#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00613 Uniform title: vīratantra Manuscript : Manuscript from Kashi Jangamwadi Matha Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || वीरतन्त्र || श्रीगणेशाय नमः || श्रीगु * यो नमः || श्री शिवं सच्चिदानंद लक्षणं सर्वकारणं || माहालिंगाभिदं नौमी समुपास्य मुमुक्षुभिः || १ || गुरुमनादि निरंजन जंगमं परमनुग्रहणैक परायणं || जगति तोटद सिद्ध महेश्वरं प्रथितनमजुष प्रणमाम्यहं || २ || लीलामूर्तिरनादिजंगमय श्रीतोटसिद्धेस्वरस्वैरोद्यामकृपा कटाक्ष लहरी प्राप्तोपदेशन्नतिः || धर्मान् साधु समीरान् स्वभजकान् श्रीवीरशैवोचितान् || बोधं सो विमलं ददातु मुरिगा श्रीशांत वीरोयतिः || ३ || शांतवीर गुरुभूरि सत्कृपापात्रतामुपगतः समंतत || यो वसत्क्षीतितले विरक्ति मां संन्नमामि गुरु सिद्धदेशिकं || ४ || योगसिद्ध गुरुसिद्ध देशिकानुग्रहाधिगत शैववैभवः || पृ० १अ) तत्वबोधनरतसुधापुरी वीरचंन बसवाय एधते || ५ || तादृशं गुरुमपृछदीछया पंडितोमुरगयाख्य सीलवान् || तत्वमुत्तमत्तमं तथाविधं सन्नुतं च मम कथ्यतमिति || ६ || इतीरयं तं मुरिगाख्य सीलिनं गुरुस्तवप्रश्न युगोत्तरं क्रमात् || कृतिं वितन्वन्निगमागमानुगां वदात्र्यहं शृण्विति सो वदनूमुदा || ७ || सकलशृत्यागमपुराणप्रसिद्धष्टावर्णपंचाचार विशिष्टतया महालिंगैक ये रूपाक्ष साधन निरुत्तरैकौत्तरशतस * *? गर्भित शट्स्थल प्रतिपादक सिद्धांतशास्त्र प्रतिपाद्यज्ञानक्रीया * भेदरुपपदार्थ पृ० १ब) समर्पण प्रकारी भुतांग लिंगभक्ति शक्तिहस्त मंत्रमुखपदार्थानुसंधानाश्रय षट्भेदभिन्नस्थानावयवि भूतेष्टलिंग प्राणलिंग भावलिंग पूजोपासनैक स्थान मानसतया विशिष्टाद्वैतज्ञान संपन्नः श्रीवीरशैवः सर्वोत्तरः || तथाहि शांकरसंहितायां || आष्टावरणसंपन्नः पंचाचार परायणः वैदिकं कर्म कूर्वित ज्ञानैक फलसाधनं || १ || मीति || यो हस्तपीटे निजलिंगमीष्टं विन्यस्य तल्लिन मनः प्रचारः | बाह्ये क्रीया संकुल निस्पृहात्मा संपूजयत्यंग सवीरशैवः || २ || क्रिमिकीटपंतग्येभ्यः पशवः प्रज्ञयाधिकाः || पशुभ्योपि नराः श्रेष्ठाः तेषु श्रेष्ठा द्विजातयः || १ || पृ० २अ) द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः || क्रतुबुद्धेषु कर्तारस्तेभ्यः स्संन्यासीनोधिकाः || २ || तेषु विज्ञानिन श्रेष्ठा तेषु शंकर पूजकाः || तेषु श्रेष्ठा माहाभागा मम लिंगांग संगिनः || ३ || लिंगांग संगीष्वधिकः षट्स्थल ज्ञानवान् भवेत् || तस्मादप्यधिको नास्ती त्रिषु लोकेषु सर्वदा || ४ || सवंद्य सर्वदा पूज्य संसार विजिगीषुभिः || बहुनोक्तेन किं वत्स सरावाहं न संशयः || पारमेश्वरे || विभूतिर्यस्य भालेस्ति कंटे लिंगमदात्मकं || रुद्राक्ष धारणं देहे सोहं देवि न संशयः || ईत्यादि प्रमाण बलाद्वीरशैवानां सर्वोत्तमत्वं सिद्धं ननु || श्रुतिभ्रष्ठः श्रुतिप्रोक्त प्रायश्चीते भयं गतः || पृ० २ब) क्रमेण शृति सिद्ध्यर्थं मनुष्यस्तंत्रमानयेदिति || श्रुतिपथ गलितानां मानवानां हि तंत्रशृतिपथ निरतानां || तत्सदा नैव सव्यं अत्यंत स्खलितानां हि नराणां वेदमार्गतः पांचरात्रादयो मार्गा कालेनैवोपपादकाः || कापालं पांचरात्रं च यामलं वा ममार्हतं || एवं विधानि चान्यानि मोहनार्थानि तानि तु || १ || विपक्षाश्चैव ये केचित्कपालां क्रुत? भूषणाः || शैवापाशुपताश्चान्य पांचरात्रास्तथापरे || २ || तथान्ये च दुरात्मानः सर्वेप्य मुखदैवताः पाशबधस्तथा धर्मो जगतपालनात् स्मृतः || तं खंडयति यस्मात्ते पाषांडास्तेन हेतुना || ईत्यादि पृ० ३अ) कौर्म ब्रह्मकैवर्त सूतसंहिता वासिष्ठलैंग्य पाराशरोपपुराणवचनैः || केवल तंत्रमार्गाश्रायाणस्यानिंदितत्वाद्वीरशैवानुष्ठेय धर्माणां तादृश तंत्रेष्ववविहितत्वेन वैदिकेषु शृतिस्मृतीति साहासेष्वदर्शना तादृश धर्मानुष्ठानैक तत्पराणां वीरशैवानां कथंकारमुत्कर्षः || प्रसाद्यत ईति चैन्नैवं सांख्ययोगः पांचरात्रवेदाः पाशुपतं तथा || आत्मप्रमाणाण्यतानि न हंतव्यानी हेतुभिरीत्यनुशासनीक माहाभारतवचनात् पुराणांतरैर्निंदितानां पांचरात्राद्यागमानां ग्राह्यत्व प्राप्या तदुदित धर्माणामप्यवश्यानुष्टेयत्वं सिद्धमेव || न च भारतवचनेन पांचरात्रपाशुपतधर्माणा पृ० ३ब) मेवाचरणीयत्व पर्यवसानेपि वीरशैवधर्माणां पांचरात्रपाशुपतानंतर्भावात् धर्मानुष्टानैक तत्पाराणां मुत्कर्ष इति वाच्यं पाशुपतस्य वैदिकावैदिक भेदेन द्वैतविद्यान्नीषेध वचनानाम वैदिकपाशुपत परत्वेन विधियानां वैदिक पाशुपत वीरशैव परत्वेन व्यवस्याया एवाप्यय दिक्षितैः कल्पतरु व्याख्याने || परिमले पत्युरसामजस्यादित्यासीद्धिकरणे पाशुपत मतभेदमुक्त्वा तत्र लगुडीश पाशुपतस्य ग्राह्यत्वमभ्यदई तत || तस्माद्विरशैवधर्माणां तांत्रिकत्व निषेध्य तावछेदकं न भवति ननु || लगुडिश पाशुपतस्याप्ययदीक्षतैः कृते परिमले वैदिकत्वेन ग्राह्यत्व पृ० ४अ) प्रतिपादनपी वीरशैवधर्मप्रतिपादकागमानां लगुडिश पाशुपतानंतरभावेन भिन्नत्वा तु तेषा वैदिकत्वेनाग्राह्यत्वं पर्यवसितमिति चरन् || सिद्धांतशिखामणौ || वेदसिद्धांतयोरैकयमेकार्थ प्रतिपादनात् प्रामाण्यं सदृशं ज्ञेयं पंडितैरेतयोः सदा || क्रियासारे || आथवत्सिवनिश्वासा श्रुतिभ्यस्ते सिवागमाः || आधिकाः शिववक्त्रेभ्यस्साक्षादेव विनिर्गताः || २ || परस्पराविरुद्धार्था शिवोक्ता निगमागमाः आल्पबुद्धिभिरन्योन्यो विरोधः प्रतिकल्पते || ३ || निगमागमानां परमात्पोपदेशतः प्रामाण्यमविशेषण ज्ञातव्यं तत्वदर्षिभिः || ४ || रितिवचनैर्वेदाविरुद्ध वर्णनात् पृ० ४ब) भ्रमं धर्मप्रतिपादकत्वेन सर्वात्म परमेश्वरैक कर्तृकत्वेन चागमप्रामाण्यस्य सिष्टेरभ्युगतंव्यत्वादागमोक्ताचारणां सर्वेषां वै वैदिकानुष्टयत्वं सिद्धं || आन्यथा शिवादि देवतालयनिर्माण शिवलिंगादि प्रतिष्ठारयोछवादि विधि मंत्रोद्धार मंत्रदोष मंत्रसंस्कार मंत्रन्यास मुद्रा विधानादिषु केवल सिवागममुलेषु वैदिकानां प्रवृतिर्न स्यात् || किं च सूतसंहितायां शिवमहात्मखंडे || व्यासवचनस्य विश्रमे || भणियत्वं प्रस्थाव्ये अष्टादशपुराणानां कर्ता सत्यवति सुतः कामिकादि प्रभेदानां यथा देवो महेश्वर ईति || तद्व्याख्याने विद्यारण्येन व्यासवचनेषु विश्वासोत्पादनार्थमष्टादेशत्युपक्रम्य पृ० ५अ) कामिकादीनां शैवागमानां सिवोक्ततया प्रामाण्यं यथा || तथा नारायणावताररूप व्यासप्रणितानामष्टादशपुराणानां प्रामाण्यमिति प्रतिपादितं || तस्मादागमोक्तानां विरशैवधर्माणामनुष्ठेयत्वं सिद्धं || तथा च तदागमेषु आनादिशैवमादिशैवं माहाशैवमनुशैवमवांतरशैवं प्रवरशैवं मंत्यशैवमिति भेदेन सप्तविधानां शैवानां मध्ये आचारभेदभिन्नानां सामान्यशैव मिश्रशैव शुद्धशैव विरशैवरूपतया चतुर्विधानां || मध्य विरशवस्याचारभेदेन सामान्यविरशैव विशेषवीरशैव निराभार विरशैवभेदेन त्रिविधानां तदुनुष्टेय भस्मरुद्राक्षधारण पंचाक्षरि पृ० ५ब) जपलिंगधारण गुरुलिंग जंगमपूजा तत्पादोदक प्रासाद स्वीकाररूप साधारण विरशैवधर्माणां कालाग्नि रुद्र भस्मजा बालचिदंबर वेदांतसारद्युपनिशत्सु लिंगधारणादि प्रतिपादकेषु बह्व? च त्तैतरियादि मंत्रेषु शंकरसंहिता सूतसंहिता शिवरहस्य लिंगपुराणादिषु कामिकादि वातुलां तेषु चाष्टविंशति शैवागमेषु प्रतिपादित नामाराध्यशाब्दित विरशैवेषु तदित विरशैवेषु तत्वाद्वैदिकत्वं सिद्धं || आन्यथा वैदिकत्वेनाभिमतानां ब्राह्मणानां स्थोछावप्रतिष्टादि तांत्रिकधार्मानुष्ठानुवतां वैदिकत्वं न स्यात् || तथा च || तत्समान न्याय पृ० ६अ) तयोक्त वैदिकधर्मानुष्ठान व तांत्रिकधर्मानुष्ठानेपि वैदिकत्वं निरयपायं ननु || विरशैव धर्मप्रतिपादक श्रुत्यागमानां आचारभेदेन सामान्य वीशेष निराभार समाख्यांवतां भक्त माहेश्वर प्रासादि प्राणलिंगी शरणैक्य स्थलानां आचारलिंग गुरुलिंग शिवलिंग जंगमलिंग प्रसादलिंग महालिंगाभिधानानां लिंगस्थलानां पूर्वोक्तांग स्थलानां च उत्तरोत्तर धर्माचरणस्य पूर्षय पूर्वधर्माचरणानंतर भावितया क्रमिकत्वेन तादृश धर्माचरणस्य कालहस्ती श्रीशैलादि देश स्थित यज्ञोपवितधारण लिंगधारणादि वैदिक तांत्रिक धर्मसमुच्चयानुष्ठान पृ० ६ब) पराराध्यविषयत्वेन न तुं शक्यत्वाकथमाराध्येतर केवल वीरशैव विषयत्वमिति चेन् || आत्याश्रमिभ्यः परमपवित्रं प्रोवाच सम्यगृषिसंघजुष्टं ईति श्वेताश्वतरोपनिषधि || आत्याश्रमि सर्वदा सकृद्वा जपेदिति कैवल्योपनिषदि च श्रुयमाणस्यात्याश्रमि शब्दस्य ब्रह्मचारि ग्रहस्थश्च वानप्रस्थश्च भिक्षुकः आतिवर्णाश्रमि चेति क्रमाछ्रेष्टो विचक्षणः || १ || ग्रहस्तोपि वनस्थस्य ते रप्यंबुजे क्षणः || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || २ || वानप्रस्थाश्रमस्थोपि तथा संन्यासिनो हरे || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || ३ || पृ० ७अ) अतिवर्णाश्रमि प्रोक्तो गुरुस्सर्वाधिकारिणां || न तस्यापि भवेछ्रेष्ठो यथाहं पुरुषोत्तम || ४ || आतिवर्णाश्रमि सद्गुरुणां गुरुरुच्चते || यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् || ५ || सवर्णानाश्रमान् सर्वान् तस्य स्वात्मनि स्थितः || योतीत्य स्वाश्रमान् वर्णानात्मन्यवस्थितः पुमान् || ६ || सोतिवर्णाश्रमा प्रोक्ता सर्ववेदार्थवादिभिः || पंचाक्षरी पराविद्या सिवजोतिरवाप्तये || ७ || वोंकार प्रणवः सूक्ष्मो विद्यानां बीजमुत्तमं || तस्मादशेषतत्वानि प्रणवेन विशोदयेत् || ८ || सितेनोद्धुलयद्देहमग्निरित्यादि सप्तभिः || त्रियायुषं जमदग्नेरिति कुर्यात् त्रीपुण्ड्रकं || ९ || पृ० ७ब) विचिंतयेत् स्वात्मनि शंभुमीशं शिवं परंशांतमुमासाहायं || भस्मांगमाविष्णु तदित्य देहमत्याश्रमाचारमिमं वदंति || १० || आत्याश्रमोयं सर्वेषु चतुष्ठाप्याश्रमेषु च यः पशुः स पशुत्वं च व्रतेनानेन संत्यजेत् || विशोध्य सर्वतत्वानि प्रणवेनाथया पुनः || संस्थाप्यमी चात्मानं निर्मले परमेश्वरे || प्लावित्वात्मनो देहं ते नैव ज्ञानवारिणां एषः पाशुपतोयोगः पशुपाशविमुक्तये सर्ववेदांतसारोयमत्यश्रम ईति श्रुति || व्रतं पाशुपतं येन सम्यगाचरितं मुदा || तस्य ज्ञानं विजायेत् तेन पाशविमोचनमित्यादि कामिका पृ० ८अ) स्कांद लैंग्य सिवागमवचनैः अतिवर्माश्रमिणां वर्णाश्रमधर्माचरणसिलेभ्यः उत्कृष्टत्व प्रतिपादनात् || आत्याश्रमित्वं पंचममुखसमुद्भुतं पंचमाश्रमवत्सु वीरशैवेषु पर्यवस्यंती तेन पूर्वोक्ताराध्य परत्वं शंकावकाशः || आत एव पूर्वाक्त क्रिमिकीटपतंगेभ्य ईत्यादि वीरशैवोत्कर्षप्रतिपादकं शांकरसंहितावचनमव्यभिचरिततया पर्यवस्यंति || ननु आत्याश्रम प्रतिपादक श्रुत्यागमपुराणवचनानि तेष्वेव पर्यवस्यंति || किंतु || वर्णाश्रमाचारवत्सु ब्राह्मणेष्वराध्यषु तदेति रिक्तेष्वपि पर्यवस्यंति || तथाहि आति पृ० ८ब) वर्णाश्रमाचारं ईत्यत्र ब्राह्मण क्षत्रिय वैस्य शुद्राश्चत्वारो वर्णाः || आशुद्रान्णामदुष्ठकर्मणामुपायनं वेदाध्ययनमं ध्यायनं फलवंति च कर्माणि योग्यानि || ब्रह्मचर्य ग्रहस्ते वानप्रस्थ त्वं सन्यासित्व भेदेन || आश्रमाश्चत्वारेः तत्वगुरुकुलवास भिक्षाचरणा वेदाध्ययनादिकं प्रथमाश्रमधर्मः गर्भदानादि ग्राह्यकर्म सप्तपाकयज्ञे सप्तहविर्यज्ञ सप्तसंस्था पंचमाहायज्ञे रूपाष्टौ चत्वारि संस्काराः यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूप षट्कर्माणि च द्वितियाश्रमधर्मः || पृ० ९अ) वनवासनीवारकंदफलाहारनीयमजटाजिनधारण कृछ्रचांद्रायणादयाचरण तृतीयाश्रमधर्मः || पूर्वोक्ताश्रम त्रय धर्मत्यागपूर्वकं ब्रह्मविचार भिक्षाचरण रागद्वेषादि वर्जन वाऽऽन्मयमैकरात्रिवास योगाभ्यासनादिकं चतुर्थाश्रमधर्मः || आतिवर्णाश्रमाचारा इत्यत्र अतिक्रांता वर्णाश्रमाचारनिति आत्यादयाक्रांता ह्यर्थे द्वितीयमेति व्याकर्णानुशासनमर्यादया शब्दार्थे योजनीय पूर्वोक्त धर्माचरणवत्सु संभवतामेवाति वर्णाश्रमाचारादिशब्दानां योगिप्रसक्ति सापेक्षानां प्रति पृ० ९ब) योगसबंदिना कृतेषु आराध्य व्यतिरिक्तेषु वीरशैवेषु वृतिः कथमुपपद्यते || निशधा वाचकानां शब्दानां प्रतियोगी संबध संभावना शालिष्वेव वर्तनौचित्यादित्य चेन् अतिवर्णाश्रमाचाराः संभवंत्युर्ध्व वक्रतः || ते वै साक्षान्माहादेवा मोदंते ह्यगमेषु चेति पंचास्य पंचममुखाद्यतो जातास्ततोधिकाः पंचमास्सर्ववर्णेभ्यो मद्भक्तामप्रियास्सदेति लिंगं शिवो भवेत् क्षेत्रमंगं संयोग अश्रय || तस्मालिंगांगशोभा मोक्षमार्गैकनिष्टा || लिंगांग सामरस्याश्च शरिरे लिंगधारणं || नियमेनैव पृ० १०अ) तस्मालिंगांग संयुक्तो योपि सोत्याश्रमि भवेदिति || १ || ईशानतो स्याद्गणवंशजानां लिंगांगशोभा मोक्षमार्गैकनिष्टा || लिंगांग सामरस्याश्च शरिरे लिंगधारणं || नियमे नैव कृत्वाते मुक्ता संसारबंधनात् || २ || ईति कामिकाद्यागमक्रियासारोदाहृतवेदांतसारोपनिषदादिवचनैर्वीरशैवान अमेवातिश्रमाचारादिशब्दानां रूप्याभियत्वस्य सम्यग्वक्तुं शक्यत्वात् || न चात्याश्रमिशब्दः कृताश्रमधर्मचरणेषु प्रवर्तते || सप्रतियोगीकाशब्दत्वादिति यदुक्तं तदुपपन्नं पृ० १०ब) आपहात वाक्यादिशब्दानां ब्रह्मण प्रतियोगीनापाप्मनाम संभवात् प्रवृत्तिर्न स्यात् || तथा चेद्वर्णाश्रमधर्माणां मनुष्टानप्रतियोग्यभावेप्यत्याश्रमादिशब्दवाच्यत्वं संगछंति न चात्यादय ईति व्याकर्णानुशासनविरोध इति वाच || शुक वामदेववज्जंन्मांतरीय वर्णाश्रमधर्मानुष्टा प्रकल्पनान्न वैयाकर्णानुशासनविरोधः || न चैवमत्याश्रमिशब्दार्थ संगति निर्वहणे वीरशैवातिरिक्तानांमितरेषां विरक्तानां ज्ञानिनो शुद्राणांमप्यत्या श्रमित्वं || प्रसंगृति वाच्यं || अतिवर्णाश्रमाचार पृ० ११अ) इति वचनत्रयावगमितरुद्धत्वाशालिनः || आत्याश्रमिशब्दस्य केवल योगेन पंकजशब्दस्य तृण नीलोत्पलत्वादाविव कृत्तेरयुक्तत्वात् रूढिर्योगमपहरतितिन्यायात् || आत एवाहि न शब्दस्य अन्हः खः क्रतादिति सूत्रमर्यादया || अहर्गण वाचिनः द्विरात्रत्रिरात्रादि साध्यक्रतु परत्वमेव हिनो न भवतित्यहीन ईति योगेननैकादिक शृत्या कर्तृत्वंतर परत्वमिति अहीनो वा प्रकर्णाद्गोण ईत्याधिकरणे तृतीयाध्याय पूर्वतंत्रे अयमेव न्यायो व्युत्पदितः || तस्मादत्याश्रमिशब्दो पृ० ११ब) वीरशैवेषु संभवति || यदा योगशक्त्यापि वीरशैव परत्व कल्पितु शक्यते || तथाहि तु हि चस्माह वै पादपुराणे पूजने सति इत्यमरकोशैन स्वति पूजायामिति सूत्रेण च || आतिशयिताहाः पूजिताः वर्णाश्रमाचार एषामिति व्युत्पतोः न चैतानि वचनानि आत्याश्रमित्वस्याथर्वसिरोजालोकेति कर्त्तव्यतापूर्वकानुष्ठेय पाशुपता परपर्याय भस्मधारणरूपस्य स्वात्मज्ञानपूर्वकाखिल संसारपरित्यागीत्वस्य यत्किंचिज्जाति यस्य लिंगधारणादिना रहितस्य वा सहितस्य वा आराध्यविप्रसे पृ० १२अ) वा उत्तकेवलस्य वा आत्याश्रमित्वसंबंधवाचकानि संभवतीति केवल वीरशैवप्रतिपादकानीति वाच्यं वर्णाश्रमधर्मवतामाराध्य विप्राणां मत्याश्रमिशब्दाभिदेयता योग्यत्वात् || परमेश्वर पंचममुख संभूत प्रमथ गणनायक घंटाकर्ण गजकर्ण रेणुक दारुक गोत्र जातानां केवलाति वर्णाश्रमधर्मानुष्ठा ईनां केवल वीरशैवनामोक्त श्रुत्यागमपूराणस्यात्याश्रमिशब्दप्रतिपादकौचित्यात् || न च प्रमथानां परमेश्वर मुखसमुद्भुतानां मत्यंतांतरगणा प्राकृतमनुष्यवत् || पृ० १२ब) प्राकृतस्त्रिपरिग्राहाभावात् कथमेतेषां तद्वंशजत्व तथापि यद्यस्ति तर्हि आराध्य विप्राणापि तद्वंशजत्वमस्तीति वाच्यं द्वारापोपस्पृशद्वारापाय स्वाहा || द्वाराप्युपस्पृशद्वाराप्यै खाहितीशनबलयाख्यकर्मणि द्वारापेशब्दवाच्यं नंदिकेश्वरस्य तत्पत्न्याः स्रुयस्यादिव्याहाः पुराणादिषु प्रसिद्धायाः विद्यमानत्वन लोकानुग्राहार्थं परमेश्वरस्य किरात रूपादि धारणवत् || प्राकृत्स्त्रीपरिग्रहसंभवेन तद्वंशजत्वश्यापि केवलानां वीरशैवानां संभवानात् || आराध्य पृ० १३अ) विप्राणां तु सर्वथा || तद्वंशजत्वस्यानुचितत्वात् यदि वीरशैवधर्माचरणाभिमान तद्वंशजत्वमस्तित्युचेत् || तर्हि वैस्वामित्र भार्गव भारद्वाज अगस्त्य आंगीरस वासीष्ट इत्यादि गोत्रजनन निर्मित तद्वांशजारहत्वं न स्यात् || न चेष्टापतिः वृस्चीक भयात् पछाय मानस्य आस्ती विषमुख निपातनमिव ब्राह्मणत्व स्यापि भंगः स्यात् || न च ऋषीवंशजत्वं प्रमथ वंशजत्वमुभयमप्यस्माकमाराध्य विप्राणां संभवतीति वाच्यं || किमुत्यत्याभयवंशजत्वमुच्यते किं सिष्यसांप्रदायेन वा || पृ० १३ब) नाद्यः गर्दभेन संभवति तस्माद्गर्दभो द्विरेता इति शृत्या गर्दभ वदेकशो भयवीर्योत्पप्तौ? अंत्यतलाकहास्यत स्यात् || न द्वितीय || तादृश संप्रदायस्य गौणतया चतुर्थ वर्णस्यापि संभवात् || तस्मात् केवलानां वीरशैवानां गणवंशजत्वात् || कामिकागमोत्तरभागे शृणु देवि वरारोहे ममैते गणनायकाः || मया नियुक्त भूलोकं गत्वा सकल जातिषु || संज्जातास्य गणाः केचिल्लिंगेषु मूर्तिषु सभूताश्च पुनर्लिंगं पूजा ध्यानपरायणा || स्थापयंता विरशैवमार्गं पृ० १४अ) मोक्षप्रदं भुवि || सर्वप्राणिहितार्थाय मुद्रापंचकधारिणः || षट्स्थलज्ञानवंताश्चानादिजंगममूर्तय इति || शंकरसंहीतायां || वत्सैते गणनायकाः क्षितितले गत्वा नियुक्ता मया संभूतास्सकलासु जातिषु पुनर्लिंगार्चने तत्पराः || संस्थाप्योतम वीरशैव पद विलोके हितार्थं नृणां || मुद्रापंचवहंत एव विचरंत्यंते समेश्यति मांमीति || तस्मादत्याश्रमि शब्दवाच्यत्वेन सर्वोक्तमत्वं युक्तमेव || अत एव पूर्वोक्तानुकुले न्याय वचनानि तेष्वेव संमेगुपपाद पृ० १४ब) ईतुमुचित नितराणि || तथाहि || विशुद्धाः प्राकृताश्चेति द्विविधा मानुषा स्मृताः शिवसंस्कारिणः शुद्धाः प्राकृते ईतरे मताः वर्णाश्रमादिधर्माणां यावस्था हि द्विधा मता || एकाशिवेन निर्दिष्टा ब्रह्मणः कथिता पुरा शिवोक्तधर्मनिष्ठा तु शिवाश्रम निषविणां || शिवसंस्कार हि नानाधर्मः परीतामिति स्मृताः || ईति || तस्मात्प्राकृताप्राकृतधर्मभेदेन भिन्नतया गणवंशजानाम प्राकृतानां वीरशवानामति वर्णाश्रम शब्दवाच्यानां पंचमाश्रमिणामनितरसाधारणं पृ० १५अ) सर्वातिशीत्वमुपपद्यत एवेति न कोपशंकावशा || तस्म तन्म तस्य सर्वोतमत्वं तथैव प्रमाणानि न वीरशैव सदृशं मतमस्ति जगत्रये सर्वभोगप्रदं पुण्यं शिव सायुज्यदायकं || १ || यथा मत्सदृशो नास्ति पुरुषाणां त्वया समास्त्रिणां तथा वीरशैव सदृशं नास्ति वै मतः || २ || अपि पापशतं कृत्वा ज्ञानतो ज्ञानतोपि वा वीरशैवमतप्राप्तं शिव एव न संशयः || ३ || लिंगधारमात्रेण शिवत्वं प्राप्तिकारणात् || शैव मम मतं देवि सद्यो मुक्ति प्रदायकं || ४ || यथा नदिनां सर्वानां पुण्या भागिरथि शिवे || पृ० १५ब) यथैव भवति सर्वयोषितां पुरुषेष्वहं || ५ || यथैव कासि क्षेत्राणां तिर्थेषु मनिकर्णिका मम पंचाक्षेरि मंत्रो सर्वमंत्रेषु तथा यथैव सर्वलोकेषु कैलासस्थानमावयोः || विरशैव मतं देवि मम सर्वोतमोत्तमं || ७ || इति पारमेश्वर विरागमवचनैश्च पूर्वोक्त न्यायोपबृहित शृत्यागमपुराणवचनैश्च शिवस्य शृतिस्मृतिपुराण न्यायसिद्ध सर्वदेवोत्तमत्ववद्विरशैवमतस्य सर्वातिशेईत्वसिद्धं || पृ० १६अ) तन्मत्तनिष्टो वीरशैवाचार भेदेन सामान्यवीरशैव विशेषवीरशैव निराभारवीरशैव * *? ति त्रिधः * *? क्तेनैव मार्गण भूति रुद्राक्षधारणं पंचाक्षरि जपं देवि कूर्यान्नित्य मतं * *? गुरुणां द * *? लिंगं तु सावधानेन धारयेत् || ईष्टलिंगं प्राणलिंगं भावलिंगं च पार्वति एकीकृतार्चनं कूर्याद्वीरशैवो न भेदताः || इति वचनै सामान्यवीरशैवलक्षणं प्रतिपादनात् || आत्मानं वासुतान्वापि भूषणानि धनानि वा || यत्स्वकियमभिप्रेतं तत्कुर्याज्जंगमार्पितं || पृ० १६ब) आनुभूतं च तैः पश्चादादाय स्वयमात्मन कूर्यात् प्रसाद बुध्यायः सविशेष ईति स्मृतः || इति वचनैर्विशेष वीरशैव लक्षण प्रतिपादनात् || जटि मुंडी शिखि वापि काषाय वसनान्वीता || निष्प्रहो निज लिंगैकयो भिक्षाशि भयवर्जितः मौनिभूत दयायुक्तो निराभार ईति स्मृतः || कंथा कमंडलुधरो भूति रुद्राक्ष संयुतः || दंडकौपीनधारी च निराभार ईति स्मृतः || ईति सूक्षमतंत्रादि वचनैर्निराभार वीरशैवलक्षणप्रतिपादनात् || पृ० १७अ) सामन्यविशेषवीरशैवापेक्षया चरजंगमादि शब्दवाच्यः || निराभारवीरशैव देशिकोत्तमः || विरक्तया सर्वोतम ईति निर्विवादः किं च || सिवरहस्य || लिंगस्यादिष्टरुपं तु जंगमप्राणलिंगकं || भावलिंग गुरुः प्रोक्तं त्रिविधं त्वेकमुच्यते || कारणागमे || जानियात् सच्चिदानंदान् देशिकेश्वर जंगमान् || नित्यपूर्णं तत्प्रसादं स्वात्मभावे भावयेत् || १ || वीरागमे || लिंगागि गुरुलिंगं च त्रिविधं त्वकमुच्यते || सिद्धांतसिखामणौ || पृ० १७ब) एक एव सिवः साक्षात् सर्वानुग्रहकः प्रभुः || गुरुजंगमलिंगात्मा वर्तते भुक्तिमुक्तिदः || ३ || इत्यादिवचनैर्गुरुलिंगजंगमानां सच्चिदानंद स्वरूपाणां यथा ब्रह्मणः सच्चिदानंदस्वरुपलक्षण लक्षितस्य व्यवहारदुष्ट्वा सत्वेन आनंद त्वेन भिन्नत्वेनापि परमेश्वर स्वरूपेण यथाभदोंगी क्रीयते तद्वद्गुरुलिंगजंगमानां भिन्नत्वेनापि शास्त्रमर्यादया तत्वतश्चैक्यमेव सिद्धं भवति || किंचि || स्वस्वरूपस्यत्रैकालिका पृ० १८अ) बाध्यतारुप सद्रुपापेक्षया स्वप्रकाशरुपत्वेन चिद्रुपस्य आधिक्य ईश्वरस्य पिचिदृपस्य स्वप्रकाशस्य सर्वप्रार्थिनीयत्वा भावेन परमप्रमास्य दत्वा भावेन तदुभयरुपयोरानंदस्यरूप एव विद्यमानत्वेन तस्यैव सर्वाभ्यर्हितत्वं यथा एवं चरतत्वस्यापि सर्वाभ्यर्हितत्वं || तथाहि सिद्धांतशिखामणौ || लिंगं च द्विविधं प्रोक्तं जंगमाजंगमात्मना अजंगमं तु यल्लिंगंमछिलादि विनिर्मितं || १ || तद्वरं जंगमं लिंगं शिवयोगीति विशृतं पृ० १८ब) लिंगं च जंगमं चैव तदाधिक्यं वदामिते || २ || जंगमज्ञानरुपं तु लिंगकं || स्वायंभूवागमे || लिंगद्वयसमाख्यातं चरं चाचरमेव च चरत्वधिक रूपस्यादचरं पार्थिवादिकं || १ || चरे सदा वसत्येव प्रीतियुक्त महेश्वरः || अचरे मंत्रसंस्कारः स्वयं तिष्टोत् सदाशिवः || २ || शिवधर्मशास्त्रोपि || चरे सदा वसत्त्येव प्रीतियुक्त महेश्वरः || आचरे मंत्रसंस्कारैर्ज्ञेयो नित्यं महेश्वरः || शिवरहस्य || पदं देहमिति ख्यातं पदार्थप्राण एव च || पृ० १९अ) उभयोरंतरं यद्वतद्वस्या लिंगजंगमे || २ || स्थावरं जंगमं चेति द्विविधं लिंगमुच्यते || जंगमस्यावमानेन स्थावरं निष्फलं भवेत् || ३ || शैवरत्नाकरे || लिंगक्षेत्रं गुरुस्थानं गुरुक्षेत्रं च जंगमः || जंगमस्कनिराभारि भाराभार विवर्जितः || ईत्यादि सिद्धांतसिखामणि स्वायंभूवागमे शिवधर्मशास्त्र || सिवरहस्यादिवचनैश्च स्वरूपलिंगस्य द्विविधस्य मध्य मंत्रसंस्कारायतमहिमा चरलिंगापेक्षया पृ० १९ब) चरलिंगस्य सार्वकालि षट्स्थलज्ञानसंपंनस्य जंगमशब्दाभिधेयस्याधीक्यं सिद्धमेव अत एव आरुग्वेदे च बीलेव च लिंगे च गुरुविग्रह शिवयोगी शरीरे च सदासन्नीहितः शिवः इति यदोको ब्रह्मविद्भुंक्ते जगतपर्यंतेखिलं इत्यादिवचनानि ज्ञानीन्वितस्याधीक्यं प्रतिपादकानि बहुनि संगछते || वैद्यशास्त्रे || इतिहासपुराणेषु शिवस्याष्य तिथिर्गुरुः || आतीथे पादसलीलमधीकं हि जगत्रये || वीरागमे || जंगमस्य प्रसादं तु नैवेद्यार्थं प्रकल्पयेत् पृ० २०अ) पादांबुज जलस्नानं विशेषो हि मयोच्चते || पारमेश्वरे || पादांभिषेकं सलीलै लींगमज्जनमुत्तमं || तत्प्रसादाश्च नैवेद्यं तथा मुक्तिफलं धृवं || १ || ब्रह्माडपुराणे || जंगमानां पादतीर्थं लींगमज्जनमुत्तमं || तत्प्रसादो माहादेवि नैवेद्यं शुभदं स्मृतं || १ || तस्माज्जंगमलिंगस्य प्रसादेन ममार्पणं || आभिषेको जलं स्नानं विशेषो मम कथ्यते || २ || इत्यादि वैद्यशास्त्र विरागम पारमेश्वर ब्रह्मांडपुराणादिवचनै लिंगजंगम पादोदकस्नान पृ० २०ब) तत्प्रसादसमर्पण प्रतिपादन लिंगापेक्षया जंगमस्याधीक्यं सिद्धमेव ननु इष्टलिंगपुजाप्रकर्णे एषां वचनानां श्रुयमाणत्वादिष्टलिंग एव चरपादोदक मज्जन तस्मात् प्रसादनिवेदनं च प्रकरणात् प्राप्तं न तु स्थिरलिंगे आप्राकृतत्वादिति चेन्न स्थीरलींगार्चको मर्त्यो न शुद्धः पंक्तिकर्मसु चरलिंगार्चकोमर्यः पावनः पंक्तिकर्मसु चितिं च चितिकाष्टं च युपचांडालमेव च || स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् || न्निवषं देवतापूजामन्यायं यः पृ० २१अ) करीष्यति स वै देवलको नाम सर्वकर्म बहिष्कृताः || इत्यादि स्थिरनिषिद्धलिंगार्चकस्य देवलक शब्दवाच्यतया सहवास सहभोजन स्पृस्यत्वादि सर्वकर्मबहिष्कृतत्व प्रतिपादनात् || धृतलिंगस्य वीरमाहेश्वरस्य सहवास || सहपंक्ति भोजनादिस्तथा निषेध दर्शनात् || पावित्र्याद्युवत्कृष्ठत्व प्रतिपादनाच्च इष्टलिंग स्थिरलिंग पूजा कर्त्रृणामुत्कर्षप्रतिपादनादिष्टस्थिरलिंगयोः क्रमेणोत्कर्षापकर्षनिश्चेतव्यौ तथा च जंगमतत्वस्य सर्वाभ्य ########### END OF FILE #######