#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00609 Uniform title: vīraśaivācārapradīpikā Description: viraśaiva text Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Publisher : Publication year : 1905 Publication city : Solapur Publication country : India #################################################### वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ १८ वा वीरशैवाचार प्रदीपिका | वेदमूर्ति,मणूरमठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८२७, सन १९०५ पृ० १) ओं अथ वीरशैवाचारप्रदीपिकाप्रारम्भः || प्रथमोऽध्यायः || श्रीगुरुभ्यो नमः || अनेकजन्मोत्थितदुःखभाजां नृणामपीशः करुणार्द्रदृष्ट्या || विलोक्य तेषां स्वपदं प्रदातुमनुग्रहं यः कुरुते नमामि || १ || पुष्पे गंधस्तिले तैलं स्वर्णे कांतिर्यथा तथा || अविनाभावसंबंधां शिवे देवीं नमाम्यहं || २ || मादलांबागर्भसिंधौ जातं बसवधीमणिं || धर्मस्वरूपं स्थाणुं च नमामि शिरसाऽनिशं || ३ || द्राक्षारामे महाग्रामे कोटिपल्लाख्यदेशिकः || वेदवेदांततत्वज्ञः पुराणागमतत्ववित् || ४ || नतभक्तजनाघौघतिमिरोदजबांधवः || तिष्ठत्येव शिवाचारप्रवर्तनपरः सदा || ५ || तस्यासीत्तनयः ख्यातो भीमपंडितनामकः || वृद्धीकृतसदाचारः सर्वशास्त्रार्थकोविदः || ६ || तस्य पत्नी गौरमांबा सर्वलक्षणसंयुता || पृ० २) दूरीकृताघपटला सर्वज्ञा वरवर्णिनी || ७ || तस्यासीदात्मजः शांतो मल्लिकार्जुनपंडितः || शिवार्चने सक्तचित्तः शिष्याणां मोक्षदायकः || ८ || भट्टानीकाब्धिवडवो वेदांतारण्यपावकः || महाप्रवृद्धचार्वाकराकाचंद्रविधुंतुदः || ९ || वेंनालचोलभूपस्य महास्थानेऽतिशोभिते || सर्ववादांश्च जित्वाऽथ लेलिहे विजयत्रयं || १० || तस्यात्मजो यः संजातः पंडिताराध्य एव च || मूलमंत्रार्थतत्वज्ञो मुक्तिकांतानुरंजकः || ११ || तस्यात्मजश्च सिद्धांतवीराराध्यः शिवार्चकः || सर्वागमज्ञो मतिमान् शिष्याघध्वांतभास्करः || १२ || तस्य प्रतीके संजातः श्रीमान् सर्वगुणैर्युतः || गुरुबसवेश्वर इति विख्यातो देशिकोत्तमः || १३ || तस्याभूतां सुतौ गंगाधरो बसवतीर्थकः || शिवाधिष्ठितचेतस्कौ सर्वशास्त्रार्थपारगौ || १४ || तस्य श्रीबसवराजस्य संजातौ द्वौ सुतौ तदा || हिरियार्यः पंडितार्यो विषयादिगुणान्वितौ || १५ || पंडिताराध्यदेवस्य तस्यासीत्तनयोत्तमः || पृ० ३) शिवंप्रति पार्वतीकृतप्रश्नः शिवनिरूपितपिंडोत्पत्तिकथनम् गुरुलिंगदेवनामा शिवाराधनतत्परः || १६ || तस्य श्रीदेशिकेंद्रस्य बभूवुस्तनयोत्तमाः || प्रथमो गुरुदेवश्च पंडितार्यो द्वितीयकः || १७ || तृतीयो बसवाराध्यो जक्काराध्यस्ततः परः || तेषु प्रथमविख्यातो गुरुदेवोऽतिभक्तिमान् || १८ || सिद्धदेवेन विज्ञप्तः शिवार्चनपरेण सः || चारगौरवशेषप्रसादसंतुष्टचेतसा || १९ || सर्वशास्त्रसमाहृत्या परलोकोपकारिणीम् || प्रकुर्वे मोक्षदां वीरशैवाचारप्रदीपिकां || २० || (संसारप्रदीपिकायां ||) शांतं शुद्धस्वभावं च सर्वदानंदविग्रहं || वरदं विश्वभरणं भगवंतमुमापतिं || २१ || देवदेवं जगन्नाथं योगिनं चक्रिनायकं || प्रणम्य शिरसा देवी पृच्छतीशं विमुक्तये || २२ || दुस्तरं देवदेवेश संसारांबुनिधिं प्रभो || सुखोपायेन पशवस्तरंति च यथा वद || २३ || शिव उवाच || साधु साधु महाभागे शोभनं पृच्छ्यते त्वया || अधुना संप्रवक्ष्यामि देहस्थं लक्षणं त्विदं || २४ || कर्मणाप्यतिमिश्रेण यच्छरीरमिहात्मनः || पृ० ४) तद्भूतपरिमाणेन विज्ञेयं हि चतुर्विधं || २५ || उद्भिदः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः || क्रिमिकीटपतंगाद्याः स्वेदजा नाम देहिनः || २६ || अंडजाः पक्षिणस्सर्पा नक्रमत्स्यादिकच्छपाः || जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः || २७ || तत्र सिक्ता जले भूमिरंतरूष्मप्रपाचिता || वायुना व्यूहमाना च बीजत्वं प्रतिपद्यते || २८ || यदत्र शालिबीजानि संसिक्तान्यंभसा पुनः || उच्छूनतां मृदुत्वं च मूलभावं व्रजंति च || २९ || तन्मूलादकुंरोत्पत्तिरंकुरात्पर्णसंभवः || पर्णान्नालं ततः कांडं कांडाच्च प्रसुमं पुनः || ३० || प्रसवाच्च तुषक्षीरं क्षीरात्तंडुलसंभवः || तंडुलाच्च ततः पक्वादियदौषधयस्तथा || ३१ || यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः || औषध्यः फलपक्कांताः शेषाः क्षुद्राः प्रकीर्तिताः || ३२ || षड्विधाहारभेदेन परिणामं व्रजंति ताः || अन्योन्यरससंयोगादनेकस्वादुतां गताः || ३३ || भक्ष्यं भोज्यं च पेयं च लेह्यं चोह्यं च पिच्छिलं || इति पृ० ५) पिंडोत्पत्तिस्वरूपनिरूपणम् भेदाश्च षट् प्रोक्ता मधुराद्याश्च षड्रसाः || ३४ || तदन्नं स्थूलकबलैः परिभुक्तं च देहिभिः || अंतस्थमाशये पूर्वं प्राणः स्थापयते क्रमात् || ३५ || अपृथग्भूतमाहारं स वायुः कुरुते द्विधा || संप्रविश्यान्नमध्ये तु पृथगन्नं पृथग्जलं || ३६ || अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं तु जलोपरि || जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः || ३७ || वायुना धम्यमानोग्निरत्युष्णं कुरुते जलं || तदन्नमुष्णतोयेन समंतात्पच्यते पुनः || ३८ || द्विधा भवति तत्पक्कं पृथग्भिन्नं पृथग्रसः || मलैर्द्वादशभिर्भिन्नं क्लिन्नं देहाद्बहिर्व्रजेत् || ३९ || कर्णाक्षिनासिकाजिह्वादन्ताःशिश्नगुदं नखाः || मलाश्रयौ कफस्वेदौ विण्मूत्रे द्वादश स्मृताः || ४० || हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समंततः || तासां मुखेषु तत्सूक्ष्मः प्राणः स्थापयते रसं || ४१ || रसेन तेन ता नाडीः प्राणः पूरयते पुनः || प्रतर्पयंति संपूर्णास्ताश्च देहं समंततः || ४२ || ततः स नाडीमध्यस्थः शरीरस्योष्मणा रसः || पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः || ४३ || चर्माविष्टं समंताच्च रुधिरं च प्रजायते || पृ० ६) रक्ताल्लोमानि मांसं च केशस्नायू च मांसतः || ४४ || स्नायोः शिरास्तथास्थीनि तेभ्यो मज्जा नखाः पुनः || मज्जाकरणकैवल्यं शुक्लं च प्रसवात्मकं || ४५ || इति द्वादशधान्यस्य परिणामः प्रकीर्तितः || (क्षेपक) (अन्नाच्चैव ततः शुक्लं शुक्लाद्देहस्य संभवः) बिंदुः शिवो रजः शक्तिरिंदुर्बिंदू रजो रविः || ४६ || उभयोः संगमादेव प्राप्यते पिंडसंज्ञकं || मातृत्रीणि पितृत्रीणि शिवांशत्रीणि चोच्यते || ४७ || तत्त्रिधा मिश्रसंख्यानां नवांशं पिंडसंज्ञकं || रुधिरं मांसकत्वं च मातृकांशा इति स्मृताः || ४८ || अस्थिनाड्यश्च रोमाणि पितृकांशाः प्रकीर्तिताः || अग्निश्च वायुरात्मा च शिवांशाः परिकीर्तिताः || ४९ || ऋतुकाले यदा शुक्लं निर्दोषं योनिमाश्रितं || तदा तद्वायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् || ५० || विसर्गकाले शुक्लस्य जीवः करणसंयुतः || प्रीत्या प्रविशते योनिं कर्मभिः स्वैर्नियोजितः || ५१ || तच्छुक्लरक्तयोरैक्यादेकाह्नः कललं भवेत् || पंचरात्रेण कललं बुद्बुदाकारतां व्रजेत् || ५२ || पृ० ७) बुद्बुदं सप्तरात्रेण मासपेशी भवेत्पुनः || द्विसप्ताहाद्भवेत्पेशी रक्तमांसाचिता दृढा || ५३ || बीजस्येवांकुरोत्पत्तिः पंचविंशतिरात्रितः || भवंति ग्रासमात्रेण तद्ग्रंथेरंकुराणि च || ५४ || ग्रीवा शिरस्तथा पृष्ठं भुजावस्थीनि चोदरं || पाणिपादौ तथा कक्षौ कटिर्गात्रं तथैव च || ५५ || मासद्वयेन सर्वाणि क्रमशः संभवंति च || त्रिभिर्मासैः प्रजायंते सर्वांगांकुरसंधयः || ५६ || मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमं || मुखं नासा च कर्णौ च जायंते पंचभिस्तदा || ५७ || दंतपंक्तिस्तथा गुप्ता जायंते च नखाः पुनः || कर्णयोर्भवतश्छिद्रे षण्मासाभ्यंतरेण तु || ५८ || पायुर्मेढ्रमुपस्थं च नाभिश्चाप्युपजायते || संधयो ये च गात्रेषु जायंते सप्तभिस्तदा || ५९ || अंगप्रत्यंगसंपूर्णः शिरःकेशसमन्वितः || विभक्तावयवः स्पष्टः पुनर्मासाष्टकेन तु || ६० || पंचात्मकसमायुक्तः परिपक्वः स तिष्ठति || मातुराहारवीर्येण षड्विधेन रसेन च || ६१ || नाभिसूत्रनिबंधेन वर्धते स दिने दिने || ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिन् शरीरके || ६२ || सुखदुःखे विजानाति निद्रास्वप्ने पुराकृते || मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः || ६३ || नानायोनिसहस्राणि मया दृष्टानि जन्मतः || पृ० ८) अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च || ६४ || ततः श्रेयः करिष्यामि येन गर्भेण संभवः || गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिर्गतः || ६५ || अद्येच्छामि शिवज्ञानं संसारविनिवर्तकं || एवं स गर्भदुःखेन महता परिपीडितः || ६६ || जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत् || यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति || ६७ || तथा जरा पुनर्देहे दुःखे तिष्ठति वेष्टितः || पतितः सागरे यद्वद्दुःखेनास्ते समाकुलः || ६८ || गर्भोदकेन सिक्तांगस्तथा व्याकुलितः पुमान् || लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना || ६९ || गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना || सूचीभिरग्निवर्णाभिर्निर्भिन्नस्य निरंतरम् || ७० || यद्दुःखमुपजायेत तद्गर्भेऽष्टगुणं भवेत् || गर्भवासात्परो वासः कष्टदो नास्ति कुत्रचित् || ७१ || देहिनां दुःखबहुलं सुघोरमतिसंकटम् || इत्येवं गर्भवासो हि प्राणिनां परिकीर्तितः || ७२ || चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः || गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात् || ७३ || पृ० ९) संमूर्छा जायते तस्य जायमानस्य देहिनः || रसवत्पीड्यमानस्य यंत्रेणैवासमंततः || ७४ || शिरस्याताड्यमानस्य यथा मुद्गरकोटिभिः || गर्भान्निष्क्रममाणस्य प्रबलैः सूतिमारुतैः || ७५ || जायते सुमहद्दुःखं परित्राणमविंदतः || यंत्रेणापीडितो यद्वन्निस्साराः स्युस्तिलेक्षवः || तद्वच्छरीरं निस्सारं योनियंत्रेण पीडितं || ७६ || (तथैव गर्भोपनिषदि) मधुराम्ललवणतिक्तकटुकषाया इति षड्विधो रसः || रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीनि || अस्थिभ्यो मज्जा मज्जायाः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भः हृदि व्यवस्थापयति हृदयाभ्यंतरेऽग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुस्थाने हृदयं प्राजापत्यक्रमादृतुकाले प्रयोगः एकरात्रोषितं कललं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासांतरेण पिंडो भवति मासांतरेण कठिणो भवति मासद्वयेन शिरो भवति मासत्रयेण पादप्रदेशो भवति षष्ठमे मासे मुखनासाक्षिश्रोत्राणि भवंति पृ० १०) सप्तमे मासे जीवेन संयुक्तो भवति अष्टमे मासे सर्वांगपूर्णो भवति पितूरेतोऽधिकेन पुरुषो भवति मातूरेतोऽधिकात्स्त्रियो भवंति उभयोर्बीजतुल्यत्वान्नपुंसको भवति व्याकुलितमनसोंऽधाः खंजाः कुब्जा वामना भवंति अन्योन्यवायुपरिपीडितान्मांसाच्छुक्रं द्वे द्वे स्त्रियो योन्यां युग्मा युग्माः प्रजायंते अथ नवमे मासे सर्वलक्षणसंपूर्णो भवति पूर्वजातिं स्मरति कृताकृतं च कर्म जानाति शुभाशुभं च कर्म विंदति || ० || नानायोनिसहस्राणि दृष्टान्येव ततो मया || आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः || ७७ || यन्मया स्वजनस्यार्थे(परिजनस्यार्थे) कृतं कर्म शुभाशुभं || एकाकी तेन दह्यामि गतास्ते फलभागिनः || ७८ || जातस्यैव मृतस्यैव मृत्युर्जन्म पुनः पुनः || अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियां || ७९ || यदि योन्याः प्रमुंचामि तं प्रपद्ये महेश्वरम् || अशुभक्षयकर्तारं तं मोक्षफलदायकं || ८० || विरजानलजं भस्म गृहीत्वा चाग्निहोत्रजं || समुद्धूल्य सदाचार्यं प्रणिपत्यात्मविद्यया || ८१ || पृ० ११) संसारसागरं घोरं लंघयाम्यहमात्मना || (वाक्यं) योनिशतं जंतुः स्त्रीणां योनिद्वारे संप्राप्ते यंत्रेणापीड्यमानो महता दुःखेन जातो जातमात्रेण वैष्णवेन वायुना संस्पृष्टस्तदा न स्मरति जन्म मरणं न च कर्म शुभाशुभं || (ग्रंथांतरे) वीरशैवस्थितानां च स्त्रीणां गर्भाष्टमे गुरुः || पंचसूत्रकृतं लिंगं धारयेद्विधिवच्छुभम् || ८२ || नादो लिंगमिति ज्ञेयं बिंदुः पीठमुदाहृतम् || नादबिंदुसमायुक्तो लिंगाकार इहोच्यते || ८३ || लीयते गम्यते यत्र येन सर्वं चराचरम् || तदेतल्लिंगमित्युक्तं लिंगतत्त्वपरायणैः || ८४ || आकाशं लिंगमित्याहुः पृथ्वी तस्याधिपीठिका || आलयं सर्वभूतानां लयानां लिंगमुच्यते || ८५ || (यजुर्वेदे शतरुद्रीये) या ते रुद्र शिवा तनूरघोरा पापकाशिनी || (श्रीरुद्रभाष्ये) शकलश्रुतिस्मृतिपुराणागमेतिहाससारभूतमहान्तोऽपि अपापकाशीति वपुः श्रुतं ते शिष्टाः प्रसिद्धाः| भगवन्नपापाः अतस्त्वदीयानपहाय भक्तानन्यानशिष्टानिति निश्चिनोमि || (ऋग्वेदे) अयं मे पृ० १२) हस्तो भगवान् || अयं मे भगवत्तरः || अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः || अयं माता अयं पिता अयं जीवातुरागमत् || इदं तव प्रसर्पणं सुबंधवेहि निरहि || ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः || ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरितम् || ८६ || (वाक्यं) उत्तमवेदविभूषितं देवोत्तमाभ्यां प्रजननमलंकृतम् जगत्कारणत्वेन जनयामासेति लक्षणात् || (यजुर्वेदे) रुद्र यत्ते जनिम चारु चित्रं || स्फाटिकं शैलजं वापि चंद्रकांतमयं तु वा || बाणं तु सूर्यकांतं वा लिंगमेकं समाहरेत् || ८७ || (कामिकागमे) श्वेतं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् || विप्रादीनां तु वर्णानां क्रमाद्धारणमुच्यते || ८८ || पृ० १३) पंचसूत्रकृतलिंगप्रमाणस्वरूपनिरूपणम् FईङूऋE........... सपीठस्य तु लिंगस्य लक्षणं त्वधुनोच्यते || एकादित्र्यंतमंगुल्याश्चरलिंगस्य दैर्घ्यकम् || ८९ || लिंगेन च समं पीठं पीठार्धं गोमुखं भवेत् || लिंगदीर्घं चतुर्भागं द्विभागं शक्तिसंयुतं || ९० || द्विभागं च चतुर्भागमेकभागं तु बंधकम् || अतुलानां त्रिधा कृत्वा तन्मानं वा समाचरेत् || ९१ || लिंगमस्तकविस्तारं लिंगोच्छ्रायसमन्वितम् || पृ० १४) वेदभागवशान्मानं विस्तारो मस्तकस्य तु || ९२ || त्रिगुणं परिणाहं स्यात्तद्वत्पीठस्य विस्तृतिः || त्रिभागं परिणाहस्य तद्वत्पीठं व्यवस्थितम् || ९३ || (ग्रंथांतरे) लिंगवृत्तसमं पीठं दीर्घं विस्तारमेव च || ९४ || तदर्धं गोमुखं विंद्यादित्येतल्लिंगलक्षणम् || लिंगाधिक्ये भवेन्मृत्युः शक्त्याधिक्ये धनक्षयः || ९५ || लिंगशक्तिसमायुक्तं भोगमोक्षफलप्रदम् || सूत्रमूले तु यत्पादं सूत्राग्रे मुखमुच्यते || सूत्रपार्श्वे च बाहू च सूत्रसंधौ तु पृष्ठकं || ९६ || षड्भागः कांतरश्मिश्च नेत्रभागमयः स्मृतं || सीसकं चाग्निभागं तु कुरविंदं वेदभागकम् || ९७ || टंकणं चैकभागं तु वज्रेशं रंध्रभागकम् || लोहं चैवेषुभागं तु पाषाणं नेत्रभागकम् || ९८ || लाक्षागरू सर्जरसः पाषाणं तु तथैव च || महिषीनवनीतेन मर्दयेद्दृढमादरात् || ९९ || गुग्गुलं वेदभागं च महिषीनवनीतके || मर्दयेत्सितबंधोऽयमाख्यातः शास्त्रवेदिभिः || १०० || चतुर्बंधः सितश्चायं सर्वसिद्धिप्रदो नृणाम् || पृ० १५) लिंगसंस्कारनिरूपणम् लाक्षासर्जरसं चैव शुभ्रपाषाणमेव च || १०१ || कुरविंदं गुग्गुलं च गैरिकं गुडमेव च || तैलमेवाष्टभागं स्यादंत्यभागादिभागतः || १०२ || वृद्धिं कुर्यात्प्रयत्नेन पाकं चिक्कणवद्भवेत् || शिल्पिदोषनिवृत्त्यर्थं लिंगं स्थाप्य हृदा तथा || १०३ || प्रसादेन तु गृह्णीयाद्दक्षहस्तेन देशिकः || स्वहस्तपीठे तल्लिंगमादाय परमो गुरुः || १०४ || ङमो वः किरिकेभ्यो देवाना? हृदयेभ्यो नमो विक्षीणकेभ्यो देवाना? हृदयेभ्यो नमो विचिन्वत्केभ्यो देवाना? हृदयेभ्यः || ओं ह्रां ह्रीं ह्रूं ह्रौं नमः शिवाय || अनेनाभिमंत्रयेत्|| तल्लिंगं क्षालयेत्तोयैरजन्यामलकादिभिः || १०५ || पंचगव्येन संस्नाप्य बिल्वपत्रेण घर्षयेत् || पंचामृतेन संस्नाप्य गंधाद्यैर्नारिकेलकैः || १०६ || गंधपुष्पादिभिश्चैव नैवेद्यान्तं समर्चयेत् || १०७ || (वातुलतन्त्रे) गृहस्येशानदिग्भागे स्थंडिलं तु समाचरेत् || नवहस्तप्रमाणेन वस्त्रं कुर्याद्विचक्षणः || १०८ || (इति वातुलतंत्रे) तत्रैव नवधान्यानां स्थंडिलं तु समाचरेत् || पंचाढकप्रमाणेन स्थंडिलं तु पृथक् पृथक् || १०९ || श्यामाकश्च प्रियंगुश्च मुद्गगोधूमव्रीहिकं || पृ० १६) यवं च माषचणकतिलाश्चैव क्रमेण तु || ११० || उपर्युपरि संस्थाप्य तद्वस्त्रोपरि विन्यसेत् || लिखेदष्टदलं पद्मं मध्ये कर्णिकया सह || १११ || धान्योपरि न्यसेल्लिंगं यामे धान्याधिवासनम् || नववस्त्रेण संवेष्ट्य गंधपुष्पाक्षतादिभिः || ११२ || नैवेद्यं दापयेद्धीमांस्तांबूलं दापयेत्ततः || जलाधिवासं यामं च तदर्थं स्थंडिलं चरेत् || ११३ || व्रीहिपंचाढकं न्यस्येत्तंडुलं तु तदर्धकम् || तदर्धं तु तिलान्न्यस्येत्पद्मं त्वष्टदलं लिखेत् || ११४ || कलशैकं तु विन्यस्य फलपल्लवसंयुतं || गंधोदकं समापूर्य सुवर्णं तत्र निक्षिपेत् || ११५ || गंधपुष्पादिभिश्चैव पूजयेत्तद्यथाक्रमम् || मम पंचाक्षरं मंत्रं कुंभं स्पृष्ट्वा जपेद्गुरुः || ११६ || कांस्यपात्रे विनिक्षिप्य जलधाराभिषेचनं || यामं वापि तदर्धं वा कारयेद्विधिपूर्वकं || ११७ || साधितं कलशं चैकं लिंगमूर्ध्न्यभिषेचयेत् || पंचामृतेन संस्नाप्य ह्युदकेनाभिषेचयेत् || ११८ || गंधपुष्पादिनाभ्यर्च्य नैवेद्यं दापयेत्ततः || शयनं कल्पयेत्तस्मिंस्तदर्थं गुरुसत्तमः || ११९ || वेद्यूर्ध्वं स्थंडिलं कुर्याद्ब्रीहिपंचाढकं तथा || तदर्धं तंडुलान्न्यस्य तदर्धं तु तिलान्न्यसेत् || १२० || पृ० १७) पिंडोत्पत्तिस्वरूपनिरूपणम् तन्मध्ये विलिखेत्पद्मं साष्टपत्रं सकर्णिकम् || तन्मध्ये विन्यसेत्कुंभं सहिरण्यं सवस्त्रकम् || १२१ || नारिकेलसमायुक्तं पल्लवैरुपशोभितम् || तस्यैव पूर्वदिग्भागे लिंगं तु स्थापयेत्सुधीः || १२२ || रक्तवस्त्रेण संवेष्ट्य गंधपुष्पादिनार्चयेत् || आचार्यो मनसा ध्यात्वा शयनं कल्पयेच्छिवम् || १२३ || कुंभे हस्तं निधायाशु पंचाक्षरमनुं स्मरेत् || सहस्रं वा तदर्धं वा शतमष्टोत्तरं जपेत् || १२४ || कृतांजलिपुटो भूत्वा नमस्कृत्य महेश्वरम् (शयनमंत्रः) नमस्ते परमेशाय नमस्ते पार्वतीपते || १२५ || नमः कैलासवासाय नमः संसारतारिणे || एतल्लिंगस्थले शंभो शयनं क्रियतां प्रभो || १२६ || तावदेव सुखेनैव यावद्दीक्षावसानकम् || एवं स्तुत्वा महादेवं शयनं कारयेत्सुधीः || १२७ || (स्वायंभुवागमे) अर्धोदये वाप्यथ स पतने चैव देशिकः || पूर्वसंस्कारितं लिंगं शिशोः कंठे च धारयेत् || १२८ || इति श्रीमद्वेदागमोपनिषत्पुराणादिमार्गप्रवर्तनप्रवीणपंडिताराध्यदेवन् आमाचार्यतनयगुरुलिंगदेवनामधेयदेशिकेंद्रप्रतीकोद्भूतगुरुदेवाख्येन सिद्धदेवेन प्रबोधनाय समाहृतौ वीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे पिंडोत्पत्तिलिंगधारणविधिर्नाम प्रथमोपदेशः || इति श्रीवीरशैवाचारप्रदीपिकायाम् प्रथमोऽध्यायः || १ || पृ० १८) वीरशैवाचारप्रदीपिका अथ द्वितीयोऽध्यायः | देव्युवाच- कलेः कलुषिते काले दुर्जये दुरतिक्रमे || क्षीणे वर्णाश्रमाचारे संकरे समुपागते || १ || केनोपायेन मुच्यंते भक्तास्तव महेश्वर || २ || ईश्वर उवाच || संसारदुःखकांतारे निमग्नश्च महातपे || चक्रवद्भ्रमते देवि लिंगार्चनविवर्जितः || ३ || यो जातु नार्चयेल्लिंगं न स्मरेन्न च कीर्तयेत् || किं तेन जातमात्रेण भूभारेणान्नशत्रुणा || ४ || अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः || पापानामन्नरूपाणां तस्य भोजनमुच्यते || ५ || नास्ति लिंगार्चनं यस्य म्लेंछयोनौ प्रजायते || न शिवार्चनसाम्योऽस्ति धर्मोऽन्यो भुवनत्रये || ६ || इति ज्ञात्वा प्रयत्नेन पूजनीयः सदाशिवः || सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः || ७ || लिंगमध्ये महादेवः साक्षाद्देवो व्यवस्थितः || अनुग्रहाय लोकानां तस्माल्लिंगं प्रपूजयेत् || ८ || उपदेशं विना लिंगं प्रपूजयति यो नरः || पृ० १९) दीक्षाहीनकृतलिंगपूजनस्य फलम् नरके पच्यते देवि सूपदेशो ह्यतः स्मृतः || ९ || यथा मृगपतिं दृष्ट्वा भवेद्भीतो वने गजः || अदीक्षितोऽर्चयेल्लिंगं तथा भीतो महेश्वरः ? || १० || त्रिपुंड्रं चैव रुद्राक्षं नित्यार्चनजपं तथा || होमध्यानादिकं सर्वं दीक्षाहीनस्य निष्फलं || ११ || अदीक्षितश्चतुर्वेदी न विशेद्गर्भगेहकं || प्रमादाद्गर्भगेहं तु प्रायश्चित्तं तु कारयेत् || १२ || अदीक्षितश्च यो विप्रः कुर्याल्लिंगस्य पूजनं || अरण्ये निर्जने देवि भवति ब्रह्मराक्षसः || १३ || चतुर्वेदी त्वहंकारी शिवलिंगं तु पूजयेत् || राजराष्ट्रविनाशश्च तस्य ग्रामोऽपि नश्यति || १४ || दीयते ज्ञानसंबंधः क्षीयते च मलत्रयम् || दीयते क्षीयते येन सा दीक्षेति निगद्यते || १५ || उपदेशं चोपदिश वीरशैवीयदीक्षया || गुरुं विचारयेच्छिष्यो महादेवं प्रपूजयेत् || १६ || नित्यानित्यविचारवानिह परत्रापेक्षितार्थारतिः शांत्याद्यंगसमन्वितः सुचरितो मोक्षाभिलाषी सुखी || सत्यानंदपरं प्रकाशपरिपूर्णात्मावबोधान्वितं कृत्याकृत्यविवेकिनं गुरुवरं प्रेयान्नरो भक्तिमान् || १७ || सद्वंशजः समापूर्णः प्रशांतः प्रियभाषणः || गंभीरः सत्यवाग्वाग्मी संतुष्टः करुणास्पदः || १८ || पृ० २०) स्निग्धः स्मितमुखो रागी प्रगल्भो निरहंकृतिः || शुचिः सुशीलो धर्मिष्ठः सदाक्षिण्यो बृहद्ध्वनिः || १९ || निर्मत्सरो गुणग्राही प्रशांतो विजितेंद्रियः || वेदांगेषु कृताभ्यासः पुराणश्रुतिवित्तमः || २० || सर्वागमेषु कुशलः कुलीनश्च महामतिः || मंत्रोद्धारप्रवीणश्च मंत्रार्थप्रतिपादकः || २१ || (सुप्रबोधागमे) पदवाक्यप्रमाणज्ञो वेदवेदांतपारगः || तिथिनक्षत्रयोगज्ञो भूपरिग्रहकर्मवित् || २२ || शैवसिद्धांततत्वज्ञः प्रतिष्ठामंत्रपारगः || मोक्षदः करुणोपेतो वीतरागो विमत्सरः || २३ || क्रियापादे तु निपुणश्चर्यापादे तु रंजकः || योगपादे कृताभ्यासो ज्ञानपादे विशेषवित् || २४ || क्रियादिज्ञानपर्यंतं शिवतत्वविनिश्चयः || संप्रदायागतज्ञानो लोभदंभविवर्जितः || २५ || लिंगांगस्थलभेदज्ञः षट्स्थलज्ञानतत्परः || शिवसिद्धांततत्वज्ञः षडध्वज्ञानवत्सलः || २६ || पृ० २१) गुरुलक्षणम् नित्यकर्मादिकुशलो नैमित्तिकविचक्षणः || काम्यादिकर्मचतुरो दीक्षाकर्मादिकर्मठः || २७ || मंडले मंडपे कुंडे प्रासादे प्रतिमासु च || लिंगपीठे शिलायां च परीक्षानिपुणाग्रणीः || २८ || शिवस्य च गुरोर्भक्तः शिवैकाहितमानसः || शिवार्चनासक्तचित्तः शिवध्यानैकतत्परः || २९ || गुकारं च गुणातीतं रुकारं रूपवर्जितं || गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः || ३० || निराकारं निरालंबं निर्मलं निर्विकल्पकं || निर्गुणं निष्कलं नित्यं परात्परपदं गुरुं || ३१ || (वीरागमे) ललाटलोचनं चांद्रीं कलामपि च दोर्द्वयं || अंतर्निधाय वर्तेऽहं गुरुरूपो महेश्वरि || ३२ || वसते पादयुग्मे तु त्रैलोक्यं सचराचरम् || अंगुष्ठाग्रे चाष्टषष्टितीर्थान्यस्मिन्वसंति वै || ३३ || सप्ताब्धयस्तु पादाधस्तदूर्ध्वं चाष्ट ते नगाः || जंघयोर्वसते नित्यं षट्त्रिंशत्तत्वसंचयः || ३४ || स्मर्तव्यः पठनीयश्च गुरुः परमकारणः || गुरुदेवं महादेवं चैकभावेन भाविताः || ३५ || त्रिषुलोकेषु पूज्यंते ते नरा गुरुभक्तितः || पृ० २२) गुरुर्गृहस्थ एव स्यान्न कदाचिद्यतिर्गुरुः || ३६ || यथाहं सर्वलोकानां गुरुरंबिकया सह || ३७ || (क्रियासारे) ईश्वर उवाच || गृहस्थः सर्ववर्णेषु श्रेष्ठो गुरुरुदाहृतः || नैष्ठिकस्त्वधमो ज्ञेयो भांतिकस्तु ततोऽधमः || ३८ || वानप्रस्थयतीनां तु गुरुत्वं निष्फलं सदा || शिष्यस्य शिक्षणीयत्वाद्गुरुर्गौरवभावतः || ३९ || तस्मात्सर्वप्रयत्नेन गुरुर्गौरवमाचरेत् || वयः षोडशकादूर्ध्वमिष्यते सप्ततेरधः || ४० || शिवज्ञानामृतस्वादपरिसंतुष्टमानसः || तत्वविच्छिवसंयुक्तो मुक्तिदो न तु चापरः || ४१ || गुरवो बहवः संति शिष्यवित्तापहारकाः || दुर्लभोऽयं गुरुर्देवि शिष्यहृत्तापहारकः || ४२ || (सिद्धांत शिखामणौ) ज्ञानहीनं गुरुं प्राप्य कुतो मुक्तिमवाप्नुयात् || भिन्ननौकागतः[भिन्ननावं गतः] सिंधोर्यथा पारं न गच्छति || ४३ || तस्माज्ज्ञानाधिकं शिष्यो गुरुमेव समाश्रयेत् || इत्थं गुरुः समाख्यातो वर्जनीयोऽधुनोच्यते || ४४ || पृ० २३) वर्जनीयगुरुलक्षणम् व्यसनी वामनः कुब्जः कोपी च कुलटः शठः || चपलोऽधिकहीनांगः पापीयान्सूचकोऽन्यजः || ४५ || व्याधिगस्तार्किकः शूरः काकनादो वक्रवती || गुरुदेवद्विजातीनां निंदको वृषलीपतिः || ४६ || अपूज्यकुलसंभूतस्त्रीकर्मी शिववर्जितः[सेव्यवर्जितः] || लंबोष्ठो वक्रनासश्च गवीनः कलहप्रियः || ४७ || परापवादशीलश्च परग्रंथोपजीवकः || बाला बहुगुणैर्युक्ता वृद्धाः खंजास्तथैव च || ४८ || एवमादिगुणैर्युक्ता वर्जनीयाः प्रयत्नतः || पूर्वं गुरुं परित्यज्य योऽन्यं गुरुमुपाश्रयेत् || ४९ || सपुनर्भूरिति ज्ञेयः सर्वकर्मसु गर्हितः || द्विजातिर्वा ततः शूद्रः स्वस्वोक्ताचारवान् शुचिः || ५० || सत्यवाग्गुरुभक्तश्च दंभाहंकारवर्जितः || रागद्वेषविनिर्मुक्तः शांतः सर्वजनप्रियः || ५१ || अहिंसको दयावांश्च नित्यमद्युक्तचेतनः[नित्यविध्युक्तचेतनः] || गुरुशुश्रूषणरतो मनोवाक्कायकर्मभिः || ५२ || बहिरंतश्चरैः प्राणैर्गुरुभक्तियुतो नरः || गुरुरेवंविधं शिष्यं वर्षमेकं परीक्षयेत् || ५३ || पृ० २४) गुर्वाज्ञाचकितः सौम्यः शिष्य इत्यभिधीयते || ज्ञानेन क्रियया चाथ गुरुः शिष्यं विशोधयेत् || ५४ || योऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः || तस्मात्सर्वप्रयत्नेन गुरुः शिष्यं परीक्षयेत् || ५५ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासनाविधौ || देहपातस्तथा कंपः परमानंदहर्षणे || स्वेदोरोमांच इत्येतच्छक्तिपातस्य लक्षणं || ५६ || (इति शक्तिपातलक्षणम्) उक्तलक्षणसंपन्नो यस्मिन् देशे गुरुः स्थितः || तत्र शिष्यः स्वयं गत्वा प्रणमेद्दंडवद्गुरुं || ५७ || स्वगुरुं वा महेशं वा प्रणमेदेकपाणिना || यदि पूर्वार्जितं पुण्यं तत्सर्वं च विनश्यति || ५८ || अष्टांगैरथ पंचांगैस्त्रिभिरंगैर्नमस्त्रिधा || उरसा शिरसा दृष्ट्या मनसा श्रद्धया गिरा || ५९ || पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग उच्यते || शिरः कराभ्यां जानुभ्यां पंचांगैः प्रणमेच्छिवं || ६० || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || एते गर्भगता यस्य तस्मै श्रीगुरवे नमः || ६१ || अज्ञानतिमिरांधस्य ज्ञानांजनशलकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || ६२ || अनंतजन्मसंप्राप्तकर्मेंधनविदाहिने || पृ० २५) गुरुनमस्कारकरणवर्णनम् ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः || ६३ || भवारण्यप्रविष्टस्य दिऽऽन्मोहभ्रांतचेतसः || येन मे दर्शितः पंथा तस्मै श्रीगुरवे नमः || ६४ || देशिकस्य मुखं दृष्ट्वा प्रणमेदंडवद्भुवि || पतंति सर्वपापानि नोत्तिष्ठंति पुनः सह || ६५ || गुरुं दिदृक्षुर्यः शिष्यः सद्भक्त्यानुदिनं स तु || रिक्तपाणिर्न तं पश्येद्यथा राजा तथा गुरुः || ६६ || स्वामिन् भट्टारकाचार्य मययेवं त्वं कृपां कुरु || इत्युक्तं प्रवदेच्छिष्यमुपदेशं करोम्यहम् || ६७ || अनुग्रहकरणार्थे जपे विनियोगः निष्कलो देवता सुज्ञान ऋषिः || अनुष्टुप्छंदः नादरूपे प्रणवं बीजम् || मूलमंत्रेण पंचतत्वानां सादाख्यानां समारभेत् || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे गुरुशिष्यलक्षणं नाम द्वितीयोऽध्यायः || पृ० २६) श्रीसांबसदाशिवाय नमः अथ तृतीयोऽध्यायः अथ कालं च देशं च प्रवक्ष्यामि च तद्यथा || गुरुशिष्यो समाख्यातौ ततः कालोऽभिधीयते || १ || शुभकाले शुभे मासे शुभतिथ्यां शुभेऽहनि || शुभप्रदेशे नक्षत्रे ह्युपदेशं च कारयेत् || २ || शरत्कालश्च वैशाखः उत्तमः परिकीर्तितः || फाल्गुनो मार्गशीर्षश्च जेष्ठमासश्च मध्यमः || ३ || आषाढमाघमासौ च कनिष्ठौ समुदाहृतौ || चैत्रश्च श्रावणश्चैव पुष्यो भाद्रपदस्तथा || ४ || चत्वारो गदिता मासा दीक्षायां शिवशासने || ५ || (ग्रंथांतरे) मंत्रारंभस्तु चैत्रे च बहुदुःखफलप्रदः || वैशाखे रत्नलाभःस्याज्ज्येष्ठे तु मरणं ध्रुवम् || ६ || आषाढे बंधुनाशः स्यात्पूर्णायुः श्रावणे भवेत् || प्रजानाशो भाद्रपदे सर्वतः शुभमाश्विने || ७ || कार्तिके मंत्रसिद्धिः स्यान्मार्गशीर्षे शुभावहं || पुष्ये तु मंत्रहानिः स्यान्माघे मेधाविवर्धनम् || ८ || फाल्गुने सर्वसिद्धिः स्यादिति मंत्रविदो विदुः || शुक्लपक्षे शुभा दीक्षा कृष्णे वा पंचमीदिने || ९ || (तिथिनिश्चयः) चतुर्थीं नवमीं षष्ठीं चाष्टमीं च चतुर्दशीं || पृ० २७) दीक्षायै शुभनक्षत्रकरणराशिकथनम् पौर्णिमासीं विना शेषा हितास्त्विति प्रिया मताः || १० || चतुर्दशी चतुर्थी च षष्ठी चैवाष्टमी तथा || नवमी द्वादशी चैव पक्षतिथ्यः प्रकीर्तिताः || ११ || रविमंगलसौरास्तु त्याज्या अन्ये शुभावहाः || १२ || (नक्षत्राणि) रोहिणी मृगशीर्षं च मघा पुष्यपुनर्वसू || हस्तः स्वात्यनुराधे च श्रवणं रेवती तथा || त्रीण्युत्तराणि मूला च नक्षत्राणि चतुर्दश || १३ || (अथ योगाः) व्याघातं परिघं वज्रं व्यतीपातं च वैधृतिं || गंडातिगंडौ शूलं च विष्कंभं वर्जयेच्छुभे || १४ || (करणानि) बवादिवणिजांतानि शुभानि करणानि षट् || अन्यानि विपरीतानि विष्टेर्नष्टानि मंगले || १५ || सुतिथ्या श्रियमाप्नोति वारादायुष्यवर्धनम् || नक्षत्राद्धरते पापं योगाद्रोगनिवारणम् || १६ || करणात्कार्यसिद्धिश्च पंचांगं फलमुत्तमं || १७ || (राशयः) वृषभोऽप्यथ कुंभो वा वृश्चिकः सिंह एव वा || मिथुनं वापि कन्या वा धनुर्वा मीन एव वा || १८ || चरौ मकरमेषौ च तुला कर्कटकं तथा || दीक्षायां वर्जयेदन्यलग्नेषु च समाचरेत् || १९ || एते हि राशयः प्रोक्ता ह्यन्यराशींश्च वर्जयेत् || बुधोदये वा कुर्वीत सोमोदय अथापि वा || २० || गुरूदये वा कुर्वीत त्यजेदासनसंयुतान् || पृ० २८) अष्टमस्था ग्रहाः सर्वे नैवाष्टद्वादशस्थिताः || २१ || शुक्रे लग्नगते वास्ति केंद्रस्थाने स्थिते रवौ || नश्यंति सकला दोषाःशंभुनैवमुदाहृतम् || २२ || दीक्षाकालः समाख्यातो देशश्चाप्यधुनोच्यते || गंगायां यमुनायां च सरस्वत्यास्तटे तथा || २३ || दृषद्वत्यास्तथा तीरे गोदावर्यामपां निधौ || कावेरीगौतमीतीरे वाप्यास्तीरे महावटे || २४ || पुण्यायतनतीर्थेषु नदीनां संगमेषु च || भवनेषु च रम्येषु वनेषूपवनेषु च || २५ || शिवक्षेत्रशिवारामसमीपे वा शुभे गृहे || शिवालयसमीपे वा देशिकस्य गृहेऽपि वा || २६ || संसारदुःखरोगस्य भेषजं मुक्तिसाधनम् || स्थानेष्वेतेषु हे गौरि शिवदीक्षां तु कारयेत् || २७ || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे कालदेशनिर्णयो नाम तृतीयोऽध्यायः || पृ० २९) || श्रीगुरुभ्यो नमः || चतुर्थोऽध्यायः भूशुद्धिं मंडपं चाथ संमार्जनविधिं तथा || रंगवल्लीविधिं वक्ष्ये तद्यथा शृणु यत्नतः || १ || ब्राह्मणस्य मही श्वेता रक्ता वै क्षत्रियस्य तु || वैश्यस्य वसुधा पीता कृष्णा शूद्रस्य संस्मृता || २ || हस्तमात्रं खनेद् भूमिं पूरयेत्तेन पांसुना || अधिकं चेदुत्तमा स्यान्मध्यमा समपांसुना || ३ || अधमा हीनपांस्वी स्यादधमामिह वर्जयेत् || भस्मागारतुषान्केशानस्थीनि परिवर्जयेत् || ४ || पंचगव्येन संप्रोक्ष्य शिवमंत्रेण देशिकः || पंचरत्नं क्षिपेत्तत्र भूशुद्धिं च प्रकल्पयेत् || ५ || मंटपं च ततः कुर्याद्वेदिकां च प्रकल्पयेत् || कनिष्ठं चाष्टहस्तं वा नवहस्तं तु मध्यमं || ६ || दशैकादशहस्तं वा द्वादशं चोत्तमोत्तमं || षोडशस्तंभपर्यतं द्वादशस्तंभमेव वा || ७ || खदिरः क्रमुकश्चैव शाखावेणुस्तथैव च || चतुरस्त्रं चतुर्द्वारं तोरणैश्च विभूषितम् || ८ || वितानं चोर्ध्वमाच्छाद्य घंटाचामरभूषितम् || दर्भमालापरिक्षिप्तं पुष्पमालावलंबितम् || ९ || फलपल्लवगंधाढ्यधूपदीपसमन्वितम् || पृ० ३०) अर्घ्यपुष्पैश्च संकीर्णं स्वस्तिकासनसंयुतम् || १० || शंखदुंदुभिनिर्घोषं ब्रह्मघोषसमन्वितम् || अष्टमंगलसंयुक्तं मंगलांकुरशोभितम् || ११ || सभास्तंभेषु कुसुमैः पताकैर्वृषभध्वजैः || दर्पणैस्तोरणैर्वस्त्रैस्सपूगैः पिष्टकैस्तथा || १२ || फलैश्च चैलैः शृंगारैर्नानारूपैर्विजृंभितम् || एवं मंटपमासाद्य संभारं सर्वमाहरेत् || १३ || दर्पणं पूर्णकुंभं च वृषभं युग्मचामरं || श्रीमत्सरस्वती शंखं दीपमष्टांगमंगलम् || १४ || गोमयं रोचनं मूत्रं दधि क्षीरं घृतं गवाम् || षडंगानि पवित्राणि सर्वसिद्धिकराणि च || १५ || (भूशुद्धिमंत्रः ||) जलेन शीलमुत्पन्नं शीलेन स्थलसंस्थितिः || स्थलेन मेदिनी सर्वा मूलस्तंभाय शंभवे || १६ || ततो मंटपमध्यं च लेपयेद्गोमयांबुना || उपलिप्य यथासूत्रं पंचवर्णेन पातयेत् || १७ || शुभां हि शोभासंयुक्तां कर्णिकां केसरान्विताम् || विचित्रकुसुमाकीर्णां मध्ये पंकजभूषिताम् || १८ || वल्लीजातिसमोपेतां पंचवर्णेन कारयेत् || अथवा रंगवल्लीभिः कुर्यात्पंचकवर्णकम् || १९ || तंडुलैर्वापि कुर्वीत सुशुद्धैर्देशिकैस्तिलैः || पृ० ३१) दीक्षाकाले पंचधान्यानां नामानि तंडुलैश्चित्रवर्णैश्च तथा कुर्यात्तिलैः शुभैः || २० || तिलतंडुलगोधूमजीरका माषका इमे || पंच धान्यानि कथ्यंते दीक्षाकाले तु शोभने || २१ || प्रत्येकं पंचकुडवान्येकैककुडवं तु वा || धान्यप्रमाणमित्युक्तं कलशादिषु निक्षिपेत् || २२ || मध्ये तंडुलकैर्युक्तमासनं च प्रकल्पयेत् || २३ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे भूशुद्धिमंडपसंमार्जनरंगवल्लीनिर्णयो नाम चतुर्थोऽध्यायः || पृ० ३२) || श्रीगुरुभ्यो नमः|| पंचमोऽध्यायः | कलशानां लक्षणं च स्थापनं चार्चनाविधिम् || तद्यथेत्याह श्रोतृर्णामाश्चर्यं मंगलप्रदं || १ || हैमान्विभवतः कुंभान्रौप्यांस्ताम्रांश्च लोहकान || अलाभे मृण्मयांश्चैव कलशांश्च प्रकल्पयेत् || २ || कृष्णं भिन्नं च दुर्गंधं पुराणं च परित्यजेत् || अभिन्नांश्च शुभान्स्निग्धानकल्मषमनोहरान् || ३ || एतांश्च युक्तान्कलशांश्च्छुद्धतोयेन क्षालयेत् || ४ || (क्रियासारे) प्रत्येकं पंचकुडवमितैः स्वर्णादिपंचभिः || कलशैः पूरयेत्तोयमोमापो वा इद ? स्मरेत् || ५ || ग्रंथांतरे || नद्यास्तडागसरसो मंत्रैस्तोयेन पूरयेत् || स्मरेत्पंचाक्षरं चाथ प्रोक्षयेत्कलशान्गुरुः || ६ || (अथ मंत्रः ||) ओं ह्रूं ह्रें ह्रों ह्रौं ततः बीजेन (ओं) कारपूर्वकैः || ईशानाय नमोंऽतस्तु प्रोक्षयेत्कलशान्क्रमात् || ७ || सद्योजाते नकारस्तु वामदेवे मकारकः || अघोरे तु शिकारस्तु तत्पुरुषे तु वकारकः || ८ || ईशाने तु यकारश्च पंच वर्णाः क्रमेण तु || नकारः पीतवर्णः स्यान्मकारो रक्तवर्णकः || ९ || पृ० ३३) मंत्रनामानि शिकारः कृष्णवर्णः स्याद्वकारो हेमवर्णकः || विश्वेशं सद्गुरुं चैव चेशानं मध्यमेव च || १० || यकारमीशवक्त्रं च स्फाटिकं संस्मरेत्तथा || मूलं षडक्षरं चैव मायाख्याष्टाक्षरं स्मरेत् || ११ || प्रसादं दशबीजं च सूक्ष्मं सप्ताक्षरं स्मरेत् || १२ || (मूलषडक्षरमंत्रः) || ओं नमः शिवाय इति || (मायाख्याष्टाक्षरमंत्रः) || ओं ह्रीं ह्रूं नमः शिवाय || इति अष्टाक्षरः || (अथ दशाक्षरः) || ओं ह्रां ह्रीं ह्रूं ह्रौं नमः शिवाय || (अथ सप्ताक्षरः) || ओं ह्रीं नमः शिवाय || (अथ नवाक्षरः) || ओं ह्रां ह्रीं ह्रूं नमः शिवाय || अनेन प्रकारेण पंचसु कलशेषु न्यासं समाचरेत् || अथ वीरतंत्रे || सद्योजाताद्रेणुकार्यो मरुलो वामदेवतः || अघोरादेकरामाख्यस्तत्पुरुषात्पंडितार्यकः || १३ || ईशानाद्विश्वाराध्यस्तु आचार्याः पंच ते क्रमात् || एवं हि देशिकानां तु जननं विद्धि पार्वति || १४ || वपुर्भसितसंयुक्तं स्थूलपंचाक्षरात्मकम् || चरलिंगध्यानरतं रेवणाचार्यनामकम् || १५ || पश्चिमं वक्त्रमेवोक्तं ऋग्वेदस्वर उच्यते || पृ० ३४) नवाक्षरसुसंयुक्तो ह्यंगशुद्धिः सदा भवेत् || १६ || नवाक्षरमंत्रः || ओं ह्रां ह्रीं ह्रूं नमः शिवाय || (अथ आसनमंत्रः) || वृत्तं || चंचत्सौदामिनीव स्फुरितमतिशयं यत्सदा सूक्ष्मरूपं ज्योतिर्वालात्मकं यद्यतिपतिहृदये दीपवद्वेदसारम् || तद्बोधोत्पत्तिबीजं शिवमशिवहरं सर्वतो वक्त्रनेत्रं ध्यायेत्तं ध्यानगम्यं शुभदमभयदं कर्मसादाख्यतत्वम् || १७ || अथ कलशस्थापनमंत्रः || प्रालेयामलमिंदुकुंदधवलं गोक्षीरफेनप्रभं भस्माभ्यंगमनंगदेहदहनं ज्वालावलीलोचनम् || ब्रह्मेंद्रादिमरुद्गणैः स्तुतपदं ऋग्वेदशाखामयं सद्योजातमिदं कलंकरहितं स्थाणोर्मुखं पश्चिमम् || १८ || सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः || भवे भवेनातिभवे भवस्व मां भवोद्भवाय नमः (ग्रंथांतरे) भस्मस्नानरतप्रोक्तं सूक्ष्मपंचाक्षरात्मकं || गुरुलिंगध्यानरतं मरु?सिद्धाभिधानकम् || १९ || उत्तराभिमुखं चैव यजुर्वेदस्वरात्मकम् || प्रकृष्टरक्तवर्णं च देशिकं चापि संस्मरेत् || सप्ताक्षरसमायुक्तो जिह्वाशुद्धिः सदा भवेत् || २० || (सप्ताक्षरमंत्रः) || ओं ह्रीं नमः शिवाय || इति वामदेवे (अथासनमंत्रः) || वृत्तम् || ज्योतिस्तंभायमानं स्फुटतरदिनकृत्कोटिकांतिप्रकाशं पृ० ३५) कलशस्थापनमंत्रः मूलस्तंभाभिधानं मुनिभिरनुदिनं दृश्यतेऽनर्घ्यकायं || अष्टाभिर्मूर्तीभिर्यद्विलसति सुखदं भुक्तिमुक्तिप्रदं यद्ध्यायेत्तद्ध्यानगम्यं शुभदमभयदं कर्तृसादाख्यतत्वं || २१ || (अथ कलशस्थापनमंत्रः) || वृत्तम् || गौरं कुंकुमपिंजरांशुतिलकं व्यापांडुगंडस्थलं भ्रूविक्षिप्तकटाक्षवीक्षणलसत्कर्णोत्पलं सुंदरं || याजुर्वेदमिदं सुधाप्रहसितं नीलालकालंकृतं वामं सिद्धसुरासुरेन्द्रनमितं वक्त्रं हरस्योत्तरं || २२ || ओं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमः कालाय नमः कलविकरणाय नमो बलाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः || इति मंत्रेण वामदेवात्मककलशे (ग्रंथांतरे) श्रोत्ररक्षा च सा प्रोक्ता प्रसादो मंत्र एव च || प्रसादलिंगं तद्ध्यानं पंडिताराध्ययोगिनः || २३ || दक्षिणं सुमुखं चैव ह्यथर्वणश्रुतिस्सदा || दशबीजाक्षरो मंत्रः श्रोत्रशुद्धिः सदा भवेत् || २४ || दशबीजाक्षरमंत्रः || ओं ह्रां ह्रीं ह्रूं ह्रौं नमः शिवाय || अघोरवक्क्रे | आसनमंत्रः || वृत्तम् || धाम्ना ब्रह्मांडपूर्णैर्दशभुजपरिघैः पंचवक्त्रैस्त्रिनेत्रैर्नानालंकारयुक्तैरविशशिमहसां कोटिसारप्रकाशैः || चंचन्मूर्ताख्यतत्वं वरदमभयदं ध्यायते दिव्यनादं पृ० ३६) ध्यायेत्तद्ध्यानगम्यं शुभदमभयदं मूर्तसादाख्यतत्वम् || २५ || (कलशस्थापनमंत्रः) कालाभ्रभ्रमरांजनद्युतिनिभं व्यावृत्तपिंगेक्षणं बालेंदुद्युतिकोटिदंष्ट्रयुगलं प्रोद्भासिताथर्वणं || सर्पोत्तुंगफणासहस्रमणिभिः कापालमालाधरं घोरं दक्षिणमीश्वरस्य वदनं भ्रूभंगरौद्रं परं || २६ || ओं अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः इति अघोरकलशे || रक्षा च नेत्रयोः प्रोक्ता मायाख्यो मंत्र एव च || स्वलिंगध्यानसंयुक्तः शिवरामगुरुस्तथा || २७ || पूर्वाननसमायुक्तः सामवेदं स्मरन्भवेत् || अष्टाक्षरमयो मन्त्रो नेत्रशुद्धिस्तदा भवेत् || २८ || (अष्टाक्षरमंत्रः) || ओं ह्रीं ह्रूं नमः शिवाय || तत्पुरुषमुखे (अथासनमंत्रः) || लिंगाकारं सुपिंगं ज्वलदनलशिखाभासुरं भासमानं तस्यार्धोर्ध्वैकभागे मुखकमलमलं शोभितं शोभमानं || युक्तं नेत्रत्रयेणावयवसुनिरतं मूर्तिलिंगाभिधानं ध्यायेत्तद्ध्यानगम्यं शुभदमभयदं मूर्तिसादाख्यतत्वम् || २९ || (कलशस्थापनमंत्रः||) संवर्ताग्नितडित्प्रदीप्तकनकप्रस्पर्धितेजोऽरुणं गंभीरस्वरसामवेदविदितं प्रोद्भासिताम्राधरम् || गांगोत्तुंगतरंगपिंगलजटाबालेंदुनेत्रत्रयं वक्त्रं- पृ० ३७) तत्पुरुषं सुरेन्द्रनमितं पूर्वं मुखं शूलिनः || ३० || (तत्पुरुषमंत्रः) ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् || मंत्रं तद्भूतिदं प्रोक्तं पाणिस्पर्शनसंयुतं || ज्योतिर्लिंगानुतद्ध्यानं मूलपंचाक्षरं स्मरेत् || ३१ || विश्वेशं सद्गुरुं चैव चेशानस्य च वक्त्रकं || यकारं बीजवर्ण च संस्मरेत्सर्वदा प्रभुं || ३२ || मूलं पंचाक्षरश्चैव स्पर्शशुद्धिः सदा भवेत् || (षडक्षरमंत्रः) || ओं नमः शिवाय || ईशाने || (अथ आसनमंत्रः) द्रागिष्टं दिव्यालिंगं स्फटिकमणिनिभं स्थूलपंचाक्षरेऽस्मिन् शान्तात्मा हीश्वरोऽयं कमलसममुखैः पंचमूर्धा वसन् यः || दिव्यं कल्पांबरं श्रीचरणयुगलयुक्काष्ठबाहुप्रदंडं ध्यायेत्तद्ध्यानगम्यं शुभदमभयदं शैवसादाख्यतत्वं || ३३ || (कलशस्थापनमंत्रः) || व्यक्ताव्यक्तगुणोत्तरं च विमलं षट्त्रिंशतत्वाधिकं वेदाद्यक्षरमंत्रशास्त्रनिलयं ध्येयं सदा योगिभिः || सर्वज्ञत्वमधीश्वरत्वमचलं सूक्ष्मातिसूक्ष्मात्परं शांतं पंचममीश्वरस्य पृ० ३८) वदनं सेव्यं हि तेजोमयं || ३४ || इत्यूर्ध्वमुखे यकारवर्णं स्थापयेत् (मंत्रः) ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो?|| इति मंत्रः (ततः कलशोदकशुद्धिः ||) ओं आपो वा इदमा? सर्वविश्वाभूतान्यापः प्राणा आपः पशव आपोऽन्नमापोमृतमापः सम्राडापो विराडापः स्वराडापः छंदा? स्यापो ज्योति? ष्यापो यजु? ष्यापः सत्यमापः सर्वा देवता आपः ओं भूर्भुवः स्वः सद्यादिपंचब्रह्ममन्त्रैः कलशोदकमभिमन्त्र्य ततः || तेषु कलशेषु रत्नानि स्थापयेत् || मौक्तिकं माणिकं चैव चेंद्रनीलं प्रवालकं || वज्रं च पंचकं चैव सद्योजातादिषु क्षिपेत् || ३५ || पंचामृतं च गव्यं च प्रोक्षयेत्कलशान्गुरुः || एकैकं नववस्त्रेण वेष्टयेद्देशिकोत्तमः || नवदर्भसमायुक्तकूर्चान् तेषु विनिक्षिपेत् || ३६ || अनन्तरं हि सूत्रस्य पंचभिस्तंतुभिस्तथा || गवाक्षसदृशैःसूत्रैःपंचानां परिवेष्टयेत् || ३७ || दूर्वांकुरान् सपूगानि नागवल्लीदलानि वै || बिल्वपत्रं त्वपामार्गपत्राणि धात्रिरेव च [त्वपामार्गं तुलसीधात्रिरेव च] || ३८ || पंचपत्रं तु दीक्षायां पंचैतानि शुभानि च || करवीरादिपुष्पाणि कलशेषु विनिक्षिपेत् || ३९ || स्नात्वालंकारकं कृत्वा वासोभीऋत्विजस्तथा || पुष्पाक्षतविभूत्याद्यैश्चतुरस्तान् प्रपूजयेत् || ४० || आचार्यो मध्यमस्यार्चां कुर्यात्पुष्पाक्षतादिभिः || ऋत्विजः प्रीतिमनसो विध्युरितरार्चनम् || ४१ || गंधपुष्पाक्षताद्यैश्च धूपदीपैश्च पूजयेत् || पंचभक्षान्फलादीनि कदलींनारिकेलकं || ४२ || पृ० ३९) शिवकुंभपूजनम् गुडमिश्रं च पिष्टं च तिलं च चणकं तथा || तांबूलं च यथान्यायमेवमभ्यर्चयेत्क्रमात् || सुवर्णरत्नताराणि कलशेषु निधापयेत् || ४३ || गुरुरीशानदिग्भागे स्थंडिले धान्यतंडुलैः || तिलैः शास्त्रोक्तसंख्यातैर्विदध्याच्च प्रशोभितैः || ४४ || पंचरत्नौषधीर्गंधतोयकूर्चादिसंयुतं || त्रिसूत्रसूत्रितग्रीवं जठरं चंदनार्पितं || ४५ || सितवस्त्रयुगच्छन्नं पुष्पगंधाक्षतान्वितं || शिवकुंभं फलोपेतं सपिधानं सलक्षणं || ४६ || तत्कुंभे च वृषारूढं सांगं संपूजयेच्छिवम् || ४७ || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे कलशलक्षणस्थापनार्चनविधिनिर्णयो नाम पंचमोऽध्यायः || ५ || पृ० ४०) || श्रीगुरुभ्यो नमः || अथ षष्ठोऽध्यायः| अथ शिष्यलक्षणम्- शिष्यस्नानाद्यलंकारविधिं चैव यथाक्रमम् || स्वस्तिकारोहणं चैव भूतिपदं विधानतः || १ || पंचब्रह्मादिन्यासं च रुद्राक्षाणां च धारणम् || तद्यथा शृणु वक्ष्यामि शृण्वतां पापनाशनम् || २ || पूर्वरात्रौ चोपवासी क्षीराहारं च सेवयेत् || परेद्युः प्रातरुत्थाय गुरुपादांबुजं स्मरेत् || ३ || स्नानं शौचं च कृत्वाथ धौतवस्त्रं च धारयेत् || भूषणं च यथाशक्त्या माल्यं लेपं च धारयेत् || ४ || विभूतिं शिवभक्तेभ्यो दत्वा तांबूलपूर्वकम् || वृद्धानुक्रमतो दत्वा पुष्पाद्यैः सम्यगर्चयेत् || ५ || अथ तेभ्यः समस्तेभ्यो देशिकेंद्रपुरःसरम् || यथा प्रदक्षिणं कृत्वा भक्त्या तांबूलमर्पयेत् || ६ || उपेत्याचार्यपादौ च प्रणम्य तदनंतरम् || पूजयेत्स्वर्णपुष्पाद्यैर्भक्त्या वित्तानुसारतः || ७ || स्वयं च प्राऽऽन्मुखो भूत्वा गोमयेनोपलेपयेत् || मंडले स्थापयेच्छिष्यमुत्तराभिमुखं गुरुः || ८ || शिष्यं च स्वस्तिकारोहं कुर्यान्मंत्रेण चैव हि || गुरुः शिष्यं समालोक्य तत्वं देवि विचिंतयेत् || ९ || पृ० ४१) भस्मधारणविधानम् (स्वस्तिकारोहणमंत्रः) पंकोद्भवं पंकजकाष्ठसंभवं बहिःष्ठपाशच्छिदहेमजातम् || १० || पश्चाद्गुरुः समाधाय पद्मासनपरो भवेत् || आधारबंधनं कृत्वा रेचकं पूरकं तथा || ११ || कुंभकं च तथा कृत्वा स्वगुरुध्यानपूर्वकम् || ध्यात्वा प्रणम्य स्वहृदि स्वगुरुं मनसा सह || १२ || स्वयं च लिंगमुद्रश्च प्रणवेन युतं जपेत् || पंचाक्षरं च तं ध्यात्वा तत्राह्वानं विचिंतयेत् || १३ || (कारणतंत्रे) || वामहस्ततले भस्म क्षिप्त्वाच्छाद्यान्यपाणिना || शिष्यस्य भूतिपट्टं च कुर्यान्मंत्रेण देशिकः || अग्निरित्यादिभिर्मंत्रैर्गृहीत्वांगेषु प्रोक्षयेत् || १४ || भूतिमंत्रः || ओं अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं हवा इदं भस्म मन एतानि चक्षूंषि भस्मानि || धारणमंत्रः || मानस्तोके तनयेमान आयुषि मानो गोषु मानो अश्वेषु रीरिषः || वीरान्मानो रुद्र भामितो वधीर्हविष्मंतो मनसा विधेम ते || इति || ओं ह्रूं शिं अघोराय नमः इति हृदये || ओं ह्रीं मं वामदेवाय नमः || गुह्ये || ओं ह्रां नं सद्योजाताय नमः || पादयोः || पृ० ४२) ईशाने पंचधा भस्म विकिरेन्मूर्ध्नि यत्नतः || मुखे चतुर्धा वामेनाघोरेणैवाष्टधा हृदि || १५ || वामेन गुह्यदेशे तु त्रयोदशप्रकारतः || अष्टधा तेन सद्येन पादावुद्धूल्य यत्नतः || १६ || सर्वांगोद्धूलनं कुर्यात्सद्योजातेन तत्वतः || १७ || (मर्दनमंत्रः) (पारमेश्वरतंत्रे ) नमो भवाय रुद्राय शर्वायोग्राय शंभवे || नमो विभूतिरूपाय सिद्धरूपाय ते नमः इति जलमिश्रविभूतिं संमर्द्य || १८ || शिरो ललाटं श्रवणद्वयं ग्रीवा भुजद्वयं || वक्षो नाभिःपृष्ठभागः ककुदेकादशेषु च || त्रिपुंड्रधारणं कुर्यात् त्र्यंबकेन त्रियायुषा || १९ || ओं त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनं || उर्वारुकमिवबंधनान्मृत्योर्मुक्षीय मामृतात् | त्रियायुषं जमदग्नेः कश्यपस्य त्रियायुषं अगस्त्यस्य त्रियायुषं यद्देवानां त्रियायुषं तन्मे अस्तु त्रियायुषं इति || १९ || अनेन मंत्रेण शिरसि ललाटे श्रवणद्वये कंठे भुजद्वये वक्षसि नाभौ पृष्ठभागे त्रिपुंड्रधारणं (ततः करन्यासः) ओं ओं ओं अंगुष्ठाभ्यां नमः ओं नं ओं तर्जनीभ्यां नमः || ओं मं ओं मध्यमाभ्यां नमः || ओं शिं ओं अनामिकाभ्यां नमः || ओं वां ओं कनिष्ठिकाभ्यां नमः || ओं यं ओं कर- पृ० ४३) अंगन्यासविधानम् तलकरपृष्ठाभ्यां नमः || इति करन्यासः || (अथ षडंगन्यासः) ओं ह्रां ओं सर्वशक्तिधाम्ने हृदयाय नमः || ओं ह्रौं नं तृप्तिशक्तिधाम्ने शिरसे स्वाहा || ओं ह्रूं मं अनादिबोधशक्तिधाम्ने शिखायै वषट् || ओं ह्रैं शिं स्वतन्त्रशक्तिधाम्ने कवचाय हुं || ओं ह्रों वं अलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट् || ओं ह्रः यं अनंतशक्तिधाम्ने अस्त्रायफट् || इति षडंगन्यासं कृत्वा, ओं यं ह्रः ओं फट् ईशानाय नमः शिरसि, ओं वां रौं ऐ वौषट् तत्पुरुषाय नमः मुखे, ओं शिं हैं उं हुं अघोराय नमः हृदये, ओं मः ह्रूं इं वषट् वामदेवाय नमः गुह्ये, ओं नं हिं ओं स्वाहा सद्योजाताय नमः पादयोः इति पंचब्रह्मन्यासं कृत्वा || ततः मूर्ध्नि ललाटे कंठे हृदये नाभौ यकारादिनकारान्तं पंचाक्षरन्यासं कृत्वा || ततः कलान्यासः || ओं ईशानः सर्वविद्यानां पतिस्तस्मै शशिन्यै च नमः मूर्ध्नि || ओं ईश्वरः सर्वभूतानां तस्मै अंगदायै च नमः || पूर्वमूर्ध्नि, ओं ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिस्तस्मै ज्येष्ठायै च नमः दक्षिणमूर्ध्नि || ओं ब्रह्मा शिवो मे अस्तु तस्मै मरीचये च नमः || वाममूर्ध्नि || ओं सदाशिवों तस्मै ज्वलिन्यै च नमः || पश्चिममूर्ध्नि || ओं तत्पुरुषाय विद्महे तस्मै शांत्यै च नमः पूर्ववक्त्रे || ओं महादेवाय धीमहि तस्मै विद्यायै च नमः दक्षिणवक्त्रे || पृ० ४४) ओं तन्नो रुद्रस्तस्मै प्रतिष्ठायै च नमः वामवक्त्रे || ओं प्रचोदयात् तस्मै निवृत्यै च नमः पश्चिमवक्त्रे || ओं ईशानवक्त्राय नमः ऊर्ध्ववक्त्रे || ओं अघोरेभ्यः तमस्यै? नमः हृदये || ओं अथ घोरेभ्यो मोहिन्यै नमः कंठे || ओं घोर अक्षयायै नमः दक्षिणांसे || ओं घोरघोरतरेभ्यः कनिष्ठायै नमः वामांसे || ओं सर्वेभ्यः सर्वतः सर्वमृत्यवे नमः नाभौ || ओं सर्वसर्वेभ्यो मायायै नमः जठरे || ओं नमस्ते अस्तु रुद्र अभयायै नमः पृष्ठे || ओं रूपेभ्यः शिवेभ्यः ज्वरायै नमः वक्षसि, ओं वामदेवाय नमो रजायै नमः गुह्ये || ओं ज्येष्ठाय नमो रक्षायै नमः लिंगे || ओं श्रेष्ठाय नमो जन्यै नमः मुष्के || ओं रुद्राय नमो रत्यै नमो दक्षिणोरौ || ओं कालाय नमः पाल्यायै नमः वामोरौ || ओं कलविकरणाय नमो बुद्ध्यै नमः दक्षिणजानुनि || ओं बलाय नमः कारयित्र्यै नमः वामजानुनि || ओं बलविकरणाय नमः बुद्ध्यै नमः दक्षिणजंघायां || ओं बलप्रमथनाय नमो धात्र्यै नमः वामजंघायां || ओं बलविकरणायै नमः दक्षिणस्फिजे || ओं प्रमथनाथाय नमो धात्र्यै नमः वामस्फिजे || ओं सर्वभूतदमनाय नमो ग्रामण्यै नमः कट्यां || ओं मनमोहिन्यै नमः दक्षिणपार्श्वे || ओं उन्मनाय नमः तमोमोहायै नमः || वामपार्श्वे || ओं सद्योजातं प्रपद्यामि सिध्यै नमः दक्षिणपादे || ओं सद्योजाताय वै नमो नमो बुद्ध्यै नमः वामपादे || ओं भवे दूत्यै नमः दक्षिणकरे || पृ० ४५) अंगन्यासविधानम् ओं अभवे लक्ष्म्यै नमः वामकरे || ओं अनातिभवे मेधायै नमः घ्राणे || ओं भजस्व मां कांत्यै नमः शिरसि || ओं भव स्वधायै नमः दक्षिणबाहौ || ओं उद्भवाय नमो धृत्यै नमः बामबाहौ || इति कलान्यासं विस्तार्य || ततः|| शिष्यस्य तत्कलाह्वानं स कुर्याद्देशिकोत्तमः || मांसपिंडं वर्जयित्वा मंत्रपिंडं च कारयेत् || २० || आचार्यस्ततः धौतवस्त्रे रुद्राक्षपुंजं विन्यस्य, ओं ह्रूं स्रूं रूं ज्रूं प्रां रूमपि श्रीं मं क्षां क्षमपि क्रां क्षां हूं नमः इत्यनेन मंत्रेणाभिमन्त्र्याष्टविधार्चनपूजां कृत्वा ततः || रुद्राक्षवृक्षबीजाय भूतिसंभूतिहेतवे || नेत्रत्रयाय रुद्राय नमो लोकहितार्थिने || २१ || इति नमस्कृत्य ततः तत्तत्स्थानेषु तत्तन्मंत्रेण धारयेत् || ओं श्रीसदाशिवाय नमः || शिखायां एकमेकवक्त्रं || ओं वह्निसूर्यसोमाधिपाय श्रीशिवाय नमः इति द्वित्रिद्वादशवक्त्राणि त्रीणि त्रीणि शिरसि || ओं षट्त्रिंशत्तत्वात्मकाय श्रीपरशिवाय नमः इति एकादशवक्त्रमेकैकं मूर्ध्नि || ओं सोमाय नमः इति पंचदश वक्त्राणि प्रत्येकं षट् कर्णद्वये || ओं त्रियंबकाय कालात्मने श्रीकंठाय नमः षडष्टवक्त्राणि द्वात्रिंशत् || कंठे || ओं श्रीकंठादि मूर्त्यात्मकाय श्रीसर्वज्ञाय नमः || चतुर्वक्त्राणां पंचाशन्मालिका वक्षसि || पृ० ४६) ओं सुखासनादिषोडशमूर्त्यात्मकाय श्रीकंठाय नमः त्रयोदशवक्त्राणि षोडश षोडश बाह्वौः || ओं सोमकलात्मकाय श्रीसोमनाथाय नमः नववक्त्राणि द्वादश द्वादश मणिबंधयोः || ओं द्वादशादित्याधिष्ठानाय श्रीमहादेवाय नमः कक्षे || ओं केशवादिमूर्त्यधिष्ठानाय श्रीउमापतये नमः अष्टोत्तरशतं चतुर्दशवक्त्राणि उपवीतस्थाने || ओं शतरुद्रविद्येश्वरात्मकाय श्रीविश्वेश्वराय नमः चतुः पंचाशदुदरबंधे कुर्यात् || ओं चतुःषष्ठिकलाधिपाय नमः ओं हीं जननस्थानभूताय सर्वात्मने सर्वकलारूपाय श्रीउमापतये नमः इति रुद्राक्षधारणम् कुर्यात् || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे शिष्यस्नानाद्यलंकारविधिस्वस्तिकारोहणविभूतिधारणपंचब्रह्मन्यासा दि तल्लक्षणरुद्राक्षधारणविधिर्नाम षष्ठोऽध्यायः || पृ० ४७) || श्रीगुरुभ्यो नमः || अथ सप्तमोऽध्यायः पूजनापेक्षितद्रव्यनिर्णयं चार्चनाक्रमम् || न्यासस्य लक्षणं वक्ष्ये शृणु भक्तिपरायणे || १ || गवां च गोमयं मूत्रं दधि क्षीरं घृतं तथा || पंचगव्यं च संस्थाप्य पात्रेषु च पृथक् पृथक् || २ || क्षीरं तु मध्यमीशानि तत्पूर्वे दधि चोच्यते || दक्षिणे तु घृतं स्थाप्य चोत्तरे गोमयं तथा || पश्चिमे मूत्रकं चैव पंचगव्यं च विन्यसेत् || ३ || [क्रियासारे] प्रत्येकं पंचप्रस्थांश्च तथा कुडवपंचकम् || एकैककुडवं चैव तदलाभे निकुंजनम् || ४ || एवं हि चरलिंगस्य कारयेद्देशिकोत्तमः || ५ || क्षीरं दधि घृतं चैव मधु शर्करया सह || पश्चिमे शर्करां चैव पंचब्रह्माधिदेवताः || ६ || घंटापंचमहावाद्यैर्यथाशोभनमाचरेत् || अशून्यमस्तकं लिंगं सदा कुर्वीत पूजकः || ७ || ओं ह्रैं तत्पुरुषाय नमः हौं हं खं मं क्षं तं यं मं पश्चाच्छिवाय नमः || इति मंत्रेण शिष्यांगे स कुर्याद्देशकोत्तमः || [अर्घ्यद्रव्यं] कुशाग्रतिलसिद्धार्थयवव्रीहिपयांसि च || द्रव्याण्यमूनि षट्प्राहुरर्घ्यस्य मुनिपुंगवाः || ८ || पृ० ४८) सिद्धार्थं कुंकुमं दूर्वा कोष्ठं लामञ्जकं शसि || अमूनि चात्र द्रव्याणि पाद्यस्य कथयंति षट् || ९ || फलं कचोरं कर्पूरं कोष्ठं काश्मीरमेलका || अमून्याचमनीयस्य द्रव्याणि प्रवदंति षट् || १० || अर्घ्यं पाद्यं चाचमनं प्रोक्षणं तु चतुर्विधं || ११ || [मंत्राः पृथक् पृथक्] [अर्घ्यमंत्रः] ओं देवादेवेभ्यो अर्घयंते विश्वाय देवाय स्वथाग्नेति || विश्वाय देवाय सहगत विश्वतो हस्त उत [अथ पाद्यमन्त्रः] पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि || त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः || इति पाद्यं स्वाहा || अर्घ्यं स्वाहा || [अथ आचमनीयं] ओं विश्वतश्च क्षुरुत विश्वतोमुखो विश्वाधिको रुद्रो महर्षिः || सद्योजातवामदेवाघोरतत्पुरुषीशानाय नमः आचमनीयं स्वाहा || तैलाभ्यंगं ततः कृत्वा लिंगपीठे विशेषतः || १२ || [अथ पंचगव्यं] सद्योजातेन गोमूत्रं वामदेवेन गोमयं || क्षीरं चाघोरमंत्रेण दधि तत्पुरुषेण च || १३ || घृतं त्वीशानमंत्रेण दद्यात्सद्यादि मंत्रतः || १४ || इति पंचगव्यस्नानं || मंत्रः || ओं ह्रां सद्योजाताय नमः || गोमूत्रं स्वाहा || ओं ह्रीं वामदेवाय नमः गोमयं स्वाहा || पृ० ४९) पंचामृतस्नानविधिः ओं ह्रूं अघोराय नमः गोघृतं स्वाहा || ओं ह्रैं तत्पुरुषाय नमः दधि स्वाहा || ओं ह्रौं ईशानाय नमः गोक्षीरं स्वाहा || इति पंचगव्यं || ततः || पंचामृतमथो वक्ष्ये सर्वसंपत्करं नृणां || शिवाग्रे स्थंडिलं कृत्वा तंडुलैर्द्रोणसंमितैः || १५ || मध्ये पद्मं समालिख्य साष्टपत्रं सकर्णिकम् || मध्यादिपंचकोष्ठेषु स्थापयेत्पंचपात्रकं || १६ || क्षीरं दधि घृतं क्षौद्रं शर्करा चेति पंचकम् || पंचामृतमिदं प्रोक्तं प्रतिपात्रं न्यसेत्पृथक् || १७ || कोष्ठाधिदेवताश्चैव प्रतिपात्रं तु पूजयेत् || अंबिका च गणांबा च गंगा गौरी मनोन्मना || क्षीरादिशर्करांतेषु पूजनीया द्विजोत्तमैः || १८ || क्षीरादिशर्करांतानां मध्ये मध्ये पृथक् पृथक् || सद्योजातादिभिर्मंत्रैः पंचभिः स्नानमाचरेत् || एवं करोति यो मर्त्यः स पुण्यां गतिमाप्नुयात् || १९ || मंत्री रुद्रपदं विधाय विधिवद्दुग्धं विधौ पूरयेद्देवेंद्रे दधि भानुजे नवघृतं सौम्ये मधु प्रोद्धृतम् || पश्चाच्चोदितशर्करां च वरुणे वह्नौ च धात्रीं तथा राक्षस्यां दिशि वै सुपिष्टमनिशं पृ० ५०) रुद्रे कुशं भो न्यसेत् || २० || अथ क्षीरमंत्रः || आप्यायस्व स मे तु ते विश्वतः सोमवृष्ण्यं || भवा वाजस्य संगथे || ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकरणाय सशक्ताय नमः इति ओं क्षीरेण स्नापयामि || ततः ईशानेनैव मंत्रेण जलस्नानं समाचरेत् || ततः ईशानमंत्रः || ओं ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवों || अनेन मंत्रेण शुद्धोदकस्नानम् || प्रत्येकं गंधपुष्पाद्यैरक्षताद्यैः समर्चयेत् || ओं ह्रैं तत्पुरुषाय नमः इति भस्म || ओं ह्रां ह्रूं ईशानाय नमः वस्त्रं || ओं ह्रें कवचाय हुं उपवीतं || ओं ह्रीं वामदेवाय नमः गंधं || ओं ह्रूं अस्त्राय फट् अक्षतान् || ओं नमः शिवाय पुष्पं | ओं ह्रं नेत्रत्रयाय वौषट् धूपं | ओं ह्रें कवचाय हुं दीपं ओं नमः शिवाय नैवेद्यं | ओं नमः शिवाय पानीयं | ओं ह्रुं हृदयाय नमः सुगंधद्रव्ययुक्तशीतोदकं स्वाहा || ओं नमः शिवाय अनुलेपनं स्वाहा|| ओं ह्रैं तत्पुरुषाय नमः तांबूलं || ओं ह्रौ हं हौं हं सं आभरणं स्वाहा || ओं नमः शिवाय दर्पणं || ओं नमः शिवाय घंटानादं || एवं तत्तन्मंत्रेण पूजां समाचरेत् || अथ दधिस्नानमंत्रः || पृ० ५१) पंचामृतस्नानविधिः ओं दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः || सुरभिनो मुखा करत्प्रण आयू ? षि तारिषत् ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकारभूषिताय सशक्ताय नमः इति दध्ना स्नापयामि || तत्पुरुषेणैव मन्त्रेण जलस्नानं समाचरेत् || ओं तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नो रुद्रः प्रचोदयात् इति जलस्नानं || ततः पूर्वोक्तप्रकारेण पूजां कुर्यात् || अथ घृतस्नानं || ओं शुक्लमसि ज्योतिरसि तेजोसि देवो वः सविता पुना || त्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः || ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकारभूषिताय सशक्ताय नमः इति ओं घृतेन स्नापयामि || अघोरेणैव मन्त्रेण जलस्नानं समाचरेत् ओं अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः नमस्ते अस्तु रुद्ररूपेभ्यः इति जलस्नानं || पूर्वोक्तरीत्या पूजां समाचरेत् || अथ मधुस्नानमंत्रः || ओं मधुवाता ऋतायते मधु क्षरंति सिंधवः || माध्वीर्नः संत्वोषधीर्मधु नक्तमुतोषसि मधुमत्पार्थिवं ? रजः || मधु द्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमा ? अस्तु सूर्यः माध्वीर्गावो भवंतु नः || ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकारभूषिताय सशक्ताय नमः इति मधुना स्नापयामि || वामदेवेन मन्त्रेण जलस्नानं समाचरेत् || ओं वामदेवाय नमो जेष्ठाय नमः श्रेष्ठाय नमो पृ० ५२) रूद्राय नमः कालाय नमः कलविकरणाय नमो बलाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः इति जलस्नानं || ततः पूर्वोक्तरीत्या पूजां कुर्यात् || अथ शर्करास्नानमंत्रः || ओं भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि || धियो यो नः प्रचोदयात् || ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकारभूषिताय सशक्ताय नमः इति शर्करास्नानं समर्पयेत् || सद्योजातेन मंत्रेण जलस्नानं समाचरेत् || ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः || भवे भवेनातिभवे भवस्व मां भवोद्भवाय नमः इति शुद्धोदकस्नानमाचरेत् || ततः पूर्वोक्तरीत्या पूजां कुर्यात् || ओं याः फलिनीर्याऽअफला अपुष्पायाश्च पुष्पिणीः || बृहस्पतिप्रसूतास्ता नो मुंचन्त्वं ? हसः || ओं सांगाय सायुधाय सपरिवाराय सवाहनाय सर्वालंकारभूषिताय सशक्तये नमः इति फलोदकेन स्नापयामि || त्रियंबकेन मंत्रेण जलस्नानं समाचरेत् || त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनम् || उर्वारुकमिव बंधनान्मृत्योर्मुक्षीयमामृतात् इति शुद्धोदकस्नानं || ततः पूर्वोक्तरीत्या पूजां कुर्यात् || यवगोधूमचूर्णेन मुद्गचूर्णेन घर्षयेत् || मयि मेधामिति मंत्रेण कोष्णेनैव च वारिणा || लिंगं संस्नाप्य सद्भक्त्या विशेषेण शिवार्चकः || अथ मंदोष्णोदकमंत्रः|| मयि मेधां मयि प्रजां मययग्निस्तेजो दधातु इति मंत्रेण मंदोष्णोदकस्नानमाचरेत् || ततः ओं ह्रों ईशानाय नमः गंधोदकेन स्नापयामि || ओं ह्रैं तत्पुरुषाय पृ० ५३) कलशपूजन विधिः नमः इति पुष्पोदकं स्वाहा || ओं ह्रूं अघोराय नमः इति स्वर्णोदकेन स्नापयामि, ओं ह्रीं वामदेवाय नमः रत्नोदकेन स्नापयामि, ओं ह्रां सद्योजाताय नमः मूलमंत्रोदकेन स्नापयामि || ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति नारिकेलोदकेन स्नापयामि || ततस्तीर्थोदकाभिषेकविधिः || (अथ कलशध्यानमन्त्रः) कलशस्य मुखे रुद्रः कंठे विष्णुः समाश्रितः || मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः || १ || कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा || शेषास्तु देवताः सर्वाः कलशं तु समाश्रिताः || २ || सर्वाब्धिसलिलं सर्वतीर्थानि शुभदानि च इति ध्यानं || ततः (आवाहनमन्त्रः) गंगे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु || ततः पूर्वोक्तमोमाप इति मन्त्रेण जलमभिमन्त्र्य भस्मगंधादिना कलशमर्चयेत् || (कलशप्रमाणम्) (कारणागमे) स्नपने चरलिंगस्य पंचाढकमितं जलं || पंचप्रस्थमितेनापि स्नापयेद्गुरुसत्तमः || २१ || आत्मार्थं चरलिंगं च स्थिरलिंगं परार्थकम् || तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः || २२ || प्रमाणमंगुलं प्रोक्तमेतदंगुललक्षणम् || पृ० ५४) षडंगुलं तु विस्तीर्णं द्वादशांगुलमायतम् || २३ || प्रस्थप्रमाणमित्युक्तं वेदशास्त्रविशारदैः || कुंभं तु गंधपुष्पाद्यैर्देशिकः सम्यगर्चयेत् || २४ || शिवकुंभस्थतोयेन चाभिषिंचेच्छिवं गुरुः || प्राणप्रकृतियोगं तु ज्ञात्वा स्थापनमाचरेत् || २५ || प्राणो मंत्र इति प्रोक्तः प्रकृतिर्मूर्तिरुच्यते || प्राणं प्रकृतिमूर्तिं च ज्ञात्वा स्थापनमाचरेत् || २६ || मंत्रमूर्त्योश्च संयोगे शिवसांनिध्यकारणम् || प्राणप्रतिष्ठामंत्रांश्च कलावर्णान् तथा न्यसेत् || २७ || या कला परमा सूक्ष्मा मंत्राणां बोधिनी परा || तामाकृष्य यथान्यायं लिंगे समुपविन्यसेत् || २८ || मूलेन शिवहस्तं तं निदद्याच्छिवमस्तके || ओं अयं मे हस्तो भगवानिति नादबिंदुकलाविद्वान् तत्तत्स्थानेषु विन्यसेत् || २९ || नादं लिंगमिति प्रोक्तं बिंदु शक्तिरुदाहृता || कला तु गोमुखं चैव स्थानमित्यभिधीयते || ३० || अथ षडंगन्यासः || ओं ह्रां हृदयाय नमः || ओं नं ह्रीं शिरसे स्वाहा || ओं मं ह्रूं शिखायै वौषट् || ओं शिं ह्रैं कवचाय हुं, ओं वां ह्रौं नेत्रत्रयाय वौषट् || पृ० ५५) पंचाक्षरमंत्रस्वरूपम् ओं यं ह्रः अस्त्राय फट् इति षडंगमंत्रः || ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति शिवांगमंत्रः || ओं ह्रं ह्रौं हं सं इति पंचप्रसारमंत्रः || नमः शिवायेति पंचाक्षरमंत्रः || ओं नमः शिवायेति मूलपंचाक्षरमंत्रः || ओं ह्रां ह्रीं ह्रूं नमः शिवायेति स्थूलपंचाक्षरमंत्रः || ओं ह्रीं नमः शिवायेति सूक्ष्मपंचाक्षरमंत्रः || ओं ह्रीं ह्रूं नमः शिवायेति मायाख्यपंचाक्षरमंत्रः || ओं ह्रां ह्रीं ह्रूं ह्रैं नमः शिवायेति प्रसादपंचाक्षरमंत्रः || ओं ह्रः अनंतशक्तिधाम्ने ज्योतीरूपाय शिवास्त्राय फट् इति शिवास्त्रमंत्रः || ओं आं ईं ऊं व्योमव्यापिने व्योमास्त्राय फडिति व्योमास्त्रमंत्रः || ओं पशु हं फडिति पाशुपतास्त्रमंत्रः पूर्वोक्तकलान्यासेन सह लिंगमध्येऽनुसंदध्य || सप्तकोटिमहामंत्रैर्मंत्रितं लिंगमुच्यते || मंत्रस्तु देवतारूपं मंत्ररूपमयः शिवः || ३१ || कर्षणादिक्रियाः सर्वा मंत्रेणैव प्रकीर्तिताः || ज्ञात्वा समर्चयेन्मंत्री चान्यथा निष्फलं भवेत् || ३२ || ततः प्राणप्रतिष्ठापनमंत्रः || ओं प्राणप्रतिष्ठामंत्रस्य ऋग्यजुःसामाथर्वणानि छंदांसि सकलजगत्सृष्टिकरी प्राणशक्तिर्देवता अं बीजं पृ० ५६) ह्रीं शक्तिः क्रौं कीलकं सकलमंत्रप्रतिष्ठार्थे अस्मिन् देशे विनियोगः || ओं इं ईं झं जं छं चं शं ऊर्ध्वकेशिनी शिरसे स्वाहा, श्रोत्रनेत्रघ्राणत्वक्जिह्वात्मने अं णं ढं डं ठं टं उं जंटिनी शिखिनी पद्मांतर्वर्तिनी शिखायै वौषट्, वाक्पाणिपादपायूपस्थात्मने ओं ऐं नं धं दं थं तं त्रैलोक्यवर्तिनी मायाकवचाय हुं वचनागमनादानविसर्गानंद ओं पृथिव्यप्तेजोवायवा काशात्मने ओं अं जिं घं खं कं आं संजीवनीहृदयाय नमः शब्दस्पर्शरूपरसगंधात्मने ओं ओं मं भं बं फं पं ओं अंतरिक्षाणि नेत्रत्रयाय वौषट्, मनोबुद्ध्यहंकारचित्तात्मने ओं क्षं ?ं हं सं षं शं वं लं रं यं मारणी अस्त्राय फट्, अं ह्रीं क्रों यरलवशषस हो हं क्षं सहोत्तीर्णः इह प्राणः अमुष्य जीवः इह जीवः अमुष्य स्थितिः अमुष्य सर्वेंद्रियाणि अमुष्य मनश्चक्षुजिह्वाघ्राणत्वक्प्राणाअग्निर्वायुस्तिष्ठंतु स्वाहा अनेन मंत्रेण प्राणप्रतिष्ठां कृत्वा (ततो मातृकाक्षरन्यासः) अकाराकारौ मूर्ध्नि ललाटे | इकारेकारौ दक्षिणवामनेत्रयोः | उकारोकारौ दक्षिणवामश्रोतयोः | ऋकारृकारौ दक्षिणवामकपोलयोः | ऌकारऌल्कारौ दक्षिणवामनासापुटयोः एकारैकारौ ऊर्ध्वाधरोष्ठयोः | ओकारौकारौ ऊर्ध्वाधो दंतपंक्त्योः | अं अः तालुनोः | कादिपंचाक्षराणि दक्षिणहस्तपंचांगुलिषु | चादिपंचाक्षराणि वामकरांगुलिषु तादि पंचाक्षराणि दक्षिणवामपादांगुलिषु | पृ० ५७) हरावयवपूजनविधानम् पकार उदरे | फकारबकारौ दक्षिणवामपार्श्वयोः | भकारः स्कंधे | मकारो हृदि | यकारादिसकारांतानि अक्षराणि त्वगादिसप्तधातुषु | हकार आत्मनि | क्षकारः पूजकानां जन्मादिरिपुविषयकक्रोधे | अनेन प्रकारेण लिंगमध्ये इमानि मातृकाक्षराणि स्मरेत् | ततः स्नानम् || ओं ह्रां हृदयाय नमः अनेन मंत्रेण अर्घ्यं पाद्यमाचमनीयं दद्यात् || ततः पूर्वोक्तरीत्या पूजां कृत्वा तत्तन्मंत्रेण पूजाद्रव्याणि समर्पयेत् || ततः अवयवपूजनं || ओं हराय नमः पादौ पूजयामि || शंभवे नमः गुल्फौ पूजयामि || शुभाय नमः जानुनी पूजयामि || सर्वनिवासाय नमः ऊरू पूजयामि || सर्वाश्रयाय नमः कटिं पूजयामि || सर्वरक्षाय नमः जघनं पूजयामि || दिग्वाससे नमः मध्यं पूजयामि || नक्षत्रमालिने नमः नाभिं पूजयामि || सर्वेश्वराय नमः कुक्षिं पूजयामि || उमाकांताय नमः वक्षःस्थलं पूजयामि || नीलकंठाय नमः कंठं पूजयामि || त्रिपुरसंहाराय नमः बाहून् पूजयामि || शंकराय नमः करान् पूजयामि || वृषाय नमः बहिः कंठं पूजयामि || पृ० ५८) क्रतुफलदायिने नमः मुखं पूजयामि || नागहाराय नमः नासिकां पूजयामि || इंद्वर्कवह्निनेत्राय नमः नेत्राणि पूजयामि || कपालिने नमः ललाटं पूजयामि || फणिकुंडलाय नमः कर्णौ पूजयामि || गंगाधराय नमः जटाः पूजयामि || सोमभूषणाय नमः कपर्दं पूजयामि || शुभदाय नमः सर्वांगं पूजयामि || इति पूजनं (ततः पुष्पसमर्पणं) भवाय देवाय नमः, शर्वाय देवाय नमः, रुद्राय देवाय नमः, पशुपतये देवाय नमः, उग्राय देवाय नमः, महते देवाय नमः, भीमाय देवाय नमः, ईशानाय देवाय नमः, अनेन मंत्रेण शिवाष्टोत्तरनामभिर्वा सहस्रनामभिर्वा पुष्पाणि समर्पयेत् || (अथ दशांगलक्षणं) कालागरुर्गंधसारो गुग्गुलश्च सितागरुः || लाक्षाबिल्वफलं सर्पिर्मधुसर्जरसः शशी || ३३ || साधनानि दशांगानि धूपस्य चतुरानन इति || ओं ह्रां नेत्रत्रयाय वौषट् इति धूपं स्वाहा, ओं ह्रैं कवचाय हुं इति दीपं स्वाहा, ओं नमः शिवाय इति मंत्रेण स्वाहान्तया पताकमुद्रया च नैवेद्यं स्वाहा, ओं नमः शिवाय इति पानीयं स्वाहा, ओं हृदयाय नमः इति आचमनीयं स्वाहा, ओं नमः शिवाय इति अनुलेपनं स्वाहा, ओं ह्रैं तत्पुरुषाय नमः इति तांबूलं स्वाहा, पृ० ५९) शिवप्रार्थनाप्रकारवर्णनम् ओं ह्रं ह्रौं ह्रं ह्रौं हं सं इति मंत्रेण आभरणं स्वाहा, ओं नमः शिवाय इति मंत्रेण दर्पणं दर्शयेत्, चामरान्वीजयेत्, (शंकरसंहितायां) लौकिकैर्वैदिकैः स्तोत्रैश्शिवं स्तूयात्स्वशक्तितः || शंखमुद्रां प्रदर्श्याथ चावयोः सिद्धिरस्त्विति || प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थिरो भव || ३४ || एवं विज्ञाप्य देवेशं दद्यात्पुष्पांजलिं तथा || अपराधसहस्राणि क्रियंतेऽहर्निशं मया || ३५ || पाहि मामपराधेभ्यः पिता पुत्रमिव प्रियं || इति मंत्रपुष्पाणि दत्वा || ततः || पूजाफलं च यत्सर्वमुदकेन प्रदापयेत् || ३६ || अंजलिं दक्षिणं हस्तमाकुंचच्चतुरंगुलिं || पुष्पं वारि गृहित्वा कनिष्ठायाः स्रावयेद्भुवि || ३७ || चुलकोदकमेतत्स्यात्स्वात्मनः पादमूलतः || ३८ || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणं नाम सप्तमोऽध्यायः || पृ० ६०) || श्रीगुरुभ्यो नमः || अथ अष्टमोऽध्यायः| शिष्यस्य हस्तपूजां च हस्तमस्तकयोस्तथा || संयोगमेव षट्चक्रस्थापनं तु तथैव च || १ || क्रमं मंत्रोपदेशस्य प्रवक्ष्यामि च तद्यथा || लिंगधारणस्थानानि स्नानं चैवाघमर्षणं || २ || वामांगुष्ठेन गंधेन मंडलं दक्षिणे करे || कृत्वा तत्रार्चयेदीशमासनांगादि संयुतम् || ३ || शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् || अयं मे हस्तो भगवानयं मे भगवत्तरः || अयं मे विश्वभेषज अयं शिवाभिमर्शनः || अयं माता अयं पिता अयं जीवातुरागमत् || इदं तव प्रसर्पणं सुबंधवेहि निरहि || आदौ पंचाक्षरणैव मंत्रेण त्वभिषेचयेत् || पुष्पगंधाक्षताधूपदीपनैवेद्यमंत्रकैः || ४ || हस्तमस्तकसंयोगच्छलाद्वेदेति गीयते || शिवहस्तं विधायाथ शिष्यस्य शिरसि न्यसेत् || ५ || करात्मदेशे तन्मंत्रमंगुष्ठेनैव मूर्धनि || कर्तृनाम समांगुल्यः कर्मनाम करद्वयं || ६ || गंधपुष्पधूपदीपनैवेद्यतांबूलादि समर्पयेत् || ततः आधारादिषट्चक्रदलेष्वक्षराणि स्थापयेत् || सद्योजातं पृथिवीतत्वं नकारबीजं चतुर्दलं ब्रह्माधिदैवतं आचारलिंगं आधारचक्रं गुदे स्थापयेत् || पृ० ६१) आधारचक्रस्थानादिवर्णनम् वामदेवं आप्तत्वं मकारबीजं विष्ण्वधिदैवतं षड्दलं गुरुलिंगं स्वाधिष्ठानचक्रं लिंगस्थाने भमयरलव इत्यक्षराणि स्थापयेत् || अघोरं तेजस्तत्वं शिकारबीजं शिवलिंगं दशदलं रुद्राधिदैवतं मणिपूरकं नाभिस्थाने स्थापयेत् || तत्पुरुषं वायुतत्वं वकारबीजं ईश्वराधिदैवतं द्वादशदलं चरलिंगं कादिठांतं अनाहतचक्रं हृदये स्थापयेत् || ईशानं आकाशतत्वं यकारबीजं सदाशिवाधिदैवतं षोडशदलं प्रसादलिंगं आदि षोडशस्वर विशुद्धिचक्रं कंटे स्थापयेत् || आज्ञाचक्रं द्विदलं प्रणवबीजं महालिंगं मनस्तत्वं श्रीगुरुहंक्षमात्मकं भ्रूमध्ये स्थापयेत् || गुरुणोदीरितः कर्णे योऽसौ मंत्रश्च कथ्यते || बीजं वर्णं स्वरं शक्तिं क्रमादुपदिशेद्गुरुः || ७ || नकारः पृथिवी ज्ञेया मकारस्त्वाप इष्यते || शिकारोऽग्निरिति प्रोक्तो वकारो वायुरुच्यते || आकाशो हि यकारःस्यात्पंचाक्षर इति स्मृतः || ८ || स तु बद्धांजलिः शिष्यो मंत्रे तत्परमानसः || शनैर्व्यवहरेच्छिष्यः शिवाचार्यस्य शासनात् || ९ || मंत्रैश्च परिपूतस्य लिंगं दर्शयते गुरुः || तस्माच्छिष्योऽथ भो देवि लिंगायित इति स्मृतः || १० || पृ० ६२) यस्य पाशान्सुकर्तर्या छित्वा लिंगं समादिशेत् || कर्तरी ज्ञानशक्तिः स्याद्यया पाशांश्छिनत्यसौ || ११ || ज्ञानेन पूतदेहे वै शिष्ये लिंगं नियोजयेत् || पीठस्थे शिवलिंगे तु शिष्यप्राणान् निधापयेत् || १२ || लिंगं संस्थाप्य तत्प्राणे प्राणलिंगं भवेत्ततः || प्राणे लिंगं समाहृत्य चैकीभावं समाचरेत् || १३ || त्रिलिंगं स्थापयेच्छिष्य प्राणलिंगमिदं तव || एवमुक्त्वा सदा लिंगं न कदाचिद्वियोजय || १४ || उत्तमांगे गले वापि कक्षे वक्षःस्थलेऽपि वा || तथा हस्तस्थले वापि प्राणलिंगं धरेत्सुधीः || १५ || न त्यजैतत्सदा वत्स यावज्जीवमिदं व्रतम् || यजस्व देवदेवेशं परया निजनिष्ठया || पाशबंधविमोक्षाय मुक्तिदं सर्वकारणम् || १६ || कलशोदैश्च तीर्थैश्च ऋत्विग्भिः स्नापयेद्गुरुः || उद्धृत्य पंच कलशान्स्थापयेच्च पुनः पुनः || १७ || अथवा कलशस्थानि तीर्थानि च स्वयं गुरुः || दूर्वांकुरैश्चामूर्धपादं शिष्यस्य सिंचयेत् || १८ || इत्थं त्रिवारमाचार्यः कृत्वा तस्याघमर्षणम् || तत्काले स गुरुस्तस्य मूलमंत्रं समादिशेत् || १९ || गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि || पृ० ६३) गुरुप्रसादफलवर्णनम् शिवतत्वं समायाति न पुनर्भवतां ब्रजेत् || २० || यथा शुक्तिगतं तोयं मौक्तिकं जायते ध्रुवम् || न पुनस्तोयतां याति मौक्तिकत्वं न मुंचति || एवं स शिवतां याति न पुनः पशुतां ब्रजेत् || २१ || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे हस्तपूजाहस्तमस्तकसंयोगषट्चक्रस्थापनमन्त्रोपदेशलिंगधारणस्था नाघमर्षणस्नानलक्षणं नामाष्टमोऽध्यायः || पृ० ६४) || श्रीगुरुभ्यो नमः || अथ नवमोऽध्यायः | गुरुबोधक्रमं चाथ गुरुदक्षिणलक्षणम् || वक्ष्यामि तद्यथा सम्यक् शृणु यत्नपुरःसरम् || १ || वीरमाहेश्वरं धर्मं क्रमादुपदिशेद्गुरुः || २ || श्हिवराघवसंवादे गच्छंस्तिष्ठंन्स्वपन्जाग्रन्नुन्मिषन्निमिषन्नपि || शुचिर्वाप्यशुचिर्वापि लिंगं सर्वत्र धारयेत् || ३ || सर्वेषां शिवचिह्नानां शिवलिंगं प्रशस्यते || तस्मात्तदेव धार्यं हि पूजनीयं विशेषतः || ४ || नाभौ च हृदये मूर्ध्नि सर्वावस्थासु सर्वदा || श्रीलिंगधारणं कुर्याद्देवि नित्यं मम प्रियः || ५ || धारयेद्यस्तु हस्तेन लिंगाकारं शिवं सदा || वक्त्रे वा धारयेन्नित्यं मत्प्रभावं विभावयेत् || ६ || मस्तके धारयेच्छिष्यो ब्रह्माद्यैर्मस्तके धृतं || विन्यसेन्मुकुटस्यांते धारणं शुभमुच्यते || ७ || नाभेरधस्तात्सततं प्रमादान्नैव धारयेत् || कदाचिद्धारयेद्यस्तु पापात्मेति स उच्यते || ८ || नाभेरूर्ध्वं लिंगधारी ज्ञानसौभाग्यवर्धनः || कंठेषु हरकंठादिमुनयो मनवस्तथा || सर्वदा शिवलिंगं तु धारयंत्यर्चयंति च || ९ || पृ० ६५) लिंगधारणस्थानविशेषकथनम् (पारमेश्वरतंत्रे दीक्षाप्रकरणे पंचमपटले) मोक्षार्थिनः शिखादेशे बाहुमध्ये तु धर्मिणः || कामार्थिनः कटीदेशे कंठे सर्वार्थिनः प्रिये || १० || अष्टोत्तरशतं जप्त्वा मम मूलमहामनुं || आबध्नीत गुरूर्लिंगं देहे शिष्यस्य यत्नतः || ११ || न पैशून्यं न मात्सर्यं न द्रोहं नापि पीडनम् || न स्पृशेदशुभं क्वापि प्राणैः कंठगतैरपि || १२ || ब्रह्मा विष्णुस्तथा शक्रः लोकपालाश्च देवताः || धारयंत्यलिकाग्रेषु शिवलिंगमहर्निशम् || १३ || अक्षपादादयस्सर्वे शक्तयस्सर्वदा मुदा || धारयन्त्यलिकाग्रेषु शिवलिंगमहर्निशं || १४ || विनिर्भिद्य तथा गात्रं विवरे लोहपात्रके || शिवलिंगं विनिक्षिप्य पूजयंति हि राक्षसाः || १५ || अतिधीरेण मनसा यावज्जीवं जगद्गुरोः || शिवस्य लिंगं यो धत्ते तदेव परमं व्रतम् || १६ || पुष्पस्य सुरभिर्यद्वत्तद्वद्देहस्य लिंगकं || लिंगभेदान्महापापं तस्मात्पीठार्चनं नहि || १७ || दीक्षाकाले तु गुरुणा दत्तं लिंगं गतं यदि || प्रमादादेव स पुमांस्त्यजेद्देहं च तत्क्षणात् || १८ || पुनर्दीक्षा न कर्तव्या यथा कन्या दृढव्रता || १९ || (वीरतंत्रे) सती सुतश्च भृत्यश्च दासी गोपस्तथैव च || पृ० ६६) एते लिंगांगिनः श्रेष्ठाश्चान्ये चांडालवन्मताः || २० || विशब्दोऽत्र विकल्पार्थो रशब्दो रहितार्थकः || विकल्परहितं शैवं वीरशैवमिति स्मृतम् || २१ || एकमेवाद्वितीयं यदविकल्पं परं पदं || तद्वीरशैवमित्युक्तमितरत्सविकल्पकम् || २२ || यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनःप्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || २३ || (आदित्यपुराणे) (शिवषण्मुखसंवादे) भक्तिरष्टविधा स्कंद सर्वशास्त्रेषु पठ्यते || तामहं कथयिष्यामि भक्तिं भवविनाशिनीम् || २४ || मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् || स्वयमभ्यर्चनं भक्त्या मदर्थे चांगचेष्टनम् || २५ || मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रिया || मदनुस्मरणं नित्यं सर्वदा मययकैतवम् || २६ || भक्तिरष्टविधा ह्येषा यस्मिन्म्लेंछेऽपि वर्तते || स विप्रेंद्रो मुनिः श्रीमान्स यतिः स च पंडितः || २७ || तस्मै दानं सदा देयं स नरो मादृशः स्मृतः [स नरोऽहं यथा स्मृतः] || मद्भक्तः सर्वदा स्कंद श्वपचोऽपि मम प्रियः || २८ || न तस्मादधिकः कश्चिद्विद्यते पात्रमुत्तमम् || पृ० ६७) शिवभक्तमाहात्म्यातिशयकथनम् स्मृत्याचारविहीनोऽपि वर्णाश्रमविवर्जितः || २९ || भक्तिलेशयुतः स्कंद म्लेंच्छः स च गुणाधिकः || मार्गस्थो वाप्यमार्गस्थो मूर्खों वा पंडितोऽपि वा || ३० || मम भक्तो यदि भवेत्सर्वस्मादधिकश्च सः [सर्वस्मादीधको भवेत् ||]|| मद्भक्तानां च माहात्म्यं को वा जानाति तत्त्वतः || जानेऽहं त्वं च जानासि नंदी जानाति वा न वा || ३१ || श्रुतिः || अपि वा यश्चांडालः शिवेति वाचं वदेत्तेन सह संवदेत्तेन सह संवसेत्तेन सह भुंजीत इति || (पाराशरपुराणे) शिवेति वाचं यो नित्यं चांडालोऽपि वदेन्मुदा || तेन साकं वदेद्वाचं तेन साकं वसेत्सदा || ३२ || (पद्मपुराणे शिवराघवसंवादे) शिवेति मंगलं नाम यस्य वाचि प्रवर्तते || सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति || ३३ || वदेत्तेन वसेत्तेन विशेत्तेन पुनः पुनः || तेन साकं च भुंजीतेत्याह सामश्रुतिः खलु || ३४ || देवाः षोडश लक्षाणि नव लक्षाणि मानुषाः || दशभिर्दशभिस्तद्वज्जलजा विहगा मृगाः || ३५ || सरीसृपास्तु लक्षाणि चैकादश चरेतरे || अष्टौ च दश लक्षाणि सप्तजन्मान्यमूनि वै || ३६ || पृ० ६८) (आदित्यपुराणे नारदब्रह्मसंवादे) ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यंत्यजातिजः || शिवभक्तस्सदा पूज्यः सर्वावस्थां गतोऽपि वा || ३७ || कर्मणा मनसा वाचा यस्तु भक्तान्विनिंदति || निरयान्निष्कृतिर्नास्ति तस्य मूढात्मनो मुने || ३८ || दर्शनाच्छिवभक्तानां सकृत्संभाषणादपि || अतिरात्रस्य यज्ञस्य फलं भवति नारद || ३९ || (लिंगसारे) लिंगार्चनरता नारी रजस्सूतकसंयुता || रविरग्निर्यथा वायुस्तेभ्यः कोटिशुचिर्भवेत् || ४० || यथा विश्वेशनिकटाद्गंगा सूतकवर्जिता || तथा लिंगांकिता भक्ताः पंचसूतकवर्जिताः || ४१ || शिवं गुरुं सदाकालं पूजयेज्जीवितावधि || शिवं गुरुं च तच्छास्त्रं न निंदेत्साधकस्तथा || ४२ || गुरोर्लिंगस्य हर्म्यस्य प्रतिच्छायं न लंघयेत् || एकासने नोपविशेद्गुरुणा सह जातुचित् || ४३ || प्रायश्चित्तं न तस्यास्ति पापं गुरुतरं हि तत् || विनोदोज्वलवेषं च पर्यंकं दंतधावनम् || ४४ || किंचिच्चेष्टाविकारं च पादप्रक्षालनं तथा || तद्वाक्यप्रतिकूलं च न कुर्याद्गुरुसंनिधौ || ४५ || (शिवरहस्ये) पुत्रकर्मविवाहादि तत्सर्वं च स्वकर्मभिः || पृ० ६९) अन्यदेवतापूजानिषेधकथनम् कर्तव्यं शिवभक्तैश्च यथा लोके स्वजातिभिः || ४६ || या तु कन्या स्वपित्र्याद्यैः शिवकर्मणि योजिता [शिवधर्मे नियोजिता]|| सा भक्ताय प्रदातव्या नाभक्ताय [नापराय] विरोधिने || ४७ || दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिं || अशक्त्या तं परित्यज्य मनसा धर्ममाचरेत् || ४८ || भविना शयनाद्यानात् संपर्कात्सहभोजनात् || संचरंति महाघोरे नरके कालमक्षयं || ४९ || पंचाक्षरोपदेशी च नरस्तुतिकरो यदि || सोऽलिंगी स दुराचारी कुकविः स तु विश्रुतः || ५० || उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रयेत् || आरूढपतितो ज्ञेयः सर्वकर्मबहिष्कृतः || ५१ || (ब्रह्मगीतायां) शिवपूजापरो भूत्वा योऽन्यं देवमनुस्मरेत् || अष्टाविंशतिकोट्यन्तनरकं याति स ध्रुवं || ५२ || (लिंगसारे) लिंगार्चनैकशरणो योऽन्यं देवं तु बंदते || नायकं नरकं गत्वा तिर्यग्योनिषु जायते [शुनां गर्भेषु जायते]|| ५३ || शिवभक्तं समालोक्य दूरादेवात्र भक्तितः || प्रांजलिः प्रणतो भूत्वा तोषयेद्दानभोजनैः || ५४ || पृ० ७०) शंभोर्नैवेद्यकं शुद्धमन्योच्छिष्टं तु मिश्रितम् || तद्गृहं शिवभक्तानां वर्जनीयं प्रयत्नतः || ५५ || यद्गृहेष्वन्यदेवोऽस्ति तद्गृहाणि परित्यजेत् || यद्गृहेषु भविप्राप्तिस्तद्गृहाणि परित्यजेत् || ५६ || स्थावरं जंगमं चेतिद्विविधं लिंगमुच्यते || जंगमस्यावमानेन स्थावरं निष्फलं भवेत् || ५७ || सम्यग्गुरुं शिवं ज्ञात्वा नित्यं तत्पूजनं बुधः || यः करोत्युभयः कायः शिवैका श्रय एव सः || ५८ || मानुषं लोकमाश्रित्य त्रिधा भवति शंकरः || आचार्यो लिंगनामा च चरदेवो महेश्वरः || ५९ || गुरौ लिंगे जंगमे च भक्तिभावनपूजनैः || समताभाजनं यस्य तद्भवेत् त्रिविधं स्थलम् || ६० || सर्वदा च गुरौ भक्तिर्लिंगजंगमपूजनम् || एकपत्नीव्रतं वीरमाहेश्वरमहाव्रतम् || ६१ || (शिवसूत्रे) कनिष्ठा मद्गता पूजा मध्यमं गुरुपूजनम् || उत्तमं जंगमस्येति विशिष्टं समयार्चनम् || ६२ || (शैवरत्नाकरे) शिवो यथा तथा भक्तो यथा भक्तस्तथा शिवः || तस्मात्सर्वप्रयत्नेन दीक्षितान्याजयेद्बुधः || ६३ || एवं सुसंमतः शिष्यो गुरुपूजां समाचरेत् || वस्त्रालंकाररत्नादिदक्षिणाभिर्विशेषतः || ६४ || पुत्रदारादिसंयुक्तमात्मानं सपरिग्रहम् || पृ० ७१) गुरुदक्षिणाक्रमकथनम् पुष्पाक्षतजलोपेतं गुरवे स्वं समर्पयेत् || ६५ || शिष्यस्तु दक्षिणां दद्यादाचार्याय स्वशक्तितः || यथोपदिष्टमार्गेण कुर्यात्सन्मानमृत्विजाम् || ६६ || इत्याद्या बहवो ज्ञेयाः संति ये च शिवागमे || आयुरारोग्यतां याति कीर्तिं च विमलां भुवि || ६७ || श्रीकंठस्य तया प्राप्तिं समवाप्नोति दीक्षितः || ६८ || इति श्रीवीरशैवाचारप्रदीपिकायां दीक्षाप्रकरणे गुरुबोधगुरुदक्षिणालक्षणं नाम नवमोऽध्यायः || पृ० ७२) || श्रीगुरुभ्यो नमः|| अथ दशमोऽध्यायः | गुरुशुश्रूषणं वक्ष्ये तद्यथा शृणु यत्नतः || ततः कुर्वीत शुश्रूषां सद्भक्त्याऽहरहर्गुरोः || १ || शुश्रूषायाः क्रमं चाथ शृणुष्व चतुरानन || मनस्यविरतं सम्यग्गुरोराकारचिंतनम् || २ || शुश्रूषोपायता काचित् हृच्छुश्रूषेत्युदाहृता || देव किं कर्म कर्तव्यं तदेवेत्युत्तरं पुनः || ३ || एवमादिप्रियोक्तिश्च सा वाक् शुश्रूषिका स्मृता || समीपे वापि दूरे वा स्वशरीरनिवेदनम् || ४ || गमनागमनायासैः स्वभावानंदनैस्तथा || प्रदक्षिणनमस्कारान्सम्यक् पादावनेजनम् || ५ || पयसाज्येन दध्ना वा लब्धेनांघ्रिप्रपूजनम् || ततः सूक्ष्मैर्मुद्गचूर्णैरुष्णेन सलिलेन च || ६ || प्रक्षाल्य शुद्धवस्त्रेण तदूर्ध्वोदकमार्जनम् || ७ || शययासंस्तरणं कृत्वा केशान्संमार्जयेन्नखैः || तैलाभ्यंगक्रियाश्चाथ स्नानकर्म यथा शुभम् || ८ || श्रीखंडलेपनं पुष्पमालिका चारुबंधनम् || शौचार्थं मृज्जलादीनि दंतकाष्ठप्रदापनम् || ९ || पूजास्थानानुलेपं च गोमयेन सवारिणा || पूजायै जलपुष्पाणि तत्र योग्यानि विन्यसेत् || १० || पृ० ७३) गुरुशुश्रूषालक्षणम् एवमादीनि चान्यानि गृहकर्माणि यानि वै || एतैः कृता च सा सेवा कायिकेत्यभिधीयते || ११ || धान्यस्वर्णपशुक्षेत्रदासीदासांबराणि च || पर्यंकभूषणान्यत्र त्रिपादचषकानि च || १२ || चंदनान्यनुलेपोक्तद्रव्याणि सुरभीणि च || केशानुलेपद्रव्याणि कस्तूर्यादीनि यानि च || १३ || तुरंगमगजांदोलस्यंदनानि शुभानि च || तेषां प्रदानं सद्भक्त्या घनशुश्रूषिका स्मृता || १४ || द्रव्यसामर्थ्यसंपन्नो यः कश्चिच्छिष्यकस्सदा || सर्वशुश्रूषिकां कुर्यात्स गुरोरेवभक्तितः || १५ || न्यायार्जितं स्थितं स्वर्णमुख्यं यद्व्यावहारतः || तदेव द्रव्यं गुरवे दद्याद्दाने हि तद्वरं || १६ || अन्यायेन यदानीतं पुरुषेण तु केन चित् || न दद्याद्गुरवे तत्तु रत्नं स्वर्णमपि क्वचित् || १७ || नूतनं सदृढं स्निग्धं धवलं नेत्रवल्लभम् || दद्यादाच्छादनं भक्त्या गुरवे सर्वदा बुधः || १८ || + विशीर्णं स्फुटितं दग्धं प्राक्तनं स्वधृतं पुरा || + दष्टं कीटादिभिर्वस्त्रं न दद्याद्गुरवे बुधः || १९ || परुषं दुष्क्रियायुक्तं नीलसूत्रविनिर्मितम् || पट्टवस्त्रेतरं वस्त्रं सुजीर्णं न प्रदापयेत् || २० || पट्टदेवांगचीनानि वासांस्यन्यानि यानि च || चित्राणि दद्यान्नृपतिरितरो वा धनाधिपः || २१ || पृ० ७४) गुरोः प्रियाणि द्रव्याणि यानि कानि चिदन्वहं || तानि भक्त्या प्रदेयानि शिष्येण सुलभानि वै || २२ || दरिद्रश्च स्वयं शिष्यः प्रतिसंवत्सरं यजेत् || वासः प्रावरणार्थाय दद्यात्तन्नेत्रवल्लभम् || २३ || गुरुं स्वगृहमायांतं दृष्ट्वा भक्तियुतो नृपः || तस्मै दत्वासनं नत्वा चाग्रे तिष्ठेदनुज्ञया || २४ || आचार्यचरणद्वंद्वप्रक्षालितजलं सदा || यः पिबेद्धारयेद्भक्त्या सर्वपापैः प्रमुच्यते || २५ || चंदनं चाक्षतं पुष्पं स्वर्णं तांबूलमंबरम् || पात्रे विधाय गुरवे शिष्यो दद्यात्स्वपाणिना || २६ || संभोजयित्वा स्वगुरुं पश्चाद्भुंजीत बुद्धिमान् || गुरोः पुरस्ताद्यो भुंक्ते गुरुद्रोही न संशयः || २७ || यानि भक्त्या च नूत्नानि कंदमूलफलानि च || अपूपान्यपि चान्यानि गुरोः पूर्वं न भक्षयेत् || २८ || शिष्येण भोजनात्पूर्वं न भोक्तव्यं कदाचन || भोजनानंतरेऽश्नीयात्स्वगुरोर्यः स पुण्यभाक् || २९ || यो भक्त्या गुरुणा भुक्तं पात्रस्थं न च मुंचति || स भोक्ता सर्वदुरितैर्मुच्यते नात्र संशयः || ३० || तांबूलमुत्तमं तस्मै ततः पात्रेण दापयेत् || पश्चादिष्टानि वस्तूनि दत्वा नत्वा समापयेत् || ३१ || पृ० ७५) गुरुपूजालक्षणम् प्रदत्तं च स्वगुरुणा तांबूलं परिचर्वितम् || शिष्यस्तद्भक्षयेद्भक्त्या शुद्धांतःकरणो भवेत् || ३२ || शुभकार्येषु सर्वेषु विवाहादिषु भक्तितः || गुरुमभ्यर्चयेच्छिष्यो वस्त्रहेमादिभिस्तदा || ३३ || तत्रापि च सभापूजाविधेः पूर्वं गुरुं यजेत् || ततः सभां यजेद्योग्यः क्रमेणैव यथा शुभम् || ३४ || सभांतरे गुरुं धीमान् कदाचिदपि नार्चयेत् || आसनस्थां विशोध्यांघ्री गंधपुष्पाक्षतैर्यजेत् || ३५ || ततोर्पयेत्स्वगुरवे वस्त्रहेमांगुलीयकान् || दरिद्रश्चोदितेष्वेषु यथाशक्तित्ववंचयन् || ३६ || एवमेवार्चयेच्छिष्यो गुरुं लब्धधनेन वा || गुरुयात्रा देवयात्रा तीर्थयात्रेति च त्रिधा || ३७ || आसां त्रिविधयात्राणां गुरुयात्रा फलाधिका || गुरोः संदर्शनार्थं तु भक्त्या यात्रां करोति यः || ३८ || पुण्यदेही स विज्ञेयः स मस्तामरवल्लभः || शिष्यो गुरुस्थितं ग्रामं न विशेद्वाहनेन च || ३९ || वर्जयेद्गृहसामीप्ये तथा वै पादुकानि च || गुरोर्दिदृक्षुर्यः शिष्यः सद्भक्त्यानुदिनं तदा || ४० || रिक्तपाणिर्न तं पश्येद्यथा राजा तथा गुरुः || फलं प्रसूनं तांबूलमन्यत्किमपि वस्तु च || ४१ || एष्वेकं गुरवे दत्वा नमस्कुर्यात्तत्तो गुरुम् || पृ० ७६) श्रीमांश्चापि तपस्वी च शास्त्रज्ञः कुलशीलवान् || ४२ || कुर्याद्दंडनमस्कारं निर्लज्जो गुरुसंनिधौ || उपचारेषु सर्वेषु द्वावेवांत्यंतशोभनौ || ४३ || प्रियवाणी प्रणामश्च तौविनान्ये वृथा स्मृताः || अग्रे दृष्ट्वा नमस्कृत्वा प्रदक्षिणमनुस्मरन् || ४४ || प्रदक्षिणं च कुर्वीत यथाशक्त्यनुसारतः || प्रदक्षिणज्ञो यो धीमान्नतु दीर्घपदं न्यसेत् || ४५ || न गच्छेत्वरितो धीमान्नजल्पेदितरैः सह || पदे पदान्तरं न्यस्य करौ चलनवर्जितौ || ४६ || स्तुतिं वाचा हृदा ध्यानमेवं कुर्यात्प्रदक्षिणं || एवं शिष्यः शुचिः कुर्याद्भक्त्या सह परिक्रमम् || स्वगुरोः पुरतः शिष्यो नेतरान्कीर्तयेज्जनान् || ४७ || असह्यभाषणं चैव न वदेदितरेतरम् || नानृतं नाप्रियं वाक्यं न गुह्यं चापि भाषयेत् || ४८ || नाप्रच्छन्नमुखो ब्रूयाद्गुरोरग्रे कदाचन || स्वामिभट्टारकाचार्यदेवश्रीगुरुनामभिः || ४९ || वाच्यः सदा गुरुः शिष्यैर्जातुचिन्नानु नामभिः || त्वं शब्दं न प्रयुंजीत गुरौ शिष्यः कदाचन || ५० || आज्ञां न लंघयेत्तस्य समं नोपविशेत्तथा || आसनं वाहनं वस्त्रं भूषणं शयनं तथा || ५१ || न कुर्याद्गुरुसादृश्यं गतिसिद्धिहितेच्छुकः || पृ० ७७) गुरुसत्कारलक्षणम् गुरुगेहे समीपे वा न यथेष्टासनो भवेत् || ५२ || गुरुर्देवो यतः साक्षात्तद्गृहं शिवमंदिरम् || गुरुस्थितस्थलादुच्चैःस्थले वा चोन्नतासने || ५३ || उदग्रवेदिकायां तु शिष्यो नासीत जातुचित् || ५४ || नोल्बणं धारयेद्वेषं नालंकारांश्च जातुचित् || नानाभोगादिकान्कुर्यान्न विलासपरो भवेत् || ५५ || न चोत्तिष्ठेद्विशेन्नैव न वृथाकार्यमाचरेत् || दीक्षां व्याख्यां प्रमत्तत्वं गुरोरग्रे विवर्जयेत् || ५६ || अतिहासमवष्टंभं लीलामंघ्रिप्रसारणम् || विनोदोज्वलवेषं च पर्यंकं दंतधावनम् || ५७ || पर्वस्फोटविकारं च पादप्रक्षालनं तथा || तद्वाक्यप्रतिकूलं च न कुर्याद्गुरुसंनिधौ || ५८ || पात्रं स्नानजलं छायां माल्योपकरणानि च || भक्तिहीनोऽपि पादाभ्यां न स्पृशेन्नैव लंघयेत् || ५९ || पादुकासनशययादि गुरुणा यद्यदीहितं || नमस्कुर्वीत तत्सर्वं पादाभ्यां नस्पृशेत्क्वचित् || ६० || न गुरोराश्रमे कुर्यादुपानट्परिसर्पणम् || गच्छतः पृष्ठतो गच्छेद्गुरोश्छायां न लंघयेत् || ६१ || नोपविष्टे भवेदूर्ध्वं नोच्चासनगते विशेत् || पश्चात्पादेन निर्गच्छेन्नमस्कृत्वाग्रतो गुरोः || ६२ || पृ० ७८) स्वगुरोर्मनसाभीष्टं यत्तदेवाचरेत्सुधीः || कार्यविज्ञापनार्थं तु गुरूणां दूरवासिनां || ६३ || या त्रिरेखावृता संख्या षडित्यभिहिता बुधैः || ताडपत्रं दृढं सौम्यमृजुं साग्रं द्विधा कृतम् || ६४ || मृदुलं यत्प्रशस्तं तन्मतं लेखाविलेखने || कर्कशं कल्मषं वक्रं हीनाग्रं स्फुटितं युगम् || ६५ || तालपत्रं न तच्छ्रेष्ठं मतं लेखाविलेखने || विसर्गमात्रानुस्वारैर्वर्णस्पष्ट यथा भवेत् || ६६ || तथैव विलिखेत्पत्रे छिंद्याद्वर्णं न जातुचित् || संदिग्धं छिन्नवर्णं चाप्रशस्तं गूढभाषणम् || ६७ || न कदाचिल्लिखेत्पत्रे स्वाचार्याय सदा सुधीः || प्रशस्तभाषासंयुक्तं विनयस्तुतिपूर्वकम् || ६८ || विज्ञापनीयं गुरवे यत्कार्यं तत्समालिखेत् || पत्रं चाल्पमिति ज्ञेयं प्रविलिख्य प्रयोजनम् || ६९ || गुरोर्विज्ञापनार्थाय प्रेषयेदंतिकं गुरोः || गच्छंस्तिष्ठन्स्वपन्जाग्रन् यद्यत्कर्म समाचरेत् || ७० || समक्षं त्वपरोक्षं वा कर्तव्यं गुर्वनुज्ञया || गुरोर्गुरुस्तस्य गुरुस्तद्गुरोरग्रजा अपि || ७१ || तद्भार्याश्च नमस्कुर्यात्सदा वै प्रीतिवत्सलैः || तथापि स्वगुरोः पुत्रं पश्येद्गुरुमिवापरम् || ७२ || पृ० ७९) गुरुनिंदानिषेधकथनम् आत्मा वै पुत्रनामासीदागमोक्तिनिदर्शनात् || ७३ || कदाचिदपि शिष्यो वै न निंदेदीश्वरं गुरुं || शिवस्य च गुरोर्निंदां तथा न शृणुयात्सदा || ७४ || स्वमातृपितृभार्यादिभ्रातृबंधुसुतेषु च || ये गुरुद्वेषिणस्तान् हि नत्वा शिष्यः परित्यजेत् || ७५ || गुरुं निंदति यः शिष्यो द्रव्यं हरति तस्य च || करोति द्वेषिभिः स्नेहं स चांडालो न संशयः [स चांडालसमः स्मृतः] || ७६ || सन्मानं गुरुभाषायां गुरोः शिष्यो य इच्छति || स महापातकी ज्ञेयः पतत्येव स दुर्गतौ || ७७ || यः पश्यति गुरुं शिष्यः साधारणमनुष्यवत् || तस्य भक्तिर्वृथा ब्रह्मन्नेवास्त्यत्र न संशयः || ७८ || यः पश्यति गुरुं शिष्यः उदासीनमनीषया || स पापात्मा महा घोरे नरके परिवर्तते || ७९ || दूरतो यो गुरुं दृष्ट्वा चोदासीनतया व्रजेत् || श्वानयोनिशतं गत्वा भवेच्चांडालवेश्मनि || ८० || समस्तदेवतावासं सर्वमंत्रास्पदं गुरुम् || उपेक्षते यः पापात्मा रौरवं नरकं व्रजेत् || ८१ || हृदि नायं ममाचार्य इत्युपेक्षां करोति चेत् || मयि भक्तिर्वृथा तस्य तथैव च समर्चनम् || ८२ || पृ० ८०) योग्यमाद्यं गुरुं त्यक्त्वा शिष्यः क्षुद्रक्रियान्वितम् || गुरुं समाश्रयेदन्यं यः स याति सुदुर्गतिं || ८३ || गुरोरत्यंतभक्तस्य शिष्यस्येह परत्र च || न किंचिद्दुर्लभं ब्रह्मन् समस्तं सुलभं सदा || ८४ || अथ किं बहुनोक्तेन गुरुदेवो महेश्वरः || प्रत्यक्षे वा परोक्षे वा गुरोःप्रीतिं समाचरेत् || ८५ || गुरुप्रीतिकरः शिष्यो यः स प्रीतिकरो मम || तस्य प्रियकरः शिष्यो मम प्रियकरो भृशं || ८६ || तस्मात्सर्वप्रयत्नेन गुरोः प्रीतिकरो भवेत् || गुरुभक्तिं विना तस्य मयि भक्तिर्वृथा भवेत् || ८७ || शिष्यस्तस्मात्प्रयत्नेन गुरौ भक्तिं समाचरेत् || यः कश्चिद्गुरुभक्तः स्यात्स याति परमां गतिम् || ८८ || इति श्रीवीरशैवाचारप्रदीपिकायां गुरुशुश्रूषालक्षणं नाम दशमोध्यायः || पृ० ८१) || श्रीगुरुभ्यो नमः || अथ एकादशोऽध्यायः | विष्ण्वादिदेवैः परिपूजितं सदा स्वयंभुवाद्यैर्मुनिभिः सुपूजितम् || नमाम्यहं त्वामपवर्गसिध्यै सद्विद्यया कल्पितज्ञानविग्रहं || १ || लक्ष्म्यादिशक्तिभिश्चैव पूजितां तां सदा मुदा || मंत्ररूपां महादेवीमन्नपूर्णां नमाम्यहं || २ || (शिव एको ध्येयः कथं तर्हीत्याह अथर्वणवेदे) ईशानः शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्येति || ईशवानित्यत्र छंदसि क्वनिबिति क्वनिप्प्रत्ययः || एक इति एक एव रुद्रो न द्वितीयाय तस्थे इति || द्यावाभूमी जनयन्देव एक इति || स शिव एक इति प्रत्यहं देव एक इति तमेकं पुरुषं रुद्रमिति एको रुद्र उच्यत इति एकत्वमाह || श्ह्रुतिः पशूनां रुद्रं यजेतेति || ब्रह्मादयः पशव इति रुद्रः पशूनामधिपतिरिति | ब्रह्मरुद्रशब्दयोः पर्यायता एक एव रुद्रो न द्वितीयोऽवतस्थे एकमेवाद्वितीयं ब्रह्मेति परस्परं समानाभ्यां श्रुतिभ्यां मदेवस्याम इति, घोरशिवलक्षणयोः श्रुतिसिद्धयोरीश्वरतन्वोः कार्यभेदोऽस्ति, (ब्रह्मगीतायां) पृ० ८२) अलिंगमेकमव्यक्तं लिंगं ब्रह्मेति निश्चितमिति, परमाय नमः परमलिंगाय नमस्तस्मात्कारणात्सकलनिष्कलात्मकशिव एको ध्येयः पूजनीयश्च, (हंसोपनिषदि) अरूपे भावना नास्ति यदृर्श्यं तद्विनश्यति || दृश्यादृश्यस्वरूपत्वे तथा सेवा सदाभ्यसेत् || (शिवसंकल्पोपनिषदि) योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः || अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसंकल्पमस्तु || (सूतसंहितायां) || घृतकाठिण्यसन्मूर्तिः सच्चिदानंदलक्षणः || शिवादन्यश्च नैवास्ते शिव एव न चापरः || ३ || देवाः सर्वे मुनिश्रेष्ठाः शिवस्यामिततेजसः || अंबिकायाः पतेः शंभोः प्रत्यक्षं करबिल्ववत् || ४ || सर्वोपनिषदामर्थः शिव एव न चापरः || एकमेवं हि तत्ज्ञानं तथा ज्ञानस्य शासनं || ५ || आदित्यपुराणे || तत्तत्वं यद्भगवतो रूपमीशस्य शूलिनः || अक्षरं परमं व्योम शैवं ज्योतिरुमापतिः || ६ || यजुर्वेदे || शिव एव पूज्यो भवति || यजुर्वेदरूपः एकः स इतरमहिमानं पृ० ८३) शिवस्योपास्यत्वकथनम् व्याचष्टे (चतुर्वेदतात्पर्यसंग्रहे) एकं मुखं त्रितयमीश्वरलोचनानां चत्वारि दोंषि विशदं वपुरद्भुतं ते || अत्यंतमेव भवतामुपकारहेतोर्नाना भवंति तनवस्तव दिव्यरूपाः || अनश्वरत्वादेव शरीरमीश्वरस्य वर्णकमात्रमित्याहुः || अंगैःस्थिरेभिरिति रूपमनश्वरं ते भूरीणि तानि च भुजंगममालभारिन् || ७ || स्थिरैरंगैस्तुष्टुवांसस्तनूभिः (प्रदेशान्तरे) स्थिरैरंगैः पुरुरूप उग्र इति || अजात इत्येवमादिश्रुतेर्विषयविग्रहतां नीतमित्युक्तं || (तथा यजुर्वेदे) अजात इत्येव कश्चिद्भीरुः प्रपद्य रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यं तथा च जाबालशाखायां || प्रत्यंजनस्तिष्ठति स युगस्यांतकाले एक एव रुद्रो न द्वितीयाय तस्थे || न ब्रह्मा न विष्णुर्न सूर्यो नाग्निर्न चंद्रतारकाः इति || अस्मिन्नर्थे स्कांदे || विष्णुसंज्ञा ह्यसंख्याता ह्यसंख्याताः पितामहाः || असंख्याताः सुरेंद्राश्च नित्य एको महेश्वरः || ८ || आदित्यपुराणे || असंख्याताश्च कालाश्च ह्यसंख्याताः पितामहाः || असंख्याताश्च हरयो नित्य एको महेश्वरः || ९ || त्वं विश्वकर्ता तव नास्ति कर्ता त्वं विश्वभर्ता तव नास्ति भर्ता || त्वं विश्वहर्ता तव नास्ति हर्ता त्वं विश्वनाथस्तव नास्ति नाथः || १० || ब्रह्मादिकं सक- पृ० ८४) लमन्यमपोह्य पुंसां ध्यातव्यमेवमभिधाय शिवंकरं त्वां || वक्तव्यमन्यमनपेक्ष्य विमोक्षहेतुमाथर्वणः परिसमाप्तिमुवाच वेदः || ११ || अत एव अनीश्वरः सकलनिष्कलात्मकः सच्चिदानंदरूपः सदाशिवः शिवंकरः शिव एव मुक्तिप्रदः स एव मुमुक्षुभिः पूजनीयः स एको ध्येयः सर्वमन्यं परित्यज्य || मानवपुराणे || अथो मुमुक्षुभिः सर्वैः सांबः सर्वेश्वराह्वयः || परतत्वविशेषेण ध्येय एव सदा हृदि || १२ || तस्य शेषतया ध्येया ब्रह्मविष्ण्वादि देवताः || कदाचिदपि मोहाद्वै स्वप्रधानतया नहि || १३ || सर्वमन्यं परित्यजेदित्याह चाथर्वणी श्रुतिः || ध्येयभेदेन सोऽप्येवमुत्तमाधमभेदतः || द्विविधस्तत्र देवानां शिवस्य ध्यानमुत्तमम् || १४ || विष्ण्वादीनां तु देवानां ध्यानं चाधममिष्यते || अथो मुमुक्षुभिः प्राज्ञैः शिव एव शिवंकरः || १५ || ध्येयः सर्वान्परित्यज्य शिवादन्यत्तु दैवतम् || अस्मिन्नर्थे श्रुतिः साध्वी समाप्ता वेदवित्तमाः || १६ || क्वचित्कदाचिद्वेदेषु तदन्याः सर्वदेवताः || ज्ञेयत्वे चांग चोच्यंते ध्येयत्वेऽपि तथैव च || १७ || पृ० ८५) शिवस्योपास्यत्वकथनम् बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः || शिवादन्यत् परित्यज्य दैवतं भुक्तिमुक्तये || १८ || (स्कांदे व्यासविष्णुसंवादे) जगाम शरणं देवं सर्वभावेन शंकरम् || संत्यज्य तृणवत्सर्वान्ब्रह्मविष्ण्वादिकांस्तथा || १९ || (सौरसंहितायाम्) सर्वान्देवान्परित्यज्य यजेत्पंचास्यमीश्वरम् || सर्वान्मंत्रान्परित्यज्य जपेत्पंचाक्षरं सदा || २० || ब्रह्मगीतायां || विष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः || शंभुभक्त्यैव सर्वेषां सत्यमेव मयोदितम् || २१ || कालिकाखंडे || शुकवद्देव विश्वेश क्रीडायै केवलं वयं || तवोन्मेषनिमेषाभ्यामस्माकं प्रलयोदयौ || २२ || (सूतसंहितायाम् ) अथो महादेवशिवादिशब्दं परं मुदा नित्यमतंद्रितश्च || विहाय नारायणनामपूर्वकं जपेदशेषाशुभनाशनाय || २३ || शांभवपुराणे || नारायणादिनामानि न प्रत्यक्षकराणि वै || नामानीति परिज्ञानमल्पस्य तपसः फलं || २४ || पराशरपुराणे || नारायणो हरिर्विष्णुर्मुकुंदः केशवोच्युतः || एवमादीनि नामानि नैव तत्वपराणि वै || २५ || पृ० ८६) परतत्त्वोपदेशस्य संनिधौ पठिता अपि || शब्दाः कथंचिद्योगेन प्रवर्तंते न मुख्यता || २६ || विष्णुनारायणाद्यैस्तु नामभिः सकलैरपि || श्रुतिस्मृतिपुराणोक्तैर्नोच्यते परमं पदं || २७ || मानवपुराणे || नारायणादिनामानि विसृज्य सुविचारतः || जपेच्छिवादिनामानि सद्यो मुक्तिं य इच्छति || २८ || नारायणादिनाम्नः निर्वचनं कारणागमे || आपो नारायणो रुद्रः पुरुषः कृष्णपिंगलः || तस्माद्भवंति वै ह्यापो नारायण इति स्मृतः || २९ || स्कांदे || आपो नारा इति प्रोक्ता नारा वै नरसूनवः || ता यदस्यायनं तेन प्रोक्तोनारायणः स्वयम् || ३० || तथा च लिंगपुराणे || आपो नरस्य तनयेत्यपां नामानि शुश्रुमः || आपूर्य ताभिरयनं कृतवानात्मनो यतः || अप्सु शेते यतस्तस्माद्वासुदेवेति विश्रुतः || ३१ || शिवरहस्ये || दिव्यवर्षसहस्रांते जठरात्तस्य धीमतः || अधोद्वाराद्धि निष्क्रांतो भवाम्यहमधोक्षजः || ३२ || एवमादीनि नामानि परतत्त्वपराणि वै || न भवंति तस्मात्तानि मुमुक्षुभिर्न स्मर्तव्यानि || वायव्यसंहितायां || पृ० ८७) शिवम्योपास्यत्वकथनम् अल्पान्देवान्परित्यज्य कर्मणा मनसा गिरा || तमेव सांबमीशानं भज भावपुरःसरम् || ३३ || पराशरपुराणे || विहाय शंकरं देवं [विहाय सांबमीशानं] भजंते देवतांतरम् || ते महाघोरसंसारे पतंति परिमोहिताः || ३४ || विहाय सांबमीशानं ये भजंति विमुक्तये || ते महातमसाक्रांता न तेषां परमा गतिः || ३५ || देवनिकाये देवस्यैव ब्राह्मण्यं ब्रह्मणोपास्यत्वं च प्रपदमंत्रसिद्धमिति || (तात्पर्यसंग्रहे ) || त्वं ब्राह्मणस्त्वदुपधावनमेव कार्यं तद्ब्राह्मणैस्त्वदितरे न भवंत्युपास्याः || अब्राह्मणो द्विजवरस्य च सेवनेन संभाव्य एव खलु नः प्रपदं प्रमाणम् || ३६ || प्रपदाख्यो हि मंत्रश्च सामवेदप्रसिद्धः स यथा || श्रुतिः || त्वं वेदेषु ब्राह्मणोस्यहं मनुष्येषु ब्राह्मणो ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावति || अस्मिन्नर्थे पराशरपुराणे || ततो विप्रस्य संबंधो शिवेनैव हि पूज्यते || संकराः सर्वदेवाश्च वृषलस्तु पुरंदरः || ३७ || पितामहस्तु वैश्यः स्यात्क्षत्रियः परमो हरिः || ब्राह्मणो भगवान्रुद्रः सर्वेषामुत्तमोत्तमः || ३८ || पृ० ८८) ब्रह्मभावो हि रुद्रस्य ब्राह्मण्यं नैव हेतुजम् || ब्राह्मणो वै सदा लोके ब्राह्मणं चोपधावति || ३९ || महाब्राह्मणमीशानमुपधावेत नेतरान् || सदा महांतमात्मानं विरूपाक्षं द्विजोत्तमः || ४० || (अस्मिन्नर्थे वातुलतंत्रे) || रुद्र एव सदा साक्षाद्ब्राह्मणो ब्रह्मभावतः || ब्राह्मणैः पठितस्तस्माद्ब्राह्मणो रुद्र एव हि || ४२ || प्रजानां पालको राजा विष्णुः सर्वस्य पालकः || तेन राजा हरिस्तस्य ब्राह्मण्यं त्वौपचारिकम् || ४२ || जगद्विस्तरणे चैव कार्यवान् भगवानजः || केवलं वैश्य एव स्यान्न राजा न द्विजोत्तमः || ४३ || राजाधिराजः सर्वेषां त्र्यंबकस्त्रिपुरांतकः || तस्यैवानुचराः सर्वे ब्रह्मविष्णुपुरोगमाः || तस्माद्ब्राह्मणानां स्वकीयदेवता महाब्राह्मणो रुद्र एव समुपास्यः || ४४ || यजुर्वेदे || यो वै स्वां देवतां अतिक्रम्य यजते || प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति || (शिवसंकल्पोपनिषदि) परात्परतरो ब्रह्मा यत्परात्परतो हरिः || तत्परात्परतस्त्वीशस्तन्मे मनः शिवसंकल्पमस्तु || पुराणांतरे || प्रजापतेरपि ब्रह्मा ब्रह्मणो विष्णुरास्तिकाः || विष्णोरपि हरस्तस्मान्महान् साक्षान्महेश्वरः || ४५ || पृ० ८९) शिवस्योपास्यत्वकथनम् इत्यादिवाक्यैः अनेकश्रुतिपुराणागमवाक्यप्रमाणैः प्रतिपाद्यमानस्य परात्परस्य श्रीमहादेवस्य दिव्यश्रीपादपद्मयुगयोर्नमस्कारः कार्य इतरेषां न कार्यः || तत्कथमित्युक्ते || (यजुरारण्यके तैत्तरीये) यस्मै नमः || तच्छिरोधर्मो मूर्धा ब्रह्मोत्तरा हनुर्यज्ञोदो विष्णुरयं संवत्सरः || प्रजननमश्विनौ पूर्वपादावत्रिमध्यमित्रावरुणावपरपादावग्निः पुच्छस्य प्रथमकांडं || तत इन्द्रस्ततः प्रजापतिरभयं चतुर्थं समवाये दिव्यशाक्वरः शिंशुमारः || (ऋग्वेदे) स्तुहि श्रुतं गर्तसदं युवानं मृगन्नभीममुपहत्नुमुग्रं मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मिन्निवपन्तु सेनाः || (अस्मिन्नर्थे स्कांदे) || चित्ते ध्यात्वा प्राणलिंगं पूजां तां कुरुते स्वयम् || तस्मात्त्रिकरणानां तु शुद्धा पूजा विधीयते || ४६ || इत्यादिश्रुत्यागमादिभिः शिव एक एव ध्येयः पूजनीयः || विष्ण्वादिपूजका अधमा न दर्शनीयाः न संभाष्या इति || किंच जननमरणसंसारानलसंदग्धा हरिमुख्यदेवता विहाय शिव एक एव नित्यः अखिलबंधविमोक्षक इति ज्ञात्वा करुणासमुद्रं परमेश्वरं श्रुतिः शरणं जगाम || तत्कथमित्युक्ते || इयं श्रुतिः || ओं अजात इत्येव कश्चिद्भीरुः प्रपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यं || आदित्यपुराणे || यस्य पादरजस्पर्शाद्ब्रह्मत्वं प्राप्तवानहं || पृ० ९०) शार्ऽऽनिणापि ततो मूर्ध्ना धृत्वा विष्णुत्वमाप्तवान् || ४७ || सूतसंहितायाम् || यस्तु लिंगार्चनं त्यक्त्वा देवानन्यांश्च पूजयेत् || रत्नं विहाय मुढात्मा यथा काचमपेक्षते || ४८ || ब्रह्मविष्ण्वोर्न वक्तव्यं ब्राह्मणैः पूजनं क्वचित् || सततं पूजयेद्रुद्रं ब्रह्मविष्णू परित्यजेत् || ४९ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे इतरदेवतापरित्यागो नाम एकादशोऽध्यायः || पृ० ९१) अथ द्वादशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ सर्वदेवताराध्यत्वं तत्फलं वक्ष्यामि || ऋग्वेदे || तव श्रियो मरुतोऽर्चयंतः रुद्र यत्ते जनिम चारु चित्रम् || पदं यद्विष्णोः परमं न्यधायि इति || अस्मिन्नर्थे (पराशरपुराणे) रुद्रलिंगं महाविष्णुर्गोप्यागोप्यं शिलामयं || चारु चित्रं समभ्यर्च्य प्राप्तवान् परमं पदम् || १ || सा च लक्ष्मीः समाख्याता महाविष्णोस्तु वल्लभा || यस्य लिंगं समभ्यर्च्य सा पूज्या सर्वचेतनैः || २ || ब्रह्मा सर्वजगत्कर्ता यस्य लिंगार्चनेन वै || भारतीमाप्तवानाशु स पूज्यः सर्वचेतनैः || ३ || यस्य लिंगार्चनेनैव वल्लभाश्च स्वभर्तृषु || शची देवी स्त्रियश्चान्याः संपूज्या सर्वचेतनैः || ४ || (पुरुषसूक्ते) || यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् || ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः || (शिवधर्मे)|| पृ० ९२) यस्य लिंगं समभ्यर्च्य मरुतः सकला अपि || प्रपेदिरे श्रियः पूर्णास्ते पूज्याः सर्वचेतनैः || ५ || इंद्रनीलमयं लिंगं विष्णुः पूजयते सदा || विष्णुत्वं प्राप चैतेन सर्वदैकं सनातनम् || ६ || (तथा च वायव्यसंहितायाम्) || ततो जनार्दनस्तुष्टो पदं प्राप्य महेश्वरात् || जगाम भास्वरं रम्यं वैकुंठं स्थानमुत्तमम् || ७ || (लिंगपुराणे) || पद्मपुष्पसहस्रैश्च पादावभ्यर्च्य भक्तितः || अर्चयित्वा परेशं तु स्तुतवान्मधुसूदनः || ८ || एकं न्यूनं सहस्त्राणां पुष्कराणां च पुष्करम् || अपूजयत्स्वयं नेत्रमेकमुद्धृत्य माधवः || ९ || तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रताः || तदर्थं नयनं चक्रं विष्णवे नीललोहितः || १० || (स्कांदे व्यासजैमिनिसंवादे) || ब्रह्मा पूजयते नित्यं लिंगं शैलमयं शुभं || तस्य संपूजनात्तेन ब्रह्मत्वं प्राप्तमुत्तमम् || ११ || शक्रोऽपि देवराजेंद्रो लिंगं मणिमयं शुभम् || भक्त्या पूजयते तेन नित्यं शक्रत्वमाप्तवान् || १२ || तल्लिंगं मृण्मयं पुण्यमग्निर्यजति भावतः || अग्नित्वं प्राप चैतेन तेजोभूतमनिंदितम् || १३ || लिंगं रत्नमयं चारु वरुणोऽर्चयते सदा || तेन तद्वरुणत्वं हि प्राप तद्वृद्धिसत्तमम् || १४ || पृ० ९३) शिवपूजाफलनिरूपणम् वायुः पूजयते नित्यं लिंगं पैत्तलकं शुभम् || वायुत्वं तेन संप्राप्तमनौपम्यगुणान्वितम् || १५ || लिंगं हेममयं भक्त्या धनदोऽर्चयते सदा || तेनासौ धनदो देवो धनदत्वमवाप्तवान् सदा || १६ || ताम्रलिंगं सर्वदा वै भक्त्या पूजयते रविः || त्रिकालं यजता तेन प्राप्तं सूर्यत्वमुत्तमम् || १७ || मुक्ताफलमयं लिंगं सोमः पूजयते सदा || तेन सोमेन संप्राप्तं सोमत्वं सततोज्वलम् || १८ || कंदर्पोऽर्चयते नित्यं लिंगं पुष्पमयं शुभम् || तेन कामत्वमाप्नोति त्रैलोक्यविजयं सदा || १९ || विश्वेदेवा महात्मानो रौप्यलिंगं मनोहरम् || यजंते विधिवद्भक्त्या तेन विश्वत्वमाप्नुयुः || २० || वसवः कांस्यकं लिंगं पूजयंति विधानतः || प्राप्नुयुस्ते महात्मानो वसुत्वं सुमनोहरम् || २१ || अश्विनौ पार्थिवं लिंगं पूजयंतौ विधानतः || तेन तावश्विनौ देवौ दिव्यदेहधरावुभौ || २२ || सर्वलोहमयं लिंगं यजंते मातरः सदा || मातृत्वं प्राप्नुयुस्तेन सर्वलोकेषु दुर्लभम् || २३ || अयोमयं परं लिंगं पूजयंतेऽसुरोत्तमाः || राक्षसाश्च महात्मानः प्राप्नुयुस्तेन विक्रमम् || २४ || दिव्यं त्रपुमयं लिंगं पिशाचाः पूजयंति ते || दिव्यैश्वर्यसमायुक्ताः प्रयांति परमं पदम् || २५ || त्रैलोहिकमयं लिंगं यजंते गुह्यकादयः || तेन भोगफलोपेताः प्रयांति परमं पदम् || २६ || पृ० ९४) सुप्रवालमयं लिंगं यजंते पन्नगोत्तमाः || तेन नागाः सुभोगाढ्याः प्राप्नुयुस्ते परं पदं || २७ || एवं देवाश्च गंधर्वाः सयक्षोरगराक्षसाः || पूजयंति सदा कालमीशानं सुरनायकम् || २८ || इति वीरशैवाचारप्रदीपिकायां पूजाप्रकरणे सर्वदेवताराधनं नाम द्वादशोऽध्यायः || पृ० ९५) अथ त्रयोदशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ शिवलिंगपूजामाहात्म्यं वक्ष्यामि || (एकपादपुराणे) कैलासशिखरासीनं देवदेवं जगद्गुरुम् || कमलोदरसंकाशं कमलाक्षशुभाननम् || १ || कालपाशनिबद्धानां कालनिर्णाशकं परं || कलाधरं कलातीतं कालरूपं परं शिवम् || २ || काली कला स्वयं गौरी कांता कमललोचना || चरणे पतिता देवी सानंदोवाच पार्वती || ३ || (पार्वत्युवाच) भगवन् देवदेवेश सर्वज्ञ परमेश्वर || पृच्छामि संशयं देव महेश्वर हिताय वै || ४ || लिंगस्य दर्शनादेव स्पर्शनेनापि किं फलम् || अर्चिते संस्तुते लिंगे फलमाख्याहि शंकर || ५ || ईश्वर उवाच || साधु साधु महाभागे भक्तानां भक्तवत्सले || लिंगस्य दर्शनात्पापं क्षयं गच्छति वै प्रिये || ६ || (लैंगे) लिंगस्य दर्शनात्प्रातर्निशि पापं व्यपोहति || आजन्म जन्तोर्माध्याह्ने सप्तजन्मकृतं निशि || ७ || (कूर्मपुराणे) त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनं || पृ० ९६) दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः || ८ || कोटिजन्मकृतं पापं विरूपाक्षस्य दर्शनात् || तत्सर्वं नश्यति क्षिप्रं वह्निना तूलभारवत् || ९ || (ग्रंथांतरे) अभक्ष्यभक्षको वापि ब्रह्महा यदि मातृहा || पितृहा बालघाती च गोघ्नः स्त्रीशूद्रघातकः || १० || वक्ता च परदोषाणां परस्य गुणदूषकः || कृपणोऽनृतवादी च मणिरत्नापहारकः || ११ || सर्वपापयुतः पुत्र मुच्यते लिंगदर्शनात् || जातिस्मरत्वमैश्वर्यं विद्याज्ञानं प्रजासुखम् || १२ || अज्ञानाद्वा भयाद्वापि दृष्ट्वा प्राप्नोति शंकरम् || लिंगस्य दर्शनं पुण्यं दर्शनात् स्पर्शनं शुभम् || १३ || (शिवधर्मे) शिवलिंगं महापुण्यं सर्वदेवनमस्कृतम् || यः स्पृशेदपि पाणिभ्यां न पापैः परिलिप्यते || १४ || (उमामहेश्वरसंवादे) करांगन्यासशुद्धिश्च देहशुद्धिस्तथैव च || सर्वशुद्धिर्भवेन्नित्यं लिंगस्पर्शनदर्शनात् || १५ || मातृहा पितृहा चैव वीरहा भ्रूणहापि वा || अमंत्री वा शिवं स्पृष्ट्वा सर्वपापैः प्रमुच्यते || १६ || पृ० ९७) शिवाराधनफलम् सर्वदा स्पर्शनेनापि गाणपत्यं भवेत्ततः || अर्चितं भक्तिभावेन दद्यान्मोक्षं न संशयः || १७ || शृणु देवि प्रवक्ष्यामि लिंगाराधनतः फलं || सर्वदानफलं देवि सर्वतीर्थफलं च यत् || १८ || सर्वयागफलं यच्च यच्च पुण्यं तपोदितम् || तत्सर्वं समवाप्नोति परत्र सुखमेधते || १९ || लिंगस्याभ्यर्चनेनैव सर्वपापक्षयो भवेत् || सर्वदानफलावाप्तिर्भवतीति न संशयः || २० || तीर्थकोटिसहस्रेषु कृतस्नानस्य यत्फलम् || तत्फलं समवाप्नोति लिंगस्याभ्यर्चने कृते || २१ || यानि कानि च तीर्थानि समुद्रादिसरांसि च || तेषां स्नानेन यत्पुण्यं लिंगस्याभ्यर्चनेन तत् || २२ || मेरुपृष्ठे प्रयागे च गंगासागरसंगमे || हिमालये तपस्तप्तं तत्फलं लिंगपूजने || २३ || चांद्रायणसहस्राणि तप्तकृछ्रशतानि च || सर्वव्रतानि चीर्णानि लिंगस्याभ्यर्चने कृते || २४ || गवां कोटिसहस्रस्य यज्ञकोटिशतस्य च || दाने तत्फलमाप्नोति सकृदभ्यर्चने कृते || २५ || सकृदभ्यर्चिते लिंगे दिवं गच्छंति मानुषाः || सिद्धाः शिवपुरं यांति क्रीडंते कालमक्षयम् || २६ || भूलोकश्च भुवर्लोकः स्वर्लोकश्च महस्तथा || पृ० ९८) जनस्तपस्ततः सत्यं सप्त लोकाः प्रकीर्तिताः || २७ || सकृदभ्यर्चिते लिंगे तेषु वासोऽभिधीयते || जन्मकोटिसहस्रैश्च संचरद्भिश्च योनिषु || २८ || सकृदभ्यर्चिते लिंगे मुक्ताः संसारबंधनात् || त्रुटीकलानिमेषाश्च काष्टार्धप्रहराणि वै || २९ || अर्चयंति महादेवं ते यांति परमां गतिम् || न पूजयंति ये लिंगमिष्टापूर्त्यै तु मोहिताः || योनिकोटिसहस्रेषु निर्गच्छंति विशंति ते || ३० || स्वर्गे यज्ञफलं भुक्त्वा दाता धर्मस्य यत्फलं || गर्भवासेषु जायेत लिंगार्चनविवर्जितः || ३१ || गाणपत्येन च तथा मोक्षो न भवति ध्रुवम् || लिंगार्चनरतानां च गर्भजन्म न विद्यते || ३२ || गर्भवासभयाद्भीता लिंगार्चनपरायणाः || एते मम गणा देवि भवंति च सुशोभने || ३३ || यस्तु पूजयते नित्यं लिंगं त्रिभुवनेश्वरम् || स स्वर्गमोक्षराज्यस्य क्षिप्रं भवति भाजनम् || ३४ || येऽपेक्षंते महाभोगान्भोज्यान्वा त्रिदशालयम् || तेऽर्चयंति सदा भक्त्या हरस्य चरणांबुजं || ३५ || (व्यास उवाच) भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः || धनं वै तृप्तिपर्यन्तं शिवपूजाविधेः फलम् || ३६ || सौभाग्यं कांतिमद्रूपं सत्यं त्यागं प्रवक्तृता || पृ० ९९) शौर्यं जगद्विशृतिश्च शिवपूजाविधेः फलं || ३७ || व्यासस्य कपिलस्यापि विद्याभोगो भवेत्सदा || भवेद्दानप्रभावश्च शिवपूजाविधेः फलम् || ३८ || विद्यालाभो धनं सौख्यं कुलीनत्वं मनोगतम् || राज्यं मोक्षं च नाको वा शिवपूजाविधेः फलं || ३९ || ब्रह्मांडे सिद्धियोगं च पाताले च महीतले || अप्राप्यं लभते यस्य शिवपूजाविधेः फलम् || ४० || द्वारे वै मत्तमातंगा वायुवेगास्तुरंगमाः || पूर्णेंदुवदना नार्यः शिवपूजाविधेः फलम् || ४१ || ब्रह्मणः सृष्टिकर्तृत्वं विष्णोर्दानवमर्दनम् || स्वर्गाधिपत्यमिंद्रस्य शिवपूजाविधेः फलम् || ४२ || सुरासुरनरा ये च पूजयंति महेश्वरम् || भुक्त्वा तु विपुलान्भोगांस्ते यांति परमां गतिम् || ४३ || पूजाष्टकमिदं पुण्यं यः पठेच्छिवसंनिधौ || शिवलोकमवाप्नोति शिवेन सह मोदते || ४४ || यो न पूजयते मोहाल्लिंगं त्रिभुवनेश्वरम् || न च स्वर्गस्य मोक्षस्य न राज्यस्यापि भाजनम् || ४५ || अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः || शिवलिंगार्चनस्यैते कोट्यंशेनापि नो समाः || ४६ || यो ददाति गवां लक्षं दोग्ध्रीणां वेदपारगे || पृ० १००) एकाहमर्चयेल्लिंगं तस्य पुण्यं ततोधिकम् || ४७ || सर्ववेदेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् || तत्फलात् कोटिगुणितं लभते नात्र संशयः || ४८ || अप्येकदिवसं भक्त्या यः पूजयति शंकरम् || सोपि याति शिवस्थानं किं पुनर्बहुशोऽर्चनात् || ४९ || सततं पूजयेद्यो हि मानवस्तु दिने दिने || न तस्य पुनरावृत्तिः संसारे भवति क्वचित् || ५० || येऽर्चयंति सदा रुद्रं न ते प्रकृतिमानुषाः || रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः || ५१ || यः सर्वदाऽर्चयेल्लिंगं स रुद्र इव भूतले || पापहा सर्वभूतानां दर्शनात्स्पर्शनादपि || ५२ || लिंगार्चनरतो नित्यं महापातकसंभवैः || दोषैः कृतैर्न लिप्यंते पद्मपत्रमिवांभसा || ५३ || छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जगत् || यजेदेकं विरूपाक्षं स पापैर्न च लिप्यते || ५४ || मेरुमंदारतुल्योपि राशिः पापस्य कर्मणः || ईश्वरं वैद्यमासाद्य नश्यते दुष्टरोगवत् || ५५ || न तत्र देशे दुर्भिक्षं न च मारीप्रवर्तनम् || नाकाले पीड्यते राजा पूज्यते यत्र शंकरः || ५६ || क्रीडालोभाद्भयाद्वापि मोहाद्दंभेन वा क्वचित् || येन केन प्रकारेण धन्यः पूजयते शिवम् || ५७ || पृ० १०१) पृथिव्यां यानि तीर्थाणि पुण्यान्यायतनानि च || लीयंते लिंगमूले तु तस्माल्लिंगं प्रपूजयेत् || ५८ || त्वरितं जीवितं याति त्वरितं याति यौवनम् || नश्यत्यायुस्त्वरेणैव तस्मात्पूजय शंकरम् || ५९ || यावन्न याति मरणं यावन्नाक्रमते जरा || यावन्नेंद्रियशैथिल्यं तावत्पूजय शंकरम् || ६० || ये नराः सकृदप्यत्र पूजयंति त्रिलोचनम् || ते धन्यास्ते महात्मानस्ते कृतार्थाश्च पंडिताः || ६१ || वृत्तं || ये वामदेवं हि यजंति नित्यं सद्भक्तिशीलाः शिवलिंगमूर्तिं || ते ध्वस्तदुःखा हि भवंति मर्त्या भवांबुराशिं विषमं तरंति || ६२ || तस्मात्सर्वेषणां त्यक्त्वा शिवैकगतमानसः || धर्मार्थकाममोक्षार्थं पूजनीयश्च शंकरः || ६३ || यजनं द्विविधं ज्ञेयं बाह्याभ्यंतरभेदतः || सर्वेषां बाह्यपूजा च यतीनामंतरार्चनम् || ६४ || तैरंतर्यजनं कार्यं बहिर्यजनपूर्वकम् || बहिर्यजनहीनः स्यादंतयागो न सिध्यति || ६५ || सर्वेषां च बहिर्यागस्तत्वरूपो निरूप्यते || स्वार्थं परार्थकं चेति यजनं द्विविधं भवेत् || स्वार्थं दीक्षोत्तरे काले गुरौ दत्ते स्वलिंगके || ६६ || यजनं स्वार्थसिद्ध्यर्थमेवं स्वार्थमुदाहृतं || ग्रामादौ स्थापिते लिंगे यद्वा देवादिनिर्मिते || पृ० १०२) परार्थमिति विज्ञेयं सर्वप्राणिहिताय वै || ६७ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे शिवलिंगपूजामाहात्म्यकथनं नाम त्रयोदशोऽध्यायः || पृ० १०३) अथ चतुर्दशोऽध्यायः | श्रीगुरुभ्यो नमः || अथ शिवपूजायाः कालं दिनाचारक्रमं च वक्ष्यामि || कर्तृकालक्रियाभेदा इति प्रोक्ताः शिवार्चने || उत्तमा दृष्टनक्षत्रा मध्यमा लुप्ततारकाः || १ || अर्धोदितारुणा हीना प्रातःसंध्या त्रिधा मता || अर्धार्कमंडला श्रेष्ठा मध्यमास्तमिते रवौ || २ || कनिष्ठा दृष्टनक्षत्रा सायंसंध्या त्रिधा मता || मध्यमां मध्यमे चार्के तां च संध्यां समभ्यसेत् || ३ || विधानं शिवपूजायाः कथ्यते च यथाक्रमम् || दिवा कालेऽर्चनं नेष्टं निशि कालेऽर्चनं तथा || ४ || दिवारात्रौ परित्यज्य देशिकः सम्यगर्चयेत् || सर्वभूतमनश्चक्षुर्वृत्तिस्थौ शशिभास्करौ || ५ || मनसा भिद्यते दृष्टिर्दृष्ट्या भिद्येत मानसं || यावत्पूजासमाप्तिः स्यात्तावच्चक्षुर्मनोगतम् || नान्येक्षणो नान्यमनाः कुर्याल्लिंगार्चनं सदा || ६ || शंकरसंहितायां || दिनाचारयुतं देव लिंगार्चनविधिं मम || वक्तुमर्हसि देवेश कृपया भक्तवत्सल || ७ || ईश्वर उवाच || वदामि संग्रहेणाहं पृच्छतस्तव षण्मुख || संसारदुःखपाशघ्नं वत्स मोक्षैकसाधनं || ८ || पृ० १०४) अमंगलश्चापि मृत्युः सर्वेषां देहिनां भवेत् || तद्दोषपरिहारार्थं दिनाचारः प्रकथ्यते || ९ || दक्षिणायां दिशि शिरो न्यस्येद्यः पश्चिमे मुखं || कुर्यात्सव्येन शयनमुत्थानमपसव्यतः || १० || ब्राह्मे मुहूर्ते चोत्थाय ध्यायेत्तं शंकरं शुचिः || उमां धर्मं धनं दोषवर्जितं दिनकर्म च || ११ || धनाद्धर्मप्रवृत्तिः स्यान्नराणां धर्मचारिणाम् || धर्मात्प्रसीदति शिवश्चिंतनाद्धि धनागमः [चिंतयेद्धि धनागमम् ||] || १२ || विशिष्टे च समे बिंदोर्मूर्ध्नि निर्वाणदीक्षितः || आचार्यं साधकश्चैवं द्वादशांते विचिंतयेत् || १३ || पृ० १०५) प्रातरुत्थितस्य कर्तव्यकथनम् नामानि चास्य हृद्यानि चरित्राणि च कीर्तयेत् || १४ || ग्रंथांतरे || अथो मंगलवाद्यानां शृण्वन्गीतं मृदुध्वनिं || शंखद्वयसुनादं च निद्रां चंद्रस्वरात्त्यजेत् || १५ || पुण्यक्षेत्रं पुण्यतीर्थं पुण्यरत्नं च सज्जनम् || प्रागेव दक्षिणं पाणितलमालोकयेन्निजं || १६ || वामभागस्थितां नारीं निजपुण्यप्रकाशिनीं || दर्पणं पूर्णकुंभं च वृषभं युग्मचामरम् || श्रीवत्सं स्वस्तिकं शंखमेवमष्टांगमंगलम् || १७ || वृ० || कुब्जं निष्ठुरमंधमूकरजकान् कैवर्तकं नापितं नारीं चापि रजस्वलां प्ररुदतीं निर्भर्तृकां भिक्षुकीं || शूर्पं पाशमुलूखलं तुषकणान् काष्ठं तृणं मार्जनीं मार्जारोरगगौ??यजादिमहिषान्निंद्यान्न पश्येद्बुधः || १८ || पथि गोष्ठे नदीतीरे छायायां कूपसंनिधौ || तुषांगारकपालेषु कृषिक्षेत्रे चतुष्पथे || १९ || नोद्याने च स्मशाने च न पश्यंस्तारकादिकान् || न चैवाभिमुखं स्त्रीणां गुरुशांभवयोर्गवां || अग्नेरभिमुखं तिष्ठन् विष्ठां मूत्रं न चोत्सृजेत् || २० || ततो गृहाद्विनिर्गत्य बहिर्गच्छेदतंद्रितः || वाग्यतः पृथिवीभागमिषुविक्षेपमात्रकं || २१ || तत्रास्तीर्य तृणैर्भूमिं मलमूत्रं समुत्सृजेत् || दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदऽऽन्मुखः || २२ || पृ० १०६) निष्ठीवेन्न वदेद्वाक्यं [निष्ठीवेद्विसृजेद्वाक्यं] वस्त्रेणावृतमस्तकः || मौनी नासाग्रदृग्युक्तो मलमूत्रं विसर्जयेत् || २३ || ग्रंथांतरे || विण्मूत्रोत्सर्जनं कुर्याद्गत्वा देशं यथोचितम् || एवं शौचविधिं कुर्याद्गंधलेपक्षयावधि || २४ || शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः || शौचं तु द्विविधं प्रोक्तं बाह्याभ्यंतरभेदतः || २५ || मृज्जलाभ्यां भवेद्बाह्यं भावशुद्धिस्तथांतरं || अत्यंतमलिनो देहो देही चात्यंतनिर्मलः || २६ || उभयोरंतरज्ञाने तस्य शौचं विधीयते || मार्गमध्ये देवगेहे वल्मीके मूषकस्थले || २७ || अशुद्धदेशे शौचार्थं न ग्राह्या पंच मृत्तिकाः || [पाठान्तरे २ शुद्धामशकलां मृद्वीं मृदं शौचार्थमाहरेत्] शुद्धदेशस्थितां चैव मृदं शौचार्थमाहरेत् || २८ || शुक्ला तु ब्राह्मणस्योक्ता रक्ता तु क्षत्रियस्य च || वैश्यस्य पीतवर्णा स्यात्कृष्णा शूद्रस्य मृत्तिका || २९ || प्रक्षालयेद्गुदं शिश्नं मृद्भिरप्युद्धृतैर्जलैः || एकं लिंगे गुदे पंच तथैव करपल्लवे || ३० || चर्यायोगोदितं शौचं मृद्गृहीत्वा मलत्रयम् || एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां || ३१ || पृ० १०७) शौचादिविधानकथनम् त्रिगुणं स्याद्वनस्थानां यतीनां च चतुर्गुणं || शौचमेतद्दिवा प्रोक्तं रात्रावुक्तार्धमाचरेत् || ३२ || गंधलेपनिवृत्त्यर्थं शौचं कुर्याद्विचक्षणः || यावन्मात्रं मनःशुद्धिस्तावन्मात्रं समाचरेत् || ३३ || आचम्य विधिवद्वत्स कृत्वा मंत्रेण मार्जनम् || श्रीमत्पंचाक्षरेणैव गायित्र्या शैवया तथा || ३४ || स्नायाद्विशुद्धभावेन नरः संकल्पपूर्वकम् || नद्यां तटाके वाप्यां वा गिरिप्रस्रवणे ह्रदे || ३५ || उद्धृतैरुदकैः कूपाद्दक्षः स्नानं समाचरेत् || सरःसु देवखातेषु स्नानमुत्तममुच्यते || ३६ || शिवालयसमीपस्थं स्वल्पं वा बहुलं जलम् || शिवगंगेति विख्यातं महापातकनाशनं || अस्नात्वा नाचरेत्कर्म जपपूजादिकं तथा || ३७ || अत्यंतमलिनो देहो नवछिद्रसमन्वितः || स्रवत्येव दिवारात्रौ तस्मात्स्नानं समाचरेत् || ३८ || प्रातः स्नानेऽप्यशक्तश्चेन्माध्याह्ने स्नानमाचरेत् || अशक्तः कंठमात्रं वा कटिमात्रमथापि वा || ३९ || अथ दंतधावनविधिः || पराशरपुराणे || मुखप्रक्षालनं कृत्वा गंडूषमुदकेन च || पुनराचमनं कार्यं प्राऽऽन्मुखोदऽऽन्मुखोपि वा || ४० || स्वदंतशोधनं कुर्यात्काष्ठेनैव यथाविधि || पृ० १०८) दंतशुद्धिं प्रकुर्वाणः प्राप्नोत्येव श्रियं सदा || ४१ || मध्यमांगुलिना साम्यं स्थौल्येन ब्रह्मवित्तम || दन्तकाष्ठं प्रगृह्णीयाद्दीर्घेण द्वादशांगुलं || ४२ || गृह्णीयात्सत्वचं सौम्यं क्षीरवृक्षसमुद्भवं || मालतीसंभवं वापि करवीरमथापि वा || अपामार्गं तु वा नित्यं शुष्कं सर्वं परित्यजेत्|| ४३ || मनुस्मृतिः || अर्कन्यग्रोधखदिरकरंजकुटजादिकम् || कंटकक्षीरवृक्षं च द्वादशांगुलसंयुतम् || कनिष्ठाग्रसमं स्थूलं शुभं स्याद्दंतधावने || ४४ || दंतधावनमंत्रः || मनुरुवाच || आयुर्बलं यशोवृद्धिः प्रजापशुवसूनि च || ब्रह्मज्ञानं च मेधां च त्वं नो देहि वनस्पते || ४५ || तृणपर्णैः सदा कुर्याद्दंतधावनमुत्तमम् || कार्पासतो दंतशुद्धिः शक्रस्यापि श्रियं हरेत् || ४६ || मनुस्मृतौ || यद्नंडूषसमोपेतं तर्जन्या दन्तशोधनम् || करोति यदि मूढात्मा रौरवं नरकं व्रजेत् || ४७ || क्षीरं लवणसंमिश्रं तर्जन्या दंतधावनं || नारिकेलपयः कांस्ये ताम्रे गव्यं सुरामयम् || ४८ || गृहीत्वा जलपात्रेण विण्मूत्रं यदि संत्यजेत् || तज्जलं मूत्रसदृशं पीत्वा चांद्रायणं चरेत् || ४९ || जिह्वाशुद्धिं प्रकुर्वीत दंतकाष्ठांतरेण च || पृ० १०९) दन्तधावनविधानकथनम् सोऽचिराच्छ्रियमाप्नोति नात्र कार्या विचारणा || ५० || भोजनाच्छादने दाने ह्युपहारे प्रतिग्रहे || संध्यात्रयेंऽबुपाने च पूर्वं पश्चाद्विराचमेत् || ५१ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे पूजाकालसदाचारनिर्णयं नाम चतुर्दशोऽध्यायः || पृ० ११०) अथ पंचदशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ श्रीशिवार्चनस्थानानि पूजागृहनिर्माणं तन्माहात्म्यं तदलंकारं मंटपलक्षणमासनम् तन्माहात्म्यं वक्ष्यामि || तद्यथा || स्वगृहं वा शिवावासं सरित्तीरगृहं वनं || मठस्तटाकश्च सरो मंटपो गह्वरो गुहा || १ || आरामः पर्वतश्चान्यगुहास्थानं मनोरमं || चरार्चनस्य स्थानानि प्रशस्तानि चतुर्दश || २ || (क्रियासारे) || गृहस्येशानदिग्भागे पूजागारं प्रकल्पयेत् || (लोकोत्तरे) ईशान्यां दिशि संस्थाप्य पूजागारं मनोरमम् || ३ || द्वात्रिंशद्धस्तमात्रं तु विंशद्धस्तमथापि वा || हस्तमात्रं खनेद्भूमिं पूरयित्वा तु पांसुना || ४ || (ग्रंथान्तरे) खननं दहनं चैव शोधनं प्रोक्षणं तथा || मर्दनं लेपनं चैव संस्काराः षड्विधाः स्मृताः || ५ || अस्थीनि मूर्धजादीनि तुषापाषाणलोष्ठकं || काष्ठं तृणानि बहुधा चावश्यं तानि वर्जयेत् || ६ || पंचरत्नं क्षिपेद्भूमौ पंचाक्षरयुतेन च || पांसुनाच्छादयित्वा तु वेदिकां च प्रकल्पयेत् || ७ || बहुस्तंभसमायुक्तं चतुर्द्वारं सतोरणं || पृ० १११) शिवार्चनस्थानरचनानिरूपणम् सुगुप्तं नूतनं रम्यं प्रकीर्णकुसुमं शुभं || ८ || सुविचित्रपताकाढ्यं सितवस्त्रध्वजोछ्रितं || कुंकुमाक्षतसंयुक्तं कर्पूरक्षोदसंयुतं || ९ || सुधूपामोदगंधाढ्यं चर्चितं चंदनादिभिः || वितानोपरिसंछन्नं मुक्तादामावलंबितं || १० || निष्कंपाभिः प्रदीपाभिर्दर्पणादिभिरन्वितं || इति नित्यार्चने शस्तं मंदिरं भुक्तिमुक्तिदं || ११ || (क्रियासारे) स्वर्णेन वाथ रौप्येण शुद्धसौराष्ट्रकेण च || कृत्वा बुद्बुदवत्सूक्ष्मान् चषकाकारसंमितान् || १२ || तानंघ्रिद्वितयान्कुर्यात्पृथक् च सकलानपि || सूत्रेण प्रोत्य मालां तां द्वारस्योपरि बंधयेत् || १३ || (शिवधर्मे) शिवस्यायतनं कुर्यान्नववस्त्रोपशोभितं || दुकूलपट्टदेवांगैर्वस्त्रैश्चित्रविचित्रितैः || १४ || पट्टादिवस्त्रतंतूनां परिसंख्या च यावता || तावद्युगसहस्राणि रुद्रलोके महीयते || १५ || ध्वजमालाकुलं कुर्याद्यः प्रांते तु शिवालये || कल्पायुतशतं दिव्यं मोदते दिवि रुद्रवत् || १६ || (क्रियासारे) पट्टदेवांगचीनैश्च वितानान्युत्तमानि वै || कार्पासधवलं वस्त्रं मध्ये कमलभूषितं पृ० ११२) एतन्मौक्तिकमालाढ्यं वितानमपि भावयेत् || १७ || (शिवधर्मे) || वितानं शशिपद्माभं मध्ये कमलभूषितं || मुक्तामालावलंबं च घंटाचामरभूषितं || १८ || शिवस्योपरि यो दद्यात्पुरतो वापि कल्पयेत् || यः कुर्यात्कठिणां भूमिं दर्पणोदरसंनिभां || १९ || नानावर्णविचित्रां वा विचित्रकुसुमोज्वलाम् || क्वचित्कनकविन्यासां पंकजाद्युपशोभिताम् || मनोऽभिरामां सुसमां शिवायतनसंस्थिताम् || २० || यावद्दंडं भवेद्भूमिः समंताद्युपशोभिता || तावद्युगसहस्राणि स शैवं पदमश्नुते || २१ || चतुष्कोणप्रमाणं च गणितांगुलिलक्षणं || प्रदक्षिणं समाख्यातं चतुःषष्ठिकलादिभिः || घातं तद्गुणितं चैवेत्येतल्लक्षणसंयुतं || २२ || स्वर्णादिपंचरत्नानि धान्यान्यष्टदशान्यपि || पूजास्थले च स्थाप्यानि सर्वसिद्धिर्न संशयः || २३ || षोडशस्तंभसंयुक्तं कल्पयेन्मंटपं सदा || दर्पणोदरसंकाशं चतुरस्त्रं समं तथा || २४ || अंकितं पुष्पमालाद्यैश्चित्रवस्त्रैरलंकृतं || चामरैर्दिव्यगंधैश्च पताकैर्वृषभध्वजैः || २५ || वितानोपरिसंछन्नमुक्तादामोपशोभिते || शिवपूजास्थले तत्र चासनं परिकल्पयेत् || २६ || (वीरागमे) || पृ० ११३) आसननिर्णयः वंशासने दरिद्रत्वं पाषाणे व्याधिपीडनं || धरण्यां दुःखसंभूतिर्दौर्भाग्यं दारुकासने || २७ || तृणासने यशोहानिः पल्लवे चित्तविभ्रमः || यथोचितेष्वासनेषु निषिद्धानि परित्यजेत् || २८ || कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि || स्यात्पुष्टिश्च सुकौशेये शांतिं वै वेत्रविष्टरे || २९ || वस्त्रासने व्याधिनाशः कंबले दुःखमोचनम् || अभिचारादिकं नीले रक्ते वश्यादिकं भवेत् || धवले शांतिकं प्रोक्तं सर्वार्थश्चित्रकंबले || ३० || इति श्रीमद्वीरशैवाचारप्रदीपिकायां पूजाप्रकरणे शिवार्चनस्थानगृहनिर्माणतन्माहात्म्यतदलंकारनिर्णयं नाम पंचदशोऽध्यायः || पृ० ११४) अथ षोडशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ संमार्जनं तन्माहात्म्यकथनं || संमार्जनाच्छतं पुण्यं सहस्रमनुलेपनात् || रेखादशसहस्त्रं तु चानंतं पद्मलेखनात् || १ || बंधो भवहरश्चैव स्वस्तिकं शत्रुनाशनम् || पत्रपुष्पफलान्येव मुद्रा वै मोक्षसाधनम् || २ || देवायतनभूमेश्च मार्जन्या मृदुसूक्ष्मया || शनैः संमार्जनं कृत्वा महत्पुण्यमवाप्नुयात् || ३ || पांसूनां यावती संख्या विभोर्मार्जनकर्मणि || तावदब्दसहस्राणि शिवलोके महीयते || ४ || यो रुद्रायतने भक्त्या कुरुते मार्जनक्रियां || तेन पुण्यप्रभावेन सर्वपापं व्यपोहति || ५ || यावंत्यः पांसुकणिका मार्जितास्तु शिवालये || दिनानि दिवि तावन्ति तिष्ठत्यस्तमितोनरः || ६ || अहन्यहनि यत्पापं कुरुते मुनिसत्तम || गोचर्ममात्रसंमार्जान्निहन्त्येव शिवालये || ७ || (शिवरहस्ये) दुर्वासा उवाच || संमार्जनं तु यः कुर्याद्देवतायतनस्य च || चांद्रायणसहस्राणां फलं मासेन लभ्यते || ८ || पृ० ११५) शिवालयसंमार्जनविधिः नैरंतर्येण यः कुर्यात्पक्षं संमार्जनादिकम् || युगकोटिशतं सोऽपि रुद्रलोके महीयते || ९ || भूशुद्ध्यर्थं लेपनमंत्रः || जलेन शीलमुत्पन्नं शीलेन स्थलसंस्थितिः || स्थलेन मेदिनी सर्वा मूलस्तंभाय शंभवे || १० || अनुलेपविधिं वक्ष्ये सर्वपापप्रणाशनं || गोचर्ममात्रं कुर्वीत षट्संमार्जनमेव च || ११ || गोमयं रोचनं मूत्रं दधि क्षीरं घृतं गवां || षडंगानि पवित्राणि सर्वसिद्धिकराणि च || १२ || खसंस्थं गोमयं ग्राह्य स्थाने वा पतितं शुभे || उपर्यधश्च संत्यज्य प्रत्यग्रं जंतुवर्जितम् || १३ || नाहरेन्मृतवत्साया न वंध्यायास्तु गोमयं || आर्ताया नवसूताया रोगिण्या नानयेद्ध्रुवम् || १४ || गोमयेन सतोयेन यः कुर्यादनुलेपनम् || पश्यन्परिहरन्जंतूंश्चांद्रायणफलं लभेत् || १५ || क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः || न क्षीयेत महादानमभयं सर्वदेहिनाम् || १६ || वस्त्रपूतेन तोयेन कार्यं चैवानुलेपनम् || शिवक्षेत्रे मुनिश्रेष्ठा नात्र कार्या विचारणा || १७ || आपः पूता भवन्त्येव वस्त्रपूताः समुद्धृताः || आफेना मुनिशार्दूला नदेयाश्च विशेषतः || १८ || तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः || पृ० ११६) अद्भिः कार्याणि सततं पूताभिः सर्वसिद्धये || १९ || संमार्जने तु मर्त्यानां मंडले च विशेषतः || अग्नौ खंडनके चैव पेषणे तोयसंग्रहे || २० || हिंसा यथा च न भवेत्तथा यत्नं समाचरेत् || अहिंसेयं परो धर्मः सर्वेषां प्राणिनां भुवि || यद्दानमभयं पुण्यं सर्वदानोत्तमं शुभं || २१ || तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा मनसा कर्मणा || वाचा सर्वदाऽहिंसकं नरम् || रक्षन्ते जंतवः सर्वे हिंसकं बाधयन्ति च || २२ || त्रैलोक्यमखिलं हत्वा यत्पापं परिकीर्तितम् || शिवालये निहत्यैकं तत्पापं प्राप्नुयाद्ध्रुवम् || २३ || त्रैलोक्यमखिलं दत्वा यत्फलं वेदपारगे || तत्फलं कोटिगुणितं लभतेऽहिंसको नरः || २४ || तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा || कार्यमभ्युक्षणं चैव परिहृत्योपलेपनम् || २५ || ग्रंथांतरे || यः कुर्याद्वस्त्रपूतेन गंधगोमयवारिणा || आलेपनं यथान्यायं चांद्रायणफलं लभेत् || २६ || नित्यं संमार्जितं गेहं पुण्यं च शिवमंदिरम् || संमार्जनेन रहितं गेहं चांडालवेश्मवत् || २७ || वर्णं वक्ष्यामि विप्रेन्द्राः सर्वकामार्थसाधकम् || षड्भिर्द्रव्यैः समालिप्य मंडलं गोमयेन च || २८ || चतुरस्रं विधानेन चाद्भिरभ्युक्ष्य मंत्रवित् || पृ० ११७) रंगवल्लीविधानम् मुक्ताफलमयैश्चूर्णैरिंद्रनीलमयैस्तथा || २९ || पद्मरागमयैश्चैव स्फाटिकैश्च सुशोभनैः || तथा मारकतैश्चैव सौवर्णै राजतैस्तथा || ३० || शालिपिष्ठादिभिर्वापि पद्मान्यालिख्य निर्धनः || निवेदयेच्च देवाय क्षितिदानफलं लभेत् || ३१ || श्वेतपाषाणपिष्टेन शालिपिष्टेन वाचरेत् || काचपाषाणवज्राणां चूर्णैः प्रावालमौक्तिकैः || ३२ || हरिद्वर्णयुतैः कुर्यात्कृत्रिमैश्च विशेषतः || ३३ || (मत्स्यपुराणे) शंखचक्रैश्च कटकैः स्वस्तिकांकुशचामरैः || पद्मोत्पलानां रजसा नानावर्णैश्च कारयेत् || ३४ || विचित्रकुसुमाकीर्णं मध्ये पंकजभूषितम् || वल्लीजातिसमोपेतं पंचवर्णैश्च कारयेत् || ३५ || स्वस्तिकं वा त्रिशूलं वा पद्मबंधं तु कारयेत् || यवगोधूमचूर्णेन शालिपिष्टेन चांबिके || ३६ || ईश्वरस्याग्रभागे तु चतुर्वर्णैश्च संलिखेत् || गोमयेनोपलिप्तायां शुद्धायां भक्तिमान्नरः || लेखयेत्प्रीतये तत्र शिवलोके महीयते || ३७ || नूतनं शालिपिष्टं तत्फलके संविशोधितम् || गव्येन पयसा सार्धं पेषणीयं प्रयत्नतः || ३८ || तस्मिन्संमिश्रयेच्चूर्णं हरिद्रायाश्चनिर्मलम् || हरितालं मिश्रयित्वा कांस्ये कांस्येनमर्दयेत् || ३९ || एतत्पंचकसंयोगे पंचवर्णं भवेत्ततः || पृ० ११८) पंचवर्णात्मकं पिष्टं मुनीनां संमतं त्विदम् || ४० || शुक्लकृष्णारुणश्यामपीतवर्णा महात्मनः || पंचवर्णा महेशस्य कीर्तिताः पंचमूर्तयः || ४१ || एतैः शिवस्य पुरतःपद्मान्यष्टदलानि तु || सततं विन्यसेद्भक्त्या नियमस्थः समाहितः || ४२ || काचपाषाणवज्रैश्च दारुणा चैव कारयेत् || कदाचिद्वर्णकैः कुर्यात्कृत्रिमैश्च विशेषतः || स तु सर्वप्रदो नृर्णां शिवसायुज्यकारकः || ४३ || गजवाजिरथांदोलछत्रचामरमंकुशं || पताकाशंखचक्रादींस्तथा कल्पलतावलीम् || ४४ || आस्थानमंडपं पूर्णं कलशं पीतवर्णकम् || नाट्यक्रमं तोरणं च हेमरत्नविभूषितम् || ४५ || दोलां च सर्वतोभद्रं चंद्रं कुसुमबंधनम् || पुष्पास्त्रदहनं पुष्पमंडपं पुष्पमालिकाम् || ४६ || देवालयं मनोरम्यं देवसिंहासनं तथा || नागबंधं नागवल्लीं कुलपर्वतसंहतिम् || ४७ || तथा कुवलयाकारमष्टकोणं विशेषतः || षट्कोणं पंचकोणं वा चतुरष्टदलान्वितम् || ४८ || तथा षोडशपत्रं च न्यसेत्पद्मसहस्रकं || चंद्रार्कमंडलं पद्मबंधं पद्मासनं तथा || ४९ || इत्येवमादिविविधं वर्णकं सुमनोहरम् || भक्त्या विरचयेत्प्रीत्या देवदेवस्य संनिधौ || ५० || फलं तस्य विशालाक्षि ब्रह्मादिभिरपि ध्रुवम् || श्रोतुं वर्णयितुं नापि शक्यं गिरिवरात्मजे || ५१ || पृ० ११९) रंगवल्लीफलकथनम् तथापि कथ्यतेऽस्माभिर्यथाशक्ति यथामति || यज्ञानां कोटयश्चैव तथा नियमकोटयः || तीर्थानां कोटयश्चैव कोट्यंशेनापि नो समाः || ५२ || अयुताब्दसहस्रेण साधितस्य महीयसः || पंचाग्निमध्यतपसः फलं यत्समुदाहृतं || ५३ || तत्फलं लभते मर्त्यो मासत्रयमतंद्रितः || विधाय वर्णकं भक्त्या देवदेवस्य शूलिनः || ५४ || यावंतः पांसवस्तत्र रजसः पतिता भुवि || तावद्वर्षसहस्राणि शिवलोके महीयते || ५५ || लोमश उवाच || कोटिशो जप्यमानादिजपादथ च वैदिकात् || अधिकं वर्णकं प्राहुरशेषफलदायकम् || ५६ || पुरा चित्ररथो नाम राजा वर्णकमुत्तमम् || चित्रं विन्यस्य देवाय शिवसायुज्यमाप्तवान् || ५७ || तस्मात्त्वमपि गौरीहवर्णकं रुचिरं विभोः || विन्यस्य पतिमीशानं लभस्व वरवर्णिनि || ५८ || नंद्युवाच || इति प्रोक्तं वचः श्रुत्वा लोमशेन महात्मना || गौरी भक्त्या हि विन्यस्य वर्णकं रुचिराकृतिम् || ५९ || चित्रं विचित्रं विख्यातं पद्मं च सुमनोहरम् || मुदा संतोष्य देवेशं तत्क्षणात्तु महेश्वरम् || कृत्वा प्रसन्नं सा गौरी पतिमेनमवाप हि || ६० || इति श्रुतं मयापूर्वमृषयः शंसितव्रताः || वर्णकस्य विधानं तत्सकलं सर्वकामदम् || ६१ || पृ० १२०) इतः परं करचरणमुखप्रक्षालनविधौ उदकाभिमंत्रणं विधीयते || ओं आपो वा इद ? सर्वं विश्वाभूतान्यापः प्राणा वा आपः पशवस्त्वापोऽन्नमापोऽमृतमापः || सम्राडापो विराडापः स्वराडापो यजू ? ष्यापश्छंदां ? स्यापो ज्योतिं ? ष्यापः सत्यमापः सर्वा देवता आपो ब्रह्मभूर्भुवः स्वरों || इति मंत्रेण जलमभिमंत्र्य तेनोदकेन करचरणमुखप्रक्षालनं कृत्वा, ततः सर्वज्ञाय नम इति मन्त्रमुच्चारयन् पूजागृहमाविशेत् || गोमुखं स्वस्तिकं चैव पद्मं चैवार्धचंद्रकम् || वीरं योगासनं चेति षड्विधं प्रोक्तमासनं || ६२ || वामपादोपरि न्यस्य दक्षिणं जानुमंडलम् || ऊरुपादतले न्यस्येदेतत्स्वस्तिकमासनं || ६३ || गुल्फद्वयसमायुक्तं जंघाद्वंद्व तले न्यसेत् || अर्धचंद्रं समाख्यातं वीरासनमथो शृणु || ६४ || वामं दक्षिणतो न्यस्य भुजयोः संन्यसेत्पुनः || एतद्वीरासनं प्रोक्तं योगासनमथो शृणु || ६५ || योगबद्धशरीरं तु जानुभ्यां मिलितं भवेत् || जान्वोरुपरि संन्यस्य सिद्धं योगासनं स्मृतम् || ६६ || ऊरुद्वयोपरिष्ठाच्च सन्यस्तं चरणद्वयम् || ऊर्ध्वं दक्षिणपादं तु न्यसेत्पद्मासनं स्मृतम् || ६७ || ओं ह्रूं पृथिव्यात्मने नमः निवृत्ति कलात्मने नमः || पृ० १२१) स्थानशुद्ध्यादिविधानम् इति मंत्रेण स्थानशुद्धिं कारयेत् || पूर्वाभिमुखो भूत्वा चोत्तराभिमुखोऽथवा || एवमासनबद्धस्तु विंशत्पंचाक्षरं स्मरेत् || ६८ || ओं ह्रांः अनंतशक्तिधाम्ने ज्योतीरूपाय शिवायास्त्राय फट् || इति मंत्रेण मनःशुद्धिं कारयेत् || इति श्रीवीरशैवाचारप्रदीपिकायां शिवपूजाप्रकरणे रंगवल्ल्याद्यासनविधिर्नाम षोडशोध्यायः || १६ || पृ० १२२) अथ सप्तदशोऽध्यायः | || श्रीगुरुभ्यो नमः|| अथ पूजायां जवनिकापटस्य कारणं विभूत्युत्पत्तिं तत्कल्पविधिं तद्धारणं तन्माहात्म्यं च वक्ष्यामि तद्यथा || पापी कोऽपि परिभ्रष्टो नास्तिकः शिवनिंदकः || दुर्मुखश्च दुराचारी मूर्खः स्वगुरुनिंदकः || १ || एतेषां दर्शने जाते सा पूजा निष्फला भवेत् || दूषकानर्चनाकाले सर्वथा न विलोकयेत् || २ || प्रमादादर्चनाकाले पश्येद्यदि बहिर्नरम् || प्रायश्चित्तेन महता शुद्धिमाप्नोति मानवः || ३ || एतेषां दर्शने प्रायश्चित्तमष्टोत्तरं शतम् || श्रीमत्पंचाक्षरं मंत्रं जपेद्ध्यात्वा शिवं नरः || ४ || स्पृष्ट्वा बहिर्नरं स्नायात्सचैलं शिवनिंदकम् || दत्वा तु भस्म तांबूलं मद्भक्तांश्चैव भोजयेत् || ५ || भविशब्दः कुशब्दश्च हिंसाशब्दश्च निंदितः || श्वपचादिकशब्दश्च भ्रांतिकः कर्कशस्तथा || ६ || बीभत्सको महादेवीत्यष्टौ शब्दान्विवर्जयेत् || प्रारंभाद्यवसानान्तं सर्वं मौनेन कारयेत् || ७ || भाषणं यदि चेत्तत्र वदेत्संस्कृतया गिरा || अर्चनादौ यवनिकां कृत्वेशार्चनमाचरेत् || ८ || सेवकान्याचकांश्चोपकरणद्रव्यसाधकान् || पृ० १२३) भस्मस्वरूपनिरूपणम् शिवभक्तांश्च कुर्वीत भस्मरुद्राक्षधारिणः || ९ || नमः शिवाय सोमाय षट्त्रिंशत्तत्त्वरूपिणे || अग्निष्टोमात्मने भस्मज्योतिषे शांततेजसे || १० || सर्वाण्यपि च शास्त्राणि पुराणानि विशेषतः || श्रुतिस्मृतीतिहासानि चान्यान्यालोक्य कृत्स्नशः || ११ || भस्मतत्त्वस्य विस्तारं विधानं च सविस्तरम् || माहात्म्यविस्तरं कृत्स्नं ततः शास्त्रोक्तमार्गतः || १२ || तत्तदुक्तप्रकारेण सारं संगृह्य सादरम् || विभूतिमहिमाकल्परत्नसारसमुच्चयम् || १३ || अपवर्गपदं नेतु क्रियते भस्मपद्धतिः || (पार्वत्युवाच) || भगवन् सर्वधर्मज्ञ लोकेश शशिभूषण || १४ || दर्शनात्स्पर्शनाद्ध्यानाद्धारणाच्छ्रवणादपि || शुद्धिं ददाति सततं कः पदार्थो महेश्वर || १५ || ईश्वर उवाच || शंकरस्य पवित्रं यत् हरस्याभरणं तथा || लोकवश्यकरं पुण्यं पापनाशं दिने दिने || १६ || रक्षार्थं मंगलार्थं च शुद्ध्यर्थं चापि भामिनि || भूषार्थं सर्वलोकानां भस्म दत्तं मया पुरा || १७ || विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनः || एतानि पंच नामानि हेतुभिः पंचभिर्भृशं || १८ || विभूतिर्भूतिहेतुत्वाद्भसितं तत्त्वभासनात् || पापानां भर्त्सनाद्भस्म क्षरणात्क्षारमापदाम् || रक्षणात्सर्वभूतेभ्यो रक्षेति परिगीयते || १९ || पृ० १२४) नंदा भद्रा च सुरभिः सुशीला सुमनास्तथा || पंच गावो विभोर्जातास्सद्योजातादिवक्त्रतः || २० || कपिलः कृष्णधवलौ धूम्रो रक्तस्तथैव च || नंदादीनां गवां वर्णाः क्रमेण परिकीर्तिताः || २१ || सद्योजाताद्विभूतिश्च वामाद्भसितमेव च || अघोराद्भस्म संजातं पुरुषात्क्षारनाम च || २२ || रक्षा चेशानवक्त्राच्च नंदादिद्वारतोऽभवन् || धारयेन्नित्यकार्येषु विभूतिं च प्रयत्नतः || २३ || नैमित्तिकेषु भसितं क्षारं कार्येषु सर्वदा || प्रायश्चित्तेषु सर्वेषु भस्म नाम यथाविधि || रक्षा च मोक्षकार्येषु प्रयोक्तव्या सदा बुधैः || २४ || भस्म ज्योतिर्भवत्येव शिवाख्यं न हि संशयः || जाबालोपनिषत्सर्वं प्राहेदं परया मुदा || २५ || (जाबालोपनिषदि) सद्योजातात्पृथ्वी जाता तस्या निवृत्तिः कला तस्याः कपिलो वर्णः सा नंदा तस्याः गोमयेन विभूतिर्जाता || वामदेवादुदकं तस्मात्प्रतिष्ठा तस्याः कृष्णवर्णा भद्रा तस्याः गोमयेन भसितं जातम् || अघोराद्वह्निस्तस्माद्विद्या तस्या रक्तवर्णा सुरभिस्तस्या पृ० १२५) भस्मविधानम् गोमयेन भस्म संजातम् || तत्पुरुषाद्वायुस्तस्माच्छांतिः तस्याः श्वेतवर्णा सुशीला तस्याः गोमयेन क्षारं जातम् || ईशानादाकाशस्तस्माच्छांत्यतीता तस्याश्चित्रवर्णा सुमनाः तस्याः गोमयेन रक्षा जाता || २६ || ऐश्वर्यकारणाद्भूतिर्भासनाद्भसितं मतं || सर्वाघभर्त्सनाद्भस्म चापदां क्षरणात्क्षरं || २७ || भूतप्रेतपिशाचादिब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षणाद्रक्षेत् इ तेषां रुद्रानलजत्वं वक्ष्ये || २८ || अग्नौ ज्वालावृतं रुद्रं वह्निमंडलमध्यगं || ध्यायेत्कलादशयुतं शक्तिस्वस्तिकधारिणं इति || २९ || (अथ श्रुतिः) आदौ रुद्राग्निं संचित्य रुद्राग्नौ भूत्यादिपंचात्मकं भस्म संपादयामीति संकल्प्य || (अथ उपश्रुतिः) विकलांगां उन्मत्तां महाशनां खलामलसामशिवचिह्नां कृशांगां वत्सहीनां वंध्यां अंगहीनां अशांतां अदुग्धदोहिनीं छिन्नेंद्रियामजग्धतृणां केशचैलास्थिभक्षिणीं संधिनीं नवसूतां रोगान्वितां धेनुं विहाय अप्रशस्तभूम्यादिपतितं क्लिन्नं दुर्गन्धं पर्युषितादि गोमयं च विहाय प्रशस्तं पृ० १२६) गोमयं संगृह्य ईशानतत्पुरुषाघोरवामदेवसद्योजाताद्यैरुत्पत्तिस्थितिसंहारभेदैर्ग्रह णकवलनशोषणदहनप्लावनशोधनादिमंत्रानुक्रमेण पंचबीजैः सह पंचमंत्रैर्विभूत्यादीन् संपाद्य सुदृढरम्यक्षालितप्रोक्षितचूतबिल्वाशोकदारुमृण्मयपात्रे शैलमयपात्रे वा धनमिव स्थापयेत् || ३० || भस्मोत्पादनमुद्दिष्टं चतुर्धा तंत्रवेदिभिः || कल्पं चैवानुकल्पं यदुपकल्पमकल्पकम् || एषामादिममुत्कृष्टमन्यत्सर्वमभावतः || ३१ || वायुसंहितायां || कपिलागोमयं स्वस्थं गृहीत्वा गगनेऽपतत् || न क्लिन्नं नातिकठिणं न दुर्गंधं न चोषितं || ३२ || उपर्यधः परित्यज्य गृह्णीयात्पतितं भुवि || सद्येन गोमयं ग्राह्यं पिंडं वामेन कारयेत् || ३३ || तत्पुरुषेण तु संशोष्य दहेच्चाघोरवह्निना || सिकतांगारपाषाणानीशामेन विशोधयेत् || ३४ || अपक्कमतिपक्कं च संत्यज्य भसितं शिवम् || आदाय वाससालोड्य भस्मपात्रे [भस्माधारे] विनिक्षिपेत् || ३५ || सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे || पृ० १२७) विन्यस्य मंत्री मंत्रेण पात्रे भस्म विनिक्षिपेत् || ३६ || (वीरतंत्रे) सौवर्णमुत्तमं पात्रं मध्यमं राजतं स्मृतम् || अधमं ताम्रपात्रं स्यादलाभे मृण्मयं भवेत् || तैजसं दारवं वापि मृण्मयं चैलमेव वा || ३७ || अन्यद्वा शोधितं शुद्धं भस्माधारं प्रकल्पयेत् || क्षेमस्थाने शुभे शुद्धे धनवद्भस्म निक्षिपेत् || ३८ || प्रस्थितो भस्म गृह्णीयात्स्वयं वानुचरोऽपि वा || न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् || ३९ || न संस्पृशेन्नीचहस्तैर्नोपेक्षेत न लंघयेत् || शुचिः सन् भस्म चादाय कुर्याच्चैवाभिमंत्रितम् || ४० || भुक्तिमुक्तिदमाग्नेयं विशुद्धं भसितं तथा || स्नानं चतुर्विधं भस्मजन्यं कल्पादिभेदतः || ४१ || कल्पं चैवानुकल्पं यदुपकल्पमकल्पकम् || तेष्वाद्यतममुत्कृष्टतममन्यदभावतः || ४२ || रोगादिरहिता गौश्च कृष्णा वा कपिलाऽपि वा || तस्या गोमयमादाय स्वस्थं पद्मदलेऽपि वा || ४३ || कल्पं तद्भस्म विज्ञेयमनुकल्पमथोच्यते || वनेषु गोमयं यच्च शुष्कं चूर्णीकृतं तथा || ४४ || दग्धं चैवानुकल्पाख्यमापणादिगतं तु यत् || पृ० १२८) वस्त्रेणोत्तारितं भस्म गोमूत्राबद्धपिंडितम् || ४५ || दग्धं प्रागुक्तविधिना भवेद्भस्मोपकल्पकम् || अन्यैरापादितं भस्माप्यकल्पमिति निश्चितम् || ४६ || एष्वेकतममादाय पात्रेषु कलशादिषु || त्रिसंध्यमाचरेत्स्नानं यथासंभवमेव वा || ४७ || (क्रियासारे) एवं विधिकृतेनैव भस्मना स्नानमाचरेत् || स्नपनोपक्रमे पादौ करौ प्रक्षाल्य वाग्यतः || ४८ || ततो मूलेन भसितमष्टकृत्वोऽभिमंत्र्य च || ईशानेन शिरोदेशं मुखं तत्पुरुषेण तु || ४९ || ऊरुदेशं ह्यघोरेण गुह्यं वामेन चैव हि || सद्येन पादौ सर्वांगं प्रणवेनैव सेचयेत् || ५० || (वासिष्ठलैंगे) आग्नेयं भस्मना स्नानं मुनीनां तु विधीयते || भस्मस्नानात्परं शुद्धं नास्ति न श्रूयतेऽपि च || ५१ || मायिकं तु जलस्नानं मर्त्यानां बंधनं विदुः || तद्बंधछेदनार्थाय भस्मस्नानमिहोच्यते || ५२ || (शिवधर्मे) भस्मस्नानं जलस्नानादसंख्येयगुणाधिकं || तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् || ५३ || (देविकालोत्तरे) वारुणं वारिणा स्नानमाग्नेयं भस्मना भवेत् || वृष्ट्या सातपया दिव्यं वायव्यं रजसा गवां || ५४ || मानसं ब्रह्मतादात्म्यं स्नानान्येतानि वै विदुः || पृ० १२९) भस्मधारणमाहात्म्यम् दिव्यवारुणवायव्यमानसेभ्योऽपि चोत्तमम् || ५५ || इति मत्वा शिवो भस्मस्नानमादौ ह्यपूरयत् || विष्ण्वादिदेवा ऋषयो गंधर्वा यक्षकिंनराः || ५६ || मरुद्गणाः पितृगणाः सर्वे भूतगणा अपि || भक्त्या नित्यं प्रकुर्वंते भस्मस्नानं प्रयत्नतः || ५७ || तस्मादेव हि तत्स्नानमाग्नेयं यः समाचरेत् || भवपाशैर्विनिर्मुक्तः शिवलोके महीयते || ५८ || ज्वरो यक्ष्मा पिशाचाश्च ह्यसुरा यातुधानकाः || कुमारग्रहभूताश्च कृष्मांडा डाकिनी तथा || ब्रह्मराक्षसमुख्याश्च पूतनाकुष्ठगुल्मकाः|| ५९ || भगंदराणि चाशीतिवातरोगाः क्षयादिकाः || ते चतुः षष्ठिपित्ताश्च श्लेष्माः सप्तत्रिपंचकाः || ६० || व्याघ्राः सर्पाः हिंस्रकास्तु तेऽन्ये दुष्टमृगा अपि || भस्मस्नानेन नश्यंति सिंहेनैव गजा यथा || ६१ || यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना || तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनं || ६२ || (स्कांदे) कृत्वा तु चातुलं पापं मृत्युकाले च यो जनः || भस्मस्नानी भवेत्किंचित्क्षिप्रं प्राणी प्रमुच्यते || ६३ || (शिवधर्मे) महापातकसंयुक्तो युक्तो वा सर्वपातकैः || भस्मस्नानेन सर्वस्मान्मुच्यते स तु पातकात् || ६४ || यः स्नानमाचरेन्नित्यमाग्नेयं पावनं परं || पृ० १३०) कुलैकविंशमुत्तार्य स गच्छेच्छिवमंदिरं || ६५ || भस्मस्नानं तु योगी वै कुर्यादापादमस्तकम् || त्रिसंध्यमाचरेन्नित्यं योगस्य फलमाप्नुयात् || ६६ || (भीमागमे) सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलं || तत्फलात्कोटिगुणितं भस्मस्नानाल्लभेन्नरः || ६७ || (लैंगे) भस्मस्नानाद्विशुद्धात्मा जितक्रोधो जितेंद्रियः || मत्समीपमुपागत्य न भूयो विनिवर्तते || ६८ || (स्कांदे) भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते || इत्युक्त्वा मुनिदेवेभ्यः स्नातो यः स शिवः स्वयम् || ६९ || (गारुडे) पंचाक्षरजपं भस्मस्नानं लिंगार्चनं त्रयं || कदाचिदपि न त्याज्यं यथाशक्ति समाचरेत् || ७० || (क्रियासारे) चंदनं कुंकुमं चैव मृगनाभ्यादिकानि च || गंधाद्यल्पफलं त्यक्त्वा भस्मस्नानपरो भवेत् || एवं स्नानक्रमः प्रोक्तो भुक्तिमुक्तिप्रदायकः || ७१ || (वासिष्ठलैंगे) वसिष्ठोक्तवचनानि || पंचाक्षरेण मंत्रेण प्रणवेन युतेन च || उद्धूलनं त्रिपुंड्रं च नित्यं भक्त्या समाचरेत् || ७२ || (एकपादपुराणे) नमः शिवायेति भस्म कृत्वा सप्ताभिमंत्रितम् || उद्धूलयेच्छरीरे तु त्रिपुंड्रं चापि धारयेत् || ७३ || सुप्रभेदागमे || स्थानभेदं प्रवक्ष्यामि मूर्धा भालं तथैव च || कर्णौ च चक्षुषी चैव नासिका चास्यमेव च || ७४ || पृ० १३१) ग्रीवा स्कंधौ च बाहू च कूर्परे च तथा मणी || हृन्नाभिमेढ्रं पायुश्च ऊरू जानू च जंघके || ७५ || गुल्फौ पादद्वयं चैव पृष्ठभागद्वयं तथा || त्रिंशत्स्थानमिति प्रोक्तं भस्मलेपनसंज्ञकम् || ७६ || ग्रंथांतरे || रुद्राध्यायी सदा भस्मलिप्तांगो मुच्यते गदात् || कुष्ठयक्ष्मादिरोगेभ्यस्तेजोराशी भवेत्पुनः || ७७ || स्कांदे || शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा || देवताभिर्धृतं भस्म त्रिपुंड्रोद्धूलनादिकम् || ७८ || यक्षराक्षसगंधर्वसिद्धविद्याधरादिभिः || मुनिभिश्च धृतं भस्म त्रिपुंड्रं चापि सर्वदा || ७९ || मानवपुराणे || त्रिपुंड्रलेपनं नित्यं यः करोति सदा मुदा || स एव धन्यो विद्वांश्च नेतरो मुनिपुंगवाः || ८० || || स्कांदे || उमादेव्या च लक्ष्म्या च वाग्देव्या मातृकादिभिः || सर्वस्त्रीभिर्धृतं भस्म त्रिपुंड्रोद्धूलनादिकम् || ८१ || नैव प्रमादितव्यं च भ्रमादपि कदाचन || भूत्यै चोद्धूलनं तिर्यक्त्रिपुंड्रस्य च धारणम् || ८२ || त्रिपुंड्रधारणं भक्त्या तथा देहावगुंठनम् || यो न कुर्यात्समंत्रेण स मर्त्यः पतितो भवेत् || ८३ || महापातकयुक्तानां पूर्वजन्मादिजन्मसु || त्रिपुंड्रोद्धूलने द्वेषो जायते सुदृढं भुवि || ८४ || पृ० १३२) उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये || तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः || ८५ || उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये || तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि || ८६ || उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये || तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः || ८७ || त्रिपुंड्रोद्धूलने श्रद्धा येषां नैवाभिजायते || महापातकदोषेण जुष्टास्ते नात्र संशयः || ८८ || भूत्यैवोद्धूलनं तिर्यक्त्रिपुंड्रस्य च धारणं || वरिष्ठं सर्वधर्मेभ्यस्ततस्तन्नित्यमाचरेत् || ८९ || भस्मनोद्धूलनं यच्च तथा तिर्यक्त्रिपुंड्रकम् || मोक्षार्थिना प्रमादेन न त्यजेदिति हि श्रुतिः || ९० || स्कांदे शंकरसंहितायां || भस्मसंच्छन्नसर्वांगो यत्र गच्छति यः पुमान् || सर्वपातकयुक्तोऽपि तत्र संनिहितः शिवः || ९१ || भस्मसंछन्नसर्वांगो यः स्तौति श्रद्धया शिवम् || सर्वपातकयुक्तोऽपि शुद्धो भवति मानवः || ९२ || भस्मसंछन्नदेहः सन् यः प्रणामं करोति वै || स पातकविनिर्मुक्तः सद्यो भवति मानवः || ९३ || शिवधर्मे || भस्मनिष्ठं समाहूय भक्त्या पूजयते च यः || तत्तुल्यं लभ्यते नात्र सांगैः क्रतुशतैरपि || ९४ || पृ० १३३) गारुडपुराणे || भूतप्रेतपिशाचाद्या रोगाश्चातीवदुःसहाः || भस्मनिष्ठस्य सांनिध्याद्विद्रवंति न संशयः || ९५ || वासिष्ठलैंगे || भस्मसंछन्नसर्वांगं दृष्ट्वोत्तिष्ठति यः पुमान् || तं दृष्ट्वा देवराजोऽपि नमस्कार करोति वै || ९६ || शैवसंहितायाम् || यत्र भुंजीत भस्मांगी मूर्खः पंडित एव वा || तत्र भुंक्ते महादेवः सपत्नीको वृषध्वजः || ९७ || अथ ऊर्ध्वपुंड्रनिरसनमनेकवचनैराह || स्कांदे || ऊर्ध्वपुंड्रं द्विजः कुर्याल्लीलयापि कदाचन || तदाकारेण शस्त्रेण भिद्यते यमकिंकरैः || ९८ || पराशरपुराणे || ऊर्ध्वपुंड्रं च शूलं च वर्तुलं चापि सर्वदा || ललाटे धारयिष्यंति मनुष्याः पापकर्मिणः || ९९ || शांभवपुराणे || अशुद्धमिति संप्रोक्तं वर्तुलं तूर्ध्वपुंड्रकम् || तदाकारेण शस्त्रेण घ्नंति ते यमकिंकराः || १० || सूतसंहितायां || अश्रौतमूर्ध्वपुंड्रं वै ललाटे श्रद्धया सह || धारयिष्यंति मोहेन पाषंडाः पापकृज्जनाः || १०१ || मानवपुराणे || ऊर्ध्वपुंड्रं च शूलं च वर्तुलं चांकुशाकृतिं || तत्र निष्ठा न कर्तव्या कदाचिद्वेदवित्तमैः || १०२ || मनुस्मृतौ || ऊर्ध्वपुंड्रमुखं दृष्ट्वा व्रतं चांद्रायणं चरेत् || १०३ || अथ भस्मपुंड्रतिर्यग्लक्षणं तन्माहात्म्यं वक्ष्यामि || पृ० १३४) कालाग्निरुद्रोपनिषदि || अथ रुद्रं भगवंतं सनत्कुमारः पप्रच्छ अभिधेहि भगवन् त्रिपुंड्रविधिं सतत्वं || किं द्रव्यं कियत्स्थानं किं प्रमाणं कति रेखाः किं दैवतं || का शक्तिः किं फलं इति च || शिव उवाच || द्रव्यं तदाग्नेयं भस्म सद्यादिपंचब्रह्ममंत्रैः परिगृह्य मानस्तोकेति समुद्धृत्य त्रियायुषं जमदग्निराह || शिरोललाटस्कंधेषु त्रियायुषत्र्यंबकैस्तियक्तिस्रो रेखाः प्रकुर्वीत वृत्तमेतच्छांभवं सर्ववेदेषु वेदवादिभिरुक्तं तत्समाचरेन्मुमुक्षुभिरपुनर्भवाय || आललाटात् भ्रुवोः सांनिध्यवर्तिनी या प्रथमा रेखा आहवनीयाग्निः अकारो वर्णः रजो गुणः लोकस्तु भूर्लोकश्चात्मा क्रियाशक्तिः ऋग्वेदः || प्रातःसवनं रुद्रो देवता || इति प्रथमा रेखा || या चास्य भस्मनः द्वितीया रेखा तस्याः प्रकारमाह || गार्हपत्याग्निः उकारः सत्वगुणः अंतरिक्षलोकः आत्मा इच्छाशक्तिः यजुर्वेदः मध्यंदिनसवनं महेश्वरो देवता || अथ तृतीया रेखा सा दक्षिणाग्निः मकारस्तमोगुणः द्यौः परमात्मा पृ० १३५) भस्मधारणविधानम् ज्ञानशक्तिः सामवेदः सायं सवनं सदाशिवो देवता || १०४ || भस्मत्रिपुंड्रं यः कुर्याद्ब्रह्मचारी च बुद्धिमान् || गृहस्थो वनवासी वा यतिर्वा मुच्यते भयात् || १०५ || तेनेतिहासागमपुराणानां शतसहस्राणि जप्तानि भवंति || प्राणायामानामयुतं जप्तं भवति || रूपे रूपे दशपूर्वान् पुनाति देशोत्तराणां पंक्तिं पुनाति || स समस्ततीर्थेषु स्नातो भवति || स सर्वकर्मसु सर्वदा योग्यो भवति || देहं त्यक्त्वा शिवसायुज्यमेति || न स पुनरावर्ततेन स पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः || १०६ || (गरुडपुराणे) मंत्रसंस्कारसंयुक्तं पवित्रमतिपांडुरम् || सुस्निग्धं भसितं मर्त्यैर्भक्त्या धार्यं निरंतरं || १०७ || मध्यमानामिकांगुष्ठैस्तिसृभिर्मूलमंत्रतः || गृहीत्वा च विभूतिं तु प्रोक्षयेत्स्थानभेदतः || १०८ || वामहस्ततले भस्म क्षिप्त्वाच्छाद्यान्यपाणिना || अग्निरित्यादिभिर्मंत्रैः सम्यक् कृत्वाऽभिमंत्रित || १०९ || ततो मूलेन मंत्रेण कुर्याद्देहावगुंठनं || स्थाने पंचदशे चैव धारयेच्च त्रिपुंड्रकम् || ११० || शिरसीशानमंत्रेण पुरुषेण मुखे तथा || हृत्प्रदेशे त्वघोरेण वामदेवेन गुह्यके || १११ || पादौ सद्येन सर्वांगे प्रणवेन च सेचयेत् || ईशेन पंचधा भस्म विकिरेन्मूर्ध्नि यत्नतः || ११२ || मुखे चतुर्धा पुरुषेणाघोरेणाष्टधा हृदि || पृ० १३६) वामेन गुह्यदेशे तु स्थाने पंचदशे तथा || अष्टावंतेन सद्येन पादयोः क्रमशः क्षिपेत् || ११३ || अग्निरित्यादिभिर्मंत्रैः सद्योजातादिमंत्रतः || सर्वांगोद्धूलनं कुर्यादापादतलमस्तकं || ११४ || द्वात्रिंशत्स्थानके वापि षोडशस्थानके तथा || अष्टस्थानेऽपि वा कुर्यात्पंचस्थानेऽथवा स्मृतं || ११५ || स्थानभेदं प्रवक्ष्यामि चातःपरमिदं शृणु || मूर्धा भालं ततः कर्णौ चक्षुषी चैव नासिका || ११६ || आस्यं ग्रीवा स्कंदबाहू कूर्परे च तथा मणी || हृन्नाभिर्मेढ्रपायू च ह्यूरू जानू च जंघके || ११७ || गुल्फौ पादद्वयं चैव पृष्ठभागस्तथैव च || द्वात्रिंशत्स्थानमेतद्धि भस्मना लेपयेत्ततः || ११८ || ललाटकंठस्कंधाश्च बाहू कूर्परकेऽपि च || हृदयं जठरं चैव नाभिः पार्श्वे च पृष्ठकं || ११९ || पादद्वयं च विप्रेंद्राः षोडशस्थानमुच्यते || मूर्धा चैव ललाटं च कंठो बाहू तथैव च || १२० || हृदयं चैव नाभिश्च पृष्ठं चापि विशेषतः || अष्टस्थानमिति प्रोक्तं विशेषाद्भस्म धारयेत् || १२१ || अथ भालं च बाहू च हृदयं नाभिरेव च || पंचस्थानान्यमून्याहुः शिवशास्त्रविशारदाः || १२२ || एकादश त्रिपुंड्रस्य स्थानान्याहुर्मनीषिणः|| शिरोललाटश्रवणद्वयं ग्रीवा भुजद्वयं || १२३ || वक्षो नाभिः पृष्ठभागः ककुदेकादशानि तु || पृ० १३७) स्थानानि च त्रिपुंड्रस्य विज्ञेयानि मनीषिभिः || १२४ || शिवो महेश्वरो रुद्रः श्रीकंठः शंभुरीश्वरः || महादेवः पशुपतिः शंकरो वृषभध्वजः || १२५ || परमात्मेत्यमी रुद्रस्थानाश्चैव यथाक्रमं || त्रिपुंड्रमुक्तस्थानेषु सद्यात्सजलभस्मना || १२६ || शुद्धशीतजलेनैव भस्मना च त्रिपुंड्रकं || यो धारयेदतिप्रीत्या स शिवो नात्र संशयः || १२७ || अकारोऽनामिकः प्रोक्तो ह्युकारो मध्यमांगुलिः || मकारस्तर्जनी प्रोक्ता त्रिभिः कुर्यात्त्रिपुंड्रकम् || १२८ || मध्यांगुलित्रयेणैव स्वदक्षिणकरस्य च || षडंगुलायतं मानमपि वाऽलिकमानकम् || १२९ || नेत्रयुग्मप्रमाणेन भाले दध्यात्त्रिपुंड्रकम् || मध्यमानामिकांगुष्ठैरनुलोमविलोमतः || १३० || धारयेद्यस्त्रिपुड्रं वै स रुद्रो नात्र संशयः || ऋजु श्वेतमनुव्याप्तं स्निग्धं श्रोत्रप्रमाणकं || एवं सलक्षणोपेतं त्रिपुंड्रं सर्वसिद्धिदम् || १३१ || मानवीयसंहितायाम् || प्रातःकाले च माध्याह्ने सायाह्ने च त्रिपुंड्रकम् || कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः || १३२ || अथ श्रुतिः || एवंविधविभूत्या च कुरुते यस्त्रिपुंड्रकं || स रुद्रो धर्मसंयुक्तस्त्रयीमय इति श्रुतिः || १३३ || शिवरहस्ये || वृत्तं || पृ० १३८) समस्ततीर्थोपचया च काशी विश्वेश्वरः सर्वसुरात्मको यः || समस्ततत्वैकरसा विभूतिस्तथा च पुण्यौघमिदं त्रिपुंड्रं || १३४ || स्कांदे || यथा सर्वपुराणेषु काशीक्षेत्रं प्रकीर्तितं || तथा भस्मत्रिपुंड्रं तु सर्वशास्त्रेषु कथ्यते || १३५ || यथा विश्वाधिको रुद्रः सर्ववेदेषु गीयते || तथा वेदपुराणेषु त्रिपुंड्रमपि गीयते || १३६ || वासिष्ठलैंगे || स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति || तथास्य धारणादेव सर्वपापं प्रणश्यति || १३७ || भस्मना वेदमंत्रेण त्रिपुंड्रस्य च धारणं || महापातकसंघाततमसश्चंडभास्करः || १३८ || कूर्मपुराणे || वृत्त || एतानि तानि शिवमंत्रपवित्रितानि भस्मानि कामदहनांगविभूषितानि || त्रैपुंड्रकानि रचितानि ललाटपट्टे लुंपंति दैवलिखितानि दुरक्षराणि || १३९ || ब्रह्मांडपुराणे || न दानेन न यज्ञेन न तपोभिः सुदुष्करैः || न तीर्थयात्रया पुण्यं यत्त्रिपुंड्रेण लभ्यते || १४० || दानयज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद || ज्ञानं तपस्त्रिपुंड्रस्य कलां नार्हंति षोडशीं || १४१ || यथा राजा स्वचिह्नांकं स्वजनं मन्यते सदा || त्रिपुंड्रधारकं तद्वन्मन्यते स शिवः स्वयं || १४२ || द्विजातिर्वांत्यजातिर्वा सितशुद्धेन भस्मना || पृ० १३९) भस्मधारणमाहात्म्यम् धारयेद्यस्त्रिपुंड्रांकं रुद्रस्तेन वशीकृतः || १४३ || त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि वा || सकृत्तिर्यक्त्रिपुंड्रस्य धारणात्सोऽपि मुच्यते || १४४ || शैवसंहितायां || तस्मिन् ज्ञानं परीक्षेत न कुलं न व्रतं तथा || त्रिपुंड्रांकितभालस्तु पूज्य एव हि नारद || १४५ || मानवपुराणे || त्रिपुंड्रधारकं दृष्ट्वा भूतप्रेतपुरःसराः || भीताः प्रकंपिताः शीघ्रं गच्छंत्येव न संशयः || १४६ || त्रिपुंड्रधारिणः पादौ प्रक्षालयति यः पुमान् || सर्वपापविनिर्मुक्तः सद्यो भवति मानवः || १४७ || त्रिपुंड्रधारिणो भिक्षाप्रदानेन हि केवलं || सर्वपापविनिर्मुक्तः शुद्धो भवति मानवः || १४८ || भीमागमे || तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् || येन विप्रेण शिरसि त्रिपुंड्रं भस्मना धृतं || १४९ || कृतं तेनाकृतं सर्वं श्रुतं वाप्यश्रुतं भवेत् || अधीतमनधीतं वै त्रिपुंड्रं यो न धारयेत् || १५० || बोधायनस्मृतौ || वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः || वृथा व्रतोपवासानि त्रिपुड्रं यो न धारयेत् || १५१ || ग्रंथांतरे || सत्यं शौचं तपो यज्ञं तीर्थं देवाग्निपूजनं || अश्वमेधादिकं व्यर्थं त्रिपुंड्रं यो न धारयेत् || १५२ || कौर्मे || न तद्ध्यानं न तद्दानं न तद्ज्ञानं न तत्तपः || विना तिर्यक्त्रिपुंड्रांकं विप्रेण यदनुष्ठितम् || १५३ || पृ० १४०) त्रिपुंड्रधारणं त्यक्त्वा मुक्तिमिच्छंति ये नराः || विषपानेन नित्यत्वं वांच्छमाना इवाप्यमी || १५४ || वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् || त्रिपुंड्रेण विना विप्रो नाधिकारी कदाचन || १५५ || गारुडपुराणे || गोपीमलेन युक्तः सन् शिवं स्पृशति यो द्विजः || स एकविंशतिकुलैर्नरके पच्यते नरः || १५६ || अभावे भस्मनो विप्रो लौकिकाग्नेरथाहरेत् || भस्मत्रिपुंड्रं कुर्याद्वै न कुर्यान्मृत्तिकादिभिः || १५७ || स्रष्टा सृष्टिछलेनाह त्रिपुंड्रस्य प्रशस्ततां || ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलं || १५८ || स्कांदे || तिर्यग्भालं दृश्यते वै सर्वेषां प्राणिनामपि || तदा मानवमूर्खाश्च न कुर्वंति त्रिपुंड्रकं || १५९ || अहो मोहस्य माहात्म्यं किं वक्तव्यं पुनः पुनः || श्रौतभस्मपरित्यागात्पतंते नरके सदा || १६० || कौर्मे || सर्वैर्द्विजैस्त्रिपुंड्रं वै मनसाऽपि न लंघयेत् || श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् || १६१ || क्रियासारे || येषां वपुर्मनुष्याणां त्रिपुंड्रेण विना स्थितम् || श्मशानसदृशं तस्मादस्पृश्यं पुण्यकृज्जनैः || १६२ || गारुडपुराणे || धिग्भस्मरहितं भालं धिग्ग्राममशिवालयं || पृ० १४१) धिग्धिऽऽन्नेशार्चनं जन्म धिग्विद्यामशिवाश्रयाम || १६३ || वासिष्ठलैंगे || येषां क्रोधस्य संप्राप्तिर्भवेत् दृष्ट्वा त्रिपुंड्रकम् || ते तु संकरजातीया ह्यनुमेया विपश्चिता || १६४ || ब्रह्मांडपुराणे || किमत्र बहुनोक्तेन भाषणेन पुनः पुनः || भक्त्या त्रिपुंड्रं धृत्वा तु मोक्षमाप्नोत्यसंशयम् || १६५ || मात्स्ये || वृत्तं || किं यज्ञैः किमनेकतीर्थगमनैः किं वेदपाठश्रमैः किं घोरैर्विविधैस्तपोभिरधुना किं मंत्रतंत्रैर्जपैः || किं ध्यानैः किमनेकदाननिकरैः किं सांख्ययोगभ्रमैर्मोक्षार्थी सितभस्मना च निपुणः कुर्यात्त्रिपुंड्रं बुधः || १६६ || क्रियासारे || तस्मात्सर्वप्रयत्नेन युक्तः सद्भस्मना बुधः || स्वांगे त्रिपुंड्रं संधार्य सर्वदा शिवमर्चयेत् || १६७ || विभूतिमात्रमाहात्म्यं वक्तुं ब्रह्मा न शक्नुयात् || कः पुमान् संस्कृताग्न्युत्थां भूतिं वक्तुं समुत्सहेत् || १६८ || शैवसंहितायां || शिवमंत्रात्परो मंत्रस्तत्वं चापि शिवात्परं || शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मनः || १६९ || शिवधर्मे || रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितं || ध्वंसनं सर्वदुःखानां सर्वपापविशोधनं || १७० || लैंगे || अंत्यजो वाऽधमो वापि मूर्खो वा पंडितोऽपि वा || पृ० १४२) यस्मिन् देशे वसेन्नित्यं भस्मशासनसंयुतः || १७१ || तस्मिन् सदाशिवः सोमः सर्वैर्भूतगणैर्वृतः || सर्वतीर्थैर्युतो वासं सर्वज्ञः कुरुते सदा || १७२ || यस्मिन् देशे वसेन्नित्यं भूतिशासनसंयुतः || सोऽपि देशो भवेत्पूतः किं पुनस्तस्य मंदिरं || १७३ || कीकटेष्वपि देशेषु यत्र भूतिविभूषणः || तत्र काशीसमं क्षेत्रं सोऽपि विश्वेश्वरः स्वयं || १७४ || शिवधर्मे || दुःशीलश्च सुशीलो वा यो वा को वाप्यलक्षणः || भूतिशासनसंयुक्तः स पूज्यो राजपुत्रवत् || १७५ || छद्मनापि च यो धत्ते भूतिशासनमैश्वरम् || सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि || १७६ || मानवीयसंहितायाम् || संपर्काल्लीलया वापि भयाद्वा धारयेच्च यः || विधियुक्तां विभूतिं तु स च पूज्यो यथा ह्यहं || १७७ || शातातपस्मृतौ || वृत्तं || सुरां पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा || भस्मछन्नो भस्मशायी भवेच्चेद्रुद्राध्यायी मुच्यते सर्वपापैः || १७८ || यया कया कुत्र च यत्र संभवं क्षारं धृतं स्यादिह येन केन वा || न तेन तुल्यो भगवानजोऽपि विभूतिधारी स शिवश्च मान्यः || १७९ || पृ० १४३) जाबालोपनिषदि || त्रैवर्णिकानामग्निहोत्राग्निजं, गृहस्थानां तदेव, विवाहाग्निजं वा, ब्रह्मचारिणां समिदग्निजं, विरक्तानामतिवर्णाश्रमिणां विरजानलजं, शूद्राणां श्रोत्रियागारपचनाग्निजं, अन्येषां दावानलसमुद्भवं || यतीनां सर्वत्रस्थितमतिवर्णाश्रमिणां तदेव तत्रापि विरक्तानां सर्वत्रस्थितं सर्वेषां देवालये स्थितं || शिवयोगिनां शिवाग्निजा भूतिः शिवालये स्थितं लिंगमंत्रसंस्कारदग्धं वा || भूत्यै न प्रमादितव्यं || १८० || शिवरहस्ये || कश्चित्कंठगतप्राणः कालप्राप्तो मृतोपमः || शेते श्मशाने विवशो दस्युशस्त्रनिषूदितः || १८१ ||? अथ सेना पुलिंदानां श्वाऽनुगः कश्चिदेव हि || धावन् वेगात्तदंतस्थो भस्मपुंड्र इतस्ततः || १८२ || तच्छयानललाटाग्रन्यस्तांघ्रिश्च ततो ययौ || एतस्मिन्नंतरे नेतुं कालमृत्युं यमानुगाः || १८३ || तावता मुच्यमानासुं प्रत्यसर्पन्नमुं यदा || तदानीमेव गणपा नानाप्रहरणोद्यताः || १८४ || विमानेऽप्सरसां वृंदैस्तत्र तं पर्यवारयन् || ततस्तं धर्मराट्प्रेष्याः दृष्ट्वा भस्मांककारणं || १८५ || पृ० १४४) शंभोश्च शासन स्मृत्वा हित्वा त्रस्ताश्च लिंगिनं || प्रदद्रवुर्दिशस्ते तं निन्युः शिवपुरं गणाः || १८६ || गारुडपुराणे || स्मृतयः श्रुतयः सर्वाः पुराणान्यखिलान्यपि || वदंति भूतिमाहात्म्यं ततस्तां धारयेद्बुधः || १८७ || वासिष्ठरामायणे || यावंतः पतिता भूमौ भस्मनः परमाणवः || तावद्वर्षसहस्राणि नरः पतति किल्बिषे || १८८ || क्रियासारे || यथा कृशानुरहितस्त्वध्वरो न विराजते || अशेषसाधनोपेतं भस्महीनं शिवार्चनम् || १८९ || वासिष्ठलैंगे || येन भस्मोक्तमार्गेण न धृतं मुनिपुंगव || तस्य विद्धि मुने जन्म निष्फलं सूकरो यथा || १९० || ये भस्मधारणं त्यक्त्वा श्रौतस्मार्तानुवर्तिनः || तैः समाचरितं सर्वं विपरीतफलप्रदम् || १९१ || येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा || गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः || १९२ || येषां भस्मनि विश्वासो वर्तते हृदये सदा || तेषामैश्वर्यमतुलं विद्धि वंशपरंपरं || १९३ || ये भस्मधारिणं दृष्ट्वा परितुष्टा भवंति ते || देवासुरमुनींद्रैश्च पूज्या नित्यं न संशयः || १९४ || पृ० १४५) अंगन्यासादिविधानम् दानं धर्मश्च यज्ञश्च श्रुतिश्चापि व्रतानि वै || एते सर्वेऽपि फलदाः कृतं चेद्भस्मधारणं || १९५ || बहुनोक्तेन किं भस्मधारणं मोक्षसाधनम् || भस्मना सदृशं पुण्यं नास्ति लोकत्रयेऽपि च || १९६ || ब्रह्मणा विष्णुना चापि रुद्रेण च मुनीश्वराः || भस्मधारणमाहात्म्यं न शक्यं परिभाषितुं || १९७ || एवं सर्वो विधिः प्रोक्तः प्रेम्णा तव मया ततः || कृत्वैवं भस्म यो नित्यं धारयेत्स शिवं व्रजेत || १९८ || मानवपुराणे || अतः सर्वप्रयत्नेन पुमान्नित्यमतंद्रितः || त्रिपुंड्रधारणं कुर्याद्भस्मदेहावगुंठनम् || १९९ || अथ करन्यासः || नं कनिष्ठिकाभ्यां नमः || मं अनामिकाभ्यां नमः || शिं मध्यमाभ्यां नमः || वां तर्जनीभ्यां नमः || यं अंगुष्ठाभ्यां नमः || ओं करतलकरपृष्ठाभ्यां नमः || अथ षडंगन्यासः || ओं नं ह्रां हृदयाय नमः || मं ह्रीं शिरसे स्वाहा || शिं ह्रूं शिखायै वौषट् || वां ह्रैं कवचाय हुं || यं ह्रौं नेत्रत्रयाय वौषट् ओं ह्रः अस्त्राय फट् || अथ पंचब्रह्मन्यासमंत्रः || नं पादस्थिताय सद्योजाताय नमः || मं मध्यस्थिताय वामदेवाय नमः || शिं हृदयस्थिताय अघोराय नमः || पृ० १४६) वां वक्त्रस्थिताय तत्पुरुषाय नमः || यं शिरसि स्थिताय ईशानाय नमः || ओं सर्वावस्थाय परशिवाय नमः || २०० || रुद्राक्षं च विशेषेण धारयेद्वेदपारगः || इतःपरं न वक्तव्यं शेषोऽन्यो ग्रंथविस्तरः || २०१ || तिर्यक्त्रिपुंड्रमाहात्म्यं यः पठेत्सततं नरः || इहेष्टान्सकलान् प्राप्य यात्यंते परमं पदम् || २०२ || वृत्तम् || अतिरहस्यमिदं मुनिपुंगवाः कथितमेव समस्तजगद्धितम् || यदि समाचरितं मनुजैर्मुदा सफलमेव हि जन्म न संशयः || २०३ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे विभूत्युत्पत्तितद्धारणमाहात्म्यं त्रिपुंड्रविधिमाहात्म्यं करन्यासादिनिर्णयं नाम सप्तदशोऽध्यायः || पृ० १४७) अथाष्टादशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ श्रीरुद्राक्षोत्पत्तिः तद्धारणक्रमफलानि वक्ष्यामि || भस्मना विहितस्नानस्त्रिपुंड्रांकितमस्तकः || शिवार्चनपरो नित्यं रुद्राक्षमपि धारयेत् || १ || कात्यायनशाखायां बृहज्जाबालोपनिषदि || आदौ ह्येनं भगवंतं रुद्रं कुमारः पप्रच्छ, भगवन्, रुद्राक्षोत्पत्तिः कथं जाता तद्धारणक्रमः कीदृशः तत्फलं च किमिति || श्रीभगवान् शंभुराह || पुरा त्रिपुरवधाय उन्मीलिताक्षोऽहं तेभ्यो जलबिंदवो भूमावपतन् त एव रुद्राक्षा जाताः सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण दशशतगोदानफलं लभेत् दर्शनस्पर्शनाभ्यां द्विगुणं त्रिगुणं फलं प्राप्नोति || अतःपरं वक्तुं तन्माहात्म्यं न शक्नोमि कुमार इतः मंत्रपूर्वकं विधिं कथयामि || आदौ स्नानादिना शुचिर्भूत्वा भस्मना त्रिपुंड्रं कृत्वा ततो रुद्राक्षधारणं कुर्यात् || ओं श्रीसदाशिवाय नमः इति मंत्रेण धारणं || २ || स्कांदे || बभूवुस्ते तु रुद्राक्षा ह्यष्टत्रिंशत्प्रभेदतः || सूर्यनेत्रसमुत्पन्नाः कपिला द्वादश स्मृताः || ३ || सोमनेत्रसमुत्पन्नाः श्वेतास्ते षोडश क्रमात् || वह्निनेत्रोत्थिताः कृष्णा दशभेदाः प्रकीर्तिताः || ४ || पृ० १४८) पद्मपुराणे || ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चेति शिवाज्ञया || श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः || ५ || पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्रा इतीरिताः || एतान्सर्वविधांश्चैव धारयध्वं ममाज्ञया || ६ || क्रिमिदष्टं च विछिन्नं भिन्नं कंटकसंयुतम् || छिद्रयुक्तमवृत्तं च षडिमान्नैव धारयेत् || ७ || अछिद्रं कनकप्रख्यमनन्यधृतमुत्तमम् || रुद्राक्षं धारयेत् प्राज्ञः शिवपूजापरायणः || ८ || शृणु षण्मुख तत्त्वज्ञ प्रतिवक्त्रस्य यत्फलं || एकं शिखायामेकास्यं धारयेत् सर्वसिद्धिदम् || ९ || शिरसा धारयेत्स्कंद द्विवक्त्रं भुक्तिमुक्तिदम् || द्वित्रिद्वादशवक्त्रं च धारयेन्मूर्ध्नि भाग्यदम् || १० || षट्सप्तपंचवक्त्रांश्च कर्णयोर्ज्ञानमोक्षदान् || कंठे च धारयेन्नित्यमष्टवक्त्रान्भयापहान् || ११ || बाह्वोस्त्रयोदशास्यं च धारयेच्छांतिदं परम् || नववक्त्रं तु रक्षार्थं धारयेन्मणिबंधयोः || १२ || दशवक्त्रं चतुर्वक्त्रं धारयेत्कंठमूलके || एतेषां मालिका धार्या भुक्तिमुक्तिफलप्रदाः || १३ || चतुर्दशमुखांश्चैव धारयेदुपवीतिना || पृ० १४९) रुद्राक्षधारणविधानम् शिवज्ञानकरांच्छश्वदिष्टसिद्धिकरान्परान् || १४ || शिखामेकं त्रीणि शिरः षट्त्रिंशन्मस्तकेऽपि च || द्वात्रिंशत्कंठदेशे तु पंचाशन्मालिकां हृदि || १५ || षोडशान् बाहुदेशे वा द्वादशान्मणिबंधयोः || कर्णयोः षट्कमेकं वा अष्टोत्तरशताधिकम् || १६ || उपवीतेन रुद्राक्षान्धारयेत्सर्वदा बुधः || नाभेरधो न बध्नीयान्रुद्राक्षांश्चरणावधि || १७ || शिरसा धारयेत्कोटिं कराभ्यां दशकोटयः || एवं सर्वस्थले चैव धारणात्फलमाप्नुयात् || १८ || गले धार्यं कोटिशतं मूर्ध्नि कोटिसहस्रकम् || अयुतं चोपवीतेन लक्षकोटिर्भुजद्वये || १९ || अप्रमेयफलास्ते तु रुद्राक्षा मोक्षसाधनाः || अवध्यः सर्वभूतानां रुद्रवद्विचरेद्भुवि || २० || पंचरत्नैर्मिलित्वा तु रुद्राक्षान्धारयेद्बुधः || वज्रं मरकतं चैव वैडूर्यं च प्रवालकम् || मौक्तिकं पंचमं ज्ञेयमेवं तद्रत्नपंचकम् || २१ || ब्रह्मोत्तरखंडे || मुक्ताप्रवालवैडूर्यरौप्यस्फटिककांचनैः || समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् || २२ || मुकुटं कुंडले चैव कंठिकाहारमेव च || पृ० १५०) केयूरकटके कुर्यात्कुक्षिबंधं विशेषतः || २३ || एकवक्त्रं त्रिवक्त्रं वा चतुर्वक्त्रं च पंचकं || षण्मुखं सप्तकं चाष्टमुखं नवमुखं तथा || २४ || लक्षणैर्युक्तमेकं वा रुद्राक्षं धारयेत्सुधीः || एकस्य धारणादेव गोप्रदानफलं लभेत् || २५ || धारयेद्यागकाले तु वेदस्याध्ययने तथा || सर्वकाले विशेषेण धारयेच्छुद्धभावतः || २६ || अर्चने होमकाले तु स्वजन्मदिवसेऽपि वा || रुद्राक्षधारणान्नित्यं सर्वपापक्षयो भवेत् || २७ || तस्माच्छिवार्चको नित्यं रुद्राक्षान् धारयेत्सदा || रुद्राक्षाणां फलं वत्स त्रिषु लोकेषु विश्रुतं || २८ || लिंगस्य दर्शने पुण्यं भवेद्रुद्राक्षदर्शनात् || स्पर्शाद्रात्रौ दिवा पापं दिवा रात्रिकृतं हरेत् || २९ || दर्शनाल्लक्षगोदानसदृशं फलमश्नुते || स्पर्शनात्कोटिगोदानसदृशं फलमश्नुते || ३० || सप्तकोटिशतं पुण्यं धारणाल्लभते नरः || लक्षकोटिसहस्राणि लक्षकोटिशतानि च || ३१ || तज्जपाल्लभते पुण्यं नात्र कार्या विचारणा || सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् || ३२ || तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् || वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च || ३३ || यत्तीर्थयात्रया पुण्यं सर्वविद्यादिभिस्तथा || पृ० १५१) रुद्राक्षधारणमाहात्म्यम् तत्फलं लभते सद्यो रुद्राक्षस्य च धारणात् || ३४ || अंतकाले तु रुद्राक्षं भक्षयित्वा मृतो यदि || स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते || ३५ || विमलागमे || नातः परतरं तीर्थं नातः परतरं तपः || नातः परतरं दानं नातः परतरा गतिः || ३६ || रुद्राक्षान्धारयेत्कंठे बाह्वोर्वा धारयेद्ध्रुवम् || कुलैकविंशमुत्तार्य रुद्रलोके महीयते || ३७ || वासिष्ठलैंगे || पश्यन्नपि निषिद्धांश्च तथा शृण्वन् स्मरन्नपि || जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि संततम् || ३८ || स्थितश्चापि तथा गच्छन् विसृजन्नपि मानवः || रुद्राक्षधारणादेव मुच्यते सर्वपातकैः || ३९ || अमंत्रेण समंत्रेण युक्तो वा भाववर्जितः || यो वा को वा नरो नित्यं धारयेल्लज्जया विना || ४० || सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् || ब्राह्मणो वापि चांडालो दुर्गुणः सगुणोऽपि वा || भस्मरुद्राक्षयुक्तस्सन् देहांते स शिवं व्रजेत् || ४१ || (शिवधर्मशास्त्रे) रुद्राक्षेण स्वयं रुद्रो भवेद्रुद्राक्षधारकः || रुद्राक्षान्धारयेन्नित्यं शिवलोके महीयते || ४२ || रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् || रुद्राक्षमालया युक्तः स रुद्रश्चरति ध्रुवम् || ४३ || पृ० १५२) सुराणां चासुराणां च वंदनीयो यथा शिवः || रुद्राक्षधारणान्नित्यं वंदनीयो नरैरिह || ४४ || रुद्राक्षमालिकां कंठे धारयेद्भक्तिवर्जितः || पापकर्मापि यो मर्त्यो रुद्रलोके महीयते || ४५ || उच्छिष्टी वा विकर्मस्थो युक्तो वा सर्वपातकैः || मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् || ४६ || ध्यानधारणहीनोऽपि रुद्राक्षं यदि धारयेत् || सर्वपापविनिर्मुक्तः स याति परमां गतिम् || ४७ || शुचिर्वाप्यशुचिर्वापि चाभक्ष्यस्यापि भक्षकः || म्लेंच्छो वाप्यथ चांडालो युक्तो वा सर्वपातकैः || रुद्राक्षधारणादेव स रुद्रो नात्र संशयः || ४८ || मानवपुराणे || रुद्राक्षं धारयन् पापं कुर्वन्नऽपि च मानवः || सर्वं तरति पापं च जाबालश्रुतिराह हि || ४९ || मृन्मयं वापि रुद्राक्षं कृत्वा यत्नेन धारयेत् || अपि दुष्कृतकर्मापि स याति परमां गतिम् || ५० || पशवोऽपि हि रुद्राक्षधारणाद्यांति रुद्रताम् || रुद्राक्षधारणं कृत्वा नरः किं नोत्तरिष्यति? || ५१ || कंठे रुद्राक्षमाश्रित्य श्वापि वा म्रियते यदि || सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः || ५२ || वासिष्ठलैंगे || कश्चित्पुरा मुने जात्या चांडालोऽतीव दुर्जनः || पृ० १५३) रुद्राक्षमाहात्म्यवर्णनम् आजन्मनः कृतं पापं ब्रह्महत्यासहस्रकम् || ५३ || गवां सहस्त्रं निहतं ब्राह्मणानां धनं हृतम् || अन्यानि यानि कर्माणि घोराणि चरितानि वै || ५४ || तथापि तस्य पापानि मुने रुद्राक्षधारणात् || दग्धानि शाल्मलीतूलं यथा दावाग्निना युतम् || ५५ || कालेन मरणं प्राप्तः स पुनर्यममागतः || सोऽपि तं प्राह पुरुषं यमः सर्वार्थवित्तमः || ५६ || अहो पापं कृतं पूर्वं भूलोके चाविचारतः || तत्फलं त्वां मया बुध्वा शक्यं भोगयितुं नहि || ५७ || महात्मन् सकलं दग्धं तव रुद्राक्षधारणात् || गच्छ गच्छ विमानेन शिवलोकं सुखावहं || ५८ || सोऽपि सूर्यनिभं रम्यं विमानं सर्वकामिकं || आरुह्य नृत्यगीताद्यैर्युक्तः शिवपुरं गतः || ५९ || तत्र दत्तं मया तस्मै स्कंद रुद्रत्वमुत्तमम् || देवैश्च मुनिभिश्चान्यैः पूजितश्च सदाप्यसौ || ६० || तस्मात्सर्वैः सदा कार्यं रुद्राक्षाणां च धारणं || भोगमोक्षप्रदं पुंसां मया चैव धृतः सदा || ६१ || रुद्राक्षधारणादेव ब्रह्मा ब्रह्मत्वमाप्तवान् || रुद्राक्षधारणाच्छ्रेष्ठं न किंचिदिह विद्यते || ६२ || अमंत्रधारणादेव गुणा एते प्रकीर्तिताः || यः पुनर्मंत्रसंयुक्तं धारयेद्यदि मानवः || ६३ || रुद्राक्षधारणात्तस्मात्सर्वपापैर्न लिप्यते || पृ० १५४) शिवसायुज्यमाप्नोति चांते ज्ञानेन संयुतः || ६४ || रुद्राक्षाश्रितकंठो यो गृहे यस्य वसेद्धृवम् || कुलैकविंशमुद्धृत्य शिवलोके महीयते || ६५ || वासिष्ठलैंगे || रुद्राक्षधारिणः पादौ प्रक्षाल्यापः पिबेन्नरः || सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् || ६६ || रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः || सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति || ६७ || मूर्ध्नि हस्तोपवीते वा धृत्वा रुद्राक्षमालिकाम् || यस्तु भुंक्ते न तद्भुक्तं रुद्रो भुंक्ते न संशयः || ६८ || अनेन भुक्तं रुद्रेण भुक्तं यत्तत्तथैव हि || पीतं रुद्रेण पीतं स्याद्घ्रातं घ्रातं शिवेन तत् || ६९ || वृत्तम् || नित्यानि काम्यानि निमित्तजानि कर्माणि सर्वाणि सदापि कुर्वन् || अभस्मरुद्राक्षधरो यदि स्याद्विद्वन्न तस्यास्ति फलोपपत्तिः || ७० || सर्वेषु वर्णाश्रमसंगतेषु नित्यं सदाचारपरायणेषु || श्रुतिस्मृतिभ्यामिह चोद्यमानो विभूतिरुद्राक्षधरः समानः || ७१ || रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः || उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता || ७२ || स्कांदे || कुलीनमकुलीनं वा भूतिरुद्राक्षधारिणम् || दृष्ट्वाप्युच्चासनस्थो हि स नरो नरकं व्रजेत् || ७३ || पृ० १५५) वासिष्ठलैंगे || रुद्राक्षधारणे लज्जा चैषामस्ति महामुने || सा लज्जा न त्यजेद्ब्रह्मन् तेषां वंशपरंपरां || ७४ || रुद्राक्षधारणं चैषां नास्ति नित्यं महामुने || तेषां नास्ति विनिर्मोक्षः संसारे जन्मकोटिषु || ७५ || शातातपस्मृतौ || अरुद्राक्षधरो भूत्वा यत्किंचित्कर्म वैदिकम् || कुर्याद्विप्रस्तु यो मोहान्नासौ प्राप्नोति तत्फलं || ७६ || सततं कर्मकाले तु प्रायश्चित्ते सुरार्चने || होमे मंत्रे जपे दीक्षाकाले सर्वत्र धारयेत् || ७७ || रुद्राक्षं धारयेद्विप्रः संध्यादिषु च कर्मसु || तत्सर्वं समवाप्नोति कोटिकोटिगुणं सदा || ७८ || अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्य ते || तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम् || ७९ || अथ रुद्राक्षपूजनं || वस्त्रे रुद्राक्षान्संस्थाप्य अनंतरं शिवं ध्यात्वा तदष्टविधार्चनं कुर्यात् || ८० || अथ गुरुशिवध्यानं || वृत्तम् || विविक्तदेशे च सुखासनस्थः-शुचिः समग्रीवशिरःशरीरः || अत्याश्रमस्थः सकलेंद्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य || ८१ || हृत्पुंडरीके विरजं विशुद्धमचिंत्यमाद्यंतविहीनमेकम् || अनंतमव्यक्तमनेकरूपं शिवं प्रशांतं गिरिजाधिनाथम् || ८२ || सुरासुराद्यैरभिवंदितं प्रभु शिवाधवं विश्वविमोक्षहेतुम् || पृ० १५६) महेश्वरं सांबमुमासहायं सदाशिवं भूतगणाधिपं विभुं || ८३ || नीलकंठं भस्मलिप्तं विरूपाक्षं महेश्वरम् || नमाम्यहं सदा भक्त्या त्रिलोकेशमुमापतिम् || ८४ || इति ध्यात्वा रुद्राक्षान्धारयेत् || ओं ह्रूं स्रूं ब्रूं रुं ज्रुं प्रांतरूतमपि श्रीं मां क्षां क्षमपि क्षौं ह्रं नमः अनेन मंत्रेण रुद्राक्षान्संमंत्र्य || ८५ || अथ नमस्कारः || रुद्राक्षवृक्षबीजाय भूतिसंभूतिहेतवे || नेत्रत्रयाय रुद्राय नमो लोकहितार्थिने || इति नमस्कारः || अनंतरम् धारयेत् || ८६ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे रुद्राक्षोत्पत्तिरुद्राक्षधारणक्रमतत्फलवर्णनं नाम अष्टादशोऽध्यायः || १८ || पृ० १५७) अथ एकोनविंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ बहिर्यजनं अंतर्यजनं अष्टविधार्चनं तत्फलं च वक्ष्यामि || स्वयं स्वमेव ध्यायंतं शिवभक्तहिते रतम् || ज्ञानशास्त्रं मुनींद्राणां व्याकुर्वंतं विमुक्तिदम् || १ || भक्त्या प्रणम्य देवेशं पप्रच्छ शिखिवाहनः || सर्वलोकोपकाराय भगवंतं त्रिलोचनम् || २ || स्कंद उवाच || भगवन् श्रोतुमिच्छामि सर्वप्राणिहितं परम् || केचिल्लिंगार्चनं पीठे प्रशस्तं तु प्रचक्षते || ३ || केचिच्छिवागमाभिज्ञाः प्राणलिंगार्चनापराः || लिंगे प्राणं समादाय करपीठे शिवार्चनं || ४ || शंकर उवाच || साधु पृष्टं त्वया वत्स वक्ष्याम्यद्य विशेषतः || वेदागमपुराणानां सारं गौप्यं मनोहरम् || ५ || भक्तिः स्थिरीकृता येन म्लेंच्छेनापि स मे प्रियः || न मे प्रियश्चतुर्वेदी मयि यो भक्तिवर्जितः || ६ || सा भक्तिर्द्विविधा ज्ञेया बाह्याभ्यंतरभेदतः || बाह्या स्थूलांतरा सूक्ष्मा वीरमाहेश्वरादृता || ७ || सिंहासने शुद्धदेशे शुभरत्नविचित्रिते || पृ० १५८) शिवलिंगस्य पूजाया सा बाह्या भक्तिरुच्यते || ८ || लिंगे प्राणं समाधाय प्राणे लिंगं तु शांभवम् || एकाग्रं तु मनः कृत्वा न किंचिच्चिंतयेद्धृदि || ९ || साभ्यंतरा भक्तिरेव प्रोच्यते शिवयोगिभिः || सा यस्मिन् वर्तते तस्य जीवनं भ्रष्टबीजवत् || १० || जीवन्मुक्तः स विज्ञेयो वीरमाहेश्वरः पुमान् || तस्य वक्ष्यामि हे वत्स शिवलिंगार्चनक्रमम् || ११ || संसाररोगदुःखस्य भेषजं मुक्तिसाधनम् || वत्स लिंगार्चनं नित्यं त्रिकालं कुरु भक्तितः || पूजाद्रव्याणि संशोध्य शुचिस्तद्गतमानसः || १२ || वृत्तम् || स्नानं समत्वसलिलेन हि पूर्णभावं वस्त्रं त्रिशक्तिगुणसंयुतयज्ञसूत्रं || विद्यासुगंधमिह भूतदयाक्षतांश्च शब्दादि पुष्यचयमर्पय नित्यमंग || १३ || प्रज्ञामनोहंकृतिचित्तधूपं श्रोत्रादिपंचेंद्रियदीपमंग || तद्वासनातैलयुतं च देहि जीवोपहारं सुखदुःखबाह्यं || १४ || गुणत्रयाख्यतांबूलं प्राणार्पणनमस्कृतिं || शांतिपुष्पांजलिं देहि चैकभावविसर्जनम् || १५ || वृत्तम् || तदेव हस्तांजलिपीठमध्ये निधाय लिंगं परमात्मचिह्नम् || पृ० १५९) शिवपूजोपकरणफलम् समर्चयेदेकधियोपचारैर्नरः स बाह्यांतरभेदभिन्नैः || १६ || वृत्तं || गुरुप्रसादाधिगतेष्टलिंगं समर्चयंतं स्वकराब्जपीठे || षडास्य भक्त्या विविधोपचारैर्नरस्तमालोक्य विमुक्तिमेति || १७ || करपीठे विनिक्षिप्य चांगुष्ठाग्रे च गोमुखम् || कनिष्ठानामिकाभ्यां तु धृत्वा तं पूजयेच्छिवम् || १८ || मध्यमानामिकामध्ये पुष्पं संगृह्य पूजकः || अंगुष्ठतर्जन्यग्राभ्यां निर्माल्यमपनोदयेत् || १९ || देवदेवस्य शिरसि पुष्पमेकं विनिक्षिपेत् || जलगंधाक्षतैः पुष्पैर्धूपदीपैस्तथैव च || नैवेद्यैरपि तांबूलैर्भवेदष्टविधार्चनम् || २० || जलं शांतिकरं चैव गंधमायुष्यवर्धनम् || अक्षतैः शत्रुनाशं च पुष्पैरैश्वर्यवर्धनम् || २१ || धूपो दहति पापानि दीपो मृत्युविनाशकः || नैवेद्याल्लभते राज्यं तांबूलान्मोक्षसंपदः || २२ || पाद्यार्घ्याचमनं स्नानं पुनराचमनं तथा || वस्त्रं भस्मादिकं चैव किरीटं गंधमक्षतान् || २३ || पुष्पाणि फलयोग्यानि पत्राणि विविधानि च || धूपं दीपं घृतयुतं चोपहारं तथैव च || २४ || तांबूलं मुखवासं च दीपं कर्पूरकं तथा || व्यजनं चामरं छत्रं दर्पणं च सुशोभितम् || २५ || पृ० १६०) पुष्पांजलिं ततः स्तोत्रं नमस्कारं प्रदक्षिणान् || श्रीमत्पंचाक्षरेणैव ह्युपचारान् समाचरेत् || २६ || उपचारास्त्रयः प्रोक्ताः पंचाष्टौ षोडशैव हि || चतुर्विंशच्च द्वात्रिंशदुपचारा इहोदिताः || २७ || स्नानं पूजा च नैवेद्यमुपचारास्त्रयः क्रमात् || प्रदक्षिणनमस्कारौ पंचैते परिकीर्तिताः || संगीतनृत्यवाद्यैस्तैरुपचाराष्टकं मुने || २८ || अर्घ्यं पाद्याचमे चैव पुष्पं गंधोपवीतकौ || अक्षताश्चामरं छत्रं व्यजनं चैव सर्वदा || २९ || गीतं वाद्यं तथा नृत्यं नमस्कारः स्तुतिस्तथा || प्रदक्षिणं क्रमेणोक्ता ह्युपचाराश्च षोडश || ३० || आवाहनासने पाद्यं चार्घ्यमाचमनं तथा || गंधपुष्पाक्षताश्चैव वस्त्रं स्नानोपवीतके || ३१ || धूपं दीपं च नैवेद्यं फलं तांबूलदर्पणे || प्रदक्षिणनमस्काराः स्तोत्रं संगीतवाद्यकम् || ३२ || नृत्यं चात्मार्पणं चैव चतुर्विंशोपचारकाः || आवाहनासने पाद्यं चार्घ्यमाचमनीयकम् || ३३ || स्नानं वस्त्रं चोपवीतं भूषणं चानुलेपनम् || तिलाक्षतापुष्पधूपदीपनैवेद्यकानि च || ३४ || नीराजनं वक्त्रवासं दर्पणं च फलानि च || प्रदक्षिणं च तांबूलं नमस्कारः स्तुतिस्तथा || ३५ || पुराणपठनं छत्रं चामरं व्यजनं तथा || शययासंगीतनृत्यानि वाद्यानि च तथैव च || पृ० १६१) आत्मन्यारोपणं चैव द्वात्रिंशदुपचारकाः || ३६ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे पूजोपचारफलनिरूपणं नाम एकोनविंशोध्यायः || पृ० १६२) अथ विंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ घंटालक्षणं दर्पणशंखलक्षणं च वक्ष्यामि || क्रियासारे || दंडाग्रे स्थितशूला च धत्तूरकुसुमोपमा || या सौराष्ट्री कांस्यमयी घंटा च क्वणसंयुता || १ || आयामं घंटिकायास्तु प्रोक्तमंगुलपंचकम् || तद्वन्मुष्टिप्रमाणं स्यात्कटकद्वयसंपुटं || २ || तदूर्ध्वे त्र्यंगुलयुतं विदधीत त्रिशूलकम् || तस्या वदनविस्तारं षडंगुलमिति स्मृतं || ३ || घंटायाः सकलं दैर्घ्यमंगुलानां त्रयोदश || एवं नेत्रप्रियां घंटामस्मिन् माने च कारयेत् || ४ || शैवपुराणे || दर्पणं चापि सुस्निग्धं दिव्यगंधानुलेपनम् || समंताद्रत्नसंछन्नं स्रग्वरैश्चापि शोभितम् || ५ || शिवस्य पुरतश्चारु दर्पणं चंद्रवच्छुभम् || नित्यं निवेदयेद्भक्त्या स याति परमां गतिम् || ६ || दर्पणं देवदेवाय पूजांते भक्तिपूर्वकम् || दर्शयित्वा सकृद्याति शिवलोकं न संशयः || ७ || गोक्षीरधवलस्निग्धो दीर्घनालो बृहत्तमः || वृत्तो यो दक्षिणावर्तः सोऽब्धिजः शंखसंज्ञकः || ८ || पूर्वोक्तलक्षणोपेतो वामावर्तोथ वाब्धिजः || शंखोऽयं सोऽतिसुलभः पूर्वोक्तोऽतीवदुर्लभः || ९ || पृ० १६३) शंखजयघंटादिस्वरूपवर्णनम् शंखस्य नालं यावत्स्यात्तावत्स्यादायतं स्मृतम् || तस्यार्धं नासिका यस्य स शंखः श्रेष्ठ उच्यते || १० || तदर्धनासिको योऽसौ शंखो भवति मध्यमः || शंखोऽयमितरो लब्धः स कनिष्ठः प्रकीर्तितः || १९ || भिन्नः क्रिमिहतो रक्तः सरंध्रः कल्मषच्छविः || ह्रस्वनालः स शंखो यो न योग्यो नादकर्मणि || १२ || महामेघस्वरं दत्वा शंखयुग्मं शिवालये || युगकोटिशतं तावच्छिवलोके महीयते || १३ || क्रियासारे || शुद्धसौराष्ट्रका चैव चंद्रमंडलवद्दृढा || द्वितालविस्तृतायामा जयघंटाह्वया मता || १४ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे घंटादर्पणशंखलक्षणं नाम विंशोऽध्यायः || पृ० १६४) अथैकविंशोऽध्यायः | श्रीगुरुभ्यो नमः || अथ काहलालक्षणं ढक्वालक्षणं चरस्थिरदुंदुभिलक्षणं मृदंगादिवाद्यलक्षणं च वक्ष्यामि || काहला पटहः शंखो भेरी च जयघंटिका || एते पंच महाशब्दा मंगलध्वनयः स्मृताः || १ || सुवर्णेन च रौप्येन ताम्रेणापि विनिर्मिताः || ईषदुन्मीलितेनाथ धत्तूरेण समां शुभां || २ || काहलां द्व्यंगुलां कुर्याच्चतुरंगुलविस्तृताम् || चतुरंगुलविस्तारं मुखं तस्याश्च कारयेत् || ३ || त्र्यंगुलं दंडमानं स्यादनुस्थूलं तथादितः || तथैव विस्तृतां कुर्यात्सल्लक्षणयुतां विभो || ४ || पंचांगुलां द्वितालां च कुर्याद्भक्तः स्थिरां शुभाम् || सार्धद्वयांगुलमुखां काहलां लक्षणान्विताम् || ५ || अन्यत्सर्वं यथापूर्वं विस्तारायामपूर्वकम् || एवं लक्षणमाख्यातं काहलायाः शुभानन || ६ || (शैवपुराणे) काहलादीनि रम्याणि नानानादकराणि वै || सौवर्णानि सुरम्याणि स्थापयेच्छिवसंनिधौ || ७ || (क्रियासारे) आसनः खदिरः श्रेष्ठश्चापि वा रक्तचंदनः || त्रयोऽमी पटहस्योक्तास्तरवो वाद्यवेदिभिः || ८ || पंचतालप्रमाणेन विस्तारं पटहस्य वै || पृ० १६५) चरस्थिरदुंदुभिलक्षणम् द्वितालमध्यमं स्थूलं तालमात्रं मुखं स्मृतम् || ९ || चर्मणाच्छाद्य वदनद्वयं कुर्याद्दृढं शुभम् || कोणे विन्यस्य पूजायाः काले संताडयेच्च वै || १० || (क्रियासारे) दुंदुभिर्द्विविधः प्रोक्तः स्थिरजंगमभेदतः || कोणन्यस्ता स्थिरा प्रोक्ता सैव लघ्वी चरा मता || ११ || खदिरः पीतसारश्च शिरीषो रक्तचंदनः || मधूकोरिष्टकश्चैव षड्वृक्षा दुंदुभेः स्मृताः || १२ || आयामं सप्ततालं स्यात्पंचतालं तु विस्तृतम् || मुखं त्रितालविस्तारं मुखं सन्नादसंयुतम् || १३ || अन्यत्सर्वं यथापूर्वं कारयेद्दुंदुभिं शुभम् || सुवृत्तं लोहबद्धं वै मुखं लोहयुतं च वै || १४ || मुखस्य परितः सप्त न्यसेत्कीलानयोमयान् || मुखं तु चर्मणाच्छाद्य तथा सूत्रेण वेष्टयेत् || १५ || एतत्सर्वं समाख्यातं लक्षणं स्थिरदुंदुभेः || षट्तालमथ चायामं चाष्टतालं त्रितालकम् || १६ || चतुस्तालं तु विस्तारं मुखं सार्धद्वितालकम् || यथापूर्वं च विधिना कुर्याद्वै चतुरानन || १७ || चतुस्तालप्रमाणोच्चं तन्नालं तालपंचकम् || वदनद्वयविस्तारं समं तद्द्वादशांगुलम् || १८ || सुवर्तुलं समंताच्च घनमर्धांगुलं स्मृतम् || पृ० १६६) मुखयोरुभयोर्मध्ये चर्मसूत्रेण वेष्टयेत् || १९ || मुखस्य परितः कीलान् स्थापयेत्परितस्तथा || एवं यथावत्कथितं लक्षणं चरदुंदुभेः || २० || अस्य स्थानं स्थलं नान्यदंगं दौंदुभिकस्य तु || धृत्वा दौंदुभिकः स्वांगे वादयेद्दुंदुभिं तथा || २१ || अयं दुंदुभिनिर्घोषः शंभोः प्रीतिकरः सदा || २२ || क्रियासारे || स्थूलोन्नताभ्यां सदृशी महावृक्षविनिर्मिता || त्वग्बद्धोभयपार्श्वा सा भेरी स्याद्दुंदुभिध्वनिः || २३ || द्वौ शंखौ काहले द्वे च चतस्रो जयघंटिकाः || एका भेरी च पटहश्चैकः संख्यैवमीरिता || २४ || केचिदेतान्पंच वाद्यान्वदंति सुधियोऽखिलाः || गीतवाद्यैश्च विविधैः कुर्याच्छंखादिनिःस्वनान् || २५ || अत्रोक्तसंख्ययाधिक्यं वाद्यानां तनुयात्सुधीः || अलाभे च यथालब्धैः पूजाकाले तु वादयेत् || २६ || स्नाने धूपे प्रदीप वै नैवेद्येऽपि प्रबोधयेत् || घंटादीनां तु विविधैः शब्दैर्देवं प्रभुं शिवं || २७ || स्नानकाले त्रिसंध्यायां यः कुर्याद्भेरिवादनम् || नाट्यं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु || २८ || यावंत्यहानि कुरुते स्तुतिनर्तनवादनम् || पृ० १६७) शिवार्चाकाले तंत्रीस्वनादिकथनम् तावद्युगसहस्राणि रुद्रलोके महीयते || २९ || शिवधर्मे || तंत्रीस्वनं मृदंगं तमानकं मुरजादिकम् || वंशादिकं तु सुषिरं कांस्यतालादिकं तथा || ३० || गमकाहालतिमिलाः सुतालाः सुलभाः स्मृताः || एतादृशानि वाद्यानि शिवाय विनिवेदयेत् || ३१ || इति श्रीवीरशैवाचारप्रदीपिकायां वाद्यलक्षणं नामैकविंशोऽध्यायः || पृ० १६८) अथ द्वाविंशोऽध्यायः | श्रीगुरुभ्यो नमः | अथ लिंगस्य तैलाभ्यंगं अर्घ्यं आचमनीयं कथं कार्यं उत च गंधाद्युपचारलक्षणानि वक्ष्यामि || तैलाभ्यंगं ततः कृत्वा लिंगपीठे विशेषतः || सौवर्णं राजतं ताम्रं चेति पात्रं त्रिधा स्मृतम् || १ || कांस्यपात्रमथोद्रौममलामे मृण्मयं तु वा || अर्घ्यादीनां न योग्यानि भिन्नपात्राणि जातुचित् || २ || अभिन्नानि च शुद्धानि पात्राणि च सदानयेत् || ताम्रस्फटिकशंखेषु सुवर्णकलधौतयोः || ३ || न विद्यते भिन्नदोषः पात्रेष्वन्येषु विद्यते || रौप्यशंखसुवर्णानां स्पृष्टदोषो न विद्यते || ४ || दारुमृत्पात्रयोरस्ति स्पृष्टदोषोऽन्त्यजातिभिः || शंखः शुद्धो भवेत्तत्र तुषसंघर्षणेन वै || ५ || आम्लेन ताम्रं भूत्या तत्कांस्यं चूर्णेन पित्तलम् || संघर्षयेद्विशुद्ध्यर्थं कांतिप्रसरणाय वै || ६ || हैमं रौप्यं विशुद्धं स्यात्केवलं क्षालनाज्जलैः || पात्रं गोकर्णवत्कुर्याद्यथोक्तं च विधानतः || ७ || एषामलाभे पात्राणां नारिकेलस्य पात्रकम् || अर्घ्यादिपात्रं प्रस्थार्धं कुर्याद्वै विधिपूर्वकम् || ८ || पृ० १६९) अर्घ्यपात्रफलवर्णनम् हैमं वा राजतं वापि मुक्तामयमथापि वा || ताम्रं वा नारिकेलं वा प्रक्षाल्याद्भिः प्रपूरयेत् || ९ || अष्टांगमर्घ्यमापूर्य लिंगमूर्त्यां निवेदयेत् || दशवर्षसहस्राणि रुद्रलोके महीयते || १० || गुह क्षीरं कुशाग्रं च दध्याज्ययवतंदुलम् || तिलसिद्धार्थकं चैवमर्घ्यमष्टांगमुच्यते || पात्रोत्तरं विशेषेण तत्फलं च प्रकीर्तितम् || ११ || दारुजेनार्घ्यपात्रेण दत्वार्घ्यं यत्फलं लभेत् || तस्माद्दशगुणं पुण्यं मृत्पात्रेण प्रकीर्तितम् || १२ || ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणोत्तरम् || स्फाटिकेन सुपात्रेण दद्यादर्घ्यं विधानतः || १३ || रौप्यपात्रेण विज्ञेयमर्घ्यं लक्षगुणोत्तरम् || सोंऽते पापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् || १४ || पद्मरागमये पात्रे योऽर्घ्यं दद्याच्छिवाय वै || तेजोलोकमवाप्नोति तेजोमंडलमंडितः || १५ || वैडूर्यस्येंद्रनीलस्य पात्रे मरकतस्य च || अर्घ्यं दद्याच्छिवायैवं स शिवो नात्र संशयः || १६ || रौप्यपात्रप्रदानेन यत्फलं वेदपारगे || तस्माच्छतगुणं पुण्यं शिवे मृत्पात्रदानतः || १७ || हेमपात्रं तु यद्दत्वा पुण्यं स्याद्वेदपारगे || ताम्रपात्रप्रदानेन तस्माच्छतगुणं भवेत् || १८ || पृ० १७०) हेमपात्रं तु यो भक्त्या शिवाय विनिवेदयेत् || न तस्य शक्यते वक्तुं पुण्यानंत्यं विशेषतः || १९ || पद्मरागमयं पात्रं स्फाटिकं चैंद्रनीलकम् || वैडूर्यजं मारकतं दत्तं पुण्यमवाप्नुयात् || २० || तुल्यमेव फलं प्रोक्तं शिवे चाढ्यदरिद्रयोः || तयोरप्यधिकं पुण्यं शिवे भावयुतस्य वै || २१ || विभवे सति यो मूर्खो न कुर्याद्विधिवत्तरम् || नैतत्फलमवाप्नोति प्रलोभाक्रांतमानसः || २२ || तस्मात्पवित्रैः फलदैस्तोयैः कुर्याद्विधानतः || तदानंत्यफलं ज्ञेयं भक्तिरेवात्र कारणं || २३ || शिवधर्मसंहितायाम् || सनत्कुमार उवाच || श्रुतमेतत्त्वया ख्यातं भगवन्नंदिकेश्वर || अर्घ्यदानस्य यत्पुण्यं वक्तुमर्हसि सद्गुरो || २४ || नंदिकेश्वर उवाच || वृत्तम् || जीर्णार्कपर्णपुटसंस्थितमर्घ्यमार्यो व्यासस्समस्तगुणबुद्धिमवाप्य चाभूत् || सर्वैस्समर्चितपदाब्जयुगो मुनीन्द्रैर्दत्वा शिवाय विधिवत्स पितुर्नियोगात् || २५ || अद्यापि चाक्षयं तस्य कुलं ज्ञानसमं भुवि || जीवोपि नित्यतां प्राप्तो विप्रस्य मुनिसत्तम || २६ || || वृत्तम् || तस्माद्वदामि शृणु संप्रति सर्वयत्नाद्भक्त्या भवांघ्रियुगलं प्रति दत्तमंभः || यत्किंचिदर्थरहितेन नरेण तत्स्यादर्घ्यं भवार्णवहरं सकलं ददाति || २७ || पृ० १७१) अर्घ्यादिस्वरूपकथनम् कुशाग्रतिलसिद्धार्थयवब्रीहिपयांसि च || द्रव्याण्यमूनि षट् प्राहुरर्घ्यस्य मुनिपुंगवाः || २८ || सिद्धार्थः कुसुमं दूर्वा कोष्ठं लामज्जकं शशी || अमूनि चात्र द्रव्याणि पाद्यस्य कथयंति षट् || २९ || फलं कचोरकर्पूरकोष्टेलोशीरकानि च || अमून्याचमनीयस्य द्रव्याणि प्रवदंति षट् || ३० || कौर्मे || अर्घ्यपात्रे क्षिपेत्पुष्पं यवक्षीरकुशाक्षतान् || तिलसर्षपगंधांश्च पुष्पं वा केवलं क्षिपेत् || ३१ || उशीरं चंदनं चैव पाद्ये संमिश्रयेत्सुधीः || जातीकंकोलकर्पूरसुवासिततमालकान् || ३२ || क्षिपेदाचमनीयं च पूर्णं कृत्वा विशेषतः || एलां सर्वेषु पात्रेषु कर्पूरं चंदनं तथा || ३३ || अर्घ्यं हस्ते तु देवस्य गंधपुष्पाक्षतादिभिः || पाद्यं पादांबुजे देयं वक्त्रे चाचमनीयकम् || ३४ || तैलाभ्यंगं ततः कृत्वा लिंगपीठे विशेषतः || ओं देवादेवेभ्य इति मंत्रेण अर्घ्यं समर्पयेत् || ओं पादोस्य विश्वाभूतानि इति मंत्रेण पाद्यं समर्पयेत् || ओं विश्वतश्चक्षुरुत इति मंत्रेण आचमनम् || स्कांदे || लिंगोदकं च पादांबु प्रसादोदमिति त्रिधा || नमस्कृत्वाथ शिरसि धार्यं पेयं शिवार्थिभिः || ३५ || गंधोदकैः स्नापयित्वा पुष्पोदैः स्नापयेदथ || पृ० १७२) हेमोदैः स्नापयित्वा तु रत्नोदैः स्नापयेदथ || ३६ || सितेन भस्मना स्नाप्य सकृल्लिंगं प्रमोदते || चंद्रवन्निर्मलः श्रीमान् शिवलोके महीयते || ३७ || कुशतोयेन यो लिंगं स्नापयेद्भक्तितो नरः || कांचनेन विमानेन ब्रह्मलोके महीयते || ३८ || अथ रत्नोदकादिमंत्रः || ओं ह्रौं ईशानाय नमः गंधोदकं स्वाहा || ओं ह्रें तत्पुरुषायनमः पुष्पोदकं स्वाहा || ओं ह्रां अघोराय नमः || सुवर्णोदकं स्वाहा || ओं ह्रीं वामदेवाय नमः रत्नोदकं स्वाहा || ओं ह्रं सद्योजाताय नमः मंत्रोदकं स्वाहा || ओं शिवाय नमः भस्मोदकं स्वाहा || शिवाय नमः कुशोदकं स्वाहां || शिवाय नमः दर्भोदकं स्वाहा || नंदा भद्रा च सुरभिः सुशीला सुमनस्विनी || गावः शिवपुरात्पंच क्षितिं याताः शिवाज्ञया || ३९ || गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा || सद्योजातेन गोमूत्रं वामदेवेन गोमयम् || ४० || क्षीरं चाघोरमंत्रेण दधि तत्पुरुषेण वै || ईशानेन घृतं पंचगव्यं सद्यादिमंत्रतः || ४१ || गव्यं च गोमयं चात्र दधि क्षीरं घृतं तथा || पंचगव्यं च संस्थाप्य पात्रेषु च पृथक् पृथक् || ४२ || क्षीरं त्वीशानमध्ये च तत्पूर्वे दधि चोच्यते || पृ० १७३) शिवलिंगाभिषेकविधिवर्णनम् दक्षिणे तु घृतं स्थाप्य चोत्तरे गोमयं तथा || ४३ || ओं ह्रां सद्योजाताय नमः गोमूत्रं स्वाहा || ओं ह्री वामदेवाय नमः गोमयं स्वाहा || ओं ह्रूं अघोराय नमः || गोक्षीरं स्वाहा || ओं ह्रें तत्पुरुषाय नमः दधि स्वाहा || ओं ह्रों ईशानाय नमः घृतं स्वाहा|| एतैर्मंत्रैः पृथक् पृथक् स्नानं कारयेत् || अथ पंचामृतस्नानं || क्रियासारे || प्रत्येकं पंचप्रस्थाश्च तथा कुडवपंचकम् || एकैककुडवं चैव तदलाभे निकूजकम् || ४४ || एवं हि चरलिंगस्य कारयेद्देशिकोत्तमः || क्षीरं दधि घृतं चैव शर्करा मधु चैव हि || ४५ || क्षीरं तु मध्ये त्वीशान्ये तत्पूर्वे दधि चोच्यते || दक्षिणे तु घृतं स्थाप्य चोत्तरे क्षौद्रमेव हि || पश्चिमे शर्करां चैव पंच ब्रह्मादिदेवताः || ४६ || ओं आप्यायस्वेति मंत्रेण क्षीरेण स्नापयेत् || ईशानमंत्रेण शुद्धोदकेन स्नापयेत् || ओं ह्रैं तत्पुरुषाय नमः भस्म समर्पयेत् || ओं ह्रीं वामदेवाय नमः अक्षतान् || ओं नमः शिवायेति मंत्रेण बिल्वं || ओं ह्रौं नेत्रत्रयाय वौषट् धूपं स्वाहा || पृ० १७४) ओं ह्रैं कवचाय हुं दीपं || ओं नमः शिवायेत्यनेन नैवेद्यं || पानीयं ताबूलं दर्पणं घंटानादं समर्पयेत् || ओं दधि क्राव्णो इति मंत्रेण दधिस्नानं || पुनः पूर्वोक्तपूजां समाप्य || ओं मधुवातेत्यनेन मधुस्नानं || पुनः पूर्वोक्तपूजां || ओं याः फलिनी इति मंत्रेण फलं || पुनः पूर्वोक्तपूजां || ओं भूर्भुवः स्वः तत्सवितुरिति मंत्रेण शर्करां || पूर्वोक्तपूजां || ततो गोधूमचूर्णेन घर्षयेत् || ततः कोष्णेन वारिणा स्नापयेत् || ततो मुद्गचूर्णेन घर्षयेत् || ततो हरिद्रया देवमालिप्य स्नानमाचरेत् || दश धेनुसहस्राणि दत्वा यल्लभते फलं || तत्फलं लभते सर्वं लिंगस्योद्वर्तने कृते || ४७ || इति श्रीवीरशैवाचारप्रदीपिकायां पंचामृतलक्षणं नाम द्वाविंशोऽध्यायः || पृ० १७५) अथ त्रयोविंशोऽध्यायः | श्रीगुरुभ्यो नमः | उत्तमं तु नदीतोयं तटाकांभस्तु मध्यमम् || कनिष्ठं कूपसलिलं चाभिषेके यथाक्रमम् || १ || तत्र स्वादु पयः श्रेष्ठं कनिष्ठं लवणोदकम् || मध्यमं मिश्रसलिलमिति वारि त्रिधा स्मृतम् || २ || अभावे स्वादुपयसो मिश्रैरपि च कारयेत् || अभिषेकादिकर्माणि न कुर्याल्लवणांभसा || ३ || दुर्जात्यधीनं दुर्गन्धं क्रिमिमिश्रं शवान्वितं || सकर्दमं सशैवालं वार्यवश्यं परित्यजेत् || ४ || यत्र नैवेद्यनिर्माल्यैः संकीर्णं कलशोदकम् || अभिषेकं च कुर्याद्वै न तद्गृह्णाति शंकरः || ५ || यानि कार्याणि कर्माणि वस्त्रपूतेन वारिणा || तानि सर्वाणि कुर्वीत देवताराधने सदा || ६ || स्नपने चरलिंगस्य पंचाढकमितं जलम् || एतच्च ताम्रकुंभेषु न्यसेत्पंचाढकेषु च || ७ || (पारमेश्वरतंत्रे) दृढं च सुस्थिरं स्निग्धं नवं स्थूलं मनोहरम् || मृण्मयं काष्ठजं ताम्रं राजतं हैममेव वा || ८ || शिवस्य मज्जनार्थं हि कलशं संप्रकल्पयेत् || मृदादीनां फलं प्रोक्तं कोटिकोटिगुणोत्तरम् || ९ || पृ० १७६) शतषष्ठिप्रमाणं तु व्रीहीणां निष्कमुच्यते || अष्टनिष्कं पलं प्रोक्तं तेषां शतपलं तुला || १० || निष्कं पाणितलं मुष्टिः कुडवं प्रस्थमाढकम् || द्रोणं वहं च क्रमशो विज्ञेयाश्च चतुर्गुणैः || ११ || मानांगुलप्रमाणं || तिर्यग्यवोदराण्यष्टौ यवा वा व्रीहयस्त्रयः || प्रमाणमंगुलं प्रोक्तमेतदंगुललक्षणम् || १२ || षडंगुलं तु विस्तीर्णं द्वादशांगुलमायतम् || प्रस्थस्य मानमित्युक्तं वैद्यशास्त्रविशारदैः || १३ || पुरुषस्य पानीयमग्नान्मध्यमांगुलिपर्वणः पतिताः षोडश बिंदवो उडुरेकः, उडुद्वयं शुक्तिरेका, शुक्तिद्वयं तलमेकं, तलद्वयं प्रकुंचमेकं, प्रकुंचद्वयात् प्रशुतं, प्रशुतद्वयात् कुडवमेकं, कुडवद्वयादेका मानिका, मानिकाद्वयादेकं प्रस्थं, प्रस्थद्वयादर्धमाढकं, अर्धाढकद्वयादेकमाढकं, आढकद्वयाच्छिवमेकं, शिवद्वयात् द्रोणमेकं, द्रोणद्वयात् अर्धवहं अर्धवहद्वयं भारतिः, इति मानलक्षणम् || कलशस्य मुखे रुद्रः कंठे विष्णुः समाश्रितः || मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः || १४ || कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा || पृ० १७७) शिवपूजार्थं जलशुद्ध्यादिकथनम् शेषास्तु देवताः सर्वाः कलशं तु समाश्रिताः || १५ || ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः || अंगैश्च संयुताः सर्वे कलशं तु समाश्रिताः || १६ || सवित्समुद्रसलिलतीर्थानि शुभदानि च || गंगे च यमुने चैव गोदावरि सरस्वति || १७ || नर्मदे सिंधु कावेरि जलेऽस्मिन्संनिधिं कुरु || १८ || अथ श्रुतिः || ओं आपो वा इदमा ? सर्वं विश्वाभूतान्यापः प्राणा वापः पशव आपोऽन्नमापोमृतमापः सम्राडापो विराडापः स्वराडापः छंदां ? स्यापो जोति ? ष्यापो यजू ? ष्यापः सत्यमापः सर्वा देवता आपः ओं भूर्भुवः स्वाहा इति जलशुद्धिः || जलं भांडे पवित्रे च मंत्रैस्तोयं क्षिपेत्ततः || सुवर्णकलशेनाथ तथा वै राजतेन च || १९ || ताम्रेण पद्मपात्रेण पालाशेन दलेन वा || शुद्धेन मृण्मयेनापि शोधितेन शुभेन च || २० || कलशेनाथ शंखेन वर्धन्या पाणिनाथ वा || सकूर्चेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् || २१ || पयोमधुघृतादीनां द्विसहस्रफलैरपि || महाभिषेकं कुर्याद्वै फलैस्तत्सममुच्यंते || २२ || कंकोलजातिपुन्नागत्रिफलानां तथैव च || महावर्तिद्वयेनापि शिवस्याग्रे प्रकल्पयेत् || २३ || (लैंगे) स्नाप्य लिंगं मदीयं च गव्येनैव घृतेन च || विशोध्य सर्वद्रव्याणि तथाद्भिरभिषेचयेत् || २४ || भेरीमृदंगपटहमुरजादिभिरप्यथ || वादित्रैर्विविधैरन्यैर्नृत्यश्च विविधैरपि || २५ || जागरं कारयेत्तत्र प्रार्थयेच्च यथाक्रमम् || पृ० १७८) द्रव्यहीनैः क्रियाहीनैः श्रद्धाहीनैर्महेश्वर || २६ || कृतं वाप्यकृतं वापि क्षंतुमर्हसि शंकर || पंचाक्षरं जपेद्भक्त्या देवदेवस्य संनिधौ || २७ || एवं यः कुरुते स्नानं शिवस्य परमात्मनः || स एव सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् || २८ || तत्फलं सकलं प्राप्य वाराणस्यां यथा मृतः || तथैव मम सायुज्यं लभते नात्र संशयः || २९ || मत्प्रीत्यर्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् || महास्नाने त्वशक्तश्चेत् स्नानमष्टगुणं स्मृतम् || ३० || जलेन केवलेनैव गंधतोयेन भक्तितः || आलेपनं च तत्सर्वं पंचविंशत्पलेन वै || ३१ || शतद्रोणैर्महादेवमष्ट द्रोणैस्तथापि वा || शतद्रोणसमं पुण्यमाढकेऽपि विधीयते || ३२ || (शैवधर्मसंहितायां) सनत्कुमार उवाच || भगवन् सर्वधर्मज्ञ नंदीश्वर गणेश्वर || वक्तुमर्हसि देवेश स्नानपुण्यफलं मम || ३३ || नंदिकेश्वर उवाच || वृत्तम् || वदामि सर्वं शृणु देवदेवं महेशमीशानमुमेशमीशं || जलादिभिः स्नाप्य फलं पवित्रं यथाक्रमं संप्रति विस्तरेण || ३४ || नद्याः समुद्रगामिन्यास्तडागाद्वा समाहृतम् || पृ० १७९) शिवाभिषेकमहिमावर्णनम् वस्त्रपूतं च शीतं च विशिष्टं स्नानपानयोः || ३५ || पाटलोत्पलपद्मानि करवीरं च सर्वदा || स्नानतोयेषु योज्यानि सततं सुरभीणि च || ३६ || लिंगं शीतांबुना स्नाप्य गोक्षीरेण च भक्तितः || स्नापयित्वा पुनर्दध्ना घृतस्नानं ततः परम् || ३७ || एवं स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः || अश्वमेधसहस्राणां फलं प्राप्नोति मानवः || ३८ || अयुतं यो गवां दद्याद्दोग्ध्रीणां वेदपारगे || वस्त्रालंकारयुक्तानां क्षीरस्नानेन यत्फलम् || ३९ || सप्तजन्मकृतं पापं घृतस्नानेन देहिनां || नाशयेच्छंकरो यस्मात्तस्मात्स्नानं समाचरेत् || ४० || कपिलाया घृतेनैव लिंगं यः स्नापयेत्सकृत् || सर्वपापविनिर्मुक्तः शिवलोके महीयते || ४१ || कलशेनाज्यपूर्णेन रात्रौ यः स्नापयेन्नरः || शुद्धस्फटिकसंकाशो गणो भवति शूलधृत् || ४२ || नैरंतर्येण यो यामं घृतस्नानं समाचरेत् || स्वकुलेनैकविंशत्या वसेच्छिवपदे सदा || ४३ || मुने पलशताज्येन स्नापयित्वा सदाशिवम् || स याति शिवसायुज्यं नात्र कार्या विचारणा || ४४ || अष्टोत्तरशतं जप्त्वा विमलेनांभसा शिवम् || स्नापयित्वा सकृद्भक्त्या शिवलोके महीयते || ४५ || पृ० १८०) सकृन्नमः शिवायेति मंत्रेणानेन सुव्रत || सहस्रकलशेनेशं स्नापयित्वा यथाविधि || ४६ || ब्रह्मघ्नोऽपि मुनिश्रेष्ठ सर्वपापैः प्रमुच्यते || मुने नमः शिवायेति मंत्रेणानेन यः सकृत् || ४७ || शतेन कलशानां च स्नाप्य देवं सदाशिवम् || शतरुद्रबलं प्राप्य रुद्रलोके महीयते || ४८ || पितृर्नुद्दिश्य यो लिंगं स्नापयेच्छीतवारिणा || सद्यः स्वर्गं गमिष्यंति पितरो नरकादपि || ४९ || कुंकुमांभोभिरप्येवं स्नापयेदीश्वरं सकृत् || सर्वपापविनिर्मुक्तः शिवलोके महीयते || ५० || सितेन भस्मना स्नाप्य सकृल्लिंगं प्रमोदते || चंद्रांशुनिर्मलो भूत्वा शोभते चंद्रमंडले || ५१ || एकाहमपि यो लिंगं भस्मस्नानं समाचरेत् || विधूय सर्वपापानि शिवलोके महीयते || ५२ || एषामेकतमं स्नानं यः कुर्याद्भक्तितः शिवम् || विधूय सर्वपापानि शिवेन सह मोदते || ५३ || येन केन शिवं स्नाप्य सर्वपापैः प्रमुच्यते || एतद्धि कथितं सर्वं मुने पद्मजसंभव || न शक्यं बहुधा वक्तुं युगकोटिशतैरपि || ५४ || इति श्रीवीरशैवाचारप्रदीपिकायां स्नानमाहात्म्यं नाम त्रयोविंशतितमोऽध्यायः || २३ || पृ० १८१) अथ चतुर्विंशोऽध्यायः | श्रीगुरुभ्यो नमः | अथ पूजासाधनद्रव्यनिर्णयं लिंगस्य विभूतिधारणं गंधाक्षततिलप्रधानोपवीताद्याभरणधारणं वस्त्रछत्रचामरव्यजनधारणं तन्माहात्म्यं क्रमशो वक्ष्यामि || वृत्तम् || सितेन वस्त्रेण च देहशीतं विमृज्य भूतिं विधिवद्विलेप्य || पुष्पं च धूपं च सुदीपमेव दत्वा च वस्त्रेण च पूजयेच्च || १ || प्रारंभाद्यवसानांतं प्रतिकर्म पुनः पुनः|| जलपूरितपात्रं तु संस्पृष्ट्वाथ समर्पयेत् || २ || ओं ह्रैं तत्पुरुषाय नमः विभूतिं स्वाहा || (क्रियासारे) गंधशीतोदके शुद्धे गंधं कृत्वा समर्पयेत् || चंदनागरुकर्पूरकुंकुमाद्यनुलेपयेत् || ३ || शस्तान्यमूनि द्रव्याणि न योग्यानीतराण्यपि || गंधानुलेपनात्पुण्यं द्विगुणं चंदनस्य तु || ४ || चंदनादगरोर्ज्ञेयं पुण्यमष्टगुणाधिकं || कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते || ५ || तस्माच्छतगुणं पुण्यं कुंकुमस्य विधीयते || चंदनागरुकर्पूरैः सूक्ष्मपिष्टैः सकुंकुमैः || लिंगं पर्याप्तमालिप्य शिवलोके महीयते || शैवपुराणे || ६ || चंदनागरुकर्पूरकुंकुमाद्यैश्च पुण्यकृत् || ७ || लिंगमालेपयेद्यस्तु मनोवाक्कायकर्मभिः || सर्वपापविनिर्मुक्तः शिवलोके महीयते || ८ || पृ० १८२) बिल्वकाष्ठोद्भवेनापि गंधेनैव हि सर्वदा || शिवलिंगं लेपयित्वा शिवलोके वसेत्सुधीः || ९ || गंधं सुचंदनं चैव देवदेवाय शंभवे || दत्वा विजयमाप्नोति शिवसायुज्यमाप्नुयात् || १० || चंदनागरुकर्पूरतमालदलकुंकुमम् || उशीरं कोष्ठकं नाभिः शिवगंधाष्टकं स्मृतम् || ११ || ओं ह्रीं वामदेवाय नमः गंधं समर्पयामि || क्रियासारे || अभिन्नाः शंखवच्छ्वेताः सुस्निग्धा व्रीहितंडुलाः || स्मृताः शिवार्चने योग्या नेतराश्चतुरानन || १२ || लैंगे || मुक्ताफलसमानाभान्दाडिमीबीजवच्छुभान् || अक्षयं पदमाप्नोति योऽक्षतानर्पयेत्सुधीः || १३ || शुद्धशाल्यक्षतैः शुभ्रैः कुशपुष्पैः प्रयत्नतः || शिवं यः पूजयेद्भक्त्या शिवलोकमवाप्नुयात् || १४ || रक्ताः पीतास्तथा शुक्लाः कपिलाः कृष्णवर्णकाः || सहस्रफलदाः प्रोक्ताः शंभोराराधने तिलाः || तिलाक्षताश्च रत्नानि मौक्तिकानि समर्पयेत् || १५ || ओं ह्रां अस्त्राय फट् इति अक्षतान् समर्पयेत् || क्रियासारे || कृतं शास्त्रोक्तविधिना सौवर्णं देवमानतः || कलधौतं च वैकक्ष्यमुपवीतमिति स्मृतं || १६ || मृदु शुक्लं सूक्ष्ममेव पटुसूत्रादिनिर्मितम् || पृ० १८३) शिवार्पितवस्तूनां फलम् दत्वोत्तरीयं रुद्राय भवेद्वेदांतपारगः || १७ || सौवर्णं राजतं वापि चोत्तरीयं विधानतः || कृत्वा यो विधिवद्दद्यात् शिवाय स शिवो भवेत् || ओं ह्रें कवचाय हुं इति उत्तरीयं समर्पयेत् || १८ || हेमरत्नानि चान्यानि धार्याण्याभरणानि च || कर्तव्या गोलका हेम्ना शुद्धेन रजतेन वा || १९ || कर्तव्यं पृष्ठपीठं तु लिंगस्यैव प्रमाणतः || स्वछंदेनास्य विस्तारो हेम्नो वा राजतस्य वा || २० || मध्ये मृणालसहितं पद्मं कार्यं शिवाय वै || नालं सकुंडलं कृत्वा मणिरत्नादिभिः सुधीः || २१ || रुद्राक्षमालिकाद्यैश्च देवदेवाय शंभवे || समर्प्य दीप्तिमाप्नोति शिवलोकं गमिष्यति || २२ || ओं ह्राः ह्रौं हं हां हं सर्वभूषणानि स्वाहा || क्रियासारे || पटुदेवांगचीनानि विचित्राणीतराणि वा || शितानि सूक्ष्मवासांसि प्रशस्तानि पितामह || २३ || न्यायागतानि नव्यानि दृक्प्रियाणि दृढानि च || अंशुकानि विशुद्धानि प्रशस्तान्युत्तमानि तु || जीर्णं दग्धं धृतं शूलमाखुदष्टं सरंध्रकम् || २४ || देवस्वं दुष्क्रियायुक्तं वस्त्रमेवंविधं त्यजेत् || वासांसि सुविचित्राणि सारवंति मृदूनि वै || २५ || पृ० १८४) धूपितानि नवीनानि शिवाय परिकल्पयेत् || यावत्तद्वस्त्रतंतूनां परिसंख्या समंततः || तावद्वर्षसहस्राणि शिवलोके महीयते || ओं ह्रां हृदयाय नमः वस्त्रं स्वाहा || २६ || शिवधर्मे || शरच्चंद्रांशुविमलं मुक्तादामोपशोभितम् || मणिदंडमयं छत्रं यो दद्यात्कांचनावृतम् || २७ || छत्रेणातिविचित्रेण भूषयेद्यः पुमान्भुवि || विमानशतमारुह्य स गच्छेच्छिवमंदिरम् || २८ || शैवधर्मसंहितायां || शुद्धमुक्ताफलमयं हेमदंडसुशोभितम् || छत्रं दत्वा शिवायैव नंदीश्वरसमो भवेत् || २९ || ओं नमः शिवाय छत्रं स्वाहा || क्रियासारे || मयूरपक्षदंडैश्च वल्कलैरतिपांडुरैः || सौवर्णै राजतैर्दंडैः किंकिणीजालभूषितैः || ३० || हस्तमात्रप्रमाणैश्च निर्मितान्नेत्रवल्लभान् || चामरांश्च शियायैव द्वंद्वशः प्रतियोजयेत् || ३१ || चमरीबालकेशैश्च तथा कुर्वीत पांडुरैः || चामरं द्विविधं प्रोक्तं स्वर्णरत्नसमायुतम् || ३२ || शिवधर्मे || शिवाय चामरं दत्वा मणिरत्नविभूषितम् || हेमदंडं रौप्यदंडं तस्य पुण्यफलं शृणु || ३३ || चामरासक्तहस्ताग्रदिव्यस्त्रीपरिवारितः || विमानस्थो महाभोगी चिरं शिवपुरे वसेत् || ३४ || पृ० १८५) शिवार्पितव्यजनचामरादीनांफलम् यावती रोमसंख्या स्याच्चामरेऽतीव शोभने || तावत्कल्पायुतं दिव्यं शिवलोके महीयते || ओं नमः शिवाय इति चामरं || ३५ || वृत्तं द्वितालविस्तारं पूर्वोक्तांशुकनिर्मितं || पूर्वोक्तदंडसंप्रोक्तं चतुस्तालायुतं शुभं || ३६ || तालवृंतमिति ख्यातं चित्रैरन्यैर्विभूषितं || एतदप्यर्पयेद्युग्मं सद्भक्त्याथ विचक्षणः || ३७ || भक्त्या निवेद्य रुद्राय तालवृंतं सुशोभितं || दशवर्षसहस्राणि रुद्रलोके महीयते || ३८ || मयूरव्यजनं दत्वा शिवायातीवशोभनम् || वर्षकोटिशतं कालं रुद्रलोके वसेन्नरः || ओं नमः शिवाय इति व्यजनं || ३९ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजालंकारस्नानविभूतिधारणादि लक्षणं नाम चतुर्विंशोध्यायः || २४ || पृ० १८६) अथ पंचविंशोऽध्यायः | || श्रीगुरुभ्यो नमः|| || कालोत्तरे || ईश्वर उवाच || पुष्पाध्यायं प्रवक्ष्यामि यथावदनुपूर्वशः || हिताय साधकानां च सर्वकर्मफलाप्तये || १ || एकपुष्पफलं तावद्वक्ष्यामि शृणु षण्मुख || तपःशीलगुणोपेते सुपात्रे वेदपारगे || २ || सुवर्णकोटिं यद्दत्वा तत्फलं कुसुमेन वै || दत्वा दंतिसहस्राणि वाजिपेयशतानि च || ३ || कोटिकन्याश्च यत्पुण्यमेकपुष्पं शिवार्चने || ४ || एकस्यापि च पुष्पस्य प्रदानेन महेश्वरे || त्रैलोक्यं वशमायाति स्वेच्छया च न संशयः || ५ || आंदोलिकादियानेषु दत्तेषु परमेश्वरे || त्रैलोक्यं वशमायाति नात्र कार्या विचारणा || ६ || यो दद्यात्कांचनं मेरुतुल्यं वत्स वसुंधरां || लिंगे न्यस्तैकपुष्पस्य सहस्रांशं न पूरयेत् || यज्ञकोटिसहस्रेषु व्रतकोटिषु यत्फलं || ७ || लिंगन्यस्तैकपुष्पस्य सहस्रांशेन नो समं || अग्निष्टोमसहस्राणि वाजपेयशतानि वै || ८ || लिंगे पुष्पार्पणस्यैव कलां नार्हंति षोडशीम् || ९ || पृ० १८७) शिवार्पणीयपत्रपुष्पाणां तारतम्यकथनम् लिंगपुराणे || गवां कोटिप्रदानेन विधिवत्तेन यत्फलं || लिंगे न्यस्तैकपुष्पस्य सहस्रांशं न पूरयेत् || १० || मातृविप्रसतीमित्रभ्रातृगोवधसंभवम् || पातकं विलयं याति पुष्पपूजाफलेन वै || ११ || जलं वा पुष्पमेकं वा लिंगस्योपरि निक्षिपेत् || अमंत्रं वा समंत्रं वा कुलकोटिं समुद्धरेत् || १२ || क्रियासारे || अर्कारग्वधपुष्पाणि नंद्यावर्तकजातयः || करवीरबकद्रोणबृहतीनवमल्लिकाः || १३ || कमलोत्पलपुन्नागकदंबाशोकचंपकाः || सेवंति कर्णिकाराख्यत्रिसंध्यारक्तकेसराः || १४ || असितोत्पलधत्तूररोहितोत्पलकांचनाः || पलाशपाटलीतालप्रसूनानि वराणि वै || १५ || दमनं बकुलं चैव द्रोणकं पाटलद्वयम् || १६ || स्कांदे || पलाशस्वर्णपुष्पैश्च तथा बिल्वदलेन च || पूजयेद्देवदेवेशं चाभिषिच्य पुनः पुनः || १७ || मार्कंडेयपुराणे || त्वयोदितानि पत्राणि प्रसूनानि प्रियाणि वै || एतेषामधिकं ब्रह्मन्कथयस्व विधानतः || १८ || मार्कंडेय उवाच || करवीराच्छुभं पुण्यं कांस्यपुष्पं समर्पणे || पृ० १८८) कांस्यपुष्पाच्छुभं पुण्यं शतपत्रं शिवार्चने || १९ || शतपत्राच्छुभं पुण्यं कमलं देवतार्चने || पद्माच्छतगुणं पुण्यं जातीबकुलमीरितम || २० || ताभ्यां शतगुणं पुण्यं मल्लिकाचम्पकार्चने || ताभ्यां शतगुणं पुण्यं बिल्वमंदारपूजने || २१ || ताभ्यां शतगुणं पुण्यं कुसुंभस्यार्चनेऽनघ || पुष्पाणां लक्षणं राजन् ते सर्वं कथितं मया || २२ || पुष्पद्वादशकोटिभ्यः स्वर्णपुष्पं विशिष्यते || तत्फलं कोटिगुणितमेकबिल्वदलार्चनात् || २३ || शिवधर्मे || नंदिकेश्वर उवाच || एवं पुष्पविशेषाणां फलं चोत्तरतोऽधिकं || ज्ञेयं पुष्पान्तरं तस्माद्यथाज्ञातं निबोधितं || २४ || अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते || करवीरसहस्रेभ्यो बिल्वपत्रं विशिष्यते || २५ || बिल्वपत्रसहस्रेभ्यः पद्ममेकं विशिष्यते || पद्मपुष्पाद्वरं चैतत्पुंडरीकमिति स्मृतं || २६ || पुंडरीकसहस्रेभ्यः शतपत्रं विशिष्यते || शतपत्रसहस्रात्तु सहस्रारं विशिष्यते || २७ || सहस्रारसहस्रेभ्यो बकपुष्पं विशिष्यते || बकपुष्पसहस्रेभ्यो धत्तूरं च विशिष्यते || २८ || धत्तूरकसहस्त्रेभ्यो बृहती वै विशिष्यते || सहस्रबृहतीपुष्पाच्छ्वेतमंदारकं स्मृतम् || २९ || मंदारकसहस्रेभ्यो द्रोणपुष्पं विशिष्यते || पृ० १८९) शिवार्पणीयपत्रपुष्पाणां तारतम्यकथनम् | द्रोणपुष्पसहस्रात्तु चापामार्गं विशिष्यते || ३० || अपामार्गसहस्रेभ्यः कुशपत्रं विशिष्यते || कुशपत्रसहस्रात्तु शमीपत्रं विशिष्यते || ३१ || शमीपत्रसहस्रात्तु व्याघातं च विशिष्यते || व्याघातकसहस्त्रात्तु शंखपुष्पं विशिष्यते || ३२ || शंखपुष्पसहस्रात्तु व्याघ्रपुष्पं विशिष्यते || व्याघ्रपुष्पसहस्रात्तु सदाभद्री विशिष्यते || ३३ || सदाभद्रीसहस्रेभ्यः कृष्णनिर्गुंडिका स्मृता || कृष्णनिर्गुंडिकायाश्च बृहत्पुष्पं विशिष्यते || ३४ || बृहत्पुष्पसहस्रात्तु श्वेतार्कं च विशिष्यते || अर्कपुष्पसहस्रात्तु बृहद्द्रोणं विशिष्यते || ३५ || बृहद्द्रोणसहस्रात्तु नीलोत्पलसुमं वरम् || नीलोत्पलसहस्राच्च स्वर्णपुष्पं विशिष्यते || ३६ || सर्वेषां पुष्पजातीनां प्रवरं नीलमुत्पलं || बृहत्पुष्पसमं ज्ञेयं निर्गुंडस्य प्रसूनकम् || ३७ || अर्कपुष्पसमं ज्ञेयं मल्लिकाजातिपुष्पकं || धत्तूरकसमं ज्ञेयं चंपकाकर्णिकारकं || ३८ || बिल्वपत्रसमं ज्ञेयं विजयस्य प्रसूनकम् || मालतीकुब्जकं चैव करवीरसमं स्मृतं || ३९ || पद्मपुष्पसमं ज्ञेयं पाटलीबकुलं तथा || पुष्पाणि रुचिराण्येव पत्राणि च शिवार्थिभिः || ४० || निर्गंधान्युग्रगंधानि दूषितान्यशिवानि च || अवघ्रातानि पुष्पाणि न ग्राह्याणि शिवार्चने || ४१ || पृ० १९०) पतितैर्विकलैर्म्लानैर्विकृतैर्जंतुदूषितैः || आघ्रातैरंगसंस्पृष्टैः पुष्पैरेतैर्न पूजयेत् || ४२ || केशकीटापविद्धानि शीर्णपर्युषितान्यपि || स्वयं पतितपुष्पाणि त्यजेत्पूजारतैः सदा || ४३ || सनालैः सदलैः पक्षैः प्रत्यग्रैर्नेत्रवल्लभैः || पुष्पैर्यथोचितैरेवंविधैराराधयेच्छिवम् || ४४ || इति श्रीवीरशैवाचारप्रदीपिकायां पूजाप्रकरणे पुष्पमाहात्म्यं नाम पंचविंशोध्यायः || पृ० १९१) अथ षड्विंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ धूपपात्रलक्षणं धूपलक्षणं तन्माहात्म्यं च वक्ष्यामि (क्रियासारे) (ईश्वर उवाच) हेम्ना रौप्येण ताम्रेण रीत्या लोहेन वापि च || धूपदीपस्य पात्रे द्वे कारयेत्सह लक्षणैः || १ || धूपपात्रस्य दैर्घ्यं तु सार्धाष्टांगुलकं स्मृतम् || पात्रं डमरुवत्कार्यं सपिधानं सनालकम् || २ || पात्रपादं मुखव्याससमानं चतुरंगुलं || द्व्यंगुलं तु द्वयोस्तुंगं तन्मध्ये ग्रीवमंगुलं || ३ || एवं डमरुकाकारं ग्रीवे नालं प्रकल्पयेत् || नालस्य परितः सम्यऽऽनमणिभिर्भूषयेत्सुधीः || ४ || ऋजु वा कुटिलं वापि यथाशोभं च कारयेत् || व्यासौन्नत्ये पिधानस्य पात्रवत्परिकल्पयेत् || ५ || घनं तस्य समस्तस्य यवमात्रं प्रकीर्तितम् || पिधाने धूमनिर्गत्यै रंध्राणि विदधीत षट् || ६ || लक्षणं धूपपात्रस्य समाख्यातं चतुर्मुख || सार्धत्र्यंगुलव्यासं तु पात्रं तत् द्व्यंगुलोन्नतम् || ७ || तस्यांघ्रिविस्तरोत्सेधं तद्वदेकांगुलं गलं || पृ० १९२) पिधानं शृंगवन्नालं घनं रंध्राणि पूर्ववत् || ८ || एवं वा कारयेद्भक्त्या धूपपात्रं मनोहरम् || पात्रस्यापि विधानं स्यादलाभे मृण्मयं तु वा || ९ || कालागरुर्गंधसारो गुग्गुलश्च सितागरुः || लाक्षा बिल्वफलं सर्पिर्मधु सर्जरसं शशी || साधनानि दशैतानि धूपस्य चतुरानन || १० || (वीरतंत्रे) धूपं दद्यात्तु विप्रेंद धूपपात्रे विशेषतः || धूपं चाथ विनिक्षिप्य यथा वित्तानुसारतः || ११ || निर्गंधमशुभं धूपं दुर्गंधं जंतुभिर्युतम् || न दहेत्क्वापि निर्यासं ममाग्रे वृक्षजं सुधीः || १२ || (क्रियासारे) चंदनागरुकोष्ठानि नखः सर्जः कचोरकः || एते गुडेन युक्ताश्च धूपो भवति चोत्तमः || १३ || शर्करानखगंधाश्च जटामांसी सुगंधिनः || एते क्षौद्रेण युक्ताश्चेद्धूपो भवति चोत्तमः || १४ || वृत्तम् || अगरुतगरकोष्ठं शैलपुष्पं सिताश्च ह्यभयसुखकरास्ते चंदनैलाः सलाक्षाः || त्वचनस्वखदिराः स्युर्गंधसाराख्यमेव प्रचुरजलकचोरौ जातियुग्धूपराजः || १५ || कर्पूरमेकभागं स्याल्लोहभागचतुष्टयम् || षड्भागं चंदनं चैव वानरं सप्तभागकम् || मधुना सेचयेत्तच्च धूपपात्रे विनिक्षिपेत् || १६ || देवदारुनमेरूच सर्जः श्रीवासकुंदरू || पृ० १९३) धूपस्वरूपं तन्माहात्म्यं च श्रीफलं चाज्ययुक्तं तद्धूपं दद्याच्छिवाय वै || १७ || (पारमेश्वरतंत्रे) चंदनागरुकर्पूरकोष्ठगुग्गुलचूर्णकैः || घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते || १८ || वृत्तम्|| पंचांगधूपमथवापि दशांगधूपं दत्वा घृताक्तमथ गुग्गुलमीश्वराग्रे || सर्वामिमां वसुमतीं धनधान्यपूर्णां दत्वा फलं भवति यत्तदवाप्यते च || १९ || कृष्णागरुसमुद्भूतं सर्वपापनिकृंतनं || गुग्गुलप्रभृतीनां हि धूपानां च निवेदने || २० || सर्वरोगक्षयश्चैव चंदनं सर्वसिद्धिदम् || सौगंधिकं तथा धूपं सर्वकामार्थसाधकम् || २१ || कृष्णागरुसमद्भूतस्तथा श्वेतागरूद्भवः || सितार्कस्य च धूपश्च साक्षान्निर्वाणसिद्धिदः || २२ || कृष्णागरुर्मुक्तिदो हि श्वेतः पुष्टिविवर्धनः || चंदनं सर्वदं प्रोक्तं कर्पूरं वृद्धिदायकम् || २३ || अन्येऽपि च सुगंधा ये श्रीखंडागरुसंज्ञकाः || धूपाः सशर्कराश्चैते वशीकुर्वंति शंकरम् || २४ || (शिवधर्मे) अगरुं देवदारुं च सर्जश्रीवासकुंदरून् || श्रीफलं चाज्यमिश्रं वै दग्ध्वा याति परां श्रियम् || २५ || एभ्यः सौगंधिकं धूपं षट्सहस्रगुणाधिकम् || अगरोर्दशसाहस्रं द्विगुणश्च सितागरुः || २६ पृ० १९४) गुग्गुलोर्दशसाहस्रं साज्यं तद्विगुणं भवेत् || प्रियश्च गुग्गुलुर्नित्यमाज्ययुक्तो विशेषतः || २७ || द्विसहस्रफलं प्रोक्तं माहिषाक्षं तु गुग्गुलम् || वर्षमेकं निर्दहेच्चेच्छिवतुल्यः प्रजायते || २८ || गुग्गुलं घृतसंयुक्तं साक्षाद्गृह्णाति शंकरः || मासार्धमात्रं दानेन शिवलोके महीयते || २९ || कृष्णपक्षचतुर्दश्यां यः साज्यं गुग्गुलं दहेत् || अपराधसहस्रं तदिहामुत्रकृतं क्षमेत् || ३० || धूपानां गुग्गुलः श्रेष्ठः सद्यो भवति कामदः || प्रीत्यर्थं देवि तस्मान्मे सघृतं गुग्गुलं दहेत् || ३१ || (एकपादपुराणे) गुग्गुलं घृतसंयुक्तं लिंगमभ्यर्च्य यो दहेत् || कोटिवर्षसहस्रं वै रुद्रलोके महीयते || ३२ || माहिषाक्षं घृतयुतं लिंगमभ्यर्च्य यो दहेत् || सगणः शिवलोके वै पूज्यते गणकोटिभिः || ३३ || बिल्वं तु घृतसंयुक्तं धूपं दद्यान्महेश्वरे || पूजितेऽपि महादेवि शृणु तस्यापि यत्फलम् || गवां कोटिसहस्राणां दानस्य लभते फलम् || ३४ || (आदित्यपुराणे) सघृतं सर्जधूपं वै लिंगमभ्यर्च्य यो दहेत् || सप्तजन्मकृतं पापं भस्मीभवति तत्क्षणात् || ३५ || अगरुं घृतसंयुक्तं लिंगमभ्यर्च्य यो दहेत् || सगणः शिवलोके तु पूज्यते गणकोटिभिः || ३६ || पृ० १९५) (शिवधर्मे) अगरुं घृतसंयुक्तं दद्याद्बिल्वमथापि वा || अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः || ३७ || इति श्रीवीरशैवाचारप्रदीपिकायां धूपलक्षणं नाम षड्विंशोऽध्यायः || पृ० १९६) अथ सप्तविंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ दीपपात्रलक्षणं दीपलक्षणं तन्माहात्म्यं च वक्ष्यामि || दीपपात्रस्य दैर्घ्यं तु समस्तं स्यात्षडंगुलम् || सार्धांगुलोन्नतं पीठं नालं सार्धांगुलद्वयम् || १ || शिखरं द्व्यंगुलं प्रोक्तं चोन्नतं स्यात्षडंगुलम् || तत्पादपीठविस्तारं चोदितं चतुरंगुलम् || २ || स्निग्धं मणिमयं वापि त्र्यंगुलं तस्य नालकम् || पात्रं पंचांगुलव्यासं तद्धनं यवमात्रकम् || ३ || पात्रस्य परितः स्थानान्यष्टौ दीपस्य कल्पयेत् || शिखरेऽपि तथैवैकं दीपस्थानं प्रकल्पयेत् || ४ || पीठनालांतरे दंडं धूपपात्रवदाचरेत् || एवं प्रमाणतः कुर्याद्दीपपात्रं मनोहरम् || ५ || पूर्वोदितप्रमाणेन दीपपात्रं प्रकल्प्य वै || पात्रशृंगे चतुर्दिक्षु दीपस्थानानि कल्पयेत् || ६ || दीपपंचकपात्रं तदिदमन्यदिहोच्यते || चतुरंगुलमुत्सेधं नाहं सार्धांगुलं स्मृतं || ७ || कलधौतादिभिः कुर्याद्यथावित्तानुसारतः || अलाभे व्रीहिपिष्टस्य पंचार्तिक्यं प्रकल्पयेत् || ८ || एवं यथावत्कथितं दीपपात्रस्य लक्षणं | कर्पूरघृतवर्तीनां दीपं दद्याच्छिवाय वै || ९ || पृ० १९७) दीपमाहात्म्यम् (आदित्यपुराणे) ज्ञानदा पट्टवर्तिः स्यात्कार्पासं सर्वसिद्धिदं || कर्पूरं फलदं प्रोक्तं कपिलाज्येन संयुतः || १० || दीपः कोटिगुणो ज्ञेय इतरस्मान्न संशयः || कपिलासंभवेनैव घृतेनापि सुगंधिना || नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरवर्तयः || ११ || घृतदीपप्रदानेन फलं शृणु वदामि ते || कपिलाया घृतस्याथ दीपः सात्विक उच्यते || १२ || राजसस्तिलतैलेन मिश्रितश्चाज्यदीपकः || तामसस्तु भवेद्दीपो माहिषाजादिसर्पिषः || १३ || वृक्षबीजोद्भवैः स्नेहैर्दीपः पैशाच उच्यते || तामसस्तु पिशाचानां दीपो योग्य इति स्मृतः || १४ || एकादिशतपर्यंतं दीपाः स्युरधमाधमाः || शताद्याः स्युः सहस्त्रान्ता अयुता लक्षसीमगाः || १५ || दीपाः स्युरेवं संख्याता रात्रौ तद्विगुणं भवेत् || एकद्वित्र्यंगुलज्वालाः कनिष्ठमध्यमोत्तमाः || १६ || यः कुर्यात्कार्तिके मासे शोभनां दीपमालिकाम् || घृतेन च चतुर्दश्यां पौर्णिमास्यामथापि वा || १७ || सूर्यायुतप्रतीकाशस्तेजसा भासयन्दिशः || स मानवो विमानस्थः कुलमुद्धृत्य सर्वतः || १८ || पृ० १९८) यावत्प्रदीपपात्रेण दत्ता दीपाः शिवाय वै || तावद्युगसहस्राणि रुद्रलोके महीयते || १९ || शिरसा धारयेद्दीपं शिवरात्रौ शिवाग्रतः || ललाटे चैव हस्ताभ्यां धारयेच्च तथोरसि || २० || सूर्यायुतप्रतीकाशैर्विमानैः सर्वकामदैः || कल्पायुतशतं दिव्यं शिवलोके महीयते || २१ || घृतदीपप्रदानेन विमानं सर्वसाधकम् || आरुह्य शिवसांनिध्यं गच्छत्येव न संशयः || २२ || निमिषं निमिषार्धं वा घृतदीपप्रदो नरः || वर्षकोटिशतं दिव्ये रुद्रलोके महीयते || २३ || (स्कांदे) यो दद्याद्घृतदीपं च तिलतैलेन वा विभो || स तां गतिमवाप्नोति दुर्लभामात्मवेदिनां || २४ || (शिवधर्मे) मधूकबीजतैलेन दीपं दद्यात्सकृन्नरः || महापातकदोषाद्वै सद्यो मुच्येन्न संशयः || २५ || इति श्रीवीरशैवाचारप्रदीपिकायां दीपलक्षणं नाम सप्तविंशोऽध्यायः || पृ० १९९) अथाष्टविंशोऽध्यायः | श्रीगुरुभ्यो नमः | अथ नैवेद्यलक्षणं तन्माहात्म्यं च वक्ष्यामि || पितामह उवाच || भगवन् देवदेवेश लोकनाथ जगत्पते || नैवेद्यस्य विधानं किं ब्रूहि मे परमेश्वर || १ || ईश्वर उवाच || साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् || तत्तुभ्यमखिलं वक्ष्ये शृणुष्व कमलासन || २ || श्वेतशालिर्महाशालीरक्तशालिस्तथैव च || कृष्णशालिश्च नीवारं व्रीहिर्गोधूममेव च || ३ || यवप्रियंगवश्चैते नवधान्याः प्रकीर्तिताः || तुषानपोह्य चैतेषां शूर्पेण कणचूर्णकान् || निर्दोषांस्तंडुलांश्चैव गृहीत्वान्नं समाचरेत् || ४ || शिवधर्मोत्तरे || षष्ठिकौदननैवेद्यं सहस्रगुणितं फलं || सुगंधिशालिनैवेद्यं विज्ञेयमयुताधिकम् || ५ || रक्तशाल्याश्च नैवेद्यं फलं स्यादयुताधिकम् || कृष्णशाल्याश्च नैवेद्यं दशलक्षाधिकं भवेत् || एवं शालिविशेषेण फलं स्यादुत्तरोत्तरम् || ६ || क्रियासारे || नीवारतंडुलेभ्यश्च श्रेष्ठा वै व्रीहितंडुलाः || होमोक्तधान्यजातीयाः तंडुला मध्यमाः स्मृताः || ७ || म्लानान् भिन्नान्कणयुतान्दुर्गंधान्कठिनाशनान् || पाचितव्रीहिजांश्चैतांस्तंडुलान्सप्त वर्जयेत् || ८ || पृ० २००) अभिन्ना धवलाः स्निग्धा विशुद्धा निर्मलाः शुभाः || तंडुलाः स्युरमी श्रेष्ठा नैवेद्यायेश्वरस्य च || ९ || उदके प्लावयित्वा तान्क्षालयेच्च पुनः पुनः || फूत्काररहितान्काष्ठान्प्रज्वाल्योपरि पात्रकम् || सतंडुलं च निक्षिप्य पाचयेद्भक्तिसंयुतः || १० || परमान्नं हरिद्रान्नं दध्यन्नं शर्करोदनम् || गुडोदनं च मुद्गानमित्येवं षड्विधं स्मृतम् || ११ || तंडुलत्रिगुणं दुग्धं दुग्धार्धं जीवनं तथा || तदर्धा मुद्गदाली वै परमान्नमिदं स्मृतम् || १२ || तंदुलार्धा मुद्गदाली वारिणा सह पाचिता || ईषद्धरिद्रया युक्ता मरीचीजाजिसंयुता || १३ || एतदुक्तं हरिद्रान्नं सुपक्वं पाचितं तथा || मधुराम्लेन गोदध्ना मरीच्या च विमिश्रितम् || १४ || तंडुलान्नं चार्द्रकेण लवणेन च संयुतम् || सद्भक्तेन कृतं तद्धि दध्योदनमिति स्मृतम् || १५ || शर्करापाकसंयुक्तं केशरेण विमिश्रितम् || द्राक्षाभिर्युक्तमेवान्नं शर्करान्नमिति स्मृतम् || १६ || पूर्वोक्तपायसे युंज्याद्दुग्धार्धं गुडखंडकम् || तदर्धमाज्यं कदलीफलमिश्रं गुडोदनम् || १७ || तंडुलस्य त्रिभागेन मुद्गखंडेन मिश्रितम् || भक्तेन पाचितं त्वेतन्मुद्गान्नमभिधीयते || १८ || पृ० २०१) नैवेद्यार्थं मुद्गान्नशाकव्यंजनादिवर्णनम् विशुद्धभांडसंसिद्धं प्रयतं स्निग्धमुज्वलम् || ओदनं परमोत्कृष्टं नैवेद्यं दापयेत्सुधीः || १९ || चत्वारि शिंबाधान्यानि गृह्णीयात्सूपकर्मणि || मुद्गाढकीकलायाख्यमाषाश्चान्यानि वर्जयेत् || २० || तेष्वेव वितुषाः श्रेष्ठाः सतुषा मध्यमाः स्मृताः || क्रिमियुक्ताः कनिष्ठास्तु सर्वदैतान् परित्यजेत् || २१ || पनसः कदली चूतो दाडिमो नारिकेलकः || नारिंगो मातुलुंगश्च फलान्येतानि चैव हि || २२ || सूरणः सूक्ष्मकंदश्च पिंडालः शृंगिवेणुकः || चत्वारोऽमी प्रशस्ता वै शाकास्ते पाककर्मणि || २३ || कूष्मांडं कारवल्ली च पटोलं बृहती बला || अलाबूः सूक्ष्मबृहती तथा कोशातकीद्वयम् || २४ || उर्वारुश्चेत्यमूस्तासां फलानि प्रवराणि वै || स्वादूनि चानिषिद्धानि फलान्यान्यानि वा बुधः || २५ || मरीचिजाजिकासर्पिर्लवणाम्लकसर्षपैः || उपदंशान्यथायोग्यं पचेदपि च हिंगुना || २६ || पात्रोपदंशा ये सर्वे तान्निषिद्धान्विवर्जयेत् || उत्तमं कपिलासर्पिर्मध्यमं श्वेतगोघृतम् || २७ || अन्यासामधमं प्रोक्तमिति त्रिविधमीरितम् || सद्यः पक्वं सुगंधाढ्यं विशुद्धं सुमनोहरम् || पृ० २०२) शुद्धभांडस्थितं श्रेष्ठं शुद्धं सर्पिः शुभं स्मृतं || २८ || सकेशकल्कपुलकं दुर्गंधं च पुरातनम् || अयोग्यपाणिना स्पृष्टं दुर्भांडस्थं घृतं त्यजेत् || २९ || चांडालः पतितो रोगी पापीयान्देवलोंऽत्यजः || गणिका सूतिकोदक्या व्रतभ्रष्टश्च कुक्कुरः || ३० || ओतुः सर्पः खरः काकः षंडो वाऽभक्ष्यभक्षकः || स्वाध्यायविक्रयीत्येते चास्पृश्या वै सुनिंदिताः || ३१ || एवं ज्ञात्वा दधि क्षीरं गृह्णीयात्स्नानकर्मणि || नैवेद्यस्यापि भक्तेन परीक्ष्य च पुनः पुनः || ३२ || श्रेष्ठं स्यात्कर्षकाष्टं वै घृतं मध्यं तदर्धकम् || कनिष्ठं च तदर्धं तु यथालब्धमलाभतः || ३३ || इति प्रोक्तान्नपानानां व्यंजनानामभावतः || दरिद्रश्चेत्स्वभोज्यं यत्तत्तदीशाय कल्पयेत् || ३४ || (कामिके) मनःपूतं च नैवेद्यं कारयेत्सुमनोहरम् || भविदृष्टिनिवृत्यै च पटेनाच्छादयेत्सदा || ३५ || अभक्तजनसंस्पृष्टपदार्थानिह वर्जयेत् || अभक्तालोकितं सर्वं वर्जयेदोदनादिकम् || ३६ || (लैंगे) नैवेद्यं सघृतं शुद्धं शुक्लं शाल्योदनं शुभम् || सगुडं शुभपात्रस्थं प्रदेयं हिमसंनिभम् || ३७ || पृ० २०३) नैवेद्यार्थं द्राक्षादिफलपायसादिवर्णनम् पायसं कृसरं चाथ शाकानि विविधानि वै || व्यंजनानि विचित्राणि पात्रेषु विनिवेदयेत् || ३८ || पक्वांश्च मोदकांश्चैव घृतपक्वान्करंजकान् || पोलिकाश्चैव सूपं च माक्षिकानि शुभानि च || ३९ || व्यंजनानि विचित्राणि षड्रसानि शुभानि वै || पावनानि मनोज्ञानि देयानि मम सुंदरि || ४० || (ललिते) मातुलुंगफलादीनि सुपक्कानि निवेदयेत् || इक्षुरंभाफलादीनि सखंडानि निवेदयेत् || द्राक्षाखर्जूरचूतादीन्यखंडानि निवेदयेत् || ४१ || (शिवधर्मे) नालिकेराणि शुद्धानि फलानि विविधानि वै || नित्यं देयानि मद्भक्तैर्लोके माहेश्वरैर्जनैः || ४२ || (शैवे) हविश्च षड्विधं ज्ञेयं शुद्धं मुद्गान्नमेव च || पायसं दधिभक्तं वै गौडं च मधुना युतं || ४३ || भक्ष्यैर्भोज्यलेह्यपेयैश्चोष्यैः स्वादुतरैस्तथा || एतेष्वेकमनेकं वा शिवाय विनिवेदयेत् || ४४ || कपित्थफलसारस्य पानकं सुरभीकृतम् || पुष्पमालायुतं चैव ग्रीष्मकाले निवेदयत् || गवां कोटिफलं लब्ध्वा शिवलोके महीयते || ४५ || शीतं जलं च यो भक्त्या तक्रं च धनवर्जितः || शिवाय दद्यात्स पुमान् धन्यो भवति भूतले || ४६ || दत्वा तक्रं महेशाय गुडखंडविमिश्रितम् || पृ० २०४) क्षीरं क्षीरार्णवे भोगान् लभते विष्णुनार्चितः || ४७ || हेमपात्रे तु निक्षिप्य दध्योदनमनुत्तमम् || गुडखंडैरलंकृत्य भक्ष्याद्यैश्च सुगंधिभिः || ४८ || आर्द्रोपदंशैश्च तथा शीतवस्त्रेण वेष्ट्य च || दद्याद्रात्रौ तु मां भक्त्या शिवतुल्यः प्रजायते || ४९ || दत्वा चाचमनीयं वै करोद्वर्तनकं तथा || सकर्पूरं सतांबूलं कुर्यान्नीराजनं तथा || ५० || नैवेद्यस्य फलं वक्ष्ये शृणु संप्रति सुव्रते || हारिद्रं कृसरं शुक्लं पायसं वापि यावकम् || ५१ || निवेद्य भक्त्या शर्वाय शाश्वतीं गतिमाप्नुयात् || भक्त्या वित्तानुसारेण दत्वाल्पं यदि वा बहु || नैवेद्यं रुद्रलोकादिलोकेष्वेव प्रमोदते || ५२ || (वीरतंत्रे) शुद्धोदनसहस्रेभ्यो पायसान्नं विशिष्यते || पायसान्नसहस्रेभ्यो कृसरान्नं विशिष्यते || ५३ || कृसरान्नसहस्रेभ्यो गौडमन्नं विशिष्यते || सुगौडान्नसहस्रेभ्यो मुद्गान्नं तु विशिष्यते || ५४ || एवमेव क्रमेणैव सहस्रगुणितं फलम् || यावंतस्तंडुलास्तस्मिन्नैवेद्ये परिसंख्यया || तावद्युगसहस्राणि रुद्रलोके महीयते || ५५ || (शैवे) सिद्धमन्नं शिवायाथ दत्वा भक्त्या सकृन्मुने || सघृतं शिवलोके वै कल्पमेकं तु मोदते || ५६ || पृ० २०५) शिवार्पितनैवेद्यस्य फलतारतम्यकथनम् सव्यंजनं च द्विगुणं सघृतं चेच्छताधिकम् || अन्नात्कोटिगुणं पुण्यं दत्वा भक्ष्यं शिवाय वै || ५७ || (कामिके) गुडखंडकृतानां च भक्ष्याणां च निवेदने || घृतेन पाचितानां च तत्कोटिगुणतः फलं || ५८ || क्षीरान्नं पायसं चैव मोदकान्विविधानपि || निवेदयेत्कुरुक्षेत्रे हेमदानफलं लभेत् || ५९ || तक्रपानकखाद्यानां भक्ष्यार्धफलमुच्यते || तदर्धं सतिलस्यैव फलमेतत्स्मृतं च वै || ६० || सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलं || स्तुतिजाप्योपहारेषु तिले तत्फलमाप्नुयात् || ६१ || येन केनापि वा भक्त्या शिवायान्नं सकृन्मुने || दत्वा मुंचति संसारदुःखं शांतो लभेत्सुखम् || ६२ || अदत्वा तु यदश्नाति गृहे गृहपतिः स्वयम् || पच्यते रौरवे घोरे नरके कालमक्षयं || ६३ || (वीरतंत्रे) तस्मात्सर्वप्रयत्नेन नैवेद्यं चैव कारयेत् || एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते || ६४ || (कामिके) अमृतीकृत्य गोक्षीरनैवेद्ये भसितं क्षिपेत् || पृ० २०६) पताकमुद्रया चैव प्रादक्षिण्यक्रमेण च || ६५ || त्रिवारं पंचवारं वा सप्तवारमथापि वा || निवेदयेच्छुद्धभक्त्या तद्वत्पानीयमुत्तमम् || ६६ || इति श्रीवीरशैवाचारप्रदीपिकायां नैवेद्यलक्षणमाहात्म्यं नाम अष्टाविंशोऽध्यायः || २८ || पृ० २०७) अथैकोनत्रिंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ तांबूलविधिं तन्माहात्म्यं नीराजनविधिं तन्माहात्म्यं च वक्ष्यामि || लवंगतृटिजातीनां चूर्णं तक्कोलजं तथा || कर्पूरेण समायुक्तं पंचसौगंधिकं कृतम् || १ || मुखवासं त्विदं श्रेष्ठं कर्पूरेणैव मध्यमम् || लवंगेनाधमं प्रोक्तं देवसौगंधिकं स्मृतम् || २ || (ललिते) लवंगतैलकर्पूरफलपत्रसमन्वितम् || चूर्णं कृत्वा महादेवि चंदनैश्च समन्वितम् || ३ || ओं ह्रां हृदयाय नमः ओं नमः शिवाय मुखवासनं समर्पयामि || अजितागमे || हेमादिपात्रे निक्षिप्य विमलं तच्च पंचकम् || यथाशक्त्या च भक्त्या च तांबूलं विनिवेदयेत् || ४ || (क्रियासारे) नागवल्लीदलं चैव क्रमुकस्य फलेन वै || युक्तं कर्पूरसुधया तांबूलमिति संस्मृतम् || ५ || सुगंधपंचकोपेतं यस्तांबूलं निवेदयेत् || शिवाय गुरवे चैव तस्य पुण्यफलं शृणु || ६ || सुगंधदेहस्तेजस्वी सर्वावयवसुंदरः || युगकोटिं महाभोगैः शिवलोके महीयते || ७ || (शैवपुराणे) एवं सौगंधिकोपेतं तांबूलं गरुडः पुरा || दत्वा सांबाय रुद्राक्षं लब्धवान्परमं पदम् || ८ || तस्मात्सौगंधिकोपेतं तांबूलं विनिवेदयेत् || पृ० २०८) शिवाय मुनिशार्दूल सोमाय गणराड्भवेत् || ९ || ओं ह्रें तत्पुरुषाय नमः तांबूलं स्वाहा || नीराजनविधिं वक्तुमिहार्हसि गणेश्वर || तस्य तद्वचनं श्रुत्वा सर्वभूतगणाग्रणीः || नीराजनविधिं वक्तुं मतिं चक्रे महामतिः || १० || नंद्युवाच || रुद्रभक्तोसि भद्रं ते ब्रह्मपुत्र महामते || शृणु वक्ष्यामि संक्षेपान्नीराजनविधिक्रमम् || ११ || सर्वपापहरं पुण्यं सर्वव्याधिविनाशनम् || सर्वैरनुष्ठितं पूर्वं सर्वविध्यर्थमुत्तमम् || १२ || हेमपात्रं मुने कुर्यात्सप्तकं त्वेकमेव वा || राजतं वापि ताम्रं वा लौहं वापि प्रकल्पयेत् || १३ || मध्ये पद्मसमायुक्तं शिवशास्त्रोक्तलक्षणैः || जलेन क्षालयेत्पात्रं सप्तकं तत्र कारयेत् || १४ || त्रिशूलं शंखयुग्मं च वज्रं कमलमेव च || श्रीवत्सं स्वस्तिकं विप्र दर्पणं च यथाक्रमम् || १५ || पिष्टेन वा मुने तत्र गोमयेनापि वा पुनः || शूलादीन्लेखयेद्भक्त्या चतुरंगुलमानतः || १६ || नानावर्णसमायुक्तैरक्षतैस्तिलतंडुलैः || सिद्धार्थैर्दधिसंमिश्रैश्चूताश्वत्थादिपल्लवैः || १७ || औषधीभिश्च सद्धान्यैः सर्वबीजैर्यवांकुरैः || अलंकृत्य यथान्यायं नवदीपांश्च कारयेत् || १८ || पृ० २०९) नीराजनमहात्म्यकथनम् पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च दापयेत् || मुने नमः शिवायेति भसितं च प्रदापयेत् || १९ || मंगलं मतिमान्कुर्यान्नीराजनममुं ततः || अष्टम्यादिषु सर्वेषु दिवसेषु यथाविधि || पुष्यभेन युतायां तु पौर्णिमास्यां च कारयेत् || २० || शंखभेर्यादिनिर्घोषैर्महद्भिर्गायनैः शुभैः || कुर्यान्नीराजनं लिंगे शुभमुद्दिश्य मंगलैः || २१ || यावत्सर्वाणि विधिवत्कुर्यान्नीराजनं मुने || तावद्वर्षसहस्राणि रुद्रलोके महीयते || २२ || शिवधर्मसंहितायां || दधीचिश्चेत्थमीशाय दत्वा नीराजनं पुरा || लब्धवान्परमैश्वर्यं चावध्यत्वं च शत्रुभिः || २३ || अकामतः शिवे दत्वा भक्त्या नीराजनं शुभम् || शिवलोकमवाप्नोति नात्र कार्या विचारणा || एतत्ते कथितं सर्वं नीराजनविधिक्रमम् || २४ || इति श्रीवीरशैवाचारप्रदीपिकायां तांबूलनीराजनविधिर्नाम एकोनत्रिंशोऽध्यायः || पृ० २१०) अथ त्रिंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ संगीतनर्तनपुराणश्रवणपठनप्रदक्षिणनमस्कारविधिमेतेषां माहात्म्यं च वक्ष्यामि || वक्ष्यामि गीतं नृत्यं च शृणु पार्वति यत्नतः || नाहं वसामि कैलासे न मेरौ न च मंदरे || यत्र गायंति मद्भक्तास्तत्र तिष्ठामि पार्वति || १ || घृतेन तादृशी तृप्तिर्न क्षीरेण च गुग्गुलैः || यादृशी गायनेनाथ मम तृप्तिर्वरानने || २ || नोदकेन न बिल्वेन न तु पद्मैः सुगंधिभिः || गायनेनैव तृप्यामि सतालेन शुभानने || ३ || प्रीतियुक्तेन मनसा यो गायति ममाग्रतः || स च वर्षसहस्रं तु गणो भूत्वा सुखी भवेत् || ४ || योऽपि गायति शाठ्येन परार्थं तु शिवालये || सोऽपि क्रतुसहस्रस्य फलं प्राप्नोति मानवः || ५ || शुद्धं वा स्वरहीनं वा यो गायति शिवालये || सप्तक्रतुशतस्याथ गायको लभते फलम् || ६ || पूजाकाले त्रिसंध्यायां यः कुर्याद्गानवादनम् || नर्तनं मुखवाद्यं वा सोऽपीश्वरपदं लभेत् || ७ || कामिके || वादकाश्च चतुर्विंशच्छुभवाद्यसमन्विताः || गणिकाश्च चतुर्विंशत्त्रयोविंशच्च वा दश || ८ || रूपयौवनयुक्ताश्च त्रिकालं नर्तयंति चेत् || पृ० २११) शिवस्तुतिवर्णनम् नृत्यगानप्रभावेण पूज्यंते शिवमंदिरे || ९ || शिवधर्मसंहितायाम् || कारयंति च ये संतो नाटकं वा शिवालये || शतं कुलानि चोद्धृत्य गच्छंति शिवमंदिरम् || १० || नृत्यं गीतं च वाद्यं च पूजाकाले करोति यः || तुष्यते तेन सद्यो वै देवदेवो महेश्वरः || ११ || तस्मात्सर्वप्रयत्नेन शिवस्य परमात्मनः || पूजादिकर्म कर्तव्यं नृत्यगीतादिकं तथा || १२ || श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् || सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती || १३ || भक्त्या स्तोष्यति यो देवि लिंगं त्रिभुवनेश्वरम् || सोऽपीश्वरप्रसादेन गाणपत्यमवाप्नुयात् || १४ || (ब्रह्मोत्तरखंडे) जय देव जयाजेय जय शंकर शाश्वत || जय सर्वसुराध्यक्ष जय सर्वसुरार्चित || १५ || जय सर्वगुणातीत जय सर्ववरप्रद || जय नित्य निराधार जय विश्वंभराव्यय || १६ || जय विश्वैकवंद्येश जय नागेंद्रभूषण || जय गौरीपते शंभो जय चंद्रार्धशेखर || १७ || जय कोट्यर्कसंकाश जयानंतगुणालय || जय रुद्र विरूपाक्ष जय नित्यनिरंजन || १८ || जय नाथ कृपासिंधो जय भक्तार्तिभंजन || जय दुस्तरसंसारसागरोत्तरण प्रभो || १९ || प्रसीद मे महाभाग संसारार्तस्य खिद्यतः || पृ० २१२) सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर || २० || वृत्तम् || सर्वेंद्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् || तस्मात्प्रधानं दिवि देवतानां शिवं परं तं प्रणमेच्च पश्येत् || २१ || सर्वेषामुपचाराणां प्रणामोऽत्यंतमुत्तमः || तं विनाप्युपचारा ये कृतास्ते निष्फलाः स्मृताः || तस्मात्प्रणामं कुर्वीत सततं गुरुदेवयोः || २२ || (शैवे) प्रातः प्रणम्य देवेशमग्निष्टोमफलं लभेत् || माध्याह्ने चाश्वमेधस्य सौत्रामण्या निशासु च || २३ || ये नमंति विरूपाक्षमीशानं कृत्तिवाससम् || संपन्नचेतसो रुद्रं यांति तत्संनिधौ सदा || २४ || सर्वावस्थां गतो वापि सर्वपापयुतोऽपि वा || शिवलिंगं नमस्कृत्य सोऽपि याति परां गतिं || २५ || (भारते) उमामहेश्वरसंवादे || इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः || शिवलिंगप्रणामस्य कलां नार्हंति षोडशीम् || २६ || (शिवधर्मे) ये कुर्वंति नमस्कारं चेश्वराय क्वचित्क्वचित् || तत्संपर्काच्च तल्लोभाद्विमानं ते लभंति हि || २७ || अनादरेण शाठ्येन परिहासेन मायया || नमस्कुर्वंति ये लिंगं तेषां पापक्षयो भवेत् || २८ || प्रमादेनापि यैः क्वापि प्रणामः शूलिने कृतः || संसारसागरान्मुक्ता न ते गृह्णंति जन्म वै || २९ || शाठ्येनापि नमस्कारं यः करोति शिवाय वै || पृ० २१३) शिवशुश्रूषाफलवर्णनम् स वै संसारमुक्तोऽथ न गृह्णाति च जन्म वै || ३० || एवंविधे कलियुगे सदा ध्येयः सदाशिवः || नमस्कार्यः स एवात्र वदत्येषा श्रुतिः सदा || ३१ || सर्वयज्ञात्परः शुद्धो नमस्कारो विधीयते || नमस्काराख्ययज्ञेन संपूजय शिवं सदा || ३२ || करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् || विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो || ३३ || मंत्रहीनं क्रियाहीनं द्रव्यहीनं यदर्चनम् || भावहीनमिदं शंभो तत्सर्वं परिपूरय || ३४ || मंत्रपुष्पांजलिसमर्पणं || शिवाय नमः || रुद्राय नमः || पशुपतये नमः नीलकंठाय नमः || महेश्वराय नमः || हरिकेशाय नमः || विरूपाक्षाय नमः || पिनाकिने नमः || त्रिपुरांतकाय नमः || शंभवे नमः || शूलिने नमः || महादेवाय नमः || त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनं || उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् || पूजाफलं तपः सर्वमुदकेन प्रदापयेत् | दक्षिणांजलिना दद्यादुदकं शिवपादयोः || ३५ || सपुष्पं वारि संगृह्य कनिष्ठांगुलिना नरः || चुलुकोदकमेवं स्याद्दद्याच्छिवपदाब्जयोः || ३६ || इतिश्री वीरशैवाचारप्रदीपिकायां नर्तनगायनादिमाहात्म्यकथनं नाम त्रिंशोऽध्यायः || ३० || पृ० २१४) अथ एकत्रिंशोऽध्यायः | श्रीसांबाय नमः || अकारादि क्षकारांतवर्णरूपं नमाम्यहम् || सबीज मूलमंत्रेण प्रणमेन्मोक्षदं [प्रजपेन्मोक्षदं शिवम्] शिवम् || १ || अथ जपप्रकरणे || पंचाक्षरी माहात्म्यं वक्ष्यामि तद्यथा || शैवसंहितायाम् || कृष्ण उवाच || महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे || पंचाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्वतः || २ || उपमन्युरुवाच || पंचाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि || न शक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु || ३ || वेदे शिवागमे चायमुभयत्र षडक्षरः || मंत्रः स्थितः सदा मुख्यो लोके पंचाक्षरः स्मृतः || ४ || सर्वमंत्राधिकश्चायमोंकाराद्यः षडक्षरः || सर्वेषां शिवभक्तानामशेषार्थप्रसाधकः || ५ || तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् || आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् || ६ || नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् || पृ० २१५) षडक्षरमंत्रस्वरूपकथनम् सुनिश्चितार्थगंभीरं वाक्यं तत्पारमेश्वरम् || ७ || मंत्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये || प्राहोंनमः शिवायेति सर्वज्ञः सर्वदेहिनाम् || ८ || तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् || अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् || ९ || देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः || ओमित्येकाक्षरे मंत्रे स्थितः सर्वगतः शिवः || १० || ईशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु || मंत्रे नमः शिवायेति संस्थितानि यथाक्रमम् || ११ || मंत्रे षडक्षरे सूक्ष्मे पंचब्रह्मतनुः शिवः || वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः || १२ || वाच्यः शिवः प्रमेयत्वान्मंत्रस्तद्वाचकः स्मृतः || वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः || १३ || यः सर्वज्ञः सुसंपूर्णः स्वभावविमलः शिवः || तस्याभिधानमंत्रोऽयमभिधेयश्च संस्मृतः || १४ || अभिधानाभिधेयत्वान्मंत्रः सिद्धः परः शिवः || पृ० २१६) एतावत्तु शिवज्ञानमेतावत्परमं पदम् || १५ || यदोंनमः शिवायेति शिववाक्यं षडक्षरम् || विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् || १६ || बहुत्वेऽपि हि मंत्राणां सर्वज्ञेन शिवेन यत् || प्रणीतममलं मंत्रं न तेन सदृशं क्वचित् || १७ || सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे || न तेन सदृशं तस्मान्मंत्रोऽन्योऽस्ति परः क्वचित् || षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः || १८ || किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा बहुविस्तरैः || यस्योंनमः शिवायेति मंत्रोऽयं हृदि संस्थितः || १९ || तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् || येनोंनमः शिवायेति मंत्राभ्यासः स्थिरीकृतः || २० || नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् || जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् || २१ || अंत्यजो वाधमो वापि मूर्खो वा पंडितोऽपि वा || पंचाक्षरजपे निष्ठो मुच्यते पापपंजरात् || २२ || इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना || हिताय सर्वमर्त्यानां तिष्यजानां विशेषतः || २३ || देव्युवाच || पृ० २१७) शिवपार्वतीप्रश्नोत्तरवर्णनम् कलौ कलुषिते काले दुर्जये दुरतिक्रमे || अपुण्यतमसा छन्ने लोके धर्मपराऽऽन्मुखे || २४ || क्षीणे वर्णाश्रमाचारे संकरे समुपस्थितौ || सर्वाधिकारे संदिग्धे निश्चिते वा विपर्यये || केनोपायेन मुच्यंते भक्तास्तव महेश्वर || २५ || महेश्वर उवाच || आश्रित्य परमां विद्यां हृद्यां पंचाक्षरीं मम || भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः || मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः || २६ || दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् || लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् || मम पंचाक्षरी विद्या संसारभयतारिणी || २७ || मयैव मसकृद्देवि प्रतिज्ञातं धरातले || पतितोऽपि विमुच्येत मद्भक्तो विद्ययाऽनया || २८ || देव्युवाच || कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा || कर्मायोग्येन यत्कर्म कृतं च नरकाय हि || पृ० २१८) ततः कथं विमुच्येत पतितो विद्ययानया || २९ || ईश्वर उवाच || तथ्यमेतत्त्वया प्रोक्तं तथाहि शृणु सुंदरि || रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा || ३० || समंत्रकं मां पतितः पूजयेद्यदि मोहितः || नारकी स्यान्न संदेहो मम पंचाक्षरं विना || ३१ || अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः || तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः || ३२ || भक्त्या पंचाक्षरेणैव योहि मां सकृदर्चयेत् || सोऽपि गच्छेन्मम स्थानं मंत्रस्यास्यैव गौरवात् || ३३ || तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा || पंचाक्षरार्चनस्यैते कोट्यंशेनापि नो समाः || ३४ || तस्मादनेन मंत्रेण मनोवाक्कायभेदतः || यथाप्रज्ञं यथाश्रद्धं यथाकालं यथामति || ३५ || यथाशक्ति यथासंपद्यथायोगं यथारति || यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता || येन केनापि वा देवि प्रजा मुक्तिं नयिष्यति || ३६ || अशुद्धो वा विशुद्धो वा सकृत्पंचाक्षरेण यः || पूजयेत्पतितो वापि मुच्यते नात्र संशयः || ३७ || किमत्र बहुनोक्तेन भक्ताः सर्वाधिकारिणः || पृ० २१९) पंचाक्षरीमहत्वकथनम् मम पंचाक्षरीमंत्रस्तस्माच्छ्रेष्ठतरो हि सः || ३८ || पंचाक्षरप्रभावाच्च लोका देवा महर्षयः || तिष्ठंति शाश्वता धर्मा वेदाः सर्वमिदं जगत् || ३९ || आदौ नमः प्रवक्तव्यं शिवायेति ततःपरम् || सैषा पंचाक्षरी विद्या सर्वश्रुतिशिरोगता || ४० || शब्दजालस्य सर्वस्य बीजभूता समासतः || प्रथमं मन्मुखोद्गीर्णा सा ममैवात्मवाचिका || ४१ || रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये || न वाच्यं यस्य कस्यापि नास्तिकस्याथवा पशोः || ४२ || सदाचारविहीनस्य पतितस्यांत्यजस्य वा || पंचाक्षरात्परं नास्ति परित्राणं कलौ युगे || ४३ || गच्छतऽस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः || अशुचेर्वा शुचेर्वापि मंत्रोऽयं न च निष्फलः || ४४ || अंत्यजस्यापि मूर्खस्य मूढस्य पतितस्य च || निर्मर्यादस्य नीचस्य मंत्रोऽयं न च निष्फलः || ४५ || सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् || सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् || ४६ || पृ० २२०) मंत्रांतरेषु सिद्धेषु मंत्र एष न सिध्यति || सिद्धे त्वस्मिन्महामंत्रे तेच सिद्धा भवंत्युत || ४७ || यथा देवेष्वलब्धोऽस्मि लब्धेष्वपि महेश्वरी || मयि लब्धे तु ते लब्धा मंत्रेष्वेष समोविधिः || ४८ || तथापि नैव क्षुद्रेषु फलेषु प्रतियोगिषु || सहसा विनियुंजीत यस्मादेष महाफलः || ४९ || तस्मान्मंत्रांतरान् त्यक्त्वा भिन्नमार्गान् प्रतिष्ठितान् || आश्रयेत्परमां विद्यां हृद्यां पंचाक्षरी बुधः || ५० || उपमन्युरुवाच || एवं साक्षान्महादेव्यै महादेवेन शूलिना || हिताय जगतामुक्तो पंचाक्षरविधिक्रमः || ५१ || सनत्कुमारनंदीश्वरसंवादे || पंचाक्षरसमो मंत्रो नास्ति नास्ति महामुने || महादेवसमो नास्ति यथा देवो जगत्रये || ५२ || उमासमा यथा नारी यथा गंगासमा नदी || यथा मेरुसमो भूभृत्सागरेण समं सरः || ५३ || शिवभक्तिसमो नास्ति यथा मुक्तिविधायिनी || शंभोर्दयासमा नास्ति नौर्भवांबुधितारिणी || पृ० २२१) पंचाक्षरीमहत्वकथनम् | तथैव शिवमंत्रस्य तुल्यो नास्त्यधिकोपि वा || ५४ || वृत्तम् || वेदेषु शास्त्रेषु च चागमेषु सारं समुत्धृत्य जगद्धिताय || भक्तिप्रियः पार्वतिवल्लभश्च [पर्वतराजकन्यां] पंचाक्षरं प्राह परः शिवोऽसौ || ५५ || कृत्वा सर्वाणि पापानि हत्वा च भुवनत्रयम् || सकृत्पंचाक्षरं जप्त्वा सर्वपापैर्न लिप्यते || ५६ || नमःशिवायेत्यस्त्येव मंत्रोऽयं वशगा च वाक् || नरकेषु नराः केचित्पच्यंते च तदद्भुतम् || ५७ || पुरा सानंददेवोऽसौ शिवभक्तो गणेश्वरः || पंचाक्षरेण नरकात्सर्वांस्तारितवान हो || ५८ || नरकेष्वेषु सर्वेषु पात्यमानान्सुदुःखितान् || शिवमंत्रप्रभावेन मोचयिष्यंत्ययत्नतः || ५९ || वृत्तम् नमःशिवायेति पुनः पुनर्मुहुर्नमः शिवायेति पुनः पुनर्मुहुः || नमःशिवायेति पुनः पुनर्मुहुर्गणेश्वरो मंत्रमथोपठत्सदा || ६० || पठितं शिवमंत्रं तं श्रत्वा नरकवासिनः || समुत्तेरुः क्षणात्तस्मान्नरकान्नारका जनाः || ६१ || क्षुद्रपापयुताः क्षुद्रा महापापयुताश्च ये || अनाचारा दुराचाराः सदाचारविवर्जिताः || ६२ || पृ० २२२) अविचारप्रचाराश्च शिवाचारबहिष्कृताः || वेदनिंदापरा ये च देवनिंदापराश्च ये || ६३ || ब्रह्महत्यादिभिः पापैरखिलैरपि संयुताः || अष्टाविंशति कोटीषु नरकेषु नराधमाः || ६४ || पात्यमानाः सुदुःखार्ता मोचितास्तेन तत्क्षणात् || शिवमंत्रप्रभावेन यमस्याप्यस्य सन्निधौ || ६५ || नरकस्था विमानस्था सर्वे संदीप्ततेजसः || ६६ || वृत्तम् || सर्वे नरा नरकयातनया कृशांगाः शुद्धा विशुद्धतनवः शुभतेजसश्च || शून्यं कृतं नरकमंडलमाशु सर्वं शैवप्रभावविलसद्गणपुंगवेन इति श्रीमद्वीरशैवाचारप्रदीपिकायां जपप्रकरणे पंचाक्षरीमंत्रवर्णनम् नाम प्रथमोपदेशः || शिवार्पणमस्तु || ३१ अध्यायः || पृ० २२३) अथ द्वात्रिंशोऽध्यायः | || श्रीगुरुभ्यो नमः || अथ जपलक्षणम् वक्ष्यामि तद्यथा || चिन्मयं शाश्वतं शांतं निर्मलं मोक्षदायकम् || वंदे त्रिपुरसंहारं भूतिभूषणविग्रहम् || १ || अतः परं प्रवक्ष्यामि जपयज्ञविधिं परम् || समस्तयज्ञफलदं सर्वपापप्रणाशनम् || २ || शिवज्ञानविद्यायाम् || अथाभ्यर्च्य महेशानं साध्यमंत्रं यजेद्द्विजैः || सर्वथा सर्वदाग्रस्थं साध्यको [साधको] वक्ष्यमाणवत् || ३ || शारदातिलके || पूजनात्प्राक्कृतं देवि जपस्य फलमीदृशम् || वक्ष्यामि पश्चाज्जाप्यस्य फलं वक्तुं न विद्महे || ४ || असंपूज्य शिवं स्तोत्रजपात्फलमुदीरितम् || संपूज्य च शिवं पश्चात्फलं वक्तुं न शक्यते || ५ || पंचाक्षरीमिमां विद्यां प्रणवेन षडक्षरीम् || जपेन्नित्यं च संकल्प्यं पुरश्चरणमेव च || ६ || यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् || पृ० २२४) अनश्नन् तत्परो भूत्वा नित्यजापी स उच्यते || ७ || जपेदक्षरलक्षं वै चतुर्गुणितमादरात् || प्रत्याशी संयमी यश्च पौरश्चरणिकः स्मृतः || ८ || ग्रंथांतरे || कृते लक्षजपं कुर्यात्त्रेतायां द्विगुणं भवेत् || द्वापरे त्रिगुणं प्रोक्तं कलौ लक्षचतुष्टयम् || ९ || शाककंदफलाहारी पयोभिक्षाभुगेव वा || एकाहारयुतो नक्तः स्त्रीसंपर्कविवर्जितः || पुरश्चरणजापी स्यादथ वा नित्यजापकः || १० || यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः || तस्य नास्ति समो लोके स शुद्धः सिद्धिदो वशी || ११ || जपार्थमक्षमालाया लक्षणं त्वभिधास्महे || तद्द्रव्याणि फलान्यादौ वक्ष्येऽहं [वक्ष्येतान्] शास्त्रवर्त्मना || १२ || दक्षहस्तस्यांगुलीनां तेषां पर्वाण्यतः परम् || कुशग्रंथिररिष्टं च निंबबीजं ततः परम् || १३ || पूतिकावृक्षबीजानि पद्मेंद्राक्षाणि चैव हि || शंखरौप्यसुवर्णानि स्फटिकं विद्रुमस्तथा || १४ || मौक्तिकं पद्मरागं च रुद्राक्षाणि ततः परम् || पृ० २२५) जपलक्षणनिर्णयः अंगुल्यश्च हि संख्याता एकैकादधिकं फलं || १५ || मध्यांगुल्यग्रपर्वादि प्रादक्षिण्यक्रमेण तु || तत्पर्वभिः शतगुणं फलं स्यात्तदरिष्टकैः || १६ || निंबबीजैर्भवेल्लक्षं पूतजैर्दशलक्षकम् || पद्मजैः कोटिगुणितं फलं भवति वै जपात् || १७ || इंद्रजैस्तद्दशगुणं सहस्रं शंखमालया || ततो रौप्यैः शतगुणं तस्मात्सौवर्णतोऽधिकम् || १८ || ततोऽधिकं च स्फटिकैर्विद्रुमैश्च ततोऽधिकम् || मौक्तिकैरधिकं तस्मात्ततो माणिक्यमालया || १९ || सर्वेभ्यो ह्यधिका प्रोक्ता रुद्राक्षजपमालिका || तत्कृतानां जपानां तु फलस्यांतो न विद्यते || २० || लक्षकोटिसहस्रस्य लक्षकोटिशतस्य च || जपस्य लभते पुण्यं रुद्राक्षपरिसंख्यया || २१ || बभूवुस्ते च रुद्राक्षा ह्यष्टत्रिंशत्प्रभेदतः || सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः || २२ || सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः स्मृताः || वह्निनेत्रोत्थिताः कृष्णा दशभेदा भवंति हि || २३ || ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः || श्वेतो रक्तः पीतवर्णः कृष्णवर्णः क्रमाद्भवेत् || २४ || पृ० २२६) तेषां तु ब्राह्मणाः श्रेष्ठास्तैश्च [जपमाला कृता भृशम्] मालां च कारयेत् || अलाभे तु द्विजातीनामपि वा चान्यजातयः || २५ || चणकेन मितोक्षस्तु कनीयान्परिकीर्तितः || बदरीफलमात्रस्तु मध्यमः परिकीर्तितः || २६ || धात्रीफलप्रमाणोऽक्ष उत्तमः परिकीर्तितः || अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भंगुरो लघुः || २७ || भिन्नः पुरा धृतो जीर्णो रुद्राक्षो न वरः स्मृतः || एतांस्त्यक्वा प्रगृह्णीयादक्षमालार्थमुत्तमम् || २८ || अव्रणान् कंटकैर्भिन्नान्सुदृढान् ताम्रवर्णकान् || समवक्त्रान् प्रगृह्णीयादक्षमालार्थमादरात् || २९ || दृढा दृष्टिप्रियाः स्निग्धा वृत्ताः श्रेष्ठा इति स्मृताः || स्वहस्तकृतरंध्राश्च रुद्राक्षा जपकर्मणि || ३० || मंत्रारंभस्तु चैत्रे च बहुदुःखफलप्रदः || वैशाखे रत्नलाभः स्याज्ज्येष्ठे च मरणं ध्रुवम् || ३१ || आषाढे बंधुनाशः स्यात्पूर्णायुःश्रावणे भवेत् || प्रजानाशो भाद्रपदे सर्वतः शुभमाश्विजे || ३२ || पृ० २२७) कार्तिके मंत्रसिद्धिः स्यान्मार्गशीर्षे शुभावहा || पुष्ये तु मंत्रहानिः स्यान्माघे मेधाविवर्धनम् || ३३ || फाल्गुने सर्वसिद्धिः स्यादिति मंत्रविदो विदुः || शुक्लपक्षे बुभुक्षूणां कृष्णपक्षे मुमुक्षुभिः [मुमुक्षूणां]|| ३४ || चतुर्थीं नवमीं षष्ठीमष्टमीं च चतुर्दशीं || पौर्णमासीं विना शेषा हितास्तु तिथयो मताः || ३५ || रविमंगलसौरास्तु त्याज्या ह्यन्ये शुभावहाः || रोहिणी मृगशीर्षं च मघा पुष्यपुनर्वसू || ३६ || हस्ता स्वाती ह्यनूराधा श्रवणा रेवती तथा || त्रीण्युत्तराणि मूला च नक्षत्राणि चतुर्दश || ३७ || ज्योतिःशास्त्रविचारेण [ज्योतिःशास्त्रविचाराद्वै] दीक्षां कुर्याद्बुभुक्षुषु || मुमुक्षोः सर्वदा दीक्षा कालादिनियमो न हि || ३८ || गृहे शतं जपं विंद्याद्गोष्ठे शतगुणं भवेत् || नद्यां शतसहस्रं स्यादनंतं शिवसन्निधौ || ३९ || तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् || पश्चिमं धनदं विंद्यादुत्तरं शांतिकं भवेत् || ४० || आग्नेययां [वह्नौ दिशि] व्याधिपीडा च नैरृत्यां द्वेषसंभवः || वायव्यां कर्षणं चैव ईशाने मोक्षसंपदः || ४१ || पृ० २२८) आसनस्थो जपेत्सम्यऽऽन्मंत्रार्थगतमानसः || वंशासने दरिद्री स्यात्पाषाणे व्याधिसंभवः || ४२ || धरण्यां दुःखसंभूतिर्दौर्भाग्यं दारुकासने || तृणासने यशोहानिः पल्लवे चित्तविभ्रमः || ४३ || यथोचितेष्वासनेषु निषिद्धानि परित्यजेत् || कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि || स्यात्पौष्टिकादि कौशेये शांतिकं वेत्रविष्टरे || ४४ || वस्त्रासने व्याधिनाशः कंबले दुःखमोचनम् || अभिचारादिकं नीले रक्ते वश्यादिकं भवेत् || ४५ || धवले शांतिकं मोक्षं सर्वार्थश्चित्रकंबले || ४६ || स्वस्तिकं गोमुखं पद्ममर्धचंद्राभिधानकम् || चतुर्विधमिदं [चतुःप्रकारमुदित] ज्ञेयं पूजकस्यासनं शुभम् || ४७ || वामपादोपरि न्यस्तं दक्षिणं जानुमंडलम् || ऊरुजंघान्तरे न्यस्तं स्वस्तिकं स्यात्पदद्वयम् || ४८ || वामजानूपरि न्यस्तं दक्षिणं जानुमंडलम् || पार्श्वद्वये पदद्वंद्वं न्यस्तं तद्गोमुखासनम् || ४९ || ऊरुद्वयोपरिष्ठाच्च संन्यस्तचरणद्वयम् || ऊर्ध्वस्थं दक्षिणं पादं यत्तत्पद्मासनं स्मृतम् || ५० || अर्धचंद्रं यदन्योन्यचरणद्वितयं कृतम् || ऊर्ध्वं तु दक्षिणे पादे यत्तत्स्यादर्धचंद्रकम् || ५१ || पृ० २२९) पंचविंशतिसंख्यातैर्मध्यमा परिकीर्तिता || अष्टोत्तरशतैश्चाक्षैरुत्तमा ह्यक्षमालिका || ५२ || तदर्धं वा प्रकुर्वीत तस्याप्यर्धमथापि वा || त्रिंशदक्षैः कृता माला धनदा जपकर्मणि || ५३ || सप्तविंशतिसंख्याकैरक्षैः पुष्टिप्रदा भवेत् || अक्षैस्तु पंचदशभिरभिचारफलप्रदा || ५४ || शताष्टाक्षा च सालोक्यं पंचाशत्पापनाशनम् || द्वात्रिंशत्कीर्तिदं चैव ह्यष्टाविंशत्सुखावहम् || ५५ || श्रीकरं सप्तविंशत्स्यात्पंचविंशच्च मोक्षदम् || नूनं नाभ्यधिकं चात्र ग्राह्यमीश्वरबोधनात् || ५६ || कार्पासं क्षौमजं वापि पंचवर्णसमन्वितम् || अयःसीसं च ताम्रं च रजतं स्वर्णसूत्रकम् || ५७ || त्रिवृत्कृत्वा शुद्धसूत्रं कार्पासं क्षौमजं तु वा || ५८ || त्रिगुणं त्रिगुणे सूत्रे कर्तव्ये द्विजकन्यया || सूत्रं कुर्यात्त्रिवृत्सूक्ष्मं सप्तविंशतितंतुभिः || ५९ || घटयेद्वक्त्रवक्त्रं च पृष्ठं पृष्ठं सलक्षणम् || ६० || ग्रंथांतरे || घटयेदेकदिग्वक्त्रान् मणीन् सद्दंतपंक्तिवत् || ६१ || पृ० २३०) स्थूलान्नियोजयेन्मूले सूत्रस्याग्रे यथा तथा || गोपुच्छवलयाकारामक्षमालां प्रकल्पयेत् || ६२ || सर्वेषामंतरे ग्रंथीन् कर्तव्यावर्तनद्वयान् || अन्योन्यास्पर्शसिद्ध्यर्थं स्पर्शो जपविनाशकृत् || ६३ || मेर्वाख्यं योजयेदक्षमेकं मूलाग्रसूत्रके || ग्रंथिं कुर्यात्तदग्रे च कीर्तिता चाक्षमालिका || ६४ || मेरुं न लंघयेद्धीमान् सृष्टिसंहारकारणम् || लंघिताऽपि न दोषाय मेरुहीनाक्षमालिका || ६५ || शिखामणिरियं ब्रह्यन् सीमाभूतान्न संख्यया || एवं कृत्वाऽक्षमालां च संस्कार्या शिवमंत्रतः || प्रक्षाल्य पंचगव्येन तथा पंचामृतेन च || ६६ || संस्नाप्य तीर्थतोयेन शिवकुंभस्थितेन च || सकूर्चं मूलमंत्रेण गंधपुष्पाक्षतादिकम् || धूपदीपौ च नैवेद्यं दत्वा चाष्टशतं स्पृशेत् || ६७ || एवं या संस्कृता माला सर्वकर्मसु सर्वदा || अभीष्टपदप्राप्त्यर्थं सा सर्वाघविनाशिनी || ६८ || मध्यमानामिकांगुष्ठैरक्षमालामणीन् स्पृशन् | अक्षराक्षरसंधानं न द्रुतं न विलंबितम् || ६९ || पृ० २३१) मंत्रमुच्चारयन्नक्षमेकैकं कर्षयेच्छनैः || ७० || भुक्तये श्रेष्ठवर्गेण कर्षयेदक्षसूत्रकम् || ऊर्ध्वमार्गेण मुक्त्यर्थं सूक्ष्मेण च शनैः शनैः || ७१ || मध्यमानामिकांगुष्ठैरक्षमालामणिं स्पृशन् || एवं जपस्य चैकस्य क्रमोऽयं परिचालने || ७२ || जप्त्वाक्षमालां सकलां भ्रमयेदाशिखामणि || प्रदक्षिणं पुनर्वक्त्रं प्रारभ्यैवं समाचरेत् || ७३ || सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् || अष्टोत्तरसहस्रं वा जपं कुर्यादतंद्रधीः || ७४ || ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् || वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत् || ७५ || यदापत्सु जपेदेकमष्टविंशतिमष्ट वा || ७६ || संख्याहीनकृतं सर्वं रक्षोभ्यस्तन्मयार्पितम् || अतश्च संख्यया विद्वान् जपेत्स फलसिद्धये || ७७ || अंगुष्ठानामिकाभ्यां वा मध्यमानामिकास्थितम् || अंगुष्ठेन जपेद्वापि मध्यमांगुलिभिः सह || अंगुष्ठेन विना कर्म कृतं तद्विफलं यतः || ७८ || अंगुष्ठेन तु मोक्षाय तर्जनी शत्रुनाशिनी || मध्यमा धनदा शांतिं करोत्येषा ह्यनामिका || पृ० २३२) कनिष्ठा रक्षणे शस्ता जपकर्मणि शोभने || ७९ || कनिष्ठांगुष्ठयोगेन कनिष्ठा सिद्धिरीरिता || अंगुष्ठतर्जनीभ्यां स्यान्मालाकर्षं च मध्यमा || ८० || मध्यमानामिकांगुष्ठैरुत्तमा परिकीर्तिता || ८१ || मध्यमांगुष्ठयोगेन जपं भाष्यं प्रकल्पयेत् || अंगुष्ठतर्जनीभ्यां तु जपं कुर्यादुपांशुकम् || ८२ || अनाम्यंगुष्ठमध्याभिर्जपं कुर्यात्तु मानसम् || ८३ || जपस्य त्रिविधोपायं वाजिकोपांशुमानसाः || पुनश्च द्विविधोपायं ह्यगर्भश्च सगर्भकः || ८४ || उच्चैस्तु वाचिकजपः पदश्रवणगोचरः || उपांशुरोष्ठसंस्पंदमानं तच्छ्रुतिगोचरम् || ८५ || मानसो मनसा कार्यं मंत्रवाक्यार्थचिंतकम् || ८६ || भाष्यो जपः क्षुद्रकार्यस्तूपांशुः सर्वसिद्धिदः || मुक्तिदो मानसो ज्ञेय इत्युक्तस्त्रिविधो जपः || ८७ || अगर्भो ध्यानरहितः सगर्भो ध्यानसंयुतः || अगर्भात्तु सगर्भस्य फलं शतगुणोत्तरम् || ८८ || इत्थं विदित्वा यत्नेन जपं कुर्यात्तु साधकः || ८९ || पृ० २३३) रुद्राक्षवृक्षबीजाय भूतिसंभूतिहेतवे || नेत्रत्रयाय रुद्राय नमो लोकहितार्थिने || ९० || जपं कुर्वीत मतिमान् तद्रक्षाऽप्यधुनोच्यते || उभयोश्चंद्रयोर्मध्ये तेजोलिंगमनुस्मरन् || तदेव भावयेन्निष्ठं लिंगं समवलोकयन् || ९१ || मूर्तिध्यानम् || वृत्तं || कुंदग्लौशंखवर्णप्रहसितवदनं चंद्रमौलिं त्रिनेत्रं सोमं सर्पावृतांगं सितभसिततनुं शामलं नागहारम् || हस्ते न्यस्तत्रिशूलाभयडमरुवरं द्वादशादित्यभासं श्रीमद्देवाधिदेवं सुरगणनमितं शंकरं चिंतयामि || ९२ || वेदादिमूलं प्रथमं स्वराणां त्रयोदशस्थं शशिसूर्यबिंबम् || नादात्मकं सुप्तभुजंगरूपं त्रितत्वबीजं प्रणवं नमामि || ९३ || ऋग्यजुः सामवेदानां शतरुद्रीयमुत्तमम् || एकादशानुवाकानामष्टमं चेष्टदं भवेत् || ९४ || एषा पंचाक्षरी विद्या शतरुद्रीयमध्यगा || पृ० २३४) पंचाक्षरे महादेवः सर्वदा सुप्रतिष्ठितः || ९५ || मूलमंत्रं जपेद्भक्त्या दंडवत्प्रणमेद्बुधः || ९६ || एवं लब्ध्वा परं मंत्रमाज्ञया च गुरोस्तथा || जपेन्नित्यं च संकल्प्य पुरश्चरणपूर्वकम् || ९७ || विना प्रणवकं मंत्रं स्त्रीशूद्राणां प्रसादकम् || प्रणवेन समायुक्तं तयोर्देवि विषोपमम् || स्त्रीशूद्रयोः प्रदातव्यं नमोन्तं प्रणवं विना || ९८ || प्रिये वामेन हस्तेन जपमालां न संस्पृशेत् || अदीक्षितो द्विजो वाऽपि स्पृशेत्तच्छुद्धिमाचरेत् || ९९ || परदृष्टिगता माला यदि स्यान्निष्फलो जपः || तस्माज्जपस्य वेलायां वस्त्रमाच्छादयेज्जपी || समंत्रमक्षमालां च गुरोरपि न दर्शयेत् || १०० || यो जपेज्जीर्णयांदोलमालया भिन्नकंठया || तथा विषममुख्या च नैव सिद्धिमवाप्नुयात् || १०१ || मनोऽन्यत्र शिवध्यानं दृष्टिरन्यत्र मारुतः || न सिध्यंति वरारोहे कल्पकोटिशतैरपि || १०२ || उष्णीषी कंचुकी नग्नो मुक्तकेशो भवेद्यदि || सिद्धिहानिरतः कुर्यात्प्रयोगे यत्नपूर्वकम् || १०३ || पृ० २३५) अपवित्रकरः शुद्धः प्रजपन्न जपेत्क्वचित् || १०४ || क्रोधं मदं क्षुतं तंद्रीं निष्ठीवनविजृंभणे || दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि || १०५ || प्रसार्य पादौ न जपेत्कुक्कुटासनसंस्थितः || नासीनः शपितो वाऽपि रथ्यायां शूद्रसन्निधौ || रिक्तभूम्यां च खट्वायां न जपेज्जापकः स्थितः || १०६ || मृगेंद्रोत्तरे || चलिते कंपिते हस्ते मुक्तहस्तात्परिच्युते || सिद्धिहानिरतः कुर्यात्प्रयोगैर्यत्नमुत्तमम् || १०७ || आद्यंतयोर्जपस्याशु कुर्याच्छ्रीप्राणसंयमम् || रेचकः पूरकः कुंभस्त्रिविधः संप्रकीर्तितः || १०८ || नासिकापुटमंगुल्या पीड्यैकमपरेण तु || उदरे रेचयेद्वायुं रेचनाद्रेचकः स्मृतः || १०९ || पूरकं कुंभकं ज्ञात्वा रेचकं जपमोक्षदम् || यावच्छ्वासावसानं स्यात्तावत्तारं समुच्चरेत् || ततो मंत्रं समुच्चार्य लभते सिद्धिमीप्सिताम् || ११० || इत्थं विदित्वा यत्नेन जपं कुर्यात्तु साधकः || पृ० २३६) एकेन रुद्धवातेन जपमष्टोत्तरं शतम् || १११ || पंचाक्षरं तु यः कुर्यात्तस्य हृत्सदनं मम || ११२ || मध्ये रात्रौ निवाते तु जपेदयुतमादरात् || नादसिद्धिमवाप्नोति दिनेनैकेन सुंदरि || ११३ || जपेल्लक्षमनालस्यो निवाते ध्वनिवर्जिते || मध्यरात्रौ शिवज्योतिर्बिंदुरूपसमन्वितः || ११४ || अंधकारं विना तस्य दीपस्यैकप्रकाशनात् || हृदयांतर्बहिर्व्याप्तं भविष्यति न संशयः || ११५ || पंचाक्षरजपं भस्मस्नानं लिंगार्चनत्रयम् || कदाचिदपि न त्याज्यं यथाशक्त्या समाचरेत् || ११६ || रात्रौ चंद्रोदये मंत्रं भुक्तिकामो जपेत्सदा || दिवा सूर्योदये मंत्रं मुक्तिकामो जपेत्सदा || ११७ || सुषुम्नस्थेन मरुता जपः सर्वार्थसिद्धिदः || ११८ || नासंख्यं नापरिभ्रांतं जपं कुर्यात्कदाचन || प्रदक्षिणनमस्कारौ जपश्च त्रिवृतं सदा || ११९ || इत्थं कृत्वा जपं मंत्री शिवसायुज्यकारणम् || अक्षमालां यथांगुष्ठे न्यसेद्दक्षकरोदरे || १२० || चुलकेन गृहीत्वार्घ्यं दक्षपाणितलोदरे || वामपाणितलं कृत्वा संघटीकृत्य तौ यदि || १२१ || गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् || पृ० २३७) सिद्धिर्भवतु मे येन त्वत्प्रसादः स्थिते मयि || १२२ || जापकः परया भक्त्या वाक्यमेतदुदीरयेत् || मूलमंत्रं समुच्चार्य शिवं ध्यात्वा यथोदितम् || १२३ || ततः पुष्पांजलिं दत्वा कृत्वांऽजलिपुटः पठेत् || गद्यपद्यमयं स्तोत्रं भक्त्या पौराणिकोदितम् || १२४ || न धारयेत्करे मूर्ध्रि कंठे च जपमालिकाम् || जपकाले जपं कृत्वा सदा शुद्धस्थले क्षिपेत् || १२५ || प्राणलिंगमातृकामालास्वरूपविधिः || अथर्वणशिरसि || प्राणेष्वंतर्मनसो लिंगमाहुः || तथा च वातुलतंत्रे || प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलम् || तत्प्राणेष्वंतर्मनसो लिंगमाहुरिति श्रुतिः || शारदातिलके || वृत्तं || अंतर्विद्रुमभासमानभुजगीं सूत्रोत्थवर्णोज्वलामारोहादवरोहतः शतमयीं वर्गाष्टकाष्टोत्तराम् || हंसब्रह्मविधेयमेरुशिखरां श्रीमातृकाक्षावतीं विद्यां नौमि विचित्रमंत्र जननीं ज्ञानैकदीपांकुराम् || १२६ || वातुलतंत्रे || इष्टलिंगं प्राणलिंगमेकीकृत्य यजेद्यमी || पृ० २३८) मणिमालां मातृमालामेकीकृत्य जपेत्सदा || १२७ || शृणुध्वं सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते || हिंसयाऽत्र प्रवर्तंते जपयज्ञो न संशयः || १२८ || यावंतः कर्मयज्ञाश्च व्रतदानतपांसि च || सर्वे च जपयज्ञस्य कलां नार्हंति षोडशीम् || १२९ || अग्निहोत्रं त्रयो वेदा यज्ञाश्च बहुदक्षिणाः || पंचाक्षरजपस्यैते कोट्यंशेनापि नो समाः || १३० || माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम् || तस्माच्छतगुणोपांशुः सहस्रो मानसो जपः || १३१ || रक्षोयक्षपिशाचाद्या ग्रहसर्पादिभीषणाः || जाप्यं च नोपसर्पंति भयाद्भीताः समं तथा || १३२ || लैंगे || वृत्तं || जपेन पापं क्षपयेदशेषं यत्तत्कृतं जन्मपरंपरासु || जपेन रोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मोक्षम् || १३३ || वृत्तं || किमिह बहुभिरुक्तैर्मंत्रमेनं महात्मा प्रणवसहितमादौ यस्तु पंचाक्षराख्यम् || जपति परमभक्त्या पूजयन् देवदेवं स गतदुरितबंधो मोक्षलक्ष्मीं प्रयाति || १३४ || पृ० २३९) रत्नत्रयमिदं प्रोक्तं सद्भिः शास्त्रार्थपारगैः || दीक्षापूजाजपविधिः सर्वेषां मोक्षगामिनाम् || १३५ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां जपप्रकरणे जपलक्षणनिर्णयो नामद्वात्रिंशोऽध्यायः || ३२ || पृ० २४०) अथ त्रयस्त्रिंशोऽध्यायः | श्रीगुरुभ्यो नमः श्रीसांबाय नमः || अपवर्गप्रदातारं नमामि शिवमव्ययम् || अथ श्रीत्रिविधपादोदकं यः पिबति तस्य महामतेः त्रिविधपादोदकमाहात्म्यं वक्ष्यामि तद्यथा || बोधायनशाखायां || अथातो महादेवस्य पादोदकविधिं व्याख्यास्यामः || श्रुतिः || श्रीरुद्रेण पवित्रेण शतधारेणाछिद्रमपरिमितमविघ्नमक्षतमभीष्टदमच्युतम् || परमं पवित्रं भगवंतमेवं महादेवं स्नापयित्वा सर्वो वै रुद्र इति द्वाभ्यां ऋतं सत्यं परं ब्रह्मेति वा प्राशयेत् || तथा जाबालशाखायाम् || भगवतः पादौ प्रक्षाल्य शंखं प्रपूर्य गंधपुष्पाक्षतादिभिरभ्यर्च्य चरुं निवेद्य इमं मे गंगे यमुनेत्यभिमंत्र्य कद्रुद्रायेति मत्वा रुद्रेति संमार्जनं कृत्वा ऋतं सत्यं परं ब्रह्मेति प्राशयेत् || पृ० २४१) पादोदकमाहात्म्यकथनम् सकुलजान् दशपूर्वान् दशोत्तरानात्मानं तारयेत् || अस्मिन्नर्थे शिवज्ञानसंग्रहे || श्लोकः || यच्च वाक्यं भगवतः पादावित्येतदादिकं || अस्ति जाबालशाखायां रुद्रपादोदकस्य च || जाबालशाखायां || सेवाविधानकथनं तद्वाक्यमपि विश्रुतं || शंखं पात्रं प्रतिष्ठाप्य पादोदकसमन्वितं || अर्चयेद्गंधपुष्पाद्यैरुपचारैरनेकधा || तत्पात्रं शिरसा धृत्वा धन्योऽहमिति संस्मरेत् || इयं मे गंगायमुनेत्यभिमन्भ्यति || शितुद्रिस्तोमं [सुतुद्रि] सचता परुष्ण्या || असिक्नियामरुद्वृधे [असिक्न्यामं] वितस्तया जीकीये [जीकीयो] शृणुह्या [शृणुह्य] सुषोमया [सषोमया] || मत्वा रुद्रचक्रधामानमोभिर्प्रादुष्णुति वृषभमापहुति || सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु || पुरुषो वै रुद्रस्तन्महो नमो नमः || विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् || सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु || ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् || ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः || मंत्रः || चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि || तेन पवित्रेण शुद्धेन देवा अतिपाप्मानमंतरात्मा || शुंधध्वं दैव्याय कर्मणे देवयज्याय मातरिश्वनो धर्मोऽसि द्यौरसि पृथिव्यसि विश्वदायासि परमेण धर्मा दृगंहस्व मां वा वसूनां पवित्रमसि शतधारं वसुदानां [वसुरानां] पवित्रमसि सहस्रधारं हुतस्तोको हुतो दृष्ट्वो ये बृहते नाकाय स्वाहा ध्यात्वा पृथ्वीभ्यां साविश्वाय साविश्वव्येचा साविश्वकर्मा संप्रत्येद्वर्मुतावरिरुर्मीणि मधुमत्तमा मंद्रा धनस्य सातये सोमेन त्वातनति च्विद्राय दधिविष्णो हव्यं रक्षे स्वाहा एवं यः कुर्यात्सकुलजान् दश पूर्वान् दशापरान् आत्मानं च तारयेत् || पृ० २४२) आदित्यपुराणे || पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षण || अभ्युक्ष्य चात्मनो मूर्ध्नि ह्यतिथेश्च गुरोस्तथा || ५ || शोषणं पापपंकस्य दीपनं ज्ञानतेजसः || गुरोः पादोदकं चित्रं संसारद्रुमनाशनम् || ६ || शिवरहस्ये || सर्वतीर्थाभिषेके या शुद्धिर्मनसि जायते || गुरोरंघ्रिस्पर्शजलं शिरसा धारयेत्सकृत् || ७ || सप्तसागरपर्यंतं तीर्थस्नानफलं सदा || गुरोरंघ्रिपयोबिंदुसहस्रांशं न पूरयेत् [गुरोंरंध्रिकणस्यैते सहस्रांशं वहंति न || ८ ||]|| ८ || पादोदकं दधेद्यस्तु लिंगमूर्तेः शिवस्य तु || प्रक्षालयति तत्तोयं ब्रह्महत्यादिपातकान् || ९ || ब्रह्मांडपुराणे || शंभोः पादोदकं पीत्वा पश्चादशुचिशंकया || आचमेदतिमोहेन [य आचमति मोहे न] तं विंद्याद्ब्रह्मघातकम् || १० || वीरतंत्रे || लिंगोदकं च पादांबु प्रसादांब्विति यत्त्रिधा || नमस्कार्यं हि शिरसा धार्यं पेयं शिवार्थिभिः || ११ || लिंगाभिषेकतोयेन शुचिर्भूत्वा हरं स्मरेत् || मार्जनं मूर्ध्नि गात्रे च निर्मलं स्नानमीरितम् || १२ || विधिः परमशैवानां निर्मलः स्नानमीरितम् || पृ० २४३) नान्येषामिति कर्तव्यं शंकरेण सुभाषितम् || १३ || स्नानानां चैवसर्वेषां रहस्यमतिदुर्लभम् || येन स्नानेन सा गौरी रुद्रं भर्तारमेति च || १४ || हिमोदकं महातीर्थं गंगा च यमुना नदी || नर्मदा सरयूः क्षिप्रा तथा गोदावरी नदी || सदा सन्निहितास्त्वेताः शंभोः पादोदके मुने || १५ || वैद्यशास्त्रे || लिंगाभिषेकं कुर्वीत तल्लिंगोदकमुच्यते || तत्र स्नात्वा च पीत्वा च नाशयेदखिलामयम् || १६ || अभिषिक्तजलं प्रातः पिबेन्नित्यं दिने दिने || शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये || १७ || वीरभद्रीये || स्नानोदके भवेत्स्नानं गंडूषे पानमेव च || लिंगग्राह्यं मनोग्राह्यमन्यद्ग्राह्यं विवर्जयेत् || १८ || लिंगसारे || लिंगाभिषेकजं तोयं यत्तु लिंगोदकं भवेत् || तत्पिबेल्लिंगशरणो ह्यन्यच्चेन्मद्यमांसवत् || १९ || लिंगस्नातं लिंगतोयं लिंगपीतं तथैव च || तत्पिबेल्लिंगशरणश्चान्यन्मद्यश्वमूत्रवत् || २० || लिंगावगाहनं चैव लिंगांबु शुचि तद्भवेत् || तेन स्नानं च पानं च ह्यन्यच्चांडालतोयवत् || २१ || पृ० २४४) लिंगप्रक्षालनं तोयं लिंगतोयं तथैव च || तत्तोयं सर्वदा ग्राह्यमन्यच्चांडालतोयवत् || २२ || वीरतंत्रे || सर्वव्याधिहरं पुण्यं शंभोर्वक्त्राद्विनिर्गतम् || तत्प्रसादोदकं विंद्यात्स्कंदाद्यैरपि सेवितम् || २३ || वैद्यशास्त्रे || निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः || क्षयकुष्ठज्वरायासैर्मुच्यते किल्बिषैरपि || २४ || प्रसादितं तु सलिलं प्रसादसलिलं भवेत् || गृहीतं पावनं ह्येतदन्यद्विट्सलिलं भवेत् || २५ || आदित्यपुराणे || यत्प्रसादोदकं पीत्वा पश्चादशुचिशंकया || य आचमति मोहेन तं विंद्याद्ब्रह्मघातकम् || २६ || शिवरहस्ये || मत्प्रसादोदकं पुष्पं सदा धार्यं मदाश्रितैः || त्र्यक्षा दशभुजाः सर्वे मम तुल्यपराक्रमाः || २७ || गंगोदकं पवित्रं तु शिवपादोदकादिकम् || पीतं च वामहस्तस्थं नृणां पापहरं भवेत् || २८ || ब्रह्मांडपुराणे || सनत्कुमार उवाच || माहात्म्यं श्रोतुमिच्छामि शंभोः पादोदकस्य वै || किं फलं कः प्रभावो वा गुणाः केवास्य कीर्तिताः || २९ || पृ० २४५) तद्धारयति यो नित्यं शिरसा शिवतत्परः || प्राशनं नियमेनैव प्रयत्नेन दिने दिने || कुरुते यो नरो ब्रह्मन् प्रभावं तस्य मे वद || ३० || ब्रह्मोवाच || साधु साधु त्वया वत्स प्रश्नोऽयं पापनाशनः || कृतः पादोदकस्याद्य शृणु माहात्म्यमुत्तमम् || ३१ || कथयामि हि तं वत्स योग्यस्त्वं श्रवणे ह्यसि [श्रुतवानसि]|| पाद्यं दत्वा विभोस्तस्य गृह्णीयात्पादतो जलम् || ३२ || शतधारेण मंत्रेण पंचाक्षरयुतेन च || धृत्वा शिरसि पादांबु महत्फलमवाप्नुयात् || ३३ || अकालमृत्युमथनं सर्वव्याधिविनाशनम् || सर्वपापोपशमनं शंभोः पादोदकं शुभम् || ३४ || सद्यः फलप्रदं पुण्यं सर्वपातकनाशनम् || मंगलं सर्वमांगल्यम् सर्वपावनपावनम् || ३५ || दुष्टग्रहोपशमनमिष्टसिद्धिप्रदायकम् || सर्वदुःखप्रशमनं सर्वव्याधिविनाशनम् || ३६ || सर्वोत्पातप्रशमनं सर्वरोगप्रभेदनम् || सर्वकल्याणकृत्तोयं सर्वकामफलप्रदम् || ३७ || सर्वसिद्धिप्रदं सद्यः सर्वेषां मुक्तिदायकम् || पृ० २४६) पुण्यं पुण्यतमं शैवं सर्वदोषनिवारणम् || सर्वतीर्थफलं सम्यक् प्राप्नुयान्मूर्ध्नि धारणात् || ३८ || नारायणशिलां गत्वा तत्पृष्ठे श्राद्धकृन्नरः || यदाप्नोति तदाप्नोति मूर्ध्नि पादांबुधारणात् || ३९ || तथैव पितरस्तस्य नृत्यंति दिवि हर्षिताः || ४० || महानद्यां तु गोदायां वैराजे या मुने जपे || ब्रह्मवर्ते च केदारे तथा कनखलेऽपि च || ४१ || गंगायां च कुशावर्ते बिल्वके नीलपर्वते || दशाश्वमेधे यद्दत्वा तथा कूर्मशिलासु च || एषु तीर्थेषु यत्पुण्यं तद्वै पादांबुधारणात् || ४२ || प्रयागस्य प्रभासस्य पुष्करस्य च सेवनात् || पृथूदकस्य शुक्लस्य सान्निध्याद्यत्फलं लभेत् || ४३ || प्रयागे च मृतिर्येषां वाराणस्यां मृतस्य च || कुरुक्षेत्रे मृतानां च गतिर्भवति या नृणाम् || ४४ || सर्वं भवति वै वत्स शिवपादांबुधारणात् || ४५ || कुरुक्षेत्रे नैमिषे च भूमिभागाश्च ये शुभाः || सर्वतीर्थोदका ह्येते [सर्वतीर्थोदकस्यैते] कलां नार्हंति षोडशीम् || ४६ || मौनवान् यस्तु गंगायां स्नानधर्मरतो नरः || तस्य यादृग्भवेत्पुण्यं तादृक् पादांबुधारणात् || ४७ || नदं नदीं वेदवतीं लिंगकां च महानदीम् || नदीमिरावतीं चैव तापिकां वडवामुखीम् || ४८ || पृ० २४७) गोदावरीं चंद्रभागां तथा वेत्रवतीं सुत || श्रद्धां सरस्वतीं गत्वा तथा वैतरिणीं मुने || यत्प्राप्यते फलं स्नात्वा तद्वै पादांबुधारणात् || ४९ || वृत्तं || गंगापुष्करनर्मदे च यमुना गोदावरी गोमती गंगाद्वारगया प्रयागबदरी वाराणसी सैंधवी || कन्यासेतुसरस्वती प्रभृतयो ब्रह्मांडमध्येऽखिले तीर्थस्नानसहस्रकोटिफलदं श्रीशंभुपादोदकम् || ५० || श्रवणात्सर्वशास्त्राणां वेदवेदांतधारणात् || सर्वव्रतानां चरणात्तपसा यत्फलं मुने || तत्फलं लभते सद्यो मूर्ध्नि पादांबुधारणात् || ५१ || अग्निष्टोमाद्गोसहस्त्रात्पुंडरीकान्महामुने || वाजपेयाद्राजसूयान्नरमेधाच्च यत्फलम् || ५२ || तथा बहुसुवर्णस्य सर्वमेधस्य यत्फलम् || तत्फलं लभते सद्यो मूर्ध्नि पादांबुधारणात् || ५३ || गोदानेन च यत्प्रोक्तं कन्यादानेन यद्भवेत् || भूमिदानेन यत्प्रोक्तं सुवर्णमणिभूषणे || ५४ || विद्यादानेन यत्प्रोक्तं शरणागतपालनात् || तत्फलं लभते सद्यो मूर्ध्नि पादांबुधारणात् || ५५ || गृहे यस्मिन् प्रसूता स्त्री सूतकं नात्र विद्यते || शिवपादांबुसंस्पर्शात्सर्वपापं प्रणश्यति || ५६ || दुर्जनश्चापि पादांबु बिभ्राणः शुद्धिमाप्नुयात् || ५७ || पृ० २४८) अंत्यकालेऽपि यत्सर्वं ध्रियते पादयोर्जलम् || सोऽपि सद्गतिमाप्नोति विद्याचारबहिष्कृतः || ५८ || अगम्यगमनं येषां पापाचाराश्च ये नराः || तेऽपि पूता भवंत्याशु शंभोः पादांबुधारणात् || ५९ || दृष्टिपूतं पिबेत्सर्वं शिवस्य परमेष्ठिनः || तद्वै पापहरं पुत्र किं पुनः पादयोर्जलम् || ६० || यथा पादोदकं पुत्र पत्रं पुष्पं सुखावहम् || तथैव धूपशेषश्च दीपशेषो न संशयः || ६१ || अहमन्यद्रहस्यं ते कथयामि शृणुष्व तत् || तत्पादोदकसंस्पर्शात्पुण्यमन्यन्न विद्यते || ६२ || भूतप्रेतपिशाचानां डाकिनीनां विनाशनम् || जराव्याप्तशरीराणां रोगाक्रांतशरीरिणाम् || ६३ || रोगैराहतदेहानां विषशस्त्रहतात्मनाम् || वातपित्तकफोद्भूतसर्वव्याधिविनाशनम् || ६४ || अग्निचोरभयं पुत्र पुरुषस्य न विद्यते || अपमृत्युभयं नास्ति सिंहव्याघ्रकृतं तथा || ६५ || सत्यं सर्वभयं नास्ति प्रसादोदकदर्शनात् || पृ० २४९) रागाः सर्वे प्रणश्यंति तेजो वीर्यं च वर्धते || ६६ || उत्साहं पौरुषं शौर्यं संततिः सुखमुत्तमम् || विधीयते कायशुद्धिः पीते वक्त्राद्विनिर्गते || ६७ || प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वाप्यघमर्षणम् || स प्रसादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् || ६८ || अशौचं नैव विद्येत जातकं मृतकं तथा || तेषां प्रसादजं तोयं पानं कुर्वंति ये नराः || ६९ || एतत्पादोदकस्यास्य माहात्म्यं कथितं मया || धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः || ७० || जन्ममृत्युजरामुक्तो मोक्षं प्राप्स्यसि पुत्रक || तद्रहस्यं न वक्तव्यं मूर्खाणां च त्वयाऽनघ || ७१ || कृतघ्नाय न वक्तव्यं न च हिंसारताय च || अभक्ताय त्वरुद्राय न च पाषंडिनां सुत || ७२ || शांताय शुद्धभावाय दांताय शुभचारिणे || तीर्थस्नानरतायैवं देयं धर्मरताय वै || ७३ || पादोदकादिमाहात्म्यं सततं यः पठेन्नरः || कीर्तयेच्छ्रावयेद्यस्तु मुच्यते सर्वकिल्बिषैः || ७४ || श्रुत्वा पापानि संत्यज्य प्राप्नुयाच्च महत्फलम् || ७५ || पृ० २५०) एकमूर्तेस्त्रयो भागा गुरुर्लिंगं तु जंगमः || जंगमं च गुरुर्लिंगं त्रिविधं लिंगमुच्यते || ७६ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां त्रिविधपादोदकमाहात्म्यकथनं नाम त्रयस्त्रिंशोऽध्यायः || पृ० २५१) अथ चतुस्त्रिंशोऽध्यायः | || श्रीगुरुभ्यो नमः || श्रीसांबाय नमः || गौरवं लैंगिकाचारं प्रसादं यस्तु भुंजते || तस्य मोक्षप्रदं शर्वं नमामि गिरिजापतिम् || १ || अथ त्रिविधप्रसादमाहात्म्यं वक्ष्यामि तद्यथा || व्यासं सर्वागमावासं मुनिं मुनिगणावृतम् || कृतपौर्वाह्णिकाचारं कृतासनपरिग्रहम् || प्रसन्नं प्रांजलिः प्राह प्रणम्य किल जैमिनिः || २ || जैमिनिरुवाच || अनर्हं मम नैवेद्यं पादांबुकुसुमं दलम् || इतीश्वरेण कथितमिति केचिन्महर्षयः || ३ || वदंति तत्कथं स्वामिन् यथार्थं कथयस्व मे || ४ || व्यास उवाच || देवदेवस्य वचसो विषयोऽयं हि जैमिने || ये वीरभद्रशपिताः शिवभक्तिपराऽऽन्मुखाः || ५ || शंभोरन्यत्र देवेषु ये भक्ता ये न दीक्षिताः || येऽशुद्धकर्मिणः शंभोरन्यत्रासक्तबुद्धयः || ६ || तेषामनर्हमीशस्य तत्प्रसादचतुष्टयम् || ७ || निर्माल्यं निर्मलं शुद्धं निर्मलत्वादनिंदितम् || पृ० २५२) तस्मादभोज्यं निर्माल्यं प्राकृतैरशिवात्मभिः || ८ || जिह्वाचपलसंयुक्तः शिवसंस्कारवर्जितः || शिवनिर्माल्यभोगी च रौरवं नरकं व्रजेत् || ९ || शैवे || ईश्वर उवाच || मल्लिंगधारिणो लोके देशिका मत्परायणाः || मदेकशरणास्तेषु योग्यं नैवान्यजंतुषु || १० || कालिकाखंडे || प्रसादं त्रिविधं प्रोक्तं शुद्धं सिद्धं प्रसिद्धकम् || शुद्धं लिंगमुखात्त्यक्तं सिद्धं चरविवर्जितम् || ११ || प्रसिद्धं गुरुणा त्यक्तमित्येतत्त्रिविधं स्मृतम् || १२ || स्कांदे || लिंगार्पणं तु सर्वत्र बाह्याभ्यंतरतो भवेत् || रूपं द्रव्यस्य बाह्ये तु निरूपं चांतरे पुनः || १३ || समाघ्रातं परिस्पृष्टं यथा दृष्टमनिच्छया || शिवाय कल्पितं वस्तु न किंचिदपि दूष्यति || १४ || बृहत्कालोत्तरे || संयोगेषु वियोगेषु चाणुमात्रसुखानि च || यः कुर्यादिष्टलिंगे तु सावधानी निरंतरम् || १५ || शैवे || शिवस्वामिकमेवान्नं शिवाय विनिवेदयेत् || पृ० २५३) प्रसादमाहात्म्यकथनम् विनियोगोपचारेण संतुष्यति सदाशिवः || १६ || ब्रह्मांडपुराणे || सर्वलोकैकनाथस्य शंभोः कः किं प्रयच्छति || उपचारप्रियः शंभुस्तेनैवायं प्रसीदति || १७ || ग्रंथांतरे || शिवोपभुक्तं पुष्पं च गंधं पानादिकं तथा || निवेदितमिति प्रोक्तं सर्वपापहरं परम् || १८ || लैंगे || खाद्यानि चादनीयानि पायसादीनि यानि वै || तानि देयानि शंभोश्च तदश्नीयाच्च भावतः || १९ || सूतसंहितायाम् || स्वेष्टलिंगाय यद्दत्तं चरुकं तन्न संशयः || तदश्नीयात्स्वयं प्राज्ञो नान्यस्मै तच्च दापयेत् || २० || न दद्याद्गोजलादिभ्यो दद्याच्चेन्नरकं व्रजेत् || २१ || क्रियातिलके || शुद्धे शिवप्रसादे च शुचित्वं यो न भावयेत् || सोऽपि याति नरो घोरं नरकं कालमक्षयम् || २२ || सुप्रतिष्ठितलिंगे तु न यथा पूर्वभावना || तथा शिवप्रसादस्य पूर्वनाम न संस्मरेत् || २३ || लैंगे || पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् || अनिवेद्य न भुंजीत यदाहाराय कल्पितम् || २४ || पृ० २५४) इक्षुदंडं फलं पुष्पं खाद्यानि व्यंजनानि च || प्रसादान्नैव भोक्तव्यमन्यद्गोमांसविट्समम् || २५ || सर्वं च तृणकाष्ठं च भक्ष्यं चैवानुलेपनम् || गंधो मृगमदश्चैव कर्पूरं तैलमंजनम् || २६ || कर्मणा मनसा वाचा त्रिविधं चार्पितं शुभम् || नोचेदनर्पितं भुंक्ते प्रसादं निष्फलं भवेत् || २७ || ग्रंथांतरे || रूपं समर्प्य द्रव्यस्य रुचिमप्यर्पयेत्ततः || उभयार्पणहीनं चेत्प्रसादं निष्फलं भवेत् || २८ || दीपांतमुपचारं स्यान्नैवेद्यांतं च पूजनम् || तस्मान्नैवेद्यहीनं चेत्पूजालोपो भवेत्सदा || २९ || तत्तत्प्रसादभोगांतं नैवेद्यार्पणमुच्यते || प्रसाददानहीनं चेदर्पितं चापि निष्फलम् || ३० || व्रतोपवासनियमैर्येन केनापि हेतुना || पूजाप्रसादलोपश्चेन्नासावाप्नोति तत्फलम् || ३१ || उपवाससहस्राणि प्राजापत्यायुतानि च || शिवप्रसादसिक्थस्य कोट्यंशेनापि नो समाः || ३२ || निर्माल्यं परमानंदं निर्माल्यं शुद्धशैवदम् || निर्माल्यं परमं ज्ञानं निर्माल्यं परमामृतम् || ३३ || पृ० २५५) निर्मलत्वाच्च निर्माल्यं नृणां नैर्मल्यकारणम् || निर्माल्यधारणं शंभोः प्रसादोदकसेवनम् || ३४ || प्रसादभोजनं चेति प्रत्येकं पातकापहम् || ३५ || शिरसा शिवनिर्माल्यं भक्त्या यो धारयेद्यदि || अशुचिर्भिन्नमर्यादः सर्वावस्थांगतोऽपि वा || ३६ || तस्य पापानि घोराणि नाशयत्येव शंकरः || तिलषोडशभागं च तृणाग्रांबुकणोपमम् || पादोदकप्रसादान्नसेवया मोक्षमाप्नुयात् || ३७ || ईशानसंहितायां || किं दीक्षिया किं तपसा किं ध्यानं च जपेन किम् || शृणु देवि वरारोहे मद्भुक्तं यदि भुंजते || ३८ || शिरसा धारयेद्भक्त्या यो निर्माल्यमलोभतः || अहमेव न संदेहः सोमः [अहमेव धृतस्तेन सामेः ||] सोमकलाधरः || ३९ || स्वच्छंदललितभैरवीये || ईश्वर उवाच || निर्माल्यधारणात्पुत्र सालोक्यं लभते नरः || पादोदकस्य पानेन सामीप्यं लभते सदा || ४० || मत्प्रसादोपभोगेन सारूप्यं प्रतिपद्यते || ४१ || शिवधर्मे || निर्माल्यं धारयन् मूर्ध्रि नैवेद्यं चापि भक्षयेत् || तत्प्रसादोदकं पीत्वा गाणपत्यमवाप्नुयात् [गाणापत्य]|| ४२ || पृ० २५६) ब्रह्मांडपुराणे || व्यास उवाच || इमं प्रसादं भुंजानो विरिंचिः किल जैमिने || अष्टादशमहाविद्यास्थानवाराशि पारगः || ४३ || कंठरंगस्थले नृत्यद्भारतीभासुराननः || सुरासुरशिरोरत्नविराजितपदांबुजः || ४४ || सिद्धविद्याधराधीशः करकंचुकितांघ्रिकः || यक्षकिन्नरगंधर्वसंतताराधनोचितः || ४५ || अणिमादिमहासिद्धि जन्मभूमिरुदाहृतः || अनुग्रहीतुं सकलं निग्रहीतुं च लीलया || ४६ || जगज्जनयितुं शक्तः प्रसादानुभवादभूत् || ४७ || विष्णुः परशुरामोऽपि शिवेन परिदीक्षितौ || पादोदकप्रसादान्ननिर्माल्यानां निषेवकौ || ४८ || वसिष्ठोऽपि गरिष्ठोऽभूत्प्रसादस्य प्रभावतः || प्रसादसेवनाज्जातो विश्वामित्रो महामुनिः || ४९ || पाणिनिश्च कणादश्च कपिलो गौतमादयः || प्रसादसेवनाद्ध्यानादर्चनाद्धारणादपि || ५० || जाता दर्शनकर्तारः श्रावयंति जगत्रयम् || तस्मात्पादोदकं पेयं प्रसादान्नं च भोजयेत् || ५१ || हरिवंशे || पृ० २५७) पुरुहूतनारदसंवादे || कदापीशस्य पादांबुनिर्माल्यपरिमेलितः(लनात्) || पवनः पन्नगेशेन निपीतः पुण्यकारिणा || ५२ || तेन विश्वंभराभारधुरीणत्वमवाप्य च || भोगीश्वरत्वमपि च हीशभूषणतामपि || ५३ || सर्वज्ञता च संजाता देवेंद्र न हि संशयः || ५४ || साक्षात्प्रसादभोगेन भक्तोऽयं लभते फलम् || तद्वक्तुं न हि मे शक्तिर्न गिरश्च गिरां पतेः || ५५ || शिवोपभुक्तं निर्माल्यं पवित्रं पापनाशनम् || तस्माद्भुक्त्वा च पीत्वा च शिवेन सह मोदते || ५६ || शिवरहस्ये || प्राणप्रसादमव्यक्तं पीतं लिंगप्रसादकम् || लिंगजंगमसंयुक्तं प्रसादं चेत्यखंडकम् || ५७ || ग्रंथांतरे || लिंगद्वयप्रसादं च यो भुंक्ते श्रद्धयान्वितः || तदीयोच्छिष्टमासाद्य स वै याति परां गतिम् || ५८ || चराचरप्रसादान्नभोक्ता तच्छेषधारणात् || चराचराणां भूतानामपि मुक्तिर्भवेत्प्रिये || ५९ || सर्वभक्तगणप्रीतिभुक्तिशिष्टप्रसादकम् || पृ० २५८) गणप्रसादी यः सोऽयं भुंजीत सुखलीलया || ६० || सकृल्लिंगार्चकोच्छिष्टं स्वदेहं यस्तु लेपयेत् || वज्रकायः स भवति शिवेन सह मोदते || ६१ || महाभारते आनुशासनिके पर्वणि || दूर्वासभुक्तोच्छिष्टेन [दूर्वासोच्छिष्टभुक्तेन] पादबाह्यांगलेपनात् || सहसा वज्रकायत्वं प्राप्तवान् विष्णुरव्ययः || ६२ || मुंडकोपनिषदि || तेन सह भुंजीत तेन सह भुंजीतेति शिवानुभूतमखिलं निर्माल्यं भोज्यं धार्यमिति द्वेधा षड्विधं कैश्चिदिष्यते || देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् || चंडद्रव्यं बहिः क्षिप्तं निर्माल्यं षड्विधं तथा || ६३ || देवस्वं ग्रामभूम्यादि दासीदासचतुष्टयम् || हेमरौप्यादिरत्नानि देवद्रव्यमिति स्मृतम् || ६४ || यत्संकल्प्य तु देवाय पत्रं पुष्पं फलं जलम् || अन्नपानादि तत्सर्वं नैवेद्यमिति कीर्तितम् || ६५ || एतत्त्रिविधनिर्माल्यमनर्हमिति कथ्यते || प्रमादाद्भोजनं कुर्याद्भूमेरप्येकमंगुलम् || ६६ || किंचिद्द्रव्यापहारेण रौरवं नरकं व्रजेत् || ६७ || शिवोपभुक्तस्रग्गंधमन्नपानादिकं तथा || निवेदितमिति प्रोक्तं सर्वपापहरं परम् || ६८ || पृ० २५९) बाणलिंगे चरे लोहे रत्नलिंगे स्वयंभुवि || प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत् || ६९ || विधिना स्थापिते लिंगे सर्वदेवासुरैर्नरैः || एतत्त्रिविधनिर्माल्यं चंडेशोधिकृते शिवे || ७० || बहिःक्षिप्तमनर्हं हि चान्यद्रव्यत्वकारणात् || पिशाचानां च सर्वेषामधिकारो हि सर्वदा || ७१ || वाक्यं || इति षड्विधप्रसादेषु निवेदितप्रसादमेव प्रसादभोक्तृर्णामर्हं भवति || बह्वन्नं भुक्तमेवापि शिष्टान्नेन विमिश्रितम् || अनर्पितं च भुंजानस्तदेवोन्नतकिल्बिषम् || ७२ || बोधायनस्मृतौ || पादोदकं पापहरं [पाशहरं] निर्माल्यं चैहिकप्रदम् || गुरोर्भुक्तं सदाकालमामुष्मिकफलप्रदम् || ७३ || लौकिकानां तथान्येषां तेषां मुक्तिर्न विद्यते || पाषंडिनोऽपि मुच्यंते गुरोरेव प्रसादतः || ७४ || शिवरहस्ये || गुरुजंगमलिंगानां निर्माल्यं भुक्तिशिष्टकम् || सदैवानुभवेद्देवि प्रसादव्रतमुत्तमम् || ७५ || आदित्यपुराणे || पूजका बहवः संति भक्ताः शतसहस्रशः || तत्र प्रसादपात्रं तु द्वौ त्रयो नैव पंच षट् || ७६ || प्रसादभोक्तृर्न्निंदंति ये जना भक्तिसंयुतान् || पृ० २६०) ते यांति पितृभिः सार्धं नरकं नात्र संशयः || ७७ || सादं शृणु कल्याणि ब्रह्मादीनां महात्मनाम् || विष्णुप्रमुखदेवानामप्यगम्यमगोचरम् || ७८ || ब्रह्मांडपुराणे || प्रसादानुभवस्यैव माहात्म्यं प्रतिपादितम् || इदं पवित्रं परममखिलागमचोदितम् || ७९ || वेदवेदांततत्वज्ञैः पवित्रं परिभाषितम् || इतिहासशिवाचारसारभूतमुदाहृतम || ८० || नानापुराणवेदेषु रहस्यं परिभाषितम् || तस्मात्सर्वप्रयत्नेन गोपनीयमिदं त्वया || ८१ || महता लिंगरूपेण महता जंगमेन च || द्विविधेन समुद्भूतं प्रसादाय नमो नमः || ८२ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां त्रिविधप्रसादकरणं नाम चतुस्त्रिंशोऽध्यायः || ३४ || पृ० २६१) अथ पंचत्रिंशोऽध्यायः | श्रीसांबाय नमः || यो भक्तो वर्तते लोके तस्य मोक्षप्रदायकम् || नमामि शर्वं सर्वज्ञं सर्वलोकमहेश्वरम् || १ || अथ भक्ताधिक्यप्रकरणे भविपाकनिरसनं वक्ष्यामि तद्यथा || भविनामासने याने संपर्के सहभोजने || संचरंति महाघोरे नरके कालमक्षयम् || २ || वीरागमे || लिंगधारणभक्तानां लिंगबाह्यनृपद्विजैः || सेवारंभनमस्कारं रौरवं नरकं व्रजेत् || ३ || ग्रंथांतरे || लिंगधारणभक्तानां लिंगबाह्यसतीसुतैः || आलिंगनाच्चुंबनाच्च रौरवं नरकं व्रजेत् || ४ || एका मुनिवरं त्यक्त्वा पतिं मित्रं पतिव्रता || कृतकृत्या भवत्पूर्वं तपसा पूज्य शंकरम् || ५ || यद्गृहेष्वन्यदेवोऽस्ति तद्गृहाणि परित्यजेत् || यद्गृहेषु भविप्राप्तिस्तद्गृहाणि परित्यजेत् || ६ || लिंगेन सह देही च लिंगबाह्या त्वियं सती || सहशक्तिश्च संयोगो किं फलं किं श्रुतं भवेत् || किं भांडं क्षीरभांडं च सूकरस्पर्शि चेद्भवेत् || ७ || ग्रंथांतरे || भविसंगाल्लभेज्जंतुः कोटिजन्मतपःक्षयम् || पृ० २६२) ऐहिके निंदितश्चैव परत्रे [परे च] नरकं व्रजेत् || ८ || शिवज्ञानं शिवध्यानं शिवपूजा तपःफलम् || निष्फलं याति देवेशि भविसंसर्गकारणात् || ९ || दुःसंगं च दुरुक्तं च दुःशीलं दुर्गुणं तथा || दुर्वाक्यं दुश्चरित्रं च दूरः स्याद्गुरुलिंगयोः || १० || भविलक्षणम् || मद्यपानी मांसभक्षी अन्यदेवस्य पूजकः [वाचकः] || संसर्गी च महाद्रोही न लिंगी भविनः स्मृताः || ११ || भविजन्मकृतं पापं भक्तजन्मविवर्जितम् || भक्तजन्म क्रियाहीनं चेद्भवेद्घोरकिल्बिषम् || १२ || तस्करं परदारं च अन्यदेवस्य पूजनम् || अनृतं निष्ठुरं निंदा इति चांडाललक्षणम् || १३ || अग्निदग्धो घटो यद्वन्न भूयो मृत्तिका भवेत् || स शिवाचारसंगेन न पुनर्मानुषो भवेत् || १४ || असंस्कारिकृतं पाकं शंभोर्नैवेद्यमेव च || नैवेद्यमन्नं भुंजीयान्नरके कालमक्षयम् || १५ || भविपाकं न कर्तव्यं लिंगे नैवेद्यकिल्बिषम् || स्वयंपाकं पवित्रान्नं लिंगनैवेद्यमुत्तमम् || १६ || भक्तानां सदनं गत्वा भुंजीयाद्भक्तिसंयुतः || पृ० २६३) भविसंगभविपाकनिरसननिर्णयः वर्णानामष्टदशकं चांडालमिव वर्जयेत् || १७ || शंकरसंहितायाम् || अन्यदृष्टिनिपातं तद्द्रव्यं तु परिवर्जयेत् || शुद्धद्रव्यं समासाद्य लिंगे च प्रसमर्पयेत् || १८ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां भक्ताधिक्यप्रकरणे भविसंगभविपाकनिरसननिर्णयो नाम पंचत्रिंशोऽध्यायः || ३५ || पृ० २६४) अथ पट्त्रिंशोऽध्यायः | अथ भक्तमाहात्म्यं वक्ष्मामि तद्यथा || श्रुतिः || नमस्ते अस्तु रुद्ररूपेभ्यः शिवेभ्यः || श्लोकः || ये रुद्रलोकादवतीर्य रुद्रा मानुष्यमाश्रित्य जगद्धिताय || कुर्वंति नानाविधचारुचेष्टास्तेभ्यो नमस्त्र्यंबकपूजकेभ्यः || १ || शिवरहस्ये || भक्तप्राणो ह्यहं देवि भक्तप्राणो ममैव तु || मत्तोऽधिको हि भक्तस्तु तस्माद्भक्तान्नमाम्यहम् || २ || भक्तान् स्वलाभसंतुष्टान् साधून् भूतसुहृत्तमाम् || निरहंकारिणः शांतान्नमस्यामि सुहृत्तमान् [शांतान्नमस्ते शिरसा सकृत्]|| ३ || निरपेक्षं मुनिं शांतं निर्वैरं समदर्शिनम् || अनुव्रजाम्यहं नित्यं पूजयंत्यंघ्निरेणुभिः || ४ || परमाद्वैतविज्ञाननिष्ठस्यास्य महात्मनः || शुश्रूषा क्रियते येन तत्पादौ मम मस्तके || ५ || पद्मपुराणे || मुखे पंचाक्षरी यस्य भाले यस्य त्रिपुंड्रकम् || चित्ते शिवानुसंधानं तस्य पादरजोऽस्म्यहम् || ६ || ब्रह्मोवाच || तत्पादभृत्यभृत्यानां भृत्यभृत्यत्वमुत्तमम् || मदीशदेवदेवेश देवानामपि दुर्लभम् || ७ || पृ० २६५) शिवभक्तमाहात्म्यवर्णनम् कर्मावलंबकाः केचित्केचित्ज्ञानावलंबकाः || वयं तु शिवभक्तानां पादरक्षावलंबकाः || ८ || श्रुतिः || या ते रुद्रऽशिवा तनूरघोराऽपापकाशिनी || तया नस्तनुवा शंतमया गिरिशं ताभिचाकशीहि || अस्मिन्नर्थे कारणागमे || अपापकाशीति वपुः श्रुतं ते शिष्टाः प्रसिद्धा भगवन्नपापाः || अतस्त्वदीयानपहाय भक्तानन्यानशिष्टैति निश्चिनोमि || ९ || (लैंगे) श्वपचः शिवभक्तश्चेत्स एव कुलजाधिकः || १० || न लिंगी सर्वदैवज्ञो यस्तु चांडालवद्भुवि || लिंगार्चकस्तु श्वपचो द्विजकोट्यां विशिष्यते || ११ || मुंडकोपनिषदि || निर्माल्यमेव सदा भक्षयेत् || चांडालो नैव चांडालः पुल्कसो नैव पुल्कसः || अपि वा यश्चांडालः शिवेति वाचं वदेत्तेन सह भुंजीत तेन सह भुंजीतेति || अस्मिन्नर्थे वायवीयसंहितायाम् || शिवेति वाचं यो नित्यं चांडालोऽपि वदेन्मुदा || सह तेन वदेद्वाचं सह तेन वसेत्सदा || वदेत्तेन वसेत्तेन विशेत्तेन पुनः पुनः || भुंजीत साकं मुंजीतेत्याह सामश्रुतिः खलु || १२ || पृ० २६६) शिवभक्तियुतो मर्त्यश्चांडालः पुल्कसोऽपि वा || नारी नरो वा षंढो वा सद्यो मुच्येत संसृतेः || १३ || मार्गस्थो वाप्यमार्गस्थो मुर्खो वा पंडितोऽपि वा || मम भक्तो यदि भवेत्सर्वस्मादधिको हि सः || २४ || किं कुलेन किमाचारैः किं शीलेन गुणेन वा || भक्तिलेशयुतः शंभोः स वंद्यः सर्वदेहिनाम् || १५ || आदित्यपुराणे || सद्भक्तः सर्वदा स्कंद श्वपचोऽपि मम प्रियः || न तस्मादधिकं किंचिद्विद्यते पात्रमुत्तमम् || १६ || यथा पंके सरोजं स्याद्यथा काष्ठे हुताशनः || यथा सुवर्णं पाषाणे भक्तश्चांडालवंशजः || १७ || सूक्तिसुधार्णवे || वृत्तं || पुंसः स्वरूपविनिरूपणमेव कार्यं तज्जन्मभूमिगुणदोषकथा वृथैव || कः कालकूटमभिनंदति सागरोत्थं को वारविंदमभिनिंदति पंकजातम् || १८ || दार्वश्मलोहमृदुलं जातं लिंग प्रतिष्ठितम् || यथा पूज्यं तथैव स्याद्भक्तश्चांडालवंशजः || १९ || कांचनं रजतं ताम्रं लोहं चेति चतुष्टयम् || यद्वद्याति सुवर्णत्वं रसवेदप्रभावतः || २० || पृ० २६७) तद्वच्छूद्रादिपात्रं हि शिवमंत्रात्मकत्वतः || विद्वद्रसेन महता परं ब्रह्मत्वमेत्यलम् || २१ || शिवदीक्षाभिजातस्य पूर्वजातिं न चिंतयेत् || सुप्रतिष्ठितलिंगे तु न यथा पूर्वभावना || २२ || शिवसंस्कारसंपन्नो ह्ययं शूद्रो ह्ययं द्विजः || इति भेदः कृतो येन रौरवं नरकं व्रजेत् || २३ || यस्य चित्तं शिवे लीनं तस्य जात्यादिकं स्मरन् || शिवलिंगे शिलाबुद्धिं कुर्वाण इव पातकी || २४ || वासिष्ठे || वाल्मीकश्च वसिष्ठश्च गार्ग्यमांडव्यगौतमाः || पूर्वाश्रयैकनिष्ठाः स्युर्दीक्षया मुनिसत्तमाः || २५ || वाक्यं || इत्यादिवचनेन महात्मनां शिवभक्तानां जननादिकमप्रयोजनमित्युक्तं भवति || वायवीयसंहितायाम् || ब्राह्मणो वापि चांडालो दुर्गुणः सुगुणोऽपि वा || भस्मरुद्राक्षधारी यो देहांते तु शिवं व्रजेत् || २६ || शिवरहस्ये || ग्रामे तु मलिनं तोयं यथा गच्छति सागरम् || शिवसंस्कारसंपन्ने जातिभेदं न कारयेत् || २७ || दक्षाध्वरे || दधीचिरुवाच || पाषंडाचारनिरताः सर्वे निरयगामिनः || कलौ युगे तु संप्राप्ते दरिद्राः शूद्रयाचकाः || २८ || पृ० २६८) बहुनोक्तेन किं साक्षाच्छिवे संसारमोचके || तत्संबंधिषु सर्वेषु श्रुतिस्मृत्यादिकेषु च || २९ || युष्माकं वंशजातानां युष्माकं तु तथैव च || श्रद्धाभावस्तथैवास्तु शापस्तीव्रः कृतो मया || ३० || स्कांदे || चतुर्वेदधरो विप्रः शिवभक्तिविवर्जितः || नरो नरकगामी स्यात्तस्य संभाषणादपि || ३१ || यश्चतुर्वेदनिरतः शिवभक्तिविवर्जितः || तेन संभाषणं नित्यं न कुर्यादुपजीवनम् || ३२ || चतुर्वेदधरो विप्रः शिवभक्तिविवर्जितः || वेदभारभराक्रांतः स वै ब्राह्मणगर्दभः || ३३ || चतुर्वेदधरो विप्रः शिवभक्तिविवर्जितः || तस्य कांचनदानेन दाताऽपि नरकं व्रजेत् || ३४ || श्वपचोऽपि मुनिश्रेष्ठः शिवभक्त्या द्विजाधिकः || शिवभक्तिविहीनस्तु ब्राह्मणः श्वपचाधमः || ३५ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां भक्ताधिक्यप्रकरणे शिवभक्तमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः || ३६ || पृ० २६९) अथ सप्तत्रिंशोऽध्यायः | श्रीसांबाय नमः || भक्ताचारं वक्ष्यामि तद्यथा || शिवज्ञानविद्यायाम् || ईश्वर उवाच || सदाचारं प्रवक्ष्यामि सम्यग्ज्ञानस्य साधनम् || १ || यस्मादाचारहीनस्य ज्ञानं निष्फलतां व्रजेत् || सदाचारेण देवत्वमृषित्वं च वरानने || उपागताः कुयोनित्वं मनुष्यास्तद्विपर्यये || २ || आचारहीनः पुरुषो लोके भवति निंदितः || तस्मात्सर्वप्रयत्नेन सम्यगाचारवान् भवेत् || ३ || यः शिवाचारसंपन्नो ह्यनाचारेण मिश्रितः || न प्रसादी न चाचारी सर्वभक्षीव वायसः || ४ || सती सुतश्च भृत्यश्च दासी गोपस्तथैव च || सर्वं लिंगार्चकं [लिंगांकितं] श्रेष्ठमन्यच्चांडालवद्भवेत् || ५ || गृहं क्षेत्रं च बीजं च धान्यानि च धनानि गौः || एतल्लिंगांकितं शुद्धमन्यथा नरकं व्रजेत् || ६ || शिवरहस्ये || भक्तहस्तगतं द्रव्यं धनं वस्त्रविभूषणम् || नंदिमुद्रांकितं ग्राह्यं द्रव्यशुद्धिरिहोच्यते || ७ || नंदिमुद्रांकितं क्षेत्रं युक्तं शिवशरण्यकैः || तदेव पावनं क्षेत्रं क्षेत्रशुद्धिरिहोच्यते || ८ || भक्तेन यत्कृतं वेश्म लिंगमुद्रासमन्वितम् || पृ० २७०) अभक्तस्पर्शनाभावाद्वेश्मशुद्धिरिहोच्यते || ९ || भक्तेन कृतभांडानि लिंगमुद्रांकितानि च || जलपाकक्रियायां च भांडशुद्धिरिहोच्यते || १० || विभूतिसंस्कृतं काष्ठं भक्तानीतं च सुव्रते || तदेव योग्यं काष्ठेषु काष्ठशुद्धिरिहोच्यते || ११ || तृणगुल्मलतादीनि भक्तानीतानि चैव हि || संस्कृत्य भस्मना देवि तृणशुद्धिरिहोच्यते || १२ || [भक्तारामे समुत्पन्नं नागवल्लिदलैर्युतम् || चूर्णं स्वहक्व्वंचेच्छुद्धिस्तांबूलिका मता || १ ||] भक्तदारुसमुत्पन्नं फलं पत्रादिकं समम् || अथ स्वहस्तपक्वं च शुद्धिस्तांबूलिका मता || १३ || अभक्तस्पर्शनाभावात्पक्वमन्नं वरानने || शाकं तैलादिकं सर्वं पाकशुद्धिरिहोच्यते || १४ || घृतं दधि पयस्तक्रं माक्षिकं वर्जयेत्ततः || तद्वर्जनं च वै देवि रसशुद्धिरिहोच्यते || १५ || [गुरुसंस्कारमाहात्म्यः संप्रदाययुतो भवेत् || न भवो भवसंस्कारो भवशुद्धिरिहोच्यते ||] गुरुसंस्कारमाहात्म्यसंप्रदाययुतो भवेत् || अथवा भवसंस्कारे भवशुद्धिरिहोच्यते || १६ || सर्वभूतदया नित्यं पंचभूतेषु संस्क्रिया || पृ० २७१) भक्ताचारवर्णनम् स्वाभूतपोषणाभावो भूतशुद्धिरिहोच्यते || १७ || लिंगार्चनविधौ भक्तः काष्ठमौनं समाचरेत् || दत्वा च भावनां लिंगे भावशुद्धिरिहोच्यते || १८ || समयाराधनं नित्यं धनप्राणाभिमानकैः || त्रिसंध्यां ध्यानतो देवि मार्गशुद्धिरिहोच्यते || १९ || रात्रौ मध्यमयामे तु सुप्तेष्वखिलजंतुषु || प्रौढः प्रसादभोगश्च कालशुद्धिरिहोच्यते || २० || विनयः सर्वभक्तानां क्रियते हितया गिरा || तद्वाचश्चानुकूल्यं च [प्रियत्वानुकूल्यं] नयशुद्धिरिहोच्यते || २१ || आसने शयने याने गमनागमने स्थितौ || भक्तेन सह सांगत्यं जनशुद्धिरिहोच्यते || २२ || संस्काराः षड्विधाः प्रोक्ता जलं पुष्पं फलानि च || पत्रं पात्रं तथा गोत्रं भक्तानां भक्तवत्सले || २३ || भक्तहस्तभवे कूपे प्रत्यहं तरुणं जलम् || भस्ममंत्रपवित्रं च गृहीतं जलसंस्कृतिः || २४ || नव कुंभगतं तोयमदृष्टं भविनामपि [मद्वैष्टं भविनामपि] || तज्जलं लिंगयोग्यं च तथान्यद्वर्जयेत्सुधीः || २५ || अदुष्टाणि च पुष्पाणि विमुक्तानि शिलीमुखैः || अन्यान्युपहृतान्येवं पुष्पसंस्कारसंभवः || २६ || यानि कानि फलान्येव भक्तहस्तगतानि वै || पृ० २७२) अभक्तदर्शनाभावात्कथ्यते फलसंस्कृतिः || २७ || पत्राणि चक्रवर्त्यादि भक्तहस्तभवानि वै || तत्र शाखादिपाकोयं कथ्यते पत्रसंस्कृतिः || २८ || पात्राणि जंगमादीनि तत्पादरजसा शिवे || तेनैव पावितं विश्वं कथ्यते पात्रसंस्कृतिः || २९ || गोत्राणि शिवगोत्राणि तत्र संबंधकारणम् || भयभक्तिः परा तत्र कथ्यते गोत्रसंस्कृतिः || ३० || वातुलतंत्रे || दासत्वं वीरदासत्वं भृत्यत्वं वीरभृत्यकम् || समयः सकलावस्था सज्जनः षड्विधस्तथा || ३१ || आदौ नियमसंयुक्तो गुरुपादांबुजार्चने || कर्मयोगयुतः प्रोक्तो दासभावस्तु सज्जनः || ३२ || स्वामिभृत्यसमोपेतं परदैवविवर्जितम् || मद्भक्ताकांक्षितं चित्तं वीरदासत्वसज्जनः || ३३ || अकुलं कुलवंतं वा नमस्कृत्य च भोजयेत् || शेषान्नं भुज्यते देवि भृत्यभावस्तु सज्जनः || ३४ || अष्टसिद्धियुतं प्रोक्तमीषणत्रयसंयुतम् || आसुरं कर्म योगेन वीरभृत्यत्वसज्जनः || ३५ || स्वगृहं स्वधनं चैव स्वदेहं भक्तिसंयुतः || जंगमे स्थावरे दद्यात्समयाचारसज्जनः || ३६ || पृ० २७३) दासभावाद्यर्चनाक्रमवर्णनम् अणिमादिगुणैश्वर्यमीषणत्रयवर्जितम् || निर्मलं निरहंकारं सकलावस्थसज्जनः || ३७ || गुरौ लिंगे दृढं भक्तः सत्यवादी जितेंद्रियः || सुव्रतः सुमतिश्चैव दासभावार्चनाक्रमः || ३८ || शुद्धलिंगार्चनं नित्यं सज्जनः समयान्वितः || अन्यथा दैवतं नास्ति वीरदासार्चनक्रमः || ३९ || पुष्पानुलेपनं वस्त्रं पाद्याद्याभरणान्वितम् || तांबूलागरुकर्पूरसुगंधामोदपूरितम् || ४० || यो यजेद्गेयनृत्तादिधवलछत्रचामरैः || नतिस्तोत्रं प्रकुर्वीत भृत्याचारार्चनक्रमः || ४१ || प्राणलिंगव्रते लुप्ते हस्तखड्गादवंचयन् || मुखं पंकजवच्छिंद्याद्वीरभृत्यार्चनाक्रमः || ४२ || तैलाभ्यंगं च वस्त्रं च मिष्टान्नं जंगमार्पितम् || सुखसंभाषणं प्रीत्या समयाराधनक्रमः || ४३ || चित्तं समरसं शांतं भावपुष्पांबुनिर्मलम् || आत्मलिंगार्चनं नित्यं सर्वावस्थार्चनक्रमः || ४४ || वायवीयसंहितायाम् || सत्यं दया क्षमा शौचं नियमो मार्दवं तथा || पृ० २७४) तपस्त्यागो ब्रह्मचर्यं संतुष्टिश्चार्जवं तथा || ४५ || धर्मा एकादश प्रोक्ता भक्तानां शुभलांछने || ४६ || कामंभक्तिरतौ कुर्यात्क्रोधं चाधर्मकर्मणि || लोभं शिवार्चने कुर्यान्मोहं भक्तजने प्रिये || ४७ || मात्सर्यं करणेष्वेवं मदं मायापराभवे || ४८ || चर्मपात्रे जलं तैलं न ग्राह्यं भक्तवत्सले [भक्तितत्परैः] || गृह्यते यदि भक्तेन रौरवं नरकं व्रजेत् || ४९ || बृहत् कालोत्तरे || देवार्चनादिकं कर्म कार्यं दीक्षान्वितैः सदा || नास्ति शावं ततस्तेषां सूतकं वा यतात्मनाम् || ५० || शिवधर्मे || लिंगार्थं जंगमार्थं वा पचनं नात्मकारणात् [मोक्षकारणं]|| आत्मार्थं यः पचेदन्नं नरकार्थं स जीवति || ५१ || ब्रह्मपुराणे || अनाराध्य महादेवं न भुंजीयात्कदाचन || एष धर्मः परो ज्ञेयः शेषो भवतु वा नवा || ५२ || सौरे || आरोपयंति ये कर्म शिवाश्रमगमानुषान् || कुंभीपाकाग्निना दग्धा जायंते नीचयोनिषु || ५३ || सर्वज्ञानोत्तरे || नच मुख्यतया स्कंद लोकधर्मं समाश्रयेत् || नान्यशास्त्रसमाधिष्ठं न चान्यां देवतां स्मरेत् || ५४ || वीरभद्रीये || पतिव्रतास्वभावेन विहायान्यत्तु दैवतम् || पृ० २७५) भक्तस्यशिवेतरदेवतापूजानिषेधादिकथनम् शिवमेकं भजेद्भक्त्या सर्वशांतिकरं परम || ५५ || आदित्यपुराणे || शिवभक्तो नरो राजन् भक्तोऽन्येषु सुरेषु यः || स्वपतिं युवती त्यक्त्वा यथैवान्येषु सज्जते [रज्जते]|| ५६ || ब्रह्मगीतायाम् || शिवपूजापरो भूत्वा योऽन्यं दैवमनुस्मरेत् || अष्टाविंशतिकोटीषु नरकेषु पतेत्ध्रुवम् || ५७ || वातुलतंत्रे || यत्र चाचारनिंदास्ति कदाचित्तत्र न व्रजेत् || यद्गृहे शिवनिंदाऽस्ति तद्गृहाणि परित्यजेत् || ५८ || स्कांदे || यः सर्वभूताधिपतिं विश्वेशानं विनिंदति || न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि || ५९ || वृत्तं || जगत्पतेर्वेदपुराणवेदिभिर्न तस्य लोकैकगुरोः पिनाकिनः || शृण्वंति निंदामनुमोदयंति वा गच्छंति तेऽप्याशु सुदारुणां गतिम् || ६० || शैवे || शिवनिंदाकरं दृष्ट्वा घातयेदथवा शपेत् || स्थानं वा तत्परित्यज्य गच्छेद्यद्यक्षमो भवेत् || ६१ || शिवनिंदाकरान् हंतुमशक्तोऽपि स्वयं हतः || सद्य एव विमुच्येत त्रिसप्तकुलसंयुतः || ६२ || शिवधर्मे || एवमादि समाचारमनुतिष्ठेच्छिवाश्रमी || पृ० २७६) अशेषपाशनिर्मुक्तः शिवलोके महीयते || ६३ || आदित्यपुराणे || नान्यो विमुक्तये पंथाः सदाचारमृते नृणाम् || तस्मात्कुर्यात्सदाचारं तुष्टये गिरिजापतेः || ६४ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां भक्ताधिक्यप्रकरणे भक्ताचारवर्णनं नाम सप्तत्रिंशोऽध्यायः || ३७ || पृ० २७७) अथाष्टत्रिंशोऽध्यायः | श्रीसांबाय नमः || अथ भक्तदानमाहात्म्यं वक्ष्यामि तद्यथा || शंकरसंहितायाम् || ऋषय ऊचुः || सूत धर्मविदां श्रेष्ठ ज्ञातमस्माभिरुत्तमम् || वीरशैवाश्रितं धर्मरहस्यं त्वत्प्रसादतः || १ || इदानीं श्रोतुमिच्छामो वीरमाहेश्वरस्य तु || कृतदानफलं पूजाफलं त्वं वक्तुमर्हसि || २ || सूतः || वक्ष्ये भाग्यवतां श्रेष्ठाः प्राणलिंगांगसंगिनः || कृतदानफलं पूजाफलं माहेश्वरस्य तु || ३ || पुरा कुमारः पप्रच्छ शंकरं शशिभूषणम् || एतमर्थं महाभागः प्रोवाचास्मै महेश्वरः || ४ || शंकर उवाच || वक्ष्यामि शिवभक्तस्य दानमानार्चनाफलम् || संसारपाशबंधघ्नं सम्यग्ज्ञानप्रदं नृणाम् || ५ || वृत्तं || यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनः प्रचारः || बाह्यक्रियासंकुलनिःस्पृहात्मा संपूजयत्यंग स वीरशैवः || ६ || दुर्लभास्त्रिषु लोकेषु प्राणलिंगांगसंगिनः || पूर्वजन्मकृतात्पुण्यात्केषां चित्सुलभा भुवि || ७ || यैः पुराऽराधितः शंभुर्भक्तिप्रणतमानसैः || तैरेव लभ्यः पुण्यात्मा शिवलिंगांगसंगभाक् || ८ || यत्र तिष्ठति लिंगांगसंबंधीशपरायणः || पृ० २७८) निमिषं निमिषार्धं वा तच्छिवक्षेत्रमुच्यते || ९ || लिंगांगसंगिनः पुंसो ये दृग्विषयवर्तिनः || ते सर्वे पापनिर्मुक्ता यास्यंति परमां गतिम् || १० || प्राणलिंगैकनिष्ठस्य देहं स्पृष्ट्वा समीरणः || यत्र गच्छति तत्रस्था मर्त्या मुक्ता न संशयः || ११ || शिवलिंगांगसंबंधभाजां दर्शनमात्रतः || मुक्तिं गच्छंति मनुजाः पशुपक्षिमृगादयः || १२ || लिंगांगसंगिनं मर्त्यं लिंगध्यानपरायणम् || अनुव्रजति यो मर्त्यः सोऽपि मुक्तिमवाप्नुयात् || १३ || या पूजा मम भक्तस्य कृता येन षडानन || सा ममैव कृता पूजा तेन नास्त्यत्र संशयः || १४ || वृत्तं || माहेश्वरस्य हृदयांबुजकर्णिकायां मध्ये वसामि गिरिराजसुतासहायः || तं पूजयेद्यदिह मां मनुजोऽर्चयेद्यस्तस्मै ददामि शिखिवाहन वांछितार्थान् || १५ || बहिस्थाः सर्वदा सर्वे त्वं नंदी गणनायकः || ममात्मा प्राणलिंगैक्यः स एवाहं न संशयः || १६ || वीरमाहेश्वरं मां च विभिन्नं प्रवदंति ये || ते मूढा एव मनुजा नात्र कार्या विचारणा || १७ || वृत्तं || अतः सुखार्थी शिवलिंगपूजकं समर्चयेन्नित्यमतंद्रितः सुधीः || समस्तसंसारनिवृत्तये सदा जलान्नवस्त्राभरणासनादिभिः [अंगना]|| १८ || पृ० २७९) शिवभक्तदानमाहात्म्यम् युगपच्छिवलिंगैक्यपादस्पृष्टरजांसि च [युगपच्छिवलिंगैक्यपादं स्पृष्ट्वा रजांसि च ||] || पतंति मस्तके यस्य स मुक्तो नात्र संशयः || १९ || पादप्रक्षालनं यस्तु कुरुते शीतलोदकैः || वीरमाहेश्वरस्यासौ चतुरंबुधिराड् भवेत् || २० || धृतलिंगस्य भक्तस्य पादप्रक्षालितं जलम् || पापशुद्ध्यर्थमज्ञानां तत्तीर्थं शिखिवाहन || २१ || प्राणलिंगांगसंबंधिपादप्रक्षालितं जलम् || लिंगांगसंगरहितः पिबेत्तत्तस्य पुण्यदम् || २२ || दद्यान्मृद्वासनं यस्तु शिवभक्तस्य सादरम् || धृतलिंगस्य स पुमान् सप्तद्वीपाधिपो भवेत् || २३ || वस्त्रं शीतापनोदार्थं यो दद्याच्छिवयोगिने || स सर्वभोगसंयुक्तं लभते ब्रह्मणः पदम् || २४ || छत्रं चोपानहौ यस्तु चामरव्यजनानि च || दद्याल्लिंगार्चकायासावैंद्रं पदमवाप्नुयात् || २५ || धनं दद्याद्यथाशक्ति यः पुमांच्छिवयोगिने || स धनेशत्वमाप्नोति सर्वभोगसमन्वितम् || २६ || कारयित्वा गृहं सम्यक् सर्वोपकरणान्वितम् || लिंगांगसंगिने दद्याद्यः स शैवं पदं व्रजेत् || २७ || दानानां च समस्तानां चत्वार्येतानि भूतले || श्रेष्ठानि कन्यागोभूमिविद्यादानानि सर्वदा || २८ || तस्मात्कन्याप्रदानेन समं दानं न विद्यते || पृ० २८०) संततौ संततौ तस्यां यान्यपत्यानि भूतले || २९ || भवंति तेषां रोमाणि यावंत्यंगेषु संति वै || तावंति वर्षाणि नरो विमानं सार्वकामिकम् || ३० || आरुह्य सर्वलोकेषु भ्रमन् कन्याप्रदः सुखम् || सर्वभोगान् क्रमाद्भुक्त्वा ततो गच्छेच्छिवैक्यताम् || ३१ || पयस्विनीं सवत्सां गां सर्वालंकारभूषिताम् || यो दद्याच्छिवभक्ताय स गच्छेच्छिवसन्निधिम् || ३२ || दत्तायां भूमिसंभूतबीजसंख्यातवत्सरान् || भूमिदः शांभवे लोके सर्वान्कामानवाप्नुयात् || ३३ || यो दद्यादीशभक्ताय विद्याकोशस्य पुस्तकम् || स सर्वकर्मनिर्मुक्तो न पिबेज्जननीस्तनम् || ३४ || विद्यादानसमं दानं नास्ति लोकेषु सर्वदा || विद्यया प्राणिनां मुक्तिस्तस्माद्दानमनुत्तमम् || ३५ || दद्यादन्नं महादेवभक्ताय शिवयोगिने || सर्वपापविनिर्मुक्तः शिवलोके महीयते || ३६ || यावंत्यन्नस्य सिक्त्थानि दत्तस्य शिवयोगिने || तावंति वर्षाणि नरो वसेच्छिवपुरे सुखी || ३७ || अन्नं वा जलमात्रं वा यद्दत्तं लिंगधारिणे || तदन्नं मेरुसदृशं तज्जलं सागरोपमम् || ३८ || यत्र माहेश्वरः कुर्याच्छिवलिंगार्चनं सकृत् || पृ० २८१) शिवभक्तपूजामहिमावर्णनम् वसंति तत्र तीर्थानि सर्वाणि सततं गुह || ३९ || आत्मनो यदभीष्टं तु तेन द्रव्येण पूजयेत् || येन केन प्रकारेण शिवभक्तस्य चेतसः || ४० || यस्तृप्तिं कुरुते मर्त्यः स वै शिवपुरं व्रजेत् || ४१ || संसारसागरेऽगाधे दुःखावर्तशताकुले || मज्जतां मनुजानां वै पूजा माहेश्वरस्य नौः || ४२ || तस्मात्सर्वं परित्यज्य वीरमाहेश्वरं जनम् || पूजयेदादराद्यस्तु स सम्यग्ज्ञानवान् भवेत् || ४३ || वृत्तं || न वीरमाहेश्वरसेवया विना शिवस्य भक्तिर्मनुजस्य विद्यते || विनास्ति भक्त्या शिववेदनं नहि प्रधानमेतच्छिवभक्तपूजनम् || ४४ || शंकरः || अथ चोक्तप्रकारेण शिवभक्तास्तपस्विनः || पूजयाऽनिशमव्यग्रो वत्स लिंगांगसंगिनः || ४५ || अस्मिन्नर्थे स्वसंवेद्ये श्रुतयः सकलागमाः || पुराणानि समस्तानि पर्यवस्यंति युक्तयः || बहुनोक्तेन हे वत्स सार एष मयोदितः || ४६ || सूतः || इत्युक्तः शंकरेणऽसौ श्रीमांश्च शिखिवाहनः || ननाम गिरिशं भक्त्या सर्वज्ञं करुणानिधिम् || ४७ || यूयं श्रद्धान्विता विप्रा दानमानार्चनादिभिः || षट्स्थलज्ञानवंतं च वीरमाहेश्वरं जनम् || ४८ || पूजयध्वं महाभागाः पूजा सा पुरुषार्थदा || ४९ || एष वः कथितो धर्मः सर्वधर्मोत्तमोत्तमः || पृ० २८२) शिवप्रीतिकरो विप्राः शिवभक्तार्चनांकितः || नातः परतरो धर्मस्त्रिषु लोकेषु विद्यते || ५० || विद्यायां रमते यस्या?न्मायां हेयां श्ववद्रहेत् || अनेनैव निरुक्तेन वीरमाहेश्वरः स्मृतः || ५१ || तस्मात्सर्वप्रयत्नेन वीरमाहेश्वरं जनम् || आराधयथ विप्रेंद्रा यूयं भक्ति पुरःसराः || ५२ || य इदं पुण्यमाख्यानं शृणोत्येकाग्रमानसः || शिवलिंगार्चनाकाले तस्मै शंभुः प्रसीदति || ५३ || गृहे यस्येदमाख्यानपुरकं तिष्ठति ध्रुवम् || तस्यैश्वर्यसमृद्धिः स्यान्नाग्निचोरभयं भवेत् || ५४ || पठते श्रावयेद्यस्तु धर्माख्यानमिदं नरः || स त्रिसप्तकुलोपेतः शिवलोक महीयते || ५५ || वृत्तं || भूतिस्ते परमप्रकाश उत भो रुद्राक्षमेवं श्रीपंचाक्षरमंत्र एव भवदीयं दिव्यनामस्फुटम् || लिंगं मूर्तिरुमापते परानंदामृतं चोदकं प्रासादत्वमभूत्प्रसाद इति तं भक्तिर्भजत्यद्य? || ५६ || कायो जडो हि जीवः स्याज्जडाजडसमाह्वयः || अजडः प * *? शानस्तयोरैक्यं जडं विना || ५७ || वर्तिः कायो दीपमूलो जीवो *? पाग्र ईश्वरः || पृ० २८३) दृष्टांतो दृश्यते लोके जीवेशैक्यपदं प्रति || ५८ || न भेदो वर्तिसंत्यागे दीपमूलाग्रयोर्यथा || न जीवेश्वरयोर्भेदो देहत्यागे तथैवहि || ५९ || इति श्रीमद्वीरशैवाचारप्रदीपिकायां भक्ताधिक्यप्रकरणे शिवभक्त दानपूजामाहात्म्यकथनंनाम अष्टत्रिंशोऽध्यायः || ३८ || ########### END OF FILE #######