#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00271 Uniform title: vijñānabhairava Manuscript : BHU C4245 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### विज्ञानभैरवभट्टारकोयं लिख्यते | ओं नमः परम भैरवाय || श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् | त्रिकभेदमशेषेण सारात्सारविभागशः || १ || अद्यापि न निवृत्तं मे संशयः परमेश्वर | किं नवात्मक भावेन भैरवे भैरवाकृतौ || २ || प्. ७३अ) त्रिशिरो भेदभिन्नात्मा किं वा शक्ति त्रयात्मकम् | नादबिन्दु मयं वापि किं चन्द्रावनिरोधकम् || ३ || चक्रारूढमनस्कं वा किं वा शक्ति स्वरूपकम् | परापरायाः सकलमपरायाश्च वा पुनः || ४ || पराया यादि तद्वत् स्यात् पुरत्वं तद्विरुद्ध्यते | न हि वर्णविभेदेन देहभेदेन वा भवेत् || ५ || परत्वं निष्कलत्वेन सकलत्वेन तद्भवेत् | प्रसादं कुरु मे नाथ निश्शेषं च्छिन्दिसंशयम् || ६ || साधु साधु त्वया पृष्टं तन्त्रसारमिदं प्रिये | गूहनीयतमं भद्रे तथापि कथयामिते || ७ || यत्किञ्चित् सकलं रूपं भैरवस्य प्रकीर्तितम् | तदसारतया देवि विज्ञेयं चक्रजालवत् || ८ || मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् | ध्यानार्थं भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् || ९ || केवलं वर्णितं पुंसां विकल्पनिहतात्मनाम् | तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः || १० || न चापि त्रिशिरा देवो न च शक्तित्रयात्मकः | न चक्रक्रमसं भिन्नं न च शक्तिस्वरूपकः || ११ || अप्रबुद्धमतीनां हि एताबालविभीषिकाः | मातृमोदकवत्सर्वं प्रवृत्यर्थमुदाहृतम् || १२ || दिक्कालकलना मुक्ता देशोद्देशां विशेषिणी | व्यपदेष्ट्रसुशक्त्यासानशक्त्यापरमार्थतः || १३ || अन्तः स्वानु भवानन्दा विकल्पोन्मुक्तगोचरा | प्. ७४अ) यावस्थभरिताकार्या भैरवी भैरवात्मनः || १४ || तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् | एवं विधे परे तत्त्वे कः पूज्यर्कश्च तृप्यति || १५ || एवं विधा भैरवस्य यावस्था परिगीयते | सा परापररूपेण परादेवी प्रकीर्तिता || १६ || शक्ति शक्ति मतो यस्मादभेदः सर्वदा स्थितः | अतस्तद्धर्मधर्मित्वात् पराशक्तिः परात्मनः || १७ || न वह्नेर्दाहिकाशक्तिर्व्यतिरिक्ता विभाव्यते | केवलं ज्ञानसत्तायां प्रारम्भेयं प्रवेशने || १८ || शक्त्योवस्थां प्रविष्टस्य निर्विभावेन भावना | तदासौ शिवरूपीस्याच्चैवीमुखमिहोच्यते || १९ || यथा लोके न दीपस्य किरणैर्भासकरस्य वा | प्. ७४ब्) ज्ञायते दिग्विभागादि तद्वद्भक्त्या शिवः प्रिये || २० || देव देव त्रिशूलाङ्क कपालकृतभूषण | दिग्देशकालशून्या च व्यपदेशीववर्जिता || २१ || या शक्तिर्भरताकारा भैरवः सोपलभ्यते | कैरुपायैर्मुखं तस्य परादेवी कथं भवेत् || २२ || यथा सम्यगहं वेद्मि तथा मे ब्रूहि भैरव || ऊर्ध्वप्राणो ह्यधोजीवो विसर्गात्मासरोच्चयेत् | उत्पत्ति द्वितयं स्थाने भरणाद्भवित स्थितिः || २४ || सरतोन्तर्बहिर्वापि विद्याद्युग्मनिवर्तनात् | भैरव्या भैरवस्येर्त्थं भैरवि व्यज्यते वपुः || २५ || न व्रजेन्न विशेच्छक्तिर्मरुद्रूपाविकासते | प्. ७५अ) निर्विकल्पतयामध्ये तथा भैरवरूपधृत् || २६ || कुम्भितारे चितावापि पूरिता वा यथाभवेत् | तदन्ते शान्तनामासौ शक्ताचान्तः प्रकाशते || २७ || आमूलात्किरणाभासं सूक्ष्मासूक्ष्मतरात्मिकम् | चिन्तयोन्ते द्विषट्कान्ते शाम्यन्ते भैरवादयः || २८ || उद्गच्छन्ती तडिद्रूपां प्रतिचक्रं क्रमात् क्रमम् | ऊर्ध्वं मुष्टित्रयं यावत् तावदन्ते महोदयः || २९ || भ्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम् | स्थूलसूक्ष्मपरिस्थित्या मुक्त्वा मुक्त्वा ततः शिवः || ३० || तया पूर्यास्तु मूर्द्धान्तं भक्ष्याभृक्षे पसेत्तना | निर्विकल्पं मनः कृत्वा सर्वोर्द्ध्वे सर्वगोद्गमः || ३१ || शिखिपक्षैश्चित्तरूपैर्मण्डलैः शून्यपञ्चकम् | प्. ७५ब्) ध्यायतोनुत्तरः शून्ये प्रविशो हृदये भवेत् || ३२ || ईदृशेन क्रमेणैव यत्र यत्रापि चिन्तयेत् | शून्ये वक्त्रे परे पात्रे स्वयं लीना वरप्रदा || ३३ || कपालान्तर्मनोन्यस्य तिष्ठेन्मीलित लोचनः | क्रमेण मनसो दार्ढ्याल्लक्षते लक्षमुत्तमम् || ३४ || मध्यनाडी मध्यसंस्था विससूत्रावसू त्रया | ध्यातात्तयो महादेव्या तया देवः प्रकाशते || ३५ || कररुद्ध दृगस्तेन भ्रूभेदाद्द्वाररोदनात् | दृष्टे बिन्दौ क्रमालीने तन्मध्ये परमास्थितिः || ३६ || धामान्तः क्षोभसम्भूता सूक्ष्माग्नि तिलका कृतिः | बिन्दुं शिखान्ते हृदये लयान्ते ध्यायते लयः || ३७ || प्. ७६अ) अनाहते पात्रकर्णे भग्नशब्दपरिश्रुते | शब्दब्रह्मणि निष्णातः परं ब्रह्माधि गच्छति || ३८ || प्रणवादि समुच्चारात् प्लुतान्ते शून्यभावनात् | शून्यया परया शक्त्या शून्यता चेति भैरवि || ३९ || यस्य यस्यापि वर्णस्य पूर्वान्तावनु भावयेत् | शून्यया शून्य भूतोसौ शून्याकारः पुमान्भवेत् || ४० || तन्त्र्यादि वाद्यशब्देषु दीर्घेषु क्रमसंस्थितः | अनन्यचेताः प्रत्यन्ते परंव्योमवपुर्भवेत् || ४१ || पिण्डमात्रस्य सर्वस्य सूक्ष्ममन्त्रक्रमेण तु | अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद्भवच्छिवः || ४२ || निजदेहे सर्वदिक्कं युगपद्भावयेद्द्वयम् | निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते || ४३ || प्. ७६ब्) पृष्ठशून्यं मूलशून्यं युगपद्भावये च यः | युगपन्निर्विकल्पत्वान्निर्विकल्पोनयस्ततः || ४४ || तनूद्देशे शून्यतया क्षणमात्रं विभावयेत् | निर्विकल्पं निर्विकल्पे निर्विकल्पा स्वरूपभाक् || ४५ || सर्वदेहगतं द्रव्यं नि * द्व्याप्तं मृगेक्षणे | विभवेयद्यतस्तस्य भावना सा स्थिरी भवेत् || ४६ || न किञ्चिदन्तरं तस्य ध्यायन्नध्येय भाग्भवेत् | हृद्याकाशविलीनाक्षः पद्मसंपुटमध्यगः || ४७ || अनन्य चेताः सुभगे परं सौभाग्यमाप्नुयात् | सर्वतः स्वशरीरस्य द्वादशान्तं मना नयेत् || ४८ || दृढबुद्धिर्दृढीभूतं तत्त्वलक्षं प्रवर्तते | प्. ७७अ) यथा यथा यत्र यत्र द्वादशान्ते मनः क्षिपेत् || ४९ || प्रतिक्षणं क्षीणवृत्तेर्वै लक्षण्यं दिनैर्भवेत् | कालाग्निना कालपुरादुर्थि तेन स्वकं पुरम् || ५० || प्लुष्टं विचिन्तयेदन्ते शान्ताभासस्तदा भवेत् | एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पितः || ५१ || अनन्यचेतसः पुंसः पुंभावः परमो भवेत् | स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च || ५२ || तत्त्वानि यानि निरयं ध्यात्वान्तर्व्यथते परा | पीनां च दुर्लभां चैव ध्यात्वा द्वादशगोचरे || ५३ || प्रविश्य हृदये ध्यायन्युक्तः स्वातन्त्र्य माप्नुयात् | भुवनत्वादि रूपेण चिन्तयेत्तपसोखिलम् || ५४ || सूक्ष्मस्थूलपरित्यागं यावद्दत्ते मनोलयः | अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः || ५५ || प्. ७७ब्) अध्वप्रक्रियया तत्त्वं देवं ध्यात्वा महोदयः | विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् || ५६ || तत्रैव शमनोलीनं ततस्तल्लयभाजनम् | निर्वृक्षगिरिभित्त्यादि देशे दृष्टिं विनिक्षिपेत् || ५७ || विलीने मानसे भावे वृत्तिक्षीणा प्रजायते | उभयोर्भावयोर्ज्ञाने ध्यात्वा मध्यं समाश्रयेत् || ५८ || युगपश्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते | भावे त्यक्ते निरुद्धा चेन्नैव भावान्तरं व्रजेत् || ५९ || तदातन्मध्यभावेन विकसत्यति भावना | सर्वदेहे तन्मयं हि जगद्वा परिभावयेत् || ६० || युगपन्निर्विकल्पेन मनसा परमोद्भवः | वायु द्वयस्य सङ्घट्टादन्तर्वा बहिरन्ततः || ६१ || प्. ७८अ) योगी स तत्त्वविज्ञानं समुत्गमनभाजनम् | सर्वं जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् || ६२ || युगपत् स्वादृतेनैव परानन्दमयो भवेत् | कुहरेण प्रयोगेन सद्य एव मृगे क्षणे || ६३ || समुदेन महानन्दे येन तत्त्वं प्रकाशते | सर्वस्रोतो निबन्धेन प्राणशक्त्याध्वशासनैः || ६४ || पिप्पीलस्पर्श वेलायां प्रथमे परमं सुखम् | वह्नेर्विषय मध्ये तु चित्तं सुख मयंक्षिपेत् || ६५ || केवलं वायुपूर्णं वा स्मरानन्देन युज्यते | शक्तिसङ्गमसंक्षुब्धं शक्त्या वेशावसानिकम् || ६६ || यत् सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वैक्यमुच्यते | लेहनामक्तनाकोटो स्त्रीमुखस्य भरात् स्मृतेः || ६७ || प्. ७८ब्) शक्त्या भावेपि देवेशि भवेदानन्दसंप्लवः | आनन्दे महते प्राप्ते दृष्टे वा बान्धवे चिरात् || ६८ || आनन्दमुत्गतं ध्यात्वा तल्लयस्तन्मना भवेत् | दग्धमानरसोल्लाअस रसानन्दविजृम्भनात् || ६९ || तावतोद्भरितावस्थां महानन्दस्ततो भवेत् | गीतादि विषया स्वादात्समसौख्यैकतन्मनः || ७० || योसिनस्तन्मयत्वेन मनोरूढेस्तदात्मना | यत्र यत्र मनस्सृष्टिर्मनस्तत्रैव धारयेत् || ७१ || तत्र तत्र परानन्दः स्वरूपः संप्रकाशते | अनागतायां निद्रायां प्रनष्टे बाह्यगोचरे || ७२ || सावस्था मनसा गम्या परादेवी प्रकाशते | तेजसा सूर्य दीपादेराकाशेशवली कृते || ७३ || ७९अ) दृष्टिं निवेश्य तत्रैव स्वात्मरूपं प्रकाशते | करङ्किण्ये क्रोधनया भैरव्या लेलिहानया || ७४ || खेचर्या दृष्टिकाले च पराव्याप्तिः प्रकाशते | मृद्वासनेस्फिजैकेन हस्तपादौ निराश्रयम् || ७५ || विधायतत्प्रसङ्गेन परापूर्णामतिर्भवेत् | उपविश्यासनेसम्यग्बाहूर्कृत्वावकुञ्चितौ || ७६ || कक्षव्योम्नि मनः कुर्वञ्च समानं च चिन्तयेत् | स्थूलरूपस्य भावस्य सव्यां दृष्टिं निपातयेत् || ७७ || अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् | आसने शयने स्थित्वा निराधारं विभावयेत् || ७८ || स्वदेहं मनसि क्षीणे क्षीणात्क्षीणाशया भवेत् | चलासने स्थितस्याथशनैर्वा देहचालनात् || ७९ || प्. ७९ब्) प्रशान्ते मानुसे भावे देविदिव्यौघ माप्नुयात् | लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् || ८० || तत्सर्वं भैरवाकारं तेजस्तत्वं समाविशेत् | किञ्चिज्ज्ञात्वे द्वेतदायि बाह्यलोकस्तमः पुनः || ८१ || विद्वावि भैरवं रूपं ज्ञात्वानन्त प्रकाशवत् | एवमेवं दुर्निमाया कृष्णपक्षागमे चिरम् || ८२ || तैमिरं भावयेद्रूपं भावयेद्भैरवो भवेत् | यस्य यस्येन्द्रियस्यापि व्याघाताश्च निरोधतः || ८३ || प्रविष्टस्या द्वये शून्ये तद्दैवात्मा प्रकाशयेत् | अब्धिन्दु स विसर्गं च अकारं जपतो महान् || ८४ || उदेति देवि सहसाज्ञानौघः परमेश्वरः | स विसर्गस्य वर्णस्य विसर्गान्तं चिति कुरु || ८५ || प्. ८०अ) निराधारेण चित्तेन स्पृशेद्ब्रह्मसनातनम् | व्योमाकारं स्वमात्मानं ध्याने दिग्भिरनावृतम् || ८६ || निराशय चितिः शक्तिः स्वरूपे दर्शयेत् तदा | किञ्चिदङ्गं विभाव्यादौ तीक्ष्णसूच्यादिना ततः || ८७ || तत्रैव चेतना युक्ता भैरवेणामलागतिः | चित्ताद्यन्तः कृतन्नास्ति समन्तर्भावयेदिति || ८८ || विकल्पनामभावेन विकल्पैरुज्झितो भवेत् | मया विमोहनी नाम कलायाः कलनं स्थितम् || ८९ || * * दि तत्त्वं धर्माणां कलयन्न पृथग् भवेत् | जगतीइच्छां समुत्पन्नामवलोक्यशमं नयेत् || ९० || यत एव समुद्भूता ततस्ततैव लीयते | यदाममेच्छानोत्पन्ना ज्ञानं वाकस्तदास्मि वै || ९१ || प्. ८०ब्) तत्त्वतोहं तदा भूतस्तल्लीनस्तन्मनो भवेत् | इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् || ९२ || आत्मबुद्ध्यानान्यचेता ततस्तत्त्वात्मदर्शनम् | निराधारं भवेज्ज्ञानं निर्निमित्तं भ्रमात्मकम् || ९३ || तत्त्वतर्कस्य चिन्नैत देवं व्यापी शिवः प्रिये | चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् || ९४ || अतश्च तन्मयं सर्वं भावयेद्भवजीज्जनः | कामक्रोधलोभमोहमदमात्सर्यगोचरः || ९५ || बुद्धिं निस्तिमिभां? कृत्वा तत्तत्त्वमवशिष्यते | इन्द्रजालमयविश्वं न्यस्तं वा चित्त्रकर्मवत् || ९६ || भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोद्गमः | न चित्तं निक्षिपेद्दुःखेन सुखे वा परिक्षिपेत् || ९७ || प्. ८१अ) भैरवि ज्यायतां मध्ये किं तत्त्वमवशिष्यते | विहाय निजदेहस्थं सर्वं नास्मीति भावयेत् || ९८ || दृढेन मनसा दृष्ट्या नान्वेक्षिण्या सुखी भवेत् | घटादौ यच्च विज्ञानमिच्छाद्यं वाममान्तरे || ९९ || नैव सर्वगतं जातं भावयन्निति सर्वगः | ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् || १०० || योगिनां तु विशेषोस्ति सम्बन्धे सावधानता || स्वस्मादन्यशरीरेपि संवित्ति मनुभावयेत् | अपीक्षां स्वशरीरस्य त्यक्त्वा वासी सुखी भवेत् || निराधारं मनः कृत्वा विकल्पं न विकल्पयेत् | तदात्म परमात्मत्वे भैरवो मृगलोचने || १०३ || सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | प्. ८१ब्) स एवाहं चैव धर्मा इति दार्ढ्या भवेच्छिवः || ४ || जलस्यैवोर्मयो वह्नेर्ज्वालाभङ्गः प्रभाभरः | ममैव भैरवस्येता विश्वभङ्ग्यविभेदिताः || ५ || भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितं तु विपातनात् | क्षोभशक्तिविरामेण परासञ्जायते दशा || ६ || आधारे त्वथवा शक्त्या ध्यानाच्चित्ततलेन वा | जातशक्तिसमावेश क्षोभन्ते भैरवं वपुः || ७ || संप्रदायमिदं भद्रे शृणु सम्यग् वरानने | कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः || ८ || दशाधिके महागर्ते स्थित्वोपरि निरीक्षणात् | अविकल्पमते सम्यक् सद्यच्चित्तनयस्फुटम् || ९ || यत्र यत्र मनो याति बाह्ये बाह्यान्तरेपि वा | प्. ८२अ) तत्र तत्र शिवावस्था व्यापकत्वात्कयास्यति || १० || यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः | तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता || ११ || क्षुताद्यन्ते भयेशोके गह्वरे वारणद्रुते | कुर्धहले क्षुधाद्यन्ते ब्रह्मसत्ता मयी पशा || १२ || वस्तुषु स्म?र्यमाणेषु दृष्टे देशेमनस्त्यजेत् | स्वशरीरं निराधारं ततः प्रसरति प्रभुः || १३ || क्वचिद्वस्तु न बिन्दस्य शनैर्दृष्टिं निवर्तयेत् | तज्ज्ञानं * *? सहितं देहि शून्यालयो भवेत् || १४ || भक्त्यद्रेकाद्विरक्तस्य यादृशी ज्ञायते रतिः | सा शक्तिः शाङ्करी नित्यं भावयेर्थं ततः शिवः || १५ || वस्त्वन्तरे वेद्यमाने शनैर्वस्तुषु शून्यता | प्. ८२ब्) तामेवमनु सा ध्यात्वा विदितोपि प्रशाम्यति || १६ || किञ्चिज्ज्ञैर्यः स्मृता शुद्धिस्सशुद्धिश्शम्भुदर्शने | न शुचिर्ह्यशुचिस्तस्मान्निर्विकल्पः सुखी भवेत् || १७ || सर्वत्र भैरवो भावः सामान्ये ष्वेवगोचरे | न च तद्व्यतिरेकेन परोस्तीत्यद्वया गतिः || १८ || समः शत्त्रौ च मित्रे च समोमानावमानयोः | ब्रह्मणः परिपूर्णत्वादिति ज्ञात्वा सुखी भवेत् || १९ || न द्वेष भावयोः * * *? न रागं भावयेत् क्वचित् | रागद्वेषविनिर्मुक्तो मध्ये ब्रह्मप्रसर्पति || २० || यदि वेद्यं यदा ग्राह्यं यच्छून्यं यदवावगम् | तत्सर्वं भैरवं भाव्यं तदन्ते रोधसम्भवम् || २१ || नित्ये निराशये शून्ये व्यापके कलनोज्झिते | बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् || २२ || प्. ८३अ) यत्र यत्र मनोयाति तत्तत्ते नैव लक्षणम् | परित्यज्य नवः स्थित्या निस्तरङ्गस्ततो भवेत् || २३ || क्रियात्सर्वं रवयति सर्व देव्यापकोखिले | इति भैरवशब्दस्य सन्ततोश्चारणा च्छिवः || २४ || अहं स समयेत्यादि प्रतिपत्ति प्रसङ्गतः | निराधारे मनोजाति तद्ध्याना प्रेरणाच्छमी || २५ || नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः | शब्दाः प्रतिक्षणं ध्यायन्प्रकृतार्थानुरूपतः || २६ || अतत्त्वमिन्द्रजालाभमिदं सर्वमवस्थितम् | किं तत्वमिन्द्रजालस्य इति दार्ढ्याअच्छयं व्रजेत् || २७ || आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया | ज्ञानायता बहिर्भावादतः शून्यमिदं जगत् || २८ || प्. ८३ब्) न मे बन्धन मोक्षोमेती तस्यैव विभीषिकाः | प्रतिबिम्बमिदं बुद्धेर्जलेष्विवविवस्वतः || २९ || इन्द्रियद्वारकं सर्वं सुखदुःखादि सङ्गमम् | इतीन्द्रियाणि सन्त्यज्य स्वस्थः स्वात्मनि वर्तते || ३० || ज्ञानं प्रकाशकं सर्वं सर्वमात्माप्रकाशकः | एवमेव स्वभावत्वाज्ज्ञानज्ञेयो विभाव्यते || ३१ || मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् | यदा प्रियो परिक्षीणं तदातद्भैरवं वपुः || ३२ || निस्तरङ्गा पदेशानां शतमुक्तासमासतः | द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जनः || ३३ || अत्र चैव तपे युक्ते जायते भैरवः स्वयम् | प्. ८४अ) वाचाकरोति कर्माणि शापानुग्रहकारकः || ३४ || अजरामरतामेति सोणिमादि गुणान्वितः | योगिनीनां प्रियो देवि सर्वमेलापकाधिपः || ३५ || जीवन्नपि विमुक्तोसौ कुर्वन्नपि च चेष्टितम् || ३६ || इदं यदि वपुर्देव परायाश्च महेश्वर | एवमुक्त्वाव्यवस्थायां जपते को जपश्चकः || ३७ || एषात्र प्रक्रिया वक्ष्ये स्थूलेष्येव मृगेक्षणे | भूयोभूयः परे भावे भावना भाव्यते यथा || ३८ || ध्याने या निश्चला बुद्धिर्निराकारा निराश्रया | न तु ध्यानं शरीरादि मुखहस्तादि कल्पना || ३९ || प्रजानामन्न पुष्पाद्यैर्या मतिः क्रियते दृढा | निर्विकल्पे परे व्योम्नि सा पूजा ह्यदराल्लयः || ४० || प्. ८४ब्) महाशून्या लये वह्नौ भूताक्षविषयादिकम् | हूयते मनसा सार्धं स होमश्चेतना स्रुचा || ४१ || यागेत्र परमेशानि तुष्टिरानन्द लक्षणा | क्षपणात् सर्वपापानां त्राणात्सर्वस्य पार्वति || ४२ || रुद्रशक्ति समावेशस्तत्क्षेत्रं भावना परा | अन्यथा तस्य तन्द्रस्य का पूजा कश्च तृप्यति || ४३ || यैरेव पूज्यते द्रव्यैस्तर्पते वा परापरः | यश्चैव पूजकः सर्वं स एवैकः प्रपूजनम् || ४४ || व्रजेत् प्राणो विशेज्जीव इच्छाया कुटिला कृतिः | दीर्घात्मा सा महादेवी परक्षेत्त्रं परापरा || ४५ || अस्यानु चरतस्तिष्ठेन्महानन्दमयेध्वरे | तथादेवा समाविष्टः परं भैरवमाप्नुयात् || ४६ || प्. ८५अ) षट्कतानि दिवारात्रौ सहस्राण्येक विंशतिः | जपो देव्याः समुद्दिष्टः प्राणस्यान्ते सुदुर्लभः || ४७ || इत्ये तत्कथितं देवि परमामृतमुत्तमम् | एतच्च नैव कस्यापि प्रकाश्यं न कदाचन || ४८ || परिशिष्येखिले क्रूरे अभक्ते गुरुपादयोः | निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् || ४९ || भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया | ग्रामोराज्यं परोदेशः पुत्रदारकुटुम्भकम् || ५० || सर्वमेतत्परित्यज्य ग्राह्यमेतन्दृगेक्षणे | प्राणा अपि प्रदातव्या न देयं परमा मृतम् || ५१ || देव देव महादेव परितृप्तास्मि शङ्कर | रुद्रयामल मन्त्रस्य सरसद्यावधारितम् || ५२ | प्. ८५ब्) सर्वशक्ति प्रभेदानां हृदयं ज्ञातमद्य च | इत्युक्त्वा नन्दिता देवी कण्ठे लग्ना शिवस्य तु || ५३ || ########### END OF FILE #######