#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00610 Uniform title: vīraśaivāgama Manuscript : IFP transcript T00195 from GOML D5497 Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### इfप् त्रन्स्च्रिप्त् ०१९५ वीरशैवागमः १. प्राणलिऽऽन्गसम्बन्धानां भक्तिस्थलं नाम प्रथमः पटलः २. माहेश्वरदलं नाम द्वितीयः पटलः ३. प्रासादस्थलं नाम तृतीयः पटलः ४. प्राणलिऽऽन्गस्थलं नाम चतुर्थः पटलः ५. शरणस्थलं नाम पञ्चमः पटलः ६. शिवलिऽऽन्गैक्यलक्षणं - षट्स्थललक्षणं नाम षष्ठः पटलः ७. प्राणलिऽऽन्गनिर्णयं नाम सप्तमः पटलः ८. वीरागमरहस्यं नामाऽष्टमः पटलः ९. निष्कलप्राणलिऽऽन्गनिर्णयो नाम नवमः पटलः १०. ज्ञानलिऽऽन्गविधिर्नाम दशमः पटलः ११. षट्चक्रस्थललक्षणं नाम एकादशः पटलः १२. दर्शविशेषमहिमाविधिर्नाम द्वादशः पटलः १३. विभूतिधारणाविधिपटलः पृ० १) श्रीविघ्नेश्वराय नमः || || वीरशैवागमः || || वीरागम प्रथम पटलम् || श्री देव्युवाच- शैवं पाशुपतं वामं लाकु?ं च चतुर्विधम् | तत्परं शैवमित्युक्तं सौम्यं रौद्रं हि शाम्भवम् || सौम्यं पञ्चविधं ज्ञेयं भूततन्त्रञ्च गारुडम् | वामदक्षिणसिद्धान्ते नादाख्यं तु विनिर्गतम् | भूतप्रेतादिशमनं भूततन्त्रं मिति स्मृतम | विषयापहरणं चैव तदुदाहृतम्| वामदक्षिणसिद्धान्ते तस्मिन् दुर्गाः प्रकीर्तिताः | दक्षिणं शाम्भवं चैव वामं शक्तिप्रधानकम् || सिद्धान्तं शुद्धशैवं तु केवलं शाम्भवं तथा | त्रिविधं दक्षिणं (तु) स्यात्का?आमुख महाव्रतम् || शास्तृतन्त्रं महासेनं दक्षिणेन विभेदितम् | वामं तद्द्विधं ज्ञेयं वामं मिश्रञ्च पार्वति || वामस्तु वामसिद्धान्तं मिश्रं याम?मेव च | नवयाम?मित्युक्तं सप्तमात्र प्रधानकम् || वैधानसं भागवदं पाञ्चरात्रं च शाऽऽन्करम् | सिद्धान्त भेदं कथितं त्रिविधं व्रत तत्परे || पृ० २) आदिशैवो महाशैवोऽनादिश्च त्रिशैवकः| एवमादीनि भेदानि शैव प्रोक्तानि पार्वति | अन्यस्तोत्र समाख्यातं तन्त्रं पाशुपदाधिकम् | तेषां भेदोपभेदञ्च तत्तत्कर्माणि कारयेत् | क्रमं चैतन्य शास्त्राणि तत्तु मोहाय कल्पयेत् | एतेषु शाऽऽन्करे (संकरे) जाते राजा राष्ट्रं विनश्यति || तस्मात् सऽऽन्करहीनञ्च देश(शि)कस्सर्वमाचरेत् | सर्वभेदं मया प्रोक्तं संकरं जातिसऽऽन्करम् | मन्त्राणां सऽऽन्करं चैव तन्त्राणां चैव सऽऽन्करम् || आचार्य सऽऽन्करं चैव क्रिया सऽऽन्करमेव च | द्रव्याणां सऽऽन्करञ्चैवाऽग्नि सऽऽन्करमेव च || एवं सऽऽन्करमाख्यातं राजा राष्ट्रस्य दोषजम् | वाम मिश्रं तथा चैव शैवो वामञ्च शाम्भवि || समुद्र सिकताऽसंख्यास्समयास्सन्ति कोटिशः| वाम पाशुपतञ्चैव का?आमुख महाव्रताः || कापालभैरवश्शाक्तः स्रावका योगधारिणः | शैवं बहुविधाश्चैव वैष्णवाः पाञ्चरात्रकाः | वैधानस्सा कु?आः कौ?आस्तत्संभेदास्त्रिधा उमे | साख्यश्चला कु?आश्चैव तथा हंस परायणः | परमहंसाश्च सोऽहञ्च दासोऽहं हंसवादिनः || पृ० ३) एते समयिनस्सर्वेऽप्यन्योन्य कलहप्रियाः | एतत्सर्वा परित्यज्य वीरशैवं वदन्त्युमे || ईश्वर उवाच- साधु साधु त्वया पृष्ठं प्रश्नं परमदुर्लभम् | देवासुर मुनीनाञ्च रहस्यं मतिगुह्यकम् || तत्सर्वं कथयिष्यामि वीरशैव क्रमं प्रिये | चतुर्मठञ्चतुर्लिऽऽन्गं षड्द?ं शम्भुपूजनम् | आचारं च क्रिया चैव मुद्रालक्षणमेव च || एतत्सर्वं महादेवि श्रृणुष्वैकाग्रमानसाः || अन्यत्र || कैलासशिखरासीनं देवदेवं जगत्पतिम् | प्रणम्य शिरसा देवी तत्सर्वं श्रोतुमारभे | उत्पत्ति स्थितिसंहारं कारणं परमेश्वरम्|| वीरागमं महातत्वं श्रोतुमिच्छामि तत्वतः || ईश्वर उवाच- श्रृणु देवि महागोप्यं वीरशैवं महोत्तमम् | सर्वागमानां वेदानां रहस्यं कथयामिते || प्राणलिऽऽन्गस्य माहात्म्यं न जानन्ति महात्मना | वेत्ताहं भुवनान्तेषु कारणात् प्रकटी भवेत् | पुराकृतयुगे काले सुधया कलहो भवेत् || अन्योन्य वैरिणां लोके देवतानाञ्च राक्षसाम् | पृ० ४) त्रिदशासुरसिद्धानां कलहो भुजहर्ष्टिणाम् (भून्महर्षिणाम्)| चन्द्र सूर्य मरुद्भृन्दा प्रमुखाः सिद्धयोगिनः | तस्मिन्काले वरारोहे पीठार्चनपराम्बुधाः || राक्षसानां विवादेषु पलायनपराः सुराः | पुत्र मित्र क?त्रादीन् त्यक्तमानाः महेश्वरि || अस्मद्गुरु मुखाल्लब्धां देवपूजां कथं त्यजेत् | इति सञ्चिन्त्य देवास्ते समाजग्मुर्नमस्कृताः || तां समीक्ष्य महादेवि कृपयाऽहं वचो वदन् | किमर्थं देवताग(भ्य)र्च्चा गुरोल्लब्धं शिवार्चनम् | त्यक्तं न शक्ता देवेश किं कर्मं किं कृपां कुरु | मां पृच्छन् सुरास्सर्वे तानुद्दिश्य मयोदिताम् | तदाहं सर्ववेदाश्च विलोक्यैव मुहुर्मुहुः | हृ(ऋ)ग्यजुस्सामथर्वादि वेदास्सर्वे पुरोदितः || तेषां चुद्ध्यै समीक्ष्यैव दिव्यागमरहस्यकम् | सारमुद्धृत्य देवेश कमलं गन्धसंयुतम् || पद्माकारं शुभं दृष्ट्वा विस्मितोऽस्मि सहर्षितः | किं पद्मकन्द किं शश्वत् भास्वत् कोटिसमप्रभम् || पश्चात्य(द्य)दा शिवाकारं तन्मध्ये द्रष्टुमीश्वरम् | अस्य हस्ते तु विमलं पुस्तकं दृष्टमद्भुतम् | वीरागममिदं शास्त्रं भक्तानां पुण्यकर्मिणाम् || पृ० ५) लोके शैवार्चन वरास्सन्ति तेषामनाश्रयात् | पीठपूजाञ्च विधिवत् * वरं मानसं तथा | क्षिप्रलिंगं च कृतकं स्मरणं भावनं तधा (था) || इत्यादि भेदो पूजाश्च शिवलिऽऽन्गं न चालयेत् | प्रतिष्ठा---- लिऽऽन्गभेदेन रौरवं नरकं व्रजेत् | तस्मिन् दृष्ट्वा महादेवि देवानाञ्च मयोदितम् | देहमन्यच्छिवं चान्यत् प्राणमन्यत् सृ... स्थिता || तस्माद्देवास्सुरास्सर्वे कृपया कथयामिते | पुष्पस्य सुरभिर्यद्वत्तद्वद्देहस्य लिऽऽन्गकम् || पीठार्चके प्रतिष्ठास्थि पूजा पूर्ण न चालयेत् | लिऽऽन्गभेदी महापापं तस्मात् पीठार्चनं न चे(त्)|| यथा मंत्रं समभ्यस्तं * * द्देहस्य मध्यकम् | तथा लिऽऽन्गं च देहञ्च मे?नं प्राणलिऽऽन्गकम् | आदित्यस्य यथाभासं चन्द्रस्य किरणं तथा | अग्नेरूष्णं जलो शैत्यं बलं वाते वियद्ध्वनिः| क्षीरे स्वादु तरुं बीजेप्यऽऽन्कुरं यत्प्रतिष्ठितम् | तद्वत्प्रतिष्ठितं देहे शिवलिऽऽन्गं सुवृत्तमाः || पीठार्चन मयास्सर्वे मुक्तिमिच्छन्ति मानवाः | कल्पकोटि कृतं पूजाफलं सिद्ध्यति पार्वति || इत्यक्त कृपया तेषु प्राणलिऽऽन्गं प्रदर्शितम् | पृ० ६) तस्माच्छैवागमे वेदितंत्रयाम?कौ तथा || दुर्भुरालोक्य शास्त्राणि प्राणलिऽऽन्गं विशेषतः | इति क्षीरार्णवे सुप्तः पुरुषः पुरुषोत्तमः | विसृज्य वसतिं श्रुत्वा लक्ष्मीनारायणो हरिः | कैलासशिखरं प्राप्य तपः कुर्वन् निरासनः || दिव्यवर्ष सहस्राणि मामुद्दिश्य रमापतिः | किमर्थं तपसा शान्तः भवतव्यं वदस्समे || इति प्रतिष्टा मया विष्णु प्रत्यक्षोऽस्मिरुमापते | नारायण उवाच- वीरशैवार्चनं पुण्यं भुक्ति मुक्ति फलप्रदम् | ज्ञातुमिच्छां महेशान तत्सर्वं कथयस्व मे || ईश्वर उवाच- श्रृणु नारायण श्रीमद्वीरशैवं महोत्तमम् | षड्द?ञ्च मठञ्चैतद्मुद्रा चासनपूजनम् || नियमं शान्तिराचारं ध्यानयोग शिवात्मकम् | भक्तो माहेश्वरश्चैव प्रसादि प्राणलिऽऽन्गकः | शरणश्शिवलिऽऽन्गैक्य षड्दलं मम प्रियम् | लिऽऽन्गन्तु जऽऽन्गमं चैवाऽविनाभाव चेतनाम् | आलोक्यं ते विबुधा ते जना भक्त मुख्यकाः | जऽऽन्गमं लिऽऽन्गकश्चैव शीलमानुष्यमाननम् | पृ० ७) त्यजन्ति ये जनास्सर्वे भुक्तिस्थल विचारिणः | रोगी(अ)शुचिश्च पऽऽन्गुश्च अन्धकः कुष्ठदुर्मितम् | सदा बुद्धि विलोक्यन्ते ये जना भक्तसंज्ञकाः | भूति रूद्राक्ष कन्धा(था)ञ्च पञ्चमुद्रां च धारिणम् | दृष्ट्वा तेषां नमस्कृत्वा भक्तश्रेष्ठा तदुच्यते || अनर्पितमभोज्यञ्च पिशुनत्वञ्च रोपयुत् | वर्जयान्ते तु मनसा ते भक्तास्तु मम प्रियाः || गुरुञ्च जंगमं चैव लिऽऽन्गञ्च पितरस्तथा | सम बुद्धि विलोक्यन्ते भक्तश्रेष्ठा महेश्वरि || शिवाभिषेक पूजाञ्च नमस्कार प्रदक्षिणम् || धूप दीपादि नैवेद्यं कुर्वन्ते भक्तलक्षणम् || इ(मृ)ष्टान्नं शयनं यानं वस्त्रं व्यजन पादुकाम् || तदाति जंगमानाञ्च एवं चेद्भक्तलक्षणम्| भूतिपात्रं च काबीनं तालवृन्त मृगाजिनम् | दण्ड कुण्डल कन्थादि कमण्डलु फलानि च | दर्त्ते ये तन ध(भ)क्तानां एवं स्याद्भक्तलक्षणम् || प्राणादानं महीदानं कन्यादानं च काञ्चनम् | यां वाञ्छा मर्दते सम्यक् ते जना भक्तनायकाः || शिवनिन्दं गुरोर्निन्दं (आ)गमानाञ्च दूषणम् | द्रव्यार्पणं रि(ऋ)णं कृत्वा पुनस्वानोपजायते || पृ० ८) व्रतद्रोहि गुरुद्रोहि शिवद्रोहि तु ये जनाः | रौरवं नरकं यान्ति पुनश्चण्डा? माचते || गुरुस्त्रीषु परस्त्रीषु विप्रस्त्रीषु च मैथुनम् | करोति शिवभक्तोऽपि शिवमोहि भविष्यति || क्व मद्यः क्व शिवे भक्तिः क्व मांसं क्व शिवार्चनम् | मत्स्य मांस प्रसक्तीनां मा(दू)रे तिष्ठति शंकराः || रजस्वला तु चण्डा?ई कुष्ठरोगी वतीहिताः | विधवा चेटिका प्यासं रतिश्चण्डाल लक्षणम् || प्युश्चि(उच्छि)ष्टं सहभोज्यञ्च चोरत्वं जीव हिंसकम् | भक्तानाञ्च न कर्तव्यं कृत्वा चेत्पातकी भवेत् || अन्यदेव नमस्कारं अन्य स्तोत्रं हरादृते | भक्तानाञ्च न कर्तव्यं कृत्वा चेत्पातकी भवेत् || भक्तनिन्दां गुरोर्निन्दां सतीनिन्दां तपस्विनाम् | करोति यो जनः कश्चित् शिवद्रोही भविष्यति | स्ति(ति)थिवार नक्षत्र योगकरण निन्दाञ्च एव हि | सर्वं शिवमतं द्ध्यात्वा शिवभक्तस्य लक्षणम् || दारिद्र्य सम्पदं चैव मरणं जीवनं तथा | सर्वं शिवाज्ञया शश्वद्भावयेद्भक्तिलक्षणम् || तीर्थयात्रा व्रतं चैव दानधर्म तपश्च च | सर्वं शिवार्चनं चैवोत्तमं भक्तलक्षणम् || पृ० ९) निराकारयणस्साक्षात्त्रैलोक्याधिपतिर्बभौ | नारायणं जगत्साक्षात्त्रैलोक्याधिपतिर्बभो || निराकार नाम देवस्य प्रत्यं जातु चतुर्मुखः | तेनैव सृष्टिरेषा तु जायते च मुहुर्मुहुः || निराकार नाम पुण्यस्य रोमोद्भूताः * सुरासुराः || तैरेव त्रिजगत्स्वेवं कर्तृत्वं जायते जगत् | निराकार नाम देवस्य नेतृत्वं नौमहात्मनौ|| चन्द्रादित्या महादेवि कालभूतौ विचेरतः | निराकारं महेशस्य हृदयेशं भवा अमी || चतुर्वेदा षडऽऽन्गानि मन्त्रशास्त्र शिवागमम् | शिल्पशास्त्रं ज्योतिषञ्च चतुष्षष्टि कलास्त्वतः || न मया शैव मुख्यास्तु वामाः पाशुपदा बुमे| कापालो भैरवास्सिद्धा बौद्धा जैनास्त्वनन्तकाः | निराकार शंकरस्या श्रवणे दशदिग्दिशः || निराकार नाम रूपाद्ध्याने मुनि गणेश्वराः | जातास्सर्वे समुद्राश्च पञ्चतत्वाश्च मण्डलाः | तत्वसिद्ध्या न योगानि सिद्धयः शिवगोचरः | एवं बहुविधा भक्तिर्यत्र यत्र विराजते | प्राणलिऽऽन्गवतां पुंसां उत्तमं भक्तिलक्षणम् | शिवभक्ति सदाभक्ति जंगमे भक्तिरेव च || पृ० १०) गुरुभक्तिः मन्त्रभक्तिः भूतिभक्तिः तथैव च | अऽऽन्गभक्तिः क्रियाभक्तिः पूजाभक्तिरनन्तरम् | तथा प्रसादभक्तिश्च तथा भक्तिः प्रसादके || पादोदके च भक्तिश्च समये भक्तिरेव च|| पितृभक्तिः गुणे भक्तिः ज्ञाने भक्तिः महेश्वरि || विश्वासभक्तिरत्रैव सत्यभक्तिहितास्तथा || जेष्ठभक्तिस्सदा सिद्धि भक्तिरष्टादश स्मृताः || शरण्यभक्तिः भिक्षायां कन्यायां कर्परे तथा | दण्डेषु कुण्डले भक्तिस्तीर्थ भक्तिर्महेश्वरि | दानेभक्तिर्हितेभक्तिः भक्तिस्त्रैलोक्यमण्डले || || इति वीरशैवागमे सहस्रकोटिसंहितायां प्राणलिऽऽन्गसंबन्धानां भक्तिस्तलं नाम प्रथमः पटलः || || माहेश्वरस्तलम् || माहेश्वरस्त?ं वक्ष्ये सर्वलोकहिताय वै | देवासुरमनुष्याणां मुनीनां पुण्यकर्मणाम्|| मद्भक्तानां विशेषेण माहेश्वर विधिक्रमम् || शिवमन्त्रं शिवध्यानं शिवभक्तस्य सेवनम् शिवप्रशंसा स्तोत्रञ्च शिवपूजार्चनं शुभम् || शिवलिऽऽन्गार्चनं चैव माहेश्वरद?ं स्मृतम् || पृ० ११) सोहं परपराकारं प्रमाणं सत्यभाषणम् | गुरुशुश्रूषणं चैव माहेश्वर गुणो भवेत् || जितेन्द्रिय गुणारम्भं शिवज्ञान परायणम् || सुकृतं दुष्कृतञ्चैव वर्जितोऽहं महेश्वरि || भिक्षाहारं शुचिस्नानं भूतिस्नानं च मन्त्रजम् | विरक्तं निर्मलं शान्तं देवालय निवासिनाम् || कन्याविभूति रुद्राक्षं माहेश्वर गुणं विदुः || शऽऽन्गमं लिऽऽन्गकञ्चैव कुलाचार विवर्जितम् | प्रशान्तचित्त सौम्यत्वं माहेश्वर गुणं स्मृतम् || निरान्मिषं निराशत्वं निद्ध्यानं निर्मलात्मकम् | नित्यानन्दं निजापारं नित्यपूजा परं शुभम् | नित्यस्नानं निरालम्बं माहेश्वर गुणं भवेत् || परद्रव्यं परान्नञ्च परस्त्रीसऽऽन्ग वर्जितम्| परवादीन मूर्खत्वं माहेश्वर गुणं भवेत् || जटा विभूति काषायं कौपीनं दण्डमेव तु | पञ्चमुद्रा यत्र विद्यते सन्तुष्टं तु महेश्वरि | भक्तानां प्रियवादित्वं भक्ताश्रम मतं तथा || भक्तगृहान्न भोज्यञ्च भक्तसंसर्गमेव च | भक्तपादोदकप्रीतिं भक्त प्रसाद तत्परम् | भक्त सेवायुतं चित्तं भक्तगोष्ठी विचारिणीम् | पृ० १२)भक्तानां कौतुकं नित्यं सत्यं माहेश्वरे भवेत् | सत्य शौचं क्षमा बुद्धिर्जटा भस्म विलेपनम् || भिक्षान्न भोजनं चैव माहेश्वर गुणं स्मृतम् | कन्या कुण्डल पात्रञ्च रुद्राक्षं चाक्षमालिकाम् | वेणुदण्डं जटासौम्यं अजिनं गौ पट्टिकम् | पादुकां टोपिकां चैव ओड्याणं च तथोच्यते || गुरु पूजार्चनं दाध्यं शिवध्यानं शिवार्चनम् | कौपीन (नं कामिनी) मिनि वर्जंत्तीर्थयात्रा निरामिषम् | पुण्यपापञ्च रहितं मुत्तमं जंगमस्थलम् || कुलाचार विहीनञ्च गोत्रनाम विवर्जितम् | गुरुसेवा परं शान्तं पुत्तमं जऽऽन्गमस्थलम् || सदने कानने चैव कामक्रोध विवर्जितम् | शिवार्चन परो नित्यं मुत्तमं जऽऽन्गमस्थलम् || भक्तमाहेश्वरं जातो लिऽऽन्गप्रीतिकरद्वयम् | जऽऽन्गमे प्रीतिरानन्दं मंत शम्भु सदाशिवे | स्तोत्र माहेश्वरं चैव मन्त्रे माहेश्वरं तथा || पूजा माहेश्वरं चैव ध्याने माहेश्वरं तथा | कृत्ये माहेश्वरञ्चैव सर्वे माहेश्वरं विदुः || महेशभावं सर्वत्र कुर्याद्यस्सततं हृदा | तमेव प्रवदन्त्येवं माहेश्वर दलं शिवे || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां प्राणलिऽऽन्गप्राणलिऽऽन्गवतां पृ० १३) पुंसां माहेश्वर द?ं द्वितीयः पटलः || || प्रसाद द?म् || अथ देवि प्रवक्ष्यामि प्रसादाख्य द?ं महत् | भुक्तिमुक्तिप्रदं पुंसां भक्तानां प्राणलिऽऽन्गिनाम् || प्रसादं कुरुते यस्य प्रसादमवदत् सदा | प्रसादं परमेशस्य प्रसादं परमात्मना || गुरु प्रसादं देवेशि जऽऽन्गमानां विशेषतः | प्राणलिऽऽन्ग प्रसादञ्च शिवभक्त प्रसादकम् || गुरोः परं गुरोश्चैव परापर गुरोः पुनः | परमेष्टि गुरोस्सम्यग्भुक्त शेषां समब्रवीत् || तदैवाद्य प्रसादाख्यं प्रसादं पापनाशनम् | समः प्रसादं कुरुते तत्प्रा * दं निरन्तरम्|| शिवप्रसादं पापघ्नं सर्वेषाञ्च महेश्वरि| गुरु प्रसादं ब्रह्मघ्नं दोष शान्ति करं परम् || भोगमोक्षप्रदं नित्यं सर्वपत्ति विनाशनम् | सर्वरोग प्रशमनं सर्वशान्तिकरं परम् | सर्वसिद्धिप्रदं शुद्धं सर्वजन्माघनाशनम् | सर्वानन्दमयं नित्यं सर्वहृद्रोग नाशनम् | अणिमाद्यष्टसिद्धानां कारणं विजयार्थिनाम् | पृ० १४) पुत्रपौत्र प्रदं पुंसां दुर्भिक्ष भयनाशनम् | नवग्रह पिशाचानां भयनाशन कारणम् || राजवश्यं प्रजावश्यं स्त्रीवश्यं भूतवश्यकम् | अमरत्वञ्च वाक्सिद्धिं देहसिद्धि प्रदं नृणाम् || पाता? गमनञ्चैवाऽऽकाश गमनं तथा | र(सं) रसायनञ्चैव खड्गसिद्धि प्रदं शुभम् || वेता?भैरवानाञ्च का?ईनां दशनं तथा | वीरभद्रादिकानाञ्च सिद्धानां दर्शनप्रदम् || प्राणलिऽऽन्गवतां पुंसां प्रसादं महेश्वरि | जऽऽन्गमानां प्रसादान्नं कुल कोटि समुद्धरेत् | तीर्थस्नानं जपध्यानं यज्ञ गोदानक वृषम् | कोटिलिऽऽन्गप्रतिष्ठाञ्च तटाकानि च कोटिशः || कोटि विप्र प्रतिष्ठां च कोटि कन्या फलप्रदम् | कोटिलिऽऽन्गार्चनं तुल्यं कोटि संवत्सरं तपः|| तत्सर्वं सुलभत्वेन सिद्ध्यते पुण्यकर्मणाम् || पादोदक प्रसादान्नं ये प्रीत्या भक्षयन्ति ते | तत्सर्वं लभते सम्यक् प्रसादान्नाशनि प्रभुः || तस्मात् प्रसादमित्युक्तं जऽऽन्गमानां तपस्विनाम् | भुक्तशेषान्नमात्रैव प्रसादं वदति प्रिये || पादोदकेन पुण्येन प्रसादेन शिवस्य तुः| पृ० १५) स्वकीय प्राणलिऽऽन्गस्य नैवेद्यमभिषेचनम् | कर्तव्यं नाऽत्रदोषोऽस्ति शपथं त्रिःकृतं मया|| कृत्वा चेत्पातकी सोपि नरकी नरकं ययुः | भक्त्या स्वकीय लिऽऽन्गस्य कृत्वा चेन्नैव दोषभाक् || अन्यत्र यत्र कुरुते सप(व)ध्यो दण्ड एवत् (तु) || राज्ञा यम भटैर्भक्तैर्मया च ब्रह्मविष्णुना | लोकपालैश्च भूतैश्च सवध्यो दण्ड एव तु || गुरुश्च जऽऽन्गमञ्चैव शिवलिऽऽन्गस्य पूजनम् | एषां पादोदकं चैव भुक्तशेषान्नमेव च || भक्षयेच्छिव भक्तानां प्रसादं जन्म शुद्धितः | गुरोच्छिष्टं शिवोच्छिष्टं जऽऽन्गमोच्छिष्ट भाषणम् | वाग्दोष कस्य सर्वेषां पशुत्वं भवति ध्रुवम् || प्रसादं च गुरोस्सम्यक् जऽऽन्गमानाञ्च सर्वदा | शिवस्य सततं भोज्यं प्रसादस्थलमुच्यते || वुत्कारान्नं न तत्याज्यं जऽऽन्गमानां गुरोस्तथा || सिद्धे सिद्धे महादेवि कोटि लिऽऽन्गार्चनं फलम् | जऽऽन्गमस्य प्रसादं तु नैवेद्यं समर्पयेत् | प्रसादेन तु शुद्धात्मा प्राणलिऽऽन्गस्य नान्यथा || पादाभिषेक सलिलं भुक्तशेषान्नमुत्तमम् | अभिषेकञ्च नैवेद्यं प्रसादी प्राणलिऽऽन्गिकाम् || पृ० १६) अपस्मारं मनस्तापं रोगं सर्व विषग्रहाम् | हरते शिवभक्तानां प्रसादान्नात् ? जलान् प्रिये || विषं हरति रोगानि पिशाचाश्च ज्वरादिषु || प्रसादान्नानि भोक्तव्यं सत्यं सर्व प्रशान्तये | पातकी नरकी चैव ब्रह्महत्या तथैव च | माहेश्वर प्रसादान्नात् सत्यं शुद्ध मयो भवेत् || गोमांसञ्च सुरापानं भक्ष्यं भक्षति ये नरम् | सद्यो भवति भूतात्मा शिवलोके महीयते || ब्रह्मत्या सुरास्तेयं परदान हरं भवेत् | प्रसादान्नञ्च भक्तानां भक्षये शुद्धिमान् भवेत् | प्रसादस्य तु निन्दायां कल्पकोटिशतैरपि | स पापी नरकं याति नोत्त(त्ता)रस्तस्य कुलाजि(चि)त् || पादोदकं पवित्रञ्च भुक्तशेषान्नमेव च | निन्दा दोषस्य सर्वस्य प्रायश्चित्तं भवेत् पुनः | पादोदकं पवित्रञ्च भुक्त शेषं महेश्वरि | यो गृह्णादि(ति) प्रसादान्नं महापापात् प्रमुच्यते | गऽऽन्गादि सर्वतीर्थानि स्नानं पादोदकं शिवे || भुक्तान्न शेषं भुञ्जत्वं शिव सायुज्यमाप्नुयात् || जंगमानाञ्च चरण सलिलं पापनाशनम् | प्रसादं मोक्षसिद्ध्यर्थं सत्यमीश्वर भाषितम् || पृ० १७) जऽऽन्गमानां नमस्कारं आसनं परिकल्पितम् | पादप्रक्षा?नं वस्त्रं गन्धपुष्पादि भोजनम् | धूप दीपं गुण स्त्रोत्रं करोति कृपया सहा | सो नरः स्वर्गमाप्नोति सर्वदोष विवर्जितः || लोकाचारं कुलाचारं त्यक्त्वा वर्जां च शऽऽन्करि | स भक्तस्सर्वदेवानां कर्तृत्वमभि जायते || मनसा कर्मणा वाचा येत्कृण्वन्ति शिवार्चनम् | जऽऽन्गमानाञ्च भक्तिञ्च तत्तत्कर्तव्यमम्बिके || चण्डालो वा द्विजतिर्वाऽन्ये चान्य कुलेऽपि वा | शिवमुद्राञ्च (सं)वीक्ष्यता दीर्घ दण्डं प्रदक्षिणम् | कृत्वा भोजन वस्त्रादि तापयेच्छिव भक्तिमान् || स भक्तस्सर्वपापेभ्यो मुच्यते परमेश्वरि || प्रसादस्य तु माहात्म्यं ज्ञात्वा गुरुमुखेन वा | शास्त्रै शिवागमैर्वापि श्रुत्वा द्वा शिवधर्मकैः || प्रसादं सर्वदा गुह्यं सत्यं सत्यं वरानने | प्रसादात् सर्वपापानि भीत्वा शिवमवाप्नुयात् || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां प्राणलिऽऽन्गसम्बन्धानां प्रसादस्थ?ं नाम तृतीयः पटलः || || प्राणलिऽऽन्गद?म् || अथ वक्ष्ये महादेवि प्राणलिऽऽन्ग द?ं प्रिये || पृ० १८) सर्वेषां सर्वदा नृर्णां देवतानां सुरद्विषाम् | मुनीनां यक्ष नागानां सिद्धानामग्रजन्मनाम् || लिऽऽन्गानामपि भेदानां भोगमोक्षय(क्षाय) वै प्रिये | ज्योतिर्लिऽऽन्गं तु देवानां आत्मलिऽऽन्गं तु योगिनः | स्वयंभुलिऽऽन्गं नागानामूर्ध्वलिऽऽन्गं महात्मनः | वसूनाममृतलिऽऽन्गानां मुनीनां ब्रह्मलिऽऽन्गकम् || बाणलिऽऽन्गं नृणाणाञ्च वैश्यानां मुखलिऽऽन्गकम् || शूद्राणां मृण्मयं लिऽऽन्गं योगलिऽऽन्गन्तु राक्षसाम् | हेमलिऽऽन्गं सुरेन्द्रस्य पुष्यराग हविर्भुजः || यमस्य त्रपुषंलिऽऽन्गं निऋ ऋतेः पुत्त?ईकृतम् | वरुणस्य प्रवा?आख्यं वायोर्गोमेदलिऽऽन्गकम् || कुबेरस्य महीरत्नलिऽऽन्गं सर्वप्रभायुतम् | रुद्रस्य रजतं लिऽऽन्गं ब्रह्मणो ज्योतिलिऽऽन्गकम् || इन्द्रस्य नीलमयं लिऽऽन्गं लक्ष्मीनारायणस्य च || इष्ट कामेश्वरं लिऽऽन्गं रुद्रस्य नवरत्नयुत् | ईश्वरस्य तु देवेशि मन्त्रलिऽऽन्ग महत्तरम् || तारलिऽऽन्गमहामुख्यं शिवस्य परमात्मनः | चतुराशीति कोटिनां लिंऽऽन्गानामुत्तमोत्तमम् | मुक्तालिऽऽन्गं हि चन्द्रस्य पद्मलिऽऽन्गं रवेः शिवम् | शैवानां ब्रह्मलिऽऽन्गञ्च ईशानां परमं विदुः || पृ० १९) पाशुपत्याश्रमाणाञ्च पञ्चायु(य)तन लिऽऽन्गकम् | महाव्रतीनां सर्वेषां भुवनेश्वरमीश्वरम् || का?आमुखानाञ्चिद्लिऽऽन्ग वामानां शक्तिलिऽऽन्गकम् | सर्वेषामपि वर्णानां प्राणलिऽऽन्गं विशेषतः | एतच्चतुर्विधं लिऽऽन्गं नाम भेदानि सन्ति भी (भोः) || चतुर्मठानां सिद्धानां श्रीशैलं भुवि वासिनाम् | शान्तमल्लेश्वरं लिऽऽन्गं रेवणाख्यस्य सद्गुरोः | तच्छिष्य मरु?एशस्य सिद्धस्य तु महात्मनः || कपिल सिद्धेश्वरं नाम लिऽऽन्गं तस्य प्रचोदितम् | रामदेवस्य सिद्धस्य भोगलिऽऽन्गमुदीरितम् | पण्डिताराद्ध्यपुण्यस्य चेन्नमल्लेश्वरं शिवम् || एतच्चतुर्विधं भेदं वेदमार्गेण दर्शितम् | चतुस्सिद्धाश्चतुर्वेदाश्चतुर्द्वार गिरीश्वरः | षड्द?ओ भरणैर्युक्ता षड्स्थान धृतेश्वराः | कक्षः करस्थलश्चैव वु(मु)त्तमाऽऽन्गावलोक्यकम् | वुरनर्जमितिर्बाहुलिऽऽन्गधारण देशिकम् | करस्थलं तुरवणमरु?श्चावलोक्यकम् | वुत्तमाऽऽन्गे धृतं लिऽऽन्गं रामदेवो महेश्वरः || पण्डिताराध्यक श्रीमान् बाहुमूले तु धारयेत् | तालुके लिऽऽन्गनाहित्यं कुर्यात् सततमम्बिके | पृ० २०) भ्रूमध्ये जऽऽन्गमानाञ्च साहित्यं सततं विधा | प्रसाद साहित्य मन्त्रैव नासाग्रे चैव भामिनि | ? नाखेत्यतु भव साहित्यं लिऽऽन्गजंगमयोस्सदा | सामान्यविधिमत्रैव कथयामि मम प्रिये | ज्योतिर्लिऽऽन्गं मनोलिऽऽन्गं प्राणलिऽऽन्गं च पार्वति | गुरुलिऽऽन्गं तु विख्यातं सर्वलिऽऽन्गं तु पूजयेत् || एतेषां सर्वलिऽऽन्गानां प्राणलिऽऽन्गं विशेषतः | प्राणो यथा च सन्देहः प्राणलिऽऽन्गं न मेलनम् | तिले तैलं घृतं क्षीरे शब्दे चार्थ मनोधृति | इन्द्रियाणाञ्च सर्वेषां मनसि स्थितम् | तावदेव विचिन्वन्तः प्राणलिऽऽन्ग परायणाः || आदौ गुरुः शिवः पंचा(पश्चा)द्भक्तिं समय दर्शनः | एकमेकमिदं देवि प्रत्येकं प्राणलिऽऽन्गकम् || पीठार्चनं स्थावरञ्च मानसं क्षिप्रलिऽऽन्गकम् | क्षणलिऽऽन्गं दिव्यलिऽऽन्गं तेजोलिऽऽन्गं तथैव च || मारुतं दारुकालिऽऽन्गं सलिलं पृथिवी मयम् | आत्मलिऽऽन्गं स्वयं भूतं हेमलिऽऽन्गं च शाम्भवि | गोमेदकं च स्फटिकं मुक्ता वैडूर्य गारुडम् || इन्द्रनीलमयं लिऽऽन्गं कस्य ताम्रञ्च सीसकम् | त्रपुषं लोह काष्ठं च देवदारु सिन्तकम् || पृ० २१) फलञ्च मृण्मयं लिऽऽन्गं पिष्टं दलमयं शिवे | कृत कन्तालकं चैव हारिद्रं शशि निर्मितम् | अन्येप्य(ने)क लिऽऽन्गानि कुर्वन्ते सिद्धयोगिनः| गुरुवाक्यं च लिऽऽन्गञ्च जगत्स्थावरजंगमम् | ब्रह्मादि देवतास्सर्वे काम्यर्थं कल्पितं भवेत् || एवमादीनिलिऽऽन्गानि विद्यन्ते बहुशः प्रिये | प्राणलिऽऽन्गवतां पुंसां लिऽऽन्गं श्रीशैल लिऽऽन्गकम् || अथवा बाणलिऽऽन्गन्तु मुख्यमेतद्द्वयं विदुः | अन्यलिऽऽन्गानि सर्वाणि प्रकृतानां कृतानि वै | एतल्लिऽऽन्गबहं नित्यं पूजा भवति शोभने | पूजाफलं भवत्येव तस्य श्रीशैललिऽऽन्गकम् | दर्शनात् स्पर्शनाच्चैव स्मरणाच्छ्रवणात् पुनः| पूजाफलं समाप्नोति लिऽऽन्गं श्रीशैललिऽऽन्गकम् | तस्माच्छ्रीशैल संभूतं लिऽऽन्गं वै प्राणलिऽऽन्गिनाम् || पूजाफलं प्रवक्ष्यामि श्रृणुतत्वेन पार्वति | सावतं शान्तवं सम्यक् पूजा त्रिविधमुष्य(च्य)ते | सवं दीप समायुक्तं हविष्यान्नं च सान्तवम् | सम्यग्बल्यन्तमित्युक्तं पूजा त्रिविधमीरितम् || पीठार्चना लक्षफलं स्थावरं लक्षकोटिभिः | मानसञ्च शतकोटिश्च क्षिप्रलिऽऽन्गं सहस्रकम् | पृ० २२) आत्मलिऽऽन्गञ्च पद्मञ्चासंख्या वा प्रवर्चिते | तारकादि युतं कोटि वियल्लिऽऽन्गमगोचरम् || समस्तभेदानि पूजाश्च कारणं भुक्तिवाञ्छया | प्राणलिऽऽन्गोपदेशम्य(न्तु) भाग्य जन्म सहस्रकैः| लभ्यते प्राणलिऽऽन्गस्य मार्गं पूर्वे तु गोपितम् | एतस्मिन्नन्तरे काले महाप्रलय संयुगे | कल्पक्षये महाघोरे सर्वात्मा विलये शिवे | कैलासशिखरे पश्चाद्युपदिष्टं रु(र)मापते | प्राणलिऽऽन्गस्य माहात्म्यं विष्णोः सम्यऽऽन्मयोदितम् | आदौ कृतयुगे शंभुः त्रेतायां च चतुर्मुखः | द्वापरे वासुदेवश्च कलौ सर्वे महर्षयः | ऋषिभ्यस्तु महेशानि दिक्पालाः सर्वदेवताः | यक्षगन्घर्वसिद्धाश्च गारुडा किन्नराश्चते | एषां मध्ये सुखेशी च विश्वकेशी च नन्दिना | त्रिपुरा त्रिपुराद्ध्यक्षा ज्ञात्वा सर्वगुणोद्धृता | कापट्या सरणी ज्ञात प्राणलिऽऽन्गस्य लक्षणम् | तत्प्रसादिन देवेशि तेनैव निर्जिता मना | त्रिपुरा त्रिपुराधीशा गर्विता शिवभक्तितः | तद्विनाश सहेतु त्वाद्बुद्धरूपी भवे ध्वनि | बुधरूपेण हरिणा मोहितास्तेन राक्षसाः| पृ० २३) तस्माद्भक्तिं विसृज्येवं राक्षसा दग्धशक्तया | वृतभृऽऽन्गां महादेवि त्रिपुरं विलयं भवेत् | प्राणलिऽऽन्गस्य पूजायाः सदृशं नास्ति भूतले | प्राणलिऽऽन्गधरः श्रीमान् साक्षाद्देवो महेश्वरः | स ब्रह्मा स शिवो विष्णुस्सूद्रश्च सर्वदेवताः | प्राणलिऽऽन्गश्चासौ साक्षाद्देवो शिवापतिः | ब्राह्मणोऽपि कुलश्रेष्ठो लिऽऽन्गार्चन विना शिवे | अन्य जाति समस्तोऽपि सत्यमीश्वरभाषितम् || अन्य जातिस्तु भक्तःस्यात् सोऽपि विप्रस्समो भवेत् | स्त्रीरुद्रपतितश्चासौ प्राणलिऽऽन्गञ्च धारयेत् | कुलजन्म सुताप विप्रा कृतार्त्था पुण्यकर्मणा || सर्पत(द)ष्टो यथा देहो विषदेही यथा भवेत् | लिऽऽन्गदष्टो यथा देहो लिऽऽन्गदेही यथा भवेत् | गुरुदत्तञ्च लिऽऽन्गञ्च हस्ते दत्तं कराद्बहिः | तस्माद्धार्यं हि लिऽऽन्गस्य प्राणलिऽऽन्गस्य भेदनम् | इति शास्त्राणि सर्वाणि वदन्ति शिवभाषितम् | कोटि शैवालयं दग्धं पावयद्भवति प्रिये | लिऽऽन्गदेही न संस्कारं तद्वत्सत्यं षदंमिति | लिऽऽन्गं विना खनित्वा तु तस्य पूजा च निष्फलम् | वेदि शिवागमे तन्त्रे यामिले योग वैष्णवे || पृ० २४) पुराणोपि निषेधश्च इति शास्त्रं प्रवर्तते | पश्चाद्गुहामुखं सम्य(क्) मण्टपं वा शिवालयम् | वित्तानुसारमात्रेण कृत्वा दीपक्रियां कुरु | जंगमानाञ्च भक्तानां अनुज्ञां कारयेत्तथा || रेवणो मरु?स्सिद्धो रामदेवो मुनीश्वरः| पण्डिताराद्ध्य इत्येते चतुर्मठ मुनीश्वरः| पारम्पर्य क्रमेणैव जऽऽन्गमान् शिवभक्तिमान् | पूजयित्वा यथा न्यायं विभूति विटिका क्रियाम् || पश्चात्पर्वं कारयित्वा तत्तत्पर्वणि भोजनम् | एकाहे त्रियाहे वापि पञ्चाहे नवक्रिदिने | दशाहे वापि पक्षे वा मासे वा हायनेऽपि वा | रुद्र श्रार्द्धं द्विजातीनां शिवश्रार्द्धं च भूभृताम् | जीवश्रार्द्धं तु वैश्यानां इतरेषां च विद्यते | तत्तज्जाति परान् विप्रान् शिवभक्तां च भोजयेत् | शक्यं चैदन्यजातीनां भक्तानामन्न मात्रकम् | दत्वा तु ब्राह्मणश्चैतु अन्यस्सर्वत्र भोजयेत् | भोजनान्ते तु ताम्बूलं गन्धपुष्पादि धूपकम् || प्रदद्यातु शिव भक्तानां अन्नमात्रं यथा रुचिः | शिवभक्तिवतां पुंसां ब्राह्मणानां विशेषतः | वस्त्र हेमांगुली यञ्चच्छत्रभूषण पादुकाम् || पृ० २५) दत्वा प्रदक्षिणं कृत्वा प्रणम्याशिष्यमग्रहीत् | शाल्यापिष्ट कृतैः पात्रैः पूरयित्वा घृतं तथा | कार्पास सूत्रै वृत्तीभिर्दीपां नानाविधं गुरु | शिवभक्ते ग्रामजनैः विप्रैस्सह समेति वान् | महोपहा(का)रं कृत्वैव शिवस्य परमात्मना| वु(उ)त्तमाऽऽन्गे दीपपात्रं निक्षिप्य त्रिःप्रदक्षिणम् | शिवालयं पुनस्सर्वे स्वस्तिवाचनमारभेत् || शिवलोकं सगच्छेत्तु प्रवंत सर्ववेदिनाम् | पश्चाच्छिवालयं सम्यक् प्रदक्षिण परिभ्रमेत् | पुनस्ताम्बूलदानञ्च दापयित्वा यथा सुखम् || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां प्राणलिऽऽन्गदलं नाम चतुर्थः पटलः || शरण द?म् || अतः परं प्रवक्ष्यामि शरणाख्य द?ं महत् | शरण्यं सर्वदेवानां मरण्यं सुरद्विषाम् | करणं शिवभक्तानां तरणं भवसागरात् || शरण प्रवद्वे वा हरते पापसञ्चयम् | करणं शिवपूजायां सुवरणं मुक्तिकान्तया | पञ्चमुद्रापकीर्त्यञ्च लिऽऽन्गं वा शिवार्चनम् || पृ० २६) दृष्टमात्रेण भवतात् शरणा शरणार्त्थिनम् | सदाचारो दुराचारो मुखो(को) भवति पण्डितः || लिऽऽन्गञ्च जंगमं दृष्ट्वा शरणा शरणार्थिनाम् | ब्राह्मण क्षत्रियो वैश्य शूद्रश्चण्डा? वा पुनः | जाति भेदं न कुर्वित यदि चेन्नरकी भवेत् | शिवलिऽऽन्गधरा पुण्यहीना वा यदि दीक्षया || दीक्षाय शुद्धलिऽऽन्गं तं शुद्धामन्त्र महात्मना | ते सर्वे ब्राह्मणाः श्रेष्ठाः वदन्ति निगमागमाः | तपः(तपसा) साक्षीयते पापं हीनानां क्षीयते कुलम् | गऽऽन्गाप्रवाहमध्येषु पल्वलोदकमिश्रितान् | लिऽऽन्गदेही विशुद्धात्मा शिववंशोद्भवोद्भवेत् | जाती कुलञ्च विद्यां च सदाचारं न वीक्ष्यते | जटालाञ्छन विभूतिञ्च लिऽऽन्गं रुद्राक्षदर्शनम् | दृष्टमात्रेण हर्षेण नमस्कारं गुरु प्रियम् | आरश्व(ग्व)धश्शमी बिल्वाऽश्वत्थ रविमण्डले | देशिके शिवलिऽऽन्गे च भक्तानां हृदयेषु च | अग्निहोत्र यज्ञवाट्यां (च) सदासन्निहितश्शिवः | तस्माज्जंगम वेषु च . . . . . . . . . . . | प्राणेन संमितं लिऽऽन्गं शिवलिऽऽन्गेक्य लक्षणम् | त्रैलोक्यपूरिताकाशं लिऽऽन्ग देहे सुपूरितम् || पृ० २७) तत्वदेव महादेवी शिवलिऽऽन्गेक्य लक्षणम् | जंगमानां चरणं तथा समयाचारलक्षणम् | मन्त्रस्य वर्णश्चरणं भक्ति * * * संत्रकम् || मठानां चरणं चैव भिक्षान्नञ्च रणमीश्वरम् | आचारशरणं चैव आनन्दशरणं परा || भक्तिज्ञानाख्य शरणं तथा वैराग्यसंज्ञितः | वेदानां शरणं चैव दीक्षाशरणमद्भुतम् | भक्तिशुद्धाख्यशरणं शरणं परमार्थकम् | माहेश्वरशरणं चैव प्रसादशरणं ध्रुवम् || प्राणलिऽऽन्गाख्यशरणं शरणं शरणाख्यकम् | शिवैक्यशरणञ्चैव लिऽऽन्गैक्यशरणं परम् || प्राणलिऽऽन्गैक्य शरणं शरणं भिसु संज्ञितः || नाथाख्यशरणं चैव हंसाख्यशरणं परम् | ओंकारशरणं चैव शरणं तत्वसंज्ञितम् || सिद्धान्तशरणं चैव शरणं वीरशैवकम् | एवं च(श)रणमाख्यातं रहस्यागमसंज्ञके || एतत्सर्वं मया प्रोक्तं तव प्रीत्या वरानने | एवं गुरुमुखे ज्ञात्वा प्राणलिऽऽन्गार्चनं गुरुः || इति श्रीवीरागमे सहस्रकोटिसंहितायां शरणस्थ?ं नाम पञ्चमः पटलः || पृ० २८) || शिवलिऽऽन्गैक्यदलम् || दीक्षा भक्त द?ं प्रोक्तं माहेश्वर द?ं ततः || मन्त्र माहेश्वर द?ं मनयोर्मिश्रकं पदम् | प्रसाददलमित्युक्तं प्रसाद मन्त्र पल्लवम् || प्राणलिऽऽन्गद?ं भद्रं शिव जीवनमे?नम् | सदाचार शतं प्राहुश्चरणाख्य द?ं महत् | भक्त्यैक्यं तु परं मन्त्रं मन्त्रैक्यं वरवर्णिनि || प्रसाद प्राणलिऽऽन्गैक्यं शरणस्थ? * द्ध्रुवम् || शरणैक्यं शिवाधिक्यमैक्यमाधार ष * कम् | भक्तिराधारमेवं स्यान्व(त्व)धिष्ठानं महेश्वरि || प्रसादं मणिपूरञ्च प्राणलिऽऽन्गमनाहतम् | शरणं विशु?द्धि कमलं आज्ञा चैक्यद?ं विदुः | लिऽऽन्गभक्तिद?ं प्रोक्तं मन्त्रमाहेश्वरं द?म् | प्रसादद?कध्याने प्राणलिऽऽन्गं परात्मनि || शरणं लिऽऽन्गमाले तु लिऽऽन्गैक्यं शिवयो द्वयो | अग्निर्जलेनसंयुक्तं पुष्पगन्धं च वस्तुनि | चन्दनस्य तु सौरभ्यं शिवलिऽऽन्गैक्य लक्षणम् | प्राणेन संमितं लिऽऽन्गं लिऽऽन्गेन प्राणसंमितम् | अविनाभावसम्बन्धाच्छिवलिऽऽन्गैक्य लक्षणम् | पृथिव्यां जऽऽन्गमञ्चैव करोतु शिवलिऽऽन्गकम् | प्राणेन संमितं लिऽऽन्गं शिव लिऽऽन्गैक्य लक्षणम् || पृ० २९) त्रैलोक्यं पूरिताकाशं लिऽऽन्गे देह सुपूरितम् | तत्व(द्व)देव महादेवि विश्वलिऽऽन्गैक्य लक्षणम् || दृशिज्ञो(ज्यो)ति जनिः कर्णे घ्राणं नासापुटे तथा | रसनायां च मधुरं शिव?इऽऽन्गैक्य लक्षणम् || स्थावरं जंगमञ्चैव पूरितं गगनात्मकम् | एवं शिवेन भरितं शिवलिऽऽन्गैक्य लक्षणम् || जंगमं लिऽऽन्गकं चैव निर्विकल्पेन भावयेत् | देवानां शिवभक्तानां शिवलिऽऽन्गैक्य लक्षणम् | मनोवाक्काय कर्माणां नान्यं देवं विचिन्तयेत् || गुरुं च जंगमञ्चैव लिऽऽन्गैक्यं नैव भावयेत् | आत्मसौख्यं यथा प्रियता तथा लिऽऽन्गञ्च जंगमान् | ऐक्यं भावर्मनः कृत्वा न किञ्चिदपि चिन्तयेत् || बन्धने कानने दुर्गे घोर शत्रुजने विषे | गुरुलिऽऽन्गं शिवं द्ध्यात्वा कारयेद्दुरितान् भृशम् || सर्वात्मपूरितं लिऽऽन्गं सर्वात्मपूरितं शिवम् | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | सदाचारो दुराचारो हीनो वा सूत्रलोपि वा | लिऽऽन्गधारणमात्रेण शिव एवेति भावयेत् || सुखं वा दुःखमेवं वा सुजनोपि(दु)र्जनोऽपि वा || समभावेन द्रष्टव्यमुत्तमं जंगमस्थलम् | भिक्षाहारं शिवे भक्तिः जंगमानां च शे(से)वनम् || पृ० ३०) वैराग्यं तीर्थयात्रं च कर्तव्यं जऽऽन्गमस्थ?म् | त्रिकालपूजासंयुक्तं विभूतिस्नान संयुतम् || जटारुद्राक्षधारीणामुत्तमं जऽऽन्गमस्थ?म् | वाग्रोषञ्च मनोदुःखं कोपं व्यसन वर्जितम् | परान्नं परदारञ्च वर्जितं जऽऽन्गमस्थ?म् || पञ्चाक्षर जपं पूजा ध्यानं भसित लेपनम् | कन्या कमण्डुलुधरमुत्तमं जऽऽन्गमस्थलम् | निःस्पृहो निश्चलश्शान्त निर्जरो नित्यपूजकः || नित्य भिक्षाशनः सौम्यः स मुक्तो वरवर्णिनि | लिऽऽन्गपीठं महोरात्रं पञ्चतत्वात्मकं शिवम् || तत्वाब्जशोधितं लिऽऽन्गं प्राणलिऽऽन्गमुदीरितम् | आत्मना च मनोलिऽऽन्गं मन्त्रेणैवाधिदैवतम् || तथैव गुरु देवेशि शिवलिऽऽन्गैक्यलक्षणम् | भूक्त्या भक्तिदलं जातं दीक्षायां च ततः परम् || माहेश्वर दलं भूयो मन्त्रभेदेन शाम्भवि | प्रसाददलमित्युक्तं मन्त्रसिद्धि प्रसादता | लिऽऽन्गसाहित्यविधिना प्राणलिऽऽन्गमिति स्मृतम् || शिवाचार क्रमेणैव पदे त्वां शरणस्थलम् | मन्त्रैक्य शिवलिऽऽन्गैक्यं जंगमैक्यं च शाऽऽन्करि | प्राणैक्यं चतुर्लिऽऽन्गैक्यं एकत्वेन समाचरेत् || पृ० ३१) तथा भवति पुण्येन शिवलिऽऽन्गैक्यकं द?म् | मन्त्रमुख्यं गुरोर्वाक्यं पूजामुख्यं गुरोस्पदम् | ध्यान मुख्यं गुरोमूर्ति मोक्षमुख्यं गुरोः कृपा || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां शिवलिऽऽन्गैक्यलक्षणं षड्दललक्षणसहितषष्टमपटलः || श्रीगुरु भसवलिऽऽन्गाय नमः || षड्दललक्षणं षड्दलो . . . . . . || आदौ सिद्धसुरासुरेण समि(हि)तं भक्तिर्दलं तत्परम् पश्चाद्ब्रह्मसुराधिपेन रचितं माहेश्वराख्यं दलम् | भूयो विष्णु शिवार्चनेन रचितं प्रसादं दिव्यं द?ं पश्चाद्रुद्र सहस्रकैर्विरचितं चित्प्राणलिऽऽन्गं दलम् || साक्षादीश्वर पूजया विरचितं शक्त्यादि मन्त्रैः सदा शुद्धं तच्छरणस्थलं परशिवेनैक्यं दलं निर्मितम् | एवं वीर शिवागमेषु कथितं सिद्धान्तमन्त्रं पदं पूजाभाव विशुद्धमानस परै रीड्यं च तत् षड्दलम् || भूतप्रेतपिशानैर्विरचितं वीरार्चनं तत्परं रोगीणां सुलभार्थमेव रचितं हृच्चक्रलिऽऽन्गार्चनम् | हीनानां रविमण्डले विरचितं भक्त्या च लिऽऽन्गार्चनं देव ब्राह्मण सिद्धबुद्धमुनिभिर्यत्प्राणलिऽऽन्गार्चनम् || ज्योतिर्लिऽऽन्ग शिवार्चनं पशुपतेरम्भोजरागोद्भवं पृ० ३२) लिऽऽन्गं केवलमीश्वरस्य तु हरेर्निलोद्भवं चैश्वरम् | मुक्तालिऽऽन्गमनोपमं शशिधरस्येवं कुवैरस्य वै | हेमं चैव मुकुन्दलिऽऽन्गमपरं प्राहुः प्रचेता प्रभो || वैडूर्यं कमलासनस्य रचितं मणिक्यलिऽऽन्गं मुने विष्णोरार्चितमीश्वरं मरकतं वज्रेण भानोः कृतम् | दैत्यानां च सुरद्विषां च त्रपुषं सीसं च यक्षस्य तु व्या?ई दुष्ट पिशाच पूजितमिदं लिऽऽन्गं च तल्लोहजम् || पाषाणोद्भवलिऽऽन्गमेवमधुना मर्त्यैस्सदा पूजितं योगीन्द्रै रवि पूजितं हृदिदले तत्प्राणलिऽऽन्गं शिवे || एभिस्सेव पदं प्रयान्ति सततं देवासुरा मानुषा स्तस्माद्वेद शिवागमोक्त पतिभिस्साक्षान्महेशाह्वयम् || निष्कल प्राणलिऽऽन्गनिर्णयम् - पूर्वं सिद्ध सुरासुरेन्द्र मुनयस्संसारपाशस्थिता सन्ध्यावन्दन वेदपाठक परास्त्रेताग्नि यज्ञक्रियाः | कृत्वा श्रीगुरुनाथ पादकमलं प्राप्ता परं यान्ति ते शैवज्ञानसुधा समुद्रलहरी देशांद्रुमैन्दं पदम् || जाग्रत्स्वप्न सुषुप्ति तुर्यगणनादीतां च तत्वज्ञया जित्वा केवल इन्दुमौलिचरण ध्यानादि राज्यस्थिता || षड्वर्गान्विषयानतीत्य विमलज्ञानेन पूर्णामृतां शैवज्ञानसुधा समुद्रलही?री मद्ध्वोर्त्थिता चिद्घनाम् | पृ० ३३) कृत्वा काञ्चन कंकणं करतले बद्ध्वा तु भूमण्डलं जित्वा शब्दविकारवासन गुणा हत्वा विशेषज्ञताम् | लब्धा शाम्भव शुद्ध भेद कमले स्थित्वा च भूत्वा शिवं हित्वा पाशनिबन्धदेहमखिलं गच्छामि शैवं पदम् || कन्या विशिष्टा प्यजिना सिता च कंपली भूमा विधिष्टा विमलां विभूति | भूषा विशिष्टा पुरुषार्थ दायिनि रुद्राक्षभूषा भुवि जंगमानाम् || हेमरौप्यादि रचितं भिक्षापात्रेषु कर्परम् | तेपनेषु विभूतिश्चाम्बरेषु दिगम्बरम् || सप्तकोटिषु मन्त्रेषु मन्त्रं पञ्चाक्षरं शुभम् | शिवपूजा विशेशेषु प्राणलिऽऽन्गार्चनं परम् || समयेषु च सर्वेषु वीरमाहेश्वरं परम् | विग्रहेषु च सर्वेषु शिवलिऽऽन्गं महत्तरम् || स्मृत्वा नाथ मनन्तरं गणपतिं कृत्वा च पद्मासनं बद्ध्वा सर्व मरुं प्रदेश विवरं हित्वा च पाश त्रयम् | च्छित्वा सर्वमनोविकारमखिलं बुद्ध्वा च शंभोः पदं मत्वा जीव परिस्य भेदमनिशं गच्छामि शैवं पदम् || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां षड्दलोत्पत्ति लक्षण सहित निष्कल प्राणलिऽऽन्ग निर्णयं नाम सप्तमः पटलः || पृ० ३४) || वीरमठरहस्यम् || श्रीदेव्युवाच - वीरागमरहस्यं तु वीरशैव फलप्रदम् | तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे परमेश्वर || १ रिश्वर उवाच- मठं दलं सदाचारं प्राण प्राणलिऽऽन्ग समेतकम् | भुक्ति मुक्तिञ्च सिद्धञ्च श्रुणुतत्वं सर्वत प्रिये || २ चतुर्मठं चतुर्लिऽऽन्गं सद्दलं शिवपूजनम् | आचारञ्च क्रमं देवि वक्ष्याम्यहमतः प्रिये || ३ योगपीठं महापीठं ज्ञानपीठं च पार्वति | सौम्यपीठं सदाचारे तेषां सिद्धावदाम्यहम् || ४ पीठं लिऽऽन्गासनं प्रोक्तं दलमाधारषट्ककम् | मठं सिद्धाभिधानैस्तु लिऽऽन्ग नामानि चान्यथा || ५ रेवणश्च गुरुः पूर्वं मरालस्तदनन्तरम् | रामदेवमुनिः श्रीमान् पण्डिताराद्ध्य देशिकः || ६ सिद्धानामपि नामानि कथितानि महात्मना | तेषां लिऽऽन्गानि नामानि श्रुणुत्वं पशु पार्वति || ७ शान्त मल्लेश्वरं लिऽऽन्गं रेवणस्य महात्मना || कपिल सिद्धाख्य मल्लेश लिऽऽन्गं सिद्ध गणैर्युतम् || ८ मरुल सिद्धस्य देवेशि कथितं चा(शा)स्त्र वेदिभिः|| रामदेव मुनीन्द्रस्य भोगलिऽऽन्गमुदीरितम् | ९ चेन्न मल्लेश्वरं लिऽऽन्गं आराध्यस्य महात्मना || पृ० ३५) मठानामपि नामानि क्रमादेवं वदेत्तथा | १० षड्द?स्य तु नामानि कथयाम्य चलात्मजे || भक्तो महेश्वरश्चैव प्रसादि प्राणलिऽऽन्गकम् | चरणं शिवलिऽऽन्गैक्यं षड्द?ं तु मम प्रियम् || दीक्षाचारि क्रमा देवि वु(उ)त्तरोत्तर प्रसिद्धिना || तपसा पूजया भक्त्या षड्द?त्वं प्रवेशितम् || दीक्षावशाद्भक्तिद?ं महेश मन्त्र बोधनात् | प्रसाद द?कं देवि लिऽऽन्ग साहित्य दर्शनात् || प्राणलिऽऽन्गद?ं देवि प्राणस्य च शिवस्य च | अनयोर्भेदविज्ञातु प्राणलिऽऽन्गद?ं विदुः || आत्मनस्सह लिऽऽन्गेन प्रादुर्भावत्व दर्शनात् | शरणं दलमाख्यातं तस्माच्छरणमीरितम् | लिऽऽन्गैक्यदलमानं देवर जीवस्य भेदकान् | क्रमेण योजयेत्सर्वं प्रत्याधारैश्च मन्त्रकैः || लिऽऽन्गैक्यं तद्विजानीयात् षड्दलानामिदं क्रमात् | सर्वात्मभावनं कृत्वा कृपया मनसा तथा || बोधरूपेण दृष्टस्य मेवं स्याद्भक्तिलक्षणम् | चण्डालोऽपि द्विजा वापि शिवभक्तिर्भवेद्यति || तत्समं मनसा धृत्वा न्यूनातिवेक वर्जिता | तमेव प्राहुर्देवेशि माहेश्वरद?ं महत् || पृ० ३६) शिवलाञ्छनयुक्तानां हीनानामग्रजन्मना | न्यूनातिरेकरहित मनसा पूजयेत् सदा || प्रसादस्थलमाख्यातं तेषां प्रसाद संग्रहात् | परजीवात्मनोर्योगं ज्ञात्वा गुरुमुखेन वा || तदेव परमेशानि प्राणलिऽऽन्ग दलं विदुः | लिऽऽन्गस्य चात्मनश्चैव चरत्वं च गतिं तथा | तद्द्वयं विचरत्वेन शरणस्थलमीरितम् || षडाधारं च षट्चक्रं षड्दलञ्च षडक्षरम् | ऐक्यञ्च कुरुते विद्वान् अन्योन्यं भेदवर्जितम् || तदेव शिवलिऽऽन्गैक्यं द?ं प्राहुर्मनीषिणः | दड्दलानां क्रमं प्रोक्तं प्राणलिऽऽन्गक्रमं श्रृणु || श्रीदेव्युवाच- बाह्ये तु दृश्यते लिऽऽन्गं प्राणो देहस्य मध्यगम् | प्राणेन लिऽऽन्गसम्बन्धं ब्रूहि मे परमेश्वर || ईश्वर उवाच - घट मध्ये स्थितं तोयं अग्निज्वलित बाह्यता | अग्निर्ज्वलनयोगेन वु(उ)ष्णं भवति वारुणम् || मूलचक्रमिदं देवि नाभेरूर्ध्वं तु धारयेत् | आकाशद्वारमध्यस्थं तं प्राणलिऽऽन्गप्रदर्शितम् | ब्रह्मचक्रमिदं देवि नाभेःस्थानादधः पुनः || पृ० ३७) अभ्यन्तरे मनोभद्ध्यं प्राणलिऽऽन्ग प्रदर्शितम् | विष्णुचक्रमिदं देवि मणिपूरमिदं ध्रुवम् || सुषुम्नामार्गभेदेन प्राणलिऽऽन्गं प्रदर्शितम् || रुद्रचक्रमिदं देवि वायुमार्ग निरोधनात् | अनाहतद?ए चैव प्राणलिऽऽन्गप्रदर्शितम् || शिवचक्रमिदं देवि विशुद्धि सरसी रुहे | सच्चिता बंधनं देवि प्राणलिऽऽन्गं प्रदर्शितम् | महानन्द प्रवाहेऽस्मिन् तस्माद्भिन्न प्रवाहवत् || ब्रह्मविष्णु विभिन्नत्वं मन्त्रलिऽऽन्गे प्रदर्शितम् | षडाक्षर मये ?इऽऽन्गे शिवेन परमात्मना | दर्शितं प्राणलिऽऽन्गस्य भेदाभेद क्रमं शिवे || तद्भेदज्ञानमात्रेण जीवन्मुक्ता भविष्यति | सूर्यचक्राख्यकमति धनाद्ध्यावपि पीडने | शिवानन्दाख्यकमति प्राणलिऽऽन्गं प्रदर्शितम् || शैववैष्णव चार्वाक बुद्धक्षपण कौ?काम् | प्राणलिऽऽन्ग प्रभावेन जित्वा शिव पदं शिवेत् | प्राणलिऽऽन्ग क्रमं प्रोक्तं दलाचार क्रमं श्रृणु|| चित्तशुद्धिं शिवाचारं त्रिकालं शिवपूजनम् | शिवमन्त्रं शिवध्यानं पञ्चमुद्रां च धारणम् | तीर्थयात्राऽभिगमनं शिवशास्त्रावबोधनम् || पृ० ३८) जितेन्द्रियमनाश्चर्यं माहेश्वर स्थलं भवेत् | मनः प्रसादं सौम्यत्वं शिवपूजाभिलाषितम् | जंगमानाञ्च भक्तिञ्च कामक्रोध विवर्जितम् || प्रसाददलमित्युक्तं वीरशैवे महेश्वरि || नादे निश्चललिऽऽन्गं तु बिन्दु निश्चल जंगमम् | नादबिन्दुसमायुक्तं वु(उ)त्तमं जंगम स्थलम् || दयारूपं तु भक्तानां क्षमारूपं तपस्विनाम् | वु(उ)भयं चैकरूपं स्यात्तमरूपं महेश्वरि || एवं मार्गक्रमेणैव चरितं शरणस्थलम् | तत्सत्वैक्य भावेन न कृत्वा चेद्बधा मुहुः || लिऽऽन्गैक्यस्थलमित्याहुरेतत्षट्स्थल लक्षणम् || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां वीरागमरहस्यं नाम अष्टमः पटलः || शिवाय नमः || शिवाय नमः || शिवाय नमः || || निष्कलप्राणलिऽऽन्गरहस्यम् || आधारं ब्रह्मणस्स्थानं स्वाधिष्ठानं तु वैष्णवम् | मणिपूरस्थलं रौद्रं हनाहत महेश्वरम् | विशुद्धि शुद्ध सादाख्यं आज्ञाचक्र निरामयम् || तत्परं परमा देवि प्राणलिऽऽन्गस्थलं विदुः || आधारे परमं ज्ञानं मणिपूरे निरञ्जनम् || पृ० ३९) अनाहते परानन्दं प्राणलिऽऽन्गं प्रदर्शितम् | विशुद्धेद्धेश्चिन्मय लिऽऽन्गं आज्ञा मालद?ए स्थितम् || सर्वाऽऽन्ग भ?इतं ज्ञानं प्राणलिऽऽन्गं प्रदर्शितम् | तारकं भक्तिरूपं च नादं जंगमरूपकम् | तारनादसमायुक्तं मम रूपमिदं प्रिये | नादान्तं शिवरूपं तु नादं शक्तिमयं भवेत् || नादनादान्तसंयुक्तं प्राणलिऽऽन्गमुदीरितम् | अकारं हर वाहस्य उकारं गरुडध्वजः | मकारं रुद्ररुपं तु त्रिमूर्ति जऽऽन्गमं भवेत् || शिखासूत्र जटाभस्मं दण्डाधार कमण्डलुम् | आसनद्ध्यान भवनमेवं जंगमलक्षणम् | मुखत्वं मूर्ति मन्त्रत्वं मदमोह विवर्जितम् | मायादेह मलं नास्ति एतज्जंगमलक्षणम् || जकारो हंसवाहश्च गकारं गरुडध्वजः | मकारं रुद्ररूपं तु त्रिमूर्ति जंगमं भवेत् || जकारं वेदरूपं तु गकारं तु शिवागमम् | मकारं ज्ञानरूपं तु तस्माज्जंगममुच्यते || सृष्टिज्ञ(र्ज)कारमित्युक्तं गकारं च स्थितिर्भवेत् | मकारं संहृतिश्चैव त्रयातीतं तु जंगमम् || कोपेन संभवे रुद्रः प्रित्या च कमलासनम् || पृ० ४०) बुद्ध्या समुद्भवो विष्णुरादि जंगम देहिना | जकारो जननं नास्ति गकारोव(अ)गतिर्भवेत् | मकारो मरणं नास्ति एतज्जंगमलक्षणम् || लिऽऽन्गमध्ये चतुर्वेदं लिऽऽन्गमध्ये शिवागमम् | लिऽऽन्गमध्ये तु सिद्धाश्च लिऽऽन्गमध्ये तु शांभवम् | लिऽऽन्गमध्ये जगत्सर्वं त्रैलोक्यं च चराचरम् || लिऽऽन्गबाह्य परं नाऽस्ति तस्माल्लिऽऽन्गं तु पूजनम् | नखाग्रे नित्य सिद्धिस्तु शिखाग्रे मुक्तिसंस्थितः || शिखानखद्वयोर्मध्ये सामरस्यं शिवं भजेत् | जिह्वां गुह्या जगत्सर्वं मोहिता येन मानुषाः | जिह्वा गुह्यंति वृत्तिश्चेन्ममरूपं वरानने || पादहीनो गुरुः कश्चिच्छिरोहीनस्तु शिष्यकः | दुराचारी गुरुर्भूयो पदभ्रष्टस्तु शिष्यकः || एतद्गुरुमुखे ज्ञात्वा प्राणलिऽऽन्ग प्रदर्शितम् | रिक्तभाण्डे मुखच्छायां पूरदहना ममर्षिः || ? तप्तलाक्षांतरं शरं प्रलेयालयशेखम् | रविश्चेत्तत्समं देवि ज्ञातव्यं प्राणलिऽऽन्गकम् || पऽऽन्के समुद्भवं पद्मं पुनः पऽऽन्क न संस्पृशेत् | मांसेषु जनितं क्षीरं पुनर्मांसं न चे(चै)ति हि | वृक्षेषु मुद्भवो वह्निः पुन वृक्षं निवेशयेत् || पृ० ४१) एतद्गुरुमुखे ज्ञात्वा प्राणलिऽऽन्गं समर्चयेत् || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां निष्कलप्राणलिऽऽन्गनिर्णयं नाम नवमः पटलः || शिवाय नमः || शिवाय नमः || शिवाय नमः || || ज्ञानलिऽऽन्गविधिः || (दे)वः पाशुपतिर्वामः का?आमुख महाव्रतात् | अतिरिच्यति देवेशि प्राणलिऽऽन्गार्चनो बुधः || ज्ञानतन्त्रं योगतन्त्रं चै(शै)वतन्त्रं च पूजकाः | प्राण लिऽऽन्गस्य पूजाभिः जित्वा शिवपुरं ययुः || ज्ञानादान तपस्तीर्थं जपन् स्वाध्याय कर्मसु | अयं हि परमो धर्मः प्राणलिऽऽन्गार्चनं प्रिये || प्राणलिऽऽन्गात्परा पूजा प्राणलिऽऽन्गात्परं तपः | प्राणलिऽऽन्गात् परंज्ञानं तेषु लोकेषु दुर्लभम् || सर्वज्ञत्वञ्च सिद्धञ्चाऽणिमादि विशोधनम् | सिद्ध्यते प्राणलिऽऽन्गीनामन्येषाञ्च न विद्यते || त्रैलोक्य विजयं चैव त्रैलोक्य भरणं क्षमम् | त्रैलोक्य पञ्चकृत्यत्वं सिद्ध्यते प्राणलिऽऽन्गिनाम् || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते महात्मनस्सर्वे प्राणलिऽऽन्गपरायणाः || आदित्यश्चन्द्रमास्स्कन्द यित्ये देवेन्द्रादि देवताः | पृ० ४२) ऋषयस्सिद्ध गन्धर्वा यक्ष किन्नर जातयः | प्राण लिऽऽन्गस्य पूजाभिः पार्वमन्त्रैव लेभिरे || विश्वं प्राणमिति प्रोक्तं विश्वात्मा लिऽऽन्गमुच्यते | तयोस्समरसं त्व(त)त्वं प्राणलिऽऽन्गमुदाहृतम् || शक्तिपीठं विश्वमिदं शिवं विश्वात्ममुच्यते | शिवं विश्वसमायुक्तं तदेतत्प्राणलिऽऽन्गकम् || दृश्यं यच्छक्तिपीठं स्यात् अदृश्यं शिवमुच्यते | दृश्यादृश्य द्वयोरन्तः प्राणलिऽऽन्गमुदाहृतम् || जीवात्मा शक्तिपीठं स्यात् अदृश्यं शिवमुच्यते | दृश्यादृश्य द्वयोरन्तः प्राणलिऽऽन्गमुदाहृतम् || जीवात्मा शक्तिपीठं स्यात्परमात्मा तु लिऽऽन्गकम् | द्वयोस्समरसं देवि प्राणलिऽऽन्गमुदाहृतम् || मन्त्रपीठमिदं प्रोक्तं मन्त्रार्त्थं लिऽऽन्गमुच्यते | मन्त्रार्त्थयोश्च विज्ञानात्प्राणलिऽऽन्गं वदन्ति भीः(भोः) || क्रियातीतं शक्तिपीठं विधा(जा)नंत्यात्मलिऽऽन्गकम् || तयोः समरसं ज्ञेयं प्राणलिऽऽन्गं शिवोदितम् | हृदयं शक्तिपीठं स्यादात्मा वै लिऽऽन्गमुच्यते || तयोस्समरसं ज्ञेयं प्राणलिऽऽन्गं शिवोदितम् | हृदयं शक्तिपीठं स्याद्यत्रैव प्राणलिऽऽन्गकम् | ह्याप्तं पीठं लयं लिऽऽन्गं अनयोर्विलयं यदा || पृ० ४३) तथा तत्प्राणलिऽऽन्गस्य भेदकं यस्य कस्यचित् | गुरुर्लिऽऽन्गं भक्तिपीठं स्वौपुष्पं तु स्तुति क्रियाम् || प्रमाणं गन्ध सलिलं सिद्धिर्नैवेद्यमुत्तमम् | त्रैलोक्यं शक्तिपीठं स्यात् ज्योतिर्लिऽऽन्गंमसुखं मनुः | अक्रिरैव क्रियां सिद्धिं समाधस्तस्य पूजनम् | प्राणापाना निरोधेन जाताया शुक्तिपीठिकाः || प्राणलिऽऽन्गमिति प्रोक्तं प्राणलिऽऽन्गस्य लक्षणम् || जीवात्मा पीठमित्याहुः परमात्मैव लिऽऽन्गकम् | प्राणलिऽऽन्गमिदं प्रोक्तं शिवशास्त्रेषु निर्णितम् | भस्मलेपनसर्वाऽऽन्गं जटा काषाय धारणम् || पञ्चाक्षर जप शतं शान्तं विजितमानसम् | निःस्पृहं गुरुभक्तिश्च निर्लज्जा निष्क्रियापरम् || नैराश्चां(श्यं) निर्जने देशे वसन्तश्च तपस्विनाम् || सर्वशास्त्रार्थ वेत्तारं तत्वज्ञान विचक्षणम् | तं समध्ये गुरुर्मत्वा प्राणलिऽऽन्गस्य लक्षणम् | कथमुत्पत्तिलिऽऽन्गानां मन्त्राणां सिद्धिदायिनाम् || ज्ञातव्यं सद्गुरोर्वक्त्रात उपदेशं यथा तथा || तपं बपुश्शक्तिपीठं तस्यात्मा परमः शिवः | प्राणेन सहितो लिऽऽन्गी तल्लिऽऽन्गं प्राणलिऽऽन्गकम् || षडद्ध्वा षड्दलं प्रोक्तं तद्व्याप्तं लिऽऽन्गमुच्यते || पृ० ४४) षडद्ध्वानां गुणानाञ्च व्याप्ता व्याप्तमयं शिवम् | तदेतत्प्राणलिऽऽन्गञ्च वदन्ति शिवयोगिनः | उभयोस्समबुद्धिस्तु विद्यते यस्य कथं(स्य)चित् || तस्य एव शिवज्ञानं प्राणलिऽऽन्गं प्रकाशते || शिवस्य हृदयं प्राणः प्राणस्य हृदयं शिवः || शिवं प्राणव(प्रणव)योरैक्यं योजनाति ईश्वरः || स एव जंगमः पुण्यः स भक्तः परमात्मना | सर्ववित्सर्वदैवज्ञः स तपाः सत्यबोधकः || सर्वज्ञानमयं शम्भुमखंडानन्द पूरितम् | कालाग्निकोटि संकाशा ये स्मरन्ति शिवं सदा || चन्द्रकोटि प्रतीकाशं चन्द्रमण्डल वासिनम् | चन्द्रशेखरमीशानं मनसा भावयेद्बुधः || ब्रह्मानन्दमये पीठे ब्रह्मानन्द रसार्णवे | ब्रह्मानन्द रसासक्तं ब्रह्मानन्द शिवं भजेत् || प्रातर्मध्याह्न सायाह्न पूजा पूजाकाले यथाक्रमम् | ध्यात्वा सदाशिवं सम्यक् अर्चयेत्परया मुदा || एवमादि क्रमेणैव त्रिकालं पूजयेच्छिवम् | हंस पञ्चाक्षरं जप्त्वा प्राणलिऽऽन्गार्चनं कुरु|| एवमादि क्रमेणैव पूजयित्वा सुरासुराः | मुक्तिं प्रयान्ति मुनयस्सत्यं सत्यं वदाम्यहम् || पृ० ४५ ) || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां ज्ञानलिऽऽन्गविधिर्नाम दशमः पटलः || शिवाय नमः || मूलचक्रे महादेवा(वं) द्ध्यात्वा भक्ति दलं भवेत् || ब्रह्मचक्रे महालिऽऽन्गं माहेश्वर दलं भवेत् | विष्णुचक्रे महालिऽऽन्गं प्रसाददलमीरितम् || रुद्रचक्रे महालिऽऽन्गं प्राणलिऽऽन्गदलं भवेत् | शिवचक्रे महानन्दं लिऽऽन्गैक्यदलमुत्तमम् || एवं षटाल(षट्दल)पूजायां द? लक्षणमीरितम् | मन्त्रपूजा भक्तिदलं ध्यानपूजा महेश्वरम् | योगपूजा प्रसादाख्यं आत्मना प्राणलिऽऽन्गकम् || समाधि पूजया चरणं ज्ञान पूजा भवेत्प्रिये | लिऽऽन्गैक्यद?मित्याहुरेवं षड्द?लक्षणम् || विश्वातीतं शिवं भद्रे लिऽऽन्गरूपं सदाशिवम् | गुणाचारं तथन्नक्तं कथं ग्राह्यं जनैर्वदा | कथं लिऽऽन्गस्य पूजा च कथमुदासनं विभो| कथं पुष्पोपहाराणि उपचारस्तु षोडश | मनोवाक्काय कर्माणां दूरदूरतरं शिवम् | तर्ल्लिऽऽन्गं केन दृष्टं स्यात्केन पूजाक्रमं पुनः | निष्कलानन्दरूपस्य महेशस्य कथं क्रिया || पृ० ४६) प्रवदन्ति महीलोके गुरु भेद विहीनकम् | मनोबुद्धिरहंकारश्चित्तैः पञ्चेन्द्रिया कुते || कथं महेश्वरं शम्भुं परमात्मानमम्बिके || दृश्यत्वात् सदृशोश्छिष्टं स्मरणान् मलिनं भवेत् | भूतोश्छिष्टं जगत्सर्वं जीवोश्छिष्टं तु मन्त्रजम् | मत्स्योश्छिष्टं जलं चैव भ्रमरोश्छिष्टं तु पुष्पकम् || धूप दीप प्रदर्शत्वाद्वाह्न्युश्छिष्टं भवेत्तथा | भुवनानि समस्तानि लिऽऽन्ग(| )धस्तात्तिलोपमम् | तिष्ठन्ति तेषु सर्वेषु अणुत्वं नैव जन्तवः || देवता ब्रह्मविष्ण्वाद्यस्तेषु क्वाऽणुत्वकं नर || न तुला मर्हति शिले कथं लिऽऽन्गं च जारति | तस्य लिऽऽन्गस्य पूजा च कथमेति शिवस्य च || अज्ञातां(नां) पुरुषाणाञ्च भ्रामकत्वमिदं भवेत् | लिऽऽन्गस्य पीठिका नास्ति लिऽऽन्गस्यास्यावसानकम् | सर्वलिऽऽन्गमयं सिद्धिर्भूतितिलिऽऽन्गात्परं च च | केन दृष्टं केन वेद्यं लिऽऽन्गान्तस्थाञ्चराचरम् || त्वमेवं देवि तल्लिऽऽन्गं लिऽऽन्गं चित्तत्वमेव हि | दृष्टादष्टादि रहितं तत्वं नास्ति कथं क्रिया || शिवानन्दामृताम्भोधौ वीचिवद्भुवनानि हि | पारावार जलं ग्राह्य पारावारस्य यो दधौ|| पृ० ४७) तादृशं परमेशानि गुरुशिष्यस्तथा किल | पूज्यं च पूजकाश्चैव प्रसादश्चैव हारकम् || शुद्ध पुष्पञ्च निर्माल्यं शुद्धतोय मतिमनम् | धूप दीपं च लेपञ्च सर्वमेतद्विडम्बना || उपहार मयं शम्भुरुपहार फलप्रदा | दाता भोक्ता महेशश्च इति बुद्ध्या च वेत्स हि | सर्वं शिवमयं जातं शिवादन्यं न दृश्यते | द्विधा भावञ्चमकुर्यात्तस्य ज्ञानं न विद्यते || अभेदज्ञान सिद्धान्तं यस्य चित्ते प्रवर्तते | स गुरुः स शिवः पुण्यः सर्वज्ञस्सर्ववेदवित् | तत्वविद्दीक्षितास्सिद्धस्स भक्तः शिवपूजकः || सर्वानन्द पद प्राप्त परमात्मावलोकनात् | शैवेषु वीरशैवेषु वैदिकेषु च मिश्रके | स महात्मा महीलोके पाशष्ठो च न तन्त्रकैः | दीक्षितः ज्ञानदीक्षायां निश्चितश्शाम्भवे पदे || एवं गुरुमुखे ज्ञात्वा शिवपूजां गुरु प्रिये | अज्ञानत्वादशास्त्रत्वादमार्गवत् पाशबन्धनम् | यथा शास्त्र क्रमं ज्ञात्वा पाशबन्ध विमोचनम् | पाशबन्धार्जनः बद्धं पाशमोक्षात् सुखप्रदम् || पाशं मलत्रयं व्रिद्ध तस्मार्जन्मं प्रवर्तते || पृ० ४८) मलातीतात् शिवपदं प्रयान्ति सततं बुधाः || आशापाशमिति प्रोक्तं निराशा पाशमोचनम् || आशानिराशा रहितं तदेतत्प्राणलिऽऽन्गकम् | जन्महेतुर्मनोवृत्तिर्मोक्ष चित्त निवर्तनम् || निवृत्तिश्च प्रवृत्तिश्च तयोर्मद्ध्यात्मलिऽऽन्गकम् | तत्वज्जन्मं च मरणं नृणामत्रैव कारणम् | तद्भेदं सामरस्यं तु मातनायार्मन स्थिरम् || तवेव शिवसंकेतमार्गमादाय निश्चितम् || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां षट्चक्रदललक्षणसहितं गुरुशिष्यसंवादं नमैकादशः पटलः || जटाधारणमात्रेण किं फलं वेद वेदिनाम् | जंगमानाञ्च लिऽऽन्गानां ज्ञातुमिच्छामि शंकर || ईश्वर उवाच- अहो भाग्य महोभाग्यं जटा रुद्राक्ष धारणम् | जटाविभूति रुद्राक्षं शिवलिऽऽन्गार्चनात्मकाः || विराजन्ते त्रिलोकेषु रुद्रास्ते रुद्रमूर्तयः | शिवलिऽऽन्गश्च रुद्राक्षं विभूति परिलेपनम् | जटा यज्ञोपवीतञ्च कौपीनञ्च कमण्डलुम् | दण्डञ्च पादुकाश्चैव कुण्डलं योगपट्टकम् || मुखे पञ्चाक्षरं मन्त्रं ध्यानयोग परायणम् || पृ० ४९) विरक्तं वीतरागश्च परनिन्दा विवर्जितम् | भविसंगम संत्यक्तः भविभाष विवर्जितम् शिवलिऽऽन्गार्चनरतं तीर्थयात्राभिलाषितम् || मध्यमांसादिरहितं त्रिकाल ज्ञानत्वदितम् || एवं गुणविशिष्टं तं जंगमं परमेश्वरम् | वदन्ति मुनयस्सर्वेऽपरं शंकरं मुदा || प्राणलिऽऽन्गस्य पूजाञ्च जटा रुद्राक्षधारिणम् | वदन्ति देवतास्सर्वे स एव परमश्शिवः || जटा रुद्राक्ष लिऽऽन्गञ्च धारणात्प्राणलिऽऽन्गिनः | तेषां पुण्यकृतां पुंसां पुण्यपाप भयं न हि | गृहस्थो वा विरक्तो वा निराशो वत्सलैर्युतः || प्राणलिऽऽन्गधरस्यास्य पुण्य पाप भयं न हि | वेश्यापतिश्च चोरश्च परस्त्री संगसंयुताः || प्राणलिऽऽन्गीभवेत्कश्चित् तस्य दोषो न विद्यते | कुलस्त्री गणिका पेटी(चेटी) विधवा तु रजस्वला | चण्डा?नी च प्रमदा बहुशः सन्ति भूतले | तासां संगमनाद्दोषो प्राणलिऽऽन्गवदान्न च (तां न च ) || जटा रुद्राक्षमालां च विभूतिञ्च शिवार्चनम् || पञ्चाक्षर जपासक्तं पुरुषं न स्पृशेदधम् || पापिष्ठो वा दुराचारी पातकीप्युप पातकी || पृ० ५०) जटा विभूति पूजादिस्सर्वपापात्प्रमुच्यते || जटि शिवार्चन परः शिवलिऽऽन्गात्मनि स्थितम् | महापातकयुक्तञ्चेत्तस्य दोषो न विद्यते || त्रिमल त्रिगुणं दोषं व्रतघ्नं ब्रह्मपातकम् || जटाधारी जनः पुण्यः सर्वं हन्ति शिवार्चनात् | जटाधारस्य पुण्यस्य देहेऽस्मिन् रोम जातयः || लिऽऽन्गान्येव वदन्तीह वेदशास्त्रागमा उमे | तदऽऽन्गोद्भव रोमाणि व्याप्तं चापि निकृन्तनम् | न कर्तव्य श्रुता वृत्तेः कृत्वा चेत् लिऽऽन्ग भेदनम् || वपनं कृन्तनं रोमा लुञ्चनं प्राणलिऽऽन्गिनाम् || न कर्तव्यं कदाचित्तं कुर्याच्चेल्लिऽऽन्गहा भवेत् | प्राणलिऽऽन्गं यत्र यस्मिन् तस्मिन् चिन्मयं प्रिये | जंगमानां शरीरेषु हृदयेषु करेषु वा | तत्र स्थितोऽहं देवेशि सत्यं सत्यं वदाम्यहम् | प्राणैः सह समायां तु लीने गमयतीति च || प्राणलिऽऽन्गमिति प्रोक्तं तस्मात्तत्प्राणलिऽऽन्गकम् | अन्येषामपि लिऽऽन्गानां सहायत्वं न लभ्यते || तस्मात्पूजाफलं सर्वे न लोभो प्राकृता जनाः || यथा प्राणं तथा लिऽऽन्गं हंस व्याप्त मरुद्यथा | अनेन कारणेनैव प्राणलिऽऽन्गं विदुर्बुधाः || पृ० ५१) प्राणेन लिऽऽन्गमिश्रञ्च लिऽऽन्गेन प्राणमिश्रकम् | अनयोर्योगविज्ञानात् प्राणलिऽऽन्गमुदाहृतम् || मलत्रयेण बद्धानां मनुजा सर्वजन्तवः | द्वाभ्यां मलाभ्यां देवाश्चैकेन ब्रह्मविष्णु वा || देवतानां मनुष्याणां विदते न मद्धनम् | प्राणलिऽऽन्गवतां पुंसां (मल) बन्धो न विद्यते || श्रीदेव्युवाच- ब्रह्माविष्णुः सुरेन्द्राणां मलबद्धं कथं भवेत् | लिऽऽन्गधारणमात्रेण मलबद्धं कथं न हि || ईश्वर उवाच- वीरतन्त्रेषु यः कश्चित् दीक्षितः पृथिवी तले | तस्य देवेववसति शिवस्य परमात्मना | तस्मान्मलैर्विमुक्तस्तु प्राणलिऽऽन्ग धरः पुमान् | अग्नि सन्निधि मात्रेण पलायन्ते पिपीलिका || शिव सन्निधि मात्रेण पलायन्ते मलान्यनम् (नि च)|| प्राणलिऽऽन्ग धरः कृत्वा साक्षाद्देवे महेश्वरः | इदं शास्त्रमिदं सत्यं शपथं त्रिःकृतं मया || श्रीदेव्युवाच- राजसस्तामसश्चैव सात्विकश्च गुणत्रयम् | किं करोमि शरीराणां वदस्व परमेश्वर || पृ० ५२) तद्भेदं न जानामि विस्तरेण यथा तथा || ईश्वर उवाच- गुणत्रयेण मनुजा राजसेन वितामहि | तामसेन महादेव दैत्य दानव राक्षसाः | सात्विकेन हरिः साक्षात् निर्गुणैरमरैः शिवः | मद्भक्तानां * सर्वेषां अधिकाः प्राणलिऽऽन्गिनः || तेषां गुण त्रयाभावं वदन्ति निगमागमाः || पैतृकं वस्तु पुत्राणां शैव क्रिय विधि स्थिता | सोऽहं गुण त्रयातीतः स्तस्मात्तेषां न विद्यते || वीरतन्त्रेषु दीक्षाभिस् * व दोषो विनश्यति | वीरमाहेश्वरस्सोहं मद्भक्तामत्समा उमे || तस्माद्देवासुरास्सर्वे प्राणलिऽऽन्ग भजन्तिभिः | इदं रहस्यं परमं वीरशैवं प्रकाशितम् | त्वया वीर न जानन्ति मत्प्रसादात् त्वयि स्थितम् | गुणातीतो मलातीतो कर्मातीतो महेश्वरि | मनोतीतो महानन्दा प्राणलिऽऽन्गधरःपुमान् || || इति श्रीवीरशैवागमे सहस्रकोटिसंहितायां दर्शविशेषमहिमाविधिर्नाम द्वादशः पटलः || श्रीदेव्युवाच- कथं विभूतिरुत्पत्तिः विभूत्या किमिदं फलम् | भूतिधारणं कं स्थानं शरीरे किञ्च लक्षणम् || पृ० ५३) तत्सर्वं श्रोतुमिच्छामि विस्तरेण वदस्व मे | ईश्वर उवाच- साधु पृष्ठं त्वया देवि विभूतिरुत्पत्तिकारणम् | विभूतिश्चतुर्विधाः प्रोक्तं आद्यस्तु वर्ण(र्ण्य)ते क्वचित् | अग्निरूपं महादेवि मम देहे समुद्भवम् | आग्नेयं भस्म जगतां दृष्टमानं तु पार्वति || अग्निनो भस्म सम्बन्धं भस्मनाग्निसमन्वितम् | अविनाभावसम्बन्धाद्भस्मनः परिकीर्तितः || देवसुर मनुष्याणां न जानन्ति हि भस्मजाम् | भस्मना जायते शुद्ध्या शून्या तस्मति रञ्जनम् || निरञ्जनेन चित् ज्योतिः ज्योत्या जातश्चिदम्बरम् | चिदम्बरेण नादश्च नादाद्बिन्दु समुद्भवम् | बिन्दुनाद पराशक्तिः पराशक्त्यात्सदाशिवः | सदाशिवां महेशस्य महेशाद्भगवान् हरः || तस्माद्विष्णुसमुद्भूते विष्णुना च चतुर्मुखः | चतुर्मुखात् त्रिभुवनं पञ्चतत्वमयं जगत् | वसुधा रूप युद्ब्रह्मा जलरूपी जनार्दनः || अग्निरूपं महादेव वायुरूपं महेश्वरः | आकाशरूपं सदाशिवः एतेषां लक्षणं क्रमात् || युगान्तानि मयं शम्भोः स्मशानं परिकीर्तितम् | पृ० ५४) तद्भस्मलेपितंस्सोहं इति केचिद्वदन्ति ते | इन्द्रियाणां विनाशत्वात् शान्ति भस्म * * ति हो | कामस्य दहनात् केचित् भस्मजातं वदन्ति ये | तत्सर्वं स्वेच्छया प्रोक्तं प्रत्येकं वदना मुहुः| तं तिष्ठति महेशानि या याम्यं (र्थ्यं) कथयामिते | अग्निरूपं महादेवि आग्निन्या(ना) सह समुद्भवः स्वयंभूश्च विभूतिश्च विभूतिस्सर्वकारणम् | विभूत्या जननं धातु विभूत्यां जननं हरे | विभूत्या रुद्रसंभूतिर्विभूत्यां महेश्वरः| विभूत्या सदाशिवोत्पत्ति नित्याहुर्निर्गमागमः | विभूत्या सर्वदेवाश्च विभूत्या स चराचरम् || विभूत्या भुवनाण्डानि विभूत्या सप्तसागरः | विभूत्या प्रलयाकारः विभूत्या सृष्टिकारणम् || सर्वेषां पुनरावृत्ति विद्यते नैव भस्मनः | भस्मलेपनमात्रेण पुनरावृत्ति नैव च | सर्वेषामपि जंत्रा(तू)नां देवतानां तथा उमे || भस्मनां च पुनर्जन्म मरणं च न विद्यते | मत्वो द्वि विद्यते सर्वं निर्मलत्वा च भस्मना निर्मलः शुद्ध इत्युक्तं त्रिलोकेषु च शुद्धिमत् | निर्मलत्वाच्च भूत्येषु वन्दनीया सुरासुरैः || पृ० ५५) विभूति धारणाद्देव शिवत्वं व्रजते बुधाः | पूर्वं शिवस्य देहाश्च निपतत्कणु भस्मना|| तस्मात्कणा समुत्पन्नः काश्चिदौदुम्बरस्तरुः | स तरुर्वन्दते शीघ्रं विस्मयेन सुरेश्वरि || अशीति लक्षकोटिनां मासीदायामविस्तरः | उच्छ्रितं तत्प्रमाणञ्चाऽऽमूलाग्रावसानकम् | फलैश्च पूरितः शश्वत् शाखासु बहुधासु च | तस्मिन् तरोः फलं चेकः तत्फलैः कृमि कोटिका | कृमयस्तेतु वीक्ष्यन्ते भुवनानि चतुर्दश | तद्वदेव हि मायामिमिदं भुवनमम्बिके | एतेषु च सुरास्सर्वे मूर्द्धास्ते गर्विताः खलु | विभूतिस्सर्वदेवानां कर्तु नारायण स्मृतः || विभूतिस्सर्वदेवाश्च विभूतिश्च महेश्वरः | विभूतिस्सर्वदा देवि सदाशिव इति स्मृतः | दर्शनात्स्पर्शनाच्चैव धारणं प्रोक्षणं मुहुः | अश्वमेध सहस्राणि वाजपेय शतानि च | वारणस्यां च वसति ब्रह्मा कल्पावधेन्नृणाम् || ब्रह्महत्या च गोहत्यास्ते यस्यापि च पातकम् | गुरुतल्पं मद्यपानं स्त्रीवधं लिऽऽन्गभेदनम् | महापापोपपापानि नश्यते भूति धारणात् | पृ० ५६) तिस्रः कोट्यर्धकोटिश्च तीर्थानि भुवनत्रये | विभूति स्नान मात्रेण तत्फलं लभते ध्रुवम् || यज्ञकाले तपःकाले पूजाकाले जपे तथा | दाने होमे शिवध्याने विभूतिस्नानयेद्बुधः| त्रिपुण्ड्रेन विना श्राद्धं त्रिपुण्ड्रेन विना हुतम् || त्रिपुण्ड्रेन विना दानं राक्षसं परिकीर्तितम् | जन्मान्तर सहस्रेषु यत्कृतं पाप संचयम् | तत्क्षणं नश्यते सर्वं विभूति स्पर्शनात् नृणाम् || तपेद्वर्षशतं कोटिरेकपाद स्थिरो नरः | विभूति स्नान पुण्यस्य कालां नार्ह तु षोडशीं | विभूतिं शिवलिऽऽन्गञ्च रुद्राक्ष जपमालिकाम् | परोक्षराद्ध्यपदनं नौमिदं पुरुषं सदा | विभूति धारणाद्देवि अन्यो वापि द्विजो भवेत् | भूतिं विना चतुर्वेदी चण्डा?ओ भवति स्मृतिः | गुरुद्रोही शिवद्रोही पातकीत्युपपातकी| भूति धारण मात्रेण रुद्र एव न संशयः | मध्यपः भ्रूणहाश्चैव दुरात्मा गुरुतल्पगः | विभूति स्नान मात्रेण क्षीणकल्मषतां ययुः | ब्राह्मणः क्षत्रियो वैश्यः शूद्रः संकर जातयः| एतेषां सर्वजातीनां कर्तव्यं पुंड्रधारणम् || पृ० ५७) ब्रह्मचारी गृहस्थो वा वानप्रस्थाय भिक्षुकाः | त्रिपुण्ड्रधारणं कार्यं भोगमोक्षार्थकारणम् || त्रिपुण्ड्रमर्द्ध पुण्ड्रं वा वर्तुलं चन्द्रं लांछनम् | दीपाकारं च लिंगञ्च षडैते शिव लाञ्छनम् | विनायक गृहस्तारा ये चान्ये क्षुद्रजन्तवः || त्रिपुण्ड्रधारणं दृष्ट्वा पलायंते न संशयः || स्तेयं कृत्वा परदारञ्च कृत्वा * * * * *| मद्यं पीत्वा ब्रह्महत्यां च कृत्वा | भस्मस्नानी(यी) भस्मशयया शयनो रुद्रध्यायी मुच्यते सर्वपापैः || वेदोक्तेनैव मार्गेण भस्मनैव त्रिपुण्ड्रकम् | उद्धूलना चरिष्यन्ति पाषण्डो पहता जनाः | भूतिर्भूतिकरी पवित्रमतुलं पापौघविध्वंसिनी सर्वोपद्रव विनाशनी प्रभुतरं सौभाग्यसंवर्द्धनी | भूत प्रेत पिशाच राक्षस ग्रहारिष्टादि संरक्षिणी साक्षान्मोक्षफलप्रदा प्रकटिता भूतिस्सदा धार्यताम् || भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी परा | भसितं भवनाप्रोक्तं भस्म कल्मष भर्त्सनात् || भस्म ज्योति भवेत्येव शिवाख्यान्न हि संशया | जाबालोपनिषत्सर्वं प्राहेदं परयामुदा|| पृ० ५८) सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्फलं कोटिगुणितं भस्मस्नानं च(न) संशयः || भस्मस्नानं जलस्नानदसंख्यैव गुणादिकम् | तना(तेन) धारणमुत्सृज्य स्नानमाग्नेयमाचरेत् | मानस्तोकेति मन्त्रेण मन्त्रितं भस्म धारयेत् || मद्ध्यमानामिकाऽऽन्गुष्ठे त्रिपुण्ड्रं भस्मना कृतम् | तत्त्रिपुण्ड्रं भवेत् शस्तं महापातकनाशनम् | ऊर्द्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रं युजुषि च | अधः पुण्ड्रं च ऋक् साक्षात् तस्मात्पुण्ड्रं त्रियायुषम् || ललाटे बाहुमूले तु मद्ध्ययोर्मणिबन्धयोः || नाभावुदर देशे तु हृदये च गले तथा || पार्श्वयोः कर्णमूले च पृष्ठभागे द्वयो तथा | मूर्ध्नि चैव त्रिसन्ध्यायां विभूतिं धारयेद्बुधः || स्नाने दाने तथा श्राद्धे वैश्वदेवे सुरार्चने | धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति * * *|| एकहस्तेन पुण्ड्रं चाधोमुखविलेपनम् | श्वानयोनिशतं प्रात्य रौरवं नरकं व्रजेत् || द्विहस्तेनैव पुण्ड्रं स्यात् ऊर्ध्वमुखं विलेपयेत् | अनेन वियुनद्देवि शिवसायुज्यमाप्नुयात् || रात्रौ भस्मनि यस्तोयं सिञ्चत्त्य ज्ञातः क्वचित् || पृ० ५९) रेणुसंख्यानि वर्षाणि रौरवं नरकं व्रजेत् | उच्चिष्टे वा स्मशाने वा सूतके मृतिरेपि वा || ताम्बूल चषु(र्व)णेकाले मैथुने परिहासके | भूतिं न संस्पृशेत् कश्चित् स्पृशेच्चेत् नरकं व्रजेत् | मत्स्यमांसञ्च संस्पृष्ट्वा प्रस्रावेदं तथा वने | अशुभे रोदने कश्चित् न स्पृजेत् भूतिमीश्वरि || शुद्धस्तपस्वी सुमना सुमुखी सत्य भाषिता | आस्तिक प्रतिसंयुक्तः स्पृशेद्भूतिं निरन्तरम् || स भक्तः शिव सायुज्यं प्राप्नोति शिव दीक्षिताः | कुलालायतने भस्म इष्टका दहन स्थले | माहास्या(महानसा)न्तरे चैव न ग्राह्यं भस्म संचयम् | अग्निहोत्र हुतं भस्मं यद्भस्मं शिव सन्निधौ | तद्भस्मं शिव सायुज्यं अन्यद्भस्मं न संस्पृशेत् || चण्डाल पिशुनाश्चैव मद्यपानि चिकित्सकम् | त्वग्दोष रोगिनं पंगुमिद्धकं भेद वादनम् | अऽऽन्गहीनं दुराचारं पञ्चपातक कारिणम् | एतन्निदर्शयेद्वापि दर्शयेद्यदि वा शिवे || भसितं धूम्रवर्णञ्च रक्तञ्च (परि)वर्जयेत् | विशुद्धं धारयेद्भस्मं अन्यत्सर्वं परित्यजेत् || कृष्णं रोग करं प्रोक्तं कीर्ति हरं भवेत् || पृ० ६०) धूर्मामायुः क्षयं चैव पीतं सम्पद्विनाशकम् | सितं सकलसिद्धिः स्यात् इति वेदान्त निश्चितम् || (असमाप्तोऽयं ग्रन्थः) (असंपूर्णश्च ) ########### END OF FILE #######