#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00098 Uniform title: varivasyārahasya Main title: varivasyārahasya with autocommentary prakāśa Author : bhaskarāya Commentator : bhaskarāya Editor : śāstrī subrahmanya Description: varivasyārahasya with its commentary prakāśa both by bhaskarāya Notes: Date entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0: August 07, 2007 Publisher : Adyar Library and Research Centre Publication year : 1932 Publication city : Adyar Publication country : India #################################################### || श्रीः || वरिवस्यारहस्यम् सव्याख्यानम् प्रथमोंऽशः विद्यानां च मनूनां मनुसंख्यानां च विद्यानाम् | उपदेष्टा जयतितरां नरसिंहानन्दनाथगुरुः || वरिवस्यारहस्याख्यो ग्रन्थो यः स्वेन निर्मितः | तत्र दुर्घटशब्दानामर्थः संक्षिप्य कथ्यते || तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् आचार्यवान् पुरुषो वेद इत्यादिश्रुत्या गुरूपसदनस्य तत्त्वज्ञानजनकत्वात् प्रथमं सकलमन्त्राधिष्ठातृदेवतापररूपं गुरुं श्लेषेण तद्दैवतं नरसिंहं च विघ्नविघाताय स्तुवन् संप्रदायं तदाज्ञयैव प्रवर्तयति- प्रह्लादाभीष्टदाने विबुधसमुदयस्तूयमानापदाने (ऽ)शेषक्षोणीभृदन्तःप्रविलसितपदाहोबलक्षेत्रगर्भात् | प्रादुर्भूते हिरण्यद्विरदमतिमदध्वान्ततन्त्रं निहन्तुं धीरे सच्छास्त्रयोनौ मम भुवनगुरावस्तु भक्तिर्नृसिंहे || १ || प्रह्लादाख्यो दैत्यः, तदभीष्टानां दानं यस्मात् पक्षे प्रकृष्टो ह्लादो ब्रह्मानन्दः, तस्य अभीष्टानां धर्मार्थकामानां च दानं यस्मात् तस्मिन् | विबुधानां देवानां पण्डितानां च समुदयेन समुदायेन स्तूयमानमपदानं पूर्वचरित्रं यस्य तस्मिन् | अपदानं कर्म वृत्तम् इत्यमरः | हिरण्याख्यो योग्यतया हिरण्यकशिपुः, नामैकदेशे नामग्रहणात् स एव द्विरदः सिंहवध्यत्वात् तम् | कीदृशं तम्? अतिशयितमद एवाज्ञानपरिणामत्वाद् ध्वान्तम्, तत्तन्त्रं तदधीनम्, मदपरवशमिति यावत् पक्षे हिरण्यं धनोपलक्षणम्, द्विरदाः सेनाङ्गोपलक्षणम्, मतिरसच्छास्त्रज्ञानम्, तत्सम्बन्धी मदो येषां तेषां ध्वान्तानां ध्वकारोऽन्ते येषां नाम्नि तेषां माध्वानां तन्त्रं शास्त्रं निहन्तुं शेषक्षोणीभृतः शेषाचलस्यान्तः प्रविलसितं शोभमानं पदं स्थानं यस्याहोबलाख्यक्षेत्रस्य, तस्य गर्भान्मध्यात्, पक्षे, अशेषाणां समस्तानां क्षोणीभृतां राज्ञां मध्ये प्रविलसिते पदे चरणौ यस्य अहोबलाख्यस्य पुरुषधौरेयस्य, तस्य क्षेत्रं पत्नी, तस्या गर्भात्, प्रादुर्भूते धीरे धैर्यशालिनि, पक्षे धियं रातीति धीरः पण्डितस्तमिन् सतां शास्त्राणां योनिः कारणम्, यस्य निःश्वसितं वेदाः, छन्दा/सि जज्ञिरे तस्मात् इत्यादि- श्रवणात् सच्छास्त्राण्येव योनिर्ज्ञापकहेतुर्यस्येति वा, तं त्वौपनिषदं पुरुषं पृच्छामि इति श्रवणात्, शास्त्रयोनित्वाधिकरणे द्वेधापि व्याख्यानात् पक्षे सच्छास्त्राणां योनिः कर्ता, ग्रन्थकर्तेति यावत् तस्मिन् भुवनगुरौ नृसिंहे नरकेसरिणि, नृसिंहनामके च मम भक्तिरस्त्विति प्रार्थना | अत्रोपमेयोपमाया उपमाया अभेदस्य वा ध्वनिः | श्लेषोऽलंकारः | सोऽपि च प्रकृतोभयविषयकः सभङ्गोऽभङ्गश्च | स्रग्धरा वृत्तम् || १ || आ प्राचः कामरूपाद् द्रुहिणसुतनदप्लावितादा प्रतीचो गान्धारात् सिन्धुसान्द्राद्रघुवरचरितादा च सेतोरवाचः | आ केदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा ये ये तानेष यत्नः सुखयतु समजान् कश्चमत्कर्तुमीष्टे || २ || कामरूपगान्धारौ देशौ | सेतुकेदारौ क्षेत्रे | द्रुहिणसुतसिन्धू नदविशेषौ | विदुषां विद्योपासकानां समाजाः, न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते इत्यादिना विद्वच्छब्दस्योपासकपरतायास्त्रिशत्यां प्रदर्शनात् | समजाः पशुगणाः | पशूनां समजोऽन्येषां समाजः इत्यमरः || २ || स जयति महान् प्रकाशो यस्मिन् दृष्टे न दृश्यते किमपि | कथमिव तस्मिञ्ज्ञाते सर्वं विज्ञातमुच्यते वेदे || ३ || स सर्वेषामात्मत्वेन प्रसिद्धः, महान् देशकालाद्यनवच्छिन्नः पराप्रकाश्यः प्रकाशः सर्वदा अनावृतात्मस्वरूपज्योतिः स्वरूपज्योतिरेवान्तः इति रहस्यागमात्, न तत्र सूर्यो भाति इत्यादिश्रवणाच्च | जयति सर्वोत्कर्षेण वर्तते | यस्मिन्नधिष्ठान्ते दृष्टे निर्विकल्पात्मकचरमवृत्तिविषयीकृते सति किमपि दृश्यं न दृश्यते, अधिष्ठानज्ञाननाश्यत्वात् | अत एवैकविज्ञानेन सर्वविज्ञानं श्रुतावुक्तं कथं संगच्छत इति साश्चर्यमाह-कथमिवेति | अथ वा, विवर्तवादं वेदान्तिसंमतं परिणामवादी तान्त्रिको दूषयति-कथमिवेति | तन्मते मृद्घटादिदृष्टान्तानुपपत्तिरित्यर्थः | अत्रेयं तान्त्रिकप्रक्रिया- इच्छामि जानामि इत्यादावुत्तम-पुरुषान्तर्भासमानं स्फुरणान्वयि ज्ञानमेव प्रकाशाभिधं ब्रह्म | तच्च सर्वज्ञत्वसर्वेश्वरत्व- सर्वकर्तृत्वपूर्णत्वव्यापकत्वादिशक्तिसंवलितम् | तस्य चानन्दरूपांश एव स्फुरणं परा अहंता, विमर्शः, परा ललिता भट्टारिका, त्रिपुरसुन्दरीत्यादिपदैर्व्यवह्रियते | उक्तं च विरूपाक्षपञ्चाशिकायां विश्वशरीरस्कन्धे- ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता चेति | एतेऽहंतयाः किल पर्यायाः सद्भिरुच्यन्ते || इति | पराहंतामन्तरेणेदंताया असंस्फुरणादहमिदमोः ससंबन्धिकत्वादिदंपदगम्यस्य दृश्यस्याहंतारूपशक्त्या तद्विशिष्टब्रह्मणा वा जन्यत्वम् | तच्च दृश्यं तत्परिणाम एव, तस्यां परिणतायां तु न कश्चित् पर इष्यते इति वामकेश्वरतन्त्रात्, वाचारम्भणं विकारः इत्यादिश्रुतीनां तत्रैव स्वारस्याच्च | शक्तिशक्तिमतोरुपादानोपादेययोरत्यन्तमभेदः, न पुनरौपनिषदादिवद्भेदाभेदौ | अत एव सर्वं खल्विदं ब्रह्म इति सामानाधिकरण्यमभेदे, न पुनर्बाधायाम् | अद्वैतश्रुतयः सर्वा अप्येतदभिप्रायिका एवाविरुद्धाः | सर्वप्रमाणमूर्धन्यया श्रुत्या तदनुसारितन्त्रैश्चाद्वैते कथिते, तद्विरुद्धत्वेन भासमानः कार्यकारणयोर्भेदांश एव कल्पित आस्तां न पुनः सर्वोऽपि प्रपञ्चः | नेह नानास्ति किंचनः इत्यादिश्रुतिष्वपि भेदांशस्यैव निषेधो न प्रपञ्चस्य | एकमेवाद्वितीयम् इत्यादौ श्रूयमाणो भेदवत्प्रपञ्चाभावोऽपि विशेषणाभावप्रयुक्त एव | अत एव भामत्यां हाटकमकुटग्रन्थे भेदस्यैव हाटकन्यूनसत्ताकत्वं न मकुटस्योक्तं, परिणामस्य परिणामिसमानसत्ताकत्वावश्यिकत्वात् | मायामात्रमिदं द्वैतम् इत्यत्रापि द्वैतशब्देन भेदस्यैव मिथ्यात्वमुच्यते, न पुनर्भेदवतः तथात्वे तु प्रतियोगितासंबन्धेन जगत इवानुयोगितासंबन्धेन ब्रह्मणोऽपि भेदवत्त्वस्य सत्त्वात् सदसद्भ्यामभावो निरूप्यत इति न्यायसिद्धत्वाविशेषान्मिथ्यात्वापत्तेः | ततश्च श्रुतेरपि परिणामवाद एव संमतः सिध्यति | भगवता व्यासेनापि प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इत्यस्मिन्नधिकरण एकविज्ञानेन सर्वविज्ञानप्रतिज्ञां मृद्घटनखनिकृन्तनादिदृष्टान्तम् बहु स्यां प्रजायेय इत्यभिध्योपदेशादिकं चानुसंदधानेन परिणामवाद एवाभिप्रेतः, कण्ठरवेणोक्तश्च आत्मकृतेः परिणामात् इति सूत्रे | भाष्यकारैरपि तत्र विवर्तवादानुसारेण व्याचक्षाणैरपि सौन्दर्यलहर्याम्, मनस्त्वं व्योम त्वम्- इति श्लोके त्वयि परिणतायाम् इति स्वाभिमतः परिणामवाद एव स्फुटीकृतः | अस्मिन् पक्षे रहस्यनामसहस्रे मिथ्याजगदधिष्ठाना इत्यादौ श्रूयमाणं मिथ्यात्वं तु स्वानतिरिक्तरूपत्वम्, घटादिरूपेणानित्यत्वं ब्रह्मरूपेण नित्यत्वम्, मृद्घटयोरभेदेऽपि घटरूपेण ध्वस्तत्वं मृद्रूपेणाध्वस्तत्वं चेत्यादिवद्विरुद्धधर्मनिरासादिकमूह्यमित्यादिकः शांभवानन्दकल्पलतायां विस्तरः || ३ || इममेवार्थं श्लोकद्वयेनाह- नैसर्गिकी स्फुरत्ता विमर्शरूपास्य वर्तते शक्तिः | तद्योगादेव शिवो जगदुत्पादयति पाति संहरति || ४ || इहोत्पादनादि त्रयं तिरोधानानुग्रहयोरुपलक्षणम् || ४ || सावश्यं विज्ञेया यत्परिणामादभूदेषा | अर्थमयी शब्दमयी चक्रमयी देहमययपि च सृष्टिः || ५ || अवश्यम्, सर्वविज्ञानसाधनत्वान्मोक्षादिपुरुषार्थप्रदत्वाच्च | अर्थमयी शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वरूपा | शब्दमयी परादिवैखर्यन्ता | चक्रमयी बिन्द्वादिभूगृहान्ता | देहमयी सूक्ष्मादिस्थूलान्ता || ५ || तज्ज्ञानार्थमुपाया विद्या लोके चतुर्दश प्रोक्ताः | तेष्वपि च सारभूता वेदास्तत्रापि गायत्री || ६ || चतुर्दश विद्याः-चत्वारो वेदाः षडङ्गानि न्यायो मीमांसा पुराणं धर्मशास्त्रं चेति | तन्त्राणां धर्मशास्त्रेऽन्तर्भावः | तेषां प्रामाण्यसमर्थनं त्वस्मदीये त्रिपुरसुन्दरीबाह्यवरिवस्याविधौ द्रष्टव्यम् | तन्त्रराजव्याख्याने च विस्तरेण तन्त्राणां धर्मशास्त्रेऽन्तर्भावः प्रपञ्चयिष्यते | एवं च न शिष्टाकोपाधिकरणस्थवार्तिकविरोधः, शास्त्रपरिमाणानतिक्रमात् || ६ || तस्या रूपद्वितयं तत्रैकं यत् प्रपठ्यते ()स्पष्टम् | वेदेषु चतुर्ष्वपि परमत्यन्तं गोपनीयतरम् || ७ || तस्या गायत्र्याः स्पष्टमस्पष्टं चेति पदच्छेद आवृत्त्या | चरणत्रयम् तत् सवितुः इत्यादि स्पष्टम् | परोरजसे सावदोम् इति चतुर्थ चरणं त्वस्पष्टमित्यर्थः | परं श्रीविद्याख्यं द्वितीयं रूपम् || ७ || यद्यपि तन्त्रराजादौ सौन्दर्यलहर्यां च हादिविद्याया एव प्रथममुद्धारो दृश्यते, तथापि श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा इति वचनात्, षोडशीघटकत्वाच्च, यदक्षरैकमात्रेऽपि, यदेकादशमाधारम् इत्यादिरहस्यार्थप्रतिपाद्याक्षरशालित्वाच्च, त्रिशत्यामस्या एवादराच्च, त्रिपुरोपनिषद्येतन्मूलकत्वेनैवान्यासामुद्धाराच्च, योगिनीहृदयादावुक्तानामिहापि वक्ष्यमाणानामर्थानामत्रैव स्वारस्याच्च, शाङ्खायनश्रुतौ चत्वार ईं बिभ्रति इत्यस्यामृचि च प्रथममस्या एवोद्धाराच्च कादिविद्यायाः प्राधान्यमिति द्योतयंस्तस्याः प्रतीकमादत्ते- कामो योनिः कमलेत्येवं सांकेतिकैः शब्दैः | व्यवहरति न तु प्रकटं यां विद्यां वेदपुरुषोऽपि || ८ || कामो योनिः कमला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्रः | पुनर्गुहासकला मायया च पुरूच्येषा विश्वमातादिविद्या || इति शाङ्खायनश्रुतिः | कामो मातरिश्वा च ककारः | योनिरेकारः | कमला तुरीयः स्वरः | वज्रपाणिरिन्द्रश्च लकारः | गुहाद्वयं माया च लज्जाबीजम् | हसेति सकलेति च स्वरूपम् | गुहया सह समासाद्बहुवचनं न पुनः सकारो दीर्घः | एवं लकारोऽपि | अभ्रं हकारः | एतादृशैः सांकेतिकैः शब्दैर्व्यवहारादत्यन्तगोपनीयत्वं समर्थित्वं भवति || ८ || विद्यावर्णानुद्धरति- क्रोधीशः श्रीकण्ठारूढः कोणत्रयं लक्ष्मीः | मांसमनुत्तररूढं वाग्भवकूटं प्रकीर्तितं प्रथमम् || ९ || शिवहंसब्रह्मवियच्छक्राः प्रत्येकमक्षरारूढाः | द्वैतीयीकं कूटं कथितं तत् कामराजाख्यम् || १० || शिवतो वियतो मुक्तं तृतीयमिदमेव शक्तिकूटाख्यम् | हृल्लेखानां त्रितयं कूटत्रितयेऽपि योज्यमन्ते स्यात् || ११ || क्रोधीशो ब्रह्मा च ककारः | श्रीकण्ठोऽनुत्तरमक्षरं चाकारः | तमारूढस्तेन युक्तः | कोणत्रयं योनिः | लक्ष्मीः कमला | मांसं शक्रश्चेन्द्रः | शिवो वियच्च हकारः | हंसः सकारः | अक्षरसमूहात्मकत्वात् कूटत्वव्यपदेशः || ९-११ || हृल्लेखायाः स्वरूपं तु व्योमाग्निर्वामलोचना | बिन्द्वर्धचन्द्ररोधिन्यो नादनादान्तशक्तयः || १२ || व्यापिकासमनोन्मन्य इति द्वादशसंहतिः | बिन्द्वादीनां नवानां तु समष्टिर्नाद उच्यते || १३ || व्योम हकारः केवलो न त्वकारविशिष्टः | अग्नी रेफस्तादृशः | वामलोचनेकारः | बिन्द्वादयो नवापि सूक्ष्मसुक्ष्मतरसूक्ष्मतमकालैरुच्चार्या ध्वनिविशेषाः, वर्णविशेषा वा | न च ककारादिवत् स्पष्टमनुच्चार्यत्वात् तन्त्रीस्वरतुल्यत्वेन श्रूयमाणत्वाच्च कारप्रत्ययाद्यभावाच्च बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका इत्यादौ ध्वनिपदेनैव तन्त्रेषु व्यवहाराच्च न वर्णत्वमर्धचन्द्रादेरिति वाच्यम्, अनुस्वारविसर्गादावुक्तहेतुसत्त्वेऽपि वर्णत्वस्येष्टत्वात् | कथमन्यथा त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शुंभुमते मताः इति प्रतिज्ञाय अनुस्वारो विसर्गश्च-इति परिगणनं शिक्षायां संगच्छेत? न च तादृशसंख्याविरोधादेव नात्र वर्णत्वम्, तत्र स्पष्टोच्चार्याणामेव गणनात् | न च ताल्वादिपरिगणितस्थानानभिव्यङ्ग्यत्वान्न वर्णत्वम्, तदनभिव्यङ्ग्यत्वस्य पश्यन्त्यादावव्याप्तेः, चत्वारि वाक्परिमिता पदानि इति श्रुत्या वर्णसमूहात्मकपदत्वस्य स्पष्टमुक्तत्वाच्च | अत एव चतुःशतीशास्त्रे नादस्यार्थवर्णनं संगच्छते | न च रथघोषवत् पदार्थस्मारकत्वोपपत्तिः तत्र हि तत्कालकरणीयत्वसंबन्धेन माहेन्द्रस्तोत्रोपाकरणस्य स्मृतिविषयताया वाचनिकत्वेन रथघोषसामान्यस्य लौकिकादिसाधारणस्य स्मारकत्वाभावेन तस्य तत्र शक्तेरयोगात्, प्रकृते तु न तथेति वैषम्यात् हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः इत्यादौ प्रतिहृल्लेखं हकाररेफेकारानुस्वारनादपञ्चकमिति पञ्चदशाक्षराणीत्युक्त्या, नादेऽक्षरत्वव्यवहारस्यासकृद्योगिनीहृदये, भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ | अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते | महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः || इति ज्ञानार्णवादावप्यसकृद्व्यवहारस्य दर्शनाच्च | ध्वनिपदेन व्यवहारस्तु तत्तुल्यत्वाल्लक्षणया ध्वनिपर्यायनादपदवाच्यत्वान्नेयार्थरूपलक्षणया वा नेय इति दिक् | एवं च प्रथमतृतीयकूटे अष्टादशवर्णात्मके मध्यकूटं तु चतुरधिकम् संहत्याष्टपञ्चाशद्वर्णात्मिका विद्येति सिद्धम् | यद्यपि बिन्दुविनिर्मुक्तानामष्टानामेव नादसंज्ञा मन्त्रशास्त्रे, तथापि व्यवहारसौकर्याय तत्सहितानामेव सात्र कृतेति ध्येयम् || १२, १३ || सिद्धमेवाह- प्रथमेऽष्टादश वर्णा द्वाविंशतिरक्षराणि मध्ये स्युः | प्रथमेन तुल्यमन्त्यं संघातेनाष्टपञ्चाशत् || १४ || वर्णानां कालानाह- मात्राद्वितयोच्चार्या कामकला च त्रिकोण च | बिन्दुरहितहृल्लेखा मात्राकालत्रयोच्चार्याः || १५ || अन्येषां वर्णानां मात्राकालोऽर्धमात्रया सहितः | बिन्दोरर्धं मात्रा परे परे चापि पूर्वपूर्वार्धाः || १६ || संहत्यैकलवोनो मात्राकालोऽस्य नादस्य | मात्रा लघ्वक्षरस्य कालः | तद्द्विगुणो गुर्वक्षरस्य | अत एव कामकला कमला त्रिकोणा योनिश्च द्विमात्रा | हृल्लेखायां द्वयोर्व्यञ्जनयोरेका मात्रा, कामकलाया द्वे मात्रे इति तिस्रः | अन्येषामकारसहितानां ककारादिदशवर्णानाम् | बिन्दोरपि व्यञ्जनत्वादर्धा मात्रा, एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते | त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम् || इति वचनात् | परे परे, अर्धचन्द्ररोधिन्यादयः, पूर्वपूर्वार्धाः अर्धचन्द्रस्यार्धकालो रोधिन्याः, रोधिन्यर्धकालो नादस्येत्यादिक्रमेण कालवन्तः | अयं भावः-कालपरमाणुर्लव इत्युच्यते, नलिनीपत्रसंहत्याः सूक्ष्मसूच्यभिवेधने | दले दले तु यः कालः स कालो लवसंज्ञितः | अतः सूक्ष्मतमः कालो नोपलभ्यो भृगूद्वह || इति वचनात् | षट्पञ्चाशदुत्तरशतद्वयलवैरेका मात्रा | बिन्दोरष्टाविंशत्युत्तरशतं लवाः | अर्धचन्द्रस्य चतुःषष्टिः | रोधिन्या द्वात्रिंशत् | नादस्य षोडश | नादान्तस्याष्टौ | शक्तेश्चत्वारः | व्यापिकाया द्वौ लवौ | समनाया एको लवः | उन्मनायास्तु नास्त्येव कालः | यद्यपि योगिनीहृदये चक्रसंकेते दीपाकारोऽर्धमात्रश्च इत्यनेन बिन्दोः कालमुक्त्वा अर्धचन्द्रादेः शक्तिपर्यन्तस्य चतुरंशाष्टांशषोडशांशादिरूपभागद्वैगुण्यं कालस्योक्त्वा शक्त्यादीनां पूर्वपूर्वद्विगुणांशकालवत्त्वं सामान्येनोक्तम् चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं द्विगुणं ततः इति तेन च वचनेन मात्राया द्वादशोत्तरपञ्चशततमो भाग उन्मनाकाः, मात्रास्वरूपं च द्वादशोत्तरपञ्चशतलवात्मकत्वमेव प्रतीयते, अत एव देशकालान वच्छिन्न तदूर्ध्वं परमं महत् इत्युत्तरग्रन्थेऽप्युन्मनायाः परत एव कालानवच्छेद उक्त इति व्यक्तं प्रतीयते तथापि चतुःषष्टिः- इति श्लोकस्य शकेश्चतुःषष्टिततमो मात्राभागः, तदूर्ध्वं द्विगुणं व्यापिकाया अष्टाविंशत्युत्तरशततमो भागः, ततो द्विगुणं समनायाः षट्पञ्चाशदुत्तरशतद्वयात्मको भाग इत्यर्थस्ततस्तदूर्ध्वमिति पदाभ्यां द्विगुणपदद्वयेन च स्पष्टं प्रतीयते अत एवोत्तरार्धे शक्त्यादीनां च मात्रांशो मनोन्मन्यास्तथोन्मनी इत्यत्र मनोन्मनीति पदस्य समनापर्यायस्य समनापर्यन्तानामित्यर्थकत्वमङ्गीकृत्य शक्त्यादीनां तिसृणामित्यमृतानन्दैर्व्याख्यातम् | नादस्य बिन्द्वादिनवकस्य || १५, १६ || एकादश वाक्कूटे सार्धा एकादशोदिता मध्ये || १७ || सार्धा अष्टौ शक्तावेकैकलवोनिता मात्राः | संहत्यैकत्रिंशन्मात्रा मन्त्रे लवत्रयन्यूनाः || १८ || शक्तौ तृतीयकूटे || १७-१८ || उत्पत्तिस्थानयत्नावाह- कण्ठे च कण्ठतालुनि तालुनि दन्तेषु मूर्ध्नि नासायाम् | स्पृष्टविवाराद्यान्तरबाह्यैर्यत्नैस्तदक्षरोत्पत्तिः || १९ || ककारत्रयमकारदशकं हकारपञ्चकं च कण्ठे | द्वितीयमक्षरं कण्ठतालुनि | प्राण्यङ्गत्वादेकवद्भावः | ईकारचतुष्टयं तालुनि | लकारत्रयं सकारद्वयं च दन्तेषु | रेफत्रयं तु मूर्ध्नि | बिन्द्वादिनवकत्रयं नासायाम् | स्पृष्टेति | ककाराः स्पृष्टयत्नाः | अकाराः संवृताः | ईकारा एकारश्च विवृताः | रेफा लकाराश्चेषत्स्पृष्टाः | हकाराः सकारौ चेषद्विवृताः | बिन्द्वादयः संवृततमाः | इत्याभ्यन्तरो यत्नः | ककारा विवारश्वासाघोषवन्तोऽल्पप्राणवन्तश्च | सकारौ महाप्राणवन्तौ विवारादिमन्तौ च | स्वराः सर्वेऽप्युदात्ताः | रेफा लकाराश्च संवारनादघोषाल्पप्राणवन्तः | हकारास्तु संवारादित्रयवन्तो महाप्राणवन्तश्च | बिन्द्वादयस्त्वात्यन्तिकसंवारादिचतुष्कवन्तः | इति बाह्यः प्रयत्नः || १९ || अथ वर्णानां स्थितिस्थानं रूपमाकारं चाह- प्रलयाग्निनिभं प्रथमं मूलाधारादनाहतं स्पृशति | तस्मादाज्ञाचक्रं द्वितीयकूटं तु कोटिसूर्याभम् || २० || तस्माल्ललाटमध्यं तार्तीयं कोटिचन्द्राभम् | मालामणिवद्वर्णाः क्रमेण भाव्या उपर्युपरि || २१ || मूलाधारादित्यादि पञ्चमीत्रयं ल्यब्लोपे | मूलाधारमारभ्येत्यर्थः | तस्मादनाहतमारभ्य तस्मादाज्ञाचक्रमारभ्य | इदं च स्थानत्रयं बिन्द्वादिरहितकूटत्रयस्यैव | सुषुम्णाख्यनाडीमूलाग्रयोर्द्वे सहस्रदलकमले, मध्ये चाष्टदलषड्दलादीनि त्रिंशत्पद्मानि सविस्तरं स्वच्छन्दसंग्रहादौ प्रपञ्चितानि | तत्र गुदोपरि द्वव्यङ्गुलोर्ध्वे लिङ्गे नाभौ हृदि कण्ठे भ्रूमध्ये च मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्ध्या- ज्ञानामकानि चटुःषड्दशद्वादशषोडशद्विदलानि द्विद्विग्रन्थिमध्यसंदष्टानि चक्रपदवाच्यान्यपि षट् पद्मानि सन्तीत्यन्यत्र विस्तरः || २०, २१ || आधारोत्थितनादो गुण इव परिभाति वर्णमध्यगतः | अत्रेयं शब्दसृष्टिप्रक्रिया-वटबीजान्तर्गतवट- वृक्षीयसूक्ष्मरूपतुल्यशब्दसृष्टिसूक्ष्मरूपशालिनी पूर्वोक्तरूपा त्रिपुरसुन्दर्येव तादृशसूक्ष्मरूपवत्त्वप्रवृत्तिनिमित्तकपरापदवाच्या | सैव च माति तरति कायतीति च व्युत्पत्त्या मातृकेत्युच्यते | तस्यां च निर्विकारायामप्यनादिस्सिद्धप्राण्यदृष्टवशात् स्वान्तः संहृतविश्वसिसृक्षोत्पद्यते | ततः स्रष्टव्यपदार्थानालोचयति, तदैक्षत बहु स्यां प्रजायेय इति श्रुतेः | तादृशमीक्षणमेव प्रवृत्तिनिमित्तीकृत्य तस्यां पश्यन्तीति पदं प्रवर्तते | सैव च पश्यन्त्याख्या मातृका करणसरणित उत्तीर्णत्वादुत्तीर्णेत्युच्यते | तदवयवाश्च वामादयोऽष्टौ शक्तयोऽन्यत्र प्रपञ्चिताः | अतः सैव व्यष्टिसमष्टिवेषेण नवविधा | ततो नव नादा अविकृतशून्यादयो जाताः | तत्समष्टिश्च नादध्वन्यादिपदवाच्या नातिसूक्ष्मा परावन्नातिस्थूला वैखरीवदतो मध्यमाख्या मातृका मध्यमावयवरूपमविकृतशून्यस्पर्शनादध्वनि- बिन्दुशक्तिबीजाक्षराख्यं नादनवकं मूलाधारादिषट्के नादे नादान्ते ब्रह्मरन्ध्रे च स्थितं | नवभिर्नादैरकचटतपयशलाख्यवर्गनवकवती वैखर्याख्या मातृका जाता, वै निश्चयेन स्पष्टतरत्वात् खं कर्णविवरवर्तिनभोरूपश्रोत्रेन्द्रियं राति गच्छति, तज्जन्यज्ञानविषयो भवतीति व्युत्पत्तेरित्याद्यन्यतो विस्तरः | एवं च ककारादौ कत्वादिवर्णधर्माणां षड्जत्वादिध्वनिधर्माणां चानुभूयमानत्वात् परिणामे परिणामिनोऽनुस्यूतताया मृद्घटे दर्शनाच्च वर्णेषु नादोऽनुस्यूतः | तन्तुविशेषजन्यः पटविशेषो वर्णकपदवाच्यः | तत्र कप्रत्ययपरित्यागेन प्रयोगस्त्वक्षरवाचकवर्णपदेन श्लेषार्थः | गुण इव वर्णकाख्यपटविशेषोपादानभूततन्तुविशेषवन्माला- मण्याधारसूत्रवच्चेत्यर्थः | वर्णमध्यगत इत्यस्य द्वयोर्वर्णयोर्मध्यभागे वर्णशरीरान्तर्भागे च स्थित इत्यर्थः | अयं भावः-द्वयोर्वर्णयोर्मध्यभागे मणिद्वयमध्यभागस्थशुद्धसूत्रवच्छुद्धनादस्य भानम्, वर्णशरीरान्तर्भागे तु पटाभेदेन संवलिततन्तुवद्घटान्तर्मृद्वच्च तत्तद्वर्णाभेदेनैव नादस्य भानम्, न पुनस्तत्र मण्यन्तर्गतसूत्रदृष्टान्तः तस्य मणितोऽत्यन्तभिन्नत्वादिति || २१ || अथावशिष्टस्य बिन्द्वादिनवकस्य स्थितिस्थानरूपाकारानाह- मध्येफालं बिन्दुर्दीप इवाभाति वर्तुलाकारः || २२ || तदुपरि गतोऽर्धचन्द्रोऽन्वर्थः कान्त्या तथाकृत्या | अथ रोधिनी तदूर्ध्वं त्रिकोणरूपा च चन्द्रिकाकान्तिः || नादस्तु पद्मरागवदण्डद्वयमध्यवर्तिनीव सिरा | नादान्तस्तडिदाभः सव्यस्थितबिन्दुयुक्तलाङ्गलवत् || २४ || तिर्यग्बिन्दुद्वितये वामोद्गच्छत्सिराकृतिः शक्तिः | बिन्दूद्गच्छत्त्र्यश्राकारधरा व्यापिका प्रोक्ता || २५ || ऊर्ध्वाधोबिन्दुद्वयसंयुतरेखाकृतिः समना | सैवोर्ध्वबिन्दुहीनोन्मना तदूर्ध्वं महाबिन्दुः || २६ || शक्त्यादीनां तु वपुर्द्वादशरविकान्तिपुञ्जाभम् | मध्येफालं फालस्य मध्ये | पारे मध्ये षष्ठ्या वा इति समासः | कान्त्या, आकृत्या चान्वर्थः अर्धचन्द्रवत्कान्तिराकारश्चेत्यर्थः | अण्डस्थानीयौ द्वौ बिन्दू सिरास्थानीया मध्यरेखा चेति त्रयं संहत्य नादस्याकारः बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः इति चक्रसंकेतोक्तेः | शेवो मुष्कद्वयमध्यवर्तिनी नाडी, मणिः पद्मराग इति तु सांप्रदायिकी व्याख्या | दण्डस्य शेवरूपत्वविशेषणं घनतादार्ढ्ययोर्निरासाय, केशतुल्यपिष्टविकारेषु पायसोपयुक्तेषु शेवपदप्रयोगादित्यपि व्याख्या नातीव विरुद्धा | ऊर्ध्वाग्रं दक्षिणारं लाङ्गलम्, वामभागे बिन्दुरेक इति नादान्ताकारः | विसर्जनीयवदूर्ध्वाधो बिन्दुद्वयमिति भ्रमनिरासायाह-तिर्यगिति | वामाद्वामभागस्थबिन्दुमारभ्योर्ध्वं गच्छन्ती निःसरन्ती या सिरा रेखा तदाकारेत्यर्थः | शक्तिर्वामस्थबिन्दूद्यत्सिराकारा इति चक्रसंकेते | आर्षत्वात् समस्तस्यापि बिन्दुपदस्य पूर्वपदेन सह बहुब्रीह्यवयवत्वेन, उत्तरपदेन सह पञ्चमीतत्पुरुषावयवत्वेनापि काकाक्षिन्यायेनान्वय इति सांप्रदायिकैर्व्याख्यानात् | उद्यत्पदस्य सामान्यवाचकस्यापि बिन्दूद्यदिति विशेषे लक्षणायां वामस्थाद्बिन्दोरुद्यत्याः सिराया आकारो यस्या इत्येव विगृह्य बिन्दोर्वामस्थत्वविशेषणबलादेव दक्षिणादिग्भागे निःसिराक एको बिन्दुरस्तीति गम्यत इति व्याख्यायां वा न कोऽपि क्लेशः | बिन्दुसंस्पृष्टाग्रकत्रिकोणाकारा व्यापिका | बिन्दुद्वयान्तरालस्थ-ऋजुरेखामयी पुनः | समना इति वचने शक्तिवद्बिन्दुद्वयं तिर्यग्रूपं मा भूदित्यतः संप्रदायमनुसरन्नाह-उर्ध्वाध इति | संयुता अग्रमूलभागयोः संश्लिष्टा, न त्वस्पृशन्ती स्थिता | इयं च ब्रह्मरन्ध्रसंस्थाना | इयमेव च मनोन्मनीत्यपि व्यवह्रियते | मनसो यथावरिथतरूपस्यैवाभ्यास- विशेषेणैतावत्पर्यन्तवृत्त्युद्गमः सुसाध इत्यतः समनेत्युच्यते | एतदुपरि तु रूपान्तरं प्राप्तस्यैव मनसो धृतिविषयतेत्यत उत्क्रान्तमनस्कत्वादुन्मना | प्रकृतानुपयुक्तमप्युन्मनोपरिस्थानं चक्रराजस्य त्रिविधभावनान्तर्गतनिष्कलभावनायामुपयुक्तत्वेन प्रसङ्गादाह-तदूर्ध्वं महाबिन्दुरिति || शक्त्यादीनामिति | समनान्तानां तिसृणामिति संप्रदायः | शक्त्यादीनां तिसृणां द्वादशरवितुल्यकान्तयस्तनवः इति पाठो युक्तः | बिन्द्वादिस्वरूपाङ्गविस्तरः स्वच्छन्दसंग्रहे द्रष्टव्यः || २२-२६ || अथ वर्णानामुच्चारणप्रकारमाह- इत्येवं वर्णानां स्थानं ज्ञात्वोच्चरेद्यत्नात् || २७ || नादः प्राथमिकस्तु द्वितीयकूटेन साकमुच्चार्यः | द्वैतीयीकं नादं तार्तीयेनोच्चरेन्न पृथक् || २८ || बिन्द्वादिनवकयोस्तु प्राक्तनकूटस्थयोरनयोः | संमेलनेन शबलं तार्तीयीकं विभावयेत् कूटम् || २९ || बिन्द्वादिकसमनान्तं क्रमेण तार्तीयमुच्चरेन्नादम् | उन्मन्यन्तर्लीनं विभावयेदेतदुच्चरणम् || ३० || स्थानं कण्ठाद्युत्पत्तिस्थानं मूलाधारादि स्थितिस्थानं च | यत्नादान्तरबाह्ययत्नपूर्वकम् | इदं च मानसजपातिरिक्तविषयम् | तत्र तत्तत्स्थानयत्नविभावन- मात्रस्योपयोग इति द्रष्टव्यम् | नादो बिन्द्वादिनवकम् | पूर्वपूर्वकूटस्थनादस्योत्तरोत्तरकूटोच्चारणेनैवो- च्चरितप्रायत्वान्न तत्र पार्थक्येन यत्नः कालविलम्बो वा कार्य इत्यर्थः | तृतीयकूटे तूत्तरकूटाभावात्तदुभयमपेक्षितमित्याह-बिन्द्वादिकेति || २७-३० || पूर्वं विद्यास्वरूपस्य काल उक्तः, इदानीमुच्चारणकालं निष्कृष्याह- आद्ये दश मध्ये ताः सार्धास्तार्तीयकूटेऽष्टौ | एकलवोना ऊनत्रिंशन्मात्रा मनोर्जपे कालः || ३१ || आद्ये कूटे दश मात्राः | मध्ये कामराजकूटे ता दश सार्धा मात्राः | तार्तीयकूटेऽष्टाविति | अस्य पूर्वपरवर्ति पदद्वयं काकाक्षिन्यायेन द्विर्द्विरन्वयितव्यम् | तेनैकलवोनाः सार्धा अष्टौ मात्रास्तृतीयकूटे यथा पूर्वमवस्थिता इत्यर्थः | संहत्य त्वाह-एकलवोना इति | ऊनत्रिंशदेकोनत्रिंशत् जपे वाचिके | न तु मानसे पूर्वोक्तकालादयः | प्रथमद्वितीयकूटस्थास्तु यत्र न्यासादौ संध्याङ्गभूतैकैककूटमात्रजपे च प्रातिस्विकमुच्चारणेन कूटानां विनियोगविधिस्तत्रैव सार्थका इति विज्ञेयम् || ३१ || अथ कूटानां व्यष्टिसमष्टिभेदेन चतुर्धा भिन्नानां स्वरूपविशेषानाह- व्यष्टिसमष्टिविभेदादस्यां चत्वारि बीजानि | सृष्टिस्थितिसंहारानाख्यारूपाणि भावनीयानि || ३२ || पुटधामतत्त्वपीठान्वयलिङ्गकमातृतत्समष्टीनाम् | रूपान्तराणि बीजान्यमूनि चत्वारि चिन्तनीयानि || ३३ || अनाख्या तिरोधानानुग्रहयोः समष्टिः, कृत्य- पञ्चकेष्वप्यौदासीन्यावलम्बनरूपावस्थानविशेषो वा | पुटादिषट्कं धामसप्तकं च त्रित्रिरूपं पृथक् पृथक्, तत्समष्टिरेकैकेत्येवं चत्वारि चत्वारि यथा-पुटानि ज्ञातृज्ञानज्ञेयानि तत्सामरस्यं च | धामानि चक्रनाथदशाशक्तित्रयात्मरूपाणि सप्त | तत्र चक्राण्यग्निचक्रसूर्यचक्रसोमचक्राणि ब्रह्मचक्रं च | नाथा मित्रेशनाथषष्ठीशनाथोड्डीशनाथाश्चर्या-नन्दनाथश्च | दशा जाग्रत्स्वप्नसुषुप्तयस्तुरीया च | शक्तयः- वामाज्येष्ठारौद्र्यः शान्ता च इच्छाज्ञानक्रिया अम्बिका च कामेश्वरीवज्रेश्वरीभगमालिन्यो महात्रिपुरसुन्दरी च | आत्मान आत्मान्तरात्मपरमात्मानो ज्ञानात्मा च | तत्त्वान्यात्मतत्त्वविद्यातत्त्वशिवतत्त्वानि सर्व तत्त्वं च | पीठानि कामरूपपूर्णगिरिजालंधराण्योड्याणपीठं च | अन्वयाः प्राग्दक्षिणपश्चिमान्वया उत्तरान्वयश्च | एत एव समयपदेनाम्नायपदेन च कथ्यन्ते | लिङ्गानि स्वयंभूबाणेतराणि परं च | मातृकाः पश्यन्तीमध्यमावैखर्यः परा च | धामपदार्थत्वेनोक्तं शक्तित्रयं मातृपदस्य वार्थः || ३२, ३३ || अथ प्रत्यक्षरं स्वरूपमाह- एकैकस्मिन् कर्मणि सृष्ट्यादिविभेदतस्त्रिविधे | ब्रह्माद्या अधिपतयो भारत्यादिस्वशक्तिभिः सहिताः || ३४ || ब्रह्मादयस्त्रयोऽमी भारत्याद्याश्च शक्तयस्तिस्रः | प्रत्यक्षरस्वरूपाः शाक्तार्थे वक्ष्यमाणया रीत्या || ३५ || सृष्टिकर्म त्रिविधं सृष्टिसृष्टिः सृष्टिस्थितिः सृष्टिसंहृतिश्चेति | एवं स्थितिकर्म स्थितिसृष्टिः स्थितिस्थितिः स्थितिसंहृतिश्चेति | एवं संहृति कर्मापि संहृतिसृष्टिः संहृतिस्थितिः संहृतिसंहृतिश्चेति | अत्र प्रतित्रिकं ब्रह्मादयस्त्रयो ब्रह्मविष्णुरुद्रा भारतीपृथिवीरुद्राणीसहिता अधिपतयः | एवं च प्रथमकूटे-ककारो ब्रह्मण एव रूपान्तरम्, त्रिकोणा तु भारतीस्वरूपा, तुर्यः स्वरो विष्णुस्वरूपः, लकारः पृथिवीस्वरूपः | हकारो रुद्रस्वरूपः, रेफो रुद्राणीस्वरूपः, तुर्यः स्वरस्तु शान्ताम्बिकात्मकमिथुनस्वरूपः | द्वितीयकूटे मध्यमहकारं परित्यज्यावशिष्टाक्षरेष्वेषैव रीतिः | तृतीयकूटे तु द्वितीयकूटस्थपरित्यक्तहकारस्य ब्रह्मस्वरूपत्वाद्भारतीमारभ्यैव सकारेणारम्भः | शक्तिकूटत्वेन शक्तेः प्राधान्येन प्रथमं निर्देशः | तदेतदाह-शाक्तार्थे वक्ष्यमाणयेति || ३४, ३५ || अथावशिष्टानां बिन्द्वादीनां स्वरूपमाह- हृल्लेखाकामकलासपरार्धकलाख्यकुण्डलिन्युत्थाः | नादाश्चक्रत्रितयत्रितयात्मानो विभावनीया रयुः || ३६ || अत्र प्रथमकूटे या हृल्लेखा, तदन्तर्गता या कामकला, तस्यां गुरुमुखैकवेद्या या सपरार्धकला, सा बह्निकुण्डलिनीत्युच्यते | सैव द्वितीयकूटे सूर्यकुण्डलिनीति, तृतीयकूटे सोमकुण्डलिनीति च कथ्यते | बिन्द्वादिसमष्टिरूपो नादस्तु तत एवोत्पन्नो दीपशिखाग्र-वर्तिकज्जललेखावत् | एवं चानाहतमारभ्योत्थितो नादस्त्रैलोक्यमोहनसर्वाशापरिपूरकसर्वसंक्षोभण- चक्रत्रयस्य त्रिविधसृष्टिरूपस्यापरं रूपम् भ्रूमध्यमारभ्योत्थितो नादः सर्वसौभाग्यदायक- सर्वार्थसाधकसर्वरक्षाकरचक्रत्रयस्य त्रिविधस्थितिरूपस्यापरं रूपम् बिन्दुस्थानमारभ्योत्थितो नादः सर्वरोगहरसर्वसिद्धिप्रदसर्वानन्दमयचक्रत्रयस्य संहृतित्रयरूपस्यापरं रूपमिति विभावनीयाः || ३६ || अथावस्थापञ्चकं शून्यषट्कं विषुवत्सप्तकं च जपकाले विभाव्यमाह- इन्द्रियदशकेत्यादिना, एवमवस्थेत्यन्तेन श्लोकषोडशकेन | इन्द्रियदशकव्यवहृतिरूपा या जागरावस्था | तत्र प्रकाशरूपो हेतुर्भाव्यस्तृतीयगे रेफे || ३७ || कर्मेन्द्रियाणि पञ्च वाक्पाणिपादपायूपस्थानि ज्ञानेन्द्रियाण्यपि पञ्च घ्राणरसनचक्षुस्त्वक्श्रोत्राणि एतेषां दशानां स्वस्वविषयोत्पादकत्वं व्यवहारः स एव जागरावस्था | तत्र हेतुरूपं ज्ञानमरूपत्वाद्भावनादशायां प्रकाशरूपत्वेन तृतीयकूटस्थरेफस्थाने विभावनीयम् || ३७ || अन्तःकरणचतुष्कव्यवहारः स्वाप्निकावस्था | सा तार्तीयेकाराद्बोध्यापि गलस्थले चिन्त्या || ३८ || मनो बुद्धिरहंकारश्चित्तं चेत्यन्तःकरणानि चत्वारि | तैरेव व्यवहारः स्वप्नः | तज्जनकः प्रकाशस्तृतीयहृल्लेखास्थकामकलया बोध्यः | अथापि गलस्थले द्वैतीयीकलकारे चिन्त्यः | गलस्थश्चासौ लश्चेति विग्रहः || ३८ || आन्तरवृत्तेर्लयतो लीनप्रायस्य जीवस्य | वेदनमेव सुषुप्तिश्चिन्त्या तार्तीयबिन्दौ सा || ३९ || विवरणमत आत्मसुखाज्ञानविषयिकास्तिस्रोऽविद्यावृत्तयः स्वीकृता इत्यत आह-आन्तरवृत्तेरिति | अन्तःकरणपरिणामरूपवृत्तेरित्यर्थः | वार्तिकमते वृत्तिसामान्याभाव एव सुषुप्तिः | तार्तीयबिन्दौ ललाटस्थाने || ३९ || तुर्यावस्था चिदभिव्यञ्जकनादस्य वेदनं प्रोक्तम् | तद्भावनार्धचन्द्रादिकं त्रयं व्याप्य कर्तव्या || ४० || अर्धचन्द्ररोधिनीनादेषु व्याप्तस्तुर्यावस्थाप्रकाशो भाव्यः || ४० || आनन्दैकघनत्वं यद्वाचामपि न गोचरो नॄणाम् | तुर्यातीतावस्था सा नादान्तादिपञ्चके भाव्या || ४१ || अवस्थापञ्चकं निरूप्य शून्यषट्कं निरूपयति- तार्तीयीके रेफस्थाने बिन्दौ च रोधिन्याम् | नादान्तव्यापिकयोश्चन्द्रकतुल्यानि पञ्च शून्यानि || ४२ || उन्मन्यां नीरूपं षष्ठं चिन्त्यं महाशून्यम् | चन्द्रको मयूरपिच्छाग्रगतं चन्द्राकारं शून्यम् | तदुक्तं स्वच्छन्दसंग्रहे- शिखिपक्षचित्ररूपैर्मण्डलैः शून्यपञ्चकम् | ध्यायतोऽनुत्तरे शून्यं परं व्योम तनुर्भवेत् || इति | यद्यपि अग्न्यादिद्वादशान्तेषु त्रींस्त्रींस्त्यक्त्वा वरानने | शून्यत्रयं विजानीयादेकैकान्तरितं प्रिये | शून्यत्रयात् परे स्थाने महाशून्यं विभावयेत् || इति पूजासंकेते रेफादिमहाबिन्द्वन्तेषु द्वादशसु स्थानेषु मध्ये त्रयं त्रयं त्यक्त्वा, एकैकमन्तरितं मध्यस्थितं शून्यत्रयं विजानीयादित्यर्थादर्धचन्द्रशक्तिमहाबिन्दुषु शून्यत्रयं तदूर्ध्वं चतुर्थमित्यर्थः अथ वा, आदावन्ते च त्रयं त्रयं त्यक्त्वामध्यस्थेऽर्धचन्द्रादिव्यापिकान्तषट्क एकैकव्यवधानेन शून्यत्रयं तत्परे चतुर्थमित्यर्धचन्द्रनादशक्तिषु त्रीणि शून्यानि व्यापिकायां महाशून्यमिति वार्थः स्पष्टं प्रतीयते तथापि शून्यषट्कं सुरेशानि अवस्थापञ्चकं पुनः | विषुवत्सप्तरूपं च भावयन्मनसा जपेत् || इत्युपक्रमविरोधादन्यथार्थः | तथा हि-अग्न्यादीति भिन्नं पदं शून्यत्रयेऽन्वेति | अन्तशब्दश्चरमावयववाची | अर्थाच्चरमहृल्लेखासंबन्धिषु द्वादशस्ववयवेषु हकाराद्युन्मनान्तेषु, अग्न्यादि रेफमारभ्य शून्ययोस्त्रयं शून्यषट्कं विजानीयात् | तच्च न रेफादिसांतत्येन, किं त्वेकैकव्यवधानेनेति | अत आह-एकैकान्तरितमिति | प्रथमशून्यस्य रेफस्थानीयत्वे कथिते व्यवधानमर्थाद्धकारेकारार्धचन्द्रनादशक्ति-समनाभिः षड्भिरिति सिध्यति | तदेवाह-त्रींस्त्रीनिति | द्विगुणितांस्त्रींस्त्यक्त्वेत्यर्थः | शून्यत्रयात् शून्ययोस्त्रयस्य, तत्षट्कस्येत्यर्थः | सुपां सु- इति सुपो ङस आदादेशः | निर्धारणे षष्ठी | तेषां मध्ये परे चरम उन्मन्यां महाशून्यमिति | एतद्विभावनस्य परमरहस्यत्वादित्थं क्लेशेनोक्तिरित्यन्वयितव्यम् || ४२,४२- || क्रमात् प्राप्तानि सप्त विषुवन्त्याह- प्राणात्ममानसानां संयोगः प्राणविषुवाख्यः || ४३ || ककारात्मकवायुः प्राणः | आत्मा प्राणा मनश्चेत्येतेषामैक्यं प्राणविषुवसंज्ञमिति केचित् | यथाश्रुतमन्ये || -४३ || मन्त्रविषुवमाह- प्राथमिककूटनादे त्वनाहताद् ब्रह्मरन्ध्रान्ते | व्यष्टिसमष्टिविभेदाद् बीजचतुष्कस्य च स्वस्य || ४४ || ऐक्येन नादमयताविभावनं मन्त्रविषुवाख्यम् | प्राथमिककूटनादे बीजचतुष्कस्यैक्यम्, स्वस्यत्मनस्त्वाधारोत्थितनादेन सहैक्यं न प्राथमिकेनानाहतादारब्धेन सह, आधारोत्थितनादे तु लीनं बुद्ध्वात्मरूपकम् | संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि || अनाहताद्याधारान्तं नादात्मत्वविचिन्तनम् | विषुवम्- - - - - - - - - - - - - - - - - - - - - - - - - - - || इति कादिमतीयवचनात् | संयोगेन समष्ट्या | वियोगेन व्यष्ट्या चतुर्विधानामिति शेषः | आधाराणामन्तो ब्रह्मरन्ध्रम् | आधारान्तान्तमिति तन्त्रेणान्तपदद्वयसत्त्वाद्ब्रह्मरन्ध्रान्तमित्यर्थकत्वेन व्याचक्षते | आ आधारान्तादित्यर्थक आङ्प्रश्लेषे तु सर्वं सुस्थम् || ४४, ४४- || नाडीविषुवमाह- आधारोत्थितनादस्योच्चाराद् ब्रह्मरन्ध्रान्तम् || ४५ || षट्चक्राणां ग्रन्थीन् द्वादश भिन्दन् सुषुम्णयैव पथा | नाडीनादार्णानां संयोगो नाडिकाविषुवम् || ४६ || मूलाधारादिचक्रषट्कस्याप्यध ऊर्ध्वं चैकैको ग्रन्थिरिति द्वादश ग्रन्थयः | तद्भेदनमार्गेणैव सुषुम्णानाडी मूलाधाराद् ब्रह्मरन्ध्रं व्याप्नोति | तेनैव मार्गेण नादस्य वर्णपङ्क्तेश्च नाडीसंयुक्तत्वेन भावनयोच्चारणं नाडीविषुवमित्यर्थः || -४५, ४६ || प्रशान्तविषुवमाह- रेफे कामकलार्णे हार्दकलायां च बिन्द्वादौ | नादान्तावधि नादः सूक्ष्मतरो जायते तत्र || ४७ || शक्तेर्मध्ये तल्लयचिन्तनमुदितं प्रशान्तविषुवाख्यम् | तृतीयकूटस्थरेफादिषु सप्तसु स्थानेष्वाधारादारब्धस्य नादस्य तत्र सूक्ष्मतरतादशा, अभिघातादुत्तरोत्तरक्षणेषु कांस्यतालध्वनिवत् | तस्य शक्तौ लयो भाव्य इत्यर्थः || ४७, ४७- || शक्तिविषुवमाह- शक्त्यन्तर्गतनादं समनायां भावयेल्लीनम् || ४८ || शक्तिस्थानादूर्ध्वं पुनरुज्जीवितस्य नादस्य सूक्ष्मतमस्य व्यपिका मुल्लङ्घ्य समनायां लयः शक्तिविषुवमित्यर्थः || ४८ || समनोर्ध्वं पुनरुज्जीवितस्यात्यन्तं सूक्ष्मतमस्य नादस्योन्मन्यां लयः कालविषुवमित्याह- समनागतमुन्मन्यामेते द्वे शक्तिकालविषुवाख्ये | तत्त्वविषुवमाह- श्रीविद्याकूटावयवेषु ककारादिषून्मनान्तेषु || ४९ || अकुलादिकोन्मनान्तप्रदेशसंस्थेषु सकलेषु | अध्युष्टनिमेषोत्तरसप्तदशाधिकशतत्रयत्रुटिभिः || ५० || उच्चरिते नादे सति तस्यान्ते तत्त्ववेदनं भवति | तदिदं चैतन्याभिव्यक्तिनिदानं तु तत्त्वविषुवाख्यम् || ५१ || उक्तेषु द्वात्रिंशत्पद्मष्वधस्तनद्वयं चरमं चाकुलपद्मानि | शेषाणि कुलपद्मानि | तेषु यद्यपि मूलाधाराख्यात् कुलपद्मादेव विद्याक्षराणामारम्भः, तथापि चक्रराजस्य सकलाख्यभावनाया अधस्तनसहस्रदलकमलमारभ्यैव अकुले विषुसंज्ञे च इत्यादिना चतुःशत्यामुक्तत्वात् कुलाकुलविद्ययोरभेदेन श्रीविद्याया अपि तत आरम्भोक्तिस्तन्त्रेषु | अध्युष्टं सार्धत्रयम् | निमेषो लोचनस्पन्दकालः | तस्य त्रिसहस्रतमोऽशस्त्रिटिः, स्वस्थे नरे समासीने यावत् स्पन्दति लोचनम् | तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः | तत्परस्य शतांशस्तु त्रुटिरित्यभिधीयते || इति वचनात् | एवं च (१०८१७) अयुतोत्तराष्टशतोत्तरसप्तदशत्रुटिपर्यन्तं विद्यावयवस्थानसंलग्नतापूर्वकं नादोच्चारणे कृते सति, तत्त्वस्य स्वसंविदभेदस्य बोधो भवति | तदिदमुच्चारणं तत्त्वविषुवम् || -४९-५१ || उपसंहारपूर्वकं जपं लक्षयति- एवमवस्थाशून्यविषुवन्ति चक्राणि पञ्च षट् सप्त | नव च मनोरर्थांश्च स्मरतोऽर्णोच्चारणं तु जपः || ५२ || अवस्थादिचतुष्टये संख्याचतुष्टयस्य क्रमादन्वयः | नादत्रयस्य चक्रत्रयात्मकत्वभावनं प्रागुक्तम् | चक्रसंकेते त्वन्यदपि त्रयमुक्तम्-चक्रभावनं त्रिविधं सकलं निष्कलं सकलनिष्कलं चेति | अकुलसहस्रारं मूलाधारादिपञ्चकं सूक्ष्मजिह्वा भ्रूमध्यं बिन्दुस्थानं चेति नवसु स्थानेषु त्रैलोक्यमोहनादिचक्रनवकभावनं सकलम्, बिन्द्वाद्युन्मन्यन्तं तद्भावनं द्वितीयम्, महाबिन्दावेव तद्भावनं तृतीयमिति | मनोर्मन्त्रस्यार्थाननुसंदधानस्य विद्याया अर्णानामक्षराणामष्टपञ्चाशतो मध्य आद्यकूटद्वितयबिन्द्वादिनवकद्वयप्रहाणेनाव-शिष्टानां चत्वारिंशतोऽक्षराणामुच्चारणं जपो जपपदवाच्यमित्यर्थः || ५२ || भास्कररायेण गोरोः करुणावशतः समुन्मिषिते | वरिवस्यातिरहस्ये पूर्वांशः पूर्णतामगमत् || ५३ || इति श्रीनृसिंहानन्दनाथचरणाराधकेन भास्कररायापरनाम्ना भासुरानन्दनाथेनोन्नीते वरिवष्यारहस्ये तत्प्रकाशे च प्रथमोऽशः द्वितीयोंऽशः जपलक्षणशरीरघटकत्वेन यदधीतमविज्ञातं निगदेनैव शब्द्यते | अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् || इत्यर्थज्ञानरहितशब्दोच्चारणस्य निन्दया पापानुमानाच्चार्थज्ञानमावश्यिकमित्याह- नार्थज्ञानविहीनं शब्दस्योच्चारणं फलति | भस्मनि वह्निविहीने न प्रक्षिप्तं हविर्ज्वलति || ५४ || अर्थमजानानानां नानाविधशब्दमात्रपाठवताम् | उपमेयश्चक्रीवान् मलयजभारस्य वोढैव || ५५ || चक्रीवान् गर्दभः | यद्यपि यथा खरश्चन्दनभारवाही इति श्रुतौ खरस्यैवोपमानता, तथापि सादृश्यनिरूपकगुणाधिक्यवत एवोपमानत्वात् तदाधिक्यव्यञ्जनाय प्रतीपालंकार इवोपमानोपमेययोर्व्यत्यासः || ५४, ५५ || पुरुषार्थानिच्छद्भिः पुरुषैरर्थाः परिज्ञेयाः | अर्थानादरभाजां नैवार्थः प्रत्युतानर्थः || ५६ || एतेनार्थज्ञानस्य नित्यत्वमुक्तं भवति || ५६ || ते चार्थास्तन्त्रोपनिषद्ग्रन्थभेदेन नानाविधाः शिवेनोक्ताः | तांश्च संजिघृक्षुरुद्दिशति- अथातः पूर्णगायत्र्याः प्रतिपाद्योऽर्थ आदिमः | भावार्थः संप्रदायार्थो निगर्भार्थस्तुरीयकः || ५७ || कौलिकार्थो रहस्यार्थो महातत्त्वार्थ एव च | नामार्थः शब्दरूपार्थश्चार्थो नामैकदेशगः || ५८ || शक्तार्थः सामरस्यार्थः समस्तसगुणार्थकौ | महावाक्यार्थ इत्यर्थाः पञ्चदश्याः स्वसंमिताः || ५९ || अथानन्तरम्, अत उक्तरीत्या अर्थज्ञानस्यावश्यिकत्वात्, अर्थाः कथ्यन्त इति शेषः | पूर्णगायत्र्याश्चतुर्थचरणसहितायाः | स्व आत्मीया वर्णाः, तैः संमिताः, तत्संख्यासमानसंख्याकाः | पञ्चदशेति यावत् | अथ वा, संप्रदायार्थप्रकरणे कादिविद्यायां सप्तत्रिंशद्वर्णाः स्फुटीकरिष्यन्ते, तत्संमिता अर्था इत्यर्थः || ५७-५९ || त्रिपुरोपनिषदि प्रतिपादितं गायत्र्यर्थमाह- कामयते स ककारः कामो ब्रह्मैव तत्पदस्यार्थः | सवितुर्वरेण्यमिति वै सवितुः श्रेष्ठं द्वितीयवर्णार्थः || ६० || सर्वान्तर्यामि दधद्भर्गो देवस्य धीति तुर्यार्थः | पृथ्वी मही लकारस्तृतीयतुर्याङ्घ्रिबोधिका माया || ६१ || ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति स्मृतेः, तदिति ब्रह्म शाश्वतम् इति श्रुतेश्च तत्पदार्थो ब्रह्म | तदेव च ककारार्थः कं ब्रह्म इति श्रुतेः | कामयत इत्यर्थो वा | कमेरौणादिको डः | कामयते कामी जायते स एव निरञ्जनोऽकामत्वेनोज्जृम्भते कामोऽभिधीयते, तत्परिभावया कामः ककारं व्याप्नोति इति श्रुतेः | कामेश्वर इति श्रुतेः | कामेश्वर इति तु पर्यवसितम् | सवितुरिति तु प्रत्ययान्तम् पुरा वत्सानामपाकर्तोः इत्यादि कल्पसूत्रीयप्रयोगवत् | प्राणिप्रसवकारणम् | योनिरिति यावत् | तच्च नान्यसाधरणमित्यतो वरेण्यमिति श्रेष्ठं भजनीयमित्यर्थः | तेन पदद्वयेनापि जगद्योनित्वं लब्धम् | तेन च कामेश्वरीत्यर्थः | स एव चार्थ एकारस्य, तस्य त्रिकोणत्वात् | तथा च श्रुतिः- सवितुर्वरेण्यमिति षूञ् प्राणिप्रसवे, सविता प्राणिनः सूते इत्युपक्रम्य त्रिकोणा शक्तिकारेण महाभगेन प्रसूते तस्मादेकार एव गृह्यते इत्यादि | यदेकादशमाधारं बीजं कोणत्रयात्मकम् | ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते || इति वामकेश्वरतन्त्रे स्पष्टं दृश्यते | सर्वेति | सर्वान्तर्यामित्वं देवपदस्यार्थः, देवो मध्यवर्ती इति श्रुतेः | सोर्ङस् | धत्त इति धीः | दधत् | जगदाधार इत्यर्थः, धरो धीत्येवं धार्यते इति श्रुतेः | भर्ग इति स्पष्टार्थः | सर्वान्तर्यामी सर्वाधारः शिव इति पर्यवसितम् | ईकारस्याप्येतावानर्थः | भर्गो देवस्य इत्याद्युपक्रम्य तुरीयमक्षरं सर्वान्तर्भूतम् | तुरीयाक्षरं पदानां मध्यवर्तित्वेन व्याख्यातम् तस्माद्भर्गो देवस्य धीत्येवमीकारः इति श्रुतेः | तुर्यार्थः, मन्त्रे तु तृतीयस्यापि मातृकाक्रमे तुरीयत्वादीकारस्यार्थ इत्यर्थः | मही पृथ्वी महत्त्वात् काठिन्याच्च | पञ्चमहाभूतानामुपलक्षणमेतत् | मृद्घटः इति वदेकविभक्तिमत्त्वरूपसामानाधिकरण्यस्य तदात्मना परिणतत्वमर्थः | अयमेव च पृथिवीबीजस्य लकारस्यार्थः, महीत्यस्य व्याख्यानमुपक्रम्य ससागरं सपर्वतम् इत्यादिना भूमण्डलं प्रतिपाद्य भूमण्डलमेवोक्तं लकारेण इति श्रुतेः | तृतीयेति गायत्र्यास्तृतीयोऽङ्घ्रिः धियो यो नः प्रचोदयात् इति | अस्मदादीनां धियो ध्यानादिरहिते वस्तुनि निष्प्रपञ्चे विषये प्रेरयतीत्यर्थः | परतत्त्वविषयकज्ञानजनक इति यावत् | तुरीयाङ्घ्रिः परोरजसे सावदोम् इति | रजसः परं परे रजसे | सोः शे इत्यादेशः | रजेऽतीतम् | निर्मलमिति निर्गुणमिति वार्थः, रजःशब्दस्य धूलीवाचकत्वद् गुणत्रयोपलक्षकत्वसंभवात् | त्रिगुणातीतमिति यावत् | न पुनः पर इत्यत्र भिन्नपदत्वभ्रमः कार्यः, सुब्रह्मण्यानिगदे परोरजास्ते पञ्चमः पादः इति प्रयोगात् | सावदोमित्यस्य सवदोऽवदश्च यः प्रणवः | वक्तुं शक्यो वक्तुमशक्यश्चेत्यर्थः | शब्दैः शक्तिमर्यादया न बोध्यः, शक्यतावच्छेदकधर्ममात्रस्य परतत्त्वे विरहात् | लक्षणया तु बोध्यः, सत्यज्ञानादिपदशक्य- विशिष्टतादात्म्यसंबन्धशालित्वात् | यतो वाचो निवर्तन्ते इति श्रुतेः, वेदैश्च सर्वैरहमेव वेद्यः, लक्ष्यार्था लक्षणागम्या इत्यादिस्मृतेश्च | प्रणवार्थः परतत्त्वमकारोकारमकारैर्ब्रह्मविष्णुरुद्रात्मकम् | एतावानप्यर्थो हृल्लेखायाः | हृकारस्य हृदयमर्थः | तत्र ई गतेत्यर्थः | इटकिटकटी गतौ इत्यत्र प्रश्लिष्टोऽयं धातुः | अत एव हृदयागारवासिनी हृल्लेखा इति श्रुतिः | एवं चायमर्थो गायत्र्याः प्रथमकूटस्य च संपन्नः-सर्वजगत्सिसृक्षारूपकामनावान् कामेश्वरः, जगत्कारणरूपा कामेश्वरी, शिवः सर्वान्तर्यामी सर्वाधारः पञ्चमहाभूताद्यात्मना परिणतः परवस्तुमात्रविषयकनिर्विकल्पकज्ञानजनको निरञ्जनो निर्गुणो वेदैर्लक्षणया गम्यः शक्त्या त्वगम्यो ब्रह्मविष्णुरुद्रात्मा परतत्त्वमिति || ६०, ६१ || द्वितीयतृतीयकूटयोरर्थमाह- त्रिपदी त्रिवर्णबोध्या तुर्यस्तदुपरिषडक्षरीगमकः | अथ तार्तीये वर्णद्वितयं त्रिपदीषडक्षरीगमकम् || ६२ || कूटद्वितये शेषं पूर्ववदुन्नेयमिति तु विद्यायाः | गायत्र्यर्थस्त्रिपुरोपनिषदि कथितस्तथैव भागवते || ६३ || त्रिपदी गायत्रीस्तं पदत्रयं विद्याद्वितीयकूटस्थवर्णत्रयेण बोध्यम् | त्र्यवयवका वर्णास्त्रिवर्णाः | त्रिगुणसचिवः, नवरसरुचिराम्, इत्यादिवत् समासः | तत्पदार्थो ब्रह्मशिववाचिहकारस्यार्थः, तदिति परमात्मा इत्यारभ्य हकाराक्षरं शिवरूपम् इत्याद्युक्त्वान्ते तत्पदव्यावृत्तिमादाय शक्तिं दर्शयति इति श्रुतेः | सकारस्य सविता अर्थः | ककारस्य वरेण्यमर्थः | तुर्यो हकारस्तदुपरि पदत्रयोपरि विद्यमाना या षडक्षरी भर्गो देवस्य धी इति तदर्थबोधकः | तृतीयकूटे वर्णद्वितयं सकेति | ताभ्यां धीत्यन्तगायत्र्या अर्थः प्रतिपाद्यः | उभयत्रापि लकारहृल्लेखाभ्यां पञ्चमहाभूताद्यात्मनेत्यादिरर्थ इत्याह-कूटद्वितय इति | एवं चतुश्चरणाया गायत्र्यास्त्रिरावृत्ताया अर्थस्य प्रतिपादकं कूटत्रितयमिति | भागवत इति | भगवत्या इदं भागवतम्, तत्र भगवतीपुराण इत्यर्थः | तस्य हि पुराणस्यादिमः श्लोकस्त्रिचरणः पठ्यते | यथा- सर्वचैतन्यरूपां तामाद्यां विद्यां च धीमहि | बुद्धिं या नः प्रचोदयात् | इति | अत्र ह्याद्यायाः श्रीविद्याया एव ब्रह्मरूपत्व गायत्र्यादिप्रतिपाद्यत्वं विद्याप्रतिपाद्यत्वादिकं च तदर्थव्याख्यानदर्शिनां स्पष्टम् | वस्तुतस्तु हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा | गायत्र्या च समारम्भस्तद्वै भागवतं विदुः || इति लक्षणानुगत्येदमेव भागवतपदवाच्यम्, न पुनः जन्माद्यस्य यतोऽन्वयात् इत्यादिकम् || ६२, ६३ || अथ योगिनीहृदये कथितान् भावार्थादीन् षडर्थानाह- वामेच्छे ब्रह्मभारत्यौ ज्येष्ठाज्ञाने हरिक्षिती | रौद्रीक्रिये शिवापर्णे इत्येतन्मिथुनत्रयम् || ६४ || त्रिभिः कूटैः क्रमाद्वाच्यमीकारत्रितयेन तु | एतत्त्रयसमष्ट्यात्म वाच्यं शान्तम्बिकात्मकम् || ६५ || प्रकाशस्यांशभूता वामाज्येष्ठारौद्र्यः शक्तयस्तिस्रो ब्रह्मविष्णुरुद्राः पुंरूपाः | तत्समष्टिः शान्तात्मिका शक्तिस्तुरीया | विमर्शस्यांशभूता इच्छाज्ञानाक्रियाः शक्तयस्तिस्रस्तद्भार्यात्वेन प्रसिद्धा भारतीपृथिवीरुद्राण्यः स्त्रीरूपाः | तत्समष्टिरम्बिकात्मिका शक्तिस्तुरीया | अत्र च प्रथममिथुनत्रयमीकारविनिर्मुक्तकूटत्रयस्य क्रमेणार्थः | ईकाराणां तु तूरीयामिथुनमर्थः | वक्ष्यमाणे शाक्तार्थे त्वेकैकस्मिन्नपि कूटे रेफान्तवर्णषट्कस्यापि मिथुनत्रयमर्थ इति तस्माद्भेदः | तदुक्तं योगिनीहृदये- अक्षरार्थो हि भावार्थः केवलः परमेश्वरी | योगिनीभिस्तथा वीरैर्वीरेन्द्रैः सर्वदा प्रिये | शिवशक्तिसमायोगाज्जनितो मन्त्रराजकः || इति | व्याख्यातं चेदममृतानन्दयोगिभिः- मारत्यादिभिर्योगिनीभिर्ब्रह्मादिभिर्वीरेन्द्रैः कूटत्रयवाच्यभूतैः शिवशक्तिसमष्टिरूपमिथुनेनेकारवाच्यभूतेन चोपलक्षितो मन्त्रराजो विरैर्जनितो भावित इत्यर्थः इति | वस्तुतस्तु, सकलादिनामकास्त्रिविधा उपासका वक्ष्यमाणा वीरपदेनोच्यन्ते, अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वात्मानमशिवापहम् || इत्यादिना परापञ्चाशिकायामन्यत्र च वीरपदस्य साधकपरत्वेनैव निर्वचनात् | अत एव ब्रह्मादीनामुपासकश्रेष्ठत्वाद्वीरेन्द्रपदवाच्यत्वं संगच्छते | एव च सति तिस्रो भारत्याद्या योगिन्यस्त्रयः सकलाद्याः साधकास्त्रयो ब्रह्माद्या वीरेन्द्राः कूटत्रयेण हृल्लेखाविनिर्मुक्तेन क्रमात् प्रतिपाद्याः | हृल्लेखानां तु शिवशक्तिसामरस्यात्मकं चतुर्थं मिथुनमर्थः, ह्रींकार उभयात्मकः इति वचनात् | वाच्यभूतैर्योगिन्यादिभिर्जनितो युक्तो मन्त्र इत्यर्थः || ६४, ६५ || एतमेवार्थं मनसि निधायाह- यद्वा गीःसकलब्रह्मप्रभृतीनां त्रयं त्रयम् | त्रिकूटवाच्यं मायायास्तुरीयं मिथुनं मतम् || ६६ || अथ वा, वीरपदं योगिनीनामेव विशेषणमतल्लिङ्गम् | अत एव ब्रह्मादीनां वीरपतिवाचकवीरेन्द्रपदेन निर्देशः | योगिनीवीरेन्द्रपदाभ्यां च शाक्तार्थे वक्ष्यमाणानां षण्णामक्षराणां ब्रह्मभारत्यादिवाचकानां परामर्शः | शिवशक्तिसमायोगपदेन कामकलायाः परामर्शः, तस्यामुभययोगस्यानुपदं वक्ष्यमाणत्वात् | एवं सप्तभिरक्षरैस्त्रिरावृत्तैर्मन्त्रराजो जनितः प्रादुर्भूत इत्यर्थः | एतत्सप्तकपरिणामत्वान्मन्त्रोऽपि तदात्मकः प्रसारपरमार्थन्यायादिति भावः | न च मन्त्रस्योत्पत्त्यङ्गीकारेऽनादित्वभङ्गः, निर्विशेषब्रह्मातिरिक्तस्य निखिलस्यापि सृष्टिप्रतिपादकशास्त्रप्रामाण्याज्जन्यत्वस्येष्टत्वेन सविशेषशक्तिवदजन्यत्वरूपानादित्वस्यानभिमतत्वात् | प्रवाहानादित्वं तु जन्यत्वाङ्गीकारेऽपि नानुपपन्नम्, कार्यमात्रस्य स्थूलसूक्ष्मरूपद्वयस्वीकारेणोत्पत्तेः पूर्वमपि कारणान्तः सूक्ष्मरूपेणावस्थानस्य सत्कार्यवादिभिरस्माभिरङ्गीकारेणानादित्वप्रतिपादक- वचनानां तत्परत्वेनाप्युपपत्तेः | प्रथमपक्षद्वये तु जनितपदादेरर्थो न स्वरसः | अत एवोत्तरग्रन्थे भारत्यादिसप्तकसमष्टिरूपायाः परदेवताया मन्त्राभेदप्रतिपादनं संगच्छते, वाचकाक्षरसमष्ट्यात्मकमन्त्रस्य वाच्यार्थसमष्ट्यात्मकपरदेवताभेदस्य वाच्यवाचकयोरभेदवादिनामस्माकं न्यायसिद्धत्वेन संदर्भशुद्धेः | यथा- तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् | निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते || शिवशक्त्यात्मसंघट्टरूपे ब्रह्मणि शाश्वते | तत्प्रथाप्रसराश्लेषशालिन्यैन्द्रोपलक्षिते || ज्ञातुर्ज्ञानमयाकारकरणान्मन्त्ररूपिणीम् | तेषां समष्टिरूपेण परा शक्तिस्तु मातृका || इति | तन्मयीं मन्त्रराजाभिन्नाम् | आनन्दमयः चिन्मयः इतिवदभेदे मयट् | अन्ये तु तुरीयकूटस्यार्थमाह-तन्मयीमिति | चतुर्मिथुनवाचकत्रिबीजसमष्टिरूपमन्त्रवाच्यामित्यर्थः इति व्याचक्षते | तन्नातीव संदर्भशुद्धं वाच्यार्थे मयडभावश्चेत्युपेक्ष्यम् | स्पन्दः षट्त्रिंशत्तत्त्वात्मना परिणामः, तद्रूपिणीं तदभिन्नाम् | एतेन देवताभिन्नविश्वस्यापि मन्त्राभेदः सूचितः | अव्याकृतनामरूपप्रपञ्चस्योत्पत्त्युन्मुखतैव स्पन्दोन्मेषव्याकरणादिशब्दैर्व्यवह्रियते नान्यत् किंचन मिषत्, नामरूपे व्याकरवाणि, न खलु कुशलः स्पन्दितुमपि इत्यादौ | तेनाव्याकृतनामरूपजगत एव स्पन्द इति प्रायेण तन्त्रेषु व्यवहारः | इत्थं मन्त्रदेवताजगतामभेदमनुसंदधानो मन्त्रं जपेदिति विधत्ते-स्वैरमुपासत इति | पञ्चमोऽयं लकारो लिङर्थे | मुखं व्यादाय स्वपिति इतिवत् समानकालिकत्वेऽपि ज्ञात्वा इत्यत्रक्त्वाप्रत्ययः | एवं देवतायां मन्त्राभेदं युक्तिभिः प्रतिपाद्य मन्त्रपदस्यावयवशक्तिरपि समस्तीति प्रदर्शयति- शिवेत्यादिसार्धश्लोकेन | शिवशक्त्यात्मनो संघट्टः सामरस्यं तद्रूपे | शाश्वतेऽनादिनिधने | तस्य प्रथायाः पृथुत्वेन प्रसरो जगद्रूपः, तदाश्लेषशालिन्यप्यैन्द्रेण जगदैश्वर्येण काकेनेवोपलक्षिते, न तु विशिष्टे | विषयत्व सप्तम्यर्थः | तथा च सत्यत्वज्ञानत्वाद्युपलक्षितशुद्धब्रह्मैक- विषयकनिर्विकल्पकज्ञानवतः साधकपुंगवस्य ज्ञानमयः स्वसंविद्रूपो ब्रह्मभावो य आकारस्तत्करणान्मन्तारमुक्तज्ञानरूपमननशालिनं त्रायते भयजनकद्वितीयपदार्थमात्रनिरासादिति मन्त्रपदावयवार्थः | तद्रूपिणीमिति विध्यन्तर्गतदेवीपदस्य विशेषणम् | मन्त्र इति पदस्य देव्यामनुगतिमुपपाद्य तत्पदार्थभूतं पञ्चदश्यभिन्नत्वं संमुग्धाकारेण प्रतिज्ञातपूर्वमपि हेतुना द्रढयति-तेषामिति | तुशब्दोऽत्र हेत्वर्थकः | यतो भारत्यादीनां समष्टिरूपेणोपलक्षिता माता, ततस्तस्यां तद्वाचकाक्षरसमष्ट्यात्मकविद्याभेद उपपद्यत इति भावः | अथ वा, मन्त्रपदस्यावयवशक्त्या प्रवृत्तिमुपपाद्य समुदायशक्त्यापि तामुपपादयितुं मन्त्रराजपदशक्यतावच्छेदकं भारत्यादिसप्तकसमष्टित्वं(?) परदेवतायामाह-तेषामिति | समष्टीति भावप्रधानो निर्देशः | समष्टित्वेन शक्यतावच्छेदकरूपेण युक्ता यतः परदेवता, ततो रूढ्यापि मन्त्रराजपदवाच्यत्वं युक्तम् | तेन च तयोरभेदोऽपि युज्यत इति भावः || ६६ || अमुमेवार्थं सुनिष्कृष्टं श्लोकतो निबध्नाति- वामेच्छाद्याः षडीकार इति सप्तभिरक्षरैः | त्रिरावृत्तैरियं विद्या संजाता तेन तन्मयी || ६७ || वामादिसप्तशक्तीनां समष्टिः परदेवता | षट्त्रिंशत्तत्त्वरूपास्मान्मात्रयापि न भिद्यते || ६८ || अस्मात् तन्मात्रात्, मात्रयापि लेशेनापि न भिद्यते | मन्त्रे तृतीयवर्णस्य ज्येष्ठाशक्तिवाचकत्वेन वामादिषट्कान्तःपातित्वेनावशिष्टानां हृल्लेखास्थानामेव कामकलानामीकारपदेन परामर्शान्न त्रिरावृत्तैरिति संख्याविरोधः | न च शक्तार्थेन पौनरुक्त्यम्, तत्र वामादिषट्कं कामकलाया अभिन्नमिति वाक्यार्थः, अत्र तु वामादिकामकलान्तसप्तकाभिन्नो मन्त्रः षट्त्रिंशत्तत्त्वाभिन्नमात्रभिन्न इत्यर्थ इति महतो भेदात् | अथ वा, शिवशक्तिसमायोगरूपसमष्टिजन्यत्वान्मन्त्रराजः स्पन्दश्च तद्व्यष्टिरूपौ शिवशक्तिमयौ | तेन जगन्मन्त्रदेवीनामभेद इति भावनं भावार्थः | अत एवोपसंहृतं योगिनीहृदये- - - - - - - - - - - - - - - - - चलत्तासंस्थितस्य तु | धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च | वाचकाक्षरसंयुक्तेः कथिता विश्वरूपिणी तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् | कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम् | आद्यां शक्तिं भावयन्तो भावार्थ इति मन्वते | इति | पराहंतेत्यादिभावार्थकत्वतलादिवाच्यत्वाद्धर्मः शक्तिः | निर्धर्मकत्वादधर्मः शिवः | स्पन्दजननं प्रति शक्तिबहिर्भूतस्य शिवस्याक्षमत्वादन्वयव्यतिरेकयोराचार्यभगवत्पादैः सौन्दर्यलहर्यां प्रथमश्लोके तथैव तद्व्याख्यानकर्तृभिश्च प्रदर्शितत्वाच्च शक्तेः कारणतावच्चेदकत्वं कारणत्वं भवचक्रात्मकस्पन्दं प्रति स्वीकार्यम् | तेन जननमरणादिक्लेशमयसंसारजनकत्वाद्विषं शक्तिः | तद्विनिर्मोकादमृतं शिवः | तदुभयस्य वाच्यस्य वाचके ये अक्षरे वक्ष्यमाणरीत्या हकाराकाररूपे, ताभ्यां व्यस्ताभ्यां तदुभयसमावेशरूपकामकलाक्षरेण चास्य चलत्तासंस्थितस्य नश्वरतायुक्तस्य जगतः, प्रकृतत्वान्मन्त्रराजस्य च सम्यक्परिणामपरिणामिभावेन युक्तेः संबन्धादेषां विद्या विश्वरूपिणी कथिता, एकाकारेणोत्पन्नयोरभेदादिति शिवशक्तिसामरस्यरूपस्य पराशक्तिजगदम्बादिपदवाच्यस्य कारणस्य कार्याभ्यां विश्वविद्याभ्यामभेदं सूचयंस्त्रयाणामभेदमुपसंहरति तेषामित्यादिनेति तदर्थः | अस्मिन् पक्षे योगिन्यादिभिर्भावित इति शेषपूरणेनोपक्रमश्लोकार्थो वर्णनीयः | भावार्थस्वरूपं तु शिवशक्तिसमायोगजन्यत्वादिकमात्र, न पुनर्योगिन्यादेर्जनककोटौ निवेशः | अक्षरार्थत्वं च तादृशाक्षरद्वयजन्यत्वादेवेति दिक् | अत्रेदमवधेयम्- इयं सृष्टिः परब्रह्मपरिणाम इति पूर्वमुक्तम्, सा च सृष्टिर्द्वेधा, अर्थमयी शब्दमयी चेति | चक्रमयी देहमयी चेति सृष्टिद्वयं तु बालक्रीडनकार्थे स्थूलगृहसमानाकारत्वेन सूक्ष्मगृहनिर्माणतुल्यमर्थसृष्टावेवान्तर्गतम्, न पुनरत्यन्तं भिद्यते | सा च द्विविधापि सृष्टिः समकालीनोत्पत्तिका समकालीनाभिवृद्धि शालिनी च, यथा बीजादङ्कुरतच्छाये | तत्र च च्छायादर्शनेन वृक्षानुमितिरनुभवसिद्धा | सा च च्छायायां वृक्षसमानाकारत्वं वृक्षाविनाभावं च विना अनुपपन्नेति तद्द्वयमपि तत्र कल्प्यम् | प्रत्यक्षसंवादविषयश्च तद्वच्छब्दः सर्वोऽप्यर्थाविनाभूतः, अर्थज्ञानजनकज्ञानविषयत्वात् वागर्थाविव संपृक्तौ इत्याद्यभियुक्तोक्तेश्च | तथार्थसमानाकारोऽपि | तथा हि-यावन्तः शब्देऽवयवास्तावन्त एवार्थे तज्ज्ञाने चाभ्युपेयाः | चैत्रस्तण्डुलं पचति इत्यत्र चैत्रपदं सुप्रत्ययस्तण्डुलपदमम्प्रत्ययः पचिधातुस्तिप्प्रत्ययश्चेति षडवयवात्मकस्य शब्दसमूहस्य चैत्रः कर्तृत्वं तण्डुलः कर्मत्वं तेजः संयोगः कृतिश्चेति विशकलिताः षडर्थाः | तेषां च परस्परसमभिव्याहारस्य तु परस्परसंबन्धविशेषोऽर्थः | तत्तत्पदार्थविशिष्टा भावनैव वाक्यार्थ इति मीमांसकाः | तत्तदितरव्यावृत्तिर्वाक्यार्थ इत्यपि केचित् | एवं तज्ज्ञानमपि षट् पदार्थांस्तत्संबन्धादींश्च विषयीकुर्वत् तत्समानाकारं भवति, अन्यथा ज्ञानानां परस्परवैलक्षण्यानुपपत्तेः | अन्तःकरणपरिणामविशेषरूपे ज्ञाने तत्तदाकारत्वेन परिणतत्वकल्पनसंभवाच्च | अत एव चैत्रस्तण्डुलं पचतीत्याकारकं ज्ञानम् इत्येवं सकलतान्त्रिकाणां निराकारवादिनामपि व्यवहारः | अनयोः सृष्ट्योर्ज्ञानजनकं तु मन एव | तच्च शब्द श्रोत्रेन्द्रियद्वारैव गृह्णाति, अर्थं तु कंचन साक्षात् कंचन चक्षुरादिद्वारेति विशेषः | ते च द्वे अपि सृष्टी स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमभेदात् प्रातिस्विकं चतुर्विधे | श्रोत्रमनसोस्त्वर्थान्तःपातित्वादेव चातुर्विध्यम् | एवं च स्थूलश्रोत्रण स्थूलशब्दश्रवणात् स्थूलार्थस्य स्थूलमनसा ज्ञानम्, सूक्ष्मश्रोत्रेण सुक्ष्मशब्दश्रवणात् सूक्ष्मार्थस्य सूक्ष्ममनसा ज्ञानमित्यादि द्रष्टव्यम् | श्रोत्रमनसोः सूक्ष्मत्वादिकं तु शास्त्राभ्यासयोगाभ्यासादिपाटवजन्यम् | तदेतद्योगशास्त्रे निर्विचारवैशारद्येऽध्यात्मप्रसादः इति सूत्रे ऋतभरा तत्र प्रज्ञा इति सूत्रे च स्पष्टम् | अत एव श्रुतिः- चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति || इति तेषां च नामानि वैखरी मध्यमा पश्यन्ती परेति | श्रुतौ तुरीयपदस्य वैखर्यर्थः, सृष्टिक्रमस्यैव तत्र भिप्रेतत्वात् | एतच्छब्दचतुष्टयवाच्या अप्यर्थास्तथा तथोन्नेयाः | तथा हि- मसकाद्यवयवेन्द्रियप्राणदशकशालित्वं स्थूलजगदादिव्यक्तौ तथा सद्योजातशिशावपि पिपीलिकादावपीत्यविवादम् | इयांस्तु विशेषः स्थूला अवयवाः स्थूले, अल्पास्वल्पे | एवं च वैखरीरूपघटपदवाच्यापेक्षया मध्यमादिरूपघटपदैर्वाच्या घटा युक्तिभिरुन्नयाः | ते च पदार्थाः संकोचमञ्चन्तः केचिदस्पष्टनिखिलावयवकाः केचित्तु संकुचज्जलूकाकमठादिवदस्पष्टकिंचिदवयवका अप्यवयवन्यूनाधिकभावेन परिमाणभेदेऽपि द्रव्याभेदस्य मीमांसकादिभिरङ्गीकारादिति यथायथमूहितव्यम् | एतेषां चतुर्णां वाचकानां चतुर्भ्यो वाच्येभ्यो भेदा अपि चत्वारः कल्पिताः स्थूलादिरीत्या चतुर्विधा ज्ञेयाः | सृष्टिचतुष्टयस्यापि मूलभूतो बिन्दुर्बीजस्थानापन्नः | तस्मादपि परतस्तु सूक्ष्मतमापेक्षया सूक्ष्मतममपि विशिष्य तद्वाचकत्वादभिन्नशब्दार्थरूपं शब्दब्रह्मत्यादिपदनिर्देश्यं परं ब्रह्मैव | तच्च प्रकाशैकाकारस्यार्थादत्यन्तभिन्नस्य शब्दब्रह्माय दिपदनिर्देशविशेषस्याभावात् अनिर्देश्यम्, अग्राह्यम्, अशब्दम् अस्पर्शम् इत्यादिनिषिद्धविशेषणम् | वस्तुतः सृष्टिद्यमूलभूतसूक्ष्मरूपविशेकत्मकत्वादभिन्न- शब्दार्थरूपं शब्दब्रह्मेत्यादिपदनिर्देश्यं परं ब्रह्मव | तच्च प्रकाशैकस्वरूपम्, घटः स्फुरति, पटः स्फुरति इत्यादिप्रत्ययेन पदार्थमात्रे स्फुरणाख्यवस्तुविशेषस्य तत्तदभीन्नस्यानुभवसिद्धात्वात् | प्रकाशस्यापि स्फुरणमवश्यं वाच्यम्, प्रकाशः स्फुरति इति प्रत्ययात् | तच्च स्फुरणं शक्तिरित्युच्यते | प्रकाशस्फुरणयोश्च मिलितयोरेव जगत्कारणत्वम्, अन्यतरमात्रस्य जनकत्वानुपपत्तेः कामकलाविलासव्याख्यायां स्फुटतरमुपपादनात् | तेन शुद्धस्य शिवस्य शुद्धायाः शक्तेर्वा जगत्कारणत्वं तत्र तत्रोच्यमानं शिवशक्तिरूपस्योभयात्मन एव बोध्यम् | तत्र प्रकाशस्त्वकारस्वरूपस्तद्वाच्यश्च | स्फुरत्ता तु हकाररूपा तद्वाच्या च | तावेतावकारहकारौ परारूपौ सूक्ष्मतमौ प्रागुक्तौ | परादिसृष्टिमूलभूतस्य बीजस्थानीयस्य बिन्दुविशेषस्य तुव्यक्ताव्यक्तविलक्षणौ वाचकौ | तस्यापि जनकस्य परब्रह्मणस्तु केवलमव्यक्तावेव शून्यस्वरूपौ वाचकौ | तयोः शून्यस्वरूपात्वादेव यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिरवाच्यतोक्तिः, वाच इति बहुवचनेन परादिचतुष्टयस्यैव परामर्शात् | तथा च स्मर्यते- अहमित्येकमद्वैतं यत्प्रकाशात्मविभ्रमः | अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः || हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः | अनयोः सामरस्यं यत् परस्मिन्नहमि स्फुटम् || इति | अक्षराणामकारोऽस्मि इति गीतासु | शून्याकाराद्विसर्गान्ताद्बिन्दुप्रस्पन्दसंविदः इति योगिनीहृदये च | शून्याकारः शून्यमात्रस्वरूपो यो विसर्गान्तः षोडशस्वरान्त्यस्तस्माद्बिन्दुविशेष उत्पन्न इति तदर्थः | विसर्गस्याव्यक्तहकारतुल्यत्वेनाकारस्यापि तत्र सत्त्वेन षोडशस्वरकीर्तनं प्रकृतम् | तेनाकारहकारावेव शून्याकारौ कीर्तितौ वेदितव्यौ | अत एव शून्यश्चासावकारश्चेति केचिद्व्व्याख्याय विसर्गो हकारः स एवान्ते यस्येति विग्रहप्रदर्शनपूर्वकं हकारविशिष्टादकारादिति व्याचक्षते | तन्मते हकारे शून्यत्वलाभो दुर्घटः | अत्रायं सृष्टिक्रमः- यथा हि कश्चित् पुरुष उत्पत्स्यमानपुत्राद्यदृष्टवशादुत्पादनेच्छाविशिष्टः स्वीयामुत्पादनशक्तिमवलोक्य स्वार्धशरीरात्मिकायां भर्यायां स्वयमन्तः प्रविशति शुक्लरूपेण, पतिमेकादशं कृधि, आत्मा वै पुत्रनामासि इति श्रुतेः | प्रवेश्यमानस्य स्वभिन्नत्वात् स्थूलतरभेदाक्रान्तत्वाच्च नाभेदभानम् | ततस्तस्य शुक्लस्यान्तः शोणितबिन्दुरूपेण भार्या प्रविशति | तेन च स बिन्दुरुच्छूनो भवति | स एष वटोदुम्बरादिबीज-स्थानीयः | तस्मादङ्कुरविशेषाद्युत्पत्तिक्रमेण कालान्तरे पुत्राद्युत्पत्तिरिति | यथा वा सूर्याभिमुखदर्पणे तदन्तःप्रविष्टकिरणादुभयकिरणसंकलनरूपस्तेजो- बिन्दुविशेषः कुड्यादौ प्रादुर्भवति, तथा प्राण्यदृष्टवशात् स्वान्तः संहृतविश्वसिसृक्षया प्रकाशरूपं ब्रह्म स्वीयां शक्तिमवलोकयितुं तदभिमुखीभूय तदन्तस्तेजोरूपेण प्रविश्य शुक्लबिन्दुभावमयते | ततस्तं बिन्दुं रक्तरूपा शक्तिः प्रविशति | तेन संमिश्रबिन्दुरुच्छूनो भवति | तत्र च हार्दकलारूपोऽप्येकः पदार्थविशेषो भवति | स पुनर्गुरुमुखादेवावगन्तव्यः, न पुनः पुस्तके लेख्यः | स च बिन्दुः समष्टिरूपेणैकः स्फुटशिवशक्तिसामरस्यनामा कामो रविरग्नीषोमात्मकः इत्यादिशब्दैर्व्यवह्रियते | व्यष्टिरूपेण द्वयम् | तत्र शुक्ल इन्दू रक्तोऽग्निरिति बिन्दुद्वयात्मकत्वाद्विसर्ग इति च व्यवह्रियते | अत एव च रवे रात्रावग्नावमावास्यायां चन्द्रे च प्रवेशस्य श्रुत्यादिसिद्धत्वात् समष्टिबिन्दो रवित्वम् | एवं च कामाख्यो बिन्दुर्विसर्गो हार्दकला चेति त्र्यवयवक एकः प्रदार्थोऽणादिप्रत्याहारवत् कामकलेत्युच्यते | इदमेव च समस्तसृष्टिबीजम् | अत एवाकारहकारयोर्मध्ये सर्ववर्णपाठः | लकारस्य लकारादभिन्नत्वात्, क्षकारस्य कषयोगरूपत्वान्न तद्बहिर्भावः शङ्क्यः | एतन्मूलभूत ब्रह्म तु तुरीयबिन्दुरित्युच्यते | तद्रूपाभ्यां शून्यस्वरूपाभ्याम कारहहाराभ्यामुत्पन्ना कामकला व्यक्ताव्यक्तविलक्षणा अहंपदवाच्या | अकारहकारोभयात्मकत्वं शिवशक्तिद्वयरूपत्वं चाहंपदस्य निष्कृष्टोऽर्थः | अत एव तज्जन्यानां सूक्ष्मादिस्थूलान्तानामखिल- सृष्टीनामहंपदवाच्यत्वम् | यथा ह्युदुम्बरपदवाच्यबीजाज्जनितानां परस्परविलक्षणानामपि पर्णकाष्ठकुसुमफलक्रिमीणां सर्वेषामुदुम्बरत्वम्, उदुम्बरपर्णम्, उदुम्बरक्रिमिः इत्यादि व्यवहारात् | तथा च श्रुतयः-ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति इति बृहदारण्यके त्वं वा अहमहं वै त्वम् इत्यैतरेयके कस्त्वमित्यहमिति होवाच त्वमेवेदं सर्वं तस्मादहमिति सर्वाभिधानम् इति तापनीये | पाणिनिनाप्यस्मच्छब्दस्य सर्वनामतोक्ता | तत्रैवान्यत्र तद्वा एतद्ब्रह्माद्वयम् इत्यादिना ब्रह्मस्वरूपमभिधाय तदुपासनां पूर्णाहंभावभावनारूपां विस्पष्टम् हंसः सोऽहम् इत्यादिना विदधाति | तत्प्रकारस्त्वतिरहस्यत्वाद् गुरुचरणैकलभ्यः | उक्तं च कादिमते- बन्धनं योनिमुद्राया मन्त्राणां वीर्ययोजनम् | गुरोर्लक्षणमेतावदादिमान्त्यं तु वेदयेत् || इति | आदिमोऽकारः, अन्त्यो हकारः, तयोः समाहारः अहम् बिन्दुलाभायैवेतरेतरयोगद्वन्द्वपरित्यागेन समाहारद्वन्द्वोक्तिः | छान्दोग्येऽपि अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम् इति | विरूपाक्षपञ्चाशिकायामपि- स्वपरावभासनक्षम आत्मा विशवस्य यः प्रकाशोऽसौ | अहमिति स एक उक्तोऽहंतास्थितिरीदृशी तस्य || इत्यादीनि परःसहस्रं वचनानि | एतादृशस्याहंपदार्थस्य यथाऽहमिति पदं वाचकं तथोत्तमपुरुषैकवचनमपि वाचकम् | तस्य च परस्मैपदात्मनेपदभेदेन द्वैविध्येऽपि पिप इटश्चेकारत्वेनानुगमादित्वमेवशक्ततावच्छेदकम्, अन्यायश्चानेकशब्दत्वम् इति न्यायात् | तस्य च धातूत्तरत्वेनोत्तमपुरुषत्वदिना वोपस्थितिः पदार्थस्मारकत्वे तन्त्रम् | एर्णलादावपि लुप्तस्य स्मरणम् | तदभावे शक्तिभ्रमाद्बोध इत्यादि यथायथमूह्यम् | तत्र चाकाररहकारयोरवयवयोरदर्शनेऽपि शास्त्रप्रामाण्यात् सूक्ष्मरूपौ तौ स्त इति स्वीकार्यम् | तस्यैव च हार्दकलायोगे दीर्घतापि संपद्यत इति तुरीयस्वरस्य कामकलारूपत्वं मन्त्ररहस्यविद्भिः प्रतिपाद्यते | तदुक्तं योगिनीहृदये- मध्यबिन्दुविसर्गान्तः समास्थानमये परे | कुटिलारूपके तस्याः प्रतिरूपं वियत्कले || इति | मध्यबिन्दुः कामाक्यः, तस्य तुरीयबिन्दुविसर्गमध्यपातित्वात् समष्टेर्व्यष्टिमध्य एवान्तर्गतत्वाच्च | विसर्गो व्यष्टिरूपं बिन्दुद्वयम्, तयोरन्तर्मध्ये सम्यक्चैतन्यात्मनावस्थानम् | तन्मये तत्प्रधाने | परे चरमेऽकारहकाररूपेऽक्षरे, मातृकाणां क्रमेण पाठे चरमत्वाद्धकारस्य, व्युत्क्रमेण पाठे त्वकारस्य चरमत्वात् | किं च, इमे अक्षरे कुटिलारूपके | कुटिले अकुलकुले कुण्डलिन्यौ तयो रूपान्तरे | तावता कामविसर्गयोः किमायातमित्यत आह-तस्या इति | तयोः कुण्डलिन्योरित्यर्थः | वियत्पदेन शून्याकारत्वात् कामः प्रतिपाद्यते | कलापदेन च हार्दकलावत्त्वाद्विसर्गः | यतः कामविसर्गयोः कुण्डलिनीप्रतिबिम्बरूपत्वं ततः कुण्डलिन्यभिन्नाकारहकाररूपत्वं संभवतीति भावः इत्यस्य श्लोकस्य सांप्रदायिकी रहस्यव्य ख्या | एवमकारहकारैकस्वरूपा कामकला | तद्भूते मन्त्रे विजातीयाक्षरवत्त्वान्यथानुपपत्त्यापि तयोर्गर्मे सूक्ष्मरूपेणान्येषां वर्णानामर्थसृष्टश्चावस्थानं सिध्यति यथा वटबीजरूपसंपुटे पर्णकाष्ठादेः | किं च, वटादिबीजानां स्फोटेनैवाङ्कुराद्युतपत्तिरिति बीजस्य पूर्वार्धोत्तरार्धयोर्वियोग इत्यविवादम् | तच्चार्धद्वयं महति वृक्षे कस्मिन् कस्मिन् भागेऽस्तीति तु दुर्ज्ञेयम् | एवं मन्त्रेऽपि बीजांशयोरकारहकारयोरवस्थितयोः परिज्ञानाय संकेतभाषयोक्तं योगिनीहृदये- मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः | मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः || राहुकूटाद्वयस्फूर्जत् ---------------------------- इति अस्यार्थः-कलाकामयोर्मध्यस्य विसर्गस्य यः प्राणश्चैतन्यं तस्य प्रथा पृथुत्वेन श्रूयमाणता | स्थूलतेति यावत् | तद्रूपं यत् स्पन्दव्योम हकारः, स्पन्दत उत्पद्यत इति स्पन्दः | स्पन्दो व्योम यस्मादिति व्युत्पत्तेः | हकाराद्व्योम संभूतम् इत्युक्तेरिति केचित् | मध्यात्मको विसर्गाभिन्नो यः प्राणो हकारस्तस्य प्रथारूपो यः स्पन्दः | स्थूलरूपा सृष्टिरित्यर्थः | तद्रूपं व्योम हकार इत्यर्थो युक्तः, हः शिवो गगनं प्राणः इति मातृकाकोशात् | मध्यम इत्यस्य द्विरन्व्यः | तत्रैकं पदं मन्त्रपिण्डेन सह सामानाधिकरण्येनान्वेति, अपरं वैयधिकरण्येन | मध्यमकूटस्य मध्यमव्यञ्जने | द्वितीयहकार इत्यर्थः, द्वितीयगेषु सप्तसु व्यञ्जनेषु तस्य चतुर्थत्वेन मध्यमत्वात् | तत्र स्थिता | स्त्रीलिङ्गाछक्तिर्विशेष्या | तृतीयकूटे तु सकारेऽकारो मूलबीजीय इत्याह-राहुकूटेति | लघुषोढान्यासान्तर्गतग्रहन्यासे राहोः शषसहाख्यवर्णचतुष्टयसहितस्य वक्त्रे न्यासः, वक्त्रे शादिचतुर्वर्णैः सहितं राहुमेव च इति वचनात् | तेन शादिचतुष्कं राहुकूटम् | तत्र द्वयाद्भिन्नोऽद्वयस्तृतीयः सकारः | तस्मिन् स्फूर्जच्छोभमानम् | नपुंसकलिङ्गबलाद् ब्रह्म विशेष्यम् | शिव इत्यर्थः | इत्यलमतिरहस्यार्थप्रकाशनेन || ६७, ६८ || तदेतत् सर्वमभिसंधायाह- अहकारौ शिवशक्ती शून्याकारौ परस्पराश्लिष्टौ | स्फुरणप्रकाशरूपावुपनिषदुक्तं परं ब्रह्म || ६९ || विश्वसिसृक्षावशतः स्वार्धां शक्तिं विलोकयद्ब्रह्म | बिन्दूभवति तमिन्दुं प्रविशति शक्तिस्तु रक्तबिन्दुतया || ७० || एतत् पिण्डद्वितयं विसर्गसंज्ञं हकारचैतन्यम् | मिश्रस्तु तत्समष्टिः कामाख्यो रविरकारचैतन्यम् || ७१ || एषाहंपदतुर्यस्वरकामकलादिशब्दनिर्देश्या | वागर्थसृष्टिबीजं तेनाहं तामयं विश्वम् || ७२ || अन्त्यप्रथमे मध्यचतुर्थे मन्त्रेऽपि तौ व्यक्तौ | तेनाम्बामनुजगतामभेद एवात्र भावार्थः || ७३ || अत्र शिवबिन्दोः शुक्लत्वाच्चन्द्रात्मकत्वाद्बिन्दु- वाचकत्वाच्चन्द्रपदानामिन्दुपदेन बिन्दुनिर्देशः कृतः | भावार्थ इति | भावो जन्म | भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु इत्यमरः | स एवार्थः प्रयोजनं ज्ञेयत्वाद्यत्र सः, अर्थो ज्ञेयो यत्रेति वा | अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु इत्यमरः || ६९-७३ || अथ संप्रदायार्थमाह- व्योमादिजनकहकरसलार्णैर्घटनेन पञ्चभूतमयी | पञ्चचतुस्त्रिद्व्येकगशब्दादिगुणात्मपञ्चदशवर्णा || ७४ || व्योमाकाशः | आदिना वायवग्निजलभूमिपरिग्रहः | एतत्पञ्चकस्य जनका ये हकरसलार्णा हकारादिवर्णास्तैर्घटनेनेयं विद्या पञ्चभूतमयी पञ्चभूताभिन्ना उक्तं च- हकाराद् व्योम संभूतं ककारात्तु प्रभञ्जनः | रेफादग्निः सकाराच्च जलतत्त्वस्य संभवः | लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा || इति | अत्र यद्यपि प्रकाशविमर्शसामरस्यात्मकवस्तुविशेषस्यैव शब्दार्थसृष्टिजनकत्वमविशिष्टं थापि प्रकाशांशस्यैवार्थसृष्टौ विमर्शांशस्यैव शब्दसृष्टौ जनकत्वम्, तयोः परस्परसापेक्षत्वेनैव स्वस्वकार्यजनकत्वस्य श्रुतिस्मृतिसिद्धत्वात्, एकस्य स्वकार्यजनकत्वेऽपरस्य तत्कारणतावच्छेदकत्वमावश्यिकम् | एवं च कारणतावच्चेदककारणतयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण द्वयोरपि प्रातिस्विककारणत्वसिद्धिः तदभिप्रायेणैव हि तन्त्रेष्वन्यतरस्यैव कारणताबोधकानि वचनानीति ज्ञेयम् | भगवता व्यासेनापि शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् इति सूत्रे जगतः शब्दात् प्रभवः श्रुतिस्मृतिभ्यां सिद्ध इत्युक्तम् तद्भाष्ये च निपुणतरमुपपादितम् | एवं च, प्रथमं विमर्शशक्तर्हकार उत्पन्नस्ततः प्रकाशाद्व्योम ततो विमर्शात् ककारस्ततः प्रकाशाद्वायुः ततो विमर्शाद्रेफस्ततः प्रकाशादग्निः ततो विमर्शात् सकारस्ततः प्रकाशाज्जलम् ततो विमर्शाल्लकारस्ततः प्रकाशात् पृथिवी इत्येवं क्रमेण पञ्चमहाभूतोत्पत्तौ सत्यामपि हकारवद्विमर्शविशिष्टप्रकाशस्यैव व्योम प्रति कारणत्वादुक्तरीत्या कारणतावच्छेदकत्वस्य हकारे सिद्धेर्विनिगमनाविरहात् कारणत्वमपि सिध्यति | एवमेव ककारादिषु द्रष्टव्यम् | न चैवं हकारादेर्वादिकं प्रत्यपि कारणत्वापत्तिः, उक्तरीत्या परंपरया कारणतायामवच्छेदकत्वात्, एवं व्योमादेरपि ककारादिकं प्रति जनकत्वापत्तिरिति न च वाच्यम् तेषामन्यथासिद्धत्वादिष्टत्वाद्वा | नतु विद्यायां पञ्चभूतात्मकवर्णपञ्चकमेवास्तु किमधिकैर्वर्णैरित्यत आह- प्रञ्चेति | आकाशः पञ्चविधः, वायुश्चतुर्विधः, अग्निस्त्रिभागः, जलं द्विभागम्, पृथिव्येकविधेति पञ्चीकरणवार्तिकादौ स्पष्टम् | पञ्चादिसंख्याकीनामाकाशादीनां गुणाः शब्दादयोऽपि तादृशसंख्याकाः | तेन व्योमादिषु पञ्चसु पञ्च शब्दाः, वायवादिषु चतुर्षु चत्वारः स्पर्शाः, अग्न्यादिषु त्रिषु त्रीणि रूपाणि, जलभूम्योर्द्वौ रसौ, पृथिव्यामेको गन्ध इत्येवं संहत्य पञ्चदश गुणा विद्यास्थैः पञ्चदशभिर्वर्णैरभिन्ना इति पञ्चदशानां वर्णानामुपपत्तिरिति भावः | अथ पञ्चदशभिर्गुणैः पञ्चदशानां वर्णानामभेद उपादानोपादेयभावाद्वाच्यवाचकभावाद्धर्मधर्मिभावा- द्वा वाच्यः | स च न संभवति | तथा हि-अत्र हि पञ्चदशसंख्याकत्वमचां प्राधान्येन व्यञ्जनानां तद्भक्तत्वेन चोपपादनीयम् एष वै सप्तदशः प्रजापतिः इति वेदे, चतुरश्छयतावाद्यक्षरलोपश्च इति पाणिनीयसूत्रवार्तिके, चतुःशतमुत्कृतिः इत्यादिच्छन्दःसूत्रेषु च तथैव निर्णीतत्वादित्यस्यार्थस्य च्छन्दोभास्करेऽस्माभिः सविस्तरमुपपादनात् | न ह्यत्रत्यानां पञ्चदशानामचां गुणजनकत्वं गुणवाचकत्वं गुणाश्रयत्वं वा संभवति, मानाभावात् | ननु-हकारपञ्चकस्य व्योमपञ्चकजनकत्वेन तद्वाचकत्वेन चाभेदे सिद्धे तद्गुणैः शब्दैरपि सहाभेदः सिद्धप्राय एव, गुणगुणिनोरभेदेन गुणस्य गुण्यभिन्नाभिन्नत्वस्य न्यायसिद्धत्वात् | तथैव वाच्यवाचकभावस्याभेदे नियामकता तथैव लक्ष्यलक्षकभावस्यापि | अस्ति हि प्रकृते हकाराणां शब्दलक्षकत्वम्, शब्दस्य हकारशक्यसंबन्धित्वात् | अत एव योगिनीहृदये व्योमबीजैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् इत्युक्तम् | यत्तु शक्यसंबन्धप्रदर्शनकारिकायां तत्रैवोक्तम् भवेद् गुणवतां बीजं गुणानामपि वाचकम् | कार्यकारणभावेन तयोरैक्यविवक्षया || इति, तत्र लक्षकंऽपि वाचकपदप्रयोगो वाचकनिष्ठस्य स्वबोध्याभेदव्याप्यत्वस्य लक्षकेऽपि तुल्यत्वद्योतनपलको गौण्या वृत्त्यैवोपपद्यते | एवं वायुवाचकादीनामपि स्पर्शाद्यभेद उपपादनीयः | न च तथापि पञ्चदशानामचां तदभेदो न संभवतीति वाच्यम् न हि प्रकृतेऽच एव विविक्षिता इति नियमः हकारादिव्यञ्जनैरपि पञ्चदशसंख्योपपादनसंभवात् | न च संख्याधिक्यम्, आधिक्येऽपि सहस्रे शतं संभवति इति न्यायस्य जागरूकत्वात्, गुणाः पञ्चदशाख्याता भूतानां तन्मयी शिवा इति वचनस्थस्य तन्मयीत्यस्य भूतमयी गुणमयी पञ्चदशसंख्याकावयववती विद्या देवी वा शिवेत्यर्थवर्णनसंभवादिति चेन्न व्याप्ता पञ्चदशार्णैः सा विद्या भूतगुणात्मिका | पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः || इति स्फुटतरवचनविरोधात् | तत्र हि सामान्येन पञ्चदशसंख्याकाक्षरवत्त्वमुपपाद्य संभावितनानाशङ्कापरिहाराय विशिष्य विशिष्य कूटत्रयाक्षराणां गणानयाज्मिरेव सव्यञ्जनैः संख्यापूर्तिरित्यस्य स्पष्टं निर्धारितत्वादिति | अत्र ब्रूमः- सायमज्मिरेव पञ्चदशत्वम् तथापि हकारादिव्यञ्जनानामेव गुणाभेदः, तेषामेव तद्वाचकत्वात् | शक्ततावच्छेदकं तु पञ्चदशसंख्यासमवायित्वसमानाधिकरणहकारत्वादिकं न पुनः शुद्धहकारत्वादिकम्, अन्यथा हकारेण व्योमवाचकेन प्रकृते शब्दलक्षणायां युगपद्वृत्तिद्वयविरोधापत्तेः | शब्दैक्येऽपि शक्ततावच्छेदकरूपधर्मद्वयभेदेनार्थद्वयभानमुपपद्यत् ए | कथमन्यथा लिङादौ शब्दभावनार्थभावनयोः शक्त्या भानं लक्षणया च कर्तुर्मानं मीमांसकानाम्? अत एव चोक्तश्लोके गुणानामपि वाचकम् इत्येवोक्तम् | यत्तु तत्पूर्वश्लोके लक्षयेत् इति पदं तद्बोधयेदित्यर्थकम् | अस्तु वा लक्षणापि, भिन्नधर्मा वच्छिन्नस्य पदस्यैकधर्मपर्याप्ता- वच्छेदकताकशक्ततालक्षकतारूपवृत्तिद्वययौग-पद्यस्यैव विरुद्धत्वात् | वाचकपदमेव संजातप्रतिपक्षत्वादुपक्रमन्यायेनान्वयितव्यम् | वस्तुतस्तु गुणवतां वाचकं बीजं गुणानामपि वाचकमित्यन्वयः | बीजे गुणवद्वाचकत्वं परिकरालंकारवद्धेतुत्वाभिप्रायगर्भम् | हकारस्य शब्दवत्येव शक्तिर्न पुनराकाशमात्रे | तेन च गुणस्य शक्यताऽवच्छेदकत्वेन शवयतावच्चेदकेऽपि शक्तेः प्राचीनैरङ्गीकाराद् गुणानामपि वाचकमित्यर्थः | तेन लक्षयेत् इत्येतज्ज्ञानार्थकम् | तेनैकैव शक्तिरुभयत्रेत्यतो न वृत्तिद्वयविरोधो न वा शक्ततावच्छेदकभेदगवेषणा | पञ्चदशानां वर्णानां पञ्चदशगुणाभेदकथनं तु दश संपद्यन्ते | दशाक्षरा विराट् | अन्नं विराट् इत्यादिवत् स्तुतिमात्रमित्यादि बुद्धिमद्भ्रूह्यमिति संक्षेपः || ७४ || इदानीम् प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते इतिवचनस्वारस्यमनुसंदधानो गुणानां गुणिबोधकाक्षरबोध्यत्ववत् तज्जनकाक्षरजन्यत्वस्यापि सत्त्वादभेदः संमवतीत्याह- तत्तज्जनकैर्वर्णैस्तत्तत्संख्यैस्तु तद्गुणा जाताः | कामकलाभिश्चतसृभिरासीत् स्पर्शश्चतुर्विधो न तु कैः || ७५ || तत्तज्जनकैर्व्योमादिजनकैः | तत्तत्संख्यैः पञ्चादिसंख्याकैः | तद्गुणा व्योमादिगुणाः | पञ्चादिसंख्याका इति शेषः | विद्यायां हि मायात्रये हकारत्रयम्, मध्यमकूटे हकारौ द्वौ, एवं पञ्चभिर्हकारैः पञ्च शब्दा उत्पन्नाः अत एव गेषामर्थाः शब्दा एव, ये ये यदज्जनकास्तेषां तेषां त एवार्थाः इति वक्ष्यमाणत्वात् | उक्तं च व्योमबीजैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् इति | ननु भावार्थप्रकरणे मध्यमहकारस्य विद्यामूलबीजात्मककामकलार्थरूपत्वमुक्तमिति तस्य शक्तिवाचकत्वमेव युक्तं न पुनः शब्दलक्षकत्वमिति चेत् न ह्येकवाचकत्वमपरालक्षकत्वे तन्त्रम्, वृत्तिद्वयविरोधस्य परिहृतत्वात् गङ्गायां घोषमत्स्यौ इत्यादौ तस्येष्टत्वाच्च | वस्तुतस्तु, शिवशक्त्यात्मकमूलबीजात्मकावकारहकारौ तु सूक्ष्मतमादप्यत्यन्तसूक्ष्मरूपावित्युक्तं | इह तु वैखर्यात्मकस्थूलरूपय रेवार्थान्तरपरत्वमुच्यते | अत एव मध्यप्राणेत्यनेन तादृशसूक्ष्मरूपतां द्योतयित्वा तस्य प्रथारूपो यः स्पन्दः स्थूलात्मिका सृष्टिस्तद्रूपे व्योम्नि हकारे स्थितेत्युक्तं न पुनः स्थूलहकार एव शक्तिरिति | उक्तं च तेषां कारणरूपेण स्थितं ध्वनिमयं परम् इति | तेषां शब्दानाम् | शब्दसृष्टेः सर्वस्यापीत्यर्थः | कारणं शक्तिः, तस्या रूपं सूक्ष्मतमादपि परम् | तादृशेन रूपेणोपलक्षितं सद् ध्वनिमयम् | ध्वन्यभिन्नं सत् स्थितं परं परब्रह्मेत्यर्थः | सर्वेष्वपि वर्णेषु वर्णांशध्वन्यंशौ परस्परसंसृष्टौ वर्तेते सुवर्णे परस्परसंसृष्टपार्थिवतैजसांशवत्, कत्वादिवर्णधर्माणां तारत्वमन्द्रत्वषड्जत्वादिध्वनिधर्माणां च सर्ववर्णेष्वनुभूयमानत्वात् | अत एव शारीरकभाष्ये स्फोटनिरासाय वर्णानामेव नित्यत्वमङ्गीकर्तुं तेषामेकैकव्यक्तिरूपत्वमुपपाद्य वैलक्षण्यप्रतीतिः सर्वापि ध्वन्यालम्बनत्वेनोपपादिता देवताधिकरणे | तथा च मध्यमहकारे ध्वन्यंशः परब्रह्मवाचकः, वर्णांशस्तु शब्दलक्षक इति विवेक इति भावः | ये तु हादिविद्यापक्षपातिनो योगिनीहृदयस्य संपूर्णतन्त्रस्यापि हादिविद्यायामेव तात्पर्यमिति मन्यमाना इहान्यथा व्याचक्षते-परं षष्ठं हाक्षरं तेषां पञ्चानामपि शब्दानां कारणभूतो यो ध्वनिर्नादस्तन्मयं तद्वाचकम् इति, तेषां तत्र ग्रन्थस्वारस्यभङ्गेन कॢप्ततरं व्याख्यानमेव शरणमिति तत्र तत्र स्पष्टीकरिष्यामः | ननु तथा सति वायुजनकककाराणामेव चतुर्विधस्पर्शजनकत्वस्यावश्यिकत्वात् ककाराणां च चतुर्णामभावादनुपपन्नमिदमित्याह-कामकलाभिरिति | महामायायां तत्र ईकारा एकस्तृतीयाक्षररूपश्चेति चतुर्भिरीकारैश्चतुर्धा स्पर्श उत्पन्नो न पुनः ककारैरित्यर्थः | तदुक्तम्- महामायात्रयेणापि कारणेन च बिन्दुना | वायवग्निजलभूमीनां स्पर्शानां च चतुष्टयम् || उत्पन्नं भावयेद्देवि स्थूलसूक्ष्मविभेदतः | इति | महामायायां यत् त्रयमीकारत्रं तेन, कारणेन च केवलेनेकारेण च, तस्यैव विश्वकारणत्वस्य पूर्वमुक्तत्वात् | बिन्दुनेति कामकलाचतुष्कस्यापि विशेषणम्, तस्य तत्र त्रिबिन्द्वात्मकत्वात् तुरीयबिन्दुजन्यत्वाद्वा | तच्च वायुमण्डलस्य बिन्दुलाञ्छितत्वद्योतनाय | स्थूलो व्यापको वायुगतः | सूक्ष्मा व्याप्या अग्न्यादित्रयनिष्ठाः | हादिपक्षपातिनस्तु ककाराणां कामकलानां च हादिविद्यायां त्रित्रिसंख्याकत्वेन चतुर्थालाभाद् बिन्दून् विभज्य गणयन्ति | तत्पक्ष एकैकस्याः कामकलायारित्रत्रिबिन्द्वात्मकत्वेन नव संपद्येरन् | विसर्गत्वेन बिन्दुद्वयस्यैक्ये तु विसर्गास्त्रयः कामास्त्रय इति षट् | कामत्वेन त्रयाणामैक्ये तु विसर्गत्वेनापि त्रयाणामैक्यापाताद् द्वयम् | तुरीयबिन्दोरपि मेलने तु विभागे द्वादश, तदभावे त्रयमिति सर्वथा न चतुः संख्यासिद्धिः | महामायायां कामकलायां यद्बिन्दुत्रयं तेन, कारणबिन्दुस्तुरीयस्तेन चेति व्याख्यानेत्वन्ययोरीकारयोर्वैयर्थ्यमिति स्पष्टम् | न च गुणगुणिनोरेकमेव कारणं कपालादेरेव घटद्गतरूपे प्रति कारणत्वादिति नियमो व्योमशब्दजनकहकारादाविष्टो भज्येतेति वाच्यम्, तस्य वचनबलात् पाकेनापि रूपाद्युत्पत्तिदर्शनेन चौत्सर्गिकत्वात् | त्रिविधरूपं तु मायान्तर्गतैस्त्रिभी रेफैर्जन्यते, रूपाणां त्रितय तद्वत् त्रिभी रेफैर्विभावितम् इति वचनात् | एवं रसद्वयं सकारद्वयेन, विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः इति वचनात् | चन्द्रबीजैः सकारैः | स्थूलो व्यापको जलगतः | सूक्ष्मो व्याप्यो भूगतः | पदमभ्यधिकाभावात् स्मारकान्नातिरिच्यते इति न्यायेन पदार्थोपस्थितेः स्मृतिरूपत्वात् स्मृत इत्युक्तम् | यद्यपि कादिविद्यायां द्वावेव सकारौ, तथापि विद्यास्थैश्चन्द्रबीजैः इति बहुचनाभ्यामपि रसस्य द्वैविध्यात् अक्षीणि मे दर्शनीयानि, पादा मे सुकुमाराः इति महाभाष्यप्रयोगाद् द्वित्वसंख्यैव लक्ष्यते | अत एव स्थूलसूक्ष्मपदगतप्रयेकैकवचनाभ्यां द्वित्वमेव स्पष्टीकृतम् | ननु-व्योमबीजेन व्योमगुणलक्षणा युक्ता, शक्यसंबन्धात् | चन्द्रवाचकबीजस्य तु चन्द्रगतामृतलक्षकत्वमेव वाच्यं न पुनर्जलगतरसलक्षकत्वम्, असंबद्धलक्षणायामतिप्रसङ्गात् | न च व्योमवाचकस्यापि वायवादिगतशब्दलक्षकत्ववदुपपत्तिः, तत्रापि नभोगुणस्य व्यापकत्वेन स्वशक्यसमवेतव्याप्यत्वरूपसंबन्धस्य सत्त्वात् | अत एव प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते इत्यनेन वचनेन तेजोरूपस्य व्यापकत्वलक्षणं प्राधान्यं शक्यसंबन्धप्रदर्शनायैवोक्तम् | तन्न्यायस्य हकारादावपि तुल्यत्वेनादोषात् | न च तथामृतव्याप्यत्वं जलरसस्य संभवति, तदभाववद्वत्तित्वादित्ति चेत्-मैवम्, अमृतेऽपि रसस्य समवेतत्वेन लक्षणोपपत्तेः | अत एवोक्तम् संबन्धो विदितो लोके रसस्याप्यमृतस्य च इति | अमृतरसयोराश्रयाश्रयिमावलक्षणोऽभेदलक्षणो वा संबन्धो लोकप्रसिद्ध इति न लक्षणायां विवदितव्यमित्यर्थः | शक्यतावच्छेदकेऽपि शक्तिरिति पक्षे रसामृतयोरभेदस्य लोकसिद्धत्वाद्रसाभिन्नामृतवति शक्तस्य सकारस्य रसोऽपि शक्यतावच्छेदक इति भावः | हादिविद्यापक्षपातिनस्तु, चन्द्रबीजैः इति बहुवचनस्य स्वानुगुणत्वं मत्वा तुष्यन्तस्त्रिभिः सकारै रसा लक्ष्यन्त इति व्याख्याय, ननौ रसस्य द्वैविध्यात् तृतीयसकारः इमर्थ इत्याशङ्क्य, अमृतं गतोऽप्येको रसोऽस्तीति तल्लक्षकत्वेनोद्ग्रन्थमेव समाधाय, नन्वेवं सति तृतीयरसाधारत्वेन भूजलभेदात् षष्ठमहाभूतस्यापत्तिरित्याशङ्कायाम् संबन्धो विदितः इति ग्रन्थमवतार्यं, जलामृतयोः संबन्धो हि लोकप्रसिद्धः, तस्य जलनिधावेधोत्पन्नत्वात्, अतो जल एवान्तर्भाव इत्याशयपरत्वेन व्याचक्षते | तेषां रस्येति पदस्य जलनिधौ लक्षणा, स्थूलसूक्ष्मपदाभ्यां प्रत्येकैकत्ववत्त्वेन लब्धद्वित्वविरोधश्च, जलेऽन्तर्भवे सिद्धे पुनर्वैयर्थ्यतादवस्थ्यं च | प्रत्युत जलामृतयोरभेदात् प्रातिस्विकममृतवाचकः सकारो नापेक्षित इत्येवार्थः संभवतीति | एवं लकारस्य गन्धबोधकत्वम् वसुधरागतो गन्धस्तल्लिपिर्गन्धवाचिका इति वचनात् || ७५ || नन्वेकेनैव लकारेणैकविधगन्धबोधोपपत्तेरितरद्वयवैयर्थ्यम् अत आह- भुवनत्रयसंबधादासीत् त्रेधा लकारोऽपि | ये ये यद्यज्जनकास्तेषां तेषां त एवार्थाः || ७६ || भुवनत्रयेण सह वाच्यवाचकभावसंबन्धाल्लकारस्य त्रैविध्यं जन्यजनकभावसंबन्धाद्वा, भुवनत्रयसंबन्धात् त्रिधात्वं तु महेश्वरि इति वचनात् | स्पष्टमन्यत् || ७६ || इदानीं वायुजनकानामपि ककाराणामर्थान्तरमस्तीति पूर्वोक्तस्य ये ये यद्यज्जनकाः इत्यस्यौत्सर्गिकस्य नियमस्यापवादमाह- ककारत्रयवाच्यास्तु सकलाः प्रलयाकलाः | विज्ञानकेवलाश्चेति त्रिप्रकारा उपासकाः || ७७ || प्रमातारः साधकाः पशव इत्यादिपदाभिधेया उपासकस्त्रिविधाः- अधमा मध्यमा उत्तमाश्चेति | त एवाशुद्धमिश्रशुद्धपदैः सकलादिपदैश्च क्रमेण व्यह्रियन्ते | तत्र भेदैकदृष्टयः शिवाहंभावभावनाहीनाः कर्मैकरताः प्रथमाः | सुपकमलकर्माणः चितिश्चैत्यं च चैतन्यं चेतनं द्वयकर्म च | जीवः कला शरीरं च सूक्ष्मं पुर्यष्टकं भवेत् || इति श्लोकोक्तसूक्ष्मपुर्यष्टकसंबन्धशालिनः कर्मज्ञानमार्गयोः साधारणा द्वितीयाः | निरस्तभेदाः सर्वत्र शिवैकदृष्टयः पूर्णज्ञानिनस्तृतीयाः | एते च स्वच्छन्दसंग्रहे विस्तरेण प्रपञ्चिताः | ते त्रयाणां ककाराणां वाच्याः | तदुक्तम्- अशुद्धशुद्धमिश्राणां प्रमातणां परं वपुः | क्रोधीशशत्रितयेनास्य विद्यास्थेन प्रकाश्यते || इति | क्रोधीशः ककारः | न चाकाराणां पार्थक्यस्याग्रे वक्ष्यमाणत्वेनैकैकहलात्मका एव हकारककारादयो वाचका वक्तव्याः, तथा च ककारे जश्भावेन गत्वापत्तिरिति वाच्यम् एकहल एव पदत्वेन पदान्तत्वाभावात्, व्यपदेशिवद्भावस्य टकितौ, सुप्पितौ इत्यादिज्ञापकेनानित्यत्वात् || ७७ || अकारैर्दशसंख्याकैरुच्यन्ते जीवराशयः | विद्यायाः प्राणभूतः संस्तद्वाच्येकादशः स्वरः || ७८ || पञ्चदश्यां द्वितीयतृतीयवर्णौ हृल्लेखात्रयं च मुक्त्वा अवशिष्टेषु दशस्वक्षरेष्वकारा दश | तेषां जीवराशय एव वाच्याः | एकेनाप्यभिधानसंभवे दशभिरभिधानं जीवानामानन्त्यद्योतनाय | तृतीयकूटाद्याकारे तु ध्वनिस्वरूपस्यैव भावार्थप्रकरणे मूलबीजांशरूपत्वमुक्तमिति न विरोधः | एकादशः स्वर एकारः स च विद्यालक्षणस्य मूलबीजोत्थवृक्षस्यान्तरः प्राणः सन्नपि स्वयं स्ववाची, लोकेऽपि क्षतस्य पुनः प्ररोहणादिना अनुमीयमानस्याध्यात्मिकवायुसंबन्धस्य वृक्षादावङ्गीकारात् | उक्तं च- श्रीकण्ठदशकं तद्वदव्यक्तस्य हि वाचकम् | प्राणभूतः स्थितो देवि तद्वदेकादशः स्वरः | एकः सन्नेव पुरुषो बहुधा जायते हि सः || इति | श्रीकण्ठा अकाराः | अव्यक्तो जीवः | एकादश एकारः संधिरेकादशो भद्रा पद्मनाभः कुलाचलः इति कोशात्, यदेकादशमाधारं बीजं कोणत्रयात्मकम् | ब्रह्माण्डादि कटाहान्तं जगत् ---------------- || इति प्रयोगाच्च योगरूढोऽयं शब्दः | तस्य च शुद्धयोगापेक्षया परत्वमस्त्येव | स च प्रकृत एकोऽपि दृश्यमानो बहुरूपः परिणमते | उक्तं च कादिमते- यदेकादशमाधारं बीजं कोणत्रयात्मकम् | ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते || इति | हादिपक्षे तु शुद्धयौगिकत्वमङ्गीकृत्य श्रीकण्ठपरत्वेनैकादशपदं व्याख्याय परो द्वादशः पुरुषः परः शिवः, तद्वाचक इति व्याचक्षते | तत्क्लिष्टमिति स्वर इति विशेष्येणाकाख्यावर्तकेन सूचितम् | ननु श्रीकण्ठदशकस्यैकस्मिन्नेव श्लोके प्रतिसंबन्धित्वेन निर्दिष्टस्योपस्थित्या, एकादशोऽपि श्रीकण्ठ एवेति चेन्न, रूढिप्राबल्ये तादृशोपस्थितेरप्रयोजकत्वात् | कथमन्यथा ज्ञानार्णवे आद्यं वाग्भवमुच्चार्य कामबीजं द्वितीयकम् | कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी || इति त्रिपुराचक्रेश्वरीमन्त्रोद्धारः संगच्छताम् ? तत्र हि कुमार्याः प्रतिसंबन्धित्वेन निर्देशेऽप्याद्यद्वितीयपदाभ्यां मातृकासंबन्धिनावेव प्रथमद्वितीयौ वर्णौ विवक्षितौ, दक्षिणामूर्तिसंहितादौ अं आं सौः इत्यस्यैव प्रथमचक्रेश्वरीमन्त्रस्योद्भूतत्वात् | अन्यथा बालाया एव त्रिपुराचक्रेश्वरीत्वमापद्येत | तस्मान्मातृकायामेकादश एवात्र ग्राय इति | तार्तीयप्रथमस्य पूर्वमभिहितत्वान्नेह पुनरुट्टङ्कनमित्यपि हादिपक्षे सुवचम् | परं तु न तथा सांप्रदायिकैर्व्याख्यातम् | तथापि कः प्राणवाचकोऽकारः को वा जीववाचक इत्यनिर्धारणं तत्पक्षे दुरुद्धरम् || ७८ || योगिनीहृदयस्थमेव पद्यं लाघवात् स्पष्टत्वाच्च निबध्नाति- बिन्दुभिरित्रभिरुच्यन्ते रुद्रेश्वरसदाशिवाः | शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनाः || ७९ || रुद्रस्तेजस्तत्त्व, रुद्रो वा एष यदग्निः इति श्रुतेः | तेन पुरुषनियतिकालरागविद्याकलामायानां परिग्रहः, पुरुषादिकमायान्तं तेजस्तत्त्वं महेश्वरि इति स्वच्छन्दसंग्रहोक्ते | शान्तिः प्रकृति शुद्धविद्या च | अर्धचन्द्राद्युन्मनान्तवर्णाष्टकं नादपदेनोच्यते | नादत्रितयमेव बोधनं येषां ते | करणे ल्युट् || ७९ || एवं सप्तत्रिंशत्संख्याकपदैर्महाविद्या | षट्त्रिंशत्तत्त्वानां तत्त्वातीतस्य चाभिधात्रीयम् || ८० || एवमित्यस्यानन्तरोदीरितश्लोकषट्कोक्तरीत्येत्यर्थः | तत्र हि व्योमबीजपञ्चकम्, कामकलाश्चतस्रः, चन्द्रबीजे द्वे, रेफभूबीजक्रोधीशबिन्दुनादास्त्रयस्त्रयः, श्रीकण्ठदशकम्, एकादशः स्वर एकः, इति संहत्य सप्तत्रिशत् पदान्युपपादितानि | तेषां च तत्त्वानि षट्त्रिंशत्तत्त्वातीतं ब्रह्मैकमित्यर्थः | तानि च यथा-शिवः शक्तिः, सदाशिवः, ईश्वरः, शुद्धविद्या, माया कला, विद्या, रागः, कालः, नियतिः, पुरुषः, प्रकृतिः, अहंकारः, बुद्धिः, मनः, श्रोत्रम्, त्वक्, चक्षुः, जिह्वा, घ्राणम्, वाक्, पाणिः, पादः, पायुः, उपस्थः, शब्दः, स्पर्शः, रूपम्, रसः, गन्धः, आकाशः, वायुः, तेजः, आपः, पृथिवी | एतेषां स्वरूपमुत्पत्तिक्रमश्च सौभाग्यसुधोदये द्रष्टव्यः, विस्तरभयान्नेह लिख्यते | तत्र शिवशक्तिशुद्धविद्याप्रकृतयो बिन्द्वर्थाः | सदाशिवादिपुरुषान्ता नव नादार्थाः | शब्दादय आकाशादयः श्रोत्रादयो वागादयश्च पञ्च पञ्च हकारादेरर्थाः | अहंकारादित्रयं तु ककारत्रयस्य श्रीकण्ठानां वार्थःः | एकादशस्वरस्य तत्त्वातीतमर्थ इति विवेकः | यद्यपि हकारादेः शब्दाद्यर्थकत्ववदिन्द्रियाद्यर्थकत्वं नोक्तम्, तथापि स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी | सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी | तत्त्वातीतस्वभावा च विद्यैषा भाव्यते मया || इति वचनबलात् तत्तदर्थकत्वमवश्यकल्पनीयम् | न च सप्तत्रिंशतो वर्णानां सप्तत्रिंशति तत्त्वेषु क्रमेण शक्तिरस्त्विति वाच्यम्, हकारादौ कॢप्तशक्ति परित्यागस्य शक्त्यन्तरस्वीकारस्य चापत्तेः | न च भवत्पक्षेऽप्येकस्यानेकार्थकत्वं दोष इति वाच्यम्, एकत्र शक्तिः परत्र लक्षणेति सुवचत्वात् | न च युगपद्वृत्तिद्वयविरोधः, एतद्वचनबलदेव सप्तत्रिंशत्त्वस्य शक्तत्तावच्छेदकत्वाङ्गीकारेण पूर्ववत् तस्यादोषत्वात्, केवलहकारस्यैव व्योमवाचकत्वादिना प्रमितत्वेन तद्विरोधस्योद्भवने तु वृत्तिद्वयविरोधेऽकिंचित्करत्वयस् सुवचत्वाच्च प्रमाण प्रमितत्वाविशेषादापततोऽनेकार्थत्वस्यापि हर्यादिपदवददोषत्वाच्च | कॢप्तशक्तिपरित्यागस्तु न सर्वथा प्रामाणिकः | ननु प्रथमेऽंशे विद्यायामष्टपञ्चाशद्वर्णा उक्ताः, कथमिह सप्तत्रिंशत्त्वेन गण्यन्त इति चेत्, सत्यम् | न पुनरत्र वर्णगतेयं संख्या कण्ठरवेणोक्तवचने श्रूयते येनैवमुच्येत | श्रूयमाणं संख्यामात्रं तु पदनिष्ठत्वेनाप्युपपन्नम्, अर्धचन्द्रादिवर्णाष्ट- कस्यैकपदत्वात्, चतुरवयवककामकलावन्नादस्याष्टा- वयवकैकवर्णत्वाङ्गीकारेऽपि क्षतिविरहाच्च | अत एव त्रैपुरमन्त्रे समूहमूल-कारणभूते महामेरावर्धचन्द्रादीनामष्टाना- मप्यर्धचन्द्रत्वरूपैकवर्णात्मकत्वमङ्गीकृत्य नवाक्षरो महामेरुरयं ब्रह्माण्डगोलकः इत्यादिव्यवहारस्तन्त्रेषु दृश्यते | वस्तुतोऽर्धचन्द्रादेः स्थानस्वरूपादिभेदान्नैकवर्णत्वं युक्तम्, कामकलावयवेषु तु न तथेति वैषम्यम् | अत एव मूले पदैरित्युक्तम् | शक्तं पदम् इति तल्लक्षणाच्छक्तैरित्यर्थः | न च सुप्तिङन्तं पदम् इति पाणिनीयसूत्रात् ते विभक्त्यन्ताः पदम् इति न्यायसूत्राच्च शक्तं पदम् इत्याधुनिकपरिकल्पितपरिभाषाया अप्रमाणत्वादिह पदत्वं न युज्यत इति वाच्यम्, तथाप्यर्थवत्त्वेन प्रत्यक्षरं प्रातिपदिकसंज्ञायां सुबुत्पत्तेः क्वचिद् व्यत्ययादिना क्वचिच्छाकल्यमतेन क्वचित् सुपां सुलुक्-इत्यनेन च लोपस्वीकारात् | न चैवं ककारेषु जश्त्वापत्तिः, किति, पिति इत्यादि ज्ञापकैरेकाक्षरपदे तदनित्यताया ज्ञापनादिति | स्वरव्यञ्जनभेदेन इत्यस्यायमर्थः- स्वरव्यञ्जनयोरभेदविवक्षामपवदितुं भेदेनेत्युक्तम् | अभेदे विवक्षित एव हि तयोरङ्गाङ्गिभावो लोकसिद्धः | तथा हि-व्यञ्जनानि तावत् स्वराङ्गाणि | तत्र ककारसकारहकारलकारा दशसंख्याकस्तु स्वस्वपूर्वोच्चार्यमाणलकारीयश्रीकण्ठानामेवाङ्गानीति यद्यपि संयोगादि इति सूत्रेण प्रतिभाति तथापि नान्तस्थापरमसवर्णम् इति सूत्रेण परेषामेवाङ्गानीति वाच्यम् | रेफास्तु सबिन्दुककामकलानाम्, अनुस्वारा अपि तासामेवेति वस्तुस्थितिः | तदेतत् सर्वं याजुर्वैदिकप्रातिशाख्यसूत्राणि त्रिभाष्यरत्नादितद्व्याख्यानानि च जानानानां स्पष्टतरम् | प्रकृते त्वियान् विशेषः | बिन्दवो हि स्वोत्तरोच्चार्यमाणनादाख्यस्वरस्यैवाङ्गानि न पुनः कामकलानाम्, तत्परस्वरम् इति प्रातिशाख्यसूत्रस्यात्र प्रवृत्तेः | यो हि स्वरात् पूर्वमनुस्वारो नोच्चार्यते स एव स्वपूर्वस्वराङ्गमिति अनुस्वारः-इति सूत्रस्य विषयः | न हि लोकवेदयोः क्वापि संहितायामनुस्वारोत्तरं स्वरोच्चारणं दृश्यते | मकारनकारयोर्हि सतोर्हलि झलि च परेऽनुस्वारविधिः मोऽनुस्वारः, नश्चापदान्तस्य झलि इति पाणिनीयसूत्रयोरुपलभ्यते | तस्य च ययि परे परसवर्णवर्णान्तरतापत्तिविधानाच्छषसहाख्यराहुकूटे हंसः इत्यादावात्मलाभ इत्याशयेन वेदमात्रमधिकृत्य प्रवृत्तेन प्रातिशाख्यमुनिना अनुस्वारमात्रस्य पूर्वाङ्गत्वम् अनुस्वारः-इति सूत्रेणोक्तम् | तस्य च व्यञ्जनमपराङ्ग विरामे लुप्यते इत्यादिसामवेदीयफुल्लसूत्राद्युक्तानि सामविशेषेषु प्रयोजनानि विस्तरभ्यादनुपयोगाच्च नेहोल्लिखितानि | न चात्रापि प्रथमद्वितीयकूटस्थानुस्वारयोर्हकारसकारपूर्वत्वेन परसवर्णादिवर्णान्तरभावाभावात् पूर्वाङ्गतापत्तिरिति वाच्यम्, कूटानां पार्थक्येनोच्चरणे स्वरपरत्वान्मिलित्वोच्चारणे तु बिन्द्वादिनवकस्योत्तरकूटे प्रवेशविधानेन हकारादिपूर्वत्वाभावात् | वस्तुतस्तु, हल्त्वमेव हि व्यञ्जनत्वम् | कथमन्यथा हलोऽनन्तराः संयोगः इति सूत्रोक्ता संयोगसंज्ञा हंसः इति सकारे स्यात् ? तदभावे च हकारीयाकारे संयोगे गुरु इति सूत्रेण गुरुसंज्ञा न सिध्येत् | इष्टा हि सा | तदेतच्छन्दःशास्त्रीये ध्रादिपरः इति पिङ्गलसूत्रे चन्दोभास्करे प्रपञ्चितमस्माभिः | तथा च संयोगादि इति प्रातिशाख्यसूत्रेण संयुक्ताक्षरादिमव्यञ्जनस्य पूर्वाङ्गत्वं विदधतैव चारितार्थ्यात् अनुस्वारः-इति पृथग्योगो व्यर्थः | न ह्यवसाने स्वरे वा परे लोकवेदयोरनुस्वारः क्वापि दृश्यते, येन तत्सार्थक्यं भवेत् | तस्मात् पृथक्सूत्रकरणस्य श्रीविद्यानुस्वार एव विषय इत्यवश्यं वक्तव्यम् | तेन च कामकलानामेव बिन्दवोऽङ्गानि, नादस्तु द्वितीयतृतीयस्वरवदव्यञ्जनाङ्गक एव स्वरो भविष्यतीति दिक् | अयं चाङ्गाङ्गिभावः चतुर्विंशत्यक्षरा गायत्री इत्यादौ वेदे लौकिकच्छन्दःसु प्रकृतेऽपि पञ्चदशत्वषोडशत्वाद्युपपत्त्यर्थमुपयुज्यते, अङ्गाङ्गिनोरभेदविवक्षया तदभिन्नप्रधानाक्षरगणनयैव संख्यापूर्तेरावश्यिकत्वादिति वस्तुस्थितिः | तदपवादाय स्वरव्यञ्जनभेदेन इत्यक्तम् | अङ्गाङ्गिनोर्भेद एव प्रकृतार्थे कार्यो न पुनरभेदो विवक्षणीय इत्यर्थः | हादिविद्यायां हि द्वितीयतृतीयाक्षरयोरपि सव्यञ्जनकत्वेन षष्टिरक्षराणि | अर्धचन्द्रादेरेकवर्णत्वाङ्गीकारेऽपि तावदेकोनचत्वारिंशत् | बिन्दूनामपि नादेषु मेलनेनैकवर्णत्वस्वीकारे तु षट्त्रिंशत् | शक्तानि तु तत्र चत्वारिंशत्, व्योमबीजषट्कं मायात्रयं कारणबिन्दुरेको रेफचन्द्रबीजभूबीजक्रोधीशबिन्दुनादानां त्रयं त्रय द्वादश श्रीकण्ठा इत्येव तदर्थोपपादनादि न कथंचन सप्तत्रिंशत्ता संपद्यते | यद्यपि स्वराः पञ्चदश व्यञ्जनान्यष्टादश बिन्दवस्त्रयः सर्ववर्णसमष्टिरेकेति सप्तत्रिंशत्ता तदुपासकैरुपपाद्यते, यदुक्त कामकलाविलासे- अज्व्यञ्जनब्न्दुत्रयसमष्टिभेदैर्विभाविताकारा | षट्त्रिंशत्तत्त्वात्मा तत्त्वातीता च केवला विद्या || इति तथापि संख्यायाः पृथङ्निवेशित्वस्वाभाव्येन व्यष्टिवेषेण गणितस्य पुनर्गणनं गौणम्, पञ्चदश्यां षोडशीत्वापादकं च | किं च अङ्गाङ्गिनोरभेदस्य लोकसिद्धस्यापवादाय भेदेनेति कण्ठरवेणोक्तेर्लोकसिद्धभेदानां पञ्चदशानां वर्णानामभेदेन गणनस्य कुतोः लाभ इति विचार्यम् | यद्यपि भेदपदस्य संभेदः सिन्धुसंगमः इत्यादौ संगमार्थे प्रसिद्धत्वादिह स्वरव्यञ्जनानां सर्वेषां मेलनेनेत्यप्यर्थः सुवचः तथापि भेदपदस्य वृत्तिक्लेशः, समित्यनुपसृष्टस्य तादृशार्थावाचक्त्वं च | किं च, यथा तावत् व्याप्ता पञ्चदशार्णैः सा इत्यनेन सामान्यतः पञ्चदशसंख्याकाक्षरकत्वमुक्त्वा तदुपपादनाय तदग्रिमग्रन्थे पञ्चभिश्च तथा षड्भिः इति विशिष्य कथनम्, तथैव स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी इत्यादिना सामान्येन सप्तत्रिंशत्संख्याकाक्षरकत्वं प्रतिज्ञाय तदग्रिमग्रन्थेन व्योमबीजैस्तु विद्यास्थैः इत्यादिना नान्दत्रितयबोधनाः इत्यन्तेन विविच्य तदुपपादनमित्यविवादम् | तत्र चोक्तरीत्या चत्वारिंशतोऽप्युपपादनादुपक्रमोपसंहारविरोधो दुरुद्धरः | किं च, बिन्दुभिस्त्रिभिरुच्यन्ते रुद्रेश्वरसदाशिवाः | शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनाः || इत्येकस्मिन्नेव श्लोके बिन्दुत्रयनादत्रययोरर्थवर्णनेन बिन्दुत्रयस्य सप्तत्रिंशत्संख्यापूर्त्यर्थमुल्लखो नादत्रयस्य तु त्याग इत्यत्र तु स्पष्टं पक्षपात एव मूलमिति | एतेन कादिविद्यायां सप्तत्रिंशत्त्वसिद्ध्यर्थं द्वितीयतृतीयाक्षरयोः संध्यक्षरत्वात् प्रतिस्विकं द्व्यात्मकत्वेन गणनाक्लेशः प्राचामपास्तः हृल्लेखास्वपि तथापत्त्या प्रकृतबाधकापादकश्च | तस्मान्नादत्रयमेलनेनैव सप्तत्रिंशत्ता | स्पष्टमेतद्योगिनीहृदये हृल्लखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः इत्यसकृत्प्रतिहृल्लेखं पञ्चानामक्षराणां गणनात् | तस्माद्योगिनीहृदये संप्रदायार्थप्रकरण सर्वं कादि विद्ययामेव स्वरसमिति निष्पक्षपात् कृतमतयो विदांकुर्वन्तु | अयमत्र निष्कर्षः-तत्तदक्षरैर्वाच्यान् लक्ष्यांश्च पदार्थानुद्दिश्यैकादशस्वरेण तत्त्वातीतब्रह्माभेदो विधीयते | एवं विद्यावयवाक्षर-समूहवाच्यपदार्थसमुदायात्मकत्वात् विश्वं विद्याभिन्नं इत्यपि विधीयते | भावार्थे हि शिवशक्तिजन्यत्वज्ञाप्यकशिवशक्त्यभेदविधेयको विद्याजगदुभयोद्देश्यक एको बोधः | विश्वजनकजन्यत्वज्ञाप्यकविश्वाभेदविधेयको विद्योद्दश्यकश्चैकः | इह तु विद्योद्देशको विश्वान्तर्गतयावत्पदार्थप्रातिस्विकवाचकाक्षरैकघटितत्वज्ञाप् यकविश्वाभेदविधेयक एकः, विश्वोद्देश्यकविद्याभेदविधेयकश्चान्यो बोध इति भेदः || ८० || तदेतदभिसंधायाह- जन्यजनकयोर्भेदाभावाद् वाच्यस्य वाचकेनापि | ब्रह्मणि जगतो जगति च विद्याभेदस्तु संप्रदायार्थः || ८१ || ब्रह्मणि जगत इत्यत्र, अभेद इति शेषः | सम्यग्गुरुशिष्यपारंपर्यक्रमायातमर्यादानुसारेण दीयत इति संप्रदायार्थः || ८१ || अथ निगर्भार्थमाह- परमशिवे निष्कलता तदभिन्नत्वं स्वदेशिकेन्द्रस्य | तत्करुणातः स्वस्मिन्नपि तदभेदो निगर्भार्थः || ८२ || परमशिवः कामकलास्वरूपनिर्णयावसरे निष्कृष्य कथितं ब्रह्म | तत्र निष्कलता तदितरपदार्थाभावः, तदितरस्य सर्वस्यापि दुःखजनकत्वात्, द्वितीयाद्वै भयं भवति इति श्रुतेः | इति प्रथमकूटार्थः | तेन ब्रह्मणा स्वीयस्य देशिकेन्द्रस्य श्रीगुरुचरणानामभेदः, तेषां ब्रह्माभेदभावनादार्ढ्येन तदभेदस्य सिद्धत्वादिति द्वितीयकूटार्थः | तत्करुणातः स्वकृताव्यभिचरितभक्तिपुरःसरदृढतरसेवासंपादितप्रसाद- जन्यगुरुकरुणाकरम्बितकटाक्षनिरीक्षणबलात् स्वस्मिन्नपि साधके ब्रह्माभेदः सिध्यतीति तृतीयकूटार्थः | स्वस्य गुरुद्वारा शिवगर्भे प्रवेशसंपादकत्वादेतज्ज्ञानस्य विषयः शिवगुर्वात्मैक्यं निगर्मार्थपदवाच्यम् || ८२ || अथ परदेवताया विद्यायाश्चक्रराजस्य श्रीगुरोरात्मनश्चैक्यं कौलिकार्थ इत्युच्यते सर्वेषां ब्रह्माभेदेन सजातीयत्वात्, सजातीययूथस्य कुलपदवाच्यत्वात्, सजातीयैः कुलं यूथम् इत्यमरोक्तेः | अयं च पञ्चानामभेदः समानधर्मवत्त्वेन सिषाधयिषितः | स च समानो धर्मः गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् | देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् || इति तन्त्रराजोक्तगणेशादिषट्कात्मकत्वाख्यः | तत्र परदेवतायां प्रथमं गणेशत्वमुपपादयति- माता निरुपमतेजोमययाः स्वस्या मरीचिरूपाणाम् | आवरणदेवतानामीशत्वादुच्यते गणेशीति || ८३ || न तत्र सूर्यो भाति इत्यादिश्रुत्या प्रतिपादितानवधिकतेजोरूपब्रह्मणो मरीचय एवावरणदेवताः | ताश्चैकादशोत्तरशतसंख्याकाः | तन्त्रभेदेनान्या अपि प्रतिपादिताः | तादृशदेवतागणस्येशत्वाद् गणेशीत्युच्यते माता || ८३ || इच्छादित्रिसमष्टिर्गुणत्रयाढ्यानलेन्दुरविनेत्रा | एवं नवभिर्योगाद् ग्रहरूपेत्युच्यते माता || ८४ || इच्छा ज्ञाना क्रियेति शक्तित्रयसमष्टिरूपा माता | तदुक्तं संकेतपद्धतौ-इच्छा शिरःप्रदेशेऽथ ज्ञाना च तदधोगता | क्रिया पदगता ह्यस्याः इति | गुणविशिष्टस्य शबलब्रह्मणोऽवयवरूपा एव गुणा इति व्यवह्रियन्ते | आदित्यादिग्रहाणां नवसंख्याकत्वान्नवसंख्याकावयवशालित्वमेव प्रकृते ग्रहत्वं विवक्षितम् | एवमेव नक्षत्रादिषु बोद्धव्यम् || ८४ || इन्द्रियदशकेनान्तःकरणचतुष्केण विषयदशकेन | प्रकृतिपुरुषगुणतत्त्वैर्जाता नक्षत्ररूपिणी माता || ८५ || ज्ञानेन्द्रियाणि श्रोत्रादीनि पञ्च, कर्मेन्द्रियाणि वागादीनि पञ्चेति दशेन्द्रियाणि, मनो बुद्धिरहंकारश्चित्तं चेत्यन्तःकरणचतुष्कम्, शब्दादयो वचनादयश्च विषया दश | प्रकृतिर्गुणत्रयसाम्यावस्था, पुरुषः, सत्त्वादिगुणत्रयसमष्टिरूपं सुखदुःखमोहमूल गुणतत्त्वम् | एवं सप्तविंशतिसंख्याकत्वान्नक्षत्ररूपत्वं मातुः || ८५ || नरपतिरविकाष्ठाषट्समुद्रद्विसंख्यै- रकडबवहपूर्वैरक्षरैर्वेष्टिताभिः | डरलकसहवर्णाद्याकिनीभिस्तु षड्भि- र्घटिततनुरितीयं कथ्यते योगिनीति || ८६ || नरपतयो राजानः षोडश | रवयो द्वादश | काष्ठा दिशो दश, ऊर्ध्वाधोदिग्द्वयस्याप्यष्टभिर्दिग्भिः साहित्यात् | समुदाश्चत्वारः, पयोधरीभूतचतुःसमुद्राम् इत्यादौ तथैव समुद्रगतसंख्याप्रसिद्धेः | षोडशादिसंख्यानामकाराद्यक्षरैर्यथासंख्यमन्वयः | अकाराद्याः षोडश स्वरा अमृतादितद्देवतोपलक्षकाः | कादिठान्ता द्वादश वर्णाः कालरात्र्यादीनामुपलक्षकाः | डादिफान्ता दश डामर्यादीनाम् | बादिलान्ताः षड् बन्धिन्यादीनाम् | वादिसान्ताश्चत्वारो वरदादीनाम् | हक्षौ द्वौ हंसवतीक्षमावत्योरुपलक्षकौ | डकारादि वर्णषट्कमादिभूतं यासामाकिनीनां ता डाकिन्यादयः | तेनामृताद्यावृता डाकिनी, कालरात्र्याद्यावृता राकिनी, इति प्रकारेण षड्भिस्त्वगसृङ्मांसमेदोऽस्थिमज्जाधिपति- भिर्विशुद्ध्यनाहतमणिपूरस्वाधिष्ठानमूलाधाराज्ञा- चक्राणां तत्तद्देवतावरणशक्तिसमानसंख्याकतत्तदीयदल- निविष्टतावत्तावत्संख्याकदेवीसंवृतानां कर्णिकासु निविष्ट भिर्डाकिनीराकिनीलाकिनीकाकिनीसाकिनीहाकिनीभिर्घटिता तनुर्यस्याः सा योगिनीत्युच्यत इत्यर्थः | यद्यपि त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः इति भिषजां घण्टाघोषेण धातवः सप्त, तदधिपतिरपि याकिनीनाम्ना सहस्रारपद्मेऽमृतादि सकलशक्तिबृन्दाधिष्ठितदलकिर्मीरिते तिष्ठतीति तन्त्रेषु प्रसिद्धम्, षोढान्यासेऽपि क्वचित्तन्त्रेषु तस्या न्यासो दृश्यते तथापि योगिनीहृदये षण्णामेव न्यासविधानादमृतादिशक्त्यतिरिक्तशक्तेरावरणरूपाया अभावेनैतत्षट्कसमष्ट्यात्मकमातृत्वेन च पार्थक्याभावाद्योगिन्यः षडेव | यदाह- विशुद्धौ हृदये नाभौ स्वाधिष्ठाने च मूलके | आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः | अमृतादियुताः सम्यग् ध्यातव्याश्च सुरेश्वरि || इति || ८६ || पञ्चभिर्नागकूर्माद्यैः प्राणापानादिपञ्चभिः | जीवात्मपरमात्मभ्यां चैषा राशिस्वरूपिणी || ८७ || आद्यादिपदाभ्यां कृकरदेवदत्तधनंजयानां व्यानोदानसमानानां च संग्रहः | एवं द्वादशात्मकत्वाद्राशिरूपिणी जगन्माता | पीठानां गणेशादिसमानसंख्याकत्वात् तदात्मकत्वोक्त्यैव तदुक्तप्रायमिति न पुनः पृथक् संरम्भः || ८७ || अथ विद्यायां गणेशादिरूपत्वमुपपादयति- अकथादिकषोडशाक्षरात्मकतार्तीयककामवाग्भवैः | घटिता च परादिवाग्गणैरिति विद्यापि गणेशरूपिणी || अकारादिषोडशस्वरात्मकं तार्तीयं शक्तिकूटम् | कादितान्ताक्षररूपं द्वैतीयीकं कामराजकूटम् | थकारादिसकारान्ताक्षरमयं प्राथमिकं वाग्भवकूटम् | परादिवाक्चतुष्टयरूपं चैतद्व्यष्टिसमष्टिभेदेन | अतः शब्दगणस्येशत्वाच्छ्रीविद्यापि गणेशरूपा | वैतालीयं छन्दः || ८८ || बिन्दुत्रयनादत्रयतदन्यकूटत्रयैर्ग्रहत्वमिह | नक्षत्रत्वं च दशाकाराणां व्यञ्जनैरपार्थक्यात् || ८९ || बिन्दुनादनिर्मुक्तं कूटमेकं बिन्दुरेको नाद एकः, एवं प्रतिकूटं त्रयं त्रयमित्यर्थः | तदुक्तम्-बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका इति | बिन्दवश्च ध्वनयश्चेति द्वन्द्वोत्तरं बीजानां बिन्दुध्वनय इति तत्पुरुषात् | तेन च बीजबिन्दुध्वनीनामिति पदेन षड् गणिता भवन्ति | तेषां षण्णां त्रिकूटेषु अर्थात् तदतिरिक्तेषु त्रिषु मेलनेति शेषः | षष्ठ्या वा संबन्धित्वमर्थः तैः षड्भिः संमेल्य गणितेषु कूटेषु सत्सु ग्रहात्मिका विद्या भवतीति योजना | ये त्रिपदद्वन्द्व इति व्याख्याय बीजमात्रेणावयवविश्लेषसचिवेन ग्रहत्वमुपादयन्ति तेषामितरांशवैयर्थ्यम्, संपूर्णाया विद्याया एव गणेशनक्षत्राद्यात्मकत्वोक्त्या प्रकृते विद्यैकदेशस्यैव ग्रहत्वोपपादने क्वचिदेकदेशे क्वचित् संपूर्णायामिति वैरूप्यं च | यथा च योगिन्यादेरपि नैकदेशरूपतापत्तिस्तथानुपदमेव वक्ष्यामः | किं च, बिन्दुनिर्मुक्तस्य बीजत्वाभावात् बीजपदेन परामर्शोऽपि नोचितः | कथमन्यथा शुद्धं बिन्दुयुतम् इत्यादिदशविधमातृकान्यासान्तर्गतशुद्धमातृकान्यासप्रकरणे बिन्दुविनिर्मोके सति केवलानामक्षराणां बीजत्वभावापत्त्या बिन्दुयुतन्यासे पौनरुक्त्येऽपि सबिन्दुक एव शुद्धन्यासः कार्य इति सांप्रदायिकानामुक्तिः संगच्छत इति दिक् | संप्रदायार्थप्रकरणे सप्तत्रिंशद्वर्णा उक्ताः | तेषु दश श्रीकण्ठानां स्वस्वव्यञ्जनैः सह गणने दशसंख्याया बाधे सप्तविंशत्रवशिष्यन्ते तेन च नक्षत्रात्मकत्वं सिद्धमित्याह-नक्षत्रत्वं चेति | तदुक्तम्- हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी || इति || ८९ || हृल्लेखाभिस्तिसृभिस्तदन्यकूटैश्च योगिनी योगत् | राशीभृताप्येषा तिसृणां पूर्वाक्षरैरैक्यात् || ९० || हृल्लेखात्रयं तद्विनिर्मुक्तं कूटत्रयं चेति षड्भिर्योगादेषा विद्या योगिनी | तिसृणां हृल्लेखानां पूर्ववर्णैर्लकारैः सह गणनायां द्वादशसंख्याकावयवशालित्वात् राशिरूपाप्येषा | उक्तं च- विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः षड्भिरथाक्षरैः | योगिनीत्वं च विद्याया राशित्वं चान्त्यवर्जितैः || इति | विद्यान्तर्भूता ये शक्तेराद्याभागाश्चतुःपञ्चत्र्यक्षररूपास्त्रयः तैः शाक्तैः शक्तिभिः | स्वार्थे तद्धितः | साहित्यरूपसंबन्धार्थे वा | तिसृभिः शक्तिभिः सहितैः | तेन षट्संख्यामापन्नैरित्यर्थः | केचित्तु- शाक्तपदेन लकारास्त्रयः तेषामेव शवत्याद्यैरिति विशेषणम् तच्च शक्तिसाहित्यद्योतनाय तेन च षट्संख्यापूर्तिः एवं च त्रिभिर्लकारैस्तिसृभिर्लज्जाभिश्चेत्यर्थः-इति व्याचक्षते | तेषा मते विद्यैकदेशस्यैव योगिनीरूपत्वात् योगिनीत्वं च विद्यायाः इत्युक्तिः- स्वारस्यभङ्गापत्तिः, विद्यैकदेशे विद्यापदस्य लक्षणापत्तेः | इदं तु चिन्त्यम्-शक्त्याद्या लकारास्त्रयः शाक्ताः सकारास्त्रय इति स्पष्टतरम् हादिविद्यापक्ष एवास्य एवारस्ये सत्यपि शक्तपद लकारार्थकत्वेन किमिति व्याख्यातं तत्पक्षपातिमिरिति | अन्त्यवर्जितैः इत्यस्यान्त्यानां मायानां पार्थक्येन गणनं वर्जनीयमित्यर्थः | अर्थात् संनिहतैर्लकारैर्मेलनेनेति भावः | ये तु यथाश्रुतं व्याचक्षते तेषाम् विद्यायाः इति स्वारस्यं भज्येत | अथ वा, राशीनां सपादनक्षत्रद्वयात्मकत्वेन नक्षत्रत्वोक्यैव पूर्णविद्याया राशित्वं सिद्धम् एकदेशेऽपि तसस्तीति विशेषद्योतनायान्त्यवर्जितैरित्युक्तिः || ९० || एवं गणेशादिषट्कत्वस्य विद्यायां देव्यभेदसाधकत्वे स्थितेऽपि विद्यायां देवीरूपान्तरत्वस्य वचनबलादेव राकृष्णादिवदभेदस्यापि सिद्धत्वेनाभेदेनैव हेतुना षट्कत्वं साधयति- देव्या रूपान्तरत्वेन विद्यायास्तदभेदतः | गणेशग्रहनक्षत्रयोगिनीराशिपीठता || ९१ || अथ चक्रराजे गणेशादित्वमाह- रेखादलकोणगणैर्घटनाच्चक्रे गणेशत्वम् | त्रैलोक्यमोहनाद्यैर्नवभिश्चक्रैर्ग्रहत्वं च || ९२ || रेखाश्चतुरश्रास्तिस्रो वर्तुलास्तिस्रः | दलानि चतुर्विंशतिः | कोणाः पञ्चचत्वारिंशत् | त्रैलोक्येति | सर्वानन्दमयान्तैरिति शेषः | रेखाभिस्तिसृभिरकथादिमयीभिर्मध्यत्रिकोणगाभिर्गणेशत्वं वदतां चक्रैकदेशे तदापत्त्या वैरूप्यं दोषदोषः || ९२ || वृत्तत्रयधरणीत्रयमन्वश्राणां विभज्य गणनेन | सप्तभिरितरैश्चक्रैश्चक्रे नक्षत्ररूपत्वम् || ९३ || द्वयोः पद्मयोः कर्णिकावृत्ते द्वे, एकं बहिर्वृत्तमिति त्रयम् | धरणीत्रयं भूगृहरेखास्त्रिस्रः | मन्वश्राणि चतुर्दश कोणा | इतरैः, त्रैलोक्यमोहनसर्वसौभाग्यदायकातिरिक्तैः | वृत्तत्रयमन्वश्रबहिर्दशारैरिति केचित् || ९३ || स्थितिसंहृतिचक्रे द्वे पद्मे द्वे वृत्तभूगृहे च द्वे | एवं षड्भिर्योगाच्छ्रीचक्रं योगिनीरूपम् || ९४ || बिन्दुत्रिकोणवसुकोणाः संहृतिचक्रम्, दशारे द्वे चतुर्दशारं च स्थितिचक्रम्, अवशिष्टं सृष्टिचक्रमित्येतत् त्रिप्रकारकत्वं चक्रसंकेते स्पष्टम् | पद्मे वसुदलषोडशदले | वृत्तमेकं भूगृहत्वेनैकम् | अष्टभिः कोणैर्ब्रह्मयादि योगिनीरूपत्वं वदतां त्वतिवैरूप्यम् || ९४ || पञ्चचतुःशक्त्यनला बिन्दुर्वृत्तं च भूबिम्बम् | एवं द्वादशसंख्यैर्घटनाच्चक्रस्य राशित्वम् || ९५ || स्वाभिमुखाग्रत्रिकोणानि शक्तय इत्युच्यन्ते | तानि पञ्च | पराङ्मुखाग्रत्रिकोणन्यनलाः | तानि चत्वारि | तदुक्तम्- पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसंभवः इति | वृत्तं पद्मद्वयगर्भितम् | ये तु नव त्रिकोणानि द्वे पद्मे भूगृहमेकमित्याहुस्तेषां बिन्दुपरित्यागो दोषः || ९५ || चक्रस्य विद्याक्षरजन्यत्वादप्यभेदस्य सिद्धत्वात्तेन हेतुना षड्रूपत्वं द्रढयति- चक्रं विद्याक्षरैरेव जननात् तदभेदवत् | देव्या रूपान्तरत्वाच्च तेन युक्तोक्तरूपता || ९६ || यद्यपि मूलतन्त्रे चक्रे विद्याया अभेदस्तदक्षरजन्यत्वज्ञाप्यक एवोक्तो न पुनः षड्रूपत्वज्ञाप्यकः, तथापि एवं विश्वप्रथाकारा चक्ररूपा महेश्वरी इत्युक्त्या षड्रूपता सूचितेति संप्रदायः || ९६ || एतेषां गणेशादीनां पञ्चानां मेलने पञ्चपञ्चाशत् संपद्यन्ते, गणेशस्यैकविधत्वेनैव गणनात्, रेखादलकोणेषु पञ्चसप्तावपि एको गणेशः इत्यव व्यवहारात् | पीठानि यद्यपि कामरूपादिच्छायाच्छत्रान्तान्येकपञ्चात् तथापि ओजापूकानाम् इति प्राधान्यवेषेण पुनर्गणनायां पञ्चपञ्चाशत् तेनैतत्पञ्चकसमष्टित्वादेव पीठत्वं सिद्धमित्याशयेन तन्त्रेषु न पुनः पृथक् पीठरूपतोक्तिरिति वा तन्त्राशय इति मन्वान आह- यावन्मातृकमुदितान्येकसमेतानि पञ्चाशत् | पीठानि पुनर्गणितान्योजापूकानि चत्वारि || ९७ || गणपग्रहभादीनां शशिनिधितारर्तुसूर्यस.ख्यानाम् | मेलनतः पीठानि ज्ञेयान्येतेषु पञ्चपञ्चाशत् || ९८ || यावन्मातृकमित्यव्ययीभावः | यावन्तो मातृकास्तावन्ति पीठानीत्यर्थः | ओ, ओड्याणपीठम् जा, जालंधरपीठम् पू पूर्णगिरिपीठम् का, कामरूपपीठम् | नमैकदेशे नामग्रहणम् | तथैव संप्रदायात् | भादीनां नक्षत्रयोगिनीराशीनाम् | शशी एकः | निधयो नव | ताराः सप्तविंशतिः | सारेति पाठेऽपि सकारः सप्तसख्यायां सांकेतिकः, रेफस्तु द्विसंख्यायाम् अङ्कानां वामतो गतिः इत्युक्तेरुक्तैरुक्तैव संख्या सिध्यति | तदुक्तं वररुचि परिभाषायाम्- पादयः पञ्च याद्यष्ट कादयष्टादयो नव | एताद्भिन्नाक्षरं बिन्दुः संख्या तन्मेलनोद्भवा || इति | ऋतवः षट् | सूर्या द्वादश || ९७, ९८ || अथ चक्रराजस्य विद्याक्षरजन्यत्वमुपपादयति द्वाभ्यां श्लोकाभ्याम्- कत्रितयादीकाराद्बिन्दुर्जातस्तदग्रिमे चक्रे | हृल्लेखाभिस्तत्परचक्रत्रितयं हकाराभ्याम् || ९९ || एकारेण च तत्परचक्रे जाते सकाराभ्याम् | चतुरश्राणि लकारैरेवं विद्याक्षरेण चक्रजनिः || १०० || इच्छाज्ञानाक्रियारूपमादनत्रयसंयुतम् | सदाशिवासनं देवि महाबिन्दुमयं परम् || इत्यस्य इच्छादयस्तिस्रः शक्तयो रुप्यन्ते जन्यन्ते यस्मादीकारात् स च मादनानां ककाराणां त्रयं चेत्येताभ्यां संयुतं जनितं महाबिन्दुमयं सदाशिवासनम्, ब्रह्मविष्णुरुद्रेश्वराः पादाः, फलकं सदाशिवमयम्, तादृशं सर्वानन्दमयं चक्रमित्यर्थः | अथवा, इच्छाज्ञानक्रियारूपाश्च ते मादनाश्च त्रयं चेति द्वन्द्वः | त्रयशब्देन बिन्दुत्रयात्मकत्वादीकारो ब्राह्यः | शेषं पूर्ववत् | तदेतदाह-नवयोन्यात्मकम् तच्च तिसृभिर्लज्जाभिर्जातम्, हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः | बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये || इति वचनादित्याह-तदग्रिम इत्यादिना | सर्वरक्षाकरसर्वार्थसाधकसर्वसौभाग्यदायकाख्यं स्थितिचक्रत्रितयं तिसृभिः शक्तिमिस्त्रिभिरनलैश्च रचितं हकारद्वयेनैकादशस्वरेण च समुत्पन्नम् | तदुक्तम्- मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् | व्योमबीजत्रयेणैव --------------------------------------- || इति | दशारद्वयं मन्वश्रं चेति मण्डलत्रयम् | व्योमबीजे च त्रयं चेति विग्रहः | त्रयपदेन कोणत्रयात्मकत्वादेकारः | व्योमनी च बीजं चेति विगृह्य व्योमबीजान्येव त्रयमिति वा विग्रहः, बीजपदेनैकारः, तस्य ब्रह्माण्डादिकटाहान्तं प्रति बीजभूतत्वात्, यदेकादशमाधारं बीजं कोणत्रयात्मकम् इति प्रयोगाच्च | हादिपक्षे तु न कोऽप्यत्र क्लेशः | तदेतदाह- तत्परेत्यादिनैकारेण चेत्यन्तेन | तत्परचक्रे इति | सर्वसंक्षोभणसर्वाशापरिपूरके इत्यर्थः | उक्तं च- सरोरुहद्वयं शाक्तैः इति | शाक्तैः सकाराभ्याम् | अक्षीणि मे- इतिवद्बहुवचनम् | जन्यजनकयोः समसंख्याकत्वस्य सति संभवे युक्तत्वाच्च | अत एव हि हृल्लेखात्रयेत्युक्तश्लोके बिन्दुत्रययुतैरिति विशेषणस्य सार्थक्यम्, पञ्चदशस्वक्षरेषु बिन्दुनादत्रयस्येकारैः सह मेलने प्रतिहृल्लेखं हकारो रेफ ईकारश्चेति त्रयमेवेति तत्त्रिकेण नवाक्षरसमूहेन नवयोन्यात्मकस्य चक्रद्वयस्य जननसंभवात्, बिन्दुशब्दस्य बिन्द्वाद्युन्मन्यन्तसमूहपरत्वात् | स्वरूपकीर्तनमात्रपरत्वेन व्याख्यायां तु तद्वैयर्थ्यं स्पष्टम् | चतुरश्राणि त्रैलोक्यमोहनचक्रम् | उभयत्र बहुवचनं त्रित्वे || ९९, १०० || एतत्त्रितयाभिन्नः स्वगुरुस्तदभेदभावनादार्ढ्यात् | तेन गणेशादिमयस्तद्दयया च स्वयं तथारूपः || १०१ || एतेषां देवताविद्याचक्राणां त्रितयेनाभिन्नः | तेन गणेशादिषड्रूपः श्रीगुरुः | तत्प्रसादेन स्वयं साधकोऽपि तदुक्तम्- देव्या देहो यथा प्रोक्तो गुरुदेहस्तथिव च | तत्प्रसादाच्च शिष्योऽपि तद्रूपः सन् प्रकाशते || इति | देवीदेहे ये येऽवयवा यद्यद्रूपास्तत्तद्रूपावयवक एवैतयोर्देह इत्यर्थः || १०१ || ननु गणेशाद्यात्मकत्वज्ञाप्यकः पञ्चाभेदः कथमुपपद्यते, गणपदस्य समुदायार्थकस्य समुदायिसापेक्षत्वेन समुदायिनां देवताक्षररेखाणां भेदे तद्भदस्यावश्यिकत्वात्, नक्षत्रत्वादेरपि संख्यामात्रस्यानुगमकत्वेऽपि संख्यावतां विरुद्धधर्माधिकरणत्वेन भेदस्य संख्यावतां संमतत्वेन भिन्नभिन्नत्वात् तेन च नैकस्यापि धर्मस्याभेदव्यापकतेति कथं तज्ज्ञाप्यकाभेदः साध्यत इति चेत् मैवम् वचनबलादेव समुदायिनां संख्यावतां चाभेदस्य सिद्द्धत्वात्, उपक्रमादिभिर्निर्णीततात्पर्यकस्य शब्दस्य प्रत्यक्षादिनिखिल- प्रमाणेभ्योऽपि बलवत्तायाश्चन्द्रप्रादेशिकत्वभ्रमादावन्यत्र चौपनिषदैर्बहुतरं साधितत्वात् | किं च स्वाश्रयसमानजाती- याश्रितस्वातिरिक्तस्वव्यापकसंख्याविरहसहकृतस्वत्वरूप- संख्यामात्रत्वमप्यभेदसाधकमेव, बाधकाभावात् | स्वपदानि नवादिसंख्यारूपाणि | तेन विद्या देवतास्वरूपादभिन्ना नवसंख्यामात्राश्रयत्वाद्देवतास्वरूपवदित्यादयः पृथक् पृथक् प्रयोगाः | अत एवैकत्वसंख्यामात्राश्रयत्वादाकाश- कालदिगीश्वराणामभेदो दीधितिकृतः संमतः | इदं चानुमानमागमसहितमेव प्रमाणं विषयप्रमात्वदार्ढ्यसंपादनाय | तेन न घटत्वपटत्वादेरभेदापत्तिः | तदेतत् सर्वमभिसंधायोपसंहरति- इत्थं माता विद्या चक्रं स्वगुरुः स्वयं चेति | पञ्चानामपि भेदाभावो मन्त्रस्य कौलिकार्थोऽयं || १०२ || अथ क्रमप्राप्तं सर्वरहस्यार्थमाह- द्वादशषोडशदशभिस्तपनशशिदहनकलाभिराकीर्णैः | पञ्चाशद्भिर्वर्णैरभिन्नदेहा कुलीनकुण्डलिनी || १०३ || बिसतन्वी तडिदाभा मूलाधाररथपद्मशृङ्गाटात् | भित्त्वा मूलहृदाज्ञागतवह्निरवीन्दुमण्डलत्रितयम् || १०४ || सूर्यस्य कलास्तपिन्यादयो द्वादश ककारादिभ्र्द्वादशभिरानुलोम्येन भकारादिभिः प्रातिलोम्येन द्वादशभिश्च युक्ताः | चन्द्रस्य कलाः षोडशामृतादयः षोडशभिः स्वरैर्युक्ताः | अग्नेः कला दश धूर्म्रार्चिरादयो यकारादिभिर्दशभिर्वर्णैर्युक्ताः | एवं पञ्चाशद्भिरक्षरैरभिन्ना कुलकुण्डलिनी बिसतन्तुतनीयसी तडित्कोटिप्रख्या | मूलाधारस्थपद्मशृङ्गाटात् मूलाधारस्य कर्णिकायां विद्यमानाच्छृङ्गाटात् त्रिकोणादुपरि सार्धत्रिवलयाकारेणाधोमुखी समुपविष्टा योगमर्यादया योगिभिरूर्ध्वमुखतयोत्थाप्यते | सा मूलाधारानाहताज्ञाचक्रेषु विद्यमानानि वह्निसूर्यसोममण्डलानि भिनत्ति || १०३, १०४ || व्योमनि चिच्छशिमण्डलमध्ये त्वकुलेन संगम्य | उभयाङ्गसङ्गजन्यं प्रवाहयन्ती सुधापूरम् || १०५ || स्वयमपि तत्पानवशान्मत्ता भूत्वा पुनश्च तेनैव | मार्गेण परावृत्य स्वस्मिन् स्थाने सुखं स्वपिति || १०६ || द्वादशान्तं ललाटोर्ध्वं कपालोर्ध्वावसानकम् | द्व्यङ्गुलोर्ध्वं शिरोदेशं परं व्योम प्रकीर्तितम् || इत्युक्तलक्षणे व्योमनि विद्यमानस्य चिच्छशिमण्डलस्याधोमुखसहस्रारकर्णिकारूपस्य मध्य स्थितया अकुलकुण्डलिन्या संगम्य ततोऽमृतपूरं स्रावयित्वा डाकिन्यादिमण्डलान्याप्लावयन्ति स्वयमपि तत्पानेन मत्ता भूत्वा पुनस्तेनैव सुषुम्नामार्गेण परावृत्य स्वस्थाने सुख स्वपिति | सर्वमेतद्योगिनामनुभवगम्यम् | योगशास्त्रमर्यादाज्ञानमात्रवतां तु परोक्षज्ञानगोचरो गुरुमुखादेव विविच्य बोद्धव्यमिति नेह विविच्यते || १०५, १०६ || साक्षाद्विद्यैवैषा न ततो भिन्ना जगन्माता | अस्याः स्वाभिन्नत्वं श्रीविद्याया रहस्यार्थः || १०७ || ईदृश्याः कुण्डलिन्या मातुर्विद्यायाः स्वस्य चाभेद इति रहस्यरूपोऽप्रकाश्योऽर्थ इत्यर्थः || १०७ || अथ महातत्त्वार्थमा- वागिन्द्रियैरगम्ये तत्त्वातीते महतरेऽणुतरे | व्योम्नोऽप्युपरि स्थितिमतिविश्वाभिन्ने चिदानन्दे || १०८ || ब्रह्मणि परे नियोज्यः स्वात्मा तदभेदसंप्राप्यै | एष महातत्वार्थः श्रीविद्यायाः शिवेनोक्तः || १०९ || वागमम्ये शब्दशक्यतावच्छेदकाभाववति इन्द्रियागम्ये प्राणजादि षड्विध्प्रत्यक्षाविषये यतो वाचो निवर्तन्ते, अप्राप्य मनसा मनसा सह अशब्दमस्पर्शरूपम् इत्यादिश्रुतेः | न च सर्वथा ज्ञानाविषयस्यालीकतापत्तिः, शब्दैर्लक्षणया गम्यत्वात्, शाब्दप्रत्यक्षविष्यत्वाच्च | तत्त्वातीते शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वान्यतिक्रान्ते | महत्तरे महतो महीयसी | अणुतरे, अणोरणीयसि | आकाशादिजनकत्वान्महत्त्वमुपचर्यते, स्थूलदृष्ट्यविषयत्वादणुत्वमपि तथा न प्नः परिमाणविशेषः, तत्र तदभावात् | अत एव अणोरणीयान् महतो महीयान् इति श्रुतिरप्यविरोधेन संगच्छते | व्योम्न उक्तलक्षणादुपरि स्थितिमति, उपासनार्थं कल्पितस्थानविशेषेणोपलक्षिते | विश्वाभिन्ने, परिणामित्वात् | चिति स्वप्रकाशे | आनन्दे सुखकस्वरूपे | परे ब्रह्माणि स्वात्मा नियोज्यः | तेन सहाभेदस्य स्वाज्ञानवशादलब्धप्रायस्य संप्राप्त्यै, ब्रह्म वेद ब्रह्मैव भवति इति श्रुतेः | सकलतत्त्वमूलभूतत्वादयं महातत्वार्थ इत्युच्यते || १०८, १०९ || अथ नामार्थशब्दरूपार्थावाह- तत्तद्वर्णार्थेयं तत्तद्वर्णस्वरूपेयम् | इति तु श्रीविद्याया नामार्थः शब्दरूपार्थः || ११० || तत्तद्वर्णशब्देन ककारादयोऽष्टपञ्चाशद्वर्णाः सप्तत्रिंशद्वर्णाः पञ्चदश वर्णा वा गृह्यन्ते, तेषां च सर्वेषां ब्रह्मवाचकत्वेन सहस्रशीर्षा पुरुषः इत्यादिवत् सामानाधिकरण्येनान्वये सिद्धे अस्मिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति इति कात्यायनवचने भवन्तीपर इत्यस्य लट्पर इति व्याख्यानात् अस्ति इति शेषपूरणेन वाक्यार्थो वर्णनीयः | एवं सति नामार्थस्त्रिविधः संपद्यते- अष्टपञ्चाशन्नामकः सप्तत्रिंशन्नामकः पञ्चदशनामकश्चेति, अत्र पक्षत्रयेऽपि ककारादीनामन्यतमस्य ब्रह्मवाचकत्वात् | अन्येषां पुनरुक्तानामकारककारादीनां वैयर्थ्यपरिहारस्तु अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे इत्यादिरीत्या विश्वप्रकाशकोशे तत्तदक्षराणामनेकार्थवाचकत्वोक्तेस्तेषु योग्यतामनुसृत्यार्थवर्णनेन कार्यः | शतकृत्वोऽपि पथ्यं वदितव्यम् इति न्यायाच्च एतादृशस्थलेषु न पौनरुक्त्यं दोषः | एवं च सर्वेषामक्षराणां तत्तद्वाचकत्वेन रूढ्या वा प्रत्यक्षरं सोर्लोपस्यावश्यिकत्वेन प्रतिपदिकमात्रावशेषाद्वोपासकजनेषु प्रसिद्धत्वाद्वा संभाव्यत्वाद्वा परिपक्वार्थरूपत्वाद्वा नामार्थ इति संज्ञा, नामधेयं च नाम च इति कोशात् | यद्यप्याथर्वणे गोपथब्रह्मणे ओंकारं पृच्छामः को धातुः किं प्रतिपदिकं किं नामाख्यातम् इत्येव प्रयोगः, तथाऽपि सत्त्वप्रधानानि नामानि इति यास्कप्रयोगान्नामपदेनापि प्रातिपदिकामिधानसंभवात्, अव्ययगणे नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने इति कोशोक्तेः | आमोऽपक्वः, तद्भिन्नो नामः, नकारेणैवात्र समासो न नञा | तेन नलोपो नञः इत्यादेरनापत्तिः, नास्तिक इत्यादिवत् | परिपक्वता विरसत्वाभाव इत्यर्थात् | तत्तद्वर्णस्वरूपेयम् इत्यत्रापि पूर्ववत् पक्षत्रयम् | ननु- ककारादिस्वरूपत्वं नामतः शब्दाभिन्नत्वम् तथा च न स ककारस्यार्थ,ह्, शब्दस्वरूपे शक्त्यभावात् न हि घटमानय इत्यादौ घटशब्दस्यानयनक्रियान्वयः अत एव न शब्दार्थयोरभेदपक्षोऽपि युज्यते, बह्न्यादिशब्दोच्चारणे मुखदाहाद्यापत्तेश्चेति चेन्न शब्दस्य स्वस्वरुपेऽपि शक्तेस्तन्त्रवार्तिकादावुक्तत्वात् | उक्तं च भर्तृहरिणा- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा | तथैव सर्वशब्दानामेते पृथगवस्थिते || इति | अत एव शब्दार्थयोस्तादात्म्यमेव शक्तिः इति शाब्दिकनव्या इत्यन्यत्र विस्तरः | इत्थं च ककारादिवर्णरूपेत्यादिर्मन्त्रार्थः | अत्र शब्दस्वरूपस्यैवार्थत्वेन वर्णनाच्छब्दरूपार्थोऽयमिति व्यपदिश्यते || ११० || अथ नामैकदेशार्थमाह- कल्याण्येकाक्षर्यावीशित्री चापि ललिता च | इत्थं नामत्रिशतीवाच्योऽर्थस्तत्तदक्षरस्यापि || १११ || नामैकदेशमात्रे नामग्रहणस्य लोकसिद्धत्वात् | नामोपस्थितिगम्यः प्रोक्तो नामैकदेशार्थः || ११२ || अत्र हि ककाररूपा कल्याणी इत्यादिना पञ्चदशाक्षर्या एकैकनामाक्षरमादितः कृत्वा तादृशनामानि प्रत्यक्षरं विंशतिरुक्तानि | तानि च त्रीणि शतानि भवन्ति | तानि च मन्त्राक्षराणामर्थप्रकाशनार्थं प्रवृत्तानि | तथा च ककारस्य ककाररूपा कल्याणी कल्याणगुणशालिनी इत्यादयो विंशतिरर्थाः | एवमेकारादीनामपि पार्थक्येन विंशतिरर्थाः | तेषु च सर्वेषु प्रसिद्धकोशव्याकरणादिरीत्या शक्तेरसंभवादेतद्बलादेव कल्पनस्यार्थापत्तिशरणत्वात्, अन्यथानुपपत्तिरूपार्थापत्तेश्च नामैकदेशे नामग्रहणम् इति न्यायेन परिक्षयात्, तेषां नाम्नामेकदेशा एव ककारादय इति कल्प्यते | अत एवाचार्यभगवत्पादैः शिवः शक्तिः कामः इत्यादीनामुद्धृतवर्णानां नामावयवत्वं स्पष्टमुक्तम् भजन्ते वर्णास्ते तव जननि नामावयवताम् इति सौन्दर्यलहर्याम् | अस्ति हि नामैकदेशे नामग्रहणम् भीमो भीमसेनः सत्या सत्यभामा गुरुर्लघुर्गलौ च इत्यादौ अनुष्टुभि, यज्ञाययज्ञीये, उद्गीथोपान्त्यम्, गायत्रीषु, जराबोधीये, रथन्तरे, प्रतिहारादिः इति वक्तव्येष्टुभि, ज्ञीये, गीथोपान्त्यम्, त्रीषु, बोधीये, तरे, हारादिः इत्यादिप्रयोगाः सामवेदिनां फुल्लसूत्रे च बहुलमुपलभ्यन्ते | तत्र च ककारादिनाम्नामानन्त्यात् ककारस्याप्यनन्तार्थकत्वे प्राप्तेऽय नियम एव एवार्था नान्य इति | तेषु च प्रत्यक्षरं प्रथमनाम्नां नामार्थशब्दरूपार्थाभ्यां पौनरुक्त्यादिहैकोनविंशतिरेवार्था विवक्षिताः | तथा च नामैकदेशार्थोऽप्येकोनविंशतिविधः संपन्नः | अत्र च पञ्चदशसंख्यासु विंशिकासु प्रथमनामानि परित्यज्य द्वितीयनामान्युट्टङ्कितानि, प्रथमनाम्नां पूर्वतनार्थवर्णनेन लब्धत्वात् || १११, ११२ || एतेषु च विंशतिसंख्याकेष्वर्थेषु ककारस्य ककाररूपेत्यर्थवर्णनदशायामेकारस्यकाररूपेति, ईकारस्येकाररूपिणीत्येवार्थो वर्णनीय इति न नियमः, ककाररूपैकाक्षरी, ईप्सितार्थप्रदायिनीत्यप्यर्थस्य सुवचत्वात् | एवं चात्र पञ्चदशाक्षराणि विलिख्य प्रत्यक्षरशिरसि विंशत्यङ्कान् दत्त्वा परस्परं हनने चरमाक्षरे या संख्या निष्पद्यते तामेवाह- तिथिमितबिन्दुगणोत्तरगजरसगिरिदस्ररामसंख्याकाः | अर्था भवन्ति योगान्नाम्नो नामैकदेशस्य || ११३ || नम्नो नामाथषु तृतीयपक्षस्यैकस्य नामैकदेशार्थस्यैकोनविंशतिविधस्य च योगादुक्तरीत्या गुणनात् तिथिभिः पञ्चदशसंख्यया मितः संमितो यो बिन्दुगणस्तस्योत्तरे ये गजादयः गजा अष्टौ, रसाः षट्, गिरयः सप्त, दस्रौ द्वौ, रामास्त्रयः | अङ्कानां वामतो गतिः इति न्यायादादौ पञ्चदश बिन्दून् विलिख्य तद्वामे गजादीन् विलिखेत्, वामगतौ वामभागस्यैवोत्तरत्वात् | अथ्वा वा, बिन्दुगण उत्तरो येभ्यस्ते गजादय इति विग्रहः | गजादीन् वामगत्या विलिख्य जातस्याङ्कसमूहस्योत्तरत्र दक्षिणगत्यैव बिन्दवो लेख्या इत्येथे फलिते न विवादः | एवं च शतत्रयोत्तरसप्तविंशतिसंख्याकपरार्धानि षण्मध्यान्यष्टान्त्यानि च त्रिशत्युक्तार्थभेदा भवन्ति | अङ्कतोऽपि ३२,७६८,०००,०००,०००,०००,००० | एतदङ्कज्ञानप्रकारस्तु चरमाङ्कमारभ्य पूर्वपूर्वाङ्कदशदशगुणिता उत्तरोत्तराङ्काः इति परिभाषया | तन्नियमश्च लीलावत्याम्- एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः | अर्बुदमब्दं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् || जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरं संज्ञाः || इति | एतदग्रेऽप्यङ्कविस्तरस्तु च्छन्दःकौस्तुभेऽष्टमेऽध्याये प्रपञ्चितोऽस्माभिः || ११३ || अथ शाकार्थो द्विविधः-अवयवार्थः शक्तिसमूहार्थश्चेति | तत्रावयवार्थो नाम देव्या अवयवानां वर्णनम् | तदाह- वाक्कामशक्तिकूटैरवयवशो विग्रहो मातुः | प्रतिपाद्योऽत्रा कण्ठादा मध्यादा च पादाग्रात् || ११४ || अत्र विद्यायां वाक्कूटेन, आ कण्ठात् कण्ठमभिव्याप्य, अर्थात् किरीटमारभ्यावयवशो विग्रहः प्रतिपाद्य | कामराजकूटेन कण्ठाधःकटिपर्यन्तविग्रहः | शक्तिकूटेन कट्यवः पादाग्रान्तो देहः प्रतिपाद्य इत्यर्थः | अत एव वाच्यवाचकयोरभेदविवक्षयोक्तं सहस्रनामसु- श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा | कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी || शक्तिकूटैकतापन्नकट्यधोभागधीरिणी | मूलमन्त्रात्मिका मुलकूटत्रयकलेबरा || इति || ११४ || शक्तिसमूहार्थमाह- वेधोभारत्यौ माधवलक्ष्म्यौ रुद्रपार्वत्यौ | रेफान्तवर्णष्ट्कस्यार्थान् क्रमशो विजानीयात् || ११५ || अत्र हकाररेफयोर्विभज्य गणनम्, दुर्वासादिविद्याविशेषेषु तथैव पाठात् || ११५ || ता एताः सकला अपि कामकला एव न ततोऽन्याः | सामानाधिकरण्यादीकारेणायमर्थोऽस्य || ११६ || एता ब्रह्मादयः षट् | यद्यपि ब्रह्मादीनां पुंस्त्वेन भारत्यादीनां स्त्रीत्वेन तद्वाचकशब्दे पुमान् स्त्रिया इत्येकशेषतः एते इत्येव भाव्यम् तथापि ब्रह्मविष्णुमहेश्वराणां स्त्रीरूपताया भावार्थप्रकरणे कथितायाः स्मरणायैवमुक्तिः | समानाधिकरण्यादेकविभक्तिकत्वरूपात् | प्रत्यक्षरं विद्यमानानां सुपां तु लोपः | वाक्ये संहिताया अविवक्षणादीकारेण सह न संधिः || ११६ || अयमेव कूटयोरपि परयोरर्थः परं तु तार्तीये | द्वैतीयीकद्वैतीयीकहकारः सकारतः पूर्वः || ११७ || अन्वयितव्योऽक्षरशः शक्तेः शाक्तैर्विभाव्यत्वात् | वामेच्छादिकशक्तिमयत्वोक्तेरेष शाक्तार्थः || ११८ || प्रथमकूटस्य यावानर्थस्तावानेव द्वितीयतृतीयकूटयोः | द्वितीयकूटे मध्यमहकारः परं तृतीयकूटस्य प्रथमभागेऽन्वययोग्यः | तस्य तत्र चतुर्थत्वेऽपि सजातीययोर्मध्ये द्वितीयत्वात्तथोक्तिः | तेन तयोरपि कूटयोः प्रतिस्विकं रेफान्ता वर्णाः षडेव संपद्यन्त इति तेषामुक्तरीत्यैवार्थवर्णनम् | अत्र प्रत्यक्षरमेकैकत्र शक्तिः तेन शक्तानामक्षराणामर्थः शक्तार्थः | स्वार्थे अण् | अथ वा शाक्तानामुपासकानामर्थः प्रयोजनम्, अथ वा शक्तिसमूहः प्रतिपाद्यत इति त्रेवा निर्वचनम् | भार्थेन सह पौनरुक्त्यपरिहारस्तु पूर्वमेव कृतः || ११७, ११८ || अथ सामरस्यार्थमाह- कहयोर्लसयोरर्थौ शिवशक्ती शुद्धयोरचोः शक्तिः | उभयोः समरसभावो हृल्लेखायाः परं ब्रह्म || ११९ || ब्रह्मैव शिवः शक्तिश्चेति प्रत्येककूटार्थः | शिवशक्तिसामरस्याद्विद्याया एष सामरस्यार्थः || १२० || कादिविद्यायां हि ककारास्त्रयो हकारौ द्वौ | तेषां शिव एवार्थः | एवं लकारास्त्रयः सकारौ द्वौ, तेषां शक्तिः | अत एव मन्मथबीजे ककारलकारयोर्योगः, पराप्रासादे हकारसकारयोः | शुद्धयोरचोर्द्वितीयतृतीययोः शक्तिः | लज्जाबीजस्योभयसामरस्यात्मकं परं ब्रह्मार्थः | व्योमाग्नितुरीयस्वरबिन्दुभिः क्रमेण प्रकाशग्राससामरस्यतादात्म्यापन्नेत्यर्थस्य परब्रह्मैकरूपस्य षट्चत्वारिंशदुत्तरशततमश्लोकव्याख्यायां स्पष्टीकरिष्यमाणत्वात् | शिवः शक्तिश्चेत्येतदुभयं ब्रह्मैवेति प्रतिकूटमर्थः | तदुक्तं त्रिशत्याम्- कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः | शेषाणि शक्त्यक्षराणि ह्रींकार उभयात्मकः || इति || ११९, १२० || अथ समस्तार्थमाह- कनदीप्ताविति धातोः प्रकाशकत्वं ककारार्थः | अध्ययनार्थकतेङः स्यादेकारस्तदीयकरणार्थः || १२१ || वर्णद्वयमेलनतः प्रकाशिका बुद्धिरित्यर्थः | ई व्याप्ताविति धातोस्तस्या व्याप्तिस्तृतीयवर्णार्थः || १२२ || तस्य लहर्याधिक्यं तन्निर्माणं मकारार्थः | कन्यते प्रकाश्यतेऽनेनेति कं प्रकाशकम् | बाहुलको नलोपः | औणादिकः ञमन्ताड्डः इति डप्र्त्ययो वा | इङ् अध्ययने कृते, कित्त्वेऽपि गुणः | विज्वा कार्यः | अधीयते अनेनेत्यध्ययनकरणं बुद्धिः | अनयो कर्मधारयः | असंधिरार्षः | तत ईकारेण षष्ठीततुरषः | लहरीत्यत्राकारलोपः | माङ् माने इति धातोः क्विपि तल्ल्पे प्रातिपदिकाधात्वर्थे बहुलमिष्ठवच्च ति णिचि णेरनिटि इति टिलोपे च म् इति सिध्यति | प्रकाशकत्वं सूक्ष्मत्वम् | तथा च सूक्ष्ममतिव्यापनाधिक्यं प्रथमकूटार्थः || १२१, १२२ || हन हिंसायामिति हं शौर्यं प्रत्यर्थिहननकरणत्वात् ||१२३ || सं भोगसाधनं धनमुपभोगार्थात् स्यतेः सुनोतेर्वा | कमु कान्तविति धातोरिच्छाविषयोङ्गनादिःकम् || १२४ || एषां गमनं प्रापणमोहाङ्गत्यर्थधातुजन्यं हम् | तस्यातिशयो लहरी तत्र श्लिष्टः सवर्णदीर्घेण || १२५ || ईकारस्तस्यार्थः कीर्तिः सर्वासु दिक्षु दीप्तत्वात् | ईदीप्ताविति धातोर्निर्मितरनयोर्मकारार्थः || १२६ || हन्यतेऽनेनेति हं शौर्यम् | अनुदात्तोपदेशवनतितनोत्यादीना मनुनासिकल्पो झलिक्ङिति इति नलोपः | षो अन्तकर्मणि इति षुञ् अभिषवे इति वा धातोः करणार्थे डप्रत्यये सम् इति रूपम् | सीयत इति सूयत इति वा सं द्रव्यम् | काम्यत इति कं स्रक्चन्दनवनितादिकम् | हसकानां द्वन्द्वः | ततो हकारेण प्राप्त्यर्थकेन षष्ठीतत्पुरुषः | ततो लहरीपदेन तत्पुरुषः | तत ईकारेण कीर्त्यर्थकेन द्वन्द्वः | ततो मकारेण तत्पुरुषः | तथा च शौर्यधनस्त्रीप्राप्त्यतिशयस्य कीर्तेश्च निर्माणं द्वितीयकूटार्थः || १२३-१२६ || तदेव तावद्वदति- वाग्भवकूटस्यार्थः सूक्ष्ममतिव्यापनाधिक्यम् | शौर्यधनस्त्रीयशसामाधिक्यं कामराजार्थः || १२७ || स्पष्टम् || १२७ || एते सम्यक् कलयति सकला हरतेर्हृकारः स्यात् | निखिलजगत्संहर्त्रीत्यर्थस्तस्यापि वर्णस्य || १२८ || ईकारः प्रश्लिष्टः सृष्टिस्थितिरूपदीप्तिकर्त्रर्थः | यद्वा हृदि खेदहरे प्रकाशते तेन माता ह्रीयः || १२९ || सकलान्तेन पदेन ह्रीकारे कर्मधारयः कार्यः | तस्य विशेष्यो मः स्यानादार्थः संविदर्थो वा || १३० || कूटद्वयस्य द्वन्द्वः | एते निर्माणे सम्यक् कलयतीति सकला | मकारलोपः | हरतीति हृ | ई दीप्तौ इति धातोः ई दीप्तिः | दीप्तिर्नाम सृष्टिः स्थितिश्च | हृकारेकारयोः कर्मधारये यणि कृते ह्रीयः सृष्ट्यादिपञ्चकृत्यकर्त्रीत्युपलक्षणविधयार्थः | यद्वा, हरति सर्वं विषयीकरोतीति हृ | क्विप् | आगमशास्त्रस्यानित्यत्वात् प्रकृते न तुक् | तच्च दहराकाशम् | तत्र प्रकाशत इति ह्रीः | ह्रीकारान्तपदस्य मकारेण कर्मधारयः | यद्यपि कूटत्रयेऽपि मकारो नास्त्येव, अनुस्वारस्यैव तन्त्रेषूद्धृतत्वात् तथापि मकरस्यैव लक्षणवशादनौस्वार इति कूटद्वये सुवचम् | चरमकूटे त्वनुस्वार एव निशेष्योऽस्तु | ततश्च, बुद्धिशौर्यधनस्त्रीयशसामाधिक्यकर्तृ निखिलजगत्सृष्ट्यादिकर्तृ दहराकाशवर्ति नादरूपं चिद्रूपं ब्रह्मेति मन्त्रार्थः सिद्धः | अयं चार्थो ब्रह्मसूत्राणां शक्तिपरत्वेन योजनां प्रदर्शयद्भिस्तत्रभवद्भिर्भाष्यकारैर्विस्तरेण निरूपित इह संक्षिप्योक्तः | तत्र क्वचित् क्वचिद् व्याकरणविरोधः प्रतीयते | स च मन्त्रस्य मन्त्रार्थस्य चर्षिप्रोक्तत्वेन प्रामाणिकत्वे सिद्धे प्रयोगशरणा वैयाकरणाः इत्युक्तेरेतदनुसारेणैव व्याकरणलक्षणानां कल्प्यत्वात् परिहार्यः || १२८-१३० || तत्प्रकारमेव प्रदर्शयति- धातोर्बह्वर्थत्वाद् बहुलग्रहणात् पृषोदरादित्वात् | आकृतिगणपाठेन स्वेच्छानुगुणादुणादिकल्पनतः || १३१ || छन्दसि सर्वविधीनां वैकल्पिकतावशादमुष्य मनोः | सिद्धैः कथितेऽर्थेऽस्मिन् वैयाकरणानुशासनानुमतिः || कुर्दखुर्दगुर्दगुद क्रीडायामेव इत्येवकारेण तनूकरणे तक्षः इत्यत्रार्थनिर्देशबलाच्च सत्ताद्यर्थनिर्देशस्योपलक्षणमात्रत्वेन धातवोऽनेकार्थाः | तेन स्यतेरन्तकर्मवाचकत्वेऽप्युपभोगार्थकत्वमविरुद्धम् | अत एव चेडोऽधिपूर्वत्वात् केवलाप्रयोगासंभवेऽपि इटकिटकटी गतौ इत्यत्र प्रश्लिष्ट ईकार एवैतदर्थको भविष्यति, गत्यर्थानां सर्वेषामपि ज्ञानार्थकत्वात् | बहुलेति | क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभासा क्वचिदन्य एव | विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति || इति बहुलपदार्थः | तेन लह्रीत्यत्राकारलोपः सिद्धः | रण्डः इत्यादिसिद्ध्यर्थमडितोऽपि ञमन्ताड्डस्य डित्त्वमपि सिद्धम् | गत्यन्तरमप्याह-पृषोदरादित्वादिति | पृषोदरादीनि यथोपदिष्टम् पृषोदरादयः शब्दा यथैव शिष्टैः प्रयुज्यन्ते तथैव साधवः, न तत्र लक्षणान्तरं मृग्यमित्यर्थः | न चैवं सति स्थलान्तरे.पि लह्रीति प्रयोगापत्तिः पृषोदरशब्दवदिति वाच्यम्, अत्रैव साधिरिति नियमस्वीकारात् | अत एव गूढोऽत्मा इति न स्थलान्तरे प्रयुज्यते | अत एव च विष्णुसहस्रनामभाष्ये न्यग्रोधोदुम्बरोऽश्वत्थः इत्यत्र पृषोदरादित्वात् संधिरित्युक्तं शंकरभगत्पादैः | गणपाठाभावे त्वाह-आकृतीति | षुञ्धातोर्डप्रत्ययादर्शनादाह-स्वेच्छेति | संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे | कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुपादिषु || इति वचनाट्टिलोपार्थं डित्त्वकल्पनेत्यर्थः | छान्दसत्वसमाधानं तु निरङ्कुशमित्याह-छन्दसीति || १३१, १३२ || समस्तार्थपदनिरुक्तिपूर्वकमुपसंहरति- बहुतरसमासयागात् समस्तपुरुषार्थसाधनत्वोक्तेः | संक्षेपात् सारोक्तेः श्रीविद्यायाः समस्तार्थः || १३३ || समस्तपदस्यार्थ इति वा, समस्ताः सकला अर्थाः पुरुषार्था यस्मिन्निति वा, समस्तः संक्षिप्तोऽर्थः इति वा निरुक्तिः || १३३ || अथ सगुणार्थमाह- को विधिरेकारो हरिरकार ईशः स्तवार्थमीडपदम् | द्विस्वरमध्यगतस्य डकारस्य लकार आदेशः || १३४ || तेनर्ग्वेदात्मत्वं सूचितमाद्यस्य कूटस्य | क्रमशोऽग्रिमकूटयुगे तेन यजुःसामता सिद्धा || १३५ || ह्रीमिति नाम विशेष्यं नपुंसकं ब्रह्मलक्षकत्वेन | विधिहरिगिरिशैरीड्यं ब्रह्मेति प्रथमकूटार्थः || १३६ || एकारोत्तरं पूर्वरूपेणाकारः प्रश्लिष्यते | स च शिववाचकः, अकारो ब्रह्मविष्ण्वीशकमठेषु इति कोशात् | कः प्रजापतिरुद्दिष्ट इति एकार उच्यते विष्णुः इति चैकाक्षरनिघण्डूक्तब्रह्मविष्णुपरौककारैकारौ | ईड स्तुतौ इति धातोरचि स्तुत्य इत्यर्थः एतस्यग्वदात्मकत्वादज्द्वयमध्यगतस्य डकारस्य स्थाने लकार अ देशः अग्निर्मले पुरोहितम् इत्यादिवत् | तदुक्तं बह्वृचप्रातिशाख्ये-द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो लकारः इति | इदमेव च ज्ञापकमाद्यकूटस्यर्ग्वेदात्मकत्वे द्वितीयतृतीयकूटयोर्यजुर्वेदसामवेदात्मकत्वे च | यद्यपि कामो योनिः कमला वज्रपाणिः इत्यत्र वज्रपाणिशब्देन लकार एवोद्धतो न लकारः तथापि ललयोरभेदाभिप्रायेणेदम् | अत एव क्वचित्तन्त्रे त्रिखण्डोगतास्त्रयोऽपि मोहार्णपदेन लकारा एवोद्धृताः | नपुंसकमिति | अव्ययमित्येव युक्त, स्वरादेराकृतिगणत्वात् | अत एव त्रिशत्यामेकोनशततमस्य नाम्नो नमोयोगे चतुर्थ्यां प्राप्तायामपि ह्रीं नमः इत्येव सांप्रदायिकानां प्रयोगः संगच्छते || १३४-१३६ || हसकं तु हसद्वदनं मतं ककारस्य वदनवाचित्वात् | यद्वा हस आनन्दः कः सूर्यो हस्तु चन्द्रः स्यात् || १३७ || एतौ लौ नयने यस्य तत्तु कहलं रविन्दुनेत्रमिति | तेन प्रकाशकत्वाच्चिद्रूपत्वं च निगदितं भवति || १३८ || विधिहरिगिरिशेड्यत्वे हेतू एते हसत्वकहलत्वे | तेनात्यमितानन्दं चिद्ब्रह्मेति द्वितीयकूटार्थः || १३९ || हसो हास्यम् | अर्श-आदित्वान्मत्वर्थीयोऽच् | ततः ककारेण मुखावाचकेन बहुब्रीहिः | हसः को यस्य तदिति विग्रहः | यद्वा हासस्यानन्दजन्यत्वादानन्दे हसपदस्य लक्षणा | कश्च हश्च कहौ, कहौ लौ यस्य तत् कहलम् | मुखे सूर्येऽपि कः स्मृतः हः कोपे वरुणे चन्द्रे इन्द्रेऽपि लोचने लः स्यात् इत्येकाक्षरनिघण्टुः | हसपदकहलपदयोः कर्मधारयः | एतदर्थप्रतिपादकं मूलमाह-हेतू इति | यतो ह्रीं हसकहलं ततो ह्रीं क ए ई लमित्यन्वयः || १३७-१३९ || सकलकलाभिः सहितं सकलं ब्रह्म तु तृतीयकूटार्थः | इत्थं गुणगणकथनाद्विद्याया एष सगुणार्थः || १४० || अत्र सर्वत्र सुलोपः | स्पष्टमन्यत् || १४० || चरमोद्दिष्टं महावाक्यार्थमाह- विधिहरिशिववचना अपि ककार एकारकोऽकारः | सृष्टिस्थितिभङ्गात्मकतत्तज्जनकत्वलाक्षणिकाः || १४१ || ईश्वरवाचीकारो वक्ति डकारः सदाशिवं ताभ्याम् | लक्षणया तत्र तिरोधानानुग्रहणकृत्यता गदिता || १४२ || ईकारस्य नामैकदेशन्यायेनेश्वरबोधकत्वम् | डो महेशः समाख्यातः इति वचनेऽपि प्रकृते सदाशिव एवानुग्रहकर्ता विवक्षितः | एतेन यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतावुक्तं ब्रह्मणस्तटस्थलक्षणमुक्तं भवति || १४१, १४२ || अथ सत्यं ज्ञानमनन्तं ब्रह्म इत्युक्तं स्वरूपलक्षणं द्वितीयकूटेनाह- हस आनन्दः सत्यं कं हमनन्तं च लं ज्ञानम् | सखा कश्च बुधैः प्रोक्तः इति कोशात् ककारः सखिवाचकः | सखित्वमाप्तत्वम् | तच्च यथार्थवक्तृत्वमिति शक्यसंबन्धेन प्रकृते सत्यमेव विवक्षितम् | एवं हकारस्य व्योमबीजत्वेन व्योम्नोऽनन्तत्वादनन्तमित्यर्थः | प्रत्यक्षज्ञानजनकलोचनवाचिलकारस्य ज्ञानमर्थः || १४२- || इत्थं ब्रह्म तटस्थस्वरूपलक्षणयुगेन निर्णीय || १४३ || तदभेदं जीवगणे वक्ति तृतीयेन कूटेन | जाग्रत्स्वप्नसुषुप्त्याख्यकलात्रितयेन साहित्यात् || १४४ || सकलपदं जीवपरं ब्रह्मपरं शक्तिबीजं स्यात् | सामानाधिकरण्यात् तल्लक्षितशुद्धयोरभेदार्थः || १४५ || अत्यल्पमिदं कथितं यत् सर्वं खल्विदं ब्रह्म | इत्येवं बोधयितुं सकलपदं वा तृतीयकूटगतम् || १४६ || एवमवान्तरवाक्यैर्जीवब्रह्मस्वरूपमभिधाय | तदभेदो वर्णित इत्येष महापूर्ववाक्यार्थः || १४७ || तत्त्वमसि इति महावाक्ये तत्पदार्थत्वंपदार्थयोरेकविभक्तिमत्त्वरूपसामानाधिकरण्या दभेदो बोध्यते | स च वाच्यार्थयोरसंभावज्जहदजहल्लक्षणया लक्ष्यपदार्थयोरिति स्थितिः | तत्र तत्पदस्य वाच्यार्थः सृष्ट्यादिकृत्यपञ्चकजनकः | स च यतो वा इमानि भूतानि जायन्ते इत्यादिना श्रुतावुक्तः | लक्ष्यार्थस्तु कृत्यातीतं निर्विशेषं ब्रह्म | तदपि सत्यं ज्ञानम् इत्यादिना प्रतिपादितम् | एवं त्वंपदस्य वाच्यार्थो जाग्रदाद्यवस्थापञ्चकविशिष्टः स च तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं प्रुष एतस्मा अन्ताय धावति | तद्यथा महामत्स्यः इत्यादिश्रुतिभिरुक्तः | लक्ष्यार्थस्त्ववस्थाद्यतीतं ब्रह्म | तदपि योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः, न दृष्टेर्द्रष्टारं पश्येः इत्यादिभिः प्रतिपादितम् | एवमवान्तरवाक्यैर्वाच्यार्थलक्ष्यार्थयोर्निर्णये सति, तथा महावाक्ये लक्ष्यार्थयोरभेदबोधः | यद्यपि श्रुतिषु कृत्यत्रयमवस्थात्रयमेव वर्ण्यते, तथापि तन्त्रानुसारात् तत्पञ्चकोपलक्षणपरत्वेन व्याख्येयं त्रिवृत्करणस्य पञ्चीकरणपरत्वमिव | एवं च प्रकृते तृतीयकूटस्थसकलपदेन कलाभिरवस्थाभिः सहित इत्यर्थकेन वाच्यार्थस्योक्तावपि लक्ष्यार्थानुक्तेर्न्यूनता तदर्थं च कूटद्वयमेवावृत्त्या त्वंपदस्य वाच्यार्थलक्ष्यार्थयोः समर्पकत्वेन व्याख्येयम् | अथवा, तान्त्रिकाणां मते वाच्यार्थयोरप्यत्यन्ताभेदस्य शांभवानन्दकल्पलताकारादिभिरुपपादनात् कूटद्वयेन सृष्टिकर्तृत्वादि विशिष्टस्यावस्थादिविशिष्टस्यैव वाच्यार्थस्य समर्पणम् तृतीयकूटे तु तयोरभेदो जगतो वा संपूर्णस्याभेदो बोध्यते | इह यावान् वक्तव्योऽंशस्तावतः सर्वस्याप्युक्तौ वेदान्तशास्त्रस्यैव कृत्स्नस्यारम्भणीयतापत्त्योपरम्यते | महापूर्वेति | महांश्चासौ पूर्वश्च वाक्यार्थ इति, महाशब्दः पूर्वो यस्मिन् वाक्ये शब्दे तस्य महावाक्यस्यार्थ इति वा निरुक्तिः | एते चार्था उपलक्षणभूताः तेन तन्त्रेषु तत्र तत्रोक्तानामन्येषामप्यर्थानां संग्रहः | तथा हि-योगिनीहृदये तावत् आत्मनः स्फुरणं पश्येद् यदा सा परमा कला इत्यारभ्य कांश्चिच्चतुरश्चतुरः पदार्थानुक्त्वा तद्वाचकत्वं कूटत्रयं तुरीयविद्या चेति चतुर्णां शब्दानां प्रतिपादितम्- कूटत्रितययुक्तस्य सकलस्य मनोः पुनः | एतानि वाच्यरूपाणि कुलकौलमयानि तु || इति | एवं च यावन्ति चतुष्काणि तावन्तो मन्त्रार्थाः | तानि च प्रथमेऽंशे पुटधाम-इत्यादिश्लोकोक्तानि | तत्र हि यद्यपि कूटानां पुटाद्यभेद एवोक्तः, तथापि स वाच्यवाचकभाव एव पर्यवस्यति, शब्दार्थयोस्तादात्म्यस्यैव शक्तिरूपत्वेन पातञ्जले मञ्जूषायां च स्फुटतरमुपपादनात् | एवं कादिमते पञ्चत्रिंशे पटले चतुर्विंशादिभिस्त्रिभिर्व्याकुलाक्षरैः श्लोकैरर्थो वर्णितः- र्णैःयाभिलिर्वतास्त्रिल तेर्थोधीकयलाऽभिस | णदेरूपेपेणवीशे तम् दिमीनरिस्यादते || १ || त्स्नंतोगशेत्कृषज-अ तम्त्ममील्लेरिखाकहृ | तःर्थकस्याथिश्चास्तुत तःन्त्रेगोर्वपितषुस || २ || त्वंकामाम्नानप्रशव्यो नानमसग्निमात्वग्र | रोम-ई योकार्विर्शत नम्तभान्दुलनान्निबि || ३ || इति | एतेषां वाचनक्रमो यथा- देवतारथगोमूक (८४६२७३५१) इति यो वेत्ति न क्रमम् | स व्याकुलाक्षरे मूको देवतारथगोऽपि सन् || इति (ललितायास्त्रिभ्र्वर्णैः सकलार्थोऽभिधीयते | शेषेण देवीरूपेण तेन स्यादिदमीरितम् || १ || अशेषतो जगत् कृत्स्नं हृल्लेखात्मकमीरितम् | तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः || २ || व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना | तयोर्विमर्श ईकारो बिन्दुना तन्निभालनम् || ३ ||) तृतीयकूटे वर्णत्रयं सर्वार्थकम् तुर्यमक्षरं देव्यर्थकम् तेनायमर्थः संपन्न इति प्रथमश्लोकस्यार्थः | सर्वं जगद्देवीरूपमेवेत्यर्थस्तन्त्रान्तरेषु गोपित इति द्वितीयश्लोकस्य | लज्जाबीजस्थैश्चतुर्भिरक्षरैर्यत् प्रकाशकं यच्च ग्रसिष्णु तयोर्यत् सामरस्यं तत्तादात्म्यं द्वितीये प्रतिपाद्यत इति तृतीयस्य | प्रकाशग्रासशब्दौ तूत्पत्तिसंहारयोर्विद्याविद्ययोर्वा वाचकाविति | अयमप्यर्थः अत्यल्पमिदं कथितम् इति श्लोके सूचितः | एवं चात्र पुटधाम-इति श्लोके त्रयोदशार्थाः गायत्र्यादिपञ्चदशार्थेषु भावार्थाश्चत्वारः, नामार्थास्त्रयः, शाक्तार्थौ द्वौ, कौलिकार्थेऽपि गणेशादिरूपत्वस्य देवीविद्याचक्रभेदेन त्रैविध्यम्, महावाक्यार्थेऽपि द्वैविध्यमिति चतुर्दश शेषा दश इति मिलित्वा सप्तत्रिंशदर्थाः | नामैकदेशार्थे त्वनन्ता भेदा उक्ताः | एवं बहुतन्त्रद्रष्ट्टभिरन्येऽप्यर्थाः संग्राह्या || १४३- १४७ || शक्त्या लक्षणया वा ये येऽर्था दर्शिता मनोरस्य | तेषु न कोऽपि विवादः प्रत्यक्षेणैव सिद्धत्वात् || १४८ || मनोर्मन्त्रस्य | प्रत्यक्षेणेति | शक्तिग्राहकव्याकरणकोशादेः शक्यसंबन्धस्य च स्फुटं प्रदर्शनादिति भावः || १४८ || ये पुनरिह भावार्थदयः षडर्था मनोरुक्ताः | तेषु यदि शक्तिभक्ती न हि संभवतस्तदापि का हानिः || १४९ || शक्तिग्राहकव्याकरणाद्यभावान्न शक्तिः अत एव च न शक्यसंबन्धरूपा भक्तिरपि | व्यक्तिरूपा तृतीया वृत्तिर्भविष्यति, वक्तृबोद्धव्यकाकूनामन्यसंनिधिवाच्ययोः | प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् इत्यत्रादिपदेनोपासनापि ग्रहीष्यत इत्याशयेन समाधत्ते-का हानिरिति || १४९ || व्यञ्जनाया बहुभिरनङ्गीकारादाह- आस्तामन्या वृत्तिर्विलक्षणा तद्ग्रहस्तु मनोः | शिववचनेन भविष्यति यद्वैषा शाक्तिरेवास्तु || १५० || एतस्मादयमर्थो बोद्धव्य इतीश्वरेच्छात्वात् | अन्या शक्तिभक्तिव्यक्तिभ्यो विलक्षणा शक्त्यादित्रितयप्रक्रियातो विलक्षणप्रक्रियाशालिनी | उच्छृङ्खलस्य पन्थानं परित्यज्याह- यद्वेति | शिवेनैवास्यायमर्थ इति स्पष्टमुक्तत्वादिति भावः || १५०, १५० || प्रतिपदमर्थविशेषाज्ञानेऽप्यास्तामखण्डवाक्यस्य || १५१ || अर्थोऽप्यखण्डरूपो विशिष्टमतिरिक्तमिति हि सिद्धान्तः | आसेचनकव्याप्त्यादिपदवदास्तां पदत्वमपि || १५२ || इदं पदमिममर्थं बोधयत्वितीच्छायामर्थबोधजनकत्वनिष्ठप्रकारतानिरूपित- विशेष्यताशालित्वेन पदस्यापि विषयत्वात् प्रकृते प्रतिपदमर्थानुक्तेः कथं शक्तिरिति चेन्न इदं वाक्यमिममखण्डार्थं बोधयत्वित्याकारिकाया एवेच्छायाः कल्पनात् | वाक्यस्याखण्डत्वं वैयाकरणानामिष्टमेव | अर्थस्याखण्डत्वम् प्रकृष्टप्रकाशश्चन्द्रः इत्यादिवाक्यार्थं वर्णयतामौपनिषदानामिष्टमेव | तच्च विचार्यमाणे विशिष्टस्यातिरिक्तत्व एव पर्यवस्यति | तथा च यत्र प्रतिपदमर्थविवेकस्तत्रेयं रीतिः यत्र यत्र न स तत्र संपूर्णस्यैकपदत्वमेवास्तु | न चैकस्य पदस्य विशिष्टबह्वर्थवाचकत्वमदृष्टमिति वाच्यम्, घटत्वघटसमवायानां घटपदवाच्यत्वात्, तदसेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् इति कोशात्, हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधि- करण्यस्य व्याप्तिपदार्थत्वाच्चेत्याह-आसेचनकेति | आदिनोपाधिपरिग्रहः | तेनेश्वरेच्छायां पदस्यैव विशेष्यत्वेऽपि न प्रकृतनिर्वाहाय विलक्षणेच्छाकल्पनापत्तिः || -१५१, १५२ || नन्वस्य पदत्वेऽनेकार्थत्वं दोष इत्यत आह- एकस्यानेकार्था दृष्टा हरिसैन्धवादिषु पदेषु | अन्यतमैकावगतौ प्रकरणतात्पर्ययोर्विशेषकता || १५३ || प्रकृते तु सर्वबोधस्येष्टत्वान्नो विशेषकाकाङ्क्षा | अथवा सकलार्थेष्वपि शक्त्यैक्यं पुष्पवन्तपदवदिह || १५४ || अनेकार्थतायाः प्रमाणबलायातत्वाददोषत्वम् | सर्वत्रानेकार्थस्थलेऽन्यतमस्यैकस्यैव बोधनार्थं प्रकरणादिज्ञानस्य कारणत्वादिकल्पनदोषः, प्रकृते तु तदभाव इत्याह-अन्यतमेत्यादिना | अथ वा, ईश्वरेच्छाविषयीभूतबोधीयविशेष्यता यथा सूर्याचन्द्रमसोः पर्याप्तैकैव स्वीक्रियत इति न तत्र पुष्पवन्तपदे शक्त्यनेकत्वम्, तद्वदिहाप्यस्वित्याह-अथ वेति || १५३, १५४ || यत्र प्रतिपदमर्थस्तान् प्रत्यस्यास्तु वाक्यत्वम् | क्वचनावान्तरवाक्यं समासवाक्यं महावाक्यम् || १५५ || यत्र गायत्र्यर्थनामार्थादिषु | अवान्तरवाक्यं सगुणार्थावयवार्थादौ | अवान्तरवाक्यत्वं नाम वाक्यसमूहभिन्नत्वे सति पदसमूहत्वमेव, न पुनर्महावाक्यौपाधिकत्वरूपं प्रकृते | समासवाक्यं समस्तार्थे | महावाक्यं चरमेऽर्थे || १५५ || एकस्यानेकार्थे विनियोगादर्थबाहुल्यम् | वेदे बहुशः स्वीकृतमत्र त्वेकत्र विनियोगात् || १५६ || अखिलार्थबोधनियमो नियमादृष्टं प्रकल्पयति | सिद्धे प्रमाणदार्ढ्ये सकलं कल्प्यं हि तदविरोधाय || पदपक्षेऽनेकार्थतादोषपरिहारवद्वाक्यपक्षेऽपि संभवति, पुरुषसूक्तस्य तत्तद्देवतापूजायां विनियोगेनानेकार्थत्वस्येष्टत्वात् | इयांस्तु विशेषः-तत्तत्पूजायां तस्य तस्यैवार्थस्य स्मरणं पुरुषसूक्ते प्रकृते तु सर्वेषामर्थानां स्मरणेनैवादृष्टोत्पत्तिरिति भावः || १५६, १५७ || सिद्धे प्रमाणदार्ढ्य इत्यत्र दृष्टान्तमाह- यागस्य स्वर्गं प्रति संसिद्धे हेतुहेतुमद्भावे | तदनुपपत्तिं निरसितुमलौकिकापूर्वमपि कॢप्तम् || १५८ || ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यत्र तृतीयाश्रुत्या यागस्य जनकत्वे काम्यमानतया स्वर्गस्य जन्यत्वे च बोधितेऽपि भिन्नकालीनयोस्तदयोगाद्देवताप्रसादयागध्वंसादिनाऽत्र निर्वाहाभावादपूर्वेणैवानुपपत्तिनिरास इत्यादि तन्त्रान्तरेषु विस्तरः || १५८ || अस्मिन् प्रकरणे पूर्वं वर्णितान् पञ्चदशार्थान् संगृह्यानुवदति- विद्यावर्णेयत्तोद्धारः कालस्तदुच्चारः | उत्पत्तिस्थानं तद्यत्नो रूपं स्थितिस्थानम् || १५९ || आकारः स्वं रूपं विभाव्यमर्थोऽन्तरङ्गाणि | विद्यायां वर्णेयत्ता अष्टपञ्चाशद्रूपा वर्णसंख्या | उद्धारः क्रोधीशः श्रीकण्ठारूढः इत्यादिनोक्तः | कालस्त्रिलवोनैकत्रिंशन्मात्रात्मको विद्यायाः, एकलवोना ऊनत्रिंशन्मात्रा उच्चारणस्य | उच्चारणम् इत्येवं वर्णानाम् इत्यादिसार्धश्लोकत्रयेणोक्तम् | उतपत्तिस्थानम् कण्ठे च कण्ठतालुनि इत्यत्रोक्तं | यत्नो बाह्यश्चान्तरश्च | रूपादित्रयम् प्रलयाग्निनिभम् इत्यादिनोक्तम् | स्वं रूपम् व्यष्टिसमष्टिविभेदात् इत्यादिनोक्तम् विभाव्यमवस्थापञ्चकादि | अर्थो गायत्र्यर्थादिरूपः | इमान्यन्तरङ्गत्वादुपासकानामत्यावश्यिकानि || १५९, १५९ || ऋषयश्छन्दोदैवतविनियोगा बीजशक्तिकीलानि || १६० || न्यासा ध्यानं नियमाः पूजादीनि बहिरङ्गाणि | बाह्यान्यङ्गानि पुनः प्रायो लोके प्रसिद्धकल्पानि || १६१ || ऋषयो हयग्रीवादयः | छन्दांसि पङ्क्त्यादीनि | दैवतं त्रिपुरसुन्दरी | विनियोग इष्टार्थजनकत्वे | बीजं वाग्भवादि | शक्तिः परादिः | कीलकं कामराजादि | न्यासा ऋष्यादिन्यासजालम् | ध्यानम् अरुणां करुणातरङ्गिताक्षीम् इत्यादिना कथितम् | नियमाः पुण्ड्रेक्षुदण्डभक्षणवर्जनसंकल्पादयः | पूजाः प्रात्रासादनादिशान्तिस्तवान्ता नित्यादिभेदेन त्रिविधाः, परादिभेदादपि त्रिविधाः, केवलादिभेदात् पञ्चविधा अपि | आदिना होमतर्पणादिपरिग्रहः | एतानि बहिरङ्गत्वेनावश्यिकानि | प्रसिद्धकल्पानि, ईषन्न्यूनप्रसिद्धिमन्ति | प्रायः प्रसिद्धानीत्यर्थः | कल्पप्प्रत्ययः | तानि च प्रकाशवरिवस्याविधौ प्रपञ्चितान्यस्माभिः अतोऽत्र ग्रन्थे नोक्तानीति भावः || -१६०, १६१ || दुर्लभमान्तरमङ्गं प्रायोऽन्तर्मुखजनैस्तदादृत्यम् | तोषायैषा तेषामतः प्रदिष्टा रहस्यवरिवस्या || १६२ || अन्तर्मुखैर्विषयेष्वनासक्तचित्तैर्जनैः | प्रदिष्टोपदिष्टा, विद्ययोः पथि मुनिप्रदिष्टयोः इति कालिदासप्रयोगात् || १६२ || एतामुत्सृज्य जडैः क्रियमाणा बाह्यडम्बरोपास्तिः | प्राणविहीनेव तनुर्विगलितसूत्रेव पुत्तलिका || १६३ || बाह्यो डम्बरोऽङ्गविस्तारो यस्यां सा | प्राणसूत्रयोरन्तरङ्गत्वात् तदभावेन यथा तयोर्न कार्यक्षमता तथेति भावः || १६३ || बीजान्मूलं मूलात् क्षेत्रस्यान्तःस्थबाह्यविस्तारौ | यद्यप्यनयोः साम्यं प्राधान्यमथापि चान्तरङ्गस्य || १६४ || बीजात् कामकलारूपाद्धान्यादिरूपाच्च | मूलं वृक्षपादो मन्त्रश्च | क्षेत्रस्य शरीरस्य केदारस्य च | यद्यप्यनयोः साम्यं बीजजन्यत्वाविशेषात् तथापि अन्तरङ्गनादो बाह्याङ्गसिहितवृक्षनाशः, बाह्याङ्गमात्रनाशेऽपि न वृक्षस्य न वान्तरङ्गस्य नाशः इत्यस्य प्रसिद्धत्वादिति भावः || १६४ || यद्यपीमान्यावश्यिकतरत्वादत्र ग्रन्थे निबद्धानि, तथा पाण्डित्यबलादेतद्ग्रन्थावलोकनादेव गुरुमनपेक्ष्य स्वीकारः पापायेत्याह- सद्गुरुकुलतः कृपया लब्धा कामानियं सूते | निजबुद्धिमात्रजन्या पापं कन्या यथा स्वीया || १६५ || पापं सूत इत्यन्व्यः | सद्गुरोः सुन्दरः सुमुखः स्वस्थः इत्यादितन्त्रराजोक्तलक्षणविशिष्टस्य | कृपया सेवाजनितप्रसादेन, पारंपर्यविहीना ये ज्ञानमात्रेण गर्विताः | तेषां समयलोपेन विकुर्वन्ति मरीचयः || इति वचनात् | मरीचयो डाकिन्यादयः | विकुर्वन्ति धातुविकारप्रापणेन मारयन्तीत्यर्थः | कन्यापक्षे सद्गुरुः श्वशुरः || १६५ || मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते इति वचनादन्ते मङ्गलमारचयति- अकथासनं ह-लक्षान्तरं समासाद्य मामकं ज्ञानम् | मामकमेवानन्दं मह्यं ददतो जयन्ति गुरुचरणाः || १६६ || कथानां वाचामनासनमविषयम् | वाच्यकक्ष्यामतिक्रान्तमिति यावत् | हेति निश्चये | लक्षस्य लक्षणाया अन्तरमवकाशो यस्मिंस्तत् | पक्षे, सहस्रारपद्मकर्णिकामध्यगतत्रिकोणरेखा आदिकादिथादिषोडशार्णत्रयरूपाः, तन्मध्ये कोणेषु हकारादित्रयम्, तत्र तन्त्रेषु गुरुध्यानं कथितं | तादृशमासनमित्यर्थः | मासकमात्माभिन्नम् || १६६ || गूचर्णैकसहायो भास्कररायो जगन्मातुः | वरिवस्यातिरहस्यं वीरनमस्यं प्रजग्रन्थ || १६७ || वीरैः, अहमि रणाङ्गण इदमो वैरिणो नाशं कुर्वाणैः परापञ्चाशिकादौ प्रसिद्धैः | इति सर्वमनवद्यम् || १६७ || वस्तु प्रस्तुतमस्तु निस्तुलमहःस्तोमास्तितावास्तु नो हस्तन्यस्तसमस्तपुस्तकभरध्वस्तासदेनस्तति | शस्तस्वस्तिकृदस्तदुस्तरतमः स्वस्तोकसौवस्तिकं गीस्तोयस्तनयित्नुसुस्तनयुगं वास्तोष्पतिप्रस्तुतम् || इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणसर्वतन्त्रस्वतन्त्र- श्रीनृसिंहानन्दनाथचरणारविन्दमिलिन्देन श्रीमद्गम्भीररायभारतीदीक्षितात्मजेन भास्कररायापरनाम्ना भासुरानन्द नाथेन प्रणीतं सव्याख्यानं वरिवस्यारहस्यं संपूर्णम् ########### END OF FILE #######