#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00618 Uniform title: vedāntasāravīraśaivacintāmaṇi Description: Notes: Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: March 27, 2022 Publisher : vīraśaivaliṅgibrahmaṇagranthamala Publication year : 1905 Publication city : Solapur Publication country : India ####################################################  ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ३४ वा. वेदांतसारवीरशैवचिंतामणि उत्तरखंड वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुन शास्त्री शके १८३०, सन १९०८ पृ० १) ऊं श्रीशिवायनमः श्रीमद्वेदान्तसारवीरशैवचिंतामणौ उत्तरखंडप्रारंभः प्रथमप्रकरणम् श्रीगणेशाय नमः || श्रीमन्त्रमूर्तये तुभ्यं शिवाय शिवदायिने || नमः श्रीगुरुनाथाय षट्स्थलब्रह्ममूर्तये || १ || अथ वीरशैवशास्त्रमारभ्यते | अत्र वीरशैवाचारनिष्ठो मुमुक्षुर्भक्त एवाधिकारी शिवभक्तिसमासादितशिवसाक्षात्कारद्वारा लिंगांगसंयोगशिवजीवैक्यरूपपरममुक्तिरेव प्रयोजनं | षट्स्थलोपभेदैकोत्तरशतस्थलप्रतिपाद्यज्ञानं विषयः | अस्य विषयस्य वीरशैवसिद्धान्तशास्त्रेण सह विषयविषयिभावसंबंधः | एवमनुबन्धचतुष्टयमेव शास्त्रमित्यर्थः | अथ इत्यत्र पूर्वखण्डे वीरशैवशुद्धशैवमिश्रशैवादीनां सर्वेषां शैवानां साधारणधर्ममुक्त्वेदानीं वीरशैवानां विशेषधर्मो निरूप्यत इत्यर्थः | जीवेश्वराभेदवादिनो वीरशैवाः जीवस्य लिंगे लयोक्तेः || २ || शांकरसंहितायां- यो मायोपाधिकश्शंभुर्लिंगरूपी सदाशिवः || पृ० २) सोऽविद्योपाधिको भूत्वा भवत्यंगस्वरूपवान् || ३ || कामिकागमे- शिव एव भवेलिंगमात्मैवांगं भवेत्खलु || तयोश्शिवात्मनोस्सम्यग्योगस्संयोग एव हि || ४ || संयोग एव सायुज्यरूपा मुक्तिर्न चापरा || एकेन जन्मना मुक्तिर्वीराणां च महेश्वरि || अन्येषामपि शैवानां मुक्तिर्जन्मत्रयेणतु || ५ || इति शांकरसंहितायां- तत्वं पदार्थे लिंगांगभेदेऽन्योन्यविरुद्धके || उपाधिकृतवाच्यार्थं त्यक्त्वा सच्चित्सुखात्मकं || ६ || लक्ष्यार्थमविरुद्धं यच्छिवस्तदिति या मतिः || सा संबंध इति प्रोक्तो वेदान्तागमवेदिभिः || ७ || इत्यत्र वीरशैवशब्दार्थ उच्यते | सिद्धान्तशिखामणौ- अगस्त्यं प्रति रेणुकवाक्यं | शैवपुराणे वायवीयसंहितायां च- वेदान्तजन्यं यज्ज्ञानं विद्येति परिकीर्त्यते || विद्यायां रमते यस्माद्वीर इत्यभिधीयते || ८ || शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिः क्रमात् || शिवो महेश्वरश्चेति नात्यन्तमिह भिद्यते || ९ || पृ० ३) वीरशैवशब्दनिर्वचनम् | यथा तथा न भिद्यन्ते शैवा माहेश्वरा अपि || शिवाश्रितेषु ते शैवा ज्ञानयज्ञरता नराः || १० || माहेश्वरास्समाख्याताः कर्मयज्ञरता भुवि || तस्मादभ्यन्तरे कुर्युश्शैवा माहेश्वरा बहिः || ११ || इत्यनेन हृत्कमलमध्यस्थितज्ञानलिंगपूजानिरता वीरशैवाः करकमलमध्यस्थितक्रियालिंगपूजासक्ता वीरमाहेश्वराः || १२ || किंच सिद्धान्तशिखामणौ- विद्यायां शिवरूपायां विशेषाद्रमणं यतः || तस्मादेते महाभागा वीरशैवा इति स्मृताः || १३ || इत्यनेन विद्यावेदान्तवाक्यजेति सूतसंहितावाक्यप्रतिपादितवेदशिरोजन्यविद्याभ्यासपरायणा वीरशैवाः || १४ || शांकरसंहितायामुपरिभागे- “विद्यायां रमते यस्मान्मायां हेयां श्ववद्रहेदित्यनेन निरुक्तेन वीरमाहेश्वरः स्मृतऽऽ इत्यनेन विद्यारमणतत्परा मायाविडंबनशीला वीरमाहेश्वरा इत्युक्तं भवति | किंच वीरशैवमित्यत्र वीरं च तत् शैवं च वीरशैवमिति समानाधिकरणसमासः | वीरशब्दस्तु विशेषेण स्तुतमित्यर्थः | विशब्द उपपदे ईर- पृ० ४) स्तुतावित्यस्माद्धातोरकर्तरि च कारके संज्ञायामिति कर्मणि घञि प्रत्यये सवर्णदीर्घे निष्पन्नः | अथवा विरुद्धान् जीवेश्वरयोरुपाधिकृतविरुद्धार्थान् राति हन्तीति वार्थे रा दाने छेदने च इत्यस्माद्विशब्द उपपदे आतोऽनुपसर्गे क इति कप्रत्यये अन्येष्वपि दृश्यत इति उपसर्गदीर्घे निष्पन्नः | विशेषेण वाञ्छितफलं राति ददातीति वार्थे विशब्द उपपदे रा दान इत्यस्मादिगुपधज्ञा प्रीकिरः कः आतश्चोपसर्गे इति कप्रत्ययेऽतो लोप इटि चेत्याकारलोपे अन्येष्वपि दृश्यत इति उपसर्गदीर्घे निष्पन्नः || १५ || किंच || वीरागमे- एक एवायमेतस्मिन् सर्वस्मिन् जगतीति यः || विशिष्ट इर्यते यस्माद्वीर इत्यभिधीयते || १६ || शिवेन सह सबंधंः शैवमित्यादृतं बुधैः || उभयोस्संपुटीभावाद्वीरशैवमिति स्मृतं || १७ || अस्मिन्नर्थे शांकरसंहितायां षट्स्थलनिर्णयाध्याये- क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाधिकाः || पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || १८ || द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः || पृ० ५) क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः || १९ || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः || तेषु श्रेष्ठा महाभाग मम लिंगांगसंगिनः || २० || लिंगांगसंगिष्वधिकाः षट्स्थलज्ञानवान् पुमान् || तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वथा || २१ || स वंद्यः सर्वदा पूज्यः संसारविजिगीषिभिः || बहुनोक्तेन किं वत्स स एवाहं न संशयः || २२ || सर्वमुक्तं समासेन स्थलनिर्णयवेदनं || गोप्यं समस्तशास्त्रेषु तव स्नेहान्मयोदितम् || २३ || अस्मिन्नर्थे स्वसंवेद्ये श्रुतयः सकलागमाः || पुराणानि समस्तानि पर्यवस्यन्तियुक्तयः || २४ || इत्यनेन सकलवेदागमपुराणेषु विशिष्ट इतीरितो वीरशैव इत्युक्तं भवति || २५ || विशेषार्थप्रकाशिकायां- विशब्दोऽत्र विकल्पार्थो रशब्दो रहितार्थकः || विकल्परहितं शैवं वीरशैवमिति स्मृतं || २६ || एकमेवाद्वितीयं यदविकल्पं परं पदं || तद्वीरशैवमित्युक्तं नेतरं सविकल्पकम् || २७ || इति सकलोपनिषत्प्रतिपाद्यशिवजीवैक्यबोधितशिवज्ञानविद्यारतानामेव वीरशैवाभिधानत्वमिति || २८ || पृ० ६) कामिकादिशिवागमेषु- विशब्देनोच्यते विद्या शिवजीवैक्यबोधिका || तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः || २९ || इत्युक्तं | एवमादिनिर्वचनानि शैवागमशास्त्रपुराणेषु बहुधा तिष्ठन्त्यत्र ग्रन्थविस्तरभयान्न लिखितानि अहं ग्रहोपासको दहरविद्यानिष्ठः स एव ब्रह्मविद्यायामुख्याधिकारीति निश्चीयते प्राणलिंगसंधित्वात् || किंच | “बहिर्यागविहीनश्चेदन्तर्यागो न सिद्ध्यतीत्यागमवाक्यादन्तर्लिंगानुसंधाने रुचिर्बाह्ये न जायतऽऽ इति सिद्धान्तशिखामणिवाक्यात् || “इष्टलिंगं प्राणलिंगमेकीकृत्य समर्चयेदितिऽऽ शिवरहस्यवाक्यादन्तरंगोपासनापूर्वकं बहिरंगोपासनं बहिरंगोपासनापूर्वकमन्तरंगोपासनं वीरशैवैः कर्तव्यं || ३० || तथा शांकरसंहितायामुपरिभागे | तदेव हस्तांबुजपीठमध्ये निधाय लिंगं परमात्मचिह्नं || संपूजयेदेकधियोपचारैर्नरः सबाह्यान्तरभेदभिन्नैः || ३१ || इति | यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनःप्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || ३२ || पृ० ७) ब्रह्मविद्याधिकारित्वकथनम् | इति तत्रैव करपीठकथनाध्याये स्कन्द उवाच | भगवंच्छ्रोतुमिच्छामि सर्वप्राणिहितं परं || केचिल्लिंगार्चनं पीठे प्रशस्तन्तु प्रचक्षते || ३३ || केचिच्छिवागमाभिज्ञाः प्राणलिंगार्चनापराः || लिंगे प्राणं समाधाय करपीठे शिवार्चनं || ३४ || प्रशंसन्त्युत्तमं देव ब्रूहि किं मुख्यमेतयोः || संशयं मे महान्तं त्वं छेत्तुमर्हसि शंकर || ३५ || ईश्वर उवाच | साधु पृष्टं त्वया वत्स वक्ष्याम्येतदशेषतः || वेदागमपुराणेषु सारं गोप्यं मनोहरं || ३६ || भक्तिस्स्थिरीकृता यस्मिन् म्लेच्छेऽपि द्विजसत्तमे || स मे प्रियश्चतुर्वेदी न प्रियो भक्तिवर्जितः || ३७ || सा भक्तिर्द्विविधा ज्ञेया बाह्याभ्यन्तरभेदतः || बाह्या स्थूलान्तरा (सूक्ष्मा)साक्षाद्वीरमाहेश्वरादृता || ३८ || सिंहासने शुद्धदेशे सुरम्ये रत्नचित्रिते || शिवलिंगस्य पूजा या सा बाह्या भक्तिरुच्यते || ३९ || लिंगे प्राणं समाधाय प्राणे ल्लिंगन्तु शांभवं || सशरीरं मनः कृत्वा न किंचिच्चिन्तयेद्यदि || ४० || साभ्यन्तरा भक्तिरिति प्रोच्यते शिवयोगिभिः || पृ० ८) सा यस्मिन्वर्तते तस्य जीवनं भ्रष्टबीजवत् || ४१ || प्रारब्धकर्मभोगान्तमेव संसारदर्शनं || जीवन्मुक्तः स विज्ञेयो वीरमाहेश्वरः पुमान् || ४२ || इति || पद्मनाभौ | सर्वज्ञत्वादिसंपन्नः शिवः परमकारणं || दद्यादद्वैतविज्ञानं विना न दृढनिष्ठया || ४३ || इत्यादिवचनप्रमाणात्स एव ब्रह्मविद्याधिकारीति वक्तव्यं ननु प्रणवेन सर्वेषां ब्रह्मोपासनायामधिकारस्तस्याः सन्यासमात्राधिकारित्वात् शन्यासयोगाद्यतयः शुद्धसत्वा इतिऽऽ “ओमित्यात्मानं युंजतेतिऽऽ तस्माच्छान्तो दान्त उपरत इति उपरतशब्देन सन्यासप्रतीतेस्तद्विशिष्टस्यैव पुरुषस्यात्मन्येवात्मानं पश्येदिति वाक्येन श्रवणाद्यधिकारसिद्धिरिति तैरेव सन्यस्य श्रवणं कुर्यादिति चेन्न तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यामिति मुण्डकवाक्येन सन्यासविरोधसमित्पाणित्वस्य दर्शनात् || बृहदारण्यके याज्ञवल्क्यस्य जनकं प्रति ब्रह्मविद्योपदेशानन्तरं पृ० ९) ब्रह्मविद्याधिकारसमर्थनम् | याज्ञवल्क्यः प्रवव्राजेति विद्वत्सन्यासदर्शनात् गृहस्थस्यापि जनकस्य ब्रह्मविद्याधिकारदर्शनात् || जनकादीनां ब्रह्मज्ञानिनामन्येषां गृहस्थानामपि ब्रह्मात्मैकज्ञानेन विद्वत्सन्यासस्य पुराणेषु प्रसिद्धत्वात् || वारुणिश्वेतकेतुनाचकेतुप्रभृतीनां ब्रह्मचारिणामेव विद्याधिकारस्य छान्दोग्यतैत्तिरीयादिश्रुतिप्रसिद्धत्वान्न सन्यासिनामेव ब्रह्मविद्याधिकारः किन्तु शांतिभक्त्यादिसंपन्नानामत्याश्रमिणामेवाधिकारः || ४४ || तथा च श्वेताश्वतरोपनिषदि || ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म (जायते जीव)कुतस्माज्जाता जीवाम इत्यादिप्रश्नषट्कानन्तरं षडध्यायेषु ब्रह्मविद्यामधिकृत्योपसंहारे ब्रह्मविच्छ्वेताश्वतरोऽथ विद्वानत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टं || वेदान्ते परमं गुह्यं पुरा कल्पे प्रचोदितं || नाप्रशान्ताय नापुत्रायाशिष्याय वै पुनः “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ || तस्मै ते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनःऽऽ पृ० १०) इति ब्रह्मविद्याधिकारिविशेषणात् || ४५ || कैवल्योपनिषदि उपक्रमे- अथाश्वलायनो भगवन्तं परमेष्ठिनं परसमेत्योवाच || अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढां यया चिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् तस्मै स होवाच || पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ङ कर्मणा न प्रजया धनेन त्यागेनेति श्रद्धाभक्तिध्यानयोगानामेव ब्रह्मविद्याधिकारहेतुत्वश्रवणात् || ४६ || तत्रैव “वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयःशुद्धसत्वाः || ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुंचन्ति सर्वेऽऽ || ४७ || इति सन्यासविधानानन्तरमपि || “अत्याश्रमस्थः सकलेन्द्रियाणि निरुद्ध्य भक्त्या स्वगुरुं प्रणम्येतिऽऽ || ४८ || अत्याश्रमी सर्वदासकृद्वा जपेदिति च ब्रह्मविद्याधिकारिविशेषणात् || तथैव मुण्डके च यतिप्रकरणस्थसन्यासविधानानन्तरं ब्रह्मविद्यामधिकृत्य उपसंहारावसरे || पृ० ११) तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति शिरोव्रतस्य नियताधिकारिविशेषणत्वप्रतीतेः || तत्रैव नैतदचीर्णव्रतोदित इत्यत्राव्रतिनामधिकारनिषेधात् || ४९ || अथर्वशिरसि च ब्रह्मविद्याप्रकरणे- अग्निरित्यादिना भस्म गृहीत्वा विमृज्यांगानि संस्पृशेत् तस्माद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति व्रतविधानात् || ५० || कालाग्निरुद्रोपनिषदि च - समन्त्रकत्रिपुण्ड्रविधाने || तिस्रो रेखाः प्रकुर्वीत व्रतमेतच्छांभवमिति ब्रह्मविद्याधिकारव्रतविधानात्सन्यासिनामप्यत्याश्रमाचार आवश्यकः || ५१ || तदुक्तं कूर्मे चतुर्दशाध्याये- अथास्मिन्नन्तरे पश्यन् समायान्तं महामुनिम् || श्वेताश्वतरनामानं महापाशुपतोत्तमम् || ५२ || भस्मसंदिग्धसर्वांगं कौपीनाच्छादनान्वितम् || तपसा कर्षितात्मानं शुद्धयज्ञोपवीतिनं || ५३ || सोऽनुगृह्य च राजानं सुशीलं शीलसंयुतम् || शिष्यत्वे परिजग्राह तपसा क्षीणकल्मषम् || ५४ || सन्यासित्वविधिं कृत्स्नं कारयित्वा विचक्षणः || तदा तथैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् || ५५ || पृ० १२) अशेषवेदसारं तत्पशुपाशविमोचनम् || अत्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् || ५६ || उवाच शिष्यान्संप्रेक्ष्य तदाश्रमनिवासिनः || ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान् || ५७ || मया प्रवर्तितां शाखामधीत्यैवेह योगिनः || समासते महादेवं ध्यायन्तो विश्वमीश्वरम् || आचचक्षे महामन्त्रानग्निरित्यादिकान् ऋषिः || ५८ || अथाग्निरित्यादयो मन्त्रा अथर्वशिरसि पठ्यन्ते तस्माद्व्रतमतेत्पाशुपतमित्यन्तमेतैः सप्तभिर्मन्त्रैर्भस्मधारणस्य पुराणाभिप्रेतत्वादत्याश्रमपाशुपतमहाव्रतयोः समानप्रयोगत्वावगमादेतत्फलावच्छिन्नैकप्रयोगसंबंधिनोर्ब्रह्मविद्याध् इकारिफलयोर्मुण्डककैवल्यवाक्याभ्यां प्रत्यभिज्ञानान्मुंडककैवल्याथर्वशिरःकालाग्निरुद्रश्वेताश्वतरोपनि. सद्विहितानां शिरोव्रतपाशुपतव्रतशांभवव्रतात्याश्रमव्रतानामेकत्वमवगम्यते || ५९ || तदुक्तम् || सूतसंहितायाम्- ज्ञानयोगखण्डे चतुर्दशाध्याये || ईश्वर उवाच || अथवाथर्वणैर्मन्त्रैर्गृहीत्वा भस्म पांडुरम् || पृ० १३) सर्वांगोद्धूलनं चैव व्रतं चोक्तं मनीषिभिः || ६० || एतद्वेदशिरोनिष्ठाः प्राहुः पाशुपतं मुने || केचिच्छिरोव्रतं प्राहुः केचिदत्याश्रमं तथा || ६१ || केचित्तद्व्रतमित्याहुः केचिच्छांभवमैश्वरम् || अस्य व्रतस्य माहात्म्यमागमान्तेषु संस्थितम् || सर्वपापहरं पुण्यं सर्वज्ञानप्रकाशकम् || ६२ || इति तस्य च ब्रह्मविद्याधिकारिविशेषणत्वादेतादृशव्रताभावे च नैतदचीर्णव्रतोऽधिकारी इति अध्ययनाधिकारस्यापि निषेधात् प्रागुक्तमुण्डकवाक्यस्य शिरोव्रताधिकारिप्रतिपादकस्य सूतसंहिताव्याख्यानकारेण पाशुपतव्रतपरत्वेन संमतिप्रदर्शनात् सिद्धं त्रिपुण्ड्रधारणोद्धूलनव्रतस्यैव ब्रह्मविद्याधिकारिविशेषणत्वेनावश्यकत्वम् || ६३ || तदुक्तम् || सूतसंहितायाम् || उक्तं वेदान्तविज्ञानं युष्माकं मुनिपुंगवाः || व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु || तेषामेवोपदेष्टव्यमिति वेदानुशासनम् || ६४ || इति || एतद्व्याख्यानकृन्माधवाचार्येण तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति मुण्डकोपनिषदुपसंहारवाक्यस्य पृ० १४) वेदानुशासनपदाभिप्रेतत्वेन प्रदर्शनादत्याश्रमशिरोव्रतपाशुपतशांभवव्रतानामेकार्थता निश्चीयते अन्यथा मुण्डकेऽधिकारिविशेषणत्वेन निर्दिष्टस्य शिरोव्रतस्य इतरप्रतिक्षेपकत्वप्रतीतेः कूर्मस्कन्दाद्युपबृंहितश्वेताश्वतरवाक्यविहितात्याश्रमस्येतरप्रतिक्षेप कत्वप्रतीतेः पाशुपतव्रतस्यापि निरपेक्षत्वप्रतीतेः एकेनापरबोधे विनिगमकाभावादष्ट दोषमष्टविकल्पापत्तेस्तत्परिहारायाधिकारैकादवश्यकर्तव्यत्वमेकत्वं च सिद्धम् || ६५ || तदुक्तम् || सूतसंहितायां || उद्धूलनं त्रिपुण्ड्रं च ज्ञानांगत्वेन सादरम् || आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थितम् || ६६ || व्रतं पाशुपतं येन सम्यगाचरितं बुधाः || तस्य ज्ञानं विजायेत तेन पाशविमोचनम् || ६७ || उद्धूलनं त्रिपुण्ड्रं च ज्ञानांगत्वेन केवलम् || आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्यशाखिनः || ६८ || उद्धूलनं त्रिपुण्ड्रं च ज्ञानांगत्वेन केवलम् || आमनन्ति मुनिश्रेष्ठाः श्वेताश्वतरशाखिनः || ६९ || अयमत्राश्रमो धर्मो यैः समाचरितो मुदा || तेषामेव शिवज्ञानं संसारोच्छेदकारणम् || ७० || पृ० १५) इति श्रुतिपुराणेषु व्रतविधानादत्याश्रमस्वरूपन्तु || स्कान्दे सनत्कुमारसंहितायां त्रयोदशाध्याये || पंचाक्षरी परा विद्या शिवज्योतिरवाप्तये || ओंकारः प्रणवः सूक्ष्मो विद्यानां बीजमुत्तमम् || ७१ || तस्मादशेषतत्वानि प्रणवेन विशोधयेत् || यदा तद्गुणसंख्यानमात्मानं भावयेच्छिवम् || ७२ || शिवभूतिशरीरेऽस्मिन् हंसेनात्मानमानयेत् || शिवाग्निभस्म मन्त्रेण समादाय विशोधयेत् || ७३ || शिवाग्निभस्मेति कामिकागमादिशैवागमप्रकारेण संस्कृतेऽग्नौ विरजाहोमादुद्भवमित्यर्थः || तत्रैव || शितेनोद्धूलयेद्देहमग्निरित्यादिसप्तभिःऽऽ “त्रियायुषं जमदग्नेरिति कुर्यात्त्रिपुण्ड्रकम् || शिरोललाटश्रुतिकंठबाहूरोनाभिदेशेषु षडंगुलानि || विचिन्तयेत्स्वात्मनि शंभुमीशं शिवं परं शान्तमुमासहायम् || भस्मांगमाविष्कृतसर्वदीप्तिमत्याश्रमाचारमिदं वदन्ति || अत्याश्रमोऽयं सर्वेषु चतुर्ष्वप्याश्रमेषु च || यः पशुः स पशुत्वं च व्रतेनानेन संत्यजेत् || पृ० १६) ब्रह्माण्डतो निर्गमनाभ्युपायं नास्त्येव शास्त्रेष्वखिलेषु भूप || व्रतेन वा पाशुपतेन मुक्तिर्मृतेन काश्यामपि वाप्यतेऽत्रऽऽ इत्यादिवचनप्रमाणात्स्वसंपादितविरजाहोमादुद्भवभस्मोद्धूलनादिपाशुप् अतव्रतनिष्ठस्य पूर्वोक्तोभयविधभक्तियुक्तस्य पुरुषस्य प्रणवयुक्तपंचाक्षरेण तत्वानां शोषणादिविशुद्धिपूर्वकं स्कन्दलैंग्यादिनानापुराणोपबृंहिताथर्वशिरोवाक्यविधानेन निरन्तरशिवलिंगपूजाध्यानप्रयुक्तत्वमत्याश्रमित्वं पुराणवचनाद्विशेषणानां सप्रयोजकत्वं ज्ञेयम् || ७४ || लैंग्ये || पाशुपतव्रतप्रकरणे द्विसप्ततितमाध्याये देवान् प्रति ब्रह्मवाक्यं || पशवश्च वयं तस्य देवदेवस्य धीमतः || पशुत्वं च परित्यज्य कृत्वा पाशुपतव्रतम् || पूजनीयो महादेवो लिंगमूर्तिस्सनातनः || ७५ || तत्रैव || देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा || कृत्वा कनीयसं लिंगं स्नाप्य चंदनवारिणा || चैत्रमासादिविप्रेन्द्राः शिवलिंगव्रतं चरेत् || ७६ || इति || लिंगं कृत्वा यथा न्यायं सर्वलक्षणसंयुतम् || अंगुष्ठमात्रं सुशुभं सुवृत्तं सर्वसम्मतम् || ७७ || पृ० १७) एतल्लिंगलक्षणन्तु || शैवागमे- लिंगवृत्तसमं पीठं तावन्मध्यं तदुन्नतम् || तदर्धं गोमुखाकारं पंचसूत्रं प्रकीर्तितम् || ७८ || इति || लैंग्ये नवमाध्याये- पंचक्लेशमयैः पाशैः पशून्बध्नाति शंकरः || स एव मोचकस्तेषां भक्त्या सम्यगुपासितः || ७९ || द्वाविंशाध्याये- एककालं द्विकालं वा त्रिकालं नित्यमेव वा || येऽचर्यन्ति विरूपाक्षं ते रुद्रा नात्र संशयः || ८० || नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् || नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् || एवं संक्षेपतः प्रोक्तमधिकारविधिक्रमम् || ८१ || इति || तथा प्रकृतेऽपि ब्रह्मविद्याधिकारमधिकृत्यात्याश्रमिभ्यः प्रोवाचेति श्वेताश्वतरवाक्यादत्याश्रमस्थः सकलेन्द्रियाणि त्यक्त्वाश्रमी सर्वदेति च कैवल्यवाक्याद्व्रतमेतत्पाशुपतमित्यथर्वशिरोवाक्याद्व्रतमेतच्छांभवमि ति तत्समाचरेन्मुमुक्षुर्न पुनर्भवायेति कालाग्निरुद्रोपनिषद्वाक्यादत्याश्रमस्थः सकलेन्द्रियाणीत्यत्याश्रमी सर्वदेति च कैवल्यवाक्याद्व्रतमेतत्पाशुपतमित्यथर्वशिरोवाक्याद्व्रतमेतच्छांभवमि ति तत्समाचरेन्मुमुक्षुर्न पुनर्भवायेति पृ० १८) कालाग्निरुद्रोपनिषद्वाक्यात्तेषामेवैतां ब्रह्मविद्यां वदेतेति मुंडके वक्तृनियमात् तत्रैव नैतदचीर्णव्रतोधिक इति अध्येतृनियमात्तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मन इति श्वेताश्वतरेऽपि श्रोतुः फलसिद्धिरूपनियमदर्शनादस्वार्थस्य सनत्कुमारसंहितासूतसंहिताकूर्मपुराणाद्युपबृंहितत्वात् सिद्धं समाधिसंपन्नानां शिवभक्तिश्रद्धाविशिष्टानां त्रिपुण्ड्- रुद्राक्षधारिणामत्याश्रमिणामेव ब्रह्मविद्याधिकारो नान्येषामिति || ८२ || तदुक्तं सूतसंहितायाम्- ब्रह्मगीतायाम्-एकादशाध्याये- आत्मविद्या तपो मूलं तद्ब्रह्मोपनिषत्परम् || यज्ञदानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति || ८३ || योगात्संजायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा || अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् || ८४ || नाप्रशान्ताय दातव्यं नापुत्राय कदाचन || अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा || ८५ || त्रिपुण्ड्-धारणं चापि एतदत्याश्रमं बुधाः || यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ || ८६ || अथर्ववेदे || रुद्राक्षजाबाले || अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ || पृ० १९) सर्वोपनिषत्सूक्तं रुद्राक्षधारणफलं ब्रूहीति || अथ कालाग्निरुद्रः प्रोवाच || सर्वोपनिषत्सारं ब्रवीम्यवधारयेति || ८७ || विविक्तदेशे च सुखासनस्थः शुचिस्समग्रीवशिरश्शरीरः || अत्याश्रमस्थः सकलेन्द्रियाणि निरुद्ध्य भक्त्या स्वगुरुं प्रणम्य || ८८ || हृत्पुंडरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् || तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् || उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || ८९ || एवं ध्यात्वा रुद्राक्षं धरेदिति || एतदत्याश्रमाचारः सर्वाश्रमासाधारणः तदपेक्षया उत्तमश्चेति वक्तव्यम् || याज्ञवल्क्यजनकदूर्वासजडभरतदत्तात्रेयरैवतकभुषुंडप्रभृतीन अं ब्रह्मवादिनामत्याश्रमाचाररूपभस्मरुद्राक्षधारणं श्रुतिषु कुत्र निरूप्यत इति चेदुच्यते || ९० || भस्मजाबाले- जनको ह वैदेहः स होवाच || याज्ञवल्क्यं भगवानिति स होवाच || भस्मधारणादेव फलमश्नुतेति वा इति तत्र परमहंसा असंवर्तकारुणि पृ० २०) श्वेतकेतुदूर्वासोरुरुनिदाघजडभरतदत्तात्रेयरैवतकभुषुंडप्रभृत योऽपि विभूतिधारणादेवैष स एष भस्मज्योतिः स एष भस्मज्योतिरिति वै याज्ञवल्क्यः भस्मस्नानेन किं जायत इति यस्य कस्य चिच्छरीरे यावंतो रोमकूपास्तावंतो लिंगानि भूत्वा तिष्ठन्त इति || ९१ || तत्रैव भस्मधारणादेव मुक्तिर्भवति || भस्मधारणादेव शिवसायुज्यमेति || न स पुनरावर्तते न स पुनरावर्तत इति || ९२ || तत्र ब्रह्मवादिनं प्रति कालाग्निरुद्रवाक्यम् || विभूतिधारणद्ब्रह्मैकत्वं गच्छति स एष भस्मज्योतिः स एष भस्मज्योतिरिति भस्मध्यानादीश्वरं ध्यातो भवति || भस्मध्यानात्पंचाक्षरीस्मरणो भवति || भस्मस्नानात्स्थाणुत्वं गच्छतीति || यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्तो वाराणस्यां लिंगानि भूत्वा ज्योतिर्मयत्वं गच्छति || स एष भस्मज्योतिः स एष भस्मज्योतिरिति || ९३ || आदित्यपुराणे मानवपुराणे च- भस्मज्योतिः स इत्येषः शिवाख्यं न हि संशयः || जाबालोपनिषत्सर्वं प्राहेदं परया मुद इति || ९४ || इत्यादिवचनप्रमाणादेतादृशात्याश्रमाख्य- पृ० २१) पाशुपतव्रताभावे सन्यासिनामपि ब्रह्मविद्याधिकारो नास्तीति वक्तव्यम् || ९५ || किंच बृहज्जाबाले-पंचमब्राह्मणे- त्रैवर्णिकानामग्निहोत्रजं गृहस्थानां विरजानलजं विवाहाग्निजमौपासनाग्निजं ब्रह्मचारिणां समिदग्निजं शूद्राणां श्रोत्रियागारपचनाग्निजं अन्येषां दावानलसमुद्भवं यतीनां सर्वत्र स्थितं अतिवर्णाश्रमिणां श्मशानगतं सर्वेषां देवालयस्थितमिति शिवयोगिनां शिवाग्निहोत्रजा विभूतिः शिवालयमतल्लिकामन्त्रसंस्कारदग्धा वा || ९६ || तत्रैव || त्यक्तवर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि यः || सकृत्तिर्यक्त्रिपुण्ड्रांक धारणात्सोऽपि पूज्यते || ९७ || इति || अत्र शिवयोगिनामिति सर्वेषां पृथग्भस्मधारणविधानात् परिशेषप्रमाणेन शिवयोगिनां शिवाग्निहोत्रजा विभूतिरिति वाक्यं वीरमाहेश्वरविषयं सर्वेषां देवालयस्थितमिति इति करणेन पूर्ववैलक्षण्यात् तेषामेव वीरमाहेश्वराणां सन्यासाद्यपेक्षया सर्वोत्तमत्वेनाधिक्यश्रवणात् || ९८ || पृ० २२) तदुक्तं प्रागेव || पाद्मे शिवगीतायाम- श्रौताग्नेस्स्मार्तवह्नेर्वा शैवाग्नेर्वा समाहुतम् || भस्माभिमंत्र्य यो मान्तु प्रणवेन प्रपूजयेत् || तस्मात्परतरो भक्तो मम लोके न विद्यते || ९९ || अत एव श्रौतपाशुपतादीनां सांख्यपातंजलवेदान्तवादिनां च विरजानलभस्मविधाने पंचविंशतिगोमयपिंडदहनं नारायणाद्युपनिषत्सु प्राणापानादिद्वादशमन्त्रैः करणीयम् || १०० || सिद्धान्तशास्त्रे कामिकादिशैवागमे- दीक्षितानां परमशैवानां पृथिव्यादिशिवान्तषट्त्रिंशत्तत्वगणनया च षट्त्रिंशद्गोमयपिंडदहनं बोधायने च प्रागुक्तप्राणापानादिद्वादशमन्त्रैः सह त्रैगुण्यप्रकृतिरागकलाविधानियतिकालमायाशुद्धविद्यामहेश्वरसदाशिव् अशक्तिशिवा मे परशिवेच्छया शुद्ध्यतां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ओं नमः शिवायै स्वाहा ओं नमः शिवाय स्वाहा ओं स्वाहेति मन्त्रैः कर्तव्यं || १०१ || अस्मिन्नर्थे शैवरत्नाकरे शिवरहस्ये च- हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमं || श्रौतपाशुपतादीनां सांख्यवेदान्तवादिनां || १०२ || पंचविंशतितत्वौघशुद्धीप्सूनामयं मतः || पृ० २३) दीक्षितानां च शैवानां षट्त्रिंशत्तत्ववेदिनां || अप्येवमेव किन्त्वत्र मन्त्र एको विशिष्यते || १०३ || इति ज्योतिर्नाथाचार्यैरुक्तं भवति || शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायां- विचारयेत्सदा ज्ञानसाधनान्यखिलान्यपि || पुराणागमवेदेषु प्राणलिंगसमन्वितः || १०४ || भक्तिश्रद्धातितिक्षाभिरतिर्दान्तिश्शमो दया || रुद्राक्षधारणं भस्मज्ञानांगानि प्रचक्षते || तेषां मुख्यतमं भस्म रुद्राक्षाणां च धारणम् || १०५ || ईश्वरगीतायामेकादशाध्याये- चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमं || आत्मानमथ कर्तारं तत्रानलसमप्रभं || १०६ || मध्ये वह्निशिखाकारं पुरुषं पंचविंशकं || ओंकारबोधितं तत्वं शाश्वतं शिवमच्युतं || १०७ || अव्यक्तं प्रकृतौ लीनं परंज्योतिरनुत्तमं || तदन्तः परमं तत्वमनाधारं निरंजनं || ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरं || १०८ || विशोध्य (सर्वतत्वानि)परतत्वानि प्रणवेनाथवा पुनः || संस्थाप्य मयि चात्मानं निर्मले परमे पदे || १०९ || फ्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा || पृ० २४) मदात्मा मन्मयो भस्म गृहीत्वा ह्यग्निहोत्रजं || ११० || तेनोद्धूल्य तु सर्वांगमग्निरित्यादिमन्त्रतः || चिन्तयेत्स्वात्मनीशानं परंज्योतिस्वरूपिणम् || १११ || एष पाशुपतो योगः पशुपाशविमुक्तये || सर्ववेदान्तसारोऽयमत्याश्रम इति श्रुतिः || ११२ || एतत्परतरं गुह्यं मत्सायुज्योपपादकं || द्विजातीनान्तु कथितं भक्तानां ब्रह्मवादिनां || ११३ || ब्रह्मचर्यमहिंसा च क्षमा शान्तिस्तपो दया || सन्तोषस्सत्यमास्तिक्यं व्रतांगानि विशेषतः || ११४ || एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते || तस्मादात्मगुणोपेतं तद्व्रतं वोढुमर्हति || ११५ || इत्यादिवचनप्रमाणाद्भस्मरुद्राक्षधारणशिवलिंगार्चनभक्तिश्रद्धादि इनामभावेऽत्याश्रमव्रताभावः तदभावे च कृतमपि वेदान्तश्रवणादिकं शूद्रकृतयागवन्निष्फलमिति प्रघट्टकार्थः || ११६ || अत एवोक्तं शिवगीतायां- श्रीराम उवाच || वेदशास्त्रार्थसंपन्ना यज्वानस्सत्यवादिनः || श्रुण्वन्तोऽपि यथा ज्ञानं ज्ञानं तेनैवकेचन || ज्ञात्वाऽपि मन्वते मिथ्यां किमेतत्तव मायया || ११७ || श्रीशिव उवाच || एवमेव महाबाहो नात्र कार्या विचारणा || दैवी ह्येषा गुणमयी मम माया दुरत्यया || ११८ || पृ० २५) मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || नानायोनिषु जातस्य देहिनो यस्य कस्यचित् || ११९ || कोटिजन्मायुतैः पुण्यैर्मयि भक्तिः प्रजायते || स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः || १२० || नान्यत्कर्माणि कुर्वाणो जन्मकोटिशतैरपि || ततस्सर्वं परित्यज्य मद्भक्तिं समुपाहर || १२१ || सर्वान्धर्मान्परित्यज्य मामेकं शरणं व्रज || अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि राघव || १२२ || शिवरहस्ये- शैवपाशुपतादीनामेकदण्डित्रिदण्डिनाम् || लिंगार्चनविहीनेन कुतो मोक्षः कुतो दिवः || १२३ || एतादृशात्याश्रम्यैव मुमुक्षुरिति वक्तव्यम् || एतादृशमुमुक्षुत्वं केन कारणेनानुप्राप्तमिति चेदुच्यते || श्रद्धाभक्तिध्यानयोगादवैहीति भक्तिस्तु प्रसादद्वारा साक्षात्कारहेतुः || १२४ || तथा च श्रुतिः यजुरारण्यकतैत्तिरीयनारायणमहोपनिषच्छ्वेताश्वतरेषु च “अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमितिऽऽ || पृ० २६) अत धातुरिति परमेश्वरस्येत्यर्थः || १२५ || कामिकागमे- अनेकजन्मशुद्धानां श्रोतस्मार्तानुवर्तिनाम् || प्रबुद्धानां विरक्तानां प्रसीदति महेश्वरः || १२६ || प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः || यथैवांकुरतो बीजं बीजतो वा यथांकुरम् || १२७ || इति सूतसंहितायाम्- अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम् || प्रसादादेव रुद्रस्य भक्तिर्भवति कैंकरी || १२८ || प्रसादादेव सा भक्तिरित्यादि सिद्धम् || १२९ || शिवमाहात्म्यखंडे सप्तमाध्याये- ज्ञानमेव महाविष्णो मोक्षसाधनमुच्यते || ज्ञानं वेदशिरोद्भूतमिति मे निश्चिता मतिः || १३० || अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् || जायते तच्छिवज्ञानं प्रसादादेव केवलम् || १३१ || यज्ञवैभवखंडे- प्रसादादेव रुद्रस्य ज्ञानं वेदान्तवाक्यजम् || प्रतिबंधविनिर्मुक्तं भवेत्तद्धि विमुक्तिदम् || १३२ || शिवशंकररुद्राख्यस्सांबस्सत्यादिलक्षणः || ज्ञानप्रसादं कुरुते न विष्णुर्न प्रजापतिः || १३३ || अतो ज्ञानप्रसादार्थं शिवस्सांबस्सनातनः || पृ० २७) उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः || १३४ || इति || ब्रह्मगीतायाम्- परमाद्वैतविज्ञाननिष्ठा काष्ठा सुदुर्लभा || शिवादन्यतया भ्रान्त्या भ्रान्त्या वा वेद चेत्पशुः || १३५ || शिवादिनामहीनस्य ध्यानहीनस्य शूलिनः || शिवभक्तिविहीनस्य त्रिपुण्ड्रोद्धूलनादिषु || १३६ || श्रद्धाहीनस्य रुद्रस्य प्रसादाच्छुद्धवेदनम् || साक्षान्मुक्तिश्च हे देवा नैव सिद्ध्यन्ति देहिनः || १३७ || तत्रैव || परमाद्वैतविज्ञानं प्रसादादेव शूलिनः || प्रसादे सति कीटो वा पतंगो वा नरोऽथवा || देवो वा दानवो वापि लभते ज्ञानमुत्तमम् || १३८ || अत एव लैंग्ये सनत्कुमारस्यापि शिवभक्तिश्रद्धाभावेनोष्ट्रत्वप्राप्तिरुच्यते || १३९ || तत्र उपरिभागे स्वायंभुवमनुं प्रति सनत्कुमारवाक्यं || पुरात्मनो हि चोष्ट्रत्वमभवन्नंदिनः प्रभोः || शापात्पुनः प्रसादाद्वै शिवमभ्यर्च्य शंकरम् || १४० || प्रसादान्नंदिनस्तस्य कर्मणैव युगान्तरे || कृतोत्तमां गतिं दिव्यामवस्थां प्राप्तवानहम् || शिवार्चनप्रकारेण शिवधर्मेण नान्यथेति || १४१ || पृ० २८) अत एवोक्तं वासिष्ठे- कुतो मायेयमिति ते राम मास्तु विचारणा || कथमेनां जहामीति राम तेऽस्तु विचारणेति || १४२ || अज्ञस्याल्पप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् || महानरकजालेषु स तेन विनियोजितः || १४३ || अविज्ञायात्मसद्भावं स्ववर्णाश्रममाश्रितम् || जहाति यस्स मूढात्मा पतत्येव न संशयः || १४४ || चिद्रूपात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिमरीचिकाम् || लब्ध्वा शिवपदच्छायां जपेत्पंचाक्षरं सुधीः || १४५ || शिवेनैक्यं गतस्सिद्धस्तदधीनस्स्ववृत्तिकः || मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् || १४६ || दृशो दर्शयिता आत्मा तस्य दर्शयिता शिवः || तस्मात्तस्मिन्परां भक्तिं कुर्यादात्मोपकारिकामिति || १४७ || ग्रन्थान्तरे- स पश्यति शरीरं तच्छरीरं तन्न पश्यति || तौ पश्यति परःकश्चित्तावुभौ तं न पश्यत इति || १४८ || अत एव श्वेताश्वतरे || ज्ञात्वा शिवं शान्तिमत्यन्तमेति ईशं ज्ञात्वा विमुक्तिमेतीति शिवज्ञानादेव मुक्तिरित्युक्तम् || १४९ || पृ० २९) सूतसंहितायां ब्रह्मगीतायाम्- प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् || कर्ता कारयिता कर्म कारणं कार्यमास्तिकाः || सर्वमात्मतया भाति प्रसादात्पारमेश्वरादिति || १५० || प्रसादो नाम रुद्रस्य कर्मसाम्येऽपि देहिनाम् || देशिकालोकनाज्जातो विशिष्टोऽतिशयात्सुरा इति || १५१ || अनेकजन्मसंशुद्धः श्रौतस्मार्तपरायणः || क्रमेणैव महादेवं मोचकं परमेश्वरम् || प्राप्नुयादप्रमादेन मुमुक्षुरिति हि श्रुतिः || १५२ || इत्यादिवचनप्रमाणाच्छिवैकनिष्ठो मुमुक्षुर्वीरशैव एव मुख्याधिकारीति वक्तव्यम् || १५३ || तथा शिवगीतायाम् || राम उवाच || भगवन्मोक्षमार्गोऽयं त्वया सम्यगुदाहृतः || तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् || १५४ || ईश्वर उवाच || ब्रह्मक्षत्रविशश्शूद्रास्स्त्रियश्चात्राधिकारिणः || पृ० ३०) ब्रह्मचारी गृहस्थो वा (उपनीतो)उपवीतो यथा द्विजः || १५५ || वनस्थो वा वनस्थो वा यतिः पाशुपतव्रती || बहुनात्र किमुक्तेन यस्य भक्तिश्शिवार्चने || स एवात्राधिकारी स्यान्नान्यचित्तः कथंचनेति || १५६ || ननु वीरशैवानां सांकर्यचर्याच्छूद्राणां वेदमन्त्रेष्वधिकाराभावाद्वीरशैवानां मुख्याधिकारित्वं कथमुपपद्यत इति चेदुच्यते || १५७ || म्लेच्छाद्यं मद्यमांसं श्रुतिवचनबलात्कर्मकाण्डे प्रशस्तं यद्गायत्रीशिखासूत्रजहनमपि तच्छूद्राधमत्वं यतित्वम् || ज्ञाने काण्डे प्रशस्तं श्रुतिवचनबलाद्भक्तिकाण्डे प्रशस्तं शैवैस्सांकर्यचर्यं कथमधमजनैर्दूष्यते वेदबाह्यैरिति || १५८ || सामवेदोपनिषदि-निर्माल्यमेव भक्षयति || चण्डालो नैव चण्डालः पुल्कसो नैव पुल्कसः || अपि वा यश्चण्डालश्शिवेति वाचं वदेत्तेन सह संवसेत्तेन सह संचरेत्तेन सह भुंजीत तेन सह भुंजीतेति || अस्याः श्रुतेर्नीलकण्ठभाष्य- पृ० ३१) सोमनाथभाष्यादिषु घण्टाघोषः || १५९ || अस्योपबृंहणस्तु || पद्मपुराणे शिवराघवसंवादे- शिवेति मंगलं नाम यस्य वाचि प्रवर्तते || सप्तजन्मकृतं पापं भस्मीभवति तस्य वै || १६० || वदेत्तेन वसेत्तेन विशेत्तेन पुनः पुनः || भुंजीत सह भुंजीतेत्याह सामश्रुतिः खलु || १६१ || शिवरहस्ये || श्वपचोऽपि मुनिश्रेष्ठः शिवभक्त्या द्विजाधिकः || शिवभक्तिविहीनस्तु ब्राह्मणः श्वपचाधमः || १६२ || शिवसंस्कारहीनस्तु द्विजोऽपि श्वपचाधमः || शिवेति वाचं यो नित्यं चंडालोऽपि वदेन्मुदा || सह तेन वदेद्वाचं सह तेन वसेत्सदेति || १६३ || तत्रैव || कांचनं रजतं ताम्रं लोहं चेति चतुष्टयम् || यद्वदेति सुवर्णत्वं रसवेधप्रभावतः || १६४ || तद्वच्छूद्रादिपात्रत्वं शिवमन्त्रात्मकेन तु || विद्वद्रसेन महता परब्रह्मत्वमेत्यलम् || १६५ || शिवसंस्कारसंपन्नो ह्ययं शूद्रो ह्ययं द्विजः || लिंगभेदः कृतो येन रौरवं नरकं व्रजेदिति || १६६ || गारुडपुराणे उपरिभागे पृ० ३२) शिवरहस्ये- वंशावलिप्रयातानां लिंगधारणशालिनाम् || ज्ञानिनां शिवभक्तानां शूद्रत्वं नैव विद्यते || १६७ || नमके चमके पंचब्रह्ममन्त्रादिवैदिके || तेषामेवाधिकारोऽस्ति शिवदीक्षाप्रभावतः || १६८ || इत्यादिवचनप्रमाणेन वचनात्प्रवृत्तिर्वचनान्निवृत्तिरिति वक्तव्यम् || १६९ || किंच || भृगुसंहितायाम् || सदा सन्निहितश्चैव चण्डालो नैव सर्वदा || गतं शूद्रस्य शूद्रत्वमन्यथा ब्राह्मणस्य तु || १७० || आदित्यपुराणे मानवीयसंहितायां त्रिषष्ठितमाध्याये- ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजातिजः || शिवभक्तः सदा पूज्यस्स सर्वब्राह्मणोत्तमः || १७१ || लिंगसारे- स्त्री वाथ पुरुषः षंडश्चण्डालो द्विजवंशजः || न जातिभेदो लिंगार्चे सर्वे रुद्रगणाः स्मृताः || १७२ || नगरीनिर्झराद्यंबु गंगां प्राप्यैकतां यथा || दीक्षायोगप्रभावेन शूद्रादिः शिवतां व्रजेत् || १७३ || गतं शूद्रस्य शूद्रत्वं द्विजत्वं ब्राह्मणस्य तु || शिवसंस्कारसंपन्ने जातिभेदो न विद्यते || १७४ || पृ० ३३) सूक्ष्मागमे- शिवसंस्कारसंपन्नो ह्ययं शूद्रो ह्ययं द्विजः || लिंगभेदः कृतो येन रौरवं नरकं व्रजेत् || १७५ || आदित्यपुराणे- कर्मणा मनसा वाचा यस्तु भक्तान्विनिन्दति || निरयान्निष्कृतिर्नास्ति तस्य मूढात्मनो मुने || १७६ || इत्यादिपुराणागमेषु प्रसिद्धम् || १७७ || लैंग्ये- वसुरुद्रार्कमध्ये तु मध्यपिंडस्तु पुत्रदः || वेदोक्तं शिवनिर्माल्यं किं पुनर्बहुभाषणमिति || १७८ || शैवपुराणे- रुद्रपिंडसमुद्भूतं जगदेतच्चराचरम् || मोहेनैव न जानाति तातं वेश्यासुतो यथेति || १७९ || जाबालशाखायाम्- रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति तस्माद्ब्राह्मणाः प्रशान्तमनसो विद्वांसो निर्माल्यमेव भक्षयन्ति निर्माल्यमेवाश्नीयान्निर्माल्यमेव निषेवेतेति विधिवाक्यदर्शनात् || १८० || शैवसंहितायाम्- व्यास उवाच || जिह्वाचापल्यसंयुक्तश्शिवसंस्कारवर्जितः || शिवप्रसादभोगी चेद्रौरवं नरकं व्रजेत् || १८१ || सर्वथा पृ० ३४) शिवदीक्षाशुद्धिरहितानां शुद्धवस्तुभोगो दोषाय भवति || १८२ || तदुक्तम् || कामिकागमे- अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं परम् || भक्षयन्नाशमायाति शूद्रो ह्यध्ययनादिव || १८३ || इत्यादिवचनप्रमाणाददीक्षितानां शिवभक्तिरहितानां मुनिनवकशापदग्धदुर्विप्राणां शिवप्रसादभोगस्यानर्हत्वात् शिवप्रसादभोगी शिवभक्त एव ब्राह्मण इत्युक्तं भवति || १८४ || ग्रन्थान्तरे - रुद्रपिंडोद्भवो विप्रः शिवं सर्वेश्वरं गुरुम् || मोहेनैव न जानाति तातं वेश्यासुतो यथा || १८५ || रुद्रपिंड इति शिप्रसाद एवेति वक्तव्यम् || १८६ || तथा स्कान्दे- ये रुद्रपिंडसंजाता ये वेदक्रमपाठकाः || ये विदुर्ब्रह्मवाच्यं श्रीरुद्रं ते ब्राह्मणाः स्मृता इति || १८७ || इत्यादिवचनप्रमाणाच्छिवप्रसादपिंडसंजाताः शिवज्ञानिनो वीरमाहेश्वरा एव ब्राह्मणा इति निश्चीयन्ते || अत एव रुद्रांशभूतस्य विश्वामित्रस्य क्षत्रियोत्पन्नस्यापि तपसा ब्राह्मणत्वं विष्ण्वंशभूतस्य परशुरामस्य ब्राह्मणोत्पन्नस्यापि पृ० ३५) व्यापारे क्षत्रियकार्यकरणत्वं शैववैष्णवचरुव्यत्यासहेतुकम् || १८८ || हरिवंशे श्रूयते || तत्र भृगोश्चरुविपर्यासे शैववैष्णवयोः पुरा || जगत्यां वैष्णवेंऽशे वै जामदग्न्योऽप्यजायत || १८९ || विश्वामित्रस्तु शैवेंऽशे गाधिः कुशिकनन्दनः || जनयामास पुत्रन्तु तपोविद्याशमात्मकम् || प्राप्य ब्रह्मर्षिशमतां योऽयं ब्रह्मर्षितां गत इति || १९० || एतद्वृत्तान्तं ब्राह्मणवैष्णवचरुव्यत्यासहेतुकमिति भागवते वैष्णवपुराणत्वात्किंचिन्निगूढमुक्तम् || एवं ब्राह्मणानामुत्पत्तिर्ब्राह्मणादेव प्रतिपादिता भवति || अन्यस्माद्ब्राह्मणोत्पत्तेरयोगात् || १९१ || ब्राह्मणत्वं च रुद्रस्य सामशाखायां प्रपदमन्त्रे श्रूयते || त्वन्देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणः ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावामीति || १९२ || अस्मिन्नर्थे पृ० ३६) पराशरपुराणे- ततो विप्रस्य संबंधः शिवस्यैव हि युज्यते || संकरास्सर्वदेवाश्च वृषलस्तु पुरन्दरः || १९३ || पितामहश्च वैश्यः स्यात्क्षत्रियः परमो हरिः || ब्राह्मणो भगवान् रुद्रस्सर्वेषामुत्तमोत्तमः || १९४ || ब्रह्मभावो हि रुद्रस्य ब्राह्मण्यं नैव हेतुजम् || ब्राह्मणो वै सदा लोके ब्राह्मणं चोपधावति || महाब्राह्मणमीशानमुपधावेन्न चेतरम् || १९५ || इत्येवं नानापुराणेषु प्रसिद्धमत एव यजुर्वेदे ऋग्वेदे च- यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवतीति न्यायेन ब्राह्मणस्य ब्राह्मणभजनमेव युक्तमन्यथा पापीयान् भवतीत्यर्थः इत्येवं रुद्रस्य ब्राह्मणत्वाद्ब्राह्मणोत्पत्तिहेतुत्वाद्ब्राह्मणोपास्यत्वाच्च || रुद्रभक्तविद्वेषिणां ब्राह्मणेभ्यो बहिर्भाव एव युक्तम् || १९६ || तदुक्तम् || यत्पुत्रः पितरं द्वेष्टि तं विंद्यादन्यरेतसम् || यो विप्रान् सततं द्वेष्टि तं विंद्यादन्यरेतसमिति || १९७ || महाभारते- जन्मना जायते शूद्रः कर्मणा द्विज उच्यते || वेदशास्त्रार्थविद्विप्रो ब्रह्म जानाति ब्राह्मण इति || १९८ || पृ० ३७) वीरागमे-चतुर्वेदधरो विप्रश्शिवभक्तिविवर्जितः || शिवभक्तिसमायुक्तशूद्रस्य सदृशो न हि || १९९ || शिवभक्तोऽपि विप्रोऽपि वेदाध्यायपरायणः || स एव शिव इत्युक्तस्सत्यमेव न संशयः || २०० || विशेषः शिवभक्तानां विप्राणां वेदपाठनम् || शिवभक्तिविहीनानां शुनवर्माररोदनम् || २०१ || शिवभक्तिविहीनानां विप्राणां वेदपाठनम् || गार्दभानां गानसमं सृष्टिः संहारकं भवेत || २०२ || शिवभक्तिविहीनानां द्विजानां वेदपाठनम् || भिन्नकुंभे यथा तोयं वृथायं सकलं भवेत् || २०३ || दुष्कुलोऽपि दुराचारी पातकी ह्युपपातकी || जपेत्पंचाक्षरीमन्त्रं शुद्धोऽभूद्वेदपाठनम् || २०४ || अदीक्षितानां विप्राणां शिवागमविलोकनम् || पापमेतन्महादेवि सत्यमेतन्न संशयः || २०५ || ब्रह्मणश्च मुखांभोजान्निःसृता निगमा अपि || अस्मन्मुखसमुद्भूताः शिवज्ञानमयागमाः || २०६ || पृ० ३८) सृष्टिकर्ता चतुर्वक्त्रस्सर्वकर्ताऽस्म्यहं शिवे || तस्माददीक्षितानां च द्विजानान्तु शिवागमम् || २०७ || पठनं पापहेतुः स्याद्दीक्षितानां महत्फलम् || गुरोरनुज्ञां संप्राप्य पठेद्दिव्यागमं शिवे || २०८ || गारुडपुराणे उपरिभागे- वंशावलिप्रयातानां लिंगधारणशालिनाम् || ज्ञानिनां शिवभक्तानां शूद्रत्वं नैव विद्यते || २०९ || नमके चमके पंचब्रह्ममन्त्रे च वैदिके || तेषामेवाधिकारोऽस्ति शिवदीक्षाप्रभावतः || २१० || इत्यादिवचनप्रमाणाच्छिवदीक्षाभिजाताः शिवभक्ता एव ब्राह्मणास्त एव समन्त्रकभस्मरुद्राक्षधारणनमकचमकादिवैदिकमन्त्रक्रियाविधानेष्वध् इकारिण इति वक्तव्यं के पुनर्वैदिकविधाने वेदोच्चारणे चानधिकारिण इति चेदुच्यते || २११ || आदित्यपुराणे- मानवीयसंहितायां सप्तमाध्याये-दधीचिमुनिवाक्यं || एते च ब्राह्मणास्सर्वे यद्द्विषन्तो महेश्वरम् || भवन्तु वेदबाह्यास्ते पापोपहतचेतसः || पाषंडाचारनिरताः सर्वे निरयगामिन इति || २१२ || पृ० ३९) सांबपुराणे दक्षाध्वरसंहारे - दधीचिवाक्यम् || त्रिपुण्ड्रधारणे भस्मलुण्ठने वेदमन्त्रिते || भवेत विमुखा यूयं युष्माकं वंशजास्तथा || २१३ || वेदबाह्येषु तन्त्रेषु पांचरात्रादिषु द्विजाः || भवेत दीक्षिता यूयं सर्वथा ब्राह्मणाधमाः || २१४ || अंगेषु चांकिता यूयं शंखचक्रगदादिभिः || भवेत श्रद्धया यूयं वेदबाह्या द्विजाधमाः || २१५ || एवं स्कान्दलैंग्यशैवकोर्म्यपाद्म्यादित्यपराशरादिपुराणेषु विप्राणां शापकरा भृगुदधीचिगौतमवीरभद्रनन्दीश्वरदूर्वासब्रह्मकण्वोपमन्युमुनयो नव पठ्यन्ते || २१६ || दधीचो गौतमः कण्व उपमन्युर्भृगुर्विधिः || दूर्वासो वीरभद्रश्च नन्दी शापकराः कलाविति || २१७ || एवं मुनिनवकशापदग्धाः शिवदूषका वैष्णवब्राह्मणाधमा ये केचन सन्ति त एव वेदबाह्या इति निश्चीयन्ते || तत्पूर्वप्रकरणेषु बहुधा प्रोक्तं तदत्राप्यनुसंधेयं किंच लिंगधारिणां वीरमाहेश्वराणां केषु वैदिकेष्वधिकारो वर्तत पृ० ४०) इति चेदुच्यते || २१८ || शैवे वायवीयसंहितायां || उपरिभागे - कृष्णोपमन्युसंवादे भक्त्याचारनिरूपणाध्याये || देवीं प्रति शिववाक्यं || तथा च वीरशैवशास्त्रे सिद्धांतशिखामणौ भक्तिस्थले अगस्त्यं प्रति रेणुकवाक्यं || शिवार्चा कर्म विज्ञेयं बाह्यं यागादि नोच्यते || शिवार्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् || २१९ || जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव वा || रुदाध्यायादिकाभ्यासो न वेदाध्यनादिकं || २२० || ध्यानं शिवस्य रूपादि चिन्ता नात्मादिचिन्तनं || शिवागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनं || २२१ || इति पंचप्रकारोऽयं शिवयज्ञः प्रकीर्तितः || अनेन पंचयज्ञेन यः पूजयति शंकरम् || भक्त्या परमया युक्तस्स वै भक्त इतीरितः || २२२ || वीरागमे- क्षीयन्ते च वरारोहे तपोयज्ञजपादयः || न क्षीयन्ते वरारोहे वीरवक्त्रहुतं हविः || २२३ || इति वीरशैवानामयमेव यज्ञः इत्यादिवचनप्रमाणाद्वीरशैवानामग्निरित्यादिभस्मरुद्राक्षधारणशिवल् इंगपूजाविधानेषु वैदिकमन्त्रेषु पंचाक्षरप्रणवशतरुद्रीयेषु रुद्राध्यायादिकाभ्यास इत्यादिशब्देन ब्रह्मप्रतिपादकेषूपनिषत्सु- पृ० ४१) चाधिकारो वर्तते ब्राह्मणजातिसंभूतस्यापि वीरशैवस्य कर्मकाण्डश्रुतिः वर्जनीयेति वक्तव्यम् || २२४ || वायवीयसंहितायां कृष्णोपमन्युसंवादे- किमत्र बहुनोक्तेन भक्तास्सर्वेऽधिकारिणः || मम पंचाक्षरे मन्त्रे तस्माच्छ्रेष्ठतरो हि सः || २२५ || सर्वमन्त्राधिकश्चायमोंकाराद्यः षडक्षरः || सर्वेषां शिवभक्तानामशेषार्थप्रदायकः || २२६ || चन्द्रज्ञानागमे- समयश्च विशेषश्च योगनिर्वाणदीक्षया || चातुर्वर्णाश्रमीणां (चातुर्वर्णश्रमस्थानां) च कर्तव्यन्तु षडक्षरम् || २२७ || अनाचारवतां पुंसामनधीतद्विजन्मनाम् || षडक्षरोपदेशं च न कर्तव्यं महेश्वरि || २२८ || मानवीयसंहितायां त्रिषष्ठितमाध्याये- ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजातिजः || शिवभक्तस्सदा पूज्यस्स सर्वब्राह्मणोत्तम इति || २२९ || वज्रसूच्युपनिषदि- तेषां वर्णानां को वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं धर्मः किं कर्म किं वर्णः किं पांडित्यं किं धार्मिकत्वमित्यष्टविकल्पा इति पृ० ४२) एतदष्टविकल्पेषु ब्राह्मण्याभावमुक्त्वा ब्रह्म जानाति ब्राह्मण इत्युक्तं तस्माद्ये विदुर्ब्रह्मवाच्यं श्रीरुद्रं ते ब्राह्मणाः स्मृता इति पुराणवाक्याच्छिवदीक्षाभिजातश्शिवशास्त्रविच्छिवज्ञानी शिवभक्त एव ब्राह्मण इति वक्तव्यम् || २३० || महाभारते अन्यत्र च- जन्मना जायते शूद्रः कर्मणा जायते द्विजः || वेदाध्यायी भवेद्विप्रो ब्रह्म जानाति ब्राह्मणः || २३१ || इत्युक्तम् || आदित्यपुराणे मानवीयसंहितायां त्रिषष्ठितमाध्याये- सूर्य उवाच || ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजातिजः || शिवभक्तस्सदा पूज्यस्स सर्वब्राह्मणोत्तमः || २३२ || शैवे वायवीयसंहितायामुपरिभागे कृष्णोपमन्युसंवादे || तथा शिवधर्मे चान्यत्र च || भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते || स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पंडितः || २३३ || एतत्सर्वं मनसि निधाय वज्रसूचिपरमहंसाचार्यैरुक्तम् || वज्रसूचिं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् || दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् || २३४ || पृ० ४३) देहे ब्राह्मण्यशंका चेदतीतानागताः स्थिताः || तातानां तनवः पुत्रैर्न दाह्यास्तु ततो न हि || २३५ || जीवे ब्राह्मण्यशंका चेत्स सर्वप्राणिना सह || हंसरूपेण चरति बहिरन्तरतो न हि || २३६ || जातौ ब्राह्मण्यशंका चेन्न भूमौ घटतेऽत्र सा || ऋष्यशृंगवसिष्ठागस्त्यादीनां जातिरत्र का || २३७ || वर्णे ब्राह्मण्यशंका चेन्मुखबाहूरुपादजाः || श्वेतादयस्समा वर्णाः एकत्र स ततो न हि || २३८ || धर्मे ब्राह्मण्यशंका चेन्निद्राहाररतादयः || सर्वेषामपि ते धर्मास्समानास्स ततो न हि || २३९ || कर्मब्राह्मण्यशंका चेत्कर्मोपनयनादिकम् || समानं क्षत्रियादीनां तद्ब्राह्मण्यमतो न हि || २४० || पांडित्ये ब्राह्मण्यमिति शंका चेत्क्षत्रयादिषु || सर्वशास्त्राभ्यासजन्म पांडित्यं चास्ति तन्न हि || ९४१ || धार्मिकत्वे च ब्राह्मण्यमिति शंका भवेद्यदि || यागादिसद्धर्मपराः क्षत्रियाद्यास्ततो न हि || २४२ || पृ० ४४) त्वन्देवेषु ब्राह्मणोऽसीत्यादिसामश्रुतेश्शिवः || देवेष्वेको ब्राह्मणः स्यात्तद्भक्तो नृषु ब्राह्मणः || २४३ || सामवेदे प्रपदमन्त्रे || त्वन्देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावामीति || २४४ || पराशरपुराणे- संकरास्सर्वदेवाश्च वृषलस्तु पुरन्दरः || पितामहश्च वैश्यः स्यात्क्षत्रियः परमो हरिः || २४५ || ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः || ब्राह्मणो वै सदा लोके ब्राह्मणं चोपधावति || महाब्राह्मणमीशानमुपधावेन्न चेतरम् || २४६ || यजुर्वेदे- यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति || २४७ || अस्यार्थः कथ्यते विप्रो यस्तु स्वां देवतांशिवमतीत्यातिक्रम्य यजते पूजयत्यन्यदेवतां स हि प्रच्यवतेस्वीयदेवतायै नराधमो भूत्वाऽपराधी न परां प्राप्नोति गतिमुत्तमां न गच्छत्यथ पापीयानतिपापी भवेद्ध्रुवम् || २४८ || किंच तैत्तिरीये || आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन पृ० ४५) आनंदं शान्तिसमृद्धममृतमिति प्राचीनयोग्योपास्वेति अत्र सत्यस्वरूपमाकाशपदवाच्यशक्तिविशिष्टं ब्रह्मैव प्राणशक्त्यात्मकलिंगशरीरं परिगृह्य मनोग्राह्यं विषयानन्दमनुभूय समाधिगुणसमृद्धप्राचीनममृतं भवतीति ध्यायस्व कीदृशस्सन् प्राचीनैः कर्मभिः योग्यः अधिकारी सन्नित्यर्थः || २४९ || प्राचीनकर्मणामधिकारित्वहेतुत्वं शिवेनोक्तं सनत्कुमारसंहितायाम्- सर्वैस्तपोभिस्सकलैश्च योगैः पुण्यैरशेषैरपि सर्वयज्ञैः || दानैस्समस्तैरखिलैरुपायैर्मययर्पितैर्भक्तिरनन्तजन्मभिरिति || २५० || एवं प्राचीनयोग्यानां शिवभक्त्यधिकारित्वं प्रागेवोक्तम् || २५१ || किं च स्कान्दे- व्यालाकल्पा विषमनयना विद्रुमाताम्रभासा जायामिश्रा जटिलशिरसश्चन्द्रलेखावतंसाः || नित्यानंदा नियतललिताः स्निग्धकल्माषकंठा देवा रुद्रधृतपरशवस्ते भविष्यन्ति भक्ताः || २५२ || इति नन्दीश्वरादयः प्रमथगणा रुद्रगणा एव वीरमाहेश्वरा भक्ता भवन्तीति वक्तव्यम् || २५३ || ते के रुद्रा इति चेदुच्यते शुक्लयजुषि वाजसनीये च || पृ० ४६) असंख्यातास्सहस्राणि न स्मर्यंते न च दृश्यंते || शतरुद्रीये अवतानमन्त्रे || सहस्राणि सहस्रशो ये रुद्रा अधिभूम्यामित्यादिश्रुतिप्रसिद्धाः परशिवलीलास्वीकृतविग्रहास्ते सर्वे रुद्रमूर्तयः उत पाशुपतव्रतेन मुक्ता उत पाशुपतस्थले काश्यां मृतेन मुक्ताश्च ते सर्वे रुद्रमूर्तयः एवमनादिमुक्ता आदिमुक्ताश्च उभये रुद्रमूर्तिविशेषा भवन्ति || २५४ || आदित्यपुराणे || शंभोर्गणेश्वरा ये च नावर्तन्ते महीतले || भोगान्यथेप्सितान् भुक्त्वा शिवसायुज्यमाप्नुयुः || २५५ || इत्येवं मुक्तानां पुनरावृत्तिरहितत्वात्केन चिन्निमित्तेन भक्ता भवन्तीति चेदुच्यते || २५६ || आदित्यपुराणे- इंद्रं प्रति दूर्वासवाक्यं || स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः || शिवेन सह मोदन्ते मुक्ता यान्ति शिवं पदमिति || २५७ || इत्यादिवचनप्रमाणात्कर्मपारवश्यं विना स्वेच्छया जगद्धिताय पृ० ४७) शिवधर्मस्थापनार्थं च भक्ता भवन्तीति वक्तव्यम् || २५८ || शांकरसंहितायामुपरिभागे कुमारं प्रति शिववाक्यम् || यदा यदा हि धर्मस्य हानिश्शैवस्य जायते || तदा तदावतारोऽयं गणेशस्य महीतले || २५९ || वत्सैते गणनायकाः क्षितितलं गत्वा नियुक्ता मया संभूतास्सकलासु जातिषु पुनर्लिंगार्चनातत्पराः || संस्थाप्योत्तमवीरशैवपदवीं लोके हितार्थं नृणां मुद्राः पंच वहन्त एव विचरन्त्यन्त्ये समेष्यन्ति मामिति || २६० || अवतानमन्त्रे- नमस्तेभ्यो मृडयन्तु तेन इति रुद्राणां सुखयितृत्वश्रवणाज्जगद्धिताय कलियुगे नन्दीश्वरादयो बसवेश्वरादिपुरातननूतनभक्ता भवन्ति || रेवणसिद्धाद्या आचार्या भवंति || अल्लमप्रभुदेवादिजंगमा भवन्ति || तेषां चरित्राणि सोमनाथभाष्यबसवपुराणाराध्यचारित्रादिवीरशैवाचार्यप्रणीतशास् त्रपुराणेषु प्रसिद्धानि तत्र दृष्टव्यानि || २६१ || तत्रैव सूतमुनिवाक्यम्- यदा यदा प्राणशिवैक्यभाजां हानिर्भवेन्मर्त्यकुले गणेशाः || तदा तदा भूमितलेऽवतीर्य संभूय कुर्वन्ति हि धर्मसंस्थाम् || २६२ || पृ० ४८) धर्मग्लानिरभूद्यदाशिवगणा नानाकुलेषूत्थिता भूमौ शंकरनिन्दकानघवतस्तद्धर्मविध्वंसकान् || शिक्षन्तः शिवधर्ममार्गमखिलं संस्थाप्य लिंगार्चकान् सत्कृत्वा सकलानिमानिह पुनः शंभुं समेष्यन्ति ते || २६३ || इति || ग्रन्थान्तरे- ये रुद्रलोकादवतीर्य रुद्रा मानुष्यमाश्रित्य जगद्धिताय || चरन्ति नानाविधचारुचेष्टास्तेभ्यो नमस्त्र्यंबकपूजकेभ्य इति || २६४ || मुक्तस्यैव भवेद्भक्तिर्बद्धस्य न कदाचन || भक्तस्यैव भवेन्मुक्तिर्नाभक्तस्य कदाचन || २६५ || शांकरसंहितायाम्- रुद्रो भूत्वा यजेद्रुद्रं नारुद्रो रुद्रमर्चयेत् || प्राणलिंगांगसंबंधी स रुद्रो नात्र संशयः || २६६ || स्कान्दे- भूसुरो ब्राह्मणश्चैव भूरुद्रो जंगमस्तथा || सुररुद्रद्वयोर्मध्ये रुद्र एव विशिष्यते || २६७ || शिवरहस्ये- द्विरूपं नीलकण्ठस्य चरं चाचरमेव हि || लिंगधारी चरं रूपमचरं पार्थिवादिकम् || २६८ || शिवधर्मे- स्थावरं जंगमं चैव द्विविधं लिंगमुच्यते || पृ० ४९) जंगमस्यावमानेन स्थावरं निष्फलं भवेदिति || २६९ || उत्तरवातुले- तस्माल्लिंगे प्रसादं च निर्माल्यं पज्जलं तथा || अर्पयेच्चरलिंगस्य श्रुणु षण्मुख सर्वथेति || २७० || शांकरसंहितायाम् || प्राणलिंगांगनिष्ठस्य पादप्रक्षालितं जलम् || पापशुद्ध्यर्थमज्ञानां तत्तीर्थं शिखिवाहनेति || २७१ || ग्रन्थान्तरे || सकृल्लिंगार्चकोच्छिष्टं स्वदेहे लेपयेत्तथा || वज्रकायः स भवति शिवेन सह मोदते || २७२ || महाभारते अनुशासनिके पर्वणि- दूर्वासोच्छिष्टशेषस्य पादबाह्यांगलेपनात् || सहसा वज्रकायत्वं प्राप्तवान्विष्णुरव्ययः || २७३ || स्कान्दे || यवागुभक्षणे विष्णुः पादबाह्यांगलेपनात् || शापरूपवरेणैव योजितो मुनिना तदेति || २७४ || ब्रह्माण्डपुराणे शैवसंहितायां व्यासजैमिनिसंवादे- विष्णुः परशुरामोऽपि शिवेन परिदीक्षितौ || पादोदकप्रसादान्ननिर्माल्यानां निषेवकौ || २७५ || वसिष्ठोऽपि गरिष्ठोऽभूत्प्रसादस्य प्रभावतः || पृ० ५०) प्रसादसेवनाज्जातो विश्वामित्रो महामुनिः || २७६ || पाणिनिश्च कणादश्च कपिलो गौतमादयः || प्रसादसेवनाद्ध्यानादर्चनाद्धारणादपि || जाता दर्शनकर्तारः श्रावयन्ति जगत्त्रयम् || २७७ || महता लिंगरूपेण महता जंगमे न च || द्विविधेन समुद्भूतप्रसादाय नमो नम इति || २७८ || किंच लिंगसारेऽन्यत्र च- लिंगार्चनरता नारी रजस्सूतकसंयुता || रविरग्निर्यथा वायुस्तद्वत्कोटिशुचिर्भवेत् || २७९ || शांकरसंहितायाम्- न तस्य सूतकं वत्स प्राणलिंगांगसंगिनः || जननोत्थं मृतोत्थं च विद्यते परमार्थतः || २८० || कुलजात्यादयो भावधर्मा देहस्य नात्मनः || प्रत्यक्त्वाद्बोधरूपत्वात्पूर्णत्वाच्छिवरूपतः || २८१ || इत्यादिप्रसिद्धं बसवेश्वरपुराणे- इंब्यम्मौव्वा चंगला श्रीबसवो बिब्बिभास्करः || मासजातप्रेतकुलोच्छिष्ठसूतकवर्जिताः || २८२ || ग्रन्थान्तरे- वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः || अभिमानविनिर्मुक्तो वर्तते श्रुतिमूर्धनीति || २८३ || पृ० ५१) शांकरसंहितायाम्- यस्यैतत्परमात्मवेदनमिदं लिंगांगसंबंधिनः प्रत्यग्भाति पदत्रयार्थकलितं शुद्धं सदानन्दकम् || स श्रीकण्ठपदाब्जभक्तिभरितस्वान्तःपुमानुर्वरां त्यक्त्वा कर्मकलापमन्यविषयं वैधं निषिद्धं चरेत् || २८४ || लिंगसारे || स्त्री वाथ पुरुषः षंडश्चण्डालो द्विजवंशजः || न जातिभेदो लिंगार्चे सर्वे रुद्रगणाः स्मृताः || २८५ || इत्यादिशैवागमपुराणेषु प्रसिद्धम् || शांकरसंहितायाम्- अत्याश्रमी प्राणलिंगसंबंधी भस्मघुण्टिकाम् || कंथां कमण्डलुं भिक्षापात्रं दण्डं च धारयेत् || २८६ || तत्रैव प्रदेशान्तरे- धारयेत् समतां कंथां क्षमाख्यां भस्मघुण्टिकाम् || दयाकमण्डलुं वत्स ज्ञानदण्डं मनोहरम् || वैराग्यभिक्षापात्रं च भक्तिभिक्षां च याचयेत् || २८७ || एवमादिनिराभारवीरशैवचरित्राणि शैवागमपुराणेषु प्रसिद्धानि || इत्यादिवचनप्रमाणात्सकलवर्णाश्रमातीतो वीरशैव एवात्याश्रमीति ब्रह्मविद्याधिकारीति वक्तव्यम् || २८८ || पृ० ५२) सूतसंहितायां मुक्तिखण्डे-पंचमाध्याये- ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः || अतिवर्णाश्रमी चेति क्रमाच्छ्रेष्ठो विचक्षण || २८९ || गृहस्थोऽपि वनस्थस्य यतेरप्यंबुजेक्षण || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || २९० || वानप्रस्थाश्रमस्थोपि तथा सन्यासिनो हरे || विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा || २९१ || अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम् || न तस्यापि भवेच्छ्रेष्ठो यथाहं पुरुषोत्तम || २९२ || अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते || यस्यवर्णाश्रमाचारो गलितः स्वात्मदर्शनात् || २९३ || सर्ववर्णाश्रमान् सर्वानतीत्य स्वात्मनि स्थितः || योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् || सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिरिति || २९४ || अतेवशंकराचार्यैरुक्तं मनीषापंचके- जाग्रत्स्वप्नसुषुप्तिषुस्फुटतरा या संविदुज्जृंभते आब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी || सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञा च यस्यास्ति चेत् चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा ममेति || २९५ || पृ० ५३) इत्यादिवचनप्रमाणादतिवर्णाश्रमी वीरशैव एव सर्वोत्कृष्ट इति निश्चीयते || २९६ || किंच अथर्वशिरसि-उपसंहारावसरे-तदेतदुपासितव्यं तद्वाग्वदतु तदन्तर्ग्रहणमयं पंथा वितत इत्यारभ्य || रुद्रे रुद्र एकत्वमाहुरित्यन्तेन प्राणलिंगोपासनं तद्धारणं चोक्तं भवति || २९७ || उत्तरत्र || रौद्रं शाश्वतं वै पुराणं इष्टमूर्जं तपसानुयच्छति तद्व्रतमेतत्पाशुपतमिति इष्टलिंगधारणं चोक्तम् || २९८ || उत्तरत्र || अग्निरित्यादिना भस्म गृहीत्वा विमृज्यांगानि संस्पृशेत्तस्माद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति तदुपासनांगं भस्मधारणं चोक्तं भवति || २९९ || अस्यार्थस्तु विस्तरेण लिंगधारणप्रकरणे द्रष्टव्यः || अत्रान्तर्बहिर्लिंगधारणभस्मधारणोपलक्षणेन रुद्राक्षधारणादि सकलवीरमाहेश्वराचारानुष्ठानमनुष्ठितव्यम् || ३०० || किंच ऋग्यजुस्सामाथर्वणान्तर्गतनानाशाखोपनिषत्समूहरूपवेदस्कन्ध अन्ते अथर्वशिखोपसंहारे ध्यायीतेशानं प्रध्यायितव्यं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणन्तु ध्येयः पृ० ५४) सर्वैश्वर्येण संपन्नस्सर्वेश्वरश्शंभुराकाशमध्ये इति ईशानश्शिव एको ध्येयश्शिवंकरस्सर्वमन्यत्परित्यज्य समाप्ताथर्वणी शिखेति मुमुक्षूणामितरदेवतापरित्यागेन शिवैकविषयध्यानं निश्रेयसप्राप्तिहेतुकमिति इतरदेवतापरित्यागेन लिंगैकनिष्ठास्वरूपवीरशैवमतसिद्धान्तं प्रतिष्ठाप्य असंदिग्धत्वेन निश्चयार्थे स्वसमाप्तिं स्वयमेवोक्त्वाथर्वशिखोपसंहृता भवति || ३०१ || “अस्मिन्नर्थे श्रुतिः साध्वी समाप्ताथर्वणी शिखेतिऽऽ || सर्ववेदशिखाथर्वशिखाप्राहैवमेव हीति || सूतसंहितादिनानापुराणेषु प्रसिद्धम् || तत्पूर्वखण्डे विस्तरेणोक्तं भवति || ३०२ || एवं वीरशैवानामन्यदेवतापरित्यागेन लिंगैकनिष्ठाप्रतिपादकानामागमपुराणानामियमेव श्रुतिर्मूलमित्यवगन्तव्या || ३०३ || तस्मात्समस्तवेदशाखोपनिषदन्तेऽथर्वशिखोपदिष्टं वीरशैवमतमेव || अत एव पाशुपताख्यशिरोव्रतनिष्ठोऽन्तरंगबहिरंगलिंगधारी भस्मधारी शिवैकनिष्ठो पृ० ५५) वीरमाहेश्वर एव सर्वोत्कृष्टः अयमेव ब्रह्मविद्याधिकारीति नानाश्रुतिपुराणशिवागमेषु वीरशैवसिद्धान्तः घण्टाघोषः न चान्येषां स्वमतसिद्धान्तं प्रत्याशा || ३०४ || “अथर्वाभिस्तुरीयाख्यं तुरीयातीतमेव चेति’, वायुसंहितावाक्याद्वीरशैवमतस्य तुरीयवेदोपसंहारवाक्यविदितत्वात् उत ऋग्यजुस्सामाथर्वणान्तर्गतनानाशाखोपनिषत्समूहवेदस्कन्धाद्याथ र्वशिखोपसंहारवाक्यविदितत्वादुपसंहारानुरोधेनोपक्रमादीनामर्थस्योच् इतत्वादन्येषामेतादृशप्रमाणाभावात्सकलवेदानामन्ते वीरशैवमतस्य जागरूकत्वात्सिद्धमप्रत्यूहं ब्रह्मविद्ब्रह्मैव भवतीति न तस्य प्राणौत्क्रामयन्ति अत्रैव समवलीयन्ते इति श्रुतिवाक्यात् स्वरूपैक्यमेव मुक्तिः || ३०५ || किंच अनुभवसूत्रे- लोकयोरुभयोरैहिकामुष्मिकपदार्थयोः गमागमौ विनैवास्ते भक्तिः संपूर्णवैभवा || ३०६ || केचित्प्राणैस्सह पृ० ५६) शिवपदं केचिदात्मीयकायैः कैचिद्दारैर्निजतनुभवैर्मन्दिरैर्बन्धुवर्गैः- ग्रामैर्देशैः सह परिजनैः केचिदन्यैः क्रमेण त्यक्त्वा चैतत्सकलमपि यान्ति स्वयं चैव भक्ताः || ३०७ || प्राणादिवस्तुविषयेष्वनुरागयुक्ता भक्ताः प्रयान्ति कतिचित्सहितैः शिवैक्यम् || केचिद्विरागनिपुणा विषयेषु तेषु त्यक्त्वा च तच्छिवपदं स्वयमेव यान्तीति || ३०८ || शिवधर्मोत्तरे- शशभृत्कोटिसंकाशं स्थानमाद्यमुमापतेः || सर्वकामसमायुक्तं विशुद्धं नित्यमक्षयम् || ३०९ || संप्राप्य तदिदं दिव्यं समस्तक्लेशवर्जिताः || सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति च || ३१० || विशुद्धकार्यकरणाः परमैश्वर्यसंयुताः || सदेहाश्च विदेहाश्च चरन्त्यात्मेच्छया सदा || ३११ || ये संप्राप्ताः परं स्थानं ज्ञानयोगरता नराः || न तेषां पुनरावृत्तिर्घोरे संसारमण्डले || ३१२ || इत्यादिप्रसिद्धं भवति || किंच मुण्डके- सूर्यद्वारेण विरजाः प्रयान्तीति || तैत्तिरीये- ब्रह्मणः सायुज्यं पृ० ५७) सार्ष्टितां समानलोकतामाप्नोतीति || एवं शिवलोकं प्राप्तानां पुनरावृत्तिर्नास्ति || श्हिवेन सह मोदन्ते मुक्ता यान्ति शिवं पदमितिऽऽ पुराणवाक्यात् || तत्रैव || ब्रह्मण्यैक्यं गच्छन्ति तस्मादध्वातीतशिवैक्यमेव मुक्तिरिति वक्तव्यम् || ३१३ || अनुभवसूत्रे- कामिकाद्या वातुलान्ताः शिवेनोक्ताः शिवागमाः || तेषु वातुलसंज्ञोऽयं सर्वोत्कृष्टो महागमः || ३१४ || वातुलाख्ये महातन्त्रे पूर्वोत्तरविभेदतः || भागद्वयं समाख्यातं तस्मिन्नुत्तरनामनि || ३१५ || तन्त्रोत्तरप्रतीपाख्यं शिवसिद्धान्ततन्त्रकम् || अस्ति तत्राह देवेशो देव्यै षट्स्थलनिर्णयम् || ३१६ || श्रुतिस्मृतीतिहासैश्च शिवधर्मादिशास्त्रकैः || कथ्यते शिवसिद्धान्ततन्त्रं षट्स्थलनिर्णयम् || ३१७ || शिवागमैश्शिवाद्वैतरहस्यैः पारमार्थिकैः || कथ्यते शिवसिद्धान्ततन्त्रं षट्स्थलनिर्णयम् || ३१८ || सर्वैरुपनिषद्वाक्यैः पुराणैरुत्तरार्थकैः || गीताशास्त्रैः समस्तैश्च पुरातनमहामतैः || कथ्यते शिवसिद्धान्ततन्त्रं षट्स्थलनिर्णयम् || ३१९ || गुरूक्त्या स्वानुभूत्या च तर्कतश्च प्रमाणतः || पृ० ५८) कथ्यते शिवसिद्धान्ततन्त्रं षट्स्थलनिर्णयमिति || ३२० || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे ब्रह्मविद्याधिकारसमर्थनं नाम प्रथमप्रकरणं सम्पूर्णम् || श्री || श्री || पृ० ५९) || श्रीशिवाय नमः || || वेदशैवागमैक्यार्थप्रतिपादकत्वं वक्ष्यामः || नन्वस्य वीरशैवमतस्य कामिकादिशैवागमतन्त्रमूलत्वेन न वैदिकत्वं अवैदिकतन्त्रोक्ते मते न वैदिकानामधिकारः किन्तु वेदमार्गप्रच्युतानां तन्त्रमार्गे निवेशनः अत एव तन्मूलकस्य वीरशैवमतस्यावैदिकत्वमिति चेदुच्यते || १ || सिद्धान्तशिखामणौ- अगस्त्यं प्रति रेणुकगणेशवाक्यम् || वेदैकदेशवर्तिभ्यस्सांख्यादिभ्यो महामुने || सर्ववेदानुसारित्वाच्छैवतन्त्रं विशिष्यते || २ || शैवतन्त्रमिति प्रोक्तं सिद्धान्ताख्यं शिवोदितम् || सर्ववेदार्थरूपत्वात्प्रामाण्यं वेदवत्सदा || ३ || आगमा बहुधा प्रोक्ताः शिवेन परमात्मना || शैवं पाशुपतं सोमं लाकुलं चेति भेदत इति || ४ || तत्र शैवागमभेदान्निरूपयति || तेषु शैवं चतुर्भेदं तत्र सर्वं विनिश्चितम् || वामं च दक्षिणं चैव मिश्रं सिद्धान्तसंज्ञिकमिति || ५ || तत्र वामाद्यागमानां लक्षणं प्रोक्त्वा पृ० ६०) सिद्धान्तं वेदसंमतमिति दर्शयति || शक्तिप्रधानं वामाख्यं दक्षिणं भैरवात्मकम् || सप्तमातृपरं मिश्रं सिद्धान्तं वेदसम्मतमिति || ६ || सिद्धान्तशास्त्राणि कानि तानीत्याशंकया निरूप्यन्ते || कामिकाद्या वातुलान्ताः शिवेनोक्ताः शिवागमाः || सिद्धान्ता इति विज्ञेया उपभेदसमन्विताः || ७ || सिद्धान्तशास्त्रं केन प्रकारेण वेदसंमतमित्याशंकया निरूप्यते || तत्रैव || वेदधर्माभिधायित्वात्सिद्धान्ताख्यः शिवागमः || वेदबाह्यविरोधित्वाद्वेदसम्मतुच्यत इति || ८ || शिवप्रणीतयोर्वेदसिद्धान्तयोः कारणपूर्वकमैक्यं दर्शयति || तत्रैव || वेदसिद्धान्तयोरैक्यमेकार्थप्रतिपादनात् || प्रामाण्यं सदृशं ज्ञेयं पंडितैरेतयोस्सदेति || ९ || तात्पर्यसंग्रहे- वेदाः प्रमाणमिति संगिरमाण एव दिव्यं तवागममवैति जनः प्रमाणमिति वाक्येन वेदागमयोर्नितरां प्रामाण्यमंगीकर्तव्यम् || विश्वाधिको रुद्रो महर्षिरिति श्रुतिप्रमाणान्महर्षिशिवप्रणीतयोर्वेदसिद्धान्तयोः प्रामाण्यमप्रत्यूहमेव वेदसिद्धान्तैक्यमुक्त्वा तस्मिन् पृ० ६१) वेदशैवागमैक्यार्थप्रतिपादनम् | सिद्धान्ते वीरशैवमतं दर्शयति || १० || सिद्धान्ताख्ये महातन्त्रे कामिकाद्ये शिवोदिते || निर्दिष्टमुत्तरे भागे वीरशैवमतं परम् || ११ || इत्यादिवचनानुसारात् परिहारो निरूप्यते || किंच शिवाधिक्यप्रतिपादकानामागमानां पतिः परमेश्वरः पशुर्जीवः तदुभयव्यतिरिक्तमचेतनं सर्वं पाश इति त्रितयज्ञानं च मोक्षकारणमिति समानम् || १२ || तदुक्तं सूतसंहितायाम्-मुक्तिखण्डे चतुर्थाध्याये- ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः || तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः || १३ || मायापाशेन बध्नामि पशूंस्तान् कमलेक्षणे || तेषां पशूनां सर्वेषां मोचकोऽहं सुलोचने || मामेव मोचकं प्राह श्रुतिः साध्वी सनातनीति || १४ || तत्रैव प्रदेशान्तरे- त्रिपदार्थं चतुःपादं महातन्त्रं जगत्पतिः || प्रोक्तवान् हिमवत्पुत्र्यै धर्मान्मोक्षैकसाधनानिति || १५ || तत्र शैवागमाः केचन पशुपाशपतिपदार्थत्रयप्रतिपादकाः केचन शिवपरतत्वप्रतिपादकाः केचन परब्रह्मत्रिमूर्तिप्रतिपादकाः केचन षट्त्रिंशत्तत्वप्रतिपादकाः पृ० ६२) केचन षडध्वप्रतिपादकाः केचन भस्मरुद्राक्षलिंगधारणप्रणवपंचाक्षरमंत्रशिवपूजोत्सवादिशिवा चारप्रतिपादकास्तेषामागमानां प्रत्यक्षवेदमूलत्वेन प्रामाण्योपपत्तेः अप्रामाण्यकल्पनायामगौरवात् पदार्थत्रयप्रतिपादकानां तावदेतावन्तो वै पशवो द्विपादश्चतुष्पादश्चेति तस्माद्रुद्रः पशूनामधिपतिरिति ज्ञात्वा देवं सर्वपाशप्रहाणिः क्षीणैः क्लेशैः सर्वपापप्रहाणिः || “ज्ञाननिर्मथनाभ्यासात्पाशं दहति पंडित इति ||ऽऽ “व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेतिऽऽ इत्यादीनां वाक्यानां प्रत्यक्षवेदे श्रूयमाणत्वादेतादृशपरिभाषामूलं शैवशास्त्रं वैदिकमेव || १६ || अत एव चिदचिदीश्वरपदार्थत्रयपरिभाषायुक्तं रामानुजशास्त्रं वैदिकपरिभाषामूलत्वाभावादवैदिकमेव वैदिकाभिमानमात्रमित्युपेक्षणीयम् || अवैदिकपांचरात्रतन्त्रमूलत्वात्प्रत्यक्षबहुश्रुतिविदितभस्मरुद्राक्षधा रणादिवैदिकविरोधित्वाच्च || पंचब्रह्ममूर्तयस्तावत्सद्योजातादयः पृ० ६३) यजुरारण्यकान्तर्गततैत्तिरीयनारायणप्रश्नगतैः सद्योजातादिपंचमन्त्रैर्बृहज्जावालाद्युपनिषद्वाक्यैश्च प्रतिपाद्यन्त इति तत्प्रतिपादकानां शैवागमानामपि प्रत्यक्षवेदमूलत्वेन प्रामाण्यं शिवपरतत्वप्रतिपादकानां शिव एव केवल इति प्रपंचोपशमं शिवमद्वैतं चतुर्थं मन्यन्त इति एक एव रुद्रो न द्वितीयाय तस्थ इति विश्वाधिको रुद्र इति नानाशाखोपनिषत्सु तदन्यप्रतिषेधेन श्रूयमाणत्वात्षट्त्रिंशत्तत्वप्रतिपादकानाम् || बोधायने || नारायणोपनिषद्गतप्राणापानादिद्वादशमन्त्रैः सह त्रैगुण्यप्रकृतिरागकलाविद्यानियतिकालमायाशुद्धविद्यामहेश्वरसदाशिव् अशक्तिशिवा मे परशिवेच्छया शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहेति विरजामन्त्रमूलत्वात् षडध्वप्रतिपादकानां तु “वर्णः पदस्तथा मन्त्रः कला भुवनतत्वकमितिऽऽ षड्भेदभिन्नाध्वप्रतिपादकानामागमानां सोऽध्वनः पारमाप्नोतीति श्रुतिवाक्येन अध्वनामध्वपते श्रेष्ठस्याध्वनः पारमसीयेति मन्त्रमूलत्वेन पृ० ६४) प्रामाण्योपपत्तेः भस्मस्नानोद्धूलनत्रिपुण्ड्ररुद्राक्षधारणानि क्रमेणाथर्वशिरःकालाग्निरुद्रबृहज्जाबालभस्मजाबालरुद्राक्षजाबालक् आत्यायनादिनानाशाखोपनिषत्सु श्रुतिशतप्रसिद्धानि | लिंगधारणं ऋग्यजुर्वेदादिषु प्रसिद्धम् || तदुत्तरप्रकरणे द्रष्टव्यं ओमिति ब्रह्मेत्यादिषु प्रणव आम्नातः पंचाक्षरी तु नमः शिवाय चेति यजुस्संहितायां मध्ये एकादशानुवाकशतरुद्रीयमन्त्रमध्ये प्रसिद्धा शिवपूजोत्सवाचारादेः तमुष्टुहीति मन्त्रमूलत्वाद्बोधायनसूत्रमूलत्वाच्छैवागमानां वैदिकत्वमिति तत्समानार्थकानि शैवमतानि वैदिकान्येव || १७ || किंच || शिवनिन्दापरो मूढः शिवशास्त्रविनिंदकः || तस्य का निष्कृतिर्दृष्टा क्वापि शास्त्रेऽपि केनचित् || १८ || इत्यत्र शिवशास्त्रं नाम मानान्तराप्राप्तशिवप्रतिपादकं शास्त्रं वेदाः शैवागमाश्च स्वतःसिद्धसनातनसर्वज्ञेश्वरप्रणीतत्वादनपेक्षितत्वेन प्रामाण्यमप्रत्यूहम् || १९ || पुराणेतिहासयोस्तु पृ० ६५) तदुपबृंहकत्वात्स्मृतिवत्तन्मूलतया प्रामाण्यमिति विभागो द्रष्टव्यः || २० || वीरागमे- शिवसंस्कारिणां चैव ज्ञानधर्मवतां सताम् || अष्टाविंशतिभेदेन प्रोक्तं शैवमिति स्मृतम् || २१ || इत्यागमेषु वेदेषु वेदान्तोपनिषत्सु च || धर्मस्तु शाश्वतः प्रोक्तो मुक्त्त्यै माहेश्वरो महानिति || २२ || ननु कूर्मपुराणे- वामपाशुपताचाराः पांचरात्राश्रयाः परे || २३ || इत्यादिना वैदिकानां तान्त्रिकाचारनिषेधाद्वेदप्रतिपाद्ये धर्मे वैदिकानामधिकारो न तन्त्रोक्त इति चेन्न || २४ || वेदविहिताचारकर्ता वैदिक इत्यंगीकारे तं प्रति विधानवैययर्थ्यं तस्य पूर्वमेव वेदविहितकर्तृत्वाद्विधिबलादेव तत्कर्तृत्वेऽन्योन्याश्रयः वेदविहितकर्तृत्वे सति तं प्रति विधिवत्प्रवृत्तिः विधिप्रवृत्तौ सत्यां वेदविहितकर्तृत्वेन वैदिकत्वमित्येवं पृ० ६६) तन्त्रोक्ते धर्मे तान्त्रिकाणामधिकार इति पक्षेऽपि समानो दोषः किंच वैदिकानां तन्त्रोक्तधर्मानधिकारे प्रणवगायत्रीश्रीरुद्रपुरुषाध्यायपंचाक्षरत्रियंबकजातवेदसादिमन् त्राणां सांगसावरणमुद्रापुरश्चरणप्रयोगादिपरिकराणां वेदेष्वभावेन सांगमुपासनमेव निषिध्येत् न चेष्टापत्तिः शंकराचार्यादिकृतेषु वैदिकेषु प्रपंचसारादिग्रंथेषु परिकरभागस्य तन्त्रोक्तस्यैव श्रवणनिरूपणात्किंच एतत्सोमस्य सूर्यस्य सर्वलिंगं स्थापयति पाणिमंत्रं पवित्रमिति प्रत्यक्षश्रुतिविहितस्य लिंगस्थापनान्यकर्षणादिविमानप्रतिष्ठान्तानामंगानां रथोत्सवादीनां च कारणकामिकादिशैवागमोक्तानां पुराणेष्वभावेन अननुष्ठानप्रसंगः न चेष्टापत्तिः सर्वशिष्टपरिग्रहाद्योगाद्यपेक्षयाधिक्योक्तेश्च तर्हि || २५ || एवं संचोदितो रुद्रो माधवेन मुरारिणा || चकार मोहशास्त्राणि माधवोऽपि शिवेरित इति || २६ || कूर्मवचनस्य तन्त्रदूषणस्य पत्युरसामंजस्यादितिसूत्रस्य च का गतिरिति चेन्निरूप्यते || २७ || वस्तुतस्तु तद्वचनमश्रौ- पृ० ६७) तवामपाशुपतादिविषयं न वैदिकसिद्धान्तशैवागमविषयम् || २८ || तदुक्तं तत्रैव कूर्मपुराणे- निर्मितं हि मया पूर्वं व्रतं पाशुपतं शुभम् || गुह्याद्गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये || २९ || इत्यारभ्य || एष पाशुपतो योगस्सेवनीयो मुमुक्षुभिः || भस्मच्छन्नैर्हि सततं निष्कामैरिति हि श्रुतिः || ३० || इत्यन्तेन प्रमाणभूतं वेदिकपाशुपतमुक्त्वा || ३१ || तत्रैव || वामं पाशुपतं सोमं लागुडं चैव भैरवम् || न सेव्यमेतत्कथितं वेदबाह्यं तदेतरदिति || ३२ || तदृतं तद्द्वैविद्ध्यं प्रतिपादितमत एव प्रागुक्तप्रमाणेषु व्रतमेतत्पाशुपतं शिरोव्रतं विधिवद्यैस्तु चीर्णं नैतदचीर्णव्रतोदित इति द्वैविद्ध्यमुक्तम् || तस्माद्वैदिकशिवसिद्धान्ततंत्रव्यतिरिक्तस्य वामलागुडपाशुपतकापालिककालामुखदेवरौद्रागमस्य अवैदिकत्वं व्यवस्थापितम् || ३३ || किंच || नानावेदेषु शास्त्रेषु वेदान्तेषु बहुष्वपि || आगमेषु च शाखासु पुराणेष्वखिलेषु च || ३४ || इतिहासेषु सूक्तेषु पौरुषेयेषु चान्यथा || वीरमाहेश्वराचारसारोद्धारः प्रचक्षते || ३५ || ननु वीरशैवास्तु जीवेश्वराभेदवादिन इत्युक्तम् || द्वौ सुपर्णौ पृ० ६८) ज्ञाज्ञौ द्वावजावीशानीशावित्यादिश्रुतिप्रमाणाद्विरुद्धगुणयोर्जीवेश्वरयोः कथमभेद इति चेन्न || ३६ || ईश्वरत्वस्य बाधाभावात्पाशपराधीनपशुत्वनिवृत्त्यादिविरोधपरिहाराच्चोरत्वबाधे ऽपि स्थाणुत्वाबाधवत् तत्राह || अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूवेत्यादिना अग्निवायुदृष्टान्तैः एकस्सदा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बभूवेति न लिप्यते लोकदुःखेन बाह्य इति प्रतिबिंबप्राणादिरूपेणोपाधिप्रविष्टस्य सूर्यादेरुपाधिविलये सति स्वकीयपूर्वरूपप्राप्तिवल्लीलया जीवभावमापन्नस्येश्वरस्य उपाधिभूते पाशविलये सति पुनः शुद्धेश्वरस्य रूपेणावस्थानमविरुद्धमित्यभिप्रायः || ३७ || लीलया जीवभावमाह || पृ० ६९) एको देवः सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोतीति || ३८ || अत एवोक्तम् || सिद्धान्तशिखामणौ-ऐक्यस्थले || पशुत्वं च पतित्वं च मायामोहविकल्पितम् || तस्मिन् प्रलयमापन्ने कः पशुः को नु वा पतिः || ३९ || + + + शंकराचार्यप्रणीते || अंबाभुजंगस्तोत्रे || विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवश्शिवश्चेति नाम्ना || शिवस्यापि जीवत्वमापादयन्ति पुनर्जीवमेनं शिवं मां करोषि || ४० || अस्मिन्नर्थे उत्तरवातुले-तन्त्रोत्तरप्रदीपाख्ये तथानुभवसूत्रे च || तदिदानीं प्रवक्ष्यामि स्थलनिर्देशमादितः || यदुक्तं देवदेवेन रहस्यार्थं समासतः || ४१ || एकमेव परं ब्रह्म सच्चिदानंदलक्षणम् || शिवतत्वं शिवाचार्यास्स्थलमित्याहुरादरात् || ४२ || सर्वेषां स्थानभूतत्वाल्लयभूतत्वतस्तथा || तत्वानां महदादीनां स्थलमित्यभिधीयते || ४३ || + + यत्रादौ स्थीयते विश्वं प्राकृतं पौरुषं यतः || लीयते पुनरन्ते च स्थलं तत्प्रोच्यते तथा || ४४ || पृ० ७०) स्थकारस्स्थानवाची स्याल्लकारो लयवाचकः || तयोः कारणभूतं यत्तदेव स्थलमुच्यते || ४५ || अधिष्ठानां समस्तस्य स्थावरस्य चरस्य च || जगतो यद्भवेत्तत्वं तदेव स्थलमुच्यते || ४६ || आधारं सर्वशक्तीनां ज्योतिषामखिलात्मनाम् || यत्तत्वं भवति प्राज्ञैस्स्थलं तत्परिगीयते || ४७ || आलयं सर्वभूतानां लोकानां लोकसंपदाम् || यद्भवेत्परमं ब्रह्म स्थलं तत्प्राहुरक्षरम् || ४८ || परनिर्वाणनिष्ठानां यद्भवेत्परमंपदम् || तदाहुः स्थलमद्वैतं शिवयोगैकतत्पराः || ४९ || स्वशक्तिक्षोभमात्रेण स्थलं तद्द्विविधं भवेत् || एकं लिंगस्थलं प्रोक्तमन्यदंगस्थलं भवेत् || ५० || लिंगांगोपाधिभेदेन द्विधा भिन्नं परस्परम् || महद्घटप्रभेदेन यथाकाशः प्रतीयते || ५१ || प्रतीयते तथा चैव स्थलं लिंगांगभेदतः || स्थलनामपरं तत्वं शिवरुद्रादिसंज्ञितम् || ५२ || उपास्योपासकत्वेन स्वयमेव द्विधा भवेत् || लिंगस्थलमुपास्यं स्यादंगस्थलमुपासकम् || ५३ || उपास्यत्वं ततोपासकत्वं च परमः शिवः || अप्रच्युतात्मभावेन स्थितस्सन्नात्मलीलया || ५४ || पृ० ७१) स्वशक्त्या युगपत्साक्षात्प्राप्त एव स्वयं क्रमात् || नाशिवस्य शिवोपास्तिर्घटते जन्मकोटिभिः || शिवस्यैव शिवोपास्तिरिति नाम श्रुतिः स्मृतिः || ५५ || स्कान्दे शांकरसंहितायामुपरिभागे- यो मायोपाधिकः शंभुर्लिंगरूपी सदाशिवः || सोऽविद्योपाधिको भूत्वा भवत्यंगस्वरूपवान् || ५६ || अनुभवसूत्रे उत्तरवातुले च- चिन्मात्रं परमं साक्षात्स्थलं सत्यादिलक्षणम् || लिंगांगत्वशिवात्मत्वभेदेनैव स्वयं स्थितम् || ५७ || शिवत्वेनात्मरूपेण यथा चिन्मात्र उच्यते || लिंगत्वेनांगरूपेण स्थलमात्रं तथोच्यते || ५८ || स्थलं चिन्मात्र एव स्याल्लिंगं स्याच्छिव एव हि || तथांगं जीव एव स्यादिति शैवी परा स्थितिः || ५९ || यथा स्थलं द्विधा भूतं तथा शक्तिर्द्विधा भवेत् || शक्तिरप्रतिमा साक्षाच्छिवेन सहधर्मिणी || ६० || साक्षिणी शाश्वती पूर्णा निर्विशेषा महेश्वरी || पृ० ७२) सा शक्तिर्द्विविधा भूता स्वस्वातन्त्र्यबलेन तु || ६१ || समानधर्मिणीत्वेन विभक्ता भक्तवत्सला || लिंगस्थलाश्रिता काचित्काचिदंगस्थलाश्रया || ६२ || लिंगस्थलाश्रया शक्तिः फलरूपा प्रकीर्तिता || अंगस्थलाश्रया शक्तिर्भक्तिरूपा भयापहा || ६३ || यथा महानलज्वाला विभक्ता दीपिकाकृतिः || तथा माहेश्वरी शक्तिर्विभक्ता भक्तरूपिणी || ६४ || ज्वाला तमस्विनी या सा दीपिकासु प्रकाशिनी || तस्मात्सवासना शक्तिर्भक्तिर्निर्वासना मता || ६५ || भक्तिर्महत्तरा शुद्धा सुसूक्ष्मा शोभना परा || सच्चिदानंदरूपा सा भुक्तिमुक्तिफलप्रदा || ६६ || शक्तिरेव स्मृता भक्तिर्भक्तिरेव हि सा सदा || शक्तिभक्त्योर्न भेदोऽस्ति परमार्थनिरूपणे || ६७ || शक्तिःप्रवृत्तिराख्याता निवृत्तिर्भक्तिरीरिता || शक्त्या प्रपंचसृष्टिः स्याद्भक्त्या तद्विलयो भवेत् || ६८ || पृ० ७३) अधोमुखी भवेच्छक्तिर्भक्तिरूर्ध्वमुखी भवेत् || सा माया शक्तिराख्याता निर्माया भक्तिरीरिता || ६९ || इति तर्कप्रमाणेभ्यश्शक्तेर्भक्तिर्गुणाधिका || उपास्यत्वं भवेच्छक्त्या भक्त्योपासकता भवेत् || ७० || तस्माल्लिंगस्थले शक्तिर्भक्तिरंगस्थले स्थिता || लिंगस्थलं शिवस्साक्षाज्जीवात्मांगस्थलं भवेत् || ७१ || लिंगांगस्थलयोरैक्यं शिवजीवैक्यमेव हि || एतद्यो वेद सोऽविद्याग्रन्थिं विकिरति प्रभुः || शिवसिद्धान्तकं तंत्रं शिवाद्वैतं शिवं परम् || ७२ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे वेदशैवागमैकार्थत्वं नाम द्वितीयप्रकरणं सम्पूर्णम् || श्री || पृ० ७४) || श्रीशिवाय नमः || || लिंगांगषट्स्थलनिरूपणं वक्ष्यामः || उत्तरवातुले तन्त्रोत्तरप्रदीपाख्ये तथानुभवसूत्रे च || शिव एव स्वयं लिंगमिति लिंगस्य वैभवम् || लीयते गम्यते यत्र येन सर्वं चराचरम् || १ || तदेव लिंगमित्युक्तं लिंगतत्वपरायणैः || लयगत्यर्थयोर्हेतुभूतत्वात्सर्वदेहिनाम् || लिंगमित्युच्यते साक्षाच्छिवस्सकलनिष्कलः [-निल्कलः]|| २ || आदित्यपुराणे मानवीयसंहितायाम्- ब्रह्माणं प्रति विष्णुवाक्यम् || शैवे वायवीयसंहितायाम्- वायुं प्रति ब्रह्मवाक्यम् || हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः || तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः || ३ || अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः || भक्तैरन्तर्बहिश्चापि पूज्यस्संभाष्य एव च || ४ || तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् || अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं च योगिभिः || ५ || ततः परन्तु यन्नित्यं ज्ञानमानन्दमद्वयम् || पृ० ७५) तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमास्तिकैरिति || ६ || तदेव लिंगमिति वक्तव्यम् || वातुलागमे- लिंगस्थलं त्रिधा ज्ञेयं तद्भेदो वर्ण्यते क्रमात् || प्रथमं भावलिंगं स्याद्द्वितीयं प्राणलिंगकम् || ७ || तृतीयमिष्टलिंगं स्यादित्येवं त्रिविधं स्मृतम् || निष्कलं भावलिंगं स्याद्भावग्राह्यं परात्परम् || ८ || सन्मात्रं भावलिंगं स्यादिति निष्ठा महात्मनः || प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलम् || ९ || तत्प्राणेष्वन्तर्मनसो लिंगमाहुरिति श्रुतिः || सकलं दृक्कलाग्राह्यमिष्टलिंगस्थलं महत् || १० || इष्टसिद्धिकरं शश्वदनिष्टपरिहारकम् || इष्टिः पूजा यया नित्यमिष्टं पूजितमादरात् || ११ || इष्टलिंगमिति प्रोक्तमाचार्यैर्लिंगपूजकैः || इष्टमूर्जन्तु तपसाप्यनुयच्छति यद्यतः || १२ || तदिष्टलिंगमित्याहुस्तथा चाथर्वणी श्रुतिः || सद्रूपं भावलिंगं स्याच्चिद्रूपं प्राणलिंगकम् || १३ || पृ० ७६) आनंदरूपमाचार्यैरिष्टलिंगमुदाहृतम् || भावलिंगं परं तत्वं प्राणलिंगन्तु सूक्ष्मकम् || १४ || इष्टलिंगं भवेत्स्थूलमेवं लिंगत्रयं स्मृतम् || स्थूलं बाह्यमिति प्रोक्तं सूक्ष्ममभ्यन्तरं स्मृतम् || १५ || सबाह्याभ्यन्तरं यत्तत्परमित्यभिधीयते || देहप्राणात्मरूपेण क्रियामन्त्रप्रयोगतः || १६ || बिंदुनादकलाभेदाल्लिंगत्रयमुदाहृतम् || एकमेकं स्थलं भूयो द्विविधं द्विविधं भवेत् || १७ || भावलिंगस्थलं द्वेधा प्राणलिंगस्थलं द्विधा || इष्टलिंगस्थलं चैव द्विधा प्रोक्तं महात्मभिः || १८ || महालिंगप्रसादाख्यलिंगमित्युभयस्थलम् || भावलिंगं भवत्येव स्वानुभूतिप्रमाणतः || १९ || तथा च चरलिंगं च गुरुलिंगं ततः परम् || आचारलिंगमित्येवं लिंगं षड्विधमुच्यते || २० || एवं हि षड्विधं भूतं लिंगं परमकारणम् || स्वशक्तिवैभवाच्चैव स्वातन्त्र्याल्लीलयाऽपि च || २१ || शक्तयः षड्विधाः प्रोक्ताः षट्स्थलेषु समाहिताः || शक्तीनामधुना तासां सद्भावो वर्ण्यते क्रमात् || २२ || शान्त्यतीतोत्तरा शक्तिश्चिन्मात्राऽनन्तविग्रहा || शिवाभिन्ना शिवा साक्षाच्छिवस्यापि शिवंकरी || २३ || पृ० ७७) शान्त्यतीतोत्तरा नाम चिच्छक्तिरिति कीर्तिता || शान्त्यतीता परा शक्तिः शान्तिरेवादिसंज्ञिता || इच्छाशक्तिश्च विद्या स्यात्प्रतिष्ठा ज्ञानरूपिणी || २४ || आद्यन्तशून्यममलं परिपूर्णमेकं सूक्ष्मं परात्परमनामयमप्रमेयम् || भावैकगम्यमजडं शिवतत्वमाहुश्चिच्छक्तिसंस्फुरणरूढमहात्मलिंगम् || २५ || ज्योतिः परं निजमखण्डमतीन्द्रियार्थं ज्ञानोपलब्धममृतं परिणामबीजम् || सादाख्यतत्वमुदितं परया स्वशक्त्या प्राहुः प्रसादघनलिंगमुपाधिहीनम् || २६ || साभ्यन्तरंगबहिरंगममूर्तितत्वं ज्योतिर्मयं पुरुषमक्षरतः पराख्यम् || स्वात्मादिशक्तिघटितं मनसैव नित्यं ध्यातव्यरूपमिति यच्चरलिंगमाहुः || २७ || विद्याकलाकलितरूपसुशोभमानं दिव्यप्रभापटलमेकमुखं प्रशान्तम् || इच्छास्वशक्तिपरिजृंभितमूर्तितत्वं व्यक्ते ह्यहंकृतिपदे शिवलिंगमाहुः || २८ || पृ० ७८) स्वज्ञानशक्तिविभवोत्थितकर्तृकत्वं सर्वोपदेशविधितन्त्रकृतप्रतिष्ठम् || तेजोनिधिं परमपारसुखांबुराशिं बुद्धेः पदे विनिहितं गुरुलिंगमाहुः || २९ || कर्मात्मना सकलतत्वनिवासहेतोराधारभूतमचलं क्रियया स्वशक्त्या || चित्तेन धार्यमधिरूढनिवृत्तिमार्गं ह्याचारलिंगमिति वेदविदो वदन्ति || ३० || एवमेव स्वरूपं च लक्षणं परिकीर्तितम् || महालिंगस्थलादीनां षड्विधानां यथाक्रमम् || ३१ || किन्त्वेतेषां स्थलानान्तु प्रादुर्भावं प्रदर्श्यते || शिव एव स्वचिच्छक्त्या महालिंगस्थलं बभौ || ३२ || तदुपासकरूपत्वादैक्यस्थलमभून्महत् || स्फुरणाद्वै पराशक्तेर्महालिंगस्थले परे || ३३ || प्रसादलिंगसंज्ञन्तु प्रादुरासीन्महास्थलम् || तदुपासकरूपत्वाच्छरणस्थलमाबभौ || ३४ || प्रादुर्भूते स्थले तस्मिन्नादिशक्तिप्रभावतः || चरलिंगस्थलं तत्र समुत्पन्नमनुत्तमम् || ३५ || पृ० ७९) तदुपासकरूपत्वात्प्राणलिंगस्थलं बभौ || स्थले समुत्थितं ज्योतिर्मये तस्मिन् सुशोभने || ३६ || शिवलिंगस्थलं साक्षादिच्छाशक्तिप्रभावतः || तदुपासकरूपत्वात् प्रसादिस्थलमुद्बभौ || ३७ || शिवलिंगस्थले ज्ञानशक्तिस्फुरणयोगतः || उदभूत् कारणत्वेन गुरुलिंगाभिधस्थलम् || ३८ || तदुपासकरूपत्वादासीन्माहेश्वरस्थलम् || गुरुलिंगस्थले तस्मिन् क्रियाशक्तिप्रभावतः || ३९ || आचारलिंगसंज्ञन्तु स्थलं जातं शुभावहम् || तदुपासकरूपत्वाद्भक्तस्थलमजायत || ४० || महालिंगं प्रसादाख्यलिंगं च चरलिंगकम् || शिवलिंगं तथा चैव गुरुलिंगं ततः परम् || ४१ || आचारलिंगमित्येवं प्रवृत्तिस्सृष्टिमार्गतः || एवं लिंगस्थलं प्रोक्तं षड्विधन्तु समासतः || सन्ति भेदोपभेदाश्च प्रत्येकं स्थलमत्र हि || ४२ || किंचात्र षट्स्थलब्रह्मस्वरूपविज्ञानार्थं पंचब्रह्माण्युच्यन्ते || पंचब्रह्ममूर्तयस्तावत्सद्योजातादयः || यजुरारण्यकान्तर्गततैत्तिरीयनारायणाद्युपनिषत्सु च सद्योजातादिपंचमन्त्रैः प्रतिपाद्यन्ते || तत्पंचब्रह्मस्वरूपलक्षणानि पृ० ८०) शैवागमपुराणेषु प्रसिद्धानि || ४३ || तावत्पौष्करे || ईशतत्पुरुषाघोरवामजातात्मिकाः क्रमात्ः || एतास्सदाशिवावस्था भोगस्याननपंचका इति || ४४ || वातुलागमे शुद्धाख्यतन्त्रे तत्वभेदपटले- पंचमूर्तिमयं देवं पंचतत्वात्मकं भवेत् || मूर्तानां देहभेदैस्तु गुणैः पंचाननैर्युतम् || ४५ || तत्र ब्रह्मभेदपटले || मूर्तिब्रह्म तथा पूर्वं तत्वब्रह्म द्वितीयकम् || भूतब्रह्म तृतीयं स्यात्पिंडब्रह्म चतुर्थकम् || ४६ || पंचमं च कलाब्रह्म पंचब्रह्म प्रकीर्तितम् || पंचपंचप्रकारेण पंचविंशतिभेदकम् || ४७ || इत्येवं पंचब्रह्मस्वरूपाण्यत्र दिऽऽन्मात्रेणोक्तानि || शुद्धाख्यतन्त्रे तत्वभेदपटलब्रह्मभेदपटलयोर्विस्तरतो द्रष्टव्यानि यानि यानि पंचब्रह्मस्वरूपाणि तानि सद्योजातादिक्रमेणाचारादिपंचलिंगस्वरूपाणि तत्पंचब्रह्मात्मकं परमशिवतत्वं परब्रह्मैव महालिंगमित्येतदेव षट्स्थलब्रह्मस्वरूपमिति शैवी परा स्थितिः || ४८ || ब्रह्मजाबालोपनिषदि- सद्योजातात्पृथिवीति वामदेवादुदकमिति अघोराद्वह्निरिति तत्पुरुषाद्वायुरिति ईशानादाकाश पृ० ८१) इति पंचब्रह्मणः क्रमेण पंचभूतानामुत्पत्तिरुच्यते || ४९ || सूतसंहितायां ज्ञानयोगखंडे-त्रयोदशाध्याये- एक एव शिवस्साक्षात्सत्यज्ञानादिलक्षणः || विकाररहितः शुद्धः स्वशक्त्या पंचधा स्थितः || ५० || तत्रैव सति शब्दस्तुसाक्षादीशानसंज्ञितः || स्पर्शतत्पुरुषो रूपमघोरः परिकीर्तितः || ५१ || वामदेवो रसः प्रोक्तो गंधस्सद्य उदाहृतः || सदाशिवेश्वरौ रुद्रो विष्णुर्ब्रह्मा च सुव्रताः || ५२ || शब्दादीनान्तु मात्राणां देवताः परिकीर्तिताः || ताश्चेशानादयः प्रोक्ताः क्रमेणैव मुनीश्वराः || ५३ || सर्वाण्येतानि विप्रेन्द्राः शिव एव न संशयः || एतानि शिवरूपेण पश्यन्मुच्येत बंधनात् || ५४ || अन्यानि यानि विप्रेन्द्राः पंचधा संस्थितानि च || तानि च ब्रह्मणः पंचब्रह्माणि स्युर्न संशयः || ५५ || पंचब्रह्मतया भिन्नं जगत्सर्वं चराचरम् || शिवरूपेण संपश्यन्मुच्यते भवबंधनात् || ५६ || अत एवाथर्वशिरसि || येनेदं पंचविधं च सर्वमित्युक्तम् || ५७ || पृ० ८२) ग्रन्थान्तरे- जगतः पंचकं बीजं पंचकस्य चिदद्वयम् || यद्बीजं तत्फलं विद्धि तस्माद्ब्रह्ममयं जगदिति || ५८ || शैवे वायवीयसंहितायामुपरिभागे कृष्णोपमन्युसंवादे- श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च || ईश्वरीमीश्वरस्यैनामीशानाख्यां विदुर्बुधाः || ५९ || त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् || पुरुषाख्यां विदुः पूर्वं पुराणार्थविशारदाः || ६० || चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च || अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः || ६१ || रसनाया उपस्थस्य रसस्यापां तथैव च || ईश्वरीं वामदेवाख्यां मूर्तिं मुनिवरा विदुः || ६२ || घ्राणस्य चैव वा पायोर्गन्धस्य च भुवस्तथा || सद्योजाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते || ६३ || विशेषार्थप्रकाशिकायाम्- नमः शिवाय सोमाय षट्स्थलब्रह्ममूर्तये || सच्चिदानंदरूपाय स्वानुभूतिकलात्मने || ६४ || नम आचारलिंगाय सद्योजाताय भूमये || विभूत्यैकप्रकाशाय नकारमनुमूर्तये || ६५ || नमः सद्गुरुलिंगाय वामदेवाय चांभसे || पृ० ८३) भसिताप्तप्रकाशाय मकारमनुमूर्तये || ६६ || नमस्ते शिवलिंगायाघोररूपाय वह्नये || भस्मदिग्धप्रकाशाय शिकारमनुमूर्तये || ६७ || नमस्ते चरलिंगाय तत्पुरुषाय वायवे || क्षाराभ्युक्तप्रकाशाय वकारमनुमूर्तये || ६८ || नमः प्रसादलिंगाय ईशानाकाशरूपिणे || रक्षालिप्तप्रकाशाय यकारमनुमूर्तये || ६९ || महालिंगाय ते पंचब्रह्मणे नम आत्मने || पराभूतिप्रकाशाय ओंकारमनुमूर्तये || ७० || नमस्त्वाचारलिंगाय नमस्त्वाचारलिंगिने || नमस्ते गुरुलिंगाय नमस्ते गुरुलिंगिने || ७१ || नमस्ते शिवलिंगाय नमस्ते शिवलिंगिने || नमस्ते चरलिंगाय नमस्ते चरलिंगिने || ७२ || नमः प्रसादलिंगाय नमः प्रसादलिंगिने || नमो माहात्मलिंगाय नमो माहात्मलिंगिने || ७३ || नमो भक्तांगरूपाय नमो भक्तांगरूपिणे || नमो माहेश्वरांगाय नमो माहेश्वरांगिने || ७४ || प्रसाद्यंगस्वरूपाय प्रसाद्यंगस्वरूपिणे || प्राणलिंगांगरूपाय प्राणलिंगांगरूपिणे || ७५ || नमस्ते शरणांगाय नमस्ते शरणांगिने || नम ऐक्यांगरूपाय नम ऐक्यांगरूपिणे || ७६ || पृ० ८४) इत्येवं तत्पदार्थलिंगस्थलस्वरूपलक्षणं निरूपितम् || वातुलागमे- अनाद्यन्तमजं लिंगं तत्पदं परमं प्रति || यद्गच्छति महाभक्त्या तदंगमिति निश्चितम् || ७७ || अं भवेत्परमं ब्रह्म तद्गतं तत्परायणम् || अंगस्थलमिति प्राहुरंगतत्वविशारदाः || ७८ || अंगस्थलं त्रिधा ज्ञेयमाचार्यैः सूक्ष्मदर्शिभिः || योगांगं प्रथमं प्रोक्तं भोगांगन्तु द्वितीयकम् || ७९ || त्यागांगन्तु तृतीयं स्यादेवमेव त्रिधा भवेत् || शिवयोगसुखावाप्त्या योगांगमिति गीयते || ८० || शिवेन सह भोगेन भोगांगमिति कथ्यते || संसारभ्रान्तिसन्त्यागात्त्यागांगमिति पठ्यते || ८१ || योगांगं कारणं प्रोक्तं भोगांगं सूक्ष्ममुच्यते || त्यागांगं स्थूलमित्युक्तमेवं भेदोपभेदतः || ८२ || सुषुप्त्यवस्था योगांगं भोगांगं स्वपनाभिधा || जाग्रमित्युदितावस्था त्यागांगमिति लक्ष्यते || ८३ || योगांगं प्राज्ञ एव स्याद्भोगांगं तैजसो भवेत् || त्यागांगं विश्व एव स्यात्परमार्थनिरूपणे || ८४ || इत्येवं त्रिप्रकारेण प्रोक्तमंगस्थलं क्रमात् || पृ० ८५) प्रत्येकं पृथगर्थत्वात् सांप्रतं प्रोच्यतेऽधुना || ८५ || योगांगमैक्यशरणस्थलमित्युभयं भवेत् || प्राणलिंगी प्रसादीति द्वयं भोगांगमिष्यते || ८६ || माहेश्वरस्थलं भक्तस्थलमित्युभयन्तथा || त्यागांगं च भवत्येव प्रोच्यते पारमार्थिकैः || ८७ || कारणं हि भवेदैक्यशरणेति द्वयात्मकम || सूक्ष्मं स्यात्प्राणलिंगीति प्रसादीत्युभयात्मिकम् || ८८ || स्थूलं माहेश्वरं भक्तमिति स्याद्द्वितयात्मकम् || प्राज्ञ एव भवेदैक्यस्थलं च शरणस्थलम् || ८९ || तैजसः प्राणलिंगी स्यात् प्रसादी च तथैव च || विश्वो माहेश्वरं भक्तस्थलं चैव भवत्यपि || ९० || ऐक्यन्तु शरणं नाम प्राणलिंगी प्रसादि च || माहेश्वरं भक्तमिति क्रमात् षट्स्थलमुच्यते || ९१ || स्थिता यत्र परा भक्तिर्विना संसृतिसंगतिम् || स्थलं तदेतदित्युक्तं स्थलशब्दार्थवेदिभिः || ९२ || शक्तिवैचित्र्यसंयोगपरिणामप्रभावतः || नामरूपक्रियाभिन्नषड्विधांगस्थलं भवेत् || ९३ || षट्स्थलेषु प्रविश्यैषा भक्तिः षड्विधरूपिणी || क्रमात्प्रवर्तते तत्र लक्षणोपाधिभेदतः || ९४ || पृ० ८६) मधुरादिषु यत्षट्सु प्रविश्य सलिलं यथा || तत्तदाकारतो भाति तथा भक्तिः स्थले स्थले || ९५ || षड्विधाकारतो भिन्ना भक्तिः साक्षाच्छिवात्मिका || षण्णामैक्यादिभक्तानां स्थलानां वर्तते पदे || ९६ || यथा शक्तिर्महत्संज्ञाद्याचारान्तेष्ववस्थिता || तथैवैक्यादिभक्तान्तेष्वियं भक्तिरवस्थिता || ९७ || भक्तिस्समरसाकारा प्रथमा परिगीयते || आनन्दाकारतो भाति द्वितीया भक्तिरुत्तमा || ९८ || तृतीयानुभवाकारा भक्तिर्भवविनाशिनी || चतुर्थी परमा भक्तिरवधानात्मिका मता || ९९ || पंचमी नैष्ठिका भक्तिः पष्ठिः सद्भक्तिरीरिता || श्रद्धाभक्तिसमेतानामंगानामनुपूर्वशः || पृथग्लक्षणसद्भावस्थितिरत्र निगद्यते || १०० || नाहं त्वमप्रथितशब्दविभेदवृत्तिर्न प्राणदेहमन इन्द्रियभौतिकानि || सर्वं भ्रमात्मकमिदं मयि नेति भावादैक्यस्थलं समरसं सुखरूपमाहुः || १०१ || ज्ञानप्रकाशबलतः स्वयमेव लिंगं देहेन्द्रियादि मम रूपमिति प्रबुद्धम् || पृ० ८७) युक्ते समस्तविषये सति यद्विशुद्धं यत्प्राहुरागमविदाः शरणस्थलं हि || १०२ || प्राणेन्द्रियादिषु ममाहमिति प्रमोहं संभ्रान्तिसिद्धमपहाय समस्तमेतत् || लिंगे निधाय मनसा यदनुप्रशस्तं तत्प्राणलिंगिसुचिरस्थलमाहुरार्याः || १०३ || आत्मोपभोग्यविषयाणि हि सावधानं द्रव्याण्यहंकृतिमतैरखिलैः स्ववर्गैः || लिंगे समर्प्य बहुशो लभते प्रसादं यत्तत्प्रसादिगदितं गुरुभिः स्थलं स्यात् || १०४ || आस्तिक्यबुद्धिनियमव्रतसत्यधर्मशौचादिलक्षणपरिस्फुटसच्चरित्रम् || लिंगैकनैष्ठिकतया सह वीरवृत्तं माहेश्वरस्थलमिति प्रवदन्ति सन्तः || १०५ || मिथ्यैव सत्यमिव भातमिदं शरीरप्राणार्थजालमिति तत्र निवृत्तचित्तम् || भक्तिक्रियाचरणयैव ततो विभक्तं भक्तस्थलं भवविकारविदूरमाहुः || १०६ || एवमेव क्रमात्प्रोक्तमैक्यादीनां सुवर्चसाम् || षड्विधाश्रमिणामेषां पृथगाचारलक्षणम् || १०७ || आविर्भूतैरथैतेषामीषद्भेदः प्रदर्श्यते || पृ० ८८) आत्मनाकाशसंभूतिराकाशाद्वायुसंभवः || १०८ || वायोरग्निसमुत्पत्तिरग्नेराप उदाहृतः || अद्भ्यः पृथिवीति संभूतिर्लक्षणैकप्रकाशतः || १०९ || ऐक्यादिभक्तपर्यन्ताश्रमिणां षट्स्थलात्मनाम् || अंगानामधुना तेषामंगलक्षणमुच्यते || ११० || आत्मांगमैक्यमेव स्याद्व्योमांगं शरणस्थलम् || वायवंगं प्राणलिंगी स्यादनलांगं प्रसादि च || १११ || माहेश्वरं जलांगं स्याद्भक्तं भूम्यंगमिष्यते || बिंदुनादकलाभेदास्त्रिविधानि विलोमतः || ११२ || षट्स्थलानि विभक्तानि द्वितयं द्वितयं क्रमात् || ज्ञानात्मकं स्थलं ह्यैक्यं शरणं प्राणलिंगि च || ११३ || क्रियात्मकं प्रसादी च माहेश्वरमथापरम् || ऐक्यन्तु शरणं नाम प्राणलिंगि प्रसादि च || ११४ || माहेश्वरं भक्तमिति प्रवृत्तिस्सृष्टिमार्गतः || एवमंगस्थलं प्रोक्तं षड्विधन्तु समासतः || इतः परं न वक्तव्यं शेषोऽन्यो ग्रन्थविस्तरः || ११५ || इत्येवं त्वंपदार्थांगस्थलस्वरूपलक्षणं निरूपितम् || ११६ || अत एवोक्तं स्कन्दपुराणे शांकरसंहितायाम् || यो मायोपाधिकः शंभुर्लिंगरूपी सदाशिवः || सोऽविद्योपाधिको भूत्वा भवत्यंगस्वरूपवानिति || ११७ || पृ० ८९) तत्पदेनोच्यते लिंगं त्वं पदेनांगमीरितम् || अनयोरैक्यभावोऽयं संबंधोऽसि पदेन तु || ११८ || सूतगीतायां द्वितीयाध्याये- अविद्योपाधिको जीवो न मायोपाधिकः खलु || मायोपाधिकचैतन्यं परमात्मा हि नापरमिति || ११९ || इत्यादिवचनप्रमाणेन ब्रह्मात्मैक्यस्वरूपं तत्त्वंपदार्थलिंगांगषट्स्थलसंयोगसद्भावरूपमेव षट्स्थलब्रह्म स्वरूपमिति विज्ञातव्यम् || १२० || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते वेदान्तसारवीरशैवचिन्तामणौ उत्तरखंडे लिंगांगषट्स्थलनिरूपणं नाम तृतीयप्रकरणं सम्पूर्णम् || श्री || श्री || पृ० ९०) प्रकरण ४ || ब्रह्मलिंगशब्दपर्यायनामत्वं वक्ष्यामः || अथातो ब्रह्मजिज्ञासेत्यादिसूत्रप्रतिपादितब्रह्मशब्दवाच्यं शिवरुद्रादिसंज्ञितं च लिंगमेवेति निरूप्यते || १ || तैत्तिरीये भृगुवल्ल्याम् || यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयान्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति || इत्येवं विश्वस्य प्रपंचस्य लयगमनकारणं लिंगमिति वक्तव्यम् || २ || वातुलागमे- लीयते गम्यते यत्र येन सर्वं चराचरम् || तदेव लिंगमित्युक्तं लिंगतत्त्वपरायणैरिति || ३ || छान्दोग्योपनिषदि || सदेव सोम्येदमग्रासीदेकमेवाद्वितीयं ब्रह्मेति तदेव लिंगमिति वक्तव्यम् || ४ || स्कान्दे शांकरसंहितायामुपरिभागे- लीनं गच्छति यस्मिन् सा माया दुर्घटकारिणी || तल्लिंगमिति सन्मात्रं रूप्यते पारमार्थिकैः || ५ || उत्तरवातुले- सन्मात्रं भावलिंगं स्यादिति निष्ठा महात्मन इति || ६ || पृ० ९१) ब्रह्माण्डपुराणे || परं गूढं शरीरस्थं लिंगं क्षेत्रमनादिवत् || यदाद्यमैश्वरं तेजस्तल्लिंगं पंचसंज्ञिकमिति || ७ || इत्यादिवचनप्रमाणाल्लिऽऽनशेषणे गमॢगताविति धातुद्वयान्निष्पन्नोऽयं लिंगशब्दः || ८ || श्वेताश्वतरोपनिषदि- त्रिषु धामसु यद्भोग्यं भोक्ता भोगं च यद्भवेत् || तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिव इति || ९ || एवं चिन्मात्रः सदाशिव एव लिंगमिति वक्तव्यम् || १० || तलवकारोपनिषदि- चक्षुः श्रोत्रं खलु देवो युनक्ति श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीरा इति || ११ || तत्रैव || न तत्र चक्षुर्गच्छति न वाग्वचति नो मनो न विद्म न विजानीमो यदैतदनुशिष्यादन्यदेवेति || १२ || तत्रैव || यद्वाचा नाभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यच्चक्षुषा येन पश्यति येन चक्षूंषि पश्यति तदेव ब्रह्म त्वं विद्धि पृ० ९२) नेदं यदिदमुपासते यच्छोत्रेण न श्रुणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते यत्प्राणेन न प्राणिति येन प्राणं प्रणीयते तदेतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति || १३ || बृहदारण्योपनिषदि- अन्तर्यामिब्राह्मणे- यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरोयं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरोऽयं मयत्येषत आत्मान्तर्याम्यमृतः इत्यारभ्य || एतत्प्रकारेणैव योऽप्सु तिष्ठन् यो अग्नौ तिष्ठन् यो वायौ तिष्ठन् योऽन्तरिक्षे तिष्ठन् यो वै दिवि तिष्ठन् य आदित्ये तिष्ठन् यो दिशि तिष्ठन् यश्चन्द्रतारके तिष्ठन् यस्तमसि तिष्ठन् यस्तेजसि तिष्ठन् यः प्राणे तिष्ठन् यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन् यश्श्रोत्रे तिष्ठन् यो मनसि तिष्ठन् यस्त्वचि तिष्ठन् यो विज्ञाने तिष्ठन् यो रेतसि तिष्ठन् इत्यादिभिः सर्वान्तर्यामित्वं चिन्मात्रत्वं चोक्त्वा दृष्टं द्रष्टा श्रुतं श्रोता मतो मन्ता विज्ञातो विज्ञाता नान्यतोऽस्ति द्रष्टा नान्यतोऽस्ति श्रोता नान्यतोऽस्ति मन्ता नान्यतोऽस्ति विज्ञातैष अन्तर्याम्यमृत इति ब्रह्मणः स्वप्रकाशत्वेन सर्वसाक्षित्वमुक्तं भवति || १४ || तत्रैव || स वा अयमात्मा ब्रह्मविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः पृ० ९३) श्रोत्रमयः पृथिवीमयः आपोमयो वायुमयस्तेजोमयस्तेजोमयः काममयः काममयः क्रोधमयः क्रोधमयो धर्ममयो धर्ममयः सर्वमय इति सर्वान्तर्यामित्वं सर्वमयत्वं चोक्तं इत्येवं पंचभूतेन्द्रियान्तःकरणादिषु अमृतशब्दवाच्योऽन्तर्यामिपरमात्मा शिवो व्यवस्थितस्स एव लिंगमिति वक्तव्यम् || १५ || मैत्रेयोपनिषदि- प्रजापतिमब्रुवन् भगवन् शकृतमित्यचेतनमिदं शरीरं कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य येनैतद्विधमेतच्चेतनवत्प्रतिष्ठापितम् || प्रचोदयिता वा अस्य को भगवन्नेतदस्माकं ब्रूहीति तान् होवाच || यो ह खलु वावोपरिस्थः श्रूयत्स [श्रूयते] वा एष शुद्धः पूतः शून्यस्यान्तो प्राणो निशात्मान्तोक्षस्य स्थिरः शाश्वतोजः [शाश्वतोजिः] स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचो इता वै इति || एवं चैतन्यमेव लिंगमिति वक्तव्यम् || १६ || यजुरारण्यके- तैत्तिरीये नारायणवल्ल्यां- तथा नारायणोपनिषदि कूचिरुद्रे || अणोरणीयानित्यनुवाके || ईशरुद्रमहेश्वरशब्दितस्य पृ० ९४) दहरविद्यां प्रस्तुत्य समनन्तरानुवाके सहस्रशीर्षं देवमित्यादिना केवलमहिमविशिष्टत्वमात्रेण नारायणमुपन्यस्य तस्योपासनादिक मनुक्त्वा || १७ || “पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् || अधोदिष्ट्या वितस्यान्तेनाभ्यामुपरि तिष्ठतिऽऽ || १८ || ज्वालामालाकुलं भाति विश्वस्यायतनं महदिति || दहरविद्यायाः महामहिमशालिनारायणस्य हृदयकमलपर्यवसानं कृत्वा || १९ || “तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः || सन्तापयन्ति स्वं देहमापादतलमस्तकम् || २० || तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता || नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा || २१ || नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा || तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थितः || २२ || इति नारायणस्य हृदयकमलमध्ये वह्निशिखान्तराले तद्विद्योपास्यं ज्योतिर्लिंगं परमात्मानं संकीर्त्य तदनन्तरानुवाके निधनाय नमः निधनपतन्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिंगाय नमः हिरण्याय नमः हिरण्यलिंगाय नमः सुवर्णाय नमः सुवर्णलिंगाय नमः दिव्याय नमः दिव्यलिंगाय नमः भवाय नमः भवलिंगाय नमः शर्वाय नमः शर्वलिंगाय नमः शिवाय नमः शिवलिंगाय नमः ज्वालाय नमः ज्वाललिंगाय नमः आत्माय नमः आत्मलिंगाय नमः परमाय नमः परमलिंगाय नमः इति विशिष्टमुपास्यस्वरूपं ज्योतिर्लिंगमित्युपन्यस्तम् || २३ || अस्यार्थः ऊर्ध्वाय नमः षट्त्रिंशत्तत्वातीताय नमः हिरण्याय आदित्यान्तर्वर्तिहिरण्मयपुरुषाय पृ० ९५) उत हिरण्मयज्योतिर्लिंगाय नमः सुवर्णाय शोभनवर्णाय स्वप्रकाशाय भवाय जगदुत्पत्तिहेतवे शर्वाय जगत्संहारकाय शिवाय अनादिपरिशुद्धाय ज्वालाय विधूमाग्निस्वरूपाय परंज्योतिषे आत्माय सर्वान्तरात्मने अत्रात्मशब्दस्याकारान्तश्छान्दसः परमाय परब्रह्मणे नमः उत तत्तन्नाम्ने लिंगमूर्तये नम इत्यर्थः || इत्यादिवचनप्रमाणात्परमात्मा शिव एव लिंगमिति वक्तव्यम् || २४ || वामनपुराणे- ततोऽव्ययात्मा स हरिः स्वहृत्पंकजवासिनम् || दर्शयामास देवानां मुरारिर्लिंगमैश्वरमिति || २५ || श्वेताश्वतरे- अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट इति || २६ || श्रुत्यन्तरे- गात्राय नमः गात्रलिंगाय नमः श्रोत्राय नमः श्रोत्रलिंगाय नमः नेत्राय नमः नेत्रलिंगाय नमः घ्राणाय नमः घ्राणलिंगाय नमः इत्याद्युपलक्षणेन सर्वभूतेन्द्रियान्तःकरणाद्यवच्छिन्नशिवचैतन्यमेव तत्तदुपाधिना तत्तन्नामधेयं शिवलिंगमित्यर्थः || २७ || अस्मिन्नर्थे उपबृंहणवाक्यानि पृ० ९६) शंकरसंहितायामुपरिभागे- वीरमाहेश्वरप्रशंसायाम्- लिंगं गमकमित्याहुरपरे लिंगवित्तमाः || गम्यते योगिभिर्धातोर्गमेर्ज्ञानार्थदर्शनात् || २८ || तथा निरूप्यते सद्भिर्लिगं चिन्मात्ररूपतः || एतस्मात्कारणाच्चापि प्रसिद्ध परमात्मनः || २९ || लिंगरूपत्वमीशस्य नीलकण्ठस्य शूलिनः || अत उक्तप्रकारेण लिंगरूपो महेश्वरः || इति वेदान्ततंत्रेषु गीयते तत्ववित्तमैरिति || ३० || सूतसंहितायाम् यज्ञवैभवखण्डे अष्टविंशाध्याये || अथातस्संप्रवक्ष्यामि शिवलिंगं समासतः || यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत् || ३१ || शिव एव भवेल्लिंगं लिंगं गमकमेव हि || शिवेन गम्यते सर्वं शिवो नान्येन गम्यते || ३२ || जडं हि गम्यतेऽनेन नाजडं मुनिपुंगवाः || शिवो नैव जडः साक्षात्स्वप्रकाशैकलक्षणः || ३३ || अस्वप्रकाशश्चेत्साक्षाच्छिवो नैव शिवो भवेत् || अस्वप्रकाशं कुड्यादि न शिवस्संमतं खलु || ३४ || शिवे सति मुनिश्रेष्ठाः स्वप्रकाशैकलक्षणे || अप्रतीतं भवेत्सर्वं ततः शून्यमशेषतः || ३५ || पृ० ९७) शून्यसिद्धिरपि श्रेष्ठाः शून्यो नैव च सिद्ध्यति || खलु सर्वात्मना भानविहीनं शून्यलक्षणम् || ३६ || अतः साक्षाच्छिवः सांबः स्वप्रकाशैकलक्षणः || तेन सर्वमिदं गम्यं गम्यतेऽसौ न गम्यते || स्वयं ज्योतिरिति प्राह श्रुतिस्साध्वी महेश्वरम् || ३७ || अतः शिवस्सर्वजगद्विभासकः स्वयंप्रकाशः स्वयमेव केवलः || मयोदितं लिंगमिति द्विजर्षभास्तदेव पूज्यं श्रुतिमस्तकस्थितम् || ३८ || शिवस्य लिंगं शिवलिंगमन्ये मुनीश्वरा वेदविदो वदन्ति || स्वयंप्रकाशस्य न युज्यते तत्ततश्च शंभुः स्वयमेव लिंगम् || ३९ || “विवेकहीनमर्त्यस्य चित्तवृत्त्याद्यपेक्षयाऽऽ || शिवस्य लिंगमित्ययं खस्समस्तजन्तुभिर्निगद्यते शिवस्स्वतः || प्रसिद्ध एव सर्वधा ततः शिवस्य लिंगमित्ययं खो न संगतः || ४० || शिवस्य लिंगं प्रवदन्ति केचिद्बहुप्रकारं व्यवहारदृष्ट्या || न तत्त्वदृष्ट्या परमेश्वरस्य स्वयंप्रकाशस्य न चास्ति लिंगम् || ४१ || वेदान्तविज्ञानपरात्मविद्यां शिवस्य लिंगं कथयन्ति केचित् || विचारजन्यामपि सत्यविद्यां ब्रुवन्ति चान्ये परमस्य लिंगम् || ४२ || शिवस्य लिंगं कथयन्ति मायां शिवस्य दृश्यां शिववस्तुनिष्ठाम् || पृ० ९८) वदन्ति केचिज्जनचित्तमन्ये त्वहंकृतिं चापि मनश्च बुद्धिम् || ४३ || प्राणं च केचित्प्रवदन्ति लिंगं शरीरमन्ये प्रवदन्ति लिंगम् || त्वगादिकानि प्रवदन्ति केचित्समूहमन्ये परमेश्वरस्य || ४४ || शब्दादिभूतानि महेश्वरस्य स्थूलानि भूतानि च संगिरन्ते || पाताललोकादिसमस्तमेतल्लिंगं महेशस्य वदन्ति केचित् || ४५ || यदस्ति यन्नास्ति महेश्वरस्य समस्तमेतत्प्रवदन्ति लिंगम् || विशुद्धविद्यापरयोगिनोऽस्य स्वयं प्रभुर्नैव न लिंगमूचुः || ४६ || यद्यल्लिंगतया शिवस्य कथितं तत्तज्जडं वस्तुतो लिंगं नैव भवेद्विशुद्धमतयो ज्ञानं हि लिंगं भुवि || तस्मादेव महेश्वरः परतरस्तत्तज्जडोपाधिकश्चिद्रूपः कथितः प्रभोर्गमकमित्यर्थः स्थितस्स्वस्य तु || ४७ || आलयं लिंगमित्याहुरपरे वेदवित्तमाः || तथापि शंकरस्साक्षाल्लिंगं नान्यन्मुनीश्वराः || ४८ || आलयो नाम चाधारस्सर्वाधारश्शिवः खलु || पृ० ९९) सदा सत्यस्वभावत्वात्सत्य एव शिवः खलु || ४९ || चिद्रूपं हि सदा सत्यं नाचिद्रूपं कथंचन || असत्यत्वस्य दृष्टत्वादचिद्रूपस्य वस्तुनः || ५० || शुक्तिकारजतादीनामसत्यत्वं हि सम्मतम् || अचेतनानामन्येषामसत्यत्वं निदर्शनम् || ५१ || शुक्तिकारजतं विप्राः सत एव ततश्शिवः || अतः कल्पितरूपाणामाधारो भगवांच्छिवः || ५२ || अनाधारो महादेवः सत्यचैतन्यलक्षणः || सर्वाधारस्य नाधारो विद्यते हि द्विजोत्तमाः || ५३ || आकाशस्य यथा कश्चिन्नाधारो विद्यते तथा || व्यावर्तयति चाधारः शिवस्य परमात्मनः || ५४ || स्वे महिम्नीति वेदान्तस्सत्यवादी स्वतः प्रमा || वेदान्तवाक्यं मानानामतिमानमिति स्थितिः || ५५ || अतः सत्यचिदानंदलक्षणः परमेश्वरः || स्वयमेव सदा लिंगं न लिंगं तस्य विद्यते || ५६ || संसारार्णवमग्नानामज्ञानां धीकृतात्मनाम् || चित्तपाकानुगुण्येन भावनार्थं द्विजर्षभाः || ५७ || अनाधारस्य देवस्य शिवस्य परमात्मनः || आधारो मन्त्रसंस्कारात्कल्पितस्सतवद्बुधाः || ५८ || पृ० १००) लयनाल्लिंगमित्याहुरपरे वेदवित्तमाः || तथापि लिंगं भगवान् स्वयमेव महेश्वरः || ५९ || लीयमानमिदं सत्यब्रह्मण्येव विलीयते || न लीयते परं ब्रह्म सदा सत्यस्वभावतः || ६० || शुक्तिकारजतादीनामसत्यानां द्विजर्षभाः || लयो दृष्टो न सत्यस्य शुक्तिकाशकलस्य च || ६१ || लीयते च शिवादन्यदशेषमशिवं शिवे || अतो लिंगं द्विजश्रेष्ठा अविनाशी हरस्स्वयम् || ६२ || अन्येऽपि योगिनो विप्रा आमनन्ति शिवस्य तु || आधारे च शरीरेऽस्मिंल्लिंगानि परमात्मनः || ६३ || ब्रह्मगीतायां चतुर्थाध्याये || अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वधा || संसारार्णवमग्नानां साक्षात्संसारमोचकः || ६४ || सर्वेषां च मनस्तेन प्रेरितं नियमेन च || विषये सति यः प्राणश्चेष्टते वाग्वदत्यपि || ६५ || चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं श्रुणोत्यपि || आत्मना येन सर्वाणि तेनैव प्रेरितानि तु || ६६ || स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् || प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः || ६७ || पृ० १०१) इन्द्रियाणां च सत्ता च नैव स्वाभाविकी मता || तप्तायःपिंडवत्तस्य तप्त एव सुरर्षभाः || ६८ || श्रोत्रं चात्मनि चाध्यस्तं स्वयन्देवो महेश्वरः || अनुप्रविश्य श्रोत्रस्य ददाति श्रोतृतां हरः || ६९ || मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः || मनस्त्वं तस्य सत्वस्थो ददाति नियमेन तु || ७० || वाचो वाक्त्वमनुप्राप्य प्राणस्य प्राणतां हरः || ददाति नियमेनैव चक्षुस्त्वं चक्षुषस्तथा || ७१ || अन्येषामिन्द्रियाणान्तु कल्पितानां महेश्वरः || तत्तद्रूपमनुप्राप्य ददाति नियमेन तु || ७२ || तत्र चक्षुश्च वाक्चैव मनश्चान्यानि तानि च || न गच्छंति स्वयंज्योतिस्स्वभावे परमात्मनि || ७३ || स देवो विदितादन्यस्तथैवाविदितादपि || वाचा च मनसा चैव चक्षुषा च तथैव च || ७४ || श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् || न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम् || ७५ || इत्यादिवचनप्रमाणात् षडाधारभूतेन्द्रियान्तःकरणादिष्ववच्छिन्नशिव् अचैतन्यमेव तत्तदुपाधिभिः क्रमेण शिवेशानतत्पुरुषाघोरवामदेवसद्योजातस्वरूपमहालिंगप्रसादलिंगचर लिंगशिवलिं- पृ० १०२) गगुरुलिंगाचारलिंगाह्वयषड्विधलिंगानि भवन्तीति शैवी परा स्थितिः || तत्प्रपंचः पूर्वोत्तरप्रकरणेषु बहुधा द्रष्टव्यः || ७६ || किंच तैत्तिरीये ब्रह्मवल्ल्याम् || सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् ब्रह्मणा विपश्चितेति || तस्माद्वा एतस्मादात्मन आकाशस्संभूत आकाशाद्वायुर्वायोरग्निरग्नेराप अद्भ्यः पृथिवी पृथिव्या ओषधय ओषधिभ्योऽन्नं अन्नात्पुरुष इत्यारभ्य || पंचकोशपरंपरायामानन्द आत्मा ब्रह्मपुच्छं प्रतिष्ठेत्यन्तं व्योमशब्दानंदशब्दवाच्यं ब्रह्मेत्युक्तं भवति || ७७ || तत्रैव || यतो वाचो निवर्तन्ते अप्राप्य मनसा सह || आनंदं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेत्युक्तम् || ७८ || तत्रैव || भीषस्मात्पवते वायुरित्यादिना तस्यैवालंघ्यशासनत्वमुक्तम् || ७९ || तत्रैव || शतगुणोत्तरानन्दप्रतिपादके || स एको मानुष आनन्द इत्यारभ्य || स एको ब्रह्मण आनन्द इत्यन्तेन ब्रह्मण आनंदशेषित्वमुक्तम् || ८० || तत्र भृगुवल्ल्याम् || यतो वा इमानि भूतानि जायन्त इत्यारभ्य || आनंदो ब्रह्मेति व्यजानात् आनन्दादेव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनंदं प्रयान्त्यभि- पृ० १०३) संविशन्ति तस्यैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठितेति अत्रानन्दशब्दव्योमशब्दयोरेकार्थत्वमुक्तम् || ८१ || तत्रैव ब्रह्मवल्ल्याम् || सोऽकामयत बहु स्यां प्रजायेयेति इदं सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशदित्यादिना जगज्जन्मादिकारणत्वं सर्वान्तर्यामित्वमुक्तं को हे वान्यत्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द यातीति अस्यार्थः || ८२ || चिदानंदरूपाकाशपदवाच्यशिवशक्तिर्यदि न स्यात् तर्हि लोके को वा प्राणी चेष्टादिचलनं कुर्यात् को वा प्राणी संचारमात्रमपि कुर्यात् आनंदस्योत्साहद्वारा प्रवृत्तिहेतुत्वात् सर्वनिधानस्य सर्वात्मकस्य आनन्दत्वयुक्तसिद्धमिति किंशब्दाभिप्रायः || ८३ || ब्रह्मगीतायाम् || असत्यस्मिन्परानन्दे स्वात्मभूतोऽपि चात्मनाम् || को जीवति नरो देवाः को वा नित्यं विचेष्टते || ८४ || तैत्तिरीये तु || आकाशशरीरं ब्रह्म सत्यात्मा प्राणारामं मन आनन्दं शान्तिसमद्धममृतमिति प्राचीनयोग्योपास्वेति आकाशपदवाच्यायाः शक्तेः पृ० १०४) परब्रह्मशरीरत्वेनोपास्यत्वमुक्तं तदेवाकाशशरीरं ब्रह्म लिंगमिति वक्तव्यम् || ८५ || सिद्धान्तशिखामणौ || महाकाशस्थले || संविदेव परा काष्ठा सदानंदस्वरूपिणी || यामाहुः परमाकाशं मुनयो मुक्तसंशयाः || ८६ || परमाकाशमव्यक्तं प्रबोधानन्दलक्षणम् || लिंगं ज्योतिर्मयं प्राहुर्लीयन्ते यत्र योगिनः || ८७ || यथा ज्योतींषि भासन्ते भूताकाशे पृथक्पृथक् || तथा भान्ति पराकाशे ब्रह्माण्डानि विशेषतः || ८८ || इत्यादिवचनप्रमाणाच्चिदाकाशस्वरूपः शिव एव लिंगमिति विज्ञातव्यम् || ८९ || किंच छान्दोग्योपनिषदि || सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तयन्ति आकाशो ह्येवैभ्यो जायानाकाशः परायणमिति एवं चिदाकाशरूपायाः शक्तेर्जगदुपानत्वमुक्तं इत्येतादृशबहुश्रुतिप्रसिद्धं चिदानंदरूपाकाशपदवाच्यशक्तिस्वरूपं पूर्वखण्डे शक्तिविशिष्टशिवाद्वैतविचारे कूर्मवाक्यभवानीवाक्यप्रणववा- पृ० १०५) क्यव्यासवाक्यशंकराचार्यवाक्यैर्विस्तरतो व्याख्यातं तदत्राप्यनुसंधेयम् || ९० || वायवीयसंहितायामुपरिभागे कृष्णोपमन्युसंवादे लिंगोद्भवाध्याये || साकल्येनाथर्वशिखार्थमवलंब्योच्यते कृष्ण उवाच || किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः || कथं च लिंगभावोऽस्य कस्मादस्मिन् शिवोच्यते || ९१ || उपमन्युरुवाच || अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाव्ययम् || अनाद्यनन्तं विश्वस्य यदुपादानकारणम् || ९२ || तदेव मूलप्रकृतिर्माया च गगनात्मिका || तत एव समुत्पन्नं जगदेतच्चराचरम् || ९३ || अशुद्धं शुद्धवच्छुद्धं शुद्धाशुद्धं च या त्रिधा || ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः || ९४ || भूतानि चेन्द्रियैर्जातां लीयन्ते च शिवाज्ञया || अत एव शिवो लिंगी लिंगमाज्ञापयेत्ततः || ९५ || ततो जातस्य विश्वस्य तत्रैव विलयो यतः || अनेन लिंगता तस्य भवेन्नान्येन केनचित् || ९६ || लिंगं च शिवयोर्देहं ताभ्यां यस्मादधिष्ठितम् || ततस्तत्र शिवस्सांबो नित्यमेव समर्च्यते || ९७ || लिंगवेदी महादेवी लिंगं देवो महेश्वरः || पृ० १०६) ततस्तत्पूजनादेव साक्षाद्देवौ समर्चितौ || ९८ || न तयोर्लिंगदेहत्वं विद्यते परमार्थतः || यतः स्वतो विशुद्धौ तौ देहस्तदुपचारत इति || ९९ || इदमेव षडध्वोपादानकारणं शुद्धमायाख्यं शिवतत्वं शिवस्य नित्याधिष्ठानरूपं महालिंगमिति वक्तव्यम् || १०० || एतन्महालिंगमेव पूर्वोक्तचिदंबरस्वरूपनिष्कलशिवलिंगस्य पीठमिति विज्ञातव्यं एवं पूर्वखण्डे उक्तं भवति || १०१ || बाष्कलसंहितायां लिंगसूक्ते || युद्धे संयुक्तावुभौ च दृष्ट्वा ब्रह्मविष्णू रजसा बद्धवैरौ मध्ये तयोर्दृश्यतोर्जातवेदाः स्थाणुरुद्रतिष्ठद्भुवनस्य गोप्ता दृष्ट्वा स्थाणुमुपरम्य युद्धं प्रतस्थतुर्दूरमना दिदृक्षुर्वराहो विष्णुर्निममज्य भूमौ ब्रह्मोत्पपात दिवमाशु गृध्रः इत्यादिना भुवनानामतिभ्राडित्युक्तम् || १०२ || अत एवोक्तं ऋग्वेदोपक्रमे || अग्निमीळए पुरोहितमिति || १०३ || अस्मिन्नर्थे कारणागमे || अग्निस्स भस्म न परो ह्यग्निमीळए पुरोहितम् || ऋगाहा- पृ० १०७) काशगश्शंभुर्योग्रजाग्निरिति श्रुतिः || १०४ || काशीखंडे देवीं प्रतीश्वरवाक्यम् || ज्योतिर्लिंगं त्वमेवार्ये लिंगी चाहं महेश्वरः || तदेतदविमुक्ताख्यं ज्योतिरालोक्यतां प्रिये || १०५ || जाबाले || अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनम् || सर्वेषां भूतानां ब्रह्मसदनमिति || १०६ || तत्रैव || एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति || उत्तमं चास्य स्थानं भ्रुवोर्घ्राणस्य मध्यमे || भुवोर्घ्राणस्य यस्संधिस्स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति || १०७ || मानवपुराणे || भुवोर्घ्राणस्य यस्संधिस्तत्र वाराणसी स्थिता || तत्राविमुक्तकं क्षेत्रं तस्मिन् रुद्रः सदा स्थितः || लिंगे ज्योतिस्स्वरूपेण साक्षाद्विश्वेश्वराभिध इति || २०८ || पुरुषसूक्ते मन्त्रोपनिषदि च तथा शिवसंकल्पे च || वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् [परस्थात्]|| १०९ || महालिंगपुराणे || लिंगमूर्तिश्शिवज्योतिस्तमसश्चोपरि स्थितम् || तदेव परमव्यक्तं प्रभामण्डलमंडितम् || तदक्षरं परंज्योतिस्तद्विष्णोः परमं पदमिति || ११० || पृ० १०८) शिवधर्मशास्त्रे || लिंगमध्ये जगत्सर्वं त्रैलोक्यं सचराचरम् || लिंगबाह्यात्परं नास्ति तस्माल्लिंगं प्रपूजयेदिति || १११ || रेणुकागमे || सिद्धान्तशिखामणौ लिंगनिजस्थले कामिकागमे च || अव्यक्तं लिंगमित्याहुर्जगतां मूलकारणम् || लिंगी महेश्वरश्चेति मतमेतदसंगतम् || ११२ || चिदानंदमयस्साक्षाच्छिव एव निरंजनः || लिंगमित्युच्यते नान्यद्यदस्माद्विश्वसंभवः || ११३ || वेदान्तवाक्यजां विद्यां लिंगमाहुस्तथा परे || ज्योतिर्मयं परं लिंगं श्रुतिराह शिवात्मकम् || ११४ || तस्य भासा सर्वमिदं प्रतिभाति न संशयः || न सूर्यो भाति तत्रेन्दुर्न विद्युन्न च पावकः || ११५ || न तारका महालिंगे द्योतमाने परात्मनि || तस्माल्लिंगं परं ब्रह्म सच्चिदानंदलक्षणम् || निजरूपमिति ध्यानात्तदवस्था प्रजायते || ११६ || कामिकागमे- पीठिका परमा शक्तिर्लिंगं साक्षात्परः शिवः || शिवशक्तिसमायोगाद्विश्वं लिंगं तदुच्यते || ११७ || अत एव ऋग्यजुस्सामाथर्वणान्तर्गतनानाशाखोपनिषत्समूह- पृ० १०९) रूपवेदस्कन्धाद्यादिमध्यावसाने च लिंगमेव प्रतिपादितमिति पूर्वखण्डे उक्तं भवति || ११८ || एवं ब्रह्मलिंगशब्दपर्यायनामत्वं प्रसिद्धमित्यलमतिविस्तरेण || ११९ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे ब्रह्मलिंगशब्दपर्यायनामत्वं चतुर्थप्रकरणं सम्पूर्णम् || श्री || श्री || पृ० ११०) प्रकरण ५ | || मुमुक्षुगुरुकारुण्यक्रमं वक्ष्यामः || रेणुकागमे सिद्धान्तशिखामणौ पिंडस्थले- बहुजन्मकृतैः पुण्यैः प्रक्षीणे पापपंजरे || शुद्धान्तःकरणो देही पिंडशब्देन गीयते || १ || शिवशक्तिसमुत्पन्ने प्रपंचेऽस्मिन् विकल्पिते || पुण्याधिकः क्षीणपापः शुद्धात्मा पिंडनामकः || २ || एक एव शिवस्साक्षाच्चिदानन्दमयो विदुः || निर्विकल्पो निराधारो निर्गुणो निष्प्रपंचकः || ३ || अनाद्यविद्यासंबंधस्तदंशाज्जीवसंज्ञिकाः || देवतिर्यऽऽन्मनुष्यादिजातिभेदे व्यवस्थिताः || ४ || मायी महेश्वरस्तेषां प्रेरको हृदये स्थितः || चन्द्रकान्ते यथा तोयं सूर्यकान्ते यथानलः || ५ || बीजे यथांकुरस्सिद्धस्तथात्मनि शिवः स्थितः || आत्मत्वमीश्वरत्वं च ब्रह्मण्येकृत्र कल्पितम् || ६ || बिंबत्वं प्रतिबिंबत्वं यथा पूषणि कल्पितम् || गुणत्रयविभेदेन परतत्वे चिदात्मनि || ७ || भोक्तृत्वं चैव भोज्यत्वं प्रेरकत्वं च कल्पितम् || गुणत्रयात्मिका शक्तिर्ब्रह्मनिष्ठा सनातनी || ८ || पृ० १११) तद्वैषम्यात्समुत्पन्ना तस्मिन्वस्तुत्रयाभिधा || परतत्वमयोपाधिब्रह्मचैतन्यमीश्वरः || ९ || किंचित्सत्वरजोरूपं भोक्तृसंज्ञकमुच्यते || अत्यन्ततामसोपाधिर्भोज्यमित्युच्यते बुधैः || १० || भोक्ता भोज्यं प्रेरयिता वस्तुत्रयमिदं स्मृतम् || अखंडे ब्रह्मचैतन्ये कल्पितं गुणभेदतः || ११ || अत्र प्रेरयिता शंभुश्शुद्धोपाधिर्महेश्वरः || स मिश्रोपाधयस्सर्वे भोक्तारः पशवः स्मृताः || १२ || भोज्यमव्यक्तमित्युक्तं शुद्धतामसरूपकम् || सर्वज्ञः प्रेरकः शंभुः किंचिज्ज्ञो जीव उच्यते || १३ || अत्यन्तगूढचैतन्यं जडमव्यक्तमुच्यते || उपाधिपुनराख्यातः शुद्धाशुद्धविभेदतः || १४ || शुद्धोपाधिः परा माया स्वाश्रया मोहकारिणी || अशुद्धोपाधिरप्येवमविद्याश्रयमोहिनी || १५ || अविद्याशक्तिभेदेन जीवा बहुविधाः स्मृताः || मायाशक्तिवशादीशो ङानामूर्तिधरः प्रभुः || १६ || सर्वज्ञः सर्वकर्ता च नित्यमुक्तो महेश्वरः || किंचित्कर्ता स किंचिज्ज्ञो बद्धोऽनादिशरीरवान् || १७ || अविद्यामोहिता जीवा ब्रह्मैक्यज्ञानवर्जिताः || पृ० ११२) परिभ्रमन्ति संसारे निजकर्मानुरूपतः || १८ || देवतियर्ऽऽन्मनुष्यादिनानायोनिविभेदतः || चक्रनेमिक्रमेणैव भ्रमन्ति हि शरीरिणः || १९ || जात्यायुर्भोगवैषम्यकारणं कर्म केवलम् || एतेषां देहिनां साक्षी प्रेरकः परमेश्वरः || २० || एतेषां भ्रमतां नित्यं कर्मयन्त्रनियन्त्रिणाम् || देहिनां प्रेरकः शंभुर्हितमार्गप्रदर्शकः || २१ || स्वकर्मपरिपाकेन प्रक्षीणमलवासनः || शिवप्रसादाज्जीवोऽयं संजातश्शुद्धमानसः || २२ || शुद्धान्तःकरणे जीवे शुद्धकर्मविपाकतः || जायते शिवकारुण्यात् प्रस्फुटा भक्तिरैश्वरी || जन्तुरन्त्यशरीरोऽसौ पिंडशब्दाभिधेयक इति || २३ || “अत्रानाद्यविद्यासंबंधात्तदंशा जीवसंज्ञकाःऽऽ इति वचनात् सर्वेषां जीवानां शिवांशत्वमुक्तम् || तस्मादेव जीवानां शिवस्वरूपत्वमुच्यते || २४ || हंसोपनिषदि || हृदये हंसमात्मानं ध्यायेदग्नीषोमौ पक्षावोंकारः शिरो बिंदुस्त्रिनेत्रं मुखो रुद्रो रुद्राणी चरणाविति शक्तिविशिष्टशिवाकारमुक्तम् || हृदये ध्येयहंसस्वरूपोपास्यस्य भजेऽहं सद्वंद्वं किमपि पृ० ११३) यमिनां मानसचरमिति भगवत्पादोक्ततात्पर्यानुसारेणैव शक्तिविशिष्टशिवस्वरूपत्वेन प्रकाशं दृश्यते || २५ || बोधायनोऽपि- हंसहंसेति यो ब्रूयाद्धंसो नाम सदाशिवः || अथात्मानं रुद्ररूपं ध्यायेत्त्रिनेत्रं पंचवक्त्रमिति || एवं हंसस्य शिवस्वरूपत्वमुक्तं भवति || २६ || ब्रह्मगीतायां सप्तमाध्याये- एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् || स्वात्मन्येव रतिक्रीडामन्यच्च कुरुते सदा || २७ || तत्रैव || दिव्ये ब्रह्मपुरे व्योम्नि शिवस्साक्षात्प्रतिष्ठितः || २८ || मनोमयः प्राणशरीरनेता प्रतिष्ठितः सर्वहृदंबुजांतः || २९ || तज्ज्ञानेन परिमुच्यन्ति यद्भाति चानंदवपुस्स्वभावात् || ३० || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः || क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरे || ३१ || तत्र षष्ठाध्याये || य एष दहराकाश इत्युक्तः परमेश्वरः || स देहादिविशेषेभ्यः पृथग्भूतः सनातनः || ३२ || जाग्रत्स्वप्नसुषुप्त्याख्यावस्था या भाति देहिनाम् || पृ० ११४) तस्या अपि महादेवः साक्षी भिन्नस्स्वयं प्रभुः || तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च || ३३ || तत्रैव || अतः सर्वाश्रयश्शंभुः सर्वव्यापी स्वभावतः || एष आत्मा परो व्यापी न पुण्यैस्सकलैःसदा || ३४ || पापैर्नापहतस्साक्षी विमृत्युर्विजरस्सुराः || विशोको विजिगित्सोऽपिपासः सत्यादिलक्षणः || सत्यकामस्तथा सत्यसंकल्पश्च सुरर्षभाः || ३५ || इत्यादिवचनप्रमाणात् || जीवः स्वस्मिन्व्यवस्थितशिवज्ञानेन मुक्तो भवति || ३६ || श्वेताश्वतरोपनिषदि- अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथगात्मानं प्रेरितारं च मत्वा || जुष्टस्तेनामृतत्वमेति || ३७ || तत्रैव || अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपापैः || ज्ञाज्ञौ द्वावजावीशानीशावजो ह्येको भोक्तृभोगार्थयुक्तः अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विदन्ते ब्रह्मैतदिति || ३८ || तत्रैव || पृ० ११५) अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमाणां सरूपाः || अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः || द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते || तयोरन्यः पैप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति || समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः || जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति || ३९ || मुण्डकोपनिषदि च - द्वासुपर्णावित्युपक्रम्य यदा पश्यं पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् || तदा विद्वान्पुण्यपापे विधूय निरंजनः परमं साम्यमुपैतीति || ४० || श्वेताश्वतरे- ज्ञात्वा देवं सर्वपापप्रहाणिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः || ज्ञात्वा शिवं शान्तिमत्यन्तमेति || ४१ || इत्यादिवचनप्रमाणाज्जीवस्य शिवज्ञानेन मोक्षप्राप्तिर्भवति || ४२ || श्वेताश्वतरे- स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् || ध्याननिर्मथनाभ्यासाद्देवं पश्यन्निगूढवत् || ४३ || तिलेषु तैलं दधिनीव सर्पिरापः स्रोतस्स्वरणिषु चाग्निरेवमात्माऽऽत्मनि पृ० ११६) गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितं आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परमिति || “अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैरितिऽऽ || ४४ || मुण्डके दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः || मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ये हृदयं सन्निधाय तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति || ४५ || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः || क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरे || ४६ || हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् || तच्छुभ्रं ज्योतिषां ज्योतिस्तद्वदात्मविदो विदुः || ४७ || ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति || ४८ || नानाशाखोपनिषत्सु च || अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमिति || पृ० ११७) धातुः परमेश्वरस्येत्यर्थः || ४९ || ब्रह्मगीतायां सप्तमाध्याये- द्वौ सुपर्णौ शरीरेऽस्मिन् जीवेशाख्यौ सह स्थितौ || तयोर्जीवः फलं भुंक्ते कर्मणो न महेश्वरः || ५० || प्रकाशते स्वयं भेदः कल्पितो मायया तयोः || यथाकाशो घटाकाशमहाकाशप्रभेदतः || ५१ || कल्पितः परचिज्जीवः शिवरूपेण कल्पितः || कल्पितश्च शिवस्साक्षाच्चिज्जीवश्च स्वतः सदा || ५२ || चिन्मात्रं हि सदा रूपमनयोः शिवजीवयोः || तथा सति कथं साम्यं चिन्मात्रे भेदवर्जिते || उपाधिकृतरूपेण तयोस्साम्यं भवेदिति || ५३ || तथापि नैव साम्यं स्याज्जीवस्य परमात्मनः || महाकाशसमत्वन्तु घटाकाशस्य सर्वथा || यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु || ५४ || छायातपौ ब्रह्मविदो वदन्ति शरीरभृच्छंकरसंज्ञितौ तौ || ५५ || शरीरभृत्कर्मफलं भुंक्ते भोजयिता शिवः || प्रतीते तु विरुद्धौ तौ भेदस्तूपाधिकस्तयोरिति || ५६ || विशेषार्थप्रकाशिकायाम् || स पश्यति शरीरं तच्छरीरं तन्न पश्यति || तौ पश्यति परः कश्चित्तावुभौ तन्न पश्यत इति || ५७ || पृ० ११८) मुण्डकोपनिषदि- तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति || ५८ || अत्र सन्यासवीरमाहेश्वरविरोधसमित्पाणित्वदर्शनात् || वेदान्तप्रकरणेषु पत्रपुष्पफलसहपाणिर्भूत्वा श्रीगुरुं गच्छेदिति वेदान्तिगुरुभिर्विधिवदुपसन्नत्वं व्याख्यातम् || तस्मै स विद्वान् प्रसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यां येनैष भूतस्तिष्ठत्यन्तरात्मा पुरुष एवेदं विश्वंकर्म तपो ब्रह्म परामृतं एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सौम्येति || ५९ || ब्रह्मगीतायाम् || सोऽयं स्वाविद्यया चात्मा शिवस्सन्नपि तत्वतः || स्वशिवत्वमविज्ञाय संसारीवावभासते || ६० || वेदोदितेन मार्गेण पारंपर्यक्रमेण तु || मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनैः || ६१ || सहितं शिवभक्त्या च गुरोः पादं प्रणम्य च || वेदान्तानां महावाक्यश्रवणेन तथैव च || ६२ || मननेन तथा चैव ध्यानेन परमात्मनः || प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वा याति शिवं परमिति ||| ६३ || पृ० ११९) तत्रैव एकादशाध्याये || आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् || यज्ञदानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति || योगात्संजायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा || ६४ || अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् || नाप्रशान्ताय दातव्यं नापुत्राय कदाचन || ६५ || अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा || त्रिपुण्ड्रधारणं चापि एतदत्याश्रमं बुधाः || ६६ || यस्य देवे परा भक्तिर्यथा देवे तथा गुरावित्यादि प्रसिद्धम् || ६७ || शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायामशीतितमाध्याये- नित्यानित्यविचारवानिह परत्रापेक्षितार्थारतिः शान्त्याद्यंगसमन्वितस्सुचरितो मोक्षार्थतौत्सुक्यवान् || सत्यानंदपरप्रकाशपरिपूर्णात्मावबोधान्वितं कृत्याकृत्यविवेकिनं गुरुवरं प्रेयान्नरो भक्तिमान् || ६८ || नत्वा भक्तिपुरस्सरं गुरुवरं विज्ञापयेत्पार्श्वतः स्थित्वा जन्मशतागताद्भवभयाद्भीतोऽस्मि मां पाहि भो || येनायं भवपादपोऽसुखफलश्शोषं पृ० १२०) समूलं प्रयात्यारात्कर्मबलेन तत्कथय मे मोक्षप्रदं सद्गुरो || ६९ || इत्युक्तं गुरुरादरेण कृपया शिष्यं समीपस्थितं स्पृष्ट्वा पाणितलेन साधु गदितं प्रीतोऽस्मि वत्स त्वया || संसारार्णवतारके परशिवे लिंगे स्वरूपेऽमले प्राणं जीवकलाधरं तव निधास्ये त्वं तथा स्याः परम् || ७० || इत्युक्त्वा पूर्णकलशं तण्डुलस्योपरि स्थितम् || अभिमन्त्र्य सतारेण श्रीमत्पंचाक्षरेण च || ७१ || स्वयं च प्राऽऽन्मुखो भूत्वा गोमयेनोपलेपिते || मण्डले स्थापितं शिष्यमुत्तराभिमुखं गुरुः || ७२ || अभिषेकं पुनः कुर्यात् कलशस्थोदकेन सः || शिष्यदेहे ततः शक्तिपातं कुर्यात्स्वविद्यया || ७३ || पीठस्थे शिवलिंगे तु शिष्यप्राणं निधाय च || लिंगं संस्थाप्य तत्प्राणे प्राणलिंगं भवेत्ततः || ७४ || दत्वा शिष्याय तल्लिंगं श्रद्धाभक्तियुताय च || पूजय प्राणलिंगं त्वं यावज्जीवं प्रतिज्ञया || ७५ || पुनर्भवो न ते वत्स विद्यते मा त्यजानिशम् || इत्युक्त्वाभिमुखं शिष्यमानीय कृपया पुनः || वीरमाहेश्वरं धर्मं क्रमादुपदिशेद्गुरुः || ७६ || पृ० १२१) वातुलागमे तन्त्रोत्तरप्रदीपाख्ये अनुभवसूत्रे-च || अतः संयोगसद्भावमुच्यते सांप्रतं मया || सम्यग्योगो हि संयोगो भवेल्लिंगांगसंगयोः || ७७ || ततो लिंगांगसंयोगविधिरत्र प्रदर्श्यते || ७८ || विधिः कर्तव्यरूपोपदेश इत्येव निश्चितः || उपदेशप्रसिद्ध्यर्थमाचार्यं भवतारकम् || ७९ || शिवविद्याप्रदातारमविद्याग्रन्थिभेदकम् || शिवसिद्धान्ततंत्रैककर्तारं परमं शिवम् || ८० || सदा लिंगांगसंयोगपरायणमनामयम् || उपगच्छेद्व्यर्थदेही स्वाविद्याविनिवृत्तये || ८१ || सोऽयमात्मा स्वयं साक्षाच्छिवस्यांशोऽपि तत्वतः || व्यवहारदशायान्तु संसारीव प्रकाशते || ८२ || संसारोऽविद्यया चास्य सत्यवत्परिकल्पितः || देहेन्द्रियादिसंघातेऽहं मम भ्रान्तिरूपतः || ८३ || स्वस्मिन्नवस्थिताविद्यामोहितः पुरुषः स्वकम् || शिवांशत्वं स्वकां भक्तिमविज्ञाय स्वकर्मणा || ८४ || कोऽहमित्यब्रवीद्देही गुरुं परमकारणम् || गुरुस्तत्त्वमसीत्याह सत्यार्थं करुणानिधिः || ८५ || अविद्याकृतकं सर्वमिदं देहेन्द्रियादिकम् || असत्यं भ्रान्तिसंसिद्धं सत्यवत्त्वयि वर्तते || ८६ || पृ० १२२) तस्मात्तत्कृतकभ्रान्तिविनाशार्थमहो तव || नित्यं लिंगांगसंयोगज्ञाननिष्ठत्वमावह || ८७ || लिंगं तत्पदमाख्यातमंगं त्वंपदमीरितम् || संयोगोऽसिपदं प्रोक्तमनयोरंगलिंगयोः || ८८ || इत्युक्त्वा पुरुषस्यास्य देशिकः करुणानिधिः || चक्रे दीक्षां महाशैवीमविद्यापाशकृन्तनीम् || ८९ || दीयते लिंगसंबंधः क्षीयते च मलत्रयम् || दीयते क्षीयते यस्य सा दीक्षेति निगद्यते || ९० || सा दीक्षा परमा शैवी त्रिधा भवति निर्मला || एका वेधात्मिका साक्षादन्या मन्त्रात्मिका मता || ९१ || क्रियात्मिका परा काचिदेवमेव त्रिधा भवेत् || हस्तमस्तकसंयोगछलाद्वेधेति गीयते || ९२ || गुरुणोदीरिता कर्णे या सा मान्त्रीति कथ्यते || शिष्यपाणितले दत्ता या दीक्षा सा क्रियोच्यते || ९३ || कृत्वा शैवीं परां दीक्षां दत्वा विद्यां शिवात्मिकाम् || छित्वाविद्यामयं पाशं कलामार्गं विचिन्तयेत् || ९४ || यथा कला तथा भावो यथा भावस्तथा मनः || यथा मनस्तथा दृष्टिर्यथा दृष्टिस्तथा स्थलम् || ९५ || पृ० १२३) सा कला परमा सूक्ष्मा तत्वानां बोधिनी परा || तामाकृष्य यथान्यायं लिंगे समुपवेशयेत् || ९६ || सबाह्याभ्यन्तरं साक्षाल्लिंगं ज्योतिःपरं स्वकम् || तिले तैलमिवाभाति चारण्यामिव पावकम् || ९७ || क्षीरे सर्पिरिव स्रोतस्यंबुवत् स्थितमात्मनि || तद्भागलक्षणां भक्तिं सुसूक्ष्मां परमामपि || ९८ || दर्शयामास शिष्यस्य देशिकः परमेश्वरः || तस्मिन्दृष्टे परे लिंगे निष्कले निरुपाधिके || ९९ || अस्य जीवस्य कर्माणि क्षीयन्ते सकलानि वै || अविद्याहृदयग्रन्थिश्च्छिद्यते शतधापि च || १०० || संशया बहुधा कल्पाश्च्छिद्यन्ते च सहस्रधा || हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् || तच्छुभ्रं ज्योतिषां ज्योतिस्तद्वदात्मविदो विदुरिति || १०१ || एवं तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति मुण्डकवाक्यानुसारेण || लिंगांगयोगतत्त्वज्ञं निरूढाद्वैतवासनम् || लिगांगस्थलभेदज्ञं श्रीगुरुं शिववादिनम् || १०२ || इत्यादिलक्षणयुक्तश्रीगुरुं गत्वा तस्मात् श्रीगुरोर्भक्त्याद्यनुमितसाधिकाराद्वीरशैवदीक्षां लब्ध्वा गुरुलिंगजंगमपूजाविभूतिरुद्राक्षधारणपा- पृ० १२४) दोदकप्रसादसेवनादिशिवाचारमनुतिष्ठति || ततो भक्तिशिवप्रसादाभ्यां शिवसाक्षात्कारद्वारेण जीवस्य पाशपराधीनपशुत्वनिवृत्तिर्भवति || तद्दीक्षाविधानमत्र दिऽऽन्मात्रेणोक्तं विस्तरेणैव शैवागमपुराणेषु शैवरत्नाकराद्याचार्यग्रन्थेषु प्रसिद्धम् || तदुत्तरप्रकरणे द्रष्टव्यम् || १०३ || शैवागमपुराणेषु- अदीक्षितश्चतुर्वेदी शिवलिंगं यदि स्पृशेत् || कल्पकोटिसहस्राणि भवति ब्रह्मराक्षसः || १०४ || अदीक्षितस्तु यो विप्रः कुर्याल्लिंगस्य पूजनम् || अरण्ये निर्जने देवि भवति ब्रह्मराक्षसः || १०५ || शिवरहस्ये- संध्या ध्यानं जपो होमः स्वाध्यायं पितृतर्पणम् || भस्मीभवति तत्सर्वं यल्लिंगं न तु धारयेत् || १०६ || वीरागमे- सर्वज्ञो वेदशास्त्रेषु सर्वज्ञस्तु शिवागमे || लिंगधारणहीनश्चेच्छुनिवन्मन्यते मया || १०७ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखंडे मुमुक्षुगुरुकारुण्यक्रमंनाम पंचमं प्रकरणं सम्पूर्णम् || श्री || श्री || पृ० १२५) श्रीशिवाय नमः || अथ दीक्षाविधिं वक्ष्यामः || अथ दीक्षायाः शक्तिपातमाह पौष्करे || समे कर्मणि संजाते कालान्तरवशात्ततः || पतत्युन्मीलिनी शक्तिस्तदानुग्रहरूपिणी || १ || यतः कर्मसमत्वेऽपि तदन्येषान्तु कर्मणाम् || आपाके परमेशाज्ञा विरुद्धान्यत्प्रदा भवेत् || २ || कर्मणोऽप्यस्य साम्येऽपि पक्वे तदितरेऽपि च || तं प्रत्येवैश्वरी शक्तिरुपसर्पति तच्छिवे [तच्छिरे]|| ३ || समत्वं कर्मणां नात्र निमित्तं तदनुग्रहे || परिपाको मलस्यैव किन्त्वनुग्रहकारणम् || ४ || मृगेन्द्रे || तमःशक्त्याधिकारस्य निवृत्तेस्तत्परिच्युतौ || व्यनक्ति दुष्क्रियानन्तं जगद्बंधुरणः [जगद्बंधुतमश्शिवः] शिवः || ५ || पौष्करपारमेश्वरे- तन्निपाताच्च तस्यैदमज्ञस्याप्यखिलात्मनः || बुद्धिरुत्पद्यते कस्माद्विवेकेनात्मवर्तिनाम् || ६ || येषां शरीरिणां शक्तिः पतत्येव निवृत्तये || तेषां तल्लिंगमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके शिवे || ७ || पृ० १२६) मृगेन्द्रोत्तरे- एभिर्लक्ष्यैरविच्छिन्नैः शक्तिपातो महात्मभिः || अनुमेयः सदीक्षैश्च शक्तिपातानुसारतः || ८ || मतंगपारमेश्वरे- विवेकिनो विरक्तस्य जिज्ञासा चोपजायते || जिज्ञासा चोपचैतन्यं पशुं संसारसागरात् || जिघृक्षया युनक्त्येनं युक्तं प्रेरयिता प्रभुः || ९ || पौष्करपारमेश्वरे- “अनुग्राह्यस्य विनये तथानुग्राहकस्य च || कारुण्ये च शिवः कर्ता तयोर्योगस्सुदुर्लभः || १० || पारमेश्वरे- विशिष्टं दीयते ज्ञानं क्षीयते पाशसंचयः || अनयोः शासने सिद्धा दीक्षा क्षपणदानयोः || ११ || सेयं दीक्षा द्विधा प्रोक्ता साधाराधारवर्जिता || आचार्यमन्तरेणैव क्रियते शंकरेण या || १२ || विज्ञानाकलनाम्नश्च प्रलयानलकस्य च [कलकस्य च]|| तीव्रशक्तिनिपातेन दीक्षा साधारवर्जिता || १३ || गुरुमूर्तिं समाश्रित्य मन्दशक्तिनिपातनात् || कुरुते सकलस्येशः साधारान्तामिमां विदुः || १४ || कारणागमे- सा दीक्षा त्रिविधा प्रोक्ता सबीजाबीजचिन्मया || पृ० १२७) यथाक्रमं कर्मभक्तिज्ञानखंडेषु ताः स्फुटाः || १५ || पारमेश्वरे- अथ निर्बीजदीक्षाया द्विधा भेदो निगद्यते || सद्यो निर्वाणदा त्वाद्या चिरं निर्वाणदा परा || १६ || प्रारब्धसंचितागामिकर्मजालं विशोध्यते || अतितीव्रेण पाकेन शरीरादिजिगुप्सया || १७ || ययाऽत्यन्तविरक्तानां सद्यो निर्वाणदा तु सा || प्रारब्धकर्मणां भोगाद्यया मुक्तिमनन्तरम् || यान्ति बालादयः सेयं चिरं निर्वाणदा भवेत् || १८ || तथा सिद्धान्तशेखरे- शिवस्यानुग्रहा दीक्षा जायते कर्तृकर्मणाम् || सा चानेकविधा प्रोक्ता तत्प्रपंचोऽयमुच्यते || १९ || समासाच्च द्विधैवेयं दीक्षा तज्ज्ञैरिहोच्यते || एका भवेज्ज्ञानवती क्रियावत्यपरा स्मृता || २० || विनेज्यानलकर्मादिमनोव्यापारमात्रतः || दीक्षा ज्ञानवती प्रोक्ता सम्यक्तत्वावबोधजा || २१ || इज्यानलवती या तु क्रियाकौशलसंभवा || क्रियावत्यथ सानैका निर्बीजाथ सबीजिका || २२ || तत्र निर्बीजिका या सा समायीपुत्रयोर्वरम् || सबीजा च भवेद्दीक्षा साधकाचार्ययोरपि || २३ || अथ निर्बीजिका दीक्षा प्रोक्ता सा द्विप्रकारिका || पृ० १२८) एका निर्वाणदा सद्यो द्वितीया देहपाततः || २४ || बालभावीशवृद्धस्त्रीभोगभुक्त्यर्थितात्मनाम् || भवेन्निर्बीजिका दीक्षा समयाचारशुद्धिदा || २५ || विदुषां च समर्थानां सबीजा परिकीर्तिता || सबीजा च द्विधा भिन्ना प्रथमा शिवधर्मिणी || २६ || आचार्यगोचरा प्रोक्ता साधिका लोकधर्मिणी || धर्माधर्मात्मकं कर्म प्रागागामि विचित्रकम् || २७ || संस्कृत्य शोध्यते यत्र सैवोक्ता शिवधर्मिणी || यत्र रुद्रपदे योगो योगो यद्वेश्वरे परे || २८ || अधर्मं संचितं सर्वं कर्मागामि विशोध्यते || धर्मावशेषतो यत्र सा दीक्षा लोकधर्मिणी || २९ || भौतिकी नैष्ठिकी चेति द्विधा सा शिवधर्मिणी || व्रतमोक्षसमायुक्ता भौतिकीति निगद्यते || ३० || भौतिका काम्यित्युक्तास्तत्संतानिक एव वा || शरीरपातपर्यन्तवृता सा नैष्ठिकी मता || ३१ || अथ निर्बीजदीक्षा या द्विधा भेदो निगद्यते || सद्यो निर्वाणदा त्वाद्या चिरं निर्वाणदा परा || ३२ || पृ० १२९) प्रारब्धसंचितागामिकर्मजालं विशोध्यते || ययात्यन्तविरक्तानां सद्यो निर्वाणदा परा || ३३ || प्रारब्धकर्मणां भोगाद्यथा मुक्तिमनन्तरम् || यान्ति बालादयः सेयं चिरं निर्वाणदा भवेत् || ३४ || चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा || शास्त्री च योगदीक्षा च होत्रीत्यादिरनेकधा || ३५ || चक्षुरुन्मील्य यत्तत्वं ध्यात्वा शिष्यं समीक्षयेत् || पाशबंधविमोक्षाय दीक्षेयं चाक्षुषी भवेत् || ३६ || निधाय दक्षिणे हस्ते शिवं सर्वांगसंयुतम् || संस्पृश्येच्छिष्यमूर्द्धादि स्पर्शदीक्षा भवेदियम् || ३७ || तत्वे चित्तं समाधाय बृंहितान्तरचेतसा || उच्चरेत्संहितामंत्रान् वाग्दीक्षेयं समीरिता || ३८ || मानसं विधिमाश्रित्य मानसे च विधीयते || शास्त्रस्य संप्रदानेन शास्त्रीदीक्षा प्रकीर्तिता || ३९ || योगेन योगदीक्षा स्याच्छिवत्वे सा व्यवस्थिता || राज्ञां कुंडवतीहोत्री सा द्विभेदाखिलोदिता || ४० || शक्तिपातविभेदेन पाशभेदेन सा भवेत् || शक्तिपातविभेदानां वक्ष्यते लक्षणं ततः || पृ० १३०) अधर्मधर्मयोस्साम्ये जाते शक्तिः पतत्यसौ || ४१ || कामिकागमे- आज्ञादीक्षादिभेदेन सा पुनः सप्तधा भवेत् || गुर्वाज्ञापालने दक्षा ज्ञानाज्ञेति प्रकीर्तिता || ४२ || पूर्वेषां समयाचारसदृशा चोपमा स्मृता || आरोप्य स्वस्तिकां शिष्यं गुरोरीक्षणकर्मणा || ४३ || स्वस्तिकाकलशस्नानादभिषेकाह्वया च सा || भूतिपट्टमया दीक्षा भस्मना या प्रकीर्तिता || ४४ || शिष्यस्य भाले गुरुणा समयाचारमार्गतः || आचार्यो लिंगमादाय स्वयमर्च्य यथाविधि || ४५ || शिष्यस्यालोकनं सम्यगायता परिकीर्तिता || प्रह्वीभूय ततश्शिष्यो लिंगं स्वीकृत्य भक्तितः || गुरो स्वायत्तमित्युक्ता सोत्तमांगादिधारणम् || ४६ || वातुलागमे- सा दीक्षा त्रिविधा प्रोक्ता वेधमन्त्रक्रियात्मिका || शिवासनमिति ध्यात्वा शिष्यमूर्ध्नि यथाक्रमम् || ४७ || यश्शिवत्वसमावेशो वेधा दीक्षेति सा मता || मन्त्रदीक्षेति सा प्रोक्ता मन्त्रमात्रोपदेशिनी || लिंगोपदेशिनी प्रोक्ता क्रियादीक्षा क्रियोत्तरा || ४८ || किरणागमे- गरुड उवाच || पृ० १३१) सर्वानुग्रहकर्तृत्वाद्बालबालिशयोगिनाम् || कर्तव्योऽनुग्रहोऽप्यत्र स च संस्कारपूर्वकः || ४९ || संस्कारेणैव मुक्तिः स्यात्प्रोक्ता तत्र यथा तथा || क्रियाज्ञानव्रतादीनामुपायानामहेतुता || ५० || भगवानुवाच || ये यथा संस्थितास्तार्क्ष्य तथैवेशप्रसादकृत् || केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव हि || ५१ || ज्ञानयोग्यास्तथाप्यन्ये चर्यायोग्यास्तथा परे || एवमेषां यथा प्रोक्तो मोक्षस्तेनैशयोजनात् || ५२ || ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते || दीक्षयैव हि मोक्षः स्यादुपायः स नियामकः || सर्वानुग्रहकर्तृत्वादुपायाः शंभुचोदिताः || ५३ || गरुड उवाच || सर्वानुग्राहकः प्रोक्तः शिवः परमकारणम् || द्विजादयस्तु ये वर्णा न्यूनाधिकतया स्थिताः || संस्कारोऽपि तथैव स्यात्फलमेवं किं भवेत् || ५४ || भगवानुवाच || न जातेर्वा शरीरस्य संस्कारः प्राणिनो मतः || यदि जातेस्तथैकस्मिन्दीक्षितेऽखिलदीक्षिताः || ५५ || पृ० १३२) तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः || चिद्रूपानुग्रहः प्रोक्तस्सर्वानुग्राहकश्शिवः || ५६ || सिद्धान्तशेखरे- शिवत्वं याति स तथा न पुनर्जीवतां व्रजेत् || रसविद्धं यथा ताम्रं ताम्रभावाद्विमुच्यते || ५७ || सुवर्णेन सहैकत्वं गतं तद्याति हेमताम् || नवनीतं यथा तप्तं तत्स्वभावं परित्यजेत् || ५८ || घृतस्वभावमापन्ने न पुनर्नवनीतताम् || यथा शुक्तिगतं तोयं मौक्तिकं जायते ध्रुवम् || ५९ || न पुनस्तोयतां याति मौक्तिकत्वं न मुंचति || एवं स शिवतां प्राप्तो न पुनर्जीवतां व्रजेत् || ६० || शिवत्वान्न च हीयेत विमुक्तो दीक्षया भवेत् || सा दीक्षा गुरुणा कार्या स गुरुः कथ्यतेऽधुना || ६१ || वातुलागमे- अनूचानः प्रसन्नात्मा शिवदीक्षाभिषेचितः || शिवागमज्ञो मतिमान् शिवपूजापरायणः || ६२ || मिताशी मितनिद्रश्च मितवाग्योगतत्परः || जितेन्द्रियो जितद्वंद्वस्तपोदानदयापरः || ६३ || पृ० १३३) नानाविकल्पविश्रान्तिमुपदेशात्करोति यः || सद्गुरुस्स तु विज्ञेयो न तु मिथ्याविजल्पतः || ६४ || गुरुश्च गुणवान् प्राज्ञस्सदानंदावभासकः || तत्ववित्सत्वसंपन्नो मुक्तिदो न तु चापरः || ६५ || गुरुलक्षणमित्युक्तं शिष्यलक्षणमुच्यते || गुरुशुश्रूषणे रक्तो मनोवाक्कायकर्मभिः || ६६ || शिवभक्तो विशेषेण जितद्वंद्वो गतस्पृहः || परीक्ष्य परितश्शिष्यमुत्तमं नीचकार्यतः || नीचं चोत्तमकार्येण ततो दीक्षां समाचरेत् || ६७ || वातुलागमे- आदिष्टो गुरुणा शिष्यः प्रभाते पुण्यवासरे || विधाय मंगलस्नानं धौतवस्त्रपरिच्छदः || ६८ || ललाटादिक्रमेणैव कुर्यात्त्रैपुण्ड्रकं मुदा || शिवक्षेत्रशिवारामसमीपे वा शुभे गृहे || ६९ || शिवालयसमीपे वा देशिकस्य गृहेऽपि वा || उपेत्याचार्यपादाब्जे प्रणम्य तदनन्तरम् || ७० || पूजयेत्स्वर्णपुष्पाद्यैर्भक्त्या वित्तानुसारतः || स्नातानलंकृतांश्च्छुद्धवाससो ऋत्विजस्ततः || ७१ || पुष्पाक्षतविभूत्याद्यैश्चतुरस्तान् प्रपूजयेत् || पृ० १३४) विभूतिं शिवभक्तेभ्यः सर्वेभ्यस्तदनंतरम् || ७२ || वृद्धानुक्रमतो दत्वा पुष्पाद्यैस्सम्यगर्चयेत् || अथ तेभ्यस्समस्तेभ्यो देशिकेन्द्रपुरस्सरम् || ७३ || यथा प्रदक्षिणं कृत्वा तांबूलानि समर्पयेत् || ततः प्रकल्पिते चाथ मंटपे वर्णमण्डले || ७४ || चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषणम् || षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा || ७५ || दर्भमालासमायुक्तं दिग्गजैरुपशोभितम् || वितानैश्चोर्ध्वमाच्छाद्य घंटाचामरभूषितम् || ७६ || दर्भमालापरिक्षिप्तं पुष्पमालावलंबितम् || फलपल्लवगंधाढ्यं धूपदीपसमन्वितम् || ७७ || शंखदुंदुभिनिर्घोषं ब्रह्मघोषसमन्वितम् || एवं मण्टपमासाद्य संभारं सर्वमाहरेत् || ७८ || मध्ये स्तंभचतुष्कं स्यात्तन्मध्ये वेदिका मता || अन्येषां मण्टपानान्तु वेदिः स्तंभवशाद्भवेत् || ७९ || वेदी चतुर्विधा तत्र चतुरस्रा च पद्मिनी || श्रीधरा सर्वतो भद्रा दीक्षासु स्थापनादिषु || ८० || चतुरस्रा चतुःकोणा वेदी सर्वफलप्रदा || पृ० १३५) दर्पणोदरसंकाशा निम्नोन्नतविवर्जिता || ८१ || मध्ये तस्या वेदिकायास्सुस्निग्धैस्तण्डुलैः स्थितैः || कृत्वा तु स्थण्डिलं पद्ममष्टदलं लिखेत् || ८२ || पंचस्वर्णादिकलशानाचार्यः स्थापयेन्नवान् || मृण्मयान्वापि कलशान् पक्वबिंबफलोपमान् || ८३ || अच्छिद्रान् परमन्तःस्थपाषाणस्फोटवर्जितान् || अग्नितप्तान् सुसंतप्तान् कालमण्डलवर्जितान् || ८४ || चतस्रो वीक्षणाद्याश्च कर्तव्याः शुद्धयः क्रमात् || एकं मध्ये चतुःकोणे चतुरस्तान्निधापयेत् || ८५ || ईशानं कर्णिकामध्ये पुरुषं पूर्वतोमुखम् || अघोरं दक्षिणे देशे वामदेवं तथोत्तरे || ८६ || सद्यं पश्चिमदिग्देशे विन्यसेत्कलशान् गुरुः || ह्रां ह्रीं ह्रूं ततो ह्रैं ह्रौं च बीजैरोंकारपूर्वकैः || ईशानादिनमोऽन्तैस्तु प्रोक्षयेत्कलशान् क्रमात् || ८७ || ते मन्त्राः || ओं ह्रां सद्योजाताय नमः || ओं ह्रीं वामदेवाय नमः || ओं ह्रूं अघोराय नमः || ओं ह्रैं तत्पुरुषाय नमः || ओं ह्रौं ईशानाय नमः इति || ८८ || प्रत्येकं नववस्त्रेण वेष्टयेद्देशिकोत्तमः || नवभिस्तन्तुभिश्शुद्धैः कलशान् पंच तान् गुरुः || तत्तत्क्रियोचितैर्द्रव्यैः पूजयेद्यतमानसः || ८९ || पृ० १३६) ते मन्त्राः || ओं स्रां निवृत्त्यै नमः || ओं स्रीं प्रतिष्ठायै नमः || ओं स्रूं विद्यायै नमः || ओं स्रैं शान्त्यै नमः || ओं स्रौं शान्त्यतीतायै नमः || ९० || अथ तत्कलशस्थानामंभसामभिमन्त्रणम् || श्रीमत्पंचाक्षरीमन्त्रेणाचार्यः प्रतिपादयेत् || ईशानस्य कलाः पंच मन्त्रमुच्चारयेद्गुरुः || ९१ || आचार्यो मध्यमस्यार्चां कुर्यात्पुष्पाक्षतादिभिः || ऋत्विजः प्रीतमनसो विदद्युरितरार्चनम् || ९२ || तन्मध्ये पूजयेदीशं पंचवक्त्रमुमापतिम् || अर्चनानन्तरे शिष्यं कृपया वीक्ष्य देशिकः || ९३ || तस्य दक्षिणदिग्भागे स्वस्तिकं तत्र कारयेत् || तन्मध्ये स्थापयेच्छिष्यमुत्तराभिमुखं गुरुः || ९४ || स्वयं च प्राऽऽन्मुखो भूत्वा शिवैकाहितमानसः || एवं शिष्यं समारोप्य स्वस्तिकं शुद्धमानसम् || ९५ || भूतादिकोशपर्यन्तशुद्धिरत्राभिधीयते || पृथिवीति च मंत्रेण पंचभूतविशोधनम् || ९६ || वाऽऽन्मनश्चेति मन्त्रेण पंचेन्द्रियविशोधनम् || शिरःपाणीति मन्त्रेण कर्मेन्द्रियविशोधनम् || ९७ || अन्तःकरणशुद्धिः स्यान्मन इत्यभिमन्त्रतः || त्वगेति मनुना धातुशुद्धिं कुर्यात्स देशिकः || ९८ || अन्येति मनुना कोशपंचकस्य विशोधनम् || पृ० १३७) प्राणापानेति मन्त्रेण पंचप्राणान्विशोधयेत् || ९९ || ते मन्त्रास्तु || यजुरारण्यके- नारायणोपनिषदि-पृथिव्यप्तेजोवायवाकाशा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा वाऽऽन्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिसंकल्पा मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || शिरः पाणिपादपृष्ठोरूदरजंघाशिश्नोपस्थापायवो मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || मनोवाक्कायकर्माणि मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा त्वक्कर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || प्राणापानव्यानोदानसमाना मे शुध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || किंच बोधायने || प्राणापानादित्रयोदशमन्त्रैः षट्त्रिंशत्तत्वशुद्धिः कर्तव्या भवति दीक्षायां षडध्वशुद्धिस्तु शैवागमेषु वायवीयसंहितादिपुराणेषु प्रसिद्धा भवति || अत्र विस्तरभयान्न लिख्यते तत्र द्रष्टव्या || १०० || अभिषेकं ततः कुर्यात्कलशोदकवारिणा || अभिषिंचेत्स्वयं प्राज्ञश्चोद्धृत्य कलशान् गुरुः || हृदयादिषु चांगेषु हरस्यांगैर्यथा क्रमम् || १०१ || ते मन्त्राः || ओं ह्रां हृदयाय नमः || ओं ह्रीं शिरसे स्वाहा || ओं ह्रूं शिखायै वषट् || ओं ह्रैं कवचाय हुं || ओं ह्रौं नेत्रत्रयाय वौषट् || ओं ह्रः अस्त्राय फट् || एते शिवषडंगमन्त्राः || १०२ || प्रोक्षयेद्वा स ऋत्विग्भिस्सदूर्वांकुरपल्लवैः || पृ० १३८) केचिदुद्धृत्य कलशानभिषिंचन्ति देशिकाः || १०३ || उद्धृत्य वा ततः कुर्यात्प्रोक्षणं शिष्यमूर्धनि || संप्रोक्ष्य पंचकलशान् सदूर्वांकुरपल्लवान् || १०४ || स्वस्वस्थानेषु कलशान् सन्निधाय प्रयत्नतः || उद्धृत्य च यथापूर्वं कुर्यात्तत्प्रोक्षणं पुनः || १०५ || स्थापयित्वा पुनस्तांस्तान् कलशान् स्वस्वभूमिषु || उद्धृत्य पूर्ववत्कुर्यात् प्रोक्षणं शिष्यमूर्धनि || इत्थं त्रिवारमाचार्यः कृत्वा तस्याघमर्षणम् || १०६ || वायवीयसंहितायामुपरिभागे कृष्णोपमन्युसंवादे || दीक्षाविधानाध्याये || अंगवक्त्रकलाभेदात्पंचब्रह्मणि विन्यसेत् || शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् || १०७ || ईशानस्य कलाः पंच पंचस्वेतेषु च क्रमात् || ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि || १०८ || चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः || हृत्कंठास्येषु नाभौ च कुक्षौ पृष्ठे च वक्षसि || १०९ || अघोरस्य कलाश्चाष्टौ योजनीया यथाक्रमम् || पश्चात्त्रयोदश कलाः पायुमेढ्रोरुजानुषु || ११० || जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् || सद्याद्याश्च कला अष्ट पादयोरपि हस्तयोः || १११ || पृ० १३९) घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः || अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः || ११२ || आचार्यो दक्षिणे हस्ते सांगं संपूज्य शासनम् || शिवं ध्यात्वा चिदानंदं विदद्याच्छिष्यमस्तके || ११३ || एतत्पंचब्रह्मकलान्यासमन्त्रास्तु + + रुद्रसंहितायाम्- सव्यं प्रक्षाल्य हस्तन्तु कृत्वा गंधाद्यलंकृतम् || न्यसेद्ब्रह्माणि शाखासुं तासु पंचस्वनुक्रमात् || ११४ || गंधमण्डलकं कृत्वा वामांगुष्ठेन मध्यतः || विन्यसेत्तत्र देवेशं विद्याराजं परं शिवम् || ११५ || पूजयेदर्घ्यपाद्यैस्तु गन्धधूपपवित्रकैः || ११६ || शिवहस्त इति प्रोक्तः पाशानां शासने शुभम् || शिवतेजोमयं पाणिं शिवमन्त्रमुदीरयन् || ११७ || शिवहस्तं विधायाथ शिष्यस्य शिरसि न्यसेत् || ततः शिवासनं ध्यात्वा शिष्यमूर्धनि देशिकः || ११८ || नादबिंदुयुतं पीठं चिन्तयेन्मनसा गुरुः || तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् || ११९ || ज्वलत्कालानलाभासतटित्कोटिसमप्रभा || तस्योर्ध्वं च शिखा साक्षाच्चिद्रूपा परमा कला || १२० || पृ० १४०) यथा कला तथा भावो यथा भावस्तथा मनः || यथा मनस्तथा दृष्टिर्यथा दृष्टिस्तथा स्थलम् || १२१ || सा कला परमा सूक्ष्मा तत्वानां बोधिनी परा || तामाकृष्य यथान्यायं लिंगे समुपवेशयेत् || १२२ || सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके || पंचवारं जपेन्मंत्रं मूलमष्टोत्तरं शतम् || १२३ || प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थिरो भव || इति विज्ञाप्य तं शंभुं तेजसा भास्वरं स्मरेत् || १२४ || तल्लिंगं स्थाप्य तच्छिष्ये प्राणलिंगमिदं तव || एवमुक्तस्सदा लिंगं न कदाचिद्वियोजयेत् || कर्णे शिष्यस्य शनकैः शिवमन्त्रमुदीरयेत् || १२५ || सिद्धान्तशेखरे- आचार्यो मूलमन्त्रेण कर्ममायामलापहम् || मूलमन्त्रमतिस्पष्टं घण्टानादविनिश्रुतम् || १२६ || नानारत्नप्रतीकाशवर्णराजिविराजितम् || चरद्विद्युल्लताकारं द्वादशान्ताद्विनिर्गतम् || १२७ || सानन्दं निर्गतं तस्माच्छिष्यश्रोत्रे समुच्चरेत् || मूलमन्त्रं समुच्चार्य त्रिधा तं वाचयेच्छिशुम् || १२८ || पृ० १४१) तन्मन्त्रमहसोत्फुल्लशिष्यलोचनबंधनम् || उन्मुच्य क्षेपयेत्पुष्पमकामाल्लिंगमूर्धनि || मन्त्रतेजःप्रफुल्लाक्षो दृष्ट्वा तं प्रणमेच्छिशुः || १२९ || वातुलागमे- प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थिरो भव || इति विज्ञाप्य तं शंभुं तेजसा भास्वरं स्मरेत् || १३० || मम पंचाक्षरीमन्त्रमुपांशूपदिशेद्गुरुः || कर्णे शिष्यस्य शनकैः शिवमन्त्रमुदीरयन् || १३१ || स तु बद्धांजलिः शिष्यो मन्त्रतद्गतमानसः || शनैस्तं व्याहरेच्छिष्यः शिवाचार्यस्य शासनात् || १३२ || पाशानशेषान् कर्तर्या छित्वा लिंगं समादिशेत् || कर्तरी ज्ञानशक्तिः स्याद्यया पाशान् छिनत्त्यसौ || १३३ || वातुलागमे शुद्धाख्यतन्त्रे मन्त्रकीलपटले- शिवकुंभं समासाद्य स्थंडिलादिषु पूर्ववत् || शिवकुंभे शिवं पूज्य भक्तानन्यांश्च तोषयेत् || १३४ || अत्र पूर्ववदिति पूर्वोक्तशुद्धशैवदीक्षाविधानप्रोक्तप्रकारेणेत्यर्थः || शेषं दीक्षोक्तवत्कृत्वा मलपाशादिमोचनम् || पृ० १४२) गुरुः शिष्यं समालोक्य तत्वदेहं विचिन्तयेत् || १३५ || शिवकुंभस्थतोयेन अभिषिंचेच्छिवाणुना || नादं बिंदुं कलां नीत्वा तत्तत्स्थानेषु विन्यसेत् || १३६ || षट्चक्रं च षडंगं च षडध्वानं षडानन || तत्तत्स्थानेषु विन्यस्य पंचब्रह्म न्यसेत्ततः || १३७ || मूलमन्त्रं चोपदिशेत्ततो लिंगं प्रदापयेत् || शेषाणि सर्वकर्माणि दीक्षाध्वोक्तक्रमाच्चरेत् || १३८ || देहप्राणं समायोज्य प्राणलिंगे प्रकल्पयेत् || अविनाभावसंयोगात्तस्मादैक्यं प्रकल्पयेत् || १३९ || शांकरसंहितायां वीरमाहेश्वरप्रशंसायांकरपीठकथनाध्याये- पूजय प्राणलिंगं त्वं यावज्जीवं प्रतिज्ञया || पुनर्भवो न ते वत्स विद्यते मा त्यजानिशं || १४० || इत्युक्त्वाभिमुखं शिष्यमानीय कृपया प्लुतः || वीरमाहेश्वरं धर्मं क्रमादुपदिशेद्गुरुः || १४१ || शिवरहस्ये- वीरशैवाभिषिक्तानां भक्तानामर्हणास्पदम् || गर्भावरणमीशस्य सूच्यते सूक्ष्मरूपतः || १४२ || पंचब्रह्मशिवांगैश्च पूजयेत्पूर्ववत्तथा || एकावरणमेवोक्तं पूजयेद्देशिकस्तथा || १४३ || इति वचनाद्वीरशैवानां पंचब्रह्मषडंगात्मकगर्भावरणसमेतशिवलिंगार्चनं कर्तव्यं पृ० १४३) तदितरावरणार्चनं न कर्तव्यमित्यर्थः || १४४ || शांकरसंहितायाम्- पूजयेदवधानेन लिंगं तद्गुरुणार्पितम् || प्रमादात्पतिते लिंगे सह प्राणान्परित्यजेत् || १४५ || वातुलागमे- उत्तमांगे गले वापि कक्षे वक्षःस्थलेऽपि वा || तथा हस्ततले वापि प्राणलिंगं धरेत्सुधीः || १४६ || गच्छन् तिष्ठन् स्वपन् जाग्रन्नुन्मिषन्निमिषन्नपि || शुचिर्वाप्यशुचिर्वापि लिंगं सर्वत्र धारयेत् || १४७ || अस्मिन्नर्थे सिद्धान्तशिखामणौ- अगस्त्यं प्रति रेणुकगणेशवाक्यम् || दीक्षा च त्रिविधा प्रोक्ता शिवागमविशारदैः || वेधारूपा मन्त्ररूपा क्रियारूपा च तापस || १४८ || गुरोरालोकमात्रेण हस्तमस्तकयोगतः || यच्छिवत्वसमावेशो वेधादीक्षेति सा मता || १४९ || मन्त्रदीक्षेति सा प्रोक्ता मन्त्रमात्रोपदेशिनी || कुण्डमण्डलकोपेता क्रियादीक्षा क्रियोत्तरा || १५० || शुभमासे शुभतिथौ शुभकाले शुभेऽहनि || विभूतिं शिवभक्तेभ्यो दत्वा तांबूलपूर्वकम् || १५१ || यथाविधि यथायोगं शिष्यमूर्ध्नि यथाविधि || पंचब्रह्ममयैस्तत्र स्थापितैः कलशोदकैः || १५२ || आचार्यस्तु सृत्विग्भिस्त्रिः शिष्यमभिषिंचयेत् || पृ० १४४) अभिषिच्य गुरुः शिष्यमासीनं पुरतः शुचिम् || १५३ || ततः पंचाक्षरीं शैवीं संसारभयतारिणीम् || तस्य दक्षिणकर्णे तु निगूढमपि कीर्तयेत् || १५४ || छन्दो रूपमृर्षिं चास्य देवतान्यासपद्धतिम् || स्फाटिकं शैलजं वापि चन्द्रकान्तमयन्तु वा || १५५ || बाणं वा सूर्यकान्तं वा लिंगमेकं समाहरेत् || सर्वलक्षणसंपन्ने तस्मिन् लिंगे विशोधिते || १५६ || पीठस्थितेऽभिषिक्ते च गन्धपुष्पादिपूजिते || मन्त्रपूते कलां शैवीं योजयेद्विधिना गुरुः || १५७ || शिष्यस्य प्राणमादाय लिंगे तत्र निधापयेत् || तल्लिंगं तस्य तु प्राणे स्थापयेदेकभावतः || १५८ || एवं कृत्वा गुरुर्लिंगं शिष्यहस्ते निधापयेत् || प्राणवद्धारणीयन्तु प्राणलिंगमिदं तव || १५९ || कदाचित्कुत्रचिद्वापि न वियोजय देहतः || यदि प्रमादात्पतिते लिंगे देहान्महीतले || १६० || प्राणान्विमुंच सहसा प्राप्तये मोक्षसंपदः || इति संबोधितः शिष्यो गुरुणा शास्त्रवेदिना || १६१ || धारयेच्छांकरं लिंगं शरीरे प्राणयोगतः || लिंगस्य धारणं पुण्यं सर्वपापप्रणाशनं || १६२ || शांकरसंहितायां- यथा पक्कफलं वृक्षात्पतनं लभते स्वतः || पृ० १४५) तथा सर्वाणि कर्माणि पतन्ति शिवयोगिनां || १६३ || स्वप्नकाले कृतं पापं ब्रह्महत्यादिकं च यत् || यथा प्रबोधसमये तन्मिथ्या भवति स्वयं || १६४ || तथा कृतं महापापं लिंगधारणतः पुरा || यदस्ति तल्लयं याति लिंगधारणतः परं || १६५ || अनेन सदृशं धर्मं न पश्यामि षडानन || वेदमन्त्रपुराणेषु सत्यं सत्यं मयोदितं || १६६ || सिद्धान्तशिखामणौ आह्वाननिरसनस्थले- यदा शिवकलायुक्तं लिंगं दद्यान्महागुरुः || तदारभ्य शिवस्तत्र तिष्ठत्याह्वानमत्र किम् || १६७ || ससंस्कारेषु लिंगेषु सदा सन्निहितः शिवः || तथाह्वानं न कर्तव्यं प्रतिपत्तिविरोधतः || १६८ || नाह्वानं न विसर्गं च स्वेष्टलिंगे तु कारयेत् || लिंगनिष्ठापरो नित्यमिति शास्त्रविनिश्चयः || १६९ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे दीक्षाविधानं नाम षष्ठप्रकरणं संपूर्णम् || पृ० १४६) || श्रीशिवाय नमः || || लिंगधारणविधिं वक्ष्यामः || ननु लिंगधारणं बोधायनापस्तंभीयादिसूत्रकारैरनुक्तत्वादननुष्ठेयमिति चेदत्र ब्रूमः || चतुर्वेदतात्पर्यसंग्रहे- प्रत्यक्षवेदविदितं प्रथितं पुराणे बोधायनेन मुनिना बहुशः प्रणीतम् || सर्वार्थदर्शनविधेरपि गृह्यकारैर्यज्ञोपवीतमिव विस्मृतमर्चनन्ते || १ || इति हरदत्ताचार्यवाक्यात् गृह्यकारैर्नानावेदागमपुराणेतिहासप्रसिद्धशिवार्चनं यज्ञोपवीतमिव विस्मृतं तद्वदेव लिंगधारणमपि तैर्विस्मृतमिति विज्ञातव्यम् || प्रत्यक्षबहुवेदागमपुराणेतिहासेषु प्रसिद्धत्वान्मुमुक्षुभिर्लिंगधारणं कर्तव्यमिति वक्तव्यम् || २ || किंचाज्ञानावृतस्यास्याज्ञानं निवृत्य ज्ञानं ददाति लीनमर्थं गमयति चेति लिंगं तस्माल्लिंगधारणं कर्तव्यम् || ३ || किंच गृह्यकारैः कर्मांगविधिप्रतिपादनश्रवणादुपनिषत्प्रतिपादितस्य लिंगधारणस्य ज्ञानांगत्वेन तैरनुक्तमित्यत्र को दोषः तावल्लिंगधारणं पृ० १४७) प्रत्यक्षश्रुत्यैव विधीयते || ४ || यजुरारण्यके नारायणोपनिषदि कूचिरुद्रे तथा तैत्तिरीये महोपनिषदि च || निधनाय नमः निधनपतन्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिंगाय नम इत्यारभ्य || एतत्सोमस्य सूर्यस्य सर्वलिंगं स्थापयति पाणिमन्त्रं पवित्रमिति लिंगधारणमुच्यते अत्र सर्वलिंगं स्थापयतीति वाक्येन लिंगस्थापनं विधाय लिंगस्थापनस्याधिकरणं किमित्याकांक्षायां पाणिमन्त्रं पवित्रमिति लिंगविशेषणात्पाण्यादौ धारणं विधीयते || पाणौ मननात्त्रायत इति पाणिमन्त्रं पवित्रमिति यज्ञोपवीतं परमं पवित्रमितिवत् शौचाचमानाद्यपावित्र्यप्रसक्तिसमये पवित्रविधानात्सर्वदापि धार्यत्वं प्रतीयते || ५ || स्कान्दपुराणे || सोमस्यैतच्छक्तिरूपं सूर्यस्यैतच्छिवात्मकं || पाणौ च मननात्त्रातं लिंगं सर्वशिलामयं || संस्थापयेत्सदा देहे पवित्रमुपवीतवत् || ६ || तैत्तिरीये नारायणवल्ल्यां नारायणोपनिषदि च ओं नमो ब्रह्मणे पृ० १४८) धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माचोढ्वं ममामुष्यजमिति || अस्यार्थः नमो ब्रह्मणे इति “ब्रह्मणस्पतिरीशोऽयं ब्रह्म तल्लिंगमुच्यतऽऽ इति स्कन्दपुराणवाक्यात् || ब्रह्मेति लिंगमाख्यातं ब्रह्मणस्पतिरीश्वर इति सिद्धांतशिखामणिवाक्यात् || अलिंगमेकमव्यक्तं लिंगं ब्रह्मेति निश्चितम् || स्वयं ज्योतिः परं तत्वं परे व्योम्नि व्यवस्थितमितीश्वरगीतावाक्यात् || ब्रह्मणे लिंगमूर्तय इति लिंगपुराणवाक्यात् || ज्योतीरूपे परोक्षे लिंगाख्ये ब्रह्मरूपे इत्यपराधस्तोत्रे शंकराचार्यवाक्यात् || ब्रह्मणे लिंगमूर्तये नम इति वेदपुरुषैर्नमस्कारभक्तिपुरस्सरणलिंगधारणं याचितं धारणं तद्ब्रह्मस्वरूपशिवलिंगधारणं मे मम अस्तु भूयात् पुराणागमोक्तेषु पंचसु स्थानेषु अनिराकरणं कदाचिदप्यजहनं अस्तु भूयात् || ७ || कामिकागमे लिंगधारणदीक्षापटले || उत्तमांगे गले वापि कक्षे वक्षःस्थलेऽपिवा || तथा हस्तस्थले वापि शिवलिंगं धरेत्सुधीः || ८ || उत्तमांगे गले कक्षे सर्वदा धारयेच्छिवं || मूत्राद्युत्सर्जने याने भोजने वा सदा शुचिः || गच्छन् तिष्ठन् स्वपन् जाग्रन्नुन्मिषन्निमिषन्नपि || पृ० १४९) शुचिर्वाप्यशुचिर्वापि लिंगं सर्वत्र धारयेत् || ९ || इत्यागमपुराणवाक्यात्सर्वदा धारयेदित्यर्थः || धारयिता भूयासमिति श्रुतिः स्वीयं तात्पर्यं मुमुक्षूणां लिंगधारणविधानाम्रेडितमाह || कर्णयोः श्रुतं गुरूपदिष्टं श्रुतिप्रसिद्धं शिवमन्त्रममुष्य मम सर्वदा जपतत्परस्य मे मानसोपांशुकभेदैः ऊढ्वं बाह्यमस्तु भूयात्तच्च प्रमादेन माभूदित्यर्थः || १० || शांकरसंहितायां || हस्तसिंहासने लिंगमप्रमादेन धारय || प्रमादात्पतिते लिंगे सह प्राणान्परित्यज || ११ || पतिते प्राणलिंगे यः प्राणान्धत्ते नराधमः || स चंडाल इति ज्ञेयः शिवद्रोही न तं स्पृशेत् || १२ || वातुलागमे || शुद्धाख्यतन्त्रे || वीरशैवक्रमं प्रोक्तं प्रायश्चित्तविवर्जितं || शुद्धशैवो विशेषेण मन्त्रतन्त्रप्रचारणात् || १३ || शुद्धो भवति लोपेषु प्रायश्चित्तविधानतः || प्राणलिंगव्रते लुप्ते प्रायश्चित्तं न विद्यते || प्राणत्यागात्परं तस्मात्सावधानेन धारयेत् || १४ || इत्यादिपुराणागमवाक्यात्प्रमादेन माभूदित्यर्थः || इत्येवं प्रायश्चित्तरहितानां पृ० १५०) वीरशैवानां लिंगलोपे व्रतलोपे च लिंगैक्यानुसंधानरूपप्राणपरित्यागप्रतिपादकानामागमपुराणानामिय अमेव श्रुतिर्मूलमित्यवगन्तव्या || १५ || ग्रन्थान्तरे- नमस्ते ब्रह्मणे देव आचार्याय महात्मने || तन्निराकरणं विश्वजन्यत्वान्मृत्युनैव हि || १६ || अनिराकरणं मेऽस्तु धारणं देशिकोत्तम || वेदशास्त्रपुराणेषु प्रसिद्धं कर्णयोः श्रुतम् || ऊढ्वं मयेदं मे लिंगं माचामुष्य शिवाश्रयमिति || १७ || प्रदेशान्तरे- ओं धारणं मेऽस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा चोढ्वं ममामुष्य ओमिति || ओं परब्रह्मणः शिवलिंगस्य धारणमित्यर्थः शेषं व्याख्यातम् || १८ || अस्मिन्नर्थे उपबृंहणस्तु स्कान्दे- ओमिति ब्रह्म परमं लिगाकारं महेश्वरम् || सर्वावस्थासु सर्वेषु कालेषु निमिषार्धतः || १९ || अवियोगेन भुक्तिं च मुक्तिमिच्छन्द्विजोत्तम || धारयेत्पंचसु स्थानेष्वस्मिन् संलग्नमानसः || २० || उपदिष्टं च गुरुणा कर्णे तद्दिव्यरूपभाक् || वेदसिद्धं मन्त्रराजं पंचाक्षरं जपेत्सदा || २१ || अस्मिन्नर्थे धारयिता पृ० १५१) भूयासमिति हि श्रुतिः || ऋग्वेदे || अयं मे हस्तो भगवानयं मे भगवत्तरः || अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः अयं माता अयं पिता अयं जीवातुरगमत् इदं तव प्रसर्पणं सुबंधो एहि निरहीति || अस्यार्थः अयं मे हस्तः मे अयं हस्तः भगवान् भगमस्यास्तीति स भगवान् ततो भगवानिति किं भगवच्छब्दः पूज्यवाचकः अयं मे भगवत्तरः अयं मे हस्तो भगवत्तरः तरशब्दस्तु अतिशयार्थे विद्यते तस्मादेवं विशिष्टो हस्तः अयं मे विश्वभेषजः मे अयं हस्तः विश्वभेषजः विश्वस्य मायाप्रपंचस्य भवरोगस्य भेषजः वैद्यः अयं शिवाभिमर्शनः अभिमर्शनशब्दः केवलं न स्पर्शवाची किन्तु अभितः परितः स्पृशतीत्यभिमर्शनः निजकरतलशाखार्भिलिंगमूर्तेस्सर्वांगं स्पृशतीति शिवाभिमर्शनः अयं माता अयं पिता अयं हस्त एव पिता अयं जीवातुः अयं हस्त एव जीवातुः जीवनौषधं अगमत् जीवातुर्जीवनौषधमित्यमरः इदं तव प्रसर्पणं प्रसर्पणमिति प्रजननं प्रजननं जनिमाख्यलिंगमित्यर्थः || श्रीरुद्रभाष्ये- उत्तमवेदविभूषितं देवोत्तमाख्यं प्रजननमलंकृतं जगत्कारणत्वेन जनयामास इति लक्षणात् || यजुर्वेदे- तव श्रिये मरुतो मर्चयन्त रुद्र यत्ते जनिमं चारुचित्रं पदं यद्विष्णोः परमं निधायि गुह्मं नाम गोनाम इति अत्र जनिमेति लिंगनाम चित्रं चायनीयं पूजनीयमित्यर्थः तस्मात्प्रसर्पणमिति लिंगनाम सुबंधो शोभनबंधो आर्तबंधुरित्यर्थः || पृ० १५२) तस्य संबुद्धिः सुबंधो तव इदं प्रसर्पणं लिंगं एहि आगच्छ निरहि नितरामिह सर्वदा वसेत्यर्थः हस्ताद्विमुक्तः कदाचिन्न भवतेत्यर्थः || २२ || अस्मिन्नर्थे ग्रन्थान्तरे- अयं मे हस्तो भगवानयं मे भगवत्तरः || शिवाभिमर्शनान्नित्यं शिवलिंगस्य धारणादिति || २३ || ऋग्वेदे- पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः अतप्ततनोर्न तदामोऽश्नुते श्रितास इद्वहंतस्तत्समासत || अस्यार्थः || ब्रह्मणस्पत इति संबोधनस्य प्रथमाविभक्तिव्यत्ययश्च्छान्दसः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोमिति मन्त्रात् || २४ || ब्रह्मणस्पतिरीशोऽयं ब्रह्म तल्लिंगमुच्यते || पवित्रं तद्धि विख्यातं तत्संपर्कात्तनुश्शुचिरिति || २५ || स्कन्दपुराणोपबृंहणवाक्याद्ब्रह्मणस्पतिर्निर्गुणो निरंजनः परशिवः एतद्ब्रह्मस्वरूपं लिंगमित्युच्यते एतच्छब्दस्य पदव्यत्ययेन त इति पदप्रयोगः पूर्ववच्छान्दसः तल्लिंगमेव नरकार्णवात्पतनाद्विशेषात्त्रायत इति पवित्रमिति विततं प्रसिद्धं अस्य लिंगस्य नरकार्णवात्पुरुषाणां परित्राणने कः संबंध इत्याह विश्वतः प्रभुरिति अत्र तेन विश्वशब्देन विश्वान्तर्वर्तिनः पशवो लक्ष्यन्ते || २६ || ब्रह्माद्याः स्थावरान्ताश्च पृ० १५३) देवदेवस्य शूलिनः || पशवः परिकीर्त्यन्ते संसारवशवर्तिनः || तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः || २७ || इति वचनात्तेषां पतित्वात्तस्य लिंगस्य स्वामिभृत्यत्वसंबंधस्य स्वभावसिद्धत्वात्तेषां पशूनां परित्राणनमस्य लिंगस्य युक्तमेवेत्यर्थः || २८ || तत्परित्राणनप्रकारमेवाह || गात्राणि पर्येषीति गात्राणि स्थूलसूक्ष्मकारणशरीरेन्द्रियान्तःकरणानि सर्वांगानि स्वसंयोगाच्छब्दादिविषयान्निरस्य तेष्विन्द्रियेषु स्वयं स्थित्वा तान् शब्दादिविषयान् स्वीकृत्य पश्चात्प्रसादरूपांस्तान् विषयान् तेभ्यो दत्वा पर्येषि पवित्राणि करोति पर्येषीति क्रियापदव्यत्ययेन मध्यमपुरुषत्वम् || अत एव || “इन्द्रियादागतं किंचिद्यत्सुखं तच्छिवार्पितम् || तत्तत्प्रसादं भोक्तव्यं तदिन्द्रियमुखेन च || २९ || इष्टलिंगन्तु बाह्यांगे प्राणलिंगं तथान्तरे || भावलिंगं सदैवास्मिन्नात्मांगे सुप्रतिष्ठितम् || ३० || हृदयांगेषु च यथा क्रमाल्लिंगं प्रतिष्ठितम् || तथा कर्मैंद्रियांगेषु क्रमाल्लिंगं प्रतिष्ठितमितिऽऽ || ३१ || वातुलागमवाक्यात् || “रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति यस्माद्ब्राह्मणाः प्रशान्तमनसो विद्वांसो निर्माल्यमेव पृ० १५४) भक्षयन्ति निर्माल्यमेव निषेवेत निर्माल्यमेवाश्नीयादितिऽऽ श्रुतेश्च || ३२ || एवं सर्वांगलिंगसाहित्यषट्स्थलब्रह्मयोगनिर्णयार्चनार्पणावधानप्रतिपा दकानामागमपुराणानामियमेव श्रुतिर्मूलमित्यवगन्तव्या || ३३ || लिंगसंयोगाभावादिन्द्रियजयविहीनानां तपोरहितानां परमपदप्राप्तिर्नास्तीत्याह तपसा ब्रह्म विजिज्ञासस्वेति तैत्तिरीयवाक्यात्|| आत्मविद्या तपोमूलेति ब्रह्मोपनिषद्वाक्यात् || अतप्ततनोरिति प्रथमार्थे षष्ठी || श्रोत्रनेत्रादींद्रियव्यतिरिक्तायास्तनोरभावादत्र तनुशब्देनेन्द्रियाण्युच्यन्ते || अतप्ता अनिगृहीता तनूरिन्द्रियाण्येनासावतप्ततनुरजितेन्द्रियोऽज्ञ इत्यर्थः || आमः मलपाकराहित्येन शिवदीक्षाविहीनः पुरुषः तल्लिंगं नाश्नुते न प्राप्नोति तल्लिंगं के पुनः प्राप्नुवन्तीत्याशंकायाम् || या ते रुद्र शिवा तनूरघोरां पापकाशिनीति यजुर्वेदवाक्यात् शिवदीक्षया विगतपापाः शिष्टा एव प्राप्नुवन्तीत्याह || श्रितास इति श्रिताः शिवधर्माश्रिताः तद्वहन्तः तल्लिंगं धारयन्तो ये केचन पृ० १५५) पुरुषाः सन्ति त एव लिंगं समासत प्राप्नुवन्ति अन्ये तपोरहिताः शिवसंस्काररहितास्तल्लिंगधारणविहीनाः परमपदं न प्राप्नुवन्तीत्यर्थः || ३४ || अस्मिन्नर्थे स्कन्दपुराणे || ब्रह्मणस्पतिरीशो वै ब्रह्म तल्लिंगमुच्यते || पवित्रं तद्धि विख्यातं तत्प्रभुर्विश्वतः स्वयम् || ३५ || तत्संपर्कात्पवित्रत्वं गात्राणि कुरुते स्वयम् || अतप्ततनुरज्ञो वै आमस्संस्कारवर्जितः || ३६ || दीक्षया रहितस्साक्षान्नाप्नुयाल्लिंगमुत्तमम् || शिवधर्माश्रिताः शान्ताः शिवार्चनपरायणाः || ३७ || ये वहन्तस्सदा लिंगं ते यान्ति परमं पदम् || अन्यथा न हि मां प्राप्तुं शक्यं देवि तथा श्रुतिः || ३८ || अस्मिन्नर्थे काशीखंडे || शस्तं विपाप्मं परमं गगनं देहसंस्थितम् || जन्ममृत्युजरातीतं तत्पवित्रं प्रचक्षते || ३९ || पतनात्त्रायते यस्मादतीव नरकार्णवात् || यत्पवित्रं पवित्राणां तल्लिंगं ज्योतिरैश्वरं || ४० || तत्संपर्कात्पवित्रत्वं गात्राण्येव करिष्यति || तदेतत्परमं ज्योतिर्लिंगं देवि त्वदात्मकं || ४१ || शिवानंदपरं धाम दुष्प्राप्यमकृतात्मभिः || ये संश्रितास्सदा लिंगं ते वहन्तस्सदादरात् || ते प्राप्नुवन्ति पृ० १५६) सर्वेऽपि मामेवात्र न संशयः || ४२ || सिद्धान्तशिखामणौ लिंगधारणस्थले अगस्त्यं प्रति रेणुकगणेशवाक्यं- अघोरा पापकाशीति या ते रुद्र शिवा तनूः || यजुषा गीयते यस्मात् तस्माच्छैवोऽघवर्जितः || ४३ || ब्रह्मेति लिंगमाख्यातं ब्रह्मणस्पतिरीश्वरः || पवित्रं तद्धि विख्यातं तत्संपर्कात्तनुश्शुचिः || ४४ || ऋगित्याह पवित्रन्ते विततं ब्रह्मणस्पते || तस्मात्पवित्रं तल्लिंगं धार्यं शैवमनामयं || ४५ || अतप्ततनुरज्ञो वै आमस्संस्कारवर्जितः || दीक्षया रहितस्साक्षान्नाप्नुयाल्लिंगमुत्तमं || ४६ || ब्रह्माण्डपुराणे- तपस्तप्ता तनुर्यस्य स तप्ततनुरुच्यते || परिपक्को विमोक्षाय सोऽश्नुते लिंगधारणं || ४७ || न करोति तपः पूर्वं सोऽतप्ततनुरुच्यते || (अपक्वोयं)अतप्तोऽयं विमोक्षाय नाश्नुते लिंगधारणं || ४८ || इत्यादिप्रसिद्धं || अथर्वशिरसि || उपसंहारे || तदेतदुपासितव्यं इत्यारभ्य व्रतमेतत्पाशुपतमित्यन्तेन लिंगधारणभस्मधारणरूपं पाशुपतं निरूप्यते || ४९ || तत्र तदेतदुपासितव्यं तद्वाग्वदतु तदन्तर्ग्रहणमयं पंथा विततं उत्तरेण येन देवा येन ऋषयो येन पितरः प्राप्नुवन्ति परमं पदं परायणं चेति || पृ० १५७) वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यं तमात्मस्थं येन पश्यन्ति धीरास्तेषां शान्तिश्शाश्वतिर्नेतरेषामिति || ५० || तदेतदुपासितव्यमित्यादेर्व्याख्यानायोपक्रम्यते || तदेतदुपासितव्यमिति || दहरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थं || तत्रापि दहरं गगनं विशोकं तस्मिन्यदन्तस्तदुपासितव्यमिति || तैत्तिरीयवचनात् || ५१ || परमाकाशमव्यक्तं प्रबोधानंदलक्षणं || लिंगं ज्योतिर्मयं प्राहुर्लीयन्ते यत्र योगिन इति || ५२ || अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितं || परं ब्रह्म महालिंगं प्रपंचातीतमव्ययं || तदेव सर्वभूतानामन्तस्त्रिस्थानगोचरमिति || ५३ || सिद्धान्तशिखामणिवाक्यात्तत्प्रकृतं सर्वेश्वरत्वेन प्रसिद्धं || एतदिदं दहराकाशरूपं प्राणलिंगमुपासितव्यं मुमुक्षुभिः पूजनीयमित्यर्थः || तद्वाग्वदतु तत्प्रकृतं लिंगमेव वाग्वागिन्द्रियं वदतु || ओं नमः शिवायेति स्तुतिं करोतु तदन्तर्ग्रहणं || ५४ || सिद्धान्तशिखामणौ लिंगधारणस्थले- चिद्रूपं परमं लिंगं शांकरं सर्वकारणं || यत्तस्य धारणं चित्ते तदन्तरमुदाहृतं || ५५ || आधारे हृदये वापि भ्रूमध्ये वा निरन्तरम् || ज्योतिर्लिंगानुसंधानमन्तरं लिंगधारणम् || ५६ || इत्यागमवाक्यात् तत्प्रकृतं लिंगमेवान्तो नाभिहृदयभ्रूमध्यब्रह्मरंध्रेष्वन्तःस्थितं प्राणलिंगं ग्रहणं धारणमित्यर्थः || अयं पंथा पृ० १५८) वितत इति पुरुषसूक्तश्वेताश्वतरकैवल्यशिवसंकल्पाद्युपनिषत्सु च नान्यः पंथा विद्यतेऽयनाय इति पथ्यन्तरनिषेधात् || ५७ || भवव्यालमुखस्थानां भीरूणां चैव देहिनां || भक्तिरेव विरूपाक्षे नान्यः पंथा इति श्रुतिरिति || ५८ || तदुपबृंहणवाक्यात् अयं पंथा अयं लिंगधारणपंथा विततः प्रसिद्ध इत्यर्थः येन देवा इति || ५९ || यजुर्वेदे- तव श्रिये मरुतो मर्दयन्त रुद्र यत्ते जनिमं चारुचित्रं पदं यद्विष्णोः परमं निधायि गुह्यं नाम गो नाम इति श्रुतिवाक्यात् || ६० || रौद्रं लिंगं महाविष्णुर्जनिमाख्यं शिलामयं || चारु चित्रं समभ्यर्च्य प्राप्तवान् परमं पदमिति || ६१ || पराशरपुराणवाक्यात् || इन्द्रनीलमयं लिंगं विष्णुः पूजयते सदा || विष्णुत्वं प्राप्तवान् तेन साद्भुतैकं सनातनमिति || ६२ || शिवधर्मोत्तरादिपुराणवचनात् || ब्रह्मविष्णुसुरेशादिदेवताः परया मुदा || शिरोभिर्धारयन्ते ते शिवलिंगमहर्निशमिति || ६३ || कामिकागमवाक्यात् || हरिब्रह्मेन्द्रादिदेवतास्सर्वा उत्तरेण येन लिंगधारणेन पथा परमपदं प्राप्नुवन्तीत्यर्थः || येन ऋषय इति || ६४ || कंठेषु हरकंठादिमुनयो मनवस्तथा || सर्वदा शिवलिंगन्तु धारयन्ति यजन्ति च || ६५ || इति पुराणकामिकागमवचनात् || शैवे धर्मसंहितायां ब्रह्मांडपुराणे पृ० १५९) शैवसंहितायां च व्यासजैमिनिसंवादे || पाणिनिश्च कणादश्च कपिलो गौतमादयः || प्रसादसेवनाद्ध्यानादर्चनाद्धारणादपि || जाता दर्शनकर्तारः श्रावयन्ति जगत्त्रयम् || ६६ || इति व्यासवचनात् || भृगूपमन्युदेवलदधीचिदूर्वासवसिष्ठकपिलगौतमवामदेवादिमुनिजनाश् चोत्तरेण लिंगधारणेन येन पथा परमपदं प्राप्नुवन्तीत्यर्थः येन पितर इति || ६७ || शांकरसंहितायाम्- कांक्षन्ति सर्वे पितरः कुले नस्संभूय पुत्राः शिवभक्तियुक्ताः || सन्तो भविष्यन्ति विशुद्धभावास्तेषामथैको बिभृयाच्च लिंगम् || ६८ || तस्य प्रभावाद्वयमीशलोकं प्राप्स्यामहेऽनन्तसुतृप्तिभाजम् || इत्थं हि स्वर्लोकगतिं गतास्ते कांक्षन्ति नित्यं पितरश्शिवैक्यम् || ६९ || इति शांकरसंहितावचनात् सर्वे पितरश्चोत्तरेण लिंगधारणेन येन पथा परमपदं प्राप्नुवन्तीत्यर्थः हृदयस्य मध्ये हृदयकमलमध्ये वालाग्रमात्रं नीवारशूकवत्सूक्ष्मं विश्वं विश्वात्मकं देवं स्वप्रकाशरूपं जातवेदम् || ७० || तैत्तिरीये बृहन्नारायणे च || पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् || पृ० १६०) अधो विष्ट्या वितस्त्यन्ते नाभ्यामुपरि तिष्ठति || ७१ || ज्वालामालाकुलं भाति विश्वस्यायतनं महत् || तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् || तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखम् || ७२ || इत्यादिना || तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता || नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा || ७३ || नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा || तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थितः || ७४ || इत्येवं दहरविद्योपास्यं परमात्मानं संकीर्त्य समनन्तरानुवाके निधनाय नमः निधनपतन्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिंगाय नम इत्यारभ्य शिवाय नमः शिवलिंगाय नमः आत्माय नमः आत्मलिंगाय नमः परमाय नमः परमलिंगाय नम इति तस्य परमात्मनः शिवलिंगस्य शिवस्य लिंगस्वरूपमुक्तं भवति अत्रात्मशब्द अकारान्तश्छान्दसः || ७५ || अस्मिन्नर्थे योगमणिदर्पणे- वक्ष्ये तच्छ्रुणु योगीन्द्र तारकब्रह्मलक्षणम् || अग्निमध्ये रविस्थानं रविमध्ये तु चन्द्रमाः || ७६ || तन्मध्ये चांकुरं हृष्टं हृदयं दिव्यरूपि तत् || नीलमेघस्यांतर्गततटिल्लेखाप्रकाशितः || ७७ || पृ० १६१) नीवारांकुरवत्सूक्ष्मो हेमदीपस्त्वणूपमः || तस्यात्मनः शिरोग्रे च शक्तिं प्रणवरूपिणीम् || ७८ || नादबिंदुकलायुक्तां तारकाकाररूपिणीम् || विंद्याच्छक्त्यूर्ध्वभागे तु लिंगं कालाग्निरूपकम् || ७९ || कोटिसूर्यप्रतीकाशं कोटींदुद्युतिपुंजकम् || कथितं तारकब्रह्मेतीदं लिंगं हि योगिभिरिति || ८० || श्वेताश्वतरोपनिषदि- अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट इति || ८१ || कठवल्ल्युपनिषदि- अंगुष्ठमात्रः पुरुषो मध्ये आत्मनि तिष्ठति || ईशानं भूतभव्यस्येति एवं जीवेश्वराभेदत्वमुक्त्वा अंगुष्ठमात्रत्वस्य जीवधर्माणामौपाधिकत्वं वर्णितं भवति || ८२ || तत्रैव || अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः || ईशानो भूतभव्यस्येतीत्यादि प्रमाणाज्जातवेदमिति हृत्कमलमध्यस्थितं विधूमाग्निस्वरूपं चिन्मयं प्राणलिंगमित्यर्थः || वरेण्यं वरिष्ठं आत्मस्थम् || ८३ || आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् || ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् || ८४ || तिलेषु पृ० १६२) तैलं दधिनीव सर्पिरापः स्रोतस्यरणीषु चाग्निरेवमात्मात्मनि जायत इति || ८५ || अस्मिन्नर्थे श्वेताश्वतरे-ब्रह्मोपनिषदि च-अन्यत्र च-आत्मानमरणिं कृंत्वेत्यारभ्य || एवमात्मात्मनि गृह्यते सत्तेनैनं तपसा योऽनुपश्यतीति || ८६ || ब्रह्मोपनिषदि- हृदि चैतन्यं तिष्ठति यज्ञोपवीतं परमं पवित्रमिति || ८७ || ईश्वरगीतायाम्- अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् || काष्ठादिष्वेव मूर्खाणां हृदि लिंगं तु योगिनाम् || ८८ || कामिकागमे- परं पवित्रममलं लिंगं ब्रह्म सनातनम् || शिवाभिधानं चिन्मात्रं सदानंदं निरंकुशम् || ८९ || कारणं सर्वलोकानां वेदानामपि कारणम् || पूरणं सर्वतत्त्वस्य तारणं जन्मवारिधेः || ९० || ज्योतिर्मयमनिर्देश्यं योगिनामात्मनि स्थितम् || कथं विज्ञायते लोके महागुरुदयां विना || ९१ || सिद्धान्तशिखामणौ भावलिंगस्थले-मूलाधारेऽथवा चित्ते भ्रूमध्ये वा सुनिर्मलम् || दीपाकारं यजेल्लिंगं भावद्रव्यैस्स योगवान् || ९२ || इत्यादिवचनप्रमाणात्स्वात्मनि पृ० १६३) संस्थितं परमात्मलिंगमित्यर्थः || तं प्राणलिंगस्वरूपं शिवं येन श्रीगुरुणा धीराः सम्यग्ज्ञानिनः पश्यन्ति || ९३ || कैवल्योपनिषदि- जाग्रत्स्वप्नसुषुप्त्यादिप्रपंचं यत्प्रकाशते || तद्ब्रह्माहमिति ज्ञात्वा सर्वबंधैः प्रमुच्यते || ९४ || त्रिषु धामसु यद्भोग्यं भोक्ता भोगं च यद्भवेत् || तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिव इति || ९५ || कूचिरुद्रे- अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमिति || ९६ || तैत्तिरीये ब्रह्मवल्ल्याम्- सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सकलान् कामान् ब्रह्मणा विपश्चितेतीत्यादि वचनादतद्व्यावृत्तिलक्षणया तटस्थलक्षणया सच्चिदानंदनित्यपरिपूर्णस्वरूपलक्षणया च दृश्यविलक्षणं शुद्धचिन्मात्रं स्वात्मस्वरूपं प्राणलिंगाख्यं परमशिवं पश्यन्तीत्यर्थः तेषां ज्ञात्वा शिवं शान्तिमत्यन्तमेति ईशं ज्ञात्वा विमुक्तिमेति ज्ञात्वा देवं मुच्यते सर्वपाशैरित्यादिवचनात्तेषामन्तर्लिंगानुसंधानिनां शाश्वतिश्शान्तिः नित्यं मुक्तिर्भवतीत्यर्थः पृ० १६४) नेतरेषाम् || ९७ || श्वेताश्वतरोपनिषदि- यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः || तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || ९८ || इति वचनात्प्राणलिंगस्वरूपशिवज्ञानरहितानामन्येषां शाश्वती मुक्तिर्नास्तीत्यर्थः || ९९ || किंच सिद्धान्तशिखामणौ लिंगनिजस्थले- वेदान्तवाक्यजां विद्यां लिंगमाहुस्तथा परे || १०० || इति || सूतसंहितायां यज्ञवैभवखण्डे- वेदान्तविज्ञानपरात्मविद्यां शिवस्य लिंगं कथयन्ति केचिदिति ब्रह्मात्मैक्यज्ञानस्वरूपमेव लिंगमिति वक्तव्यम् || १०१ || मुण्डकोपनिषदि- दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः || मनो मयः प्राणशरीरनेता प्रतिष्ठितोऽन्ये हृदयं निधाय || तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दमयममृतं यद्विभाति || १०२ || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः || क्षीयन्ते सर्वकर्माणि तस्मिन् दृष्टे परापरे || १०३ || हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् || तच्छुभ्रं ज्योतिषां ज्योतिस्तद्वदात्मविदो विदुः || १०४ || न तत्र सूर्यो भाति न चन्द्रतारका नेमा || पृ० १६५) विद्युतो भान्ति कुतोऽयमग्निरित्युपनिषद्वाक्यात् || १०५ || सिद्धान्तशिखामणौ- लिंगनिजस्थले ज्योतिर्मयं परं लिंगं श्रुतिराह शिवात्मकम् || तस्य भासा सर्वमिदं प्रतिभाति न संशयः || १०६ || न सूर्यो भाति तत्रेन्दुर्न विद्युन्न च पावकः || न तारका महालिंगे द्योतमाने परात्मनि || १०७ || तस्माल्लिंगं परं ब्रह्म सच्चिदानंदलक्षणम् || निजरूपमिति ध्यानात्तदवस्था प्रजायते || १०८ || इत्यागमवचनात् || दहरविद्यावेद्यं गृहाहितब्रह्मैव प्राणशक्तिसमन्वितं प्राणलिंगमिति श्रुतिस्मृतिपुराणागमप्रसिद्धा शैवी परा स्थितिः इत्यादिवचनप्रमाणात् || तदेतदुपासितव्यं तद्वाग्वदतु तदन्तर्ग्रहणमित्यादिवाक्यैः प्राणलिंगधारणमुक्तं भवति || १०९ || तत्रैवाथर्वशिरसि उत्तरत्र || प्राणेष्वन्तर्मनसो लिंगमाहुर्यस्मिन् क्रोधो या च तृष्णा क्षमा च तृष्णां छित्वा हेतुजालस्य मूलं बुद्ध्या संचिन्त्य स्थापयित्वा तु रुद्रे रुद्र एकत्वमाहुरिति || अस्यार्थः || प्राणेषु पंचप्राणेषु अन्तर्मनसः अन्तर्हृदयस्य लिंगमाहुः प्राणलिंगमिति ज्ञानिन आहुरित्यर्थः यस्मिन्सूक्ष्मशरीरे क्रोधः पृ० १६६) क्रोधो वर्तते या च तृष्णा तृष्णा च वर्तते हेतुजालस्य मूलं संसारहेतुजालस्य मूलं तृष्णा क्षयिष्णुब्रह्मादिपदवाञ्छारूपतृष्णां छित्वा वैराग्येण छेदयित्वा बुद्ध्या संचिन्त्य संध्यात्वा स्थापयित्वा तु रुद्रे इति || ११० || लिंगे प्राणं समाधाय प्राणे लिंगन्तु शांभवम् || सशरीरं मनः कृत्वा न किंचिदपि चिन्तयेत् || साभ्यन्तरा भक्तिरिति प्रोच्यते शिवयोगिभिः || १११ || इति शंकरसंहिताया वाक्यात् || तत्रैव || पीठस्ते शिवलिंगे तु शिष्यप्राणं निधाय च || लिंगं संस्थाप्य तत्प्राणे प्राणलिंगं भवेत्ततः || ११२ || इत्युक्तत्वात् || शिष्यस्य प्राणमादाय लिंगे तत्र निधापयेत् || तल्लिंगं तस्य तु प्राणे स्थापयेदेकभावतः || ११३ || इति सिद्धान्तशिखामणिवाक्यात् || देहप्राणं समायोज्य प्राणं लिंगे प्रकल्पयेत् || अविनाभावसंयोगात्तस्मादैक्यं प्रकल्पयेत् || ११४ || इति शुद्धाख्यतन्त्रवाक्यात् || प्राणरूपं सूक्ष्मशरीरं रुद्रे रुद्रात्मके लिंगे स्थापयित्वा संस्थाप्य रुद्रे लिंगस्वरूपे परशिवे एकत्वम् || ११५ || रुद्रो भूत्वा यजेद्रुद्रं नारुद्रो रुद्रमचर्येत् || प्राणलिंगांगसंबंधी स रुद्रो नात्र संशयः || ११६ || पृ० १६७) इति शंकरसंहितावाक्यात् || एकत्वं सामरस्यमाहुरित्यर्थः || उत्तरत्र || रौद्रं शाश्वतं वै पुराणं इष्टमूर्जं तपसानुयच्छति व्रतमेतत्पाशुपतम् || अस्यार्थः || रौद्रं रुद्रात्मकं लिंगं शाश्वतं वै नित्यं पुराणं चिरन्तनं ऊर्जं ऊर्जितम् || ११७ || इष्टलिंगमिदं साक्षादनिष्ठपरिहारकम् || धारयेदवधानेन शरीरे सर्वदा बुधः || ११८ || इति सिद्धान्तशिखामणिवाक्यादनिष्टपरिहारकमिष्टलिंगमित्यर्थः || तपसा आत्मविद्या तपोमूलमिति ब्रह्मोपनिषद्वाक्यात् तपसा ब्रह्म विजिज्ञासस्वेति तैत्तिरीयवाक्यात् शिवार्चनादिसत्क्रियया अनुयच्छति मोक्षं ददातीत्यर्थः || व्रतमेतदिति || ११९ || वातुलागमे- अतिधीरेण मनसा यावज्जीवं जगद्गुरोः || शिवस्य लिंगं धत्ते यस्तदेतत्परमं व्रतम् || १२० || इत्युक्तत्वात् वीरशैवो महाव्रतीति सिद्धान्तशिखामणिवाक्यात् व्रतमेतत् एतदन्तर्बहिर्लिंगधारणव्रतं पाशुपतं परमशैवमित्यर्थः || १२१ || उत्तरत्र || तदुपासनांगमाह || अग्निरिति भस्म वायुरिति भस्म जलमिति पृ० १६८) भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूंषि भस्मानि अग्निरित्यादिना भस्म गृहीत्वा विमृज्यांगानि संस्पृशेत् व्रतमेतत्पाशुपतं पशुपाशविमोक्षणाय इत्येवं बहिरंतर्लिंगधारणयुक्तानां शिवार्चकानां पाशुपतानां भस्मधारणविधिरुच्यते भस्मधारणोपलक्षणेन भस्मरुद्राक्षधारणपंचाक्षरजपादिशिवाचारमनुष्ठेयमिति वक्तव्यम् || पशुपाशविमोक्षणाय पशोः पाशविमुक्तये एतद्व्रतं पाशुपतं परमशैवमित्यर्थः || १२२ || वातुलागमे- तन्त्रोत्तरप्रदीपाख्ये || प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलम् || तत्प्राणेष्वन्तर्मनसो लिंगमाहुरिति श्रुतिः || १२३ || सकलं दृक्कलाग्राह्यमिष्टलिंगस्थलं महत् || इष्टसिद्धिकरं शश्वदनिष्टपरिहारकम् || १२४ || इष्टिः पूजा यया नित्यमिष्टं पूजितमादरात् || इष्टलिंगमिति प्रोक्तमाचार्यैर्लिंगपूजकैः || १२५ || इष्टमूर्जन्त तपसाप्यनुयच्छति यद्यतः || तदिष्टलिंगमित्याहुस्तस्मादाथर्वणी श्रुतिः || १२६ || पुरातनगीतासु- अंगे सतीसुतमित्रादयः शिवलिंगं धारयेत्संततं लिंगं तदन्तर्ग्रहणमिति- पृ० १६९) श्रुतिमतमिति पुरातनवचनादथर्वशिरसि वीरशैवलिंगधारणं स्पष्टमुक्तमप्रत्यूहम् || १२७ || एवं हरिब्रह्मेन्द्रसुरासुरमुनीन्द्रादीनां सर्वेषां लिंगधारणप्रतिपादकानां पुराणागमानामियमेव श्रुतिर्मूलमित्यवगन्तव्या || १२८ || अत एव स्कन्दलैंग्यकौर्म्यशैवादिपुराणेषु पाशुपतव्रतप्रतिपादकेषु अथर्वशिरोऽर्थमवलंब्य हरिब्रह्मादिदेवासुरमुनींद्राणां सर्वेषां च || “इंद्रनीलमयं लिंगं विष्णुः पूजयते सदेत्यादिऽऽ श्लोकेषु इंद्रनीलशैलमयादिकनीयसलिंगधारणमुक्तं तत्र द्रष्टव्यं विस्तरभयान्न लिख्यते इदमेव पाशुपतव्रतं अथर्वशिरोविदितत्वाच्छिरोव्रतमिति मुण्डाकोपनिषदि चोक्तं मुण्डकोपनिषदुपसंहारे तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति || १२९ || अस्मिन्नर्थे सूतसंहितायाम्- उक्तं वेदांतविज्ञानं युष्माकं मुनिपुंगवाः || व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु || तेषामेवोपदेष्टव्यमिति वेदानुशासनमिति || १३० || एवं पाशुपताख्यशिरोव्रतिनां लिंगधारिणामेव ब्रह्मविद्याधिकारित्वमुक्तं पाशुपतशिरोव्रतात्याश्रमशांभवव्रतानामेकार्थत्वं ब्रह्मविद्याधिकारित्वं च प्रागेवोक्तं भवति || १३१ || पृ० १७०) सिद्धांतशिखामणौ भूतिरुद्राक्षसंयुक्तो लिंगधारी सदा शुचिः || पंचाक्षरीं जपन्योगी शिवभक्त इति स्मृतः || एवमाचारसंयुक्तो वीरशैवो महाव्रतीति || १३२ || स एव ब्रह्मविद्याधिकारीति वक्तव्यं || ये पुनरिदं लिंगधारणं वेदोक्तं न भवतीति वदंति || १३३ || यश्चतुर्वेदविद्विप्रः पुराणं वेत्ति नार्थतः || तन्दृष्ट्वा भयमाप्नोति वेदोमां प्रतरेदिति || १३४ || सूतसंहितावचनात् || इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् || बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदिति || १३५ || महाभारते व्यासवचनादुदाहृतश्रुतीनां यथोक्तोपबृंहणानुसारेणार्थो ग्राह्यः एवं लिंगधारणं सर्वैर्मुमुक्षुभिः कर्तव्यमिति सर्वमनवद्यं हृद्यं च || १३६ || ब्रह्मोपनिषदि परमहंसाद्युपनिषत्सु च || हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् || आयुष्यमग्र्यं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः || १३७ || सशिखं वपनं कृत्वा बहिस्सूत्रं त्यजेद्बुधः || पृ० १७१) यदक्षरं परब्रह्म तत्सूत्रमिति धारयेत् || १३८ || सूचनात्सूत्रमित्याहुस्सूत्रं नाम परं पदम् || तत्सूत्रं विदितं येन स विप्रो वेदपारगः || १३९ || येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव || तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् || १४० || बहिस्सूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः || ब्रह्मभावमिदं सूत्रं धारयेद्यस्सचेतनः || १४१ || धारणात्तस्य सूत्रस्य नोच्छिष्टं नाशुचिर्भवेत् || सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् || १४२ || ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः || कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः || तेभिर्धार्यमिदं सूत्रं क्रियांगं तद्धि वै स्मृतम् || शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् || ब्राह्मण्यं सकलं तस्येति ब्रह्मविदो विदुः || १४३ || लैंग्ये षोडशाध्याये- लोकाश्च यत्प्रतिष्ठन्ति सूत्रे मणिगणा इव || तत्सूत्रमिति विज्ञेयं रूपमद्भुतमैश्वरमिति || १४४ || कारणागमे प्रकाश उवाच- तदाहूय मुनीन्दृष्ट्वा पृ० १७२) पूजध्वं मुनिपुंगवाः || भस्मरुद्राक्षनिष्णाताः स्फाटिकं शैलजन्तु वा || १४५ || शिवविष्णुमयं लिंगं त्रिवृत्सूत्रं सनातनम् || यज्ञोपवीतं परमं पवित्रं श्रद्धया सह || १४६ || कराब्जपीठे पीठे वा भजध्वं श्रुतिकोविदाः || इत्युक्त्वा भगवान् ब्रह्मा सत्यलोकमगच्छत || १४७ || संस्यूतत्वात्समस्तेषु वस्तुष्वपि तु संततम् || सूचनात्परमेशस्य सूत्रं लिंगमिति श्रुतम् || १४८ || यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् || धारणादस्य सूत्रस्य नोच्छिष्टं नाशुचिर्भवेत् || १४९ || इत्यादिवचनप्रमाणात्त्रिवृत्सूत्रमिति || अस्यार्थः || त्रयः स्थूलसूक्ष्मकारणाख्यतनुत्रयाभिमानिनो विश्वतैजसप्राज्ञाः जीवत्रयः उत जीव अंतः परमात्मनः वृत् इष्टलिंगप्राणलिंगभावलिंगान्यावरणानि यस्य तत्सूत्रं मणिगणसूत्रवत्सर्वव्यापकं सूत्रसंज्ञितं ज्योतिर्मयं महालिंगमित्यर्थः || १५० || तैत्तिरीये- आकाशशरीरं ब्रह्मेति || १५१ || छान्दोग्योपनिषदि- आकाशादेव खल्विमानि भूतानि जायन्ते आकाशं प्रत्यस्तयन्ति आकाशो ह्यवैभ्यो पृ० १७३) जायानाकाशः परायणः || १५२ || श्वेताश्वतरोपनिषदि- ऋचो अक्षरे परमे व्योमन् तस्मिन्देवा अधि विश्वे निषेदुरिति || १५३ || बृहदारण्यके- यदूर्ध्वं याज्ञवल्क्यं दिवो यदि वा पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेति आचक्षते तस्मिन् तदोतं च प्रोतं चेति गार्ग्यपृष्टेन याज्ञवल्क्येन आकाश एव तदोतं च प्रोतं चेत्यभिहिते इत्यादिवचनात्सूत्रमिति विश्वव्यापकं चिदाकाशस्वरूपं ज्योतिर्लिंगमेवेत्यर्थः || १५४ || अस्मिन्नर्थे सिद्धांतशिखामणौ-महदाकाशस्थले || पिण्डाण्डस्थं यथा व्योम न भिन्नं तद्वदात्मनः || अभिन्नः परमात्मेति महाकाशस्थलं विदुः || १५५ || यथा न भिन्नमाकाशं घटेषु च मठेषु च || तथाण्डेषु च पिण्डेषु स्थितो ह्यात्मा न भिद्यते || १५६ || निरस्तोपाधिसंबंधं निर्मलं संविदात्मकं || पराकाशं जगच्चित्रविलासालंबभित्तिकम् || १५७ || संविदेव पराकाष्ठा सदानंदस्वरूपिणी || पृ० १७४) यामाहुः परमाकाशं मुनयो मुक्तसंशयाः || १५८ || परमाकाशमव्यक्तं प्रबोधानंदलक्षणं || लिंगं ज्योतिर्मयं प्राहुर्लीयन्ते यत्र योगिनः || १५९ || अनिर्देशमनौपम्यमवाऽऽन्मानसगोचरम् || सर्वतोमुखसंपन्नं सत्तानन्दचिदात्मकम् || १६० || कालातीतं कलातीतं क्रमयोगविवर्जितं || स्वानुभूतिप्रमाणस्थं ज्योतिषामुदयस्थलम् || १६१ || शिवाख्यं परमं ब्रह्म परमाकाशलक्षणम् || लिंगमित्युच्यते सद्भिर्यद्विना न जगत्स्थितिः || १६२ || यथा ज्योतींषि भासन्ते भूताकाशे पृथक्पृथक् || तथा भांति पराकाशे ब्रह्माण्डानि विशेषतः || १६३ || तरंगादि यथा सिंधोः स्वरूपान्नातिरिच्यते || तदा शिवाच्चिदाकाशाद्विश्वमेतन्न भिद्यते || १६४ || इत्यादिवचनप्रमाणात्सूत्रमिति चिदाकाशस्वरूपं विश्वव्यापकं सन्मात्रं निष्कललिंगमिति वक्तव्यं उत ब्रह्मविष्णुरुद्रादित्रिविधत्रिविधात्मकं ब्रह्म लिंगमेव त्रिवृत्सूत्रमिति वक्तव्यम् || १६५ || योगतत्वोपनिषदित्रयो लोकास्त्रयो वेदास्त्रिसंध्याश्च त्रयस्सुराः || त्रीणि वह्निर्गुणास्त्रीणि स्थितास्सर्वे त्रियक्षराः || १६६ || पृ० १७५) त्रयाणामक्षरभ्रांते योदिते अर्धमक्षरम् || तेन सर्वमिदं प्रोतं तद्बुद्धं तत्परं पदम् || १६७ || इत्युपनिषद्वाक्यात्त्रिवृत्सूत्रं परं ब्रह्मैव लिंगमित्यर्थः || चकाराच्छिवशक्त्यात्मकमित्यर्थः तत् एतत्प्रसिद्धं परमशिवतत्वं लिंगं त्रिवृत्सूत्रमिति विदुः जानन्ति शरणा इत्यर्थः अत्र यज्ञोपवीतमित्यस्यार्थः || नारायणस्य शिवलिंगशक्तिपीठत्वं पुराणेषु प्रसिद्धं यज्ञो वै विष्णुरिति श्रुतेर्यज्ञस्य विष्णुनाम्नः पीठस्य उपसामीप्येन विशेषेण इतं लिंगं यज्ञोपवीतमित्यर्थः उत यज्ञ इति पूजा तस्मात्पूज्योपवीतमित्यर्थः || १६८ || तथा शैवे वायवीयसंहितायां सिद्धांतशिखामणौ च- वेदांतजन्यं यज्ज्ञानं विद्येति परिकीर्त्यते || विद्यायां रमते तस्यां वीर इत्यभिधीयते || १६९ || शैवैर्माहेश्वरैश्चैव कार्यमन्तर्बहिःक्रमात् || शिवो माहेश्वरश्चेति नात्यन्तमिह भिद्यते || १७० || यथा तथा न भिद्यन्ते शैवा माहेश्वरा अपि || शिवाश्रितेषु ते शैवा ज्ञानयज्ञरता नराः || १७१ || माहेश्वरास्समाख्याताः कर्मयज्ञरता भुवि || पृ० १७६) तस्मादभ्यन्तरे कुर्युः शैवा माहेश्वरा बहिः || १७२ || इत्यनेन हृत्कमलमध्यस्थितज्ञानलिंगपूजानिरता वीरशैवाः करकमलमध्यस्थितक्रियालिंगपूजासक्ता वीरमाहेश्वरा इत्यादि पुराणागमवचनात् यज्ञ इति पूजा क्रियाज्ञानपूजोपवीतं परब्रह्मात्मकं लिंगमेव यज्ञोपवीतमित्यर्थः ननु त्रिवृत्सूत्रं तन्तुमात्रमित्युक्तं चेत्तद्धारणेन किं फलमस्ति धर्मार्थकाममोक्षात्मकमपि तर्हि कंथाकटिदोरकधारिणामेव स्यादिति त्रिवृत्सूत्रं त्रिलिंगात्मकं परं ब्रह्मेति निश्चितम् || १७३ || तत्रैव || कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः || तेभिर्धार्यमिदं सूत्रं क्रियांगं तद्धि वै स्मृतम् || १७४ || इत्यत्र क्रियांगं सूत्रं क्रियालिंगमित्यर्थः || सिद्धान्तशिखामणौ क्रियालिंगस्थले- यज्ञादयः क्रियाः सर्वा लिंगपूजांशसंमताः || इति यत्पूज्यते सिद्धैस्तत्क्रियालिंगमुच्यते || १७५ || परित्यज्य क्रियाः सर्वा लिंगपूजैकतत्पराः || वर्तन्ते योगिनः सर्वे तस्माल्लिंगं विशिष्यते || १७६ || एवं क्रियालिंगमिष्टलिंगमित्यर्थः || पृ० १७७) सिद्धान्तशिखामणौ- अन्तर्लिंगानुसंधाने रुचिर्बाह्ये न जायते || अन्तर्धारयितुं लिंगमशक्तश्शक्त एव वा || बाह्यन्तु धारयेल्लिंगं तद्रूपमिति निश्चयात् || १७७ || इति अंतर्लिंगानुसंधाने रुचिर्बाह्य इष्टलिंगपूजाध्यानाद्यनुसंधाने न जायत इति वचनात् केन प्रकारेणान्तर्लिंगानुसंधानं जायत इति चेदुच्यते || १७८ || ब्रह्मोपनिषदादिनानाशाखोपनिषत्सु || आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् || ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवदिति || १७९ || अस्यार्थः || आत्मानं तनुत्रयाभिमानिनमंगस्थलरूपं जीवात्मानमरणिं कृत्वाधोऽरणिं कृत्वा प्रणवम् || १८० || नादो लिंगमिति ज्ञेयं बिंदुः पीठमुदाहृतम् || नादबिंदुयुतं रूपं लिंगाकारमिहोच्यते || १८१ || इति वचनादोंकारप्रणवस्वरूपमिष्टलिंगं उत्तरारणिं ऊर्ध्वारणिं कृत्वा ध्याननिर्मथनाभ्यासात् || बाह्यन्तु धारयेल्लिंगं तद्रूपमिति निश्चयादिति वचनात्तस्य सच्चिदानंदनित्यपरिपूर्णस्वरूपध्याननिर्मथनाभ्यासात् निगूढवत् काष्ठेषु निगूढाग्निवत् स्वात्मनि संस्थितं निगूढं देवं स्वप्रकाशरूपं चिन्मात्रं निष्कललिंगस्वरूपं पृ० १७८) शिवं पश्येदित्यर्थः || १८२ || सिद्धान्तशिखामणौ- आत्मारणिसमुत्थेन प्रमोदमथनात्सुधीः || ज्ञानाग्निना दहेत्सर्वं पाशजालं जगन्मयम् || १८३ || सिद्धान्तशिखामणौ शिवयोगसमाधिस्थले- परं ब्रह्म महालिंगं प्राणो जीवः प्रकीर्तितः || तदेकभावमननात्समाधिस्थः प्रकीर्तितः || १८४ || क्रियालिंगस्थले- प्रकाशते यथा नाग्निररण्यां मंथनं विना || क्रियां विना तथान्तःस्थो न प्रकाशो भवेच्छिवः || १८५ || श्वेताश्वतरोपनिषदि षष्ठाध्याये- तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः || न तत्र सूर्यो भाति न चंद्रतारका नेमा विद्युतो भान्ति कुतोऽयमग्निरिति || १८६ || विशेषार्थप्रकाशिकायाम्- नेति नेतीति नेतीति शिष्यते यत्परं पदम् || निराकर्तुमशक्यत्वात्तदस्तीति सुखी भवेति || १८७ || एवं सकलतत्वनिषेधेन दृग्रूपब्रह्मसाक्षात्कार एव सांख्ययोगः हृदि चैतन्यं तिष्ठतीति ब्रह्मोपनिषद्वाक्यात्तदेष सांख्ययोगाधिगम्यं परमात्मस्वरूपं प्राणशक्तिसमेतत्वेन पृ० १७९) प्राणलिंगमिति वक्तव्यम् || १८८ || शिवयोगप्रदीपिकायाम्- राजयोगे सांख्ययोगानन्तरयोगे || अतः परतरं गुह्यं दृष्टप्रत्ययसंयुतम् || ममानुभवसंसिद्धं योगं प्राणसखे श्रुणु || १८९ || नेत्रे निमीलिते नित्यं किंचिदुन्मीलिते तदा || यो मनश्चक्षुषा ब्रह्म पश्यतीति स योगिराट् || १९० || शशिभास्करयोर्मध्ये तारयोः स्थिरतेजसोः || बिंदुद्वयं च संयोज्य ब्रह्मतारकमभ्यसेत् || १९१ || बाह्यान्तर्मध्यलक्षेषु ब्रह्मदर्शनतत्परः || दृष्टादृष्टस्वरूपाणि ननु तानि विलोकय || १९२ || तत्रैव || मनश्चातिरहस्यं यज्ज्योतिषां निलयं महत् || दिव्यलिंगस्थलं दृष्टमन्तर्लक्षात्मकं श्रुणु || १९३ || नान्तःस्थं न बहिर्व्याप्तमपरोक्षस्वरूपकम् || आकाशाभ्यन्तराकाशमन्तर्लक्षं तदेव हि || १९४ || लक्षलीनमनसानिलेन यो वर्ततेऽचलिततारया भवेत् || खेचरीयमथ सैव शांभवी मुद्रया स तु तया जगद्गुरुः || १९५ || तालुमूलद्वादशान्तमध्यं प्रत्यक्कलात्मकम् || पृ० १८०) यत्तस्मिन् ज्योतिषि मनो दत्वा निजहृदि क्रमात् || १९६ || नासाग्रदत्तनिमिषोन्मिषबाह्यदृष्ट्या लक्षे सदाशिवविमर्शकगूढदृष्ट्या ज्योतिः स्वरूपमचलं हृदि बाह्यहीनं पश्यन्ति ये तदिह संयमिनः कृतार्थाः || १९७ || पश्चिमाभिमुखं लिंगमभिन्नवलयाकृति || त्वं पूर्वाभिमुखो भूत्वा पश्य पश्य महाद्भुतम् || १९८ || यदापो ज्योतिरोंकारं ब्रह्मामृतशिवात्मकम् || सूरयो यत्प्रपश्यन्ति तद्विष्णोः परमं पदम् || १९९ || पूर्णेन्दुबिंब इव सन्मणिदीपिकेव मध्याह्नसूर्य इव वह्निशिखेव नित्यम् || विद्युत्प्रभेव शिवलिंगमहो विचित्रं लक्षान्तरे ज्वलति पश्यति चक्षुरग्रे || २०० || आत्मलिंगमिदं पश्यन् किमन्यैः कर्मविभ्रमैः || अहिंसाद्यष्टपुष्पैस्तन्मानसैरंग पूजय || २०१ || पुष्पाण्यहिंसेन्द्रियनिग्रहश्च दयाक्षमाज्ञानसमाह्वयानि || ध्यानं तपस्सत्यममीभिरेवं प्रपूजयेदात्मनि सिद्धलिंगम् || २०२ || वक्त्रे चापूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा स्वांगुष्ठाद्यंगुलीभिर्निजकरतलयोः षड्भिरेवं निरुद्ध्य || पृ० १८१) श्रोत्रे नेत्रे च नासापुटयुगलमथाऽनेन मार्गेण धीराः पश्यंति प्रत्ययान् सत्प्रणवबहुविधध्वानसंलीनचित्ताः || इत्येतत्षण्मुखमुद्रया नादबिंदुकलात्मकं चिन्मयं ज्योतिर्लिंगानुसंधानं कुर्यात् || २०३ || छान्दोग्योपनिषदि || यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नंतराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा विजिज्ञासितव्यमिति || २०४ || तैत्तिरीये कूचिरुद्रे- अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमिति || २०५ || तत्रैव || दहरं विपाप्म परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् || तत्रापि दहरं गगनं विशोकं तस्मिन्यदन्तस्तदुपासितव्यम् || २०६ || प्रदेशांतरे- य एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मय अन्तरेण तालुके य एष स्तन इवावलंबते सेन्द्रयोनिरिति इत्यादिवच- पृ० १८२) नप्रमाणादक्षरत्रयात्मके ब्रह्मपुरे मण्डलत्रये हृदयकमलनिलये दहराकाशमध्ये परमात्मस्वरूपं चिन्मयं ज्योतिर्लिंगं मुमुक्षुभिरन्वेषणीयं पूजनीयं च भवति || २०७ || किंच || “ज्योतिःस्वरूपमचलं हृदि बाह्यहीनमितिऽऽ प्रागुक्त दिव्यलिंगस्वरूपमेतत्स्थाने निरीक्षणीयमित्यन्तरेण तालुके इत्यादिश्रुतिप्रमाणेन षोडशस्वरात्मकविशुद्धिचक्रस्य द्वादशांताख्यब्रह्मरंध्रस्य मध्यस्थानसाक्षात्कारचित्कलास्वरूपदिव्यहृदयाख्यलोचनस्थाने पूर्वोक्तखेचरीमुद्रया मनो नियम्य दिव्यलिंगं निरीक्षणीयं योऽयं दक्षिणेऽक्ष एतद्वामेऽक्षिणीति श्रुतिवाक्येन दक्षिणनेत्रज्योतिर्मंडलमध्यगतपरमात्मैव पतिः वामनेत्रज्योतिर्मंडलमध्यगतजीवात्मैव सतीति शशिभास्करयोर्मध्यतारयोः स्थिरतेजसोर्बिंदुद्वयं च संयोज्य ब्रह्मतारकमभ्यसेदित्युक्तत्वात् || “बिंदुमध्यगतं सूक्ष्मं सुषिरं ज्योतिरूपकमिति ||ऽऽ आपो ज्योतिरसोऽमृतं ब्रह्म तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति श्रुतिवाक्यात् || २०८ || श्वेताश्वतरे || पृ० १८३) स एवाग्निस्सलिले सन्निविष्टस्तमेवं विदित्वातिमृत्युमेति नान्यः पंथा विद्यते अयनाय इत्यादिश्रुतिवाक्येन नेत्रांतर्गतजलमध्यज्योतिरेव अथर्वणोक्त ओंकारप्रणवसर्वव्याप्यनन्ततारसूक्ष्मशुक्लवैद्युतपरंब्रह्मैकरुद्रेश अनभगवन्महेश्वरमहादेवपर्यायनामान्वितं तारकब्रह्मात्मकाखंडतेजोमयं शिवलिंगं पूर्वोक्ताहिंसाद्यष्टपुष्पैर्मुमुक्षुभिरर्चनीयमिति अंगभूमेरुपर्यंबुधिमध्ये कृष्णाश्रये द्वारवत्यां वागीश्वरीसमेतब्रह्मोपासनं कृतवानेव शिवयोगीश्वर इत्याश्चर्यं भवति || २०९ || किंच प्रागुक्ततैत्तिरीये बृहन्नारायणे च || पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् || अथो विष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति || २१० || ज्वालामालाकुलं भाति विश्वस्यायतनं महत् || सन्ततꣳशिलाभिस्तु लंबत्या कोशसन्निभम् || २११ || तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् || तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः || २१२ || सोऽग्रभुग्विभजं तिष्ठन्नाहारमजरः कविः || तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तताः || २१३ || पृ० १८४) संतापयति स्वं देहमापादतलमस्तकम् || तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता || २१४ || नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा || नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा || तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थितः || २१५ || इत्येवं वह्निशिखाकारे जीवात्ममध्ये परमात्मा लिंगरूपी शिव एव संस्थित इति प्रागेवोक्तं भवति || २१६ || ब्रह्मविद्योपनिषदि- तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः || शिखा तु दीपसंकाशी यस्मिन्नुपरि वर्तते || अर्धमात्रा तु सा ज्ञेया प्रणवस्योपरि स्थितेति || २१७ || इत्येवं तारकब्रह्मैव प्राणलिंगमिति वक्तव्यम् || ब्रह्मगीतायाम्- एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् || स्वात्मन्येव रतिक्रीडामन्यच्च कुरुते सदेति || २१८ || श्वेताश्वतरोपनिषदि द्वितीयाध्याये- यदेव बिंबं हृदयावलिप्तं तेजोमयं भ्राजत तत्सुधांतम् || तदात्मतत्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते विशोकः || २१९ || यदात्मतत्वेन तु ब्रह्मतत्वं दीपोपमेनेह युतं प्रपश्येत् || पृ० १८५) अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैरिति || २२० || अस्यार्थः || हृत्कमलमध्ये दीपोपमेनात्मतत्वेन संयुक्तब्रह्मतत्वं ब्रह्मसंज्ञितं परमात्मलिंगं शिवतत्वं प्रकर्षेण पश्येत् जननरहितं नित्यं सर्वतत्वैर्विशुद्धं देवं स्वप्रकाशं स्वे महिम्नि शिवं ज्ञात्वा सर्वपाशैर्मुच्यत इत्यर्थः इत्यादिवचनप्रमाणादात्मज्ञानेन विकृतिसंबंधं विषादमपहाय शिवसाक्षात्कारादखिलैरपि बंधनैः क्लेशादिभिर्विमुच्यत इति ज्ञातव्यम् || २२१ || तैत्तिरीये प्रथमवल्ल्याम्- य-एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मय इत्यारभ्य || आकाशशरीरं ब्रह्म सत्यात्मा प्राणारामं मन आनंदं शांतिसमृद्धममृतमिति प्राचीनयोग्योपास्वेत्यन्तेन चिदाकाशशरीरस्य परब्रह्मणः परमात्मनः परशिवस्य मनोमयत्वं प्राणमयत्वं हिरण्मयत्वं चोक्तं भवति || २२२ || शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायाम्-प्राणरूप इति जीव उच्यते लिंगरूप इति शंकरः स्मृतः || यस्तदैक्यमिति वेदितानयोः प्राणलिंगविदसौ शिवयोगी || २२३ || सिद्धान्तशिखामणौ- परं ब्रह्म महालिंगं प्राणो जीवः प्रकीर्तितः || तदेक भावमननात्समाधिस्थः प्रकीर्तितः || २२४ || पृ० १८६) ग्रंथांतरे- जीवः प्राणपरिस्पंदः परात्मा लिंगमीरितः || उभयोरेकतावस्था सा समाधिः प्रकीर्तिता || २२५ || सिद्धांतशिखामणौ प्राणलिंगिस्थले- सत्ता प्राणमयी शक्तिः सद्रूपं प्राणलिंगकम् || तत्सामरस्यविज्ञानात्प्राणलिंगीति कथ्यते || २२६ || लिंगं चिदात्मकं ब्रह्म तच्छक्तिः प्राणरूपिणी || तद्रूपलिंगविज्ञानी प्राणलिंगीति कथ्यते || २२७ || अस्मिन्नर्थे कामिकागमे- लिगं ब्रह्मात्मकं प्रोक्तं तच्छक्तिः प्राणरूपिणी || तद्रूपलिंगज्ञानी सः प्राणलिंगीति कथ्यते || २२८ || सूतसंहितायाम्- यदा मनसि चैतन्यं भाति सर्वत्रगं सदा || योगिनो व्यवधानेन तदा संपद्यते स्वयम् || २२९ || योगजागमे- हृदयकमलमध्ये दीपवद्वेदसारं प्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् || हरगुरुशिवयोगं सर्वभूतस्थमेकं सकृदपि मनसा मां ध्यायते यस्तु मुक्तः || २३० || चक्षुरग्रे स्थितं नित्यं विस्फुरन्तं मणिं यथा || तन्दृष्ट्वा व्यापकं शंभुं भवबंधैः प्रमुच्यते || २३१ || पृ० १८७) तत्वसारे- भ्रूमध्यगशिखी विद्युत्सूर्यवदेतज्जगद्भाति || केषांचित्पुण्यदृशामुन्मीलयति चिन्मयं ज्योतिः || २३२ || कामिकागमे लिंगधारणस्थले- गुरोः कृपान्वितस्यास्य मुमुक्षोर्हृदयांबुजे || धारणाच्चिन्मयी या सा प्रोक्ता वै लिंगधारणा || २३३ || वासिष्ठे- नित्यावबोधार्हणया बोधलिंगं प्रपूजयेत् || मनो मननशक्तिस्थं प्राणापानांतरोदितम् || २३४ || उत्तरकामिके- प्राणस्यांतरलिंगस्य चैतन्यात्मकरूपिणः || अन्तरैश्चिन्मयैर्द्रव्यैः पूजय प्राणलिंगकम् || २३५ || वासिष्ठे- अलौकिकज्ञानसिद्ध्यै ज्ञानलिंगन्तु पूजयेत् || तत्रार्चा विविधाः कार्याः शीघ्रमिष्टस्य सिद्धये || २३६ || शमबोधादिभिः पुष्पैर्देव आत्मायमर्च्यते || तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम् || २३७ || भागवते- तथा देवः शरीरस्थो हितं न कुरुते नृणाम् || विनाराधनया देवः सर्वगः परमेश्वरः || २३८ || यज्ञवैभवखण्डे- प्रसादादेव रुद्रस्य ज्ञानं वेदांतवाक्यजम् || प्रतिबंधविनिर्मुक्तं भवेत्तद्धि विमुक्तिदम् || २३९ || अतो ज्ञानप्रसादार्थं शिवस्सांबस्सनातनः || पृ० १८८) उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिरिति || २४० || किंच शंभुप्रभायाम्- अध्यात्मकं स्वकं लिंगं प्रत्यक्षं यस्य नो भवेत् || स नरो बाह्यलिंगार्चां कुर्याद्वै माययांचितः || २४१ || लिंगं स्वकं त्रिधा प्रोक्तं बाह्याभ्यन्तरमादिमम् || बाह्यं क्रियामयं सूक्ष्ममन्तश्चिन्मात्रमादिमम् || २४२ || उत्तरवातुले तन्त्रोत्तरप्रदीपाख्ये अनुभवसूत्रे च- प्रथमं भावलिंगं स्याद्द्वितीयं प्राणलिंगकम् || तृतीयमिष्टलिंगं स्यादित्येवं त्रिविधं स्मृतम् || २४३|| निष्कलं भावलिंगं स्याद्भावग्राह्यं परस्परम् || सन्मात्रं भावलिंगं स्यादिति निष्ठा महात्मनः || २४४ || प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलम् || तत्प्राणेष्वन्तर्मनसो लिंगमाहुरिति श्रुतिः || २४५ || सकलं दृक्कलाग्राह्यमिष्टलिंगस्थलं महत् || इष्टसिद्धिकरं साक्षादनिष्टपरिहारकम् || २४६ || इष्टिः पूजा यया नित्यमिष्टं पूजितमादरात् || इष्टलिंगमिति प्रोक्तमाचार्यैर्लिंगपूजकैः || २४७ || इष्टमूर्जन्तु तपसाप्यनुयच्छति यद्यतः || पृ० १८९) तदिष्टलिंगमित्याहुस्तथा चाथर्वणी श्रुतिः || २४८ || भावलिंगं परं तत्वं प्राणलिंगन्तु सूक्ष्मकम् || इष्टलिंगं भवेत्स्थूलमेवं लिंगत्रयं स्मृतम् || २४९ || स्थूलं बाह्यमिति प्रोक्तं सूक्ष्ममभ्यन्तरं स्मृतम् || सबाह्याभ्यन्तरं यत्तत्परमित्यभिधीयते || २५० || इष्टलिंगन्तु बाह्यांगे प्राणलिंगन्तथांतरे || भावलिंगं तथैवास्मिन्नात्मांगे सुप्रतिष्ठितम् || २५१ || आत्मांगमिति कारणशरीरयोगांगमित्यर्थः || योगांगत्वेन द्वैताभावादद्वैतसिद्धिरेव भवति || तस्माद्भावलिंगस्य परिपूर्णत्वसर्वाधारत्वादिस्वरूपसद्भाव एव पूजेति विज्ञातव्यं भूसत्तायां भू इत्ययं धातुः सत्तायामर्थे वर्तते तस्मात् सन्मात्रं भावलिंगमित्युक्तं भवति || अस्मिन्नर्थे छांदोग्योपनिषदि सद्विद्यायाम्- सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्मेति || २५२ || सूतसंहितायाम्- विद्यावेद्यं ब्रह्म यद्वेदसिद्धं तस्याभिन्ना काचिदस्त्येव शक्तिः || शक्त्याभिन्नं तद्भवत्यद्वयं सत्सत्यानंदासंगबोधैकरूपम् || २५३ || शांकरसंहितायाम्- लीनं गच्छति यस्मिन् सा माया दुर्घटकारिणी || पृ० १९०) तल्लिंगमिति सन्मात्रं रूप्यते पारमार्थिकैरिति || २५४ || अभियुक्तवचनम् || शक्तिः शिवश्च सच्छब्दप्रकृतिप्रत्ययोदितौ || तौ ब्रह्मसामरस्ये तु समस्तजगदात्मकौ || २५५ || आकाशशरीरं ब्रह्मेत्यादिश्रुतिप्रतिपादितं चिदाकाशलक्षणं भावग्राह्यं निष्कलं सन्मात्रं भावलिंगमिति विज्ञातव्यम् || २५६ || सिद्धांतशिखामणौ प्राणलिंगिस्थले- लिंगं चिदात्मकं ब्रह्म तच्छक्तिः प्राणरूपिणी || तद्रूपलिंगविज्ञानी प्राणलिंगीति कथ्यते || २५७ || ज्ञानिनां योगयुक्तानामन्तःस्फुरति दीपवत् || चिदाकारं ब्रह्मलिंगं कथमज्ञेन भाव्यते || २५८ || प्राणापानसमापातात्कंदमध्याद्यदुत्थितम् || प्राणलिंगं तदाख्यातं प्राणापाननिरोधिभिः || २५९ || प्राणो यत्र लयं याति भास्करेन्दुविघट्टनात् || तत्प्राणलिंगमुद्दिष्टं तद्धारी स्यात्तदाकृतिः || २६० || संविल्लिंगपरामर्शी बाह्यवस्तुपराऽऽन्मुखः || यस्सदा वर्तते योगी प्राणलिंगीति कथ्यते || २६१ || तत्र प्राणलिंगार्चनास्थले अन्तर्गतं चिदाकारं लिंगं शिवमयं परम् || पृ० १९१) पूज्यते भावपुष्पैर्यत्प्राणलिंगार्चनं हि तत् || २६२ || अंतःपवनसंश्लिष्टे सुसूक्ष्मांबरशोधिते || मूर्धन्यचंद्रविगलत् सुधासेकादिशीतले || २६३ || बद्धेंद्रियनवद्वारे बोधदीपे हृदालये || पद्मपीठसमासीनं चिल्लिंगं शिवविग्रहम् || २६४ || भावयित्वा सदा कालं पूजयेद्भाववस्तुभिः || क्षमाभिषेकसलिलं विवेको वस्त्रमुच्यते || २६५ || सत्यमाभरणं प्रोक्तं वैराग्यं पुष्पमालिका || गंधस्समाधिसंपत्तिरक्षता निरहंक्रिया || २६६ || श्रद्धा धूपो महाज्ञानं जगद्भासिप्रदीपिका || भ्रांतिमूलप्रपंचः स्यान्नैवेद्यं तन्निवेदितम् || २६७ || मौनं घण्टापरिस्पन्दस्तांबूलं विषयार्पणम् || विषयभ्रांतिराहित्यं तत्प्रदक्षिणकल्पना || २६८ || बुद्धेस्तदात्मिका शक्तिर्नमस्कारक्रिया मता || एवंविधैर्भावशुद्धैरुपचारैरदूषितैः || प्रत्यऽऽन्मुखमना भूत्वा पूजयेल्लिंगमान्तरम् || २६९ || इयमेव प्राणलिंगपूजा भवति || अथेष्टलिंगपूजामाह || सिद्धांतशिखामणौ आह्वाननिरसनस्थले- पृ० १९२) लिंगार्चनपरः शुद्धः सर्वाद्वैतनिरासकः || स्वेष्टलिंगे शिवाकारे न तमावाहयेच्छिवम् || २७० || शिवकलायुक्तं लिंगं दद्यान्महागुरुः || तदारभ्य शिवस्तत्र तिष्ठत्याह्वानमत्र किम् || २७१ || नाह्वानं न विसर्गं च स्वेष्टलिंगे तु कारयेत् || लिंगनिष्ठापरो नित्यमिति शास्त्रस्य निश्चयः || २७२ || शांकरसंहितायामुपरिभागे- यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनःप्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || २७३ || अत्र निजमिष्टलिंगमिति || सा कला परमा सूक्ष्मा तत्वानां बोधिनी परा || तामाकृष्य यथान्यायं लिंगे समुपवेशयेत् || २७४ || इत्यागमवाक्यात्स्वनाभिहृदयकंठभ्रूमध्यब्रह्मरन्ध्रेषु दिव्यस्थानेषु संस्थितं ब्रह्मशिवरुद्रादिसंज्ञितं परमात्मलिंगमेव श्रीगुरुणा विधिवदुपसन्नाय सच्छिष्याय वीरशैवाय पूर्वोक्तप्रकारेण करपीठे प्रतिष्ठितं तल्लिंगं वीरशैवस्य स्वकीयं प्राणलिंगं स्थावरलिंगमनुपदिष्टत्वात्परक्रियं तस्मादनुपदिष्ट- पृ० १९३) स्थावरलिंगपूजाव्यावृत्त्यर्थं निजमिति विशेषणं कृतं तस्माद्गुरूपदिष्टप्राणलिंगादन्यलिंगस्य पूजनं वीरशैवैर्न कर्तव्यमित्यर्थः || २७५ || बाह्यक्रियासंकुलनिस्पृहात्मेति तत्रैव करपीठकथनाध्याये || सिंहासने शुद्धदेशे सुरम्ये रत्नचित्रिते || शिवलिंगस्य पूजा या सा बाह्या भक्तिरुच्यते || २७६ || लिंगे प्राणं समाधाय प्राणे लिंगन्तु शांभवम् || सशरीरं मनः कृत्वा न किंचिच्चिन्तयेद्यदि || साभ्यन्तरा भक्तिरिति प्रोच्यते शिवयोगिभिः || २७७ || इत्युक्तत्वाद्बाह्यभक्तौ सिंहासनपूजायां कारितायाः क्रियायाः आत्मशुद्धिस्थानशुद्धिद्रव्यशुद्धिमन्त्रशुद्धिलिंगशुद्धिविशोषणदहनप् लावनांगन्यासकरन्यासाह्वानविसर्जननासिकाग्रहणरेचकपूरककुंभकप् राणायामजठराकुंचनप्राचीवीक्षणमौनमुद्रादृगुन्मीलनादिकाः बाह्यक्रियाः तासां संकुलं बाह्यक्रियासंकुलं तस्मान्निवृत्तचित्तस्सन् संपूजयतीति सम्यक्पूजयति समीचीनं यथा भवति तथा पूजयतीत्यर्थः || २७८ || पूजायाः समीचीनत्वं कथमिति चेदुच्यते || पृ० १९४) मन एव मनुष्याणां कारणं बंधमोक्षयोः || यथा चालिंगितः पुत्रस्तथा चालिंगितः पतिः || २७९ || इति वचनादन्तराराधनमेवालमिति केचनाज्ञा वदन्ति || ग्रन्थः || गवां सर्पिश्शरीरस्थं न करोत्यात्मपोषणम् || निःस्रुतं कर्मरचितं पुनस्तासां तु भेषजम् || २८० || एवमन्तश्शरीरस्थसर्पिवत्परमेश्वरः || विना चोपासनां देवो न करोति हितं नृषु || २८१ || इति वचनाद्बाह्याराधनमेवालमिति केचन भ्रमाद्वदन्ति तल्लिंगपूजनं तथैवविधमेव न भवति || २८२ || किन्तु || बाह्ये जाग्रदवस्थायामनुभूतार्थमेव हि || अन्तःस्वप्नदशायां तु यथेह परिदृश्यते || २८३ || तथांतर्यजनं नित्यं बहिर्यजनपूर्वकम् || बहिर्यागविहीनश्चेदंतर्यागो न सिद्ध्यति || २८४ || तद्बाह्यांगे चांतरंगे परमप्रीतिपूर्वकम् || कर्तव्यं स्वेष्टलिंगस्य चार्चनन्तु मनीषिभिः || २८५ || इत्यागमवचनात् || शिवरहस्ये- इष्टलिंगं प्राणलिंगमेकीकृत्य समर्चयेत् || मणिमालां मातृमालामेकीकृत्य जपेत्सदा || मातृका प्राणलिंगस्य मणिमालेष्टरूपिणः || २८६ || पृ० १९५) इति पुराणवचनाच्च बाह्यांतरयोरिष्टप्राणलिंगयोरभ्यर्चनं वीरशैवैः कर्तव्यं तस्मादिष्टलिंगार्चनपुरस्सरं प्राणलिंगपूजने कृते सति तत्पूजनमेव सम्यक्पूजनं तस्माद्यः करपीठे निजमिष्टलिंगं विन्यस्य सम्यक्प्राणलिंगार्चनक्रियया समीचीनं यथा भवति तथा पूजयति वीरशैव इत्यर्थः || २८७ || परमरहस्ये || अष्टविधार्चनं चैव इष्टलिंगस्य पूजनं || तल्लिंगं मनुते यस्तु प्राणलिंगस्य पूजनम् || मनोलयं निरंजन्यं भावलिंगस्य पूजनम् || २८८ || अत एवोक्तं शांकरसंहितायामुपरिभागे- तदेव हस्तांबुजपीठमध्ये निधाय लिंगं परमात्मचिह्नम् || समर्चयेदेकधियोपचारैर्नरः सबाह्यांतरभेदभिन्नैः || २८९ || तत्रैव || करपीठकथनाध्याये शिष्यं प्रति गुरुवाक्यम् || वत्सलिंगार्चनं नित्यं त्रिकालं कुरु भक्तितः || पूजाद्रव्याणि संशोध्य शुचिस्तद्गतमानसः || २९० || कुरुष्व वत्सोपचारान् षोडशस्नानपूर्वकान् || बाह्यानथाभ्यन्तरांश्च समाहितमनाः सदा || २९१ || स्नानं समत्वसलिलेन हि पूर्णभाववस्त्रं त्रिशक्तिगुणसंयुतयज्ञसूत्रम् || पृ० १९६) विद्यासुगन्धमिह भूतदयाक्षतांश्च शब्दादिपुष्पचयमर्पय नित्यमंग || २९२ || प्रज्ञामनोहंकृतिचित्तधूपं श्रोत्रादिपंचेंद्रियदीपमंग || तद्वासनातैलयुतं च देहि जीवोपहारं सुखदुःखबाह्यम् || २९३ || गुणत्रयाख्यतांबूलं प्राणार्पणनमस्कृतिम् || शान्तिपुष्पांजलिं देहि चैकभावविसर्जनम् || २९४ || एवमाभ्यन्तरद्रव्यसंभृतं शिवपूजनम् || कृत्वा निधेहि सततं लिंगं वस्त्रेण वेष्टितम् || २९५ || मस्तके कंधरे कक्षे वक्षस्यथ करस्थले || नाभेरधस्तात्सततं प्रमादान्नैव धारय || २९६ || इति || सिद्धान्तशिखामणौ लिंगधारणस्थले- आदृतं मुनिभिस्सर्वैरागमार्थविशारदैः || लिंगधारणमाख्यातं द्विधा सर्वार्थसाधकैः || २९७ || बाह्यमाभ्यन्तरं चेति मुनिभिर्मोक्षकांक्षिभिः || चिद्रूपं परमं लिंगं शांकरं सर्वकारणम् || २९८ || यत्तस्य धारणं चित्ते तदन्तरमुदाहृतम् || चिद्रूपं हि परं तत्वं शिवाख्यं विश्वकारणम् || २९९ || पृ० १९७) निरस्तविश्वकालुष्यं निष्कलं निर्विकल्पकम् || सत्तानन्दपरिस्फूर्तिसमुल्लासकलामयम् || ३०० || अप्रमेयमनिर्देश्यं मुमुक्षुभिरुपासितम् || परं ब्रह्म महालिंगं प्रपंचातीतमव्ययम् || ३०१ || तदेव सर्वभूतानामन्तस्त्रिस्थानगोचरम् || मूलाधारे च हृदये भ्रूमध्ये सर्वदेहिनाम् || ३०२ || ज्योतिर्लिंगं सदा भाति यद्ब्रह्मेत्याहुरागमाः || अपरिच्छिन्नमव्यक्तं लिंगं ब्रह्म सनातनम् || ३०३ || उपासनार्थमन्तःस्थं परिच्छिन्नं स्वमायया || लयं गच्छति यत्रैव जगदेतच्चराचरम् || ३०४ || पुनः पुनस्समुत्पन्नं तल्लिंगं ब्रह्म शाश्वतम् || तल्लिंगमिति विख्यातं सत्तानन्दचिदात्मकम् || ३०५ || बृहत्वाद्बृंहणत्वाच्च ब्रह्मशब्दाभिधेयकम् || आधारे हृदये वापि भ्रूमध्ये वा निरंतरम् || ३०६ || ज्योतिर्लिंगानुसंधानमन्तरं लिंगधारणम् || आधारे कनकप्रख्यं हृदये विद्रूमप्रभम् || ३०७ || भ्रूमध्ये स्फटिकच्छायं लिंगं योगी विभावयेत् || पृ० १९८) निरुपाधिकमाख्यातं लिंगस्यान्तरधारणम् || ३०८ || विशिष्टं कोटिगुणितं बाह्यलिंगस्य धारणम् || ये धारयन्ति हृदये लिंगं चिद्रूपमैश्वरम् || ३०९ || न तेषां पुनरावृत्तिर्घोरे संसारमण्डले || अन्तर्लिंगानुसंधानमात्मविद्यापरिश्रमः || ३१० || गुरूपासनशक्तिश्च कारणं मोक्षसंपदाम् || वैराग्यज्ञानचित्तानां योगिनां स्थिरचेतसाम् || ३११ || अन्तर्लिंगानुसंधाने रुचिर्बाह्ये न जायते || ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्याश्च लोकपाः || ३१२ || मुनयः सिद्धगन्धर्वा दानवा मानवास्तथा || सर्वे च ज्ञानयोगेन सर्वकारणकारणम् || ३१३ || पश्यन्ति हृदये लिंगं परमानन्दलक्षणम् || तस्मात्सर्वप्रयत्नेन शांकरं लिंगमुत्तमम् || ३१४ || अन्तर्विभावयेद्विद्वानशेषक्लेशमुक्तये || अन्तर्धारयितुं लिंगमशक्तश्शक्त एव वा || ३१५ || बाह्यं च धारयेल्लिंगं तद्रूपमिति निश्चयात् || लिंगं तु त्रिविधं प्रोक्तं स्थूलं सूक्ष्मं परात्परम् || ३१६ || इष्टलिंगमिदं स्थूलं यद्बाह्ये धारयेत्तनौ || पृ० १९९) प्राणलिंगन्तु यत्सूक्ष्मं तदन्तर्भावनामयम् || ३१७ || परात्परं तु यत्प्रोक्तं तृप्तिलिंगं तदुच्यते || भावनातीतमव्यक्तं परं ब्रह्म शिवाभिधम् || ३१८ || इष्टलिंगमिदं साक्षादनिष्टपरिहारकम् || धारयेदवधानेन शरीरे सर्वदा बुधः || ३१९ || मूर्ध्नि वा कंठदेशे वा कक्षे वक्षःस्थलेऽपि वा || कुक्षौ हस्ततले वापि धारयेल्लिंगमैश्वरम् || ३२० || नाभेरधस्ताल्लिंगस्य धारणं पापकारणम् || जटाग्रे त्रिकभागे च मलस्थाने न धारयेत् || ३२१ || लिंगधारी सदा शुद्धो निजलिगं मनोरमम् || अर्चयेद्गन्धपुष्पाद्यैः करपीठे समाहितः || ३२२ || बाह्यपीठार्चनादेतत्करपीठार्चनं परम् || सर्वेषां वीरशैवानां मुमुक्षूणां निरंतरम् || ३२३ || ब्रह्मविष्ण्वादयो देवा मुनयो गौतमादयः || धारयन्ति सदालिंगमुत्तमांगे विशेषतः || ३२४ || लक्ष्म्यादिशक्तयस्सर्वाः शिवभक्तिविभाविताः || धारयन्त्यलिकाग्रेषु शिवलिंगमहर्निशम् || ३२५ || वेदशास्त्रपुराणेषु कामिकाद्यागमेषु च || लिंगधारणमाख्यातं वीरशैवस्य निश्चयात् || ३२६ || पृ० २००) इत्यादिप्रसिद्धमेतल्लिंगधारणमेवोत्तरप्रकरणे सर्वांगलिंगसाहित्ये विस्तरतो द्रष्टव्यम् || ३२७ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे लिंगधारणविधिर्नाम सप्तमप्रकरणं संपूर्णम् || श्री || श्री || पृ० २०१) || श्रीशिवाय नमः || || लिंगधारणमाहात्म्यं वक्ष्यामः || यजुर्वेदे शतरुद्रीये श्वेताश्वतरोपनिषदि च- या ते रुद्र शिवा तनूरघोराऽपापकाशिनी || तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि इति || १ || अस्यार्थः || हे रुद्र ते तव शिवा तनूः शिवा निर्दोषत्वेन निरतिशयकल्याणगुणाकरत्वेन शिवंकरत्वेन च प्रसिद्धा या तनूः “लिंगन्तु शिवयोर्देह इत्यागमवाक्यादितिऽऽ शैवे वायवीयसंहितायामुक्तत्वात् || “लिंगं शिवा तनूः प्रोक्तं मूर्तिर्घोरतनुःस्मृतेतिऽऽ पुराणवाक्याल्लिंगरूपिणी मूर्तिः पुनः कीदृशी अघोरा शिवयोगेनैव सर्वहृदयंगमा न भयंकरा पुनः कीदृशी अपापकाशिनी शिवदीक्षया विगतकल्मषा अपापाः || २ || किंच || सनत्कुमारसंहितायाम्- सर्वैस्तोपिभिस्सकलैश्च योगैः पुण्यैरशेषैरपि सर्वयज्ञैः || दानैस्समस्तैरखिलैरूपायैर्मययर्पितैर्भक्तिरनन्तजन्मभिरिति || ३ || शिवगीतायाम्- कोटिजन्मायुतैः पुण्यैर्मयि भक्तिः प्रजायत इति || ४ || पृ० २०२) किंच || अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् || नराणां क्षीणपापानां शिवे भक्तिः प्रजायत इति || ५ || सा भक्तिः प्रसादद्वारा साक्षात्कारहेतुरित्युच्यते || अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशमिति || ६ || कामिकागमे- अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् || प्रबुद्धानां विरक्तानां प्रसीदति महेश्वरः || ७ || प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः || यथैवांकुरतो बीजं बीजतो वा यथांकुरम् || ८ || इत्यादिवचनप्रमाणाद्बहुजन्मकृतैः पुण्यैः प्रक्षीणपापपंजरा ये केचन सन्ति त एवापापा इत्यर्थः || अपापेषु भक्तेषु काशिनी इष्टप्राणभावलिंगस्वरूपेण सुप्रकाशिनीत्यर्थः गिरिशन्त गिरौ कैलासपर्वते शं स्वोपासकानां निरतिशयानंदस्वरूपं सुखं तनोतीति गिरिशन्तः तस्य संबुद्धिः हे गिरिशंत शंतमया सुखतमया तया लिंगरूपया तनुवा नः अस्माकमपि पृ० २०३) संसारनिमित्तं पुण्यपापसंचयं प्रणूद्य अस्मदीयाहंग्रहोपासनानुसारेण लिंगस्वरूपतया अभिचाकशीहि साक्षात्प्रकाशस्वेत्यर्थः || ९ || स्कन्दपुराणे- लिंगं शिवा तनुः प्रोक्तं मूर्तिर्घोरतनुःस्मृता || अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः || काशते परमेशस्य शिष्टास्ते लिंगधारिण इति || १० || सिद्धांतशिखामणौ लिंगधारणस्थले- अघोरापापकाशीति या ते रुद्र शिवा तनूः || यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जित इति || ११ || चतुर्वेदतात्पर्यसंग्रहे- अपापकाशीति वपुश्श्रुतन्ते शिष्टाः प्रसिद्धा भगवन्नपापाः || अतस्त्वदीयानपहाय भक्तानन्यानशिष्टानिति निश्चिनोमीति || १२ || अस्याभिप्रायः || सदा शिवलिंगसन्निहिता ये केचन भक्ताः सन्ति ते शिष्टाः प्रसिद्धाः अपापाः तदत्ये अशिष्टा अप्रसिद्धाः सपापा इत्यर्थः || १३ || ब्रह्मोपनिषदि || बहिस्सूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः || ब्रह्मभावमिदं सूत्रं धारयेद्यस्सचेतनः || १४ || धारणात्तस्य सूत्रस्य नोच्छिष्टं नाशुचिर्भवेत् || पृ० २०४) सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् || १५ || ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः || ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः || १६ || ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते || अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा || स शिखीत्युच्यते विद्वानितरे केशधारिणः || १७ || इत्यादिवचनप्रमाणाद्विशेषवीरशैवो बहिस्सूत्रं त्यक्त्वा ब्रह्मभावमिदं सूत्रं लिंगं धारयेत् निराभारिवीरशैवो बहिस्सूत्रं बहिश्शिखां च त्यक्त्वा लिंगं धारयेदित्यर्थः || १८ || तत्रैव || कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः || तेभिर्धार्यमिदं सूत्रं क्रियांगं तद्धि वै स्मृतमिति || १९ || अस्यार्थः || वैदिके वेदागमोक्ते कर्मणि सुफले व्यापारे ये मर्त्याश्च ब्राह्मणादयः आदिशब्देन ब्राह्मणक्षत्रियवैश्यशूद्रादय इत्यर्थः ते सर्वे अधिकृताः शिवदीक्षया अधिकारिणः सन्तो वर्तन्ते तेभिर्वीरशैवैः धार्यं पूर्वोक्तपंचस्थानेषु धारणीयं इदं सूत्रमिष्टलिंगं क्रियांगं अष्टविधार्चनषोडशोपचारादिक्रियांगं तत् एतद्धि निरुतमिति वै सकलाम्नायागमप्रख्यातमिति स्मृतं श्रुतिगुरुस्वानुभावप्रमाणतश्चिन्तितमित्यर्थः || २० || पृ० २०५) अस्मिन्नर्थे गारुडपुराणे उपरिभागे- वंशावलिप्रयातानां लिंगधारणशालिनाम् || ज्ञानिनां शिवभक्तानां शूद्रत्वं नैव विद्यते || २१ || नमके चमके पंचब्रह्ममन्त्रादिवैदिके || तेषामेवाधिकारोऽस्ति शिवदीक्षाप्रभावतः || २२ || वातुलागमे- वक्त्रे वा धारयेल्लिंगं मत्प्रभावं विभावयेत् || तस्मिन्सन्निहिते किंचिन्नोच्छिष्टमिति निश्चितम् || २३ || अधमाधमयुक्तानां पापिनां चाभिचारिणाम् || यमलोको न विद्येत सदा वै लिंगधारिणामिति || २४ || शांकरसंहितायाम्- स्वप्नकाले कृतं पापं ब्रह्महत्यादिकं च यत् || यथा प्रबोधसमये तन्मिथ्या भवति स्वयम् || २५ || तथा कृतं महापापं लिंगधारणतः पुरा || यदस्ति तल्लयं याति लिंगधारणतः परम् || २६ || अनेन सदृशं धर्मं न पश्यामि षडानन || वेदतन्त्रपुराणेषु सत्यं सत्यं मयोदितम् || २७ || यत्र तिष्ठति लिंगांगसंबंधीशपरायणः || निमिषं निमिषार्धं वा तच्छिवक्षेत्रमुच्यते || २८ || लिंगशुद्ध्यर्थमज्ञानां तत्तीर्थं शिखिवाहन || प्राणलिंगैकनिष्ठस्य देहं स्पृष्ट्वा समीरणः || २९ || पृ० २०६) यत्र गच्छति तत्रस्था मर्त्या मुक्ता न संशयः || युगपच्छिवलिंगैक्यपादस्पृष्टरजांसि च || ३० || पतन्ति मस्तके यस्य स मुक्तो नात्र संशयः || ३१ || अन्नं वा जलमात्रं वा यद्दत्तं लिंगधारिणे || तदन्नं मेरुसदृशं तज्जलं सागरोपमम् || ३२ || लिंगांगसंगं कुर्वन्तं दृष्ट्वा द्विजवरं रविः || स्थानाच्चलत्ययं भित्वा मंडलं मे व्रजेच्छिवम् || ३३ || शिवलिंगांगसंबंधभाजां दर्शनमात्रतः || मुक्तिं गच्छन्ति मनुजाः पशुपक्षिमृगादयः || ३४ || तेषां संरक्षणं यस्तु कुरुते मनुजोत्तमः || स धन्यस्स कृतार्थी स्यात्स शिवैक्यपदं व्रजेत् || ३५ || तस्मात्सर्वं परित्यज्य सर्वभावेन सर्वदा || पूजयेदादरेणैव द्विजं लिंगांगसंगिनम् || ३६ || दुर्लभास्त्रिषु लोकेषु प्राणलिंगांगसंगिनः || पूर्वजन्मकृतात्पुण्यात् केषां चित्सुलभा भुवि || ३७ || यैः पुराऽऽराधितः शंभुर्भक्तिप्रवणमानसैः || तैरेव लभ्यः पुण्यात्मा शिवलिंगांगसंगभाक् || ३८ || यः पूजयति लिंगांगध्यानासक्तधियं जनम् || पुनर्भवो न तस्यास्ति सत्यं सत्यं मयोदितम् || ३९ || पृ० २०७) एतस्मादपरो धर्मस्सोऽधर्म इति मे मतिः || तस्मात्सर्वप्रयत्नेन धर्ममाश्रय सर्वदा || ४० || तत्रैव || न तस्य सूतकं वत्स प्राणलिंगांगसंगिनः || जननोत्थं मृतोत्थं च विद्यते परमार्थतः || ४१ || कुलजात्यादयो भावधर्मा देहस्य नात्मनः || प्रत्यक्त्वाद्बोधरूपत्वात्पूर्णत्वाच्छिवरूपतः || ४२ || लिंगसारे शिवरहस्ये च- लिंगार्चनरता नारी रजस्सूतकसंयुता || रविरग्निर्यथा वायुस्तद्वत्कोटिशुचिर्भवेत् || ४३ || बसवपुराणे- इब्यंमौव्वा चंगला श्रीबसवो बिब्बिभास्करः || मासजातप्रेतकुलोच्छिष्टसूतकवर्जिता इति || ४४ || शांकरसंहितायाम्- ब्रह्महत्यासहस्राणि भ्रूणहत्यायुतानि च || कुर्वन्तोऽपि न लिप्यन्ते प्राणलिंगार्चनापरा इति || ४५ || तत्रैव षट्स्थलकथनाध्याये || मल्लिंगं मस्तकाद्यंगे धृत्वा चक्रिपुरोगमाः || देवा मां लिंगमध्यस्थं पूज्य स्वं स्वं पदं ययुः || ४६ || उरःस्थले हरिर्लिंगं धृत्वा मूर्ध्नि पितामहः || लिंगस्थं मां समाराध्य स्वं स्वं पदमवापतुः || ४७ || पृ० २०८) लक्ष्मीसरस्वतीमुख्या देव्यो मे लिंगमादरात् || धृत्वा निजांगे तल्लीनभावा जग्मुः परं सुखम् || ४८ || केचिन्महान्तो हृदि भावलिंगं संपूज्य सच्चित्सुखरूपमीशम् || मुक्तिं प्रयाता परमात्मलीनमनःप्रचाराः परिपूर्णभावाः || ४९ || प्राणाह्वयं लिंगमनन्यभावात्संपूजयित्वा गुह नाभिदेशे || केचिन्मुनीन्द्राः पदमव्ययं तच्छिवं प्रयाता दृढभक्तियुक्ताः || ५० || अन्ये परं योगपरा हृदब्जे ज्वलंतमंगुष्ठमितं पुराणम् || लिंगस्वरूपं शिवमप्रमेयं संभाव्य तस्मिंल्लयमापुरार्याः || ५१ || भ्रूघ्राणमध्येऽप्यविमुक्तदेशे विश्वेश्वराख्यं परमात्मलिंगम् || ध्यानामृतासक्तधियो महांतो ध्यात्वा परां मुक्तिमवापुरन्ये || ५२ || ये ब्रह्मरंध्रस्थसहस्रपत्रमध्ये स्फुरंतं रविकोटिभासम् || मामेकभावेन विभावयन्ति ते मद्धियो नित्यविमुक्तिभाजः || ५३ || किंच बृहत्कालोत्तरे- व्रतानि दुश्चराणीह तपांस्युग्राणि यानि च || न्यूनानि तानि सर्वाणि शिवलिंगस्य धारणात् || ५४ || वातुलागमे- अतिधीरेण मनसा यावज्जीवं जगद्गुरोः || पृ० २०९) शिवस्य लिंगं धत्ते यस्तदेतत्परमं व्रतम् || ५५ || किंच वीरशैवानामग्निरित्यादिभस्मरुद्राक्षधारणमन्त्रेषु नमकचमकादिशिवपूजामन्त्रविधानेषु ब्रह्मात्मैक्यप्रतिपादकोपनिषत्सु चाधिकारित्वं विशिष्यते कर्मभागवेदाध्ययनं वीरशैवैर्न कर्तव्यम् || ५६ || तथा चोक्तं सिद्धांतशिखामणौ भक्तस्थले || भस्मरुद्राक्षसंयुक्तो लिंगधारी सदा शुचिः || पंचाक्षरं जपन्योगी स वै भक्त इतीरितः || ५७ || शिवार्चा कर्म विज्ञेयं बाह्यं यागादि नोच्यते || शिवार्थे देहसंशोषस्तपः कृच्छ्रादि नो मतं || ५८ || जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव वा || रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् || ५९ || ध्यानं शिवस्य रूपादिचिंता नात्मादिचिंतनम् || शिवागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् || ६० || इति पंचप्रकारोऽयं शिवयज्ञः प्रकीर्तितः || अनेन पंचयज्ञेन यः पूजयति शंकरम् || भक्त्या परमया युक्तः स वै भक्त इतीरित इति || ६१ || वायुसंहितायां च एवमेवोक्तं भवति || ६२ || शिवरहस्ये || शिवलिंगे शरीरस्थे शिवचिन्तोपपद्यते || पृ० २१०) तच्छिवानुभवप्रेप्सुश्शिवलिंगं ही धारयेत् || ६३ || शांकरसंहितायामुपरिभागे चतुरशीतितमाध्याये- पिंगलं प्रति शतानंदवाक्यम् || लिंगांगसंगिनो वत्स पुनर्जन्म न विद्यते || युगपज्ज्ञानसिद्धिः स्यात्ततो मोक्षमवाप्नुयात् || ६४ || इत्यादिपुराणागमेषु प्रसिद्धम् || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिन्तामणौ उत्तरखंडे लिंगधारणमाहात्म्यन्नामाष्टमप्रकरणं सम्पूर्णम् || श्री || पृ० २११) || श्रीशिवाय नमः || || वीरमाहेश्वरविवाहक्रमं वक्ष्यामः || स्कान्दे शिवरहस्ये- ऋषय ऊचुः || भगवंच्छ्रोतुमिच्छामो वीरमाहेशवर्तनम् || त्वमस्माकं महाभाग वक्तुमर्हसि सत्तम || १ || सूत उवाच || वक्ष्ये युष्माकमद्याहं श्रुणुत श्रद्धयान्विताः || महेश्वरमुखोद्गीतं वीरमाहेशवर्तनम् || २ || पुरा कैलासशिखरे नानामुनिगणावृतम् || गिरिजाश्रितवामांकं स्वात्मानंदांबुधिस्थितम् || ३ || भक्त्या प्रणम्य देवेशं पप्रच्छ शिखिवाहनः || सर्वलोकोपकारार्थं भगवन्तं त्रिलोचनम् || ४ || स्कन्द उवाच || भगवन् श्रोतुमिच्छामि वीरमाहेश्वरव्रतम् || केचिद्वर्तनमाचारं केचिद्वर्णाश्रमं परम् || ५ || केचिच्छिवागमे प्राणलिंगार्चनरतव्रतम् || प्रशंसन्त्युत्तमं देव ब्रूहि किं मुख्यमेतयोः || संशयं मे महान्तं त्वं छेत्तुमर्हसि शंकर || ६ || श्रीमहादेव उवाच || साधु पृष्टं त्वया वत्स वक्ष्याम्येतदशेषतः || वेदशास्त्रपुराणेषु सारं गोप्यं मनोहरम् || ७ || एकनिष्ठाव्रतं शीलं द्वितीयं येन मन्यते || परिच्छेदकरं वीरमाहेशस्थलमुत्तमम् || ८ || पृ० २१२) न ध्यायेन्न स्मरेदन्यं न परं श्रुणुयादपि || न वाक्यं वापि कुर्वीत जन्मांतरशतैरपि || ९ || यद्गृहेष्वन्यदेवोऽस्ति तद्गृहाणि परित्यजेत् || यद्गृहेषु भविप्राप्तिस्तद्गृहाणि परित्यजेत् || १० || भविकृत्यं भविस्नेहं भविसंगं च तत्परम् || भविपाकं गृहं वापि माहेशस्तु विवर्जयेत् || ११ || शिवनिंदा गुरोर्निंदा भक्तनिंदा भवेद्यदि || हन्तव्यस्त्वविचारेण वीरमाहेश्वरव्रतम् || १२ || मातरः पितरश्चैव भ्रातरो बांधवस्तथा || कलत्रपुत्रभृत्याश्च हन्तव्याश्शिवनिन्दकाः || १३ || शिवनिंदाकरं वाक्यं श्रुत्वा तद्वक्त्रशिक्षणम् || कुर्यादन्यत्र वा गच्छेदशक्तोऽपि तथा श्रुतिः || १४ || शिवचिन्हवृषं वापि हन्ति यो दुर्मना जनः || हन्तव्यः स्वस्य हस्तेन माहेशस्थलमुत्तमम् || १५ || शिवसंस्कारयुक्तेषु जातिभेदो न विद्यते || काष्ठेषु वह्निदग्धेषु यथा रूपं न विद्यते || १६ || तस्मात्सर्वप्रयत्नेन शिवसंस्कारसंयुते || जातिभेदो न कुर्वीत शिवभक्ते महेश्वरे || १७ || पृ० २१३) गुरुस्सदाशिवो भावः गुरुपत्नी च पार्वती || इत्येवं स्मर्यते नित्यं वीरमाहेश्वरव्रतम् || १८ || सर्वकर्मपरित्यज्य लिंगार्चनरतः परम् || काम्यार्थशिवपूजां च न कुर्वीत महेश्वरः || १९ || पूजादौ द्वैतकर्तव्यं पूजान्तेऽद्वैतमेव च || इत्येवं भावयेन्नित्यं स वै वीरमहेश्वरः || २० || परस्त्रियं परार्थं च वर्जितो भावशुद्धिमान् || लिंगनिष्ठानियुक्तात्मा माहेश्वरमहाव्रती || २१ || एकपत्नीव्रताचारं परस्त्रीसंगवर्जितम् || भावशुद्धिशिवज्ञानं माहेश्वरमहाव्रतम् || २२ || दासी वेश्या च विधवा परस्त्री पतितस्त्रियः || एताः पंचविधास्त्याज्याः स्त्रियो माहेश्वरस्य वै || २३ || शकुनं स्वप्नसामुद्र्यं स्त्रीजातं पुरुषं तथा || वारं च योगकरणं घटिकालग्नकं तथा || २४ || भविशब्दं मुहूर्तं च धाराहोमादिकर्म च || तदेव भविकृत्यं च त्यजेद्वीरमहेश्वरः || २५ || प्रमादात्कुरुते यस्तु वीरशैवो भवेन्न हि || परंज्योतिः परं रूपं मम माहेश्वरव्रतम् || २६ || तद्व्रतं तत्परित्यज्य स्वेच्छया वर्तते नरः || स याति नरके घोरे दशपूर्वान्दशापरान् || इत्येवं वचनं श्रुत्वा षण्मुखः प्रत्युवाच तम् || २७ || पृ० २१४) स्कन्द उवाच || भगवन्देव देवेश सार्वभौम महेश्वर || माहेश्वरस्यैकपत्नी धारा चैव विवर्जिता || २८ || एवं वदसि सर्वेश संशयो मे महेश्वर || माहेश्वरस्य वैवाहं कथं तल्लक्षणं वद || श्रोतुमिच्छामि सर्वेश मम प्रीत्यर्थमावद || २९ || ईश्वर उवाच || श्रुणु वत्स महासेन गोप्यं गोप्यतरं मया || पुरा पार्वत्यै कथितं प्रवदामि समासतः || ३० || शिष्टानान्तु समाचारस्सदाचार इति स्मृतः || श्रुतिस्मृतिविधानेन द्विजो धर्मज्ञ उच्यते || ३१ || धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः || धाराग्निहोत्रमिच्छा(ज्या) च श्रौतस्यैतद्विलक्षणम् || ३२ || स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतम् || धर्मेति धारणो धातुः महत्वेऽपि च पठ्यते || ३३ || तच्छ्रेष्ठफलभाग्धर्म आचार्यैरुपदिश्यते || अनिष्टफलभाग्धर्मस्तैरधर्मो विभाव्यते || ३४ || तस्मादिष्टफलार्थाय धर्ममेव समाचरेत् || ब्राह्म्यो दैवस्तथा वार्षप्राजापत्यश्च धार्मिकः || ३५ || विवाहो ब्राह्मणार्थस्तु गान्धर्वो नैव धार्मिकः || विवर्णेतरजातीनां गन्धर्वासुरराक्षसाः || ३६ || पृ० २१५) पैशाचो नैव कर्तव्यं विवाहश्चाष्टमो विदुः || वृद्धां प्रव्रजितां विधवां पतितां च रजस्वलाम् || ३७ || अपस्मारिकुले जातां पिंगलां कुष्ठिनी वृणीम् || न च भासि स्त्रियं गच्छेदिति धर्मानुशासनम् || ३८ || पिता पितामहो भ्राता माता मातुल एव च || उपाध्यायो द्विजश्चैव कन्यादाने प्रभूत्तमाः || ३९ || एतैर्दत्तां निषेवेत नादत्तामाददीत च || इत्येवं श्रुतयः प्राहुर्विवाहे च षडानन || ४० || यस्या नास्ति पिता भ्राता माता मातुल एव च || गन्धर्वेण विवाहेन (वृणीयाच्च) संस्पृहेच्च यदृच्छया || ४१ || तस्मान्माहेश्वरोद्वाहो दैववैवाह इष्यते || तस्याः शैवी इति ख्यातं वीरमाहेशलक्षणम् || ४२ || स्थंडिलं चतुरस्रं च गोमयेनोपलेपिते || अक्षतैः फलपुष्पैश्च स्वस्तिकैरार्द्रपल्लवैः || ४३ || जलपूर्णघटैश्चैव सर्वतस्सूत्रवेष्टितम् || तस्य मध्ये प्रतिष्ठाप्य तस्य माहेश्वरस्सदा || ४४ || सिद्धार्थयावकल्कैश्च स्नानं सर्वौषधैरपि || कृतार्जुनानि वस्त्राणि परिधाप्य महेश्वरम् || ४५ || वाचयित्वा तु पुण्याहं अक्षतैश्च समर्चितम् || गन्धानुलिप्तस्रग्वी च संप्रतोदो वधूगृहे || ४६ || पृ० २१६) भस्मतांबूलवस्तूनि पुरःस्थाप्य च मातरौ || माहेश्वर महाप्राज्ञ मम पुत्रीं ददाव ते || ४७ || प्रतीच्छ चैनां भद्रन्ते पाणिं गृह्णीष्व पाणिना || सा पाणिं पाणिना स्पर्शं महेश्वर मुदा सह || ४८ || विवाहं कारयामास श्रुतिदृष्टेन कर्मणा || ऋत्विजे विदिते कर्म दद्यात्कन्यामलंकृतम् || ४९ || सदैव तस्यां जातश्च दश पूर्वान्दशापरान् || पुनातूभयतःश्चेति श्रुतिस्तु कथ्यते द्विजाः || कश्यपोऽत्रिभरद्वाजः विश्वामित्रश्च गौतमः || जमदग्निर्वसिष्ठश्च पराशरगणादयः || वीरभद्रश्च विष्ण्वाद्या एवं वैवाहमाचरन् || ५१ || अत एव पुरा कल्याणपुरे बसवेश्वरस्य गंगांबाविवाहस्त्वेतत्प्रकारेण कारित इति आंध्रकर्नाटकसंस्कृतबसवेश्वरपुराणेषूक्तं भवति || तच्च संस्कृतबसवपुराणे बसवेश्वरविवाहाध्याये द्रष्टव्यम् || ५२ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे वीरमाहेश्वरविवाहक्रमं नाम नवमप्रकरणं संपूर्णम् || श्री || श्री || पृ० २१७) || श्रीशिवाय नमः || || वीरमाहेश्वरदिनाचारं वक्ष्यामः || शांकरसंहितायाम् || स्कन्द उवाच || दिनाचारयुतं देव लिंगार्चनविधिं मम || वक्तुमर्हसि देवेश कृपया भक्तवत्सल || १ || श्रीशंकर उवाच || वदामि संग्रहेणाहं पृच्छतस्तव षण्मुख || संसारदुःखपाशघ्नं वत्स मोक्षैकसाधनम् || २ || ब्राह्मे मुहूर्त उत्थाय चिन्तयेच्छंकरं शुचिः || उमां धर्मं धनं दोषवर्जितं दिनकर्म च || ३ || धनाद्धर्मप्रवृत्तिः स्यात् नराणां धर्मकारिणाम् || धर्मात्प्रसीदति शिवश्चिन्तयेत्तद्धनागमम् || ४ || ततो गृहाद्विनिर्गत्य बहिर्गच्छेदतन्द्रितः || वाग्यतः पृथिवीभागमिषुविक्षेपमात्रकं || ५ || तत्रास्तीर्य तृणैर्भूमिं मलमूत्रे समुत्सृजेत् || निष्ठीवेद्विसृजेद्वाचं वस्त्रप्रावृतमस्तकः || ६ || प्रक्षालयेद्गुदं शिश्नं मृद्भिरभ्युक्षितैर्जलैः || गन्धलेपनिवृत्त्यर्थं कुर्याच्छौचमतन्द्रितः || ७ || यावन्मात्रमनश्शुद्धिस्तावच्छौचं समाचरेत् || आचम्य विधिवद्वत्स कृत्वा मन्त्रेण मार्जनम् || ८ || श्रीमत्पंचाक्षरेणैव गायत्र्या शैवया ततः || स्नायाद्विशुद्धभावेन नरः संकल्पपूर्वकम् || ९ || पृ० २१८) नद्यां तटाके वाप्यां वा गिरिप्रस्रवणे ह्रदे || उद्धृतैरुदकैः कूपे दक्षः स्नायादतन्द्रितः || १० || अशक्तः कंठमात्रं वा कटिमात्रमथापि वा || आचम्य चेलमहतं (चेलमपरं) परिदद्यादथाचमेत् || ११ || प्रातः स्नानेऽप्यशक्तश्चेन्मध्याह्ने स्नानमाचरेत् || अर्घ्याद्युपास्तिपर्यन्तं प्रातः कृत्यं समापयेत् || १२ || ततः शिवार्चनागारं शुद्धान्तःकरणः पुमान् || प्रविश्योपविशेत्तत्र स्वासने चोत्तराननः || १३ || भस्मपात्रं विनिक्षिप्य जलपात्रं षडानन || ध्यायेच्छिवं जलाध्यक्षमोमापस्सर्वमित्यपि || १४ || शंकरं भस्मनि तथा श्रीमत्पंचाक्षरेण च || भस्मस्नानं ततः कुर्याज्जन्मकर्मनिवृत्तये || १५ || अग्निरित्यादिभिर्मन्त्रैः सद्योजातादिमन्त्रतः || सर्वांगोद्धूलनं कुर्यादापादतलमस्तकम् || १६ || मलनिर्मोचनं त्वेतज्जलस्नानं षडानन || भस्मस्नानन्तुसंसारतापविध्वंसकारकम् || १७ || भर्त्सनात्सर्वपापानां भासनात्परमात्मनः || भस्मेति गीयते सद्भिर्वेदान्तेष्वागमेषु च || १८ || योऽन्यथा मन्यते भस्म स पापीयान्न संशयः || पृ० २१९) त्रिपुण्ड्रं धारयेत्पश्चाद्भस्मना सजलेन च || १९ || श्रीमत्पंचाक्षरेणैव मन्त्रैरेभिः षडानन || त्रिपुण्ड्रधारणं कृत्वा ततो रुद्राक्षधारणम् || २० || कुर्यादुक्तप्रकारेण तत्तत्स्थाने समाहितः || शिखायामेकरुद्राक्षं षट्त्रिंशदथ मस्तके || २१ || द्वात्रिंशद्धारयेत्कंठे बाह्वोः षोडश षोडश || कर्णयोः षट्प्रकोष्ठे च द्वादश द्वादशानघ || २२ || धारयेदुपवीतं तदष्टोत्तरशतान्वितम् || अक्षमालां च बिभ्रुयात् सप्तविंशतिसंयुताम् || २३ || एवं देहमलंकृत्य भक्त्या रुद्राक्षमालया || जलपुष्पाक्षतादीनि पूजाद्रव्याणि शोधयेत् || २४ || ततो रुद्रमयीं मूर्तिं कुर्याद्रुद्रार्चनापरः || अरुद्रः पूजयेद्रुद्रं न पूजाफलभाग्भवेत् || २५ || रुद्रो भूत्वा यजेद्रुद्रं नारुद्रो रुद्रमर्चयेत् || प्राणलिंगांगसंबंधी स रुद्रो नात्र संशयः || २६ || शरीरे वत्स करणान्यधितिष्ठन्ति देवताः || आभ्यन्तराणि बाह्यानि दर्शनाद्युपभोगतः || २७ || अर्पितानि भवन्त्येव द्रव्याणि शिखिवाहन || अर्पितान्यर्पयेद्यस्तु रौरवं नरकं व्रजेत् || २८ || तद्दोषपरिहाराय शरीरं देवतामयम् || भूतेन्द्रियादिसंयुक्तं ध्यायेद्रुद्रात्मकं नरः || २९ || पृ० २२०) ततस्समाहितमनाः शंकरध्यानतत्परः || पूर्वोक्तेनैव मार्गेण कुर्याल्लिंगार्चनं नरः || ३० || नेक्षेत पूजावेलायां नरं वत्स बहिष्कृतम् || शिवद्रोहिणमाचारनिंदकं न हृदि स्मरेत् || ३१ || शिवे शिवागमे शैवधर्मे शिवपरिग्रहे || जंगमे प्राणलिंगैक्ये शिवलिंगार्चने गुह || ३२ || शिवस्थानेषु सर्वेषु वाराणस्यादिकेषु च || विपरीता भवेद्बुद्धिर्यस्य स्यात्स बहिर्नरः || ३३ || दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः || कलाववतरिष्यन्ति निन्दकास्ते बहिष्कृताः [बहिर्नराः]|| ३४ || प्रमादादर्चनाकाले पश्येद्यदि बहिर्नरं || प्रायश्चित्तेन महता शुद्धिमाप्नोति मानवः || ३५ || एतेषां दर्शने प्रायश्चित्तमष्टोत्तरं शतं || श्रीमत्पंचाक्षरं मन्त्रं जपेद्ध्यात्वा शिवं नरः || ३६ || स्पृष्ट्वा बहिर्नरं स्नात्वा सचेलं [सजलं] शिवनिन्दकं || कृत्वा तु भस्मतांबूलं मद्भक्तानां च भोजयेत् || ३७ || शंखचक्रांकितांगं च वैष्णवं शिवदूषकम् || पश्येद्यदि प्रमादात्स कुर्यात्सूर्यावलोकनं || ३८ || सेवकान् पाचकांश्चोपकरणद्रव्यसाधकान् || पृ० २२१) शिवभक्तांश्च कुर्वीत भस्मरुद्राक्षधारिणः || ३९ || एवं पूजाविधिं कृत्वा प्रातःकाले समाहितः || ब्राह्मणान् शिवभक्तांश्च पूजयेद्भक्तिसंयुतः || ४० || अप्यापदि दुरन्तायां यावज्जीवमिदं व्रतं || न त्यजेद्यः पुमान्वत्स जीवन्मुक्तस्स उच्यते || ४१ || वृत्त्यर्थमार्जयेदर्थं सर्वदोषविवर्जितं || अर्थात्पंच महायज्ञाः प्रवर्तन्ते नृणां गुह || ४२ || ततो मध्याह्नसमये कुर्वीतैवं शिवार्चनं || शिवाग्निकार्यं कुर्वीत बलिकर्मसमन्वितं || ४३ || ततो गृहद्वारमुपेत्य मर्त्यः कांक्षेत गोदोहनमात्रमत्र || देशान्तरादागतमन्नकामं लिंगार्चकं चातिथिमीश्वरस्य || ४४ || समागतं पुण्यबलात्तदाऽतिथिं समर्चयेदीश्वरचेतसस्ततः || जलासनाद्यंघ्र्यवसेचनादिभिस्तथान्नपानैः प्रियवाग्भिरादरात् || ४५ || ततः कुलाचारसुशीलयुक्तं शिवार्चनातत्परमन्यगोत्रं || समर्चयेत्तं पितृतोषणार्थं द्विजाग्र्यमेकं विदितागमार्थं || ४६ || ततः शिवाराधनतत्परान् जनान्विभूतिरुद्राक्षविभूषितांगिनः || विशुद्धभावान्वरवीरशांभवान् संभोजयेद्भक्तिपुरस्सरं नरः || ४७ || स्वयं भुंजीत तैस्सार्धं वाग्यतः स्वस्थमानसः || पृ० २२२) प्रशस्तमन्नपात्रे(मन्नं पात्रं च) च शुद्धं ध्यात्वा शिवां शिवं || ४८ || पथ्यं शिवार्पितं चान्नं भक्ष्यमूलफलान्वितं || भुंजीयादप्रमादेन द्वात्रिंशत्कबलं मितं || ४९ || भक्ष्यमूलफलादीनि शिवायानर्पितानि तु || भुंजीयाद्यः प्रमादेन छिन्द्याज्जिह्वां स्वयं नरः || ५० || विना माहेश्वरैरेको यस्तु भुंक्ते षडानन || स पापीयानघं भुंक्ते सः श्रीकंठापराधकृत् || ५१ || वीरमाहेश्वरो यस्य गृहे भुंक्ते षडानन || पितरस्तस्य गच्छेयुस्तृप्तिं चानन्तवार्षिकीं || ५२ || अतो माहेश्वरान् शुद्धान् भोजयित्वा विधानतः || पश्चाद्भुंजीत साकं वै पुत्रबन्धुजनैर्युतः || ५३ || पुराणवेदान्तशिवागमेषु विचारयेत्तत्वमनन्तरूपं || सदाशिवाख्यं विमलं चिदंशं परात्परं सत्यचिदात्मभूतं || ५४ || ततः सायन्तने कालेऽप्येवमेवाचरेन्नरः || दिने दिने महाभाग कुर्यादेवं समाहितः || ५५ || किंच अत्रार्घ्याद्युपास्तिपर्यन्तं प्रातःकृत्यं अग्निकार्यबलिकर्मादिकं च सामान्यवीरशैवानां विधीयते || विशेषवीरशैवैर्वर्जनीयमिति वक्तव्यं || ५६ || पृ० २२३) प्रागुक्तशिवरहस्ये- भविशब्दं मुहूर्तं च धाराहोमादिकर्म च || तदेव भविकृत्यं च त्यजेद्वीरमहेश्वरः || ५७ || इतीश्वरेणैवोक्तत्वादर्घ्याद्यग्निकार्यादिभविकर्मपरित्यागेनात्रोक्तं लिंगार्चनादिकं सर्वं वीरशैवैरंगीकर्तव्यं || ५८ || वायवीयसंहितायामुपरिभागे- कृष्णं प्रत्युपमन्युवाक्यं || कर्मयज्ञस्तपो यज्ञो जपयज्ञस्तदुत्तरः || ध्यानयज्ञो ज्ञानयज्ञः पंचयज्ञाः प्रकीर्तिताः || ५९ || कर्मयज्ञरताः केचित्तपोयज्ञरताः परे || जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा || ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरं || ६० || तत्र भक्त्याचारनिरूपणाध्याये || मदर्चा कर्म विज्ञेयं बाह्यं यागादि नोच्यते || मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् || ६१ || जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव वा || रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकं || ६२ || ध्यानं मद्रूपचिन्ताद्यं न तद्व्यर्थसमाधयः || ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनमिति || ६३ || पृ० २२४) अस्मिन्नर्थे सिद्धान्तशिखामणौ भक्तिस्थले- अगस्त्यं प्रति रेणुकगणेश्वरवाक्यं || शिवार्चा कर्म विज्ञेयं बाह्यं यागादि नोच्यते || शिवार्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् || ६४ || जपः पंचाक्षराभ्यासः प्रणवाभ्यास एव वा || रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकं || ६५ || ध्यानं शिवस्य रूपादिचिन्ता नात्मादिचिन्तनं || शिवागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनं || ६६ || इति पंचप्रकारोऽयं शिवयज्ञः प्रकीर्तितः || अनेन पंचयज्ञेन यः पूजयति शंकरं || भक्त्या परमया युक्तस्स वै भक्त इतीरितः || ६७ || नाहं तदद्मि यजमानहविर्वितानैर्यत्तद्धुतं घृतमिदं हुतभुऽऽन्मुखेन || यज्जंगमस्य मुखतश्चरतोऽन्नमेव तृप्तिर्न मे ह्यवहितैर्निजकर्मपाकैरिति || ६८ || वीरागमे- क्षीयन्ते च वरारोहे तपोयज्ञक्रियादयः || न क्षीयते वरारोहे वीरवक्त्रहुतं हविः || ६९ || ब्रह्मपुराणे- नैवेद्यं पुरतो न्यस्तं दर्शनात्स्वीकृतं मया || रसान् भक्तस्य जिह्वाग्रादश्नामि कमलोद्भव || ७० || शिवरहस्ये- गुरुजंगमलिंगानां निर्माल्यं भुक्तमिष्टदं || पृ० २२५) सदैवानुभवेद्देवि प्रसादव्रतमुत्तमं || ७१ || कालिकाखण्डे || प्रसादं त्रिविधं प्रोक्तं शुद्धं सिद्धं प्रसिद्धकं || शुद्ध लिंगमुखात्त्यक्तं सिद्धं चरविसर्जितं || प्रसिद्धं गुरुणा त्यक्तमित्येतत्त्रिविधं स्मृतं || ७२ || शिवधर्मोत्तरे- स्थावरं जंगमं चैव द्विविधं लिंगमुच्यते || जंगमस्यावमानेन स्थावरं निष्फलं भवेत् || ७३ || उत्तरवातुले- तस्माल्लिंगप्रसादं च निर्माल्यं पज्जलं तथा || अर्पयेच्चरलिंगस्य श्रुणु षण्मुख सर्वदा || ७४ || ब्रह्मांडपुराणे शैवसंहितायां || व्यासजैमिनिसंवादे || तस्मात्पादोदकं पेयं प्रसादान्नं च भोजयेत् || प्रसादानुभवस्यैव माहात्म्यं प्रतिपादितं || ७५ || इदं पवित्रं परममखिलागमचोदितं || वेदवेदान्ततत्वज्ञैः पवित्रं परिभाषितं || ७६ || इतिहासे शिवाचारसारभूतमुदाहृतं || नानापुराणवेदेषु रहस्यं परिभाषितं || ७७ || तस्मात्सर्वप्रयत्नेन गोपनीयमिदं त्वया || महता लिंगरूपेण महता जंगमेन च || द्विविधेन समुद्भूतप्रसादाय नमो नमः || ७८ || शिवरहस्ये- प्राणप्रसादमव्यक्तं व्यक्तं लिंगप्रसादकम् || पृ० २२६) लिंगजंगमसंयुक्तं प्रसादं चेत्यखंडकम् || ७९ || ग्रन्थान्तरे- सकृल्लिंगार्चकोच्छिष्टं स्वदेहे यस्तु लेपयेत् || वज्रकायः स भवति शिवेन सह मोदते || ८० || अस्मिन्नर्थे उदाहरणमाह || महाभारते आनुशासनिकपर्वणि- दूर्वासोच्छिष्टशेषस्य पादबाह्यांगलेपनात् || सहसा वज्रकायत्वं प्राप्तवान्विष्णुरव्ययः || ८१ || स्कन्दपुराणे- यवागुभक्षणे विष्णुः पादबाह्यांगलेपनात् || शापरूपवरेणैव योजितो मुनिनामुना || ८२ || कामिकागमे- नैवेद्यं मम चोच्छिष्टं भुंक्ते प्रत्यहमादरात् || सोऽपि मत्सदृशः प्रोक्तश्चरुभूग्यस्तथा भवेत् || ८३ || जंगमलिंगपादोदकप्रसादलिंगार्पणविधानमाह || वीरागमे || जंगमो ज्ञानरूपश्च क्रियारूपं च लिंगकम् || तच्छेषांघ्रिजलाभ्यां तदर्पणं मज्जनं भवेत् || ८४ || चरस्य पादतीर्थेन लिंगमज्जनमुत्तमम् || तत्प्रसादं महादेवि नैवेद्यं शुभदं भवेत् || ८५ || निरंजनस्य शुद्धस्य निःस्थलस्य चरस्य च || पादांबुना लिंगमूर्तिं स्नाप्य कुर्वीत भोजनम् || तस्य प्रसादेन पश्चाच्छिष्यप्राणे विनिक्षिपेत् || ८६ || मुकुटागमे- देव्युवाच || पृ० २२७) केन वा द्रव्यशुद्धिः स्यादर्पितं वा कथं तव || संशयं मे महादेव च्छेत्तुमर्हसि शंकर || ८७ || ईश्वर उवाच || साधु पृष्टं त्वया देवि द्रव्यशुद्धिरनुत्तमा || तद्वक्ष्ये तव देवेशि श्रद्धया श्रुणु तत्वतः || ८८ || चराचरविभेदेन मद्रूपं द्विविधं स्मृतम् || चरेण द्रव्यशुद्धिस्स्यादचरेणा(चा)र्पितं मम || ८९ || निर्वाणदीक्षासंपन्नो वर्णाश्रमविवर्जितः || ध्यानाहारो भस्मनिष्ठो विमुक्तविषयभ्रमः || ९० || सोऽयं चर इति ख्यातो मम देहात्मतां गतः || शब्दादिविषयास्तेन स्पृष्टाः शुद्धिं प्रयान्ति हि || ९१ || स्कन्दपुराणे तथा वातुलागमे- तस्माल्लिंगे प्रसादं च निर्माल्यं पज्जलं तथा || अर्पयेच्चरलिंगस्य श्रुणु षण्मुख सर्वदा || ९२ || वीरागमे- जंगमस्य प्रसादान्ननैवेद्यार्थं प्रकल्पयेत् || पादोदकजलस्नानं विशेषो हि ममोच्यते || ९३ || एतद्भक्तिविहीनस्य रोचते तन्न पूजनम् || यद्गृह्णाति प्रसादान्नं महापापात्प्रमुच्यते || ९४ || गंगादिसर्वतीर्थानां स्नानं पादोदकाच्छिवे || ऐहिकामुष्मिकान्भोगान् त्यक्त्वा प्राप्तिं च सर्वदा || उपैति स महीलोके वीरमाहेश्वरश्शिवे || ९५ || वृत्तं || श्राद्धे पृ० २२८) प्राणाग्निहोत्रे श्रुतिविहितमहाराजसूयादियज्ञे भुक्तोद्यत्कव्यहव्यप्रमुखचरुपतिर्वैदिकस्यैव शुद्धम् || चारुं शेषं गुरूक्तं परममुनिमतं शंभवे तत्पदांबुस्नात्वा चेत्थं समर्प्य त्रिभुवनतिलकास्ते भविष्यन्ति भक्ताः || ९६ || सिद्धान्तशिखामणौ- चतुर्विधसारायस्थले || अगस्त्यं प्रति रेणुकगणेश्वरवाक्यम् || पादोदकं यथा भक्त्या स्वीकरोति महेशितुः || तथा शिवात्मनोर्नित्यं गुरुजंगमयोरपि || ९७ || अर्पयित्वा निजे लिंगे पत्रं पुष्पं फलं जलम् || अन्नाद्यं सर्वभोज्यं च स्वीकुर्याद्भक्तिमान्नरः || ९८ || वातुलागमे वीरशैवदीक्षापटले- अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् || अप्रमादश्च पंचैते नियमाः संप्रकीर्तिताः || ९९ || अक्रोधस्सत्यवचनं संविभागो दमः क्षमा || अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते || १०० || गौरवं लैंगिकाचारं प्रसादं चरणांबुकम् || भाक्तिकं च मया प्रोक्तं षड्विधं व्रतमाचरेत् || १०१ || शिवधर्मोत्तरे- शिवभक्ता महोत्साहाः शिवार्चनपरायणाः || संयता धर्मसंपन्नाः सर्वार्थान् साधयन्ति ते || १०२ || सर्वद्वंद्वसहा धीरा नित्यमुद्यतचेतसः || पृ० २२९) परोपकारनिरता गुरुशुश्रूषणे रताः || १०३ || ऋजवो मृदवस्स्वच्छा अनुकूलाः प्रियंवदाः || शांताः स्मितमुखा भद्रा नित्यं स्वागतवादिनः || १०४ || अपि वाचस्सुवक्तारः शूरास्त्यागविशारदाः || अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धा गतस्पृहाः || १०५ || शिवाचारसमायुक्ता दयादाक्षिण्यगोचराः || दंभमात्सर्यनिर्मुक्ता याथातथ्यविभाषिणः || १०६ || संविभागपराः प्रज्ञा ह्यशठाश्चाप्यकुत्सिताः || न दीना नापि मलिना न च रोषवशानुगाः || १०७ || भवन्ति ह्यमलात्मानः सुस्निग्धाः साधुसेविताः || न पाणिपादवाक्चक्षुःश्रोत्रशिश्नवशानुगाः || १०८ || शिवयोगरतो योगी मुच्यते नात्र संशयः || विधिःशिवनियोगोऽयं तस्माद्विहितकर्मणि || १०९ || शिवाराधनबुद्ध्यैव निरतः स्याद्विचक्षणः || ज्ञानेसिद्धेऽपि विदुषा कर्मापि विनियुज्यते || ११० || फलाभिसंधिरहितं तस्मात्कर्म न संत्यजेत् || आचार एव सर्वेषामलंकाराय कल्प्यते || १११ || आचारहीनः पुरुषो लोके भवति निन्दितः || ज्ञानेनाचारयुक्तेन प्रसीदति महेश्वरः || ११२ || पृ० २३०) तस्मादाचारवान् ज्ञानी भवेदादेहपातनम् || अंधपंगुवदन्योन्यसापेक्षे ज्ञानकर्मणी || फलोत्पत्तौ विरक्तानां तस्मात्तद्द्वयमाचरेत् || ११३ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखण्डे वीरमाहेश्वरदिनाचारनिरूपणन्नाम दशमप्रकरणं सम्पूर्णम् || श्री || पृ० २३१) || श्रीशिवाय नमः || || वीरमाहेश्वरग्राह्यधर्मं वक्ष्यामः || शिवज्ञानविद्यायाम्- ईश्वर उवाच || सदाचारं प्रवक्ष्यामि सम्यग्ज्ञानस्य साधनम् || यस्मादाचारहीनस्य ज्ञानं निष्फलतां व्रजेत् || १ || सदाचारेण देवत्वमृषित्वं च वरानने || उपागताः कुयोनित्वं मनुष्यास्तद्विपर्यये || २ || आचारहीनः पुरुषो लोके भवति निन्दितः || तस्मात्सर्वप्रयत्नेन सम्यगाचारवान्भवेत् || ३ || वातुलागमे- यश्शिवाचारसंपन्नो ह्यनाचारेण मिश्रितः || न प्रसादी न चाचारी सर्वभक्षीव वायसः || ४ || सती सुतश्च भृत्यश्च दासी गोपस्तथैव च || सर्वं लिंगांकितं [लिंगार्चकं] श्रेष्ठमन्यच्चण्डालवद्भवेत् || ५ || गृहं क्षेत्रं च बीजं च धान्यानि च धनानि गौः || एतल्लिंगांकितं शुद्धमन्यथा नरकं व्रजेत् || ६ || रहस्ये- भक्तहस्तगतं द्रव्यं धनवस्त्रविभूषणम् || नन्दिमुद्रांकितं ग्राह्यं द्रव्यशुद्धिरिहोच्यते || ७ || नन्दिमुद्रांकितं क्षेत्रं युक्तं शिवशरण्यकैः || तदेव पावनं क्षेत्रं क्षेत्रशुद्धिरिहोच्यते || ८ || पृ० २३२) भक्तेन यत्कृतं वेश्म लिंगमुद्रासमन्वितम् || अभक्तस्पर्शनाभावाद्वेश्मशुद्धिरिहोच्यते || ९ || भक्तेन कृतभाण्डानि लिंगमुद्रांकितानि च || जलपाकक्रियायां च भाण्डशुद्धिरिहोच्यते || १० || विभूतिसंस्कृतं काष्ठं भक्तानीतं च सुव्रते || तदेव योग्यं काष्ठेषु काष्ठशुद्धिरिहोच्यते || ११ || तृणगुल्मलतादीनि भक्तानीतानि चैव हि || संस्कृत्य भस्मना देवि तृणशुद्धिरिहोच्यते || १२ || भक्तदारुसमुत्पन्नं [भक्तारामे] फलं पत्रादिकं समम् || अथ स्वहस्तपक्कं च शुद्धिस्तांबूलिका मता || १३ || अभक्तदर्शनाभावात्पक्कमन्नं वरानने || शाकं तैलादिकं सर्वं पाकशुद्धिरिहोच्यते || १४ || घृतं दधि पयस्तक्रं माक्षिकं वर्जयेत्ततः || तद्वर्जनं च देवेशि रसशुद्धिरिहोच्यते || १५ || गुरुसंस्कारमाहात्म्यसंप्रदाययुतो भवेत् || अथ वा भवसंस्कारे भवशुद्धिरिहोच्यते || १६ || सर्वभूतदया नित्यं पंचभूतेषु संस्क्रिया || स्वाभूतपोषणा भावो भूतशुद्धिरिहोच्यते || १७ || पृ० २३३) लिंगार्चनविधौ भक्तः काष्ठमौनं समाचरेत् || दत्वा च भावनां लिंगे भावशुद्धिरिहोच्यते || १८ || समयाराधनं नित्यं धनप्राणाभिमानकैः || त्रिसन्ध्यां ध्यानतो देवि मार्गशुद्धिरिहोच्यते || १९ || रात्रौ मध्यमयामे तु सुप्तेष्वखिलजन्तुषु || प्रौढप्रसादभोगश्च कालशुद्धिरिहोच्यते || २० || विनयस्सर्वभक्तानां क्रियते हितया गिरा || तद्वाचश्चानुकूल्यं च नयशुद्धिरिहोच्यते || २१ || आसने शयने याने गमनागमने स्थितौ || भक्तेन सह सांगत्यं जनशुद्धिरिहोच्यते || २२ || संस्काराः षड्विधाः प्रोक्ता जलं पुष्पं फलानि च || पत्रं पात्रं तथा गोत्रं भक्तानां भक्तवत्सले || २३ || भक्तहस्तभवे कूपे प्रत्यहं तरुणं जलं || भस्म मन्त्रपवित्रं च गृहीतं जलसंस्कृतिः || २४ || नवकुंभगतं तोयमदृष्टं भविनामपि || तज्जलं लिंगयोग्यं च तथान्यद्वर्जयेत्सुधीः || २५ || अदुष्टाणि च पुष्पाणि विमुक्तानि शिलीमुखैः || अनन्यापहतान्येवं पुष्पसंस्कारसंभवः || २६ || यानि कानि फलान्येव भक्तहस्तगतानि वै || अभक्तदर्शनाभावात्कथ्यते फलसंस्कृतिः || २७ || पत्राणि चक्रवर्त्यादिभक्तहस्तभवानि वै || पृ० २३४) तत्र शाकादिपाकोऽयं कथ्यते पत्रसंस्कृतिः || २८ || पात्राणि जंगमादीनि तत्पादरजसा शिवे || तेनैव पावितं विश्वं कथ्यते पात्रसंस्कृतिः || २९ || गोत्राणि शिवगोत्राणि तत्र संबंधकारणम् || भयभक्तिः परा तत्र कथ्यते गोत्रसंस्कृतिः || ३० || शैवे वायवीयसंहितायां कृष्णोपमन्युसंवादे- या तु कन्या स्वपित्राद्यैः शिवधर्मे नियोजिता || सा भक्ताय प्रदातव्या नापराय विरोधिने || ३१ || दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिं || भविना शयनाद्यानात्संपर्कात्सहभोजनात् || संचरन्ति महाघोरे नरके कालमक्षयं || ३२ || शिवधर्मे || लिंगार्थं जंगमार्थं वा पचनं नात्मकारणात् || आत्मार्थं यः पचेदन्नं नरकार्थं स जीवति || ३३ || तत्रैव- शिवपूजापरो भूत्वा पूर्वकर्म विवर्जयेत् || अथ वा पूर्वकर्मी स्यात् पूजा सा निष्फला भवेत् || ३४ || उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः || आरूढपतितो ज्ञेयः सर्वकर्मबहिष्कृतः || ३५ || सर्वज्ञानोत्तरे- न च मुख्यतया स्कंद लोकधर्मं समाश्रयेत् || पृ० २३५) नान्यशास्त्रसमादिष्टं न चान्यां देवतां स्मरेत् || ३६ || सिद्धांतशिखामणौ पूर्वाश्रयनिरसनस्थले- स्वजातिकुलजान्धर्मान् लिंगनिष्ठाविरोधिनः || त्यजन्माहेश्वरो ज्ञेयः पूर्वाश्रयनिरासकः || ३७ || विशुद्धाः प्राकृताश्चेति द्विविधा मानुषाः स्मृताः || शिवसंस्कारिणश्शुद्धाः प्राकृता इतरे मताः || ३८ || शिवसंस्कारयोगेन शिवधर्मानुषंगिणाम् || प्राकृतानां न धर्मेषु प्रवृत्तिरुपपद्यते || ३९ || वर्णाश्रमादिधर्माणां व्यवस्था हि द्विधा मता || एका शिवेन निर्दिष्टा ब्रह्मणा कथिताऽपरा || ४० || शिवोक्तधर्मनिष्ठा तु शिवाश्रमनिषेविणां || शिवसंस्कारहीनानां धर्मः पैतामहः स्मृतः || ४१ || शिवसंस्कारयुक्तेषु जातिभेदो न विद्यते || काष्ठेषु वह्निदग्धेषु यथा रूपं न विद्यते || ४२ || तत्रैव भक्तिस्थले- न हि स्थावरलिंगानां निर्माल्याद्युपयुज्यते || यत्र स्थावरलिंगानामपायः परिवर्तते || ४३ || अथ वा शिवभक्तानां शिवलांछनधारिणाम् || तत्र प्राणं विहायापि परिहारं समाचरेत् || शिवार्थं मुक्तजीवश्चेत् शिवसायुज्यमाप्नुयात् || ४४ || पृ० २३६) तत्रैव || न तस्य सूतकं किंचित्प्राणलिंगांगसंगिनाम् || जननोत्थं मृतोत्थं च विद्यते परमार्थतः || ४५ || लिंगार्चनरतायाश्च ऋतौ नार्या न सूतकम् || तथा प्रसूतिकायाश्च सूतकं नैव विद्यते || ४६ || गृहे यस्मिन्प्रसूता स्त्री सूतकं नात्र विद्यते || शिवपादांबुसंस्पर्शात्सर्वपापं प्रणश्यति || ४७ || सूतकं नैव विद्येत जातकं मृतकं तथा || तेषां प्रसादजा शुद्धिः प्राशनं ये प्रकुर्वते || ४८ || ब्रह्मांड पुराणे || शैवसंहितायां चैतत्प्रसिद्धम् || ४९ || वीरागमे || लिंगं च जंगमं चैव अविनाभावचेतसा || आलोकयन्ति विबुधास्ते जना भक्तमुख्यकाः || ५० || लिंगं च जंगमं चैव शिलामानुष्यमानसम् || त्यजन्ति ये जनास्सर्वे भक्तिस्थलविचारिणः || ५१ || रोगी चाशुचिपंगुश्च अंधकः कुष्ठदुर्मतिः || समबुद्धिर्विलोक्यन्ते ये जना भक्तिसंयुताः [भक्तसंज्ञकाः]|| ५२ || भूतिरुद्राक्षकंथां च पंचमुद्रां च धारिणः || दृष्ट्वा तेषां नमस्कृत्वा भक्तः श्रेष्ठस्स उच्यते || ५३ || वातुलागमे शुद्धाख्यतन्त्रे || अन्यदृष्टिनिपातेन तद्द्रव्यं परिवर्जयेत् || शुद्धद्रव्यं समासाद्य लिंगांगानां प्रसर्पणम् || ५४ || पृ० २३७) वीरागमे || गुरुस्त्रीषु परस्त्रीषु विप्रस्त्रीषु च मैथुनम् || करोति शिवभक्तोऽपि शिवद्रोही न संशयः || ५५ || उच्छिष्टं सहभोज्यं च चोरत्वं जीवहिंसकम् || भक्तानां च न कर्तव्यं कृतश्चेत्पातकी भवेत् || ५६ || औदुंबरं च वार्ताकमलाबुं च कुलुत्थकम् || क्रिमियुक्तानि शाकानि वर्जितं भक्तलक्षणम् || ५७ || लशुनं पिशितं चैव लवणाक्तफलं तथा || पर्युषितं च वर्ज्यं च उत्तमं भक्तलक्षणम् || ५८ || वेश्यागेहं भविगृहं परदेवगृहं तथा || रोगिवासप्रवेशं च वर्जितं भक्तलक्षणम् || ५९ || पाकस्थानं च भाण्डं च पचनं वान्नमेव च || श्वानवायसस्पर्शं च वर्जितं भक्तलक्षणम् || ६० || भविदत्तं भविस्पृष्टं भविवस्त्रं च भोजनम् || भक्तानां शिवलिंगस्य वर्जितं भक्तलक्षणम् || ६१ || विषं वाप्यमृतं वापि शाकं वा भोज्यकं तथा || शिवलिंगार्पणं भोक्तुमुत्तमं भक्तलक्षणम् || ६२ || दिवा रात्रं त्रिसंध्यां च तिथिनक्षत्रवारकम् || सर्वं शिवमयं ध्यात्वा उत्तमं भक्तलक्षणम् || ६३ || लिंगं च जंगमं दृष्ट्वा पूजयेद्भक्तिसंयुतः || लिंगस्य च शिरः पूज्यं जंगमस्य पदांबुजम् || ६४ || पृ० २३८) लोकाचारं कुलाचारं वेदाचारं च वर्जयेत् || शिवाचारेण पुण्यात्मा शिवलोके महीयते || वर्णाश्रमाभिमानेन श्रुतेर्दासो भविष्यति || अभिमानविनिर्मुक्तो वर्तते श्रुतिमूर्धनि || ६६ || इति वेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभूतवी रमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखंडे वीरमाहेश्वरग्राह्यधर्मनिर्णयन्नामैकादशप्रकरणं संपूर्णम् || पृ० २३९) || श्रीशिवाय नमः || || निराभारवीरशैवाचरणतन्माहात्म्यं वक्ष्यामः || वातुलागमे शुद्धाख्यतंत्रे || विशेषशैवमाख्यातं निराभारं ततः श्रुणु || सर्वसंसारसौख्यानि त्यक्त्वा चित्तं शिवे लयेत् || १ || दण्डकौपीनकाषायजटावल्कलधारकः || मुण्डी वा शिवचिह्नानि धारयेदजिनादिकम् || २ || भिक्षाशी नियताहारः सुखसंसारवर्जितः || निराभारीति विज्ञेयः स एव परमश्शिवः || ३ || शिवज्ञानविद्यायां- ईश्वर उवाच || सदाचारं प्रवक्ष्यामि सम्यग्ज्ञानस्य साधनं || यस्मादाचारहीनस्य ज्ञानं निष्फलतां व्रजेत् || ४ || इत्यादि विशेषवीरशैवाचारप्रकरणे प्रागेवोक्तं || वीरागमे- बुद्धस्थानं जिनस्थानं पिशाचानां च मन्दिरं || निरीक्षणं न कर्तव्यं जंगमानां च लक्षणं || ५ || शिवशास्त्रं शिवज्ञानं शिवभक्तस्य मेलनं || शिवपूजा शिवध्यानं जंगमाना च कारणम् || ६ || अन्यतीर्थं व्रतं चैव अन्यदैवान्नभक्षणम् || अयुक्तं जंगमानां च विद्यते नारकी भवेत् || ७ || मिथ्यावादः परस्त्रीषु मैथुनं परदूषणं || भविसंसर्गरहितं उत्तमं जंगमस्थलम् || ८ || पृ० २४०) खड्गकोदण्डचक्रं च गदातोमरधारणं || जंगमानां न कर्तव्यं कर्तव्यं शिवपूजनम् || ९ || कारागृहं युद्धभूमिं श्मशानं शववाहनम् || जंगमानां न कर्तव्यं उत्तमं जंगमस्थलम् || १० || अश्वारूढं गजारूढं नरवाहनवर्जितम् || पिशुनत्वं न कर्तव्यं जंगमानां च लक्षणम् || ११ || कृषिको भारवाही च अश्वगर्दभविक्रयी|| अजश्च महिषश्चैव न विक्रेयस्तु जंगमैः || १२ || नदीसंतरणं चैव सिंधुयानं च दुष्क्रिया || जंगमानां न कर्तव्यं कर्तव्यं गुरुबोधनम् || १३ || वाणिज्यं व्यवहारं च मत्सरत्वं हठात्मताम् || एवमेतानि कर्माणि न कुर्युः शिवदर्शिनः || १४ || रसं रसायनं चैव भूतवेतालसाधनम् || वैद्यं च मन्त्रवादं च वर्जितं जंगमस्थलम् || १५ || मनःपीडा च शोकत्वं गतागतविचारणम् || वर्जनीयं महादेवि निश्चलं जंगमस्थलम् || १६ || कंथामासनकौपीनं जटामकुटमण्डितम् || विभूतिधारणं नित्यमुत्तमं जंगमस्थलम् || १७ || निश्चलश्चित्तशुद्धिश्च जितेन्द्रियदृढव्रतः || त्रिकालपूजानिरतो जंगमश्शिव एव च || १८ || सत्यभाषी क्षमायुक्तो नित्यं भिक्षान्नभक्षकः || पंचमुद्राधरः कश्चित्स्वयंभूजंगमोत्तमः || १९ || पृ० २४१) गुरुभक्तिः शिवे भक्तिः शिवध्यानपरायणः || नित्यमभ्यासयोगस्तु स्वयंभूजंगमोत्तमः || २० || केदारं च कुरुक्षेत्रं गया वाराणसी शिवे || श्रीशैलसेवनं सर्वमुत्तमं जंगमस्थलम् || २२ || जटी वा मुण्डितो वापि काषायी वा दिगंबरः || प्राणिमात्ररतो नित्यमुत्तमं जंगमस्थलम् || २२ || पाणिपात्रं च कौपीनं भूशयया भूतिलेपनम् || नित्यमेकान्तशीलोऽपि ह्युत्तमं जंगमस्थलम् || २३ || देविकालोत्तरे- समोऽमित्रे च मित्रे च समो लोष्ठे च कांचने || अभिलाषो न कर्तव्यमिन्द्रियार्थे कदाचन || २४ || आत्मारामो भवेद्योगी निर्भयो विगतस्पृहः || समनिन्दाप्रशंसश्च सर्वभूतसमस्तथा || २५ || न हृष्यत्युपकारेण नापकारेण कुप्यति || यः समस्सर्वभूतेषु जीवन्मुक्तस्स उच्यते || २६ || समदृष्टिस्तु कर्तव्या यथात्मनि तथा परे || विवादं लोकगोष्ठिं च कलहांश्च विवर्जयेत् || २७ || तस्य योगाभ्यासमाह | योगजे- पृ० २४२) मंत्रो लयो हठो राजशिवयोगावितिक्रमात् || योगः पंचविधः प्रोक्तः शिवेन शिवशासने || २८ || उत्तरोत्तरतः श्रेष्ठा योगाश्चैते प्रकीर्तिताः || पंचाक्षरं वा प्रणवं षडक्षरमथापि वा || २९ || मन्त्रानेनान्विधानेन मंत्रयोगी जपेत्सदा || यस्य चित्तं निजे ध्येये मनसा मनुना(मरुता) सह || ३० || लीनं भवति नादे वा लययोगी स एव हि || भवेदष्टांगमार्गेण मुद्राकरणबन्धनैः || ३१ || यद्वा केवलकुंभे वा हठयोगीव सानिलः || त्रिषु लक्षेषु यो ब्रह्म साक्षात्कारं गमिष्यति || ३२ || ज्ञानेऽथ वा मनोवृत्तिरहितो राजयोगवित् || ज्ञानं शिवमयं भक्तिः शैवी ध्यानं शिवात्मकम् || शिवव्रतं शिवार्चेति शिवयोगो हि पंचधा || ३३ || इत्यत्र योगो दिऽऽन्मात्रेणोक्तः सूतसंहितादिपुराणसंहितासु शैवागमयोगपादेषु च शिवयोगप्रदीपिकायां च विस्तरतो द्रष्टव्यः सर्वेषां वीरशैवानां योगः कर्तव्यः अत्र ग्रन्थविस्तरभयान्न लिख्यते || ३४ || अथ जटाधारणमाह | इन्द्रजटाकलापिनां पतये नम इति श्रुतेरयमर्थः इदि परमैश्वर्य इति धातोरिन्द्रशब्दस्य पृ० २४३) परमेश्वरपरत्वाज्जटाकलापिनामिति शेषेषठ्या च जटाधारणव्रतस्येश्वरतोषत्वावगमात्तेषां पतिरित्यनेनासाधारणसंबंधस्य स्वस्वामिभावविशेषस्य प्रतीतेरीदृशसंबंधस्य मानान्तराप्राप्तत्वेन तात्पर्यविषयत्वादीश्वरप्रीत्युद्देश्येन जटाधारणव्रतविधिपरत्वमिति न चास्य वाक्यस्य पदक्रमविभागपाठाभावेन कथं वेदत्वमिति वाच्यं अध्यापकपरंपराय शाखान्तरीयस्यापि वेदमध्यपाठेन वेदत्वनिश्चयात्तस्माज्जटाधारणस्य शिवैकप्रीतिहेतुत्वेन विहितत्वाल्लिंगधारणवद्वैदिकत्वेन सर्वैरनुष्ठेयमप्रत्यूहं अनुष्ठितं हरिब्रह्मादिभिरपि वसिष्ठविश्वामित्रागस्त्यादिमहर्षिभिश्च शिष्टाचारोऽप्यत्र प्रमाणं तेषां जटाधारणप्रतिपादकवाक्यानि सकलपुराणेषु भारतरामायणहरिवंशादीतिहासेषु च प्रसिद्धानि विस्तरभयान्न लिख्यन्ते तत्र तत्र द्रष्टव्यं तस्य वैदिकत्वं कालहस्तिविलासे विस्तरतो द्रष्टव्यम् || ३५ || वीरागमे- ईश्वर उवाच || पृ० २४४) ब्रह्मचारिवनस्थानां जंगमानां च पार्वति || पाशुपत्याश्रमाणां च यतीनां च महाव्रते || ३६ || एतेषामनिशन्देवि जटा एव विशिष्यते || ब्रह्मचारी सदा देवि जटी भवति सन्ततम् || ३७ || व्रतान्ते तु पुनः सम्यक्शिखी भवति सो गृही || पाशुपत्याश्रमाणां च जटाशाखा प्रकीर्तिता || ३८ || व्रतावसाने तेषां च मरणान्ते तु वा पुनः || वानप्रस्थात्याश्रमाणां जटा बन्धनकारणम् || ३९ || प्राणावसानपर्यन्तं कर्तव्यं हि शिवागमे || जटी वा लुप्तकेशी वा शिखी वा कारणं प्रिये || ४० || पाशुपत्याश्रमाणां च त्रयाणां कथ्यते श्रुतिः || जिनानामपि बुद्धानामितरेषां च पार्वति || ४१ || लुंठनं कृन्तनं प्राप्तं शूद्राणां सर्वदा तथा || एतेषां वेदबाह्यानां जटाभूतिर्न विद्यते || महाव्रतीनां सर्वेषां जटा भूतिश्च विद्यते || ४२ || देव्युवाच || जंगमानां च पुण्यानां प्राणलिंगवतां प्रभो || येषां जटा कथं प्राप्ता तेषां कीदृग्विधं भवेत् || ४३ || ईश्वर उवाच || पंचाक्षरेण मन्त्रेण पंचब्रह्मेण वा पुनः || तत्संख्यया जटा धार्या जंगमैः प्राणलिंगकैः || ४४ || पूर्वेद्युः स्नानमाचम्य विभूतिस्नानसंयुतः || मौनी वाप्यथ वा देवि पंचाक्षरजपेन वा || ४५ || पृ० २४५) अथोषितस्तु नियमः शिवपूजाविधानकृत् || स्थित्वा रात्रिं तथैवादौ प्रातः स्नात्वा पुनः शुचिः || ४६ || देवालये वा सुगृहे पुण्यभूमौ सरित्तटे || शुचौ देशे समालिप्य वेदिकां कल्पयेत्तदा || ४७ || गौरीललामविख्यातमण्डलं कल्पयेत्पुरा || धूपदीपादिनैवेद्यं गन्धपुष्पैश्च संयुतैः || ४८ || मण्डलं पूजयित्वा तु जंगमान्भोजयेत्तदा || जंगमानां च भक्तानां सर्वेषामप्यनुज्ञया || ४९ || विभूतिवीटिकां कृत्वा हस्तस्पर्शेशभस्मभिः || पश्चाद्गुरुं नमस्कृत्य पूर्वजन्मनि यत्कृतम् || ५० || तद्दोषशान्तिसिद्ध्यर्थं जटाबन्धनमद्य मे || करोमि मनसा सम्यग्भवदाज्ञां कुरु प्रभो || ५१ || इति विज्ञाप्य पुरतः नमस्कारेण दक्षिणैः || तोषयामास पूर्वं हि जंगमान् श्रीगुरुं तथा || ५२ || तेषामनुज्ञां संप्राप्य उत्तराभिमुखस्थितः || महात्मनां च गुरूणामाशीर्वादपुरस्सरम् || ५३ || मूर्धजान् पंचभागेन विभज्य दृढबन्धनैः || पंचब्रह्मषडंगेन पंचब्रह्मेन भूर्भवेत् || ५४ || विभूतिप्रोक्षणं कुर्यात्पश्चात्संशुद्धमानसः || शिवोऽहमिति पुण्योऽहं मनसा च यजेच्छिवम् || ५५ || शिवप्रसादाद्देवेश त्वत्पादरजसासनः || धृतोऽस्मि शिरसा देव जटामुद्रान्महेश्वर || ५६ || पृ० २४६) इत्युवाच सदा जप्यं श्रीमत्पंचाक्षरं मनुम् || जटा अनन्तपुण्याभ्यां कुलशुद्धिं वहाम्यहम् || ५७ || एवंविधेन मार्गेण जटाबंधं पठन्ति ये || ते पुण्यास्सर्वदेवानामधिकास्सत्यमम्बिके || ५८ || देव्युवाच || कियज्जटा कियद्वंशः कियद्विस्तरमीश्वर || कियद्दिनानि धार्याश्च जटाजूटाश्च शंकर || ५९ || ईश्वर उवाच || ब्रह्मचारी वनस्थोऽपि पाशुपत्याश्रमस्स च || तेषां द्वादशवर्षाणि कर्तव्यं तु शिवागमे || ६० || अत ऊर्ध्वं गृहस्थोऽभूद्ब्रह्मज्ञानान्तु कश्चन || त्रयोस्तु कर्मसन्यासाश्चतुर्थाश्रममाविशेत् || ६१ || तस्माद्दोषा न लिप्यन्ते जटिलास्ते महात्मनः || चतुर्थानां च सर्वेषां वैश्यानां क्षत्रजन्मनां || ६२ || जात्यन्तरादि सर्वेषां वीरशैवार्चनायुजां || तेषां च सततं धार्या जटा सर्वागमे श्रुतौ || ६३ || प्राणावसानपर्यन्तं जटापंचाक्षरं शिवे || न त्यजेत्प्राणलिंगी तु इति शास्त्रविदो विदुः || ६४ || चतुरंगुलविस्तारं मध्यस्थानजटा उमे || पृ० २४७) पार्श्वे चतुष्टयानां च जटानां च त्रियंगुलं || ६५ || पंचब्रह्ममयास्सर्वे जटाः सर्वाः प्रकीर्तिताः || लुंठनं न च एवं हि कृंतनं च तपस्विनः || ६६ || जटानां च शिवाख्यानं न कर्तव्यं महेश्वरि || रोगेण पतनं चैव यदि स्यात्प्राणलिंगिनां || पुनर्बद्धो जटां देवि तस्य दोषो न विद्यते || ६७ || तत्रैव- जटाधरस्य भक्तस्य देहेऽस्मिन् रोमजातयः || लिंगान्येव भवन्तीति शिवशास्त्रादिनिर्णयः || ६८ || तद्देहोद्भवरोमाणि विपश्चिन्नैव कृन्तयेत् || यदि कृन्तयते देवि तर्हि मे लिंगहा भवेत् || ६९ || वपनं कृंतनं नित्यं लुंठनं प्राणलिंगिनां || न कर्तव्यं महादेवि कुर्यात्तल्लिंगहा भवेत् || ७० || पराख्ये- ते च बद्धजटाजूटा मुण्डा वा भस्मपाण्डुराः || भस्म तद्विमलं ज्ञानं तेन लिप्ता विवेकिनः || ७१ || दृश्यन्ते विमलाः सर्वे निर्धूमांगारवर्चसः || शिवचिह्नजटाबंधा ध्वजवत्ताः समुच्छ्रिताः || ७२ || ख्यापयन्ति जनैर्दृष्टा लोकानां तच्छिवव्रतं || ताश्चण्डधारकैः सर्वैर्वर्णैस्तत्संख्यया कृता || तत्वैर्ब्रह्मकलाभिर्वा ज्ञानैर्वा शक्तिभिर्गुणैः || ७३ || पृ० २४८) किरणागमे- ताश्च स्युरहिभोगाभा कणिका वेणिकाऽथवा || वृत्ता विषमवृत्ताश्च नवषट्कैकषोडशाः || इतरास्तु यथेच्छातः कर्तव्या शास्त्रचोदिता || ७४ || पराख्ये- ईशानेन तु गृह्णीयाच्छिवमन्त्रेण वा गुरुः || शिखामन्त्रेण ताः कुर्यात्तन्त्रोक्तविधिना ततः || संस्कारैः संस्कृताश्चैव मर्दनैः शैवकर्मणि || ७५ || किरणे- क्रिमिघ्नद्रव्यमिश्रेण भस्मना सजलेन च || सायश्चूर्णेन वा पुष्टिं नयेत्ता भौतिकव्रती || ७६ || मृगेन्द्रे- जटाः शूद्रो न बिभृयान्राजा नापि प्रमादवान् || न योषी न वयोन्तस्था न रोगी विकलोऽपि वा || ७७ || पराख्ये- कार्या दीक्षापि सर्वेषां तच्छक्तिविधियोगिनां || अमध्यमास्तु ये शूद्राः शैवाचारक्रियाधराः || ७८ || शिवभक्तांश्च तेषां सा दीक्षा कार्याऽन्यथा न हि || तस्माज्जटादिकं (शुद्धं) सर्वं शूद्रस्यापि विधीयते || ७९ || स्वजात्यदीक्षितं स्पृष्ट्वा भस्मस्नानं समाचरेत् || जटानां वेष्टनं कार्यं शिरो मुण्डं न वेष्टयेत् || ८० || जटायां नादबिंद्वैक्यं चिन्तयेन्मनसा गुरुः || सर्वतत्वातिगं शान्तं सर्वाधारं परात्परं || ८१ || पृ० २४९) ब्रह्मरूपं शिवं ध्यायेज्जटामध्ये तु देशिकः || शिरः पीठं जटा लिंगं गुरुः स्थापक उच्यते || ८२ || ऋषयस्सर्वदेवाश्च शक्तयस्सर्वदेवताः || रुद्राः समस्तमन्त्राणि जटारूपावगोचराः || ८३ || जटाग्रं शिवतत्वं स्याज्जटामध्यं सदाशिवः || जटामूलं महामन्त्रमिति शास्त्रस्य गोचरः || जटाकलापसंयुक्तनरः शिवसमो भवेत् || ८४ || अथ पंचमुद्रामाह || कामिकागमे- जटाधारणसंपन्नो धारयेत्पंचमुद्रिकां || अस्त्रेण प्रोक्षयेद्दण्डं कंथां कवचमन्त्रतः || ८५ || पात्रं हृदयमन्त्रेण वामेन तु कमण्डलुं || अग्निरित्यादिभिर्मन्त्रैः सद्योजातादिमन्त्रतः || ८६ || विभूतिघुण्टिकां प्रोक्ष्य भूत्या तन्त्रोक्तमार्गतः || पंचमुद्राः सुसंपूज्य स्वस्य दक्षिणभागके || शिष्यमादाय मुद्रास्ता दद्यात्पंचाक्षराणुना || ८७ || शांकरसंहितायामुपरिभागे- अत्याश्रमी प्राणलिंगसंबंधी भस्मघुण्टिकां || कंथां कमण्डलुं भिक्षापात्रं दण्डं च धारयेत् || ८८ || एताः पंचमहामुद्रा यस्मिन्यस्मिन्भवन्ति हि || तं तं शरणमभ्येत्य सर्वभावेन पूजयेत् || ८९ || पृ० २५०) पंचमुद्रान्वितो धर्मो यस्मिन्वत्स प्रवर्तते || स वन्द्यस्सर्वदा पूज्यः प्राणलिंगसमन्वितैः || ९० || अथ कंथालक्षणमाह || किरणागमे- षट्तालमानविस्तीर्णं दीर्घं तालाष्टमानकं || कृष्णकंबलया कंथां कृत्वा धारयते यतिः || ९१ || कंथाप्रवेशविस्तारं द्वात्रिंशत्तालमानकं || वृत्ताकारस्थकंथाया लक्षणं परिकीर्तितं || ९२ || कमण्डलुमाह || मुखं द्व्यंगुलविस्तारमोष्ठमंगुलमानकं || गलं त्र्यंगुलविस्तारमुदरं द्वादशांगुलं || ९३ || पादं त्र्यंगुलमानं स्याद्घोणमंगुलमानकं || अधोमुखं प्रकर्तव्यं रन्ध्रं यवचतुष्टयं || ९४ || वस्त्रमाच्छाद्य वर्माख्यमन्त्रेण च कमण्डलुं || मूलेन शिवमन्त्रेण चाभिमन्त्र्य स देशिकः || ओमाप इति मन्त्रेण मन्त्रितं वारि शोधितं || पूरयेत्प्रणवेनैव गुरुमुद्राविचक्षणः || ९६ || असहायो यदा तस्मिन् सुसहायः कमण्डलुः || स च तेन प्रकर्तव्यं सुदृढः शुद्धया हृदा || ९७ || गृहीत्वा सद्यमन्त्रेण स्थापयेद्गुह्यकेन तु || दीपयेत् घोरमन्त्रेण वक्त्रेणोद्धारणं भवेत् || ९८ || प्रक्षाल्य पंचमेनेदं वामदेवेन पूरयेत् || पृ० २५१) पूरितं दर्शयेद्भानोर्बहुरूपेण मन्त्रवित् || ९९ || पत्यै निवेदयेत्पश्चाच्छिवाय गुरवे नमः || निवेद्य स्थाप्य सद्येन क्षितौ त्रिकटकेऽपि वा || १०० || पश्चाच्छिवेन संप्रोक्ष्य तदारभ्य शुचिर्भवेत् || अन्येषामशुचिर्यस्मात् तस्य वै विहिताशुचिः || १०१ || शौचमेवं भवेत्तेन सा भवेद्वैदिका क्रिया || कमंडुलोर्यथा प्रोक्तं स्वरूपं श्रुणु सांप्रतं || १०२ || कायोऽष्टांगुलविस्तारो दैर्घ्यं स्याद्द्वादशांगुलं || विस्ताराद्व्यंगुलग्रीवा दैर्घ्यं स्याच्चतुरंगुलं || १०३ || वृत्तावृत्तोदरस्सोऽपि चतुर्भिश्चत्रवर्तनां || अंगुष्ठपरिमाणाढ्यं सुषिरं तस्य मध्यतः || १०४ || अधो द्व्यंगुलमानेन कांची तस्य परिभ्रमात् || अधरोंऽगुलविस्तीर्णस्तस्य कायः सुशोभितः || तच्छिद्रतुंबरो वा स्यादेवं कृत्वा व्रतं चरेत् || १०५ || तत्रैव || वारिणा भौमपात्रस्य दारुजस्य च तत्क्षणात् || वस्त्राणां क्षारवारिभ्यां वैदलानां च चर्मणां || १०६ || भक्तव्यंजनभांडानां वारिणा घर्षणेन च || प्रोक्षणेनांबुभाण्डानां पर्यग्निकरणेन च || १०७ || पृ० २५२) मृण्मयस्य च मार्जालाद्यवलीढस्य वारिणा || सद्यः प्रक्षालनाच्छुद्धिः पर्यग्निकरणेन च || १०८ || त्यागात्तस्यावलीढस्य श्वखरोष्ट्राश्वसूकरैः || कमंडलोश्च नाशुद्धिर्ज्ञातव्या शुद्धिदर्शिभिः || १०९ || अथ भस्मघुण्टिकालक्षणं || किरणागमे- भस्माश्रयः प्रकर्तव्यो दृढो वा बोक्कणोऽथ वा || वितस्त्यायामतः कार्यः सूत्रजोऽष्टांगुलोच्छ्रितः || ११० || उत्तरीयोछ्रयः कार्यो द्वादशांगुलसंमितः || चतुरंगुलविस्तीर्णो मध्ये तत्संगतं भवेत् || १११ || नारिकेलवदस्याग्रं तत्कार्यं चतुरंगुलं || दशांगुलपरीणाहं यावकं चाथ वा भवेत् || ११२ || ग्रीवांगुलचतुःकोणः ग्रीवायामस्सबंधनं || कनिष्ठिकापरीणाहं सप्ताष्टद्वादशांगुलं || ११३ || सूत्रजस्सुमुखः श्लिष्टः ख्यातो भस्माश्रयो मया || सार्धांगुलं द्व्यंगुलं वा वक्त्रविस्तारमुच्यते || ११४ || ओष्ठमर्धांगुलं कुर्याद्गलोच्छेदं द्विमात्रकं || तदधस्त्र्यैंगुलं दैर्घ्यं विस्तारश्चतुरंगुलं || ११५ || अथ भिक्षापात्रमाह || उशनःस्मृतौ- भिक्षार्थं दारुपात्रं वा मृण्मयं वा दलं तथा || एतानि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् || ११६ || पृ० २५३) द्वादशांगुलविस्तीर्णमुच्छ्रायादंगुलाष्टकं || भिक्षापात्रं प्रकर्तव्यं मात्रं यावत्प्रकल्पितं || ११७ || भुक्त्वा पात्रं यतिर्नित्यं क्षालयेन्मन्त्रपूर्वकं || न दूष्यं तस्य तत्पात्रं यज्ञेषु चषका इव || ११८ || मृत्पात्रं सर्वदा शुद्धं पुनस्तोयेन शुद्ध्यति || इति सूत्रविधानेन चातुर्वर्ण्यं च भोजयेत् || ११९ || वीरागमे- हेमं रजतताम्रं च लोहकान्तं च मृण्मयैः || एतैर्विरचितं पात्रं भिक्षापात्रं महात्मनां || १२० || खर्परं जंगमानां च आदिदैवैश्च संयुतं || देवतानां च निखिलं वक्ष्यामीह गिरीन्द्रजे || १२१ || अधस्तात्पृथिवी देवी ऊर्ध्वेचाकाशदैवतं || मध्ये वह्निरिति प्रोक्तं जलं वायुश्च पार्श्वयोः || १२२ || पंचतत्वमयं पात्रं पंचब्रह्ममयं शिवे || वर्तुलं प्रणवाकारं अन्तश्चिद्रूपभास्वरं || १२३ || खकारं प्रणवं प्रोक्तं पकारं बिंदुरुच्यते || नादं रकारमित्युक्तं तस्मात्खर्पर उच्यते || १२४ || स्थूलं खमय इत्युक्तं पकारं पावनं तथा || रकारं वह्निरूपं स्याद्दोषघ्नं खर्परं भवेत् || १२५ || अन्तश्शिवो बहिश्शक्तिः शिवशक्तिसमन्वितं || पृ० २५४) खर्परं सर्वदा शुद्धं शिवपात्रं शुचिर्भवेत् || १२६ || विशेषं मृण्मयं पात्रं स्पृष्टास्पृष्टिविवर्जितं || अग्निना जायते शुद्धं सामान्यानामिति श्रुतिः || १२७ || मन्त्राग्निना भस्मना च सदा शुद्धं तु खर्परं || जंगमं च शिवस्साक्षाच्छिवपात्रन्तु खर्परं || १२८ || वत्सोच्छिष्टं क्षीरमिदं मत्स्योच्छिष्टं जलं भवेत् || मक्षूच्छिष्टं च मधुकं भ्रमरोच्छिष्टपुष्पकं || १२९ || सर्वोच्छिष्टं च कूपं च तटाकाद्याश्च शर्कराः || हीनोच्छिष्टमिदं सर्वं शुद्धिमेति महीतले || १३० || जंगमश्च सदा शुद्धः शिवलांछनसंयुतः || शिवलिंगार्चनपरः शिवध्यानयुतः शुचिः || १३१ || तस्योच्छिष्टन्तु नोच्छिष्टं पात्रस्य सततं प्रिये || खर्परान्तर्गतं सर्वं पात्रस्पर्शाद्भवेच्छुचि || १३२ || भुक्त्वा भुक्त्वा सदा क्षाल्यं भिक्षापात्रन्तु खर्परम् || तत्पात्रेऽन्नं च नैवेद्यं स्वस्य लिंगस्य दापयेत् || १३३ || जंगमानां च सर्वेषां न दोषो भवति प्रिये || अन्येषां च न दातव्यं भिक्षापात्रं तु खर्परम् || १३४ || तद्गतान्नानि सर्वाणि न दोषो भवति प्रिये || पृ० २५५) पात्रमेकं न दातव्यमन्येषां च कदाचन || १३५ || दापयेत्तु गुरुद्रोही शिवद्रोही भविष्यति || मन्त्रपूतमयं पात्रं धारयेज्जंगमोत्तमः || १३६ || अथ दण्डलक्षणमाह || सिद्धांतशेखरे- षडष्टदशपर्वाणि स्थूलतोंऽगुष्ठमात्रकम् || दण्डमात्मसमं कृत्वा स्थूलमंगुलवत्समम् || यदा हस्तमितं वेत्रं वांशवैणवखादिरम् || १३७ || ज्ञानरत्नावल्याम्- भस्मांगी दण्डहस्तेन परशुर्नागमुद्रिका || शंखमुद्रेति विख्याता मुद्रास्ता दण्डलक्षणम् || १३८ || कात्यायने- समपर्वावृणं सौम्यं ससत्वं भूरुहं भवेत् || दावकीटैरविस्पर्शं (कंटका) किण्डिकाहतवर्जितम् || १३९ || गोपुच्छावृत्तिकं शुद्धं पर्वनिम्नमरंध्रिकम् || पर्वमूलोन्नतं दण्डं स्वीकुर्यात्केशमानकम् || कृत्वोर्ध्वं वैणवं दण्डमाचारेत्यारणिश्रुतिः || १४० || ज्ञानरत्नावल्याम्- दण्डमात्मसमं सप्तनवैकाशदपर्वकम् || पृ० २५६) हस्तांगुष्ठसमं स्थौलं वामस्कंधनिवेशितम् || १४१ || ग्रंथांतरे || मदनं भस्ममात्रेण पश्यंतःकाल उच्यते || ध्वजं भजंति कौपीनं तद्दण्डांते च धारयेत् || १४२ || भस्मांगी हस्तदण्डे च परशुर्नागमुद्रिका || शंखमुद्रेति विख्याता मुद्रास्ता दंडलक्षणम् || १४३ || अथासनखर्पराधारयोःस्वरूपमाह || वीरागमे- व्याघ्राजिनं च प्रथमं मृगाजिनमतः परम् || वस्त्रासनं कंबलकं ध्यानानां चतुरासनम् || १४४ || हस्तद्वयप्रविस्तारं दैर्घ्यं हस्तचतुष्टयम् || अथवा नवतालं स्यात्सूत्रमिश्रेण निर्मितम् || १४५ || सूत्राष्टकं चतुर्थं वा सूत्रं वांगुलिमानतः || समवेतं च तत्सूत्रैरासनं परिकल्पयेत् || १४६ || वस्त्रासनमिति ख्यातं खर्पराधार उच्यते || कार्पासतन्तुसंभूतवटं द्वितालमानकम् || १४७ || चतुःकोणसमायुक्तं द्विकोणं कोणयोजितम् || एवं तत्खर्पराधारलक्षणं परिकीर्तितम् || पंचमुद्रासमेतेन धार्यं तत्प्राणलिंगिना || १४८ || योगपट्टिस्वरूपमाह || त्रिविधं योगपट्टं स्यादाद्यं व्याघ्राजिनोद्भवम् || द्वितीयं मृगचर्मोत्थं तृतीयं तन्तुनिर्मितम् || १४९ || चतुर्मात्रप्रविस्तारं दैर्घ्यं स्याद्यज्ञसूत्रवत् || पृ० २५७) योगपट्टमिति ख्यातं कमण्डलुरथोच्यते || १५० || कटिसूत्रमाह || किरणागमे- अष्टसूत्रकृतो रज्जुरथ वा षोडशात्मकः || गोकेशकृशकृतो वा वल्कजास्मन्तकोऽथ वा || १५१ || अंशांगुलादिकः कार्यः स्वनितंबप्रमाणतः || एकांगुलपरीणाहः कार्यो ग्रन्थ्यादिवर्जितः || १५२ || सिद्धांतशेखरे- कार्पासमात्रसंभूतं त्रिगुणं त्रिगुणीकृतम् || तत्पुनस्त्रिगुणं चेति सप्तविंशतिसूत्रकम् || १५३ || प्रदक्षिणक्रमेणेति कटिसूत्रमुदाहृतम् || १५४ || कौपीनलक्षणमाह || सिद्धान्तशेखरे- एकहस्तप्रविस्तारं करद्वंद्वसमायुतम् || विलंबितं तृतीयांशं गुह्याच्छादनमीरितम् || १५५ || पराख्ये- स्नात्वोत्तीर्य च तत्तीर्थं कौपीनं परिवर्जयेत् || करे सांगुलविस्तीर्णं प्रांतपृष्ठांतविश्रमम् || १५६ || तत्र चालंबितं कृत्वा कार्पासं वा सितं शुभम् || दशाक्षवृत्तिसंकोचे मनोबुद्धिविमिश्रिते || १५७ || भवेत्संकोचमापन्नं कौपीनं द्वादशांगुलम् || कल्पितं तत्त्रिभिर्भागैरशुद्ध द्वितयं गुदे || त्र्यंशं प्रलंबनं कुर्यात् शुद्धांगमिति चिह्नितम् || १५८ || किरणागमे- कृत्वा स्नानविधानो वा कौपीनं परिवर्जयेत् || द्वादशांगुलविस्तीर्णं दैर्घ्यं त्र्येकांशविस्तरम् || १५९ || अथ कर्णकुण्डलमाह || ग्रन्थान्तरे- पृ० २५८) स्फाटिकं कुण्डलं वापि ताम्रं लोहविनिर्मितम् || सिद्धानां कर्णभूषाणि क्रमान्मुद्राः प्रकीर्तिताः || १६० || अन्तर्मुद्रामाह || शांकरसंहितायाम्- धारयेत्समताकंथां क्षमाख्यां भस्मघुण्टिकाम् || दयाकमण्डलुं वत्स ज्ञानदण्डं मनोहरम् || वैराग्यभिक्षापात्रं च भक्तिभिक्षां च याचयेत् || १६१ || अथ भिक्षाटणमाह || मतंगपारमेश्वरे- अथ भिक्षाटनं वक्ष्ये निर्वृत्या व्रतिभिर्यथा || तथा ते संप्रवक्ष्यामि श्रुणु विप्रेश्वरेश्वर || १६२ || कर्तव्यमखिलं कृत्वा प्रत्यक्स्थे तु दिवाकरे || मध्याह्ने वा तु विद्यांगैः कृतरक्षप्रयत्नवान् || १६३ || दिशो विलोक्य विधिवच्छिवास्त्रेण महौजसा || ज्योतीरूपं पदं ध्यात्वा क्षालयेत्पात्रमादरात् || १६४ || प्रणम्य कारणं नाथं गुरुं च प्रविशेत्पुरम् || दण्डेऽस्त्रं हृदयं पात्रे न्यस्य यायाच्छिवं गृणन् || चातुर्वर्ण्यमटेद्भिक्षां भिक्षार्थी साधकोत्तमः || १६५ || मतंगपारमेश्वरे- वैद्यनापितगोपालमण्डशौण्डिककारुकान् || सन्त्यजेद्भैक्ष्यभुग्नित्यं गृहं ग्रामिणकस्य तु || १६६ || तथा देवलकाश्चान्ये भ्रष्टशौचाश्च ये नराः || अन्यायवृत्तयस्सर्वे त्याज्या भैक्ष्यभुजा सदा || १६७ || पृ० २५९) मद्यामिषप्रमदाढ्यं त्याज्यं तद्वेश्म यत्नतः || कुक्कुटश्वखरोष्ट्राणां गृहे यत्र परिग्रहः || तद्गृहं न प्रवेष्टव्यं यच्च स्त्रीकश्मलं मुने || १६८ || सिद्धांतशेखरे- न पाणिना न कांस्येन न दर्व्या चाददीत ताम् || भिक्षां च वृषलीदत्तां गर्भिण्याभ्यक्तयापि वा || १६९ || न म्लानवस्त्रया दत्तामाददीत कथंचन || नटैः कैवर्तकैर्दत्तां किरातैरपि तां त्यजेत् || दत्तां शुद्धसमाचारैर्भिक्षां भिक्षुस्समाचरेत् || १७० || मतंगपारमेश्वरे- दुष्टसंगो न यत्रास्ति न च स्वाम्नायवर्जितम् || तस्मिन् ग्राह्या मुने भिक्षा त्वविचार्या सुमेधसा || १७१ || शिवदीक्षापवित्रस्य भक्तस्यापतितस्य च || शिवैकनिष्ठचित्तस्य गृहे भिक्षां समाचरेत् || वाग्यतः पर्यटेद्विद्वानतीतं न निवर्तयेत् || १७२ || सिद्धांतशेखरे- गत्वा गृहांगणं तत्र भिक्षां देहीति वाक्यतः || एवमुक्त्वा ततस्तिष्ठेत्तावत्स्वांघ्रिगतेक्षणः || १७३ || यावद्गौर्वत्ससंसर्गादाप्नोति प्रसवं ततः || पृ० २६०) गच्छेदन्यत्र तत्स्थानादाहूतोऽपि न च व्रजेत् || १७४ || ग्रन्थान्तरे- राजान्नं नरकं चैव सूतकान्नं तथैव च || मृतान्नं वर्जयेद्योगी भक्तान्नं भक्षयेत्सदा || १७५ || अथ पंचभिक्षामाह || उशनःस्मृतौ- माधुकरमसंक्लिऋप्तं प्राक्प्रणीतमयाचितम् || तात्कालिकं चोपपन्नं भैक्ष्यं पंचविधं स्मृतम् || १७६ || मनस्संकल्परहितान् गृहांस्त्रीन् सप्त पंचकान् || मधुवदाहरणं यन्माधुकरमिति स्मृतम् || १७७ || शयनोत्थापनात्प्राग्यत्प्रार्थितं भक्तिसंयुतैः || तत्प्राक्प्रणीतमित्याह भगवानुशना मुनिः || १७८ || भिक्षाटनसमुद्योगात्प्राक्केनापि नियंत्रितम् || अयाचितं हि तद्भैक्ष्यं भोक्तव्यं मनुरब्रवीत् || १७९ || उपस्थानेन यत्प्रोक्तं भिक्षार्थं भक्तिसंयुतैः || तात्कालिकमिति ख्यातं तदत्तव्यं मुमुक्षुभिः || १८० || सिद्धमन्नं भक्तजनैरानीतं यन्मठं प्रति || उपपन्नं तदित्याहुर्मुनयो मोक्षकांक्षिणः || १८१ || मृगेन्द्रे- पंचात्मकासु भिक्षासु माधूकरमनुत्तमम् || यथा मध्वाददानोऽपि भृंगः पुष्पं न बाधते || १८२ || तद्वन्माधुकरीं भिक्षामाददीत गृहाधिपात् || पृ० २६१) आत्मानं पीडयित्वापि भिक्षां यः संप्रयच्छति || १८३ || सा भिक्षा हिंसिता ज्ञेया नादद्यात्तादृशीं यतिः || शूद्रान्नं सूतकान्नं च नेवैद्यं श्राद्धमेव च || पतितान्नं समूहान्नं राजान्नं चैव वर्जयेत् || १८४ || वातुलतन्त्रे- यत्र चाचारनिन्दास्ति कदाचित्तत्र न व्रजेत् || यद्गृहे शिवनिन्दास्ति तद्गृहाणि परित्यजेत् || १८५ || माधूकरेण मार्गेण गृहस्थानंदकारकः || जंगमस्तु चरेद्भिक्षां यादृशी यावती मही || नासीत चिरमन्यत्र विना क्षेत्रपरिग्रहात् || १८६ || किरणे- भिक्षां दिने दिने मौनं पात्रपूरणतोऽथ वा || भिक्षामानीय तामेव स्थाप्य स्थानेऽपि चाशने || १८७ || मतंगे- पूर्ववत्क्षालयित्वा तु कुल्यादिकमथांभसा || स्नायाद्वा भस्मना मन्त्री शिवतत्वमनुस्मरन् || १८८ || आचमेद्विधिवत्पश्चात्स्ववृत्तमनुपालयेत् || तत्पात्रं क्षालयित्वा तु शिंबीकरणमारभेत् || पूर्ववत्सकलं कृत्वा पृथगन्नं विभज्य च || १८९ || सिद्धांतशेखरे- अस्त्रेण प्रोक्षितां भिक्षामुद्दिश्यं प्रांतदौषदा (वौषडा) || मृत्युंजयेन मन्त्रेण तां भिक्षामाहरेत्सुधीः || १९० || पृ० २६२) वातुलतन्त्रे- उपभोगाय पुरतो वस्तु यदा यद्यदुपस्थितम् || तत्तत्समर्प्य देवाय विदधीतात्मसात्ततः || १९१ || असमर्प्य यदीशाय वस्तु किंचित्कदाचन || कथं चिन्नोपभुंजीत शिवभक्तियुतो यतिः || १९२ || सिद्धांतशिखामणौ- तस्मात्सर्वप्रयत्नेन शिवसंस्कारसंयुतः || जातिभेदं न कुर्वीत शिवभक्ते कदाचन || १९३ || मृगेन्द्रे- आचम्योत्थितविद्वांश्च शिवमस्तीति वै वदेत् || नास्ति भिक्षासमं पुण्यं नास्ति भिक्षासमं तपः || १९४ || सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् || यत्फलं सर्वदानेषु तथा चान्द्रायणादिषु || १९५ || तत्फलं कोटिगुणितं भिक्षाशी प्राप्नुयाद्बुधः || भिक्षादानं महादानं भिक्षान्नस्य परिग्रहः || १९६ || उभयोस्तत्फलं साम्यं दातृग्राहकयोरपि || तस्माच्चित्तं समाधाय भिक्षां कुर्यात्सदा व्रती || १९७ || अथ जंगमशब्दार्थमाह || जंगम्यंते अतिशयेन गच्छन्ति जानन्तीति जंगमाः || यतस्सर्वे गत्यर्था ज्ञानार्था अतिशयेन ज्ञानवन्त इत्यर्थः || १९८ || अथ निर्वचनम् || सिद्धांतशिखामणौ- जानन्त्यतिशयाद्ये तु शिवं विश्वप्रकाशकम् || स्वस्वरूपतया ते तु जंगमा इति कीर्तिताः || १९९ || पृ० २६३) शैवागमे- भवेज्जंगममाहात्म्यं स्वयं लिंगमिति स्थितम् || अत्यन्तातिशयज्ञानं सर्वचैतन्यरूपि यत् || २०० || स्वयचरपरमाह || उत्तरकामिके तथा सिद्धांतशिखामणौ च- स्वच्छन्दाचारसंतुष्टो ज्योतिर्लिंगपरायणः || आत्मस्थसकलाकारः स्वाभिदो मुनिसत्तमः || २०१ || निर्ममो निरहंकारो निरस्तक्लेशसंचयः || भिक्षाशी समबुद्धिश्च मुक्तप्रायो मुनिर्भवेत् || २०२ || पश्यन्सर्वाणि भूतानि संसारस्थानि सर्वशः || दूयमानः परानन्दलीनात्मा वर्तते सुधीः || २०३ || यदृच्छालाभसंतुष्टो भस्मनिष्ठो जितेन्द्रियः || समवृत्तिर्भवेद्योगी भिक्षुके वा नृपेऽथ वा || २०४ || ध्यानं शैवं तथा ज्ञानं भिक्षा चैकान्तशीलता || एतच्चत्वारि कर्माणि न पंचममिहेष्यते || २०५ || इत्येवं स्वयस्थलम् || अथ चरस्थलमाह || स्वरूपज्ञानसंपन्नो ध्वस्ताहंममताकृतिः || स्वयमेव स्वयंभावाच्चरतीति चराभिधः || २०६ || कामक्रोधादिनिर्मुक्तः शान्तिदान्तिसमन्वितः || समबुद्ध्या चरेद्योगी सर्वत्र शिवबुद्धिमान् || २०७ || पृ० २६४) न सन्मानेषु संप्रीतिं नासन्मानेषु च व्यथाम् || कुर्वाणस्संचरेद्योगी सर्वं ब्रह्मेति भावयन् || २०८ || अप्राकृतैर्गुणैः स्वीयैः सर्वं विस्मापयन् जनम् || अद्वैतपरमानन्दमुदितो देहिवच्चरेत् || २०९ || स्वप्रपंचे निजे देहे नाधमे निजदुःस्थितौ || गतवैषम्यधीर्धीरो यतिश्चरति देहिवत् || २१० || प्राकृतैश्वर्यसंपत्तिपराऽऽन्मुखमनःस्थितिः || चिदानन्दनिजात्मस्थो मोदते मुनिपुंगवः || २११ || इत्येवं चरस्थलम् || अथ परस्थलमाह || स्वयमेव स्वयंभावात् चरतस्स्वस्वरूपतः || परं नास्तीति बोधस्य परत्वमभिधीयते || २१२ || परतत्वपरानन्दनिष्ठश्च मुनिपुंगवः || वर्णाश्रमसमाचारमार्गनिष्ठापराऽऽन्मुखः || २१३ || सर्वोत्कृष्टं स्वमात्मानं पश्यन्योगीति मोदते || स्वतन्त्रस्सर्वकृत्येषु स्वपरत्वेन भावितः || २१४ || तृणीकृतजगज्जालो वर्तते शिवयोगिराट् || ब्रह्माद्याः किंनु कुर्वन्ति देवताः कर्ममार्गगाः || २१५ || कर्मातीतपदस्थस्य स्वयं ब्रह्मस्वरूपिणः || विश्वातीतं परं ब्रह्म शिवाख्यं चित्स्वरूपकम् || २१६ || पृ० २६५) तदेवाहमिति ज्ञानी सर्वोत्कृष्टस्स उच्यते || स्वेच्छया संचरन्योगी विमुंचन्देहमानितम् || २१७ || दर्शनैः स्पर्शनैः सर्वानज्ञानपि विमोचयेत् || अचलं ध्रुवमात्मानमनुपश्यन्निरन्तरम् || निरस्तविश्वविभ्रान्तिर्जीवन्मुक्तो भवेन्मुनिः || २१८ || वृत्तं || नित्ये निर्मलभावने निरुपमे निर्धूतविश्वभ्रमे सत्यानन्दचिदात्मके परशिवे सम्यग्यतस्संयमी || प्रध्वस्ताश्रमवर्णधर्मविगलत्स्वच्छन्दसंचारवान् देहीवद्भुवि वैभवो विजयते जीवन्विमुक्तस्सुधीः || २१९ || महाभारते || प्रियाप्रियपरिष्वंगः सुखदुःखाविकारिता || भावसंशुद्धिरित्येषः परिव्राड्धर्म उच्यते || २२० || जंगममाहात्म्यमाह || ऋग्वेदे आरणे- ईश्वरोऽतिथिरेव चरतमुपास्महे || २२१ || यजुर्वेदे- देवानां देवोऽतिथिरिति || २२२ || वीरागमे- भूतले मत्समं रूपं वहन्ति प्राणलिंगिनः || तस्मादैक्यं विना देवि जीवन्मुक्ता न संशयः || २२३ || जटारुद्राक्षभस्मांगाः शिवलिंगार्चने रताः || पृ० २६६) भूलोके वीरशैवाश्च जीवन्मुक्ता भवन्ति हि || २२४ || महाकाशे प्रभाकारे महानन्दं स्वकं मनः || योजयेत्सर्वसिद्ध्यर्थमुत्तमं जंगमस्थलम् || २२५ || विश्वातीतो विश्वमयो विश्वात्मा विश्वसंभवः || विश्वचक्षुःश्रवास्सर्वं वीरमाहेश्वरः पुमान् || २२६ || संचारात्पावना भूमिर्दर्शनात्पावनं नभः || भाषणात्पावना मन्त्रा गानात्साम च पावनम् || २२७ || गुणातीतो मलातीतः कर्मातीतो महेश्वरि || मनोतीतो महानन्दः प्राणलिंगधरः पुमान् || २२८ || अकल्पितरसं भैक्ष्यमकल्पितसुखावहम् || अनौपम्यसुखं चैतदुत्तमं जंगमस्थलम् || २२९ || ब्रह्मविष्णुसुरेन्द्राद्यैर्वन्द्यमानपदद्वयम् || वेदागमार्थनिरतमुत्तमं जंगमस्थलम् || २३० || सर्वभावविनिर्मुक्तं सर्वसंकल्पनातिगम् || सर्वशून्यं परानन्दं चिद्रूपं जंगमस्थलम् || २३१ || शिवतेजोमयं साक्षात्सर्वब्रह्माण्डवाहकम् || पृ० २६७) तच्चैतन्यकलारूपं षट्त्रिंशत्तत्त्वरूपकम् || २३२ || शिवो जंगमरूपी सन् चरते लोकपूजितः || अन्तर्धाय ललाटाक्षं शशांकांकं पिधाय च || २३३ || अनन्तमुखमीशस्य तन्मुखेनैव पार्वति || मन्मुखं सततं देवि प्राणलिंगवतां मुखम् || २३४ || सर्वव्रतानामधिकं प्राणलिंगव्रतं महत् || तद्व्रतं मम देहन्तु मन्मुखं जंगमो भवेत् || २३५ || मत्पूजाकोटिगुणितं मद्भक्तानां च पूजनम् || तन्मुखं जंगमस्यैव भोगभोग्यमयं सुखम् || २३६ || सिक्थे सिक्थे महादेवि कोटिलिंगार्चनं भवेत् || प्रसन्नवदनश्शांतः कर्णकुण्डलमण्डितः || २३७ || तृणीकृतजगत्सर्वो मन्दस्मितमनोहरः || वीरतन्त्रेषु दीक्षाभिः सर्वदोषो न विद्यते || २३८ || वीरमाहेश्वरस्सोऽहं मत्समः प्राणलिंगवान् || तस्माद्देवासुरास्सर्वे भजन्ति प्राणलिंगिनम् || २३९ || यत्रैव जंगमाः सन्ति तत्रैव निखिलामराः || सप्तकोटिमहामन्त्रा उपमन्त्रास्त्वनेकशः || २४० || आम्नायादीनि तन्त्राणि सिद्धांता बहवश्च ये || भूतानि भुवनान्येव परिवेष्टन्ति सन्ततम् || २४१ || पृ० २६८) तस्मात्सदाशिवाकाराः साक्षाद्वै प्राणलिंगिनः || अवामभागललना जंगमाः परमेश्वराः || २४० || विचरन्ति महीलोके सत्यमेतन्न संशयः || इदं रहस्यं परमं वीरशैवप्रकाशितम् || २४३ || सर्वलोकोपकाराय यो देवः परमेश्वरः || चरत्यतिथिरूपेण नमस्ते जंगमात्मने || २४४ || वातुलागमे- तस्माल्लिंगे प्रसादं च निर्माल्यं पज्जलं तथा || अर्पयेच्चरलिंगस्य श्रुणु षण्मुख सर्वदा || २४ || शांकरसंहितायाम् || बहिष्ठास्सर्वदा सर्वे त्वं नन्दिगणनायकाः || ममात्मा प्राणलिंगैक्यस्स एवाहं न संशयः || २४६ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे निराभारवीरशैवाचरणतन्माहात्म्यन्नाम द्वादशप्रकरणं सम्पूर्णम् || पृ० २६९) || श्रीशिवाय नमः|| || लिंगांगसंयोगतत्त्वमस्यादिवाक्यार्थविचारं वक्ष्यामः || वेदसिद्धांतयोरैक्यं वीरशैवमतं तस्माद्वीरशैवानां बहिरन्तरंगयोः क्रमेण सिद्धांतक्रियावेदांतज्ञानमुभयं कर्तव्यं किंच शिवजीवयोरभदोपासनासायुज्यादिमुक्तिहेतुः || १ || तथा च जाबालः- त्वं अहमस्मि भगवो देवते अहं वै त्वमिति || २ || अन्यत्र च || तद्योऽहं सोऽसौ योऽसौ सोऽहमिति पुनश्च तस्मादेनमात्मानं परं ब्रह्मानुसंदध्या(द्या)त् अहं सः सोऽहमिति || ३ || अन्यत्र च मंत्रोपनिषदि- तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः || हिरण्मयोऽहं शिवरूपमस्मीति || ४ || बोधायनोऽपि हंस हंसेति यो ब्रूयाद्धंसो नाम सदाशिवः || अथात्मानं रुद्ररूपं ध्यायेत्त्रिनेत्रं पंचवक्त्रमिति || ५ || इत्यादिप्रसिद्धं न च ज्ञानद्वयस्याप्यनुपयोगः जीवे ईश्वरत्वारोपस्य ईश्वरत्वसाधकत्वात् ईश्वरे जीवत्वारोपस्य च ईश्वरनिष्ठापरोक्षत्वव्यावृत्तेश्च प्रयोजनत्वात्तस्मा- पृ० २७०) त्तत्त्वमस्यादिमहावाक्यैः शिवजीवैक्यं विज्ञातव्यम् || ६ || अथ ऋग्यजुस्सामाथर्वणेषु क्रमेण प्रतिपादितानि “प्रज्ञानं ब्रह्मऽऽ “अहं ब्रह्मास्मिऽऽ “तत्त्वमसिऽऽ ‘अयमात्मा ब्रह्मेति’ सिद्धार्थबोधकानि महावाक्यानि सन्ति तेषु मुख्यभूतस्य तत्त्वमसिवाक्यस्य तत् त्वं असि इति पदत्रय शिवो जीवस्तदुभयोरैक्यमित्येवमेव क्रमेणार्थत्रयो भवन्ति || ७ || तैत्तिरीये नारायणवल्ल्याम- ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं जुहोमि स्वाहेति || ८ || माण्डूक्योपनिषदि- ओमित्येतदक्षरमिदम् || तस्योपव्याख्यानं सर्वमोंकार एव यच्चान्यत्त्रिकालातीतं तदप्योंकार एव सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा ब्रह्म तमेवमात्मानमोमिति ब्रह्मण्येकीकृत्य ब्रह्म चात्मन्योमित्येकीकृत्य तदेकमक्षरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्याथ तन्मयं हि तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानुसंदध्यात् इत्यारभ्य || पृ० २७१) न स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिंत्यमव्यपदेश्यमेक् आत्मप्रत्ययसारं प्रपंचोपशमं शिवं शांतमद्वैतं चतुर्थं मन्यन्ते स एवात्मा स विज्ञेय ईश्वराग्रस्तुरीयस्तरीय इत्युक्तम् || अत्रोंकारस्वरूपयोरुपाधिवशाज्जवित्रयभूतेश्वरत्रयभूतयोः प्रत्यगात्मब्रह्मणोरैक्यमुक्तम् || ९ || अत एव छांदोग्योपनिषदि- श्वेतकेतो तत्त्वमसीत्युक्तम् || १० || अस्मिन्नर्थे सूतसंहितायाम्... स्कान्दे शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायाम्... यतः कुतश्चिदानीय शास्त्राण्येवं विचारयेत् || शिवोदितानि लिंगांगसंबंधार्थकृतानि च || ११ || कोऽहं मोक्षः कथं केन संसारं प्रतिपन्नवान् || इत्यालोच्य धिया पक्वचित्तस्तत्त्वं विचारयेत् || १२ || किंस्वित्तत्त्वं शरीरं स्याद्भूतग्रामविनिर्मितम् || जडमन्नसमुद्भूतमन्नाद्बुद्धिमुपेष्यते || १३ || विनश्येत्तन्न तत्त्वं स्यान्नेन्द्रियाणि न धीर्मनः || पृ० २७२) नाहंकृतिर्न चित्तं स्यान्न माया न च कर्म च || १४ || इति निश्चित्य मनसा यदुक्तं गुरुणा पुरा || कृत्वा लिंगांगसंबंधं तदेव विमृशेत्सुधीः || १५ || लिंगं किमंगमिति किं संबंधः कोऽयमेतयोः || लिंगांगसंबंधपदान्येवमेव विचारयेत् || १६ || लिंगरूपो महादेवः सच्चिदानंदलक्षणः || अंगरूपो हि जीवात्मा भवभाव (भार) नियंत्रितः || १७ || तत्पदेनोच्यते सद्भिर्लिंगरूपस्सदाशिवः || त्वंपदेनांगरूपो हि जीवस्संसारलक्षणः || १८ || त्वमर्थोंऽगस्वरूपो यः सोऽहं शब्दार्थ एव हि || त्वमहंपदलक्ष्यार्थश्चिद्रूपः परमेश्वरः || १९ || त्वमहंपदवाच्यार्थः शैवदेहादिवस्तुनः || न तच्छब्दार्थतास्त्येव विरुद्धत्वात्सदैव हि || २० || त्वमहंपदलक्ष्यार्थो जीवात्मा चांगरूपकः || अशिवश्चेत्सदानंदस्ततो नैव शिवो भवेत् || २१ || जगच्चराचरं यत्तत् सत्यं पूर्णं चिदात्मकम् || शुद्धं तदंगरूपो हि तत्त्वमर्थो न संशयः || २२ || तत्त्वंपदार्थे लिंगांगरूपेऽन्योन्यविरुद्धके || पृ० २७३) उपाधिकृतवाच्यार्थं त्यक्त्वा सच्चित्सुखात्मकम् || २३ || लक्ष्यार्थमविरुद्धं यच्छिवं तदिति या मतिः || सा संबंध इति प्रोक्तो वेदांतागमवेदिभिः || २४ || लिंगरूपो महादेवः पूर्णश्चैतन्यलक्षणः || भाति यस्सोंऽगरूपोऽहं जीवात्माऽस्मि न चापरः || २५ || यो भामि चांगरूपोऽहं जीवात्मा परमात्मनः || सोऽयमात्मा महादेवो लिंगरूपी महेश्वरः || २६ || यो मायोपाधिको देवो लिंगरूपी सदाशिवः || सोऽविद्योपाधिको भूत्वा भवत्यंगस्वरूपवान् || २७ || लीनं गच्छति यस्मिन् सा माया दुर्घटकारिणी || तल्लिंगमिति सन्मात्रं रूप्यते पारमार्थिकैः || २८ || एतस्मात्कारणादेव लिंगरूपत्वमीशितुः || लिंगं गमकमित्याहुरपरे लिंगवित्तमाः || २९ || गम्यते योगिभिर्धातोर्गमेर्ज्ञानार्थदर्शनात् || तथा निरूप्यते सद्भिर्लिंगं चिन्मात्ररूपतः || ३० || एतस्मात्कारणाच्चापि प्रसिद्धं परमात्मनः || लिंगरूपत्वमीशस्य नीलकण्ठस्य शूलिनः || ३१ || अत उक्तप्रकारेण लिंगरूपो महेश्वरः || इति वेदान्ततन्त्रेषु गीयते तत्त्ववित्तमैः || ३२ || अमिति ब्रह्मसन्मात्रं गच्छतीति गमुच्यते || पृ० २७४) रूप्यतेंऽगमिति प्राज्ञैरंगतत्त्वविचिंतकैः || ३३ || तस्मादंगस्वरूपोऽसौ जीवस्संसारवृत्तिभाक् || संसारवृत्तिरहितो लिंगरूपोंऽबिकापतिः || ३४ || लिंगांगरूपयोर्योऽसौ संयोगश्शिवजीवयोः || एकस्वरूपस्सुदृढः संबन्ध इति स स्मृतः || ३५ || तत्पदेनोच्यते लिंगं त्वंपदेनांगमीरितम् || अनयोरैक्यभावोऽयं संबन्धोऽसिपदेन च || ३६ || इति वाक्यानुसंधानं भासते यस्य संततं || गुरूपदेशाल्लिंगांगसंबन्धीति स उच्यते || ३७ || एवं लिंगांगसम्बंधभावना यस्य विद्यते || स योगी स च सर्वज्ञस्स जीवन्मुक्त उच्यते || ३८ || लिंगांगपदवाच्यार्थं हित्वा सम्यग्धिया पुनः || लक्ष्यार्थं लक्षयित्वाहं सोऽहमेवेति चिंतयेत् || ३९ || लिंगांगपदसम्भूतसम्यग्धीर्जन्ममात्रतः || अविद्यासहकार्येण नाभूदस्ति भविष्यति || ४० || लिंगं भवो भवान्यंगमनयोस्संगतिः परा || आनंदरूपिणी या सा सम्बंध इति कथ्यते || ४१ || अंगं भक्तिः शिवो लिंगं यया भक्त्याऽवगम्यते || इति विज्ञाननिष्पत्तिर्या सा सम्बंध उच्यते || ४२ || अंगं शक्तिरिति प्रोक्ता शक्तिमल्लिंगमुच्यते || अनयोरैक्यविज्ञानं सम्बंध इति कथ्यते || ४३ || पृ० २७५) लिंगं शिवो नियन्तांऽगं प्रपंचस्ससुरासुरः || तस्मिंस्तस्य लयस्थानं सम्बंध इति गीयते || ४४ || अतो लिंगांगसम्बंधपदार्थोऽस्मि शिवात्मकः || सच्चिदानंदसम्पूर्णस्वरूपोऽहमिति स्मरेत् || ४५ || एवं लिंगांगसम्बंधपदानामर्थमुत्तमम् || लब्ध्वा गुरूपदेशाद्यः सोऽयं लिंगांगसंगवान् || ४६ || वृ. || लिंगांगसंबंधपदार्थमेवं निश्चित्य सच्चित्सुखपूर्णरूपम् || गुरूपदेशादपि तर्कतो यो लिंगांगसंगं कुरुते स योगी || ४७ || मंगलात्मशिवलिंगधारणं संगवर्जिततनुः कुरुते यः || अंगजौर्वदहनं भवसिन्धुं संगभंगतरलं प्रतरेत्सः || ४८ || प्राणरूप इति जीव उच्यते लिंगरूप इति शंकरः स्मृतः || यस्तदैक्यमिति वेदितानयोः प्राणलिंगविदसौ शिवयोगी || ४९ || यस्यैतत्परमात्मवेदनमिदं लिंगांगसंबंधिनः प्रत्यग्भाति पदत्रयार्थकलितं शुद्धं सदानन्दकम् || स श्रीकण्ठपदाब्जभक्तिभरितस्वान्तः पुमानुर्वरं त्यक्त्वा कर्मकलापमन्यविषयं वैनं निषिद्धं चरेत् || ५० || लिंगांगमयमेवेदं जगत्सर्वं चराचरम् || पृ० २७६) लिंगांगव्यतिरेकेण नास्ति सर्वत्र किंचन || ५१ || इति भावानुसंधानं यत्र लिंगार्चनं [यत्तल्लिंगा-] विदुः || इतोऽन्यथार्चनं यस्तु कुरुते स पशुर्नरः || ५२ || लिंगं शिवः प्राणसमाख्यमंगं तस्माल्लयस्तस्य कृत पुरा यः || स्वदेशिकेन्द्रेण शिवैक्यभाजा तदर्चयेल्लिंगमनन्यचेताः || ५३ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे लिंगांगसंयोगतत्त्वमस्यादिवाक्यार्थविचारन्नाम त्रयोदशप्रकरणं सम्पूर्णम् || श्री || श्री || श्री || श्री || श्री || पृ० २७७) || श्रीशिवाय नमः || || षट्स्थलब्रह्मयोगाभ्यासक्रमं वक्ष्यामः || ततस्तल्लिंगमस्यांगे शिष्यस्यामिततेजसः || गुरुः संयोजयामास पूर्वोक्तेनैव वर्त्मना || १ || तनुत्रयगतानादिमलत्रयमसौ गुरुः || दीक्षात्रयेण निर्दग्ध्वा लिंगत्रयमुपादिशत् || २ || यथा पुरत्रयं दग्धं युगपत्पुरवैरिणा || तथा मलत्रयं दग्धं युगपद्देशिकात्मना || ३ || वेधा मन्त्रक्रियाकारा दीक्षा शैवी शिखी मता || तच्छिखा लिंगमित्युक्तं कर्ममायाणुवासना || ४ || रूपं कर्पूरमाख्यातं तद्गतोंऽगमितीरितं || एतल्लिंगांगसंयोगः शिखिकर्पूरयोगवत् || ५ || योगांगे भावलिंगन्तु वेधादीक्षाबलेन वै || मन्त्रदीक्षाबलेनैव भोगांगे प्राणलिंगकं || ६ || क्रियादीक्षाबलेनायं देशिकस्सत्यचिद्घनः || इष्टलिंगं तथा चैव त्यागांगे समयोजयत् || ७ || विश्वो जाग्रदवस्थायां स्वप्नाख्यायान्तु तैजसः || प्राज्ञः सुषुप्त्यवस्थायां लिंगत्रयमुपासते || ८ || उपासनैव संयोगः संयोगो द्वैतसंलयः || द्वैतस्य विलयश्चैव निवृत्तिः परिकीर्तिता || ९ || निवृत्तिः सैव विश्रान्तिर्विश्रान्तिः परमं पदं || पृ० २७८) स्फटिकस्वच्छयोर्दीपप्रभयोः करकांभसोः || १० || कर्पूरगन्धयोर्वायुनभसोर्भागयोगवत् || एवं लिंगांगसंयोगविधिना स्वात्मनि स्थिता || ११ || जीवरूपा परा भक्ति प्ररोहति समन्ततः || अंगमात्मेति निर्णीतं लिंगं ब्रह्मेति निश्चितं || १२ || अंगस्य हृदयं लिंगं लिंगस्य हृदयं हि तत् || तयोः कथं वियोगः स्यात् सदा संयोग एव हि || १३ || योगेन तु परा भक्तिरिति भक्तेस्तु वैभवं || अस्य स्वरूपसद्भावात्सद्भक्तिरिति कीर्तिता || १४ || सद्भक्त्यैव तया चास्य भक्तस्थलमुपागतं || आचारलिंगसंयुक्तमंगं भक्तस्थलं स्मृतं || १५ || तत्र स्थिता तु सद्भक्तिः संपूर्णनिजनिष्ठया || नैष्ठिकी भक्तिरित्येव कीर्तिता भक्तितत्परैः || १६ || तया माहेश्वरन्नाम स्थलमस्य समागतं || गुरुलिंगसमायुक्तमंगं माहेश्वरस्थलं || १७ || तत्र सन्निहिता भक्तिर्नैष्ठिका सावधानतः || अवधानात्मिका भक्तिरिति प्रोक्ता महात्मभिः || १८ || भक्त्या तयास्य जीवस्य प्रसादिस्थलमागतं || शिवलिंगसमायुक्तं प्रसादिस्थलमंगकं || १९ || तत्रैषा संस्थिता भक्तिरवधानात्मिका शुभा || स्वानुभूतिनिबंधेन कीर्तितानुभवात्मिका || २० || पृ० २७९) प्राणलिंगिस्थलं चास्य तया भक्त्या समागतं || अंगं च चरलिंगेन संयुक्तं प्राणलिंगि तत् || २१ || तत्र स्वानुभवाकारा भक्तिरानन्दयोगतः || प्रोक्तानन्दात्मिका भक्तिरिति वेदांतवेदिभिः || २२ || अस्यात्मनस्तया भक्त्या शरणस्थलमागतम् || प्रसादलिंगसंयुक्तमंगं हि शरणस्थलम् || २३ || तत्र प्रतिष्ठिता साक्षाद्भक्तिरानन्दरूपिणी || सामरस्यप्रभावेन प्रोक्ता समरसात्मिका || २४ || ऐक्यस्थलं तया चास्य चेतनस्य समागतम् || महालिंगसमायुक्तमंगमैक्यस्थलं परम् || २५ || तत्रैवाधिष्ठिता भक्तिः स्वस्मिन्स्वयमवस्थिता || षडंगयोगमार्गेण साधयत्ययमीश्वरम् || २६ || युगपत्षट्स्थलावाप्तिः साधकस्यास्य सिद्ध्यति || तस्मादंगस्थलं साक्षादात्मायं न हि संशयः || २७ || लिंगस्थलं शिवस्साक्षात्सत्यमेव मयोदितम् || यथा लिंगस्थलं शक्त्या स्वीयया बहुधा भवेत् || २८ || तथा चांगस्थलं भक्त्या स्वीयया बहुधा भवेत् || यद्यल्लिंगस्थलं साक्षाच्छिवो भवति शक्तितः || २९ || तत्तदंगस्थलं साक्षादात्मा भवति भक्तितः || यद्यद्रूपमुपास्यत्वाच्छिवो व्रजति शक्तिमान् || ३० || पृ० २८०) उपासकत्वात्तस्यात्मा तत्तद्व्रजति भक्तिमान् || यद्यत्स्वरूपमाधत्ते गुरुत्वेनांबिकापतिः || ३१ || शिष्यत्वेनायमात्मा च तत्तदादाय वर्तते || उपास्योपासकौ पूज्यपूजकौ साध्यसाधकौ || गुरुशिष्यौ शिवात्मानौ निगद्येते महात्मभिः || ३२ || स्कांदे शांकरसंहितायां- चतुरशीतितमाध्याये षण्मुखं प्रतीश्वरवाक्यम् || वक्ष्यामि संग्रहेणाहं श्रुणु षट्स्थलनिर्णयम् || सारं समस्तशास्त्रेषु रहस्यं च षडानन || ३३ || सर्वेषां स्थानभूतत्वाल्लयभूतत्वतस्तथा || तत्त्वानां महदादीनां स्थलमित्यभिधीयते || ३४ || स्थीयते लीयते यस्मिन्मुक्तिः संसारपद्धतिः || तदेतत्स्थलमित्युक्तं स्थलतत्त्वविशारदैः || ३५ || स्थाने सर्वाश्रयेऽनन्ते सच्चिदानन्दरूपिणि || यस्मिन् ब्रह्मणि लीयेत प्रपंचस्तत्स्थलं भवेत् || ३६ || तद्ब्रह्म स्थलशब्देन स्वशक्त्या षड्विधं भवेत् || मोक्षमार्गैकसोपानं वीरमाहेश्वरादृतम् || ३७ || तस्य नामानि वक्ष्यामि स्वरूपन्ते समासतः || यज्ज्ञानेन नरो मुक्तिमनायासेन गच्छति || ३८ || भक्तो माहेश्वरश्चैव प्रसादी प्राणलिंगकः || शरणश्शिवलिंगैक्यः षट्स्थलं च मम प्रियम् || ३९ || पृ० २८१) सदाचारश्शिवे भक्तिर्लिंगे जंगम एकधीः || लांछने शरणे भक्तिस्तद्भक्तस्थलमुत्तमम् || ४० || परस्त्रियं परार्थं च वर्जितो भावशुद्धिमान् || लिंगनिष्ठानियुक्तात्मा माहेश्वरमहास्थलं || ४१ || लिंगार्पितपदार्थस्य भोक्ता लिंगसमाहितः || अनर्पितविसर्जी च प्रसादिस्थलधीर्मतः || ४२ || वायौ प्राणगुणे लिंगं लिंगे प्राणस्समाहितः || सुखदुःखोभयं नास्ति प्राणलिंगिस्थलं भवेत् || ४३ || पतिर्लिंगं सती चाहं हृदि युक्तस्स्वयंप्रभुः || प्रापंचिकसुखं नास्ति शरणस्थलमुत्तमम् || ४४ || षडूर्मयश्च षड्वर्गा नास्ति चाष्टविधार्चनम् || निर्भावो निजलिंगैक्यः शिखिकर्पूरयोगवत् || ४५ || पूर्वं पूर्वं साधनं स्यात् साध्यं स्यादुत्तरोत्तरम् || उत्तरोत्तरवैशिष्ट्यमेतेषां परिकीर्तितम् || ४६ || अभ्यस्य पूर्वपूर्वं तदुत्तरोत्तरमाश्रयेत् || आश्रित्य चोत्तरं मर्त्यः स्थलं पूर्वं परित्यजेत् || ४७ || एतानभ्यस्यतः पुंसो मुक्तिः पाणितले स्थिता || न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते || ४८ || पृ० २८२) षट्स्थलाभ्यासयोगेन मुक्तिः सायुज्यलक्षणा || प्राप्यते शिवभक्तैश्च नान्यैः कर्मशतैर्जनैः [रतैः*]|| ४९ || वृ. || अतस्समाचाररतस्समाधिमान् शिवस्य लिंगार्चनतत्परो जनः || शिवस्वरूपं परमार्थमादरात्सदाभ्यसेत्षट्स्थलमेकभावतः || ५० || ये षट्स्थलेषु विचरन्ति हि ते महान्तो वन्द्यास्त एव विजितेन्द्रियशत्रवस्ते || सम्राट् स्वराडपि च यत्र तृणायते तच्छैवं पदं जगति ते समवाप्नुवन्ति || ५१ || एवं षट्स्थलनिर्णयं शिवपदप्राप्त्यैकहेतुं सदा यः सेवेत कराब्जपीठनिहित श्रीकण्ठलिंगार्चकः || स ज्ञानी स पुरातनस्स च महामाहेश्वरेषूत्तमो मर्त्यस्तेन जगत्त्रये न सदृशो विद्येत देवोऽपि वा || ५२ || एतदप्यपरे प्राहुः षट्स्थलज्ञानवित्तमाः || भक्त्यादिज्ञानपर्यन्तं साध्यसाधनभावतः || ५३ || भक्तिः कर्मक्षयो बुद्धिर्विचारो दर्पसंक्षयः || सम्यग्ज्ञानमिति प्राज्ञैः स्थलषट्कमुदाहृतम् || ५४ || क्रिययोत्तमया भक्तिः प्राप्यते शिवचिंतकैः || भक्त्या कर्मक्षयस्तस्मादमला धिषणा भवेत् || ५५ || धिया वस्तुविचारः स्याद्विचाराद्दर्पसंक्षयः || तस्माज्ज्ञानं ततो मोक्षो न मोक्षाद्विद्यते परम् || ५६ || पृ० २८३) यस्यैवं क्रमविज्ञानं देशिकस्य प्रसादतः || जन्मान्तरकृतात्पुण्याज्जायतेऽसौ सदाशिवः || ५७ || सम्यग्ज्ञानस्य मूलं हि भक्तिरव्यभिचारिणी || सच्चिदानंदसम्पूर्णशिवलिंगस्वरूपिणी|| ५८ || वृ. || भवार्णवं तर्तुमिहेच्छतां नृणामुपाय एषस्सुलभस्सुखप्रदः || न वीरमाहेश्वरसंगमादृते जगत्त्रये नास्ति विचारिते सति || ५९ || तवाथवा षट्स्थलमन्यदस्ति शिवांगभूतं श्रुतितन्त्रसिद्धम् || परं पदं शुद्धमनन्तरूपं वदाम्यहं गुह्यतमं स्ववेद्यम् || ६० || सर्वज्ञतादीनि निसर्गभूतान्यंगानि तत्षट्स्थलमाहुरार्याः || अंगीकृतत्वाद्गिरिशेन नित्यं वक्ष्यामि ते तानि मम प्रियाणि || ६१ || सर्वज्ञतातृप्तिरनादिबोधस्स्वतन्त्रतानित्यमलुप्तशक्तिः || अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरंगान्यथ षट्स्थलानि || ६२ || सर्वज्ञतादिस्थलषट्कजाता संविद्यथाभ्यासवशाद्विभाति || येषां गुरूक्त्या मम भक्तियोगाद्युक्तानुभूत्या त इहैवमुक्ताः || ६३ || एवं षट्स्थलविज्ञानं प्रत्यग्रूपं प्रमाणतः || गुरूक्त्या स्वानुभूत्या च यस्य भाति स सर्ववित् || ६४ || पृ० २८४) सुदुर्लभमिदं ज्ञानं नराणामुत्तमोत्तमम् || मद्भक्तिरहितानां च दुर्वृत्तानां षडानन || ६५ || तद्भावामृततृप्तानां तदाचारानुवर्तिनाम् || जायते परमज्ञानं स्थलषट्कोद्भवं नृणाम् || ६६ || यस्यैवं षट्स्थलज्ञानसामग्रीकलना दृढा || भाति धीदर्पणे स्वच्छे स वै माहेश्वरो जनः || ६७ || स भवार्णवमत्युग्रं दुष्पारं दुस्तरंगकम् || तीर्त्वा मां परमात्मानमेति नावर्तते पुनः || ६८ || तस्य माहेश्वरस्यैषा निष्ठा वक्तुं न शक्यते || मया सर्वविदा वत्स किमुतान्यैरजादिभिः || ६९ || तस्मात्सर्वं परित्यज्य वीरमाहेश्वरं जनम् || पूजयेदादराद्यस्तु स सम्यग्ज्ञानवान्भवेत् || ७० || संसारसागरेऽगाधे दुःखावर्तशताकुले || मज्जतां मनुजानां वै पूजा माहेश्वरस्य नौः || ७१ || धृतलिंगं सदाचारनिरतं द्विजपुंगवम् || वीरमाहेश्वरं सम्यक्पूजयेद्भक्तिमान्नरः || ७२ || पूजिते सति मद्भक्ते मनुजैर्भक्तिसंयुतैः || पूजितास्सकला देवा भवेयुर्नात्र संशयः || ७३ || मद्भक्तहृदयांभोजे सदा तिष्ठामि षण्मुख || पृ० २८५) यत्र तिष्ठाम्यहं नित्यं तत्र मत्संभवास्सुराः || ७४ || तिष्ठन्ति भक्तिनम्रास्ते मत्पूजासक्तमानसाः || तस्मिन्संपूजिते मर्त्यैस्सर्वे देवास्सुपूजिताः || ७५ || क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाऽधिकाः || पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || ७६ || द्विजातिष्वधिका विप्रा विप्रेषु ऋतुबुद्धयः || क्रतुबुद्धिषु कर्तारस्तेभ्यस्सन्यासिनोऽधिकाः || ७७ || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः || तेषु श्रेष्ठा महाभागा मम लिंगांगसंगिनः || ७८ || लिंगांगसंगिष्वधिकः षट्स्थलज्ञानवान् पुमान् || तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || ७९ || स वंद्यस्सर्वदा पूज्यः संसारविजिगीषुभिः || बहुनोक्तेन किं वत्स स एवाहं न संशयः || ८० || सर्वमुक्तं समासेन स्थलनिर्णयवेदनम् || गोप्यं समस्तशास्त्रेषु तव स्नेहान्मयोदितम् || ८१ || अस्मिन्नर्थे सुसंवेद्ये श्रुतयस्सकलागमाः || पुराणानि समस्तानि पर्यवस्यन्ति युक्तयः || ८२ || बहुनोक्तेन किं वत्स सार एष मयोदितः || तस्मादेवं विदित्वा तु षट्स्थलज्ञानवान् भव || ८३ || वृ. || सकलनिगमसारं षट्स्थलज्ञानमेतद्भवविपिनकुठारं सर्वतन्त्रप्रसिद्धम् || परमसुखसमावाप्त्यैकहेतूत्तमाख्यं तव कथितमशेषं त्वं सदा प्रेमभूमिः || ८४ || पृ० २८६) त्वमपि कथय धर्मं भक्तियुक्ताय सर्वं विजितमदनरागद्वेषलोभेन्द्रियाय || गुणगणनिलयाय प्राणलिंगैक्यभाजे गुरुचरणसरोजध्यानयुक्ताय वत्स || ८५ || अशिष्टायाविरक्ताय देवतादूषकाय च || लिंगधारणदूराय मा वादीस्त्वं कदाचन || ८६ || सूत उवाच || वृ. || युष्माकमद्य कथितः श्रुतितन्त्रगोप्यो मुक्त्यंगनोद्वहनसंघटनापटीयान् || सारश्च षट्स्थलविनिर्णय एष लोके नान्यस्ततः परतरो भवबंधशान्त्यै || ८७ || यूयं श्रद्धान्विता विप्राः स्थलनिर्णयवेदनम् || व्याकुरुध्वं प्रशान्तेभ्यो भक्तिमद्भ्योऽतिमुक्तिदम् || ८८ || षट्स्थलज्ञानवन्तं तं वीरमाहेश्वरं जनम् || पूजयध्वं महाभागाः पूजा सा पुरुषार्थदा || ८९ || विद्यायां रमते यस्तु मायां हेयां श्ववद्रहेत् || अनेनैव निरुक्तेन वीरमाहेश्वरः स्मृतः || ९० || तस्मात्सर्वप्रयत्नेन वीरमाहेश्वरं जनं || आराधयाथ विप्रेन्द्रा यूयं भक्तिपुरस्सरम् || ९१ || इति शांकरसंहिताप्रक्रिया || विशेषार्थप्रकाशिकायाम्- भूतिस्नानं त्रिपुण्ड्रांकं रुद्राक्षाणां च धारणम् || आचारलिंगमाचार्यैः प्रोक्तमाचारतस्सदा || ९२ || पृ० २८७) मूलपंचाक्षरी विद्या प्रणवेन षडक्षरी || आज्ञासिद्धो महामन्त्रो गुरुलिंगमिहोच्यते || ९३ || स्वांगस्थमिष्टमचलं करपीठे समाहितम् || मूलमन्त्रार्थविषयं शिवलिंगमुदीर्यते || ९४ || अर्चनार्पणसद्भावक्रियारूपं त्रिसाधनम् || उपचारैरुपेतं यच्चरलिंगं तदुच्यते || ९५ || क्रियाकलापविस्तारपरिणामोदितं फलम् || यद्वस्तु तत्प्रसादाख्यं लिंगमित्यभिधीयते || ९६ || आदानसेवनावाप्ततृप्तिरूपं निरन्तरम् || सुखं निरुपमं नित्यं तन्महालिंगमिष्यते || ९७ || शिष्य उवाच || स्वात्मानुष्ठेयरूपत्वात्प्रोक्तं षट्स्थलमादितः || निरुक्तिरुच्यतामत्र षण्णामेषां स्वरूपतः || ९८ || गुरुः || अनात्मात्मेत्युभे तत्वे वेदितव्ये विवेकतः || अनात्मरूपो देहादिरात्मा तद्व्यतिरिच्यते || ९९ || आत्माचारो ह्यदेहादिधर्मस्सुज्ञानलक्षणः || अलौकिकस्स्यादजडस्सद्भिराचार आदृतः || १०० || भूतिः परानुभूतिर्हि स्नानं तत्रावगाहनम् || त्रिपुण्ड्रं त्रिगुणाभावो ह्यलिंगं लिंगमेव तत् || १०१ || मनोमुखानि चाक्षीणि रुद्राक्षाणि विधाय वै || पृ० २८८) चतुर्दशक्रमाद्धार्याण्येतद्रुद्राक्षधारणम् || १०२ || पंचषड्विधतत्वानि न क्षरन्ति समासतः || यस्यां पंचाक्षरी सा च स्वयमेव षडक्षरी || १०३ || अंगमात्मा शिवो लिंगमिष्टमादृतमात्मनः || समाधिः करणानां तत्करपीठमुदाहृतम् || १०४ || समाहितत्रिकरणक्रियायां या व्यवस्थिता || सा सा समर्चना नित्यं समर्पणमपि स्वयम् || १०५ || अर्चनार्पणयोगेऽस्मिन् सुखैकघनलक्षणा || या वृत्तिर्विमला भाति सैव शैवी प्रसन्नता || १०६ || प्रसन्नतावकाशोऽयमानंदः प्राणिनः परः || महत्येष पदे स्वीये स्वयमेव महीयते || १०७ || शिष्यवाक्यं || निरुक्तं युक्तियुक्तं यदुक्तं व्यक्तं त्वया विभो || ज्ञातवानहमेतेषामनुबन्धं वदस्व मे || १०८ || गुरुवाक्यं || धारणं भूतिरुद्राक्षाणां तथाचारलिंगकम् || आचारलिंगसंबंधि गुरुलिंगमिति स्मृतम् || १०९ || गुरुलिंगेन यद्दृष्टं [यद्दत्तं] शिवलिंगमितीरितम् || शिवलिंगमुखं यत्तच्चरलिंगमुदाहृतम् || ११० || चरलिंगोपलब्धं यत्तत्प्रसादाख्यलिंगकम् || प्रसादग्राहकं साक्षान्महालिंगमिहोच्यते || १११ || वृ. || भक्तो नात्मविभागतः पृथगसावात्मा महेशाश्रयान्माहेश- पृ० २८९) स्सुधियः प्रसादत उतायं तत्प्रसादी ततः || प्राणो लिंगमिति प्रतिष्ठितमतिः स्यात्प्राणलिंगी स्वतः स्वप्राणार्पणकौशलेन शरणस्त्वैक्यो ह्यभेदे पदे || ११२ || भक्तो देहादिहानाद्भवति तदचलश्चेत्स माहेश्वरोऽयं नैश्चल्याच्चित्तशुद्धिर्यदि भवति स एष प्रसादी ततोऽसौ || जीवत्वाभावबुद्धिर्भवति यदि स हि प्राणलिंगी शिवत्वं सत्यं चेत्सोऽयमात्मा शरण उभयभावो न च स्याच्छिवैक्यः || ११३ || शांकरसंहितायां- व. || इति परमरहस्यं वत्स वेदान्तसारं सकलसुरमुनीन्द्रैरादृतं भक्ति मद्भिः || कथितमखिलदुःखध्वंसकं तुभ्यमेतत्त्वमपि कथय धर्मं प्राणलिंगैक्यभाजे || ११४ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे षट्स्थलब्रह्मयोगाभ्यासो नाम चतुर्दशप्रकरणं सम्पूर्णम् || पृ० २९०) श्रीशिवाय नमः || सर्वांगलिंगसाहित्यं वक्ष्यामः || कठवल्ल्युपनिषदि || अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव || एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बभूव || वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव || एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपे बहिश्च || सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः || एकस्तथा सर्वभूतांतरात्मा न लिप्यते लोकदुःखेन बाह्यः || एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति || तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषां || इत्येवमग्निवायुदृष्टान्तेन परिपूर्णपरमाकाशलक्षणनिष्कललिंगस्वरूपः परमात्मा शिव एक एव सकलभुवनब्रह्माण्डेषु आब्रह्मादिपिपीलिकान्तशरीरेषु उपाधिवशाज्जीवेश्वरविभेदेन बहुत्वं गतवानिति वर्तते || तत्र ये धीराः स्वात्मनि स्थितं परमात्मानं शिवं पश्यन्ति तेषां शाश्वतमुक्तिर्भवतीत्युक्तम् || १ || पृ० २९१) विशेषार्थप्रकाशिकायाम् || स पश्यति शरीरं तच्छरीरं तन्न पश्यति || तौ पश्यति परः कश्चित्तावुभौ तन्न पश्यत इति || २ || अविद्यामोहितेन जीवात्मना स्वात्मनि स्थितं शिवत्वं न ज्ञायते पारंपर्यक्रमेण मुमुक्षुत्वं प्राप्य गुरुकारुण्येन स जीवः शिवज्ञानी भवति ज्ञात्वा शिवं शान्तिमत्यन्तमेतीति श्रुतिवाक्यात्तस्य शिवज्ञानेन मुक्तिर्भवतीति प्रागेवोक्तं भवति || ३ || अत एव मंत्रोपनिषदि || ज्ञाज्ञौ द्वावजावीशानीशाविति क्रमेण शिवजीवयोः स्वरूपमुक्तम् || ४ || मुण्डकोपनिषदि- द्वासुपर्णौ सयुजौ सखायौ समानं वृक्षं परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति || समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानो जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमेति वीतशोकः यदा पश्यन् पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं तदा विद्वान्पुण्यपापे विधूय निरंजनः पुरुषं साम्यमुपैतीति || ५ || मन्त्रोपनिषदि- तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे पृथगात्मानं प्रेरितारं च मत्वा || जुष्टस्ततस्तेनामृतत्वमेतीति एवं जीवात्मनः शिवज्ञानेन मुक्तिप्राप्तिरिति वक्तव्यम् || ६ || पृ० २९२) कठवल्ल्युपनिषदि- अशरीरं शरीरेष्वनवस्थेष्ववस्थितं महान्तं विभुमात्मानं मत्वा धीरो न शोचतीति || ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे || छायातपौ ब्रह्मविदो वदन्तीति || इत्यादिवचनप्रमाणेन शिवजीवयोरुपाधिवशादेवं भेदो वर्तते तस्मात्तनुत्रयपंचभूतेन्द्रियांतःकरणादिषु तत्र तत्राधिष्ठिताभासरूपोऽभिमानचैतन्यरूपो जीवात्मैव प्रागुक्तरीत्या पृथिव्यादिक्रमेण भक्तादिषड्विधांगस्थलरूपो भवति तत्र तत्राधिष्ठितावच्छिन्नसाक्षी चैतन्यरूपः परमात्मा शिव एव सद्यादिक्रमेणाचारादिषड्विधलिंगस्थलरूपो भवतीति श्रुतिपुराणागमप्रसिद्धा शैवी परा स्थितिः || ७ || योगशिखोपनिषदि- एकस्तंभे नवद्वारे त्रिस्थूणे पंचदैवते || एवंविधशरीरे तु मतिमानुपलक्ष्यते || ८ || सूतसंहितायाम्- कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके || वह्निभागे तथा रुद्रो वायवंशे चेश्वरः स्थितः || आकाशांशे शरीरे तु साक्षादेव सदाशिव || ९ || इति श्रुतिपुराणवचनाच्छरीरे देहाभिमानी जीवात्मा एक एव पृ० २९३) पृथिव्यादिपंचभूताभिमानित्वेन ब्रह्मादिपंचदेवतानामभिर्वर्तते पृथिव्याद्यभिमानिनो ब्रह्मविष्णुरुद्रेश्वरसदाशिवा एव भक्तमाहेश्वरप्रसादिप्राणलिंगिशरणाख्यानि पंचांगस्थलानि भवन्ति सकलोपाधिविनिर्मुक्तः केवलात्मैवैक्यांगस्थलं भवति एवं षड्विधांगस्थलानि वर्तन्ते || १० || नारायणोपनिषदि- कूचिरुद्रे || अणोरणीयानित्युपक्रम्य ईशरुद्रमहेश्वरशब्दितस्य दहरविद्यां प्रस्तुत्य मध्यमानुवाके सहस्रशीर्षमित्युपक्रम्य केवलमहिमविशिष्टमात्रत्वेन नारायणं प्रस्तुत्य तस्योपासनादिकमनुक्त्वा || पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखमित्यादिना सन्निहितमहामहिमशालिनारायणस्य हृदयकमलमुक्त्वा तस्य मध्ये वह्निशिखेत्यादिना नारायणस्य हृदयकमलमध्ये वह्निशिखान्तराले परमात्मा व्यवस्थित इति दहरविद्योपास्यं परमात्मानं प्रस्तुत्य समनन्तरानुवाके निधनाय नमो निधनपतन्तिकाय नम इत्युपक्रम्य शिवाय नमः शिवलिंगाय नमः ज्वलाय नमः ज्वललिंगाय नमः आत्माय नमः आत्मलिंगाय नमः परमाय नमः परमलिंगाय नम इति परमात्मा शिव एव लिंगमित्युक्तं भवति अत्रात्माय नम इत्यात्म- पृ० २९४) शब्दोअकारान्तश्छान्दसः तदनन्तरं सद्योजातं प्रपद्यामीत्यादिपंचमंत्रैस्सद्यादिपंचब्रह्माण्युक्तानि भवन्ति तान्येव सद्यादिपंचब्रह्माणि क्रमेणाचारादिपंचलिंगानि भवन्ति तान्येव परब्रह्मस्वरूपमहालिंगसहितानि षड्विधलिंगस्थलानि भवन्तीति प्रागेवोक्तानि भवन्ति || ११ || बृहज्जाबालोपनिषदि- सद्योजातात्पृथिवीत्यादिवाक्यैः पंचब्रह्मणः पंचभूतोत्पत्तिः श्रूयते || १२ || तस्मादथर्वशिरसि- यो योनिं योनिमधितिष्ठत्येको येनेदं सर्वं विचरति सर्वं तमीशानं पुरुषं देवमीड्यं निचाययेमां शान्तिमत्यन्तमेतीति अन्यत्र पंचब्रह्ममयं जगदित्युक्तं भवति || १३ || ग्रंथांतरे- जगतः पंचकं बीजं पंचकस्य चिदद्वयम् || यद्बीजं तत् फलं विद्धि तस्माद्ब्रह्ममयं जगत् || १४ || सूतसंहितायां ज्ञानयोगखण्डे-त्रयोदशाध्याये- एक एव शिवस्साक्षात्सत्यज्ञानादिलक्षणः || विकाररहितः शुद्धः स्वशक्त्या पंचधा स्थितः || १५ || इत्यारभ्य || आकाशाख्यं महाभूतमीशानः परिकीर्तितः || वायुस्तत्पुरुषो ज्ञेयो वह्निश्चाघोर एव हि || आपो वामस्तथा भूमिः सद्योजातः प्रकीर्तितः || १६ || इत्यादिना || अन्यानि यानि विप्रेंद्राः पंचधा संस्थितानि च || तानि च ब्रह्मणः पंचब्रह्माणि स्युर्न संशयः || १७ || पृ० २९५) पंचब्रह्मतया भिन्नं जगत्सर्वं चराचरम् || शिवरूपेण संपश्यन्मुच्यते भवबंधनात् || १८ || शंकराचार्यप्रणीते शिवभुजंगस्तोत्रे- शिवेशानतत्पूरुषाघोरवामजनिब्रह्मभिः षण्मुखैः षड्भिरंगैरिति षड्ब्रह्माणि षण्मुखानि षडंगान्युच्यन्ते || इत्यादिवचनप्रमाणात्प्रागुक्तप्रकारेण षड्विधलिंगस्थलानि षड्विधा. म्गस्थलानि वर्तन्ते || किं चैवं स्थूलसूक्ष्मकारणशरीरेन्द्रियान्तःकरणादिषु शिवजीवाख्यलिंगांगस्वरूपेणात्ममिथुनो वर्तते || १९ || सिद्धांतशिखामणौ लिंगांगस्थले- अंगे लिंगं समारूढं लिंगेनांगमुपस्थितम् || एतदास्ते द्वयं यस्य स भवेदंगलिंगवानिति || २० || तत्र शरणस्थले- सतीव रमणे यस्तु शिवे भक्तिं विभावयन् || तदन्यविमुखस्सोऽयं ज्ञातः शरणवानिति || २१ || तत्र लिंगनिजस्थले- तस्माल्लिंगं परं ब्रह्म सच्चिदानन्दलक्षणम् || निजरूपमिति ध्यानात्तदवस्था प्रजायते || २२ || शांकरसंहितायाम्- लिंगांगमयमेवेदं जगत्सर्वं चराचरम् || लिंगांगव्यतिरेकेण नास्ति सर्वत्र किंचन || २३ || पृ० २९६) किंच प्रागुक्तलिंगधारणप्रकरणे- तस्य मध्ये महानग्निरित्यादिना संतापयति स्वं देहमापादतलमस्तकम् || इति हृत्कमलमध्यस्थितं प्राणलिंगं सर्वांगव्यापकमित्युक्तं भवति || २४ || शिवयोगप्रदीपिकायाम्- आमस्तकं पादतलावसानमन्तर्बहिश्चर्मपटावनद्धम् || तत्कृत्स्नमेवामृतरूपमाहुश्चिद्रूपमात्मानममर्त्यरूपम् || २५ || योगसारे || अव्यक्तं कारणं लिंगमक्षरं परमं पदम् || निर्गुणं शुद्धविज्ञानं हृदि पश्यन्ति योगिनः || २६ || शुद्धस्फटिकसंकाशं मणिवर्णं सुवर्चसम् || तेजोराशिं परब्रह्म तन्मयः प्राणलिंगवान् || २७ || एतत्प्राणलिंगमेवांतःषडाधारब्रह्मरन्ध्रकमलानां मध्ये पृथक्पृथग्योगिभिर्भाव्यते षडाधारेषु षड्विधलिंगानि भवन्ति || २८ || शिवरहस्ये- चतुर्दलं तथाधारं वन्दिसान्ताक्षरान्वितम् || कर्णिकान्तर्नकाराढ्यं क्रियाशक्त्यरुणप्रभम् || २९ || स्वाधिष्ठानस्य षट्पत्रं बादिलान्ताक्षरान्वितम् || मकारं कर्णिकायां स्यादिच्छाशक्तितटित्प्रभम् || ३० || पृ० २९७) मणिपूरं रत्ननिभं ज्ञानशक्तिसमन्वितम् || डादिपान्ताक्षरोपेतं दशपत्रं शिकर्णिकम् || ३१ || चक्रस्यानाहतस्यादिशक्तेर्द्वादशपल्लवाः || कादिठान्ताक्षरस्वर्णवर्णं वर्णाढ्यकर्णिकम् || ३२ || विशुद्धिश्च परा शक्तिर्ज्योतिर्वर्णो द्विरष्टकम् || पत्रवर्णस्त्वकाराद्याद्विरष्टो यार्णकर्णिका || ३३ || तथा ज्ञेयस्य चिच्छक्तिर्द्विदलं हंक्षवर्णकम् || प्रणवः कर्णिकामध्ये समुद्यद्विद्युतप्रभम् || ३४ || मुकुटागमे- षडाधारेषु सर्वेषु प्रणवादिषडक्षरम् || स्थापयित्वा सदा स्मृत्वा जपेत्पंचाक्षरं शुभम् || ३५ || अथ वापि षडाधारे मणिदीपं प्रकल्पयेत् || अथ वा लिंगरूपेण क्रमादाधारमण्टपे || प्रभारूपेण संस्मृत्य जपेन्मत्रं षडक्षरम् || ३६ || इत्यादिवचनप्रमाणात् षडाधारेषु क्रमेण नकाराद्योंकारान्तषडक्षरात्मकाचारादिमहालिंगान्तषड्विधलिंनानि विज्ञातव्यानि || ३७ || सिद्धांतशिखामणौ शिवयोगसमाधिस्थले- अन्तः षट्चक्ररूपाणि पंकजानि विभावयेत् || ब्रह्मादिस्थानभूतानि भ्रूमध्यान्तानि मूलतः || ३८ || पृ० २९८) भ्रूमध्यादूर्ध्वभागे तु सहस्रदलमंबुजम् || भावयेत्तत्र विमलं चंद्रबिंबं तदन्तरे || ३९ || सूक्ष्मरंध्रं विजानीयात् तत्कैलासपदं विदुः || तत्रस्थं भावयेच्छंभुं सर्वकारणकारणम् || ४० || सर्वतत्वोपरिगतं सच्चिदानंदभासुरम् || स्वप्रकाशमनिर्देश्यमवाऽऽन्मानसगोचरम् || ४१ || उमाख्यया महाशक्त्या दीपितं चित्स्वरूपया || हंसरूपं परात्मानं सोऽहंभावेन भावयेत् || तदेकतानतासिद्धिः समाधिः परमो मतः || ४२ || इति वचनप्रमाणात् षट्चक्रोर्ध्वभागे ब्रह्मरन्ध्रे परमहंसस्वरूपं शक्तिविशिष्टं सदाशिवाख्यं निष्कललिंगमुपासितव्यं भवति || ४३ || सिद्धांतशिखामणौ भावाचारस्थले- अन्तर्बहिश्च सर्वत्र परिपूर्णं महेश्वरम् || भावयेत्परमानन्दलब्धये पंडितोत्तमः || ४४ || ग्रन्थान्तरे- आराधयामि मणिसन्निभमात्मलिंगं मायापुरे हृदयपंकजसन्निविष्टम् || श्रद्धानदीविमलचित्तजलाभिषेकैर्नित्यं समाधिकुसुमैरपुनर्भवाय || ४५ || देहो देवालयः प्रोक्तो जीवो देवः सदाशिवः || त्यजेदज्ञाननिर्माल्यमेकीभावेन पूजयेत् || ४६ || पृ० २९९) लघुजाबाले- अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्ट येनासावमृतीभूत्वा मोक्षी भवतीति || ४७ || यज्ञवैभवखण्डे द्वितीयाध्याये- तस्मान्मुमुक्षुभिर्भक्त्या ज्ञानार्थमविमुक्तकम् || आदिभूते तथाध्यात्मे सेवनीयं तथैव च || चिन्तनीयो महादेवस्तत्रोपास्यो न संशयः || ४८ || तत्रैव लघुजाबाले द्वितीयखण्डे- अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं एषोऽनन्तोऽव्यक्त आत्मा कथमहं विजानीयामिति स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोविमुक्ते प्रतिष्ठित इति सोऽविमुक्तस्तस्मिन् प्रतिष्ठित इति वारणायां नासांतमध्ये प्रतिष्ठित इति का वै वारणा काचानासीति सर्वानिन्द्रियकृतान्दोषान् वारयतीति तेन वारणा भवति || सर्वानिंद्रियकृतान् पापान् नाशयतीति तेन नाशी भवति उत्तमं चास्य स्थानं भवतीति पृ० ३००) भ्रुवोर्घ्राणस्य च यस्संधिस्स एष द्यौर्लोकस्य परस्य च संधिर्भवति इत्येतद्वै संधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्यत इति सोऽविमुक्तज्ञानमाचष्ट इति || ४९ || नादबिंदूपनिषदि- भ्रुवोर्मध्ये ललाटस्तु नासिकायां तु मूलतः || अमृतस्थानं विजानीयात्तद्ब्रह्मायतनं महत् || ५० || अस्मिन्नर्थे सूतसंहितायाम्- श्रीपर्वतः शिरःस्थाने केदारं तु ललाटके || वाराणसी महाप्राज्ञा भ्रुवोर्घ्राणस्य मध्यमे || भ्रुवोर्घ्राणस्य यस्संधिरिति जाबालिकी श्रुतिः || ५१ || अस्मिन्नर्थे मानवपुराणे- भ्रुवोर्घ्राणस्य यस्संधिस्तत्र वाराणसी स्थिता || तत्राविमुक्तकं क्षेत्रं तस्मिन् रुद्रःसदा स्थितः || लिंगज्योतिःस्वरूपेण साक्षाद्विश्वेश्वराह्वय इति || ५२ || शांकरसंहितायामुपरिभागे लिंगधारणप्रकरणे- भ्रूघ्राणमध्ये त्वविमुक्तदेशे विश्वेश्वराख्यं परमात्मलिंगम् || ध्यानामृतासक्तधियो महांतो ध्यात्वा परां मुक्तिमवापुरन्ये || ५३ || केचिन्महांतो हृदि भावलिंगं संपूज्य सच्चित्सुखरूपमीशम् || पृ० ३०१) मुक्तिं प्रयाताः परमात्मलीनमनःप्रचाराः परिपूर्णभावाः || ५४ || प्राणाह्वयं लिंगमनन्यभावाः संपूजयित्वा गुहनाभिदेशे || केचिन्मुनींद्राः पदमव्ययं तच्छिवं प्रयाता दृढभक्तियुक्ताः || ५५ || अन्ये सदा योगपरा हृदब्जे ज्वलंतमंगुष्ठमितं पुराणम् || लिंगस्वरूपं शिवमप्रमेयं संभाव्य तस्मिंल्लयमापुरार्याः || ५६ || ये ब्रह्मरंध्रस्थसहस्रपत्रमध्ये स्फुरंतं रविकोटिभासम् || मामेकभावेन विभावयंति ते मे प्रिया नित्यविमुक्तिभाजः || ५७ || मंत्रोपनिषदि- अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट इति || ५८ || तत्रैव- यदात्मतत्वेन तु ब्रह्मतत्वं दीपोपमेनेह युतं प्रपश्येत् || अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैरिति || ५९ || हृत्कमलमध्ये दीपोपमेनात्मतत्वेन युक्तं ब्रह्मतत्वं शिवलिंगस्वरूपं पश्येदित्यर्थः || ६० || तत्रैव || सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः || सर्वव्यापी स भगवान् तस्मात्सर्वगतश्शिव इति || ६१ || कैवल्योपनिषदि- अणोरणीयानहमेव सत्यं महानहं विश्वमिदं पुराणम् || पृ० ३०२) पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपभस्मीति || ६२ || तैत्तिरीये- आकाशशरीरं ब्रह्म सत्यात्मा प्राणारामं मन आनंदं शांतिसमृद्धममृतमिति प्राचीनयोग्योपासस्वेति चिदंबरशक्तेर्ब्रह्मशरीरत्वेन मुमुक्षूपास्यत्वमुक्तम् || ६३ || तत्रैव || को हेवान्यत्कः प्राण्यात् यदेष आकाश आनंदो न स्यात् || अस्यार्थः- चिदानंदरूपाकाशपदवाच्यशक्तिर्यदि न स्यात् तर्हि लोके को वा प्राणी चेष्टादिचलनं कुर्यात् को वा प्राणी संचारमात्रमपि कुर्यात् आनंदस्योत्साहद्वारा प्रवृत्यादिहेतुत्वात् सर्वविधानस्य सर्वात्मकस्यानंदत्वं युक्तं सिद्धमिति किं शब्दाभिप्रायः || ६४ || अस्मिन्नर्थे ब्रह्मगीतायाम्- असत्यस्मिन् परानंदे स्वात्मभूतेऽपि चात्मनाम् || को जीवति नरो देवाः को वा नित्यं विचेष्टते || ६५ || तैत्तिरीये- स एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मय इत्यादिप्राचीनयोग्योपासस्वेत्यन्तेन मनोमयत्वममृतमयत्वहिरण्मयत्वं चोक्तम् || ६६ || वाजसनीये- पृ० ३०३) स वा एष महानज आत्मा योऽयं विज्ञानमयप्राणेष्वन्तर्हृदय आकाशस्तमिन् शेते सर्वस्य वशीति || ६७ || छान्दोग्ये- अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरेऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वा विजिज्ञासितव्यमिति || ६८ || ब्रह्मगीतायां षष्ठाध्याये- अस्मिन् ब्रह्मपुरे वेश्म दहरं यदिदं सुराः || पुण्डरीकं तु तन्मध्ये चाकाशो दहरोऽस्ति तु || स हरस्सच्चिदानंदस्सोऽन्वेष्टव्यो मुमुक्षुभिरिति || ६९ || सिद्धांतशिखामणौ- शिवागारमिदं प्रोक्तं शरीरं बोधदीपितम् || षट्त्रिंशत्तत्त्वघटितं सुमनः पद्मपीठिकम् || ७० || पराकाशस्वरूपेण प्रकाशः परमेश्वरः || हृदाकाशगुहालीनो दृश्यतेऽन्तश्शरीरिणाम् || ७१ || एतच्छिवपुरं प्रोक्तं सप्तधातुसमावृतम् || अत्र हृत्पंकजं वेश्म सूक्ष्मांबरमनोहरम् || ७२ || तत्र सन्निहितस्साक्षात्सच्चिदानन्दलक्षणः || नित्यसिद्धप्रकाशात्मा जलस्थाकाशवच्छिवः || ७३ || अन्तराकाशबिंबस्थमशेषोपाधिवर्जितम् || घटाकाश इव च्छिन्नं भावयेच्चिन्मयं शिवम् || ७४ || पृ० ३०४) किंच || घटमध्यस्थितो दीप एक एव यथा घटबहुरन्ध्रेषु बहुत्वं भवति तथैव हृत्कमलमध्ये स्वात्मनि स्थितं प्राणलिंगमेकमेव स्थूलसूक्ष्मशरीरेन्द्रियान्तःकरणादिद्वारेषु बहुधा षड्विधलिंगानि भवतीति विज्ञातव्यम् || ७५ || तैत्तिरीये- स एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मय अंतरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिरिति || ७६ || तत्रैव || मनस्पतिवाक्पतिश्चक्षुष्पतिश्श्रोत्रपतिर्विज्ञानपतिरिति || आकाशशरीरं ब्रह्म सत्यात्मा प्राणारामं मन आनंदं शान्तिसमृद्धममृतमिति प्राचीनयोग्योपासस्वेति || ७७ || ब्रह्मोपनिषदि- हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रमिति || ७८ || मैत्रेयोपनिषदि- शाश्वतोऽजस्स्वतन्त्रः स्वे महिम्नि तिष्ठति अनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयितेत्यादिवचनप्रमाणाद्धृदयकमलमध्यस्थितं दहरविद्योपास्यं परमाकाशलक्षणं ज्योतिर्मयं परमात्मशब्दितं प्राणलिंगं विज्ञातव्यं एतत्परब्रह्मलिंगमेव- पृ० ३०५) स्थूलसूक्ष्मशरीरेंद्रियांतःकरणादिषु षड्विधलिंगरूपत्वेन सर्वांगलिंगसाहित्यं भवतीत्युच्यते || ७९ || ऐतरेयोपनिषदि-कोऽयमात्मेति समुपास्महे कतरः स आत्मा येन वा पश्यति येन वा श्रुणोति येन वा गंधानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादुजास्वादुजान् विजानाति यदेतद्धृदयं मनश्चेति तत्संज्ञानमाज्ञानं विज्ञानं मेधा दृष्टिर्धृतिमतिमनीषा जातिः स्मृतिः संकल्पः क्रतुरसुकामो वस इति सर्वाण्येतानि विज्ञानस्य नामधेयानि भवन्तीति सर्वं तत्प्रज्ञानेत्रं तत्प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मेतीत्येवं तदेव हृदयादीन्द्रियेषु षड्विधलिंगानि भवन्ति || ८० || तैत्तरीये नारायणवल्ल्याम्- स वा एष पुरुषः पंचधा पंचात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्च सर्वे सर्वमिदं जगदिति वचनात्स्वात्मनि स्थितं परब्रह्माख्यं महालिंगमेकमेव पंचभूतेन्द्रियान्तःकरणादिपंचकपंचकेषु सद्यादिक्रमेणाचारादिपंचलिंगानि भवन्ति षट्प्रकारेषु भूतेंद्रियांतःकरणादिषु पृ० ३०६) महालिंगादिषड्विधलिंगानि भवन्तीति श्रुतिपुराणागमप्रसिद्धा शैवी परा स्थितिः || ८१ || बृहदारण्यके अंतर्यामिब्राह्मणे- यः पृथिव्यां तिष्ठन् पृथिव्यामंतरोयं यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरो यं मयत्येषत आत्मांतर्याम्यमृत इत्यारभ्य || एवमेव यो अप्सु तिष्ठन् यो अग्नौ तिष्ठन् यो वायौ तिष्ठन् यो अंतरिक्षे तिष्ठन् यो दिवि तिष्ठन् य आदित्ये तिष्ठन् यो दिशि तिष्ठन् यश्चन्द्रतारके तिष्ठन् य आकाशे तिष्ठन् यस्तमसि तिष्ठन् यस्तेजसि तिष्ठन् यः प्राणे तिष्ठन् यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन् यः श्रोत्रे तिष्ठन् यो मनसि तिष्ठन् यस्त्वचि तिष्ठन् यो रेतसि तिष्ठन्नित्यादिभिर्वाक्यैः पंचभूताद्यध्यात्मकादिभौतिकेषु परमात्मनः शिवस्य सर्वांतर्यामित्वमुक्त्वा || ८२ || तत्रैव || दृष्टं द्रष्टा श्रुतं श्रोता मनो मन्ता विज्ञातो विज्ञाता नान्यतोऽस्ति द्रष्टा नान्यतोऽस्ति श्रोता नान्यतोऽस्ति मन्ता नान्यतोऽस्ति विज्ञाता पृ० ३०७) एष आत्मांतर्याम्यमृत इत्येवं पंचभूतेंद्रियांतःकरणादिषु अमृतशब्दवाच्योऽन्तर्यामि परमात्मा शिवो व्यवस्थित इति वक्तव्यम् || ८३ || तलवकारोपनिषदि-चक्षुःश्रोत्रं को देवो युनक्ति श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः प्रत्यस्माल्लोकादमृता भवंति न तत्र चक्षुर्गच्छति न वाग्वाचति नो मनो न विद्म न विजानीमो यदैतदनुशिष्यादन्यदेव तद्विदितादयो अविदितादिति शुश्रुम पूर्वेषां येनस्तद्व्याचक्षिरे यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते यन्मनसा न मनुते येनाहुर्मनोमतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यश्चक्षुषा न पश्यति येन चक्षूंषि पश्यंति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यः श्रोत्रेण न श्रुणोति येन श्रोत्रं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यत्प्राणेन प्राणीति येन प्राणं प्रणीयते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इति वचनात् षडिंद्रियांतःकरणादिषु साक्षी चैतन्यमेव पृ० ३०८) तत्र तत्र पड्विधलिंगानि भवंतीति वक्तव्यं एवमपरोक्षेण षड्विधलिंगानि विज्ञातव्यानि किंचापरोक्षब्रह्मज्ञानिनामेव षड्विधलिंगापरोक्षज्ञानं भवति षड्विधलिंगापरोक्षज्ञानमेव सर्वांगलिंगसाहित्यं भवति || ८४ || तापनीयोपनिषदि-चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धर्द्रष्टा प्राणस्य द्रष्टा सर्वस्मादन्यो विलक्षणश्चक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्य साक्षी सर्वस्य साक्षीति || ८५ || आश्वलायनोपनिषदि- एष हि द्रष्टा स्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञाता विज्ञानात्मा पुरुषः स यो ह वै तदच्छायामशरीरमरोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य सर्वज्ञः स विभुर्भवतीति [सर्वी]|| ८६ || सिद्धांतशिखामणौ भावागमस्थले- अन्तर्बहिश्च सर्वत्र परिपूर्णं महेश्वरम् || भावयेत्परमानन्दलब्धये पंडितोत्तमः || ८७ || अस्मिन्नर्थे ब्रह्मगीतायां तृतीयाध्याये- सर्वात्मा शंकरो वामस्साक्ष्येव सकलस्य तु || साक्ष्यभावे जगत्साक्षात्कथं भाति सुरोत्तमाः || ८८ || पृ० ३०९) स्वतो भानविहीनं हि जगत्सर्वं चराचरम् || जडत्वाज्जडता चास्य जगतो भानवर्तया || ८९ || भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते || तन्न संगतमेव स्याज्जन्यं चेज्जडमेव तत् || ९० || जडानामेव जन्यत्वं कुंभादीनां च संमतम् || विज्ञानं चैव भानः स्यान्नैवोत्पादकमिष्यते || ९१ || ज्ञानस्य भानरूपेण वरिणोपि न सिद्ध्यति || अविक्रियत्वाज्ज्ञानस्य यदि तस्यापि विक्रिया || ९२ || तर्हि क्षीरादिवच्चैव भवेत नैव वेदनम् || यथा भानस्य विज्ञानं नैवारंभकमिष्यते || ९३ || अद्रव्यत्वाद्गुणत्वेन परैरंगीकृतत्वतः || असद्रूपस्य भानस्य ज्ञानं नारंभकं भवेत् || ९४ || वन्ध्यासूनोरथोज्ञानं तत्तदारंभकं भवेत् || प्रागसद्रूपभानस्य ज्ञानं नारंभकं भवेत् || ९५ || असतः प्राक्त्वपूर्वाणां विशेषाणामभावतः || अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वथा || ९६ || ज्ञानस्यापि न जन्यत्वमस्ति हे स्वर्गवासिनः || उक्तन्यायेन जन्यत्वप्रतीतिर्भ्रान्तिरेव हि || ९७ || भानस्यापि तथा भ्रान्तिजन्यत्वं प्रति भो सुराः || पृ० ३१०) ज्ञानत्वे सत्यजन्यत्वाज्ज्ञानं नित्यं सुरोत्तमाः || ९८ || यज्जगद्भानकं ज्ञानं नित्यं भाति स्वतस्सुराः || स एव जगतस्साक्षी सर्वात्मा शंकराभिधः || ९९ || सर्वावभासकः प्रोक्तस्तेन सर्वमिदं जगत् || अतो रूपादिभेदेन पश्यति स्वेन मानवः || १०० || श्रुणोत्यनेन शब्दांश्च गंधानाजिघ्रति प्रियान् || अनेनैव सदा वाचं व्याकरोति च मानवः || १०१ || अनेन स्वादुचास्वादु विजानाति सदा नरः || शंकराख्यांतविज्ञानं बहुधा शंसितं बुधैः || १०२ || तत्रैव || सर्वमेतदयं शंभुः प्रज्ञानघनलक्षणः || प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरी || प्रज्ञानमेव तद्ब्रह्म शिवरुद्रादिसंज्ञितम् || १०३ || तत्रैव || तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् || संसारके गुहावाच्ये मायाज्ञानादिसंज्ञके || १०४ || निहितं ब्रह्म यो वेद परमव्योमसंज्ञिते || सोऽश्नुते सकलान् कामान् क्रमेण तु सुरर्षभाः || १०५ || विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः || असत्यस्मिन् परानन्दे स्वात्मभूतेऽपि चात्मनाम् || १०६ || को जीवति नरो देवाः को वा नित्यं विचेष्टते || तस्मात्सर्वात्मनां चित्ते भासमानरसो हरः || आनंदयति दुःखाढ्यं जीवात्मानं कृपाबलात् || १०७ || पृ० ३११) तत्रैव || योऽयमात्मा स्वयं भातः सत्तयान्यविवर्जितः || स एव साक्षात्सर्वेषामंतर्यामी न चापरः || १०८ || पृथिव्यां चैव यस्तिष्ठन् पृथिव्या अन्तरस्सदा || यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि || १०९ || योऽन्तरो यं मयत्येतां भूमि निष्क्रियरूपतः || एष एव हि नः साक्षादन्तर्यामि परामृतः || ११० || अप्सु तिष्ठन्नपां देवा अंतरोयं न तं विदुः || आपः शरीरं यस्य तां योंतरोयं मयत्यपः || १११ || एष एव हि नः साक्षादन्तर्यामि परामृतः || एवमग्नेश्च येनात्मा चान्तरिक्षस्य हे सुराः || ११२ || वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च || एष एव हि नः साक्षादन्तर्यामि परामृतः || ११३ || अदृष्टो यस्सुरा दृष्टा श्रोतैवायं तथाश्रुतः || अमन्तश्च तथा मन्ता विज्ञाता केवलस्सुराः || ११४ || रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः || चित्तसाक्षितया भाति स्वप्रकाशेन केवलम् || ११५ || चित्तव्यापारनाशे तु तदभावं सुरर्षभाः || स्वप्रकाशेन जानाति सुषुप्तौ वेदनामपि || ११६ || आविर्भावतिरोभावरहितस्तु स्वयं प्रभुः || भावाभावात्मकं सर्वं सदायं वेद केवलः || भावाभावात्मकं वेद्यं समस्तं सुरपुंगवाः || ११७ || रुतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे || पृ० ३१२) छायातपौ ब्रह्मविदो वदंति शरीरभृच्छंकरसंज्ञितौ तौ || ११८ || शरीरभृत्कर्मफलं भुंक्ते भोजयित्वा शिवः || प्रतीति विरुद्धौ तौ भेदस्तस्योपचारतः || ११९ || सूतगीतायाम्- भासमानमिदं सर्वं भानमेवेति वेदय || सभानरूपं देवेशं याति नात्र विचारणा || १२० || तत्र चतुर्थाध्याये- भासमानमिदं सर्वं भानरूपं परं पदम् || पश्यन्वेदांतमानेन सद्य एव विमुच्यते || १२१ || मैत्रेयोपनिषदि प्रथमप्रपाठके-स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं चेतनात्प्रतिष्ठापितमित्युक्तं भवति || १२२ || तत्र पंचमप्रपाठके- प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया घ्राणं समारुह्य घ्राणेन सर्वान् गन्धानाप्नोति प्रज्ञया चक्षुस्समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वांच्छब्दानाप्नोति प्रज्ञया जिह्वां समारुह्य जिह्वया हि सर्वानन्नरसानाप्नोति प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति प्रज्ञया शरीरं समारुह्य शरीरेण पृ० ३१३) सुखदुःखे आप्नोति प्रज्ञयोपस्थं समारुह्योपस्थेनानन्दं रतिं प्रजामाप्नोति प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्याप्नोति प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोतीति प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरीति सूतसंहितावाक्यात् || इत्यादिवचनप्रमाणात् सकलभूतेंद्रियांतःकरणादीनि तत्र तत्रावच्छिन्नशिवचैतन्याधिष्ठितानि भवन्ति || अत एव पुरातनवचनेषु घ्राणस्य घ्राणमेवाचारलिंगं जिह्वाया जिह्वैव गुरुलिंगं नेत्रस्य नेत्रमेव शिवलिंगं त्वचस्त्वगेव चरलिंगं श्रोत्रस्य श्रोत्रमेव प्रसादलिंगं हृदयस्य हृदयमेव महालिंगमित्युक्तं भवति || इयमेव षट्स्थलब्रह्मविद्या एतत्षट्स्थलब्रह्मापरोक्षज्ञानमेव सर्वांगलिंगसाहित्यं भवति || १२३ || अस्मिन्नर्थे स्वसंवेद्ये श्रुतयस्सकलागमाः || पुराणानि समस्तानि पर्यवस्यंति युक्तयः || १२४ || बहुनोक्तेन किं वत्स सार एव मयोदितः || तस्मादेवं विदित्वा तु षट्स्थलज्ञानवान् भव || १२५ || इत्यादिशांकरसंहितावाक्यात्षट्स्थलब्रह्मविद्यायां सर्वब्रह्मविद्याः पर्यवस्यंतीति विज्ञातव्यम् || १२६ || कैवल्योपनिषदि- पृ० ३१४) अत्याश्रमस्थस्सकलेंद्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य || हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् || १२७ || अचिंत्यमव्यक्तमनंतरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् || तदादिमध्यांतविहीनमेकं विभुं चिदानंदमरूपमद्भुतम् || १२८ || उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशांतम् || ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसःपरस्तात् || १२९ || इत्यादिना दहरविद्योपास्यं परमात्मानं परमशिवं प्रतिपाद्य || स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वं || स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति || १३० || स्वप्ने च जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके || सुषुप्तिकाले सकले विलीने तमोऽभिभूतस्सुखरूपमेति || १३१ || जाग्रत्स्वप्नसुषुप्त्यादि प्रपंचं यत्प्रकाशते || तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते || १३२ || त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् || तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः || १३३ || अपाणिपादोऽहमचिंत्यशक्तिः पश्याम्यचक्षुश्च श्रुणोम्यकर्णः || अहं विजानामि विविक्तरूपं न चास्ति वेत्ता मम चित्सदाहम् || पृ० ३१५) वेदैरनेकैरहमेव वेद्यो वेदांतकृद्वेदविदेव चाहमिति || १३४ || एवं स्वांतर्याम्यभिप्रायकं ब्रह्मवाक्यं ब्रह्मगीतायां चतुर्थाध्याये- अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा || संसारार्णवमग्नानां साक्षात्संसारमोचकः || १३५ || सर्वेषां च मनस्तेन प्रेरितं नियमेन च || विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि || १३६ || चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं श्रुणोत्यपि || आत्मना येन सर्वाणि तनैव प्रेरितानि तु || १३७ || स्वं स्वं विषयमुद्दिश्य प्रवर्तंते निरंतरम् || प्रवर्तकत्वं चाप्यस्य मायया न स्वाभावतः || १३८ || इन्द्रियाणां च सत्ता च नैव स्वाभाविकी मता || तप्तायःपिण्डवत्तस्य तप्त एव सुरर्षभाः || १३९ || श्रोत्रे चात्मनि चाध्यस्तं स्वयं देवो महेश्वरः || अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः || १४० || मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः || अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः || १४१ || मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः || मनस्त्वं तस्य सत्वस्थो ददाति नियमेन तु || १४२ || वाचो वाक्त्वमनुप्राप्य प्राणस्य प्राणतां हरः || पृ० ३१६) ददाति नियमेनैव चक्षुषश्च तथा हरः || १४३ || अन्येषामिन्द्रियाणां तु कल्पितानां महेश्वरः || तत्तद्रूपमनुप्राप्य ददाति नियमेन च || १४४ || तत्र चक्षुश्च वाक्चैव मनश्चान्यानि यानि च || न गच्छन्ति स्वयंज्योतिस्स्वभावे परमात्मनि || १४५ || स देवो विदितादन्यस्तथैवाविदितादपि || वाचा च मनसा चैव चक्षुषा च तथैव च || १४६ || श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् || न शक्यं गोचरीकर्तुं सत्यमेव मयोदितम् || १४७ || इत्यादिवचनप्रमाणादेवं षड्विधलिंगान्यपरोक्षेण विज्ञायन्ते एवं सर्वविलक्षणं दृग्रूपशिवचैतन्यमेव लिंगमिति निश्चीयते || १४८ || सूतसंहितायां यज्ञवैभवखण्डे अष्टविंशाध्याये अथातस्संप्रवक्ष्यामि शिवलिंगं समासतः || यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत् || १४९ || शिव एव भवेल्लिंगं लिंगं गमकमेव हि || शिवेन गम्यते सर्वं शिवो नान्येन गम्यते || १५० || जडं हि गम्यतेऽनेन नाजडं मुनिपुंगवाः || शिवो नैव जडस्साक्षात्स्वप्रकाशैकलक्षणः || १५१ || अस्वप्रकाशश्चेत्साक्षाच्छिवो नैव शिवो भवेत् || अस्वप्रकाशं कुड्यादि न शिवस्संमतः खलु || १५२ || पृ० ३१७) शिवेऽसति मुनिश्रेष्ठाः स्वप्रकाशैकलक्षणे || अप्रतीतं भवेत्सर्वं ततश्शून्यमशेषतः || १५३ || शून्यसिद्धिरपि श्रेष्ठा शून्योऽनेनैव सिद्ध्यति || खलु सर्वात्मना भानविहीनं शून्यलक्षणम् || १५४ || अतस्साक्षाच्छिवस्सांबस्स्वप्रकाशैकलक्षणः || तेन सर्वमिदं गम्यं गम्यतेऽसौ न गम्यते || स्वयंज्योतिरिति प्राह श्रुतिस्साध्वी महेश्वरम् || १५५ || अतश्शिवस्सर्वजगद्विभासकः स्वयंप्रकाशस्स्वयमेव केवलः || मयोदितं लिंगमिति द्विजर्षभास्तदेव पूज्यं श्रुतिमस्तकस्थितम् || १५६ || शिवस्य लिंगं शिवलिंगमन्ये मुनीश्वरा वेदविदो वदन्ति || स्वयंप्रकाशस्य न युज्यते तत्ततश्च शंभुस्स्वयमेव लिंगम् || १५७ || शिवस्य लिंगं प्रवदन्ति केचिद्बहुप्रकारं व्यवहारदृष्ट्या || न तत्वदृष्ट्या परमेश्वरस्य स्वयंप्रकाशस्य न चास्ति लिंगम् || १५८ || वेदांतविज्ञानपरात्मविद्यां शिवस्य लिंगं कथयन्ति केचित् || विचारजन्यामपि सत्यविद्यां ब्रुवन्ति चान्ये परमस्य लिंगम् || १५९ || शिवस्य लिंगं कथयन्ति मायां शिवस्य दृश्यां शिववस्तुनिष्ठाम् || पृ० ३१८) वदन्ति केचिज्जनचित्तमन्ये त्वहंकृतिं चापि मनश्च बुद्धिम् || १६० || प्राणं च केचित्प्रवदन्ति लिंगं शरीरमन्ये प्रवदन्ति लिंगम् || त्वगादिकानि प्रवदन्ति केचित्समूहमन्ये परमेश्वरस्य || १६१ || शब्दादिभूतानि महेश्वरस्य स्थूलानि भूतानि च संगिरन्ते || पाताललोकादिसमस्तमेतल्लिंगं महेशस्य वदन्ति केचित् || १६२ || यदस्ति यन्नास्ति महेश्वरस्य समस्तमेतत्प्रवदन्ति लिंगम् || विशुद्धविद्यापरयोगिनोऽस्य स्वयंप्रभस्यैव न लिंगमूचुः || १६३ || यद्यल्लिंगतया शिवस्य कथितं तत्तज्जडं वस्तुतो लिंगं नैव भवेद्विशुद्धमतयो ज्ञानं हि लिंगं भुवि || तस्मादेव महेश्वरः परतरस्तत्तज्जडोपाधिकश्चिद्रूपः कथितः प्रभोर्गमकमित्यर्थः स्थितः स्वस्य तु || १६४ || आलयं लिंगमित्याहुरपरे लिंगवित्तमाः || आलयो नाम चाधारः सर्वाधारः शिवः खलु || १६५ || अतः कल्पितरूपाणामाधारो भगवांच्छिवः || अनाधारो महादेवस्सत्यचैतन्यलक्षणः || १६६ || पृ० ३१९) सर्वाधारस्य नाधारो विद्यतेति द्विजोत्तमाः || आकाशस्य यथा कश्चिन्नाधारो विद्यते तथा || १६७ || व्यावर्तयति चाधारः शिवस्य परमात्मनः || स्वे महिम्नीति वेदांतः सत्यवादी स्वतः प्रमा || १६८ || वेदांतवाक्यमानानामतिमानमिति स्थितिः || अतः सत्यचिदानन्दलक्षणः परमेश्वरः || १६९ || स्वयमेव सदा लिंगं न लिंगं तस्य विद्यते || लयनाल्लिंगमित्याहुरपरे लिंगवित्तमाः || १७० || तथापि लिंगं भगवान्स्वयमेव महेश्वरः || लीयमानमिदं सर्वं ब्रह्मण्येव विलीयते || न लीयते परं ब्रह्म सदा सत्यस्वभावतः || १७१ || शांकरसंहितायामुपरिभागे- लिंगं गमकमित्याहुरपरे लिंगवित्तमाः || गम्यते योगिभिर्धातोर्गमेर्ज्ञानार्थदर्शनात् || १७२ || तथा निरूप्यते सद्भिर्लिंगं चिन्मात्ररूपकम् || एतस्मात्कारणाच्चापि प्रसिद्धं परमात्मनः || १७३ || लिंगरूपस्य चेशस्य नीलकण्ठस्य शूलिनः || अथ उक्तप्रकारेण लिंगरूपो महेश्वरः || इति वेदांततत्वेषु गीयते तत्ववित्तमैरिति || १७४ || कठवल्ल्युपनिषदि- तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् || पृ० ३२०) अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहातीति || सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति || यदिच्छंतो ब्रह्मचर्यं चरंति तत्रैवेदं संग्रहेणाब्रवीम्योमित्येतत् || एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् || एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् || एतदालंबनं श्रेष्ठमेतदालंबनं परम् || एतदालंबनं ज्ञात्वा ब्रह्मलोके महीयते || ब्रह्मलोकशब्दिते शिवलोके इत्यर्थः || १७५ || एतदालंबनं कथमिति चेदुच्यते- पूर्वतापनीयोत्तरतापनीयमाण्डूक्योपनिषत्सु च || ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यतीति सर्वमोंकार एव यच्चान्यत्त्रिकालातीतं तदप्योंकार एव सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा ब्रह्मैतदात्मानमोमिति ब्रह्मण्येकीकृत्य ब्रह्म चात्मन्योमित्येकीकृत्य तदेकमक्षरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्याथ तन्मयं हितदेवेति संहरेदोमिति तं वा एतत्त्त्रिशरीरमात्मानं त्रिशरीरं ब्रह्म संदद्यादिति पृ० ३२१) एवं लिंगत्रयांगत्रयसमरसरूपब्रह्मात्मैकत्वमेव एतत्प्रणवावलंबनमित्यर्थः || १७६ || मुण्डके- ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्ब्रह्मदक्षिणतश्चोत्तरेण अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति ब्रह्मणः परिपूर्णत्वमुक्तम् || १७७ || श्वेताश्वतरोपनिषदि- सर्वेंद्रियगुणाभासं सर्वेंद्रियविवर्जितम् || सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृदिति || १७८ || अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्स श्रुणोत्यकर्णः || स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महांतम् || १७९ || अणोरणीयान्महतो महीयानात्मा गुहायां निहितोस्य जंतोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् || १८० || कठवल्ल्युपनिषदि- एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते || दृश्यते त्वग्रिया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः || १८१ || येन रूपं रसं गंधं शब्दस्पर्शं च मैथुनम् || एतेनैव विजानाति किमत्र परिशिष्यते || १८२ || नादबिंदूपनिषदि- एवं सर्वाणि भूतानि मणिस्सूत्रे इवात्मनि || पृ० ३२२) स्थिरबुद्धिरसमृद्धो ब्रह्मविद्ब्रह्मणि स्थितः || १८३ || तिलानां तु यथा तैलं पुष्पे गन्धमिवाश्रितम् || पुरुषस्य शरीरे तु स बाह्याभ्यंतरे स्थितमिति || १८४ || सिद्धान्तशिखामणौ क्रियागमस्थले- प्रकाशको यथा नाग्निररण्यां मंथनं विना || क्रियां विना तथांतःस्थो न प्रकाशो भवेच्छिवः || १८५ || भावागमस्थले अंतर्बहिश्च सर्वत्र परिपूर्णं महेश्वरम् || भावयेत्परमानंदलब्धये पण्डितोत्तमः || १८६ || ज्ञानागमस्थले- अंधो यथा पुरःस्थानि वस्तूनि च न पश्यति || ज्ञानहीनस्तथा देही नात्मस्थं वीक्ष्यते शिवम् || १८७ || स्वस्वरूपं शिवाकारं ज्योतिस्साक्षाद्विचिन्तयन् || देहवानपि निर्देहो जीवन्मुक्तो हि साधकः || १८८ || इत्यादिवचनप्रमाणाद्धृदयकमलस्थितं चिन्मयं प्राणलिंगमेकमेव सर्वांगव्यापकत्वेन सर्वेंद्रियायांतःकरणादिषु तत्तदुपाधिभिः षड्विधलिंगानि भूत्वा सर्वांगलिंगसाहित्यं भवति || १८९ || शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायाम्- ईश्वर उवाच- पृ० ३२३) ततो रुद्रमयीं कुर्यात् तनुं रुद्रार्चनारतः || अरुद्रः पूजयन् रुद्रं न पूजाफलभाग्भवेत् || १९० || रुद्रो भूत्वा यजेद्रुद्रं नारुद्रो रुद्रमर्चयेत् || प्राणलिंगांगसंबंधी स रुद्रो नात्र संशयः || १९१ || शरीरे वत्स करणान्यधितिष्ठंति देवताः || आभ्यंतराणि बाह्यानि दर्शनादुपभोगतः || १९२ || अर्पितानि भवन्त्येव द्रव्याणि शिखिवाहन || अर्पितान्यर्पयेद्यस्तु रौरवं नरकं व्रजेत् || १९३ || तद्दोषपरिहाराय शरीरं देवतामयम् || भूतेंद्रियादिसंयुक्तं ध्यायेद्रुद्रात्मकं नरः || १९४ || शिवपुराणे- शिवपूजोपकरणं देहं यः कुरते नरः || सोऽचिरेणैव कालेन विदेहो जायते नरः || १९५ || मण्डलब्राह्मणे-योंऽगं दक्षिणेऽर्कपुरुष इति तदात्मनो यन्मिथुनमिति एतद्यत्तेद्वे भवतो द्वंद्वं हि मिथुनं प्रजननमिति य एष एवेंद्रो योयं दक्षिणेर्क्षपुरुषो ध्येयमिंद्राणीति योयं दक्षिण्यैतद्वामेर्क्षिणित्यादिवचनप्रमाणात् पूर्वोक्तलिंगांगस्वरूपयोः शिवजीवयोर्भर्तृभार्यासंबंध उच्यते || १९६ || शांकरसंहितायामुपरिभागे चतुरशीतितमाध्याये षट्स्थलनिर्णये- पतिर्लिंगं सती चाहं हृदि युक्तस्स्वयंप्रभुः || प्रापंचिकसुखं नास्ति शरणस्थलमुत्तमम् || १९७ || पृ० ३२४) सिद्धांतशिखामणौ अंगलिंगिस्थले- ज्ञात्वा यः सततं लिंगं स्वांतःस्थं ज्योतिरात्मकम् || पूजयेद्भावयेन्नित्यं तं विंद्यादंगलिंगिनम् || १९८ || तत्र शरणस्थले- अंगं लिंगी ज्ञानरूपः सती ज्ञेयः शिवःपतिः || यत्सौख्यं तत्समावेशे तद्वान् शरणनामवान् || १९९ || इत्येवं लिंगांगस्वरूपशिवयोः सतीपतित्वमुक्तम् || २०० || छांदोग्योपनिषदि- आत्मैवाधस्थादात्मोपरिष्ठादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एव पश्यन् एवं मन्वान एवं विज्ञानं ह्यात्मरतिरात्मक्रीडा आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवतीति एवं शिवांगरूपस्य जीवात्मनः स्वात्मनि स्थिते लिंगाख्ये वीरमाहात्मनि रतिक्रीडामिथुन आनंदो वर्तते स स्वराट् स जीवः शरण एव स्वस्मिन् राजत इति स्वराट् स्वात्मारामो भवतीत्यर्थः || तस्य जीवन्मुक्तस्य पृ० ३२५) सर्वलोकेषु कामचारः स्वेच्छाचारो भवतीत्यर्थः || इत्येवं सर्वांगलिंगसाहित्यं श्रुतिसिद्धमुक्तं भवति || २०१ || कठवल्ल्युपनिषदि- एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य इति || २०२ || सिद्धांतशिखामणौ भक्तदेहिकलिंगस्थले- समस्तजगदात्मापि शंकरः परमेश्वरः || भक्तानां हृदयांभोजे विशेषेण विराजते || २०३ || सर्वात्मापि परिच्छिन्नो यथा बिंबेषु वर्तते || तथा स्वकीयभक्तेषु शंकरो भासते सदा || २०४ || नित्यं भाति तदीयेषु या ते रुद्र शिवा तनूः || अघोरापापकाशीति श्रुतिराह सनातनी || २०५ || विशुद्धेषु विरक्तेषु विवेकिषु महात्मसु || शिवस्तिष्ठति सर्वत्र शिवलांछनधारिषु || २०६ || नित्यसंतोषयुक्तानां ज्ञाननिर्धूतकर्मणाम् || माहेश्वराणामंतःस्थो विभाति परमेश्वरः || २०७ || तत्र लिंगमाहात्म्यस्थले- शिवस्य बोधलिंगं यद्रुरुबोधितचेतसः || तदेव लिंगं विज्ञेयं शांकरं सर्वकारणम् || २०८ || परं पवित्रममलं लिंगं ब्रह्म सनातनम् || शिवाभिधानं चिन्मात्रं सत्तानन्दं निरंकुशम् || २०९ || कारणं सर्वलोकानां वेदानामपि कारणम् || पृ० ३२६) पूरणं सर्वतत्वस्य तारणं जन्मवारिधेः || २१० || ज्योतिर्मयमनिर्देश्यं योगिनामात्मनि स्थितम् || कथं विज्ञायते लोके महागुरुदयां विना || २२१ || शिवसूत्रे- लिंगमेवेष्यते यद्वच्छिवस्सर्वगतोऽपि सन् || तथा भक्तजनेष्वेव शिवता व्यक्तिरिष्यते || २१२ || योगसारसंग्रहे- स्मृत्वा स्मृत्वा गुरुमुखगतं ज्ञानमानंदरूपं श्रुत्वा श्रुत्वा हृदयकुहरे नादमादित्यवर्णम् || स्पृष्ट्वा स्पृष्ट्वा सकलवपुषा सर्वगात्रस्थमीशम् सर्वे ह्यस्मिन् करणनिचयाश्चैककार्या बभूवुः || २१३ || चंद्रावलोकने- आत्मज्योतिर्मनोज्योतिर्ज्योतिश्चक्षुश्च पश्यति || सबाह्याभ्यंतरज्योतिः स ज्योतिश्शिव उच्यते || २१४ || शैवागमे- भक्तदेहिकलिंगस्याप्परोक्षानुभवोऽस्ति यस्तदेव लिंगस्य निजं तद्विदुरुच्यते || २१५ || शिवयोगप्रदीपिकायाम्- आमस्तकं पादतलावसानमंतर्बहिश्चर्मपटावनद्धम् || तत्कृत्स्नमेवामृतरूपमाहुश्चिद्रूपमात्मानममर्त्यरूपम् || २१६ || वासिष्ठे- चिदाकाशमयं सर्वं जगदित्येव भावयन् || यस्तिष्ठत्युपशांतेच्छः स ब्रह्मकवचस्सुखी || २१७ || पृ ३२७) स्वात्मयोगप्रदीपिके- भेदोऽस्ति नैक्षवरसे गुडखण्डरूपे जंबाकृकौलीकुचनिंबफलाकुकौला || ब्रह्मात्मके सुखरसे मयि नास्ति भेदस्तद्वद्विरिंचिवपुषे द्रुमविग्रहे वा || २१८ || भागवते- तथा देवः शरीरस्थो हितं न कुरुते नृणाम् || विनाराधनया देवः सर्वगः परमेश्वरः || २१९ || शांकरसंहितायाम्- लिंगांगमयमेवेदं जगत्सर्वं चराचरम् || लिंगांगव्यतिरेकेण नास्ति सर्वत्र किंचन इति || २२० || सूक्तावल्ल्यां तोटकवृत्तम्- शिवताभरिते भुवनत्रितये शिवतां जनता न तथापि गता || गुरुदर्शनतश्शिवतामगमद्रुरुतः शिवतो गुरुरेव गुरुः || २२१ || वातुलागमे उत्तरभागे तन्त्रोत्तरप्रदीपाख्ये अनुभवसूत्रे च- एकमेव परं लिंगमंगेऽस्मिन् सुप्रतिष्ठितम् || सर्वतोमुखमाभाति नामरूपक्रियात्मना || २२२ || इष्टलिंगं तु बाह्यांगे प्राणलिंगं तथांतरे || भावलिंगं सदैवास्मिन्नात्मांगे सुप्रतिष्ठितम् || २२३ || हृदयांगे महालिंगं श्रोत्रांगे सुप्रसादकम् || त्वगंगे चरलिंगं तु दृगंगे शिवलिंगकम् || २२४ || जिह्वांगे गुरुलिंगं तु नासिकांगे तथैव च || पृ० ३२८) आचारलिंगमश्रान्तं सुप्रतिष्ठितमेव हि || २२५ || यथा ज्ञानेन्द्रियांगेषु क्रमाल्लिंगं प्रतिष्ठितम् || तथा कर्मेन्द्रियांगेषु क्रमाल्लिंगं प्रतिष्ठितम् || २२६ || श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च || ईश्वरीमीश्वरस्यैनामीशानाख्यां विदुर्बुधाः || २२७ || त्वक्पाणिस्पर्श वायूनामीश्वरीं मूर्तिमैश्वरीम् || पुरुषाख्यां विदुः पूर्वे पुराणागमवेदिनः || २२८ || चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च || अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः || २२९ || रसनाया उपस्थस्य रसस्यापां तथैव च || ईश्वरं वामदेवाख्यां मूर्तिं मुनिवरा विदुः || २३० || घ्राणस्य चैव पायोश्च गंधस्य च भुवस्तथा || सद्योजाताह्वयां मूर्तिमैश्वरीं संप्रचक्षते || २३१ || ज्ञानकर्मात्मनां खानामाश्रयं हृदयं भवेत् || आश्रयत्वात्स्वनैर्मल्याज्ज्ञानकर्मोभयात्मकम् || २३२ || इन्द्रियाणां तु सर्वेषामवकाशप्रदत्वतः || हृदयाकाश इत्येव प्रोच्यते मतिमत्तमैः || २३३ || स्थूलांगे स्थूलरूपेण सूक्ष्मांगे सूक्ष्मरूपतः || कारणे कारणत्वेन तिष्ठन्त्येतानि खानि हि || २३४ || त्रिष्वेषु खेषु सर्वेषु लिंगं सत्यादिलक्षणम् || गुरूपदेशसंसिद्धं भासते सर्वतोमुखम् || २३५ || पृ० ३२९) एतल्लिंगमुखं यत्र दृश्यते सूक्ष्मदर्शिभिः || यदामनन्ति वेदाश्च तपांसि नियमास्तथा || २३६ || हृदयं हृदयस्येति श्रोत्रं श्रोत्रस्य सर्वदा || वाचो वाक्त्वक्त्वचः पाणिः पाणेश्चक्षुश्च चक्षुषः || २३७ || पादः पादस्य जिह्वाया जिह्वा गुह्यस्य गुह्यकम् || नासिका नासिकायाश्च पायोः पायुरिति स्थितः || २३८ || तल्लिंगमुखमित्याहुश्शिवसिद्धांततांत्रिकाः || घ्राणस्य घ्राणमाचारलिंगस्य मुखमुच्यते || २३९ || जिह्वायाश्च तथा जिह्वा गुरुलिंगमुखं भवेत् || चक्षुषश्च तथा चक्षुश्शिवलिंगमुखं भवेत् || २४० || त्वचस्त्वक्चररूपस्य लिंगस्य मुखमुच्यते || मुखं प्रसादलिंगस्य श्रोत्रं श्रोत्रस्य कथ्यते || २४१ || हृदयं हृदयस्यैवं महालिंगमुखं भवेत् || एवं लिंगमुखं प्रोक्तं सुप्रसिद्धमनन्तरम् || २४२ || भक्तादिषट्स्थलानां च हस्तभेदः प्रदर्श्यते || वस्तुनो भाव उत्पन्नो भावाज्ज्ञानसमुद्भवः || २४३ || ज्ञानान्मनस्समुत्पन्नं मनसोऽहंकृतिस्तथा || अहंकारात्ततो बुद्धिर्बुद्धेश्चित्तस्य संभवः || २४४ || अस्तीत्यारभ्यते वस्तु तत्सत्ताभाव उच्यते || पृ० ३३०) ज्ञानं जानाति तन्नित्यं मनस्तन्मनुते सदा || २४५ || अहं तदित्यहंकारो बुद्धिस्तन्निश्चिनोति हि || चित्तं स्थैर्यगुणेनैव धत्ते तद्वस्तु सादरम् || २४६ || आत्मांगं भावहस्तं स्यान्महालिंगार्चनेरतं || ऐक्यस्थलमिति प्राहुः साक्षाद्वेदान्तपारगाः || २४७ || व्योमांगं ज्ञानहस्तं स्यात्प्रसादार्चनतत्परम् || शरणस्थलमित्याहुः शिवयोगविशारदाः || २४८ || अनिलांगं मनोहस्तं चरलिंगार्चने रतम् || प्राणलिंगिस्थलं साक्षादित्याहुः शिवधार्मिकाः || २४९ || अनलांगमयं हस्तं शिवलिंगार्चने रतम् || प्रसादिस्थलमित्याहुराचार्याः शिवशास्त्रिणः || २५० || जलांगं बुद्धिहस्तं च गुरुलिंगार्चने रतम् || माहेश्वरस्थलं साक्षादिति प्राहुर्मनीषिणः || २५१ || भूम्यंगं चित्तहस्तं च सदाचारार्चने रतम् || भक्तस्थलमिति प्राहुः शिवसिद्धांतवेदिनः || २५२ || पंचाक्षरी परा विद्या सतारा तु षडक्षरी || स्थूलसूक्ष्मादिभेदेन स्वयमेवाष्टधा स्थिता || २५३ || शिवमंत्राभिधा मन्त्रमातृकालिंगरूपिणी || शिवप्रदायिनी नित्यं सर्वांगेषु प्रतिष्ठिता || २५४ || मूलाधारे नकाराख्या संस्थिता परमेश्वरी || पृ० ३३१) स्वाधिष्ठाने मकाराख्या शांभवी पर्यवस्थिता || २५५ || मणिपूरमहास्थाने शिकाराख्या महेश्वरी || अनाहते वकाराख्या सदा शैवी व्यवस्थिता || २५६ || विशुद्धौ तु यकाराख्या साक्षाद्विश्वेश्वरी स्थिता || आज्ञाचक्रे महादेवी ताराख्या समवस्थिता || २५७ || आचाराख्यं नकारःस्यात् मकारो गुरुलिंगकम् || शिकारश्शिवलिंगं स्याद्वाकारश्चरलिंगकम् || २५८ || यकारःस्यात्प्रसादाख्यमोंकारो महदुच्यते || षष्ठं ब्रह्म भवेत्तारं यकारः पंचमं भवेत् || २५९ || चतुर्थन्तु वकारः स्याच्छिकारस्तु तृतीयकम् || द्वितीयन्तु मकारस्स्यान्नकारः प्रथमं भवेत् || २६० || एवं षडक्षराण्येव ब्रह्माणि क्रमशो विदुः || एतद्यो वेद सोऽविद्या ग्रन्थिं विकिरति प्रभुः || शिवसिद्धांतकं तन्त्रं शिवाद्वैतं शिवं परम् || २६१ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे सर्वांगलिंगसाहित्यं नाम पंचदशप्रकरणं सम्पूर्णम् || पृ० ३३२) || श्रीशिवाय नमः || लिंगार्पणसद्भावनिरूपणं वक्ष्यामः जाबालशाखायाम्- रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति यस्माद्ब्राह्मणाः प्रशान्तमनसो विद्वांसो निर्माल्यमेव भक्षयन्ति निर्माल्यमेवाश्नीयान्निर्माल्यमेव निषेवेतेति अत्र निर्माल्यमेवेत्येवकारेण महाब्राह्मणैः शिवभक्तैः सर्वेन्द्रियमुखेषु स्वेष्टलिंगार्पितप्रसादमेवान्नं भोक्तव्यं सर्वेन्द्रियेषु शिवानर्पितद्रव्यं वर्जनीयमित्यर्थः || १ || मानवपुराणे- रुद्रभुक्तन्तु भुंजीयाद्रुद्रपीतं जलं पिबेत् || रुद्राघ्रातं सदा जिघ्रेदिति जाबालिकी श्रुतिः || २ || स्कान्दे- शिष्टाः शान्ताश्च रुद्रेण भुक्तमेव हि भुंजते || घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च || ३ || अत एवोक्तं शिवेन गीतादिषु || यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् || यद्यत्पश्यसि राम त्वं सर्वं कुरु मदर्पणम् || ४ || बृहत्कालोत्तरे- संयोगेषु वियोगेषु चाणुमात्रसुखानि च || यः कुर्यादिष्टलिंगे तु सावधानी निरंतरम् || ५ || शैवरत्नाकरे- यदिन्द्रियागतं किंचिद्यत्सुखं तच्छिवार्पितम् || पृ० ३३३) तत्प्रसादं च भोक्तव्यं तदिन्द्रियमुखेन च || ६ || वासिष्ठे- एवं विरक्तः स्वेनैव मनसा तत्समर्पयेत् || दर्शनस्पर्शनाघ्राणभोजनश्रवणादिकं || ७ || इत्येवं श्रुतिपुराणेतिहासगीतोपबृंहितजाबालशाखावचनेन शिवप्रसादसेवने सावधानविधिरुक्ता || ८ || कठशाखायां-त्रिगुप्सात्तमश्नीयाद्यदि पापाच्छिवानर्पितं भुंक्ष्य तदेनो भुंक्ष्व क्रिमिं भुंक्ष्व मलं भुंक्ष्व अघं भुंक्ष्व अधो गच्छाधो गच्छ इति || ९ || अस्यार्थः त्रिगुरिति गोशब्देन चक्षुरुच्यते गोशब्दश्चक्षुरिन्द्रियेऽपि वागादिषु वर्तते तिस्रो गावश्चक्षूंषि यस्यासौ त्रिगुः || त्र्यंबक इत्यर्थः तेन सात्तं भक्षितं सा भक्षण इति धातोः कर्मणि निष्ठा ततः त्रिगुप्सात्तं त्र्यंबकेन भक्षितं तत्प्रसादं अश्नीयाद्भुंजीयात् यदि पापाच्छिवानर्पितं भुंक्ष्य तत् अनर्पितभोजनेन एनो भुंक्ष्व कलुषं व्रजिनैनोघ इत्यमरवाक्यात् एनशब्देन महापातक उच्यते || अतश्च महापातकिनः यत्पापं तच्छिवानर्पितभोजने भवतीति तात्पर्यार्थः क्रिमिं भुंक्ष्व मलं भुंक्ष्व अघं भुंक्ष्व अधो गच्छाधो गच्छ क्रिमिभक्षणे मलभक्षणे अघभक्षणे यदुपपातकादिपापं तद्भवति अधो गच्छाधो गच्छेति द्विरुक्त्या चिरकालनरकपातनं भवतीत्यर्थः || १० || अस्मिन्नर्थे पद्मपुराणे-असमर्प्य पृ० ३३४) परं शंभोर्भुंक्ते खादति पाति च || श्वमांसमस्थिमूत्रं च भुंक्ते खादति पाति च || ११ || महालिंगपुराणे- भोज्यलेह्याश्च चोष्याश्च ये च लिंगार्पिताः परे || लिंगोच्छिष्टन्तु भुंजीत प्रसादाप्तिरुदाहृता || १२ || इक्षुदंडफलापूपखाद्यानि व्यंजनानि च || प्रसादमेव भोक्तव्यमन्यद्गोमांसविट्समं || १३ || इत्यादिवचनप्रमाणाद्भक्षभोज्यलेह्यचोष्यखाद्यपेयानि पयोदधिघृततैलादिरसानि कंदमूलफलपत्रशाखापुष्पादिव्यंजनानि क्षीरोदनमुद्गोदनशाल्योदनादिबह्वोदनानि द्राक्षारंभाचूतादिफलानि अन्यानि षड्रसोपेतपदार्थजातानि तत्तत्कालोचितयथासंभवपदार्थजातानि स्वेष्टलिंगे भाजने विनिक्षिप्तसमये पाचिकमुखादाकर्ण्य तत्तत्पदार्थनामानि कटुतिक्ताम्लमधुरक्षारकषायान्वितव्यंजनमिश्रितोपरसनामानि स्वकीयश्रोत्रेन्द्रियकरण स्वेष्टलिंगश्रोत्रेन्द्रियस्य समर्पणं कृत्वा तत्प्रसादशब्दसुखमनुभवितुमर्हो भवति तत्तत्पदार्थवासितानि गतानि गन्धानि स्वकीयघ्राणेन्द्रियकरेण स्वेष्टलिंगघ्राणेन्द्रियस्य समर्पणं कृत्वा तत्तत्पदार्थवासनासुखमघ्रातुमर्हो भवति तत्तत्पदार्थ- पृ० ३३५) रूपाणि स्वकीयनयनेन्द्रियकरेण स्वेष्टलिंगनयनेन्द्रियस्य समर्पणं कृत्वा तत्प्रसादावलोकनसुखमनुभवितुमर्हो भवति तत्तत्पदार्थभावनासमये स्वकीयमानसकरेण स्वेष्टलिंगमनसि समर्पणं कृत्वा तत्तत्प्रसादभावनासुखमनुभवितुमर्हो भवति तत्तत्पदार्थस्पर्शनसम्मेलनसमये तन्मृदुकठिणशीतोष्णादीनि स्वकीयकरोदरेण स्वेष्टलिंगकरोदरे समर्पणं कृत्वा तत्प्रसादस्पर्शनसुखमनुभवितुमर्हो भवति || २४ || तत्तत्पदार्थसमर्पणसमये “कर्मणा मनसा वाचा त्रिविधेनार्पितं शुभं || नोचेदनर्पितं भुंक्ते प्रसादं निष्फलं भवेत्ऽऽ || एवमादिवचनप्रमाणात् तत्त्रिविधार्पणं कर्तव्यमेव पूर्वोक्तसकलपदार्थजातानि स्वकीयकरतलेन पुनः पुनरभिमर्शनपूर्वकं स्वेष्टलिंगार्पितं चेत् तत्कर्मक्रियार्पणं भवति तत्तद्भक्ष्यभोज्यादिपदार्थानि तत्तत्कबलान्तर्गतसिक्थपरंपराः तत्तद्व्यंजनपिण्डितमुद्गलानि तत्तद्भावान्तर्गतबीजित्वगन्तव्यन्तलतादिस्वीकारविसर्जनभेदाः दीपितानलसूर्यचन्द्रातपप्रभामिश्रछायावायव्यतैजसाद्यपार्थिवपरम अणुमिश्रितावकाशमिश्राणुमारुतबहिमार्रुतोपमारुतमिश्रगंधापुष्पफल् अधूपसौरभमिश्रधूपधूमपाकबाष्पजलमिश्रिततटाकमिश्रितरसमिश्र रागमिश्ररूपमिश्ररुचिमिश्रितभेदा लिंगभोगभावनापुरस्सरपर्यायक्रमेण स्वेष्टलिंगार्पितं चेत् तन्मानसक्रियाकृतं भवति तत्तद्वस्तुजातानि नामोच्चारणपुरस्सरं ओं नमश्शिवायेति मन्त्रेण स्वेष्टलिंगार्पितं पृ० ३३६) भवति चेत् तद्वाक्क्रियाकृतं भवति || १५ || तत्त्रिविधप्रसादस्वीकारसमये “रूपं समर्पयेद्द्रव्यं रुचिमप्यर्पयेत्ततः || उभयार्पणहीनं चेत्प्रसादं निष्फलं भवेत्ऽऽ || इति वचनप्रमाणात् स्वकीयजिह्वेन्द्रियभाजने तत्तत्पदार्थान्तर्गतरुचिं विनिक्षिप्य मानसकरेण स्वेष्टलिंगजिह्वेन्द्रियस्य समर्पणं कृत्वा तत्प्रसादरुचिसुखमनुभवितुमर्हो भवति || १६ || तस्योदाहरणमाह || ब्रह्मपुराणे शिवचतुर्मुखसंवादे- नैवेद्यं पुरतो न्यस्तं दर्शनात्स्वीकृतं मया || रसान् भक्तस्य जिह्वाग्रादश्नामि कमलोद्भव || १७ || इत्यादिवचनप्रमाणादेकनिष्ठापरैर्वीरमाहेश्वरव्रताचारनिरतैः स्वजिह्वाग्रे प्राणलिंगस्य यद्यत्कर्मणा वचसा पूर्वकं समर्पितपदार्थरूपान्तर्गतरुचिं सावधानमनसा समर्पितमेव भवति || १८ || अतेवोक्तं क्रियातिलके शुद्धशैवप्रसादे च शुचित्वं यो न भावयेत् || सोऽपि याति नरो घोरनरकं कालमक्षयमिति || १९ || कात्यायनगृह्ये-पंथानं गच्छन्नभिमन्त्रयते नमो रुद्राय पथि सदे स्वस्ति मांसंपादय वनं गच्छन्नभिमन्त्रयते नमो रुद्राय वनस्पते स्वस्ति मां संपादय पृ० ३३७) आपो गच्छ वयन्नभिमन्त्रयते नमो रुद्रायाप्सु स्वदे सदे स्वस्ति मां संपादय तस्माद्यत्किंचन कर्म कुर्वन् तत्सर्वं नमो रुद्रायेत्येव कुर्यादिति अस्यार्थः पन्थानं शिवनिर्माल्यपादुकाभ्यां युक्तो वा प्रसादरथहयांदोलगजादिवाहनारूढो वा गच्छन्नमो रुद्रायेति मन्त्रेणाभिमन्त्रपूर्वकं तत्पथगमनागमनं समर्पणं कृत्वा पथि सदे पथिनां पतये नमः ये पथां पथि रक्षय इति पथि सदेहमतस्थितायेत्यर्थः हे रुद्र स्वस्ति मां संपादय तद्गमनागमनसुखं परिपूरय इति विज्ञाप्य तत्प्रसाददातरि प्रसादमार्गेषु पदे पदे समर्प्य गच्छति तत्प्रकारेण पुनरागच्छति वनं गच्छन् वनप्रदेशनिर्गमनसमये तद्वनान्तर्गतछायातपशीतोष्णसुखानि च अंकुरितपल्लवितकोरकितपुष्पितफलितचूतजंबूनारंगाशोकादिनानावृक्ष् अलताच्छायावलोकनसुखानि तत्तत्प्रसूनपत्रफलपरिमलानुभवसुखानि शुकपिकभृंगमरालकेकीप्रभृतिनानापक्षीमृदुमधुरकोमलनिनदश्रवण् असुखानि श्वेतपीतहरितादिनानावर्णवृक्षलतापत्रपुष्पादिमनोहररूपावलोकनसुक् हानि नमो रुद्रायेति मन्त्रेणाभिमन्त्रपूर्वकं समर्प्य वनस्पते वृक्षाणां पतये अरण्यानां पतये इति नानामधिपते स्वस्ति पृ० ३३८) मां संपादय स्वस्ति शुभं मां उपासकं संपादय तत्प्रसादसुखमापूरय इति विज्ञाप्य प्रसादी तत्प्रसादवनान्तर्गमनागमनप्रसादसुखमनुभवितुमर्हो भवति आपोच्छवयन् उदकप्रसादसमये नमो रुद्रायेति मन्त्रेणाभिमन्त्रपूर्वकं तत्तज्जलप्रवेशनिर्गमनशीतोष्णादिसुखं समर्पणं कृत्वा अप्सु सदे नमः शीर्याय च नमः पार्याय च नमः प्रतरणाय चोत्तरणाय चेति ये तीर्थानि प्रचरन्तीति च अपामधिपते स्वस्ति मां संपादय तत्प्रसादसुखमापूरय इति विज्ञाप्य प्रसादी तत्प्रसादजलस्वीकारसुखमनुभवितुमर्हो भवति तस्माद्यत्किंचनकर्म कुर्वन् तत्सर्वं नमो रुद्रायेत्येव कुर्यात् || २० || लिंगार्पितं च सर्वत्र बाह्याभ्यन्तरमेव च || रूपं द्रव्यस्य बाह्येषु निरूपं चान्तरेषु च || २१ || बृहत्कालोत्तरे- गच्छन् तिष्ठन् स्वपन् जाग्रन् भुंजानो मैथुने रते || यः शिवार्पितचेतस्को भक्तिमान् स तु नान्यथा || २२ || किंच तैत्तिरीये- को हेवान्यत्कः प्राण्यात् यदेष आकाश आनन्दो वा स्यात् एष ह्येवानन्दयतीति || अस्यार्थः चिदानंदरूपाकाशपदवाच्यशिवाभिन्नचिच्छक्तिर्यदि न स्यात्तर्हि लोके को वा प्राणी चेष्टादिचलनं कुर्यात् को वा प्राणी संचारमात्रमपि पृ० ३३९) कुर्यात् आनन्दस्य उत्साहद्वारा प्रवृत्तिहेतुत्वात् सर्वविधानस्य सर्वात्मकस्य आनन्दत्वं नित्यसिद्धमिति किंशब्दाभिप्रायः || २३ || ब्रह्मगीतायां- असत्यस्मिन् परानन्दे स्वात्मा भूतेऽपि चात्मनां || को जीवति नरो देव को वा नित्यं विचेष्टते || २४ || तैत्तिरीये ब्रह्मवल्ल्यां- सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सकलान् कामान् ब्रह्मणा विपश्चितेति || २५ || कठवल्ल्युपनिषदि- तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् || अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति || येन रूपं रसं गन्धं शब्दं स्पर्शं च मैथुनम् || एतेनैव विजानाति किमत्र परिशिष्यते || २६ || इत्यादिवचनप्रमाणाद्गुहाहितब्रह्मैव सकलान् विषयान् प्रकाश्यते तद्गुहाहितब्रह्मज्ञानी तनुत्रयषडिन्द्रियादिषु सकलान् कामान् ब्रह्मशब्दवाच्येन लिंगाख्येन शिवेन सह सोऽश्रुत इति विज्ञातव्यम् || २७ || शिवयोगदीपिकायाम्- आदाय बाह्यविषयानिन्द्रियमार्गैरहंकृतौ चेतः || पृ० ३४०) अर्पयति सा च बुद्धौ बुद्धेस्साक्षी ततः पुमान् भुंक्ते || २८ || चन्द्रावलोकने- आत्मज्योतिर्मनोज्योतिर्ज्योतिश्चक्षुश्च पश्यति || स बाह्याभ्यन्तरे ज्योतिस्स ज्योतिश्शिव एव हि || २९ || सिद्धांतशिखामणौ कायार्पितस्थले- यदा योगी निजं देहं शिवाय विनिवेदयेत् || तदा भवति तद्रूपं शिवरूपं न संशयः || ३० || इन्द्रियप्रियहेतूनि विषयासंगजानि च || सुखानि सुखचिद्रूपे शिवे योगी निवेदयेत् || ३१ || दर्शनात्स्पर्शनाद्भुक्तेः श्रवणाद्घ्राणनादपि || विषयेभ्यो यदुत्पन्नं शिवे तत्सुखमर्पयेत् || ३२ || देहद्वारेण यद्यत्स्यात्सौख्यं प्रासंगमात्मनः || तं तं निवेदयेच्छंभोर्योगी चरति निर्मलः || ३३ || तत्र करणार्पितस्थले || यद्यत्करणमालम्ब्य भुंक्ते विषयजं सुखम् || तत्तच्छिवे समर्प्यैष करणार्पक उच्यते || ३४ || इन्द्रियाणि समस्तानि शरीरं भोगसाधनम् || शिवपूजांगभावेन भावयन्मुक्तिमाप्नुयात् || ३५ || इन्द्रियाणां समस्तानां मनः प्रथममुच्यते || वशीकृते शिवे तस्मिन् किमन्यैस्तद्वशानुगैः || ३६ || पृ० ३४१) इन्द्रियाणां वशीकारो निवृत्तिरिति गीयते || तत्स्वीकृते शिवे तेषां कुतः संसारयातना || ३७ || अहंकारमदोद्रिक्तमन्तःकरणवारणम् || बध्नीयाद्यः शिवालाने स धीरस्सर्वसिद्धिमान् || ३८ || इन्द्रियैरेव जायन्ते पापानि सुकृतानि च || तेषां समर्पणादीशे कुतः कर्मनिबन्धनम् || ३९ || प्रकाशमाने चिद्वह्नौ बहिरन्तर्जगन्मये || समर्प्य विषयान्सर्वान् जायते मुक्तवज्जनः || ४० || चित्तदर्व्यां समादाय जगज्जातं महाहविः || चिद्वह्नौ जुह्वतामन्तः कुतः संसारविप्लवः || ४१ || भावार्पितस्थले || शिवे निश्चलभावेन भावानां मत्समर्पणम् || भावार्पितमिदं प्रोक्तं शिवसद्भाववेदिभिः || ४२ || भाव एव हि जन्तूनां कारणं बन्धमोक्षयोः || भावशुद्धौ भवेन्मुक्तिर्विपरीते तु संस्सृतिः || ४३ || भावस्य शुद्धिराख्याता शिवोऽहमिति यो जनः || परितश्च समायोगे कुतो दुःखनिवर्तनम् || ४४ || सर्वेंद्रियगतं सौख्यं दुःखं वा कर्मसंभवम् || शिवार्थं भावयन्योगी जीवन्मुक्तो भविष्यति || ४५ || भोक्ता भोगं भोजयिता सर्वमेतच्चराचरम् || पृ० ३४२) भावयन् शिवरूपेण शिवो भवति वस्तुतः || ४६ || सर्वकर्मार्चनं शंभोर्वचनं तस्य कीर्तनम् || इति भावयतो नित्यं कथं स्यात्कर्मबन्धनम् || ४७ || मिथ्येति भावयन् विश्वं विश्वातीतं शिवं स्मरन् || भूतार्थसंविदाकारं कुतो बन्धमिहार्हति || ४८ || चित्तस्थसकलार्थानां मननं यत्तु मानसे || तदर्पणं शिवे साक्षान्मानसो भाव उच्यते || ४९ || आत्मज्योतिषि चिद्रूपे प्राणवायुनिबोधिते || जुह्वन् समस्तविषयान् तन्मयो भवति ध्रुवमिति || ५० || अस्मिन्नर्थे श्रुतिर्यजुरारण्यकतैत्तिरीयनारायणोपनिषत्सु च || ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहेति || ५१ || सिद्धांतशिखामणौ भावाचारस्थले-आत्मज्योतिषि सर्वेषां विषयाणां समर्पणम् || अन्तर्मुखेन मनसा होमकर्मेति गीयते || ५२ || भगवद्गीतायाम्- सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे || आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || ५३ || अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् || जुह्वतो न निवर्तंते मुनेश्चित्तादिविभ्रममिति || ५४ || पृ० ३४३) शिवयोगप्रदीपिकायाम्- ज्ञानाकारं ज्ञेयं क्षांतिदृशा प्राप्य चिन्मयं सर्वम् || अंतर्यागे विद्वान्हविरिति जुहुयात्तदात्माग्नौ || ५५ || इत्थं सकलविकल्पान् प्रतिबुद्धो भावनासमीरेण || आत्मज्योतिषि दीप्ते जुह्वन् ज्योतिर्मयो भवतीति || ५६ || शिवसूत्रे- सर्वे भावाः शिवाकारा अन्तर्भूताः शिवानले || सोऽहं शिवः स तृप्तोऽस्मि होम इत्यधिकः पर इति || ५७ || विशेषार्थप्रकाशिकायाम्- मानसवाचककायककर्माणीन्धांसि पुण्यपापानि || शैवानि हवींषि मया ज्ञानाग्नौ हूयते सदा होमः || ५८ || सिद्धांतशिखामणौ सहभोजनस्थले- गुरोः शिवस्य शिष्यस्य स्वस्वरूपतया स्मृतिः || सहभोजनमाख्यातं सर्वग्रासात्मभावतः || ५९ || विश्वं गुरुं शिवं साक्षाद्योजयेन्नित्यमात्मनि || एकत्वेन शिवाकारे तदिदं सहभोजनम् || ६० || आधारवह्नौ चिद्रूपे भेदजातं जगद्धविः || जुहोति ज्ञानजुह्वाय स यज्ञो विश्वहव्ययत् || ६१ || पराहंता मये स्वात्मा पावके विश्वभासके || इदंताहव्यहोमेन विश्वहोमेति कथ्यते || ६२ || अहं शिवो गुरुश्चाहमहं विश्वं चराचरम् || पृ० ३४४) यया विज्ञायते सम्यक्पूर्णाहंतेति सा मता || ६३ || तत्र भाण्डस्थले- सर्वाहंतासमावेशपरिपूर्णविमर्शकः || सर्वज्ञः सर्वगः साक्षी सर्वकर्ता महेश्वरः || ६४ || विमर्शभाण्डविन्यस्तविश्वतत्वविजृंभणः || अनन्यमुखसंप्रोक्षी मुक्तः स्वात्मनि तिष्ठति || ६५ || विमर्शसहस्रिकायाम्- सर्वेषामर्पको भावस्तं भावं परमे शिवे || समर्पितवतः सम्यक्किमेतदवशिष्यते || ६६ || वासिष्ठे- संसर्गं प्रियवर्गस्य शिवस्यैवेति भावयन् || अहंकारप्रहाणेन भावसिद्धिं च विंदते || ६७ || भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् || भावाभावौ ततस्त्यक्त्वा निर्विकल्पस्सुखी भवेत् || ६८ || सूतसंहितायाम्- कर्ता कारयिता कर्म कारणं कार्यमेव च || सर्वमात्मतया भाति प्रसादात्पारमेश्वरादिति || ६९ || सिद्धांतशिखामणौ निर्देहागमस्थले- गलिते ममताहन्ते संसारभ्रमकारणे || पराहंतां प्रविष्टस्य कुतो देहः कुतो रतिः || ७० || पृ० ३४५) स्वीकृतप्रसादिस्थले- मुख्यार्थो लक्षणार्थश्च यत्र नास्ति चिदात्मनि || विशृंखलतया तस्य प्रसादः स्वीकृतो भवेत् || ७१ || अंतर्मुखेन मनसा स्वात्मज्योतिषि चिन्मये || सर्वानप्यर्थविषयान् जुह्वन्योगी प्रमोदते || ७२ || सच्चिदानंदजलधौ शिवः स्वात्मनि निर्मलः || समर्प्य सकलान् भुंक्ते विषयान् तत्प्रसादतः || ७३ || शिष्टोदनस्थले- शब्दादयोऽपि विषया भुज्यमानास्तदिंद्रियैः || आत्मन्येव विलीयंते सरितस्सागरे यथा || ७४ || अर्थजातमशेषं तु ग्रसन्योगी प्रशाम्यति || ज्योतिर्लिंगे चिदाकारे निमग्नेन महात्मना || भुज्यमाना यथा योगं नश्यंति विषयास्तत इति || ७५ || एवं पूर्णाहंतस्वरूपे परब्रह्मणि चिन्मये लिंगे भावार्पितसद्भावेन द्वैतभावे विलये सति लिंगैक्यरूपाद्वैतप्राप्तिरेव भवति || तस्माद्योगी जीवन्मुक्तो भवति || ७६ || ऐक्यस्थले- पशुत्वं च पतित्वं च मायामोहविकल्पितम् || तस्मिन् प्रलयमापन्ने कः पशुः कोऽनु वा पतिरिति || ७७ || स्कांदे-यथा लोहस्सुवर्णत्वं प्राप्नोत्यौषधयोगतः || आत्मध्यानात्तथा प्राणः परमात्मत्वमाप्नुयात् || ७८ || पृ० ३४६) स्वात्मयोगप्रदीपिके- सदसदितररूपात्स्वात्वमोहादनादेर्यदभिधमपि जीवेशादिभेदैर्विभाति || श्रुतिगुरुकृतबोधान्मोहनाशे तदेकं स्फुरति च मम नैजं ब्रह्म सत्स्वात्मयोगमिति || ७९ || अभियुक्तवचनम्- इति कृतनरमोहे राघवे विष्णुते व स्वमविदुषि च राधेयाह्वये पार्थतेव || नवविधदशमात्मे च तत्सौख्यतेव स्फुरति च मयि सिद्धा ब्रह्मताचार्यवाक्यैरिति || ८० || सूतसंहितायाम्- श्रौतस्मार्तसदाचारैर्विशुद्धस्य महात्मनः || प्रसादादेव रुद्रस्य चिदेकत्वमतिर्भवेत् || ८१ || भागवते- यत्स्वात्मरतिरेव स्यादात्मतृप्तिश्च मानवः || आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते || ८२ || वासिष्ठे- कालसत्ता कलासत्ता स्पन्दसत्ता च चिन्मया || शुद्धचेतनसत्ता च सर्वमित्यादिशांभवमिति || ८३ || तत्रैव- त्रिषु धामसु यद्भोग्यं भोक्ता यश्च शिवः स्मृतः || विदैतदात्मन्युभयं स भुंजानो न लिप्यते || ८४ || पृ० ३४७) महाभारते- वृत्तिहीनं पुनः कृत्वा क्षेत्रज्ञं परमात्मनि || एकीकृत्य निरीक्षेत योगयुक्तस्स उच्यते || ८५ || वासिष्ठे- सर्वभावविनिर्मुक्तः क्षेत्रज्ञब्रह्मणि न्यसेत् || एतद्ध्यानं च योगं च शेषोऽन्यो ग्रंथविस्तरः || ८६ || विलीनाशेषबाह्यार्थबुद्धेरभ्यासयोगतः || जीवस्य ब्रह्मताप्राप्तिर्मुक्तिरित्यभिधीयते इति || ८७ || शिवाद्वैते- मेयं माने मिता मानं मितिर्मातरि कल्पिते || मययेव लीयते सोऽपि माता महति मातरि || ८७ || मृत्युं च कालिं च कलाकलापं विकारजातं प्रतिपत्तिजातं || एकात्मनानात्मवितर्कजातं कथा स सर्वं कबलीकरोति || ८९ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे लिंगार्पणसद्भावनिरूपणन्नाम षोडशप्रकरणं सम्पूर्णं || पृ० ३४८) || श्रीशिवाय नमः || प्रसादसद्भावं वक्ष्यामः विशेषार्थप्रकाशिकायां- श्रीगुरुरुवाच || अंगं जीवः परमो लिंगं संबंधमेव तादात्म्यं || तत्तत्पदार्थरूपं प्रसादरूपं समर्पणं विविधं || १ || पदार्थरूपो जीवस्य प्रसादः परमो भवेत् || समर्पणं च तादात्म्यमिति शैवी परा स्थितिः || २ || जगज्जीवेश्वराणान्तु त्रयाणामेष [त्रयाणांतत्व] निर्णयः || उच्छिष्टान्नप्रसादेषु त्रिषु निर्णीयते क्रमात् || ३ || शरीरादिजगद्रूपमुच्छिष्टं भ्रान्तिलक्षणं || अन्नं तदभिमानी स्याज्जीवः संसारलक्षणः || ४ || प्रसाद ईश्वरस्साक्षात्सच्चिदानन्दलक्षणः || स्वरूपमेवमुक्त्वाथ विशेषः पुनरुच्यते || ५ || स पश्यति शरीरं तच्छरीरं तन्न पश्यति || तौ पश्यति परः कश्चित्तावुभौ तन्न पश्यतः || ६ || इत्येवमधिकृत्यार्थं सबाह्याभ्यन्तरं परं || ज्ञानक्रियोभयोरैक्यं वर्तते भक्तिरैश्वरी || ७ || शिष्य उवाच || वृ || गुरुं महाकारुणिकं प्रसन्नं स्वषट्स्थलब्रह्मपदेषु संस्थं || प्रणम्य भक्त्या परयाथ शिष्यः कृतांजलिः संयतवागपृच्छत् || ८ || गुरो शिवज्ञाननिधे शिवात्मन् त्वयेरिते षट्स्थलनिर्णये ते || पृ० ३४९) कृपाबलात्सर्वमजानि [मवेदि] किंचिद्वितर्क्यते तत्र मया प्रसादः || ९ || भाण्डस्थमन्नं प्रवदन्ति यत्पुनः केचित्प्रसादं विनिवेदितं शिवे || उच्छिष्टमेवेति तदात्मसेवितं तत्किं यथार्थं कथयस्व मे प्रभो || १० || एकमेव कथं वस्तु भिद्यते तत्त्रिधा विभो || तेषु त्रिषु किमादेयं किं तत्र वद कारणं || ११ || वृ || इति परिपृष्टस्तूष्णीं निरतिशयानन्दवैभवोऽतिष्ठत् || चिरमवलोक्यात्मानं स्वयंप्रभं शिष्यमाह गुरुनाथः || १२ || पृष्टं त्वया वत्स किमेतदद्भुतं पृष्टं न केनापि पुरा परात्परं || वक्ष्ये प्रसादस्य पदार्थतां क्षणं नोच्छिष्टतामस्य समाहितः श्रुणु || १३ || प्रसाद आद्यन्तविवर्जितः स्वयं ह्यखण्डरूपः परिशेषलक्षणः || विकल्पहीनः परिशुद्धवस्त्विति प्रभाव एषोऽस्य निजस्वभावजः || १४| | शिष्य उवाच || प्रभो किमुक्तं भवता पुरा मे निरूपितं लिंगमनाद्यनन्तं || विकल्पहीनं परिशेषितं चेत्यखण्डरूपं सविशुद्धमेतत् || १५ || गुरुरुवाच || श्रुणुष्व हे वत्स कृतार्थबुद्धे विभाति साक्षेपवचस्सदर्थं || वदामि ते संग्रहणेन लिंगप्रसादयोर्नैव विभिन्नभावः || १६ || पृ० ३५०) लीयते द्रव्यमन्नादि यत्र यद्गम्यते यतः || प्रसादत्वेन तल्लिंगं प्रसादस्त्वत एव सः || १७ || अर्चनद्वारतो लिंगमर्पणद्वारतः स्वयं || प्रसाद इति भक्त्याऽयमेक एवोपचर्यते || १८ || शिष्य उवाच || वृ. || पदार्थरूपं किमितीह पृष्टे त्वया किमेतत्कथितं प्रभो मे || प्रसाद एव क्रियते पदार्थमिति प्रसादस्य विपत्तिरुक्ता || १९ || गुरुरुवाच || श्रूयतां सुमते वत्स परमार्थं ब्रवीमि ते || अविपत्तिं प्रसादस्य विपत्तिं कल्पितस्य च || २० || वृ. || यथा सुवर्णं रुचकाय कल्पितं विलुप्यते नैव सुवर्णभावतः || तथा पदार्थाय हि कल्पितोऽप्यसौ प्रसाद इत्यात्मधियावधारय || २१ || रोचते रुचकत्वेन रुचये रुक्मरूपकं || यथा तथा प्रसादोऽयं पदार्थत्वेन रूपितः || २२ || प्रसादसत्ताप्रतिबोधनार्थं क्रियाकलापैर्विविधोपचारैः || समर्पको भाव इति प्रसादं पदार्थमप्यातनुते सलीलं || २३ || शिष्य उवाच || वृ. || ज्ञातं पदार्थस्य च कल्पितत्वं विपत्तिरस्यापि च कल्पितत्वात् || पृ० ३५१) को भाव उक्तो विनियोग एष क इत्यतो मे कृपया वदस्व || २४ || गुरुरुवाच || भावो भक्तिरिति प्रोक्तः शिवैकविषयः स्वयं || विनियोगः क्रियारूपः शिवपूजादिलक्षणः || २५ || शिष्य उवाच || इदं किमाचार्यवर त्वयोक्तं स्वभावमेतद्विनियोगमत्र || अपृच्छमेवाहमिमां च भक्तिं क्रियां भवानात्थ निरूप्यतां मे || २६ || गुरुरुवाच || वरं महाभाग्यवतो विवेकस्तवोत्तरार्थस्य च सूचको हि || क्रियात्मिका भक्तिरिहैव भावः स एव भक्तिर्विनियोगयुक्तः || २७ || शिष्य उवाच || मया क्रियात्मिका भक्तिर्विज्ञाता त्वत्प्रसादतः || क्रिया किमात्मिका स्वामिन् वद तत्वविदां वर || २८ || गुरुरुवाच || सबाह्याभ्यन्तरा या सा मनोवाक्कायजा क्रिया || आदानार्पणसंपूजा जपध्यानात्मिका मता || २९ || शिष्य उवाच || क्रिया किमात्मिकेत्यत्र मया पृष्टे गुरूत्तम || भवान् किमुक्तवानादानार्पणादि तदुच्यताम् || ३० || गुरुरुवाच || शिवप्रसादग्रहणमादानं चेति गीयते || निवेदनं पदार्थस्य शिवायैतत्समर्पणं || ३१ || पृ० ३५२) शिवार्चनं भवेत्पूजा शिवमन्त्रस्मृतिर्जपः || शिवस्वरूपचिन्तैव ध्यानमित्यभिधीयते || ३२ || शिष्य उवाच || क्रियास्वरूपं विदितं मया ते निरूपणव्याजकृपाकटाक्षात् || विभो त्वयैतत्परिभाषितं प्राग्वद स्वरूपं स्फुटमाद्यभक्तेः || ३३ || गुरुरुवाच || भक्तिः स्वतन्त्रा स्ववशीकृतेश्वरा स्वाभाविकी स्वानुभवैकवैभवा || स्वायंभुवी स्वागममार्गवर्तिनी स्वच्छन्दवृत्तिः स्वरुचिर्विराजते || ३४ || मुक्तस्यैव भवेद्भक्तिर्बद्धस्य न कदाचन || भक्तस्यैव हि मुक्तिः स्यान्नाभक्तस्य कदाचन || ३५ || प्रसादभक्तिमुक्तीनामेकदेशसमन्वयः || अपि मुक्तिर्भवेज्जन्या शेषौ द्वौ जनकौ मतौ || ३६ || प्रसादो जनकः प्रोक्तो जननी भक्तिरीरिता || अनयोरैक्यभावेन जनिता मुक्तिकन्यका || ३७ || प्रकारोऽयं प्रसादः स्यात्साकारो भक्तिरुच्यते || प्रसादपूर्विका भक्तिर्मुक्तिदेति दकारतः || ३८ || प्रसादः शिव एव स्याद्भक्तिः शक्तिर्न संशयः || एतत्साधर्म्यमेतेषां वैधर्म्यं नास्ति किंचन || ३९ || पृ० ३५३) अधिष्ठाने प्रसादेस्मिन्नधिष्ठात्री स्वलीलया || चरत्यनर्गला भक्तिर्यथेष्टं स्वयमीश्वरी || ४० || शिष्य उवाच || वृ || उक्तं भवता भक्तिस्वरूपमतिशोभनं महास्वामिन् || पदार्थकरणं यत्तत्समर्पणं ग्रहणमत्र कथयस्व || ४१ || गुरुरुवाच || अन्नं पदार्थरूपं तत्करणं कल्पना समाख्याता || अर्पणमन्नविलोपो ह्यादानं ग्रहणमित्यतो विद्धि || ४२ || कारणं भक्तिरेवात्र पदार्थकरणे सदा || भाण्डेषु बहुधा नामगुणरूपादिभेदतः || ४३ || प्रसाददायिनी या सा प्रसादकरणक्षमा || समर्पणकलादक्षा भक्तिरव्यभिचारिणी || ४४ || वृ || भाण्डं पदार्थकरणाय समर्पणाय यद्भाजनं वितनुते बहुधा विभिन्नं || लीला परा परमकारणरूपिणी या भक्तिः किमत्र कथयामि महत्वमस्याः || ४५ || शिष्य उवाच || पदार्थस्य पदार्थत्वं प्रसादस्य प्रसादता || उभयोरुभयोर्भावः स्वभावो न विपर्ययः || ४६ || पदार्थस्य प्रसादत्वं नास्ति केनापि कर्मणा || प्रसादस्य पदार्थत्वं दोषाय भवति ध्रुवं || ४७ || पृ० ३५४) गुरुरुवाच || वृ || पदार्थ इत्यत्र न कश्चिदस्ति द्विधा कृतश्चेति न संमतोऽत्र || समर्पिका भक्तिरथोपचारप्रियः सदा शंभुरिति प्रतेने || ४८ || भक्तिर्भजते भागं विभागमपि विभजते विभक्ततया || एकं विषयं द्रव्यं प्रसादरूपेण दान आदाने || ४९ || अन्नादि यत्कल्पितवस्तु तस्य नास्ति प्रसादत्वमितीह सिद्धं || भक्त्या प्रसादस्य पदार्थभावो दोषाय नायं न गुणाय नैजं || ५० || शिष्य उवाच || ज्ञातं पदार्थकरणं गुरुनाथ युष्मत्कारुण्यतो वद समर्पणमत्र सत्यं || गुरुः|| वक्ष्यामि ते श्रुणु समर्पणमत्यपूर्वं सूक्ष्मं परं सुलभमद्वयभक्तिभाजां || ५१ || यद्भाजनस्थं विनिवेद्यमानमन्नादिकं भाण्डगतं तदंशं || लिंगार्पितं भाजनसंस्थितं चेद्भाण्डस्थितं चापि समर्पितं स्यात् || ५२ || शिष्य उवाच || कथं प्रभो चित्रमिदं समर्पणं समर्पितं भाजनसंस्थितं यदि || समर्पितं भाण्डगतं तदंशकं पदार्थरूपं पृथगाहितं भवेत् || ५३ || गुरुरुवाच || पृथक्त्वमेकस्य न चास्ति वस्तुनः स्वरूपनामार्थगुणादिसाम्यतः || पृ० ३५५) विभक्तमप्येतदथोक्तलक्षणाद्विचारिते सत्यविभक्तमेव हि || ५४ || शिष्य उवाच || यद्दृश्यमानं पुरतः प्रतीतमन्नादिरूपं शिवभाजनस्थं || शिवार्पितं चेद्विपरीतमन्यत्तदंशरूपं कथमर्पितं स्यात् || ५५ || गुरुरुवाच || अदृश्यरूपं यदि भाण्डसंस्थमदृश्यमप्येव हि भाजनस्थं || तिरोहितत्वादुपरिस्थितेन पदार्थरूपेण तदन्तरस्थं || ५६ || अनर्पितं भाण्डगतांशमेव चेत्समर्पितं चापि न चार्पितं स्यात् || द्वयोरनुस्यूतनिरन्तरस्थितः प्रसादभावानुपपत्तिकारणात् || ५७ || शिवार्पिताशेषपदार्थजातौ विलक्षणं यत्तदनर्पितं स्यात् || न भाण्डसंस्थं न समागतं च न चान्यदित्याचरते हि भक्तिः || ५८ || शिष्य उवाच || गुरो शिवार्पितद्रव्यविलक्षणमितीह किं || पृ० ३५६) कृपया वद मे स्वामिन् शिवार्पणविदां वर || ५९ || गुरुरुवाच || वृ || शिवाश्रमाचारबहिष्कृतं यच्छिवार्पितद्रव्यविलक्षणं तत् || तदन्तरेणार्पितमेव सर्वं शिवस्य भक्तेः परमप्रभावात् || ६० || शिष्य उवाच || पुरा प्रसादात्मतया स्थितस्य पदार्थरूपस्य समर्पणेन || अनेन का सिद्धिरथोपरिष्टाद्वद प्रभो लिंगमुखे यथार्थं || ६१ || गुरुरुवाच || घृतात्मकं यन्नवनीतमाद्यं प्रतापितं वह्निमुखे निजं स्यात् || यथा तथा लिंगमुखार्पितं यद्भवेत्प्रसादात्मकमन्नमाद्यं || ६२ || रौप्ये यथाऽलोकय शुक्तिकायां लुप्ते स्वयं शिष्यत एव या सा || तद्वत्प्रसादस्य पदार्थभावे लुप्ते स्वयं शिष्यत एव वस्तु || ६३ || पदार्थस्य प्रसादत्वं भाव्यपि प्रागभावतः || न सिध्यति हि यत्प्राच्यं तदेवोपरि सिध्यति || ६४ || प्रसादभावानुपपत्तिदृष्टमनर्पितं द्रव्यमितीह सिद्धं || समर्पितं द्रव्यविलोपशिष्टं प्रसादरूपं भज एतदेव || ६५ || शिष्य उवाच || शिवार्पणं चात्र पदार्थभावविलोप एवेति निरूपितं मे || अजानवान् व्यक्तमहं महात्मन् वद प्रसादग्रहणं यदेतत् || ६६ || पृ० ३५७) गुरुरुवाच || वक्ष्ये प्रसादग्रहणं सुदुर्लभं भक्त्या श्रुणुष्वैतदतीवशोभनं || उच्छिष्टभावानुपपत्तिरेव या तद्धि प्रसादग्रहणं निरन्तरं || ६७ || शिष्य उवाच || उच्छिष्टशब्देन किमुच्यतेऽत्र सत्यार्थमेतस्य वद प्रभो मे || गुरुरुवाच || भुक्त्वावशिष्टं श्रुणु यन्निषिद्धमुच्छिष्टमित्येष हि लोकवादः || ६८ || शिष्यः || तर्हि त्वयाऽस्यानुपपत्तिरुक्ता निषिद्धभूतस्य विभो किमेतत् || आदानमित्येव शिवोपभुक्तप्रसादरूपस्य वदस्व सत्यं || ६९ || गुरुरुवाच || नोच्छिष्टभावो न निषिद्धभावः साक्षात्प्रसादे परमे पवित्रे || भोगे प्रसादस्य ऋतं श्रुणु त्वं भुक्ते च तस्मिन्न हि संभवोऽस्ति || ७० || प्रसाद उच्छिष्टनिषिद्धभावो घटेत चेन्नैव भवेत्प्रसादः | अभावतश्चास्य न चास्ति लिंगं गुरुर्न चास्ति क्रमतो निपातः || ७१ || शिष्य उवाच || मैवं निरूपय विभो न निषिद्धमाहुर्भुक्तं शिवेन यमिमं परमं प्रसादं || नोच्छिष्टमप्यथ निषिद्धधियात्मभुक्तं यद्यस्ति तस्य कतिचिद्घटयन्ति दोषं || ७२ || पृ० ३५८) गुरुरुवाच || प्रागात्मदोषमपनीय शिवप्रसादं पश्चान्न भोक्तुमयमर्हति चेति वेदः || रोगी स्वरोगमपनीय पुरा न पश्चाद्भैषज्यमत्तुमयमर्हति चेति तद्वत् || ७३ || रोगार्थमौषधं सेव्यं दोषार्थं चात्मनस्तथा || सेव्यः शिवप्रसादोऽयमिति शैवी परा स्थितिः || ७४ || वृ || आत्मोपभोगात्प्रथमं प्रसादरूपं यदि स्वात्तमपि प्रशस्तम् || लिंगार्पितं प्राथमिकं स्वभोगान्नो चेत्स्वभुक्तं विनिषिद्धमेव || ७५ || शिष्यः- नेत्थं प्रभो केचन लिंगभुक्तमप्यात्मजिह्वेंद्रियदूषितं चेत् || उच्छिष्टभावं व्रजतीति लोके तस्य प्रसादस्य निषेधमाहुः || ७६ || गुरुरुवाच- पंचभिरिन्द्रियकरणैर्भुक्तानां स्वात्मभोगविषयाणाम् || एकं तत्रोच्छिष्टं शेषं नोच्छिष्टमित्यसद्वादः || ७७ || उच्छिष्टं चेत्सर्वं चोच्छिष्टं भुक्तमिन्द्रियैस्सकलैः || नोच्छिष्टं चेत्सर्वं नोच्छिष्टं भुक्तमिन्द्रियैस्सकलैः || ७८ || असंस्कृतात्मेंद्रियभूतकायैरलिंगिभिः स्वार्थपरैस्सकामैः || दृष्टं श्रुतं स्पृष्टमथोपभुक्तं घ्राताद्यमुच्छिष्टमिति प्रसिद्धम् || ७९ || पृ० ३५९) अतींद्रियैरविषयैरकामैः षट्स्थलात्मभिः || यद्भुक्तं तद्धि नोच्छिष्टं न निषिद्धं न दूषितम् || ८० || शिष्यः || अतींद्रियत्वादिगुणैरुपेतास्ते के मम ब्रूहि दयापयोधे || गुरुरुवाच || कृतार्थ वक्ष्ये परमं रहस्यं कस्याप्यनुक्तं तव भक्तिभाजः || ८१ || अतींद्रियत्वादिगुणोपपन्ना भक्तादयः षट्स्थलवर्तिनः स्युः || समर्पितात्मेंद्रियगोचरत्वादाचारलिंगादिषु कामवर्जाः || ८२ || शिष्यः | नमः शिवाय सोमाय षट्स्थलब्रह्ममूर्तये || सच्चिदानन्दरूपाय स्वानुभूतिकलात्मने [परात्मने]|| ८३ || नमः शिवाय लिंगाय लिंगांगपदरूपिणे || ज्योतिःकर्पूरसंयोगपरनिर्वाणहेतवे || ८४ || गुरुरुवाच- वृ || आचारलिंगादिभिरेव षड्भिः षडंगयुक्तैर्विगतांगसंगैः || तैर्भुक्तमन्नादिसमस्तवस्तु प्रसादरूपं स्वत एव सिद्धम् || ८५ || अथ प्रसाद उच्छिष्टमिति भ्रांतिमती मतिः || लौकिकानामभक्तानां जायते सुदृढा भुवि || ८६ || प्रसादभोगसंप्राप्तावन्तरायो महानयम् || पृ० ३६०) भवेत्प्रसादभोक्तृर्णां सूतकद्वयसंगमः || ८७ || वृ० || ओदनसूतकमादावन्ते चोच्छिष्टसूतकं द्वितयम् || हित्वा शिवप्रसादं भुंक्ते यः सः प्रसादवान् भवति || ८८ || सूतक्तं पातकं प्रोक्तं पातक्तं किल्बिषं (भवेत्) महत् || तस्मात्सूतकमाद्यन्तं हित्वा भोगं समाचरेत् || ८९ || उच्छिष्टं चेत्प्रसादो न प्रसादश्चेद्विचारतः || न चान्यं भवतीत्येवं ज्ञात्वा भोगं समाचरेत् || ९० || अन्नमेव प्रसादः स्यात्प्रसादः स्वोपभोगतः || उच्छिष्टं भवतीत्येतन्न श्रोतव्यमसद्वचः || ९१ || शिष्यः- प्रसादभोगो विदितो मया ते प्रसादतः श्रीगुरुलिंगमूर्ते || प्रसादरूपोपगमाय भूयः प्रसादमाहात्म्यमुदीरयस्व || ९२ || गुरुः- प्रसादोऽयमनाद्यन्तो विकल्पोऽखंडसं(ज्ञकः) स्थितः || विशुद्धः शेष इत्येषा प्रसादस्य महात्मता || ९३ || आद्यन्नमन्तमुच्छिष्टमेताभ्यां रहितत्वतः || प्रसादोऽयमनाद्यन्त इत्यस्य महिमा खलु || ९४ || विकल्परूपमन्नादिकल्पितं तदभावतः || अविकल्पप्रसादोऽयमित्यस्य महिमा खलु || ९५ || खण्डस्सूतकभावो यस्तस्यै वानुपपत्तितः || पृ० ३६१) अखंडः स्यात्प्रसादोऽयमित्यस्य महिमा खलु || ९६ || उच्छिष्टत्वमशुद्धिर्या तया विरहितत्वतः || विशुद्धः स्वत एवायमित्यस्य महिमा खलु || ९७ || ओदनोच्छिष्टयोर्नाशे शेषितत्वात्स्वभावतः || प्रसादशेष एव स्यादित्यस्य महिमा खलु || ९८ || आत्मभुक्तं न चोच्छिष्टं भाजनस्थं न चार्पितम् || न भाण्डसंस्थितं चान्नमित्यस्य महिमा खलु || ९९ || भांडे च भाजने चैव भोजने च निरंतरम् || प्रसादोऽयमनुस्यूत इत्यस्य महिमा खलु || १०० || भक्त्या परमया स्वेच्छाक्रियया सोपचारया || पदार्थभाव इत्येष इत्यस्य महिमा खलु || १०१ || प्रसादाष्टकमेतद्यः प्रसादपरया धिया || पठत्यनुदिनं स स्यात्प्रसादज्ञानवान् पुमान् || १०२ || इति प्रसादमाहात्म्यं कथितं ते मयाऽनघ || षट्स्थलात्मकरूपेण प्रसादं तं सदा भज || १०३ || वृ० || भोक्तरि भोगे च तथा भोजयितरि भोगसाधके करणे || एतस्मिन्नपि सकले भज प्रसादं सदात्मरूपेण || १०४ || भांडे च बहुधा भिन्ने भाजनेऽपि तथैव च || अभेदप्रतिपत्त्यैव प्रसादं भज सर्वदा || १०५ || एक एव भवेच्छेषो भाण्डभाजनयोरपि || पृ० ३६२) इति शेषप्रसादत्वं भज भावपुरस्सरम् || १०६ || वृ० || भांडो देहो भाजनं चेन्द्रियाणि जीवात्मायं द्रव्यरूपं यदन्नम् || भक्त्या लिंगायार्पयित्वा परस्मै शेषीभूतं तं प्रसादं भजस्व || १०७ || शरीरादिपदार्थांश्च दत्वा दानं समर्पणम् || समर्प्य सोऽहमस्मीति दासोऽहंभाव उच्यते || १०८ || वृ. | नाहमनात्मा पश्चात्कोऽहं सोऽहंपदस्थ आत्मा साक्षी || सोऽहं तत्परशिवदासोऽहं दासोऽहमिति चरेदुपरिपदे || १०९ || शब्दब्रह्मज्ञानं निश्शब्दब्रह्मसत्क्रियानिष्ठा || शब्दब्रह्म यदुक्तं निश्शब्दब्रह्म तच्चरति तूष्णीम् || ११० || भक्तिर्भूतित्रिपुण्डांकरुद्राक्षाणां (तु धारणं) निषेवणम् || ज्ञानं षडक्षरो मन्त्रो योगो लिंगांगसंगमः || १११ || यो भक्तिज्ञानयोगार्थः स तत्त्वमसिनिर्णयः || यो निर्णयस्स लिंगांगसंबंधार्थो न संशयः || ११२ || मार्गो दर्शयिता द्रष्टा दृक्च दर्शनमप्यतः || द्रष्टव्यो गतिरित्येभिराचारादुपदिश्यते || ११३ || मार्ग एव सदाचारो गुरुर्दर्शयिता यतः || द्रष्टात्मा दृग्भवेल्लिंगं दर्शनं तु चरं स्मृतम् || ११४ || द्रष्टव्योऽयं प्रसादः स्यात्प्राप्तिर्महदिहोच्यते || एवं षडंगलिंगैक्यस्थलमद्वैतमुत्तमम् || ११५ || पृ० ३६३) आश्रित्य षट्स्थलब्रह्मपदे नित्यसुखी भवेत् || नेति नेतीति नेतीति शेषितं यत्परं पदम् || निराकर्तुमशक्यत्वात्तदस्मीति सुखी भव || ११६ || वृ० | एवं महाकारुणिकः प्रसन्नो गुरुः प्रसादस्य महत्वमुक्त्वा || नातःपरं चेति बभूव तूष्णीं परानुभूत्यैकसुखस्वरूपः || ११७ || ब्रह्माण्डपुराणे शैवसंहितायां-व्यासजैमिनिसंवादे व्यासः || महता लिंगरूपेण महता जंगमेन च || द्विविधेन समुद्भूतप्रसादाय नमो नमः || ११८ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे प्रसादसद्भावन्नाम सप्तदशप्रकरणं संपूर्णम् || पृ० ३६४)|| श्रीशिवाय नमः || वीरशैवमाहात्म्यं वक्ष्यामः जाबालशाखायाम्-रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति यस्माद्ब्राह्मणाः प्रशान्तमनसो विद्वांसो निर्माल्यमेव भक्षयन्ति निर्माल्यमेव निषेवेतेति || १ || अस्यार्थः प्रागेवोक्तः एवं श्रुतिवचनादेव शिवनिर्माल्यमेव भक्षयन्ति ते ब्राह्मणाः प्रशान्तमनसो विद्वांसो विशिष्टा इति निश्चीयन्ते ये पुनः शिवनिर्माल्यमेव न भक्षयन्ति ते अब्राह्मणा अप्रशान्तमनसोऽविद्वांसोऽशिष्टा इत्यर्थः || २ || प्रदेशान्तरे | निर्माल्यमेव भक्षयन्ति चंडालो नैव चंडालः पुल्कसो नैव पुल्कस इति || अस्याभिप्रायः स्वेष्टलिंगप्रसादमेव चण्डालोऽपि सदैवोपभुक्तवान् स्यात् स चण्डालो न भवति स पुल्कसो न भवति किन्तु स एव कुलजः स एव वरः स एव धन्यः स एव ब्राह्मण इत्यर्थः || ३ || सामवेदोपनिषदि- अपि वा यश्चण्डालः शिवेति वाचं वदेत्तेन सह संवदेत्तेन सह संवसेत्तेन सह संविशेत्तेन सह भुंजीत तेन सह भुंजीत तेन पृ० ३६५) सह भुंजीतेति || ४ || अस्मिन्नर्थे पद्मपुराणे शिवराघवसंवादे- शिवेति मंगलन्नाम यस्य वाचि प्रवर्तते || सप्तजन्मकृतं पापं भस्मीभवति तस्य वै || ५ || वदेत्तेन वसेत्तेन विशेत्तेन पुनः पुनः || भुंजीत सह भुंजीतेत्याह सामश्रुतिः खल्विति || ६ || शिवरहस्ये- श्वपचोऽपि मुनिश्रेष्ठः शिवभक्त्या द्विजाधिकः || शिवभक्तिविहीनस्तु द्विजोऽपि श्वपचाधमः || ७ || शिवेति वाचं यो नित्यं चंडालोऽपि वदेन्मुदा || सह तेन वदेद्वाचं सह तेन वसेत्सदेति || ८ || आदित्यपुराणे मानवीयसंहितायाम्- त्रिषष्ठितमाध्याये नारदं प्रति ब्रह्मवाक्यं || ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजातिजः || शिवभक्तः सदा पूज्यः स सर्वब्राह्मणोत्तमः || ९ || म्लेच्छोऽपि वा यदि भवेद्भवभक्तिसमन्वितः || न तत्समश्चतुर्वेदी नाग्निष्ठोमादियज्ञकृत् || १० || शैवे वायवीयसंहितायां उपरिभागे-कृष्णोपमन्युसंवादे भक्त्याचारनिरूपणे देवीं प्रति शिववचनम् || तथैव शिवधर्मोत्तरे च प्रथमाध्याये || मद्भक्तजनवात्सल्यं पूजायाश्चानुमोदनम् || पृ० ३६६) स्वयमभ्यर्चनं भक्त्या ममार्थे चांगचेष्टनम् || ११ || मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रिया || ममानुशरणं नित्यं मयि कैतववर्जितम् || १२ || एतदष्टविधं चिह्नं यस्मिन्म्लेच्छेऽपि वर्तते || स विप्रेन्द्रो मुनिः श्रीमान् स यतिस्स च पंडित इति || १३ || सिद्धांतशिखामणौ भक्तस्थले अन्यत्र पुराणे च- श्रवणं कीर्तनं शंभोः स्मरणं पादसेवनम् || अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् || ४१ || एवं नवविधा भक्तिः प्रोक्ता देवेन शंभुना || दुर्लभा पापिनां लोके सुलभा पुण्यकर्मिणाम् || १५ || अधमे चोत्तमे वापि यत्र कुत्रचिदूर्जिता || वर्तते शांभवी भक्तिः स भक्त इति गीयते || १६ || भक्तिः स्थिरीकृता यस्मिन्म्लेच्छेऽपि द्विजसत्तमे || स मे प्रियश्चतुर्वेदी न प्रियो भक्तिवर्जितः || १७ || शिवरहस्ये- कांस्यं च रजतं ताम्रं लोहं चेति चतुष्टयम् || यद्वदेति सुवर्णत्वं रसभेदप्रभावतः || १८ || तद्वच्छूद्रादिपात्रं हि शिवमन्त्रात्मकेन तु || विद्वद्रसेन महता परब्रह्मत्वमेत्यलम् || १९ || शिवसंस्कारसंपन्नो ह्ययं शूद्रो ह्ययं द्विजः || पृ० ३६७) लिंगभेदः कृतो येन रौरवं नरकं व्रजेदिति || २० || लिंगसारे शिवरहस्ये च- नगरीनिर्झराद्यंबु गंगां प्राप्यैकतां यथा || दीक्षायोगप्रभावेन शूद्रादिः शिवतां व्रजेदिति || २२ || भृगुसंहितायाम्- सदा सन्निहितश्चैव चण्डालो नैव सर्वथा || गतं शूद्रस्य शूद्रत्वं ह्यन्यथा ब्राह्मणस्य तु || २२ || गारुडपुराणे उपरिभागे- वंशावलिप्रयातानां लिंगधारणशालिनाम् || ज्ञानिनां शिवभक्तानां शूद्रत्वं नैव विद्यते || २३ || नमके चमके पंचब्रह्ममन्त्रादिवैदिके || तेषामेवाधिकारोऽस्ति शिवदीक्षाप्रभावतः || २४ || लिंगसारे- स्त्री वाथ पुरुषः षण्डश्चण्डालो द्विजवंशजः || न जातिभेदो लिंगार्चे सर्वे रुद्रगणाः स्मृताः || २५ || शिवदीक्षाभिजातस्य पूर्वजातिं न चिन्तयेत् || सुप्रतिष्ठितलिंगे तु न यथा पूर्वभावना || २६ || शैवपुराणे- यथा पंके सरोजं स्याद्यथा काष्ठे हुताशनः || यथा सुवर्णः पाषाणे भक्तश्चण्डालवंशज इति || २७ || लिंगपुराणे उपरिभागे- दार्वश्मलोहमृद्रत्नजातलिंगं प्रतिष्ठितम् || यथा पूज्यं तथैव स्याद्भक्तश्चण्डालवंशज इति || २८ || पृ० ३६८) शिवरहस्ये- सर्ववेदेषु सर्वज्ञः सर्वयज्ञेषु दीक्षितः || महापातककोटिघ्नः श्वपचो लिंगपूजकः || तत्संभाषणतो मुक्तिर्गणमुख्यसुखं भवेदिति || २९ || शिवरहस्ये तथैव लिंगसारे च- न लिंगी सर्वदैवज्ञो यस्तु चण्डालवद्भवेत् || लिंगार्चकस्तु श्वपचो द्विजकोट्याद्विशिष्यते || ३० || आदित्यपुराणे- ईश्वर उवाच || मार्गस्थो वाप्यमार्गस्थो मूर्खो वा पण्डितोऽपि वा || मम भक्तो यदि भवेत्सर्वस्मादधिको हि स इति || ३१ || रहस्ये देवीं प्रतीश्वरवाक्यम्- नाहं वसामि कैलासे न मेरौ न च मन्दरे || मद्भक्ता यत्र तिष्ठन्ति तत्र तिष्ठामि पार्वति || ३२ || चण्डालवाटिकायां वा शिवभक्तः स्थितो यदि || तच्छ्रेणिः शिवलोकः स्यात्तद्गृहं शिवमन्दिरम् || ३३ || कीकटेष्वपि देशेषु यत्र माहेश्वरो जनः || मनाक्प्रसन्नोऽपि वसेत् काशीक्षेत्रसमं भवेदिति || ३४ || आदित्यपुराणे- दर्शनाच्छिवभक्तस्य सकृत्संभाषणादपि || अतिरात्रस्य यज्ञस्य फलं भवति नारद || ३५ || इति लेंग्यै उपपातककोटिं च ब्रह्महत्यायुतानि च || पृ० ३६९) दहत्यशेषपापानि शिवभक्तस्य दर्शनम् || ३६ || ग्रन्थान्तरे- महापातकशुद्ध्यर्थं शिवभक्तगृहं व्रजेत् || याचयेदन्नममृतं तदलाभे जलं पिबेत् || ३७ || इत्यादिश्रुत्यागमपुराणवचनप्रमाणात् सर्वेषां वीरशैवानां भक्तानां शिवदीक्षाभिजातत्वेन द्विजत्वं प्रसिद्धं भवति || ३८ || अत एवोक्तं शांकरसंहितायाम्- लिंगांगसंगं कुर्वन्तं दृष्ट्वा द्विजवरं रविः || स्थानाच्चलत्ययं भित्वा मण्डलं मे व्रजेच्छिवमिति || ३९ || एवं पुराणवाक्यानि प्रसिद्धानि || महाभारते चान्यत्र च- जन्मना जायते शूद्रः कर्मणा द्विज उच्यते || वेदशास्त्रार्थविद्विप्रो ब्रह्मविद्ब्राह्मणो भवेदिति [ब्रह्माचरति ब्राह्मण इति] || ४० || ग्रन्थान्तरे- ये रुद्रपिंडसंजाता ये वेदक्रमपाठकाः || ये विदुर्ब्रह्मवाच्यं श्रीरुद्रं ते ब्राह्मणाः स्मृता इति || ४१ || रुद्रपिंडोद्भवं सर्वं जगदेतच्चराचरम् || मोहेनैव न जानाति तातं वेश्यासुतो यथेति || ४२ || कौर्मे ईश्वरगीतायां लैंग्ये- वसुरुद्रार्कमध्ये तु मध्यपिण्डस्तु पुत्रदः || पृ० ३७०) वेदोक्तं शिवनिर्माल्यं किं पुनर्बहुभाषणैरिति || ४३ || एवं रुद्रपिण्ड इति शिवप्रसाद इत्यर्थः इत्यादिवचनप्रमाणाच्छिवप्रसादपिण्डसंजाताः शिवभक्ता एव ब्राह्मणा इति निश्चीयन्ते || अत एव रुद्रांशभूतस्य विश्वामित्रस्य क्षत्रियोत्पन्नस्यापि तपसा ब्राह्मणत्वं विष्ण्वंशभूतस्य परशुरामस्य ब्राह्मणोत्पन्नस्यापि व्यापारेण क्षत्रियकार्यकरणत्वं भृगुमुनिकृतशैववैष्णवचरुव्यत्यासहेतुकमिति हरिवंशे श्रूयते तत्प्रागेवोक्तम् || इत्येतद्वृत्तान्तं ब्राह्मणक्षत्रियचरुपिण्डव्यत्यासहेतुकमिति भागवते वैष्णवपुराणत्वात् किंचिन्निगूढमुक्तं एवं ब्राह्मणानां उत्पत्तिर्ब्राह्मणादेव प्रतिपादिता भवति अन्यस्माद्ब्राह्मणोत्पत्तेरयोगात् || ४४ || किंच ब्राह्मणत्वं रुद्रस्य सामवेदे प्रपदब्राह्मणे श्रूयते || त्वं देवेषु ब्राह्मणोऽसि अहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावामीति || ४५ || अस्मिन्नर्थे पराशरपुराणे- संकरास्सर्वदेवाश्च वृषलस्तु पुरन्दरः || पितामहश्च वैश्यः स्यात्क्षत्रियः परमो हरिः || ४६ || पृ० ३७१) ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः || ब्रह्मभावो हि रुद्रस्य ब्राह्मण्यं नैव हेतुजम् || ४७ || ब्राह्मणो वै सदा लोके ब्राह्मणं चोपधावति || महाब्राह्मणमीशानमुपधावेन्न चेतरमिति || ४८ || वज्रसूच्युपनिषदि- देहे ब्राह्मण्यशंका चेदित्याद्यष्टविकल्पेषु ब्राह्मणत्वाभावं प्रतिपाद्य आत्मस्वरूपज्ञानवानेव ब्राह्मण इति प्रतिपादितं भवति || एतत्सर्वं मनसि निधाय वज्रसूचिपरमहंसाचार्यैर्देहे ब्राह्मण्यशंका चेदित्याद्यष्टविकल्पेषु ब्राह्मणत्वाभावमुक्त्वा त्वं देवेषु ब्राह्मणोऽसीत्यादिसामश्रुतेः शिवः देवेष्वेको ब्राह्मणः स्यात् तद्भक्तो नृषु ब्राह्मण इत्युक्तं भवति || इत्यादीनि विस्तरतः प्रागेवोक्तानि भवन्ति || ४९ || यजुर्वेदे- यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति अस्यार्थः कथ्यते | विप्रो यस्तु स्वां देवतां शिवं अतीत्य अतिक्रम्य यजते पूजयत्यन्यदेवतां स हि प्रच्यवते स्वीयदेवतायै नराधमो भूत्वा अपराधी न परां प्राप्नोति गतिमुत्तमां न गच्छत्यथ पापीयान् अतिपापी भवेत् ध्रुवम् || ५० || आदित्यपुराणे- ईश्वर उवाच | निकृष्टाचारजन्मानो विरुद्धालोकवृत्तिषु || पृ० ३७२) कोटिभ्यो वेदविदुषां श्रेष्ठा मद्भावभाविता इति || ५१ || स्कन्दपुराणे अन्यत्र च- चतुर्वेदधरो विप्रः शिवभक्तिविवर्जितः || वेदभारभराक्रान्तः स वै ब्राह्मणगार्दभः || ५२ || चतुर्वेदधरो विप्रः शिवभक्तिविवर्जितः || तस्य भोजनदानेन दाता च नरकं व्रजेत् || ५३ || इत्यादिवचनप्रमाणात् शिवदीक्षाभिजातः शिवभक्त एव ब्राह्मण इति विज्ञातव्यं अत एव भागवतादिवैष्णवपुराणेषु नारायणेन ब्राह्मणो मम देवतेत्युक्तं भवति ब्राह्मणो भगवान् रुद्र इत्यर्थः तद्भक्ता एव ब्राह्मणा भवन्ति || ५४ || अत एवोक्तं नारायणेन कालिकाखण्डे भृगुशापविमोचनाध्याये वैकुण्ठवासिनः प्रति विष्णुवाक्यम् || वैकुण्ठवासिनस्सर्वे श्रुण्वन्तु मम घोषणम् || सुवृत्तो दुर्विनीतो वा शिवभक्तः प्रभुर्ममेति || ५५ || इत्यादिवचनप्रमाणाद्रुद्रस्य ब्राह्मणत्वाद्ब्राह्मणोत्पत्तिहेतुत्वात् ब्राह्मणोपास्यत्वाच्च रुद्रभक्तविद्वेषिणां बहिर्भाव एव युक्तः || ५६ || तदुक्तम्- यः पुत्रः पितरं द्वेष्टि तं विंद्यादन्यरेतसम् || पृ० ३७३) यो विप्रान् सततं द्वेष्टि तं विंद्यादन्यरेतसमिति || ५७ || आदित्यपुराणे मानवीयसंहितायां- ब्रह्मोवाच || शिवभक्तः सदा पूज्यः सर्वावस्थां गतोऽपि वा || नास्याचारं परीक्षेत न कुलं न व्रतं तथा || ५८ || त्रिपुण्ड्रांकितभावेन पूज्य एव हि नारद || कर्मणा मनसा वाचा यस्तु भक्तान् विनिन्दति || निरयान्निष्कृतिर्नास्ति तस्य मूढात्मनो मुने || ५९ || कालिकाखण्डे-वैष्णवान् प्रति विष्णुवाक्यम् | ये द्विषन्ति शिवे भक्तान् ब्रह्मचारिगृहाश्रमान् || वानप्रस्थान्यतीन्मूढाः पाषंडास्ते न चापरे इति || ६० || आदित्यपुराणे- कलियुगवर्तननिरूपणे व्यासं प्रति सनत्कुमारवाक्यम् || विनिन्दन्ति महादेवं संसारान्मोचकं परम् || तद्भक्तांश्च विशेषेण ब्राह्मणा हि कलौ युगे || ६१ || शिवरहस्ये- शिवभक्तान् सकृन्निन्द्यन्यो जनः पापकर्मकृत् || युगकोटौ कृमिर्भूत्वा विष्ठायां जायते पुनः || ६२ || सूकरः कोटिजन्मादि जायते शतकोटिषु || मृगश्च कोटिजन्मानि शृगालः कोटिजन्म सः|| ६३ || अन्धः स्यात्कोटिजन्मानि कुष्ठः स्यात्सप्तजन्मसु || पृ० ३७४) पंगुश्च शतजन्मानि पाषंडी जायते शतम् || ६४ || उलूकवायसो गृध्रः सर्पसूकरगर्दभाः || जायते म्रियते चैव निष्कृतिर्नैव विद्यत इति || ६५ || आदित्यपुराणे- आरोपयन्ति ये कर्म शिवाश्रमिगमानुषान् || कुंभीपाकाग्निना दग्धा जायंते नीचयोनिषु || ६६ || शांकरसंहितायाम्- अधमाधमयुक्तानां पापिनां चाभिचारिणाम् || यमलोको न विद्येत सदा वै लिंगधारिणाम् || ६७ || तत्र प्रदेशांतरे- स्वप्नकाले कृतं पापं ब्रह्महत्यादिकं च यत् || यथा प्रबोधसमये तन्मिथ्या भवति स्वयम् || ६८ || तथा कृतं महापापं लिंगधारणतः पुरा || यदस्ति तल्लयं याति लिंगधारणतः परम् || ६९ || अनेन सदृशं धर्मं न पश्यामि षडानन || वेदतन्त्रपुराणेषु सत्यं सत्यं मयोदितम् || ७० || तत्रैव || ब्रह्महत्यासहस्राणि भ्रूणहत्यायुतानि च || कुर्वन्नपि न लिप्यन्ते प्राणलिंगार्चनापरा इति || ७१ || आदित्यपुराणे नारदं प्रति ब्रह्मवाक्यम्- शिवभक्तान्वर्जयित्वा सर्वेषां शासको नृपः || यः पुनः शिवभक्तानां शिव एव न चापरः || पृ० ३७५) न मृत्युर्न च धाता वा न यमो यमदूतकाः || ७२ || बृहज्जाबालोपनिषदि- ये भस्मधारिणं दृष्ट्वा वाचा निन्दन्ति मानवाः || तेषां शूद्रेण संभूतिरनुमेया विपश्चिता || ७३ || ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् || तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चितेति || ७४ || शांकरसंहितायाम्- तस्मात् सर्वं परित्यज्य सर्वभावेन सर्वदा || पूजयेदादरेणैव द्विजं लिंगांगसंगिनम् || ७५ || दुर्लभं त्रिषु लोकेषु प्राणलिंगांगसंगिनः || पूर्वजन्मकृतात्पुण्यात् केषां चित्सुलभायते || ७६ || यैः पुराराधितः शंभुर्भक्तिप्रणतमानसैः || तैरेव लभ्यः पुण्यात्मा शिवलिंगांगसंगभाक् || ७७ || यः पूजयति लिंगांगध्यानासक्तधियं द्विजम् || पुनर्भवो न तस्यास्ति सत्यं सत्यं मयोदितम् || एतस्मादपरो धर्मः सोऽधर्म इति मे मतिः || ७८ || स्कान्दे- भूसुरो ब्राह्मणश्चैव भूरुद्रो जंगमस्तथा || सुररुद्रद्वयोर्मध्ये रुद्र एव विशिष्यते || ७९ || शिवधर्मोत्तरे- उपवीतिसहस्रेभ्यो ब्रह्मचारी विशिष्यते || ब्रह्मचारिसहस्रेभ्यो वेदाध्यायी विशिष्यते || ८० || वेदाध्यायिसहस्रेभ्यश्चाग्निहोत्री विशिष्यते || अग्निहोत्रिसहस्रेभ्यः शिवभक्तो विशिष्यते || ८१ || पृ० ३७६) क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाधिकाः || पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || ८२ || द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः || क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः || ८३ || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः || तेषु श्रेष्ठा महाभाग मम लिंगांगसंगिनः || ८४ || लिंगांगसंगिष्वधिकः षट्स्थलज्ञानवान् पुमान् || तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वथा || बहुनोक्तेन किं वत्स स एवाहं न संशय इति || ८५ || ग्रन्थान्तरे- देवीं प्रतीश्वरवाक्यम्- मद्भक्तानां च माहात्म्यं को वा जानाति तत्वतः || जानेऽहं त्वं च जानासि नन्दी जानाति वा गुह इति || ८६ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदान्तसारवीरशैवचिन्तामणौ उत्तरखण्डे वीरशैवमाहात्म्यन्नामाष्टादशप्रकरणं संपूर्णम् || पृ० ३७७) || श्रीशिवाय नमः || सत्पात्रदानं वक्ष्यामः कूर्मपुराणे उपरिभागे पंचविंशाध्याये- नित्यं नैमित्तिकं काम्यं दानं त्रिविधमुच्यते || चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् || १ || अहन्यहनि यत् किंचिद्दीयतेऽनुपकारिणे || अनुद्दिश्य फलं तत्स्यात् ब्राह्मणाय तु नित्यकम् || २ || यत्तु वाचोपशांत्यर्थं दीयते विदुषां करे || नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् || ३ || अपत्यविजयैश्वर्यस्वर्गार्थं यत्प्रदीयते || दानन्तु काम्यमाख्यातं मुनिभिर्धर्मचिन्तकैः || ४ || यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते || चेतसा भक्तियुक्तेन दानं तद्विमलं शुभम् || ५ || दानधर्मं निषेवेत पात्रमासाद्य शक्तितः || उत्पत्स्यते हि यत्पात्रं यत्तारयति सर्वत इति || ६ || शिवधर्मपुराणे- किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् || आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति || ७ || सर्वेषामपि पात्राणामतिपात्रं महेश्वरः || नित्यं नैमित्तिकं काम्यं विमलं च चतुर्विधम् || ८ || दानं पात्रे प्रदातव्यं नापात्रेऽप्यणुमात्रकम् || पृ० ३७८) हरस्य प्रीणनार्थं तु शिवभक्ताय दीयते || ९ || दानं तद्विमलं प्रोक्तं केवलं मोक्षसाधनम् || तस्मात्पात्रतमं ज्ञात्वा शिवभक्तमकल्मषम् || १० || तस्मै सर्वं प्रदातव्यमक्षयं फलमिच्छता || पतनात्त्रायते यस्मादतीवनरकार्णवात् || ११ || तस्य पात्रस्य माहात्म्यात् दानमण्वपि चाक्षयम् || तस्मात्तस्मै सदा देयमप्रमाणफलार्थिभिरिति || १२ || शिवरहस्ये- गुणवत्पात्रपूजाया वरं शासनपूजनम् || शासनं पूजयेत्तस्मादविचार्य शिवाज्ञया || १३ || पात्रशासनयोर्मध्ये शासनन्तु विशिष्यते || तस्माच्छासनमेवादौ पूजयेत्तं शिवं यथेति || १४ || शासनं शिवलांछनमित्यर्थः || वीरभद्रीये || शिवज्ञपूजनात्साक्षाच्छिवो भवति पूजकः || अकल्मषमतिस्तमात्पूजयेच्छिवशासनम् || १५ || आदित्यपुराणे- यस्तु माहेश्वरो नित्यं जातिमात्रोपजीवकः || उत्तमं सर्वपात्राणां तस्मै दत्तं तदक्षयम् || १६ || शिवभक्तमतिक्रम्य यश्चान्यस्मै प्रदीयते || निष्फलं तद्भवेद्दानं नरकं च प्रपद्यते || १७ || पृ० ३७९) शिवधर्मे- असंयतस्संयतो वा नानावस्थां गतोऽपि वा || यो वा को वा भवेद्भक्तः शिववत्पात्रमुत्तमम् || १८ || श्वपचश्शिवभक्तश्चेदुत्तमोत्तमजन्मभाक् || तस्य कन्यादिदानेन दाता मद्वंशजः शिवे || १९ || न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा || तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् || २० || स्कन्दपुराणे- मद्भक्तस्सर्वदा स्कन्द श्वपचोऽपि मम प्रियः || न तस्मादधिकं किंचिद्विद्यते पात्रमुत्तमम् || २१ || शिवरहस्ये- मनः प्रसन्नतां याति पूज्य माहेश्वरं सदा || अकुलः कुलयुक्तः स्यान्नमस्कारपुरस्सरम् || २२ || शिवधर्मे- शिवभक्तमथायांतं दृष्ट्वैव गृहसंस्थिताः || क्रीडंत्योषधयः सर्वे यास्यामः परमां गतिमिति || २३ || वीरभद्रीये- शिवाश्रमगतो भक्तः शिवभक्तं प्रपूजयेत् || स्वागतासनदानेन पाद्यार्घ्याद्यभिवादनैः || २४ || शिवधर्मोत्तरे- तस्मादतिथिमायातमभिगच्छेत्कृतांजलिः || अभ्युत्थानाभिगमनं स्वागतं चासनं प्रियम् || २५ || पृ० ३८०) पादोदकमनुव्रज्यं स्वर्गसोपानसप्तकम् || स्वागतासनपाद्यार्घ्यस्नानान्नशयनादिभिः || तस्मात्सत्कृत्य दातव्यमनन्तफलमिच्छता || २६ || ग्रन्थान्तरे- अभ्युत्थानाभिगमनं वंदनं प्रियभाषणम् || आसनं चान्नपानं च सप्तसोपानमुच्यते || २७ || शिवरहस्ये- द्विजानां वेदविदुषां कोटिं संभोज्य यत्फलम् || तत्फलं शिवभक्तस्य भिक्षादानेन लभ्यते || २८ || शिवधर्मोत्तरे- विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् || भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने || २९ || लैंग्ये- आसनाभ्यंगनस्नानवस्त्रधान्यांगनादिभिः || पूजयेच्छिवभक्तं यः स याति परमां गतिम् || ३० || शिवपुराणे- देवीं प्रतीश्वरवचनम् || क्षीयन्ते च वरारोहे तपोयज्ञजपादयः || न क्षीयन्ते वरारोहे भक्तवक्त्रहुतं हविः || ३१ || तथा च वीरागमे- क्षीयन्ते च वरारोहे तपोयज्ञजपादयः || न क्षीयन्ते वरारोहे वीरवक्त्रहुतं हविरिति || ३२ || सिद्धांतशिखामणौ- अन्नजाते तु भक्तेन भुज्यमाने शिवार्पिते || पृ० ३८१) सिक्थे सिक्थेऽश्वमेधस्य यत्फलं तदवाप्यते || ३३ || ब्रह्मपुराणे-ब्रह्माणं प्रतीश्वरवाक्यम् || नैवेद्यं पुरतो न्यस्तं दर्शनात्स्वीकृतं मया || रसान् भक्तस्य जिह्वाग्रादश्नामि कमलोद्भव || ३४ || शिवधर्मोत्तरे- शिवयोगी गृहे यस्य भिक्षां गृह्णाति सत्कृतः || कुलं तारयते तेन सप्त सप्त च सप्त च || ३५ || कूर्मपुराणे-वृ || नाहं तदद्मि यजमानहविर्वितानैः स्यात्तद्धुतं प्लुतमिदं हुतभुऽऽन्मुखेन || यज्जंगमस्य मुखतश्चरतोऽन्नमेवं तृप्तिर्न मे ह्यवहितैर्निजकर्मपाकैरिति || ३६ || शिवपुराणे- हस्तपादादिसाधर्म्यान्मर्त्यान् रुद्रवपुर्धरान् || प्राकृतानिव मन्वाना नैव जानन्ति पण्डिताः || ३७ || अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः || आयुश्श्रियं कुलं शीलं हत्वा नरकमाप्नुयुः || ३८ || वीरभद्रीये- शिवाश्रमगतो भक्तः शिवभक्तान् प्रपूजयेत् || स्वागतासनदानेन पाद्यार्घ्याद्यभिवादनैः || ३९ || शिवधर्मोत्तरे- यद्दानं श्रद्धया पात्रे विधिवत्प्रतिपाद्यते || तदनन्तफलं ज्ञेयमपि वा तिलमात्रकमिति || ४० || शिवधर्मपुराणे- अंत्यजो वाऽधमो वापि मूर्खो वा पण्डितोऽपि वा || शिवभावप्रसन्नश्चेत् पूज्यः सर्वसुरासुरैरिति || ४१ || पृ० ३८२) स्कांदे- यदि पापरतः क्रूरः स्वाश्रमाचारवर्जितः || मम भक्तो यदि भवेत्पूज्यो मान्यः सदैव हीति || ४२ || शांकरसंहितायाम्- प्राणलिंगांगसंबंधिपादप्रक्षालितं जलम् || लिंगांगसंगरहितः पिबेत्तत्तस्य पुण्यदम् || ४३ || स्कांदे- सर्वाचारविहीनोऽपि स्वाश्रमाचारवर्जितः || भक्तिलेशयुतस्स्कंद मत्प्रियः स गुणाधिकः || ४४ || तस्मात् पूज्यो नमस्कार्यो वर्णाश्रमपरायणैः || वर्णाश्रमपरिभ्रष्टाः शिवभक्तिपरायणा इति || ४५ || अस्मिन्नर्थे इतिहासोदाहरणमाह || स्कांदे- भस्ममाहात्म्यप्रतिपादनाध्याये || आसीत्पुरा कृतयुगे वर्मादतनयो द्विजः || पंचाक्षो नाम सर्वज्ञो भक्त्या नन्दिसमः शिवे || ४६ || शोभना तस्य भार्याऽभूदनसूयेव विश्रुता || वसिष्ठारुन्धतीवैवमभूतां शिवपूजकौ || ४७ || स्थावरे जंगमे लिंगद्वये पूजापरौ सदा || कदाचिदेवं वसतः पंचाक्षः शोभनापतिः || बाह्यांतःपूजनाशीलः शिवध्यानरतस्सदा || ४८ || वृ. || दिने दिने सर्वगतं महात्मा ध्यायन्महात्मानमनन्यचेताः || पृ० ३८३) पुष्पार्थमीशार्चनतत्परोऽसौ वनं मृगव्यालसमाकुलं तु || ४९ || जगाम शिष्यैः सहितो महात्मा कालेऽपि तस्मिन्नपि विप्रसूनौ || गते तु तस्मिन् गृहमस्य विप्रा जगाम चण्डालशरीरधारी || ५० || वृ || गणाग्रणीर्भूतिविभूषितश्च भोक्तुं स नाम्ना शिखरालयश्च || गृहे समायांतमदीनसत्वा भस्मप्रदिग्धांगमनन्यभावा || ५१ || ननाम साध्वी द्विजवर्यपत्नी पाद्यादिकं हस्ततले गृहीत्वा || उवाच वाक्यं गणराट् तदानीं बिभ्रत्स चण्डालवपुर्महात्मा || ५२ || जिज्ञासुरेनां भवशासनाच्च पंचाक्षभार्यां परमेशभक्तः || त्वया न कार्यं मम वंदनं वै जानीहि मामंत्यजयोनिजातम् || ५३ || त्वं देहि मे भोजनमद्य शीघ्रं पद्माभनेत्रा द्विजवर्यपत्नी || जगाद वाक्यं पुनरेव साध्वी गणाधिपं वारिजपत्रनेत्रा || ५४ || त्वया न वाच्यं परमेशभक्त ममेदृशं भस्मविभूषितांग || द्विजोत्तमो वाप्यथ लोलुपो वा नार्योऽपि वा पुल्कसजोऽन्त्यजो वा || ५५ || वंद्यः सदा सर्वजनैर्महात्मा शिवस्य पादाब्जविनिष्टचित्तः || पृ० ३८४) एतत्पुरा पर्वतशृंगमध्ये गिरींद्रपुत्र्यै परमेण चोक्तम् || ५६ || इति प्रसन्नो भगवान् ममाह भर्ता पुरा शिष्यसमूहमध्ये || इति ब्रुवाणा गणनायकं तं पाद्यार्घ्यपुष्पादिभिरोदनैश्च || ५७ || संपूजयामास विशुद्धसत्वा विशालनेत्रा परमेशभक्ता || प्रगृह्य पुष्पाणि फलानि भक्त्या गत्वा सशिष्यो गणनायकं तम् || ५८ || संपूजयामास तदा महात्मा तया सहायो मदनांतकस्य || द्विजेंद्रमत्युग्रतया बभाषे गणाधिपो हर्षगिरेशविप्रः || ५९ || इति प्रहस्याह मुनींद्रवर्यः सा चापि भार्या च तथा सगोत्रा || ततः सहर्षो विजयोर्महेशो गणेश्वरो मुक्तिपदं तयोर्ददौ || ६० || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे सत्पात्रदाननिरूपणन्नाम एकोनविंशतिप्रकरणं संपूर्णम् || पृ० ३८५) || श्रीशिवाय नमः || वीरमाहेश्वरदानपूजाफलतन्माहात्म्यं वक्ष्यामः स्कान्दे शांकरसंहितायामुपरिभागे चतुराशीतितमाध्याये- सूत धर्मविदां श्रेष्ठ ज्ञातमस्माभिरुत्तमम् || वीरशैवाश्रितं धर्मरहस्यं त्वत्प्रसादतः || १ || इदानीं श्रोतुमिच्छामो वीरमाहेश्वरस्य तु || कृतदानफलं पूजाफलं वक्तुं त्वमर्हसि || २ || सूत उवाच || वक्ष्ये भाग्यवतां श्रेष्ठाः प्राणलिंगांगसंगिनः || कृतदानफलं पूजाफलं माहेश्वरस्य तत् || ३ || पुरा कुमारः पप्रच्छ शंकरं शशिभूषणम् || एतमर्थं महाभागाः प्रोवाचास्मै महेश्वरः || तच्छ्रुणुध्वं मुनिश्रेष्ठा दानपूजाफलं महत् || ४ || श्रीशंकर उवाच- वक्ष्यामि शिवभक्तस्य दानमानार्चनाफलम् || संसारपाशबंधघ्नं सम्यग्ज्ञानप्रदं नृणाम् || ५ || येन केन प्रकारेण शिवभक्तस्य चेतसः || यस्तृप्तिं कुरुते मर्त्यः स वै शिवपदं व्रजेत् || ६ || पादप्रक्षालनं यस्तु कुरुते शीतलोदकैः || वीरमाहेश्वरस्यासौ चतुरंबुधिराड्भवेत् || ७ || दद्यान्मृद्वासनं यस्तु शिवभक्तस्य सादरम् || धृतलिंगस्य सपुमान् सप्तद्वीपाधिपो भवेत् || ८ || पृ० ३८६) छत्रं चोपानहौ यस्तु चामरे व्यजनानि च || दद्याल्लिंगार्चकस्यासौ ऐन्द्रं पदमवाप्नुयात् || ९ || दद्यादन्नं महादेवभक्ताय शिवयोगिने || सर्वपापविनिर्मुक्तः शिवलोके महीयते || १० || यावन्त्यन्नस्य सिक्थानि दत्तानि शिवयोगिने || तावद्वर्षसहस्राणि भवेच्छिवपुरे सुखी || ११ || तैलाभ्यंगं नरो यस्तु कुर्याल्लिंगांगसंगिने || स सूर्यलोकमाप्नोति सुखमक्षयमश्नुते || १२ || दद्यात्पुष्पाणि कर्पूरमिलितं योऽनुलेपनम् || लिंगार्चनरतायासौ चंद्रलोकमवाप्नुयात् || १३ || धनं दद्याद्यथाशक्ति यः पुमान् शिवयोगिने || स धनेशत्वमाप्नोति सर्वभोगसमन्वितम् || १४ || वस्त्रं शीतापनोदार्थं यो दद्याच्छिवयोगिने || स सर्वभोगसंयुक्तं लभते ब्रह्मणः पदम् || १५ || पयस्विनीं सवत्सां गां सर्वालंकारभूषिताम् || यो दद्याच्छिवभक्ताय स गच्छेच्छिवसन्निधिम् || १६ || सर्वालंकारसंयुक्तां कन्यां सावरणां तु यः || ज्ञानिने शिवभक्ताय दद्यात्स शिवतां व्रजेत् || १७ || सन्ततौ सन्ततौ यस्य यान्यपत्यानि भूतले || भवंति तेषां रोमाणि यावन्त्यंगेषु सन्ति वै || १८ || तावन्ति वर्षाणि नरो विमानं सार्वकामिकम् || पृ० ३८७) आरुह्य सर्वलोकेषु भ्रमन् कन्याप्रदः सुखम् || १९ || सर्वभोगान् क्रमाद्भुक्त्वा ततो गच्छेच्छिवैक्यताम् || तस्मात्कन्याप्रदानेन समं दानं न विद्यते || २० || सर्वसस्यान्वितां भूमिं ज्ञानिने शिवयोगिने || यो दद्याच्छिवसायुज्यं स यात्यत्र न संशयः || २१ || दत्तायां भुवि संभूतबीजसंख्याकवत्सरान् || भूमिदः शांभवे लोके सर्वान् कामानवाप्नुयात् || २२ || ज्ञानिने शिवभक्ताय ज्ञानशास्त्रस्य पुस्तकम् || दद्याद्विप्राय यो मर्त्यः स सम्यग्ज्ञानवान् भवेत् || २३ || अक्षराणि च यावन्ति दत्ते भक्ताय पुस्तके || तावद्वर्षं शिवागारे स्थित्वाऽन्ते मोक्षमाप्नुयात् || २४ || विद्यादानसमं दानं नास्ति लोकेषु सर्वदा || विद्यया प्राणिनां मुक्तिः तस्मात्तद्दानमुत्तमम् || २५ || ध्यानानामुत्तमं यद्वच्छिवध्यानं प्रकीर्तितम् || दानानामुत्तमं तद्वद्विद्यादानमुदीरितम् || २६ || यो दद्याच्छिवभक्ताय विद्याकोशस्य पुस्तकम् || स सर्वकर्मनिर्मुक्तो न पिबेज्जननीस्तनम् || २७ || दानानां च समस्तानां चत्वार्येतानि भूतले || श्रेष्ठानि कन्यागोभूमिविद्यादानानि सर्वदा || २८ || कारयित्वा गृहं सम्यक् सर्वोपकरणान्वितम् || लिंगांगसंगिने दद्याद्यः स शैवपदं व्रजेत् || २९ || पृ० ३८८) कार्पासतूलरचितां शययां खट्वां च योगिने || दद्याच्छैवाय स पुमान् पावकीलोकमाप्नुयात् || ३० || आत्मनो यदभीष्टन्तु तेन द्रव्येण पूजयेत् || शिवभक्तं महाज्ञानं तस्मै शंभुः प्रसीदति || ३१ || अन्नं वा जलमात्रं वा यद्दत्तं लिंगधारिणे || तदन्नं मेरुसदृशं तज्जलं सागरोपमम् || ३२ || पुरा कश्चिद्द्विजश्रेष्ठो वेदाध्ययनतत्परः || समस्तशास्त्रतत्त्वज्ञः शिवपूजापरायणः || ३३ || प्राणलिंगांगसंबंधी शिवभक्तार्चनप्रियः || शिवक्षेत्रेक्षणाकांक्षी सदा भस्मावकुंठितः || ३४ || रुद्राक्षमालाभरणः श्रीमत्पंचाक्षरप्रियः || रुद्राध्यायजपावाप्तसम्यग्ज्ञानो जितेंद्रियः || ३५ || नाम्ना श्वेत इति ख्यातः पुराणागमतत्त्ववित् || आसीत्कुशस्थले रम्ये नगरे पुण्यकृत्तमः || ३६ || पिंगलो नाम तस्यासीत्पुत्रः परमपापकृत् || प्राणहिंसापरो नित्यं कृतघ्नस्साधुनिंदकः || ३७ || वापीकूपतडागानां जलं तेनैव दूषितम् || तेन च्छिन्नाः सदारामवृक्षाः पुष्पपत्रफलान्विताः || ३८ || पृ० ३८९) हत्वा सर्वाञ्जनान्मार्गे हृत्वा तेषां धनानि च || विटानां च नटानां च दत्वा गानोपजीविनाम् || ३९ || दुर्वृत्तानां महामूर्खः सदा वेश्यापरो भवेत् || साधूनां ब्राह्मणानां च तेन दत्तं महद्विषम् || ४० || बलाद्द्विजस्त्रियो भुक्ताः रूपलावण्यसंयुताः || तेन शंकरस्थानानि बाधितानि शिवार्चकाः || ४१ || रुद्राक्षमालाभरणाः शिवलांछनधारिणः || उपदृताः सदाचारनिरताः पापकर्मणा || ४२ || यज्ञविध्वंसको नित्यं देवतावेददूषकः || स्वच्छन्दो निर्घृणो धीरो मित्रद्रोही निरंतरम् || ४३ || शिवभक्तापराधी च शिवद्रोही दुरात्मकः || चण्डालस्त्रीपतिर्भूत्वा चचारावनिमण्डले || ४४ || दुर्वृत्तासंगरतिमान् मधुमांसादिभक्षकः || एवं हि वर्तमानं तं दुराचारशतान्वितम् || ४५ || पुत्रमालोक्य स पिता निर्वेदादिदमब्रवीत् || दुराचारमिमं वत्स त्यज दुर्वृत्तलालितम् || ४६ || अत्यपूर्वमिदं जन्म दुर्लभं ब्राह्मणान्वये || चतुराशीतिलक्षेषु जन्तुर्भूत्वा थ जन्मसु || ४७ || केनचित्पुण्ययोगेन मानुष्यं लभते जनः || पृ० ३९०) अनेकजन्मसाहस्रकृतपुण्यवशेन सः || ४८ || तत्रापि जन्म ब्राह्मण्यं लभते कालयोगतः || लब्ध्वा तदुत्तमं जन्म ब्राह्मण्यं यः पुमांच्छिवम् || ४९ || नार्चयेत्स शिवद्रोही स एव ब्रह्महा भवेत् || वर्णाश्रमाचाररतैः पुरुषैः सुव्रतैः शिवः || ५० || आराध्यते महादेवो न दुर्वृत्तैः कदाचन || अतिचंचलमायुष्यं यौवनं चातिभंगुरम् || ५१ || अश्वत्थचलपत्राग्रलंबमानोदबिंदुवत् || संसाराख्ये महाक्षेत्रे कालाख्यः कर्षको महान् || ५२ || उप्तानि जीवबीजानि पक्वान्यालोक्य खादति || जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च || ५३ || तस्माद्दुराचारमिमं त्यक्त्वार्चय सदाशिवम् || शिवभक्तान् सदाचारनिरतान्धृतलिंगकान् || विप्रानाराधय सदा भस्मरुद्राक्षधारिणः || ५४ || शंकर उवाच- एवं संबोधितस्तेन पित्रा श्वेतेन पिंगलः || न मुमोच दुराचारं कठिणत्वमिवोपलः || ५५ || न तिष्ठति सदाचारो भिन्ने मनसि तस्य तत् || तेनोदितं हिततमं भिन्नकुंभे यथा जलम् || ५६ || ततः कालेन महता कृतपापवशेन सः || रोगावृततनुर्ब्रह्मराक्षसाविष्टमानसः || ५७ || अतीवदुःखसंतप्तो दुरात्मा पिंगलोऽभवत् || पृ० ३९१) न निद्रां लभते रात्रौ दिवा न सुखमश्नुते || ५८ || अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते || रोगाभिभूततनयं पिता शुश्राव धर्मवित् || ५९ || पुत्रव्यसनसंतप्तो निर्गतप्राणवत्सुधीः || पपात भूमौ सहसा श्रुतपुत्रामयो भृशम् || ६० || प्राप्तसंज्ञः स धर्मज्ञो रुरोद करुणं मुहुः || अहोऽद्य मंदभाग्यस्य मम पुत्रोऽयमीदृशीम् || ६१ || विधिना स्थापितोऽवस्थां न जानेऽस्य प्रतिक्रियाम् || अविद्वानथ वा विद्वान्दुर्जनस्सुजनोऽपि वा || ६२ || यस्यास्ति भूतले पुत्रः स धन्यः स च भाग्यवान् || अतो मद्भाग्यदौर्बल्यादीदृशीं कालचोदिताम् || ६३ || अवस्थां विधिना नीतस्तच्चिकित्सां न वेद्म्यहम् || एवं प्रलपमानस्य पुरतो भाग्यगौरवात् || ६४ || आविर्बभूव सर्वज्ञः सखा तस्य हरप्रियः || त्रिपुण्ड्रावलिभिर्दीप्तो जटावल्कलशोभितः || ६५ || सखा श्वेतस्य विप्रोऽसौ रुद्राध्यायजपप्रियः || तन्दृष्ट्वा विलपन्तं तं श्वेतं किमिति पृष्टवान् || ६६ || स तस्मै कथयामास पुत्रवृत्तमशेषतः || श्रुत्वा सर्वं यथावृत्तं शिवभक्तो हरप्रियः || पृ० ३९२) तस्य दुःखोपशमनं प्रतीकारं जगाद सः || ६७ || हरप्रिय उवाच- शिवभक्त महाबुद्धे मा रोदीः स्थैर्यमावह || पुत्रस्य दुःखशांन्त्यर्थमुपायं वच्मि तेऽनघ || ६८ || अस्ति भूमौ महापुण्यः पुराणो विबुधाश्रयः || श्रीपर्वत इति ख्यातः सर्वशैलोत्तमोत्तमः || ६९ || अप्सरोदेवगन्धर्वविद्याधरगणाकुलः || प्रमथव्रजसंकीर्णस्तपस्विकुलभूषणः || ७० || पारदांबुरुहव्याप्तो महौषधिगणालयः || रसायनफलाक्रान्तवृक्षाधारो धराधरः || ७१ || गुहासहस्रसंबाधो बिलद्वारशतांकितः || नानामृगगणावासः तुंगशृंगोल्लिखन्नभाः || ७२ || पुण्यकृद्भिरवाप्योऽसावप्राप्यः पापकर्मभिः || मल्लिकार्जुनदेवस्य पीठभूतो महागिरिः || ७३ || यत्र विष्णुस्तपस्तप्त्वा भक्त्या श्रीमल्लिकार्जुनम् || समाराध्य शिवज्ञानं प्राप्तवान् स्थितिकर्तृताम् || ७४ || यत्र श्रीकण्ठमीशानं समाराध्य पितामहः || प्रसादान्मल्लिकेशस्य जगत्सृष्टिक्षमोऽभवत् || ७५ || यत्र भक्त्या समाराध्य शक्रः श्रीमल्लिकार्जुनम् || प्रसादान्मल्लिकेशस्य त्रैलोक्येशो बभूव सः || ७६ || पृ० ३९३) यत्र देवास्सगन्धर्वा देवं श्रीमल्लिकार्जुनम् || समाराध्येप्सितां सिद्धिमवापुर्मुनयोऽपि च || ७७ || श्वपचादिविशिष्टान्ता यस्य दर्शनमात्रतः || न पिबन्ति नरा मातुस्स्तन्यं नात्र विचारणा || ७८ || तस्मिन् श्रीपर्वते पुण्ये संसारामयभेषजे || आस्ते लिंगांगसंबंधी सदानन्दाह्वयो मुनिः || ७९ || सर्वोपनिषदर्थज्ञः शिवध्यानपरायणः || भस्मावलिप्तसर्वांगो रुद्राध्यायजपाश्रयः || ८० || रुद्राक्षमालाभरणो धृतपाशुपतव्रतः || अतिवर्णाश्रमी योगी जीवन्मुक्तो जगद्गुरुः || ८१ || तं सदानंदनामानं शंकरध्यानलालसम् || निरस्तकुहकं विप्रं सह पुत्रेण पूजय || ८२ || तस्य प्रसादात्ते पुत्रो गच्छेन्नीरोगतां ध्रुवम् || तस्मादुत्तिष्ठ गच्छ त्वं श्रीपर्वतमतन्द्रितः || ८३ || इतःपरतरो लोके नास्त्युपायोऽघशांतये || विना शंकरभक्तस्य पूजया नात्र संशयः || ८४ || पूजया शिवभक्तस्य भोगमोक्षौ प्रसिद्ध्यतः || नान्यैः क्रियासमारंभैस्ते सुतस्यामयक्षयः || ८५ || एवं हरप्रियेणोक्तः श्वेतः श्रीपर्वतं गतः || सह पुत्रेण चार्थेन भार्यया बंधुबांधवैः || ८६ || पृ० ३९४) स्नात्वा पातालगंगायां भक्त्या श्रीमल्लिकार्जुनम् || पूजयामास विप्रेंद्रः श्रीपर्वतपतिं हरम् || ८७ || विप्रेभ्यः शिवभक्तेभ्यः पुत्रभार्यादिभिस्सह || ददौ तत्र धनं धान्यं तैलमन्नं च गां महीम् || ८८ || प्राग्द्वारे मल्लिकेशस्य जटावल्कलधारिणम् || हरप्रियेण कथितं सदानन्दं ददर्श सः || ८९ || प्रणम्य सह पुत्रेण सर्वं तस्मै न्यवेदयत् || पुत्रवृत्तं धनं किंचित् दत्वा स शिवयोगिने || ९० || सर्वं विज्ञापयामास सदानंदाय स द्विजः || श्रुत्वाथ तदशेषेण सदानंदो महामुनिः || ९१ || शिवभक्तिप्रभावेन शिष्यत्वेन तमग्रहीत् || पादोदकं प्रसादं च पिंगलाय दुरात्मने || ९२ || पापाचाराय स ददौ शिवज्ञानमहोदधिः || तस्य दर्शनमात्रेण सदानन्दस्य पिंगलः || ९३ || सर्वपापविनिर्मुक्तस्तत्परिग्रहकारणात् || सर्वरोगविनिर्मुक्तस्तत्पादोदकपानतः || ९४ || धर्माभिरतिमानासीत् तत्प्रसादोपभुक्तितः || शिवभक्तिपरो जातः पिंगलो मतिमान्धिया || ९५ || ज्ञात्वाथ शिवभक्तस्य प्रसादस्य च वैभवम् || सदानन्दाय विप्राय शिवभक्ताय धीमते || ९६ || पृ० ३९५) सर्वस्वमार्जितं भक्त्या पिंगलोऽस्मै न्यवेदयत् || तस्य श्रुश्रूषणां चक्रे सदानन्दस्य धीमतः || ९७ || श्वेतपुत्रोऽपि [शतपुत्रो] धर्मात्मा सर्वभावेन सर्वदा || तेन तुष्टो महायोगी सदानन्दस्तपोधनः || आहूय पिंगलं शिष्यमिदं वाक्यमभाषत || ९८ || सदानन्द उवाच || अद्यप्रभृति साधो त्वं त्रिपुण्ड्रं भस्मना वह || सर्वांगोद्धूलनं नित्यं कुरु धर्मपरायणः || ९९ || अग्निरित्यादिभिर्मन्त्रैः श्रीमत्पंचाक्षरेण वा || रुद्रमन्त्रजपाभ्यासपरो भव समाहितः || १०० || यावज्जीवमिदं दत्तमिष्टलिंगं समर्चय || कराब्जपीठे विन्यस्य तद्ध्यानासक्तमानसः || १०१ || लिंगांगसंगिनो वत्स पुनर्जन्म न विद्यते || युगपज्ज्ञानसिद्धिः स्यात् ततो मोक्षमवाप्नुयात् || १०२ || तस्मात्त्वं प्राणलिंगांगसंबंधी भव सर्वदा || पंचमुद्रान्वितान्नित्यं शिवभक्तान्सदार्चय || १०३ || बहुनोक्तेन किं वत्स शिवभक्तस्य पूजया || भोगमोक्षौ न चान्येन सिद्ध्यतस्तां ततोर्चय || १०४ || श्रीशंकर उवाच || इत्यादिष्टोऽथ गुरुणा पिंगलो भक्तिसंयुतः || प्रणम्य दंडवद्भूमौ सदानन्दमपूजयत् || १०५ || अन्येभ्यश्शिवभक्तेभ्यो दत्वा सर्वस्वमार्जितम् || पृ० ३९६) निस्पृहो निरहंकारो निर्ममो धर्मतत्परः || १०६ || उवास सुचिरं कालं तस्मिन् श्रीपर्वते शुभे || ममार सोऽपि कालेन पिंगलो धर्मवत्सलः || १०७ || मल्लिकार्जुनदेवस्य प्रसादान्मुक्तिमाप सः || चण्डालकन्यापि दिवं तेन भुक्ता जगाम सा || १०८ || सुहृदो बांधवास्तस्य जग्मुस्ते ब्रह्मणः पदम् || पिताऽपि तस्य कालेन श्वेताख्यस्तु मुदान्वितः || १०९ || पूजया शिवभक्तस्य परां मुक्तिमवाप सः || अत उक्तप्रकारेण शिवभक्तांस्तपस्विनः || पूजयानिशमव्यग्रो वत्स लिंगांगसंगिनः || ११० || सूत उवाच || इत्युक्तश्शंकरेणासौ श्रीमद्बर्हिणवाहनः || ननाम गिरिशं भक्त्या सर्वज्ञं करुणानिधिम् || १११ || यूयं श्रद्धान्विता विप्रा दानमानार्चनादिभिः || पूजयध्वमतिप्रीत्या शिवभक्तान्द्विजन्मनः || ११२ || एष वः कथितो धर्मः सर्वधर्मोत्तमोत्तमः || शिवप्रीतिकरो विप्राः शिवभक्तार्चनांकिताः || ११३ || नातःपरतरो धर्मस्त्रिषु लोकेषु विद्यते || तस्माद्धर्ममिमं नित्यं कुरुध्वं यत्नतो द्विजाः || ११४ || नदीनामुत्तमा गंगा धर्माणां शंकराश्रयः || गिरीणां श्रीगिरिः श्रेष्ठो देवानां प्रवरः शिवः || ११५ || पृ० ३९७) य इदं पुण्यमाख्यानं श्रुणोत्येकाग्रमानसः || शिवलिंगार्चनाकाले तस्मै शंभुः प्रसीदति || ११६ || पठते श्रावयेद्यस्तु धर्माख्यानमिदं नरः || स त्रिसप्तकुलोपेतः शिवलोके महीयते || ११७ || गृहे यस्येदमाख्यानपुस्तकं तिष्ठति ध्रुवम् || तस्यैश्वर्यसमृद्धिः स्यान्नाग्निचोरभयं भवेत् || ११८ || इति श्रीवेदवेदांतशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभु उतवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्यविरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे वीरमाहेश्वरदानपूजाफलतन्माहात्म्यन्नाम विंशतिप्रकरणं सम्पूर्णम् || पृ० ३९८) || श्रीशिवाय नमः|| || वीरमाहेश्वरान्तेष्टिकक्रमं वक्ष्यामः || अथ वीरशैवानां महापाशुपतानां च कथमन्तेष्टिकक्रमः इति चेदुच्यते || तेषां समाधिशिवैकनिष्ठानां दहनादिकर्मनिषिद्धत्वात्समाधिक्रियैव कर्तुं युक्ता || १ || तदुक्तं मनुस्मृतौ- सर्वकर्मनिवृत्तस्य ध्यानयोगरतस्य च || न तस्य दहनं कार्यं न च पिंडोदकक्रिया || २ || शातातपस्मृतौ- वानप्रस्थं योगिनन्तु लिंगैक्यं भिक्षुकं यतिम् || तुर्याश्रमाणांमध्ये च रसायां निक्षिपेन्मृतम् || ३ || पद्मपुराणे शिवराघवसंवादे- सर्वसंगविमुक्तस्य योगिनो लिंगधारिणः || दहनं नैव कर्तव्यं रसायां निक्षिपेत्तनुम् || ४ || लिंगांगिनि परिव्राजि ध्यानयोगरतेऽपि च || मृते तेषां शरीराणि समाधौ गोपयेद्बुधः || ५ || वीरागमे- श्राद्धं पिण्डप्रदानानि सूतकानि च वर्जयेत् || मातापित्रोश्च मरणं पुत्रमित्रस्य तत्तथा || ६ || अशौचं चापि सन्तापं लिंगदेही विवर्जयेत् || भक्तानां जंगमानां च व्रतं होमो जपस्तथा || ७ || वर्जनीयं महेशानि सततं लिंगमर्चयेत् || पृ० ३९९) न चाग्निकार्यं कुर्वीत न रोदनमिदं तथा || ८ || शिवाज्ञा इति मत्वा तु पश्चात्कुर्वन् शिवार्चनम् || शिवलिंगयुतं देहं सन्ततं शुद्धभाजनम् || ९ || जंगमस्य शरीरान्तेऽप्यग्निसंस्कारवर्जितम् || विद्यते वह्निसंस्कारो राजा राष्ट्रं विनश्यति || १० || गुहां कृत्वा तु लवणैः पूरयंश्च गुहामुखे || गीतं वाद्यं च नृत्यं च गन्धपुष्पैश्च दीपकैः || ११ || जंगमानां च भक्तानामनुज्ञां कारयेद्बुधः || चतुराश्रमशुद्धानां शिष्यैर्जंगमसुव्रतैः || १२ || भक्तैश्च मेलयन् सद्यः विभूतेर्वीटिकां क्रियां || गुहांतरे प्रतिष्ठाप्य प्राणलिंगसमेतकम् || १३ || क्रोधाच्चोराच्च मरणमाध्या विषजलेन वा || भक्तानां जंगमानां च बिल्वेन सह निक्षिपेत् || १४ || शैवपुराणे वायवीयसंहितायामुपरिभागे- कृष्णोपमन्युसंवादे शिवभक्तप्रशंसायां उपमन्युवाक्यम् || यस्त्वापन्नमृतिर्मर्त्यो दृष्ट्वारिष्टं च भूयसः || स योगारंभनिरतः शिवक्षेत्रं समाश्रयेत् || १५ || तत्रापि निवसन्नेष यदि धीरमना नरः || प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् || १६ || पृ० ४००) कृत्वाप्यनशनं वैधं हुत्वा चांगं शिवानले || क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् || १७ || शिवशास्त्रोक्तविधिना प्राणान्यस्तु परित्यजेत् || सद्य एव विमुच्येत न चासावात्मघातकः || १८ || रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः || म्रियते यदि सोऽप्येवं मुच्यते नात्र संशयः || १९ || तथापि मरणं शस्तं न शस्तं त्वनशनादिभिः || शास्त्रविस्रंभधीरेण मनसा क्रियते यतः || २० || यथा विशिष्टं तत्रापि मरणं तूत्तरोत्तरम् || निवृत्त्यादिवशाद्देहो भूतेषु हि विलीयते || २१ || स्वेच्छयोत्क्रम्य मरणं शिवक्षेत्रे विशेषतः || उत्तमं सर्वमरणादुन्मनापदयोगदम् || २२ || शिवनिंदारतं हत्वा पीडितस्स्वयमेव वा || यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयोऽपि जायते || २३ || शिवनिंदारतं हन्तुमशक्तो यस्स्वयं मृतः || सद्य एव विमुच्येत त्रिःसप्तकुलसंयुतः || २४ || शिवार्थं यस्त्यजेत्प्राणान् शिवभक्तार्थमेव वा || शिवाचारार्थमथ वा शिवविद्यार्थमेव वा || २५ || न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः || तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् || २६ || एतेष्वन्यतरोपायं कथमप्यवलंब्य वा || पृ० ४०१) षडध्वशुद्धिं विधिना प्राप्तो वा म्रियते यदि || २७ || पशूनामिव तस्येह न कुर्यादौर्ध्वदेहिकम् || नैवाशौचं प्रसज्येत तत्पुत्रादेर्विशेषतः || २८ || अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् || कल्याणमेव कुर्वीत शिवभक्तांश्च तर्पयेत् || २९ || धनं तस्य भवेच्छैवं शैवी चेदस्ति संततिः || नास्ति चेत्तच्छिवे दद्यान्न दद्यात्पशुसंततौ || ३० || किंच वीरशैवानां मुक्तिः कीदृशी इति चेदुच्यते || न तस्य प्राणा उत्क्रामयन्ति अत्रैव समवलीयन्त इति श्रुतिवाक्यात्स्वरूपैक्यमेव वीरशैवानां मुक्तिरिति वक्तव्यम् || ३१ || कामिकागमे- शिव एव स्वयं लिंगमात्मैवांगं भवेत्खलु || तयोश्शिवात्मनोस्सम्यग्योगस्संयोग एव हि || ३२ || सम्यग्योगो हि संयोगो भवेल्लिंगांगयोस्सदा || संयोग एव सायुज्यरूपा मुक्तिर्न संशयः || ३३ || एकेन जन्मना मुक्तिर्वीराणां च महेश्वरि || इतरेषां च शैवानां मुक्तिर्जन्मत्रयात्परम् || ३४ || अत एव लिंगांगसामरस्यवशाच्छिवभक्तानामनन्तकल्याणगुणाकरस्य परमेश्वरस्य साक्षात्कारात्पाशनिवृत्तिः ततो जन्माद्यभावः पृ० ४०२) ततस्सारूप्यं सायुज्यं च || ३५ || श्वेताश्वतरा आमनन्ति || ज्ञात्वा देवं सर्वपाशप्रहाणिः क्षीणे क्लेशे जन्ममृत्युप्रहाणिः || अस्यार्थः दीव्यतीति देवः पूर्णानंदं शिवं ज्ञात्वा साक्षात्कृत्य सर्वपापप्रहाणिः निवृत्तिर्भवतीति शेषः क्षीणैः क्लेशैः क्लेशा अविद्यास्मितरागद्वेषाभिनिवेशाः तैः क्षीणैः सद्भिः जन्ममृत्युप्रहाणिः जन्ममरणनिवृत्तिर्जीवन्मुक्तिरित्यर्थः तस्याभिधानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकाम इति अस्यार्थः तस्याभिध्यानान्निरंतरध्यानजन्यानुग्रहात् तृतीयं ब्रह्मविष्ण्वपेक्षया तृतीयं रुद्रत्वं भवतीत्यर्थः देहभेदे देहस्यापि लये जाते विश्वैश्वर्यं विश्वेश्वरो महादेवः तस्य भावो विश्वैश्वर्यं केवल आप्तकामः केवलत्वमद्वितीयत्वं आप्तकामत्वं पूर्णकामत्वं द्वयमपि भवतीति तात्पर्यं न च तस्यागंतुकत्वे अनित्यत्वं ईश्वरांशस्य जीवस्य पाशपराधीनभेदनिवृत्तौ सत्यां सत्यैश्वर्याविर्भावसंभवात् || तदुक्तं पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बंधविपर्ययौ || अस्यार्थः परमेश्वरस्याभिध्यानात् ध्यानपूर्वकप्रसादात् तिरोहितं स्वरूपं प्रकटं भवति कुतः अस्य जीवस्य बंधमोक्षौ ततः परमेश्वरात् परः पशूनां बंधमोचनकर्ता पशुपतिः परमेश्वर इति सूत्राभिप्रायः एवं चात्यंतिकपाशनिवृत्तिविशिष्ट- पृ० ४०३) शिवत्वप्राप्तिरेव मुक्तिः || ३६ || तदुक्तं श्वेताश्वतरे- आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् || ध्याननिर्मथनाभ्यासात्पाशं दहति पंडित इति || ३७ || ईशं ज्ञात्वा अमृता भवंति || अथर्वशिखायाम् - शिव एको ध्येयः शिवंकरस्सर्वमन्यत्परित्यज्य समाप्ताथर्वणी शिखेति || शिवत्वं करोतीति शिवंकर इत्यर्थः भावप्रधानो निर्देशः ब्रह्मविद्ब्रह्मैव भवतीत्यादि प्रसिद्धं ननु शिवत्वप्राप्तिः कीदृशी किं स्वरूपैक्यं एतद्धर्मभेदः नाद्यः मूर्तयोर्मृत्पिंडयोरेकत्ववदभेदे विकारित्वप्रसंगादमूर्तानां भिन्नानां कालाकाशादीनामिव एकत्वं बाधितमिति श्रुत्या प्रबोधनप्रसंगात् न द्वितीयः जातिरूपस्य धर्माभेदस्य द्रव्यत्वादिवदागंतुकत्वायोगात् उपाधिरूपोऽपि यद्यपि सत्यसंकल्पवत्वसर्वज्ञत्वादिसमानगुणवत्वरूपसादृश्यादिः संभवति तथापि स्वरूपैक्यं विना न मुक्तिव्यवहार इति चेदुच्यते स्वरूपैक्यमेव परममुक्तिः न च तस्या मूर्तेष्वसंभवः महाकाशेन सह घटाकाशादीनामिवाभेदसंभवादेवं पृ० ४०४) च धर्मैक्यमपि मुक्तिः पुनरावृत्तियोगात् सालोक्यादीनामपि श्रुतिसिद्धत्वात् || ३८ || तैत्तिरीये- ब्रह्मणः सायुज्यं सार्ष्टितां समानलोकतामाप्नोतीति सार्ष्टिस्समानैश्वर्यम् || ३९ || मुण्डके- सूर्यद्वारेण विरजाः प्रयांतीति ननु सूर्यद्वारेण मुक्तिः सन्यासिनामेवेति चेत् न तदुपबृंहणे वीरशैवानां च विहितत्वात् || ४० || अत एवोक्तं शांकरसंहितायामुपरिभागे वीरमाहेश्वरप्रशंसायाम् || लिंगांगसंगं कुर्वन्तं दृष्ट्वा द्विजवरं रविः || स्थानाच्चलत्ययं भित्वा मंडलं मे व्रजेच्छिवम् || ४१ || इति वचनात् || ओंकाररथमारुह्य विष्णुं कृत्वाथ सारथिम् || ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः || इत्यमृतनादोपनिषद्वाक्यात् केचन वीरशैवाः सूर्यद्वारेण ब्रह्मलोकशब्दितशिवलोकं प्राप्नुवन्ति किंच न च स्वरूपैक्ये प्रमाणाभावः || ४२ || मुंडकोपनिषदि- यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छंति नामरूपे विहाय तथा विद्वान् नामरूपाद्विमुक्तः पृ० ४०५) परात्परं पुरुषमुपैति दिव्यं स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेः न च समुद्रनद्योः संयोग एव न स्वरूपैक्यमिति वाच्यं पृथऽऽन्नामरूपव्यवहाराभावेन एकत्वव्यवहारस्य दृष्टांतेन विवक्षितत्वात् नामरूपसामान्यभावस्य पक्षधर्मताबलेन सिद्धेः निरवयवात्मनात्मनां संयोगाभावात् अंशांशिनोर्घटाकाशमहाकाशयोरिवाभेदोपपत्तेः अपुनरावृत्तिश्चतुर्विधमुक्तिसाधारणी सायुज्यमुक्तौ तु सर्वगते ब्रह्मणि जीवलयात्पुनरावृत्तिप्रसक्तिरेव न अत एव वीरमाहेश्वराणां षडध्वातीतपरशिवैक्यमेव मुक्तिरिति वक्तव्यम् || ४३ || किंच वीरमाहेश्वराणां मुक्तिः स्वतंत्रेति पूर्वाचार्यैः पुरातननूतनशरणचारित्रानुसारेणोच्यते || अनुभवसूत्रे- लोकयोरुभयोरैहिकामुष्मिकपदार्थयोः || गमागमौ विनैवास्ते भक्तिस्संपूर्णवैभवा || ४४ || वृ || केचित्प्राणैस्सह शिवपदं केचिदात्मीयकायैः केचिद्दारैर्निजतनुभवैर्मन्दिरैर्बंधुवर्गैः || ग्रामैर्देशैस्सह परिजनैः केचिदन्यैः क्रमेण कृत्वा चैतत्सकलमपि पृ० ४०६) शिवं यांति भक्ताः स्वयं हि || ४५ || प्राणादिवस्तुविषये त्वनुरागयुक्ता भक्ताः प्रयांति कतिचित्सह तैः शिवैक्यम् || केचिद्विरागनिपुणा विषयेषु तेषु त्यक्त्वा च तान् शिवपदं स्वयमेव यांति || ४६ || शिवधर्मोत्तरे- शशभृत्कोटिसंकाशं स्थानमाद्यमुमापतेः || सर्वकामसमायुक्तं विशुद्धं नित्यमक्षयम् || ४७ || संप्राप्य तदिदं दिव्यं समस्तक्लेशवर्जितम् || सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवंति च || ४८ || विशुद्धकार्यकरणाः परमैश्वर्यसंयुताः || सदेहाश्च विदेहाश्च चरंत्यात्मेच्छया सदा || ४९ || ये संप्राप्ताः परं स्थानं ज्ञानयोगरता नराः || न तेषां पुनरावृत्तिर्घोरे संसारमंडले || ५० || इत्यादिप्रसिद्धम् || अस्मिन्नर्थे श्रुतिः छांदोग्ये- आत्मरतिरात्मक्रीड आत्मानंद आत्ममिथुन स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवतीति तस्य सर्वेषु लोकेषु कामचारो भवतीति कामचारो गणेश्वरो भवति || ५१ || आदित्यपुराणे- दूर्वासवाक्यम् || स्वेच्छाविग्रहिणस्सर्वे स्वेच्छाचारा गणेश्वराः || शिवेन सह मोदंते मुक्ता यांति शिवं पदम् || ५२ || शंभोर्गणेश्वरा ये ते नावर्तन्ते महीतले || पृ० ४०७) भोगान्यथेप्सितान्भुक्त्वा शिवसायुज्यमाप्नुयुः || ५३ || शिवसालोक्यसंस्थिताः सर्वे परांतकाले आत्मन्येव समवलीयंते इति श्रुतिवाक्येन तत्रैव शिवैक्यं गच्छंतीति सर्वमवदातं किंच तदा विद्वान् पुण्यपापे विधूय निरंजनः पुरुषं साम्यमुपैतीति मंत्रोपनिषद्वाक्यात् नंदीश्वरादीनां मुक्तेः सार्ष्टिः समानैश्वर्यं ननु सूर्यद्वारेण विरजाः प्रयांतीति सन्यासिनामेव सूर्यद्वारेण ब्रह्मलोकप्राप्तिर्नान्येषामिति चेन्न वीरमाहेश्वराणां लिंगांगसंयोगरूपब्रह्मात्म्यैक्यज्ञानेन विद्वत्सन्यासत्वात् गृहस्थानां याज्ञवल्क्यजनकादीनां ब्रह्मात्म्यैक्यज्ञानेन श्रुतिपुराणेषु विद्वत्सन्यासश्रवणात् वीरशैवस्य सर्वोत्कृष्टत्वात् ब्रह्मलोकशब्दितशिवलोकप्राप्तिर्भवति अत एव तुर्याणामाश्रमाणां तु रसायां निक्षिपेत्तनुमिति वीरशैवानां गृहस्थानामपि समाधिक्रियैवोच्यते || ५४ || विशेषार्थप्रकाशिकायाम्- देहावसानप्रकरणे || अथातः षट्स्थलब्रह्मवर्चसां शिवयोगिनाम् || देहावसानं तत्कृत्यं प्रवक्ष्यामि विशेषतः || ५५ || षडंगलिंगसंयुक्तषट्स्थलब्रह्मरूपिणाम् || नैवावसानं देहस्य प्राकृतानामिवात्मनाम् || ५६ || पृ० ४०८) पंचाक्षरं पंचभूतं भूतात्मा प्रणवः पुमान् | भूतभूतात्मभावेन स्थूलदेहः प्रतीयते || ५७ || सूक्ष्मदेहः स्वयं लिंगं योगिनां षट्स्थलात्मनाम् || आचाराद्यात्मको देहो न पृथ्व्याद्यात्मको मतः || ५८ || वृ० || आचारः स्यात्पृथिवी गुरुरापः शिव उदीर्यते तेजः || चर एव स्याद्वायुः प्रसाद आकाश इति विनिर्दिष्टः || ५९ || (इत्युदाह्रियते) || महानसौ जीवः स्याद्भूतात्मा षट्स्थलात्मनामेषाम् || भक्तादीनां पृथ्व्याद्यंगानामुच्यतेऽत्र तत्त्वार्थः || ६० || आधारश्चरतां सतां क्षितिरथाचारः पयः स्याद्गुरुर्बोधो दिव्यसुधारसः परतरं ज्योतिश्शिवः पावकः || बाह्याभ्यंतरगश्चरो मरुदथाकाशः प्रसादः स्वयम् शुद्धः कायविवर्जितः खलु महाजीवः षडंगांगिनाम् || ६१ || शिवाद्वैतपरस्यास्य नाशो नैव न जन्म च || नैव चान्यगतिर्नान्यद्बंधनं न विमोचनम् || ६२ || अत्रैव लीयते सम्यक्सर्वमात्मतया सतः || घृतकाठिन्यवत्स्वप्नप्रपंचमितिभासवत् || ६३ || प्रत्यग्रूपः पृथ्व्याद्यैरुपलक्षणमात्रतः || कल्पितो हि बहिर्देहः सोऽयमेवावशिष्यते || ६४ || पृ० ४०९) तस्यावसानकाले तु शिवक्षेत्रं समाश्रयेत् || प्रशस्तं प्राहुराचार्याश्चतुराश्रमिणामपि || ६५ || ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा || यस्तु लिंगांगसंयुक्तः शिवक्षेत्रं समाश्रयेत् || ६६ || लिंगं शिवो भवेत्क्षेत्रमंगं संयोग आश्रयः || तस्माल्लिंगांगसंयुक्तो योऽपि सोऽत्याश्रमी भवेत् || ६७ || अत्याश्रमस्थः कालज्ञः स्वतो धीरमनाः स्वकम् || देहं विनैव रोगाद्यैः स्वयमंते परित्यजेत् || ६८ || प्रथमः खननोपायो द्वितीयो दहनात्मकः || तृतीयोऽदर्शनोपायः स्वदेहं त्यक्तुमिच्छताम् || ६९ || स्यादात्माकाशयोर्भावोऽदर्शनं दहनं ततः || वायुपावकयोर्भावः खननं भूमिवारिणोः || ७० || अदर्शनमतिश्रेष्ठमवियोगेंऽगलिंगयोः || तथैव दहनं श्रेष्ठं शिखिकर्पूरयोगवत् || ७१ || तयोरभावे खननं श्रेष्ठमित्याहुरागमाः || क्षेत्रे तीर्थे तथा होमे जपध्यानसमाधिषु || ७२ || यत्र यत्र स्थितो भावः पदे षट्स्थलवर्त्मनाम् || तत्र तत्र त्यजेद्देहमाचारादिपदं प्रति || ७३ || आचारार्थं च गुर्वर्थं शिवार्थं च चरार्थकम् || पृ० ४१०) प्रसादार्थं तनुत्यागो न त्यागस्तत्समर्पणम् || ७४ || क्षेत्रमाचारलिंगं स्याद्भक्तांगं क्षितिलक्षणम् || तीर्थं हि गुरुलिंगं स्यान्माहेशांगांबुलक्षणम् || ७५ || होमस्तु शिवलिंगं स्यात्प्रसाद्यंगाग्निलक्षणम् || जपश्चराख्यलिंगं स्यात्प्राणलिंग्यंगमारुतम् || ७६ || ध्यानं प्रसादलिंगं स्याच्छरणांगं खलक्षणम् || समाधिः स्यान्महालिंगमैक्यांगं जीवलक्षणम् || ७७ || वृ || खननावगाहहवनानशनादिभिरात्मघातको नैव || शिवशास्त्रोक्तोपायैः स्वयमेव तनुं त्यजेच्छिवो भवति || ७८ || एतेषूपायेषु श्रेष्ठतमोऽयं हि सुखमुखोपायः || उन्मन्युत्तरयोगे निवृत्तिमार्गे स्वयं तनुत्यागः || ७९ || अथ रोगादिभिर्वापि प्राणलिंगांगयोगभाक् || देहं परित्यजत्यन्ते स शिवो भवति ध्रुवम् || ८० || बाह्यस्योपाधिमात्रस्य देहस्यैव हि रुग्णता || नांतर्देहस्य चिन्मात्रस्येति तत्त्वविदां स्थितिः || ८१ || कालज्ञोऽप्ययमात्मीयदेहपातं विलोकयन् || प्रारब्धपरिपाकांतं स्थित्वा हित्वा शिवो भवेत् || ८२ || पृ० ४११) स्वयमेव तनुत्यागाद्वरं [परि] प्रारब्धपाकतः || स्वदेहपतनं पक्कफलवद्वृन्तमोचनात् || ८३ || रोगारोगाद्युपायेन येन केनापि हेतुना || षडध्वशुद्धियुक्तस्य प्राणलिंगांगसंगिनः || ८४ || देहावसानं यद्यासीत् तस्य नैवान्यथा क्रिया || खनेद्वा भुवि तद्देहं क्षिपेद्वाप्सु शिवास्वपि || ८५ || दहेद्वा रुद्रवह्नौ तु || त्यजेद्वायौ च लोष्टवत् || एतेष्वपि विधानेषु खननं तूत्तमं मतम् || ८६ || अदर्शनविधानेन सदृशं व्यवधानतः || देहे प्राणं विनिक्षिप्य लिंगे लिंगं तदेतयोः || ८७ || आदौ दीक्षा कृता शैवी यथा चांते तथैव हि || कायलिंगोभयोर्योगः प्राणमंत्रोभयोस्तथा || प्राणमंत्रोभयेऽतीते कायलिंगोभयं खनेत् || ८८ || भूमौ प्रतिष्ठितं लिंगं पुनर्नोत्पाट्यते यथा || देहे प्रतिष्ठितं लिंगमंतेनोत्पाट्यते तथा || ८९ || लिंगे प्राणे विनिक्षिप्ते लिंगिनं तं विनिक्षिपेत् || वियुक्ते प्रत्यवायः स्याज्जीवमाने यथा तथा || ९० || पृ० ४१२) यः प्राणलिंगसंलग्नो लिंगप्राणी स उच्यते || तद्देहदहनादेव प्रत्यवायो महान् भवेत् || ९१ || दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा || शिवज्ञानाग्निदग्धस्य पुनर्दाहो न विद्यते || ९२ || शरीरं पार्थिवं बाह्यं लिंगं यत्तद्धि पार्थिवं || उभयं पार्थिवं तस्माद्गोप्यं रन्ध्रे तु पार्थिवे || ९३ || पृथ्वी शीर्णा जले मग्ना जलं ग्रस्तं महाग्निना || वायौ चास्तमितं तेजो व्योम्नि वातो विलीयते || ९४ || व्योम चात्मनि चात्मात्सौ स्वीये परशिवे पदे || पार्थिवं पार्थिवे गोप्यमाप्यमाप्ये तु तैजसम् || ९५ || तैजसे तत्तदीयं च तत्तदीये स्वभावतः || दहनं चापि रुद्राग्नौ वरं लिंगांगयोगिनाम् || ९६ || तयोर्वियुक्तभावेन [विमुक्त] यदि किंचिन्न शिष्यते || शिष्यते चेद्वरं भूमौ खननं चांगलिंगयोः || ९७ || अंगशेषो भवेत्कश्चिल्लिंगशेषोऽपि कश्चन || शेषो न दृश्यते यत्र तद्विधानमनुत्तमम् || ९८ || वृ || दग्धेऽपि देहे पुनरंगशेषो निक्षिप्यतेऽन्ते भुवि वा जले वा || पृ० ४१३) तस्माद्विनिक्षेपविधिर्बलीयान्निःशेषभावादपुनर्विधानात् || ९९ || यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् || तन्तमेवैति तत्त्वज्ञः सदा सद्भावभावितः || १०० || अन्त्यकाले प्रबुद्धो यः सुहृदा बोधितोऽपिवा || शिवमेकमनुध्यायन्स याति परमं पदम् || १०१ || यदा शिवात्मकं रूपं ध्यायन् प्राणैर्विमुच्यते || तदासौ शिवतां याति नान्या गतिरिति श्रुतिः || १०२ || तीर्थे चण्डालगेहे वा यदि वा नष्टचेतनः || परित्यजेद्देहमेवं ज्ञानादेव विमुच्यते || १०३ || अथ समाधिलक्षणमाह मकुटागमे || गृहे देवालये वापि तटाके वा नदीतटे || पुष्पवाट्यां ग्राममध्ये चारण्ये पर्वताश्रये || १०४ || अष्टस्थानप्रदेशेषु निक्षेपार्थं प्रकल्पयेत् || प्रथमस्यायतं दीर्घं सोपानस्यैकपादकम् || १०५ || कुर्याद्दीर्घं द्वितीयस्य द्विपादमुन्नतं तथा || तृतीयस्यायतं दीर्घं त्रिपादं परिकल्पयेत् || १०६ || चतुरस्त्रं पंचपादं विस्तीर्णं च तथैव च || खातं नवपदं प्रोक्तं तन्मध्ये च प्रयत्नतः || १०७ || त्रिपादवेदिकां कृत्वा तस्य दक्षिणतो दिशि || त्रिकोणाकारखातं च त्रिपादं दीर्घमायतम् || १०८ || पृ० ४१४) उन्नतं पौरुषं ज्ञेयं तत्र निक्षिप्य यत्नतः || गुहांतरे प्रतिष्ठाप्य पद्मासनसमन्वितं || १०९ || भस्मना हृदयान्तं च पूरयित्वा तथोपरि || शेषांगं भस्मना पूर्य बिल्वपत्रेण संयुतं || मृत्तिकां पूरयेत्पश्चाद्वेदिकां कारयेत्तथा || ११० || आदित्यपुराणे- शिवसंस्कारसंपन्नः शिवार्चनरतस्तु यः || न तस्मिन् प्राकृता दोषा युज्यन्ते सूतकादयः || १११ || मर्त्यवन्मनुते यस्तु शिवनिष्ठं द्विजं नरः || स तप्तकुम्भे पतति निरये कालमक्षयम् || ११२ || आरोपयन्ति ये कर्म शिवाश्रमगमानुषान् || कुम्भीपाकाग्निना दग्धा जायन्ते नीचयोनिषु || ११३ || विशेषार्थप्रकाशिकायां- पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकं || नास्ति शावं यतस्तस्य सज्जन्ते सूतकादयः || ११४ || न च श्राद्धादिकं कर्म न पिंडं नोदकक्रिया || न कुर्यात्पार्वणादीनि शिवीभूताय योगिने || ११५ || अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् || कल्याणमेव कुर्वीत शिवभक्तांश्च तर्पयेत् || ११६ || प्रत्यब्दं च तमुद्दिश्य शिवभक्तांश्च भोजयेत् || भक्तेभ्यो दत्तमन्नं यद्दत्तमेव शिवाय हि || ११७ || पृ० ४१५) वृ || लिंगं साक्षात्करस्थं हिमकरशिखिवद्वीक्षितुं वीक्षितुं यन्मंदं मन्दं समन्ताद्घनतरनिजतेजःप्रभावं प्रकुर्वन् || ज्योतिस्तम्भाकृतिः सन् वपुरिदमवगृह्णातु शंभो मदीयं प्रारब्धस्यावसाने कृपय सुकृपया चेद्वरोऽयं ममैवम् || ११८ || इति श्रीवेदवेदान्तशिवागमस्मृतिपुराणेतिहासगीताशास्त्रपुरातनोक्तिसारभू तवीरमाहेश्वराचारसारोद्धारे शिवाचारकथने निष्ठूरश्रीमन्नंजणाचार्य विरचिते श्रीमद्वेदांतसारवीरशैवचिंतामणौ उत्तरखंडे वीरमाहेश्वरान्तेष्टिकक्रमो नामैकविंशतिप्रकरणं सम्पूर्णम् || श्री || श्री || ########### END OF FILE #######