात्रमादाय उदकं सेचयेद्धृदा | कुशेनैव तु विप्रेन्द्र उदको प्लावनं कुरु || ९२ || प्रणीतापात्रमादाय उदकं सेचयेद्धृदा | उत्प्लीवनं ततः कुर्यात् प्रणवेनैव निक्षिपेत || ९३ || आज्यपात्रं समादाय आज्यं चैव तु पूरयेत् | अग्नेरुत्तरभागे तु अऽऽन्गारोपरिन्यसेत् || ९४ || स्वदेशे विन्यसेत्तत्र दर्भेणोत्पवनं कुरु | आज्याधिश्रवणं कार्यं दर्भानग्नौ विनिक्षिपेत् || ९५ || पृ० १४४) दर्भानग्नौ च प्रज्वाल्य प्रोक्षयेदम्भसा ततः | स्रुवं चैव तु विप्रेन्द्र क्षालयेद्धृदयेन तु || ९६ || कुशेनैव समायुक्तं अग्रमग्रेण विन्यसेत् | मध्यं मध्येन संस्पृश्य मूलं मूलेन संस्पृशेत् || ९७ || प्रोक्षयेदम्भसा चैव परिषेचनं तु कारयेत् | अदितेऽनुमन्यस्वेति दक्षिणे परिषिञ्चति || ९८ || अनुमतेऽनुमन्यस्वेति पश्चिमे परिषिञ्चति | सरस्वतेऽनुमन्यस्वेति उत्तरे परिषिञ्चति || ९९ || देव सवितः प्रसवे समन्तात् परिषिञ्चति | पलाश समिधा चैव इध्माष्षोडशमेव च || १०० || पृ० १४५) कृष्णमिध्मं तु दातव्यं घोरं चैव तु हूयते | प्रजापते स्वाहेति दक्षिणार्धपूर्वार्धके || १०१ || अग्निमुखं च होतव्यं पञ्चब्रह्मेण मन्त्रवित् | एवमेव क्रमेणैव होतव्यं दीर्घजीविना || १०२ || नित्यहोमं च दातव्यं लक्षणेन समन्वितम् | अग्निमर्चयते चैव आज्ये चान्नेन संयुतम् || १०३ || ? प्रासादेन तु विस्यांति होमयेत् न शताहुतिः | ? गेरिवजो तद्वर्च पञ्चब्रह्म शिवाऽऽन्गके || १०४ || विद्येश्वरांश्च मन्त्रांश्च लोकपालान् सहस्रकैः | होमयेच्चैव विप्रेन्द्र नित्यहोममिहोच्यते || १०५ || पृ० १४६) पुनः परिषेचनं कृत्वा नित्योत्सवमथाचरेत् | वर्णानि गन्धशब्दानि लक्षयेच्चैव देशिकः || १०६ || आदित्योदयपूर्णाभं पद्मरागसमप्रभम् | रक्तपऽऽन्कजसंकाशं किंशुकस्य समप्रभम् || १०७ || एते द्वादश वर्णानि जातवेदास्तु सिद्धिदः | उशीरं कुष्ठगन्धं च कर्पूरागरुमेव च || १०८ || चन्दनं चाति तक्कोलं कटुकस्तुटिरेव च | पत्रं कुसुमबन्धं च शुभान्येतानि निर्दिशेत् || १०९ || शिखायां लक्षयेत्तत्र पूर्व चैवार्थसिद्धिदः | वारुणे शान्तिकं प्रोक्तं सौम्यायां मृत्युनाशनम् || ११० || पृ० १४७) ऊर्ध्वे तु सर्वकामार्थं लभते नात्र संशयः | आग्नेयमग्निदण्डं च मृत्युं चैव तु याम्यके || १११ || नैरृत्यां युद्धमरणं वायव्यां कलहं भवेत् | ईशान्यामाज्ञलाभोय शिखानिष्क्रान्तलक्षणम् || ११२ || काक ध्वनि ते शब्दं मासान्मरणमाप्नुयात् | उलूक ध्वनि ते वह्नि आगम्यागमनं भवेत् || ११३ || पिऽऽन्गल ध्वनि ते वह्नि नृपस्य मरणं भवेत् | वट ध्वनि युते वह्निः स्वपुत्रमरणं भवेत् || ११४ || वृषभ ध्वनि ते वह्नि आगम्यागमनं भवेत् | अशनि ध्वनि ते वह्नि षण्मासान्मरणं भवेत् || ११५ || पृ० १४८) खरवद्ध्वनने वह्नि अपमृत्युवशं गतः | कटिभिर्ध्वनि ते वह्निर्मार्याया मरणं भवेत् || ११६ || घोरवत् भवते शब्दं स्वद्रव्यं तस्करप्रभम् | समुद्रघोषवत् शब्दं मासान्मरणमाप्नुयात् || ११७ || ? गोगवध्वनि ते वह्नि (कारागृहमवाप्नुयात्) सर्वेषां मरणं भवेत् | झल्लरीव भवेत् शब्द चण्डालगमनं भवेत् || ११८ || भाण्डवद्ध्वनिते शब्दः विषूच्या मरणं भवेत् | अग्निगन्धो भवेदग्नि क्षयरोगमवाप्नुयात् || ११९ || हिऽऽन्गुगन्धं भवेदग्निं प्रमेहं चैव जायते | अतिगन्धं भवेदग्निर्महाज्वरमवाप्नुयात् || १२० || पृ० १४९) मेध्यगन्धं भवेदग्निर्भऽऽन्गं मरणं भवेत् | मूत्रगन्धं भवेदग्निः कुक्षिं रोगमवाप्नुयात् || १२१ || तस्मात्सर्वप्रयत्नेन लक्षलेद्देशिकस्सदा | शुभाशुभं मया प्रोक्तमग्निदेवस्य पद्मजम् || १२२ || ग्रहणाद्युक्तकालेषु प्रतिष्ठादिमुहूर्तके | परिषेचन कुर्यात्तु तद्दोष शमनाय च || १२३ || होमं कुर्यात्तु विप्रेन्द्र लक्षणेन समन्वितम् | समिदाज्यचरुन् लाजान् सर्षपांश्च यवांस्तिलान् || १२४ || प्रासादेन तु मन्त्रेण पञ्चाशत्समिधं हुनेत् | हृदयेनाज्यहोमं तु चलं च शिखया हुनेत् || १२५ || पृ० १५०) जालमानेन मन्त्रेण सर्षपं सद्यमन्त्रतः | अघोरेण यवाहुत्वा कवचेन तिलानपि || १२६ || सप्तद्रव्येण होतव्यं पञ्चाशताहुतिं तथा | सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् || १२७ || स्विष्टमग्नेतिमन्त्रेण जुहुयात्तदनन्तरे | हुत्वान्ते तु यदस्येति स्विष्टकृच्चैव हूयते || १२८ || पूर्वेश दक्षिणे चैव पश्चिमे चोत्तरे तथा | ईशान्यां चैव होतव्यं कुण्डे वा स्थण्डिलेऽपि वा || १२९ || एवं कृते महाशान्ति राजराष्ट्रसुखावहम् | इन्द्रधनुश्च दृष्टश्चेत्तद्दोष शमनाय च || १३० || एवमेव क्रमेणैव अन्यैर्दोषैश्च संभवेत् | आचार्यपूजनं कृत्वा वस्त्राऽऽन्गुलीयकादिभिः || १३१ || अग्निकार्यं मया प्रोक्तं नित्योत्सव ततश्शृणु || १३१.५ || इति वीरतन्त्रे अग्निकार्यपटलः ? (मन्त्रन्यासविधिः, अग्निकार्यविधिश्च) पृ० १५१) पटलः ११ (नित्योत्सवविधिः) पितामह उवाच- लोकनाथं प्रणम्याथ ब्रह्मा वचनमब्रवीत् | नित्योत्सवं कथं देव तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- श्रूयतामभिधास्यामि नित्योत्सवविशेषतः | सर्वपापहारं पुण्यं सर्वलोकहितावहम् || २ || सर्वशान्तिकरं चैव सर्वारिष्टविनाशनम् | नित्यनित्यार्चनन्ते तु नित्योत्सवमथाचरेत् || ३ || राक्षसाश्चासुराश्चैव पिशाचा ब्रह्मराक्षसाः | उच्छिष्टाश्चैव वेताला कूश्माण्डा हत * * * || ४ || तथा कुमार ग्रहांश्चैव मतांश्चान्ये मरुद्गणाः | नित्योत्सवश्च शब्दांश्च श्रुत्वा गच्छन्ति तत्र वै || ५ || पृ० १५२) प्रथमं प्रदक्षिणं विप्र तव प्रीतिकराय वै | द्वितीय प्रदक्षिणेनैव मम प्रीतिकराय वै || ६ || तृतीय प्रदक्षिणं चैव विष्णु प्रीतिकराय च | पूर्वाह्नी च तव प्रीतिः पुष्प लिऽऽन्गसमन्वितम् || ७ || मध्याह्ने चान्नलिऽऽन्गं च मम प्रीतिकरं भवेत् | साये तण्डुललिऽऽन्गं स्यात् नारायण प्रियं तथा || ८ || स्थितलिऽऽन्गं तु विप्रेन्द्र श्रीबलिं चैव कारयेत् | चललिऽऽन्गेषु सर्वेषु श्रीबलिं च प्रकारयेत् || ९ || ? आढकार्द्धीन वैश्यं श्रीश्रीबलिं च न कारयेत् | एवमेव क्रमेणैवं नित्योत्सवं तु कारयेत् || १० || पृ० १५३) सौवर्णं राजतं वापि ताम्रकांस्यं च नैव च | बलिपात्रं तु कर्तव्यं लक्षणेन समन्वितम् || ११ || मात्राऽऽन्गुलेन कर्तव्यं द्वितालमुत्तमं भवेत् | एकतालेन हीनं तु मध्यमं पात्रमुच्यते || १२ || द्वयऽऽन्गुलेन हीनं तु मध्यमं पात्रमुच्यते | पात्रं चैव त्रिधा भज्य मध्ये पात्रं तु कारयेत् || १३ || ओष्ठव्यो माऽऽन्गुलेनैव कारयेत्तु विचक्षणः | पद्मस्योत्सेधमानं तु एकाऽऽन्गुलमिहोच्यते || १४ || अष्टपत्रसमायुक्तं विद्येशा ह्यत्र देवताः | एवमेव क्रमेणैव बलिपात्रं तु कारयेत् || १५ || पृ० १५४) पूर्वोक्तेन विधानेन चरुं चैव तु वा चरेत् | द्विप्रस्थमधमं प्रोक्तं आढकं मध्यमं भवेत् || १६ || उत्तमं शिवमेवाहुः शालीनां चैव पा(वा?) चरेत् | अत्युष्णमति शीतं च आज्यं लवणवर्जितम् || १७ || पाषाणं पाधितं चैव शोधकं तुषमेव च | कणकम्बु समायुक्तं मारणं तु विनिर्दिशेत् || १८ || एवमेव क्रमं ज्ञात्वा पाचयेद्विधिपूर्वकः | शिवाग्रे मण्डलं कृत्वा मण्टपस्योत्तरा दिशि || १९ || गोमयेनोपलिप्याथ बलिं पात्रं न्यसेद्धृदा | प्रोक्षयेदस्त्रमन्त्रेण कुशेनैव तु वारिणा || २० || पृ० १५५) चरुं वै हृदयेनैव बलिपात्रं तु विन्यसेत् | क्षीरं वा दधिसंयुक्तं आज्येनैव समायुतम् || २१ || कदलीगुलसंमिश्रं अन्नलिऽऽन्गं तु कारयेत् | अष्टाऽऽन्गुलं तु चोत्सेधा द्विगुणं तस्य मूलकम् || २२ || अग्रमष्टाऽऽन्गुलं नाहमुत्तमं शृणु तत्त्वतः | द्वादशाऽऽन्गुलमुत्सेध द्विगुणं मूलनाहकम् || २३ || अग्रं दशाऽऽन्गुलं नाहमन्नलिऽऽन्गमिहोच्यते | त्र्यक्षं चतुर्भुजं देवमूर्ध्वकेशं सुदंष्ट्रकम् || २४ || दक्षिणे तु करे शूलं वामे पाशं तथैव च | अभयं दक्षिणे हस्ते वामहस्तं कुटिस्पृशम् || २५ || पृ० १५६) पद्ममध्ये स्थितं देवं सर्वाभरणभूषितम् | एवं वै रूपिणं ध्यात्वा बलि लिऽऽन्गे तु विन्यसेत् || २६ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् | गन्धं हृदयमन्त्रेण शिखायां पुष्पमुच्यते || २७ || सौवर्णं रजतं ताम्रमायसं वापि कारयेत् | हस्तमात्रं भवेद्दण्डमग्रे वज्रद्वयं भवेत् || २८ || एवं लक्षणसंयुक्तं दण्डहस्तं विचक्षणः | प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः || २९ || ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || ३० || पृ० १५७) सद्योजातं न्यसेत्पादौ पुनरऽऽन्गानि विन्यसेत् | हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् || ३१ || शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु नेत्रे नेत्रं तु विन्यसेत् || ३२ || सर्वाऽऽन्गेषु च विप्रेन्द्र अस्त्रमन्त्रं न्यसेत्ततः | स्थालिकां चैव चोद्धृत्य हृदयेन तु मन्त्रतः || ३३ || शिरोमन्त्रेण संयुक्तं तस्यां शिरसि निक्षिपेत् | जपेत्पाशुपतास्त्रं च शर्गैश्चेत्प्रदक्षिणम् || ३४ || निमिषं तन्न शीघ्रं च गच्छेत् पदात्पदं ततः | पुरस्तात्प्रतिमं गच्छेत् लिऽऽन्गं तु तदनुव्रजेत् || ३५ || पृ० १५८) आयं तु पृष्ठतो वापि पादुकं च प्रदेत्ततः | शिवस्याभिमुखे चैव गोमयेनानुलेपयेत् || ३६ || भेरीं तत्रैव विन्यस्य हृदयेन तु मन्त्रतः | गन्धपुष्पादिनाभ्यर्च्य वाद्यकं पूजयेत्ततः || ३७ || वाद्यकान् वादयेत्तत्र पञ्चध्वनिसमायुतम् | सुषिरं चानखं चैव चर्मभेदं तथैव च || ३८ || तं त्रितं तं ततो वाद्यं पञ्चध्वनिरिहोच्यते | एवं विधि समायुक्तं वाद्यकान् वादयेत्ततः || ३९ || प्रथमं प्रदक्षिणं कुर्यात् अंगीर्णं तालवाद्यकम् | द्वितीयं प्रदक्षिणं कुर्यात् अष्टतालसमन्वितम् || ४० || पृ० १५९) पूर्वे तु समहस्तं स्यात् आग्नेयां भृऽऽन्गिणी तथा | दक्षिणे कद्रवाद्यं स्यान्नैरृत्यां संकरी तथा || ४१ || वारुण्यामुत्कटं चैव वायव्यां कुब्जतालकम् | तटप्रहारं सौम्यायां ऐशान्यां मल्लतालकम् || ४२ || गोपुरे वाद्यनिश्शब्दं शऽऽन्खध्वनिसमायुतम् | बाह्यपीठे क्रमावृत्य प्रासादं त्रिप्रदक्षिणम् || ४३ || त्रिविधं बलिपीठं स्यात् पूर्वतश्चैव दक्षिणे | पश्चिमे वा त्रिसन्ध्यायां प्रदक्षिणमथाचरेत् || ४४ || पूर्वाह्ने पूर्वपीठे तु मध्याह्ने दक्षिणे तथा | सायाह्ने पश्चिमे चैव बलिमेवं विसर्जयेत् || ४५ || पृ० १६०) अथवा चाग्रपीठे तु दक्षिणे बलिरुच्यते | सर्वद्वारे तु कर्तव्यं पूर्वे तु बलिपीठकम् || ४६ || इन्द्रस्य बलितालं तु आग्नेर्मध्यावनं भवेत् | यमं च भृऽऽन्गिणीतालं नैरृत्या मल्लतालकम् || ४७ || वारुण्यां नवतालं तु वायव्यां नागतालकम् | सोमे काट्टारिका प्रोक्ता ईशान्यां ककरी तथा || ४८ || एवमेव क्रमेणैव प्रासादं त्रिः प्रदक्षिणम् | पूर्वे गान्धारमेव स्यात् दक्षिणे कौशिकं तथा || ४९ || पश्चिमे कमरं चैव तर्करागं तथोत्तरे | आग्नेयां चैव कोल्ली च नैरृत्यां नटभाषया || ५० || पृ० १६१) तक्केशिं चैव वायव्यां चाला प्राणीश गोचरे | द्वारदेशमनुप्राप्य पादुकार्चनमारभेत् || ५१ || पादप्रक्षालनं कृत्वा पादुकां पूजयेत्ततः | देवस्य सन्निधौ विद्वान् मण्डलं कारयेत्ततः || ५२ || त्रिपादं तत्र संस्थाप्य वृषभस्याधिदैवतम् | पादुकं विन्यसेत्तत्र प्रोक्षयेदम्भसा ततः || ५३ || निर्माल्यं च विसर्जीत जलमेवाभिषेचयेत् | हृदयेन तु मन्त्रेण गन्धं दद्याच्च पादुके || ५४ || प्रोक्षयेदम्भसा चैव कृशास्सर्वदेशिका | पुष्पं तु शिरसा चैव धूमं वामेन दापयेत् || ५५ || पृ० १६२) अघोरेण तु दीपं स्यात् सद्येनार्घ्यं तु दापयेत् | अर्चयेत्पादुकां विद्वान् * * * * * * द्वयोः || ५६ || पात्रं चैव तु पूर्वे तु धरणीं दक्षिणेन तु | पृथिवीं पश्चिमे न्यस्य मेदिनीं चोत्तरे न्यसेत् || ५७ || वामे ज्येष्ठा च रौद्री च काली कलिविकरणी तथा | बलविकर्णीं बलप्रमथिनीं सर्वभूतमनोन्मनी || ५८ || पूर्वादीशानपर्यन्तं विन्यसेदष्टशक्तिभिः | मनोन्मनीं न्यसेत्मत्स्ये(ध्ये) अचर्यद्गन्धपुष्पकैः || ५९ || प्रविशेदालयं तत्र विन्यसेत्पूर्वमण्डले | विसर्जयेत्तु शास्त्रेण नमस्कृत्वा तु कारयेत् || ६० || पृ० १६३) तदन्ते कारयेन्नृत्तं भरतोक्तेन मार्गतः | गणिकास्स्नापयेत्तत्र गन्धपुष्पादिनार्चयेत् || ६१ || अष्टोत्तरशतं नृत्तं भावयेद्गणिका ततः | नृत्तस्यान्ते तु विप्रेन्द्र देवं देवीं विसर्जयेत् || ६२ || अभिमुखीकरणं यत्तु तदा वाहनमुच्यते | पूजापरिसमाप्ते तु विमुखं तद्विसर्जयेत् || ६३ || प्रदक्षिणत्रयं कृत्वा नमस्कारस्तथैव च | लिऽऽन्गे सव्यापसव्यं तु प्रासादिषु विसर्जयेत् || ६४ || एवं यः कुरुते मर्त्यश्शिवलोकमवाप्नुयात् | पर्यष्टिपरिचारश्च ततो न्यासे विताशनः || ६५ || शिवलोकमवाप्नोति शिववन्मादने सदा | नित्योत्सवमिदं प्रोक्तं परिवारश्शृणुष्वथ || ६६ || इति वीरतन्त्रे नित्योत्सवविधिः पटलः || पृ० १६४) पटलः १२ (परिवारलक्षणपटलः) प्रणम्य शिरसा देवं पृच्छती स पितामहः | परिवाराः कथं देवं तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- यत्सर्वं तु त्वया पृष्टं श्रूयतां कमलासन | परिवारं प्रवक्ष्यामि यथाविधिपुरस्सरम् || २ || अन्तर्मण्डलके कुर्यात् देशे चण्डेश्वरालयम् | पुरतो वृषभस्थानं स्थापयेद्वृषभं ततः || ३ || आग्नेयां चैव देशे तु दुर्गां स्थाप्य विशेषतः | दक्षिणे मातृदेवींश्च विघ्नेशं नैरृते तथा || ४ || वारुण्यां स्थापयेत्तत्र कुमारं वाप्यजं भवेत् | ज्येष्ठां वायव्यदेशे तु विष्णुं चोत्तरदेशतः || ५ || पृ० १६५) ऐशान्यां चैव विप्रेन्द्र भास्करं विन्यसेत्ततः | एवमन्तरहारे तु विन्यसेदष्टदैवतान् || ६ || इदमन्यत्प्रकारेण वक्ष्येऽहं चतुरानन | पश्चिमे द्वारदेहस्य पश्चिमे वृषभं न्यसेत् || ७ || वायव्यां चैव ज्येष्ठा च सर्वयत्नेन देशिकः | उत्तरायां दिशयोश्चैव दुर्गादेवीं च विन्यसेत् || ८ || ऐशान्यां चैव विप्रेन्द्र क्षेत्रपालो विधीयते | पूर्वे तु भास्करस्थानं कुमारं चाग्निगोचरे || ९ || दक्षिणद्वारगेहस्य दक्षिणं वृषभालयम् | मातृस्थानं तु नैरृत्यां सुब्रह्मण्यं तु वारुणे || १० || पृ० १६६) ज्येष्ठां तु वायुदेशे तु उत्तरे विष्णुरुच्यते | दुर्गां चण्डेश दिग्भागे भास्करं पूर्वतो न्यसेत् || ११ || आग्नेययां गणपतिस्थानं विन्यसेद्दैवतानि ज | उत्तरद्वारगेहस्य उत्तरे वृषभालयम् || १२ || ऐशान्यां भास्करस्यैव पूर्वतो विष्णुरुच्यते | दुर्गामाग्नेय दिग्भागे याम्ये मातृगणा स्थिताः || १३ || नैरृत्यां विघ्नराजं तु कुमारं वारुणे भवेत् | वायव्यां विन्यसेज्ज्येष्ठां विशेषेण विचक्षणः || १४ || एवमेव क्रमेणैव अन्तर्हारे तु विन्यसेत् | षोडशद्वारदेवांश्च वक्ष्यामि मुनिसत्तम || १५ || पृ० १६७) मर्यादौ ईशदिग्भागे क्षेत्रपालं सुविन्यसेत् | यमनैरृतयोर्मध्ये पितृस्थानं विधीयते || १६ || निरृतिवरुणयोर्मध्ये अप्सरोगणमुच्यते | वरुणवायव्ययोर्मध्ये ऋषीणां स्थानमुच्यते || १७ || वायव्यसोमयोर्मध्ये वसूनष्टौ च विन्यसेत् | सोमीशानयोर्मध्ये अष्टनागान् प्रकल्पयेत् || १८ || इन्द्रीशानयोर्मध्ये द्वादशादित्यमुच्यते | एवमेव प्रकारेण मर्यादौ च विधिं न्यसेत् || १९ || अन्तर्मण्डलके वापि महामर्यादौ विशेषतः | इन्द्रादीन् स्थापयेद्विप्र पूर्वादीशान्तं विन्यसेत् || २० || पृ० १६८) अनन्तमीशदिग्भागे संस्थाप्यं निरृतौ तथा | एवमेव प्रकारेण परिवाराणि विन्यसेत् || २१ || प्रासादाहितमाश्रित्य मण्टपे वा विशेषतः | द्वारदेवां सुसंस्थाप्य पूर्वादिक्रमयोगतः || २२ || पूर्ववद्द्वारपाले तु नन्दीकालस्तथैव च | नन्दिं तु दक्षिणे स्थाप्य कालं चोत्तरदेशके || २३ || दक्षिणद्वारपालौ तु दण्डिर्मुण्डिस्तथैव च | दण्डिं तु पश्चिमे स्थाप्य मुण्डिं तु पूर्वतो न्यसेत् || २४ || पश्चिमद्वारपालौ तु भृऽऽन्गिणीं विजयं तथा | भृऽऽन्गिणी चोत्तरे स्थाप्य दक्षिणे विजयं तथा || २५ || पृ० १६९) उत्तरे द्वारपालौ तु अनन्तः पशुपतिस्तथा | अनन्तं पूर्वत स्थाप्य पशुपतिं पश्चिमे न्यसेत् || २६ || एवमेव प्रकारेण स्थापयेद्द्वारदेवताः | वृषभस्याग्रतो वापि पृष्ठतोऽथ विशेषतः || २७ || शूलस्थानं प्रकल्प्याथ तदग्रे पुष्पपीठके | * * * ममाव्यादौ व स्थापयेत्तु शिवाग्रतः || २८ || महामर्यामहापीठे स्थापयेद्देशिकोत्तमः | परिवारविधिः प्रोक्तं रक्षादीपं शृणुष्वथा || २९ || इति वीरतन्त्रे परिवारलक्षणः पटलः || पृ० १७०) पटलः १३ (रक्षादीपपटलः) पितामह उवाच- प्रणम्य शिरसा देवी पर्यपृच्छत् पितामहः | रक्षादीपं कथं देवं तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- यत्त्वया परिपृष्टं हि तत्सर्वं शृणु पद्मजः | रक्षादीपं विशेषेण त्रिविधं चोच्यते मया || २ || शान्तिकं पौष्टिकं चैव कामदं च त्रिधा भवेत् | सौवर्णं रजतं वापि ताम्रजं मृण्मयं तु वा || ३ || स्थलिकं च प्रकर्तव्यं त्रिंशदऽऽन्गुलविस्तरम् | पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा || ४ || मध्यमे तु समायुक्तं पञ्च कुम्भानि विन्यसेत् | अष्टबन्धसमुत्सेधं विस्तरं द्वादशं भवेत् || ५ || पृ० १७१) कुम्भोर्ध्वे दीप विन्यस्य शिल्पिनं कारयेत्ततः | पादं चैव दशाऽऽन्गुल्यमुत्सेधं तु विधीयते || ६ || विस्तारं तावदेवाहुर्दीपपात्रं च कारयेत् | * * * * * संयोज्य रक्षादीपं तु कारयेत् || ७ || एतत् शान्तिदमित्युक्तं पौष्टिकं च शृणुष्वथ | विस्तारं तु चतुर्विंशत् अऽऽन्गुला स्थलिका भवेत् || ८ || शालिपिष्टं वा विन्यस्य * सपपात्रके * * | तेषामूर्ध्वे तु * * * * * * * * * तथा || ९ || एतत् * * * मित्युक्तं त्रिविधं चोच्यते मया | नित्यनित्यार्चने कुर्यात् तस्यां तद्दीपमुच्यते || १० || पृ० १७२) सायाह्ने शयने कुर्यात् यक्षेश्वरीं च पूजयेत् | नित्याग्निकुण्डं विप्रेन्द्र * * * * * दीपयेत् || ११ || तस्य दक्षिणभागे तु मण्डलं चतुरश्रकम् | स्थालिकां विन्यसेत्तत्र शिखामन्त्रेण संयुतम् || १२ || गोघृतेन समायुक्तमवा तैलेन वा पुनः | वर्तिं तत्रैव विन्यस्य सन्निधौ दीपयेत्ततः || १३ || प्रासादेन तु मन्त्रेण मध्यमे दीपमुच्यते | पूर्णेन पुरुषेणैव अघोरं दक्षिणेन तु || १४ || सद्यः पश्चिमतो न्यस्य वामदेवं तु चोत्तरे | व्योमव्यापि सम * * पञ्चब्रह्मेण संयुतम् || १५ || पृ० १७३) पूजयेत्तु विशेषेण शिरसोपरि धारयेत् | गणिकां देवदासी वा धारयेद्दीपमुत्तमम् || १६ || मधुकेयसमायुक्तं गणिकां नृत्तसंयुतम् | सर्वमऽऽन्गलसंयुक्तं शऽऽन्खध्वनिसमायुतम् || १७ || भेरीमृदऽऽन्गवाद्यैश्च स्तोत्रशब्दसमन्वितम् | गच्छेत्प्रदक्षिणं तत्र निनयेत् शिवसन्निधौ || १८ || त्रिपादीं मध्यते न्यस्य प्रोक्षयेत् शुद्धवारिणा | ईशानेन तु मन्त्रेण अर्चयेद्दीपमेव च || १९ || पुष्पेण दीपं संयोज्य लिऽऽन्गमूर्ध्नी च वर्त्तयेत् | एकं वापि त्रयं वापि प्रदक्षिणमथाचरेत् || २० || पृ० १७४) विसर्जयेत्तु निर्माल्यं बाह्यपीठे तु विन्यसेत् | एतत् शान्तिकमित्युक्तं पौष्टिकं च मथ शृणु || २१ || शिवाग्रे मण्टपं कुर्यात् त्रिपादं तत्रैव विन्यसेत् | विन्यसेत् स्थालिकां तत्र हृदयेन तु मन्त्रतः || २२ || पिष्टं वामेन संस्थाप्य प्रोक्षयेत्तु हृदा तथा | गर्भगेहे स्थिते दीपे वर्तिं संयोजयेत्ततः || २३ || पूजयेदस्त्रमन्त्रेण प्रोक्षयेदम्भसा ततः | हृदयेन तु मन्त्रेण दीपं दद्यात् शिवस्य तु || २४ || एकं वापि त्रयं वापि लिऽऽन्गं चैव प्रदक्षिणम् | विसर्जयेत्ततो मन्त्री भस्मं शिरसि निक्षिपेत् || २५ || पृ० १७५) शिवस्य रक्षो कुर्वीत सर्वप्राणिहिताय च | एवं पौष्टिकमेवं तु कामदं शृणु तत्त्वतः || २६ || अग्निकुण्डेऽथवा कुर्यात् गर्भगेहेऽथवा पुनः | सप्तपात्रैक विप्रेन्द्र दीपं संयोजयेत्ततः || २७ || पौष्टिकस्य क्रमेणैव कुर्याद्वै देशिकोत्तमः | शिवे दीपं सुसंयोज्य विसर्जयेत्पूर्ववत्क्रमात् || २८ || एवं कामदमित्युक्तं समासात्कथयामिते | उत्तमं दीपमाख्यातं सप्ताऽऽन्गुलसमुच्छ्रयम् || २९ || पञ्चाऽऽन्गुलं तु मध्यं स्यात्त्रियऽऽन्गुलमथोच्यते | उत्तमं गोघृतेनैव मध्यमं अजसंभवे || ३० || पृ० १७६) अधमं तैलजं वापि सूत्रपातं तु कारयेत् | दूर्वाक्षतैश्च संयुक्तं दर्पणं भस्ममेव च || ३१ || पाद्यमाचमनं चार्घ्यं गन्धपुष्पैश्च धूपकम् | दीपस्य दर्शनं मूर्ध्नि शिवे दद्यात् विशेषतः || ३२ || यक्षेश्वरीस्वरूपं तु शृणुष्व कमलासन | यान्तेनैव समायुक्तं इकारस्वरसंयुतम् || ३३ || ओंकारादि नमोऽन्तं च मध्ये यक्षेशबीजकम् | एतन्मन्त्रं परं गुह्यं स्तवस्त्रोत्रप्रकाशिकम् || ३४ || द्विभुजं चैकवक्त्रं च द्विपादं च द्विनेत्रकम् | करण्डमकुटं युक्तं सौम्यरूपं सुलोचनम् || ३५ || पृ० १७७) दीपमध्ये न्यसेद्देवीमञ्जल्या च नमस्कृत्वा | एवंविधं स्वरूपं तु ध्यात्वा वै पूजयेत्ततः || ३६|| वामा ज्येष्ठा च रौद्री च काली कलविकरणी तथा | ? बलविकरणीं बलप्रमथनीं सर्वभूतदमनीं मनोन्मनीम् || ३७ || पूर्वादीशानपर्यन्तं पूजयेद्गन्धपुष्पकैः | मध्ये मनोन्मनीं न्यस्य पूजयेद्देवबाह्यतः || ३८ || सोमेशानसमायुक्तं तद्बाह्ये पूजयेत्ततः | एवमेव क्रमेणैव स्वस्वर्नामेन पूजयेत् || ३९ || भस्मं दद्यात् शिवे त्तत्र क्रमाच्छेष समाचरेत् | सायाह्ने शयनं कुर्यादेवमेव क्रमेण तु || ४० || पृ० १७८) परिषेचनकाले तु रक्षादीपं करोति हि | सर्वपापैर्विनिर्मुक्तश्शिवलोकमवाप्नुयात् || ४१ || रक्षादीपं मया प्रोक्तं अऽऽन्कुरार्पणकं शृणु || ४१.५ || इति वीरतन्त्रे रक्षादीपपटलः || पृ० १७९) पटलः १४ (अऽऽन्कुरार्पणम् ||) प्रणम्य शिरसा देवं प(र्य) ? पृच्छत् पितामहः | अऽऽन्कुरार्पणं किं वा तत्सर्वं ब्रूहि मे प्रभो || १ || ईश्वर उवाच- नागलाऽऽन्कुरकर्मं तु यत्त्वया परिचोदितम् | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || २ || प्रथमं ध्वजाऽऽन्कुरं ज्ञेयं द्वितीयं चाऽऽन्कुरादिकम् | उत्सवाऽऽन्कुरमेवोक्तं तृतीयं तु विशेषतः || ३ || तीर्थाऽऽन्कुरं चतुर्थं स्यात् चण्डाऽऽन्कुरं तु पञ्चमम् | अथा त्रयऽऽन्कुरं विद्यात् ध्वजाऽऽन्कुरं तु चोच्यते || ४ || तीर्थाऽऽन्कुरं तु समायुक्तं अऽऽन्कुराऽऽन्कुरमुच्यते | स्थापने प्रोक्षणे यागे उत्सवे स्नपने तथा || ५ || पृ० १८०) अन्ये च मऽऽन्गलाकार्ये मऽऽन्गलाऽऽन्कुरमुच्यते | श्रीकरं श्रीनिवासं च श्रीपदं च त्रिधा भवेत् || ६ || पूर्वाग्रं तु चतुस्सूत्रमुत्तराग्रं तथैव च | कृत्वा नवपदं तत्र देवताश्च शृणुष्वथ || ७ || पदे पूर्वे च ऋग्वेदं आग्नेयां तेज उच्यते | दक्षिणेन यजुर्वेदमाकाशं चैव नैरृते || ८ || पश्चिमे तु पदे पूर्वे साममुत्तरतं तथा | वायव्ये पवनं चैव अथर्वं सोमके पदे || ९ || आपश्चैव तु ईशान्यां मध्ये मेरः प्रतिष्ठितः | मध्यमे तु पदे चैव सोमकुम्भप्रतिष्ठितम् || १० || पृ० १८१) घटिका दिक्षु विन्यस्य पालिका वा विदिक्षु वै | एतत् श्रीकरमित्युक्तं श्रीनिवासमथ शृणु || ११ || पूर्वाग्रं पञ्चसूत्रं स्यादुत्तराग्रं तथैव च | षोडशात्पादमेवाहुर्देवतानां शृणुष्वथ || १२ || ईशे जयन्त आदित्यो अग्निश्च विततो मया | सुग्रीवो वरुणश्शेषो मुख्यस्सोमोदितस्तथा || १३ || ब्रह्मा चतुष्पदं चैव मध्यमे तु व्यवस्थिता | ईशानं चैव सुग्रीवो मुख्यस्य तु पदानि च || १४ || पालिकाद्विन्यसेत्तत्र घटिकास्थानमुच्यते | जयन्तो विजयश्चैव वरुणो सोम एव च || १५ || पृ० १८२) घटिकास्थानमेवोक्तं शरावस्थानकं शृणु | आदित्यश्च यमश्चैव शोषश्च वादिनि स्थिता || १६ || मध्यमे सोमकुम्भं तु परितो द्वादशा न्यसेत् | एतद्वै श्रीनिवासं तु श्रीपदं च शृणुष्वथ || १७ || षट्रसूत्रं चैव पूर्वाग्रमुत्तराग्रं तथैव च | पञ्चविंशत्पदं कृत्वा पूजयेत्क्रमशस्तथा || १८ || ईशो जयन्त आदित्यो पूषोग्निन्निर्विता यमः | भृऽऽन्गं च मृगसुग्रीवो वरुणश्शोषमारुतौ || १९ || मुख्य सोमो दितिश्चैव बाह्यदेवाः प्रकीर्तिताः | आप वत्सार्ध सावित्रि विवस्वाग्निलमित्रकः || २० || पृ० १८३) रुद्रो भूततरश्चान्तं मध्ये ब्रह्माणमुच्यते | ब्रह्माणं च पदे चैव स्थापयेत् सोमकुम्भकम् || २१ || ईशानन्तो जयन्तश्च अश्विनी विततस्तथा | पितृदौवारिकश्चैव मारुतश्चैव मुख्यकः || २२ || पालिका विन्यसेत्तत्र शरावं च शृणुष्वथ | आपवत्सादि देवाष्टौ घटिका स्थानमुच्यते || २३ || लक्षणं संप्रवक्ष्यामि शृणुष्व कमलासन | सौवर्णं रजतं ताम्रं मृण्मयं वापि कारयेत् || २४ || मात्राऽऽन्गुलेन कर्तव्यं पालिकादीनि चैव हि | पालिकामुखविस्तारं विंशत्यऽऽन्गुलमुत्तमम् || २५ || पृ० १८४) द्वादशाऽऽन्गुलमध्ये तद्वलय द्वादशाऽऽन्गुलम् | विस्तारेण समोत्सेधं तदर्धं पादविस्तरम् || २६ || परितोऽष्टौ च विप्रेन्द्र षड्भागेकमिति स्मृतम् | मध्यमे बिलसंयुक्तं दर्पणोदरवत्कृतम् || २७ || घटिस्तस्योत्सेधमानं तु पालिकासममेव च | घटिकोदर विस्तारं द्वादशाऽऽन्गुलमुच्यते || २८ || वक्त्रं चैव षडऽऽन्गुल्यं पञ्चवक्त्रसमन्वितम् | पालिकापादवत्कुर्यात् घटिलक्षणमुच्यते || २९ || अष्टाऽऽन्गुलं तु विस्तारं शारावस्य मुखो भवेत् | तदर्धं पादविस्तारं त्रिपादं वा समुच्यते || ३० || पृ० १८५) भेदं चोदं च कालं च सुषिरं चैव वर्जयेत् | घटिका ब्रह्मदैवत्यं पालिका विष्णुरुच्यते || ३१ || शारावस्येश्वरः प्रोक्तः इत्येते अधिदेवताः | चतुर्विंशतिसंख्यात्तु उत्तमं तु विनिर्दिशेत् || ३२ || पालिका षोडशं चैव मध्यमं तु विनिर्दिशेत् | पालिका चाष्ट विन्यस्य मध्यमं तदिहोच्यते || ३३ || उत्सवस्यादिरात्रौ तु बीजानिर्वाहमुच्यते | नवमे सप्तमे वापि पञ्चमे तं यजेत्सदा || ३४ || बीजानामधिपस्सोमस्तस्मात्तु निशिवापयेत् | ग्रामप्रदक्षिणं कुर्यात् त्रिशूलेन समायुतम् || ३५ || पृ० १८६) प्रतिमेन समायुक्तं चण्डेशेन समायुतम् | तदन्ते पालिकादीनि धारयेत् शिवभक्तकान् || ३६ || प्राऽऽन्मुखोदऽऽन्मुखो वाथ दक्षिणे वा विशेषतः | सुशुद्धं भूतलं प्राप्य प्रोक्षयेत् शुद्धवारिणा || ३७ || पुण्याहं वाचयित्वा तु अर्चयेत् हृदयेन तु | कुन्दालिं चैव संपूज्य हृदयेन तु मन्त्रतः || ३८ || हृदयेन तु मन्त्रेण खादयेद्देशिको भुवि | मृदं संग्राह्य वामेन हृदीना मृदमर्चयेत् || ३९ || सर्वतोत्यसमायुक्तं प्रविशेदालयं प्रति | प्रासादस्योग्रतो वापि ईशाने दक्षिणे तथा || ४० || पृ० १८७) उत्तरेणापि विप्रेन्द्र गोमयेनानुलेपयेत् | अष्टद्रोणेन शालिस्स्यात् स्थण्डिलं कारयेत्ततः || ४१ || पद्ममष्टदलं लिख्य प्रोक्षयेद्धृदयेन तु | मध्यमे सोमकुम्भं तु विन्यसेत्सोमबीजकैः || ४२ || सकूर्चं सहिरण्यं च सवस्त्रं वारिपूरितम् | गन्धपुष्पादिनाभ्यर्च्य नैवेद्यं दापयेत्ततः || ४३ || तद्बाह्ये पूर्व विन्यस्य पालिकादीनि सर्वशः | दर्भेण सुषिरं न्यस्य मृदं तत्रैव पूरयेत् || ४४ || तोयेन च समायुक्तं पूजयेद्धृदयेन तु | पुण्याहं तत्र कुर्वीत ताम्बूलं दापयेत्ततः || ४५ || पृ० १८८) मुद्गमाषकुलुत्थं च तिलनीवारमेव च | * * वशिपि संयुक्तं अपामार्गं च सर्षपम् || ४६ || श्यामगोधूमसंयुक्तं यववेणुं तथैव च | पयसा क्षालयेत्तत्र हृदयेन तु मन्त्रतः || ४७ || प्राऽऽन्मुखोदऽऽन्मुखो वापि आचार्यो मन्त्रविग्रहः | पापयेत् शिवमन्त्रेण * * * * स्तु वापयेत् || ४८ || रुद्रगणिका दासी च वापयेत्तु विशेषतः | सोमाधिदेवताकुम्भान् अभिषिच्य ततो जलम् || ४९ || पालिकादीनि सर्वाणि सतताप विवर्जिते | सुषुप्तदेशे संस्थाप्य सोमकुम्भेन संयुतम् || ५० || पृ० १८९) तत् दिनीदीनि तीर्थान्तं सोमराजस्य देशिकः | हविर्निवेदयेत्तत्र ताम्बूलं दापयेत्ततः || ५१ || कृष्णधूम्रनिभश्चेत्तु प्रासादेन शताहुतिः | होमयेच्चैव विप्रेन्द्र अपूपानि तथैव च || ५२ || एवमेव क्रमेणैव अऽऽन्कुरार्पणमुच्यते | अऽऽन्कुरार्पणहीने तु राजराष्ट्रस्य दोषकृत् || ५३ || तस्मात्सर्वप्रयत्नेन कुर्यात्तन्मऽऽन्गलाकरम् | एवं यः कुरुते मर्त्यश्शिवलोके महीयते || ५४ || अऽऽन्कुरार्पणमेवोक्तं उत्सवस्य विधिं शृणु || ५४.५ || इति वीरतन्त्रे अऽऽन्कुरार्पणविधिः पटलः || पृ० १९०) पटलः १५ (उत्सवसूचनम्) उत्सवं यत्त्वया पृष्टं तव स्नेहाद्विशेषतः | तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन || १ || सर्वदुःखहरं पुण्यं सर्वपापनिवारणम् | उत्गतं तुत्सवो यस्मात् तस्मादुत्सवमुच्यते || २ || दीक्षां चैव प्रतिष्ठान्ते प्रोक्षणान्ते तथैव च | ज्वर * मार्याप्रवर्त्तं तु शत्रुपीडनेषु च || ३ || धनधान्यसमृद्ध्यैव क्षामक्षयकराय च | सर्वेषामिष्टकामार्थं सर्वव्याधिविनाशनम् || ४ || एषु कालेषु कुर्यात्तु उत्सवं विधिनाधुना | द्विविधं उत्सवं चैव तयोर्भेदं शृणुष्वथ || ५ || पृ० १९१) मार्गशीर्षं च मासे तु आर्द्रान्तं स्यात् शिवोत्सवः | पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् || ६ || फाल्गुने चोत्तरां च चैत्र चित्रान्तमुच्यते | वैशाखे तु विशाखान्तं मूलान्तं श्रेष्ठमासके || ७ || आषाढं चोत्तराषाढं श्रावणे श्रावणान्तकम् | पूर्वाषाढं च मेवोक्तं पूर्वभाद्रेति मासके || ८ || आश्वयुजे व मासे च अश्विन्यान्तं तु कारयेत् | कृत्तिके कृत्तिकान्तं तु कारयेत्तु शिवोत्सवम् || ९ || राज्ञा जन्मदिनान्ते वा ग्रामनक्षत्रमेव वा | कर्तुश्च जन्मनक्षत्रे कुर्यादुत्सवमुच्यते || १० || पृ० १९२) सर्वमासेषु कर्तव्यमार्द्रान्तं हि शिवोत्सवम् | शैवं गौणं विभूतं च भौवनं देविकं तथा || ११ || पञ्चभेदेन कर्तव्यं शिवोत्सवविधिक्रमम् | एतेषां भेदकं वक्ष्ये शृणुष्व कमलासन || १२ || शैव भेदं समाख्यातं एकाहं उत्सवं ततः | त्रियाहेन समायुक्तं गौणमित्यभिधीयते || १३ || पञ्चाहं भौतिकं प्रोक्तं सप्ताहं भौवनं स्मृतम् | नवाहेन समायुक्तं दैविकं उत्सवं स्मृतम् || १४ || सूर्यवारेण कुर्यात्तु वारोत्सवमिति स्मृतम् | शनैश्चरस्य वारे तु तथा कामदमुच्यते || १५ || पृ० १९३) वारोत्सवे तु * * * मार्ताण्डीयमिति स्मृतम् | एतेषां तु क्रमेणैव वक्ष्यते विधिनाऽधुना || १६ || सायंकाले समारभ्य तत्पूर्वे रात्रिसंयुतम् | होमं कुर्यात्तु तद्रात्रौ बलि भ्रमणमाचरेत् || १७ || बलिरेकं मया प्रोक्तं एकाहे उत्सवे तथा | अपरेद्युश्चैव विप्रेन्द्र तीर्थं कुर्यात्तु देशिकः || १८ || एवमेव क्रमेणैव द्विविधं चोच्यते मया | त्रियहेषु च विप्रेन्द्र सायंकाले समारभेत् || १९ || प्रातःकाले तु तीर्थं स्यात् * * * * * * * * | इदमन्यत्प्रकारेण त्रियहं वक्ष्यतेऽधुना || २० || पृ० १९४) सायंकाले तदारभ्य तद्रात्रौ अधिवासयेत् | होमं कुर्यात्तु तद्रात्रौ तद्रात्रौ बलिमारभेत् || २१ || दिने दिने दिने चैव बलिरेकं विधीयते | बल्यन्ते चैव विप्रेन्द्र चूर्णोत्सवं तु कारयेत् || २२ || चूर्णोत्सवान्ते तीर्थं स्यात् द्विविधं चोच्यते मया | पञ्चाहं तु प्रवक्ष्यामि शृणुष्व कमलासन || २३ || अष्टाहे चैव सायाह्ने अधिवासनमारभेत् | होमं कुर्यात्तु तद्रात्रौ बलिं चैव ददेत् पुनः || २४ || चतुर्दशबलिं दद्यात् सूर्णोत्कारयेत् | तीर्थं कुर्याद्विशेषेण इदमन्य शृणु || २५ || पृ० १९५) सायंकालं समारभ्य तत्पूर्वे दिनमारभेत् | षष्ठाहे तु च पूर्वाह्णे चूर्णोत्सवं तु कारयेत् || २६ || तीर्थं चैव प्रकर्तव्यं इदमन्यत् शृणुष्व हि | सायंकाले समारभ्य पञ्चाहं स्यात् दिने तथा || २७ || होमं कुर्यात्तु तद्रात्रौ बलिरेका विधीयते | द्वितीये च तृतीये च चतुर्थं तु बलिद्वयम् || २८ || पञ्चमे बलिरेकं स्यात् चूर्णोत्सवं तु कारयेत् | कुर्याद्वै तीर्थकर्मं तु द्विविधं चोच्यते मया || २९ || सप्ताहं चैव वक्ष्यामि शृणुष्व कमलासन | अष्टाहे चैव सायाह्ने अधिवासनमारभेत् || ३० || पृ० १९६) होमं कुर्यात्तु तद्रात्रौ बलिं चैव ददेत्पुनः | चतुर्दशबलिं दद्यात् चूर्णोत्सवं तु कारयेत् || ३१ || तीर्थं कुर्याद्विशेषेण इदमन्यत् शृणुष्वथ | सप्ताहे सायमारभ्य अधिवास्य ततो बुधः || ३२ || होमं कुर्यात्तु तद्रात्रौ बलिरेकं ददेत्पुनः | द्वितीये दिवसे चैव तृतीयेऽपि चतुर्थके || ३३ || पञ्चमे षष्ठमे चैव बलिद्वयसमाचरेत् | सप्ताहं बलिरेका स्यात् बल्यन्ते चूर्णमुच्यते || ३४ || तत्र तीर्थं समारभ्य यावत्कालौकमुत्तमम् | सप्ताहं द्विविधं प्रोक्तं नवाहं च शृणुष्वथ || ३५ || पृ० १९७) तत्पूर्वरात्रिमारभ्य तद्रात्रौ चाधिवासयेत् | होमं कुर्यात्तु तद्रात्रौ बलिं चैव तु दापयेत् || ३६ || तत् दिनादीत्तु तीर्थान्तं तत्काले व बलिं ददेत् | चूर्णोत्सवं ततः कुर्यात् तीर्थं कुर्यात्तते बुधः || ३७ || इदमन्यत्प्रवक्ष्यामि शृणुष्व कमलासन | नवाहे चैव सायाह्ने अधिवासनमारभेत् || ३८ || अऽऽन्कुरं कुर्यात् तद्रात्रौ बलिं चैव तु दापयेत् | द्वितीय दिवसे चैव तृतीयेऽपि चतुर्थकम् || ३९ || पञ्चमे चैव षष्ठाहे सप्ताहे द्वितयं बलिम् | नवाहेऽपि च विप्रेन्द्र दशाहे तु बलिं क्षिपेत् || ४० || पृ० १९८) चूर्णोत्सवं ततः कुर्यात् तीर्थकर्म समारभेत् | नवाहे द्विविधं कुर्यात् प्रोच्यते कमलासन || ४१ || एवमेव क्रमेणैव कुर्यात् पञ्चविधानतः | वारपूजां प्रवक्ष्यामि शृणुष्व कमलासन || ४२ || प्रातःकालं समारभ्य द्विगुणं पूजयेच्छिवम् | पुण्याहं वाचयेत्तत्र हविर्निवेदयेत्ततः || ४३ || इन्द्राद्येशानपर्यन्तं लोकपालबलिं ददेत् | नित्योत्सवस्य काले तु कुर्यात् ग्रामप्रदक्षिणम् || ४४ || रथं वा शिबिकां वाथ शिरसा वाहयेत्ततः | प्रविशेदालयं तत्र पादुकार्चनमुच्यते || ४५ || पृ० १९९) सूर्यवारमिदं प्रोक्तं शनिवारमथापि वा | लिऽऽन्गे वा प्रतिमायां वा तैलाभ्यऽऽन्गमिहोच्यते || ४६ || अभिषेकं तु कर्तव्यं हृदयेन तु मन्त्रतः | हविर्निवेदयेत्पश्चात् लोकपालबलिं क्षिपेत् || ४७ || शैवान् संभोजये परिचारक्रमं कुरु | ग्रामप्रदक्षिणं कुर्यात् सर्वतोद्य समन्वितम् || ४८ || मार्ताण्डीयं प्रवक्ष्यामि शृणुष्व कमलासन | सायंकालं समारभ्य प्रातःकाले बलिं ददेत् || ४९ || तीर्थान्ते पूर्वरात्रौ तु लोकपालबलिं क्षिपेत् | मण्टपात् दक्षिणे पार्श्वे स्थापयेत् कलशं नव || ५० || पृ० २००) ततो होमं प्रकर्तव्यं लक्षणेन समन्वितम् | समिदाज्यचरूंश्चैव सुहुत्वा पञ्चविंशतिः || ५१ || अन्नलिऽऽन्गसमायुक्तं अस्त्रराजेन संयुतम् | बलिं दद्यात्तु विप्रेन्द्र सायंकाले विशेषतः || ५२ || ततः प्रभाते प्रतिमां कुर्यात् ग्रामप्रदक्षिणम् | तीर्थं कुर्यात्ततो विद्वान् प्रविशेदालयं प्रति || ५३ || एवमेव क्रमेणैव बुधवारे विशेषतः | मार्त्ताण्डीयमिदं प्रोक्तं * मारं च शृणु द्विज || ५४ || अऽऽन्कुरार्पणपूर्वं च ध्वजारोहणसमन्वितम् | समिदाज्यचरूंश्वैव * * * * * पूर्वकम् || ५५ || पृ० २०१) भेरीताडनपूर्वं तु त्रिविधं चोच्यते मया | अऽऽन्कुरानर्पयेद्विद्वान् ध्वजमारोपयेत्ततः || ५६ || भेरीं तु ताडयित्वा तु अऽऽन्कुरार्पण पूर्वकम् | ध्वजमारोपयेत् पश्चात् भेरीं चैव तु ताडयेत् || ५७ || अऽऽन्कुरानर्पयेद्विद्वान् ध्वजारोहण पूर्वकम् | भेरीं तु ताडयित्वा तु ध्वजमारोपयेत्ततः || ५८ || अऽऽन्कुरानर्पयेद्विद्वान् भेरीताडन पूर्वकम् | एवमेव क्रमेणैव त्रिविधं चोच्यते मया || ५९ || नन्दिनं चैव विप्रेन्द्र त्रिगुणीकृत्य रोपयेत् | द्विगुणीकृत्य वा कुर्याद्ध्वजमारोपयेत्ततः || ६० || पृ० २०२) उत्सवस्यादिरात्रौ तु ध्वजारोपणमुच्यते | भौवने दैविके कुर्यादन्येषु च विवर्जयेत् || ६१ || समुद्रस्नान उत्पन्ने पर्वयुक्तिर्विधीयते | यद्दिनेषु प्रभा कुर्यात् तत्पूर्वे वा परेऽपि वा || ६२ || इतरेषां परे विप्र तत्तद्दिनेषु कारयेत् | नदीनद तटाकेषु नक्षत्रे तीर्थमुच्यते || ६३ || यत्पक्षे यद्दिने वारे हस्तर्वादि दिवाकरः | तद्दिने संक्रमो भागे दिवा तीर्थं च निश्चयः || ६४ || शिवस्यावभृथं कुर्यात् स्नपनं तदनन्तरे | एवमेव क्रमेणैव उत्सवं कारयेत्ततः || ६५ || उत्सवारम्भमेवोक्तं वृषयागमथ शृणु | इति उत्सवसूचनं समाप्तः || पृ० २०३) पटलः १६ (वृषयागः) वृषयागं प्रवक्ष्यामि शृणुष्व कमलासन | प्रासादस्याग्रतः कुर्यात् मण्टपं चतुरश्रकम् || १ || मण्टपस्य तु तन्मध्ये कुर्याद्वृषभयागकम् | दर्भमालाभिरावेष्ट्य पुष्पमालावलम्बितम् || २ || इन्द्रादीशानपर्यन्तं अष्टदिक्षु ध्वजाष्टकम् | लोकपालाधिदैवत्यं स्वस्वरूपं तु लाञ्चयेत् || ३ || विन्यसेत्तु ध्वजं सूत्रं चतुस्तोरणभूषितम् | वितानेनोर्ध्वमाच्छाद्य मुक्तादामैरलंकृतम् || ४ || वृषदेवं समभ्यर्च्य गन्धपुष्पादिना ततः | मुद्गान्नं चैव दातव्यं उपदंश समन्वितम् || ५ || पृ० २०४) तदग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः | अष्टद्रोणेन शालिं तु तदर्धं तण्डुलैरपि || ६ || तदर्धं तु तिला न्यस्य पद्मं कृत्वा विशेषतः | तस्योपरि न्यसेत्तत्र कलशान्नवसंख्यया || ७ || मध्यस्थपदमेकैकं ससूत्रान् सापिधानकान् | पूरयेत् गन्धतोयेन स्वर्णं तत्र विनिक्षिपेत् || ८ || वृषबीजं समुद्धृत्य गन्धपुष्पादिनार्चयेत् | पूर्वादीशानपर्यन्तं विन्यसेदष्टकुम्भकान् || ९ || पाद्यं पूर्वं न्यसेद्यत्र आग्नेययां पुष्पमुच्यते | आचमनं दक्षिणे तस्य फलोदकं तु नैरृते || १० || पृ० २०५) अर्घ्यं पश्चिमतो न्यस्य बलिदानं तु वायव्ये | उत्तरे पञ्चगव्यं तु ईशे रत्नोदकं न्यसेत् || ११ || गन्धादिनार्चयेत्तत्र देवता विन्यसेत्ततः | वृषभं मध्यमे न्यस्य उक्षाणं पूर्वतो न्यसेत् || १२ || गोपतिं चाग्निदिग्भागे शृऽऽन्गिणं चैव दक्षिणे | नैरृत्यां चैव नन्दी स्यात् पश्चिमे तु वशेत् पतिम् || १३ || वृषाणि वायुदिग्भागे शऽऽन्कुकर्णस्तथोत्तरे | महोदरं तु ईशान्यां विन्यसेत् कलशेषु च || १४ || कलशान् पूर्वदिग्भागे शालिना स्थण्डिलं कुरु | अष्टपत्रं समालिख्य दर्भैश्चैव परिस्तरेत् || १५ || पृ० २०६) ध्वजपटं विन्यसेत्तत्र * णेन समन्वितम् | उत्तमं दशहस्तं तु मध्यमं नवहस्तकम् || १६ || अधमं चाष्टहस्तं स्यात् मध्यमं नवहस्तकम् | अर्धाधिके त्रितालं तु पटदैर्घ्य मिहोच्यते || १७ || षट्तालमुत्तमं प्रोक्तं पञ्चतालं तु मध्यमम् | अर्धाधिके त्रितालं तु कन्यस्तं त्विह चोच्यते || १८ || पटविस्तारमानं तु चतुर्भागैकमेव तु | ब्राह्मणस्य भवेत् श्वेतं क्षत्रियस्य तु रक्तकम् || १९ || पीतं वैश्यस्य इत्युक्तं कृष्णवर्णं तु शूद्रकम् | विस्तारेण समं पुच्छं पुच्छार्धं शिखरं भवेत् || २० || पृ० २०७) मध्यमं वृषभं पुच्छात् स्थितं वा शयनं तु वा | वृषभं श्वेतवर्णं तु रक्तवर्णं तु शृऽऽन्गकम् || २१ || खुराणां रक्तवर्णं तु पीतं लाऽऽन्गूलमेव च | नेत्रे श्वेतमयी चैव मध्यरक्तमयी यथा || २२ || वृषभं मध्यपीठं तु मणिमालाविभूषितम् | पशुदीपद्वयो न्यस्य चित्रमूर्ध्वे तु विन्यसेत् || २३ || द्वौ पार्श्वौ चामराभ्यां तु लेखयेत् वृषभं ततः | पूर्वेद्युरधिवासं च ध्वजदण्डेन संयुतम् || २४ || प्रोक्षयेदम्भसा चैव हृदयेन तु मन्त्रतः | गन्धपुष्पादिना पूज्य वृषगायत्रिमन्त्रतः || २५ || पृ० २०८) पूर्वादीशानपर्यन्तं वृषमूर्तिं न्यसेत्ततः | तदन्ते लोकपालांश्च पूजयेत्तु विशेषतः || २६ || तद्बाह्ये पूजयेत्तत्र लोकपालास्त्रमेव च | तस्यैव पूर्वदिग्भागे शालिका स्थण्डिलं कुरु || २७ || पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् | तदूर्ध्वे विन्यसेन्मूलं पूजयेत्तु विशेषतः || २८ || वामादीनां तु शक्तीनां शूलमूले प्रतिष्ठितम् | कुमारं पालिके न्यस्य कुम्भे तु वरुणं न्यसेत् || २९ || तासि चैवाग्निदैवत्यं सरस्वती चैव दण्डकम् | पीठे तु पार्वतीं न्यस्य भूमिभागे वसुन्दरीम् || ३० || पृ० २०९) गन्धपुष्पैश्च धूपैश्च षण्णवत्येन पूजयेत् | पुण्याहं वाचयेत्तत्र ताम्बूलं दापयेत्ततः || ३१ || ततो होमं प्रकुर्वीत स्थण्डिलं चतुरश्रकम् | शिवाग्निमानयेत्तत्र अग्निमुखं च हूयते || ३२ || समिदाज्यचरून् लाजान् सर्षपांश्चैव हूयते | पञ्चब्रह्मेण संयुक्तं ईशानादीनि हूयते || ३३ || प्रत्येकं शतमर्धं वा तदर्धं वापि हूयते | वृषाशिवासनं प्रोक्तं ध्वजारोहणकं शृणु || ३४ || इति वृषयागस्समाप्तः || पृ० २१०) पटलः १७) (ध्वजारोहणविधिः) ध्वजारोहणमेवं तु वक्ष्यामि शृणु सत्तमः | श्वेतवर्णं ध्वजं चैव राजराष्ट्र विवर्धनम् || १ || वश्यं वै रक्तवर्णं तु स्तम्भनं पीतमुच्यते | विजयं कपिलाभं च कृष्णं चैवाभिचारकम् || २ || धूम्रं व्याधिप्रदं चैव एवमेव क्रमेण तु | ? धान्यान् कामान्यकामाय तों तान्तान्वै साधयेत् ध्वजः || ३ || वर्षार्थं श्यामवर्णं तु क्षीराभं सर्वशान्तिकम् | शऽऽन्खस्फटिकमुक्ताभं रक्षार्थं शान्तिपुष्टिकम् || ४ || पूर्वाह्णे ब्रह्मणः प्रीतिर्मध्याह्ने राज्यवृद्धिदम् | रात्रौ वैश्यस्य शूद्राणां वर्धते क्रमशस्तथा || ५ || पृ० २११) ध्वजस्थानमहं वक्ष्ये श्रूयतां कमलासन | पीठगोपुरयोर्मध्ये वृषस्य च पुरतोऽपि वा || ६ || पीठाग्रे वाथ कुर्यात्तु ध्वजस्थानं विधीयते | क्रमुकं वेणुदण्डं च चन्दनं वापि खादिरम् || ७ || चम्पकं देवदारुं च स्तम्बकैर्बिल्वकैरपि | अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् || ८ || प्रासादस्य समं वापि प्रासादग्रीवमेव च | वृषभस्थल समं वापि गोपुरोत्सेधमेव च || ९ || तुलान्तं च तुलान्तं वा दण्डस्योत्सेधमुच्यते | हस्तसंख्येन वा कुर्यात् त्रिंशद्धस्तमथापि वा || १० || पृ० २१२) द्वादशं दशहस्तं वा ध्वजस्योत्सेधमुच्यते | सप्तत्रिंशाऽऽन्गुलं वापि चतुर्विंशतिरेव वा || ११ || द्वाविंशतिभिर्वाथ नाहं तस्य विधीयते | वेणुयष्टिं ततो ग्राह्य अवक्रं निर्व्रणं ततः || १२ || एकपर्वं विनाशार्थं द्विपर्वेण भयंकरम् | त्रिपर्वं व्याधिनं पीड्यं चतुष्पर्व विनाशिनः || १३ || पञ्चपर्वात् भयं लोके षट्पर्वं स्या श्रियं भवेत् | सप्तपर्वान् गवां नाशः अष्टपर्वैस्तु वर्धते || १४ || नवपर्वान् कुलं क्षीणं दशमः सर्वकामदः | एकादशं पुत्रकामः द्वादशं पुष्टिकामदम् || १५ || पृ० २१३) इदं ऊर्ध्वं न कर्तव्यं हस्तमानं ततश्शृणु | षट्तालं पञ्चतालं वा तस्याग्रे घटिकां न्यसेत् || १६ || आधारफल त्रीणि च याज्ञिकैर्वृक्षसंभवैः | हस्तमात्रान्तरं ज्ञेयं हस्तं वा सुषिरद्वयम् || १७ || एवमेव प्रमाणेन तन्तुना रज्जुरुच्यते | अग्रघटिकामूलान्तं रज्जुद्विगुणं कारयेत् || १८ || माणवकश्शुचिर्भूत्वा प्रोक्षयेदम्भसा ततः | नववस्त्रपरीधाना सोष्णीयं चोत्तरीयकम् || १९ || अन्यध्वजांश्च कुर्यात्तु एवमेव प्रदक्षिणम् | तस्यान्ते चास्त्रराजानमन्नलिऽऽन्गसमायुतम् || २० || पृ० २१४) नानाध्वजसमायुक्तं नानापिञ्छसमायुतम् | नानाजनसमाकीर्णं नानावाद्यसमायुतम् || २१ || नानाचित्रसमायुक्तं ब्रह्मघोषसमन्वितम् | मऽऽन्गलाऽऽन्कुरसमायुक्तं नृत्तगेयसमन्वितम् || २२ || अग्रतः पृष्ठतो गत्वा आचार्यो यजमानकः | शनैः प्रदक्षिणं कृत्वा ध्वजस्थानं प्रवेरयेत् || २३ || अं चातमाघतात्तत्र हस्तद्वयप्रमाणतः | तस्य मूले प्रकर्तव्यं वेदिलक्षणसंयुतम् || २४ || षट्तालमध्ये विन्यस्य स्वर्णकूर्मं तु मेव च | पुण्याहं वाचयेत्तत्र प्रोक्षयेत् शुद्धवारिणा || २५ || पृ० २१५) हृदयेन तु मन्त्रेण क्षालयेत् ध्वजदण्डकम् | दर्भमालाभिरावेष्ट्य पुष्पमालासमन्वितम् || २६ || वृषगायत्रिमन्त्रेण प्रोक्षयेत्कलशोदकैः | उत्थाय ध्वजदण्डं तु व्योमव्यापि समुच्चरन् || २७ || वालुकेन हृदा चैव पूरयेदाघतां ततः | तस्य मूले प्रकर्तव्यं वेदिकालक्षणं ततः || २८ || षट्तालं पञ्चतालं वा चतुस्तालमथापि वा | विस्तरः प्रोच्यते विप्र उत्सेधं तु तदर्धकम् || २९ || तदूर्ध्वे पद्म संकल्प्य अष्टपत्र सुशोभनम् | एवमेखलमेवं स्यात् मेखलात्रयमेव च || ३० || पृ० २१६) उत्सेधं तु त्रिधा भज्य एकैकमेखलोच्छ्रयम् | अधस्तमेखला चैव भूमिदेवीं तु विन्यसेत् || ३१ || श्रीदेवीं मध्यमे पूज्य तृतीये च सरस्वती | त्रिमेखलेषु विप्रेन्द्र शक्तीनां त्रय कल्पयेत् || ३२ || एकमेखलया कुर्यात् भूमिदेवीं न्यसेत्ततः | पूजयेद्गन्धपुष्पेण धूपदीपैस्समन्वितम् || ३३ || स्थण्डिलं कारयेत्तत्र चतुर्द्रोणेन शालिना | पुण्याहं कारयेत्तत्र कलशान् विन्यसेन्नवम् || ३४ || मध्यमे वृषभकुम्भं तु वृषमन्त्रेण विन्यसेत् | इन्द्रादीशानपर्यन्तं विन्यसेत् कलशं ततः || ३५ || पृ० २१७) सवस्त्रान् सापिधानांश्च लोकपालाधिदेवताः | स्नापयित्वा यथान्यायं वृषयन्त्री च मन्त्रतः || ३६ || निवेदयेत्तु मुद्गान्नं दध्योपदंशसंयुतम् | ? एतत्काले तु पूजातीनां पिण्डान्यान् भोजयेत्ततः || ३७ || कुक्कुटाण्डप्रमाणेन पिण्डं कुर्यात्तु देशिकः | वृषगायत्रिमन्त्रेण पिण्डं दद्यात्तु देशिकः || ३८ || वृषभं भर्तृवत् समृत्वा त्रिः कृत्वा तु प्रदक्षिणम् | नमस्कारं तु कर्तव्यं ध्वजमूले समाश्रितः || ३९ || एवं कुर्यात्तु विप्रेन्द्र चातुर्वर्णं तु दापयेत् | अन्यजातिस्तु सर्वेषां प्रतिलोमाश्च कारयेत् || ४० || आचार्यं पूजयेत्तत्र वस्त्रहेमाऽऽन्गुलीयकैः | ताम्बूलं दापयेत्तस्मै जनान्सर्वान्विशेषतः || ४१ || इति वीरतन्त्रे ध्वजारोहणविधिः समाप्तः|| पृ० २१८) पटलः १८ (भेरीताडनम् ?) इदं ऊर्ध्वं प्रकर्तव्यं भेरीताडनमुत्तमम् | प्रातर्मध्याह्नसायाह्ने ध्वजमारोपयेत्ततः || १ || तद्रात्रौ ताडयेद्भेरीं लक्षणेन समन्वितम् | लक्षणं संप्रवक्ष्यामि शृणुष्व कमलासन || २ || आसनं चन्दनैर्वापि वकुलैश्च शिरीषकैः | व्यधवृक्षेण वा कुर्यात् भेरीं वा पटहं तु वा || ३ || आयामं तु त्रिहस्तं स्यात् उत्तमं तु विधीयते | पञ्चतालं तु मध्यं स्यात् षडऽऽन्गुलविहीनकम् || ४ || आयामं चे तदुद्दिष्टं त्रिविधं चोच्यते मया | आयामस्य समं नाहं मध्ये पटहमुच्यते || ५ || पृ० २१९) वक्त्रं वै द्वादशाऽऽन्गुल्यं नवभिस्सप्तभिश्च वा | एवमेव क्रमेणैव कृत्वा पटहमुत्तमम् || ६ || गोचर्मेण तु बन्धं स्यात् महाध्वनिसमायुतम् | मद्दलैः काहलैश्चैव कांस्यध्वनिसमायुतम् || ७ || झल्लरी झर्झरी मोन्तैः खण्डिका च समन्वितम् | अन्यैश्च सर्ववाद्यैश्च यथालाभेन ताडयेत् || ८ || प्रासादस्याग्रतश्चैव मण्टपं कारयेत्ततः | मण्टपस्य तु मध्ये तु गोमयेनानुलेपयेत् || ९ || स्थण्डिलद्वितयं कृत्वा शालिना च तथैव च | अष्टद्रोणेन शाली स्यात् स्थण्डिलौ द्वौ तु कारयेत् || १० || पृ० २२०) तदर्धं तण्डुलैर्युक्तं प्रोक्षयेदम्भसा ततः | पद्मपत्रं समालिख्य दर्भैश्चैव परिस्तरेत् || ११ || पटहस्य दलंकारं स्थण्डिलं कारयेत्ततः || पटहं विन्यसेत्तत्र नववस्त्रसमन्वितम् || १२ || तदग्रे स्थापयेच्छूलं अस्त्रमन्त्रेण देशिकः | गन्धैः पुष्पैश्च धूपैश्च दीपैश्चरुं निवेदयेत् || १३ || एवं वै पूजयेच्छूलं पश्चाद्भेरीं समर्चयेत् | उत्तराभिमुखो भूत्वा अर्चयेद्गन्धपुष्पकैः || १४ || आपोहिष्ठेतिमन्त्रेण प्रोक्षयित्वा कुशाम्भसा | पटहं विन्यसेत्तत्र हृदयेन तु पूजयेत् || १५ || पृ० २२१) दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुं तथैव च | ब्रह्माणं पूजयेन्मध्ये एवमेव क्रमेण तु || १६ || वासुकीचर्मसूत्रे तु वलयौ रविचन्द्रमौ | मातरस्सन्ति कीले तु उदरे तु व्यवस्थितः || १७ || कोदण्डेन समायुक्तं पूजयेत् सत्रमन्त्रतः | वाद्यकं च समाहूय स्थानकर्म समाचरेत् || १८ || शुक्लवस्त्र परीधानं गन्धमालानुलेपनम् | नन्दिकेश्वरमावाह्य नन्दिमन्त्रसमन्वितम् || १९ || अर्चयित्वा यथान्यायं गन्धपुष्पादिना ततः | पटहस्यैव विप्रेन्द्र हविर्निवेदयेत्ततः || २० || पृ० २२२) आचार्यं पूजयेत्तत्र वाद्यं संपूजयेत्ततः | वामदेवेन मन्त्रेण अर्चयित्वा विशेषतः || २१ || ताडयेच्छिवमन्त्रेण आचार्यो मन्त्रविग्रहः | वाद्यकस्ताडयेत्पश्चात् नन्दिमन्त्रेण संयुतम् || २२ || कुलोद्गतो विदितात्मा ताडयेत्तालमेव च | चर्चपुटं तु ब्रह्माणं चाचपुट द्वितीयके || २३ || इन्द्रस्य स * * * * * * * * * * * * शुभमस्तु ओं श्री सच्चिदानन्द उमामहेश्वराभ्यां नमः|| वीरागमम् || समस्तविद्याकुसुमैरलऽऽन्कृतां शशिप्रभां बालशशांऽऽन्कशेखराम् | अयुग्मनेत्रामरविन्दजप्रभां नमामि देवीं वरदां सरस्वतीम् || १|| प्रणम्य भगवन्तं हि परिपृच्छत्पितामहम् | तंत्राणामद्भवं किञ्चित् तत्सर्वं ब्रूहि मे प्रभो || २ || ईश्वर उवाच- तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन | तनोति विपुलानर्थान् तत्वमन्त्रसमाश्रितान् || ३ || त्राणञ्च कुरुते पुंसां तेन मन्त्रमिति स्मृतम् | कामिकं योगजं चिंत्यं कारणं त्वजितं तथा || ४ || दीप्तं सूर्यसहस्रञ्च अंशुमान् सुप्रभेदकम् | विजयञ्चैव निश्वासं स्वायंभुवमयानिलम् || ५|| श्री गुरुभ्यो नमः| श्री अंबासहायम् | मकुटतंत्र| अतः परं प्रवक्ष्यामि अष्टबन्धविधिक्रमम् | सर्वपापहरं पुण्यं सर्वविघ्नहरं शुभम् || १ || राजराष्ट्राभिवृद्ध्यर्थं सर्वलोकशुभप्रदम् | अष्टबन्धं ततो हीने राजराष्ट्रस्य दोषकृत् || २ || निश्वासतन्त्रे - प्रमादाद्बन्धने हीने पूजा नैवेद्यनिष्फलम् | दर्शने बन्धने हीने सन्तानं नाशयेत्क्रमात् || ३|| प्रमादात्पूजनं कुर्याद्राजारेणमवाप्नुयात् | बलिं नित्योत्सवञ्चैव वर्ज्यं प्रादक्षिणं तपम् || ४|| नृत्तगीतञ्च वाद्यञ्च नित्यनैमित्तिकं तथा | उपचाराणि सर्वाणि निष्फलञ्च तथा भवेत् || ५ || मकुटतन्त्रे- अष्टो बन्धनमित्युक्तो तत्र शास्त्रोक्तमार्गतः| फाल्गुने चैववैशाखे पुष्यमाते तु चोत्तमः || ६ || वर्जयेचान्यमातेषु विषये च विहीनके || ७ || निश्वासे- सर्वमासेषु कर्तव्यं अष्टबन्धमिहोच्यते| दिनवारमुहूर्तञ्च वर्जयेद्देशिकोत्तमः || ८ || ########### END OF FILE #######