#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00612 Uniform title: vīraśaivotkarṣapradīpikā Author : cennabasaveśvara attributed to Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Publisher : Publication year : 1936 Publication city : Varanasi Publication country : India #################################################### वीरशैवोत्कर्षप्रदीपिका वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | श्रीमच्चन्नबसवेश्वरविरचित वीरशैवोत्कर्षप्रदीपिका | वेदमूर्ति मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८३२ सन १९१० पृ० १) || ऊं || || वीरशैवोत्कर्षप्रदीपिका प्रारभ्यते || || श्रीगणेशाय नमः || श्रीगुरुराजो विजयते || वीरशैवोत्कर्षप्रदीपिका प्रारभ्यते || श्रीशिवं सच्चिदानंदलक्षणं सर्वकारणं || महालिंगाभिधं नौमि समुपास्यं मुमुक्षुभिः || १ || गुरुमनादिनिरंजनजंगमं परमसद्गुणसौख्यपरायणं | जगति तोंटदसिद्धमहेश्वरप्रथितनामजुषं प्रणमाम्यहं || २ || लीलामूर्तिरनादिजंगममयः श्रीतोंटसिद्धेश्वरस्वैरोद्दामकृपाकटाक्षलहरीप्राप्तोपदेशोन्नतिः || धर्मान्साधु समीरयन्स्वभजकांश्छ्रीवीरशैवोचितान्बोधं वो विमलं ददातु मुरघः श्रीशान्तवीरो यतिः || ३ || शान्तवीरगुरुभूरिसत्कृपापात्रतामुपगतः समन्ततः || योऽवसत्क्षितितले विरक्तिमांस्तं नमामि गुरुसिद्धदेशिकम् || ४ || योगसिद्धगुरुसिद्धदेशिकानुग्रहाधिगतशैववैभवः || तत्त्वबोधनरतः सुधापुरे भाति चन्नबसवार्यदेशिकः || ५ || तादृशं गुरुमपृच्छदिच्छया पंडितो मुरघयाख्यशीलवान् || पृ० २) तत्त्वमुत्तमतमं तथाविधं सन्मतं च मम कथ्यतामिति || ६ || इतीरयंतं मुरघाख्यशीलिनं गुरुस्तवं प्रश्नयुगोत्तरं क्रमात् || कृतिं वितन्वन्निगमागमानुगां वदाम्यहं शृण्विति सोऽवदन्मुदा || ७ || सकलश्रुत्यागमपुराणप्रसिद्धाष्टावरणपंचाचारविशिष्टतया महालिंगैक्यरूपमोक्षसाधननिरुत्तरैकोत्तरशतस्थलगर्भीकृतषट्स्थ लप्रतिपादकसिद्धांतशास्त्रप्रतिपाद्यज्ञानक्रियापरिभेदेन रूपपदार्थसमर्पणप्रकारीभूतांगलिंगभक्तिशक्तिहस्तमंत्रमुखपद अर्थानुसंधानाश्रयषड्भेदभिन्नस्थानावयवीभूतेष्टलिंगप्राणलि. म्गभावलिंगपूजोपासनैकतानमानसतया च विशिष्टाद्वैतज्ञानसम्पन्नः श्रीवीरशैवः सर्वोत्तरः || ८ || तथाहि शांकरसंहितायां || अष्टावरणसम्पन्नः पंचाचारपरायणः || वैदिकं कर्म कुर्वीत ज्ञानैकफलसाधनं || ९ || यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनःप्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || १० || क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाऽधिकाः || पृ० ३) पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || ११ || द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः || क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः || १२ || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः || तेषु श्रेष्ठा महाभाग मम लिंगांगसंगिनः || १३ || लिंगांगसंगिष्वधिकः षट्स्थलज्ञानवान्भवेत् || तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || १४ || स वंद्यः सर्वदा पूज्यः संसारविजिगीषुभिः || बहुनोक्तेन किं वत्स स एवाहं न संशयः || १५ || पारमेश्वरागमे || विभूतिर्यस्य भालेऽस्ति कण्ठे लिंगं मदात्मकं || रुद्राक्षाभरणं देहे सोऽहं देवि न संशयः || १६ || इत्यादिप्रमाणबलाद्वीरशैवानां सर्वोत्तमत्वं सिद्धं || १७ || ननु || श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयंगतः || क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस्तंत्रमाश्रयेत् || १८ || इति ऽऽश्रुतिपथगलितानां मानवानां हि तंत्रं श्रुतिपथनिरतानां तत्सदा नैव सेव्यं || १९ || अत्यन्तस्खलितानां हि नराणां वेदमार्गतः || पृ० ४) पांचरात्रादयो मार्गाः कालेनैवोपकारकाः || २० || कापालं पांचरात्रं च यामलं वाममर्हतं || एवं विधानि चान्यानि मोहनार्थानि तानि तु || २१ || विड्भक्षाश्चैव ये केचित्कापालकृतभूषणाः || शैवाः पाशुपताश्चान्ये पांचरात्रास्तथापरे || तथाऽन्ये च दुरात्मानः सर्वेऽप्यसुरदेवताः|| २२ || पाशब्देन त्रयीधर्मो जगतः पालनात्स्मृतः || तं खंडयति यस्मात्ते पाषंडास्तेन हेतुना || २३ || इत्यादिकौर्मब्रह्मवैवर्तसूतसंहितावासिष्ठलैंग्यपराशरोपपुराणवच् अनैः केवलतंत्रमार्गाश्रयणस्य निंदितत्वात् वीरशैवानुष्ठेयधर्माणां तादृशतंत्रेष्वेव विहितत्वेन वैदिकेषु श्रुतिस्मृतीतिहासेष्वप्यदर्शनात्तादृशधर्मानुष्ठानैकतत्पराणां वीरशैवानां कथंकारमुत्कर्षःप्रसाद्यत इति चेन्मैवं || २४ || सांख्यं योगः पांचरात्रं वेदः पाशुपतं तथा || आत्मप्रमाणान्येतानि नो हंतव्यानि हेतुभिः || २५ || इत्यानुशासनिकमहाभारतवचनात् पुराणांतरैर्निंदितानां पांचरात्राद्यागमानां ग्राह्यत्वप्राप्त्या तदुदीरितधर्माणामप्य- पृ० ५) वश्यमनुष्ठेयत्वं सिद्धमेव || २६ || न च भारतवचनेन पांचरात्रपाशुपतधर्माणामेवाचरणीयत्वपर्यवसानेऽपि वीरशैवधर्माणां पाशुपतानंतर्भावात्कथं तद्धर्मानुष्ठानपराणामुत्कर्ष इति वाच्यं || २७ || पाशुपतस्य वैदिकावैदिकभेदेन द्वैविध्यं निषेधवचनानामवैदिकपाशुपतपरत्वेन विधिवचनानां वैदिकपाशुपतवीरशैवपरत्वेन व्यवस्थाया एव अप्पययदीक्षितैः कल्पतरुव्याख्याने परिमले पत्युरसामंज्यस्यात् इत्यधिकरणे पाशुपतभेदमुक्त्वा तत्र लगुडीशपाशुपतस्य ग्राह्यत्वमभ्यधायि || तस्मात् वीरशैवधर्माणां तांत्रिकत्वं निषेध्यतावच्छेदकं न भवति ननु लगुडीशपाशुपतस्याप्यप्पययदीक्षितैः कृते परिमले वैदिकत्वेन ग्राह्यत्वप्रतिपादनेऽपि वीरशैवधर्मप्रतिपादकागमानां लगुडीशपाशुपतान्तर्भावभिन्नत्वात् तेषामवैदिकत्वेन ग्राह्यत्वं पर्यवसितमिति चेन्न || २८ || सिद्धान्तशिखामणौ वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् | प्रामाण्यं सदृशं ज्ञेयं पंडितैरेतयोस्सदा || २९ || पृ० ६) क्रियासारे || अथवा शिवनिश्वासश्रुतिभ्यस्ते शिवागमाः | अधिकाः शिववक्त्रेभ्यः साक्षादेव विनिर्गताः || ३० || परस्पराविरुद्धार्थाः शिवोक्ता निगमागमाः | अल्पबुद्धिभिरन्योन्यविरोधः परिकल्प्यते || ३१ || निगमानामागमानां परमाप्तोपदेशतः | प्रामाण्यमविशेषेण ज्ञातव्यं तत्त्वदर्शिभिः || ३२ || इति वचनैर्वेदाविरुद्धवर्णाश्रमधर्मप्रतिपादकत्वेन सर्वाप्तपरमेश्वरैककर्तृत्वेन प्रामाण्यस्य शिष्टैरभ्युपगंतव्यत्वात् तदागमोक्ताचाराणां सर्वेषां वैदिकानुष्ठेयत्वं सिद्धं || ३३ || अन्यथा शिवादिदेवतालयनिर्माणशिवलिंगादिप्रतिष्ठारथोत्सवादिविधिमंत्रोद्ध अरमंत्रदोषमंत्रसंस्कारमंत्रन्यासमुद्राविधानादिषु केवलशिवागममूलेषु वैदिकानां प्रवृत्तिर्न स्यात् || ३४ || किंच सूतसंहितायां शिवमाहात्म्यखंडे व्यासवचनविश्रंभणीयत्वप्रस्तावे अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदानां यथा देवो महेश्वरः || ३५ || पृ० ७) इति || तद्व्याख्याने विद्यारण्यश्रीपादैर्व्यासवचनेषु विश्वासोत्पादनार्थमष्टादश इत्युपक्रम्य कामिकादीनां शैवागमानां शिवोक्ततया प्रामाण्यं यथातथा नारायणावताररूपव्यासप्रणीतानामष्टादशपुराणानां प्रामाण्यमिति प्रतिपादितं तस्मात्तदागमोक्तानां वीरशैवधर्माणामनुष्ठेयत्वं सिद्धं || ३६ || तथाच तदागमेष्वनादिशैवमादिशैवं महाशैवमनुशैवमवांतरशैवं प्रवरशैवमंत्यशैवमिति भेदेन सप्तविधानां शैवानां मध्ये आचारभेदभिन्नानां सामान्यशैवमिश्रशैवशुद्धशैववीरशैवरूपतया चतुर्विधानां मध्ये वीरशैवस्याचारभेदेन सामान्यवीरशैवविशेषवीरशैवनिराभारवीरशैवभेदेन त्रिविधानां तदनुष्ठेयभस्मरुद्राक्षधारणपंचाक्षरीजपलिंगधारणगुरुलिंगज् अंगमपूजातत्पादोदकप्रसादस्वीकाररूपासाधारणवीरशैवधर्माणा. म् कालाग्निरुद्रभस्मजाबालचिदंबरवेदान्तसाराद्युपनिष्पत्सु लिंगधारणादिप्रतिपादकेषु बृहत्तैत्तिरीयादिमंत्रेषु शंकरसंहितासूतसंहिताशिवरहस्यलिंगपुराणादिषु कामिकादिवातुलान्तेषु चाष्टाविंशतिशैवागमेषु पृ० ८) प्रतिपादितानामाराध्यशाब्दितवीरशैवेषु च सत्वाद्वैदिकत्वं सिद्धं || ३७ || अन्यथा वैदिकत्वेनाभिमतानां ब्राह्मणानां रथोत्सवप्रतिष्ठादितांत्रिकधर्मानुष्ठानवतां वैदिकत्वं न स्यात् || तथाच तत्समानन्यायतयोक्तवैदिकत्वं निरपायं || ३८ || ननु वीरशैवधर्मप्रतिपादकश्रुत्यागमानामाचरभेदेन सामान्यविशेषनिराभारसमाख्यावतां भक्तमाहेश्वरप्रसादिप्राणलिंगिशरणैक्यस्थलानामाचारलिंगगुरुलिंग् अशिवलिंगजंगमलिंगप्रसादलिंगमहालिंगाभिधानानां लिंगस्थलानां पूर्वोक्तांगस्थलानां चोत्तरोत्तरधर्माचरणस्य पूर्वधर्माचरणानंतरभाविततया क्रमिकत्वेन तादृशधर्माचरणस्य कालहस्तिश्रीशैलादिदेशस्थितयज्ञोपवीतधारणलिंगधारणादिवैदिकत् आंत्रिकधर्मसमुच्चयानुष्ठानपराराध्यविषयत्वेन नेतुं शक्यत्वात्कथमाराध्येतरकेवलवीरशैवविषयत्वमिति चेन्न|| ३९ || अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमिति || श्वेताश्वतरोपनिषदि || ४० || अत्याश्रमी सर्वदा सकृद्वा जपेदिति कैवल्योपनिषदि च || ४१ || पृ० ९) श्रूयमाणस्यात्याश्रमिशब्दस्य || ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः || अतिवर्णाश्रमी चेति क्रमाच्छ्रेष्ठा विचक्षणाः || ४२ || गृहस्थोऽपि वनस्थस्य यतेरप्यंबुजेक्षण || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || ४३ || वानप्रस्थाश्रमस्थोऽपि तथा सन्यासिनो हरे || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || ४४ || अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणां || न तस्यापि भवेच्छ्रेष्ठो यथाऽहं पुरुषोत्तम || अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते || ४५ || यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् || सवर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः || ४६ || योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् || सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवादिभिः || ४७ || पंचाक्षरी परा विद्या शिवज्योतिरवाप्तये || ४८ || ओंकारः प्रणवः साक्षाद्विद्यानां बीजमुत्तमम् || तस्मादशेषतत्त्वानि प्रणवेन विशोधयेत् || ४९ || भस्मनोद्धूलयेद्देहमग्निरित्यादिसप्तभिः || पृ० १०) त्रियायुषं जमदग्नेरिति कुर्यात्त्रिपुण्ड्रकं || ५० || विचिंतयेत्स्वात्मनि शंभुमीशं शिवं परं शांतमुमासहायं || भस्मांगमाविष्कृतदीप्तदेहमत्याश्रमाचारमिमं वदन्ति || ५१ || अत्याश्रमोऽयं सर्वेषु चतुर्ष्वप्याश्रमेषु च || यः पशुः स पशुत्वं च व्रतेनानेन संत्यजेत् || ५२ || विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः || संस्थाप्य मयि चात्मानं निर्मले परमेश्वरे || ५३ || प्लावयेदात्मनो देहं तेनैव ज्ञानवारिणा || एष पाशुपतो योगः पशुपाशविमुक्तये || ५४ || सर्ववेदांतसारोऽयमत्याश्रम इति श्रुतिः|| व्रतं पाशुपतं येन सम्यगाचरितं मुदा || तस्य ज्ञानं विजायेत तेन पाशविमोचनम् || ५५ || इत्यादि कामिकस्कांदलैंग्यशिवागमवचनैरतिवर्णाश्रमिणां वर्णाश्रमधर्माचरणशीलेभ्य उत्कृष्टत्वप्रतिपादनात् || अत्याश्रमत्वं पंचमुखसमुद्भूतपंचमाश्रमवत्सु वीरशैवब्राह्मणेषु पर्यवस्यतीति न पूर्वोक्ताराध्यपरत्वशंकावकाशः || ५६ || अत एव पूर्वोक्तक्रिमिकीटपतंगेभ्य इत्यादि पृ० ११) वीरशैवोत्कर्षप्रतिपादकं शांकरसंहितावचनमव्यभिचरिततया पर्यवस्यति || ५७ || ननु || अत्याश्रमप्रतिपादकश्रुत्यागमपुराणवचनानि न तेष्वेव पर्यवस्यन्ति || किंतु || वर्णाश्रमाचारवत्सु ब्राह्मणेष्वाराध्येषु तदतिरिक्तेष्वपि पर्यवस्यंति || ५८ || तथाहि || अतिवर्णाश्रमाचार इत्यत्र ब्राह्मणक्षत्रियवैश्यशूद्राश्चेति चत्वारो वर्णाः || अशूद्राणामदुष्टकर्मणामुपनयनमध्ययनमग्न्याधानं फलवन्ति च कर्माणि योग्यानि || ब्रह्मचर्यगार्हस्थ्यवानप्रस्थत्वसन्यासित्वभेदेनाश्रमाश्चत्वारः | तत्र || गुरुकुलवासभिक्षाचरणवेदाध्ययनादिकं प्रथमाश्रमधर्मः || ५९ || गर्भाधानादिगार्ह्यकर्मसप्तपाकयज्ञसप्तहविर्यज्ञसप्तसंस्थायज्ञप. म्चमहायज्ञरूपाष्टचत्वारिंशत्संस्काराः|| यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूपाणि षट्कर्माणि च द्वितीयाश्रमधर्माः || ६० || वनवासनीवारकंदफलाहारनियमजटाजिनधारणकृच्छ्रचांद्रायणाद् याचरणं तृतीयाश्रमधर्मः || ६१ || पूर्वोक्ताश्रमत्रयधर्मत्यागपूर्वकं पृ० १२) ब्रह्मविचारभिक्षाचरणरागद्वेषादिवर्जनवाऽऽन्नियमैकवासयोगाभ्यसनाद् इकं तुरीयाश्रमधर्मः || ६२ || अतिवर्णाश्रमाचार इत्यत्रातिकान्तो वर्णाश्रमाचारानिति अत्यादयःक्रान्ताद्यर्थे द्वितीया इति व्याकरणानुशासनमर्यादया शब्दार्थो योजनीयः स च पूर्वोक्तधर्माचरणवत्सु संभवत्यतिवर्णाश्रमाचारादिशब्दानां प्रतियोगिप्रसक्तिसापेक्षाणां प्रतियोगिसंबंधं विना कृतेषु आराध्यव्यतिरिक्तेषु वीरशैवेषु वृत्तिः कथमुपपद्यते निषेधवाचकानां शब्दानां प्रतियोगिसंबंधिसंभावनाशालिष्वेव वर्तनौचित्यादितिचेन्न || ६३ || अतिवर्णाश्रमाचाराः संभवंत्यूर्ध्ववक्त्रतः || ते वै साक्षान्महादेवे मोदन्ते ह्यागमेषु च || ६४ || पंचास्यपंचममुखाद्यथा जातास्ततोऽधिकाः || पंचमाः सर्ववर्णेभ्यो मद्भक्ता मत्प्रियाः सदा || इति || ६५ || लिंग शिवो भवेत्क्षेत्रमंगं संयोग आश्रयः || तस्माल्लिंगांगसंयुक्तो योऽपि सोऽत्यामश्री[श्रमी] भवेत् || ६६ || ईशानकास्याद्गणवंशजानां लिंगांगशोभा मोक्षमार्गैकनिष्ठाः || लिंगांगसामरस्यं च शरीरे लिंगधारणं || पृ० १३) नियमेनैव कृत्वा ते मुक्ताः संसारबंधनात् || ६७ || इति कामिकाद्यागमक्रियासारोदाहृतवेदांतसारोपनिषदादिवचनैर्वीरशैवान अमेवातिवर्णाश्रमाचारादिशब्दानां रूढ्याभिधेयत्वस्य सम्यग्वक्तुं शक्यत्वात् || न चात्याश्रमिशब्दः कृताश्रमधर्माचरणेषु वर्तते न प्रतियोगिकशब्दत्वादिति यदुक्तं तदुपपन्नं || अपहतपाप्मादिशब्दानां वैदिकानां ब्रह्मणि प्रतियोगिनां पाप्मनामसंभवात्प्रवृत्तिर्न स्यात् || तथा चतुर्वर्णाश्रमधर्माणामनुष्ठानप्रतियोग्यभावेनात्याश्रमादिशब्दवा च्यत्वं संगच्छते || न चात्यादय इति व्याकरणानुशासनविरोध इति वाच्यं || शुकवामदेवादिवज्जन्मान्तरीयवर्णाश्रमधर्मानुष्ठानप्रकल्पनान्न वैयाकरणानुशासनविरोधः || ६८ || न चैवमत्याश्रमिशब्दार्थसंगतिनिर्वहणे वीरशैवातिरिक्तानामितरेषां विरक्तानां ज्ञानिनां शूद्राणामप्यत्याश्रमित्वप्रसंग इति वाच्यं || ६९ || अतिवर्णाश्रमाचार इति वचनत्रयावगमितरूढत्वशालि- पृ० १४) नोऽत्याश्रमिशब्दस्य केवलयोगेन पंकजशब्दस्य तृणनीलोत्पलादाविव वृत्तेरयुक्तत्वाद्रूढिर्योगमपहरतीतिन्यायात् || ७० || अत एवाहीनशब्दस्य अन्हः खक्रताविति सूत्रमर्यादया अहर्गणवाचिनो द्विरात्रत्रिरात्रादिसाध्यक्रतुपरत्वमेव हीनो न भवतीत्यहीन इति योगेन वैदिकादिकश्रुत्या न क्रत्वन्तरपरमिति अहीनो वा प्रकरणादावित्यधिकरणे तृतीयाध्याये पूर्वतंत्रेऽयमेव न्यायो व्युत्पादितः || तस्मादत्याश्रमिशब्दो वीरशैवेषु संभवति || ७१ || यद्वा योगशक्त्यापि वीरशैवपरत्वं कल्पयितुं शक्यते || तथाहि || तु हि च स्म ह वै पादपूरणे पूजने स्वति इत्यमरकोशेन श्वतिपूजायाम् इतिसूत्रेण च अतिशयिताः पूजिता वर्णाश्रमाचारा येषामिति व्युत्पत्तेः|| न चैतानि वचनान्यत्याश्रमिशब्दत्वस्याथर्वणशिरोजाबालोक्तेतिकर्तव्यतापूर्वकानु. स्ठेयपाशुपतापरपर्यायभस्मरुद्राक्षधारणरूपस्य स्वात्मज्ञानपूर्वकाखिलसंस्कारपरित्यागित्वस्य यत्किंचिज्जातीयस्य लिंगधारणादिना रहितस्य वा सहितस्य वा पृ० १५) आराध्यविप्रस्य वा उत केवलस्य वा अत्याश्रमित्वसंबंधवाचकानि संभवन्ति न केवलवीरशैवप्रतिपादकानीति वाच्यं || ७२ || वर्णाश्रमधर्मवतामाराध्यविप्राणामत्याश्रमिशब्दाभिधेयतायोग्यताय ओग्यत्वात् परमेश्वरपंचमुखसंभूतप्रमथगणनायकघंटाकर्णगजकर्णरेणु कदारुकविश्वकर्णगोत्रजातानां केवलातिवर्णाश्रमधर्मानुष्ठायिनां केवलवीरशैवानामेवोक्तश्रुत्यागमपुराणेष्वत्याश्रमिशब्दप्रतिपादनौचि त्यात् || ७३ || न च प्रमथानां परमेश्वरपंचमुखसमुद्भूतानामत्यन्तान्तरंगाणां प्राकृतमनुष्यवत्प्राकृतस्त्रीपरिग्रहाभावात्कथमेषां तद्वंशजत्वं || तथापि यद्यस्ति तर्हि आराध्यविप्राणामपि तद्वंशजत्वमस्तीति वाच्यम् || ७४ || द्वारापोपस्पृशाद्वारापाय स्वाहा || द्वाराप्युपस्पृश द्वाराप्यै स्वाहा || इतीशानबल्याख्यकर्मणि द्वारापशब्दवाच्यनंदिकेश्वरस्य पृ० १६) तत्पत्न्याः सुयशादेव्याः पुराणादिषु प्रसिद्धतया विद्यमानत्वेन लोकानुग्रहार्थं परमेश्वरस्य किरातरूपादिधारणवत्प्राकृतस्त्रीपरिग्रहसंभवेन तद्वंशजत्वस्यापि केवलानां वीरशैवानां संभवादाराध्यविप्राणां तु सर्वथा तद्वंशजत्वस्यानुचितत्वात् || ७५ || यदि वीरशैवधर्माचरणाभिमानिनां तद्वंशजत्वमस्तीत्युच्यते चेत्तर्हि || विश्वामित्रभार्गवभारद्वाजागस्त्यांगिरसवासिष्ठेत्यादिगोत्रजनननिमित्त् आर्षत्वं न स्यात् || ७६ || न चेष्टापत्तिः | वृश्चिकभयात्पलायमानस्याशीविषमुखनिपतनमिव ब्राह्मणत्वस्यापि भंगः स्यात् || न च ऋषिवंशजत्वं प्रमथवंशजत्वमुभयवंशजत्वमस्माकमाराध्यविप्राणां संभवतीति वाच्यं || किमुत्पत्त्योभयवंशजत्वमुच्यते किं शिष्यसंप्रदायेन वा || नाद्यः || * * * * * पृ० १७) * * * * * * * न द्वितीयः || तादृशसंप्रदायस्य गौणतया चतुर्थवर्णस्यापि संभवात् || तस्मात्केवलानां वीरशैवानां गणवंशजत्वात् || ७७ || कामिकागमोत्तरभागे|| शृणु देवि वरारोहे ममैते गणनायकाः || मया नियुक्ता भूलोकं गताः सकलजातिषु || ७८ || संजाताश्च गणाः केचित्केचिल्लिंगेषु मूर्तिषु || संभूताश्च पूनर्लिंगपूजाध्यानपरायणाः || ७९ || स्थापयन्तो वीरशैवमार्गं मोक्षप्रदं भुवि || पृ० १८) सर्वप्राणिहितार्थाय मुद्रापंचकधारिणः || षट्स्थलज्ञानवन्तश्चानादिजंगममूर्तयः || ८० || शांकरसंहितायां || वृत्तम् || वत्सैते गणनायकाः क्षितितलं गत्वा नियुक्ता मया संभूतास्सकलासु जातिषु पुनर्लिंगार्चनातत्पराः || संस्थाप्योत्तमवीरशैवपदवीं लोके हितार्थं नृणां मुद्राः पंच वहंत एव विचरंत्यन्ते समेष्यन्ति मां || इति || ८१ || तस्मादत्याश्रमिशब्दवाच्यत्वेन सर्वोत्तमत्वं युक्तमेव || अत एव पूर्वोक्तानुकूलन्यायवचनानि तेष्वेव सम्यगुपपादयितुमुचिततराणि || ८२ || तथाहि|| विशुद्धाः प्राकृताश्चेति द्विविधा मानुषाः स्मृताः || शिवसंस्कारिणः शुद्धाः प्राकृता इतरे मताः || ८३ || वर्णाश्रमादिधर्माणां व्यवस्था हि द्विधा मता || एका शिवेन निर्दिष्टा ब्रह्मणा कथिताऽपरा || ८४ || शिवोक्तधर्मनिष्ठा तु शिवाश्रमनिषेविणां || शिवसंस्कारहीनानां धर्मः पैतामहः स्मृतः || ८५ || पृ० १९) तस्मात्प्राकृताऽप्राकृतधर्मभेदभिन्नमार्गतया गणवंशजानामप्राकृतानां वीरशैवानामतिवर्णाश्रमशब्दवाच्यानां पंचमाश्रमिणामनितरसाधारणसर्वातिशयत्वमुपपद्यत एवेति न कोऽपि शंकावकाशः || तस्मात्तन्मतस्य सर्वोत्तमत्वं सिद्धमेव || ८६ || तथैव प्रमाणानि || ङ वीरशैवसदृशं मतमस्ति जगत्त्रये || सर्वभोगप्रदं पुण्यं शिवसायुज्यदायकं || ८७ || यथा मत्सदृशो नास्ति पुरुषाणां त्वया समा|| स्त्रीणां तथा वीरशैवसदृशं नास्ति वै मतम् || ८८ || अपि पापशतं कृत्वा ज्ञानतोऽज्ञानतोऽपि वा || पृ० २०) वीरशैवमतं प्राप्तः शिव एव न संशयः || ८९ || लिंगधारणमात्रेण शिवत्वप्राप्तिकारणात् || शैवं मम मतं देवि सद्योमुक्तिप्रदायकं || ९० || यथा नदीनां सर्वासां पुण्या भागीरथी शिवे || यथैव भवती सर्वयोषितां पुरुषेष्वहं || ९१ || यथैव काशी क्षेत्राणां तीर्थेषु मणिकर्णिका || मम पंचाक्षरीमंत्रः सर्वमंत्रेषु वै यथा || ९२ || यथैव सर्वलोकेषु कैलासस्थानमावयोः || वीरशैवमतं देवि मम सर्वोत्तमोत्तमम् || ९३ || इति पारमेश्वरवीरागमवचनैश्च पूर्वोक्तन्यायोपबृंहितश्रुत्याऽगमपुराणवचनैश्च शिवस्य श्रुतिस्मृतिपुराणन्यायसिद्धसर्वदेवोत्तमत्ववद्वीरशैवमतस्य सर्वातिशयत्वं सिद्धं || ९४ || तन्मतनिष्ठजात्याश्रमाचारभेदेन सामान्यवीरशैवो विशेषवीरशैवो निराभारवीरशैवश्चेति त्रिविधः || तत्तल्लक्षणानां तु क्रियासारवीरशैवाचारकौस्तुभवीरशैवानंदचंद्रिकादिषु विस्तारेणोक्तत्वात्तदनुगतसंप्रदायसिद्धतया विचार्यमाणे क्षत्रियवैश्यादयो लिंगिनः सामान्यवीरशैवा भक्तमाहेश्वरा- पृ० २१) राध्याभिधब्राह्मणा लिंगधारिणो विशेषवीरशैवाः लिंगांगिब्राह्मणयतिनो निराभारा इति निर्मीयते || ९५ || अत एव || गुरुक्तेनैव मार्गेण भूतिरुद्राक्षधारणं || पंचाक्षरीजपं देवि कुर्यान्नित्यमतंद्रितः || ९६ || गुरुणा दत्तलिंगं तु सावधानेन धारयेत् || इष्टलिंगं प्राणलिंग भावलिंगं च पार्वति || एकीकृत्याऽर्चनं कुर्याद्वीरशैवो न भेदतः || ९७ || इति वचनैः सामान्यवीरशैवलक्षणप्रतिपादनात् || ९८ || आत्मानं वा सुतान्वाऽपि भूषणानि धनानि वा || यत्स्वकीयमभिप्रीतं तत्कुर्याज्जंगमार्पितम् || ९९ || अनुभूतं च तैः पश्चादादाय स्वयमात्मसात् || कुर्यात्प्रसादबुद्ध्या यः स विशेष इति स्मृतः || १०० || इति वचनैर्विशेषवीरशैवलक्षणप्रतिपादनात् || १०१ || जटी मुण्डी शिखी वापि काषायवसनान्वितः || निस्पृहो निजलिंगैक्यो भिक्षाशी भयवर्जितः || १०२ || मौनी भूतदयायुक्तो निराभार इति स्मृतः || पृ० २२) कंथाकमण्डलुधरो भूतिरुद्राक्षसंयुतः || दण्डकौपीनधारी च निराभार इति स्मृतः || १०३ || इति सूक्ष्मतंत्रादिवचनैर्निराभारवीरशैवलक्षणप्रतिपादनात् || सामान्यविशेषवीरशैवापेक्षया चरजंगमादिशब्दवाच्यो निराभारवीरशैवो देशिकोत्तमः || विरक्ततया सर्वोत्तम इति निर्विवादः || १०४ || किंच || शिवरहस्ये || लिंगं स्यादिष्टरूपं तु जंगमः प्राणलिंगकं || भावलिंगं गुरुः प्रोक्तस्त्रिविधं त्वेकमुच्यते || १०५ || कारणागमे || जानीयात्सच्चिदानंददेशिकोत्तमजंगमात् || नित्यं पूर्णात्प्रसादं वा स्वात्मभावेन भावयेत् || १०६ || वीरागमे || जंगमो गुरुलिंगे च त्रिविधं त्वेकमुच्यते || प्रसादो मुक्तिमूलं च प्रसादो लिंगमुच्यते || १०७ || सिद्धांतशिखामणौ || एक एव शिवः साक्षात्सर्वानुग्राहकः प्रभुः || गुरुजंगमलिंगात्मा वर्तते भुक्तिमुक्तिदः || १०८ || इत्यादिवचनैर्गुरुलिंगजंगमानां सच्चिदानन्दस्वरूपाणां पृ० २३) यथा ब्रह्मणः सच्चिदानन्दस्वरूपलक्षणलक्षितस्य व्यवहारदृष्ट्या सत्वेन चित्वेन आनंदत्वेन भिन्नत्वेऽपि परस्परस्वरूपेण यथाऽभेदोंऽगीक्रियते तद्वद्गुरुलिंगजंगमानां भिन्नत्वेऽपि शास्त्रमर्यादया तत्त्वतश्चैक्यमेव सिद्धं भवति || १०९ || किंच || तत्स्वरूपस्य त्रैकालिकाबाध्यतारूपसद्रूपस्याधिक्यं || इत्थंचेदपि चिद्रूपस्य स्वप्रकाशस्य सर्वप्रार्थनीयत्वाभावेन परमप्रेमास्पदत्वाभावेन च तदुभयरूपयोरानंदस्वरूप एव विद्यमानत्वेन तस्य तथैव चरतत्वस्य सर्वाभ्यर्हितत्वं || ११० || तथाहि || सिद्धांतशिखामणौ || लिंगं च द्विविधं प्रोक्तं जंगमाजंगमात्मना || अजंगमं तु यल्लिंगं मृच्छिलादिविनिर्मितं || १११ || तद्वरं जंगमं लिंगं शिवयोगीति विश्रुतं || लिंगं च जंगमं चैवं तदाधिक्यं वदामि ते || जंगमं ज्ञानरूपं तु क्रियारूपं तु लिंगकं || ११२ || पृ० २४) स्वायंभुवागमे || लिंगद्वयं समाख्यातं चरंचाचरमेवच || चरं त्वतिथिरूपं स्यादचरं पार्थिवादिकं || ११३ || चरे सदा वसत्येव प्रीतियुक्तो महेश्वरः || अचरे मंत्रसंस्कारैः स्वयंस्तिष्ठन्सदाशिवः || ११४ || शिवधर्मशास्त्रे || पदं देह इति ख्यातं पदार्थः प्राण एव च || उभयोरन्तरं यद्वत्तद्वत्स्याल्लिंगजंगमे || ११५ || शिवरहस्येऽपि || चरे सदा वसत्येव प्रीतियुक्तो महेश्वरः || अचरे मंत्रसंस्कारैर्ज्ञेयो नित्यं महेश्वरः || ११६ || स्थावरं जंगमं चेति द्विविधं लिंगमुच्यते || जंगमस्यावमानेन स्थावरं निष्फलं भवेत् || ११७ || शैवरत्नाकरे || लिंगक्षेत्रं गुरुस्थानं गुरुक्षेत्रं तु जंगमः || जंगमस्तु निराभारो भाराभारविवर्जितः || ११८ || इत्यादि सिद्धांतशिखामणिस्वायंभुवागमशिवधर्मशास्त्रशिवरहस्यादिवचनैऽऽ स्चराचररूपस्य द्विविधस्य लिंगस्य मध्ये मंत्रसंस्कारायत्तमहिमस्थिरलिंगापेक्षया चर- पृ० २५) लिंगस्य सार्वकालिकषट्स्थलज्ञानसंपन्नस्य जंगमशब्दाभिधेयस्य स्थिरलिंगापेक्षयाऽऽधिक्यं सिद्धमेव || ११९ || अत एवारग्वधे च बिल्वे च लिंगे च गुरुविग्रहे || शिवयोगिशरीरे च सदा सन्निहितः शिवः || १२० || इति || यदेको ब्रह्मविद्भुंक्ते जगत्तर्पयतेऽखिलं || इत्यादिवचनानि ज्ञानिनश्चरलिंगस्याधिक्यप्रतिपादकानि बहूनि संगच्छंते || १२१ || वैद्यशास्त्रे || इतिहासपुराणेषु शिवस्याप्यतिथिर्गुरुः || अतिथेः पादसलिलमधिकं हि जगत्त्रये || १२२ || वीरागमे || जंगमस्य प्रसादान्नं नैवेद्यार्थं प्रकल्पयेत् || पदांबुजजलस्नानमधिकं हि मयोच्यते || १२३ || पारमेश्वरे || पादाभिषेकसलिले लिंगमज्जनमुत्तमं || तत्प्रसादश्च नैवैद्यं तथा मुक्तिफलं ध्रुवं || १२४ || ब्रह्माण्डपुराणे || जंगमानां पादतीर्थे लिंगमज्जनमुत्तमं || तत्प्रसादान्महादेवि नैवेद्यं शुभदं स्मृतं || १२५ || पृ० २६) तस्माज्जंगमलिंगस्य प्रसादेन समर्पणं || अभिषेकजलस्नानं विशेषो नाम कथ्यते || १२६ || इत्यादिवैद्यशास्त्रवीरागमपारमेश्वरब्रह्माण्डपुराणादिवचनैर्लिंगस्य अ जंगमपादोदकस्नानतत्प्रसादसमर्पणप्रतिपादनाल्लिंगापेक्षया जंगमस्याधिक्यं सिद्धमेव || १२७ || ननु || इष्टलिंगपूजाप्रकरण एषां वचनानां श्रूयमाणत्वादिष्टलिंग एवं चरपादोदकमज्जनं तत्प्रसादनिवेदनं च प्रकरणात्प्राप्तम् || न तु स्थिरलिंगे || अप्राकृतत्वादिति चेन्न || १२८ || स्थिरलिंगार्चको मर्त्यो न शुद्धः पंक्तिकर्मसु || घृतलिंगार्चको मर्त्यः पावनः पंक्तिकर्मसु || १२९ || चितिं च चितिकाष्ठं च यूपं चाण्डालमेव च || स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् || १३० || त्रिवर्षं देवतापूजामन्यार्थं यः करिष्यति || स वै देवलको नाम सर्वकर्मबहिष्कृतः || १३१ || इत्यादिवचनैः स्थिरलिंगार्चकस्य देवलकशब्दवाच्यतया पृ० २७) सहवाससहपंक्तिभोजनास्पृशत्वादिसर्वकर्मबहिष्कृतत्वप्रतिपादनाद्धृ तलिंगस्य वीरमाहेश्वरस्य सहवाससहपंक्तिभोजनादेस्तथा दर्शनात् || पावित्र्यादुत्कृष्टत्वप्रतिपादनाच्चेष्टलिंगस्थिरलिंगपूजाकर्तृर्णामुत् कर्षापकर्षप्रतिपादनादिष्टलिंगस्थिरलिंगयोः क्रमेणोत्कर्षापकर्षौ निश्चितव्यौ || १३२ || तथाच || जंगमस्य सर्वाभ्यर्हितत्वाल्लिंगप्राणरूपत्वाच्च स्थिरलिंगापेक्षया प्राप्तोत्कर्ष इष्टलिंगेऽपि जंगमपादोदकप्रसादसमर्पणपदविन्यासादिविधानात् || तदपेक्षया पूजापकर्षायत्तापकर्षशालिनि स्थिरलिंगजंगमपादविन्यासादि कैमुतिकन्यायसिद्धं || १३३ || एतदर्थानुसारीणि वचनानि || लिंगांगी च मम प्राणो लिंगांगी च मम प्रभुः || लिंगांगी मामको जीवो लिंगांगी मम रक्षकः || १३४ || लिंगांगी मम कर्ता च लिंगांगी स च मद्गुरुः || परमाद्वैतविज्ञाननिष्ठा यस्य महत्मनः || शुश्रूषा क्रियते येन तत्पादो मम मस्तके || १३५ || निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शिनं || पृ० २८) अनुव्रजाम्यहं देवि पूरयत्यंघ्रिरेणुभिः || १३६ || वीरागमे || सर्वप्राणिहितार्थाय मुद्रापंचकधारिणः || षट्स्थलज्ञानवन्तश्चानादिजंगममूर्तयः || १३७ || त एव स्वं स्वं पदाब्जं निधाय मम मस्तके || दत्वा पादोदकं मह्यं प्रसादं मेनकात्मजे || १३८ || कुर्वन्ति वै पवित्रं मामन्तेऽप्येष्यन्ति माममी || भक्तिर्मम प्रिया देवि भक्तः प्राणो ममैव तु || मत्तोऽधिको हि मद्भक्तस्तस्माद्भक्तं नमाम्यहं || १३९ || इत्याद्यागमवाक्योक्तं तांत्रिकं वैदिकं न चेत् || त्रिपादूर्ध्व उदैन्मंत्र अस्मिन्नर्थे प्रवर्तते || १४० || त्रिपादिति त्रयः पादा यस्य तस्मात्त्रिपाच्छिवः || गुरुर्लिंगं जंगमं च तेषां पादत्रयस्रिपात् || १४१ || ऊर्ध्वुत्कृष्ट एवासावुदैदुदितवांच्छिवः || पुरुषो वै रुद्र इति पुरुषत्वं शिवस्य तत् || १४२ || पादोऽस्येह शिवस्यैव लब्धो यद्यभवत्पुनः || पुनःशब्दो विशेषार्थवाची वैशेष्यमत्रच || १४३ || असांनिध्यं जंगमस्य गुरोश्च पतितस्तथा || पृ० २९) विश्वं व्याक्रामदित्येवं व्यापकत्वं शिवस्य च || १४४ || अनुसंधाय मनसा गुरुजंगमतामपि || अशनानशने चोभे संभवे चाशनं भवेत् || १४५ || अत्तुं योग्यं भवेत्तत्र त्रयं यन्न लभ्यते || तदात्वनशनं प्रोक्तमदं पातित्वमश्नुते || १४६ || त्रिपादमात्रमंत्रेऽस्मिन् त्रिपादोदकधारणं || इति चेत्तत्र मंत्रान्ते साशनानशने उभे || १४७ || गुरुलिंगचराणां च पादत्रयमनूद्य च || विहिते तत्र भेदश्च द्वयोरेकस्य संभवे || १४८ || वचनांतरसिद्धार्थाः संधेयास्तत्र तानि तु || प्राणलिंगपरो भक्तो लब्ध्वा तत्र पदोदकं || गुरुजंगमपादोदं लब्धवानेव भक्तितः || १४९ || समवाये गुरोस्तत्र गुरोर्लब्ध्वा पदोदकं || पादोदकं जंगमस्य लब्धवान् मनसैव तम् || १५० || गुरुलिंगचराणां च समवाये तु भक्तिमान् || पादोदकं चराल्लब्ध्वा गुरोर्लिंगस्य भक्तिमान् || १५१ || अश्नीयादशनं भक्तेरन्यथाऽनशनं भवेत् || तच्चेदनशनं प्रोक्तमभक्ष्यमसमर्पितम् || १५२ || अत एव शिवानंदलहर्यामभियुक्तवचनमपि || वृ || पृ० ३०) मार्गावर्तितपादुका पशुपतेरंगस्य कूर्चायते गण्डूषांवुनिषेचनं पुररिपोर्दिव्याभिषेकायते || किंचिद्भक्षितमांसशेषकवलं दिव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते || इति || १५३ || तस्माल्लिंगे जंगमपादविन्यासादिकमुचिततरमिति सिद्धं || १५४ || ननु || एतादृशपूर्वोक्तवचनानां लिंऽऽन्लोट्तव्यप्रत्ययाभावेन विधायकत्वाभावात् || अर्थवादवाक्यानां स्वार्थप्रामाण्याभावाच्च || एभिर्वचनैः कथं तीर्थप्रसादसमर्पणपादविन्यासादिकं कर्तव्यत्वेनांगीकर्तुं शक्यत इति चेदुच्यते || १५५ || औदुंबरो यूषो भवति || उपांशुयाजमन्तरा यजतीत्यादाविव लट्त्वेन भासमानस्याख्यातस्य लेट्त्वपरिणामं कृत्वा विधायकत्वस्यांगीकर्तुमुचिततरत्वात् || पृ० ३१) न च वेदेषु लेट्त्वेन परिणामाद्यंगीकारेऽप्यागमवचनेषु तथांगीकर्तुमशक्यत्वात्तदभिमतसिद्धिः कथं संगच्छत इति वाच्यं तर्हीतिहासपुराणस्मृतिवाक्येष्वप्येतादृशन्यायप्रवृत्तिर्न स्यात् || न चेष्टापत्तिः || १५६ || स्तेयं कृत्वा गुरुदारांश्च गत्वा सुरां पीत्वा ब्रह्महत्यां च कृत्वा || भस्मच्छन्नो भस्मशययाशयानो रुद्राध्यायी मुच्यते सर्वपापैः || इति शातातपस्मृतिवचनस्य || १५७ || गायत्रीजपकोटिस्तु ब्रह्महत्यां व्यपोहति || एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् || महापापैरपि स्पृष्टो मुच्यते नात्र संशयः || १५८ || पृ० ३२) संध्या स्नानं जपो होमो देवतानां च पूजनं || आतिथ्यं वैश्वदेवश्च षट्कर्माणि दिने दिने || १५९ || इत्यादिलोकप्रसिद्धानां प्रायश्चित्तकाण्डे विज्ञानेश्वरमाधवादिधर्मशास्त्रव्याख्यातृभिराचारकाण्डे च परिगृहीतानां वचनानां च स्वोक्तार्थे प्रामाण्यं न स्यात् || तस्मादुदाहरणमात्रेण न्यायस्य प्रवृत्तिरिति न भ्रमितव्यं || नन्वेतेषां स्मृतिपुराणादीनां वेदमूलकत्वाद्वेदवत्प्रामाण्यस्थापनसंभवोऽप्यागमवचनानां तथा प्रामाण्यं न संभवतीति चेन्न || वेदागमयोरेककर्तृकत्वाद्वेदाविरुद्धधर्मप्रतिपादकत्वाच्च निःश्वसितरूपवेदापेक्षया ताल्वोष्ठपुटव्यापारोच्चारितकामिकाद्यागमानामृग्वेद- पृ० ३३) यजुर्वेदवद्वामदक्षिणनेत्रवच्च समप्रधानत्वात्प्रामाण्यं सिद्धमेवेति वेदागमवचनैर्विधीयमानं कर्म शिष्टैराचरणीयमिति सर्वं समंजसम् || १६० || इति श्रीषट्स्थलचक्रवर्तिनिरंजनजंगमस्वरूपतोंटदसिद्धेश्वरकारुण्यप् रसादपात्रसुधापुरस्थचन्नबसवेश्वरस्वामिविरचितवीरशैवोत्कर्षप्रदीप् इका समाप्ता || श्रीः|| श्रीशिवाभ्यां नमः || Exत्र Pअगे पृ० ३४) स्वातंत्र्यात् स्त्रीणां शिवसंस्कारकर्मण्यनधिकारः क्रियासारे त्रयोदशोपदेशे- नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि|| नियोगाद्भर्तुरस्त्येव यदि भक्ता महेश्वरे|| ६७|| तथैव भर्तृहीनायाः पुत्रादेरभ्यनुज्ञया|| अधिकारो भवेत्येव कन्यायाः पितुराज्ञया|| ६८|| शूद्राणामन्यजातीनां पतितानां विशेषतः|| तथाऽसंस्कारजातीनां नाध्वशुद्धिर्विधीयते|| ६९ || तेऽप्यकृत्रिमभावाश्चेच्छिवे परमकारणे|| पादोद्प्रदानाद्यैः कुर्यात्पाशविशोधनम् || ७०|| ########### END OF FILE #######