#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00219 Uniform title: vatullotarāgama Main title: vatullotaratantra Manuscript : IFP transcript 624 Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski from IFP transcript 624 Revision 0: Sept. 18, 2010 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || श्रीः || [१आ] स्वस्ति श्रीगणाधिपतये नमः | निर्विघ्नमस्तु | मातामहमहाशैलं महस्तदपितामहम् | कारणं जगतां वन्दे कण्ठादुपरि वारणम् || ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् | आधारं सर्वलोकानामनाधारमविक्रियम् || अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् | अम्बिकापतिमीशानमनिशं प्रणमाम्यहम् || वन्दे हालास्यनगरीं वन्दे वन्दे हेमाब्जिनीमपि | वन्दे सुमीननयनां वन्दे सुन्दरनायकम् || शिवाय परिपूर्णाय शीतलाय चिदात्मने | चित्तनाथाय नाथाय तेजसे ब्रह्मणे नमः || आनन्दसागररसा कुलशैलकन्या वक्षोजकुम्भयुगलीपरिरम्भणेन | रोमाञ्च * * * परिष्कृतगात्रयष्टिं वेदे भजामि मधुरापुरनाथमीशम् || प्. २) इक्षुकोदण्डपुष्पेषु पाशाङ्कुशकरोज्वलाम् | उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् || नमः सुन्दरनाथाय तस्मै हालास्यवासिने | चतुष्षष्टिविधा लीला येन प्रत्यक्षिताः क्षितौ || श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनीम् | कलये हृदये नित्यं कदम्बवनवासिनीम् || कारुण्यमदनिष्यन्दं कैवल्यवनचारिणम् | कालाम्बुदश्यामलाङ्गं कलभाननमाश्रये || आम्नायाचलमञ्चस्थमाननैः षड्भिरन्वितम् | हिमाद्रितनयास्तन्यकुक्षिंभरमये शिशुम् || श्रीकैलास इति ख्यातः श्रीमतां भूभृतांवरः | श्रीपतिप्रमुखैर्देवैः श्रियै मुक्त्यै च सेवितः || श्रीदादीनामपि श्रीदः श्रीकण्ठप्रथितालयः | श्रियोऽपि हेतोः क्षीराब्धे स्वयं जित्वा समुन्नतः || जनानां श्रवणादेव जन्ममृत्युजयापहः | प्. ३) सर्वशक्तिसमायुक्तः सर्वलोकनमस्कृतः || भूः सुराकीर्णनं वापि कुर्वतां सर्वसिद्धिदः | तपोवनेन महता पश्यतामपवर्गदः || विविधैर्भूतसंघातैः परितः परिरक्षितः | विबुधैरप्यगम्यस्य विश्वभर्तुरनुज्ञया || विष्टपत्रयविख्यातो विधुमण्डलपाण्डरः | विद्यते भुवि दिश्यैशां विद्वज्जनमनस्यपि || तस्य मध्ये महामेरोर्मध्यशृङ्गं महत्तरम् | प्रशस्तमस्ति शिखरं महामण्डलमण्डितम् || तदूर्ध्वे पवनोऽत्यर्थं दर्पणोदरवत्समम् | व्योमवद्विमलीभूतं विशालं भवति स्थलम् || तपोऽन्तरायै कामाद्यैरमरैः परिपन्थिभिः | अजेयं तत्स्थलं पाति मुनीन्द्राणां मनो यथा || काननः कल्पवृक्षाणां फलपुष्पसमन्वितैः | चिन्तामणिमयैः शैलैः कामधेनु भवैरपि || पयोदधिघृतक्षौद्रसुधामयसरिद्वरैः | प्. ४) नानारत्नविचित्रैश्च कुट्टिमैरतिमञ्जुलैः || प्रमथानां मन्दिरैश्च मेरोः शिखरसंनिभैः | शातकुम्भमयानेकप्राकारद्वारगोपुरैः || सूर्यकोटिप्रतीकाशैश्चन्द्रकोटिसमप्रभैः | व * * * * * * * * * * * * * * * || || स्वस्ति || | श्रीगणाधिपतये नमः | शुभमस्तु [१अ] क्रोधिसंवत्सरद वैशाखशुद्ध १२? शुक्रवार ईपुस्तकवबरवदक्के प्रारम्भ | निर्विघ्नमस्तु | श्रीमहागणपतये नमः || विश्वरूप नमस्तुभ्यं भक्तवत्सल शाश्वत | मम लिङ्गे च बिम्बे वा छिन्ने नाशाधिकं कथम् || यदि दोषादिके प्राप्ते पूजां कर्तुं कथं शिव | विस्तराद्ब्रूहि भगवन् श्रोतुमिच्छामि साम्प्रतम् || श्रीभगवान् उवाच शृणु देवि प्रवक्ष्यामि भिन्नदोषादिकान् क्रमात् | स्वयम्भुवे सांब लिङ्गे बिम्बे वा यत्र कुत्रचित् || दोषं शान्तिफलं देवि विस्तराच्च पृथक् पृथक् | भिन्ने च स्फुटिते लिङ्गे वह्निनाशनिनाहते || प्. २) परं राष्ट्रभयं देवि त्रिवर्षान्तं न संशयः | राजा च दुःखशोकार्तः जायते च बलक्षयः || खण्डिते शकलीभूते यदि नाशे च हीनके | देशत्यागो भवेत्सद्यः राजा भङ्गत्वमाप्नुयात् || निधनं प्राप्नुयाद्देवि त्रिमासान्तं न संशयः | पाषाणैरायुधाद्यैर्वा चोर्वा शत्रुभिर्हते || राजा तु मरणं यायात् चतुरङ्गबलं रथा | रोधने रुधिरोत्पत्तिः स्वेदकम्पे च नादते || तद्राष्ट्रं पट्टणं देवि राजदानी विनश्यति | बहुधा शत्रुबाधास्यादनावृष्टिर्भविष्यति || दुर्भिक्षं दुर्भयं मारी ज्वरापस्मारकादयः | विवर्णेधुमसंजाते वहिश्वदुदकं पयः || रक्तस्रावं कीटकाद्यैर्यदिलिङ्गे महेश्वरि | प्रजापीडा गर्भपीडा नृपपीडा द्विजादिषु || निर्घातसर्पादिभयं वातबाधा मसूशिका | एवं दोषादि संप्राप्ते नवलिङ्गे च पार्वति | प्. ३) आत्मशून्यं यथा देहं संप्रविश्येह राक्षसाः || तथैव देवताशून्यं भिन्न लिङ्गे महेश्वरि | दोषाढ्ये पूजिते हन्ति निहन्ति तदपूजिते || तस्मात् सर्वप्रयत्नेन तवलिङ्गं रक्षयेत् | यद्यस्माच्च स संप्राप्ते सन्धानं शान्तिमाचरेत् || लिङ्गे भिन्ने खण्डिते च चिह्निते च गुरूत्तमः | एकाङ्गुलं तदर्धं वा चतुरस्रं च पार्वति || बन्धेन बन्धयेल्लिङ्गं सन्धानं च गुरूत्तमः | महाशान्तिं क्रमाणित्वा तल्लिङ्गं पूजयेत्पुनः || प्रमादाच्छकलीभूते स्वर्णरौप्यादिसूत्रतः | सन्धयेत्सुदृढं महाशान्तिं समाचरेत् || दहिते सेचयेन्मन्त्री स्नपनाद्यैर्गुरूत्तमम् | चोरैर्वा शत्रुभिर्देवि भये प्राप्ते च रक्षयेत् || कुम्भे कलां समावाह्य सिकतेन निगूहयेत् | तत्कुम्भं पूजयेद्देवि भयान्तं तव लिङ्गके || निर्गते चेत्ततो मन्त्री शान्तिं कुर्याद्विधानतः | प्. ४) तत्कुम्भस्थकलां देवि पुनरावाह्य लिङ्गके || यथाविद्युक्तमार्गेण गुरुः कुर्यान्महेश्वरि | यदि नाशो भवेल्लिङ्गं प्रमादाच्च महेश्वरि || नवलिङ्गं च संस्थाप्य यद्वा तद्गुणवत्यपि | तद्रूपं तन्मयं सौम्यं तन्मानं नान्यथा शुभम् || एवं ज्ञात्वा प्रयत्नेन जीर्णमुद्धृत्य योजयेत् | प्रतिष्ठोक्तेन कुर्वीत महाशान्तिं समाचरेत् || रोदनादिषु लिङ्गेषु जाते यदि महेश्वरि | लिङ्गं संक्षाल्य संशोध्य पञ्चशुद्धिं यथोक्तवत् || महाशान्तिं च कुर्वीत नवलिङ्गं च पूजयेत् | यदि बिम्बे च संप्राप्ते वक्ष्यामि शृणु पार्वति || बलौ नित्योक्तबिम्बे वा मूलबेरादिके तथा | यद्यकस्माभूतले च पतिते खण्डिते सति || तस्करेभ्यश्च शत्रुभ्यः वाग्निना वा महेश्वरि | भिन्ने च स्फुटिते बिम्बे सर्वाङ्गे शिथिले पृथक् || खण्डिते खण्डनं राज्ञां पतिते सर्वनाशनम् | प्. ५) दहिते दहनं राष्ट्रं राज्ञो भोगं विनश्यति || भिन्ने भङ्गत्वमाप्नोति स्फुटिते च धनक्षयम् | सर्वाङ्गे शिथिले जाते सर्वार्थं नश्यति ध्रुवम् || पादो भिन्ने स्थाननाशं जनुजङ्घे जनक्षयः | निस्सतिर्भवेद्राजा कटिभिन्ने महेश्वरि || बाहुभिन्ने शत्रुबाधा विजयं नाप्नुयात्क्वचित् | छिन्ने कण्ठे ततः शीघ्रं राजा मरणमाप्नुयात् || मूर्तरूपाङ्गविच्छेदे राष्ट्रनाशो धनक्षयः | मुख्याङ्गं भङ्गमापन्ने तां मूर्तिं च परित्यजेत् || नवां मूर्तिं प्रतिष्ठाप्य शान्तिं कुर्याद्गुरूत्तमः | तदुपाङ्गादि भग्ने तु सन्धानं यत्ततो नयेत् || स्वर्णपित्तलताम्राद्यैः निश्चलं हि यथा तथा | महाशान्तिं विधायाथ सन्धानात्पूजयेत्प्रिये || अङ्गुलोर्ध्वे यदा भिन्ने तां मूर्तिं सलिले त्यजेत् | प्रतिष्ठोक्तेन मार्गेण शान्तिं कुर्याद्विधानतः || नवां मूर्तिं प्रतिष्ठाप्य कर्षणैश्च यथोक्तवत् | प्. ६) तस्करेभ्यश्च शत्रुभ्यः बिम्बे चापहृते सति || सर्वनाशो भवेत्सद्यः राप्यां कूपतटाकयोः | प्रासादादिषु सर्वत्र यदि स्थाने समुद्भवाः || दहने खण्डिते स्फोटे चलिते निम्नगे शिवे | पतिते नामृते भिन्ने वाहने परिवारके || ध्वजादकलशे भिन्ने बलिपीठे प्रमादतः | क्षेत्रपाले द्वारपालौ चलिते पतिते सति || दीपस्तम्भे चोर्ध्वमाला भिन्ने जाते प्रमादतः | प्राकेरे च बहिश्चैव अन्तःप्राकारकेषु च || वीथिमध्ये बहिश्चैव आरामे मण्टपे स्थले | उत्सवे बलिकाले वा नित्यनैमित्तिकेऽपि वा || काम्ये वा यदि कालेषु जायते च शृणु प्रिये | बलिबिम्बे च पतने छिन्ने भिन्ने प्रमादतः || पादुकें बलिपात्राणि छत्रचामरकादि च | पताका विजनं देवि दर्पणं जलपात्रकम् || पर्णपात्रं तदुच्छिष्टं * * दीनां गिरीन्द्रजे | प्. ७) उद्भवं चेदिदं देवि तत्तस्थाने प्रचक्षते || तेषां नामानि वक्ष्यामि उत्पातान् शृणु पार्वति | स्वयम्भुवादिलिङ्गे च बिम्बे वा यदि पार्वति || रोधनं रुधिरोत्पत्तिः स्वेदकम्पं च नादकम् | स्फुटितं पातितं देवि विवर्णं धूमसंभवः || वह्निश्वेदुदकं रक्तं पयः कीटकदर्शनम् | तिष्ठत्यूर्ध्वमुखो देवः करपादविहीनकः || अधोमुखाद्यनेकानि हीनास्यः कृशवामनः | लिङ्गनाशे च बिम्बे वा चोरैर्वा शत्रुभिः प्रिये || गर्भागारादि वक्ष्यामि उत्पातान् शृणु पार्वति | गर्भगेहे प्राङ्कणे वा लक्ष्मीमण्टपसंज्ञके || प्राकारे गोपुरे देवि शिखरे शिखरान्तरे | मण्टपे वाहने देवि परिवारालयादिके || द्वारदेशे सभास्थाने ईशान्यामष्टकोणकम् | ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डं तु कारयेत् || यावन्मानं तु विस्तारं तावन्मानं प्रमाणकम् | प्. ८) त्रिमेखलासमायुक्तं सर्वलक्षणलक्षितम् || हस्तद्वययुतं खातं ऊर्ध्वमेखलया सह | इत्येवं कारयेत्कुण्डं द्वात्रिंश म्भसंयुतम् || चूतपल्लवरम्यैश्च पताकध्वजशोभितम् | प्राग्द्वारे पीतवर्णं च दक्षिणे कृष्णवर्णकम् || पश्चिमे रक्तवर्णं च उत्तरे श्वेतमेव च | पूर्वादिद्वारदेशं च तौरणैश्चाप्यलङ्कृतम् || कदलीं स्थाप्य मतिमान् नववस्त्रेण वेष्टयेत् || पण्टपञ्चाप्यलङ्कृत्य सफलङ्कुरपुष्पकैः | इत्येवं मण्टपे रम्ये शान्तिं कुर्याद्विचक्षणः || नवाहं सप्तरात्रं वा पञ्चत्रि * * * * * | * * * * * * * * * * * * * * * * * * || * सूर्ये समुत्पन्ने स्वस्थानं नाशमाप्नुयात् | राष्ट्रदुर्गबलं देवि परराज्ञाहृत भवेत् || द्विजादिश्च त्रयोवर्णाः शूद्रत्वं प्राप्नुवन्ति हि | निस्सत्वं निर्जनत्वं च सर्वकर्माणि नाशनम् || प्. ९) इति दोषहरं देवि दर्शयेच्च नृपोत्तमः | चन्द्रतारानुकूले च नक्षत्रकरणान्विते || राज्ञो राष्ट्रानुकूले च उद्दिश्य दिवसे गुरुः | मण्टपान् कारयेद्देवि तव लिङ्गादिके स्थले || पूर्वे वा चोत्तरे वापि ईशान्यां मण्टपं गुरः | विंशद्धस्तप्रमाणं तु चतुरश्रं सवेदिकम् || नवकुण्डं च परितः पूर्वादिषु यथाक्रमम् | तत्पूर्वे चतुरश्रं स्यात् आग्नेयां तु भगाकृतिः || अर्धचन्द्रं तु याम्यायां नै-ऋ-ऋत्यां तु त्रिकोणकम् | वारुणे वर्तुलं कुण्डं षट्कोणं चैव वायवे || उत्तरे पद्मकुण्डं तु * * * * * * * * | * * * षादिसंप्राप्ते शान्तिं कुर्याद्गुरूत्तमः || सर्वदोषहरं सद्यः अपमृत्युनिवारणम् | सर्वभोगांश्च लभते सत्यं सत्यं मचोदितम् || ओ इति श्रीवातुलोत्तरे प्रायश्चित्तखण्डे उत्पातजातस्थानविधिर्नाम चत्वारिंशत्पटलः || श्रीदेव्युवाच - सम्यगुक्तं त्वया शम्भो उत्पाता * * योद्भवाः | तत्सर्वं च श्रुतं देव दोषं शान्तिं पृथक् कथम् || वदस्व कृपया देव सर्वलोकहिताय च | शिवः - अथातः संप्रवक्ष्यामि दोषं शान्तिं पृथक् पृथक् || तत्फलं च क्रमेणैव विस्तराच्छृणु पार्वति | भूमिकम्पे दिशांदाहे जाते यदि महद्भयम् || तद्राष्ट्रं नाशमाप्नोति त्रिमासान्तं न संशयः | पट्टणे राजधान्यादि सर्वस्थाने च कम्पने || राज्ञस्तु मरणं सद्यः सर्वनाशं भवेत्प्रिये | प्रति * * * * देवि राजदानी विनश्यति || बहुधा शत्रुबाधास्युः अनावृष्टिर्नसंशयः | नदी गेहे च संप्राप्ते त्रिमासा मृत्युमाप्नुयात् || प्रजापीडा गर्भपीडा नृपपीडा द्विजादिषु | वेतालक्षेत्रपालाश्च ज्वरापस्मारकादयः || प्. ११) एवमादीनि चान्यानि देशे तत्र प्रजायते | तद्दोषशमनार्थाय शान्तिं कुर्यान्नृपोत्तमः || देव्यौवाच - महदुत्पातजनने अरिष्टे चागते सति | शान्तिं कृताचेद्देवेश नाशनं च कथं वद || शिवः - यथा भुजगदष्टस्तु गारुडेनौषधेन च | स्वस्थो भवति देवेशि तथा शान्तिर्तृणा प्रिये || तस्मात् सर्वप्रयत्नेन औषधं भिषजा सदा | तथा दौ* * * * * * * * * रणे सति || पत्तनादि गृहे देवि वने चोपवने स्थले | पर्वते चोद्भवे देवि शृणु देवि यथाक्रमम् || गोवधे स्त्रीवधेश्चैव द्विजादीनां च नाशने | व्यालेतेर्पावदुष्टेभ्यः शस्त्राद्यैश्च महेश्वरि || मण्डूकेन मृतेदेवि कूपे कूभसमुद्भवे | अनड्वान् महिषव्याघ्रखरोष्ट्रादि प्रवेशने || प्. १२) अगाधे भूमिपतने ग्रामादीनां महेश्वरि | गम्भीरैश्च नदीस्रोतैः लिङ्गे ग्रामादिनाशने || चैत्यवृक्षादिपतने वने वा सर्वपादपैः | पर्वते शकलैर्भिन्नैर्यदि भूमे निपातिते || एवमादीनि नामानि उत्पातानि महेश्वरि | तत्र दोषं प्रवक्ष्यामि शृणु देवि वरानने || राज्ञस्तु मरणं सद्यः चतुरङ्गबलक्षयः | तद्राष्ट्रपत्तनं * * आयुधानां महेश्वरि || वेत्रं च बलिदीपं च शङ्खभेर्यादिपातने | देशिके पारके देवि बिम्ब दारुक एव वा || वाद्यके सेवके देवि पतिते च महेश्वरि | शिबिके रथभङ्गे च वाहने पतिते तथा || वाहनार्थं गजाश्वाद्यैः वृषभैश्चाप्यलङ्कृतैः | सेनानायकवस्त्राणां धारकैश्च नृभिः प्रिये || परस्परविरोधेन पतिते रक्तपातने | मुष्टियुद्धे दण्डयुद्धे नखदन्तक्षते सति || प्. १३) शस्त्रैर्वाहतदुष्टेभ्यः एतैः प्राणि मृते सति | प्रवेशे मरणे प्राप्ते शृणुदेवि समुद्भवम् || वन्यैर्वा प्राणिभिर्दुष्टैः दूषिते च चतुष्पदैः | द्विपदैः क्षुद्रजन्तू नदीं व्यालैर्पा हंसगृध्रकैः || मधुपञ्जरसंभूतैः वल्मीकैश्च समुद्भवम् | बृहत्पिपीलिका क्षुद्रप्रवेशेतेकमेव वा || शान्तिकर्मप्रकुर्वीत दीक्षां कुर्याद्गुरुः प्रिये | वपनं स्नानमौनं च शुक्लाम्बरधरं शुचिः || क्षीरान्नभोजनं नित्यं दुस्सङ्गादिविवर्जितः | ब्रह्मचर्यव्रतं कुर्यात् आचार्यादि द्विजां प्रिये || दीक्षाकर्म प्रकर्तव्यं नवरात्रौ यथाविधि | त्रिरात्रं चैकरात्रं च दीक्षाकर्म न कारयेत् || यागद्रव्याणि संपाद्य होतृभिर्जापकादिभिः | प्रातरुत्थाय विधिवद्दन्तधावनपूर्वकम् || प्रातस्स्नानं प्रकुर्वीत आचार्यो यजमानकः | सन्ध्याकर्म प्रकुर्वीत नित्यकर्मविधाय च || प्. १४) मृत्तिकास्नानपूर्वं च कुशगोमयभस्मना | सर्वघोषसमायुक्तं पुण्यस्त्रीभिः समन्वितम् || नानामङ्गलवाद्यं च वेदघोषैश्च सूक्तकैः | स्नानं कृत्वा विधानेन शान्तिं कुरु महेश्वरि || ततो देवालयं गत्वा फलपुष्पं समर्प्य च | प्रार्थयेन्यजमानेन नमस्कारैश्च भक्तितः || आचार्यः सहविप्रैश्च प्रविशेद्यागमण्टपम् | आचार्यवन्दनं पूर्वं पूर्वेवा चैशकोणके || दर्भासने चोपविश्य प्राणायामं समाचरेत् | पूण्याहं पञ्चगव्यं च प्रोक्षयेत्प्रशन प्रिये || दशदिग्बन्धनं कृत्वा मातृकान्यासपूर्वकम् | दिनसङ्ख्यं समुद्दिश्य सङ्कल्प्य विधिपूर्वकम् || गणेशं च समाराध्य नान्दीकर्म समाचरेत् | पुण्याहं पञ्चगव्यं च प्रोक्षयेत्प्राशन प्रिये || वरये भूसुरान् देवि आचार्यादिद्विजोत्तमान् | स्वशाखोक्तरतान् सर्वान् ब्रह्मदेशिकहोतृकान् || प्. १५) घोषकान् जापकान् देवि स्वस्वशाखयुताः प्रिये | वरये भूसुरान् मन्त्री फलं दत्वा पृथक् पृथक् || अलङ्कारं सुवस्त्रं च मधुपर्कं च दापयेत् | अङ्कुरार्पणपूर्वं च शोधयेन्मण्टपे गुरूः || द्वारतोरणकुम्भांश्च स्थापयेत् पूजयेत् प्रिये | राक्ष(सो)घ्नं वास्तुहोमं च पूजा बलि समाचरेत् || गणेशक्षेत्रपालं च भूसूक्तं वास्तुसंज्ञकम् | राक्षोघं चतुरस्त्रं च मृत्युञ्जयनवग्रहम् || महासौरं सप्तशतिं प्रासादं च महेश्वरि | शक्तिपञ्चाक्षरीं जप्य वेदपारायणं पृथक् || विनिद्राकर्म कुर्वीत पुनः सूर्योदये प्रिये | नित्यकर्माणि कुर्वीत पुण्याहं प्रोक्षणादिकम् || मण्टपं पूर्वदिग्भागे ग्रहमण्डलमुल्लिखेत् | चतुरस्रं समं कृत्वा ग्रहाकारं विचक्षणः || ग्रहसंख्यानि कुर्वीत तत्र कोष्ठे महेश्वरि | तत्तद्वर्णविभेदैश्च लिखेत्तं पञ्चरङ्गिकम् || प्. १६) गोधूमादीनि धान्यानि तत्तत्स्थानेषु पूरयेत् | कर्षमात्रसुवर्णैश्च अर्धं वापि तदर्धकम् || तत्तद्ग्रहविभेदैश्च प्रतिमां च प्रकल्पयेत् | कुम्भं तत्र प्रतिष्ठाप्य ग्रहसंख्यानि पार्वति || सूर्यादिग्रहभेदैश्च पूजयेच्च विधानतः | तदग्रे पद्ममालिख्य पूरयेच्छालितण्डुलैः || लिखेद्यन्त्रं सूर्यबीजं द्वादशादित्यरूपकम् | संपूज्य विधिना मन्त्री प्रतिसूर्यस्य दर्शने || ईशानकोणे संलिख्य पद्ममष्टदलं प्रिये | धान्यद्रोणमितं पूर्य आधारादि यथाक्रमम् || सुवर्णप्रतिमां कुर्याल्लक्षणानि यथाक्रमम् | कन्दं नालं च पद्मं च दिग्गजैश्चाष्टभिर्युतम् || पूर्णं कूर्मं च धरणिं कृत्वा स्थापयेत्पूजयेद्गुरूः | दिक्पाल परितः पूज्य प्रागादिषु यथाविधि || भूकम्पे चेत्पिदं पूज्य तत्तन्नामादिभिः प्रिये | वेदिमध्ये च संस्थाप्य सहस्रं वा तदर्धकम् || प्. १७) कलशान् पूजयेन्मन्त्री पूर्वोक्तेन विधानतः | ततः कुण्डान्तिकं गत्वा होतृभिस्सह देशिकः || ब्रह्माणं धनदं देवि उपविश्य यथाक्रमम् | कुण्डसंस्कारपूर्वं च जनयेत्पावकं प्रिये || तदग्निं विभरेन्मन्त्री प्रागादिषु यथाक्रमम् | अग्निकार्योक्तवत्कुर्यात्तत्तत्कुण्डेषु मूर्तिपाः || प्रधानकुण्डे जुहुयात् मूलमन्त्रं महेश्वरि | अयुतं च तदर्धं वा सहस्रं वा महेश्वरि || भूबीजं भुवनेशीं च आधारादीश्च पूर्वके | अघोरं चाग्निकोणे च तदर्धार्धं महेश्वरि || मृत्युञ्जयं च याम्ये च नैर्-ऋत्यां च वराहकम् | प्रासादं वारुणे कुण्डे वायव्यै शान्तिदौर्गकम् || पञ्चब्रह्मा च सोमे च ईशाने तत्वमन्त्रकान् | सहस्रं च हुनेद्देवि तत्तन्मन्त्रं पृथक् पृथक् || समिदाज्यचरुद्रव्यैः सर्षपैश्च तिलैस्सह | व्रीहिभिस्सक्तुभिश्चैव गोधूमैः पृथुकैर्हुनेत् || प्. १८) कुण्डस्य परितो दिक्षु हुतसंख्याश्च होतृकान् | विभज्य च यथा मन्त्री दिनसंख्येन पार्वति || पूर्वोक्तसंख्यया हुत्वा उद्दिश्य दिवसे गुरुः | उपहोमं ततः कुर्यात् रुत्विग्भिस्सह देशिकः || गणेशं क्षेत्रपालं च त्रियम्बकनवग्रहान् | दिक्पालमन्त्रैर्हुत्वाथ स्विष्टकृत्तदनन्तरम् || पूर्णाहुतिं हुनेदन्ते भूकम्पे चेत्पिदं प्रिये | प्रतिसूर्ये दर्शने च हुनेन्मन्त्री यथाक्रमम् || आदित्यं पूर्वकुण्डे तु अघोरं चाग्निगोचरे | वामे मृत्युञ्जयं हुत्वा नैर्-ऋत्यां च नवग्रहम् || वारुणे दिक्पतीन् मन्त्रान् वायव्येशान्तिदौर्गकाम् | सोमे च द्वादशादित्यान् ईशे पञ्चाक्षरीं हुनेत् || पूर्वोक्तद्रव्यसंख्यैश्च हुनेन्मन्त्रं पृथक् प्रिये | होमान्ते स्विष्टकृन्मन्त्री पूर्णाहुतिमथाचरेत् || स्थापितान् कलशान् मन्त्री सेचयेत्तव लिङ्गके | महारुद्रांश्च विधिवन्महापञ्चामृतं प्रिये || प्. १९) सेचनान्ते च उद्वर्त्य महापूजां समाचरेत् | नानापुष्पैश्च गन्धैश्च नैवेद्यं बहुधा प्रिये || नीराजनं च संभ्राम्य उपचारैस्समर्पयेत् | दशदानं च दत्वाथ सूर्यं स्वर्णेन निर्मितम् || द्वादश प्रतिमां कृत्वा ब्राह्मणेभ्यः प्रदापयेत् | भूचक्रं कारयेद्देवि दशनिष्कप्रमाणतः || ब्राह्मणाय प्रदातव्यं दक्षिणाभिः समन्वितम् | आचार्यं पूजयित्वाथ गोभूवासो हिरण्यकैः || तत्रोपकरणैः सार्धं प्रदद्याच्च महेश्वरि | दक्षिणां दापयेद्भक्त्या मूर्तिपेभ्यो यथाक्रमम् || ब्राह्मणान् भोजयेत्पश्चात् यथा विभवविस्तरम् | भूमिदानं ततो दद्यात् रात्रौ दीपोत्सवं गुरुः || भूतेभ्यश्च बलिं दत्वा कृच्छ्रदानं प्रदापयेत् | इत्येवं कारयेद्भक्त्या भूकम्पे च महेश्वरि || प्रतिसूर्ये दर्शने च शान्तिं कुर्यादिदं प्रिये | आयुरारोग्यमैश्वर्यं सर्वसम्पत्करं नृणाम् || प्. २०) सुभिक्षं भवेद्भूमौ आयुर्वृद्धिकरं नृणाम् | ब्रह्मक्षत्रियवैश्यानां स्वधर्ममभिवृद्धये || सर्वप्राणिहितं पुण्यं सर्वाघौघनिवारणम् | प्रायश्चित्तमिदं देवि तव प्रीत्या मयोदितम् || इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे भूकम्पादिप्रतिसूर्यदर्शनशान्तिविधिर्नाम एकचत्वारिंशत्पटलः || अतः परं प्रवक्ष्यामि इन्दुक्षयदिनं शिवे | निशि नक्षत्रनाशे च रात्राविन्द्रधनूत्थिते || दिवा नक्षत्रदर्शे च यदि जाते महेश्वरि | मांसौ चेदधिके न्यूना उभौ प्राप्ते च वत्सरे || क्रूरादि ग्रहयोगे च पञ्चमे वाथ सप्तमे | द्वात्रिंशत्केतुरुत्पन्ने रूधिरस्रावपातने || वह्निवृष्टिस्तथा भूमौ यदि जाते महेश्वरि | प्. २१) मसौचे | दोषं शान्तिं लभन्देवि क्रमेण शृणु पार्वति || इन्दुक्षये ऋक्षनाशे रात्राविन्द्रधनूत्थिते | दिवा नक्षत्रदर्शे चेत् यत्रकुत्र स्थले शिवे || देशे देशपतिश्चैव मन्त्रिसेनाधिपक्षयः | मासौ चेदधिके न्यून उभौ प्राप्ते च वत्सरे || सेनाजनो ग्रामपश्च दुर्भिक्षस्यान्महेश्वरि | क्रूरारिग्रहयोगे चेत् जाते राशौ नृणां प्रिये || मृत्युबाधा भवेच्छीघ्रं षण्मासान्तं न संशयः | यदि केतुश्च ये दृष्टे त्वकस्माद्विविधे शिवे || क्षामक्षयौ भवेद्राज्ये भूपामृत्युमृतिं ययुः | वह्निवृष्टिस्तथा भूमौ रुधिरस्रावपातने || अनावृष्टिस्तथा देवि फलनाशं च सर्वतः | सस्यनाशं भवेल्लोके वत्सराणां न संशयः || तस्मात्तद्दोषशान्त्यर्थं राजधान्यां तवालये | देशे देशे पृथग्ग्रामे शान्तिकर्म समाचरेत् || दशहस्तमितेनादौ मण्टपं कारयेद्गुरुः | प्. २२) एकं वा पञ्चकुण्डं वा हस्तत्रयसमन्वितम् || लक्षणं पूर्ववद्देवि प्रमाणेन विचक्षणः | द्वारादि भूषणादीनि रचयेन्मण्टपं गुरूः || सुतिथौ च सुनक्षत्रे राजग्रामानुकूलके | ततः प्रात समुत्थाय स्नानसन्ध्यादितर्पणम् || समाप्य विधिना मन्त्री ब्राह्मणैस्सह भक्तितः | देवालयं प्रविश्याथ विघ्नेशार्चनपूर्वकम् || पुण्याहं पञ्चगव्यं च नान्दीकर्म समाचरेत् | वरयेद्भूसुरान् मन्त्री आचार्यादि यथोक्तवत् || अलङ्कारं भूषणादिवस्त्रहेमाङ्गुलीयकैः | ताम्बूलं च फलं दत्वा मधुपर्कं यथोक्तवत् || अङ्कुरं तु प्रकुर्वीत सद्यो वाथ महेश्वरि | मण्टपं शोधयेद्रात्रौ तत्कुम्भान् स्थाप्य होमयेत् || वास्तुराक्षोघ्नहवनं बलिपूजां समाचरेत् | वेदपारायणं दिक्षु विदिक्ष्वस्त्रमनुं शिवे || क्षेत्रपालं वास्तुमन्त्रं मृत्युञ्जयनवग्रहम् | प्. २३) मूलमन्त्रं दिशामन्त्रं भूसूक्तं विष्णुसूक्तकम् || अभयङ्करं शान्तिदुर्गाप्रासादं भुवनेश्वरीम् | सप्तशतीन् केतुमन्त्रान् अष्टौ वाक्यं तदुक्षकान् || जपेत् होमावसानान्तं रक्षाबन्धं समाचरेत् | ततः प्रात समुत्थाय नित्यकर्म विधाय च || ब्राह्मणैस्सह संयुक्तः संकल्प्य विधिपूर्वकम् | पुण्याहं वाचयेद्देवि स्वकुण्डे विधिवद्गुरुः || जननाग्निं च कुर्वीत ब्रह्माणं होतृभिस्सह | तदग्निं चान्यकुण्डेषु स्थापयेच्च यथाक्रमम् || अग्निकार्योक्तवत्कुर्यात् कुण्डस्य परितः पृथक् | उपविश्य यथान्याययं प्रयुतं मूलमन्त्रकम् || प्रधानकुण्डे जुहुयादघोरं पूर्वकुण्डके | ग्रहमन्त्रं दक्षिणे च पश्चिमेचाभयङ्करम् || त्रियम्बकं चोत्तरे च ततन्मन्त्रं हुनेत् पृथक् | खदिरं च पलाशं च अर्कमौदुम्बरं तथा || दूर्वा च समिधं हुत्वा प्राधानादि यथाक्रमम् | प्. २४) घृतं चरुं तिलं चेति सर्षपं पृथुकं प्रिये || सक्तुं व्रीहिं च गोधूमं मधुक्षीरं यथाक्रमम् | पूर्वोक्तसङ्ख्यया हुत्वा ऋत्विग्भिः सह देशिकः || उपहोमं ततो हुत्वा प्रधानादि यथाक्रमम् | शान्तिदुर्गामनुं होमं तत्तन्मासर्क्षदेवताः | पञ्चब्रह्मं च प्रासादं सहस्रं च हुनेत्प्रिये | स्थापयेद्वेदि मध्ये तु सहस्रं चोत्तमं शिवे || तदर्धार्धं च संपूज्य कलशान् विधिवद्गुरुः | जपपारायणं कुर्यात् उद्दिश्यदिवसान्तकम् || पूर्णाहुति हुनेदन्ते तद्घटान् सेचयेद्गुरुः | शतरुद्रं चातिरुद्रं तत्तत्कल्पोक्तमार्गतः || सेचयेत्तव लिङ्गं च महापञ्चामृतैः पृथक् | नानासूक्तैश्चाभिषिच्य ततो गन्धविलेपयेत् || पूजयेत्तव लिङ्गं च नानापत्रैः प्रसूनकैः | धूपदीपं च नैवेद्यं षड्रसान्नैश्च भक्षकैः || फलपक्वं च ताम्बूलं नीलाजनमनन्तरम् | प्. २५) बलिदानं ततो दद्यात् ब्राह्मणान् भोजयेद्बहून् || रात्रौ दीपोत्सवं देवि रङ्गपूजां समाचरेत् | महाभूतबलिं दद्यात् दशदानं प्रदापयेत् || इन्दु-ऋक्षादिनाशे च तद्रूपप्रतिमां प्रिये | कारयेत्स्वर्णजं दद्याद्दक्षिणां च विशेषतः || भूरिदानं ततो दद्यात् कृच्छ्रदानं ततः परम् | आचार्यं पूजयेद्भक्त्या वाहनैर्भूषणादिकैः || गोभूम्यादिनि दत्वा तु दक्षिणां च स्वशक्तितः | ब्राह्मणं च सदस्यं च होतृकादि यथाक्रमम् || तत्तदंशं दक्षिणां च दापयेच्च पृथक् पृथक् | इत्येवं कारयेच्छान्तिं सर्वमङ्गलं नृणाम् || राजामात्यप्रजानां च सर्वेषां वृद्धिदं शिवे | इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे इन्दुनक्षत्रनाशकेतुदर्शनशान्तिविधिर्नाम द्विचत्वारिंशत्पटलः || श्रीदेव्युवाच - श्रुतं देव मया सर्वं नित्यनैमितिकाधिकम् | प्रायश्चित्तविधिं सम्यक् त्वयोक्तो मे सदाशिव || इदानीं श्रोतुमिच्छामि उत्पाता बहवो भुवि | कथते दुद्बलं देव कारणं वद साम्प्रतम् || तेषां नाम कथं देव दोषाणां च कथं पृथक् | तच्छान्तिश्च कथं शम्भो वदस्व कृपया शिव || ईश्वर उवाच - साधु देवि त्वया पृष्ठ उत्पाता बहवोद्भवाः | कथं चेदुद्भवं देवि कारणं शृणु तत्वतः || केचित् स्थानविनाशाय केचिन्मृत्युभयं शिवे | केचिच्छत्रुभयं नॄणां दुर्भिक्षं जायते भुवि || केचिद्वसुहरं नॄणां ग्रामे जनपुरक्षयम् | एवमादिषु कालेषु उत्पाद्यन्ते मया भुवि || तस्माज्ज्ञात्वा नृणां श्रेष्ठः तद्दोषशमनाय च | शान्तिं कुर्वीत विधिवत् सर्वप्राणि हिताय च || प्. २७) तेषां नामानि वक्ष्यामि क्रमेण शृणु पार्वति | भूमिकम्पं दिशां दाहं प्रतिसूर्यस्य दर्शनम् || दिवा नक्षत्रमुत्पन्नं रात्राविन्द्रधनुस्थितम् | निशिनक्षत्रनाशे च इन्दुक्षयदिने शिवे || मासौ चेदधिके न्यूना उभौ प्राप्ते च वत्सरे | क्रूरारिग्रहयोगे च पञ्चमे वाथ सप्तमे || द्वात्रिंशत्केतुरुत्पन्ने अन्यैश्च बहुभिश्शिवे | वह्निवृष्टिस्तथा भूमौ रुधिरस्रावपातनम् || दिव्यन्तरिक्षभूम्यां च जायते च महेश्वरि | देवालये गृहे वापि ग्रामेवा नगरे स्थले || पत्तने राजधान्यां च वने चोपवनेऽपि वा | नदीतीरे तटाके वा कानने पर्वते स्थले || सिन्धुतीरे च दिक्स्थाने भूम्या * * * * * * | * * * * * * * * राजलक्ष्मीबहिर्गते || तद्बिम्बं च प्रयत्नेन पुनः प्राप्ते गुरुः प्रिये | शान्ति कुर्याच्च संपूज्य उत्सवं च समारभेत् || प्. २८) यदि नाशादिके बिम्बे यथापूर्वोक्तलक्षणम् | नवं बिम्बं च कुर्वीत प्रतिष्ठाशान्तिमाचरेत् || तिष्ठत्यूर्ध्वमुखे बिम्बे करपादविहीनके | अधोमुखाद्यनेकानि हीनास्यकृशवामनाः || दर्शनं चेदिदं बिम्बं विस्मयीकृत्य तत्क्षणात् | वेतालक्षेत्रपालाश्च भूतबाधा च वर्धते || सर्पव्याधिभयं राज्ञः देशे तत्र प्राजायते | तद्दोषशमनार्थाय प्रायश्चित्तं समाचरेत् || तवलिङ्गादिबिम्बे च बिम्बदोषादिकान् क्रमात् | सम्यगुक्तं मया देवि तच्छान्तिं विस्तराच्छृणु | भिन्नदोषादिके प्राप्ते यथावदनुपूर्वशः | आचार्यं भोजयेत्पूर्वं पायसेन घृतेन च || हेमरत्नादिकं तस्य दातव्यं वाहनादिकम् | मण्टपं देवदक्षस्थे कलशं पूर्ववद्यजेत् || होमं कृत्वा विधानेन संहारोक्तेन देशिकः | लिङ्गमभ्यर्च्य सन्तर्प्य त्रितत्वं च विसर्जयेत् || प्. २९) द्वारमाच्छाद्य वस्त्रेण फलपक्कं निवेदयेत् | ततः सन्धाय पूर्वोक्तं लिङ्गं वा बिम्बमेव वा || प्रायश्चित्तं प्रकर्तव्यं गुरुः कुर्यान्महेश्वरि | तवाग्रे चेशभागे च उत्तमोत्तममण्टपम् || नवकुण्डं प्रकल्प्याथ यथापूर्वोक्तमार्गतः | रचयेन्मण्टपं देवि द्वारतोरणभूषणैः || सुतिथौ च सुनक्षत्रे सुयोगकरणान्विते | प्रायश्चित्तं प्रकुर्वीत सद्योवाथमहेश्वरि || ततः प्रातः समुत्थाय ब्राह्मणैः सह देशिकः | नित्यकर्माणि निर्वर्त्य मृत्तिकास्नानपूर्वकम् || धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः | देवालयं ततो गत्वा प्रार्थयेच्च महेश्वरि || उपविश्यासने मन्त्री पूर्वे वा चैशकोणके | प्राणायामं ततः कुर्यान्मातृकादि यथाक्रमम् || न्यासं कृत्वा ततो मन्त्री गुरुवन्दनपूर्वकम् | दिनमुद्दिश्य संकल्प्य पञ्चसप्त नवाहकम् | प्. ३०) ममात्मजं प्रपूज्याथ नान्दीपुण्याहमाचरेत् | वरयेद्भूसुरान् देवि पूर्वोक्तलक्षणैर्युतान् || गुरुं विधिं च धनदं सदस्यं चाष्टमूर्तिपान् | होमसङ्ख्यमितान् देवि होतृभिश्च यथोक्तवत् || जपार्थं च तदर्धं स्यात् वेदपाठार्थषोडशान् | परार्थं दश विप्रांश्च रुद्रसंख्यांश्च सेचकान् || पूजार्थं दशविप्रांश्च नमस्कारप्रदक्षिणे | षड्जनान् वरयेन्मन्त्री मधुपर्कं च दापयेत् || वस्त्रालङ्कारकं दद्यात् फलताम्बूलमेव वा | अङ्कुरार्पणपूर्वं च मृत्तिकाहरणं गुरुः || ध्वजारोहे ततः पश्चात् नवरात्रौ महेश्वरि | एक त्रिपञ्चरात्रौ तु ध्वजं वा पूजयेद्गुरुः || सायं सन्ध्यामुपास्याथ यागगेहं प्रविश्य च | पुण्याहं पञ्चगव्यं च कुण्डमण्डपशोधनम् || विद्येशादिघटान् स्थाप्य द्वारतोरणकुम्भकम् | तण्डुलाढ्यं जलाढ्यं च राक्षोघ्नं वास्तुहोमकम् || प्. ३१) बलिं च विकिरेद्वास्तो रक्षबन्धक्रियां नयेत् | स्थानशुद्धिघटान् न्यस्त्वा बिम्बशुद्धिं तथैव च || लिङ्गशुद्धिं घटान् स्थाप्य पूजयेद्विधिना गुरुः | वेदपारायणं दिक्षु विदिक्षुस्तमनुं जपेत् || सर्वमन्त्रान् जपेद्देवि तत्तत्सूक्तांश्च मन्त्रतः | अधिवासं च कुर्वीत यथा पूर्वोक्तवद्गुरुः || लिङ्गशुद्धिं ततः पश्चात् पूर्वोक्तद्रव्यमन्त्रकैः | विनिद्रांस्तु ततः कृत्वा तत्परे प्रातरुत्थितः || स्नानसन्ध्याक्रिया नीत्वा पुण्याहं वाचयेत्ततः | देशिकाग्निं समानीय प्राधाने च न्यसेत् प्रिये || तदग्निं जनयेन्मन्त्री होतृभिर्जापकादिकैः | वेदपारायणं सार्धं होमकर्मसमाचरेत् || मूलमन्त्रप्रधानं स्यात् लक्षं वाथ तदर्धकम् | पूर्वादिकुण्डे जुहुयात् कलावृद्धिं च तत्वकम् || शान्तिदुर्गां मृत्युजितं तदर्धं च यथाक्रमम् | विदिक्षु कुण्डे जुहुयात् चतुरस्त्रं पृथक् पृथक् || प्. ३२) समिदाज्यादिकैर्मन्त्री दशद्रव्येण होमयेत् | उपहोमं ततः पश्चात् प्रधानादि यथाक्रमम् || लिङ्गशुद्धिं बिम्बशुद्धिं स्थानशुद्धिमनुं प्रिये | प्रासादं च दिशामन्त्रं ग्रहहोमं च मन्त्रवित् || मूर्तिहोमं गणेशं च क्षेत्रपालमनुं शिवे | सहस्रं च तदर्धं वा सर्पिषा जुहुयात् पृथक् || जपपारायणं कुर्यात् तत्तन्मन्त्रान् बहून् प्रिये | स्थापयेत् कलशान् मन्त्री सहस्रं च यथोक्तवत् || पूजयेच्च ततः पश्चात् स्पृष्टेन्मूलमनुं प्रिये | उद्दिश्य दिवसान्तं च होतृभिश्च पृथक् पृथक् || पूर्वोक्तसंख्यया हुत्वा ततः पूर्णाहुतिं हुनेत् | होमान्ते तव लिङ्गे च कलां संयोज्य देशिकः || स्थापितं जीवकुम्भं च सेचयेन्मन्त्रवित्तमः | निरीक्षाकर्म कर्तव्यं मुखवस्त्रं विसर्जयेत् || ततः पञ्चामृतैर्लिङ्गं सेचयेद्रुद्रमन्त्रतः | नानासूक्तं पावमानैः तत्तन्मन्त्रेण पार्वति || प्. ३३) स्नापयेत्कलशैर्मन्त्री सहस्रैश्च यथाक्रमम् | सेचनान्ते तदुद्वृत्य अष्टगन्धं विलेपयेत् || महापूजां च कुर्वीत नानापुष्पैश्च नामभिः | बिल्वपत्रैर्द्राणपुष्पैः कमलैश्च महेश्वरि || स्वर्णेन निर्मितैः कुर्यात् पूजयेत्तवलिङ्गके | नैवेद्यं बहुधापान्नं भक्षभोज्यैश्च पायसैः || निवेदयेत्ततो मन्त्री मूलमन्त्रेण पार्वति | ताम्बूलं च समर्प्याथ नीराजनमनन्तरम् || बलिदानं ततः कुर्यात् उत्सवं च विशेषतः | दिने दिने प्रकर्तव्यं उद्दिश्य दिवसान्तकम् || दशदानं ततो दद्यात् लिङ्गं स्वर्णमयं प्रिये | बिम्बं वाथ प्रकुर्वीत दक्षिणां च स्वशक्तितः || दद्याच्च गुरवे भक्त्या कृच्छ्रदानं प्रदापयेत् | ब्राह्मणान् भोजयेद्देवि यथा चाहुतिसंख्यया || दक्षिणां दापयेदन्ते आचार्यादि यथोक्तवत् | भूमिदानं ततो दद्यात् गुरुपूजां समाचरेत् || प्. ३४) गोभूम्यादीनि दत्वा तु तन्त्रोपकरणैस्सह | इत्येवं कारयेच्छान्तिं लिङ्गनाशादिके प्रिये || भिन्ने च स्फुटिते दग्धे खण्डिते यत्रकुत्रचित् | तदर्धार्धं च कुर्वीत बिम्बे वाथ महेश्वरि || रोदनादिषु दोषेषु कीटकादि निदर्शने | करपादविहीने तु दर्शने कृशवामने || पतनादिषु दोषेषु तस्यार्धं च तदर्धकम् | शान्तिं कुर्वीत पूर्वोक्तं सर्वदोषनिवारणम् || सर्वशान्तिकरं लोके सर्वसम्पत्करं नृणाम् | चतुरङ्गाभिवृद्धिः स्यात् राज्ञो राज्याभिवर्धनम् || पुत्रपौत्रादि वृद्धिश्च सर्वत्र विजयो भवेत् | सर्वमृत्युहरं शीघ्रं आयुर्वृद्धिकरं प्रिये || सन्निधानं भवेल्लिङ्गे सर्वाभीष्टप्रदं शिवे | गर्भागारादि वक्ष्यामि दोषं शान्तिं क्रमाच्छृणु || गर्भगृहे मण्टपे च प्राकारे गोपुरे तथा | प्रासादादिषु सर्वत्र दहने स्फुटिते सति || प्. ३५) छिन्ने भिन्ने खण्डिते च प्रावेशे मरणे सति | वाहने परिवाराणां ध्वजे वा कलशे यदि || बलिपीठे क्षेत्रपालद्वारपालौ महेश्वरि | दीपस्तम्भे चोर्ध्वमालाश्छत्रचामरकादिषु || शिबिके वाहनादीनां पादुके वाद्यकादिषु | पतिते खण्डिते दग्धे चोरैरपहृते सति || एवमादि समुत्पन्ने राजाराष्ट्रभयं भवेत् | गर्भगृहे च संप्राप्ते राष्ट्रनाशं जनक्षयः || मण्टपे गोपुरे देवि त्रिमासान् सचिवक्षयः | प्रासादादिषु संप्राप्ते सेनानायकनाशनः || वार्नने परिवारेषु यदि प्राप्ते महेश्वरि | चोरमारिभयं तत्र दुष्टबाधा च वर्धते || वस्तुवाहननश्यन्ति त्रिवर्षान्तं न संशयः | ध्वजे वा कलशे भङ्गे बलिपीठे प्रमादतः || क्षेत्रपाले द्वारपाले दीपस्तम्भादिके प्रिये | शत्रुबाधाद्भवेत्सद्यः भूतबाधा च वर्धते || प्. ३६) न सन्निध्यं भवेल्लिङ्गे तत्स्थानं नाशमाप्नुयात् | छत्रचामरसेवादि शिबिके पादुकादिषु || बलिदीपे वाद्यकादि पतिते खण्डिते सति | राज्ञां भोगविनाशः स्यात् गजाश्वपशुनाशनम् || सर्वभङ्गं भवेत्सद्यः ग्रामलक्ष्मीर्बहिर्गता | एवं दोषादिके प्राप्ते शान्तिं पूर्वोक्तमाचरेत् || अघोरं नियुतं हुत्वा मूलमन्त्रं च पार्वति | दिशाहोमं शान्तिदुर्गामृत्युञ्जयमनुं गुरुः || तदर्धार्धं च हुत्वाथ यथादोषबलाबलम् | सहस्रार्धं घटं मन्त्री तदर्धार्धं च सेचयेत् || दानं च विविधं दद्यात् सर्वं पूर्वोक्तमाचरेत् | शान्तिकर्ममयेत्युक्तं लिङ्गबिम्बादिनाशने || सर्वसम्पत्प्रदं नॄणां सर्वदा मङ्गलप्रदम् | देशकोशाभिवृद्धिः स्यात् मम लोके वसेच्चिरम् || इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे लिङ्गबिम्बादिदोषशान्ति सन्धानविधिर्नामत्रिचत्वारिंशत् पटलः || | स्वस्तु | प्. ३७) रथभङ्गप्रवक्ष्यामि काम्ये नैमित्तिके यदि | वत्सराद्युत्सवादीनां आदिमध्यावसानके || शकटादिरथे भिन्ने पथिते शिथिले सति | दग्धे नष्टे खण्डिते च तदङ्गे च महेश्वरि || तवोत्सवे चाद्भुते च यदि प्राप्ते प्रमादतः | दोषं शान्तिं च सन्धानं तत्फलं शृणु पार्वति || चक्रे हीने त्वलक्ष्मी स्यात् तद्ग्रामं नाशनं भवेत् | राज्ञा दण्डे बलं हन्ति धननाशं च पार्वति || तिर्यद्गाण्डे च सचिवं नाशनं पट्टिका भवेत् | मूर्तियुक्पलके स्तम्भे स्वराज्यं पत्तनक्षयम् || पान्तराले च मध्ये वा यदि नम्रे च पार्वति | रोगबाधा च तद्राज्ञः स्वस्त्रीनाशनमाप्नुयात् || रथद्वारादिके नाशे राजलक्ष्मी बहिर्गता | रथभित्तौ विहीनेत्तनन्तले च विहीनके || दुर्भिक्षं प्राप्नुयुस्सर्वे मृत्युबाधां च पार्वति | प्. ३८) शलाके रज्जुबन्धे च सेनानायकमन्त्रिणाम् || नाशनं च भवेन्मृत्युः बलिबेरस्थले शिवे | भौमे चान्तरमध्ये वा खण्डिते म्रियतेऽपि वा || आकुञ्चिते वा पतने तद्राजा मृत्युमाप्नुयात् | बलिबिम्बे च पतने देशिकादिजने सति || देशनाशो भवेत्सद्यः चतुरङ्गबलक्षयः | राजदानी विनश्येत शत्रुबाधा भवेन्नृणाम् || छत्रे चैव पताके वा अलङ्कारविहीनके | यशः कीर्त्यादिकं हन्ति राजभोगं च नश्यति || रथाग्रकलशे भिन्ने रथाग्रे पातिते सति | तद्राज्ञः सर्वभङ्गत्वं दरिद्रत्वं न संशयः || त्रिमासान्मृत्युमाप्नोति राजलक्ष्मीर्बहिर्गता | रज्जुच्छेदे ध्वजे भङ्गे तज्जनेन निपातिते || जयाभिगमनं नास्ति बन्धुनाशं च पार्वति | सर्वाङ्गे शिथिले जाते सर्वार्थं नश्यति ध्रुवम् || रथे वा पतिते देवि खण्डिते भूतले यदि | प्. ३९) तद्राजमरणं सद्यः चतुरङ्गबलक्षयः || तद्राष्ट्रं नाशमाप्नोति त्रिवर्षान्तं न संशयः | दिक्पालं तु ततो वक्ष्ये पतिते च महेश्वरि || सार्वभौमक्षयप्राप्यां गेहाग्नेययां च भूपतिः | यमे क्षयश्चक्रवर्ति मण्डलिकस्तथा सुरे || प्रभुक्षयश्च वारुण्यां वायव्यां प्रभुसारथिः | सोमे मृतिर्मण्डलिकः ईशे भूपसतिक्षयः || तस्माच्छान्तिं प्रकर्तव्या सर्वलोकहिताय च | सर्वदोषहरं नॄणां शान्तिं कुर्यान्नृपोत्तमः || रथभङ्गं तदा राज्ञः दर्शयेन्न कदाचन | आचार्यः शिल्पिभिश्चैव सशिष्यैश्चारकादिभिः || रथभङ्गं तदा दृष्ट्वा पुनस्तत्रैव सन्धयेत् | सुदृढं शिल्पिभिः कुर्यात् * * * * * * * * || पुण्याहं वाचयेत्तत्र विघ्नेशार्चनपूर्वकम् | चक्रादिमन्त्रं जुहुयात् साष्टोत्तरशताहुतिम् || घोरमन्त्रं च तस्यार्धं मूलमन्त्रं च पार्वति | प्. ४०) प्रायश्चित्तं च शान्तिं च दिशामन्त्रं हुनेद्गुरुः || समिदाज्यचरुद्रव्यै तुटिकैस्सर्षपैस्सह | पृथङ्मन्त्रेण होतव्यं तदङ्गे शिथिले गुरुः || स्नापयेद्घटतोयेन साष्टोत्तरशतं गुरुः | भिन्नस्थानं च तद्बिम्बं स्नपयेच्च महेश्वरि || तद्रथं स्नपयेत्पश्चात्तदर्धं च पृथक् पृथक् | पूजयेच्च ततो मन्त्री वेदपारायणादिकैः || दशधा दापयेद्दानं कृच्छ्रदानं महेश्वरि | रथस्य परितो दिक्षु प्रशस्ताश्चान्नराशयः || कूश्माण्डशकलैस्सार्धं ततो भूतबलिं हरेत् | लाङ्गुल्यादिस्फलैस्ताड्य शेषं चोत्सवमाचरेत् || महाशान्तिं ततः कुर्यात् विधानं न गुरूत्तमः | तद्रथं यदि सन्धानं न कृते चेत्तदा शिवे || तव बिम्ब चावरोप्य स्वस्तिसूक्तेन देशिकः | शिबिकाद्यैस्समारोप्य उत्सवं च समाचरेत् || शेषं कर्म समाप्याथ नवं कृत्वा दृढं रथम् | प्. ४१) यथा पूर्वोक्तवत्कुर्यात् त्रिमासे सप्तमे शिवे || तदूर्ध्वे वत्सरे मासे तदृक्षे तत्तिथावपि | बीजकर्मादि तीर्थान्तं पुनरूत्सवमाचरेत् || महाशान्तिं च पूर्वेद्युः गुरुः कुर्याद्विधानतः | रथोत्सवं ततः कुर्यात् ध्वजारोहादिपूर्वकम् || महाशान्तिं प्रवक्ष्यामि विस्तराच्छृणु पार्वति | तवाग्रे मण्टपं कुर्यात् ईशान्ये वाथ देशिकः || द्वात्रिंशद्धस्तपर्यन्तं चतुरश्रं समन्ततः | हस्तमात्रं चोन्नतं स्यात् मध्ये वेदिं सलक्षणाम् || द्वात्रिंशस्तम्भसंयुक्तां चतुर्द्वारं प्रकल्पयेत् | दण्डं संस्थाप्य कुदलीं तोरणैश्चाप्यलङ्कृतम् || द्विहस्तसंमितं कुण्डं चतुरश्रं चतुर्दिशि | विदिक्षु वृत्तकुण्डं स्यात् वेदिकोपरिकल्पयेत् || इन्द्रचैशानयोर्मध्ये वृत्तकुण्डं प्रधानकम् | कुण्डनाभिसमायुक्तं मेखलोपरि शोभितम् || इत्येवं मण्टपं रम्यं शान्तिं कुर्यान्महेश्वरि | प्. ४२) एतद्दिनेषु निश्चित्य सत्यवादी जितेन्द्रियः || दीक्षावान् कर्मनिष्ठज्ज्ञः विप्रानाहूय देशिकः | प्रातः स्नानं प्रकुर्वीत नित्यकर्म समाप्य च || ततो देवालयं गत्वा फलपुष्पं समर्प्य च | प्रार्थयेच्च ततो मन्त्री शान्तिं कुर्यात्तवाज्ञया || ततः कर्माणि कुर्वीत आचार्यादि द्विजैस्सह | निशि सायं दिवा प्रातः कर्मारम्भं समाचरेत् || मण्टपं च प्रविश्याथ आसने चोपविश्य च | गुरुवन्दनपूर्वादि प्राणायामं समाचरेत् || दिनमुद्दिश्य संकल्प्य यथाविभवविस्तरम् | विघ्नेशमर्चनान्द्यादि पुण्याहं पञ्चगव्यकम् || मधुपर्कं च वरयेदाचार्यं यजमानकम् | ब्रह्मणं मूर्तिपान् देवि यथा चाहुतिसंख्यया || दिनसङ्ख्यमितं ज्ञात्वा वरयेद्वृत्विजान् क्रमात् | वेदपारायणार्थं तु षोडशब्राह्मणान् शिवे || जपार्थं च शतार्धं स्यात् सेवनार्थं च पार्वति | प्. ४३) रुद्रसङ्ख्यान् पूजनार्थं दशविप्रान् पृथक् पृथक् || प्रदक्षिण नमस्कारान् षड्घनांश्च महेश्वरि | चारार्थं दशविप्रांश्च प्रत्येकं वरयेद्गुरुः || वस्त्रं च भूषणं दत्वा फलताम्बूलमेव वा | देशिकं मकुटाद्यैश्च स्वर्णयज्ञोपवीतकैः || दुकूलपादुकाद्यैश्च छत्रव्यजनपात्रकैः | सुवर्णकुण्डलं चैव अङ्गुलीयं महेश्वरि || दत्वा विभवसारेण देशिकं तु समर्चयेत् | मण्टपं शोधयेत्पश्चात् संमार्ज्य विप्रगोमयैः || देवालये वितानाद्यैः तोरणैश्चाप्यलङ्कृतम् | दर्भदाम्ना च तान्वेष्ट्य संस्कारं च दशाष्टकान् || मण्टपान्तस्थकुम्भानां स्थापयेत्पूजयेद्गुरुः | अङ्कुरं तु प्रकुर्वीत सद्यो वाथ महेश्वरि || वास्तुराक्षोघ्नहवनं बलिपूजां समारभेत् | रक्षासूत्रं बन्धयित्वा आचार्यादि द्विजान् पृथक् || वेदपारायणं कुर्यात् तत्तन्मन्त्रं जपेत्प्रिये | प्. ४४) रात्रौ जागरणं कृत्वा निराहारो जितेन्द्रियः || ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च | पुण्याहं च ततः कुर्यात्कलशान् साधयेत्प्रिये || सहस्रं चोत्तमं देवि पूजयेच्च यथाविधि | जननाग्निं प्रतिष्ठाप्य गुरुकुण्डस्थपावके || विहरेदन्यकुण्डेषु अग्निकार्योक्तमाचरेत् | अग्निमध्ये समावाह्य तव मूलेन पार्वति || अघोरं पूर्वकुण्डे तु आग्नेययां च सुदर्शनम् | मृत्युञ्जयं दक्षिणे स्यात् पञ्चदुर्गांश्च राक्षसे || देव्यास्त्रं वारुणे देवि प्रासादं च ममात्मकम् | वायव्यकुण्डेमावाह्य सोमे तत्त्वं कलां हुनेत् || ईशान्ये शान्तिदुर्गां च तत्तन्मन्त्रेण पार्वति | अष्टमूर्तीस्समावाह्य मूर्तिपाश्च ततो हुनेत् || घोरमन्त्रं चायुतं स्यात् मूलमन्त्रं तथैव च | तस्यार्धार्धं च जुहुयात् तत्तत्कुण्डे च पार्वति || गणेशक्षेत्रपालांश्च दिक्पालांश्च हुनेत् पृथक् | प्. ४५) नवग्रहान् मूर्तिमन्त्रान् रथदेवान् हुनेद्गुरुः || समिदाज्यचरुद्रव्यैः त्रुटिकैस्सर्षपैस्सह | गोधूमं च पृथक् लाजान् सक्तुं व्रीहिं च पार्वति || तत्तन्मन्त्रेण होतव्यं उद्देशत्यागपूर्वकम् | पूर्णाहुतिं हुनेदन्ते उद्दिश्य दिवसे गुरुः || स्नपयेद्घटसाहस्त्रैः रुद्रमन्त्रैश्च सूक्तकैः | महापूजां प्रकूर्वीत बहुधा च निवेदयेत् || बलिदानं ततः कुर्यात् दशदानं प्रदापयेत् | ब्राह्मणान् भोजयेत्पश्चात् यथा चाहुतिसङ्ख्यया || कुम्भसंख्याथवा देवि भक्षभोज्यैर्यथेप्सितम् | भिन्नस्थानं च तद्गात्रौ संहारोक्तेन मार्गतः || रथपूजां च होतव्यं स्नपनं कारयेत्प्रिये | तद्देवांश्च विसृज्याथ महाभूतबलिं हरेत् || स्वर्णं वा राजतं वाथ रथं कृत्वा तु दापयेत् | दानानि बुहुधा दत्वा भूरिदानं च कारयेत् || महोत्सवं ततः कुर्यादाचार्यं पूजयेत्प्रिये | प्. ४६) गोभूम्यादीनि दत्वाथ द्रविणं च यथेप्सितम् || तत्रोपकरणं देवि सवस्त्रप्रतिमान्वितम् | कलशान् मण्टपं देवि दापयेत्पूर्वकं रथम् || देशिकं तोषयेद्देवि सर्वदोषनिवारणम् | दक्षिणां दापयेद्भक्त्या कर्म कुर्याच्च भूसुरान् || शान्तिकर्म समाप्याथ तव लिङ्गे गुरूत्तमः | इत्थं कुर्वीत यो भक्त्या रथभङ्गे च पार्वति || सर्वदोषहरं नॄणां सर्वारिष्टनिवारणम् | चिरायुष्यं मुदं भूपो पुत्रपौत्रसमन्वितः || स्थिरां लक्ष्मीमवाप्नोति चतुरङ्गबलान्वितः | भुक्त्वा च विपुलान् भोगान् कीर्तिमान् धनवान् भवेत् || रथभङ्गेत्विदं देवि प्रायश्चितमिदं शुभम् | इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे रथभङ्गप्रायश्चित्त निरूपणविधिर्नाम चतुश्चत्वारिंशत्पटलः || प्. ४७) अतः परं प्रवक्ष्यामि शृणु देवि यथाक्रमम् | वाहनार्थं गजाश्वाद्यैः वृषभैश्चाप्यलङ्कृतैः || एतत्प्राणिविरोधेन पतिते रक्तपातने | नखदन्तक्षते शृङ्गी घाते यदि मृते सति || यदि विघ्ने च संप्राप्ते नित्यबल्यादि चोत्सवे | पक्षे मासोत्सवे देवि अयने वत्सरोत्सवैः || आदिमध्यावसाने तु यदि प्राप्ते महेश्वरि | बहुधा शत्रुबाधा स्यादनावृष्टिर्भविष्यति || दुर्भिक्षं संभवेल्लोके महामारिभयं नृणाम् | निधनं प्राप्नुयाद्राजा राजलक्ष्मीर्बहिर्गता || न सान्निध्यं भवेल्लिङ्गे यदि नष्टे च पार्वति | तस्मात्तद्दोष शान्त्यर्थं महाशान्तिं समाचरेत् || न कृते कर्मबाहुल्ये तत्काले शान्तिमाचरेत् | कर्मारम्भावसानान्तं शेषं चोत्सवमाचरेत् || तदूर्ध्वमासे संप्राप्ते तदृक्षे तत्तिथावपि | त्रिमासे पञ्चमे वापि सप्तमे नवमे शिवे || प्. ४८) महाशान्तिं च कुर्वीत विधानं शृणु पार्वति | गुरुर्देवाग्रतः कुर्यात् उत्तमोत्तममण्टपम् || सवेदिकासमायुक्तं सर्वभूषणभूषितम् | द्विहस्तं संमितं कुण्डं सयोनिनाभिसंयुतम् || वेदिकाया मध्यमस्य परितः कुण्डकल्पनम् | चतुरश्रं तु वृत्तं वा प्रधानं परिकीर्तितम् || चतुर्दिक्षु प्रकुर्वीत चतुरश्रं च कुण्डकम् | त्रिमेखला समायुक्तं गुरूस्तल्लक्षणोक्तवत् || द्विजानाह्वापयेद्रात्रौ विघ्नेशार्चनपूर्वकम् | नान्दीमुखं च पुण्याहं मधुपर्कसमन्वितम् || वरयेद्ब्राह्मणान् सर्वान् आचार्यादीन् पृथक् पृथक् | सद्योऽङ्कुरं प्रकर्तव्यं कुण्डमण्टपशोधनम् || वास्तुराक्षोघ्नहवनं बलिं वास्तोस्समाचरेत् | विद्येशादि घटान्यष्ट्वा तोरणं गड्डुकादिकम् || स्थापनं च ततः कुर्याद्रक्षाबन्धं समाचरेत् | स्थानशुद्धिं ततः कुर्यात्तत्स्थाने च महेश्वरि || प्. ४९) खननं हरणं दाहं पूरणं गोनिवासनम् | विप्रोच्छिष्टं च गव्यं च स्थानशुद्धिरियं प्रिये || संमार्जनोपलेपं च विकिरेत्सर्वपाटिकान् | रक्षाबन्धं ततः कुर्याद्दर्भदाम्ना च वेष्टयेत् || वास्तोष्पतेति मन्त्राभ्यां पावमानमुदीरयेत् | भूसूक्तब्रह्मसुक्ताभ्यां तत्स्थानं प्रोक्षयेद्गुरुः || वेदपारायणं कुर्याज्जपेन्मन्त्रं यथोक्तवत् | ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च || विघ्नेशमर्च्य पुण्याहं सङ्कल्पविधिपूर्वकम् | दिनमुद्दिश्य सङ्कल्प्य होमकर्म समारभेत् || ब्रह्माणं च सदस्यं च शतार्धान् होतृका प्रिये | नानासूक्तादि मन्त्रज्ञान् दशपञ्च महेश्वरि || चतुरो वेदपाठार्थं चतुर्दिक्षु यथाक्रमम् | परार्थं षड्घनान् देवि रुद्रसंख्यंश्च सेचकान् || पूजार्थं दशविप्रांश्च नमस्कारप्रदक्षिणे | एकमेकं पृथक् मन्त्री ब्राह्मणैश्च समन्वितः || प्. ५०) यागगेहे चोपविश्य आसनेषु यथाक्रमम् | प्रधाने मध्यमे कुण्डे होतृभिर्दशभिस्सह || धनदेन सदस्येन ब्रह्मणा सह देशिकः | कुण्डसंस्कारपूर्वं च जनयेत्पावकं शिवे || अघोरेणायुतं होमं उद्देशत्यागपूर्वकम् | प्रत्येकं दशभिर्विप्रैः चतुर्दिक्षु पृथक् पृथक् || होमयेन्मनुना देवि ऋत्विग्भिः सह देशिकः | उदुम्बरशमीदूर्वा खदिरं च पलाशजम् || तत्तत्कुण्डेषु जुहुयात्प्रधानादि यथाक्रमम् | घृतं चरु तिलं चैव सर्षपं तुटिकं तथा || मरीचं जीरकं लाजं पृथुकं च हुनेत्पृथक् | पूर्वोक्तसंख्यया हुत्वा अन्यमन्त्रन् यथाक्रमम् || मृत्युञ्जयमनुं पूर्वे दक्षे पाशुपतं मनुम् | शान्तिदुर्गा पश्चिमे च मूलमन्त्रमन्त्रं तु चोत्तरे || प्रत्येकमयुतं चैव कुण्डे कुण्डे यथाक्रमम् | होमयेन्मनुना देवि जपेयुर्ब्राह्मणोत्तमाः || प्. ५१) नवग्रहं वास्तुशान्तिं राक्षोघ्नं भुवनेश्वरीम् | चतुरस्त्रं क्षेत्रपालं गणेशं च सरस्वतीम् || मृत्युञ्जयं च प्रासादं सप्तशत्यादिकं जपेत् | स्नपयेद्घटसाहस्रैः तदर्धैर्वा महेश्वरि || पूर्वोक्तेनैव संपूज्य सवस्त्रप्रतिमादिकैः | औषधं च विनिक्षिप्य मूलमन्त्रं जपेत्प्रिये || होमान्ते सेचयेद्देवीं रुद्रमन्त्रैश्च सूक्तकैः | लिङ्गं पञ्चामृतैः स्नाप्य गन्धैरालिप्यदेशिकः || पूजयेद्बहुधा मन्त्री नैवेद्यं बहुधा शिवे | वल्युत्सवं ततः पश्चाद्गोभूम्यादीनि दापयेत् || गजाश्ववृषभं गत्वा पुनस्सन्धानमाचरेत् | दक्षिणां च ततो दद्याद्यथा विभवविस्तरम् || ब्राह्मणान् भोजयेत् पश्चात् सहस्रं च महेश्वरि | देशिकं तोषयेदन्ते तत्रोपकरणैस्सह || शान्तिकर्ममयेत्युक्तं सर्वदोषनिवारणम् | सर्वपापहरं देवि सुभिक्षं तत्क्षणाद्भवेत् || प्. ५२) राज्यदुर्गादिवृद्धिस्स्याच्चतुरङ्गबलपदम् | सर्वशत्रुहरं सद्यः स्थिरां लक्ष्मीमवाप्नुयात् || इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे गजाश्ववृषभादिशान्तिविधिर्नाम पञ्चचत्वारिंशत्पटलः || अथातः संप्रवक्ष्यामि शस्त्रधारनृणां प्रिये | सेनानायकभृत्यानामन्येषां समवायिनाम् || परस्परविरोधेन युद्धे जाते महेश्वरि | मुष्टियुद्धे दण्डयुद्धे नखदन्तक्षते सति || पाषाणैरायुधाद्यैश्च क्षते जाते महेश्वरि | पतिते रक्तजाते च मनुजे च मृते यदि || विघ्ने जाते तत्काले नित्यनैमित्तिकेऽपि वा | उत्सवे बलिकाले वा दोषं शान्तिं शृणु प्रिये || मुष्टियुद्धे महारोगं दण्डयुद्धे कुलक्षयम् | नखदन्तक्षये देवि दुर्भिक्षं जायते भुवि || प्. ५३) पाषाणसंभवे युद्धे प्रजा नाशत्वमाप्नुयात् | अनावृष्टिरथान्यत्वं शोणिते पतिते यदि || क्षते जाते मनुष्याणां मानिनो भङ्गमाप्नुयुः | मरणं च यदि प्राप्ते राजा मरणमाप्नुयात् || तव लिङ्गेन सान्निध्यं चतुरङ्गबलक्षयम् | श्रियमायुर्हरेच्छीघ्रं ग्रामन्तं नाशमाप्नुयात् || तद्दोषशमनार्थाय प्रायश्चित्तं वदाम्यहम् | पूर्वोक्तमण्टपं कुर्यान्नवकुण्डं च पञ्च वा || सलक्षणं च कुर्वीत द्वारतोरणभूषितम् | तवालयं च संभूष्य क्षालयेद्गोमयोदकैः || ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च | आदौ गणपतिं पूज्य नान्दीकर्म ततः परम् || पुण्याहं पञ्चगव्यं च प्रोक्षयेन्मनुना गुरुः | वरयेद्भूसुरान् देवि पूर्वोक्तद्विजसंख्यया || मधुपर्कं च दत्वाथ शोधयेन्मण्टपो गुरुः | द्वारतोरणकुम्भांश्च पूजयेत्स्वस्वनामभिः || प्. ५४) वेदपारायणं कुर्याच्चतुरस्त्रं जपेत्प्रिये | वास्तुरक्षोघ्नहवनं बलिपूजां समाचरेत् || देहशुद्धिं ततः कुर्यात्तत्स्थानं शोधयेद्गुरुः | खननादि विशुद्धिं च संमार्ज्य प्रोक्षणादिभिः || भूसूक्तं पावमानं च विष्णुसूक्तं च पार्वति | वास्तुसूक्तेन विकिरेत्सर्षपञ्चास्त्रमन्त्रतः || रक्षाबन्धं ततः कुर्यादधिवासनमारभेत् | पूर्वोक्तेन विधानेन तत्तत्कुण्डांश्च होमयेत् || भूबीजं च ततो हुत्वा अष्टोत्तरशतं प्रिये | भूतेभ्यश्च बलिं दत्वा गेहस्य परितो गुरुः || नृत्तगीतसमायुक्तं पुनस्सूर्योदयान्तिकम् | पुनः प्रातसमुत्थाय नित्यकर्म समाप्य च || पुण्याहं वाचयेत्पश्चाल्लिङ्गशुद्धिं समाचरेत् | बिम्बप्रासादशुद्धिं च तत्तन्मन्त्रैश्च द्रव्यकैः || शोधयेच्च ततो मन्त्री यागगेहं प्रविश्य च | ब्रह्मणा धनदेनाथ होतृभिश्च यथोक्तवत् || प्. ५५) उपविश्य यथान्यायं प्रतिकुण्डे महेश्वरि | जननाग्निं च कुर्वीत विहरेदन्यकुण्डके || होमयेन्मूलमन्त्रेण अयुतं च महेश्वरि | आधारं पूर्वकुण्डे तु आग्नेययां तु तवास्त्रकम् || यामे मृत्युञ्जयं चैव दिशाहोमं तु राक्षसे | प्रासादं वारुणे देवि वायव्ये शान्तिदौर्गकाम् || कलावृद्धिं सौम्यदेशे पञ्चब्रह्माणमीशके | होमयेच्च पृथङ्मन्त्री यथापूर्वोक्तसङ्ख्यया || पूर्वोक्तद्रव्यहोमाञ्च उपहोमं च पूर्ववत् | पूर्णाहुतिं हुनेदन्ते स्नपयेत्कलशैः प्रिये || सहस्रैर्विधिवन्मन्त्री तदर्धार्धेन वा शिवे | पञ्चामृतं द्रोणमितं क्षीरादिद्रव्यपञ्चकम् || फलपञ्चामृतं देवि महारुद्रैर्यथाविधि | अन्यसूक्तैश्च संस्नाप्य उद्वर्त्यामलकैश्शिवे || अष्टगन्धं समालिप्य नानापुष्पैश्च पूजयेत् | शाल्यान्नं पञ्चभक्षाद्यैः नैवेद्यं च समर्पयेत् || प्. ५६) नीराजनं च ताम्बूलं प्रसन्नयजनं चरेत् | दानं दशविधं दत्वा यथाशक्त्या बहून् प्रिये || तिलं च पुरुषं कृत्वा स्वर्णं वाथ महेश्वरि | दक्षिणां दापयेद्भक्त्या यथाविभवविस्तरम् || बलिदानं चोत्सवं च ब्राह्मणान् भोजयेद्बहून् | रात्रौ दीपोत्सवं कुर्याद्भूतेभ्यश्च बलिं हरेत् || क्रियासमर्पणं देवि कृच्छ्रदानं च दापयेत् | दक्षिणां दापयेद्भक्त्या आचार्यादियथाक्रमम् || इत्येवं कारयेद्देवि सर्वदोषहरं नृणाम् | पुत्रपौत्रादिसम्पत्तिस्सर्वत्र विजयो भवेत् || सर्वमृत्युहरं शीघ्रं आयुर्वृद्धिकरं मुहुः | तव लिङ्गे च सान्निध्यं सर्वप्राणिसुखं भवेत् || क्षते जाते नृणां देवि नाशनं च मिदं महत् | चतुष्पदाञ्च द्विपदां वन्यानां दुष्टजीविनाम् || प्रवेशे मरणे प्राप्ते पूर्ववद्दोषसंयुते | प्रायश्चित्तं तदर्धं वा यथा दोषबलाबलम् || प्. ५७) शान्तिं कुर्वीत मन्त्रज्ञः यथापूर्वोक्तमार्गतः | इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे द्विपदचतुष्पदप्रवेशमरणमुष्टियुद्धविरोधशान्तिविधिर्नाम षट्चत्वारिंशत्पटलः || अतः परं प्रवक्ष्यामि पत्तनादिगृहेषु च | उत्पाते चोद्भवे देवि प्रायश्चित्तं शृणु प्रिये || पत्तने राजधान्यां च तव क्षेत्रे च दुर्गके | राज्ञां गेहे चान्यगृहे द्विजादीनां महेश्वरि || अनड्वान् महिष व्याघ्र खरोष्ट्रादि प्रवेशने | यदि गेहे चाधिरोहे यद्यकस्मान्महेश्वरि || तत्स्थानं नाशमाप्नोति महिषी मृतिमाप्नुयात् | प्रवेशे मरणे प्राप्ते यत्र कुत्र स्थले शिवे || त्रिमासान्मृत्युमाप्नोति राजपीडा भवेत्सदा | मधुपञ्जरसंभूते छत्रकै च पिपीलिके || प्. ५८) वल्मीके यत्र दृश्यन्ते तद्गृहे पीड्यते सदा | मृत्युबाधा भवेच्छीघ्रं यजमानस्य पार्वति || गोवधे स्त्रीवधे चैव सरटोडुप्रवेशने | व्यालाजगरगृध्रादि प्रवेशे मरणे सति || तद्ग्रामनाशनवथे यजमानं न संशयः | तस्य पुत्रस्य भ्रात्रा वा व्याधिना पीडिते भृशम् || मण्डूकेऽग्निमृते देवि कुण्डे कुम्भसमुद्भवे | कपोतकाक-ऋक्षादि यदि गेहे प्रवेशने || गोनाशं जननाशं च अर्थनाशं च पार्वति | राजपीडा रिपुभयं मृत्युबाधा च वर्धते || अन्यैर्वा प्राणिभिर्दुष्टैः दूषिते च महेश्वरि | प्रवेशे मरणे तस्मिन् सर्वार्थं नश्यति ध्रुवम् || दिक्फलं च प्रवक्ष्यामि प्रवेशादि यथाक्रमम् | पूर्वे पूत्रविनाशं स्यादाग्नेये स्त्रीविनाशनम् || दक्षिणे शत्रुवृद्धिस्यान्नै-ऋ-ऋते चार्थनाशनम् | वारुणे मृत्युबाधा स्याद्वायव्ये व्याधिपीडनम् || प्. ५९) सोमे नृपभयं देवि ईशे सर्वार्थनाशनम् | प्रवेशद्वारतो गच्छे मासमेकं गृहं त्यजेत् || यदि द्वारान्तरं देवि षण्मासं तु विवर्जयेत् | गृहमध्ये प्रवेशे च वत्सराणां न संशयः || तद्गृहं वर्जयेद्देवि शयनासनभोजनम् | गमनं देवि तच्चैव विशेषेण विवर्जयेत् || द्वारे कण्टकपाषाण लोष्टान्यन्यानि पूरयेत् | देवालये राजगृहे वर्जयेन्न कदाचन || सद्यः शान्तिं प्रकर्तव्यं यथापूर्वाक्तमार्गतः | पत्तने वा गृहे देवि सप्तरात्रं विवर्जयेत् || ततः शान्तिं च कुर्वीत सर्वदोषनिवृत्तये | तच्छान्तिं च प्रवक्ष्यामि राज्ञः गेहे द्विजादिषु || प्रवेशस्थानदेशे वा पूर्वे वाथ गृहोत्तरे | मण्टपे वा प्रपांयां वा कुर्वीत समलङ्कृते || तोरणैरङ्गवाल्यादि कुण्डं वा स्थण्डिलं शिवे | तत्स्थानं शोधयेत्पूर्वं खननं च मृदं त्यजेत् || प्. ६०) लवणं वा मृदं पूर्य क्षालयेद्गोमयोदकैः | चन्द्रतारानुकूले च रुद्रक्षेत्र तिथावपि || तद्दिने च प्रकर्तव्यं शान्तिं चैव विधानतः | ततः प्रातः समुत्थाय आचार्यो भूसुरैस्सह || मृत्तिकास्नानपूर्वं च कुशगोमयभस्मना | स्नानं कृत्वा विधानेन सन्ध्यादि जपतर्पणम् || नित्यकर्मं विधायाथ गृहमागत्य देशिकः | गुर्वादिवन्दनं कृत्वा विघ्नेशार्चनमाचरेत् || पुण्याहं पञ्चगव्यं च प्रोक्षणं प्राशनं प्रिये | नान्दीं संवाच्य पूर्वोक्तं मधुपर्कं यथाविधि || आचार्यं वरयेत्पश्चाद्ब्राह्मणं धनदं शिवे | ऋत्विजान् वरयेत्प्राज्ञः त्रिपञ्च-ऋषिसंख्यकान् || जपार्थं वेदपाठार्थं वरयेच्च पृथक् पृथक् | गृहशुद्धिं ततः कुर्यात्प्रोक्षणैः पावमानकैः || यवं च सर्षपं चैव माषमुद्गं विकीर्य च | संमार्ज्यालिप्य गन्धैश्च वायुमन्त्रेण चास्त्रतः || प्. ६१) भूसूक्तं पावमानं च सर्वत्र प्रोक्षयेद्गुरुः | द्वारस्तम्भौ च संपूज्य राक्षोघ्नं होमयेत्ततः || वास्तुहोमं ततः कृत्वा विकिरेच्च बलिं गुरुः | रक्षाबन्धं ततः कुर्यात्तत्परे दिवसे गुरुः || गृहशुद्धिं ततः कुर्यादाचार्यो ऋत्विजैस्सह | कलशस्थापनार्थाय व्रीहिराशिं प्रकल्पयेत् || खारिद्वयं तदर्धं वा ततो न्यूनं न कारयेत् | तद्रोणकुम्भं सुश्लक्ष्णं स्थापयेदव्रणं घटम् || नवपञ्चैककलशं पूजयेद्विधिना गुरुः | पञ्चपल्लवसंयुक्तं पञ्चगव्यसमन्वितम् || पञ्चरत्नसमायुक्तं पूरयेतीर्थवारिणा | पलार्धेन सुवर्णेन कर्षेणाथ स्वशक्तितः || प्रतिमां कारयेद्भक्त्या त्र्यम्बकं च शचीपतिम् | अघोरं लोकपालांश्च गणेशं च नवग्रहान् || दुर्गां च क्षेत्रपालांश्च तत्तद्रूपान् पृथक् पृथक् | कलशेषु विनिक्षिप्य वस्त्रयुग्मेन वेष्टयेत् || प्. ६२) पूजयित्वा ततो मन्त्री तत्तन्मन्त्रं जपेत् पृथक् | उपचारैः षोडशभिः यद्वा पञ्चोपचारकैः || ततः कुण्डान्तिकं गत्वा स्थण्डिले वा गुरूत्तमः | स्वगृह्योक्तप्रकारेण कुर्यादग्निमुखान्तिकम् || अयुतं च सहस्रं वा मृत्युञ्जयमघोरकम् | नवग्रहं वास्तुमन्त्रं शान्तिदुर्गामनुं हुनेत् || अभयङ्करदिक्पालान् क्षेत्रपालं हुनेत् प्रिये | पालाशसमिदाज्यं च चरु व्रीहि तिलान् पृथक् || हुत्वा पूर्वोक्तवान् मन्त्री जपपारायणं शिवे | ततः पूर्णाहुतिं हुत्वा कलशैश्च यथाक्रमम् || प्रोक्षयेद्यजमानादीन् स्नपयेत्कलशोदकैः | दशदानं ततः कृत्वा भूरिदानं तु दापयेत् || ब्राह्मणान् भोजयेद्देवि यथाशक्त्या बहून् ततः | दक्षिणां दापयेदन्ते आचार्यादि यथाक्रमम् || इत्येवं कारयेच्छान्तिं सर्वारिष्टविनाशनम् | सर्वमृत्युप्रशमनं आयुर्वृद्धिकरं नृणाम् || प्. ६३) इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे देवालय राजगृहद्विजवेश्मादिदुष्टप्राणि प्रवेशनमरणशान्तिविधिर्नाम सप्तचत्वारिंशत्पटलः || देव्यौवाच - महादेव नमस्तुभ्यं महीपतिसुखाय च | महाजनमुदार्थाय राज्यकोशाभिवृद्धये || पूजकाद्याश्च संप्रोक्ता त्वल्लिङ्गे स्नानकर्मणि | सहस्रार्धं घटार्चान्तं स्नानकर्म त्वयेरितम् || नवाधिकसहस्रान्तकलशस्नपनक्रियाम् | कथं वद महाभाग विस्तरेण च मां प्रति || श्रीसदाशिवः - शृणु देवि प्रवक्ष्यामि राज्यार्थं विभवाय च | सहस्रस्नपनं कर्म नवकुम्भाधिकं प्रिये || सूत्रसंख्याश्च वीथिश्च तत्सन्धीन् व्यूहसंख्यकाः | प्. ६४) व्यूहनामान्यौषधानि विस्तरात्कुम्भदेवताः || तासां पूजादि सर्वाणि होमकार्याणि शङ्करि | तव लिङ्गाग्रतः कुर्यान्मण्टपं चोत्तमोत्तमम् || चतुरश्रसमायुक्तमष्टद्वारसमन्वितम् | वेदितोरणभूषादि स्तम्भभूमौ मनुत्तमः || कुण्डखातादिकं सर्वं मम लिङ्गे यथेरितम् | तथा कुर्वीत मतिमान् स्नानकर्मविधानवित् || नित्यनैमित्तिके काम्ये प्रतिष्ठायां महोत्सवे | प्रायश्चित्ते तथोत्पाते युद्धादौ तज्जयादिके || सर्वसन्दिग्धकार्येषु बन्धकर्मणि शाम्भवि | दुर्भिक्षादिषु कालेषु स्नपनं कारयेत्प्रिये || कुम्भसंस्थापनार्थाय सूत्रपातं समाचरेत् | चतुश्चत्वारिञ्च सूत्राणि षट्सूत्राण्यधिकानि च || प्रागग्राण्युदगग्राणि सुसमानि लिखेद्बुधः | तेषु सूत्रेषु मनुविन्मध्ये मध्ये पृथक् पृथक् || हित्वा चैव चतुस्सूत्रं मार्जयीत पदैकतः | प्. ६५) दृश्यन्ते च गतव्यूहा चैव विंशाधिकास्तदा || नवकोष्ठसमायुक्ताः प्रतिव्यूहे पृथक् पृथक् | मार्गद्वादश पूर्वाग्रश्चोत्तराग्रास्तथैव च || चत्वारिंशच्च चत्वारत्स्वधिकाः शतसन्धयः | सन्धिसंख्याश्च वीथीनां मयेत्युक्ता तवानघे || उच्चस्तम्भ चतुष्कस्य मध्यवेद्युच्चतिक्रमात् | सर्वव्यूहाः समाः कुर्युः मध्यव्यूहास्तवात्मकाः || तन्मध्ये च नवव्यूहाः तद्बाह्ये कालिका वृतिः || तन्मध्ये षोडशव्यूहास्तेषां बाह्ये रमावृतिः | चतुर्विंशतितन्मध्ये व्यूहश्चे परिकीर्तिताः || तद्बाह्ये शारदाव्यूहाः द्वात्रिंशत्संयुता गजे | वनदुर्गावृतिस्तेषां बाह्ये व्यूहा महेश्वरि || चत्वारिंशदिति ख्याता मध्यव्यूहं विना प्रिये | व्यूहावरण पञ्चात्र नवव्यूहाश्च मध्यमे || वीथिं विनाथ संमार्ज्य कोष्ठलीनं च था भवेत् | रजोभिः पञ्चभिः पश्चात् श्वेतपीतादिकैः पदम् || प्. ६६) रञ्जयेत्सर्वकोष्ठानि पद्मदष्टदलादिकैः | वीथिश्च श्यामलाभेति रजसा पूरयेत्ततः || तन्मध्यस्थापनव्यूहे मध्यमे च नवाक्षरीम् | कालिकावृत्तिमध्यस्थ व्यूहानां मध्यतोऽष्टके || स्वरान् षोडश संलिख्य प्राच्यादिषु यथाक्रमम् | रमावरणव्यूहानां व्यञ्जनं मध्यमे लिखेत् || शारदाव्यूहमध्ये तु दिग्विदिक्षु च देशिकः | मादि सान्ताक्षरान् लिख्य बालाबीजत्रयं परम् || अवशिष्टव्यूहमध्यकोष्ठके लेखयेद्बुधः | नवदुर्गावृतिस्थानां व्यूहानां मध्यमे पदे || धारणाख्यांश्च नादादि प्रागादि मनुवित्तमः | वर्णन्यासक्रमो ह्येवं पूरयेच्छालितण्डुलैः || तवातुक नवव्यूह मध्ये धान्यं नगोद्भवे | प्रस्थत्रयं पृथक् पूर्व धान्यार्धं तण्डुलं तिलम् || तण्डुलार्धं च संपूर्य पूजयेत्त समूलतः | कालिकावरणव्यूह मध्यकोष्ठे मनूत्तमः || प्. ६७) धान्यप्रस्थद्वयं देवि सार्धप्रस्थं तण्डुलम् | प्रस्थं तिलं च संपूर्य कालिकामनुना यजेत् || रमयावरणव्यूहमध्यकोष्ठेषु शङ्करि | सार्धप्रस्थमितं धान्यं तण्डुलं प्रस्थमुच्यते || तण्डुलार्धतिलं योज्य रमाबीजेन चार्चयेत् | शारदावरणव्यूह मध्ये धान्ययुतं गुरुः || पृथक् प्रस्थं तण्डुलं च धान्यार्धं तत्र कोविदः | तिलं तदर्धं संप्रोक्तं शारदामुख्यबीजकम् (तः) || पृथव्यष्ट्वा सुभक्त्यार्थः षण्मुद्रां दर्शयेत्परम् | नवदुर्गावृतिर्व्यूह मध्यकोष्ठे ततः परम् || पादं न्यूतमितं प्रस्थं धान्यं धान्यार्धमुच्यते | तण्डुलं तण्डुलस्यार्धं तिलं संपूर्य बुद्धिमान् || तैर्बीजैर्नवभिर्यष्ट्वा योनिमुद्रां महेश्वरि | कोष्ठजालेषु सर्वेषु प्रस्थं धान्यं पृथक् पृथक् || धान्यार्धं तण्डुलं पूर्य तण्डुलार्धं तिलं गुरुः | तानि कोष्ठानि संपूज्य तव मूलेन वल्लभे || प्. ६८) तालमानयुतं दर्भं पृथक्कोष्ठोपरि न्यसेत् | सुवर्णरौप्यताम्राद्यैः मृदा मौक्तिक शुक्तिभिः || चषकैः कलशाः कार्याः द्रोणार्धार्धजलान्विताः | जलेन क्षालयेत्सर्वान् वेष्टयेद्गुणतन्तुना || ग्रहदिग्रनिषद्दर्भैः बाणसंख्यादिकैर्गुरुः | कूर्चं कुर्वीत मूलेन तव बीजेन वा प्रिये || घटमन्तस्तदूर्ध्वादः पृथक् कूर्चं त्रयं न्यसेत् | मध्यव्यूहेषु नवसु द्रोणमानघटान् न्यसेत् || सर्वेषु मध्यकोष्ठेषु द्रोणार्धार्धमितान् घटान् | परितश्चोपकोष्ठेषु प्रस्थत्रयमितान् प्रिये || प्रमादेव घटान्न्यस्थां पृथक् पूजीत कोष्ठके | आदावधोमुखान् सर्वान् ततः सन्धूप्यचोन्मुखान् || मध्यव्यूहादि सर्वेषु मध्यकोष्ठादितो गुरुः | यथाक्रमेण कुम्भौघान् न्यस्त्वा संपूजयेत् क्रमात् || नवगन्धाष्टकं देवि लोलयित्वा शुभोदके | तत्तोयेन घटान् सर्वान् पूरयेन्मनुना गुरुः || प्. ६९) चन्दनञ्चैव कर्पूरमगरुं कुङ्कुमं तथा | कपिमांसिरोचनं च चोरगन्धाष्टकं तव || मध्यकुम्भेषु नवसु न वरणं पृथक् न्यसेत् | शेषव्यूहघटेष्वन्तः पञ्चरत्नानि चण्डिके || सार्धनिष्कप्रमाणेन सुवर्णप्रतिमा नव | पृथक् कृत्वाथ तद्बीजं तासुसंलेख्य मान्त्रिकः || मध्यस्थ नवकुम्भेषु पृथङ्न्यस्त्वा यथाक्रमम् | प्रतिमानिष्कमानेन दुर्गाबीजसमन्वितः || काल्यादिव्यूहमध्यस्थ घटान्तर्निक्षिपेद्बुधः | उपकोष्ठस्थ कुम्भेषु निष्कार्धप्रतिमां न्यसेत् || औषधानि प्रवक्ष्यामि मध्यकुम्भादितः परम् | एलापत्रं लवङ्गं च उषिरं नागरं जठम् || जातीपलं च मरुगं दवनान्तं नव क्रमम् | कुम्भेषु नवसु न्यस्त्वा पल्लवांश्च फलानि च || सप्त षट्पञ्चहस्तैश्च युक्तं वस्त्रं दुकूलजम् | श्वेतादिवर्णभेदेन नूतनं गुणितं पृथक् || प्. ७०) नवकुम्भोपरि न्यस्त्वा यष्ट्वा मूलेन भक्तितः | कालिकावरणव्यूह मध्यकुम्भेष्वथ प्रिये || पृथक् द्रव्याणि वक्ष्यामि क्षीरं दधि घृतं मधु | शर्करा पञ्चगव्यं च पञ्चवृक्षोदकं तथा || तिलदर्भयवाश्चैव सर्षपं दाडिमं वचः | मातुलङ्गं निशाख्यं च लाजचूर्णं तथैव च || द्रव्याणि षोडशैतानि मध्यगेषु च विन्यसेत् | काश्मीरं रोचनं कोष्ठं विलङ्गं च मरीचकम् || चन्दनं जीरकं रास्ना द्रव्याण्यष्ट महेश्वरि | तं तेषां परितश्चाष्ट कुम्भजालेषु विन्यसेत् || रमायावरण व्यूह मध्यकुम्भेष्वथोच्यते | सहदूर्वारमाभद्र विष्णुक्रान्ता शतावरी || शक्रवल्ली तथा काशो वाराही भृङ्गपत्रकम् | शमीपत्रमपामार्गद्वयं कर्णिद्वयं तथा || गोपुरं भस्मचणकमुद्गचूर्णं तथाढकी | मासपिष्टं च पनस श्रीफलं नालिकेरकम् || प्. ७१) चतुर्विंशति सङ्ख्यान्तं द्रव्याण्येतानि शङ्करि | प्रागुक्तमध्यकुम्भेषु पृथङ्मूलेन विन्यसेत् || तुलसी बिल्वपत्रं च पारिजातं तमालकम् | हिबें भद्रमुस्ता च पद्मं नीलोत्पलं तथा || रमाव्यूहाष्टकुम्भेषु सर्वेषु परितः क्रमात् | द्रव्याष्टकं पतिव्यूहे न्यसेद्भक्त्या विचक्षणः || शारदावरणव्यूहमध्यकोष्ठगतेषु च | द्वात्रिंशदुदकं वक्ष्ये पुनः प्रागादितः क्रमात् || तुलसीमरुगाख्यं च बिल्वपत्रं च तैर्युतम् | पत्रोदकमिति ख्यातं पद्मं नीलोत्पलं ततः || रक्ताख्यमुत्पलं चेति स्मृतं पुष्पोदकं तव | नारङ्गविकचामोत्थफलैर्युक्तं फलोदकम् || कपित्थसारसं युक्तं वल्कं बोधिपलाशयोः | पिप्पलाख्यमिदं तोयं शुचिर्भूतं तवात्मकम् || पलाशाश्वत्थचूतानां पल्लवैः पल्लवोदकम् | प्रागादिपञ्चकव्यूहमध्यकुम्भेषु विन्यसेत् || प्. ७२) ह्रीबेरं भद्रमुस्ता च कुशाख्यमिति तैर्युतम् | मूलोदकमिति ख्यातं तव सन्निध्यदायकम् || प्रियङ्गुशालिनीवारैर्युक्तं बीजोदकं स्मृतम् | विदार्युत्पलपद्मानां त्रिभिः कन्दैश्च संयुतम् || कन्दोदकमिति ख्यातं श्रीगन्धं चागरुं तथा | निमाख्यं चेति तैर्युक्तं गन्धाम्भस्त्विति कीर्तितम् || तिलैर्यवैश्च सिद्धार्थैस्सिद्धाम्बः कथितं मया | वह्न्यादिदक्षिणव्यूह पंचके मध्यकेषु च || निक्षिपेन्मूलमन्त्रा च वदन् भक्त्या मनुत्तमः | माणिक्कमुक्तवैडूर्यैर्युक्तं रत्नोदकं स्मृतम् || स्वर्णदुर्वर्णताम्रैश्च युतं लोहोदकं मतम् | रविकान्तमयस्कान्तं चन्द्रकान्तं चतैर्युतम् || कान्ताम्भस्तूच्यते देवि मक्षिकत्रयसंयुतम् | माक्षिकाम्भस्तु मध्यस्थे त्वभ्रकत्रयसंयुतम् || अभ्रकोदकमाख्यातं दैत्येशव्यूहपञ्चके | मध्यकोष्ठगतेष्वेशि तव मूलमनुं वदन् || प्. ७३) न्याससूक्तादिमन्त्रेण प्राणमन्त्रं वदन् तदा | कालयाञ्जनसौराष्ट्रैस्संयुतं ज्ञानवारि च || सिन्धूरगैरिकाभ्यां च धातुना सहितं त्रिभिः | धातूदकमिति ख्यातं हरितालं मनश्शिला || कुचन्दनं च तैर्युक्तं रक्तोदकमिति स्मृतम् | सरित्पतिः सरित्क्षेत्रमृद्भिर्युक्तं च मृज्जलम् || त्रिफलासंयुतं वारि कशायाम्भः समीरितः | पृथक् पञ्चोदकानीत्थं पश्चिमव्यूहपञ्चके || मध्यकुम्भेषु विन्यस्य दुर्गासूक्तं वदन् गुरुः | क्षीरं दधि घृतं चेति तैर्युक्तं च रसोदकम् || त्रिभिः कुशैश्च संयुक्तं कुशोदकमिदं भवेत् | व्रीहिनीवारमाषैश्च युक्तं धान्योदकं त्विदम् || कपिकुङ्कुमकर्पूरगन्धैः संमिश्रतैर्युतम् | कर्दमोदकमाख्यातं कान्तिमङ्गलदायकम् || तमालगूं च दूर्वाग्रं कुशाग्रं चेति तैर्युतम् | अङ्गुरोदकमित्युक्तं मारुताशादिपञ्चके || प्. ७४) व्यूहमध्यस्थकुम्भेषु विन्यसेदर्पयेत्तदा | द्राक्षाखर्जूरकदली त्रिभिः पक्वैश्च संयुतम् || पक्वोदकमिदं मुग्धे व्यूहमध्ये गते घटे | तण्डुलं मुद्गगोधूमपृथक्पूर्णैश्च संयुतम् || चूर्णोदकमिति ख्यातं लोकचञ्चलनाशदम् | तिलैर्यवाक्षतैश्चैव तण्डुलेश्वतिकैर्युतम् || अक्षतोदकमित्युक्तं व्यूहमध्यस्थकुम्भके | शक्रवल्लि सहालक्ष्मी स्त्रीभिर्वल्युदकं भवेत् || चम्पकाशोकनाशानां कुद्मलेतैश्च संयुतम् | कुद्मलोदकमाख्यातं जनसम्पत्प्रदायकम् || जलन्यैवं च सोमादि प्रतिव्यूहश्च पञ्चके | मध्यकुम्भेषु विन्यस्येत् आर्यासूक्तादिकं वदन् || तिन्त्रिणीपक्वसंपन्न गुलं चूतगुलं गुडम् | गुलेदेकं च तैर्युक्तं रजोदकमथोच्यते || खुरागरुपटीराणां रजोभिश्चेति तैर्युतम् | रजोदकमिदं देवि प्राग्युग्मव्यूहमध्ययोः || प्. ७५) कुम्भयोर्विन्यसेत्तां च बाला बीजत्रयन्यसेत् | द्वात्रिंशद्व्यूहमध्यस्थ कुम्भानां द्रव्यमीरितम् || प्रागादि परितस्तेषामष्टकुम्भेष्वथोच्यते | देवदारुं च पेनं च तालीसांख्यं च मांसिकम् || रास्ना रूत्थाभिधानं च कुरुन्द्रं नागकेसरम् | कुम्भाष्टकेषु विन्यस्य द्रव्याष्टकमिदं प्रिये || श्वेताकम्बकुलं चैव मल्लिकाकरवीरकम् | पद्मं जातिश्च कंकोष्ठ चतुरङ्गुलसंज्ञकम् || दक्षिणस्थाष्टकव्यूह पृथगष्टघटेषु च | क्रमाद्द्रव्याष्टकं न्यस्त्वा माधवी कुरवस्तथा || बन्धूकं पाटलं चैव नन्द्यावर्तं च केतकी | जलं हेमाख्यपुष्पं च पश्चिमस्थाष्टव्यूहके || द्रव्याष्टकसमाख्यातमष्टकुम्भेषु विन्यसेत् | सक्तुं ससक्तूं शिं पञ्च कुलत्थं माषचूर्णकम् || पक्वं जम्बूद्वयाख्यं च लाक्षाचूर्णं तथैव च | उद्ग्व्यूहाष्टके चाष्टकुम्भेषु परितो न्यसेत् || प्. ७६) नवदुर्गावृतिव्यूहमध्यकुम्भेष्वथोच्यते | चम्पकं मल्लिकां पुष्पं पुन्नागं केतकी तथा || पारिजातं कदम्बाख्यं पुष्पं गोविन्दसंज्ञकम् | सेवन्तिका द्रोणपुष्पं पद्मं नीलोत्पलं तथा || मणी च कुञ्चगोरण्टं मन्दारं करवीरकम् | जपापुष्पद्वयं देवि नन्द्यावर्तप्रसूनकम् || अशोकं दमनं चैव पाटलिं बकुलं तथा | पलाशाख्यं कुसुम्भं च लोघ्राण्यं चिलिकासुमम् || श्वेतार्कं चैव रक्तार्कं बृहती वनमल्लिका | ततो दुत्तूरकुसुमं नालिकेरप्रसूनकम् || पूपपुष्पद्वयं चैव शङ्खपुष्पसुमं तथा | कर्णिद्वयं च कल्हारं पङ्कजं रक्तसंज्ञकम् || अर्जुनाख्यप्रसूनं च चत्वारिंशत्सुमं भवेत् | मध्यकुम्भेषु विन्यस्येत् व्यूहानां बलिरावृतेः || चन्दनं घनसारं च कपिमांसीपचोरकम् | कुङ्कुमं चागरुं देवि रोचनान्तमथाष्टकम् || प्. ७७) तेषां च मध्यकुम्भानां परितः पृथगष्टसु | न्यसेत्सर्वेषु कुम्भेषु तव मूलमनुं वदन् || सर्वव्यूहस्थ कुम्भेषु द्रव्यमेवं मयेरितम् | कूर्चानि पल्लवांश्चैव नालिकेरफलानि च || पृथक् पूगफलानेशि युग्मवस्त्राणि तत्वम् | घटानने च परितो वेष्टयेद्वन्यसेद्गुरुः || देवतास्संप्रवक्ष्यामि मध्यव्यूहादि शैलजे | शाम्भवी मूलदुर्गा च वेदमाता सुखप्रदा || ओङ्काररूपिणी विश्वा जगन्माया जनप्रिया | मध्यादि नवकुम्भेषु जूषणीयान्तमर्चयेत् || प्रागादि कालिकाव्यूह मध्यकुम्भेषु देवताः | काली कराली कल्याणी कान्तिदा च कलावती || कीर्तिदा कामिनी कान्ता कमलोत्पलगन्धिनी | कुमद्वती कमलिनी कृशानुतपनद्युतिः || कृशावती काञ्चनाक्षी कुलवृद्धिकरा क्रिया | देवताः षोडशैताश्च तेषु कुम्भेषु पूजयेत् || प्. ७८) माधवी मानिनी मन्या महामाया महेश्वरि | मातङ्गी मोहदा वाणी देवताष्टसमीरिताः || प्राक् च व्यूहाष्टकुम्भेषु पृथक् संपूजयेद्गुरुः | विश्वमाता च विश्वेशि विशालाक्षा विनोदिनी || ब्रह्मण्या विमलाद्ब्राह्मी वरदान्ताष्टदेवताः | दक्षिणव्यूहकुम्भेषु पृथगष्टसु पूजयेत् || जाह्नवी च जन्माया जप्या जङ्घालवीचिका | जया जनार्दनप्रीता ह्लादिनी मोहिनी पुनः || पश्चिमव्यूहकुम्भानां मध्यस्थानां कलाधरे | परितेऽष्टघटेष्वेषु यजेद्भक्त्या सुखान्वितः || गङ्गा गन्धवती गौरी गुणातीता गुणावती | गोपरागहिनी दुर्गा उद्ग्व्यूहेषु चण्डिके || मध्यगानां च परितः पृथगष्टसुखार्चयेत् | कालिकावरणव्यूहदेवताः परिकीर्तिताः || कमलावरणव्यूह मध्यकोष्ठादिदेवताः | प्रागादि संप्रवक्ष्यामि रमा राजीवलोचना || प्. ७९) राज्यप्रदा रोगहर्त्री महाकोशप्रदायकी | मोक्षप्रदा महालक्ष्मीः भाग्यादा भोगववर्धिनी || धन्यदा धनदा देवी दुरितघ्नी दुरापहा | धैर्यदा धनदा दक्षा धर्मदा विश्वनायिका || विश्वातीता निरातङ्का निजानन्दस्वरूपिणी | निष्कलङ्काहगोत्पन्ना रमाव्यूह काम्बके || यजेन्मध्यस्थ कुम्भेषु चतुर्थ्यन्तं नमोन्तिकम् | पृथक्स्वनामभिस्तेषामष्टकुम्भेषु देवताः || लावण्या ललिता पद्मा लोकेशी सर्वसाक्षिगा | कामुकी काम्यदा तृष्णा तत्प्रागाद्यष्टसु क्रमात् || कोष्ठगेषु समभ्यर्च्य शान्ता शोकहरा उमा | शुभदा शङ्खिनी रौद्री भव्या भद्रान्तमुच्यते || दक्षिणव्यूहजालेषु मध्यगानां स्वनामभिः | पूजयेत्परितश्चाष्ट पृथक् कुम्भेषु सुव्रते || जयप्रदा जाड्यहरा जगज्येष्ठा नितम्बिनी | भयङ्करहरो भोक्ता भूतिदा भूति भूषणा || प्. ८०) पश्चिमव्यूह मध्यानां कोष्ठगानां पुनर्गुरुः | संपूज्य परितश्चाष्टकोष्ठगेषु पृथक् प्रिये || सुखन्द्यामरश्रेष्ठा शौर्यदा च सुवासिनी | शूलिनी शीतला बाला ब्रह्मिष्ठान्ताष्टदेवताः || मध्यगानामुदग्व्यूह परितोष्टसु पूजयेत् | एवं रमावृतिस्थानां कुम्भानां देवताः पृथक् || संप्रोक्ता सम्यगीराणि शारदावरणे यथा | प्रागादि मध्यगानां च वाक्पादा वाक्यनायकी || वागीश्वरी वज्रहस्ता कुमारी विन्ध्यवासिनी | सरस्वती च सर्वेशी सामगानप्रिया परा || कला काष्ठा तुष्टिदा च पुष्टिवृद्धिप्रदायिनी | वर्चस्करी बलकरी प्रबला बलवर्धिनी || स्थैर्यदा सुभगा सौख्यस्त्रिषु सौभाग्यदायिनी | वर्णात्मिका वर्णमयी वर्णातीता मनोन्मनी || मुनिस्तुता मोहहन्त्री दैत्यहृत्सौदरी मला | द्वात्रिंशद्देवताः प्रोक्ताः गुणाधारान्तमम्बिके || प्. ८१) शारदावृत्तिव्यूहस्थ मध्यकुम्भेषु पूजयेत् | चिन्मयी चितिरूपा च चञ्चला बोधिनी प्रभा || चन्द्रिका धारिणी सूक्ष्मा देवताष्ट मयेरिताः | प्राक्वंस्थ व्यूहजालेषु परितोष्टघटेषु च || पृथक् स्वनामभिर्यष्ट्वा नमोन्तंन्देन्तिकं गुरुः | ज्ञानात्मिका क्रियाशक्तिरिच्छाशक्तिश्च निश्चला || नित्या निरञ्जना नन्दा मङ्गलाष्टान्तदेवताः | तद्रक्षस्थव्यूहजालमध्यगानां क्रमात् पृथक् || परितश्चाष्टकुम्भेषु स्वनामाद्यैर्यजेत्ततः | नन्दिनी नादिनी जाया गान्धारी च तरङ्गिणी || मालिनी दाहिनी मान्या मध्यगानां च पश्चिमे | परितोऽष्टसु कुम्भेषु पृथक् तं नामभिर्यजेत् || धन्वी धीरा मतिर्मेधा शुद्धा बुद्धिस्तपस्विनी | घोरान्ता देवताश्चाष्ट उदग्व्यूहकदम्बके || मध्यगानां च परितो वेष्टितेषु प्रपूजयेत् | शारदावरणेऽप्येवं देवतास्सम्यगीरिताः || प्. ८२) नवदुर्गावृतौ वक्ष्ये प्रागादिव्यूहदेवताः | दुर्गा कपालिनी चार्या सिंहरूढा तथाम्बिका || महिषस्था चण्डिका च वाणी वस्तुप्रदायिनी | चामुण्डी सरसा सर्वा वैष्णवी चण्डविक्रमा || कल्याणकारिणी रम्या प्रतिष्ठा च जितेन्द्रिया | वह्न्यात्मिका चण्डघण्टा स्कन्दमाता मलापहा || कुश्माण्डा शिवदूती च शङ्करी शङ्करप्रिया | निरामया निराभासा सर्वगा सर्वगोचरा || कात्यायिनी च कामाक्षी विष्णुमाया विमानिनी | नारसिंही च वाराही वाममार्गप्रदायिनी || पवित्रा पावमानी च परमैश्वर्यभाविनी | चत्वारिंशमिमा माये माया प्रोक्ता तवानघे || बहिरावरणव्यूहमध्यगे च समर्चयेत् | सनातनि सदानन्दा सावित्री च गुणाग्रणीः || गगनस्था च नाकस्था त्रिकूटस्थाखिलोत्तमा | बहिरावरणव्यूहमध्य नां घटाष्टसु || प्. ८३) पूर्वादिपरितस्तेषु यजेत्तन्नामभिर्गुरुः | दक्षिणे त्वथ वक्ष्यामि रुचिरा रोगहारिणी || भेदिनी दण्डिनीद्रा विनिद्रा त्रिपुरान्तके | चण्डवेगाश्चाष्टदेविश्च परितः पूजयेत्क्रमात् || महानादाट्टहासी च मधुरा मधुरप्रिया | पाशहस्ता पद्महस्ता ज्ञानपुस्तकधारिणी || महोपायांतदेविश्वप्रतीचीव्यूहसंचये | मध्यगानां च परितः पृथगष्टसु पूजयेत् || ज्ञानप्रदा ज्ञानरूपा ज्ञानपञ्जरसंस्थिता | स्थावरा जङ्गमाख्या च कलातीता कलामया || शब्दातीताष्टदे विश्वे उदग्व्यूहसमूहके | परितस्तन्मध्यगातामष्टकुम्भेषु पूजयेत् || एवं पञ्चावृतिस्थेषु व्यूहकुम्भेषु कालिके | देवताश्च मयेत्युक्ताः प्रतिकुम्भे पृथक् क्रमात् || गुरुः स्वसाम्प्रदायेन न्देंत्रिकञ्च नमोन्तिकम् | स्वनामभि पृथक्पूज्य मध्यकुम्भे गणादिकाः(तः) || प्. ८४) आवाहनादि षण्मुद्रां योनिमुद्रां च कालिनीम् | धेनुमुद्रां च लिङ्गाख्यां प्रसन्नाख्यां प्रदर्श्य च || यजेत्सप्तोपपाशांश्च प्रतिकुम्भेरिचक्षणः | आदिवा सुघटान् सर्वान् निशायामचतुर्थके || अर्घ्यं गन्धं च पुष्पं च अक्षतं धूपमेव च | दीपश्चेति निवेद्यान्तं उपचाराश्च सप्त च || प्रातस्नानादिकं कृत्वा स्वनित्यानि समाप्य च | तवालये पण्टपे च नान्दीपुण्याहवाचनम् || वरणं मधुपर्कं च नीत्वा कर्म द्विजैस्सह | वेदिकां परितस्थेषु कुण्डेषु नवसु क्रमात् || होमकर्माणि कुर्वीत मूर्तिपैः पारगादिभिः | समिदाज्य चरुव्रीहि यवैदूर्वाग्रकैस्तिलैः || तव मूलेन मन्त्रेण वारुणास्त्रेण देशिकः | हुनेत्सङ्गवकालान्तमष्टोत्तरशताहुतिः || पुनः पूर्णाहुतिं कुर्यात् संपातं योजयेद्घटे | लिङ्गशुद्ध्यादिकं कृत्वा नित्यपूजां समर्पयेत् || प्. ८५) कुम्भस्थ देवताः पश्चात् प्रसन्नार्थं यजेत्परम् | पुनः षोडशनाड्यादौ भूसुरैः कर्मवित्तमः || छत्रचामरभूषाद्यै भूमिपाद्यैर्जनैर्नरः | ब्रह्मघोषैर्वाद्यरवैर्वीणा वेणुरवैस्सह || नवकुम्भान् समुद्धृत्य शिष्यस्कन्धोपरि न्यसेत् | गेहं प्रदक्षिणीकृत्य बहिरावरणे तव || प्रविशेद्गर्भगेहान्तस्थण्डिलोपरि विन्यसेत् | नवकुम्भस्थकूर्चानि न्यस्त्वा त्वल्लिङ्गमस्तके || वस्त्राणि वस्त्रमन्त्रेण त्वल्लिङ्गे भ्रामयेत्त्रिशः | फलमन्त्रैस्तत्फलानि वायुबीजेन पल्लवान् || नवकुम्भोदकैः सिञ्चेत् सुवर्णप्रतिमादिभिः | एवं सम्यक् घटान् सर्वान् कालिकावरणादितः || पूर्वादि मध्यकुम्भांश्च ततश्चाष्टौ समुद्धरेत् | स्नानमण्टपमारभ्य लिङ्गद्वारावसानकम् || पार्श्वयोरुभयोर्विप्राः पन्तिरूपेण संमुखे | व्यवस्थिताः शुचिर्भूताः वदन्तस्तान् मनून् द्विजाः || प्. ८६) सर्वपङ्क्तिस्थकाः सर्वे घटान् सर्वान् यथाक्रमम् | समुद्धृत्यानयेयुस्ते दापयेयुर्गुरुं प्रति || तैर्घटैस्सैचयेल्लिङ्गं सूक्तमन्त्रान् वदन् बुधः | पुनस्तूद्रिक्तकुम्भांश्च तद्वस्त्राणि फलान्यपि || वामपङ्क्त्या नयेयुस्ते मण्टपे वेदिकोपरि | न्यस्ता समूहरूपेण कालीसूक्तादिकान् वदन् || रमासूक्तं शारदाख्य अम्भस्यादि मनून् तदा | नवदुर्गासूक्तमन्त्रान् वदेयुर्वेदपारगाः || सेचनान्ते महापूजां विधायोक्तं प्रकारतः | तवोत्सवं ततः कुर्यात् मूलबिम्बे नियोजयेत् || क्रियाजालं समर्प्यान्ते दशदानानि तत्परम् | तदन्ते दक्षिणां दद्याद्भोजयेद्भूसुरोत्तमान् || नवनिष्कं घटान् सर्वान् वस्त्राणि च फलान्यपि | रत्नानि प्रतिमांश्चैव मण्टपं सर्वभूषणम् || तत्रोपकरणैस्सार्धं देशिकेन्द्राय वल्लभे | स्वसम्पत्यै सुखार्थाय प्रदद्यान्मनुजेश्वरः || प्. ८७) यजमानाय षण्णिष्कं ब्रह्मणे पञ्च उच्यते | निष्कत्रयं सदस्याय मूर्तिपे च पृथक् द्वयम् || सार्धनिष्कं पारगेभ्यो जापिनां निष्कमुच्यते | चारकेभ्यः सार्धनिष्कं तदन्ते भूरिदक्षिणाम् || पृथक् पृथक् प्रदातव्यं फलं वक्ष्यामि तच्छृणु | त्वलिङ्गे स्नानकर्मेति सशक्त्या मनुजाधिपः || सर्वसम्पद्बलं कोशं वंशवृद्धिश्रियं यशः | पुत्र पौत्रप्रपौत्रांश्च परराष्ट्रजयादिकम् || कृपयानन्तराज्यानि तदा प्राप्नोत्यसंशयः | विशेषमथ वक्ष्यामि सुगोप्यं सुरदुर्लभम् || पुरतो * धिकारार्थं त्वत्कटाक्षाक्षमम्बिके | त्वल्लिङ्गे स्नपनचेति कृतं शक्रेण भक्तितः || पुनर्देवगणेनेत्थं स्वपदर्थं कृतं प्रिये | दैत्यसोमौ भाग्यार्थं कृतं मातृगणेन च || सर्वसौभाग्य सम्पत्त्यै महीवृद्ध्यै जयाय च | तस्माद्वीक्ष्येति कुर्वीत प्रत्यप्तं तव लिङ्गके || प्. ८८) इति श्रीपरमरहस्ये वातुलोत्तरे शिवपार्वतीसंवादे नैमित्तिककर्मकाण्डे दुर्गासहस्रकलशकर्मकथनं नाम त्रयोविंशति पटलः || स्नान कर्ममयेत्युक्तं नवदुर्गाविधिक्रियाम् | तवोत्पत्यादि वक्ष्यामि पृथग्भेदादिकां क्रियाम् || आद्युत्पन्ना महानन्दा मूलदुर्गा सुखप्रदा | जयप्रदा शत्रुहरा प्रसन्ना लोकरक्षका || शक्तिजालात्मकं देवि कोटिसूर्यसमप्रभा | काली लक्ष्मीति वाणीति तया मूर्तित्रयो भवत् || तस्य पादादि गुह्यान्ता कालिकाख्या समुद्भवा | रमा नाभ्या गलान्ता च कण्ठाद्या मस्तकान्तका || सरस्वतीति सञ्जाता तुष्टिपुष्टिप्रकीर्तिता | दुर्गेत्यार्या शूलिनीति कुमारी चाम्बिकाभिधा || महिषासुरनाशी च चण्डिकेति सरस्वती | प्. ८९) वागीत्यन्तः क्रमात्ताभ्यां पृथग्दानसमन्विताः || नवदुर्गात्रिमूर्तिभ्यो सदा सम्पत्प्रदायकाः | दुर्गा च कालिका गुह्ये आर्या नाभौ समुद्भवा || कालीमुखे भगवती रामा पादात्कुमारिका | रमा नाभौ चाम्बिकाख्या तन्मुखे महिषान्तकी || वाणी कण्ठे चण्डिकाख्या जिह्वायां च सरस्वती | नासिकायां च वागीशी पृथगेताः समुद्भवाः || ताभ्यः पृथक् नवोत्पन्नाः प्रसन्ना नामधारिकाः || शैलजा चण्डघण्टीति सुन्दरी ब्रह्मचारिणी || कूश्माण्डा स्कन्दमातेति कार्त्याख्या कालरात्रिका | गौरीति शिवदूत्याख्या माहेन्द्री चाग्निसंज्ञका || वाराही खड्गधारीति वारुणी मृगवाहिका | कौबेरी शूलहस्ता च ब्रह्माणी वैष्णवी परा || चामुण्डेति शवारूढा जयेति विजयेति च | जिता परा जितेत्याख्या रोचनेति दिगम्बरा || उद्योतनीत्युमासंज्ञा मालाधारी यशस्विनी | प्. ९०) चित्रनेत्रा शङ्खिनीति यमघण्टा मनस्विनी || दण्डिनी विन्ध्यसंस्थेति गहिनीति त्रिलोत्तमा | शङ्खिनी शरभेत्याख्या सुव्रतेति सुगन्धिनी || तोयेशी सोमपा देवी भ्रामरी हंसवाहिनी | कार्मुखा मङ्गला शोणा ह्रादिनी मोहिनी क्षमा || रक्षणी रमणी रम्भा रोगहन्त्री सुरप्रिया | धनुर्धरी बला बाला प्रबला स्थूलनासिका || वज्रिणी शक्तिहस्ता च दण्डहस्ता च मानिनी | कापालिनी कामनीति भीमादेवीति भैरवी || ज्वालामुखी नादनीति हंसगा घोषिणी शुभा | माहेश्वरी महानन्दा जगदाह्लादकारिणी || इत्येता नवदुर्गाख्याश्चैकाशीति समुद्भवाः | पृथक् क्रमाः समुत्पन्नाः ताभ्याश्चानन्तशक्तयः || तवोत्पत्तिरितिख्याता चण्डीभेदो मयोच्यते | एकचण्डी त्रिचण्डीति पञ्च सप्त नवेति च || त्रिंशच्चैकाशीतिसंज्ञा शताख्येति सहस्रका | प्. ९१) चण्डिकाभेद इत्येतास्त्वयुता लक्षसंज्ञया (का) || तथैव दशलक्षाणां कोट्यान्तानन्तचण्डिका | भेदाश्च विविधा ज्ञेया सम्पत्सान्निध्यकारकाः || दशलक्षादि कोट्यान्ताः सुरलोके समीरिताः | भूतलेत्वयुतान्तेशि सम्यगुक्ता क्रिया सह || एकत्रिपञ्च चण्ड्यान्ता नैत्तिकेचाथमासिकाः | त्रिंशान्ता सप्तचण्ड्यादि वरानैमित्तिके प्रिये || एकाशीति शतेत्याख्या सहस्राख्या शुभप्रदाः | काम्यकर्मणि संप्रोक्ता वंशवृद्धिप्रदायकाः || अयुताख्येति लक्षान्ता दशलक्षाभिधागजे | चण्डिका चैव कोट्यान्ता संप्रोक्ता जपकर्मणि || एकत्रिपञ्च चण्ड्यान्ता नैत्तिके च मयेरिता | नैमित्तिके च सप्तादि नवत्रिंशान्तकाः परम् || एकाशीति शताख्येशि सहस्राख्या शुभप्रदाः | काम्याकर्मणि संप्रोक्ताः दैत्यबाधानिवृत्तये || पुत्रदारादि वृद्ध्यर्थं प्रभुत्वार्थं च यः पुमान् | प्. ९२) एकचण्डी सदा भक्त्या जपे नैमित्तिकर्मणि | धनराज्याभि वृद्ध्यर्थं मण्डले कार्थमम्बिके | त्रिचण्डि विधिना नित्यं परराज भयाय च || भूपार्थं सर्वभोगार्थं पञ्चचण्डीजपक्रियाम् | सप्ताख्यां चण्डिभूम्यार्थं शत्रुनाशाय सम्पदे || अकण्टकमहीप्राप्त्यै शत्रुसेनाक्षयाय च | सार्वभौमाधिकारार्थं बलकोशाभिवृद्धये || प्रत्यब्दे च शरत्काले तथा चान्यादिने प्रिये | नवचण्डीं जपे भक्त्या जपपारायणादिकैः || वंशवृद्ध्ये च राज्यार्थं चतुरङ्गबलाय च | धनलाभाय सम्पत्त्यै त्रिंशच्चण्डिजपक्रिया || कदाचिदद्भुतोत्पन्ने सङ्कटे विषमादिके | महापापविनाशार्थं वाञ्छितार्थाय कामिनी || चण्डिञ्चेकाशीति संख्यामपमृत्यु हराय च | सम्पज्जालाय यशसे पुष्ट्यै रोगहराय च || राज्यसम्पादनार्थाय सर्वशत्रुजयाय च | प्. ९३) गतराज्येप्सितार्थाय नष्टद्रव्यस्य सिद्धये | सुभिक्षार्थाय वश्यार्थं महामृत्युहराय च | कान्त्यै सर्वजनेष्टाय शतचण्डित्रिया शुभा || सहस्राख्यां वाञ्छितार्थं रिपुसेना क्षयाय च | परमैश्वर्यकाङ्क्षार्थं महामणिगणाय च || बलवृद्ध्यादि दारार्थं मगण्यद्रव्यसिद्धये | राज्यदुर्गादि वृद्ध्यर्थं दुर्भिक्षे रिपुनाशने || अयुताख्यां महामारी भयादौ रिपुसङ्कटे | द्वीपान्तरगतद्रव्यलाभार्थं सुरवन्दिते || पशुजालसमुद्ध्यर्थं गजवाजीरथाय च | सुरत्नजालसिद्ध्यर्थं कामितार्थाय शङ्करि || चण्डी चैवाथ लक्षाख्यं सर्पबाधासु मारणे | भूगतद्रव्यसिध्यर्थं यदि द्वीपस्थमेव वा || सिन्धुस्थं पर्वतस्थं च नदीमध्यगतं तु वा | सर्वसम्पत्समृद्ध्यर्थं बीजकर्माणि साधयेत् || चण्डीजपविधिं कर्तुं द्रव्यलाभे च मानिनी | प्. ९४) एकचण्ड्यादि पञ्चान्तं नवाब्दान्तं जपेत् प्रिये || सप्ताब्दान्तं च सप्तादि त्रिंशान्तं मेनकात्मजे | एकाधिकमशीत्यादि सहस्रान्तं जपेत् क्रियाम् || नीत्वा भक्त्या वक्ष्यमाणा विधिना मनुवित्तमः | युग्माष्टान्तं चायुताख्यं जपं कुर्वीत भक्तितः || लक्षचण्डीजपं कर्म वत्सराणां मयोच्यते | तदर्धन्तं त्रिमासान्तं यावत्तावदयावधि || चण्डीभेदादिकाश्चेति मयाख्याता नगोद्भवे | तवालयपुरोभागे प्राकारे चैशकोणके || चतुष्पथे तथोद्याने जपवीथिस्थमण्टपे | ग्रामसीम्नि नदीतीरे राजधान्यां च पर्वते || सिन्धुतीरे ग्रामहारे जपस्थानमिदं शुभम् | एकचण्डिक्रियाः प्रातः त्रिचण्डीसङ्गवे जपेत् || मध्याह्ने पञ्चसप्ताख्य जपार्चन हुतक्रियाम् | तवयामे नवत्रिंशमेकाशीतिक्रियां गुरुः || शतसङ्ख्याविधिं रात्रौ गानरात्रौ सहस्रकाम् | प्. ९५) अयुताख्यं मध्यरात्रौ जपहोमतवार्चनम् || लक्षसंख्याक्रियां देवि वामे कुर्वीत बुद्धिमान् | सर्वासां चैव चण्डीनां कर्म कर्तुं वरानने || तव यामः शुभः श्रेष्ठः क्षिप्रमिष्टार्थदायकः | तस्माज्ज्ञात्वेति देवेशि सर्वचण्डि क्रियां गुरुः || त्वल्लिङ्गे तव यामे च प्रकुर्याच्छुद्धचेतसा | जपार्चनं होमकर्म तर्पणं भोजनं पृथक् || प्रवक्ष्यामि शृणु स्निग्धे तव सान्निध्यहेतवे | इति श्रीवातुलोत्तरे नैमित्तिककर्मकाण्डे शिवपार्वती संवादे दुर्गोत्पत्त्यादि चण्डी भेदकर्म निरूपणं नाम पञ्चविंशतिः पटलः || अथ वक्ष्याम्यहं देवि नित्य चण्डि जपक्रियाम् | त्वल्लिङ्गाग्रे शाङ्करे च मण्टपं चतुरश्रकम् || पञ्चहस्तमिति कुर्याच्चतुद्वारसमन्वितम् | [अस्मिन् पत्रे एतावदेव वर्तते | इतः परं अलेखः] प्. ९६) चण्डी भेदाः क्रियाश्चास्तस्सम्यगुक्ता मयागजे || सम्पद्राज्यजयार्थाय नवदुर्गाविधिं शृणु | कर्मारम्भदिनात्पूर्वपक्षे चैव प्रभूत्तमः || तवाङ्गे शाङ्करे भागे नवहस्तैश्च मण्टपम् | चतुरश्रसमायुक्तं दिक्षु द्वारोपशोभितम् || पञ्चत्रिभूमभित्त्यादि वातायनयुतं प्रिये | दर्पणोदरसंकाशं तदग्रे कलशान्वितम् || तत्रिभागैक भागेन वेदिकां चतुरश्रकाम् | तन्मध्यमे प्रकुर्वीत परितः कुण्डकर्म च || चतुरश्राणि वृत्तानि दिग्विदिक्षु विचक्षणः | शिवेन्द्रयोः प्रधानाख्यं वृत्तकुण्डं सुरेश्वरि || विधिना नवकुण्डानि योनिनाभियुतानि च | कुण्डसद्मानि सद्मान्तर्मेखलात्रितयानि च || कुण्डमानानि खातानि भूषणानि पुरोक्तवत् | क्रिजार्थं द्रव्य जालानि सर्वद्रव्याणि सुव्रते || सम्पाद्य बहुधा भक्त्या संशोध्य क्षालितानि च | प्. ९७) शुभस्थले न्यसेत्तानि तन्मूलमनुना गुरुः || देव्यालयमलंकृत्य ततः कर्म समारभेत् | आश्वयुज्यां सिते पक्षे नवम्यान्तं मनूत्तमः || प्रतिपत्प्रातरुत्थाय स्नात्वा नद्यां द्विजैस्सह | शुद्धात्मानश्चारकाद्यास्तदादौ गोमयोदकैः || लेपनं प्रोक्षणं कुर्युः तव गेहं नगात्मजे | सम्यक् संशोध्य मूलेन वारुणास्त्रेण हंसहे || रङ्गवाल्यै रञ्जयित्वा तवाग्रे मण्टपादिके | रजोभिः पञ्चभिस्तत्र पूरयेत् कमलानि च || स्वनित्यादिसमाल्यान्ते गुर्वाद्यास्ते द्विजोत्तमः | वपयेयुश्च मूलेन क्षुरमन्त्रेण सुन्दरि || सुनद्यां चैव लोष्टाद्यैः सचेलं स्नानमाचरेत् | तन्त्रेवाचम्य संजप्य स्वर्णरौप्यादिकं घटम् || नदीजलेन संपूर्य गङ्गामन्त्रेण तं(सं) जयेत् | रथयानादिके न्यस्त्वा वेदघोषैद्विजैस्सह || सर्ववाद्यरवैर्नाट्यैस्तव गेहं प्रविश्य च | प्. ९८) नदीतोयं च वर्धिन्यां योजयेन्मनुवित्तमः || पूजयेत्प्रार्थयेद्देवीं वक्ष्यमाणविधानतः | शक्तिजालात्मकं देवि नमस्ते भोगदायकी || नवदुर्गाक्रियां कर्तुं अनुज्ञां देहि चण्डिके | इति संप्रार्थ्य सद्भक्त्या तवाग्रे योगमण्टपे || मण्डलानि लिखेत्पूर्वं सम्पूज्य गणनायकम् | गुरुर्नान्द्यादिकं गव्यं पुण्याहं वचयेत्परम् || देशिकं वरयेदादौ धनदं ब्रह्मसंज्ञकम् | होमार्थमष्टमूर्तीशान् वेदार्थं षोडश द्विजान् || विंशद्द्विजान् जपार्थाय नव सूक्तप्रजापकान् | तर्पणार्थं चैकविप्रं रुद्रसंख्यांश्च सेचकान् || त्रीन् विप्रान् चारकार्थं च तन्मूलमनुना क्रमात् | मधुपर्कं च कृच्छ्रं च दत्वा मूलेन कौतुकम् || बध्नीयान्मूलबेरादि रक्षामन्त्रेण शाङ्करी | विधिना मृदमानीय न्यस्त्वा तद्बीजमण्टपे || केतुं मन्त्रेण यष्ट्वाथ फलाद्यैश्च निवेदयेत् | प्. ९९) यागभूमिं समासाद्य ब्रह्मणा धनदादिकैः || पुण्याहं वाच्य तन्मन्त्रैः कुर्यान्मण्टपसंस्कृतम् | स्थानशुद्धिं च बिम्बाख्यं हुत्वा तन्मण्टपे गुरुः || वेदिकापूर्वभागादि द्वारकुम्भादिका न्यसेत् | कोणाख्यं गण्डका देवि विद्येश्याख्य घटाष्टकम् || कुम्भत्रयं कालिकादि यागाख्यं मूलसंज्ञकम् | द्वारदेशेषु कोणेषु द्वारकुम्भसमीपगे || वेदिकायां चाष्टदिक्षु मध्यदेशे च मध्यमे | कमलानि लिखेत्तेषु चक्रमष्टदलानि च || शङ्खमावर्तपद्मानि त्रिकोणं वर्तुलं तथा | यथाक्रमेण संलेख्य पूरयेच्छालितण्डुलैः || पृथक्प्रस्थमितं धान्यं तदर्धं तण्डुलं तिलम् | तस्यार्धं चैव संपूर्य यजेत्तन्मूलमन्त्रतः || तन्तुना वेष्टितघटान् विन्यसेत्तण्डुलोपरि | गन्धोदकैश्चन्दनाद्यैः पयोभिश्च हिमोदकैः || कषायैर्मधुना पूर्य मूलकुम्भं तु सर्पिषा | प्. १००) पूरयित्वा क्रमाद्देवीं मातृकाभिर्विलोत्तमः || मणीचकं च मूलेन क्रमुकानि न्यसेत्पुनः | कूर्चादि नवरत्नानि पल्लवांश्च फलानि च || निक्षिप्य मूलमन्त्रेण सुवर्णं प्रतिमास्ततः | निष्कं निष्कार्धमानेन कर्तव्याः प्रतिमाः शुभाः || दुकूलं तन्तुजं वापि श्वेतपीतादि भेदतः | नववस्त्रे सप्तभिर्वा कुम्भवस्त्रमितं प्रिये || तेनैवाच्छाद्य कलशान् प्रोच्यन्ते देवता पृथक् | प्रागादिगङ्गायमुनां यजेद्गोदावरीं गुरुः || सरस्वतीं निर्मदां च सिन्दुं कावेरिकां ततः | ताम्रपर्णीं क्रमाद्वारा कुम्भेष्वावाह्य पूजयेत् || कान्तिदां करुणां बालां कल्याणीं कोगेशू च | गान्धारीं गाणि दुर्गां च गायत्रीं गानहायकीम् || गड्डुकाख्य घटेष्वेताः पृथक्तं नामभिस्सह | विश्वेशीं वीतरागाख्यां वज्रहस्तां वशङ्करीम् || वागीशीं वसुदां(धां) वेगां वाराहीं च ततः पुनः | प्. १०१) वेदिकाष्वष्टघटेष्वष्ट विद्येशीरर्चयेत्पुनः || घटत्रये च मूलेन कालीं लक्ष्मीं सरस्वतीम् | यागकुम्भे च यागेशीं मूलदुर्गां च तट्घटे || आवाहनादिसंस्कारैरुपचारैश्च पञ्चभिः | कुम्भत्रयपुरोभागे स्वर्णरौप्यादि पित्तलैः || पलत्रयमिते नालौ यन्त्रं कुर्वीत भक्तितः | लिखेदष्टदलं तत्र पूरयेच्छालितण्डुलैः || नवाक्षरं लिखेद्यन्त्रे स्वरयुक्तः प्रकारतः | प्राणाख्य मनुना यष्ट्वा न्यसेत्तन्मण्डलोपरि || यजेत्प्रागुक्तमार्गेण वेदिकापरितस्त्वधः | नवार्ण साम्प्रदायज्ञाश्चोपविश्य पृथक् जनः || अर्गलादि रहस्यान्तां नवाक्षर्या समन्विताम् | जपेयुस्ते सप्तशतिं त्रिवारं संपुटान्वितान् || ब्रह्मास्त्रं शङ्करे कोणे वह्नौ वह्न्यस्त्रमुच्यते | दैत्यकोणे च चक्रास्त्रं मारुतास्त्रं तथानिले || प्रधानकुण्डसामीप्ये यागमन्त्रजपेद्विजः | प्. १०२) देवीसूक्तं च तद्रक्षे नववारं जपेत् परम् || तर्पयेत् सौम्यदिग्भागे दशांशं च पयोम्बुभिः | चतुद्वारे चतुर्वेदान् वदेयुश्चाष्टभूसुराः | तवगेहे चतुर्दिक्षु तथैवाष्टप्रघोषकाः | परितः प्राङ्कणे देवि नवदुर्गाप्रजापकाः || विनायकमनुं दक्षे कालीसूक्तं रमात्मकम् | गोसूक्तं शारदाख्यं च दुर्गसूक्तं जपेत्परम् || सूक्तं प्रत्यङ्गिराख्यं च शान्तिदुर्गाख्यमुच्यते | पृथक् सहस्रं प्रजपेद्यावद्धोमावसानकम् || सेचकान् सेचनं कुर्युः तवलिङ्गं सुधारसैः | पयोम्बुभिश्च तन्मन्त्रैः होमकर्म समारभेत् || शोधयेन्नवकुण्डानि वीक्षणादि प्रभेदतः | प्रागामि परितस्थेषु कुण्डेषु नवसु क्रमात् || मूर्तिपादिगुरुन् यष्ट्वा ब्रह्माणं च वसुप्रदम् | कुण्डादि देवताः सर्वा वक्ष्यामाणविधानतः || गन्धपुष्पादिभिर्यष्ट्वा पृथक् तासां च नामभिः | प्. १०३) वामदेवी वज्रिणीति वंशदा बलवृद्धिदा || जयप्रदा जगन्माता निष्कला च नितम्बिनी | महामायेति संप्रोक्ताः कुण्डानां देवता इमाः || पृथगावाह्य संपूज्य प्रतिकुण्डे धनप्रदः | क्षितिमूर्तिं पूर्वकुण्डे अग्न्याख्यामग्निगोचरे || दक्षिणे यज्ञमूर्तिं च सूर्याख्यां दैत्यकुण्डके | वारुण्यां जलमूर्तिं च मारुताख्यामथानिले || सोमाख्यां सौम्यदेशस्थे व्योमसंज्ञां च शङ्करे | कुण्डेष्वष्टसु संपूज्य प्रधाने मूलसंज्ञकाम् || उषादिमूर्तिपान् देवि द्विजेष्वष्टसु पूजयेत् | विजया जनयेदग्निं ज्वालाकाष्ठादि भेदतः || प्रधानकुण्डयोनौ च न्यस्त्वा संस्कारमाचरेत् | कुण्डमध्ये न्यसेदग्निं गर्भाधानादि षोडश || क्रियाः कुर्याद्यथान्यायं मूर्तिकुण्डाष्टसु क्रमात् | तदग्निं सर्वकुण्डेषु विहरेच्च मुखक्रियाः || गुरुरादौ स्वकुण्डे च समिदाज्य चरुं प्रिये | प्. १०४) सर्षपं चैव गोधूमं तिलं च तुटिकं ततः | जातीफलं च दुर्वाग्रं पायसान्नं दश क्रमात् | कालिकादिस्त्रिभिर्मन्त्रैः समिदाज्यचरून् हुनेत् || मूलेन च नवान्नेन षड्द्रव्यं सर्षपादिकम् | खलि(गि)न्यादि दशश्लोकैः पायसान्नं ततः परम् || सर्वद्रव्याणि दुर्गाणि यामिन्यामनुवित्तमः | होमयेयुर्मूर्तिपास्ते पृथक् कुण्डाष्टके पुनः || शताहुतिः कालिकाया रमाया द्विशताहुतिः | त्रिशताश्च सरस्वत्या मूलमन्त्राहुतिस्ततः || सहस्रार्धाश्च संप्रोक्ता नवाक्षर्या सहस्रकाः | दुर्गामन्त्रेण सर्वेषु कुण्डेषु नवज पृथक् || सहस्राहुति संख्याताः प्रतिकुण्डे नगोद्भवे | पूर्णाहुतिश्च होमान्ते हुत्वा कुण्डबलिं हरेत् || मेखलायाः पृथक् कुण्डपूर्वे च हविषा परम् | नवपिण्डान् प्रकुर्वीत गुरुकुण्डाद्यथा क्रमम् || न्यस्त्वा पिण्डे परिस्निग्धे काष्ठदीपान् प्रबोध्य च | प्. १०५) होमकर्म समाख्याता वेदिकुम्भान् यजेद्गुरुः || ततो नवाक्षरीयन्त्रं यष्ट्वा सचातमर्चयेत् | वेदिकाधश्च परितः कमलानि लिखेद्भुवि || पृथक् प्रस्थमितं धान्यं तदर्धं तण्डुलं तिलम् | संपूर्याष्टघटान् पश्चाद्दिग्विदिक्षु न्यसेत्ततः || प्रधानकुण्डसामीप्ये घटं वागीशिसंज्ञकम् | पूरयेद्गन्धतोयेन पल्लवांश्च फलानि च || रत्नमन्तः सुवर्णेन प्रतिमापणमानतः | पृथक् पृथक् परिन्यस्त्वा वस्त्रमाच्छाद्य पूजयेत् || दुर्गाकुम्भं समादाया वेदमङ्गलनिस्वनैः | मूर्तिपादि द्विजैस्सार्धं प्राकारे च तवालयम् || प्रदक्षिणवशान्मन्त्री घटमन्तः प्रवेशयेत् | लिङ्गं संपूज्य मूलेन दुर्गाकुम्भोदकेन च || तस्याः सूक्तेन संसिञ्चेत् यथाविधि पुरस्सरम् | महापूजा प्रकर्तव्या मातृकान्यास पूर्वकम् || गोलका पिण्डिकान्यासमध्वन्यासमनन्तरम् | प्. १०६) षोढा न्यासादि सर्वाणि पूजाकाले समाचरेत् || त्रिभिर्मन्त्रैः कालिकाद्यैः कालीं लक्ष्मीं सरस्वतीम् | दिनदुर्गां समावाह्य षण्मुद्रां दर्शयेद्गुरुः || तासां च नामभिः पश्चात् सहस्रैश्च पृथक् परम् | पूजां प्रागुक्तमार्गेण विधाय विधिवद्गुरुः || नैवेद्यं धूपदीपाभ्यां मूलेन च निवेदयेत् | समिदाज्यचरून् हुत्वा मूलेनाष्टोत्तराहुतिः || तवाग्रस्थं च नैवेद्यं विसर्ज्य विधिवत्ततः | दद्यान्मूलेन ताम्बूलं दीपौघान् भ्रामयेत्पुनः || वाहनं च ध्वजं यष्ट्वा परिवारान् समर्चयेत् | भूतानाहूय घण्टाद्यैः बलिं दद्यादथो गुरुः || तदन्ते चोत्सवं कुर्याद्यथा विभवविस्तरम् | पद्मदीपैः परिभ्राम्य देवीमन्तः प्रवेशयेत् || प्रसन्नार्घ्यं च दत्वा युश्चन्द्रदीपं प्रदर्शयेत् | कर्मं शालं चार्पयित्वा भूसुरान् भोजयेत्प्रभुः || शुद्धात्मानश्च तत्सायं देशिकाद्या द्विजोत्तमाः | प्. १०७) देवीं पञ्चोपचाराद्यैः भक्त्या संपूज्य लालसे || लिङ्गस्येशानदिग्भागे प्राङ्कणे द्विजमण्टपे | संशोध्य विधिवत्तत्र तस्मिन्नवपदं लिखेत् || शालिं च तण्डुलं पूर्य प्रस्थं प्रस्थार्धमेव च | तव बीजेनार्चयित्वा त्रिपदे च त्रिपालिकाः || मध्य पञ्चमुखी न्यस्येत् शरावाश्च पदत्रये | संपूज्य गन्धपुष्पाद्यैर्नवबीजानि चण्डिके || शालिं च सर्षपं शिम्बं माषं मुद्गं यवं तिलम् | निष्पावं च कुलत्थान्तं सलिलाप्लावितानि च || सुधाबीजेन पयसा सेचयित्वाथ निर्वसेत् पे | नवदेवि समावाह्य सोमं संपूजयेत्परम् || पञ्चवाद्यखैः सार्धं धूपदीपौ प्रदर्शयेत् | क्षीरान्नं भक्षसंयुक्तं घृतपायससंयुतम् || निवेदयेत्सुधामन्त्रैः पृथङ्मूलेन मानिनी | सोमकुम्भं च पयसा संपूर्याथ विधानवित् || बीजकर्म समाप्यान्ते गर्भगेहं प्रवेशयेत् | प्. १०८) सिञ्चेत्पञ्चामृतैर्लिङ्गं श्रीसूक्तेन पयोदकैः || देवीसूक्तेन दुर्गायाः सूक्तेन च शुभोदकैः | त्वरिताख्येन सूक्तेन निशासूक्तेन मात्रिकः || सेचनान्ते महापूजां गुरुरासनपूर्वकम् | न्यासजालादिकान् देवि विधाय विधिवत् प्रिये || कालीं रमां शारदां च पृथक् मूलेन संजयेत् | मूलदुर्गां दिनेशीं च डामरे च यथेरितम् || तत्कल्पोक्तप्रकारेण पूजाकर्म समाचरेत् | नामभिः पूजयेत् पश्चात् साहस्रैः कालिकादिकाः || दुर्गा नामसहस्रैतां दिनदेवीं यजेत्परम् | शाल्यान्नं सघृतं भक्षं पायसं च पयोदधि || मधुशर्करया युक्तं सूपशाकसमन्वितम् | चित्रान्तं कुसुमान्नं च मूलेनाग्रे न्यसेत् क्रमात् || फलानि पञ्चजालानि नवमन्त्रेण नायकी | निवेदयेदथाम्बाय धूपदीपादिदेशिकः || रङ्गपूजा प्रकर्तव्या तव तृप्तिप्रदायकी | प्. १०९) ध्वजान्तं गोपुरान्तं वा यथाविधि विधानवित् || तथो नैवेद्यमुद्वास्य ताम्बूलान्यर्पयेत्ततः | दीपौघान् भ्रामयेत् पश्चात् हिमान्तं गिरिसंभवे || मन्त्राशिषा मुमं दद्यादक्षतांश्च निशामयान् | तवाग्रे वाथ परितः प्राङ्कणान्तर्मनूत्तमः || सुवासिनी दम्पतीश्च कन्यकाश्शतसंख्यकाः | अभ्यङ्गोद्वर्तनाद्यैश्च तोषये स्त्रीजनादिकान् || पूजयेद्धूपदीपान्तं ततो वस्त्राणि दापयेत् | नववस्त्रे सप्तभिर्वा दानवस्त्रमिदं प्रिये || श्वेतपीतादि वस्त्राणि कम्बुकानि तथैव च | दुकूलादीनि वस्त्राणि नवतन्तूद्भवानि च || संशोध्य प्रोक्षयेत्तानि प्राजापत्यादिमन्त्रकैः | गन्धपुष्पादिकैरर्च्य तवमूलं समुच्चरन् || दानकर्म ततः कुर्यादिन्द्रादीशावधि क्रमात् | दिक्स्थानां च श्वेतवस्त्रं कञ्चुकानि तथैव च || कालीमन्त्रं वदन् भक्त्या कोणपार्श्वगयोस्ततः | प्. ११०) कञ्चुकं पीतवस्त्रं च रमामन्त्रं समुच्चरन् || रक्तवस्त्रं प्रदातव्यं अन्तराले पृथक् तयोः | चित्रवस्त्रं कञ्चुकादि शारदामूलमुच्चरन् || तृप्त्यर्थं मूलदुर्गाया मिथुनार्चा ततः परम् | यथावित्तानुसारेण दत्वा पूजां विधाय च || दुर्गादिदिनदेवीश्च नवम्यान्तं क्रमात् पृथक् | एकैकोत्तरवृद्ध्या ता यष्ट्वा वस्त्रं तथा गुरुः || कञ्चुकं कण्ठसूत्राणि प्रदद्यान्नूपुरादिकम् | देवतावर्णवस्त्राणि कञ्चुकानि तथैव च || दम्पतीः कन्यकाश्चैव भोजयेस्त्रीकुदम्बकान् | बीजं केतुं वाहनं च परिवारान्यजेदथ || जयघण्टादिकैर्नादैः पञ्चवाद्यरवैस्सह | बलिदेवीस्समाहूय तत्तद्द्रव्यसमन्वितः || द्वारादि बलिपीठान्तं दिक्पालानां च मातृकम्(णाम्) | शास्तादि बलिदेवीनां ध्वजान्तं दापयेद्बलिम् || पालिकान्तं पृथक् दत्वा स्वनामाद्यैर्गुरूत्तमः | प्. १११) तदन्ते चोत्सवं कुर्यात् बहुधा विभवादिकैः || सभापूजां विधायाथ बलिबेरं च भक्तितः | प्रविश्य प्राङ्कणं पश्चात् प्रदक्षिणवशात् प्रिये || गर्भगेहं नयेद्बिम्बं न्यस्त्वा लिङ्गस्तु दक्षिणे | लिङ्गे संयोज्य चैतन्यं हिमदीपं प्रदर्शयेत् || नमस्ते जगदाधारे नमस्ते लोकपावने | प्रतिपत्कर्मजालानि गृहाण परमेश्वरि || प्रार्थयित्वेति सद्भक्त्या कृतं कर्मसमर्पयेत् | देशिकादि जनास्सर्वे वीणावेणुखादिकैः || वेदघोषादिकैः शङ्खैः विविधैर्वाद्यनिस्स्वनैः | पुराणश्रवणैर्भक्त्या वन्दिमागधपाठकैः || कुर्यर्विनिद्रां भक्त्याद्या नर्तकैर्हासकैस्सह | द्वारकुम्भादिकान् सर्वान् गुरुकुण्डस्थपावकम् || वेदिमध्यगतं यन्त्रं बीजवापं तरङ्गिणीम् | नवम्यान्तं च संरक्ष्य जपपारायणादिकम् || होमक्रियां वेदिकस्थ घटार्चां यन्त्रपूजनम् | प्. ११२) सूक्तादि सेचनं कर्म पृथक् कल्पोक्तपूजनम् || वस्त्रदानं चोत्सवं च सभापूजां च भोजनम् | नवम्यन्तं क्रमादेवं सर्वं कर्म कुदम्बकम् || प्रकुर्वीत जगन्माये विशेषमधुनोच्यते | द्वितीयायां तिथौ प्रातः स्नात्वा कर्म द्विजैस्सह || तवालयं प्रविश्याथ पुण्याहं वाच्य भक्तितः | लिङ्गं यन्त्रं च संसेच्य प्रोक्ष्यदुर्गादिसूक्तकैः || पूजां पञ्चोपचाराद्यैः विधाय विधिवत्तमः | पूर्वघस्रार्चितां दुर्गां तन्मूलमनुनात्ततः || स्वदेहे च समारोप्य कालीं लक्ष्मीं सरस्वतीम् | आर्यामूलेन तां देवीं लिङ्गे यन्त्रे च तत्परम् || यष्ट्वा बीजं निशातोयैरूक्ष्णं कारयेत्ततः | सेचनादि क्रियाजालं जपपारायणादिकम् || होमं प्रागुक्तवन्मन्त्री आर्यामूलेन तत्परम् | कुम्भान्यन्तं यजेत्पश्चात् संपाताज्यं समर्प्य च || होमकर्म समर्प्यार्यः आर्याकुम्भं समुद्धरेत् | प्. ११३) गेहं प्रदक्षिणीकृत्य घटमन्तः प्रवेश्य च || आर्यासूक्तेन संसेच्य शेषं पूर्वोक्तमार्गतः | तद्रात्रौ ते वशूद्धात्मा कालिकाद्यश्च देवताः | कल्पोक्तवद्यजेत्ताश्च तथाचार्यां समर्चयेत् | शेषं पूर्वोक्तवत्कुर्यात् कर्मजालार्पणं ततः || नमस्तुभ्यं सदानन्दे जगदाह्लादकारिणी | द्वितीया कर्मजालानि गृहाण सुरवन्दिते || त्रिवारमिति संप्रार्थ्य कृतं कर्म समर्पयेत् | तृतीया प्रातरुत्थाय स्नात्वा विप्रोत्तमैस्सह || पुण्याहं वाच्य गर्भान्तं लिङ्गं सेच्य विधानतः | यन्त्रं च वेदिकामध्यस्थं प्रोक्ष्य पञ्चोपचारकैः || संपूज्य मूलमन्त्रेण प्रागार्या स्वयमात्मनि | संयोज्य शूलिनीं तत्र समावाह्य यजेद्गुरुः || सेवनादिक्रियाजालं होमकर्मावसानकम् | हुतशेषं समर्प्याथ शूलिनीघटमुद्धरन् || लिङ्गं प्रागुक्तमार्गेण सेचयित्वा समर्चयेत् | प्. ११४) कृतकर्माणि तद्रात्रौ प्रार्थनादि महेश्वरि || नमस्तुभ्यं कलाधारे मङ्गले मङ्गलप्रदे | तृतीयायां कृतं कर्म गृहाणेदं सुरेश्वरि || बहुधा प्रार्थयित्वेति क्रियाजालं समर्पयेत् | भेरीपटहशङ्खाद्यैर्विनिद्रामाचयेत्ततः || चतुर्थेऽह्निगुरु प्रातः स्नात्वा नित्यं निवर्त्य च | एतदेवेति मन्त्रेण पुण्याहं यागसद्मनि || लिङ्गगेहे च संवाच्य यन्त्रलिङ्गं समर्च्य च | शूलिनीं योजयेदेहे कुमारीमर्चयेत्तदा || बीजानि गन्धतोयेन सेचयित्वा विधानतः | विधाय होमकर्मान्तं कुमारीकुम्भमुद्धरेत् || प्रवेश्य गर्भगेहान्तः कुमारीसूक्तमुच्चरन् | सिञ्चेल्लिङ्गं शनैर्भक्त्या शेषं प्रागुक्तवत् प्रिये || देवीं संप्रार्थ्य मूलेन वक्ष्यमाणेन मानिनी | भद्रकाली नमस्तेऽस्तु महाभयविनाशिनी || गृहाणेदं काम्यकर्म चतुर्थ्यां च मया कृतम् | प्. ११५) विनिद्राकर्म कर्तव्यं पञ्चम्यां प्रातरुत्थितः || स्नात्वा लिङ्गं यजेद्यन्त्रं उपचारैश्च पञ्चभिः | कुमारीं हृदि संयुज्य मूलेनावाह्य चाम्बिकाम् || सर्वं कर्माथ होमान्तमम्बिकाघटसेचनम् | बीजं पयोदकैः सेच्यं रात्रौ कर्म समर्पणम् || सुगन्धीनि नमस्तुभ्यं सम्पज्जालप्रदायिकी | पञ्चम्यामाम्बके कर्म गृहाणेदं तिलोत्तमे || इति प्रार्थ्य महादेवीं पश्चाज्जागरणं नयेत् | षष्ट्यां प्रातः समुत्थाय सुस्नात्वा भूसुरैस्सह || पवमानादि मन्त्रेण प्रोक्षयेत्परितस्ततः | संप्रोक्ष्य यन्त्रलिङ्गं च सिञ्चेत्पञ्चोपचारकैः || यष्ट्वाम्बिकां च मूलेन हृदि संयोजयेद्गुरुः | महिषघ्निं समावाह्य लिङ्गे यन्त्रे च तां यजेत् || जलोदकेन बीजानि सेचयित्वा क्रियाः परम् | होमकर्म समाप्यार्यः प्रागुक्तविधिनागजे || महिषग्नी घटेनाथ तत्सूक्तेनैव सेचयेत् | प्. ११६) कर्मौघं मध्यरात्रान्तं कृत्वा सद्भक्तिपूर्वकम् || तुष्ट्यर्थं प्रार्थयेद्देवीं वंशवृद्धिप्रदायकीम् | महिषघ्नी नमस्तुभ्यं कामितार्थप्रदायिनी || मया षष्ट्यां कृतं कर्म गृहाण सुरपूजिते | इत्यर्चयेत्क्रियाजालामर्चयेन्मूलमन्त्रतः || ततो निद्रां निवार्यैशि सप्तमी प्रातरुत्थितः | स्नानादीनि स्वनित्यानि समाप्य विधिना ततः || पुण्याहसलिलैरादौगुरुर्लिङ्गालयादिके | यागभूमौ च सर्वत्र प्रोक्ष्य मूलाजना वरम् | यन्त्रं लिङ्गांश्च कुम्भांश्च सप्तभिश्चोपचारकैः | यष्ट्वा ता महिषघ्नीं च हृदि संयोज्य मूलतः || मूलेन लिङ्गे यन्त्रे च पुनरावाह्य चण्डिकाम् | होमावधि क्रियाजालं चण्डिकाघटसेचनम् || निशि पूजामर्चयित्वा तुष्ट्यर्थं प्रार्थयेत्तदा | नमस्ते गिरिसंभूते सर्वशत्रुभयङ्करी || सप्तम्यां कृतकर्मौघं गृहाणाशु धनप्रदे | प्. ११७) इति क्रियास्समर्प्यान्ते बोधयेयुर्महाजनाः || तथाष्टमी प्रभाते च गुरुरुत्थाय भक्तितः | चारकाकाद्यैर्दिजस्सार्धं स्नात्वा नित्यक्रियां नयेत् || पुण्याहं मनुना वाच्य लिङ्गं यन्त्रं च सेचयेत् | संप्रोक्ष्यतं नवास्तेन यजेत्सप्तोपचारकैः || चण्डिकां हृदि संयोज्य मूलमन्त्रेण मानिनी | सरस्वतीं समावाह्य मनुना लिङ्गयन्त्रयोः || बीजानि सेचयेदन्ते होमकर्मोक्तवत्पुनः | मण्टपस्थघटान् यन्त्रं शारदाकुम्भमेव च || यष्ट्वा तत्कुम्भमादाय सर्वघोषैर्द्विजैस्सह | पुनः प्रवेश्य गर्भान्तः तत्सूक्तेन मनुत्तमः || सिञ्चेत् प्रागुक्तवत्पूजां विधाय मनुनाप्रिये | भूतरात्रावसानान्त मुक्तकर्म कदम्बकः || प्रार्थनाद्यर्पणं पश्चात् शारदामनुना ततः | कलावति नमस्तुभ्यमकाराद्यक्षरात्मिके || दिनाष्टके कृतं कर्म गृहाणसुरनायकि | प्. ११८) इति त्वां प्रार्थ्य सद्भक्त्या क्रियास्सर्वास्समर्पयेत् || निद्रां निनतिहासाद्यैः नवम्यां प्रातरुत्थितः | स्नानं विधाय विप्राद्यैस्स्व नित्यानि निवर्तयेत् || पुनर्नान्दीं च गव्यं च गेहे बिम्बे च मण्टपे | पृथक् पुण्याह तोयेन प्रोक्ष्य तन्मुना गुरुः || लिङ्गं यन्त्रं समभ्यर्च्य प्रोक्षणं सेचनादिकम् | शारदां हृदि योज्याथ वागीशीमर्चयेत्पुनः || बीजाङ्कुराणि सम्पूज्य सुधाबीजेन तत्परम् | होमं पूर्वोक्तवत्कुर्युः प्रतिकुण्डे च भूसुराः | प्रतिश्लोकैः प्रधानाख्ये पायसं च घृतं तिलम् | यथोक्तं डामरे तन्त्रे सर्वतन्त्रोत्तमोत्तमम् || अर्गलाद्यैस्त्रिभिः श्लोकैः सप्तशत्या पुनर्गुरुः | जुहुयादाहुतिः सर्वा सुवस्त्रं कञ्चुकं पुनः || ततः पूर्णाहुतिम् पश्चान्नवकुण्डेषु सुव्रते | समाप्य होमकर्माणि संपाताज्य सुरेश्वरि | कुम्भे यन्त्रे च लिङ्गे च समर्च्याथ पृथग्यजेत् | प्. ११९) यात्रार्थं पूर्णयागार्थं पूरयेत्कलशद्वयम् || प्राग्घटोदकमादाय वेदिमध्ये घटान्विता | पृथक् तन्मूलमन्त्रेण पूर्ववित्वेककुम्भके || तत्कुम्भं चैशभागे च न्यस्त्वा यष्ट्वा जना परम् | द्वारगड्डुककोणस्थान् विद्येश्यन्तू घटान् गुरुः || सुधाबीजेन मूलेन पूरयेत्कुङ्कुमोदकैः | ब्रह्मघोषादिकैर्घोषैः वागीशाख्यघटं द्विजः || देशिकादि समादाय प्रविशेद्गर्भमन्दिरम् | वागीशीसूक्तमन्त्रेण लिङ्गं संसिच्य भक्तितः || पूजां बलिं चोत्सवं च भोजनं पूर्ववच्चरेत् | तत्क्षपायाञ्च सुस्नात्वा लिङ्गशुद्धिं विधाय च || सेचये विविधैः सूक्तैः नामपूजादिभिः परम् | महाकाल्यादिदेवीश्च यथाकल्पं यजेद्गुरुः || नैवेद्यमुक्तवद्देव्याः कुसुमानि निशाक्षतान् | समर्च्य मूलमन्त्रेण वस्त्रदानमतः परम् || भोजयेद्विप्रमुख्यांश्च कन्यकाश्च सुवासिनीम् | प्. १२०) दम्पती भोजयित्वान्ते बलिदानाद्यथोत्सवम् || सभापूजाविधाचान्ते पूर्णयागं समारभेत् | तवाग्रे कटकं न्यस्त्वा यष्ट्वा मूलेन शङ्करि || रोचनं कुङ्कुमं गन्धं निशाचूर्णं घनं गुरुः | तवाग्रस्थे च कटके लोलयेच्च शुभोदकैः || पूजयेत्प्रार्थयेद्भक्त्या चूर्णं मूलेन मन्त्रवित् | नवरात्रव्रतस्थानां संपूर्णफलदायिकी || नवदुर्गात्मके देवि नमस्तुभ्यं शुभप्रदे | चूर्णोत्सवं करिष्यामि गृहाण सुरवन्दिते || इति संप्रार्थ्य संजप्य चूर्णतोयं मनूत्तमः | मूललिङ्गं च बिम्बौघं पालके वाहनं ध्वजम् || दिगीशान्मातरश्चैव बलिदेविश्चतत्परम् | क्षेत्रेशीमङ्कुरं देवि परिवारामरान् पृथक् || द्वारकुम्भादिकान् सर्वान् तद्यन्त्रं कुण्डदेवताः | पृथक् संप्रोक्ष्य ताः सर्वाः सभाबिम्बं पुनर्गुरुः || तद्बिम्बमनुना प्रोक्ष्य स्वकं देहं ततः परम् | प्. १२१) धनदाय सदस्याय ब्रह्मणे च क्रमात् प्रिये || मूर्तिपेभ्यः पारगेभ्यो जापकेभ्यस्ततः परम् | प्रदद्याच्चूर्णसलिलं भूसुरेभ्यः पृथक् पुनः || नृपादिभ्यश्च सर्वेभ्यः तत्तोयं चैव सम्पदे | भूतबल्युत्सवं कुर्याद्ग्रामसीमान्तमेव वा || ग्रामान्तं रथवीथ्यान्तं मुष्टिना विकिरेद्बलिम् | महाबलिं समाप्यार्यः प्राकारं च प्रवेशयेत् || आसुजालात्मिकामन्ते तन्मूलमनुना प्रभुः | पूज्य सन्तर्प्य सन्ताड्य नालिकेरफलादिकैः || बिम्बे च गर्भगेहान्तं न्यस्त्वा लिङ्गस्य दक्षिणे | तच्चैतन्यं मूललिङ्गे भोजयित्वा सुभक्तितः || भ्राम्यतां हिमदीपेन प्रसन्नार्घ्यं प्रदापयेत् | ततो मन्त्री सर्वघोष.इः यागगेहं प्रवेश्य च || स्वकुण्डाग्निं च संप्रोक्ष्य वह्निमन्त्रेण देशिकः | जातादि पूर्णहोमान्तं मयादत्ताहुति प्रभो || स्वीकृत्य वाञ्छितार्थं मे दत्वा गच्छ हुताशन | प्. १२२) इत्युक्त्वाग्निं विसृज्याथ यन्त्रं संप्रार्थ्य भक्तितः || रमादेवि नमस्तुभ्यं राज्यमङ्गलदायकी | पूजां गृहाण कृपया राज्यैश्वर्यं प्रयच्छमे || इति यन्त्रं प्रार्थयित्वा यागेशाख्यघटं परम् | यागेश्वरि नमस्तुभ्यं सर्वयागफलप्रदे || गृहाण तव कुम्भार्चां देहि मे धनसम्पदम् | मूलेन प्रार्थयित्वेति पूजयेच्छारदाघटम् || सरस्वति नमस्तुभ्यं विद्यसम्पत्प्रदायिकी | घटार्चनं गृहाणेदं सर्वविद्याः प्रयच्छ मे || महालक्ष्मि नमस्तुभ्यं धनराज्यप्रदायिनी | कोशं वीयं जयं देहि गृहाणेदं कृतार्चनम् || महाकालि नमस्तेऽस्तु तव कल्पोक्तपूजनम् | गृहीत्वा पुत्रदारादि वंशवृद्धिं च देहि मे || नमस्तुभ्यं मूलमाये निजानन्दस्वरूपिणी | विविधान् विभवान् देहि गृहण तव पूजनम् || नमो विद्येशी नामाख्यः सदा कुम्भेषु संस्थितः | प्. १२३) कुम्भाष्टकार्चनं यूयं गृह्णन्तु सुरन्दिताः || कुम्भेश्वरि नमस्तुभ्यं सर्वकुम्भाधिवासिनी | सर्वकुम्भार्चनं देवि गृहाण कुलवृद्धिदे || द्वारकुम्भादिकान् सर्वान् इति प्रार्थ्य विसर्जयेत् | कर्म द्विजैश्चारकाद्यैः वेदमङ्गलनिस्वनैः || वाद्यजालरवैस्सार्धं हासकैर्गीतनर्तकैः | छत्रचामरसंयुक्तैः घण्टानादैर्जनैस्सह || चारकुम्भादिकान् सर्वान् तद्यन्त्रं च तदङ्कुरम् | समुद्धृत्य क्रमाद्भक्त्या मलमन्त्रं वदन् तदा || प्रदक्षिणवशाद्गेहं नीत्वा गर्भं प्रवेश्य च | यन्त्रं पीठे च विन्यस्य तन्मन्त्रं पूजयेच्छतम् || प्राग्घटस्थोदकैरादौ सिञ्चेत्पाटाजनापदम् | द्वारकुम्भजलैः पीठं पीठमन्त्रेण भक्तितः || तत्कोणं कोणकुम्भस्थैः कोणमन्त्रेण चण्डिके | ग्रन्थिमन्त्रेरन्तरालं गड्डुकस्थोदकैः परम् || लिङ्गं प्रागुक्तसूक्तेन विद्येश्यादिघटोदकैः | प्. १२४) कालिकाद्यैस्त्रिभिः सूक्तैः तत्त्रिकुम्भोदकैः परम् || देवीसूक्तं वदन् पश्चान्मूलदुर्गाघटोदकैः | कौतुकादि परित्यज्य मूलबिम्बादि मानिनि || न्यस्त्वा लिङ्गोत्तरे भक्त्या कौतुकं मूलमुच्चरन् | यागकुम्भस्थोदकेन चूर्णयात्रा घटोदकैः || बलिबिम्बं च तद्यन्त्रं यागमन्त्रेण सेचयेत् | रमासूक्तेन तत्सेच्य दशसङ्ख्योपचारकैः || यष्ट्वा बीजाङ्कुरैः पश्चात्सुधाबीजेन चार्ययेत् | भ्रामयेद्बहुदीपौघान् मन्त्रैः पुष्पाक्षणान् पुनः || समर्च्य मूलमन्त्रेण नवम्यन्तं गुरूत्तमः | प्रसन्नार्थं पुनः पूजां विधाय प्रार्थ्य शाम्भवीम् || नमो देव्यै महामाये सर्वदानन्दरूपिणी | नवरात्रोक्तकर्मौघं नवम्यन्तं मया कृतम् || सम्यक् स्वीकृत्य तत्सर्वं क्रियापूर्णं फलं श्रियम् | देहि मे पुत्रदारादि वंशवृद्धिं नगोद्भवे || इत्युक्त्वा मूलमनुना क्रियास्सर्वास्समर्पयेत् | प्. १२५) दक्षिणां दापयेत्तत्र गुर्वादिभ्यः क्रमात् प्रिये || नवनिष्कं देशिकाय प्रदद्याद्धनदाय च | पञ्च त्रिब्रह्मणे देवि सार्धनिष्कं च निष्ककम् || होतृभ्यः चारकेभ्यश्च जापकेभ्यश्च तत्परम् | निष्कार्धं सूक्तजापिभ्यः सेचकेभ्यस्तथैव च || तथा तत्पूजकेभ्यश्च तत्तर्पण कृते तथा | निष्कार्धार्धं प्रभू भक्त्या चारकेभ्यस्तथैव च || दक्षिणां च पृथक् दत्वा तासां ते भूरिदक्षिणम् | शक्त्या वित्तानुसारेण कर्मोपकरणादिकम् || दद्यात्तन्मण्टपं सर्वं मन्त्रिणे मङ्गलाय च | गोभूम्यादीनि दानानि भूसुरेभ्यः शुभाय च || दानान्ते भूमिपादीनां पुत्रदारादिकाङ्क्षिणाम् | पादोदकं चाङ्कुराणि कौतुकानि प्रदापयेत् || सहदेवीं समभ्यर्च्य सवस्त्रं कञ्चुकादिकम् | सुवासिन्यै च दत्वान्ते गुरुकुण्डस्थ पावकम् || गृहीत्वा धनदः पश्चाद्देशिकादि द्विजैस्सह | प्. १२६) वेदघोषैर्वाद्यरवैश्शङ्खघण्टारवादिकैः || प्रभूत्तमादिकैस्सार्धं प्रवेश्यार्यालयं पुनः | देशिकाग्नौ तु संयुज्य पूजयेदुपचारकैः || नवम्यान्तं कृतं कर्म मयेत्युक्तं तवानघे | सर्वपापहरं दिव्यं सर्वदा मङ्गलप्रदम् || राज्यदुर्गप्रदं राज्ञो धनकोशबलप्रदम् | पुत्रपौत्रप्रपौत्रादि वंशवृद्धिप्रदं प्रिये || आयुरारोग्यदं पुंसां धैर्यं वीर्यं मनोजयम् | यशः प्रदं शोकहरं सर्वदारिद्र्यनाशनम् || नवरात्रोक्तकर्मेदं चतुर्वर्णोद्भवे नरे | प्रत्यब्दं चैव यः कुर्यात्सद्भक्त्या शुद्धचेतसा || विप्रश्चेदैहिके ज्ञानं श्रियं भोगान् बहूनपि | मोक्षमाप्नोति देहान्ते राज्यैश्वर्यं जयं यशः || धनानि रत्नजालानि सर्वसम्पद्बलानि च | द्रव्यज्ञानानि धर्माणि सारूप्यं क्षत्रियोत्तमः || वैश्यश्चेद्धनधान्यानि सामीप्यं लभते ध्रुवम् | प्. १२७) शूद्रसुखं सदारोग्यं वृद्धिं सालोक्यमाप्नुयात् || इत्थं ज्ञात्वेति कर्मौघं नवम्यन्तं पयः पुमान् | सम्यक् कुर्वीत सम्पत्त्यै वंशवृद्ध्यै शुभाय च || नवदुर्गाक्रमो ह्येवं तूलाकर्म वदाम्यहम् | इति श्रीवातुलोत्तरे दुर्गाभेदेशिवपार्वतीसंवादे काम्यकाण्डे नवरात्रियजनविवरणं नाम एकोनत्रिंशत्पटलः || देवी - श्रुतं देव मया सर्वं त्वत्प्रसादान्महेश्वर | इदानीं मिच्छामि तुलाभारं कद वदा || किं निमित्तं तदारोहः किञ्च द्रव्यं च किं फलम् | तद्विधानं कथं सम्यक् विस्तरेण वद प्रभो || ईश्वरः - प्. १२८) साधु पृष्टं महादेवि त्वया यत्परिभाषितम् | तत्सर्वं च प्रवक्ष्यामि शृणु श्वेकाग्रमानसा || पुरा गङ्गानदीतीरे ऋषिदेवगणाश्रिते | पुण्यं पापं च पप्रच्छ लोके को ह्यधिको भवेत् || अहं पुण्यस्याधिक स्यात् लोकेऽहं पापपूरुषः | परस्परविरोधेन विष्णुं शरणमागतौ || किमर्थमागतौ ब्रूतमिति प्राह जनार्दनः | इति तद्वचननं श्रुत्वा मा विरोधः परस्परम् || ततः सर्वगतो विष्णुः शूलारोहणमब्रवीत् | तत्र पुण्यं वाधिकं स्यादथवा पापपूरुषः || तं दृष्ट्वा तौ विनिश्चित्य मनश्शान्तिं समागतौ | कुपितौ सान्त्वयन् तौ हि तुलामुद्धारयेद्धरिः || उभौ स्थितौ तुलापात्रे मध्ये धृत्वा जनार्दनः | अथोलयद्यथा न्याययं तुलिते तेन विष्णुना || पुण्यं समाधिकत्वच्च भूभागं च समाविशत् | पापं च लाघवाद्गौरि तच्छत्वादुच्छ्रितः खिला | प्. १२९) तुलायामधिकं दृष्ट्वा लज्जितः पापपूरुषः | अवरुह्य तुलापात्रान् स्वयं भूमिं समागमत् || तदारभ्य तुलं दृष्ट्वा दूरादेव पलायते | तस्मात्तुलामारुहन्ति देवश्चे मनुजास्तथा || धर्माधर्मकृतं भारं तुलया विजिगीषया | एतस्मात् करणाल्लोके तुलाभारं विशिष्यते || तस्या स्मरणमात्रेण सर्वपापविनाशनम् | कदाचिच्च तुलारोहे सर्वमृत्युभयं नृणाम् || अपस्मारादि संप्राप्तं तत्क्षणादेव नश्यति | ब्रह्महत्यादिपापानां प्रायश्चित्तमिदं स्मृतम् || इति दत्वा वरं विष्णुः तुलायै लोकरक्षकः | शिवालयादिषु स्थित्वा तुले त्वं पापहारिणी || नुद पापं नृणां नित्यं भक्तानां च हितप्रदे | इत्याज्ञया मया विष्णुः तुलाभारमिदं प्रिये || तद्द्रव्यं च पृथग्भेदं तद्विधं तत्फलं शृणु | क्रमेण संप्रवक्ष्यामि निमित्तानि पृथक् पृथक् || प्. १३०) स्वर्णेन वित्तशक्तश्चेत्तुलामारोहयेत्तदा | चक्रवर्ती नृपश्श्रेष्ठः स भवेत्सप्तजन्मनि || तदन्ते शिवसायुज्यमिहापि सुखमश्नुते | राजते व्याधिनाशः स्यात् पुत्रपौत्रादिसंयुतः || चिरं भुक्त्वा बहून् भोगान् विष्णुलोके महीयते | ताम्रेण शत्रुनाशं स्यात् इहलोके सुखं भवेत् || तदन्ते ब्रह्मलोकं स्यात् फलं गुह्यं वरानने | कांस्येन ज्वरनाशं स्यात् सर्वशान्तिकरं नृणाम् || त्रपुणा रोगनाशाय कीर्तये धनवृद्धये | सीसेन पापनाशाय अपस्मारविनाशनम् || दारुणा सर्वनाशः स्यात् शिलया स्वकुलक्षयम् | मृण्मयं पुत्रनाशाय तद्द्रव्यं वर्जयेत्प्रिये || क्षीरेण सर्वसौभाग्यं हृद्रोगादि विनाशनम् | दघ्ना च धनवृद्धिः स्यात् सर्वशत्रुजयो भवेत् || आयुर्वृद्धिकरं चाज्ये सुबुद्धिश्च मनोहरे | माक्षिकेण तुलारोहे भूतग्रस्तादि शान्ति युक् || प्. १३१) गुडशर्करया वापि स्थिरलक्ष्मीमवाप्नुयात् | पञ्चगव्यतुलारोहे ब्रह्महत्यादिनाशनम् || तिलतैलसमारोहे अपमृत्युविनाशनम् | नालिकेरफलारोहे शीघ्रं पुत्रादिसंपदः || कदलीपनसाम्राद्यैः पुत्रमित्रसमृद्धिदम् | द्राक्षाखर्जूरकैस्तुष्टः इहलोके परत्र च || चन्दनागरुकर्पूरतुलारोहे महेश्वरि | शीघ्रं श्रियमवाप्नोति सर्वतापनिवारणम् || क्रमुकं नागवल्लीभिः तुलारोहे शुभप्रदम् | श्वेतवस्त्रतुलारोहे तुष्टिपुष्टिप्रदं शिवे || एतद्द्रव्याणि सम्पाद्य यथा शक्त्यानुसारतः | साम्बलिङ्गादिकै क्षेत्रे हरीशे शुम्भविद्विषे || षण्मुखे च गणाध्यक्षे तत्समारुह्य भक्तितः | ब्रह्मक्षत्रियवैश्यैर्वा शूद्रैश्च मनुजोत्तमैः || ऋषिदेवगणैर्देवि मामुद्दिश्य यथोक्तवत् | सुदिनं चैव निश्चित्य चन्द्रतारानुकूलकम् || प्. १३२) देवालयपुरोभागे शाऽऽकरे वा विशेषतः | मण्टपं कारयेद्भक्त्या कुण्डे वा स्थण्डिलेऽपि वा || पुष्पमण्टपिकां वापि द्वारतोरण भूषितम् | स्तम्भं तत्र दृढीभूतं सारदारुमयं तु वा || पञ्चलोहेन तुलया रज्वा पत्रै प्रयुज्य च | तुलां संयोज्य कूटस्थं विश्वकर्मोक्त शास्त्रतः || ततः प्रातः समुत्थाय नित्यकर्म समाप्य च | ब्राह्मणैः सह शुद्धात्मा मङ्गलस्नानमाचरेत् || वस्त्राहरणमाल्यैश्च अलङ्कृत्य वरानने | देवालयं समागत्या मण्टपं प्रविशेत्प्रिये || गणेश्वरं समाराध्य नान्दीपुण्याहमाचरेत् | मधुपर्कं ततः कुर्याद्वरयेद्भूसुरोत्तमान् || आचार्यं यजमानं च ऋत्विजं वेदपारगम् | ब्राह्मणं च सदस्यं च जपपारायण द्विजान् || सुवर्णं च फलं वस्त्रं दत्वा च वरयेत् प्रिये | ततो निशीथे संप्राप्ते संस्कृते मण्टपे गुरुः || प्. १३३) द्वारतोरणकुम्भांश्च पूजयेच्च मनोहरे | वास्तुराक्षोघ्नहोमं च बलिं वास्तोस्समाचरेत् || जपपारायणं कुर्याच्चतुरस्त्रं तथैव च | गणेशक्षेत्रपालं च मृत्युञ्जय नवग्रहम् || आचार्य यजमानाद्यैरुपवासं च जागरम् | पञ्चगव्यं च पीत्वा तु जितेन्द्रियदृढव्रतः || ततः प्रातः समुत्थाय नित्यकर्म समाप्य च | ततो मण्टपमासाद्य गणेशं पूजयेद्गुरुः || होमयेन्मूलमन्त्रेण अष्टोत्तरसहस्रकम् | मृत्युञ्जयं दिशाहोमं गृहहोमं समाचरेत् || चतुर्दिक्षु क्रमेणैव समिदाज्यचरून् क्रमात् | तिलं च सर्षपं मन्त्री होमयेदृत्विजैस्सह || ईशान्ये पूर्वभागे च कलशान् स्थापयेत् गुरुः | यावद्वर्षमितं मुग्धे शिवकुम्भं च वर्धिनीम् || तावत्संख्यान् सुसंपूज्य होमान्ते सेचयेच्चमाम् | अष्टगन्धैस्समालिप्य वस्त्राभरणपुष्पकैः || प्. १३४) नैवेद्यं दीपजालैश्च तोषयेच्च सुरेश्वरि | प्रार्थयेद्यजमानस्तु स्वर्णपुष्पकरस्थितः || देवदेव जगन्नाथ संसाराब्धि भयापह | तुलामारोढुमिच्छामि त्वत्प्रीत्यर्थं त्वदाज्ञया || इति पुष्पाञ्जलिं दत्वा तुलामण्टपमाविशेत् | संपूज्य च तुलां मन्त्री ब्रह्माविष्णुशिवादिकान् || विष्णुमायां जगद्धात्रीं प्रतिमां स्वर्णनिर्मिताम् | तुलाकूटे च मध्ये च स्थापयेत्पूजयेच्च माम् || दक्षिणे विष्णुमभ्यर्च्य वामे ब्रह्माणमर्चयेत् | दिक्पालकांश्च सम्पूज्य परितश्च यथाक्रमम् || तुलापात्रे च रज्वोश्च अश्विन्यौ चन्द्रभास्करौ | शूलपाणिं परशुपाणिं चतुर्वेदान् यथाक्रमम् || मृत्युञ्जयं तुलाद्रव्ये पूजयेत्स्वस्वनामभिः | गन्धपुष्पैः समभ्यर्च्य नैवेद्यान्तं सुरेश्वरि || प्रार्थयेद्यजमानस्तु कृताञ्जलिपुट स्थितः | नमस्ते जगदाधारे नमस्ते सर्वसाक्षिणे | प्. १३५) मामुद्धर तुलादेवि रक्ष रक्ष नमोऽस्तुते | इति संप्रार्थयेद्भक्त्या फलस्वर्णकर स्वयम् || प्रदक्षिणत्रयं कृत्वा वेदमङ्गलनिस्वनैः | तुलाद्रव्यं च पूर्वोक्तं स्वस्य दक्षिणतो न्यसेत् || वामे तुलां समारोप्य उपविश्य गुरूत्तमः | किञ्चिद्द्रव्यं विशेषेण स्वस्माद्भारं सुरेश्वरि || करतालैर्वेदघोषैः गोविन्देति समुच्चरेत् | क्षणमात्रं तत स्थित्वा मनसा चिन्तयेच्च माम् || त्रिरावृत्या च सन्तोल्य तुलापात्रमधो नयेत् | अवरुह्यं फलं स्वर्णं गुरवे च समर्पयेत् || अलङ्कारं च वस्त्रं च गोभूम्यादि विशेषतः | पूजयेच्च यथा भक्त्या दानानि विविधानि च || ब्राह्मणेभ्यश्च दत्वा तु सवत्सां गां सुरेश्वरि | दक्षिणां दापयेद्भक्त्या कर्मकृद्भ्यश्च देशिकः || तुलाद्रव्यं च विभजेद्देवतार्थं विभागकम् | भूमिदानार्थमेकं च दापयेच्च पृथक् पृथक् || प्. १३६) ब्राह्मणान् भोजयेत्पश्चात् यथाशक्त्या वरानने | विप्राशीर्वचनं गृह्य तदन्ते च समर्पणम् || तुलाभारं मयेत्युक्तं देवतार्थं सुरेश्वरि | तव स्नेहेन वक्तव्यं किमन्यत् श्रोतुमिच्छसि || इति श्रीवातुलोत्तरे दुर्गाभेदे शिवपार्वतिसंवादे काम्यकाण्डे तुलाभारक्रियाविवरणं नाम द्वात्रिंशत्पटलः | || स्वस्ति || वन्दे विघ्नेश्वरं देवं सर्वविघ्नादिदैवतम् | तन्नमामि गणाध्यक्ष वन्दे वाञ्छितसिद्धये || देव्युवाच - भस्मोद्धूलितसर्वाङ्ग जटाजूट दिगम्बर | पषप्रदोषकालेषु विष्णुब्रह्मादिकैश्शिव || सर्वदेवगणैश्शम्भो सिद्धविद्याधरैस्सह | किन्नरैर्यक्षगन्धर्वैर्मुनिसङ्घैस्समावृत || परिवारगणैस्सार्धं सर्वलोकहिताय च | गुह्याद्गुह्यतमं सम्यक् रहस्यं सुरदुर्लभम् || परिपृच्छामि देवेश प्रसन्नात्मन् जगत्पते | अष्टाविंशतिमन्त्राणि वातुलान्तानि शङ्कर || त्वयेरितानि गोप्यानि तानि भेदानि सम्यक् | येष तन्त्रेषु मल्लिङ्गलक्षणादि कथं वद || लक्षणं पञ्च सूत्राणां सकृन्मल्लिङ्गपीठयोः | लिङ्गाङ्गकल्पनं सम्यग्गेहबन्धनलक्षणम् || ६ || प्. १३८) लिङ्गगेहादिमानानि मटपं प्राङ्कणादिकम् | प्राकारद्वारहर्म्यादि मूलप्रासादलक्षणम् || द्वारादिबलिदेवानां वाहनस्य ध्वजस्य च | तेषां पृथक् पदं देव वापी कूपतटाकयोः || परितः परिवाराख्यविम्बानां लक्षणं कथम् | तेषां च निलयानां चेदायतं चोन्नतं वद || द्रव्याम्बर नागारगेहे बन्धन लक्षणम् | स्नान याग सभास्थान कुण्डानां चैव लक्षणम् || आयुधानमथास्त्राणां लक्षणं तत्पदं वद | प्रासादगोपुराग्रादि कुम्भन्यासक्रमः कथम् || देशिकादि द्विजातीनां पदं तद्गेहबन्धनम् | नृपादीनां च सर्वेषामालयानां च लक्षणम् || गोशालादि गजाश्वानां कथमापणिकादिनाम् | चाराणां सेवकादीनां वाद्यकानां गृहादिकम् || कथं रतिस्थलं देव वैश्यानां निलयं वद | स्वर्णकारादिजातीनां कांस्यताम्रकृतां पदम् || प्. १३९) रजकाद्यम्बरकृता चक्रिणां ध्वजिनां गृहान् | शिल्पिनामम्बराणां च पदं सन्धिकृतां वद || पुष्पोद्यानस्थलं कुत्र सूत्रसोपानलक्षणम् | पुष्पन्यासस्थलं देव तुलस्या वाल लक्षणम् || शिबिकादिरथाङ्गानां निलयं लक्षणादिकम् | आतिथेयान्न संस्थानं दीपस्तम्भस्य लक्षणम् || दीपजालादिमालानां रथवीथ्यादि लक्षणम् | सोपानस्योपवीथीनां लक्षणं च कथं वद || पूजकास्पर्शकाश्चैव लिङ्गस्या स्पर्शकां पद | आचार्यलक्षणं किं वा नित्यकर्मक्रमः कथम् || नैमित्तिकार्चनं कर्म पवित्रारोपणं कथम् | नित्यनैमित्तिके काम्ये स्नानकर्मक्रमः कथम् || तवोत्पत्तिः कथं भेदं नवदुर्गाविधिः कथम् | तुलाभारक्रियां देव कृतिकादीपलक्षणम् || वत्सरोद्युत्सवं कालं रथारोहक्रमं वद | दमनारोपणं देव वसन्तोत्सवलक्षणम् || प्. १४०) बन्धोत्सवक्रियाजालं बन्धनत्पेषणं वदा | तद्द्रव्यं साम्प्रदायं च बन्धे जीर्णे कथं वद || जयघण्टा महाघण्टा क्षुद्रघण्टादिनां हर | करकापात्रजालादि करणानां च लक्षणम् || भेरीपटहशङ्खादि वाद्यानां मौरिणां तथा | वीणामृदङ्गतालादि तित्तिवीणादिनादकम् || नित्यादि कर्मलोपानां प्रायश्चित्तविधिः कथम् | लिङ्गे बिम्बे तदङ्गेचेद्भिन्ने नष्टे हृते कथम् || मूलप्रासादशिखरे मण्टपे गोपुरादिके | तदग्रकलशे देव प्राकारे प्राङ्कणादिके || दीपस्तम्भे ध्वजे द्वारे परिवारे च वाहने | बलिपीठ गणे यत्र पात्रजालादिकेऽथवा || देशिकादिजनस्तोमे चारके सेवकादिके | वाद्यजाले वादके चेत्पतिते च मृते कथम् || हलिते खण्डिते भिन्ने पलिते दहने यथा | कदाचिदद्भुतोत्पाते परराजभये कथम् || प्. १४१) यस्मिन् तन्त्रे च यद्गुह्यं मन्त्रमुद्रादिलक्षणम् | देवताविवृतिं सर्व कर्मणां नैत्रिकादिनाम् || एतत्तन्त्रे च तत्सर्वं विस्तरा प्राणवल्लभा | प्रीत्या मुदा महादेव मम सान्निध्य हेतवे || ससाम्प्रदाय युक्तात्मन् ब्रूहि मे भोगदायक | इति श्रीपरमरहस्ये वातुलोत्तरे शिवं प्रति पार्वतीसंवादे प्रश्ने निरूपण पटलः प्रथमः || अथातः संप्रवक्ष्यामि तव लिङ्गादिलक्षणम् | कलाभेदं चोद्भवं च सकृत्त्वल्लिङ्गपीठयोः || लक्षणं पञ्चसूत्रं च गेहबन्धनलक्षणम् | तदङ्गे कल्पनं देवि क्रमेण शृणु पार्वति || लयं गच्छन्ति भूतानि संहारे त्वखिलं यतः | सृष्टिकाले यथा सृष्टिस्तस्माल्लिङ्गमुदाहृतम् || द्विविधं लिङ्गमाख्यातं निष्कलं सकलं प्रिये | प्. १४२) निष्कलं मम रूपं च सकलं तव रूपकम् || उभयोस्संपुटं यत्र लिङ्गाकारसमुद्भवम् | परात्परतरं ह्यस्मात् शिवशक्तेस्समुद्भवम् || निष्कलं हि कलाहीनं सकलं तु कलान्वितम् | सकलं निष्कलोपेतं लिङ्गाकारं महेश्वरि || मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् | योगिनां रक्षणार्थाय शास्त्राणामुद्भवाय च || प्राणिनामुपकाराय देवतानां हिताय च | राक्षसानां वधार्थाय तस्माल्लिङ्गसमुद्भवम् || स्वयम्भुवं साम्बलिङ्गं दुर्लभं च वरानने | स्वर्णरेखा च मद्भेदं तव भेदं च चिह्नितम् || तव भागे चाधिके च सर्वलिङ्गोत्तमोत्तमम् | सर्वाभीष्टप्रदं लिङ्गं तव लोके प्रशस्यते || राजतं यत्र दृश्यन्ते चिह्नं विष्णोश्च शक्तयः | प्रवालं यत्र दृश्यन्ते ब्रह्मशक्त्या सरस्वती || ऊर्ध्वरेखा भवेच्छक्तिः तिर्यग्रेखा शिव स्मृतः | प्. १४३) इति चिह्नानि वर्तन्ते दुर्लभं शृणु पार्वति || त्र्यङ्गुलोर्ध्वे यदा लिङ्गं दृश्यते च महेश्वरि | पञ्चाङ्गुलं नवान्तं च भुक्तिमुक्तिप्रदं नृणाम् || फक्वजम्बूफलाकारं नालिकेराकृतिं शिवे | वर्तुलं पङ्कजाकारं त्वल्लिङ्गं पुत्रपौत्रदम् || नदीतीरे सङ्गमे च उद्याने पर्वते तटे | एषु स्थाने समुद्भूते नवलिङ्गे महेश्वरि || सर्वाभीष्टप्रदं लोके राज्ञो राज्याभिवृद्धिदम् | लिङ्गलक्षणमाख्यातं पीठलक्षणमुच्यते || लिङ्गस्य विस्तरं पीठं उन्नतं वा महेश्वरि | तत्समं चतुरश्रं स्यात्तन्नालं च तदर्धकम् || उन्नतं च तदर्धं स्यात् एकदित्रि च पट्टिकाम् | वाणीं लक्ष्मीं महाकालीं ब्रह्माविष्णुं च रुद्रकान् || तव पीठं च शक्तिश्च आश्रितं च उभौ स्थितः | लिङ्गमूलेन संस्थाप्य सर्वलक्षण लक्षितम् || ऊर्ध्वभागं च त्यक्त्वादौ लिङ्गं संयोज्य पीठके | प्. १४४) पूर्वास्यं च स्थितं लिङ्गं प्रणालं चोत्तरे न्यसेत् || प्रत्यङ्मुखस्य लिङ्गस्य प्रणालं दक्षिणे न्यसेत् | उदङ्मुखस्य लिङ्गस्य पश्चिमाभिमुखे न्यसेत् || दक्षिणाभिमुखे लिङ्गे पूर्वस्याभिमुखे न्यसेत् | पीठाधिके भवेन्मृत्युः हीने लिङ्गे महेश्वरि || पञ्चसूत्रविहीनश्चेत् कुलक्षयकरं नृणाम् | पीठस्य लक्षणं प्रोक्तं गेहबद्धं ततः शृणु || प्रीतस्य त्रिगुणं गर्भं तदर्धं चान्तरं प्रिये | द्वारद्वयसमायुक्तं लक्ष्मीमण्टपबाह्यतः || गर्भस्य द्विगुणं कुर्यात् तद्द्वारं च प्रकल्पयेत् | मण्टपस्य त्रिगुणितं प्राकारं परित प्रिये || वाहनं मण्टपं कुर्यात् तदर्धां च पार्वति | प्राकारं च त्रिगुणितं बहिः प्राकारकल्पनम् || मण्टपस्याधिकं द्वारं बहिद्वारं तु पार्वति | प्रथमे लिङ्गभित्तिस्याद्द्वितीये द्वारभित्तिका || तृतीये गोपुरे देवि चतुर्थे पीठभित्तिका | प्. १४५) बहि प्राकारभित्ति स्यात् पञ्चमावरणं प्रिये || गर्भगृहे चतुस्तम्भं तद्बाह्ये चाष्टभिः प्रिये | मण्टपे द्वादशस्तम्भं प्राकारादिषु सर्वतः || अष्टोत्तरशतस्तम्भं द्विशतं त्रिशतं प्रिये | मूतियुक् पट्टिकादीनि अन्तरं च तदन्तरम् || गेहार्धं शिखरं कुर्यात् तदर्धं कलशे न्यसेत् | स्वर्णरौप्यादिताम्राद्यैः कुम्भं कृत्वा च शिल्पिना || एक त्रिपञ्च कुम्भं स्यात् सप्तकुम्भं न्यसेत् प्रिये | प्रासादादिषु सर्वत्र तत्कुम्भं स्थापयेद्गुरुः || शिल्पिशास्त्रोक्तमार्गेण गेहं कृत्वा विधानतः | यदि हीने कृतं गेहे लक्षणं पूर्वमुक्तवत् || पूजा नार्हति तल्लिङ्गं पिशाच ब्रह्मराक्षसैः | स भवेच्च महामारी तद्ग्रामे पीड्यते सदा || तस्मात् सर्वप्रयत्नेन लक्षणं वीक्ष्य मुक्तवत् | उपदेशद्गुरोश्शिल्पी कुर्वीत तव चालयम् || शिलाया निर्मितं गेहं कुलकोटि समुद्धरेत् | प्. १४६) अन्ते मम पुरं प्राप्य इहैव सुखमश्नुते || चेष्टके दारुजं वापि पुत्रपौत्रादि सम्पदः | सर्वभोगांश्च लभते सर्वत्र विजयो भवेत् || देहान्ते मम लोकं तु आप्नोत्येव न संशयः | लक्षणं चालयस्योक्तं तदाङ्गानि निगद्यते || कुम्भं पीठं च वास्तुं च वाहनध्वजसंयुतम् | एतत्पञ्चाङ्गमित्युक्तं तत्र दोषो मयोच्यते || कुम्भनाशे कीर्तिनाशं पीठनाशे धनक्षयम् | वास्तुवाहननाशे तु ध्वजनाशे भवेद्यदि || नित्यादि सर्वकर्माणि पूजा नार्हन्ति च तदालये | धर्मार्थं काममोक्षाणां न प्रशस्तं च पार्वति || देवतां सन्निधानार्थमसुराणां च नाशनम् | तस्मात् पञ्चाङ्गयुक्तं च आलयं परिकल्पयेत् || आलयं चाङ्गमित्युक्तं द्वारपालादिकान् शृणु | इति श्रीवातुलोत्तरे नित्यकाण्डे लिङ्गलक्षणादि गेहबन्धनलक्षणविधिर्नाम द्वितीयः पटलः | अतः परं प्रवक्ष्यामि द्वारपालादि लक्षणम् | वाहनं ध्वजपीठं स्यात् परिवारालयं शृणु || शिलादिताम्रकं वापि कांस्यं वा पित्तलं प्रिये | राजतं स्वर्णजं श्रेष्ठं तव लिङ्गे विशेषतः || लिङ्गस्य पञ्चगुणितं उच्छ्रितं च महेश्वरि | त्रिपञ्चहस्तमानं वा तव बिम्बाकृतिं गुरुः || हस्ते दण्डं च धृत्वाथ शङ्खचक्रादिधारिणः | अन्तर्द्वारे गोपुरे च द्वारस्योभयपार्श्वतः || चण्डिकामम्बिकान्नाम द्वारपाले महेश्वरि | श्लादिनी मोहिनी नाम गोपुरोभय पार्श्वतः || कात्यायिनी जयन्ती च लक्षणेन समन्विते | सुदृढं स्थापयेद्देवि यथा विध्युक्त मार्गतः || तव लिङ्गे द्वारपाले लक्षणं कथितं प्रिये | वाहनं च प्रवक्ष्यामि शिलादि द्रव्य भेदतः || लिऽऽगस्योर्ध्वं च कुर्वीत विस्तारं सार्धहस्तकम् | लिङ्गस्य त्रिगुणं वाथ पञ्चस्यो लक्षणोक्तवत् || प्. १४८) स्थापयेद्विधिना मन्त्री पीठमण्टपयोर्ध्वजे | इति भेदस्थले देवि वाहनस्य तु लक्षणम् || ध्वजस्य लक्षणं वक्ष्ये तव लिङ्गे महेश्वरि | शिलादण्डं चन्दनं च देवदारुं च गन्धजम् || पद्मसारं गर्भसारं दृष्ट्वा दण्डं परिग्रहेत् | शिखरस्थ घटाग्रस्य मिदं दण्डायतं प्रिये || पञ्चहस्ताधिकं कृत्वा खात्वा स्तम्भं च भूतले | चतुरश्रं दण्डमूले एकद्वित्रिं च पट्टिकाम् || तदूर्ध्वे चाष्टधाराश्च तस्योर्ध्वे वर्तुलाकृतिः | मस्तके वाहनं न्यस्य ध्वजवेदिं प्रकल्पयेत् || शिलाचेष्टकया बद्ध्वा सार्धहस्तप्रमाणतः | पञ्चत्रयान्तरं कुर्यात् स्थापयेद्विधिना गुरुः || शिलादण्डं स्थापनं च वंशवृद्धिकर प्रिये | दारुजं सर्वसंपत्तिः ताम्राद्यैः कवचे कृते || सर्वशत्रुजयं नॄणां स्वर्णं राज्यप्रदं शिवे | ध्वजलक्षणमित्युक्तं बलिपीठं ततः शृणु || प्. १४९) शिलादि निर्मितं पीठं त्रिपञ्चाङ्गुलविस्तृतम् | तस्योर्ध्वं च प्रकुर्वीत चतुरश्रं च वृत्तकम् || तत्तन्मूर्त्यङ्कितं पीठं पद्मं वाथ महेश्वरि | चण्डिकाद्या देवताश्च कल्पये स्थापयेद्गुरुः || देवतांश्च ततो वक्ष्ये शृणु देवि यथाक्रमम् | चण्डिकामम्बिकां सिंहं द्वारस्योभय चाग्रतः || दक्षिणे गणनाथं च शंकरं च महेश्वरि | स्वस्वदिक्षु च दिक्पालान् ब्रह्माणं शाङ्करे दिशि || अनन्तं नैर्-ऋते स्थाने प्रथमावरणे शिवे | द्वितीये सप्तमातृश्च पीठलक्षणमुच्यते || हस्तमात्रं च विस्तारं ऊर्ध्वं सप्ताङ्गुलं प्रिये | वीरभद्रं गणेशं च तत्पीठे द्वारदेशतः || पङ्क्तिरूपं च तत्पीठे कमलाकृतिसप्तकम् | तद्बहिश्च चतुर्दिक्षु ऊर्ध्वाधश्च स्थले शिवे || मातृभ्यो लोकमातृभ्यः सर्वमातृगणेष्वपि | सर्वमातृगणाध्यक्षो लक्ष्मी भूचरि खेचरी || प्. १५०) यमदेशे च संप्राप्य शास्तारं च समीपतः | वायोश्च पुरतो दुर्गा दुर्गासामीप्यतो गुहम् || धनदं सोमसामीप्ये स्थापयेच्च महेश्वरि | सोमेशानन्तरे मध्ये मुण्डिनीं स्थापयेद्गुरुः || लिङ्गपीठाकृतिं कुर्यात् सप्ताङ्गुलसुविस्तरम् | सप्ताङ्गुलं तदूर्ध्वे तु पञ्चसूत्रं सलक्षणम् || गोपुरद्वारपार्श्वे तु बहिरन्तश्च स्थापयेत् | गोपुराग्रे महाकालीं करालीं वह्निगोचरे || यमदेशे च विरजां दैत्यदेशे च मन्दराम् | विन्ध्याख्यां चैव वारुण्यां सुप्रभां वायुगोचरे || सौम्यस्थाने सिंहवक्त्रां शाङ्करे दैत्यमर्दिनीम् | प्रागादि स्थापयेत्पीठं क्षेत्रपालं च शाङ्करे || विस्तारं हस्तमात्रं च चतुरश्रं सुपङ्कजम् | त्रिपीठं च समायुक्तं तदूर्ध्वं हस्तमात्रकम् || क्षेत्रपालं च संस्थाप्य महापीठं ततः शृणु | सार्धहस्तमितं कुर्यात् चतुरश्रं सविस्तरम् || प्. १५१) तदूर्ध्वं च समं लिङ्गं अष्टपत्रं च मूर्धनि | त्रिपीठं च समायुक्तं पट्टिकां कारयेत् प्रिये || अधः पीठे चाष्टदिक्षु कमलाकृतिमुक्तवत् | लिङ्गग्रे ध्वजसामीप्ये गोपुरद्वार बाह्यतः || स्थापयेच्च महापीठं देवताः परिकल्पयेत् | ब्रह्मघोषीं सुघोषीं च यथेष्टं सुखरागिणीम् || सुमुखीं सुभुजां चैव प्रमोदिह्यात्मनीं पुनः | प्रागादि परितः पीठे कल्पयेच्च महेश्वरि || पिङ्गलाख्यां त्वधः पूज्य सुकेशीमूर्ध्वतः प्रिये | एवं संस्थाप्य तत्पीठे तव गेहे गुरुः शिवे || पीठस्य लक्षणं प्रोक्तं परिवारालयं शृणु | बहिः प्राकारपरितः ईशानादि यथाक्रमम् || गर्भगृहं मण्टपं च पञ्च सप्तकरं प्रिये | चतुरश्रायतं कुर्याद्धस्तमात्रं तदुच्छ्रयम् || भित्यन्तरद्वयं कुर्यात्तत्र द्वारं प्रकल्पयेत् | चतुस्तम्भं चान्तराले तद्बहिश्चाष्टभिः प्रिये || प्. १५२) कूटाकारं च कुर्वीत शिल्पिशास्त्रोक्तमार्गतः | तदग्रे कलशं न्यस्य कुम्भमेकं च स्वर्णजम् || स्थापयेत्परिवारांश्च वीरेशादि यथाक्रमम् | षण्मुखं च गणेशं च गोपालं मारुतात्मजम् || तत्तन्मूर्तिं प्रकुर्वीत शिलादिद्रव्यभेदतः | एकहस्तं त्रिहस्तं वा पञ्चहस्त नव प्रिये || लक्षणेन समायुक्तं तत्तदायुधभूषणम् | तत्तद्वाहनसंयुक्तं शिल्पिशास्त्रे यथोक्तवत् || स्थापयेद्विधिना मन्त्री यथापूर्वोक्तमार्गतः | परिवारालयं श्रेष्ठमन्यैश्च बहुभिः शिवे || कारयेद्बहुधा भक्त्या तत्तन्मूर्तिं तदालयम् | स्थापयेद्विधिना मन्त्री बहिः प्राकारदेशके || परिवारालयं प्रोक्तं कूपस्थानं शृणु प्रिये | तवालये चैशभागे प्राकारे च महेश्वरि || भूमिं खात्वा जलान्तं वा चतुरश्रं च वृत्तकम् | विस्तारं च त्रिपञ्चा वा बध्वा चेष्टशिलादिभिः || प्. १५३) पुरुषान्तं जलं चान्तः द्वित्रिपूर्षमितं प्रिये | मत्स्यः कूर्मं पङ्कजं च स्वर्णं वा राजतं प्रिये || निक्षिपेज्जलमध्ये तु छादयेत्फलकं प्रिये | दर्शनं च न कुर्वीत शोधयेद्वर्षवर्षके || कूपलक्षणमित्युक्तं तटाकालक्षणं शृणु | तवालयाग्रतः कुर्यात् पश्चिमे वाथ चोत्तरे || अशीतिहस्तं खात्वाथ चतुरश्र समन्ततः | सोपानं च चतुर्दिक्षु शिलाभिश्चेष्टकैः प्रिये || बध्वा च पट्टिकां शिल्पी त्रिपञ्चनवकं पृथक् | जलान्तं च दृढं वध्वा जलं च पुरुषावधि || पञ्चत्रीणिमितं खात्वा जलस्थानं प्रकल्पयेत् | मत्स्यं कूर्मं पङ्कजं च कारयेल्लक्षणान्वितम् || विन्यसेच्च ततो मन्त्री मध्ये मण्टपलक्षणम् | कारयेत्तव लिङ्गाग्रे तटाकं च मनोहरम् || यः कुर्याद्देवदेवेशि नृपो वा भूसुरोत्तमः | वैश्यः शूद्रोऽथवा देवि सर्वान् कामानवाप्नुयात् || प्. १५४) अन्ये च मम सामीप्यं सत्य सत्यं वरानने | इति श्रीवातुलोत्तरे नित्यकाण्डे द्वारपालादि तटाकलक्षणविधिर्नाम तृतीयः पटलः | अथातः संप्रवक्ष्यामि द्रव्यागारादिलक्षणम् | धनागाराम्बरगृहं स्नानयागगृहं पृथक् || नमस्ते देवदेवेश सर्वदेवनमस्कृत | लिङ्गसंपूजकाक्के च रथाद्युत्सवकर्मणि || आचार्यत्वे च क श्रेष्ठः के जनास्पर्शका वद | तथैवा स्पर्शका देव गर्भागारादि भेदतः || तत्र दोषं फलं शान्तिं श्रोतुमिच्छाम्यहं गुरो | शिवः - शृणु वक्ष्याम्यहं देवि सर्वं लोकहिताय च || राज्यकोशाभिवृद्ध्यर्थं रहस्य सुरदुर्लभम् | चतुरङ्गबलार्थाय सुभिक्षार्थं मनोहरे || दीक्षावान् सकुलीनश्च वेदशास्त्रागमान्वितः | प्. १५५) वंशवान् तत्त्ववेदी च स द्विजो लिङ्गपूजकः || कुटुम्बी सत्यवादी च लिङ्गार्चनरतः शुचिः | लिङ्गसान्निध्यवेत्ता च मितभाषी जितेन्द्रियः || याज्ञिकश्चास्तिको धर्मी कृतसंस्कारपूर्वकः | वर्णाश्रमाचारपरः तव लिङ्गार्चनार्हकः || मदमात्सर्यरहितः कृतदीक्षोधिदीक्षितः | दयावान् दानशूरश्च सदा सन्तुष्टवान् क्षमी || जनानुसारमतिमान् साम्बलिङ्गार्चने वरः | स्थिरलिङ्गादिलिङ्गानां पूजका स्पर्शका इमे || आचार्यलक्षणं वक्ष्ये शृणु देवि वरानने | आर्यावर्तोद्भव श्रीमान् सर्वलक्षणलक्षितः || यत्र विप्रास्सदाचाराः यतयश्च तपोधनाः | सन्ति वेदास्तथा यज्ञाः आर्यावर्त इति स्मृतः || वयष्षोडशकादूर्ध्वमधस्सप्ततिरुच्यते | क्रियादिज्ञानपर्यन्तमेकतन्त्रे सुनिश्चितम् || अध्यापनं च कर्तव्यमष्टाविंशति संहिताः | प्. १५६) उक्तानि प्रतिसिद्धानि पुनः संभावितानि च || सापेक्ष निरपेक्षाणि मम वाक्याह्यनेकधा | प्रतिष्ठाद्युत्सवन्नृत्त कर्म कुर्याद्विचक्षणः || देवाग्निपूजको नित्यं गुरुभक्तिपरायणः | सांप्रदाय विशुद्धात्मा दीक्षां दद्याच्च शिष्यके || देवताव्याप्तितत्वज्ञः षड्विधाध्व विशारदः | आस्तिकः कर्म कुर्वीत आचार्यः श्रेष्ठ उच्यते || अन्यथा तु कृतं यत्तु आभिचारस्तथैव च | तत्फलं देवदेवेशि कर्तुर्वंशस्य नाशनम् || देवी - आचार्य वंश देवेश भवेद्बहुजने यदि | तत्कर्मकेन कर्तव्यं वदशम्भो मयि प्रिय || शिवः - शृणु देवि वरारोहे तव स्नेहान्मयाधुना | प्रवक्ष्यामि समासेन शिवदं वृद्धिदं प्रिये || वयोवृद्धेन तद्वंशे तान्त्रिकं तु समाचरेत् | प्. १५७) तदन्येन कृतं चेत्तु शत्रभिर्भयमादिशेत् || रोगबाधा भवेत्सद्यो तद्राष्ट्रे तु विशेषतः | तस्माद्यत्नेन गिरिजे वयोहीनो न कारयेत् || तद्वृद्धेनैव कुर्वीत कीर्ति श्रीराज्यसिद्धये | राजवंशे तथा देवि प्रभुवंशे तथैव च || गृहिणा यज्विना वंशे तत्तदार्येण कारयेत् | अन्यथा दोषमाप्नोति तस्माद्यत्नेन वर्जयेत् || इति सम्यक् समाख्यातं प्रश्नोत्तरमहं प्रिये | देवि - यद्यकस्माद्वय श्रेष्ठो पूजाञ्चोत्सवकर्मणि || न कृते चेत्तदादेक कथं कर्मकृतं वद | देशिकेन्द्रेण न कृते यद्यकस्मान्महेश्वर || उत्सवादीनि कर्माणि कर्तव्यं केन च प्रभो | शिवः - उत्सवादीनि कर्माणि न कृते च गुरुः प्रिये || देशिकेन्द्रस्य सहजः कनिष्ठो वा महेश्वरि | प्. १५८) तत्पुत्रो वाथ पौत्रो वा बान्धवो वा तदाज्ञया || सदीक्षितास्तदादेशाः आगमार्थ विशारदाः | सगोत्रजांश्च कुर्वीत नोक्तदोषः कथञ्चन || आर्यकेनार्चिते मूढैः गायत्र्याक्षर समन्वितम् | यावद्वर्षसहस्राणि तवन्निरयमश्नुते || तत्कर्म निष्फलं देवि न सान्निध्यं न संशयः | देवी - इदानीं श्रोतुमिच्छामि आचार्यस्य जटाधर || ब्रह्महत्यादि पापे च यदि प्राप्ते कथं वद | शिवः - शृणु देवि प्रवक्ष्यामि आचार्यस्य द्विजस्य च || ब्रह्महत्यादि पापं वा उपपातकमेव वा | ज्ञानादज्ञानतो वापि यदि प्राप्ते वरानने || तत्र कर्म न कुर्वीत आचार्यः सर्वकर्मसु | प्रायश्चित्तं कदा नास्ति ब्रह्महत्यादि संभवे || यद्यकस्मात्परोक्षेत पातके चोपपातके | प्. १५९) प्रायश्चित्तेन शुद्धिः स्यात् यथा दोषबलाबलात् || तत्पापं च निवृत्याथ नृपस्यानुज्ञया शिवे | ततः कर्मार्हको देवि तत्र कर्म समाचरेत् || प्रायश्चित्ताद्विना तन्त्र कर्म कुर्यान्न बुद्धिमान् | न स्पृशेल्लिङ्गबिम्बे वा नार्चयेच्च महेश्वरि || यदि बिम्बं स्पृशेल्लिङ्गं पूजां चोत्सवमाचरेत् | न सान्निध्यं भवेल्लिङ्गे लक्ष्मीर्ग्रामाद्बहिर्गता || चतुरङ्गबलं हन्ति तद्राजा मृत्युमाप्नुयात् | शत्रुभिः पीड्यते देवि ज्वरापस्मारकादिभिः || तस्माद् ज्ञात्वा गुरुः सम्यक् प्रायश्चित्तं समाचरेत् | आचार्यलक्षणं प्रोक्तं अस्पृश्यान् शृणु पार्वति || लिङ्गस्या स्पर्शकान् देवि कृतदोषजनानपि | अदीक्षितोर्चिते लिङ्गे त्वसान्निध्यं भवेद्ध्रुवम् || अदीक्षितश्चतुर्वेदी न स्पृशेच्चापि मार्चयेत् | बुभुक्षुर्वा मुमुक्षुर्वा समयी साधकोऽपि वा || आचार्यो दीक्षितो देवं पूजयेत्स्वर्थसिद्धये | प्. १६०) यथा मृगपतिं दृष्ट्वा भीतो याति वने गजः || अदीक्षितेऽर्चिते लिङ्गे तथा भीतो महेश्वरि | श्रद्धाहीनोऽति कृपणो बहुभाषितदीक्षितः || कृतघ्नो वेदहीनश्च दुराचारी च दुर्जनः | लिङ्गमस्पर्शकाश्चैते सत्यहीनादयो द्विजाः || तव लिङ्गादिकं लिङ्गं स्थिराख्यं सम्पदात्मकम् | तस्माद् ज्ञात्वा द्विजा ह्येते न स्पृशेयुः कदाचन || प्रमादा स्पर्शयेयुस्ते त्वसान्निध्यं भवेद्ध्रुवम् | तस्मादित्थं मुहुर्ज्ञात्वा शान्तिकर्म समाचरेत् || गेहप्रवेशकान् वक्ष्ये मुखनास्यादि भेदतः | श्रोत्रियास्सुखनास्यन्तं गन्तुं योग्यं वरानने || रमामण्टपमध्यन्तं द्विजास्सर्वेऽपि वन्दिताः | प्रमादादग्रगतिषु मूलं प्राणमनुं जपेत् || पृथक् सहस्रसंजप्य शतकुम्भैश्च सेचयेत् | द्विजेतरा खा(पा)लिकान्तं क्षत्रिया वाहनान्तकाः || वैश्याः शूद्राः प्राङ्कणान्तं तदग्रगमनादिषु | प्. १६१) महाशान्तिं प्रकर्तव्यं नान्दी गव्यादि मान्त्रिकः || पुण्याहं वाच्य वरयेद्देशिकं च हिरण्यदम् | चत्वारो होतृकान्वेदपारगांश्च तथा गुरुः || जापकं दशविप्रांश्च सेचकान् रुद्रसंख्यकान् | वरयेन्मूलमन्त्रेण लिङ्गपञ्चामृतादिकैः || रुद्रमन्त्रैश्च सूक्ताद्यैस्सलिलैर्गन्धसंयुतैः | होमयेत्तव मूलेन तवास्त्रेण कलाधरे || मनुना शान्तिदुर्गाया घोरदुर्गादिमन्त्रकैः | समिदाज्यं चरुं क्षौद्रं तुटिकं सर्षपं तिलम् || गोक्षीरं चैव दूर्वाग्रमयुतार्धाहुति क्रमात् | जपपारायणैस्सार्धं होमयेन्ननुवित्तमः || तवमूलं तवास्त्रं च पञ्चदुर्गामनून् क्रमात् | गणेशं योगिनीमन्त्रान् चण्डीन् सप्तशतीन् गुरुः || अयुतार्धं सहस्रं च पृथक् मन्त्रं जपेत्तदा | पुनः पूर्णाहुतिं कुर्यात्सम्पातं च समर्पयेत् || सहस्रार्धघटैस्सिञ्चेत् तस्यार्धैश्च तदर्धकैः | प्. १६२) बहुधा पूजयेद्देवीं शाल्याद्यन्नं निवेदयेत् || दीपजालं परिभ्राम्य दानं दशविधं पुनः | दत्वा विप्रगणान् भोज्य क्रियाजालं समर्पयेत् || दक्षिणां दापयेदन्ते प्रवेशाघहराय च | शान्तिं विनाशदुर्भिक्षं सन्निधानं विनश्यति || तस्माच्छान्तिं प्रकर्तव्या गुरुः प्रागुक्तमार्गतः | रजको नापितश्चैव कर्मकारी ध्वजी प्रिया || चित्रतारः कुलालश्च पुनरम्बरसन्धिकृत् | कैवर्तकः स्वर्णकारी ध्वजान्तं प्रविशेत्सदा || दोषभागग्रगमने राष्ट्रनाशो बलक्षयः | राजा च निधनं यायारनावृष्टिर्भविष्यति || मूलेन घोरदुर्गाया मन्त्रेण च गुरूत्तमः | शान्तिं प्रागुक्तवत्कुर्यात् सहस्रार्धघटैः शिवाम् || विप्रमुख्यांश्च संभोज्यां महाभूतबलिं हरेत् | मृतजातादिकोत्पन्नसूतकाविष्टमानुषे || बलिद्वारादिलिङ्गाङ्गं प्रविष्टे चेत्कथं वद | प्. १६३) प्राकारे प्राङ्कणे देवि वाहनाख्ये रमा स्थले || नास्यङ्गभीसभास्थाने परिवारालयादिके | द्रव्यम्बर धनागारमातिथेयान्नसद्मनि || नैवद्यभक्षशालायां प्रासादशिखरादिके | ध्वजालये महापीठे गोपुरे धर्ममण्टपे || तवालये च सर्वत्र रथवीथ्यां च मानिनी | वृद्धिक्षय मघारिष्टजने चैव प्रवेशिते || पृथक् दोषं प्रवक्ष्यामि विस्तरेण नगोद्भवे | दुर्भिक्षं रोगबाधा स्याच्छत्रुबाधा भवेत्सदा || परराजभयं राज्ञो राजसैन्यं विनश्यति | तद्राजा मृतिमाप्नोति बलनाशो धनक्षयः || निधनं कोशनाशश्च राजदानि विनश्यति | धान्यनाशं च सस्यादि राज्यनाशं न संशयः || कीर्तिनाशो भूतबाधा महामारी भयं नृणाम् | सम्पज्जालादिकं सर्वं नाशमाप्नोत्यसंशयः || इत्यद्यांश्च महुर्ज्ञात्वा धनरज्याभिवृद्धये | प्. १६४) सूतकाविष्टमनुजः कदाचिन्न प्रवेशयेत् || सकृप * * क्ष्यामि शान्तिं विघ्नेशार्चनपूर्वकम् | नान्दीगव्यादि पुण्याहं वाचयेत्तदनन्तरम् || गुरुं च धनदं चैव होतृकान् घोषकान् पृथक् | चतुरो वरयेद्देवि जापकान् नवसंख्यकान् || सूतकांश्च तथा विप्रान् सेचकारुद्रसंख्यकान् | लिङ्गशुध्यन् गव्यमन्त्रैरादौ गव्येन सेचयेत् || पुनः पुण्याहतोयेन लिङ्गं पञ्चामृतैः परम् | रुद्रमन्त्रैश्शुद्धजलैः सूक्तैश्च नवभिः शिवाम् || सूक्तनामानि वक्ष्यामि श्रीसूक्तं तव संज्ञकम् | पञ्चदुर्गादिसूक्तांश्च सूक्तं प्रत्यङ्गिराख्यकम् || रमासूक्तादिभिः स्निग्धे सूक्तनाम मयेरितम् | गव्यमन्त्रेण तद्गव्यं प्राणाख्येन पयो गुरुः || चरुभिः समिदाज्याद्यैः गव्येन पयसा हुनेत् | तथा सहस्रसंख्यान्तश्चाहुतिर्मनुवित्तमः || सहस्रार्धाहुतिभिर्वा शतमष्टोत्तराहुतिः | प्. १६५) पुनः पूर्णाहुतिं कुर्यात् सम्पाताज्यं समर्पयेत् || सूतकाविष्टमत्ये चेत् यत्र यत्र गमिष्यति | तत्तन्मूलेन होतव्यं पृथगेवं विचक्षणः || शतकुम्भे तदा सिञ्चेत् सर्षपं लवणं तिलम् | कूश्माण्डं माषधान्यं च भूसुरेभ्यः प्रदापयेत् || बहुविप्रांश्च संभोज्य पूजयेन्मूल देवता | साधारणक्रमो ह्येवमधिपं प्रोच्यतेऽधुना || गर्भे नास्यां रमास्थाने प्रतिष्ठे सूतकान्विते | द्विजे चैव महाशान्तिक्रिया प्रागुक्तमार्गतः || प्राणमन्त्रेण मूलेन तवाङ्गमनुभिस्ततः | अयुतार्धश्च तस्यार्धतदर्धश्चाहुतीर्हुनेत् || स्नपये घटसाहस्रैस्सहस्रार्धेस्तदर्दकैः | गोभूम्यादीनि दानानि दद्यात्तद्दोष शान्तये || विप्रांश्चैव बहून् भोज्या शेषं कर्म पुरोक्तवत् | ब्रह्महा मद्यपा स्वर्णस्तेयी च गुरुतल्पगः || तत्संयोगादयो विप्राः लिङ्गगेहं नगात्मजे | प्. १६६) न विशेयुर्न सन्देहो प्रमादाद्देवतालयम् || यदि प्रवेशयेयुस्ते प्राकारादिप्रभेदके | पृथक् दोषं च तच्छान्तिं शृणु देवि यथाक्रमम् || ब्रह्महत्यापिते मन्त्ये प्राकारान्त प्रवेशिते | राज्ञो राष्ट्रस्य भङ्गत्वं दुर्भिक्ष स्यान्न संशयः || तज्जनं च परित्यज्य विधिवच्छान्तिमाचरेत् | तत्र शान्ति प्रकुर्वीत अकृते बहुदोष भाक् || मण्टपे सुख नास्ये चेत् प्रविष्टे ब्रह्मघातके | परराजभयं राज्ञो विराज्यत्वं न संशयः || धनदारादि नाशस्यात् राजभोगस्तथैव च | तस्माज्ज्ञात्वेति दोषौघान् तत्क्षणात्तं परित्यजेत् || शान्तिं च विधिवत् कृत्वा महाभूतबलिं हरेत् | ब्रह्महा गर्भगेहान्तः प्रविष्टे चेन्महेश्वरि || प्रमादाल्लिङ्गसंस्पर्शे सन्निधानं विनश्यति | राज्ञो मृतिर्भवेत्सद्यो राजदानी तथैव च || शत्रुबाधा विराज्यत्वं राजवंशक्षयो भवेत् | प्. १६७) तस्यामात्यास्सैन्यपाद्याः विनश्यन्ति न संशयः || महामारीभयं नॄणां प्रजानाशो भविष्यति | परित्यज्य तदै शू ब्रह्महादि जनान् गुरुः || पुनः शान्तिं प्रकर्तव्या वक्ष्यमाणेन मार्गतः | तच्छान्तिं संप्रवक्ष्यामि संक्षेपेण कलाधरे || विनायकं समभ्यर्च्य नान्दीकर्म ततः परम् || पुण्याहं वाचयेत्तत्र पवमानादिमन्त्रकैः | प्राकारवेशनी देवमष्टोत्तरशतैर्घटैः || सेचयेत्तद्विधानेन न प्राङ्कणे च प्रवेशिते | स्नपये द्विशतैः कुम्भैः अष्टायुग्माधिकैः शिवान् || मण्टपे भूसुराभ्ये च सुखशालां प्रवेशिते | सहस्रार्धघटैः सिञ्चैः देव देवीं च शाम्भवीम् || लिङ्गगेहं प्रविष्टश्चेल्लिङ्गसंस्पर्शने यदि | विधिवद्घटसाहस्रैः साम्बलिङ्गं तवात्मकम् || ततो होमं प्रकुर्वीत मम गायत्रिमन्त्रतः | मूलमन्त्रेण घोरेण प्राणमन्त्रेण देशिकः || प्. १६८) अयुतार्धार्धाहुतिभिः अयुतार्धाहुतिर्हुनेत् | अयुतं मण्टपेनास्यां लिङ्गगेहप्रवेशने || समिदाज्यादिभिर्द्रव्यैः हुनेत् सार्धायुताहुतिः | गायत्रीं मूलमन्त्रं च घोरमन्त्रीं नवाक्षरीम् || ब्रह्ममन्त्रं च दिक्पालान् परिवारमनूनपि | जपेद्धोमावसानान्तं दशदानं ततः परम् || अन्नदानादिकं दद्यात्तद्दोषशमनाय च | भोजयेद्बहुविप्रांश्च प्राकारादि स्थले शुचा || इति श्रीवातुलोत्तरे दुर्गाभेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे लिङ्गपूजकादि निरूपणं नाम अष्टादश पटलः | महादेव नमस्तुभ्यं महीपति हिता (सुखा)य च | नमस्ते जगदाधार नमस्ते फाललोचन || मल्लिङ्गे नैत्तिकं कर्म घटिभेदेन शङ्कर | तत्कर्मनिवृतिर्नाम घटिभेदेन विस्तरात् || प्. १६९) उषत्कालादि रात्रान्तं गुरुः कालादि मानिनी | शृणु वक्ष्ये विशेषेण सम्पद्राज्याभिवृद्धये || उषःकाले कमुत्थाय स्वगुरुं चिन्तयेद्बुधः | नमस्ते देवदेवेश सर्वदेवनमस्कृत || लिङ्गसंपूजकाः के च रथाद्युत्सवकर्मणि | आचार्यत्वे च कः श्रेष्ठः के जना स्पर्शका वद || तथैवास्पर्शका देव गर्भागारादि भेदतः | तत्र दोषं फलं शान्तिं श्रोतुमिच्छाम्यहं गुरो || श्रीशङ्करः - शृणु वक्ष्याम्यहं देवि सर्वलोकहिताय च || राज्यकोशाभिवृद्ध्यर्थं रहस्य सुरदुर्लभम् | चतुरङ्गबलार्थाय सुभिक्षार्थं मनोहरे || दीक्षावान् सत्कुलीनश्च वेदशास्त्रागमान्वितः | वंशवान् तत्त्ववेदी च स द्विजो लिङ्गपूजकः || कुटुम्बी सत्यवादी च लिङ्गर्चनरतः शुचिः | लिङ्गसान्निध्यवेत्ता च मितभाषी जितेन्द्रियः || प्. १७०) याज्ञिकश्चास्तिको धर्मी (इदुहिन्दि सम्मन्ध) कन्नडलिपि महादेव नमस्तुभ्यं महीपतिसुखाय च || महाजनमुदार्थाय राज्यकोशाभिवृद्धये | नमस्ते जदाधारे नमस्ते फाललोचन || मल्लिङ्गे नैत्तिकं कर्म घटिभेदेन शंकर | तत्कर्मविवृतिर्नाम कथं कर्ममितं शिव || विप्रसंख्यान्दैशिकादि पृथक् तेषां च दक्षिणाम् | तत्तन्मन्त्रं तत्पलं च श्रोतुमिच्छाम्यहं वद || शङ्कर उवाच - त्वल्लिङ्गे नैत्तिकं कर्म घटिभेदेन विस्तरात् | उषःकालादि रात्रान्तं गुरुः कालादि मानिनी || शृणु वक्ष्ये विशेषेण सम्पद्राज्याभिवृद्धये | उषःकाले समुत्थाय स्वगुरुं चिन्तयेद्बुधः || चारकादि द्विजैस्सार्धं नदीं गत्वारुणोदये | शौचाचारविधिं नीत्वा स्नात्वा विप्रगणैस्सह || नाड्याञ्च नव पञ्चाशत् स्वनित्यानि समापयेत् | प्. १७१) तवालयं समागत्य विप्रबृन्दादिकैस्सह || पालिके प्रार्थयित्वार्यः कवोटोद्घाटनं क्रियात् | जयघण्टादि नादेन शङ्खभेर्यादि निस्स्वनैः || सर्ववाद्यरवैस्सार्धं स्तोत्रं गीतं च नर्तनम् | वीणीवेणुरवैर्देवि वादयेत्तव बोधने || सम्यक् प्रबोध्य दीपांश्च दीपमन्त्रं वदन् बुधः | देशिकानुज्ञया विप्राः लिङ्गं पीठं च तद्गृहम् || संशोध्य क्षालयेयुस्ते सिद्धिसाधनमसूयकैः | संमार्ज्य वायुबीजेन प्रोक्षणं सौधबीजतः || क्षालनं वारुणास्त्रेण तव मूलेन शैलजे | सुखनासिं मण्टपं च वाहनाख्यं च गोपुरम् || सभामण्टपहर्म्यादि परिवारालयादिकम् | षष्टिनाड्यां द्विजाद्याश्च वर्णभेदेन चारकाः || तत्र तत्र पृथक् कुर्युः बहिर्द्वारावधि प्रिये | तवाग्रे द्वारदेशे च धर्मश्रवण मण्टपे || घटिस्थाने सभाख्ये च परिवार निकेतने | प्. १७२) रञ्जयेद्रङ्गवाल्याद्यैः रजोभिः पञ्चभिः परम् || नडिका प्रथमादौ तु घटिकापात्रमर्चयेत् | तन्यस्त्वा सौरमन्त्रेण वेदघोषादिभि स्वनैः || नदीतोयं समानीय वर्धन्यां योज्य मूलतः | स्वशाखोक्त द्विजैस्सार्धं तववन्दनपूर्वकम् || गुरुरन्तः प्रविश्याथ लिङ्गदक्षिण भागके | मण्डलानि लिखेदादौ समाराध्य विनायकम् || नान्दी कर्मादि पुण्याहं मूललिङ्गगृहादितः | सूपधान्यादि सर्वत्र वापयेद्वरयेद्द्विजान् || गुरुं पितामहं द्रव्यदायकं बिम्बवाहनम् | सदस्यं चतुरो वेदघोषकान् पञ्चसूक्तकान् || श्रीरुद्रसेवकन् पञ्च पूजकान् जापकान् तथा | प्रदक्षिण कृतस्त्रींश्च नृत्यर्थं त्रीन् जनान् तदा || चारार्थं दशविप्रांश्च पृथक् तन्मूलमन्त्रतः | पवमान घटं न्यस्य कुम्भं यष्ट्वा विधानतः || काली घणं(टं) रुद्रकुम्भं यजेत्पञ्च सुधारसान् | प्. १७३) गव्यकुम्भस्थ गव्येन गव्यमन्त्रमुदीरयेत् || पावमानेन सूक्तेन तद्घटस्थोदकेन च | सिञ्चेल्लिङ्गञ्च गङ्गायाः सहस्रैर्नामभिः परम् || यष्ट्वा पञ्चोपचाराद्यैः तव बीजसमन्वितैः | सार्धद्विनाड्या दध्यन्नं समर्प्य मनुना तव || ताम्बूलं दापयेद्देव्याः सवत्सागां निरीक्षयेत् | पञ्चाङ्गश्रवणं पश्चात् नीराज्यं भ्रामयेत्ततः || मन्त्रैः पुष्पं समभ्यर्च्य पुनः पञ्चामृतैः शिवाम् | तैर्मन्त्रैस्सेचयेल्लिङ्गं रुद्रमन्त्रेण तत्परम् || रुद्रसंख्यावृतं रुद्रं त्वदन्तः सेच्य भक्तितः | कालीसूक्तेन दुर्गायाः सूक्तेनार्याभिधेन च || शूलिनीसूक्तमन्त्रेण सेचयित्वा पृथक् गुरुः | रुद्रकुम्भोदकेनान्ते कालीघटजलेन तु || तवालय चतुर्दिक्षु वेदपारायणादिकम् | कालीमनुं च सौरं च नतिकं तर्पणं तदा || दुर्गामनुं च वह्न्यस्त्रं शूलिनिमनुमुत्तमम् | प्. १७४) जपेत्तवोपहारान्तं पृथक् पल्लवसंयुतम् || प्रदक्षिणं नतिं चैव बलिदानावधि प्रिये | कालीमालामनुं पश्चाद्दुर्गामालाभिधं गुरुः || आर्या भगवती मालां तव मालामनुं क्रमात् | जपन् सहस्रमर्धं वा शतमष्टोत्तरं तु वा || त्वल्लिङ्गदक्षिणे भागे पश्चिमे वाथ चोत्तरे | कोणे कोणान्तराले वा मूलगेहे त्वथापि वा || मण्टपे वाहनाख्ये च पृथङ्मन्त्रान् जपेत् तदा | कर्वीत मनुना प्रार्थ्य कालीकल्पोक्तवद्गुरुः || यष्ट्वा तन्नामभिर्लिङ्गं सहस्रैः बीजसंयुतैः | दुर्गार्यशूलिनीनां च सहस्रैर्नामभिर्यजेत् || पञ्च पुष्पाञ्जलिर्दत्वा साम्प्रदायोक्तवद्यथा | उपचारैष्षोडशभिः तव मूलं जपेच्छतम् || मुद्गान्नं घृतसंयुक्तं सूपशाकरसान्वितम् | मधुशर्करया युक्तं बालचूतफलैर्युतम् || पायसं भक्षपानीय लेह्यचोष्यादि संयुतम् | प्. १७५) पञ्चनाड्यञ्च मूलेन धूपदीपादिकं गुरुः || निवेदयेत्ततो भक्त्या द्वारमाच्छाद्य वस्त्रतः | होमगेहं प्रविश्याथ मूलेनाष्टोत्तरं शतम् || हुत्वा सम्पातमादाय तव मूलन् वदन् बुधः | प्रक्षाल्य पादावाचम्य घण्टाताडनपूर्वकम् || त्यजेदाच्छादनं पश्चान्निवेद्यानि विसर्जयेत् | प्रसन्नार्घ्यां च दत्वान्ते ताम्बूलार्पणमादितः || भ्रामयेद्दीपजालांश्च नीराज्यान्तं च बुद्धिमान् | नीरदीपं दर्शयित्वा मन्त्रपुष्पार्चनं ततः || परिवारान् समभ्यर्च्य जयघण्टारवादिकैः | भूतानाहूय मूलेन मालामन्त्रेण देशिकः || बलिदानं च षण्णाड्यामुत्सवं च प्रचारयेत् | पद्मदीपं समर्च्येशि पादप्रक्षालनादितः || तव बिम्बं प्रविश्यान्तः चन्द्रदीपं प्रदर्शयेत् | कर्मजालं समर्प्यान्ते सद्भक्त्या मन्त्रवित्तमः || कर्म संपूर्णतावाच्यै कृच्छ्रं दद्यात्परं गुरुः | प्. १७६) पञ्चोत्तरं षष्टिकर्म प्रातःकाले मयेरितम् || सर्वभोगप्रदं दिव्यं सर्वाघौघविनाशनम् | सुभिक्षदं शोकहरं सर्वशत्रुजयप्रदम् || वंशवृद्धिकरं सद्यः कामितार्थप्रदं प्रिये | इति श्रीवातुलोत्तरे दुर्गा भेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदेन दुर्गाः प्रातःकाल नित्यकर्म विवृतिविधाननिरूपणं नाम एकोनविंशति पटलः | मध्याह्न नैमित्तिक कर्म प्रवक्ष्याम्यथ सुन्दरि | सङ्गवी सप्तनाड्यादि द्वादशान्तं मनूत्तमः || शुद्धात्मा भूसुरैस्सार्धं स्वनित्यानि समाप्य च | देशकालौ च संकीर्त्य तव पुत्रं यजेत्परम् || पुण्याहं वाच्य वरयेदुक्तवद्भूसुरोत्तमान् | गुरुं च धनदं चैव सदस्यं सर्वतोऽधिकम् || सेचकान् रुद्रसंख्यांश्च वाहकं वेदवादिकम् | प्. १७७) सूक्तकान् पूजकान् देवि पृथक् पञ्च द्विजोत्तमान् || मन्त्रपल्लवसंयुक्तान् जापकान् पञ्चविंशतिः | प्रदक्षिण जनान् पञ्च नत्यर्थं पञ्च भूसुरान् || धर्मशास्त्र प्रवक्तारं ज्योतिषज्ञं जनप्रिये | वरयेत्तव मूलेन कृच्छ्रं दद्यात्स्वशक्तितः || रुद्रसंख्यद्विजैस्सार्धं यष्ट्वा रुद्रघटं पुनः | सुधारसैरमाकुम्भं न्यस्त्वा तद्विधिनार्च्य च || लिङ्गं सुधारसैस्सिञ्चेत् ते सर्वे न्यासपूर्वकाः | रुद्रमन्त्राम्बदन्तस्थे पृथगैकादशाहुतिः || सेचयित्वा जनैर्लिङ्गं मन्त्रजालान् जपेत् क्रमात् | चतुर्वेदान् गेहदिक्षु विदिक्ष्वस्त्रमनून् पुनः || ब्रह्मास्त्रं वारुणास्त्रं च तवास्त्रं चक्रसंज्ञकम् | रमामन्त्रं कुमार्याख्यमम्बिका मनुसंयुतम् || नवदुर्गामनुं देवि वाहनाख्यं गणेश्वरम् | स्कन्दं च वीरभद्रं च वायुपुत्रमनुं गुरुः || पालिके परिवाराख्यं तव मूलमनुं तदा | प्. १७८) चण्डीं सप्तशतीं तत्र विवार्णज्ञा द्विजोत्तमाः || तव संख्याश्च ते प्रोक्ताः साम्प्रदायविदस्तदा | रमाकुम्भस्य पूर्वादि परितः परिवेष्टिताः || जपेयुस्तं स्पृशेयुस्ते सेचनान्तं विचक्षणाः | नति प्रदक्षिणं चैव दीपान्तं परिवर्तयेत् || धर्मशास्त्र पुराणानि वाचयित्वा तदग्रके | रुद्रकुम्भोदकेनान्ते लिङ्गं सेच्य मनूत्तमः || नैवेद्यं विविधं स्थाप्य दीपजालांश्च दर्शयेत् | त्रयोदशे च नाड्यादौ सिञ्चेत्पञ्चामृतैः पुनः || पञ्चपुष्पैस्समभ्यर्च्य रमासूक्तेन तत्परम् | कुमार्याश्चैव सूक्तेन देवीसूक्तेन मन्त्रवित् || अम्बिकासूक्तमनुना घनसारोदकादिकैः | वनाख्यायाश्च सूक्तेन रमाकुम्भोदकेन च || रमानामसहस्राद्यैः कुमारीनामभिस्तदा | सहस्रैरम्बिकायाश्च महिषान्तक्याश्चनामभिः || गायत्रीनामभिः पश्चात् सहस्रैः कुसुमाक्षतैः | प्. १७९) यष्ट्वा संप्रार्थ्य बहुधा लिङ्गमुद्रां प्रदर्शयेत् || नैवेद्यं धूपदीपाद्यमर्पयित्वा विधानतः | घटिकातिथिसंख्यान्तं भक्त्या पूजां विधाय च || महापूजा प्रकर्तव्या रमाकल्पोक्तवद्गुरुः | पूजयेत्सोपचाराद्यैस्तव मूला जना तदा || शाल्यान्नं सूपशाकाद्यं घृतभक्षसमन्वितम् | पायसं लेह्य चोष्यादि षड्रसैः संयुतं प्रिये || देवस्यत्वेति मन्त्रेण पुष्पाक्षतजलान्वितः | निवेदयेत्ततो देव्यै द्वाराच्छादनपूर्वकम् || पालिके वाहनं यष्ट्वाहविर्दद्यात्स्वनामभिः | ब्रह्मणा धनदेनार्यः सदस्येन सदेहवत् || यागभूमिं ततो गत्वा कुण्डे वा स्थण्डिलादिके | समिदाज्यैश्च पयसा सर्पिषा चरुणा सह || तव मूलेन जुहुयात् अष्टोत्तरशताहुतिः | पूर्णाहुतिं हुनेदन्ते होमकर्म समाप्य च || तच्छेषं च समादाय मूलमन्त्रं वदन् गुरुः | प्. १८०) लिङ्गग्नेययां च निक्षिप्य सम्पाताज्यसमन्वितः || संक्षाल्य हस्तौ पादौ च आचम्य सह भक्तितः | घण्टाताडन पूर्वादि द्वारस्याच्छादनं त्यजेत् || नैवेद्यं विसृजेदन्ते तत्र संक्षाल्य तत्परम् | प्रसन्नार्घ्यं च ताम्बूलं तत्वार्च्य गुरुराचमेत् || कपिलांगां समानीय प्रदक्षिणवशात्ततः | सवत्सां मण्डनैयुक्तां मूलेनाग्रे यजेत्तदा || निरीक्ष्यार्च्य हविर्दत्वा प्रार्थयित्वा विधानतः | वेदमङ्गलघोषाद्यैः पञ्चवाद्यरवैस्सह || सद्भक्तैर्गायकाद्यैश्च वन्दिमागधपाटकैः | प्रभूत्तमैर्जनैस्सार्धं दीपौघान् भ्रामयेद्गुरुः || धूपं दद्यात्पटाकारं दीपं वृत्तेन भ्रामयेत् | त्रिवारं चैकदीपं च पञ्चवारं शराख्यकान् || सप्त शेषाख्यकान् देवि चक्रदीपांस्तथैव च | नववारं भौमदीपान् दश नीराजनं ततः || त्रिवारं चैव चन्द्राख्यं तत्तन्मन्त्रान् वदन् बुधः | प्. १८१) पृथक् संभ्रामयेदन्ते मन्त्रपुष्पार्चनान्वितः || परिवारान् समभ्यर्च्य धूपदीपादिकैः परम् | भूतानाहूय घण्टाद्यैः नाड्यानष्टादश क्रमात् || द्वारादि बलिपीठान्तं बलिं दद्यात् स्वनामभिः | क्षेत्रपाय ततो दत्वा तत्तन्मन्त्रेण देशिकः || तदन्ते चोत्सवं कुर्यादुत्सवान्ते तदग्रके | तव बिम्बं परिभ्राम्य पद्मदीपेन सुव्रते || तत्पाङ्कणं प्रविश्याथ निशामन्त्रेण मन्त्रवित् | निशातोयं समादाय तव बेरं त्रिशःपुनः || तव मन्त्रं वदन् भ्राम्य विसृजेद्वामगोचरे | तव बिम्बं प्रवेश्यान्तः पादप्रक्षालनादितः || लिङ्गस्य दक्षिणे न्यस्त्वा तच्चैतन्यं नियोजयेत् | अर्घ्यं दत्वा प्रसन्नार्थं चन्द्रदीपं प्रदर्श्य च || कर्मजालं समर्प्यान्ते तव मूलं जपेच्छतम् | पादोदकं तु निर्माल्यं विप्राणां कर्मचारिणाम् || भक्तानां चैव सर्वेषां दद्याद्वाहन दक्षिणे | प्. १८२) वलभ्यां बन्धयेद्वारं नाड्यं विंशति देशिकः || चतुर्विंशति नाड्यान्त आतिथेयादि भूसुरान् | दम्पतिं कन्यकाश्चैव विप्रमुख्यान् नगात्मजे || कृशानन्धांश्च बधिरान् दरिद्रांश्च कुटुम्बिनः | अनन्यगतिकांश्चैव भोजयेत्तोष्य भक्तितः || कर्मसप्तति विख्यातं मध्याह्नान्तं नैत्तिकम् | सर्वपापहरं दिव्यं राज्यकोशाभिवृद्धिदम् || सर्वरोगहरं सौख्यं तापत्रयविनाशकम् | त्रैलोक्यवश्यदं देवि भूपतेर्विभवप्रदम् || देहान्ते तव रूपत्वप्रदं सायुज्यदं प्रिये | इति श्रीवातुलोत्तरे दुर्गा भेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदे नवदुर्गमध्याह्न नित्यकर्मविवृति विधाननिरूपणं नाम विंशतिः पटलः | Pअगे णो. १८२ इस् मिस्सिन्ग् प्. १८३) सायादि भूरूरात्रान्तं कर्मजालं च नैत्तिकम् | प्रवक्ष्यामि नगोद्भूते विस्तराच्छृणु सांप्रतम् || विप्रोत्तमैश्चारकाद्यैः सार्धं स्नात्वा गुरूत्तमः | तव गेहं प्रविश्याथ भेरीशङ्खरवादिभिः || सप्तविंशति नाड्याश्च द्वारबन्धं त्यजेत्पुनः | संमार्ज्य प्रोक्ष्य गर्भादि सर्वत्र क्षालयेत्तदा || प्राजापत्यादि मन्त्रेण पुण्याहं वाच्य भूसुरान् | वरयेद्देशिकादींश्च तव मूलेन सुव्रते || देशिकं धनदं चैव ब्रह्माणं सर्वबोधकम् | त्वरिताख्यं रुद्रसंख्यान् बल्यर्थं बिम्बधारकम् || सूक्तार्थ नामपूजार्थं पञ्च पञ्च पृथक् द्विजान् | प्रदक्षिणार्थं नत्यर्थं षड्घनान् वरयेत् परम् || धर्मशास्त्रपुराणाय न्यायशास्त्राय चण्डिके | द्वौ विप्रौ वरयेत्पश्चाच्चारार्थं दश भूसुरान् || त्वरिताख्यघटं यष्ट्वा शारदाख्यं सुधारसान् | समर्च्योक्तविधानेन रुद्रसंख्याद्विजास्तदा || प्. १८४) नमो रुद्रेभ्य इत्यादि वदन्ति न्यासपूर्वकम् | सिञ्चेत्सुधारसैर्लिङ्गं पुनः शुद्धोदकैर्द्विजाः || तद्घटस्थोदकेनान्ते गुरुस्तद्विधिनार्चयेत् | अर्धाम्बिकेशमन्त्रेण सहस्रैर्नामभिः परम् || बहून्यन्तानि नैवेद्यं विविधं भक्षसंयुतम् | पायसं सूपशाकाद्यं क्षीरमध्वाज्यसंयुतम् || नाड्यां चैकोनविंशत्यां समर्प्य तव मूलतः | दर्शयेद्दीपजालांश्च मन्त्रैः पुष्पार्चनं परम् || ततो गोधूलिकाकाले त्रिंशन्नाड्यावसानके | घटियन्त्रं समुद्धार्य तन्मूलमनुना गुरुः || गोसूक्तं प्रवदन् सेच्य समर्चोक्तविधानतः | भूषिताङ्गान् समानीय लक्षणैर्वत्ससंयुताम् || गेहं प्रदक्षिणीकृत्य समर्च्योक्त हविर्ददेत् | नैवेद्यमर्च्य मूलेन दीपजालां प्रदर्शयेत् || पञ्चपुष्पार्पणान्ता च बलिदीपनतिं तदा | पुनः सुधारसैः सिञ्चेद्रात्रिसूक्तेन मन्त्रवित् || प्. १८५) चण्डिकायाश्च सूक्तेन वाणीसूक्तेन तत्परम् | सूक्तेन भुवनेश्वर्याः लिङ्गं संसेचयेत्पृथक् || वाणीघटोदकेनान्ते सेचयित्वार्चयेत् ततः | वाणीकल्पोक्तवन्मन्त्री पूजाकर्म समाचरेत् || पारायणं दिक्षु कुर्यात्पुराण पठनादिकम् | विदिङ्मन्त्रन् चण्डिकादि वाणी वागीशसंज्ञकान् || प्रत्यङ्गिरः पञ्चदुर्गां मृत्योस्तुल्यं च सुन्दरीम् | रक्षाघ्नं वास्तुमन्त्रं च धारणाख्यां च बालकाम् || इन्द्राक्षीं शिवकवचं तु साध्यनामा सहैव तु | नतिं प्रदक्षिणं चैव भूताह्वानान्तमुच्यते || चण्डिकानामभिश्चादौ शारदायाश्च नामभिः | सहस्रैर्वाक्यनायक्या ललितानामभिः परम् || सहस्रैश्च पृथक् पूज्य जपेन्मूलमनुं गतम् | ततो नाड्या त्रयस्त्रिंशे नैवेद्यं विविधं गुरुः || समर्प्य तव मूलेन दीपौघान् भ्रामयेत्तदा | पञ्चपुष्पाणि मूलेन दत्वा नत्वा विधानतः || प्. १८६) तदन्ते च महापूजां न्यासजालादि मान्त्रिकः | मातृकां गोलकान्यासमध्यन्यासं च पीठकाम् || षोडान्यासादि सर्वाणि विधाय तव मूलतः | यष्ट्वा लिङ्गं च बहुभिः पत्रैः पुष्पैस्तिलाक्षतैः || उपचारत्वसंख्यायां धूपदीपसमन्वितम् | निवेदयेत्ततो देव्या होमगेहं प्रविश्य च || मूलेन समिदाज्यादि हवि व्रीहीन् पयस्तिलान् | दूर्वाग्रं च हुनेदग्नौ शतमष्टोत्तराहुतिः || व्याहृत्या मूलमनुना पुनः पूर्णाहुतिं हुनेत् | होमशेषं गवे दत्वा सम्पाताज्यसमन्वितः || प्रक्षालिताङ्घ्री हस्तौ च मन्त्रेणाचमनीयकम् | नीत्वा द्वारं च यष्ट्वार्यः तद्वस्त्रं च विसर्जयेत् || हविरुद्वास्य तच्छेषं मुण्डिन्यै च प्रदापयेत् | प्रसन्नार्घ्यं च दत्वान्ते ताम्बूलान्यर्प्य भक्तितः || रङ्गपूजा प्रकर्तव्या ध्वजान्तं च विशेषतः | पुरान्तं गोपुरान्तं वा गेहद्वारावसानकम् || प्. १८७) पार्श्वयोः परितश्चैव बहुदीपान् प्रबोधयेत् | बोधयेच्चन्द्रदीपान्तं दीपजालान् विचक्षणः || मन्त्रैः पुष्पं समर्च्य(र्प्या)न्ते परिवारान् यजेत्तदा | जयघण्टादिकैर्वाद्यैर्भूतानाहूय मूलतः || अष्टत्रिंशद्गुरुं नाड्यां बलिदानं स्वनामभिः | दत्वा समाप्य बल्यन्ते वीणाकाहलनिस्वनैः || पञ्चवाद्यरवैस्सार्धं दुत्सवं बहिरावृतौ | नीत्वा बिम्बं चोत्सवान्ते निजभक्तजनैस्सह || चत्वारिंशद्विनाड्यादौ प्रविश्यास्थानमण्टपम् | तदन्तरादिभेदेन प्रवक्ष्यामि मनोहरे || देवान्तरं च दीपाख्यं तदन्ते देशिकान्तरम् | विप्रान्तरं च दण्डाख्यं पञ्चान्तरमृदाहृतम् || देवान्तरं च देवेशि न्यस्त्वा संपूजयेत्पुनः | दीपस्तम्भौ च दीपाख्ये तव दक्षिणवामयोः || विन्यसेत्तां देवसघ्यौ दीपपात्रत्रयान्वितौ | स गुरोरन्तरे देवि तथैव गुरुवाहकौ || प्. १८८) प्रतिष्ठेतां गुरोर्वामे धनदश्च पितामहः | ज्योतिषज्ञ सम(द)स्यादि विप्रमुख्या व्यवस्थिताः || तव पृष्ठे गुरोश्शिष्याश्चारा वाहकदक्षिणे | पुनर्विप्रान्तरे देवि दक्षिणे वेदपारगाः || बिम्बपृष्ठे जापकाद्याः तद्वामे स्तोत्रवाचकाः | तवाग्रे पार्श्वयोश्चैव धर्मशास्त्रप्रबोधकौ || दण्डान्तरे स्वर्णदण्डबिभ्रकौ स्तोत्रवाचकौ | व्यवस्थितौ च तद्दक्षे पृष्ठे वामप्रदेशके || व्यवस्थिताः शुचिर्भूताः बलिदीपधरा जनाः | दण्डान्तरादधस्थाने तवाग्रे च समस्थले || पञ्चहस्तान्तरं तिर्यग्घित्वा भूमिं सुरेश्वरि | तत्पार्श्वयोर्द्वयोर्देवि पङ्क्तिरूपेण वाग्यताः || अर्धहस्तान्तरं मध्ये पङ्क्तिस्थानान्यथाक्रमात् |(मम्) | नीत्वा पृथक् पृथक् तत्र सेवकादि प्रभेदतः || छत्रकौ वायुपटकौ मङ्गलायुधसंयुतौ | दण्डवीजनमर्त्यौ च गायकौ वायुबीजकौ || प्. १८९) रूपयौवन संपन्न चामरस्त्रीकदम्बकौ | ताम्बूलबिभ्रके देवि ताम्बूलोच्छिष्टपात्रके || बिभ्रके जलपात्रे च पुनरादर्शदर्शके | बलिदीपधरौ मर्त्यौ पुष्पवृष्टिकरौ नरौ || विप्रोत्तमा दक्षपङ्क्तौ वामपङ्क्तौ नृपादिकाः | वाद्यका नाट्यका स्निग्धे गणिका नृत्तवेदिकाः || व्यवस्थिताः पयौः पङ्क्तौ गजाश्वाद्या ध्वजान्विताः | भक्ता भटा दर्शकाद्या तयोरग्रे व्यवस्थिता || ततो देवीं समाराध्या चणकैश्च फलादिकैः | पक्वैश्च विविधैस्सार्धं धूपदीपायुतं गुरुः || नैवेद्यं चार्पयेत्तस्मात्ताम्बूलं दापयेत्परम् | भौमाख्यान् चक्रदीपांश्च पद्मनीराजसंज्ञकम् || हिमान्तं भ्रामयेद्देवीं मनुपुष्पार्चनं ततः | सेवाजालं च वेदादि श्रावयेत्प्रार्थनादिकम् || नमस्तुभ्यं महाकालि सिद्धगन्धर्वसेविते | राज्ञो राज्याभिवृद्ध्यर्थं ऋग्गृचं शृणु पार्वति || प्. १९०) महालक्ष्मि नमस्तुभ्यं ब्रह्मादि सुरसेविते | धनकोशाभिवृद्ध्यर्थं यजुर्वेदमनुं शृणु || सरस्वति नमस्तुभ्यं सर्वदेवगणान्विते | कीर्तिकान्ति सुभिक्षार्थं सामगानं शृणु प्रिये || मूर्तित्रयात्मकं देवि नमस्तुभ्यं महेश्वरि | अथर्वण ऋचं श्रुत्वा वाञ्छितार्थं प्रयच्छमे || क्रमाद्वेदमनून् श्राव्य पुष्पं दद्यात् पृथक् पृथक् | वेदान्ते गायकौ गाने शङ्खनादं तदन्तरे || मौखीचक्रवाद्यानि पञ्चवाद्यानि तत्परम् | वादयेद्गतिवाद्यानि नर्तनं भरतोक्ततः || नर्तको मर्दकश्चैव गायको वंशकस्तथा | ततो मौरलिकाश्चैते पञ्चाचार्याः प्रकीर्तिताः || रूपयौवनसंपन्नास्त्री नाट्ये कुशलान्विताः | नर्तको मर्दकश्चैव तव दक्षे व्यवस्थितौ || गायको वंशकाख्यश्च वामभागे व्यवस्थितौ | अग्रे मौरलिका सौम्ये वादयेन्मुखं तथा || प्. १९१) गणिका नर्तनं कुर्युः सर्वलक्षणसंयुताः | नर्तनन्ते पद्मदीपान् वक्ष्यमाण विधानतः || स्वर्णदौर्पण ताम्रात्थ दीपपात्राणि कारयेत् | तालमानानि वृत्तानि दलाष्टकयुतानि च || कर्णिकाभिः संयुतानि तेषां मध्ये विचक्षणः | नवपात्राणि वा सप्त पञ्च त्रीण्येकमेव वा || तेषु दीर्घान् प्रबोध्यान्ते त्रिवारं भ्रामयेत्प्रिये | दिवा रात्रौ सहार्चायां गणिका नृत्तलालसाः || गानशास्त्रोक्तमार्गेण भ्रामयेयुः स्त्रिशः परम् | दीपान्ते सर्ववाद्यानि वादयेयुश्च वादकाः || चणकादिफलं पक्वं नवधा विभजेत्पुनः | तव निर्माल्यदानान्ते देशिकादि प्रभेदतः || एकभागं देशिकाय भागार्धं वाहकाय च | द्वौ भागौ विप्रमुख्येभ्यः नृपादिभ्यस्तथैव च || त्रीन् भागान् सेवकादिभ्यः प्रदद्याद्दण्डधारकः | अर्धभागं स्वयं गृह्य सेवाजालं समाप्य च || प्. १९२) सेवाजालं समन्तेत * * * * * * * * | * * * तव बिम्बं च प्राङ्कणं प्रविशेद्गुरुः || प्रदक्षिणवशात्तत्र मूलमन्त्रं वदन् प्रिये | ततो गानेन निश्शब्दैश्शनैर्गेहं तवात्मकम् || चत्वारिंशत्पञ्चनाड्यां बिम्बमन्तः प्रवेश्य च | तव बिम्बातु चैततन्य मूललिङ्गे निवेशयेत् || पुनः पञ्चोपचाराद्यैरर्चयित्वा महेश्वरीम् | क्षीरान्नं च कशायोत्थं जलताम्बूलसंयुतम् || समर्च्य तव मूलेन नीराज्यं हिमसंज्ञकम् | दीपं प्रदर्शयित्वार्यः प्रसन्नार्थं यजेत्वरम् || क्रियान्यूनातिरिक्तार्थं सुविप्राय स्वशक्तितः | कृच्छ्रं दत्वा प्रतोष्याथ कर्मजालं समर्पयेत् || भक्तानां परिवाराणां सेवकादि नृणां प्रिये | क्पाथोदकं तु निर्माल्यं दद्यात् त्वल्लिङ्गवामके || चत्वारिंशत् सप्तनाड्यां कवाटं बन्धयेद्गुरुः | परितो गेहरक्षार्थं शतसंख्यजनाः परम् || प्. १९३) वसेयुश्च विनिद्रास्ते गृहं गच्छेन्मनुत्तमः | विंशोत्तरं शतं कर्म निशार्धे सम्यगीरितम् || सम्पज्जालप्रदं सौख्यं राज्ञो राज्ञां च वंशदम् | नित्यं कालत्रयेप्येवमुक्तं कर्म नगोद्भवे || नियमेनैव यः कुर्यात् कस्यं पुण्यं वदाम्यहम् | ऐहिके च बहून् भोगान् सुभिक्षं च जयं यशः || प्राप्नुयात्सार्वभौमत्वं सप्तजन्मस्य संशयः | देहान्ते तव रूपत्वं ममत्वं च मनोहरे || रहस्यं तत्र वक्ष्यामि त्रिकाले नाडि भेदतः | काले काले प्रकर्तव्यमुक्तं कर्मविचक्षणः || कालातीते निष्फलं स्याद्दुर्भिक्षं राज्यनाशनम् | तस्माद् ज्ञात्वा मयोक्तेन नाडी भेदेन पार्वति || काले सम्यग्गुरुः कुर्यात् क्रियाजालमतन्द्रितः | सप्तदेवेष्विदं कर्म कर्तव्यं मनुवित्तमः || पृथक् तन्मन्त्रभेदेन क्रियाभेदेन शाम्भवि | कर्मपूर्णफलावाप्त्यै राज्ञः श्रेयोऽभिवृद्धये || प्. १९४) त्वल्लिङ्गे नित्यकर्मार्थं प्रत्यब्दे दक्षिणां क्रमात् | धनदादि प्रवक्ष्यामि सेवकान्तं महेश्वरि || विंशोत्तरशतं निष्कं धनदाय प्रदापयेत् | शतनिष्कं देशिकाय कर्मोपद्रविणैस्सह || निष्कसप्ततिकं देवि ब्रह्मणे दापयेत्परम् | शतार्धं च सदस्याय सर्वबोधककर्मिणे || चत्वारिंशद्वाहकाय ज्योतिषज्ञाय तत्परम् | घटिकास्थापनार्थाय त्रिंशनिष्कं कलाधरे || धर्मशास्त्रपुराणानि वक्तृभ्यां पञ्चविंशति | विंशन्निष्कं चतुर्वेदघोषकेभ्यः पृथक् पृथक् || श्रीरुद्रजापकेभ्यश्च निष्कं चैकोनविंशकम् | दद्यात्तेषां सेवनार्थं पृथक् दद्यात् प्रभूत्तमः || निष्कं चाष्टादश प्रोक्तं सूक्तकेभ्यः सुरेश्वरि | त्वन्नामपूजकेभ्यश्च निष्कमष्टादशं पृथक् || सप्तशत्यादि विप्रेभ्यः निष्कसप्तदश क्रमात् | जापकेभ्यः कलासंख्यनिष्कंदद्याच्च तत्परम् || प्. १९५) प्रदक्षिण नमस्कार कृद्भ्यश्च तिथिसंख्यकम् | पृथक् कुम्भार्चकेभ्यश्च तद्द्रव्यै सह बुद्धिमान् || निष्कं चतुर्दशं प्रोक्तं चारकेभ्यश्च तत्परम् | पृथक् दण्डधराभ्यां च निष्कं द्वादश उच्यते || दशनिष्कं छत्रकेभ्यः पटकेभ्यस्तथैव च | दण्डवीजनमर्त्यानां नव निष्कं च दापयेत् || विंशन्निष्कं गायकाभ्यां वीजकाभ्यां नवं पृथक् | वारस्त्रीणां चामरादि पृथक् षण्णिष्कमुच्यते || बलिदीपजनेभ्यश्च पञ्चनिष्कं पुनः परम् | धूपधूमकराभ्यां च चतुर्निष्कं प्रभूत्तमः || निष्कत्रयं पुष्पवृष्टिकृद्भ्यां दत्वाथ सुन्दरि | वन्दिभ्यो मागधेभ्यश्च पाटकेभ्यः पृथक् पृथक् || दशनिष्कं प्रदातव्यं निष्कं सार्धशतं पुनः | वाद्यकेभ्यो नृत्तविद्भ्यः पृथक् दद्याच्च वेतनाम् || वैजन्ती बिभृकेभ्यन्त्री निष्कं चैव वल्लभे | रक्षकेभ्यो गजाश्वादीन् पृथक् द्वादशसंख्यकान् || प्. १९६) द्वारादि पालकेभ्यश्च दद्याच्च मनुसंख्यकम् | द्रव्याम्बर धनागार पालकेभ्यस्त्रयोदश || नव निष्कं चातिथेयाद्यन्नकृद्भ्यः प्रदापयेत् | परितः परिवाराणामर्चकेभ्यश्चतुर्दश || निष्कं पृथक् प्रदत्वान्ते तोषयेद्बहुधा जनान् | त्वद्गेहरक्षकादिभ्यः सप्तनिष्कं नगेश्वरि || सर्वमुक्तं मयादेवि दक्षिणा कर्मचारिणाम् | चारादि सेवकादीनां सर्वेषां वेतनं क्रमात् || प्रत्यब्दं नियमानेत्थं दत्वा तोष्य महाजनान् | भक्त्या नत्वा नत्यकर्म कर्तव्यमिति वाचयेत् || कर्म न्यूनं न कर्तव्यं काले काले च देशिकः | यदि न्यूने तु संप्राप्ते राजसम्पत्क्षयो भवेत् || तस्मान्मन्त्री मुहुर्ज्ञात्वा सर्वलोकहिताय च | धनधान्यादि वृद्ध्यर्थं सुभिक्षार्थं वरानने || सम्पद्राज्यसमृद्ध्यर्थं सर्वभोगार्थमेव वा | न्यूनं विना प्रकर्तव्यं क्रियाजालं नगात्मजे || इति श्रीवातुलोत्तरे दुर्गाभेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदे नवदुर्गनिशि कर्मविवृतिनिरूपणं नाम एकविंशति पटलः देवदेव जगन्नाथ लोकानुग्रहकारक | मल्लिङ्गे प्रातरारभ्य नित्यार्चनविधिः श्रुतः || सम्यगुक्तस्त्वया देव सर्वलोकहिताय च | इदानीं श्रोतुमिच्छामि काम्यार्थं साधकाय च || नैमित्तिकार्चनविधिः वक्तव्यः परमेश्वर | शिवः - तत्सर्वं तव वक्ष्यामि यत्त्वया परिपृच्छितम् || त्वल्लिङ्गे च विशेषेण काम्यार्थं तव पूजनम् | विधानं विस्तराद्देवि शृणुष्वैकाग्रमानसः || सर्ववृद्धिकरं लोके श्रीकरं पुत्रपौत्रदम् | अकालमृत्युशमनं शत्रुणां विजयो भवेत् || प्. १९८) सर्वव्याधिप्रशमनं आयुर्वृद्धिकरं नृणाम् | साधकानां त्वया देवि कलौ सिध्यति नान्यतः || स्मरणाद्दर्शनाच्चैव त्रयोलोकश्चकम्पिरे | भक्त्या संपूजिते लिङ्गं त्रैलोक्यं च वशी भवेत् || चिन्तितार्थ प्रदं नॄणां भोगमोक्षप्रदं शिवे | तस्मात् सर्वप्रयत्नेन काम्यार्थं तव पूजनम् || कस्यां तिथौ च पूजायां वक्ष्यामि शृणु पार्वति | माघे वा फाल्गुने मासे चैत्रे वैशाखमासके || ज्येष्ठमासे चाश्वयुजे कार्तिकेष्टशुभे दिने | द्वितीया पञ्चमी चैव अष्टमी नवमी शुभा || दशमी च त्रयोदश्यां चतुर्दश्यां च पौर्णमी | सोमो बृहस्पतिः शुक्रः भौमवारे शुभं भवेत् || चन्द्रतारानुकूले च पूजाद्रव्यः समाहरेत् | प्रातरुत्थाय विधिवत् नित्यपूजां विधाय च || ब्राह्मणैः सहसंयुक्तः देशिकादि जनैः प्रिये | नदीस्नानं प्रकर्तव्यं षट्कोणं बीजपूर्वकम् || प्. १९९) लिखत्वा तीर्थमध्ये तु स्नानार्थं तर्पणं चरेत् | तव प्रीत्यै च संकल्प्य निमज्जेच्च त्रिवारकम् || धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः | मूलमन्त्रं जपेत्तत्र अष्टाविंशतिसंख्यकैः || स्वर्णपात्रादि संपूर्य तव मूलेन चण्डिके | तत्तीर्थं च समादाय अघमर्षणमन्त्रतः || वेदमङ्गलपाठैश्च नृत्तगीतादि वाद्यकैः | देवालयमलङ्कृत्य फलपल्लवतोरणैः || सिञ्चेयुर्गन्धवारिभ्यः स्थलशुद्धिं विधाय च | भूषयित्वा गृहं गत्वा वन्दयेत्परमां शिवाम् || नमस्ते देवि कल्याणि वाञ्छितार्थप्रदं शिवे | नैमित्तिकस्य पूजार्थं अनुज्ञां भक्तवत्सले || इति संप्रार्थ्य सद्भक्त्या तदग्रे स्थापयेत्फलम् | निर्विघ्नार्थं च संपूज्य गणेशं च समारभेत् || नान्दीं संवाच्य पुण्याहं द्रव्यशुद्धिं तु कारयेत् | कर्मार्थं वरयेत्प्राज्ञः देशिकादि द्विजोत्तमान् || प्. २००) कर्मजालं प्रकर्तव्यं श्रीरुद्रं पावमानकम् | लक्ष्मीसूक्तं प्रकर्तव्यं तत्तत्कल्पोक्तमार्गतः || सेचयेत्तव लिङ्गं च पञ्चामृतविधानतः | प्रस्थादि द्रोणमानान्तं द्रव्यसंख्यमितीरितम् || विधिना सेचयेन्मन्त्री लिङ्गशुद्धिरिदं भवेत् | देवाग्रे चेराभागे च रचये पद्ममुत्तमम् || अष्टोत्तरशतं देवि तदर्धं पञ्चविंशतिः | नव द्वादश पञ्चैव स्थापयेत्कुम्भमुत्तमम् || विधिना पूरयेत्पश्चात् रत्नाणीं गन्धवारिभिः | क्षीरं च पञ्चगव्यं च कषायं च सुतैलकम् || फलोदकैश्च विविधैः सवस्त्रप्रतिमान्वितैः | चतुर्थ्यन्ते च मन्त्रेण देवमावाह्य पूजयेत् || कलामन्त्रैर्मूलमन्त्रै स्पृष्ट्वा जप्य गुरूत्तमः | गणेशं क्षेत्रपालं च मृत्युञ्जयनवग्रहम् || अधोरास्त्रं सप्तशतिं नवदुर्गामनुं शिवे | तव मूलेन मन्त्रेण सहस्रं संजपेद्गुरुः || प्. २०१) प्रदक्षिणनमस्कारं शतमष्टोत्तरं प्रिये | कुण्डं वा स्थण्डिलं कुर्याच्चैशभागे विशेषतः || जननाग्निं च संस्थाप्य मूलमन्त्रेण होमयेत् | शान्तिदुर्गामनुं पश्चात्तदर्धं जुहुयाद्गुरुः || शतमष्टोत्तरं देवि सहस्रं चोत्तमं भवेत् | समिदाज्यं पायसं वा सप्तद्रव्येण होमयेत् || अर्पणं मूलमन्त्रेण सुगन्धपयसाम्बुभिः | पूर्णहुतिं ततः कुर्यात् अभिषेकं समाचरेत् || स्नापयेद्घटतोयेन तव लिङ्गं मनूत्तमः | स्नानं विचित्रतैलेन सुगन्धेन मनोहरैः || उद्वर्त्य पिष्टचूर्णैश्च निशापूर्णैर्महेश्वरि | उष्णोदकेन संस्थाप्य कस्तूरीकुङ्कुमोदकैः || अष्टगन्धं समालिप्य अक्षतांश्च मनोहरान् | तिलकं च स कस्तूरी हरिद्राचूर्णमञ्जनैः || पट्टवस्त्रैः स्वर्णयुतैः नवतन्तुसमुद्भवैः | वस्त्रद्वयं ततो दद्यात् कञ्चुकं च समर्चयेत् || प्. २०२) मुक्तावैडूर्यखचितताटङ्कं भूषणादिभिः | सुगन्धपुष्पमालाभिः पूगपुष्पं सर्पयेत् || आवाहनादि संपूज्य षोडशैरुपचारकैः | सहस्रैर्नामभिः पूज्य प्रणवादि समन्वितैः || बिल्वपत्रैश्च कमलैः द्रोणपुष्पैस्तिलाक्षतैः | मल्लिकाद्यैश्च पुष्पैश्च पूजयेन्मन्त्रवित्तमः || तदन्ते स्वर्णजं देवि यथा शक्त्या समर्पयेत् | धूपदीपं च नैवेद्यं षड्रसान्नं सभक्षकम् || फलं नानाविधं देवि सूपशाकसमन्वितम् | पानीयं च सकर्पूरं ताम्बूलं च समर्पयेत् || नीलाञ्जनं मन्त्रपुष्पं स्तोत्रपाठं गुरूत्तमः | बलिदानं ततो दद्यान्नैमित्ये च विशेषतः || ब्राह्मणान् भोजयेद्देवि होमसंख्यान् महेश्वरि | दम्पतीन् पूजयेत्पूर्वं नवसंख्यसुवासिनीः || सहस्रं चोत्तमं देवि शतमष्टोत्तरं पृथक् | गुरुपत्नीं समायुक्त पतिव्रतधरास्त्रियः || प्. २०३) तैलाभ्यङ्गं विधायाथ शुचिर्भूत्वा पृथक् पृथक् | तवालयस्य परितः पङ्क्तिरूपं सुपीठके || उपविश्य यथान्यायं गुरुपूजां समाचरेत् | मम रूपं च संपूज्य तव रूपं समन्वितम् || शिवं शक्तिं समावाह्य पाद्यमाचमनादिकम् | वस्त्रालङ्कारकं दद्यादुभयोश्च पृथक् पृथक् || यथाविभवसारेण पूजयित्वा यथाक्रमम् | उपायनं ततो दद्यात्परमान्नं सशर्करम् || अपूपं च फलं देवि चण्डिका प्रियतामिति | ततः सुवासिनीपूजां कुर्याद्भक्तियुतः प्रिये || आवाहनार्घ्यपाद्यादि पृथक् सहस्रनामभिः | शतमष्टोत्तरं वापि नवसंख्यानि पार्वति || तवमष्टोत्तरशतं नवदुर्गांश्च पूजयेत् | नामभिश्च चतुर्थ्यन्तैः पृथक् संपूज्य दापयेत् || नालिकेरफलं देवि नागवल्लिदलैर्युतम् | पूगपुष्पं निशामूलं तण्डुलं कञ्चुकादिभिः || प्. २०४) सुवस्त्रं च ददेद्भक्त्या मूलमन्त्रं वदन् गुरुः | तव प्रीत्या च दत्वाथ आशिषं प्रतिगृह्य च || भोजयेद्भक्ष भोज्याद्यैः ताम्बूलं च ददत् पृथक् | रात्रौ संपूजयेत् पश्चात् रङ्गपूजां समाचरेत् || गेहली तोरणाद्येषु दीपमुग्धोदये प्रिये | बलिदानं ततो दद्यात् नैमित्ये चाहुतिर्ददेत् || रथे वा शिबिकायां वा वाहने वा विभूषिते | उत्सवं च ततः कुर्यात् ग्रामसीमान्तमेव वा || प्रविश्य देवीं संपूज्य क्रियाजालं समर्पयेत् | ततः प्रात समुत्थाय स्नानसन्ध्यादितर्पणम् || विधाय देवतागारं तव लिङ्गे महेश्वरि | संपूज्य स्नपयेन्मन्त्री कर्मलोपार्थमम्बिके || तवमष्टोत्तरशतं जपेन्मूलमनुं गुरुः | सवत्सां गां ततो दद्यात् दक्षिणां दापयेद्गुरुः || भूरिदानं ततो दद्यात् कृच्छ्रदानं ततः परम् | इत्येवं कारयेद्भक्त्या ब्राह्मणश्च नृपोत्तमाः || प्. २०५) कामितार्थ प्रदं शीघ्रं सत्यं सत्यं मयोदितम् | मनसा चिन्तितं कार्यं पूजयाश्च प्रभावतः || सर्वान् कामानवाप्नोति विधिना पूजिते प्रिये | महापूजाविधिः सम्यक् तवस्नेहेन चोदितम् || इति श्रीवातुलोत्तरे दुर्गाभेदे शिवपार्वतीसंवादे नित्यकर्मकाण्डे नैमित्तिकपूजाविधिर्नाम द्वाविंशतिः पटलः || || स्वस्ति || देवी - देवदेव महादेव सर्वज्ञ करुणानिधे | अचिन्यगुण रूपाढ्य शिव सर्वजगत्प्रभो || सप्तकोटिषु मन्त्रेषु प्रतिष्ठाद्युत्सवेषु च | वह्निहोमविधिः प्रोक्तः त्वया गुह्यः सदाशिव || पृथक् विधानं वह्नेश्च हवनं च कथं वद | किन्निमित्तं कथं होमः किं च द्रव्यं च तत्फलम् || प्. २०६) त्वन्मुखाच्छ्रोतुमिच्छामि विस्तरेण वद प्रभो | शिवः - साधु पृष्टं त्वया देवि गुह्याद्गुह्यतमं महत् || अग्निकार्यं सुरश्रेष्ठं सर्वकामफलप्रदम् | मम तेजोमयो वह्निः तवरूपं न संशयः || जिंह्वारूपेण नौ देवि तत्तद्द्रव्यं हि भुज्यते | अन्यत्र भुज्यते दृष्ट्वा तृप्ति भवेत्प्रिये || एतस्मात्कारणाच्छ्रेष्ठं वह्निहोमं च कारयेत् | रहस्यं परमं देवि मुक्तिदं च द्विजन्मना || हव्यदत्तं तु भुञ्जीत यदि श्रेष्ठं द्विजोत्तमः | शूद्रत्वं कर्महीनत्वं पतितत्वं न संशयः || सायं प्रतर्नित्यहोमं प्रकुर्वीत द्विजोत्तमः | इहापि सुखमाप्नोति अन्ते सामीप्यमीश्वरि || लक्षहोमादि कोट्यन्तं काम्यकर्मणि कारयेत् | होमाद्दशांशं तन्मन्त्रजपसंख्या महेश्वरि || शतांशं तर्पणं कुर्यात्सहस्रं कुम्भपूजनम् | प्. २०७) अयुतं भोजयेद्विप्रान् प्रदक्षिणनमस्कृतिम् || दानानि विविधं दद्यात् गोभुम्यादि विशेषतः | इत्थं कुर्याद्विधानज्ञः सर्वमृत्युनिवारणम् || सर्वशान्तिकरं चैव शत्रूणां नाशकारणम् | आयुरारोग्यदं देहे देजोबलविवर्धनम् || लक्ष्मीप्रदं विशेषेण सन्तानादि विवर्धनम् | तुष्टिदं पुष्टिदं राज्ञां राज्यकोशविवर्धनम् || गजाश्व सैन्यदुर्गादि वृद्धिदं कीर्तिदं तथा | दिव्यन्तरिक्षाद्युत्पातदुस्स्वप्नादि विनाशनम् || ग्रहभूतपिशाचादि विनाशनकरं परम् | भुक्तिदं मुक्तिदं चैव सर्ववाञ्छाफलप्रदम् || अमुना होमविधिना बहुप्रीति भवेन्मम | ब्रह्माद्या मयि संतुष्टे तुष्टा देवा न संशयः || इत्थं श्रेष्ठं होमकर्म कलौ सिद्धिप्रदायकम् | तस्मात् सर्वप्रयत्नेन कारयेद्धोममर्थवान् || तद्विधानं प्रवक्ष्यामि लक्षहोमविधैः पृथक् | प्. २०८) तत्कालं तत्स्थलं कुण्डमण्टपादि सलक्षणम् || दिनसंख्यां च तत्कर्मण्याचार्यादींश्च ऋत्विजः | होमद्रव्यं तत्फलं च विस्तरेण शृणु प्रिये || कार्तिके मासि कुर्वीत पौर्णम्यादिन्दुवासरे | माघमासे कृष्णपक्षे चतुर्दश्यां महेश्वरि || फाल्गुने मासि कुर्वीत अष्टमी दशमी दिने | चैत्रे मासि त्रयोदश्यामेकादश्यामथापि वा || वैशाखे च तृतीयायां ज्येष्ठमासि शुभे दिने | अन्यत्पुण्यतिथौ मन्त्री ग्रहणे रविसोमयोः || अमौढ्ये नाधिमासे च चन्द्रतारानुकूलके | शुभलग्नग्रहयुते दुष्टग्रहविवर्जिते || कर्तुश्चैवानुकूलर्क्षे शुभग्रहनिरीक्षिते | एवगुणयुते काले लक्षहोमं च कारयेत् || साम्बलिङ्गशिवक्षेत्रे आरामे पर्वते तटे | उद्याने श्रोत्रियागारे सङ्गमे च नदीतटे || अन्यत्पुण्यस्थले देवि होमं कुर्या नृपोत्तमः | प्. २०९) तत्स्थलं च समावीक्ष्य पूर्वे वह्ने तथैशके || खननादि प्रकुर्वीत शोधयेद्दुष्टवर्जिते | चतुरश्रं समं कृत्वा षट्त्रिंशद्धस्तमात्रक || एकविंशति हस्तं वा सप्तोत्तरदश प्रिये | तावन्मण्टपविस्तारं यावत्कुण्डमितिर्भवेत् || रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् | तत्त्रिभागैकभागेन मण्टपस्य महेश्वरि || कुण्डानि रचयेन्मन्त्री नव पञ्चैकमेव वा | पूर्वे च चतुरश्रं स्यादाग्नेयां तु भगाकृतिः || अर्धचन्द्रं तु याम्यायां नैर्-ऋत्यां तु त्रिकोणकम् | वारुणे वर्तुलाकुण्डं वायव्यां च षडश्रकम् || उत्तरे पद्मकुण्डं तु ईशान्यामष्टकोणकम् | ऐन्द्र शाङ्करयोर्मध्ये वृत्तकुण्डं तु कारयेत् || चतुर्दिक्षु च चत्वारि चतुरश्रं तु कारयेत् | वृत्तकुण्डं तथैशान्यां पञ्चकुण्डेऽथवा शिवे || कुण्डमेकं च कुर्वीत वृत्तं वा चतुरश्रकम् | प्. २१०) ईशाने पूर्वभगे वा कल्पयेच्च महेश्वरि || चतुर्हस्तं चैककुण्डं त्रिहस्तं पञ्चकुण्डकम् | द्विहस्तं नवकुण्डं च तावं खातप्रमाणतः || विस्तारं तावदूर्ध्वं स्यादूर्ध्वमेखलया सह | कुण्डस्य यादृशं रूपं तादृशी मेखला भवेत् || त्रिमेखलं च युक्तं स्यादष्टषट्चतुरङ्गुलैः | षड्भिश्चतुर्भिश्च तथा द्विकर त्रिकरस्य तु || मेखलोपरि मध्ये तु योनिः पिप्पलपत्रवत् | षडङ्गुलस्य विस्तारा विस्तारार्धं तदूर्ध्वतः || मुष्टेरेवं तथान्येषामङ्गुलाङ्गुलवर्धनात् | एकाङ्गुलं समुत्सेधमष्टाङ्गुलसविस्तृतम् || प्रणीता स्थानमेतद्धि ब्रह्मस्थानं तथा भवेत् | चतुरश्रं प्रणीतायां ब्रह्मणे पद्ममेव च || इत्थं कुण्डं प्रकल्प्याथ लक्षणेन महेश्वरि | स्थण्डिले च न कर्तव्यं देवताशापदं भवेत् || अलक्षणकृतं कुण्डं कुलक्षयकरं भवेत् | प्. २११) पूर्वोक्तन विधानेन कुण्डं कुर्याद्विचक्षणः || तन्मध्ये वेदिकां कुर्याद्धस्तमात्रं तदूर्ध्वतः | चतुस्तम्भं च तन्मध्ये परितो द्वादश क्रमात् || तद्बहिर्विंशतिस्तम्भाः उन्नतं चाष्ट षट्करैः | तद्बहि पञ्चहस्तं स्यात् स्थापये पोतिकादिभिः || एकभौमं त्रिभौमं वा कारयेन्मण्टपं शिवे | चतुद्वारसमायुक्तं चतुस्तोरणभूषितम् || प्राग्द्वारे पीतवर्णं च दक्षिणे कृष्णवर्णकम् | पश्चिमे रक्तवर्णं च उत्तरे श्वेतवर्णकम् || चक्रत्रिशूलडमरुपद्मनन्दिविचिह्नितम् | एवं द्वारं प्रकुर्वीत पूर्वादिक्रमतः प्रिये || चतुर्दिक्षु ध्वजं कुर्यात्पताकास्युर्दिशि स्थिताः | दशस्तोध्वजे दण्डः चतुरश्रश्च वृत्तकः || सप्तहस्ताः पताकाःस्युः दीर्घदण्डप्रमाणतः | सप्तहस्तध्वजपटः वसना नूतनेन च || तत्तद्वाहनचिह्नानि लेखयेच्छिल्पिना गुरुः | प्. २१२) विंशत्यङ्गुलविस्ताराः पताका स्युर्महेश्वरि || लोकपालानुवर्णेन वाहनायुधलाञ्छनैः | दिग्विदिक्षु प्रकुर्वीत स्थापयेद्विधिना गुरुः || वस्त्रैराच्छादयेस्तुङ्गान् वितान फलशोभितान् | द्वारे द्वारे च कुम्भौ द्वौ कुम्भौ तारणमूलकौ || चूतपल्लवशोभाढ्यौ प्रत्येकं कण्ठवाससौ | कदलीस्तम्भविन्यासै स्रग्दामा चूतपल्लवैः || शोभयित्वा बहिः पश्चाद्दर्भदाम्ना च वेष्टयेत् | एवं मण्टपकुण्डानि कुर्वीत विधिना प्रिये || नवाहं सप्तरात्रं वा पञ्च त्र्येकाहमेव वा | लक्षहोमं प्रकुर्वीत उत्तमं मध्यमं भवेत् || अधमं च न कुर्वीत दिनसंख्यविधौ शिवे | वपनं स्नानमौनं च शुक्लाम्बरधरः शुचिः || क्षीरान्नभोजनं नित्यं दुस्सङ्गादि विवर्जितः | ब्रह्मचर्यव्रतं कुर्यादृत्विग्भिः सह देशिकः || इत्थं दीक्षा प्रकर्तव्या नवरात्रे महेश्वरि | प्. २१३) त्रिरात्रे चैकरात्रे च दीक्षाकर्म न कारयेत् || यागद्रव्याणि सम्पाद्य होतृभिः जापकान् द्विजान् | दीक्षावान् कर्मतत्वज्ञः सत्यवादी जितेन्द्रियः || सपत्नीकान् द्विजश्रेष्ठान् आहूय यजमानकः | तैलाभ्यङ्गादिकं कृत्वा आचार्यर्त्विक्समन्वितः || सुतिथौ च सुनिश्चित्य पूर्वोक्तेन महेश्वरि | प्रातरुत्थाय विधिवद्दन्तधावनपूर्वकम् || प्रातः स्नानं प्रकुर्वीत आचार्याय द्विजोत्तमैः | सन्ध्याकर्म प्रकुर्वीत नित्यकर्म समाप्य च || मृत्तिकास्नानपूर्वं च कुशगोमयवारिणा | सर्वघोषसमायुक्तस्तत्तन्मन्त्रेण लेपयेत् || नानामङ्गलवाद्यैश्च वेदघोषैश्च सुक्तकैः | स्नानं कृत्वा ततो मन्त्री होमार्थं च द्विजोत्तमैः || धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः | देवर्षितर्पणं कृत्वा नमस्कृत्वा दिवाकरम् || ततो देवालयं कृत्वा फलपुष्पसुवर्णकैः | प्. २१४) ममाग्रे विन्यसेद्देवि यजमानः सुभक्तितः || पञ्चोपचारैरभ्यर्च्य प्रार्थयेच्च कृताञ्जलिः | शिवादि सर्वदेवानां सद्यः तुष्टिकरं भवेत् || लक्षहोमं करोमीति स्वामिविज्ञापनं चरेत् | इति विज्ञाप्य देवेशं प्रविशेद्यागमण्टपम् || प्रक्षाल्य पाणिपादौ च पूर्वे वा चैशकोणके | पद्मपीठं च संस्थाप्य नववस्त्रोपरिन्यसेत् || तस्योपरि न्यसौ * भान् आसनेषूपविश्य च | गुरुवन्दनपूर्वादि प्राणायामं समाचरेत् || दिनमुद्दिश्य संकल्प्य यथाविभवविस्तरम् | विघ्नेशमर्च्य नान्द्यादि पुण्याहं पञ्चगव्यकम् || मधुपर्कं विधायाथ वरयेद्देशिकादिकान् | आचार्यन्धनं देवि ब्रह्माणं च सदस्यकम् || भवादि मूर्तिपानष्टौ होतृभिश्च यथोक्तवत् | दिनसंख्यमितान् ज्ञात्वा वरयेच्च पृथक् पृथक् || जपार्थं तु शतार्धं स्याद्वेदपारायणं शिवे | प्. २१५) षोडश ब्राह्मणः कुर्यात् तर्पणार्थं दश द्विजान् || कुम्भार्चने चैकमेवं नमस्कारप्रदक्षिणे | दश विप्रांश्च वरयेऽऽरर्चार्थ द्वादश द्विजान् || आचार्यादीन् स्वशाखादि प्रवरप्रोच्य गोत्रकम् | शर्माथ वृणुयात्कर्ता श्लोकैरेभिश्च तान् क्रमात् || सर्वकर्मधुरीणस्त्वं शिवतुष्ट्यै द्विजोत्तमः | त्वामाहं गुरुमाचार्यमस्मिन् होमविधौ वृणे || कर्तुः प्रतिनिधित्वे तु द्विजमन्यं तदाज्ञया | आचार्यो वृणुयादत्र श्लोकेनैव ततोऽमुना || कर्तुः प्रतिनिधित्वेन कर्मकारयितुं द्विज | त्वामहं यजमानार्थं तस्मिन् होमविधौ वृणे || यथा चतुर्मुखो ब्रह्मा स्वर्गेलोके पितामह | ब्रह्माणं चामहं साक्षात्तस्मिन् होमविधौ वृणे || मन्त्रतन्त्रादिलोपांश्च द्रष्टुं नस्युर्यथा तथा | अस्मिन् होमविधौ विप्र सदस्यं त्वामहं वृणे || होमार्थं मूलमन्त्रांश्च तत्तन्मन्त्रं शिवस्य तु | प्. २१६) ऋत्विजोऽस्मिन् होमविधौ द्विजा युष्मानहं वृणे || तर्पणार्थं च पूजार्थं कलशस्य महेश्वरि | मूलमन्त्रजपार्थाय वेदपारायणार्थकम् || प्रदक्षिण प्रणामार्थं द्विजा युष्मानहं वृणे | इत्येवं वरणं कृत्वा तेभ्यः पाद्यादिकं ददेत् || पाद्यमर्घ्यं तथाचामं मधुपर्कं तथैव च | कुण्डले चाङ्गुलीयादि भूषाश्च विविधा अपि || रुद्राक्षमकुटाद्यैश्च स्वर्णयज्ञोपवीतकैः | दुकूलपादुकं देवि छत्रवीजनजामरैः || आचमं जलपात्राणि यागोपकरणानि च | फलं स्वर्णं च ताम्बूलं दापयेन्मनुना शिवे || मूलेन मम गायत्र्या पञ्चब्रह्माणुभिस्तथा | आचार्याय प्रदत्वौवं गन्धाद्यैस्तं समर्पयेत् || एवं ब्रह्म सदस्यादीन् तथैवान्यान् द्विजान् क्रमात् | यथा यथोचितं वस्त्रभूषणाद्यैश्च तोषयेत् || अङ्कुरार्पणपूर्वं च मृत्तिकामाहरेत्ततः | प्. २१७) सद्योङ्कुरं वा कुर्वीत दिनसंख्यमितं शिवे || ध्वजस्थापनपूर्वोक्तं पताकान् स्थापयेत्प्रिये | वृषयागं ततः कुर्यात्पताकध्वजदेवताः || सम्पूज्य विधिवन्मन्त्री तत्तन्मन्त्रेण पार्वति | पञ्चगव्यं हुनेदन्ते गणेशं च नवग्रहान् || तत्तन्मूलेन होतव्यं तत्तद्द्रव्यं पृथक् पृथक् | एतत्कर्म दिवाकाले गुरुः कुर्यान्महेश्वरि || सायं सन्ध्यामुपास्याथ शुचिर्भूत्वा गुरूत्तमः | प्रक्षाल्य पाणिपादौ च मूर्तिपाद्यैर्द्विजोत्तमैः || प्रविश्य पश्चिमे द्वारं यागगेहं महेश्वरि | अस्त्रदृष्ट्या विलोक्याथ दिक्पतीन् रक्षोणद्यत्तत् || नै-ऋत्यां दिशमासाद्या उपविश्यासने गुरुः | गुरुवन्दनपूर्वादि दिशदिग्बन्धनं शिवे || भूतशुद्धिं न्यासजालान् सङ्कल्पं च विधाय च | गणेश स्थण्डिले पूज्य सुगन्धकुसुमादिभिः || स्थापयेत्कलशं देवि योजयेत्पञ्चगव्यकैः | प्. २१८) एकांशकं तु गोमूत्रं गोमयं च तदर्धकम् || सप्तांशकं तु गोक्षीरं त्र्यंशकं तु दधि स्मृतम् | आज्यमेकांशमित्येवं सद्योजातादि पञ्चकैः || अस्त्रमन्त्रेण संस्पृष्ट्वा शतमष्टोत्तरं जपेत् | पुण्याहं वाचयेत्पश्चादृत्विग्भिः सहितो गुरुः || मण्टपं मार्जयेद्देवि वायुमन्त्रेण देशिकः | पालाशपल्लवैर्दर्भैः वह्न्यादीशावसानकम् || मम गायत्रिमन्त्रेण लेपयेद्गोमयाम्भसा | अस्त्रमन्त्रं शतावृत्या ततो राजीश्च देशिकः || विकीर्य मार्जयेन्मुष्ट्या मण्टपे मनुवित्तमः | प्रक्षाल्यं हस्तौ देवेशि पुष्पाणि दश दिक्षु च || निक्षिप्य मम गायत्र्या चक्रमुद्रां प्रदर्शयेत् | ससूत्रदर्भमालां च युक्तं बोधिदुपल्लवैः || अस्त्रमन्त्रशतं जप्त्वा वेष्टयं मण्टपं शिवे | अभ्युक्ष्य पञ्चगव्येन मूलमन्त्रेण देशिकः || विकीर्य मार्जनं मन्त्री पुनः पूर्वोक्तमन्त्रतः | प्. २१९) गन्धतोयेन संप्रोक्ष्य गुरुरापः पुनन्त्विति || द्वारपूजन्ततः पश्चादक्षतैः कुसुमादिभिः | कैः | अस्त्रतोयेन संप्रोक्ष्य पूर्वाद्रिक्रमतः प्रिये || शान्ति भूति बलारोग्या संज्ञाभिस्तोरणे न्यसेत् | युग्मात्विदान्यजेदूर्ध्वे शूलेष्वर्कपुरोदितान् || प्रशान्तशिशिरादींश्च प्रत्यूषादि वसूनपि | भूर्भुवादिकलोकांश्च सोमभौमादिकान् ग्रहान् || शान्तिर्निद्रानिवृत्तिश्च प्रतिष्ठाद्वारमूर्धनि | गणेशं भारतीं लक्ष्मीं सर्वद्वारोपरि न्यसेत् || पूर्वद्वारं समारभ्य शाययोर्दक्षवामयोः | नन्द्यादिद्वारपालांश्च गङ्गादिसरितस्तथा || संपूज्य तान् चतुर्थ्यन्तान् शिवज्ञां श्रावयेदथा | यज्ञस्य रक्षणार्थेन स्थातव्यं महदादरैः || वज्रादीनि पताका स्युः कुमुदादि ध्वजेषु च | पूर्वोक्तान् विन्यसेद्देवि सर्वविघ्न भयङ्करान् || द्वारतोरणसंपूज्य प्रार्थयेनमुना गुरुः | प्. २२०) मण्टपस्तम्भपूजां च प्रारभे तु ततः प्रिये || अन्तस्तम्भेषु सर्वेषु आधारादि यथाक्रमम् | प्रणवादि नमोन्तैश्च धर्मादिषु समर्चयेत् || विद्येशादि घटश्चेषु द्वारतोरणकुम्भकान् | यागेश्वरं च दिक्पालान् स्थापयेत्पूजयेत्प्रिये || निष्कं निष्कार्धहेम्ना वा प्रतिमान् विन्यसेद्गुरुः | सुवस्त्रं सुफलं न्यस्त्वा प्रार्थयेद्देशिकोत्तमः || भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये | सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया || सर्वेषां लोकपालानां अनेकक्रमयोगतः | इति विज्ञाप्य दिक्पालान् यागेशं प्रार्थयेत्ततः || शङ्कराय नमस्तुभ्यं विश्वरूपधराय च | मया प्रवर्तितश्चायं लक्षहोमः कृते तव || लक्षणीयः त्वयैतर्हि समाप्तिर्यावदस्य हि | इति संप्रार्थ्य यागेशमक्षतैरवकीर्य च || अतः संपूज्य वास्तुं च राक्षोघ्नं वास्तुहोमकम् | प्. २२१) बलिं च विकिरेद्देवि स्वस्वमन्त्रैर्गुरूत्तमः || ततः प्रतिसरं बध्वा यागार्थं च यथोक्तवत् | आचार्यं यजमानं च ब्रह्माणं च सदस्यकम् || मूर्तिपान् तर्पणं देवि यागेशप्रतिमादिषु | बध्नीयुरूर्णासूत्रैश्च तन्मन्त्रं च पुरोक्तवत् || वह्निसाधनकं पश्चात् होतृभिः सह देशिकः | सूर्यकान्तोद्भवं श्रेष्ठकाष्ठज्ञो मध्यो भवेत् || श्रोत्रियागारजो वह्निरधमः परिकीर्तितः | सूर्यकान्तशिलायां वा बोधिवृक्षादिवा शिवे || आदाय मन्तः साराणि कृत्वा मरणिकद्वयम् | संयोगः क्रमतः कुर्यात् शिल्पिशास्त्रोक्तमार्गतः || त्रिहस्तरज्जुना वेष्ट्या सुदृढं त्रिगुणीकृतम् | गोमयालेपितं भूमिं शतपत्रं सुकर्णिकम् || लिखेत् संपूरयेच्चूर्णं पञ्चवर्णं विभेदतः | शालिसंपूरयेत्पीठं द्रोणमात्रं महेश्वरि || अरणिं विन्यसेत्पीठे दर्भदाम्ना च वेष्टयेत् | प्. २२२) गन्धपुष्पैः समभ्यर्च्य आचार्यो ऋत्विजैः सह || आवयोश्च समावाह्य नैवेद्यान्तं महेश्वरि | मूलमन्त्रजपं कुर्यात्पञ्चब्रह्मादि सूक्तकैः || मथित्वा प्रणवेनाग्निः तुषकार्पासकादिभिः | करीशं च समायोज्य अग्निजातकणादिकैः || ज्वलयेच्च ततो मन्त्री ताम्रपात्रे शरावके | अग्निबीजेन चैतन्यं हृदा संहारमुद्रया || आदाय योजयेद्बिन्दौ पूरकेण ततो हृदि | स्थापयेन्मनुना देवि अग्निश्च चितिमन्त्रतः || तेजोरूपमहं वह्निं साक्षाद्ब्रह्मस्वरूपकम् | एवं ध्यात्वा ततो मन्त्री संपूज्य च हुताशनम् || दापयेद्गुरुणा पश्चात् यजमानाय भक्तितः | देवस्यत्वा ततोद्धृत्वा ऋत्विजांश्च ततो ददेत् || रक्षणीयं द्विजः श्रेष्ठाः होमार्थं च महेश्वरि | इत्युक्त्वा यजमानाय कृताञ्जलिपुट स्थितः || आचर्यं पूजयेद्दत्वा शययावाहनभूषणैः | प्. २२३) धेनुश्च ऋत्विजां दद्यात् अथवा वाससीं ददेत् || इत्थं दत्वा तु देवेशि वह्निः सुप्रीतदो भवेत् | ततो जागरणं पश्चात् वेदपाठं द्विजोत्तमैः || इत्थं कृत्वा तु देवेशि पुनः सूर्योदयान्तिके | इति श्रीवातुलोत्तरे काम्यकाण्डे उमामहेश्वरसंवादे लक्षहोममण्टपादि विधिर्नाम पञ्चचत्वारिंशत्पटलः | अथातः संप्रवक्ष्यामि करणानां च लक्षणम् | कुण्डशोधनपूर्वं च वह्नेर्जननकर्म च || पात्राणां साधनविधिं क्रमेण शृणु पार्वति | आचार्यस्तु शुचिर्भूत्वा कृत्वा चैवाह्निकक्रियाम् || ऋत्विग्भिः सह देवेशि यागगेहं प्रविश्य च | सम्पूज्यादौ गणेशानं फलाद्यैस्तोषयेत्ततः || पुण्याहवाचनं कुर्यात् मूर्तिपैश्च द्विजोत्तमैः | गत्वा कुण्डान्तिकं मन्त्री विष्टरे पूर्वदिङ्मुखः || प्. २२४) उपविश्य समानीय साधनान्युञ्चितानि वै | गुरुवन्दनपूर्वादि आत्मशुद्धिं समाचरेत् || ततो जुह्वाङ्गमनुना न्यासजालं विधाय च | ततः संपूजयेन्मूर्ध्नि स्वगुरून् देशिकोत्तमः || हृत्पद्मे पूजयेद्देवं गणेशानमथोर्चयेत् | कुण्डशुद्धिं प्रकुर्वीत वक्ष्यमाणेन वर्त्मना || मूलमन्त्रन् जपन् मन्त्री तत्कुण्डं च समीक्षयेत् | अस्त्रमन्त्रेण संताड्य दशदिग्बन्धनं ततः || संप्राक्ष्य वर्मणा मन्त्री तारेणखननं शिवे | मृत्तिके हन मन्त्रेण उद्धरे मृत्तिकां ततः || पूजयेच्च हृदा मन्त्री समीकृतिदृशाणुना | सेचयेदमुना कुर्यात् कुट्टयेदस्त्रमन्त्रतः || मार्जयेत्कवचेनाथ लेपनं हेतिनाणुना | कलात्मकं कलाभिस्तु त्रिसूत्रीकरणं शिवे || कवचेनार्चयेन्मन्त्री हृन्मन्त्रेण च पार्वति | अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैस्ततः || प्. २२५) चतुष्पथं तनुत्रेण तनुयादक्षपाटनम् | इत्येते कुण्डसंस्काराः अष्टादश महेश्वरि || चतुरश्रं पुरा कृत्वा कुण्डमध्ये च वालुकैः | देवस्यत्वेति मन्त्रेण ह्रादकेन शलाकया || आदाय च लिखेद्रेखां पूर्वाग्रे चोत्तराग्रके | तिस्रः पूर्वमुखा रेखास्तद्वत्सौम्यमुखास्तथा || ब्रह्मा वैवस्वतः सोमो मध्ये दक्षिणवामयोः | रुद्रो विष्णुश्च शक्रश्च मध्ये पश्चिमपूर्वयोः || ब्रह्मजज्ञानमन्त्रेण नाके मनु यथाक्रमम् | षड्रेखां च लिखेन्मन्त्री भूशुद्ध्यर्थमिहेश्वरि || गन्धपुष्पादिभिश्चैव ततो नाम्नैव पूजयेत् | ततो यन्त्रं समुद्धृत्य पूर्वाग्रे चोत्तराग्रके || भवत्येकोन पञ्चाशत्पदाद्यन्त्र तदास्फुटम् | बहिरीशानकोष्ठादि तन्मध्य च महेश्वरि || मातृकां वर्णसंलेख्य प्रदक्षिण्येन देशिकः | तन्मध्येऽष्टदलं पद्मं कर्णिकाकेसरैर्युतम् || प्. २२६) विष्टरार्थं सुकूर्चं तु विंशद्दर्भकृतं ततः | पीठपूजां च तत्रैव आवाह्य पुरुषं परम् || ततः पार्श्वे महादेव्या चिन्तयेच्च गुरु प्रिये | द्विनेत्रां द्विभुजां रम्यां पीनीन्नतपयोधराम् || मुक्ताभरणसंयुक्तां पद्महस्तां सुलोचनाम् | शुद्धस्फटिकसंकाशां रक्तावाहोग्रिभूषिताम् || ऋतुस्नातां सुकूर्चस्थां वागीशस्य च वामके | कारणं जगतां देवं सर्वज्ञं सर्वसाक्षिणम् || अनादिनिधनं शुद्धं साक्षाद्ब्रह्मस्वरूपिणम् | एवं ध्यात्वा ततो मन्त्री समर्च्य च महेश्वरि || देवदेवौ च संपूज्य मूलमन्त्रेण पार्वति | पाद्यमर्घ्यादिकं दद्यात् कुङ्कुमं रक्तचन्दनम् || रक्तपद्मानि संपूज्य धूपदीपादिकं प्रिये | शिवबीजेन तारादि नमोन्तेन ततः परम् || तदेकतां समापन्नां भूवयेत्नं विचिन्तयेत् | दर्शयोद्योनि मुद्रां च लिङ्गमुद्रां तथा हृदा || प्. २२७) इत्येवं मनसा भाव्या क्रीडार्थं च प्रदर्शयेत् | तदा रतिस्त्रयोर्यावत् तावदग्निमथाङ्गुरुः || पाणिना साम्भसा योनिं स मृज्यादस्त्रमन्त्रतः | पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् || वध्नीयां गर्भरक्षार्थं दर्भं कङ्कणवत्करे | एकीकृत्य त्रदर्भेण बध्नीयान्मूलमन्त्रतः || साधितं च ततो वह्निं भस्मधूमादिवर्जितम् | गुरुपत्न्या च ऋत्विग्भ्यं आदाय च महेश्वरि || कुण्डयोनौ प्रविन्यस्य देवस्यत्वेति मन्त्रतः | वह्निबीजजपन् मन्त्री क्रव्यादाशं परित्यजेत् || अस्त्रमन्त्रेण संप्रोक्ष्य दक्षद्रुष्पादि वीक्षणैः | शोषदाहप्रवनानि ततन्मन्त्रेण पार्वति || अकुञ्चनं ततो दीप्तं बहिः पिङ्गलया गुरुः | व्यवर्गस्य द्वितीया तु बिन्दुना भूषितं च यत् || वह्निबीजमिदं प्रोक्तं त्रिवारं च समुच्चरन् | बिभाव्य निर्गतं तत्र योजयेदान्तरा * नम् || प्. २२८) स्पृष्ट्वा दर्भद्वयेनैव जप्त्वा तारेण चाष्टशः | धेनुमुद्रां प्रदृश्याथ रक्षयेदस्त्रमन्त्रतः || अवकुण्ठ्य तनुत्रेण मूलमन्त्रेण पार्वति | पञ्चोपचारैरभ्यर्च्य जानुयुग्मं * * * || कुण्डोर्ध्वं त्रिः परिभ्राम्य मूलमन्त्रमनुस्मरन् | तन्मध्ये विन्यसेदग्निं आत्मनोऽभिमुखं गुरुः || संप्रोक्ष्य काष्ठशिरसा निक्षिपेच्च महेश्वरि | चित्पिऽऽगलं च मनुना ज्वलयेदनलं शनैः || व्यजनं धमनीं वाथ प्रणयेन्मन्त्रवित्तमः | अग्निं प्रज्वलितं वन्दे मनुनानेन प्राञ्जलिः || प्रार्थयित्वाप्युपस्थाय गुरुस्तन्मुपसीदतु | गुरुवन्दन पूर्वं च दश दिग्बन्धनं ततः || ततो न्यासं विधायाथ कृशानो मनुभिर्न्यसेत् | जिंहाङ्गमूर्तिमनुभिः हिरण्यादि यथाक्रमम् || लिङ्गेपाने तथा मूर्ध्नि वदने च गुरूत्तमः | नासिकानयनद्वन्द्वे सर्वाङ्गेषु च विन्यसेत् || प्. २२९) ऋष्यादिमङ्गविन्यासं हृदयादि न्यसेद्गुरुः | जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः || ध्रुवाग्नये पदाद्याश्चन्द्रेणमोन्ताः क्रमादमून् | मूर्धांस पार्श्वकट्यादि प्रदक्षिणवशाद्बुधः || इत्थं न्यासं विधायाथ प्राणायामं समाचरेत् | पञ्चसंख्य समद्भिश्च साधयेच्च महेश्वरि || ततः संकल्पमुच्चार्य जुहुयाच्च पृथक् पृथक् | सद्योजातादिभिर्मन्त्रैः समिद्भिश्च यथाक्रमम् || इध्मबन्धनरज्जूंश्च बध्वा चैकीकृतं प्रिये | दक्षिणे च प्रविन्यस्य दर्भमुष्टिं तथोत्तरे || पालाशोदुम्बराश्वत्थ प्लक्षन्यग्रोधजोद्भवः | अष्टादश पुनस्तिस्रो कुण्डमानसमुच्छ्रिताः || अष्टोत्तरसहस्रं वा परिस्तरणदर्भकैः | षडङ्गुलसुविस्तारं मुष्टिदर्भं शतं गुरुः || रज्जुद्वे तत्वसंचैश्च प्रोक्षणी सप्तदर्भकैः | प्रणीतार्णवदर्भैश्च द्वादशैर्ब्रह्मकूर्चकम् || प्. २३०) स्रुक्स्रुवौ मानुनं सप्त आज्यसंस्कार षट्कुशैः | द्वेदर्भे चरुशुद्धिः स्यात् पात्राणां साधनार्थके || शतार्धं च तदर्धं वा कुशकुप्तिविधीयते | स्वर्णं वा राजतं वापि ताम्रं वाथ शरावकम् || पूरितप्रस्थमेकं वा तन्यूनं च न कारयेत् | स्रुक् स्रुवौ हस्तमात्रौ च शुक्तिमात्रप्रपूरितम् || एतत्पात्राणि संपाद्य कालभिन्नानि वर्जयेत् | ततः परिसमूह्याग्निं जुष्टेदाहुतिमन्त्रतः || परिषिच्य जलेनाथ अस्त्रमन्त्रेण देशिकैः | दिक्परिस्तरणं कुर्यात् देवस्यत्वेति मन्त्रतः || दक्षिणानुत्तरान् देवि नुत्तरानधरान् गुरुः | मेखलापरि मध्ये तु विन्यसेच्च यथाक्रमम् || पात्राणां साधयेत् पश्चात् कुण्डस्योत्तर पार्श्वगे | भूतले कुशमास्तीर्य प्रणीतां प्रोक्षणां तथा || आज्यपात्रं चरुस्थालीं स्रुक्स्रुवौ कुशमुष्टिकम् | इध्मप्रवश्चनं देवि साधयेद्देशिकोत्तमः || प्. २३१) द्वन्द्वरूपेण हस्ताभ्यां मन्त्रेणास्मिन्नधोमुखम् | अर्घ्योदकेन संप्रोक्ष्य दर्शयेदस्त्रमुद्रिकाम् || प्रोक्षणीमन्मुखं कृत्या सुकूर्चं विन्यसेत्ततः | जलेरापः पुनन्त्वेति पूरयेद्धेनुमुद्रया || कराभ्यां तत्त्रिरुत्पूय तज्जलैः प्रोक्ष्य चास्त्रतः | विध्मं विस्रस्य ग्रन्थिं च वर्मणा च महेश्वरि || पात्राण्येतानि तासुक्ष्य उन्मुखीकृत्य प्रोक्षयेत् | दक्षिणे पद्मपीठं च दर्भकूर्चं न्यसेत्ततः || आवाह्य च द्विजश्रेष्ठं भूपतेत्वथ मन्त्रतः | अर्वावसोः समावाह्य गन्धपुष्पैः समर्चयेत् || तत्पुरस्तात्प्रणीतानां निधायाद्भिः प्रपूरयेत् | ब्रह्मबीजौ मन्त्रेण सिद्धमन्त्रेण पार्वति || आवाह्य वरुणं पश्चाद्ब्रह्माणं च समर्चयेत् | दोर्भ्यां नासान्तमुद्धृत्य ब्रह्मणश्चाप्यनुज्ञया || धनेशेश्वरयोर्मध्ये पूर्वपीठं कुशोपरि | निधाय दर्भमाच्छाद्य * * * अष्टवारं गुरुः || प्. २३२) घृतस्थालीं समादाय प्रोक्षयेदस्त्रमन्त्रतः | तत्र गोघृतमापूर्य नेत्रमन्त्रेण वीक्षयेत् || वायव्यां दिशि मास्थाप्य मेखलस्य समीपतः | तनुत्रेण च नीराज्यं तदग्नौ निक्षिपेद्गुरुः || पुनर्दर्भद्वये मन्त्री अस्त्रमन्त्रेण पार्वति | त्रिवारं दर्शयित्वा तु मनुनाग्नौ विनिक्षिपन् || आदाय योनौ विन्यस्य अङ्गारान् सह योजयेत् | दर्भौ प्रादेशमात्रेण मध्ये ग्रन्थियुतेन च || शुक्रमसीति मन्त्रेण वह्निमध्ये च निक्षिपेत् | चरुं च श्रपयेत्पश्चात् निर्वपामीति मन्त्रतः || अग्नये वो जुष्टं प्रोक्ष्यामि अग्नये वो जुष्टं निर्वपामिति देवता च प्रधानकम् | त्रिवारमिति मुच्चार्य दर्भौ सन्दर्श गामयेत् | अभिघार्योत्तरे न्यस्य जननाग्निर्न कर्म च || स्रुक्स्रुवौ शोधयेत्पश्चात् दक्षवामकरद्वये | अग्रमध्यममूलेषु कुशयुगस्य शोधयेत् || प्. २३३) अग्नौ निष्टप्य संमृज्य मूलमन्त्रेण वै त्रिशः | एवमेव स्रुचं शोध्य न्यसेत्तत्रैव तान् पुनः || परिधींश्च गृहीत्वाथ वर्मनेत्रासुमन्त्रकैः | पश्चिमे दक्षिणे न्यस्य उत्तरे च महेश्वरि || तदूर्ध्वसमिद्धन्यस्य कवचेन द्वयं गुरुः | अनुयाजसमित्तत्र प्रणीतोर्ध्वे न्यसेद्गुरुः || पावकं गन्धपुष्पाद्यैः जिंह्वादि परिपूजयेत् | लोकपालादिकान् पूज्य कुण्डमेखलदेवताः || ब्राह्मी वज्री तथा चैन्द्री धन्विराक्षी महेश्वरी | शबला च तथा वेगा क्रमात्कुण्डानि देवताः || परिधिं परिस्तरणं देवि ब्रह्माणं च यथाक्रमम् | वाणीं लक्ष्मीं पार्वतीं च क्रमादावाह्य पूजयेत् || समिधं च ततो हुत्वा परिषेचनमारभेत् | अदितेत्यादि मन्त्रेण परितश्च यथाक्रमम् || अग्नये जातवेदाश्च अर्चयेदुक्तमार्गतः | ग्राह्यं पञ्चदशेध्मं तु गन्धपुष्पैः समर्चयेत् || प्. २३४) प्रश्नीतायामिमां रज्जुं न्यसेद्वलयवत्ततः | समित्समूहमाज्येन सम्यगाप्लाव्य देशिकः || द्विशीर्षं चैकहृदयं चतुश्रोत्र द्विनासिकम् | आस्यद्वयं च षण्णेत्रं पिङ्गलं सप्तहस्तकम् || त्रिमेखलं त्रिपादं च सप्तजिंह्वाभिरावृतम् | चतुशृङ्गं वृषारूढं बलादित्यसमप्रभम् || उपवीतसमायुक्तं जटामकुटमण्डितम् | सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके || स्रुक्स्रुवौ चाक्षमालां च शक्तिं दक्षिणहस्तके | तोमरं व्यजनं चैव घृतपात्रं तु वामके || एवं ध्यात्वा ततो मन्त्री ब्रह्मणोऽनुज्ञया पुरा | इध्महोमं ततः पश्चात् स्रुवेणाज्यं हृदाणुना || नाडीसन्धौ तु विज्ञेया वक्त्रोद्घाटनमादरात् | दक्षनेत्रेग्नये स्वाहेत्युदरन् जुहुयात् गुरुः || वामतस्त्वाज्यमादाय वह्ने वामविलोपने | हृदा जुहोतु सोमाय स्वाहेति च गुरुः प्रिये || प्. २३५) मध्यनेत्र ततो वह्ने गृहीत्वा मध्यतो घृतम् | अग्नीषोमाभ्यां स्वाहेति सृवन्मन्त्रेण नेत्रतः || घृतमादाय देवेशि दक्षभागाद्धृदाणुना | वह्निवक्त्रेऽग्नये स्विष्टकृते स्वाहेति होमयेत् || वह्निमन्त्रं ततो हुत्वा तारव्याहृतिभिस्त्रिशः | जिंह्वाङ्गमूर्तिमनुभिः जुहुयाच्च यथाक्रमम् || ऋषि त्रिष्टुभ मन्त्रैर्णैस्संजप्य च गुरु प्रिये | आदौ मूलेन संपूज्य उपचारैश्च देशिकः || जुहुयात् समिधं पश्चात्तन्मूलमनुवित्तमः | अष्टाष्टाज्याहुतिर्हुत्वा क्रमेण च पृथक् पृथक् || गर्भाधानादिकाः कुर्यात् विवाहान्ताः क्रियाः क्रमात् | गर्भाधानं पुंसवनं सीमन्तं बलिजातके || स्यान्नामकरणं पश्चादुपनिष्क्रमणं ततः | अन्नप्राशनकं चौलमुपनीतं ततो गुरुः || चत्वारि वेदप्रथिता व्रतानि स्नानकर्म च | विवाहान्तमिति प्रोक्ताः गर्भाधानादि कर्मणाम् || प्. २३६) पश्चात् कर्म करोमीति प्रत्येकं समिधं हुनेत् | आज्येन होमयेदन्ते वह्नो पूर्णाहुतिं हुनेत् || ततः सूतकशुद्ध्यर्थं जातकर्मविधौ कृते | तत्परिस्तरणादीनि साधनानि परित्यजेत् || संप्रोक्ष्य गोमयजलैः तत्कुण्डं च महेश्वरि | पूर्ववत्साधनं कुर्याद्यथावदनु देशिकः || जिंह्वामन्त्रैर्मूर्तिमन्त्रैः दशभेदविभेदितैः | महागणपतेर्मन्त्रैः पूर्वपूर्वापितैर्हुनेत् || पीठपूज्याथ तद्वह्नौ देवं ध्यात्वा ततो गुरुः | उद्दिश्य देवतारूपं यजेत्सावरणादिकैः || संमुखीकरणार्थं च पञ्चविंशाहुतिर्हुनेत् | देवताह्यतनामैक्यं भावयेन्मूलमन्त्रतः || एकादशाहुतिर्नाडी सन्धानाय हुनेत्ततः | एकैकमावृतीनां च देवताभ्यो घृताहुतिः || इत्येवं च गुरुः कुर्यात् वह्नेर्जननकर्मणि | न कुर्याच्च हुनेद्धोमं तद्धोमो निष्फलं भवेत् || प्. २३७) इति श्रीवातुलोत्तरे उमामहेश्वरसंवादे काम्यकाण्डे अग्निजननविधानं नाम पञ्चचत्वारिः पटलः | अतः परं प्रवक्ष्यामि मूर्तिपैः सहितो गुरुः | द्रव्यहोमादि पूर्णान्तं तर्पणं कुम्भपूजनम् || तत्तज्जपं तत्फलं च क्रमेण शृणु पार्वति | मण्टपान्तस्थकुम्भेषु मूर्तिपाश्चोपविश्य च || आसनादि विशुद्धिं च न्यासं कुर्यान्महेश्वरि | कुण्डशुद्धिं प्रकुर्वीत सद्योजातादि पञ्चकैः || शोधनं क्षालनं चैव शोषणं पालनं तथा | अभ्युक्षणं च पञ्चैते स्त्वन्यकुण्डेषु संस्मरैः || आचार्यकुण्डादनलं पूर्वादि विहरेत्ततः | अग्निमीलेति मन्त्रेण पूर्वोपस्थाय चानलम् || इषे त्वोर्जेति मन्त्रेणाग्नेयाञ्च न्यसेत्ततः | दक्षिणे च त्वमग्नेति उपत्वाग्ने च नैर्-ऋते || प्. २३८) वारुणे जातवेदादि वायव्ये व्याहृतिं प्रिये | अग्निं दूतं चोत्तरे च अग्निमग्नीति चैशके || विहरेदनलं पश्चात् प्राणायामं समाचरेत् | जिंह्वाङ्गमूर्तिन्यासादि ततः संकल्पपूर्वकम् || हुत्वा द्रव्याणि संख्याभिः देवतानाममोच्चरन् | अबाधानादि देवेशि गुरुमूर्तिधरा पृथक् || स्वस्वकुण्डे च तैस्सर्वैरुक्तवत्कारयेत् क्रमात् | चरुं विना न कर्तव्यं ब्रूहिता ब्रह्मपक्वकम् || परिधिं च महेशानि मूर्तिपैश्च न कारयेत् | भवाद्यं मूर्तिमावाह्य पूजयेत्पीठमन्त्रकैः || एकैकशश्च जुहुयुः जिंह्वादि मनुभिस्तथा | ऋत्विजो देशिकाद्याश्च ऋषिच्छन्दांसि मूलतः || पक्वाहुतिं च जुहुयुः पञ्चभिश्चाघृताहुतिम् | द्रव्याणामाहुतिं पश्चाज्जुहुयुर्देशिकादिकाः || हृदये वंशशून्यं च उदरे वृष्टिनाशनम् | कटौ तु स्थाननाशं च जानुमुच्चाटनं भवेत् || प्. २३९) मरणं बाहुमूले तु जिंह्वायां सर्वकामदम् | तस्मादग्नेर्विशेषेण जिंह्वायां होममाचरेत् || हुत्वा मुद्रां च देवेशि मृगी हंसी च सूकरी | मयूरी कुक्कुटी चैव होमद्रव्यगृहे प्रिये || मुद्राहीनस्तु यो होमः स सर्वो निष्फले भवेत् | आज्यं समिद्धविश्चैव गोधूमं सर्षपं शिवे || तिलं च त्रुटिकं लाजान् सक्तुं क्षीरं दश क्रमात् | द्विसहस्रं गोघृतं च कुडुपं च महेश्वरि || पालाशी खादिरी वाथ षडङ्गुलसुविस्तृता | अनाद्रा वक्रहीना च शोभिता च समिद्भवेत् || शाल्युद्भवैस्तण्डुलैश्च प्रस्थं पञ्चशतं भवेत् | हरिद्रासंयुतं पक्वं क्लिष्टदोषादिवर्जितम् || गोधूमादि द्रव्यमन्यत् तदर्धं परिकीर्तितम् | क्षालितं शोधितं पात्रे पूरयेन्मूलमन्त्रतः || उद्दिश्यदेवतामन्त्रं प्रणवादि यथाक्रमम् | मूलमन्त्रं च जुहुयात् गुरुमूर्ति धराः पृथक् || प्. २४०) सहस्रोर्ध्वं पञ्चशतं चाष्टाहुति गुरुं प्रिये | प्रधानकुण्डे जुहुयादुद्देश्यत्यागपूर्वकम् || होमयेयुर्मूर्तिपास्ते पृथक् कुण्डाष्टके पुनः | सहस्रं त्रिशतं देवि दशसप्त चतुस्तथा || मूर्तिपानां पृथक् होमोदितं प्रतिदिदिनं प्रति | पृथक् द्रव्यं लक्षमितं पूर्वाज्यं चापराज्यकम् || उत्तमं च हुनेद्धोमो उद्दिश्य दिवसान्तकम् | दश द्रव्याणि वा देवि हुनेर्लक्षं गुरूत्तमः || द्रव्यान्ते होमयेदाज्यं मध्यमं च महेश्वरि | सर्वद्रव्यं हुनेर्लक्षं अधमं परिकीर्तितम् || ततो वै वेदिकामध्ये पञ्चविंशोत्तरं शतम् | पदं पूर्वोक्तवत् कुर्यात् पद्ममालिख्य देशिकः || पञ्चवर्णकचूर्णैश्च पूरयेच्च पृथक् पृथक् | शालितण्डुलमापूर्य द्रोणार्धं च तदर्धकम् || प्रस्थं प्रस्थं च सर्वेषां प्रधानादि यथाक्रमम् | स्वर्णादिकुम्भं संगृह्य पञ्चविंशोत्तरं शतं || प्. २४१) द्रोणवारि धृतं कुम्भं तदर्धं च तदर्धकम् | अन्येषां पूरितं प्रस्थं छिन्नभिन्नादि वर्जितम् || क्षालितान् कलशान् देवि अस्त्रमन्त्रेण देशिकः | वर्मणा तन्तुनावेष्ट्या धूपैः संधूप्य मूलतः || स्थापयेत्कलशं पश्चात् कवचेन महेश्वरि | अधोमुखं च कुम्भं च पूजयेच्च कलात्मकम् || अस्त्रमन्त्रेण संप्रोक्ष्य कुम्भमुद्धृत्य चोन्मुखम् | षट्त्रिंशदर्भकूर्चं च पञ्चविंशतिकुर्चकम् || सप्तविंशति कूर्चं च पञ्च पञ्च यथाक्रमम् | दर्भकूर्चं च विन्यस्य पयसा पूरयेद्घटम् || वारिणाभ्यष्टगन्धं च पञ्चगव्यं कुशोदकम् | पञ्चामृतं कषायं च पूरयेन्नर्मलोदकम् || नवरत्नं पञ्चरत्नं विन्यसे मातृकादिकान् | दशनिष्कं सुवर्णं च प्रधानकलशे न्यसेत् || अष्टविद्येशकुम्भेषु प्रतिमां पञ्चनिष्ककाम् | निष्केण प्रतिमां हेम्नां बहिरावरणे न्यसेत् || प्. २४२) पणेन हेम्ना प्रतिमामन्येषु कलशेषु च | विन्यसेत् प्राणमन्त्रेण औषधानि विनिक्षिपेत् || चूतपल्लवमेतेषु विन्यसे नेत्रमन्त्रतः | नालिकेरफल न्यस्त्वा कवचेन महेश्वरि || दुकूलवाससाच्छाद्य अस्त्रमन्त्रेण पार्वति | विचित्रैर्नववासोभिः श्वेतवस्त्रैर्यथाक्रमम् || सर्वकुम्भान् समाच्छाद्य कूर्चं शिरसि मन्त्रतः | प्राणायामादि विन्यासं पीठपूजां समाचरेत् || कुम्भेष्वावाह्य देवेशान् विद्येशादि यथाक्रमम् | सर्वान् देवान् समावाह्य प्र * मावरणादिकान् || पञ्चविंशोत्तरशतम् आवाह्याभ्यर्च्य मान्त्रिकः | कलान् संपूज्य देवेशि षट्त्रिंशत्तत्वमन्त्रतः || पञ्चब्रह्ममनून् पश्चादुपचारैस्समर्चयेत् | दश विप्रांश्च परितो जपेयुर्मूलमन्त्रतः || सहस्रं पञ्चविंशत्या ऋष्यादिन्यासपूर्वकम् | चतुरस्त्रं चतुर्दिक्षु गणेशं क्षेत्रपालकम् || प्. २४३) दुर्गामनुं च वाणीं च प्रासादं च त्रियम्बकम् | भुवनेशीं च वास्तुं च राक्षोघ्नं च नवग्रहान् || श्रीरुद्रं पावमानं च श्रीसूक्तं विष्णुसूक्तकम् | भूसूक्तं ब्रह्मसूक्तं च धृतसूक्तमनुं ततः || जपेत् सप्तशतिं देवि परितश्च यथाक्रमम् | चतुर्द्वारे चतुर्वेदान् वदेयुर्भूसुरोत्तमान् || तर्पयेत् सौम्यदिग्भागे दशांशं च पयोम्बुभिः | दशविप्रांश्चोपविश्य पद्ममालिख्य मण्डले || शालितण्डुलमापूर्य तत्र पात्राणि विन्यसेत् | पयसा वारिणापूर्य गन्धपुष्पं च निक्षिपेत् || आवाह्य पूजयेद्देवं तर्पयेत्तिलतण्डुलैः | सहस्रं द्विशतं सार्धं मन्त्री मूलाणुना युतः || यावद्धोमावसानान्तं नवं कुर्यान्महेश्वरि | होमान्ते स्विष्टकृद्धोमो यदस्येत्यणुना गुरुः || कृत्वानुयाजसमिधं रज्जुं हुत्वा ततः परम् | जयादिंश्च ततो हुत्वा प्रायश्चित्ताहुतिं ततः || प्. २४४) ततो महाव्याहृतिभिरेकैकां सर्पिषाहुतिः | ततः पूर्णाहुतिं देवि ब्रह्माणं च विसृज्य च || हामं समापयेदन्ते बलिदानं समाचरेत् | नवपिण्डान् प्रकुर्वीत आज्येन हविषा ततः || गुरुकुण्डादिका न्यस्त्वा काष्ठदीपान् प्रपद्य च | वेदिकुम्भान् यजेत् पश्चादाचार्यो यजमानकः || शिष्यमाहूय तत्कुम्भं प्रधानं च महेश्वरि | शिरसा धारयेन्मन्त्री वेदमङ्गलविस्वनैः || सर्वान् कुम्भान् समादाय मूर्तिपादि द्विजोत्तमैः | प्रदक्षिणवशान्मन्त्री घटमन्तः प्रवेशयेत् || लिङ्गं संपूज्य मूलेन प्रधानादि यथाक्रमम् | तस्याः सूक्तेन संसिञ्चेत् मूलमन्त्रेण पार्वति || महापूजा प्रकर्तव्या प्रागुक्तेन महेश्वरि | सर्वेभ्यश्च बलिं दत्वा तत्सर्वं च समर्पयेत् || सहस्रद्विशतं सार्धं भूसुरान् भोजयेत् प्रिये | शाल्यान्नं सघृतं क्षीरसूपशाकस्वादुसमन्वितम् || प्. २४५) भक्षं पायससुक्षीरशर्करा मधुसंयुतम् | भूक्तेषु तेषु देवेशि ताम्बूलं च प्रदापयेत् || मन्त्राशीर्वचनं ग्राह्यं यजमानेन भक्तितः | एवमेव समुद्दिष्टदिनान्तं च दिने दिने || पूर्णाहुतिस्तदन्ते तु कृत्वा चावभृतक्रियाम् | विसुज्य कङ्कणं पश्चात् शुद्धस्नानं समाचरेत् || यागगेहं प्रविश्याथ गुरुकुण्डसमीपतः | भूसुरेभ्यश्चोपविश्य यजमाने गुरुः प्रिये || गोभूम्यादीनि दानानि छागं च महिषं तथा | खड्गं च तिलतैलं चानड्वाहं च दापयेत् || पुष्पं फलं च ताम्बूलं पानीयं शयनादिकम् | दध्योदनं यज्ञसूत्रं कन्यादानं महेश्वरि || विजनं पादुकं छत्रं चामरं स्वर्णकुम्भकम् | तदन्ते गुप्तदानं च कृच्छ्रं दद्यान्महेश्वरि || भूसुराणां देशिकादि दक्षिणां विधिवद्बुधः | पञ्चविंशतिनिष्कं च विजनं वाहनं तथा || प्. २४६) छत्रं च चामरं चैव तन्त्रोपकरणैः सह | गुप्तदानं च दासं च देशिकाय प्रदापयेत् || तदुक्तं मान्त्रिकायाथ दद्याद्विभवविस्तरम् | सप्तं च दशनिष्कं च पर्यङ्कं शयययावृतम् || स्वयं गृह्य महेशानि आचार्याय प्रदापयेत् | दशनिष्कं सुवस्त्रं च ब्रह्मणे दापयेत् प्रिये || सप्तनिष्कं पादुकं च सदस्याय प्रदापयेत् | मूर्तिगानां पञ्चनिष्कं पृथक् दद्याच्च कुण्डलम् || सार्धनिष्कं द्विजातिभ्यः तर्पकेभ्यः पृथक् पृथक् | सार्धनिष्कद्वयं वेदघोषकाणां प्रदापयेत् || जापकानां सार्धनिष्कं मूलमन्त्रस्य पार्वति | अन्येषां जापकादीनां चाराणां निष्कमुच्यते || प्रदक्षिणकृतां चैव पूजकानां तथैव च | दीनान्धबधिरादीनां यथाशक्त्याथ दक्षिणाम् || इति दत्वा क्रमेणैव संपूर्णफलमश्नुते | उक्तार्धे च फलार्धं स्यादुक्तांशे च फलांशकम् || प्. २४७) ज्ञात्वा धर्ममिति प्राज्ञो स्ववंशस्याभिवृद्धये | लक्षहोममिमं देवि यः कुर्याच्च नृपोत्तमः || ब्रह्महत्यादि पापघ्नं सर्वमृत्युनिवारणम् | सर्वदुःखोपशमनं सर्वदा मङ्गलप्रदम् || सर्वशान्तिकरं ज्ञेयं पुत्रपौत्राभिवृद्धिदम् | तुष्टिपुष्टिप्रदं देवि कीर्तिदं कान्ति वृद्धिदम् || आयुर्वृद्धिकरं सौख्यं सर्वत्र विजयं भवेत् | भूमिदानेन यत्पुण्यं तत्फलं बहुभिर्मखैः || देहान्ते मम सायुज्यं त्रिस्सप्तकुलसंयुतः | कामितार्थफलं शीघ्रं सत्यं सत्यं मयोदितम् || इति श्रीवातुलागमे उमामहेश्वरसंवादे काम्यकाण्डे लक्षहोमविधि कर्मविधिविवर विधानं नाम सप्तचत्वारिंशत् पटलः || || स्वस्ति || यस्मिन् देवे भवेद्देवि नित्यकार्यबलिद्वयम् | तदा नैमित्तिके मन्त्री त्रिकालं बलिमाहरेत् || नित्ये वा वर्तमाने तु त्रिकालं बलिकर्मणि | तदा नैमित्तिकं कुर्यान्नित्यबल्या सहैव तु || अथवान्यप्रकारेण भवे नैमित्तिके बलिः | प्रातरेव विनिर्वत्य बलिं नित्यं महेश्वरि || मध्याह्ने चैव सायाह्ने बलिं नैमित्तिकं हरेत् | नित्यमादौ विनिर्वर्त्य बलिं नाडीद्वयात्परम् || नैमित्तिकबलिमन्त्री प्रकुर्यादेवमेव वा | काम्ये बलिविधौ देवि विशेषः क्वचिदिष्यते || मध्याह्ने वाथ सायाह्ने कुर्यात्तद्द्वितयेऽपि वा | नित्यबल्या सहैवात्र पृथग्वा पूर्व तद्बलिम् || एवं नित्यादिके देवि बलिक्रम इतीरितः | परिवारामराणां च संतृप्तिर्नित्यकर्मणाम् || परिपूर्णफलावाप्तिर्देवस्य च भवेद्यतः | प्. २५९) सुखं च सर्वजन्तूनां तस्मान्नित्यं चरेद्बलिम् || ब्रह्मलोकादिलोकेषु संस्थिता ये सुरादिकाः | तेषां प्रीतिर्भवेद्येन भूपतेः सर्वसम्पत् || शिवस्यातिप्रियः कुर्यात्तस्मान्नैमित्तिकं बलिम् | कर्तुः काम्यफलावाप्तिः सर्वशत्रुनिवारणम् || सर्वशान्तिर्भवेद्येन तस्मात्काम्यबलिं चरेत् | पूर्वाह्वे ब्रह्मणः प्रीतिः विष्णोर्मध्यन्दिने भवेत् || सायाह्ने शङ्करस्यैव बलिदानं हि पार्वति | सृष्ट्यादि भेदतः कल्प्य बलिःकालत्रये त्रिधा || अत्राधिदेवा विज्ञेया ब्रह्मविष्णुशिवस्तथा | द्विवरं च त्रिवारं च चतुर्वारं पृथक् क्रमात् || नित्ये नैमित्तिके काम्ये देवताभ्यो बलिं हरेत् | || स्वस्ति || अतः परं प्रवक्ष्यामि कालभेदेन साम्प्रतम् || शिवादीनां च देवानां क्रमेण शृणु पार्वति | प्. २५०) नित्यादि कर्मभेदेषु बलिदानविनिर्णयम् || बलिभुग्देवताश्चापि बलिद्रव्यं तथैव च | बलिमन्त्रांश्च बल्युक्तवाद्यानि त्रिविधानि च || इन्द्रादितालगानानां नामान्यत्र वदाम्यहम् | तृप्त्यर्थं सर्वदेवानां सुखार्थं सर्वदेहिनाम् || राज्ञां विजय राज्य श्रीपुत्रायुष्यादि वृद्धये | सर्वारिष्टनिवृत्त्यै च सर्वलोकहिताय च || बलिदानं प्रकर्तव्यं तस्माद्देवि प्रयत्नतः | प्रातःकाले च मध्याह्ने सायाह्ने च क्रमेण वै || बलिदानं प्रकुर्वीत नित्ये नैमित्तिके तथा | काम्ये चापि विधौ मन्त्री यथाविधि महेश्वरि || मध्यन्दिने च सायाह्ने नित्यकर्मणि चाथवा | बलिं दद्यान्महोत्पाते महास्नपनकर्मणि || प्रायश्चित्ते गुरौ चैव प्रतिष्ठायां विशेषतः | महोत्सवादि कालेषु त्रिकालं बलिमाहरेत् || शैवे शास्तरि चैवं स्यात् बलिदानविधिक्रमः | प्. २५१) दुर्गायां गणनाथे तु बलिन्नित्यादि कर्मसु || मध्याह्ने चैव सायाह्ने कुर्याद्वाचोत्सवादिषु | कालत्रये च विष्णौ तु षण्मुखे शङ्कराच्युते || द्विकालं वा त्रिकालं वा नित्यादिषु बलिं हरेत् | एवं शिवादि देवानां नित्यनैमित्तिकादिषु || बलिकालविभेदोक्ता बलिदेवान् शृणु प्रिये | नन्दी चैव महाकालो गणेशो दक्षिणेश्वरः || शूलपाणिं परशुपाणिं दिक्पालाः ससुराधिपाः | ततः परं महानन्दी वीरभद्रो विनायकः || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डास्सप्तमातरः || मातरश्च तथा लोका मातरस्सर्वमातरः | सर्वमातृगणा लक्ष्मीर्भूचरी खेचरी तथा || शास्ता दुर्गा गुहः श्रीदश्चण्डनाथस्तथैव च | तीक्ष्ण दौंष्ट्र मृगास्यौ च गोपुरद्वारपालकौ || भृङ्गी चैव महाकालो भूतनाथो महीधरः | प्. २५२) पर्वतेशो गुहेशश्च कालपाशकपालिनौ || तदन्त्ये क्षेलपालश्च महापीठे तु तत्परम् | भूतिदो दुर्निरीक्षश्च भीमरूपं सुलोचनः || सुमुखश्च सुबाहुश्च कालपाशकपालिनौ | अधःपिङ्गलकेशाश्च हरसेनस्तदूर्ध्वतः || एते बलिभुजो नित्ये देवाः शैवे समीरिताः | चण्डः प्रचण्डो गरुडोऽनन्तो विघ्नेश्वरः शिवः || दिक्पालवीरभद्रैकदन्तौ ब्राह्म्यादिकस्तथा | शास्ता दुर्गा च धनदो विष्.वक्सेनोऽथ गोपुरे || चक्रपाणिः शङ्खपाणिः श्रीभूमिः परितो बहिः | कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः || शङ्कुकर्णः सर्पनेत्रः सुमुखःसंप्रतिष्ठितः | क्षेत्रेशोन्त्ये चाथ बलिपीठे किष्कन्धपूर्वकाः || किष्किन्धः शङ्करो भौमो भीमश्च सुकुमारकः | ततो बाहुलकश्चैव विजयोऽनन्तविक्रमः || प्. २५३) पुनः पिङ्गलकेशाक्षो हरसेनस्तु मध्यतः | द्वारादि बलिपीठान्तं बलिदेवा इमे हरौ || चण्डिका चाम्बिको सिंहो दक्षिणे गणपेश्वरौ | दिक्पा वीरेश विघ्नेशमातृकाद्याः पुरोदिताः || शास्ता दुर्गा च धनदो मुण्डिनी गोपुरे ततः | ह्लादिनी मोहिनी द्वारि विजयन्ती ततः परम् || कात्यायनी बहिरथो काल्याद्या बलि देवताः | काली कराली विरजा मन्दरा विन्ध्यवासिनी || सुप्रभा सिंहवक्त्रा च दैत्यमर्दिन्यतः परम् | क्षेत्रेशो बलिपीठे तु ब्रह्मघोष्यादि देवताः || ब्रह्मघोषी सुघोषी मा यथेष्टी सुखरागिणी | संमुखी सुभगा दिक्षु प्रमोदिन्यथ चात्मनि || ब्राह्मी मध्ये चैवमुक्ता दुर्गाया बलि देवताः | वज्रपाणिः शक्तिपाणिः सुकुमाराह्वयस्ततः || प्. २५४) भद्रसेनः शिखी भास्य दक्षिणामूर्तिलोकपाः | मातृशास्त्रम्बिकाःस्कन्दो धनदो धूर्तसेनकाः || अग्निकेतुः सूर्यकेतुः गोपुरद्वारि तद्बहिः | देवसेनापतिश्चाग्निनेत्रो दग्धोसिधार्यथ || पाशहस्तां हयः केतुहस्तसंज्ञो गदाधरः | ततः शूलविलासिन्यादीशान्यन्तस्तथोपरि || विप्रप्रियोऽथ क्षेत्रेशो बलिपीठे ततः परम् | भूतिदाद्यास्तु शैवोक्ता देव अत्रैव चोदिताः || बलि देवा इति प्रोक्ताः स्कन्दस्य परमात्मनः | क्षुरिका खड्गपाण्यन्तद्वारपालौ बहिस्तथा || वीरबाहुर्महावीरो नीलाश्मेभास्यशंकरौ | दिक्पालमातरः शास्ता धनदो घोषवांस्तथा || तीक्ष्णश्च तीक्ष्णदन्तश्च गोपुरे परितो बहिः | गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः || त्रिदिक् शूली दक्षभीमरूपा क्षेत्रप एव च | प्. २५५) वीरबाहुर्महावीरो विद्युद्वासविलासिनौ || तीक्षश्च तीक्ष्णदन्तश्च ताराक्षश्च भवोद्भवः | अधः पिङ्गलकेशाक्षः शास्त्रसेनस्तथोपरि || बलिपीठे त्विमे शास्त्र बलिदेवा इतीरिताः | वज्रदन्तगजास्यौ च महापाशो विनायकः || शिवदिक्पा मातृशास्तृदुर्गास्कन्दां हयास्ततः | कुम्भोदरो गोपुरे तु चण्डविक्रमसंज्ञकः || ततो विघ्नकरो दिक्षु वज्रदन्तो गजास्यकः | भीमश्च महिषास्यश्च मेघनादस्तथैव च || विरूपाक्षश्च वरदः सर्वभक्षक एव च | तदान्त्यक्षेत्रपालश्च गजवक्त्रादिकस्ततः || गजवक्त्रगणेशाख्यौ ततश्चैव विनायकः | चण्डविक्रमको विघ्नकरशूर्पायुमेखलाः || शूर्पकर्णस्ततो नागदन्ती स्याद्रुद्रवक्त्रजः | बलिपीठस्य दिक्षु स्युरध उर्ध्वे त्विमे स्मृताः || प्. २५६) एवं द्वारादि संप्रोक्ता विघ्नेशबलिदेवताः | नन्दी चण्ड जयत्सेन विष्वक्सेन वृषास्तथा || गरुडोऽनन्त विघ्नेशौ शिव दिक्पालमातरः | शास्ता दुर्गा गुहश्चैव चण्डसेनोऽथ गोपुरे || शूलारिणौ बहिर्दिक्षु नन्दी चैव समन्ततः | महाकालां हयः पश्चाद्भूतनाथो महीधरः || कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः | क्षेत्रपालस्तथैशान्यां बलिपीठे ततः परम् || आयान्तु पाशदाः सर्वे शाङ्करा वैष्णवाश्च ये | बलिपीठेऽत्र सन्तुष्टा निवसन्तु यथासुखम् || ओन्नमो युक्पार्षदेभ्य इत्याराध्य बलिं हरेत् | इतः परं च शर्वादि बलिद्रव्यं शृणु प्रिये || घृतान्नं बिल्वपत्रं च जातीकुसुममेव च | श्रीगन्धं चाक्षतं वारि धूपदीपौ तथैव च || बलिद्रव्यमिदं शैवे दध्यन्नं तुलसी तथा | प्. २५७) कल्हारकुसुमं रक्तचन्दनाद्यं समीरितम् || अगरुं जम्बुपत्रं च मल्लिकाकुसुमं तथा | क्षीरोदनं च दुर्गायामन्यत्सर्वं च पूर्ववत् || स्कन्दे गोरोचनोपेतं गन्धं चैव गुडोदनम् | शतपुष्पं च निर्गुण्डी पत्रञ्चापगणाधिपे || कुचन्दनं च मध्वन्नं पुनिपुष्पं तथैव च | न्यग्रोधच्छन्दनं वाथ मुद्गान्नं शङ्करच्यते || कर्पूरागरुयुग्गन्धं द्रोणपुष्पं तथैव च | अपामार्गदलं प्रोक्तं शास्तर्च्यथ निगद्यते || कृसरान्नं च कर्पूरमिश्रचन्दनमेव च | नन्द्यावर्तसुमं बिल्वपत्रं चान्यत् पुरोक्तवत् || देवेषु निखिलेषूक्तद्रव्यालाभेऽथवैषु च | शुद्धोदनं वा द्रव्येषु यथालब्धानि केवलम् || गन्धपुष्पाणि पत्राणि भवेयुर्बलिकर्मणि | बलिद्रव्यमिति प्रोक्तं बलिमन्त्रान् शृणु प्रिये || ध्यात्वादौ देवमभ्यर्च्य मन्त्री गन्धादि मुद्रिकाः | प्. २५८) प्रदृश्य तत्तदुक्तैश्च बलिमन्त्रैर्बलिं हरेत् || गन्धं कनिष्ठया पुष्प अङ्गुष्ठाग्रेण देशिकः | धूपं दद्याच्च तर्जन्या दीपं मध्यमया तथा || अनामयान्नमित्युक्ता मुद्रागन्धादिकाः क्रमात् | ओन्नमोन्तं सवेदादि देवनाम जलं ततः || अर्चयामुच्चरेद्देवं पत्रं पुष्पं तथैव च | एवमन्नं वदेन्मन्त्री वह्निजायावसानकम् || पृथक् पृथक् द्वारपादि देवानां च यथाक्रमम् | बलिमन्त्रा इमे नित्यविधौ सर्वामरेषु च || सन्ति नैमित्तिकाद्ये तु बलिकर्मणि केनचित् | उपस्थानान्नवश्चैव मालामन्त्राः सदां तथा || मनवः पार्षदां चैव मातॄणां तत्र तत्र वै | बलिदेवगणाधीशाः केचित्पार्षदादिकाः || नोच्यं तत्र मयोक्तत्वादुत्सवेषु सविस्तरम् | बलिमन्त्रा इति प्रोक्ता वाद्यानि शृणु साम्प्रतम् || श्रेष्ठं द्वादशवाद्यं स्या सप्तवाद्यं च मध्यमम् | प्. २५९) अधमं पञ्चवाद्यं स्या वाद्यानि त्रिविधेति च || भेरीशङ्खमृदङ्गाश्च पणवो मद्दलस्तथा | वीणावेणुश्च तालं च कहलं नागवाद्यकम् || यल्लरी कम्बुवाद्यं स्यादेवं द्वादशवाद्यकम् | शङ्खो मृदङ्गः पणवो वीणा तालं तथैव च || कहलं दुन्दुभिश्चेति सप्तवाद्यं प्रकीर्तितम् | मद्दलश्चैव तालं च तथैव जयघण्टिका || शङ्खश्च कलहंचेति पञ्चवाद्यं प्रकीर्तितम् | इन्द्रादि तालनामानि प्रोच्यन्तेऽथ यथाक्रमम् || समतालं सुरेशस्य वह्नेर्बन्धापणांह्वयम् | याम्यं स्या भृङ्गितालं तु मल्लतालं तु नैर्-ऋतम् || वारुणं नव तालं स्यान्नागतालं तु मारुतम् | कौशिकाख्यं तु सौम्यं स्याद्दक्करीशानतालकम् || वृषतालं महोक्षस्य मातॄणां शशितालकम् | स्कन्दस्योत्कलतालं स्याद्दौर्गं तटप्रहारकम् || चण्डनाथस्य विषममथगानं समीर्यते | प्. २६०) प्राच्यां तु गानं गान्धारं कोल्लि चाग्नेयगोचरे || दक्षिणे कौशिकी चैव नटभाषा च नैर्-ऋते | वारुणं कामरं गानं कर्कशी वायुगोचरे || तत्तद्रागं चोत्तरे तु शालापाणी च गोचरे | एवं तालानि गानानि नित्ये बल्युत्सवे विधौ || नित्यमूर्तिं भ्रामयेत्तु यदा नैमित्तिकादिके | नैमित्तिक्या सहैवैनां बलिमूर्त्या गुरुस्स्तदा || असुराजेन संयुक्तामन्तलिङ्गेन चाथवा | इति परमेश्वरतन्त्रे अष्टत्रिंशत्पटलः || ओङ्कारं भुवनेश्वरीं क्षितिपारं गोरोचनाढ्यम् वन्दे द्वाकारं तु विरूढसंपुरं पदम् | नित्योत्सवाय बेराणि कल्पितानि वधूनि चेत् | तदर्धं कल्पयेत्तेषु यथेष्टं बेरमुन्नतम् || एककालं द्विकालं वा त्रिचतुःपञ्चकालम् | प्. २६१) षट् सप्तवसुकालं वा सर्वदा चार्चयेच्छिवाम् || नित्येत्वेवं समादिष्टसर्वाभीष्टफलप्रदा | प्रातःकाले तु मध्याह्ने सायाह्ने यदि पार्वति || बलिकर्मणि हीने तु प्रायश्चित्तं समाचरेत् | पुण्याहं वाचयित्वा तु नान्दीकर्म विधाय च || अघोरास्त्रेण वङ्कुर्यादष्टोत्तरशतं तथा | पञ्चब्रह्मषडङ्गैश्च होमं कुर्याद्यथा विधि || स्नापयेत्कलशैर्देवं पञ्चभिर्नवभिस्तु वा | देवं सावरणं पूज्या निवेद्यं मधुरं ददेत् || देवताभ्यो बलिं दद्याद्ब्राह्मणान् भोजयेत्ततः | एवं प्रातर्विधि प्रोक्तो मध्याह्ने द्विगुणं भवेत् || सायाह्ने तत्समं देवि प्रायश्चितविधिक्रमात् | इति चन्द्रज्ञाने | ########### END OF FILE #######