#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00605 Uniform title: vīraśaivasiddhāntottarakaumudī Secondary title: vīraśaivasiddhāntottarakaumudī from IFP transcript T00343 Manuscript : IFP transcript T00343 copied from GOML D5496 Description: Contains the complete śivapūjavidhi of the text called vīraśaivasiddhāntottaraaumudī Notes: Data-entered by staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021. Revision 1: March 27, 2022. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### इfप् त्रन्स्च्रिप्त् ०३४३ वीरशैवसिद्धान्तोत्तरकौमुदी पृ० १) वीरशैवसिद्धान्तोत्तरकौमुदी || || शिवपूजाविधिः || श्रीमद्रुद्रनिटिललोचनज्वलज्ज्वालादग्ध पुनर्जीवितमदन प्रज्वलित वडवानल सन्तापित विषयसंग प्रचुरतरऽऽन्ग संगमोहवर्त दुस्तर संसारघोरार्णवातारकप्लवरूप शिवज्ञानप्रद लोभपऽऽन्क्तेन्द्रियाराति मोहपिशाच क्रोध व्यघ्र मतताहि कन्या मदनचोर मदान्धकारतापत्रय गर्त विषय कण्टकासूया विषलता अहंकारविषह्रदादि महदुपद्रव विशिष्ट संसार कान्तारच्छेदकुठार शिवज्ञानदायक दीक्षा गुरो शिक्षा देशिक भवदर्चनार्थं अज्ञादीयतां इति विज्ञाप्य दीर्घदण्ड नमस्कारान् कृत्वा पूजाद्रव्याणि तत्र निधाय गुरोश्चरणाऽऽन्गुष्ठौ गृहीत्वा | गुरुमूर्तिः शिवः साक्षात्पाशमुक्तः परः शिवः | वसन्ति पादयुग्मे च त्रैलोक्यं स चराचरम् || अऽऽन्गुष्ठाग्रे ह्यष्टषष्टि तीर्थानि निवसन्ति च | नक्षत्रग्रहबृन्दानि गुल्फे तस्य वसन्ति वै || सप्ताब्धयश्च पादार्धे तदर्धे कुलपर्वताः | जंघयोर्वसते नित्यं षट्त्रिंशत्तत्वबृन्दकम् || इति || नमस्कृत्वा भस्मसंधार्य तत्रैव स्नानाद्युपचारान् कृत्वा पुष्पैर्नानाविधैः चित्रै माल्यैश्चैव सुगन्धिभिः | श्रीगुरोर्विग्रह स्थाप्य सन्धौ सन्धौ प्रपूजयेत् || पृ० २) इति वचनेन सर्वसन्धीः प्रपूज्य | सर्वोपचारान् कृत्वा | पुष्पादिकं परिहृत्य | पादशब्देनाऽऽन्गुष्ठमात्रं गुल्फाधः सर्वपादप्रक्षालनं कृत्वा | शुक्त्यादिपात्रे संस्थाप्य | संपूज्य | पादोदकं नाम किम् ? शैवसिद्धान्तशिखामप्युक्त भक्तस्थ(ल)समाश्रित पञ्चदशस्थलेषु प्रसाद स्वीकृतिरुक्ता | पादोदकप्राशनं नोक्तमित्याशंक्य प्रसादग्रहणात्प्रागेव पादोदक स्वीकारस्तत्रैवोक्तः | पादोदक माहात्म्य प्राशनफलानि तत्रैवोच्यते- दीक्षायोपगताद्वैतं यज्ज्ञानं गुरु शिष्ययोः | आनन्दस्त्रे निर्यमेते दीक्षा पादोदकं स्मृतम् || परमानन्द एवोक्तः पादशब्देन निर्मलः | ज्ञानं चोदकशब्देन पादोदकमिति स्मृतम् || अथवा पादशब्देन गुरुरेवं निगद्यते | शिष्यश्चोदकशब्देन तयोरैक्यं तु दीक्षया || परसंवित्प्रकाशात्मा परमानन्दभावनाम् | अधिगम्य महायोगी न भेदं क्वापि पश्यति || ज्ञानामृतमिति स्वच्छं गुरु कारुण्यसंभवम् | आस्वाद्य रमते योगी संसारामयवर्जितः || इति || ततः | लिऽऽन्ग जऽऽन्गम पादाब्ज संभूताय शिवात्मने | परमानन्दरूपाय पादतीर्थायते नमः || इति पादोदकं नमस्कृत्य | क्रियारूपं विज्ञायमज्जन्यर्पणा- पृ० ३) दिकं सम्यग् ज्ञात्वा शिवपादांबु(ज) स्वीकारवद्गुरुपादोदकं प्राशयेत् | पादोदकं यथा भक्त्या स्वीकरोति महेशितुः | तथा शिवात्मनोर्नित्यं गुरुजंगमयोरपि || शीक्षा पादोदकस्थले चोक्तम्- मयिताच्छास्त्रजलधौ युक्ति मन्थानवैभवात् | गुरुणा लभ्यते बोधा(धो) सुधा सुमनसां गणैः || एवं भक्तानुयायीनामिति वचनेन बहुगणपक्षे तीर्थं स्वल्पमिति ज्ञात्वा जलमिश्रितं चेत् महादोषो भवति | यथा- पादोदकं परब्रह्मनिर्मलं चाधनाशनम् | अजडं जडमिश्रं चेत्सपापी ब्रह्मधातुकः || इति | पात्रान्तरैर्बहु गणपक्षे उभयोस्तावदेकमेवेति विवेकः | तदनन्तरं प्रसाद स्वीकारः | शिवलिऽऽन्गप्रसादस्य स्वीकाराद्य फलं भवेत् | तथा प्रसादस्वीकार गुरुजंगमयोरपीति वचनेन मजितं तत्र पतितं वा प्रसादं प्राशयेत् | महता लिऽऽन्गरूपेण महता जंगमेन च | त्रिविधेन समुद्भूत प्रसादाय नमो नमः || यथा- शुद्धं लिऽऽन्ग मुखं त्यक्तं सिद्धं तु चरवर्जितम् | प्रसिद्धं तु गुरोर्भुक्तं प्रसादस्त्रिविधं भवेत् || इति वीरागमे | किञ्चापस्तम्बः- यदुच्छिष्टं प्राश्नाति हविसच्छिष्टमेवेति | तता लिऽऽन्गार्चनं कुर्यात् | अथ गुरुस्तोत्रं कृत्वा- प्राणायाम त्रयं कृत्वा विधाय न्यास ध्यान पुरस्सरं षडक्षरी मंत्रं कुर्यात् | तद्यथा- अस्य श्रीषट्स्थलब्रह्म षडक्षरी महा- पृ० ४) मन्त्रस्य परब्रह्मृषिः | दैवी गायत्रीछन्दः | शिवो देवता | महेश्वरीति शक्तिः | ह्रीं बीजम् | ह्रौं कीलकम् | मम देहे षडूर्म्यादि निवृत्तये षट्स्थल ब्रह्मनिर्वाण सुखसंपदवाप्तये षडक्षरी महामन्त्र जपं करिष्ये | यं अंगुष्ठाभ्यां नमः | वां तर्जनीभ्यां नमः | शिं मध्यमाभ्यां नमः | मं अनामिकाभ्यां नमः | नं कनिष्ठिकाभ्यां नमः | ऊं करयोः मध्ये | ऊं शिखायाम् | यं शिरसि | वां मुखे | शिं हृदये | मं नाभौ | नं पदद्वये | ऊं ऊंकाराय हृदयाय नमः | नकाराय शिरसे स्वाहा | मकाराय शिखायै वषट् | शिकाराय कवचाय हुम् | वकाराय नेत्रत्रयाय वौषट् | यकारायास्त्राय फट् | भूर्भुवः सुवरोमिति दिग्बन्धः | ध्यानम्- ङमः शिवाग्निबीजाय हराय परमात्मने | ऊंमन्त मन्त्ररूपाय मूल पञ्चाक्षरात्मने || ऊंकारवदना देवि वायकार भुजद्वया | शिकार देहमध्या च नमकार पदद्वयम् || पञ्चाक्षरी पराविद्या सतारा लिऽऽन्गरूपिणी | शिवमन्त्राभिधा शैवी ममांगे संप्रतिष्ठिता || षट्स्थल ब्रह्मरूपिणी षडक्षरमन्त्रदेवते जननी षट्स्थलभक्ति प्रसाद परमसुखैक प्रदे नमस्तुभ्यम् || इति ध्यात्वा करस्थले भस्मलेपनं विधाय प्रणवपीठं कृत्वा लिंगं निवेश्य | षट्स्थलरूपिणी श्रीषडक्षरी विद्यां परादि चतुर्विध वृत्तरूपां भक्तादि षट्स्थल जपवान् भवेत् | यथाभिशेषार्थप्रकाशके- एवं विज्ञापनं कृत्वा नत्वा गुरूपरम्पराम् | पृ० ५) शिवाध्यात्मान्त संसिद्धां शिवविद्यार्थपारगाम् | गुरुं षडक्षरी विद्यारूपिणीं षट्स्थलात्मकम् || श्रेयो गुरुपदं सिद्धं नत्वा न्यासं समाचरेत् || अस्य श्रीषट्स्थलब्रह्म षडक्षरमनोः परब्रह्मृषिः | शैवी गायत्रीछन्दः उच्यते | देवतास्य शिवः साक्षाच्छक्तिर्माहेश्वरी मता || बीजं मायाबिन्दुयुक्तं शिवाग्ने द्वय संयुतम् | कीललं शिववह्निभ्यां चतुर्दशकलान्वितम् || सबिन्दुकं समायुक्तं विनियोगोऽथ कथ्यते || ममेह सतिदेहे तु षडूर्म्यादि निवृत्तये | षट्स्थल ब्रह्म निर्वाण सुखसम्पदवाप्तये || षडक्षरमनोर्जाप्यं करिष्ये शिव याज्ञिकम् || अऽऽन्गुष्ठादि कनिष्ठान्तं करयोः पञ्चशाखिनोः | मध्यतः प्रणवं चाथ विन्यसेदक्षरान् क्रमात् || नमः स्वाहदषड्बुंदौ षड्बडंकं हृदादिकम् | चतुर्थीसंयुतं भूय ऊंकारायेति पूर्वकम् || विन्यस्यात्मार्पणं चैव विनियुज्य पुनस्ततः | नमः शिवाग्निबीजाय हराय परमात्मने || ऊंमन्तमन्त्ररूपाय मूल पञ्चाक्षरात्मने | ऊंकारवदना देवी वायकार भुजद्वयी | शिकार देहमध्या च नमकार पदद्वयी || पृ० ६) पञ्चाक्षरी परा विद्या सतारा लिऽऽन्गरूपिणी | शिवमन्त्राभिधा शैवी ममाऽऽन्गेषु प्रतिष्ठिता || षट्स्थल ब्रह्मरूपिणी षडक्षरी मन्त्र देवते जननी षट्स्थलभक्ति प्रसाद परसुखैक प्रदे नमस्तुभ्यम् || इत्यनुज्ञां तया लब्ध्वा जपेत् पञ्चाक्षरीं शिवाम् | सतारां षट्स्थल ब्रह्मरूपिणीं श्रीषडक्षरीम् | विद्या चतुर्विधा शैवी परा पश्यन्ती मध्यमा | वैखरी चेत् अर्थवर्णा पद वाक्यप्रभेदतः | ओमर्थो नादियां तस्य वर्णस्तत्र द्वयं त्रियम् || पदं भवेत्तत्समष्टिर्वाक्यमित्यभिधीयते || अर्थरूपा परा विद्या पश्यन्ती वर्णरूपिणी | मध्यमा पदरूपा स्यात् वैकरी वाक्यरूपिणी || अर्थो मनोभवो वर्णो दृग्भवो वाग्भवं पदम् | वाक्यं वपुर्भवं तेषु मनोदृग्वाग्वपुष्वथा | लक्षणं क्रमशो ज्ञेयं मनोमननलक्षणम् | दृग्विलोकनचिह्नास्याद्वाग्वयोमात्र लक्षणा || ताल्वोष्ठ रसना योग लक्षणां वपुरुच्यते | मानसी चाक्षुषी बाह्या वाचकी वापुषी परा || पश्यन्ती मध्यमा चेति वैखरीत्युच्यते क्रमात् | प्राणायाम सुगन्धि गन्ध वह एषोऽन्तस्समाधि स्थितः | प्राणो घ्राण हृषीकतो बहिरनात्मा नर्ध चारंदिता | पृ० ७) जाप्ये कर्मणि शांभवे पर मया भक्त्या स्वभक्तस्थले नित्यं वर्तत आत्मचार चरिता चाराख्य लिंऽऽन्गं भजत् || सरस षडक्षरमन्त्रस्वरूप गुरुलिंगभजन, निष्ठात्म निरतं निजजिह्वायां चरति वा माहेश्वरस्थले जाप्यं | अनिमिषचक्षुर्भूत्वा शिवलिऽऽन्गं स्वेष्टरूपमवधानाद्विलोकयन् जपति सदा स्वयं प्रसादस्थले भजनशीलः | त्वगिन्द्रियद्वारविराजमानं लिऽऽन्गं चरं स्पर्शन जाप्य (योगात् |) भजन् सदा स्वानुभवैकवेद्यं सप्राणलिऽऽन्गीस्थल एष आस्ते || मन्त्रोच्चारणशब्दामृतमय जाप्यात् प्रसाद घनलिऽऽन्गम् | श्रोत्रेन्द्रिय मुखरशरणस्थलवर्ती भजति परिणतानन्दः || मन्त्रार्थरूप महदाह्वय लिऽऽन्ग सेवां कुर्वन्मनस्यहरहर्मनन प्रबोधात् | अन्यं न किञ्चिदपि वेत्ति हि सामरस्या- दैक्यस्थले जप समाधिरिति स्थितोयम् || यत्र मरुत्तत्रमनो यत्र मनस्तत्र मरुदुपयोगः | अत्र षडक्षर एव न कुत्रापीत्येव षट्स्थली जपति || सीत्कारो धरसेवनं जपविधा वा लिंगनं गाढदोर्बद्धः पाणि महांगणे गणनया शैवाक्ष विक्षेपनम् | संरम्भःसुरत क्रिया समुचिता शयया हि पद्मासनं मल्लापः शनकैरुदीरितमनुः पञ्चाक्षरी संगते || रमते मामहोरात्रं पराविद्या परांगता | नावकाशो मयारन्तुं तव माये वरांगने || पृ० ८) एवं विद्यानुष्ठानं विधाय | ततः पराविद्यात्मक प्राणलिऽऽन्गं मूलाधार हृदय भ्रूमध्य ब्रह्मरन्ध्रस्थानानां मध्ये हृदयस्य श्रेष्ठत्वान् मण्डलत्रय मण्डित हृदय पुण्डरीके सम्यग्विभाव्य भाव पुष्पैर्यजेत् | यथा- अन्तर्गतं चिदाकारं लिऽऽन्गं शिवमयं परम् | पूज्यते भाव पुष्पैर्यत् प्राणलिऽऽन्गार्चनं हि तत् || तल्लक्षणं शंकरसंहितायाम्- स्नानं समत्व सलिलेन हि पूर्णभाव वस्त्रं त्रिशक्तिगुणसंयुत यज्ञसूत्रम् | विद्यानुगन्धमिह भूतदयाक्षताश्च शब्दादि पुष्प चयमर्पय नित्यमंगा * * || प्रज्ञामनोहंकृति चित्त धूपं श्रोत्रादि पञ्चेन्द्रिय दीपमऽऽन्ग | सद्वासना तैलयुतं च देही जीवोपहारं सुख दुःख बाह्यम् || गुणत्रयाख्य ताम्बूलं प्राणार्पण नमस्कृतिः | शान्ति पुष्पाञ्जलिं देहि चैकभाव विसर्जनमिति || एवमभ्यन्तर द्रव्यसंख्यतं शिवपूजनमित्यंतर्यजनं विधाय | निजमिष्टलिऽऽन्गं मूलमन्त्रेण विभूत्याभ्युक्ष्य तल्लिऽऽन्गं दशावधानैर्निरीक्षयेत् || आदौ दशावधानानि प्रोक्तानि शिवपूजने | दृष्टिश्चतुर्विधा पूर्वं तत्र दृष्टेः पदुत्वता || कराग्रस्थित चिज्ज्योति दृऽऽन्मनः प्राणसंभृतम् | दृक्कुंडे चित्रितं लिऽऽन्गं दृग्रूपं लिऽऽन्गमुच्यते || स्वर्णकारेण संबन्धात् प्रतिमा लोहनिर्मिता | पृ० ९) एवं विधं दृक्पटुत्वं दृग्विन्यासं तथोच्यते | गुहेश इव संपश्येत्तंत्रिरूपे क्षणः शिवः || निमेषरहितः पश्येदनिमेष इवेश्वरम् | अतीताग गुणव्रातः पश्येद्भृंगीश्वरो यथा || अविनाभावतः पश्येच्छिवं नन्दीश्वरो यथा || दृग्विन्यासमिहैवोक्तं दृग्विलीनं तथोच्यते | गुरूक्तमन्त्रालीयन्ते शिष्य कर्णद्वयं यथा || ? तथा दृष्टिः कराग्रस्था चिल्लिंगे विलयं व्रजेत् | वेदान्तार्थः शिवं धत्ते तथा धत्ते दृगीश्वरम् | व्याप्तं लताभिः कल्पद्रुर्दृशा बद्धस्तथा शिवः || शिरोलक्ष्ये यथा स्यूतं तथा स्यूतं दृगीश्वरे | आलिंगितः पितापुत्रैर्यथादृष्ट्वा शिवस्तथा || बध्नन्ति पाशं गन्धेभं दृग्भिर्बद्धस्तथा शिवः | वागुरा व्याध निक्षिप्ता मृगं बध्नाति दृक्तथा || भार्यया पतिराश्लिष्टस्तथाश्लिष्टः शिवोदृशा | शिल्पिकॢप्तं यथासूत्रं ग्र(ग)न्धद्रव्यैर्यथा पटः | सिन्धवोऽब्धौ यथावन्याः क्षीरेलीनं यथाजलम् || तप्तायसि यथातोयं दृग्विलीनं यथा शिवे | वक्ष्यते दृक्स्थिरत्वं तु चतुर्थं प्रथमेस्थितम् || आदिग्यानमनावर्त मनपांगमतोय भृत् | आचञ्चल ममांद्य स्यात्तदोर्ध्व चलनं न च || पृ० १०) अनऽऽन्गगुणमक्रूरं दृक्स्थिरत्वमिदं भवेत् | एवं चतुर्विधा लिऽऽन्गे प्रथमा दृष्टिरुच्यते || शिवं पश्यं(न्) सुखं यान्ति पश्यन् पश्यन्ननेकधा | द्वितीयमवधानं स्यादष्टधा दृक्सुपूजनम् || दृऽऽन्मज्जनांबुरूपं स्याद्दृष्टिर्गन्धयुताक्षताः | दृष्टिः पुष्पोपहरणं दृष्टिः तद्धूपरूपकम् | दृष्टिर्नीराजनाख्यं स्याद्दृऽऽन्नैवेद्यस्वरूपकम् || दृष्टिस्ताम्बूलरूपं स्याद्दृष्टिः पुष्पाञ्जलिर्भवेत् | एवं दृष्ट्यवधानेन भवत्येवेश्वरार्चनम् | लिऽऽन्गदर्शनमात्रेण पिबेद्दृष्ट्यष्टकामृतम् || दृग्व्याप्ता तु तृतीयं स्वा(स्या)दवधानं तथोच्यते | यथा दरिद्रो निक्षेपं मन्थे(त्ते)भंकर(रि)णीं यथा || लीलाम्बुजं यथा गौरीपतिर्भार्या कुचं यथा | एवं मुहुर्मुहुः शंभुं स्पृशद्दर्चं चुति स्वयम् || शिवं स्पर्शकरेणैव स्पर्शनं सुखमश्नुते | शिवं नानाविधैः स्तोत्रैः वैदिकैस्तु पुराणजैः || रौद्रोपनिषदाख्यातैः स्तुत्वा स्तुति सुखं व्रजेत् | चतुर्थमवधानं स्यात् स्तुतिरूपं शिवस्य वै || लिऽऽन्गे विलीयते सम्यक् शरीरं विषयेन्द्रियैः | नवनीतं यथा वह्नौ दीपे कर्पूरमेव च || जले लवणवद्वर्ष शिलावंन्नीरधौ तथा || अर्चनं भवतीत्येवमऽऽन्गविक्रियकैस्सदा | पञ्चमं चार्चनं ह्येतन्मनो व्याप्तिरथोच्यते || पृ० ११) स्नानमानन्दवाष्पाणि बिन्दुरुद्वर्तनं भवेत् || गन्धोरतिः सत्क्रियाऽऽन्नो रोमाञ्चं पुष्पमालिका | तत्वभूतिर्विभूतिश्च धूपो नैजसुवासना || ज्ञानांशं वा दीपजालं प्राणो नैवेद्यमेव च | अतीन्द्रियत्वं ताम्बूलं स्तोत्रं पुष्पाञ्जलिर्भवेत् || स्नानादि पुष्पांजलि प्रमुखानि भावना पुरस्सरं दृष्टिभेदावधानं कुर्यात् | स्नानादिकोपचारेषु मनस्तद्रूपतां व्रजेत् | मज्जने तु मनोवारि धारारूपं समश्नुते || पूजायां सौरभं चित्तं गन्धलेपो मनोभवेत् | धूपे मनोवासनात्वं मऽऽन्गलं दीपिका रुचिः || रुचिर्नैवेद्यदाने तु मनः षड्विधमश्नुते || मनःस्नपनसमये मज्जनोदकरूपं भवति || पूजासमये पुष्पोपहाररूपं भवति | गन्धार्पणसमये गन्धरूपं भवति | धूपार्पणसमये धूपरूपं भवति | दीपार्पणसमये दीपरूपं भवति | नैवेद्यसमये तद्रुचिरूपं भवति | अयमपि मनोभवः | एवं षष्टार्चनं प्रोक्तं सानुरागार्चनं मनः || शिवमध्ये गणान् दृष्ट्वा शिवभक्तिस्समुद्भवान् | गणरुद्रानुवाकैस्तानसऽऽन्खान् प्रणमेत् स्वयम् || स्तोत्रं कुर्याद्गणान् ध्यात्वा रुद्रसूक्तैः शिव स्थितान् | य एको रुद्र उच्यते | असंख्याताः सहस्राणि स्मर्यते न दृश्यते || पृ० १२) एवं तं निबोधता दिव्यागणा बहुरूपाः पुराणाः | नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे | अथो ये अस्य सत्वानोहं तेभ्यो करन्नमः | नम आ व्याधिनीभ्यो इति श्वपतिभ्यश्चेप्यन्तमुच्चरेत् | नमो वः किरिकेभ्यो देवाना गूं हृदयेभ्यः नमो विचिन्वत्केभ्यो देवाना गूं हृदयेभ्यः | नम आनिर्हतेभ्यो देवाना गूं हृदयेभ्यः | नम आमीवत्केभ्यो देवाना गूं हृदयेभ्यः | गणलीलार्णवे पूर्णे चानंदेन निमज्जति नार्केन्दु ग्रहनक्षत्राद्यां कुर्युद्ये महीतले प्राप्याष्टगुणमैश्वर्यं येन यान्ति च विस्मयम् | येषां विस्मयते नित्यं कर्मभिर्भगवाञ्छिवः || अस्मिन्महत्यर्णवेन्तरिक्षे तं वोजं भेदधामि | इति गणलीलार्णवानन्दे मज्जनं नवमं भवेत् || शिवे विलीन चित्तस्तु शिवादन्यं न पश्यति | अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् || शिवरूपमस्मि | पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति | इत्याद्यभेदश्रुतिभिः शतोर्ध्वस्थलमुच्चरन् | दृऽऽन्मनोभ्यां समारूढं लिंगं बाह्यान्तरेव च || सर्वलिऽऽन्गमयं विश्वं दृग्दृष्टं मनसा स्मृतम् | तस्मात्स्वयं जगत्सर्वं लिऽऽन्गा न ह्यणुमात्रकम् || एवं दशावधानानि कृत्वा पूजां समाचरेत् एतत्सर्वं सोमाराध्येन चारित्रपण्डिताराध्य शिवार्चन सम्यज्ञ- पृ० १३) रूपितम् | एवं दशावधानानन्तरं दर्शन नीराजनम् | अन्तःस्थित बहिर्व्याप्त ज्योतिर्लिऽऽन्गस्वरूपकः | नीराजनं गृहाणेश दर्शनाख्यं सदाशिव || इति मन्त्रेण दर्शन नीराजनं दत्वा | लिऽऽन्ग भस्मसंधार्यपाद्यपात्रोदकेन पादयोः पाद्यं दत्वा | अर्घ्यपात्रोदकेन हस्तयोरर्घ्यं दत्वा | आचमन पादोदकेनाचमनं दत्वा | त्यागपात्रोष्णोदकेनाभिषिच्य | तदा धारापात्रं संपूर्य समर्प्य | नमः शंभवे चेति मन्त्रेण लिऽऽन्गोदकं शिरसि संप्रोक्ष्य | यथोष्णोदकादि तोयेन शिवस्य परमात्मनः | अभिषेकं करोत्येतल्लिऽऽन्गोदकमिति स्मृतम् || इति | तदनन्तरं वस्त्रेणोद्वर्त्य भस्मधारणं कृत्वा लिऽऽन्गस्याधः पीठे पादौ विभाव्य | नमस्कृत्य | सम्यक् संपूज्य | ज्ञानपात्रोदकेन पाद्यं दत्वा पादोदकं पाद्यपात्रेण गृहीत्वा तत्पात्रं संपूज्य | इमं मे गऽऽन्गेत्यभिमन्त्र्य कद्रुद्रायेति मात्वारुद्रेति मन्त्राभ्यां शिरः संप्रोक्षणं कृत्वा | लिऽऽन्ग जंगम पादाब्ज संभूताय शिवात्मने | परमानन्दरूपाय पादतोर्भायते नमः || इति संस्मृत्य ऋत गूं सत्यमिति प्राशयेत् | यथा बोधायनसूत्रे- भगवतः पादौ प्रक्षाल्य शंखादिकं प्रपूर्य गन्धपुष्पादिकैरभ्यर्च्य | चरुं निवेद्य | इमं मे गऽऽन्गेत्यभिमंत्र्य | कद्रुद्रायेति मात्वा रुद्रेति मन्त्राभ्यां शिरसि संमार्जनं कृत्वा | ऋतगूं सत्यमिति प्राशयेदिति | पृ० १४) ततः समभ्यर्च्य धूपं दत्वा | चिद्रूप जगदाधार स्थूलसूक्ष्म परायण | नीराजनं गृहाणेशावसरा(परा)ख्यं सदाशिव || इत्यपर नीराजनं दत्वा फलादिकमवसरं च आनन्दपात्रोदकं तथाधारापात्रेणादाय समर्प्य | ततः पुष्पं निक्षिप्य | परिपूर्ण चिदानन्द जलाध्यक्ष सदाशिव | नीराजनं गृहाणेश मज्जनाख्यं सदाशिव || इति मज्जन नीराजनं दत्वा विभूत्याभ्युक्ष्य | पूर्वोक्तवत् पाद्यादिकं ददेत् | ततो नमकादि रुद्रसूक्तैरभिषिच्य | आचमनं दत्वा | वस्त्रेणोद्वर्त्य | विभूतिं सन्धार्य पूर्ववत्पादोदकं स्वीकुर्यात् | स्नपनकर्माऽऽन्ग पादोदक स्वीकारानन्तरं लोहादिपात्रे विधूमे स्फुटाऽऽन्गारं निक्षिप्य | तत्र राजोपचारविधानेनेषदऽऽन्गारतापनं विधाय ततः पूर्वोक्त धूप द्रव्यमऽऽन्गारमध्ये विन्यस्य | व्यजनादि संवीजनं कृत्वा | ततो धूप धूम प्रसारणं प्रथित धूपप्रसारणमर्पितं पृथुतरानन्द संभृतमद्भुतं स्थूलांगपात्रि स्फुट वीक्षणानिलेशालि करणान्वितं जाग्रदाख्यं खेलनं वस्तुनिक्षिप्येष्टलिंगाय हे लाढ्य चन्नमल्लेश नाम्ने || प्रथित || १ || अन्तःशरीर पात्रान्तर्मरुद्धूत स्वान्त वह्नौ षोडशकलान्वितं | मंतप्यमाभासमात्र वस्तु निधाय | कान्त सत्प्राणलिंगाय महते | प्रथित || २ || पटुकारण शरीरपानीकाभाव विस्फुट शिखिनि जीवयुत सुप्त्यवस्थां खटितं पदार्थं सुखप्राप्तिरूपमु- पृ० १५) त्कट भावलिऽऽन्गाय कान्तमतुलं | प्रथित || ३ || परमसिरहं भावपात्रान्त कल्पितसमरसाख्य कृष्णवर्तनि संभृतं चरमतुः | यकं सद्वस्तु गुरु चिदम्बर शिवायैक्यरूपं नितान्तं | प्रथित || ४ || श्रीशैलात्मंगसंस्था भ्रमर तनु शिवाद्वैतभक्ति स्फुटाग्रौ क्षिप्त्या(प्तवा)? द्रव्यं सजीवं जगदिदमखिलं नाम रूप क्रियाढ्यम् | संवीज्य ज्ञानहस्तोल्लसदभय महातालवृन्तेन धूपोदत्तश्श्रीचन्नमल्लेश्वर परशिव तन्मात्र लिंगाय सौख्यम् || इति धूपं दत्वा || तत्प्रसारणं लिंगे निधाय || पूजलु || ५ || ततः प्रत्यगात्मन्महादेव सत्यबोध सुखान्वित | नीराजनं गृहाणेश मऽऽन्गलाख्यं सदाशिव || इति मऽऽन्गलनीराजनं दत्वा | वस्त्रं समर्प्य || ६ || उपचाराणि- सुगन्धाक्षतान् दत्वा || ६ || पूजलु || चन्दनाद्यनुलेपनं दत्वा उपचाराणि || ७ || अव्यक्तभावनातीत भाव प्राणेष्ट संज्ञिक | नीराजनं गृहाणेदं सकर्पूरं सदाशिव || इति मन्त्रेण कर्पूर नीराजनं विधाय | ततः शुभ्राक्षतान् दत्वा || ७ || पूजलु || पुष्पपत्रयुतमाल्यानि समर्प्य उपचाराणि ततः | परब्रह्म महालिंग भावप्राणेष्ट संज्ञिक | नीराजनं गृहाणेश शृऽऽन्गाराख्यं सदाशिव || इति शृऽऽन्गार नीराजनं दत्वा | ततस्तदंगानि विभाव्य तेषु पूर्वोक्त मकुटाद्याभरणानि दत्वा || ८ || उपचाराणि | पूर्वोक्त नानाविध पत्रपुष्पैर्मूलमन्त्रेण वृषभाष्टोत्तरशतनामभिः | रुद्रप्रमथ गण नूतन पुरातन चतुर्मठ गुरु प्रमुख परंपरानुबद्ध भक्तगणनामानि चतुर्थ्यन्त पूर्वकं- पृ० १६) समुच्चार्य संपूज्य || ८ || पूजलु || श्रीवृषभेन्द्राय नमः | ऊं शिवंकराय नमः | ऊं शिवाय नमः | शिवगणाग्रण्यै नमः | शिवमानससंभूताय श्रीमत्सद्धर्मविग्रहाय नमः | शिवधर्माय | शुद्धतराय श्रीकण्ठ परमप्रियाय शिलादतनयाय वीराय श्रीनंदिने नन्दिकेश्वराय सुचारु गमनाय | शुद्धाय | विष्णुवाहन गर्वहृते वेदपादाय भोगिवालाय प्रत्यक्षपरमप्रभवे महाकायाय || २० || महामेरु ककुदये | धवलमूर्तिमते | रक्तासनाय | रक्त? शृंगाय | रक्तदृष्टये | अकल्मषाय | धर्मस्वरूपाय | सुमनसे | शुभदायिने शुभंकराय | भक्ताय | भक्तप्रियाय | भक्तिदायकाय | भक्तिवल्लभाय | द्वितीयशंकराय | दिव्यमहिम्ने | दिव्यभूषाय | चरप्राणिने | मुक्तिदायिने | शान्तिदान्तिकराय || ४० || विभवे | भस्मसंदिग्ध सर्वांगाय | फालनेत्राय भवापघ्ने | भास्कराय | भगवते भव्याय | भवरोग महाभिषजे | सप्तकोटिमहामन्त्रफलजालविवर्जिताय | आमयघ्नाय || ५० || पातकघ्नाय | जन्मघ्नाय | जगतांपतये | जगत्कर्त्रे | भगद्भर्त्रे | प्रलयार्णव तारकाय | पावकाय | प्रमथाधीशाय | परमात्मने | कृपानिधये | पाशमुक्ताय | सदानन्दाय | शाश्वताय | शशिसद्युतये | सनत्कुमारादि गुरवे | महासाक्षिणे | महोदयाय | षडूर्मिरहिताय | साधवे | सारसंसारनाशकाय | निर्मलाय | नित्य कल्याणाय | नित्याय | नित्योत्सवाय | गुरवे | निस्तंद्राय | निष्कलाय | अनन्ताय | निरधाय | निर्विकल्पधिये | ६० || भवाब्धिपोताय | वेदान्तवेद्याय | कारुण्यसागराय | पृ० १७) ब्रह्मादि देवता वन्द्याय | पञ्चाक्षरतनवे | पराय | पारावारमुखसृष्टाय | पशुपाशपराय | अव्ययाय | महास्वनाय | महेशाय | महाकुक्षये | मनोहराय | मत्तदैत्यहराय | देवाय | मात्सर्यावेशवर्जिताय | सर्वज्ञाय | सकलेश समाधिपते | शिवाभिमानसंपन्नाय | १०० || शिवधर्मपरायणाय | भक्तसंरक्षकाय | भक्तदेहाय | श्रीभसवेश्वराय | संनिधये | चिन्निधये | वर्णरूपाय | सर्वार्थसाधकाय || १०८ || इत्यष्टोत्तशतनामभिः संपूजयेत् || रुद्रगणेभ्यो नमः | प्रमथगणेभ्यो नमः | नूतनपुरातन महाभक्तगणेभ्यो नमः | चतुर्मठगुरुप्रमुख परम्परानुबद्ध भक्तगणेभ्यो नमः | वृषभनाम्न मूलम् | श्रीवृषेन्द्रः शिवंकरः | शिवः शिवगणाग्रणीवः | शिवमानससंभूतं श्रीमत्सद्धर्मविग्रहः | शिवद्वजः शिवरतः श्रीकण्ठ परमप्रियः | शिलदतनयो वीरो श्रीनन्दी नन्दिकेश्वरः || सुचारुगमनः शुद्धो विष्णुवाहन गर्वहृत् | वेदपादो भोगिवालः प्रत्यक्ष परम प्रभुः || महाकायो महामेरु ककुद्धवल मूर्तिमान् | रक्ताननो रक्तशृंगो रक्तदृष्टिरकल्मषः || धर्मस्वरूपः सुमना शुभदायी शुभंकरः | भक्तो भक्तप्रियो भक्तिदायको भक्तवत्सलः(ल्लभः) || द्वितीय शंकरो दिव्यमहिमा दिव्यभूषणः | चरप्राणी मुक्तिदायी शान्तिदान्तिकरो विभुः || भस्मसंदिग्ध सर्वांगो फालनेत्रो भवापहः | भास्करो भगवान् भव्यो भवरोग महाभिषक् || पृ० १८) सप्तकोटिमहामन्त्र फलजाल विवर्जितः | आमयघ्नो पातकघ्नो जन्मघ्नो जगतां पतिः || जगत्कर्ता जगद्भर्ता प्रलयार्णवतारकः | पावकः प्रमथाधीशो परमात्मा कृपानिधिः || पाशमुक्तः सदानन्तः शाश्वतः शशि सद्युतिः | सनत्कुमारादि गुरुः सर्वसाक्षी महोदयः || षडूर्मिरहितः साधुः सारसंसारनाशकः | निर्मलो नित्यकल्याणो नित्यो नित्योत्सवो गुरुः || निस्तन्द्रो निष्कलोऽनन्तो निरधो निर्विकल्पधीः | भवाब्धिपातो वेदान्तो वेद्यः कारुण्यसागरः || ब्रह्मादिदेवता वन्द्यः पञ्चाक्षर तनुः परः || पारावारमुखी स्रष्टा पशुपाशह(प)रोऽव्ययः | महास्वनो महेशानो महाकुक्षिर्मनोहरः || मत्त दैत्य हरो देवो मात्सर्यावेश वर्जितः | सर्वज्ञः सर्वशास्त्रज्ञः सकलेशः समाधिमान् || शिवाभिमानसम्पन्नः शिवधर्म परायणः | भक्तसंरक्षको भक्त देहः श्रीबसवेश्वरः || सन्निधिश्चिन्निधिर्वर्णरूपः सर्वार्थसाधकः | अष्टोत्तरशताख्यानि ऋषभस्येरितानि च || पूर्वोक्ति | छत्रं | चामरं | तालवृंत्तं | दर्पणं | घंटानादं | शंखं | १५ || उपचाराणि | तत्तदुपचारमार्गेण निधाय | ततः लिंगाऽऽन्गसंयोग मंगलतीतैः कांस्यादि ताल पुरस्सर गीतं विधाय || १६ || पृ० १९) दीपचारं यथा | गुरुणैव मीदृशं कृपया कृतं सखी मामकं विशति तन्मन्त्रप्रभावेण मानसं मरुदाहितं मल्लिकार्जुने || गुरुः | श्रीदेशिकेन्द्रेण शिवंकरं करकमल निहितं यदा जनिम निगमगम्यं अनिमिषं चक्षुरिवा चिद्घने संस्थितं निर्विषयमादराद्विनुतविभवे || १ || रहसि कर्णेरितं राजितं तन्नाममग्नं लघुस्वान्तमरुत्करंडे पद्माटविंद्रि प्रांगणेष्वखिलेषु नाटितं नानात्मकं जातरुद्यहे || २ || तन्नाम रसपान रसिक रसनावाप्त सरसरसविषयत्त सादजातं चिद्गंधि गन्धवकुनध्व नासापुटेरुल्लबहिराशुगवितानम् || ३ || गुरुः | मुखवादनादिभिर्वाद्यं कृत्वा | १७ | भरत शास्त्र प्रणीत सप्तस्वराख्य(भ्यु)च्चारणपूर्वकं नृत्यं विधाय || १८ || भावनापुरस्सरं पुष्पादिभिः दक्षिणहस्तेन प्रदक्षिणं विभाव्य | १९ | उपचारम् | नमोऽस्तु नीलग्रीवाय इत्यादि मन्त्रैर्नमस्कारं विधाय | नमोऽस्तु नीलग्रीवायेति हंतेभ्यो करं नमः इत्यन्तं नमोस्त्वाचारलिंगायेत्यादि | नमो महात्म्यलिंगिन मित्यन्तं नमः शिवायेति शिवं प्रपद्येत्यादि श्रीमदैपुर सोमेश इत्यादि गुणातीत रुचिव्याप्त इत्यन्तमुच्चरेत् || २० || नमः शब्द उमा साक्षाच्छिव शब्दः शिवः स्वयम् | आयश्शब्दस्तयोर्योगः सोमतत्व मुपास्महे || शिवलिऽऽन्गमुमैवांग मनया संहितः स्वयम् | सोमः सम्बन्ध इत्येवं पदत्रय मुपास्महे || पृ० २०) शिवेन वचसा त्वा गिरिशाच्छा वदामसि | यथा नस्सर्वमिज्जगदयक्ष्मगूं सुमना असत् || नमस्ते षट्स्थल ब्रह्ममूर्तये शुभकीर्तये | स्वसंवेद्याय हृद्याय विद्यारूपाय शंभवे || नमो लिऽऽन्गाऽऽन्गसऽऽन्गैक पदार्थैक स्वरूपिणे | षट्स्थल ब्रह्मणे भक्तिज्ञानयोगात्त वस्तुने || आत्मात्वं गिरिजामतिः परिक(च)राः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः | संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् || कैवल्याधारलिऽऽन्गे घनविमल चिदाकार संपूर्णलिंगे सद्भक्तः प्राणलिऽऽन्गे सतत घनमनः प्रोल्लसद्भावलिऽऽन्गे | पञ्चब्रह्मात्मलिऽऽन्गे परमपदकर ज्योतिरोऽऽन्कारलिऽऽन्गे || नित्यं कैवल्यलिऽऽन्गे निवसतु हृदयं मामकं सिद्धलिऽऽन्गे || सारूप्यं तवपूजने शिव महादेवेति सऽऽन्कीर्तने सामीप्यं शिवभक्ति धुर्य जनता सऽऽन्गत्य संभाषणे | सालोक्यं च चराचरात्मक तनु ध्याने भवानीपते सा युज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्महम् || न तिभिर्नुतिभिस्त्यमीश पूजाविधिभिर्ध्यान समाधिभिर्न तुष्टः | धनुषामुसलेन चाष्टमाभिर्वदते प्रीतिरहं तथा करोमि || क्रियादक्षो दक्षः क्रतु पतिरथ शस्तनुभृता- पृ० २१) मृषीणामार्त्विज्यं शरण दसस्यास्सुरगणाः | क्रतुर्भेषस्त्वत्तः क्रतु फलविधान व्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः || सतां वर्त्मत्यक्त्वा श्रुतिसमधिगम्यं सह भुवं घृणामप्युन्मूल्य स्वजनविषय स्नेह गुणिताम् | द्विजः क्रन्तन् वादे पिरतमपराधं त्वयि विभो मनुष्यत्वं सद्यस्त्रिदशपरिणामे न विजहौ | इत्यादिभिः स्तुत्वा || २१ || अनन्तरं चिदग्निदप्त चित्तादि धूप सौरभ संवृत हृदाकाशसमालीढ चन्नमल्लेश ते नमः || इति पूर्ववद्धूपं दत्वा घृतदीपेन | शच्चिदानन्द संपूर्ण नित्य निर्गुण निश्चल | महानीराजनं शम्भो दास्यामि तव शंकर || इति महानीराजनं दत्वा | करदीपिकान् शालिपिष्ट प्रमुखै स्फुरद्दीप समाराव वीरदुग्धफलायतो | मल्लिकार्जुनलिऽऽन्गाय मंगलं चन्न संज्ञिके || वेल्लत्सौधामिनीरूपा चिल्लतालिऽऽन्गिताऽऽन्गिने | चन्नमल्लेशलिऽऽन्गाय मऽऽन्गलं शमनारये || सच्चिदानन्दरूपाय षड्लिऽऽन्गाऽऽन्गस्वरूपिणे | चन्नमल्लेशलिऽऽन्गाय हराय मदनारथे || प्रमथप्रभवे लिऽऽन्गरूपाय शिवयोगिने | गुरवे प्रभवे तुभ्यं मऽऽन्गलं मऽऽन्गलात्मने || श्रीगुरुप्रतिबिम्बाय चिन्मयाय शिवात्मने || पृ० २२) श्रीगिरि प्राणभूताय श्रीगुहेशाय मऽऽन्गलम् || नेति नेतीति नेत्यर्थ रूप देहेन्द्र चापवत् || भासमानाय चिद्व्योमस्वोल्लमाय सुमऽऽन्गलम् | कराब्जन्यस्त चिद्भानु घनलिऽऽन्गाय तेक्षणा . . || चिन्मात्र गात्रसंरक्ष गुरवे ते ऽस्तुमऽऽन्गलम् || बिन्दुमन्थानमथनो बुद्ध पावक दग्धपत् | लिऽऽन्ग हरि तनुत्राण गुरुवे ते ऽस्तु मऽऽन्गलम् || सान्द्रचन्द्रावटोर्ध्वोक्त त्रिपुटीयोगबोधका | चन्द्रशेखरमन्नाथ गुरवे तेऽस्तु मऽऽन्गलम् || एतच्छ्लोकैः करदीपिकान् दत्वा | मदिष्टलिंगाय मऽऽन्गलं चन्नमल्लेशलिऽऽन्काय मऽऽन्गलम् मदिष्टलिऽऽन्गाय मऽऽन्गलम् | तरु करपल्लववर्तित मूर्तये मदिष्टलिऽऽन्गाय मऽऽन्गलम् | भक्तिक्षणाशुग पातितदेहाय व्यक्तार्णरूपाय व्यापिने भक्तमनः प्राणबद्ध शरीराय भक्ताऽऽन्गभोग सुशालिने | मदिष्ट | भक्ताक्षी(क्षि) जालप्रसक्त सुगात्राय भक्तेष्टदांचित भाविने भक्तस पञ्जरमञ्जुल शुकवद्भक्त सुविषय फलाय ते || २ || मदिष्ट | भक्तावलोकन प्रसर्व गुंभित सक्तचित्त परिशोभिने भक्तात्मकज कलपिकवच्छर्वित भक्तसु विषय प्रवालते || ३ || मदिष्ट | इत्यादि नानाविध मंगलगीतैः डमर्वाकार शालिपिष्ट कृतारा त्रिकाणि दत्वा | तद्दीपैः पार्श्वेषु पश्चात्पुरस्ताच्चा- पृ० २३) लनं कृत्वा || ८ || पूजलु | भक्तिमेव परां देहि त्वत्पदे निश्चलां मम | सोमेश्वर कृपामूर्ते नान्यमिच्छाम्यतः परम् || कृपालय कृपाराम कृपाकर कृपानिधे | कृपासिन्धो कृपाबन्धो कृपाभरण पाहिमाम् || लिऽऽन्गं साक्षात्करस्थं हि मकरशिखिवद्वीक्षितम् | यन्मन्दं मन्दं समन्ताद्घनतर निज तेजः प्रभावं प्रकुर्वन् ज्योतिस्स्तंभाकृतिस्सवपुरिदमव गृह्णातु शंभो || यदीयं प्रारब्धस्यावसाने कृपयासु कृपया ये करोयम् | ममेव || शंभो शरीरेण सहाहमस्मिन् लिऽऽन्गे तदीय परमप्रकाशे लीनो यथा स्यात्कृपया तथैव प्रायोऽन्त्यकाले कुरु मे वरोऽयम् || इत्यादि श्लोकैः याञ्च्ञां कृत्वा | २२ || निजनिजेषु पदेषु पतं त्विमाः करणवृत्तय उल्लसिता मम | क्षणमपि शमनागममपि नह्य भूत्वदविभेद रस क्षति साहसः || यद्यवज्ञातमज्ञात सर्वं चाज्ञात मंदरा | तद्वत्वदन्यत्सकलमज्ञातं तध्युमेश मे || स्वयं प्रकाशे परमात्मलिंगे करस्थलस्थो मम देह एषः | तिरोहितः स्यादिह चित्र हेतुः कृपीट योना विव हैमखंडः || कर्पूर निर्मलसुगन्धि शिवाऽऽन्गमस्मिन् विन्यस्त शस्त सहजप्रभ दीप रूपम् | लिंगं ममैतमभयं निजभक्ति योगात् अन्ते महागुरुपदे प्रविलीन मस्तु || पृ० २४) एतद्विज्ञाप्य | असमर्थश्चेच्चनुरूपचाराणां | नमः शिवायेत्येकश्लोक प्रवालम् || २३ || ततो नैवेद्याख्य पूजा कर्तव्या | तल्लक्षं तूच्यते | अथ सर्वेषां पूजोपचाराणां प्रधानरूप नैवेद्यार्पणमुच्यते | आद्येष्ट लिऽऽन्गार्पण विधाने शिवभाजने मूलेन विभूतिं निक्षिप्य | गुर्वाहार प्रमाणान्नं पात्रे शाकसमन्वितमिति वचन प्रमाणात् व्यंजे भक्ष्य भोज्य लेह्य चोष्य पानीयादीनि तत्तदाधारपात्रेषु यथा योगं निक्षेपणानन्तरं शरणुपूर्वकं पाचक मुखात्पूर्वोक्त चतुविधाहार द्रव्याणि सूपव्यंजनान्तर्गत षड्रसान्त प्रयुक्त मिश्ररसयुक्त क्षीरदधि तक्र घृततिन्त्रिणीरस गुडोदकादि रसद्रव्याणि तत्तन्मिश्ररूपं यथा योगमाकर्ण्य तत्पदार्थनामानि कटु तिक्ताम्ल मधुर क्षार कषायान्वित व्यञ्जन मिश्रितो परस नामानि स्वकीय श्रोत्रेन्द्रियकरेण स्वेष्टलिंगस्य श्रोत्रेन्द्रिय समर्पणं कृत्वा तत्प्रसाद सुखमनुभवन् तत्पदार्थरूपाणि स्वकीय नयनेन्द्रीय करेण स्वेष्टलिऽऽन्ग नयनेन्द्रियस्य समर्पणं कृत्वा तत्प्रसादावलोकन सुखमनुभवन् तत्पदार्थ भावना समये स्वकीय मानसकरेण स्वेष्टलिऽऽन्गस्य मानससमर्पणं कृत्वा तत्प्रसादावलोकन सुखमनुभवन् तत्पदार्थसंस्पर्शन समेलन समये तन्मृदु कठिन शीतोष्णानि स्वकीय करोदरेण स्वेष्टलिऽऽन्ग करेन्द्रियस्य समर्पणं कृत्वा || तत्तत्पदार्थस्पर्श सुखमनुभवन् | एवं तत्तत्प्रसाद समर्पण समये कर्मणा- पृ० २५) मनसा वाचा त्रिविधेनार्पणं शुभमिति वचनात् त्रिविधार्पणं कर्तव्यम् | त्रिविधार्पण भेदमाह | पञ्चभक्ष्यान्न कन्दमूलफल पत्र शाकादि व्यञ्जनानि पयोदधि घृतादि रसद्रव्याणि स्वकीयकरेण पुनः पुनरभिमर्शनपूर्वकं स्वेष्ट लिऽऽन्गार्पितं चेत्तत्कर्म क्रिया कृतं भवति | तत्तद्भक्ष्य भोज्य लेह्य चोष्यपानीयादिपदार्थ जातमिश्रितो परसखेदान् नानाविध सूपानि नानापक्वान्नानि तत्कट जलान्तर्गत सिक्थ परं पराणि तत्तद्व्यजनपिण्डितमुद्गलानि फलान्तर्गत बीजत्वं गत लता स्वीकार विसर्जनभेदानि दीपितानल सूर्य चन्द्राल्प प्रभा मिश्रछाया वायव्यतैजस पार्थिव परमाणु मिश्रितावकाश मिश्राणु मारुत बहिर्मारुतोप मारुत मिश्रगन्धपुष्प फल धूप सौरभ मिश्रित धूप धूम पावक वाष्पजलमिश्र पाकमिश्र रसमिश्र रागमिश्र रूपमिश्र रुचिमिश्रित भेदाः लिऽऽन्गोपभोग भावनापुरःसरं पर्यायेण स्वेष्टलिऽऽन्गार्पितं चेत् मानसक्रिया कृतं भवति | यद्यच्छाल्योदनाद्यन्नान्यपूपानि मुद्रादि नानासूपाः तयद्व्यंजनान्तर्निक्षिप्त लवण शर्करा मधुरस मरीच्यादि क्षार तिंत्रिणी फल साध्याम्लेला घनसारादि नानापरिमलद्रव्य पयोदधि घृतादिरसाः तत्तत्कालोचित यथासंभव पदार्थजातानि तत्तन्मिश्रादिनामोच्चारण पुरःसरं व्याकृतं भवति | स्वेष्टस्य कर्म वचः क्रियार्पण समये भक्ते चेव लिंगेच्छेति व्यवहारत्वात् | पृ० २६) तत्पदार्थेषु स्वापेक्षामार्ग मनुस्मृत्य तद्विधान क्रमेण पदार्थ जातानि यथा प्रीतिस्तथैव तत्तन्मिश्रद्रव्यादिनामान्युच्चार्य क्रमेण सावधानेन मूलमन्त्रेणैकवारमाचारादि षड्लिऽऽन्ग नामभिः षड्वारं षड्लिऽऽन्ग नामोच्चारणेनैकवारं एवमष्टवारेण प्रति द्रव्यजातं क्रमेण समर्पयेत् | मध्ये मध्ये पानीय * * वनादीन् | यथा गोगमिति भावनया समर्पयेत् | तदुच्यते- प्रधानरूप नैवेद्यार्पणप्रभावमेव परमरहस्यादितन्त्रेषु शिवेन निर्दिष्टं श्रीमन्मायिदेवाचार्येणानुभवसूत्र विशेषार्थप्रकाशादि ग्रन्थेषु सम्यग्विष्टं श्रीचन्नबसवेश्वरादिभिर्मिशार्पणादि ग्रन्थेषु कायकरण भावार्पण विधानेन सम्यग्विरचितं श्रीसोमनाराध्येन बसवराजीय भाष्ये प्रसाद प्रकरणे बहुधा विश्रुतं तदपि लिख्यते | शिवलिऽऽन्गनिर्माल्यं षड्विधमाहुः | देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् | चण्डद्रव्य बहिःक्षिप्तं निर्माल्यं षड्विधं तथा || देवस्वं ग्रामभूम्यादि दासीदास चतुष्टयम् | हेमरौप्या च रत्नादि देवद्रव्यमितिस्मृतम् || यत्संकल्प्य तु देवाय पत्रं पुष्पं फलं जलम् | अन्नपानादि तत्सर्वं नैवेद्यमिति कीर्तितम् || एतत्त्रिविधमनर्हं(म्) | श्हिवोपभुक्तस्रग्गन्धमन्नपानादिकं तथा | निवेदितमिति प्रोक्तं सर्वपाप हरं परम् || पृ० २७) बाणलिऽऽन्गे चरे लोहे रत्नलिऽऽन्गे स्वयंभुवि | प्रतिमासु च सर्वासु न चण्डाधिकृतं भवेत् || स्थापिते विधिना लिऽऽन्गे सर्वैर्देवासुरैर्नरैः | एतत्त्रिविधनिर्माल्यं चण्डेशाधिकृतं शिवे || बहिःक्षिप्त मनर्हं हि अन्यद्रव्यत्व कारणात् | पिशाचानां च सर्वेषामधिकारो हि सर्वदा || इति षड्विधप्रसादेषु निवेदित प्रसाद एव प्रसादभोक्तृर्णामर्हो भवति | तं निवेदितं प्रसादं द्विविधमाहुः- भोज्यं धार्यमिति | भोज्यमिति भक्ष्य लेह्य पेयादीनामुपलक्षणम् | यथा स्कान्दे- निर्माल्यं द्विविधं प्रोक्तमन्नपानं च भूषणम् || श्रीलैंगे- फलं पुष्पं सुगन्धं च वस्त्रमाभरणानि च | लिऽऽन्गार्पितं च स्वीकुर्यादन्यथा किल्विषं भवेत् || भोज्यं लेह्यं च चोष्यं च यच्चलिऽऽन्गार्पित शुभम् | नो चे चिष्टान्नमिश्रं तु प्रसादो निष्फलं भवेत् || बह्वपि स्तोकमेवापि शिष्टान्नेन विमिश्रितम् | अनर्पितं च भुञ्जानस्तथैवोन्नत किल्बिषम् || अस्मिन्नर्थे श्रुतिरप्यस्ति- निर्माल्यं एक भक्षयन्ति निर्माल्यमेवाश्नीयात् इत्यादि श्रुत्यागम प्रमाणात् भाण्डशिष्टान्नादि पदार्थ जातमपि वर्जनीयम् || खाद्यानि छादनीयानि पेयाद्यन्नानि यानि वै | तानि देयानि शम्भोर्वैर्मैवाश्नीयाद्दास भावतः || पृ० २८) श्रीलैंग्ये- भोज्य लेह्यश्च चोष्याश्च ये च लिऽऽन्गार्पिताः परे | लिऽऽन्गोच्छिष्टं तु भुञ्जीत प्रसादास्तदुदाहृताः || इक्षु खण्डफला पूपा खाद्यानि व्यञ्जनानि च | प्रसाद एव भोक्तव्यश्चान्यद्गोमांसविट्समम् || इक्षु रम्भाफलादीनि सखण्डानि निवेदयेत् | द्राक्षाखर्जूर चूतानि न्यखण्डानि निवेदयेत् || इत्यादि भक्ष्य भोज्य लेह्यपानीय चोष्यादीनि चान्यानि शिवलिऽऽन्गस्यैकवारमेव समर्प्य तत्प्रसाद एव कार्यः | आत्मापेक्षा परिमितान्नमेकवारमेव लिऽऽन्गभाजने निक्षिप्य स्वेष्टलिऽऽन्गस्य समर्पणं कर्तु मनर्हमिति केचन वदन्ति | तथा न भवति | स्वकीय गुरुलिऽऽन्गाभ्यवहार परिमितान्नमेकवारमेव लिऽऽन्गभाजने निक्षिप्य | तत्तु लिऽऽन्गस्य प्रत्येकपदार्थैः समर्पितं भवति चेत् विरोधाय न भवति | तत्पदार्थार्पण भेदमाह- भक्ष्य भोज्य लेह्य चोष्य पानीयानि पयोदधितक्र घृततैलादि रसानि कन्दमूलफल पत्र शाक सूपादि व्यंजनानि क्षीरोदन मुद्गोदन शाल्योदनादि बहुविधोदनानि द्राक्षा रम्भा चूतादि फलानि चान्यानि षड्रसोपेत पदार्थजातानि तत्तत्कालोचित यथासंभव पदार्थजातानि स्वेष्टलिंगभाजने निक्षिप्य तत्समये पाचक मुखादाकर्ण्य तत्पदार्थ नामानि कटु तिक्ताम्ल मधुर क्षार कषायान्वितत व्यञ्जनमिश्रितो प- पृ० २९) रसनामानि स्वकीय श्रोत्रेन्द्रियकरेण स्वेष्टलिंगस्य श्रोत्रेन्द्रियस्य समर्पणं कृत्वा तत्प्रसादसुखं श्रोतुमर्हो भवति | तत्पदार्थरूपाणि स्वकीय नयनेन्द्रीयकरेण स्वेष्टलिऽऽन्ग नयनेंद्रियस्य समर्पणं कृत्वा तत्प्रसादावलोकनसुखमनुभवितु मर्हो भवति | तत्पदार्थ भाव न समये स्वकीय मानसकरेण स्वेष्टलिऽऽन्ग मनसि समर्पणं कृत्वा तत्प्रसाद भावना सुखमनु भवितु मर्हो भवति | तत्पदार्थसंस्पर्शन संमेलन समये तन्मृदु कठिन शीतोष्णानि स्वकीय करोदरेण स्वेष्टलिऽऽन्ग करोदरस्य समर्पणं कृत्वा तत्तत्प्रसाद संस्पर्शन सुखमनुभवितु मर्हो भवति | तत्प्रसादसमर्पण समये कर्मणा मनसा वाचा त्रिविधेनार्पितं शुभम् | नो चेदसमर्पितं भुऽऽन्क्ते प्रसादो निष्फलं भवेत् | एवमादिवचनप्रमाणात् तत्त्रिविधार्पणं सर्वदा कर्तव्यमेव | तत्त्रिविधार्पणभेदमाह- पञ्चभक्ष्याद्यन्नानि कन्दमूलफल तत्त शाकादि व्यञ्जनानि पयोदधि घृतादि रसद्रव्याणि स्वकीय करतले तत्तत्पदार्थजातानि पुनः पुनरभिमर्शनपूर्वकं स्वेष्टलिऽऽन्गार्पितं चेत् तत्कर्म क्रियं कृतं भवति | तत्तद्भक्ष्य भोज्य लेह्यपानीय चोष्यादिपदार्थ जातादि मिश्रितो परसभेदान् नानाविधसूपानि नानापक्वान्नानि तत्कलान्तर्गत सिक्थपरंपराणि तत्तद्व्यञ्जन पिण्डित मुद्गलानि फलान्तर्गत बीजत्व ग्लत लतादि स्वीकार विसर्जन भेदानि दीपिता | नल | पृ० ३०) सूर्य चन्द्रातपप्रभामिश्रित छाया वायव्य तैजस पार्थिव परमाणुमिश्रितावकाश मिश्राणु मारुत बहिर्मारुतोपमारुतमिश्र गन्धपुष्प फल धूप सौरभमिश्र रागमिश्र रूपमिश्र रुचिमिश्रित भेदाः लिऽऽन्गोपभोग भावना पुरस्सर पर्यायेण स्वेष्टलिऽऽन्गार्पितं चेत् मानसक्रिया कृतं भवति | यद्यच्छाल्योदनाद्यंनानि अपूपादि पक्वानि मुद्गादि नानारूपाः तत्तद्व्यंजनान्तर्निक्षिप्त समुद्रलवण शर्करादि मधुरस मरीच्यादि क्षार तिन्त्रिणी फलरसाद्याम्लैला घनसारादि परिद्रव्य पयोदधि घृतादि रसाः तत्कालोचित यथासंभव पदार्थजातानि तत्तन्नामोच्चारण पुरस्सरं स्वेष्टलिऽऽन्गार्पितं चेद्वा क्रियाकृतं भवति | तत्त्रिविधार्पणानन्तरं तत्तत्प्रसादस्वीकारसमये रूपं समर्पये द्रव्य रुचिमप्यर्पयेत् | तत उभयार्पणहीनं चेत्प्रसादो निष्फलं भवेत् इति वचनप्रमाणात् स्वकीय जिह्वेन्द्रिय भाजने तत्तत्पदार्थान्तर्गतं रुचि निक्षिप्य मानसकरणेन स्वेष्टलिऽऽन्गस्य जिह्वेन्द्रियस्य समर्पणं कृत्वा तत्प्ररुचि मनुभवितु मर्हो भवति | अन्यथा हरणमाह- ब्रह्माण्डपुराणे- ईश्वरपितामहसंवादे- नैवेद्यं दुरतो न्यस्तं दर्शनात् स्वीकृतं मया | रसान् भक्तस्य जिह्वाग्रादश्नामि कलोद्भव | इत्यादि वचन प्रमाणात् शिवैक निष्ठा परैर्वीर व्रताचारनिरतैः शिवभक्तै जिह्वाग्रे प्राणलिऽऽन्गस्य यद्यत्कर्मणा वचन- पृ० ३१) वचन पूर्व समर्पित पदार्थरूपान्तरगत रुचिं स्वजिह्वा पेक्षा विच्छया सावधान मनसा समर्पितं तदेव शिवार्पितं भवति | तदैव खलु घ्रात सृ(स्पृ)ष्ट्या देर्यस्मिन् सत्यपि निषेध पाकदशायां परिचारकैः तथा कृतमपि शिवोपहारा | एव तथा स्कान्दे- समाघ्रातं परिस्पृष्टं यथादृष्टं मनीषया | शिवाय कल्पितं वस्तु न किञ्चिदपि दूष्यते || इति | तत्तत्पदार्थेषु स्वकीयानपेक्षा समर्पणं न विरोधाय भवति || क्रियातिलके- शुद्धशैव प्रसादे च शुचित्वं यो न भावयेत् | सोपि याति नरो घोरं नरकं कालमक्षयम् || सुप्रतिष्ठित लिंगस्य न यथा पूर्वभावना | तथा शिवप्रसादस्य पूर्व नाम न संस्मरेत् || गवां सर्पिः शरीरस्थं न करोत्वात्मभूषणम् विकृतं कर्मरुचितं पुनःस्तासां तु भेषजम् | एवमन्तःशरीरस्था सपिवत् परमेश्वरः || विना चोपासनाद्देवो न करोति हितं नृपम् || इति वचन प्रमाणात् बाह्यार्पणमेवालमिति केचन वदन्ति | मन एव मनुष्याणां कारणं बन्धमोक्षयोः | यथा ह्यालिंगते पुत्रो न तथा लिंग्यते पतिः || इति वचनादभ्यन्तरार्पण मेवालमिति केचन वदन्ति | तत्तथा न भवति | यजुर्वेदे- यद्धि मनसा ध्यायंति तत्वा भावदति पृ० ३२) तत्कर्मणा करोतीति श्रुत्यागमवचन प्रमाणात् वाग्विज्ञापनं मनोभावनं क्रिया समर्पणं त्रिकरण शुद्धं बाह्यान्तरे वार्पणमेव देवस्यार्पणं भवति | कात्यायन गृह्ये पन्थानं गच्छन्नभिमन्त्रयते नमो रुद्राय प्छु(प्सु)षदे स्वस्ति मां सम्पादया वनं गच्छन्नभिमंत्रयते- नमो रुद्राय वनस्पते स्वस्तिमान् सम्पादय | आपो च्यवयंनभिमन्त्रयते नमो रुद्रायाप्छुषदे स्वस्वमान् संपादया तस्माद्य तस्माद्यत्किंचन कर्म कुर्वन् स्यात् सर्वान् नमो रुद्रायेत्येवं कुर्यात् | अस्यार्थः- पाथा(पन्था)नं पादुकाभ्यां युक्तो वा(त)त्प्रसादरर्थ हयांदोलन गजादिवाहनारूढो गच्छन् नमो रुद्रायेति मन्त्रेणाभिमन्त्रपूर्वकं तत्पथगमनागन समर्पणं कृत्वा पथिषदे पथीनां पतये नमः | ये पथां पथिरक्ष च पत्थीनांपते स्वजनमानं पादय तद्गमनागमन सुखं परिपूरय इति विज्ञाप्य तत्प्रसादतः प्रसादमार्गेषु पदे पदे समर्प्य गच्छति | तत्प्रकारेण पुनरागच्छति वनं गच्छन् वनं प्रवेश निर्ध(र्ग)मनसमये तद्वनान्तर्गत छायातप शीतोष्ण सुखानि चाऽऽन्कुरित पल्लवित कोरकित कुसुमितफलित नानावृक्षछायावलोकनसुखानि तत्तत्प्रसूनपत्रफल परिमलानुभव सुखानि शुक पिक भृऽऽन्ग मराल बर्हिणादि नाना मृदु मधुर कोमल निनद श्रवणसुखानि समर्प्य | वनस्पतये वृक्षाणां पतये आख्यानां पतये नम इति वचनानामधिपतये स्वस्ति मां सम्पादय | तत्प्रसादसुखमापूरय इति विज्ञाप्य | तत्प्रसादभागी तत्तत्प्रसाद वनान्तर्गमनागमन प्रसादसुखमनुभवितु मर्हो भवति | पृ० ३३) आपोच्यवयं अहमवगाहन समये नमो रुद्रायेति मन्त्रेणाभिमन्त्रणपूर्वकं तत्तज्जलप्रवेश निर्गमन तत्सुखित शीतोष्ण सुख समर्पणं कृत्वा | अप्छुषदे नमः शिवाय नमः | स्वर्याय चावार्याय च नमः प्रतरणाय चेत्तरणाय चेति चेतर्धानि प्रचरन्ति च इत्यपामधिपते स्वस्ति मां संपादय तत्प्रसादसुखमारोपय इति विज्ञाप्य प्रसादी तत्प्रसाद जल स्वीकार सुखमनुभवितु मर्हो भवति | तस्मात् किञ्चन कुर्वन् तत्सर्वं नमो रुद्रायेत्येवं कुर्यात् | लिऽऽन्गार्पितं च सर्वत्र बाह्याभ्यन्तरमेव च रूपद्रव्यस्य बाह्येषु निरूपं चान्तरेषु च रूपं समर्प्य द्रव्यस्य रुचिमप्यर्पयेत् | तत उभयार्पणहीनं चेत्प्रसादो निष्फलं भवेत् | बृहतिकालोत्तरे- गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानो मैथुनेरतः | यः शिवार्पित चेतस्को भक्तिमान् स तु नान्यथा || संयोगेषु वियोगेषु चाणुमात्र सुखानि च | यः कुर्यादिष्टलिंगे तु सावधान निरन्तरम् || वातूलतन्त्रे- या या क्रिया विधातव्या प्रस्तुतो जायते पुरा | तां तां कुर्यान्महादेव समर्पणधिया सुधीः || उपभोगाय पुरतो वस्तु यद्युपसंस्थितम् | तत्तत्समर्प्य देवाय स्वीकार्यं भक्तितत्परैः || इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् | तत्तत्प्रसादभोक्तव्यस्तदिन्द्रिय मुखेन च || पृ० ३४) तथा- त्वक्चक्षुः श्रोत्र जिह्वा घ्राणेन्द्रियादागतानि | स्पर्शरूपशब्द रसगन्धादि विषयसुखानि | आत्मनो निच्छया स्वेष्टलिऽऽन्गस्य सावधानेन मनसा सम्यक् समर्प्य | तदनन्तरं तत्प्रसादसुखमनुभवितु मर्हो भवति | यदिन्द्रियमुखोत्येयं तदिन्द्रियमुखाच्चरेत् | अन्येन्द्रियोपभुक्तं चेदनर्हं भूषणादिवत् || रुद्रेणात(त्तं) मश्नंति रुद्रेण पीतं पिबन्ति रुद्रेण घ्रातं जिघ्रन्ति इति लक्षणादित्यादि | अयं प्रकारः- आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः | तेषामभावे कृत कर्मनाशः कर्मक्षये याति समर्प्यकोन्यः || इति शिवोक्त वातूलवचनं | इदं मन्त्रोपनिषदुपबृंहणं | क्रियातिलके- अभाव्य भाव्यमासाद्य ह्यस्थाने स्थानमाचरेत् | एतद्द्वय परिज्ञानी प्रसादी सावधानकः || असमर्प्य यदीशाय वस्तु किञ्चित् कदाचन | कथंचिन्नोपभुञ्जीत शिवभक्ति परोनरः दीपान्तमुपचारं स्यान्नैवेद्यान्तं तु पूजनम् | तस्मान्नैवेद्यहीनं चेत् पूजा लोपो भवेत् सदा || तत्तत्प्रसादभोगान्तं नैवेद्यार्पण मुच्यते | प्रसादा दानहीनं चेदर्पितं चापि निष्फलम् || व्रतोपवासनियमैर्येन केनापि हेतुना | पृ० ३५) पूजाप्रसादलोपश्चेदसौ नाप्नोति तत्फलम् | उपवास सहस्राणि प्राजापत्यशतानि च || शिवप्रसादसिक्थस्य कोट्यंशेनापि नो समाः | आदित्यपुराणे- एक एवेति यो रुद्रः सर्ववेदेषु गीयते | तस्य प्रसादलेशेन मुक्तिर्भवति शांकरी || तिल षोडशभागं च तृणाग्राम्बुकणोपमम् | पादोदक प्रसादान्न सेवया मोक्षमाप्नुयात् || प्राणलिऽऽन्गिप्रसादस्यान्नोपवासादिकं चरेत् | मोहाद्यदाचरेत्तस्य प्रत्यवायो महान् भवेत् || पूजका बहवः सन्ति भक्ताः शतसहस्रशः | तत्र प्रसादपात्रं तु द्वित्रिभ्यो नैव पञ्च षट् || प्रसादभोक्तृर्न् निन्दन्ति ये जना भक्तिसंयुतान् | ते यान्ति पितृभिः सार्धं नरकं नात्र संशयः || शिवप्रसादमाहात्म्यं सिद्ध किन्नर गुह्यकाः | विष्णु प्रमुख देवाश्च तेन जानन्ति किं नराः || इति सोमानार्येण बहुधा प्रणीतं मिश्रार्पणायाम्- कायकरण भावार्पण मिश्रभेदानि रूपितः | तद्विस्तरभयान्न लिख्यते | तत्रैव द्रष्टव्यम् | तथा अनुभवसूत्रे- मायि देवाचार्येण लिऽऽन्गार्पण सद्भावाधिकरणे- यद्रूपमर्पितं लिऽऽन्गे तद्रूपं भोक्तुमर्हति | पृ० ३६) रूपान्तरं न भोक्तव्यं भुक्तं चेत्तदनर्पितम् | यथा भुक्ति क्रिया पुंसि क्रमेणानु प्रवर्तते || तथार्पण क्रियालिऽऽन्गे क्रमेणानु प्रवर्तते | पूजादौ पूजान्तं भवेदयं भक्तितः | पदार्थ तनुः पूजान्तात्पूजादेः प्रवदेत् पुनरेष हि प्रसाद तनुः पदार्थ कायः पूजायां भक्तो भक्तिप्रभावतः प्रसादः कार्यः | पूजान्तात्पुनः पूजाक्रिया पथिलिऽऽन्गस्यावसरे यत्तद्द्रव्यं दत्तं शुभं भवेत् | आत्मनोवसरे दत्तमशुभं तदनर्पितम् || स्थलान्तरे- लिऽऽन्गस्य पूजा बेलायां द्रव्यं दत्तं शुभं भवेत् | अनावसरिकं दत्तमशुभं तदनर्पितम् || इति वचनात् | स्वेष्टलिऽऽन्गपूजावसरे द्रव्य समर्पणं कर्तव्यम् | तत्प्रसाद भोगान्तरे पुनः पूजाक्रिया पर्यन्तं प्रसाद काय त्वात् पुनः पूजाग्री मन पर्यन्तं आत्मेच्छादत्तमनर्पणमिति पूर्ववचन प्रमाणात्वात् पूजाद्वयमध्येऽर्पणावकाशो नास्ति | तथापि अऽऽन्गे प्राणलिऽऽन्ग सन्निधानत्वात् अऽऽन्गस्य लिऽऽन्गत्वात् भक्तेच्छेवलिऽऽन्गेच्छेति विभाव्य कैश्चिचरणैर्मनीषिभिः विभूत्युदकपात्रपूजां सम्पाद्या पक्वद्रव्यावसरं कृत्वा गृह्यते | तदस्माभिर्नज्ञातमीश्वरो वेद पक्वद्रव्य भक्षणे पुनः पूजायां अष्टविधार्चने किञ्चिद्रऽऽन्गवल्लीं सम्पाद्य तदर्प्यते | तदपि शिवो देव एवं मनोवाक्काय त्रिविधार्पणानन्तरं तत्प्रसाद स्वीकार- पृ० ३७) समये- रूपं समर्पयेद्द्रव्यं रुचिमप्यर्पयेत्ततः | उभयार्पणहीनं चेत् तत्प्रसादो निष्फलं भवेत् | इष्ट लिऽऽन्गार्पितं शुद्धं प्राणलिऽऽन्गमुखार्पितम् || सिद्धं ततः प्रसिद्धं हि भावलिऽऽन्गार्पितं विदुः | तत्तदर्पणतो लब्धं प्रसादं तं तमादरात् | भुऽऽन्क्ते ह्यात्मा स्वयं विश्व तैजसः प्राज्ञरूपतः || जाग्रत्स्वप्नसुषुप्त्यादि सर्वावस्थासु सर्वदा | लिऽऽन्गार्पितोपभोगेन निर्लेपोऽयं न संशयः || त्रिषु धामसु यद्भोज्यं भक्ता भोगश्च यो भवेत् | त्रिविधं प्रतियो वेद स भुञ्जानो न लिप्यते || यथा कालोचितैर्द्रव्यैर्यदृच्छासंभवैः स्वयम् | स्वोपभोगाय यत्कार्यं त्रिषुलिऽऽन्गेषु सादरम् || तत्क्रियार्पणमित्याहुरर्पणैक विशारदाः | आत्मोपभोग्यजातानि द्रव्याणि त्रिविधानि हि || स्थूलाख्यं प्रविलिक्ताख्यमानन्दाख्यमिति त्रिधा | स्थूलं द्रव्यं भवेद्रूप प्रविलिक्तं रुचिर्भवेत् || आनन्दस्तु भवेत्तृप्तिरेनरेव पृथक् क्रमात् | बहिरऽऽन्गार्पणे रूपं अन्तरऽऽन्गार्पणे रुचिः || आत्माऽऽन्गार्पणमेवात्र तृप्तिरित्यभिधीयते | रूपद्रव्यार्पको विश्व इष्टलिऽऽन्गे स्वभावतः || पृ० ३८) रुचिद्रव्यार्पकः साक्षात् प्राणलिऽऽन्गे तु तैजसः | भावलिऽऽन्गे सदा प्राज्ञेस्तृप्ति द्रव्यसमर्पकः || इति ब्रह्माण्डपुराणे शिलेनोक्तम् | नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं मया | रसान् भक्तस्य जिह्वाग्रादश्नामि कमलोद्भव || इत्यादिवचनैः भक्तजिह्वापात्रे शिवस्य तृप्तिरिति सर्वशास्त्रप्रसिद्धत्वात् तत्प्रसादस्वीकार समये स्वकीय जिह्वेन्द्रिय भाजनेन तत्तत्पदार्थान्तर्गत रुचिं निक्षिप्य मानसकरणेन स्वेष्टलिऽऽन्ग जिह्वेन्द्रियस्य समर्पणं कृत्वा तत्प्रसाद रुचिं तृप्तिर्यथा भवति तावत्सावधानेन सर्वमशेषं भुञ्जीत | तदनन्तरं रेणुकेनोक्तैक्यस्थले अंगलेपनं स्मृत्य निर्द्रवमुदकादिकमऽऽन्गलेपं कृत्वा तत्समये- भाण्डो देहो भाजनं चेन्द्रियाणि जीवात्मायं द्रव्यरूपो यदन्नम् | भक्त्या लिऽऽन्गायार्पयित्वा तदस्मै शेषीभूतं तं प्रसादं भजस्व || नेति नेतीति नेतीति शेषितं यत् परं पदम् | निराकर्तुमशक्यत्वात्तदस्मीति सुखी भव || नाहमनात्मो पश्चात्कोहं योहं पदस्थात्मसाक्षी सोहम् | तत्पति शिवदासोहं दासोहमिति चरेदुपरिचारैः || इत्यादि श्लोकानुभवाः मनन पुरस्सरं स्मर्तव्याः || १० || पूजलु || अनन्तरं सामान्यार्घ्य कलश स्थित हस्तोदकेन हस्तप्रक्षानलं पृ० ३९) विधाय लिऽऽन्गस्य विभूतिं धृत्वा परानन्द चिदाकार परब्रह्मस्सनातना नीराजनं गृहाणेश आनन्दाख्यं सदाशिव || इत्यानन्द नीराजनं दत्वा पूर्वोक्तरीत्या ताम्बूलं समर्प्य स्वलिऽऽन्ग जिह्वया तद्रुचिं सम्यगनुभूय || ११ || पूजलु | यो ब्रह्माणं विदधाति पूर्वं नमस्तेऽस्तु भगवन् इति रुद्रसूक्तिभिः पुष्पाञ्जलिं निक्षिप्य | अनन्तरं दीपान्तमुपचारं स्यादिति मार्गेणा खण्डित परमानन्द बोधरूप महागुरो ङीराजनमसंख्यातं गृहाण करुणानिधे | इति गुरुरूपमसंख्यातात्मक गुरु नीराजनं दत्वा पुनर्विभूतिं धार्य वस्त्रप्रावरणं कृत्वा || १२ || पूजलु || कराब्जपीठ स्थित चित्साक्ष्यात्मक चन्न मल्लिकार्जुनरूपमिष्ट लिऽऽन्गमऽऽन्गे पेटिकायां निवेशयेत् || उपचाराणि || १४ || आसनं चोपवीतं च चामरं गीतमेव च | स्तुतिर्गन्धाश्च षड्भेदा सद्योजात समुद्भवाः || आह्वाहनमाल्यव्यजने वाद्यायात्त्नाक्षतास्तथा | षड्भेदाः कीर्तिताश्चैव वामदेवमनूद्भवाः || पाद्यानुलेपनादर्श नृत्त विज्ञापनानि च | पुष्पोपहरणं चैव षडघोरमनुद्भवाः || अर्घ्यमाभरणं चैव घण्टा नादं प्रदक्षिणम् | विसर्जनं घृतज्योतिः षट् तत्पुरुष संभवाः || सलिलाचमनं चैव छत्रशंखै नमस्कृतिः | पृ० ४०) नैवेद्यं चैव ताम्बूलं षडीशान समुद्भवाः | विभूत्यभ्युक्षणं पूर्वमभिषेक मतः परम् || अंगारतापनं चैव धूप संवीजनं ततः | धूप प्रसारणं चैव वस्त्रप्रावरणं ततः || पञ्चब्रह्मसमायोगात् समुद्भूताः षडीरिताः || एतदुक्त प्रकारेण सम्यग्विभाव्य तत्तन्मन्त्रैः पूजोपचारान् समर्चयेत् || अथान्यदर्चने पद्मरूप मण्डलं किञ्चिद्रऽऽन्गवल्लीं विरच्य सूक्ष्माकारेणार्चयित्वा फलादिकमवसरं सोदकं दत्वा इत्येतत्समाप्तः || || इति श्रीवीरशैवसिद्धान्तोत्तरकोमुद्यां शिवपूजाविधिः समाप्तः || ########### END OF FILE #######