#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E0010 Uniform title: vijayottaratantra Secondary title: trisahasrasaṃhitā Manuscript : IFP transcript T0190 Description: IFP transcript 190 copied from a MS belonging to the GOML, Madras, No. R 13659. The Vijayottara also called trisahasrasaṃhitā is an Upāgama of the śaivasiddhānta. It deals with śaiva ritual. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### विजयोत्तरतन्त्रम् शिवार्चन पटलः इष्टिर्विधीयते शम्भोस्सामान्ये तदरूपिणे | राजाद्रव्यपरित्यागे जीव * * दिश्यभावः || सा च लिङ्गाग्रयाग्रेषु शिवेन परिभावितः | लिङ्गस्य गुरुमूर्तिञ्च वह्निर्वा मन्त्रसंस्कृतः || शिवविद्याधिपासार्धं शिवेद्यर्थविवेकलम् | लिङ्गाग्निशिवविद्यासु तुल्यप्रीतिं निवस्थितिः || स्थण्डिले(मण्डल)मण्डलं यद्वा समूर्तिरपरं च यत् | युक्ते स्थान तया सर्वं शम्भोमूर्तिरनिन्दिता || मूर्ध्निक्तिस्तु द्विविद्या शम्भो साक्षिका च निराक्षिका | काम्यामन्यापरामूर्ति नित्याविज्ञानरूपिणी || तया नित्यं शरीरीशः परैर्विज्ञातनुश्शिवः | लिङ्गाद्यन्यतमामूर्तिमेवं निश्चित्यसाधकः || प्रत्यहं पूजयेद्देवं पञ्चशुद्धि पुरस्सरम् | आत्मस्थान गुणाधार द्रव्यमन्त्रविशुद्धयः || शुद्धयः पञ्चमन्त्रोक्तविध्युच्यते क्रमेण तु | तन्त्रमन्त्रकृतस्नानं क्षालिकांघ्रिकरः शुचिः || कृतहस्ताङ्गविन्यासः सामान्यार्घ्येण पूजयेत् | गणेशं भारतीमूर्ध्वे लक्ष्मीं मध्ये प्रपूजयेत् || प्. २) द्वारस्य दक्षिणे भागे नन्दि गङ्गे प्रपूजयेत् | अन्यत्रकालयने गन्धैः पुष्पाक्षतैः शुभैः || प्रविश्य सव्यपादेन विद्याङ्गास्त्रमथा यजेत् | वास्तु मध्ये तदीशस्यश्च ततः संश्रुत्यविष्टरम् || हरहस्तञ्च सम्पाद्य तेनैव भवरूपिणा | संयोजयेच्छिवे शुद्धे मार्गं ध्यात्वा सिरश्शमम् || हृत्पुटेन सान्तेन शिवातीते शिवात्मनि | प्रदीप्तकरणे विभुना यद्वा सूर्यमण्डले || हृद्गुहा * हिनो बिम्बाच्च शक्तितेजात् सृजे सः | उद्यत्पतङ्गसङ्काशमात्मानं प्राणरूपिणम् || आत्मानमेवसंयोज्य भूतशुद्धिं समाचरेत् | भूताद्यं त्रिनिवृत्ताद्य कलास्तत्वादि धारजः || * क्तं मन्त्रितं पीतं अश्रुध्यायेत् कमण्डलुम् | पञ्चोत्पत्तौ इतान्तं संहितेनैव शोधयेत् || धरां शुद्ध्यां स्वतः प्राप्तमप्तत्वं क्षीरसन्निभम् | नाभि बी * तमब्जाभं स्मरेत् खण्डेन्दुसन्निभम् || लान्तस्थं शिखयाशोध्यं प्राणायामचतुष्टयम् | एवं प्रतिष्ठां संशोध्य कर्णान्तपादतोनलम् || त्रयश्रं स्वस्तिके विद्यात् रूपं विद्यान्तरोचिरम् | समृ * त्वोद्धाते स्त्रिभिः पश्चाद्भ्रूयुर्तमनिलं क्षिपेत् || प्. ३) षट्कोणं बिन्दु षट्कास्यां कृष्णं ह्ये * शोधयेत् | हुं फडन्ताः समायोज्या निवृत्ताद्या विशुद्धये || व्योमतन्त्रं ततोगात्रं व्यापकं बिन्दु संज्ञकम् | शुद्धस्फटिकसङ्काशं वृत्तमस्त्रेण शोधयेत् || अस्त्रं शिवास्त्रमेवोक्तं नान्यत्पाशुपतास्त्रकम् | एवं कलादि शुद्ध्यादि शोधिताशेषबन्धनम् || मूर्त्यासञ्चिन्तयेन्मूर्तिं प्रणवात्मिकयात्मकाः | आनीय तस्य सात्मानममृतं चिन्तयेत् ततः || मूलेन वौषडन्तेन तव मध्ये शिवासनम् | तत्र मूर्तिश्च सम्भाव्य ब्रह्माण्यङ्गुष्ठतो न्यसेत् || रु(ई)शादीनि विभाप्रेस्य शक्यतं मन्त्रविग्रहम् | दत्वानेत्रं समावाह्य शिवमङ्गानि विन्यसेत् || कनिष्ठान्तः शिवं भूयः परं करणाय च | विन्यस्य * वंमणावेष्ट्य योजयेत् सर्वकर्मसु || देह न्यासं ततः कुर्यात् समुद्राभि यथोच्यते | रु(ई)शं तत्पुरुषाघोरं गुह्यकाजातशम्बरात् || आस्य हृद्गुह्यजान्युग्मतक्रूरुद्धवादिति मुखेषु च | ब्रह्मवक्त्राख्य यागंस्यादालालोभंश्च विन्यसेत् || रु(ई)शानं परिमूर्ध्नाम्ना पुरुषेण मुखानि तु | दुत्कर्णांसद्वयं नाभिर्जठरं चावरो रसि || प्. ४) कुर्यादघोरमन्त्रेण वसुरूपेण मन्त्रवित् | गुह्यलिङ्गो गजस्सानु जङ्घासीत् द्वितयः कटिः || पार्श्वे च कल्पयेन्मन्त्री वामदेवमनु स्मरन् | पादपाणीतलं घ्राणं शिरोबाहूरु जानुषु || एवं विद्यातनुं स्मृत्वा शिवस्तद * पं न्यसेत् | शिवाङ्गानि न्यसेत् पश्चात् हृदादीनि हृदादिषु || हृदये हृदयं मन्त्री शिरः शिरसि विन्यसेत् | शिखायां तु शिखां न्यस्य कवचं सर्वगात्रकम् || स्वहस्ततलयोरस्त्रं अवस्थानं प्रकृत्यजेत् | अन्तर्यागं ततः कुर्यात् हृदये भाव भक्तिभिः || आसनं मनसा कृत्वा शिवमूर्ति द्वयं ततः | आवाह्य च शिवं साङ्गं अर्घ्यपाद्यादि कल्पयेत् || पञ्चामृताभिषेकाद्यैर्दिव्यगन्धानुलेपनैः | दुकूलपट्टमेवाङ्गवासोभिर्विविधैरपि || हेमरक्तमयैः पुष्पैः धूपदीपपवित्रकैः | नैवेद्यैर्विविधैर्देवं सावारं बाह्यवद्यजेत् || नाऽस्तिनेगं तथा कृत्वा सिद्धं सन्दर्पयेद्दिवि | बिन्दोर्निरर्गलस्यन्ति परिशुद्धमृतैश्शिवैः || निर्धूपं धूपदीपाहं बिन्दौ शैव स्मरे सह | एवं कृत्वान्तरिष्ठस्य स्थानशुद्धिं समाचरेत् || प्. ५) तलं त्रयास्त प्रकारं कवचावेष्टितैः क्रमात् | ततोऽर्घ्यपात्रमानीय प्रक्षाल्यास्त्रेण वारिणा || पुष्पतण्डुलसिद्धार्थ यवदर्भयवस्तिलैः | अर्घ्यं संहितया कृत्वा सुरभ्याचामृतीकृतम् || अमृतं तोयमाधार शक्तिस्तस्य च कुण्डली | तद्विकारस्थिलाद्यर्थामृताधारोधरादयः || अर्घ्यं विशिष्यते तेन येन शम्भुः प्रसीदति | तेन द्रव्याणि संप्रोक्ष्य शरेण(म)मन्त्रयेद्धृदा || तनास्नानं सममर्च्य मन्त्रशुद्धिं समाचरेत् | ओंकारादि नमः प्रोक्तान् मन्त्रानेकादशोच्चरन् || वारावन्निष्ठुरपदं प्राप्तानु तनु लिङ्गकः | गायत्रिष्वापुरापूजां सामान्यार्घ्येण वाचयेत् || सपीठलिङ्गमस्त्रेण क्षालयेन्निर्मलं यथा | आसनं कल्पयेत् तस्य विधिवत्तद्विधीयते || शक्तिमादौ हृदा कुर्यात्समस्ताधाररूपिणीम् | तथा नन्दं हृदा * यम्य ज्ञानं वैराग्यसम्पदः || अग्नितस्तद्विपर्यासेः प्राप्ते गात्राणि कल्पयेत् | माया विद्येमदिभ्रूते पद्मकर्णिकया सह || वामादि शक्तिसूर्येन्दु वह्निबिम्बारिसाधिपम् | हृदासंकल्पयेद्देवं पञ्चासनमयं विभो || प्. ६) श्वेतरक्तञ्च पीतञ्च कृष्णं पादान्विचिन्तयेत् | नानावर्णानि गात्राणि * दग्नेन रक्तपाण्डरे || पद्ममष्टदलं श्वेतं कर्णिकां पीतवर्णकम् | शक्तयः सूर्यसंकाशमा नवमी स्फटिकोदयम् || योगपीठे विभोर्येवं मूर्तिस्मिन्निवेशयेत् | हृन्मन्त्रं पुटिअं सद्य मूर्तिमबिन्द्वतगोचरम् || चतुर्मूर्तिमयं रक्तं शान्त्यतीतकलान्वितम् | ब्रह्मभिः सकली कुर्यात् षट्संख्यैस्तण्डुलोचनैः || एषा विद्यातनुः शम्भोः स्वशक्ति करणात्मिका | तत्र विद्या तनुं कृत्वा ब्रह्मरन्ध्रान्तगोचरम् || शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् | दशहस्तं जटाजूडैरारक्तैः पञ्चभिर्युतम् || खड्गश्च शूलश्शक्ति प्रसादाभय सत्कराम् | सर्पाक्षमाला समरुत्पलसाडिमवाहिरम् || सुश्वेतेशानवदनं कुङ्कुमाभपुराननम् | करालं याम्यपदमामुक्तोत्तर दिङ्मुखम् || क्षीराब्धिपश्चिमोशास्यात् षोडशाब्दोपलक्षितः | ध्यात्वैवं परमां शम्भोस्तनां सकलरूपिणीम् || तस्यमावाहये * * * * सर्पाध्वमूर्ध्वगम् | पूर्णा पुष्पाञ्जलिः कुम्भिनिवृत्तान्य मनोगिति || प्. ७) हृत्कण्ठतालुभ्रूरन्ध्र बिन्दुपर्यन्तगोचरम् | इनेन सहोद्गीर्य * * * * * सुसन्निभम् || सद्यमन्त्रं समाविश्य विशन्तीं ब्रह्मवर्त्मनाम् | स्फुरद्रक्त * * नाद्यैः ललटे कूटसन्निधिम् || अपाने समरे द्वि द्वारा वाहनमिदं | सदीप्त किरण पूर्णा मार्गेण निर्गतं || पुष्पं जलगतं मूर्तौ हृदासंगस्स्थापयेच्छिवम् | सन्निधिं सन्निरोधञ्च हृदाद्यङ्गानि विन्यसेत् || महामुद्रा प्रयोगञ्च मूलेन विधिवन्नयेत् | एवमावाहनाद्यैस्तु महामुद्रा विपश्चिमैः || यागाधिकरणं कुर्यात् संस्कारैष्षड्भिरीश्वरम् | तत्र ब्रह्मादिसोपान त्यागेनाथ शिवात्मना || अह्यतिरध्वामिस्य बिन्दावसुद * * सूतिः | आहत्य पुरे * * * * * शस्थापनं विभोः || आहतस्योपविष्टस्य स्वदास्य विनयोदभिः | तत्तत्प्रतिगृहीतत्वं यत्तदीशस्यसन्निधिः || अस्य सन्निधि तस्य निरोध इति व्याख्यातो प्रभावतः | हृदयादिभिरस्त्रान्तैमक्तित्थर प्रधृष्यति || अवकुण्ड्यत मन्मोक्तं व्यापी * * * * * * | पशुत्वस्य शिवत्वस्य मोचनात्वाद्रावणादणोः || प्. ८) द्व्यक्षरार्थोपपन्नेषु मुद्रारुचिवर्धनी | अस्मादत्विक्रियायांते विश्वानुग्रहकारिणी || त्वधीं * * * सप्त प्राप्तव्यमयमयाखिलम् | एभूषादपि विच्छिन्नं मधि दैव तथागतः || अत प्रहृष्टवदनं सर्वावयवसुन्दरम् | स्मृत्वासपात्रमुत्क्षिप्य पाद्यमाचमनं तथा || सम्मुखेन करेणाख्यं संविदद्युद्धुदा विभो | धूपयित्वा ततश्शम्भुं दूर्वापुष्पाक्षतैरपि || गव्यपञ्चामृताद्यैस्तु स्नापयित्वा सविस्तरम् | तो * प्रसूनधूपार्घ्यप्रदानान्तरितं यथा || पिष्टामलक रजन्याद्यैर्विरुक्ष्यैरां सपिण्डकम् | प्रक्षाल्य निर्मलैस्तोयैरन्ते गन्धोदकेन च || चन्द्रचन्दनकाश्मीरपिष्टेनालिप्य धूर्जटिम् | सोमं दुकूलपट्टाद्यैर्वसनैः परिधाय च || मुकुटाद्याभरणा प्रोक्ता विसृजैनाविधैरपि | दत्वा ब्रह्माङ्गसंघातं यथास्थानं विभोस्तनौ || इष्टसुधूपमारात्र्या दत्वा चमनमर्घ्ययोः | उद्भूतौ तु हविर्दद्यात्समुद्गमब्रह्मभिर्विभोः || ततस्ताम्बुलदानान्ते कन्यादिभ्यो बलिं क्षिपेत् | पश्चादावृतिसंपूज्य ब्रह्माण्यङ्गान्यनुज्ञया || तत्तत्स्थानात् समाहृत्य गन्धपुष्पादिभिर्यजेत् | मध्यं प्रागाद्यसाम्यान्तंमग्नीशासु रचायुषु || यजेद्विधिवदस्त्रं तु चातुर्दिक्षुदलाग्रतः | प्. ९) ततो धूपं समुत्क्षिप्य प्रोक्षितं हृदयार्चितम् | आरात्रिकं च परितो दीपाश्चावृतकल्पिताः || रक्षोघ्नं तिलकं दत्वा ललाटेषु च भस्मना | आदर्शं चामरं छत्रं यदन्यमपि मङ्गलम् || हृदा निवेदयेत् पूर्वं शिवं वाद्यादि मङ्गलैः | आरात्रिकप्रदानान्ते रात्रौ नीराजन क्रिया || कल्प्या तद्विधिश्चेह प्रसङ्गादुच्यतेऽधुना | महानसेऽथवाऽन्यत्र कृते गोमयमण्डले || पात्राणि हेमरौप्यादि कृतानि क्षालितानि च | न्यस्या तत्र न्यसेत् वह्नि कुण्डान्तेरारतेश्वरा || नोचेदावतितोद्ब्रह्मे करागुरुवर्तिषु | घृताक्तेषु ततस्तानि गवाद्व्यादि मङ्गलैः || वाहयित्वाऽङ्गनाभिर्वा यदि वा परिचारकैः | शिवाग्रे मण्डलं कृत्वा सदयोरेषु मध्यतः || नव * बापञ्च यद्वैकमुज्ज्वद्दीपसंचयात् | संप्रोक्ष्यहेतिनार्घ्येण हृदाधूपान्तमर्चयेत् || सामान्यवृत्तिसंभूतय * दीपास्समाहृताः | तदा नाभ्युदिनादग्नेस्संयोज्याहृत्यविन्यसेत् || पुरकोद * * क्तिभ्यां नीत्वा सद्यादि पञ्चकम् | तता पूर्वोक्तसंस्कारान् कृतोपमभ्रमयेद्विभोः || प्. १०) त्रिधात्रिस्येकधा वापि लवणाद्यैश्च हृष्टवत् | ततो भस्मप्रदानान्ते दीपान्तात् प्रक्षिपेद्बहिः || तत्रैव नित्यहोमं वा कुर्वीत समिदादिभिः | हेमरौप्यादि पात्रेषु यन्त्रिकासारपत्रिषु || नैवेद्याभ्याय संसिद्धि नैवेद्यं विविधं ततः | सोपस्कारविशेषेण सावाराय त्रिशूलिने || पानीयं च पृथक् दत्वा भस्तोद्बाहाय चन्दनम् | ताम्बूलं चन्द्रसंयुक्तं दत्वा चण्डायदापयेत् || नन्द्यादि परिवाराणां बलिं च परितोऽथ वा | परिवारतया यत्र बहिर्बाह्याङ्गसंस्थितिः || तदा बलि प्रदानान्ते नैवेद्यापनयादिकम् | दूर्वा पुष्पाक्षतं यज्ञ सूत्रञ्च परमेष्ठिनः || सौवर्णं वासकार्पासं दत्वा मूलाणुनादतः | पूर्ववच्छिवमावाह्य धूपमारात्रिकं नयेत् || जप्त्वा शक्त्या हृदा दद्यात् गुह्येप्यादिकया गिरा | गन्धाम्बु विधिना गुप्तं अस्त्रेण कवचेन च || गेय नृत्त स्तुति स्तोत्रैर्जयशब्दादि मङ्गलैः | प्रणामस्तवनाद्यैश्च तोषयेत् परमेश्वरम् || ततो होमाय लब्धज्ञो यायादनलसंश्रयम् | हुत्वा च तत्र विधिवत् बाल्या चमनपश्चिमम् || प्. ११) कृत्वाङ्गकर विन्यासो होमकर्म समर्पयेत् | कारयित्वोत्सवं नित्यं ताण्डवं च विधानतः || पराङ्मुखेन हस्तेन सदातादिव मूर्ध्निषु | दत्त्वार्घ्यमङ्गानुत्थाप्य हेतिमुद्रा प्रयोगतः || यथा स्थानं ततो शम्भोः अङ्गजालमुपाहरेत् | विसर्जनस्यापेक्षश्च शिष्टलिङ्गेषु सन्ततम् || भूयोप्यर्घ्य प्रदानेन शिवस्याप्युपसंहृतिः | गमिदं निरपेक्षं स्यात् स्थण्डिलादिषु सर्वदा || निरपेक्षं शिवं त्यक्ते लिङ्गशुद्धिर्विधीयते | निर्माल्यमन्यथा लिङ्गे पुष्पादिकमवस्थितम् || प्रतिमाया यजेद्देवं चतुःसन्ध्यामथाऽपि वा | पूर्वमध्याह्न तत्प्रातः सायं सायान्तकेषु वा || पूर्वमध्याह्न सायाह्नेषु पूर्व मध्याह्नयोस्तु वा | नियतात्मा यजेद्देवं गतिहंस ततो तदा || अष्टपुष्पिकाया सोव्यादि स्नपनान्तरम् | अशक्तो हीनवृत्तो वा सा च लेशान्निगद्यते || शिवासनं ततो मूर्ति मूलमङ्गानि पञ्च च | दानमेभि प्रसूतानां स्याच्छिवायाष्टपुष्पिका || अष्टपुष्पिकया पूर्व सस्वनं न समाप्यते | सायान्ते देवदेवेश देव्या सह समर्चयेत् || पुष्कलैर्गन्धपुष्पाद्यैरपूपाद्युपदंशकैः | समन्तात्पुष्पमालाभिरलं कृत्यसुविस्तरम् || प्. १२) पूजावसाने स्वगुरुं गन्धपुष्पपवित्रकैः | सम्पूज्य श्रद्धया नित्यं स्वेष्टलिङ्गविधे वरम् || स्वस्य धारणं लिङ्ग स्वेष्टमन्यत्परेष्वपि | स्वेष्टं स्वस्यैव फलदं अन्यदन्यत्फलावहम् || ब्राह्मण क्षत्रियोवैश्यश्शुद्रा वापि तदङ्गना | सौवर्णाद्यनु लोमाश्च स्वेष्टयागाधिकारिणः || अन्येष्वपि च पूज्येष्टा प्रदक्षिण जवात्मिका | सामान्यलिङ्गे पूजां वा नान्ये जात्यन्तरोऽपि वा || साधारणेषु लिङ्गेषु पराऽनुग्रह रूपिणी | पूजयेत्ततस्तत्र समयनाथकारवित् || अभिषिक्तस्ततो न्येव साधको दीक्षितोऽथवा | स सारणार्चये योग्या शिवतत्वादि तत्पराः || स्वेष्टलिङ्गा विधौ नष्टौ विधिनित्योत्सवात्मिका | चोदिता शिवपूजैषा सर्वमन्त्रसनातनी || सर्वतन्त्र प्रवेशोऽस्य शेष्यते शंकराय तत् | गोपनीया प्रयत्नेन प्राग निर्यागनिर्मभिः || अत ऊर्ध्वं समासेन वह्निकार्यं विधीयते | इति विजयोत्तरे त्रि सहस्त्रिसंहितायां शिवार्चनपटलः || सर्पार्चितोयागविधिः अथ सर्पार्चितो यागं कामायातो विधीयते | आग्नेययां कारयेत् कुण्डं वृत्तं वा चतुरश्रकम् || हास्तिकं मेखला सूत्रं योन्या चोपर शोभितम् | हस्तमात्रायता कुण्डं द्वित्रिवेदाङ्गुलोदयाः || मेखलास्तद्धनश्चान्तः कर्णमानाद्बहिः स्थितः | कुण्डिका तत्प्रमाणेन विस्तार सदृशं मतम् || द्विहस्तादि मानान्ता त्र्येष्ट विभाजिते | तेषु भातोङ्गुको ज्ञेयं स्तेन तम्मेखलां नयेत् || वसु मात्र ततिः कार्या दैर्घ्यतो द्वादशांगुला | गजेषु सदृशे योनि कार्य वा कुण्डसन्निधिः || कर्णपादववृत्तार्ध पुरः पञ्चाशयोगता | योनि कुण्डं भवेदेव द्योन्य हन्यद्योगिकम् || वसु भागं द्रुमादर्घं शभु क्रोध शशाङ्गकैः | त्रिभाग वृद्धितोमत्स्यै स्त्रिभिर्नैशाचरं भवेत् || दशांश वृद्धितो वृत्तं मग्रमादखिलकामदम् | षड्भासवृद्धितो मत्स्येषस शृच्चागनैनिलैः || पद्माभमेखलं पद्मं मर्दनं दण्डन स्थितम् | गायत्रियांगयिकदार कर्णात् द्युमानतः || आ कर्णां लोचने यष्टा पट्टनि * दि कांक्षिणाम् | स्थण्डिलं तदभावे तु यद्वा गोमयमण्डलम् || सम्पाद्या लोक्यदूलेन हेतिना प्रोक्ष्यवर्मणा | अभ्युक्ष्यास्त्रेण सन्तास्या खननोद्धारपूरया || समीकरणसेकौ च तथा कुट्टन पार्जरे | लेपदं कुण्डनिर्माणा परिधानार्चने तथा || प्राङ्मुखाभिस्त्रिरेखाभि रुदग्रेशाविनिर्मिता | वज्रीकरण भृङ्गादौ कर्तव्यौ मननासिना || * * त्यस्त्रेणा लेखया * * * भूषणं तथा | ततो विष्ठुतमध्यस्थं कृत्वा दिपेन विष्टरम् || तं मध्ये पूजया मन्त्री हृदा वागीश्वरा विभो | स्मृत्यादीशंशु तद्योगजवी मध्यवमि वा नलम् || गर्भन्या स्यां क्षिपेत् तस्याः परित्यक्ष्य सुरांशकम् | समेत्य वह्नि त्रितय मन्य स वा तत्रानु लक्षणम् || मन्त्रसंहिताया लभ्य धेनु मुद्रामृती कृतम् | रपूर्जितं कृतं कृत्वा यमकुण्डोपरित्रिधा || ततोऽपि शीणु मनलं * * सद्रव्यं क्षिपेत् | गर्भाधानाय सद्येन सम्पूज्य जुहुया धृतः || पुं * त्वा वामेन पूज्यशिरसा जुहुयाद्धृदा | इष्वावोषेण शिखया हुनेत्सुमन्त कर्मनि || तयै च लक्तरण्यङ्गानि दर्भे नाग्नेः प्रकल्पयेत् | प्. १५) निकृत्युद्घाटने दत्वा ततोऽग्नेर्जनन क्रिया || ततोग्निं दीपयेद्विद्वान् स्वसेन शिवं स्मरन् | नरे नेष्वातनुत्रेण तिस्रो दद्यात् तिलोहुतिः || ततस्सूतक नाशाय कुण्डमर्घ्येण सेचयेत् | आस्तीर्य परितो दर्भान् नासीनालालभानयेत् || सकृत् कृत्वा हुनेत् पञ्च समिधः पञ्च एव च | विन्यसेद्विष्टरस्तेषु ब्रह्मरुद्राच्युतेश्वरान् || मेखलासु च लोकेशान् रक्षार्थंकारि योजयेत् | रु(ई)शानानामकर्मार्थमिष्ट्वास्त्रेणाहुतीर्दिशेत् || नाम कुर्यात् ततो वह्नेः शिवाग्निस्त्वमिति ब्रुवन् | ततः स्रुक् स्रुवयोः शुद्धिर्विधेया याग कर्मणि || स्रुक् स्रुवौ वैकङ्कती कार्या यद्वा यज्ञ तरुद्भवः | सा च स बाहुमानाय सर्पाङ्गुलकृतानना || एक कर्णापि सद्वेति द्विमात्रा स च चतुष्किका | द्विसप्त दण्ड्यकूले तु चतुष्कलशशोभिना || द्विमात्रा वा षट् वृत्त घृतपुष्कर शोभितान् | पृष्टतोष्ठ दलोपेतकराचाकारमण्डलान् || कनिष्ठिका प्रमाणानि भागक्ताज्य निर्गमाः | स्रुवेगमचलोप्यण्यु स्वाधम षट्त्रिंशदंशकम् || आनेपोपि दैर्घ्यतो मात्रै तैरेवत्रस्त्र्यष्ट संमिधैः | प्. १६) अङ्गुष्ठमानकर्मास्य सक्र्मषाधारपुष्करः | द्विपुटं पुरतोऽन्यत्र गजमस्तकसन्निभम् || मूलं च कर्षया धारैः कर्तव्यो नाहतस्समौ | आकण्डरं कृशः कार्यो गोष्पालमिव कूलताः || कर्तव्यौ स्रुक् स्रुवापीथं सदा विश्वफलार्थिभिः | सर्व तन्त्रेषु सामान्यं विमानं चाहमश्वरः || स्रुक् क्रिया रूपिणी शक्तिस्स्रुवः साक्षान्महेश्वरः | तास्याभिदक्रियते होमौ ततस्तौ शुभलक्षणौ || कृत्वैवं स्रुक् स्रुवावद्भिः प्रक्षाल्येदं हनोपरि | भ्रामयित्वाथमग्रेण मध्यं मध्येन बर्हिषा || दूलर्मूलेन स्पृष्ट्वा सर्वे सर्वात्मनात्मनः | न्यस्तो परित्रिखण्डञ्च शिवशक्ति तयोर्यजेत् || ततो गव्यं सुपात्रस्थं परिशुद्धञ्च वाससा | आनीयाग्नौ प्रताप्योर्धे नाभेत्संप्लवौ नयेत् || दर्घाग्रद्वितयं मध्य ग्रन्थितं सत्पवित्रकम् | अनामाङ्गुष्ठयोगा एन्त्रया अनलस्संमुखम् || तं मन्त्रेण त्रिधा तद्वत् हृदयेनात्मसंमुखम् | तं मन्त्रेण त्रिधा तद्वत् हृदयेनात्मसंमुखम् || प्रादेशमात्रदर्भाग्रमाज्यमध्ये ततो न्यसेत् | नीराज्योदीत्य बर्हिर्भिः वक्ष्यर्थं व स्मरेत् || प्. १७) मध्यतोऽग्नि स मध्या तु सोमद्यात् पदद्वयम् | अग्निस्विष्ट कृतञ्चैव हुनेत् पक्षे सिते गुरुः || सितेतरेन्यधा किंतु सोमं हुत्वा रविं हरेत् | एवं कृते भवेद्वह्नि शिखाय शिव कर्मसु || ना शिवे शिवकर्माणि कर्तव्यानि कदाचन | ततो हेतोः शिवः कार्या प्रयुक्तेन हुताशनः || प्रवृत्तिरस्य बाटित्वा संस्कारानितरा नपि | गर्भाधानादि संस्काराः पञ्चभित्वा शिवागमः || त्रयाग्नेन न्यथा सिद्धा संस्काराः कृते पुनः | अभिचारादि कृत्येषु विज्ञाने नैव सिद्धये || अन्यथा सिद्धिसंस्कारे पर्णमन्त्रांश वात्माने | हुनेद्यसिद्धये दूदौ नाशयत्य विचरेणतम् || शैवा नामेव * * * होमः प्रोक्तः शिवानले | अन्येषां प्रागतस्तत्र शिवाग्नि * च्छिवात्मशः || मन्त्रं वै वैदिकायां च क्रियाभेदादि चोदिताः | शिवेऽनले नियुक्तश्चेत् स होतु वितिपात्रकृत् || अस्मिन्नवसरे वाच्यं हव्यकव्यादि लोतले | आवास्रित शिवे होम इति शास्त्रार्थ निर्णयः || अरणे संभवे योऽग्निना गर्भादि संस्क्रियाम् | गायत्री वारणी यस्मात् सन्ति तस्याः प्रजायते || प्. १८) अमन्त्रो योग भवेदग्निः शृकान्तादि सम्भवः | कर्तव्यस्तस्यसंस्कारः प~चगर्भानध्ः क्रमात् || एवं शिवानले सिद्धे विन्यसेत् प्राश्यनानलम् | तस्मिन्मूर्तिद्वयं नीत्वा व्यक्ताव्यक्त स्वरूपकम् || तत्र भूयः शिवं प्राग्वत् अन्यद्वा वरणान्वितम् | समित्सर्पस्तिलैर्ब्रीहिर्यवस्योदिनादिभिः || समस्ते रथवार्यस्ते होमकार्यो निजेच्छया | आज्या भावात् तिलैर्होमः कर्तव्यः कृष्णपर्जसा || शिवदिदांशके होम स्वङ्गानां ब्रह्मणामपि | एवं हुत्वा स्वमन्त्रोभिश्चदूतांबुलपञ्चिमम् || मन्त्रयित्वा ततो भस्म शिवं प्राग्वत् विसर्जयेत् | वह्निं संरक्षयेन्नित्यं चतुर्व्याहृतिहोमतः || यद्वा विसर्जयेद्वह्निं पुनः संस्कृत्य योजयेत् | प्रत्यहं कुण्डसंस्कारो भस्मापनयपूर्वतः || ततो मण्डलकं कृत्वा गन्धपुष्पादिभिः क्रमात् | रुद्रादीन् परितोऽभ्यर्च्य बलिनस्तोषयेत् तथा || प्राच्यां रुद्राः स्थिता याम्ये मातरः पश्चिमे गणः | यक्षसौम्ये ग्रहास्सर्वे सप्तार्चिषु सुर स्थितः || पालाश्यानीन्द्रतौ वायौ नागनक्षत्रराशयः | तथा विश्व * * चाता क्षेत्रपो वायु दक्षिणे || प्. १९) यथा स्थानं स्थितो तेजः सन्तर्प्य बलिभिः शुचिः | उपसंहृत्यतान्यायात् सार्ध्यपात्रः शिवान्तिकम् || समर्पिता क्रिया पुनरष्टा सकृच्छिवम् | विसर्जये तत्रकदेवं तत् प्रकारः पुरोदितः || विसर्जयित्वा देवमग्नि मध्ये स्थितं पुरा | चरमं लिङ्गमध्यस्था * * निमित्तकेव्य च || रात्रौ प्रजागिरं हुत्वा शिवार्चा परिकल्प्यते | निशाची भवनं पूजा गिरं हुत्वाशिवार्चापरिकल्प्यते || निशाची भवनं पूजामित्याह भगवाञ्छिवः | अग्निकार्यं समाप्तेऽस्मिन् कार्यो नित्योत्सवो विधिः || सकलाराधन क्रमम् || अथ वक्ष्ये विशेषेण सकलाराधन क्रमम् | स्वतः प्रधान मङ्गञ्च द्विधा तत्परिकीर्तितम् || घरिवारियुतानाञ्च द्वितीयं तद्विवर्जितम् | पुनस्तद्द्विविधं ज्ञेयं मलयाचल भेदतः || चल लोहमयं प्रोक्तं शैलजं रत्नजं तु वा | पटादि लिखितं बेरं मृण्मयं काष्ठजं तु वा || एत देव स्थिता कार्यं पट चित्रविवर्जितम् | चित्रहीनं चलं शैलं चित्रतं चेत् स्थिरं भवेत् || चित्रितां चार्घ चित्रञ्च तथाऽऽभासमिति त्रिधा || प्. २०) चित्रं सर्वाङ्ग दृष्टं स्यात् दर्भमर्भाभुगदर्शनम् | निम्नोन्नतत्पहीने यत् पटभीमादि कल्पितम् || चित्रभासमिति प्रोक्तं दैविकं मातृषु तथा | कर्मार्च सहितं पूज्य चित्रयुक्तं यदाखिलम् || मणिलिङ्गं तु वा पीठं रूपददर्पणं तु वा | कर्मार्चस्वानुके योज्यं केवल स्थण्डिलं तु वा || मूले बेरो च्छ्रयोत्थाय द्विभज्याथनवां स्मृतम् | उत्तमादि प्रभेदेन नवधा समुदीरितम् || त्रिमात्रादपि पात्रं वा पञ्चापञ्चाङ्गलान्तकम् | पदाद्युष्णीषपर्यन्तं मानं द्वादशधा मतम् || द्वारार्थं नवधा कृत्वा भागभान्योत्तनादिकम् | नवधामानकददिष्टुं धामपदार्थमेव वा || आयादि षट्शुभोपेतं अंशैरंगुलिभिस्त्वया | मूलबेराकृतिं श्रेष्ठं कृत्वा बालेन्दुशेखरम् || सोमास्कन्देश्वरं वाथ यजमानेन लब्ध वा | स्वतन्त्रेशुद्ध नृत्ताङ्गं नैवेद्यान्तं तथैवरे || स्नानादि नित्यानिर्वृत्य प्रविशेद्बाह्यमण्टपम् | विशुद्धभूतले तत्र सुखासीनो पदं मुखम् || भूतशुद्धिं पुनः कृत्वा दिव्यदेहं विचिन्त्य च | आप्लाव्यामृत धाराभिरन्तर्यागं विधाय च || प्. २१) स्नानशुद्धिं ततः कुर्यादस्त्र प्राकार कल्पयेत् | कवचेनावकुण्ठ्याथ वेदिकाकल्पनादपि || द्रव्याणि शोधयेत्पश्चात् पूजार्थं कल्पितानि तु | सामान्यार्घ्य जले प्रोक्ष्य स्पृशेत् सर्वार्थमन्त्रितः | ततस्तु शोधयेन्मन्त्री ओंकारादि नमोन्तकात् | सकृता नादान्ता शुद्धं तत्वं समाश्रयात् || गन्धपुष्पाक्षतोपेतं सामान्यार्घ्यं तु हे निरे | कल्पयित्वा तु पाद्यादीन् क्रमशः परिकल्पयेत् || हेमरूप्यादिके पात्रे शंखं वा यत्रिकास्पतेः क्षालिते हेतिना तोयैः पूरितो त्रितये पुनः || चन्दनो रुधिरसंयुक्तं पुष्पोदकमथाऽपि वा | पाद्यं संकल्प्य पादाभ्यां सद्योजातेन पावकम् || लवङ्गकुटिकर्पूरं पुष्पजातिफलान्वितम् | मुखेष्वा चमनं धीमान् कल्पयेन्मुखमन्त्रितः || क्षीरतण्डुलसिद्धार्थं कुशाग्रं समनःशिलम् | यबेरबहितं चार्घ्यं केवलं गन्धपुष्प युक् || कल्पितं संहिता मन्त्रैः कवचेनावकुण्ठितम् | क्षीरं क्षीरसुनाकारं मुद्रया संप्ररोचयेत् || अथ वा वर्धनी पात्रे संकल्प्य चण्दमुद्बुधः | अर्घ्यपात्रोदकेनैव प्रोक्षयेद्द्वारकं बुधः || प्. २२) सदा घण्टारवैस्सार्धं द्वारपालान् समर्चयेत् | द्वारदक्षिणशाखायां तिगर्भां च वामके || कालीकलीगकन्यां च ग * मूर्ध्वे सरस्वतीम् | नन्दिश्यामनिभास्त्र्यक्ष चतुर्दण्डमण्डितः || अभयं सुचिमुद्राञ्च वामदक्षकरद्वये | वरावृताङ्गुलिं वामे तदान्तोमरमेव वा || काली कुङ्कुम वर्णाभो नेत्रहस्तं च नन्दिपत् | महद्विर्ग पयदींश युतं तु क्षुकर द्वयम् || भस्मचाभयसंयुक्तं वामपाणितले द्वयम् | जटाकूटसंयुक्तमाव्याल यज्ञोपवीतिनौ || दंष्ट्राकरालवदने नन्दीकालो विचिन्तयेत् | यद्वा द्विभुजयुक्तं चेत् अन्यैः पूर्वोक्तवत्सुधीः || रक्तवर्णं चतुर्बाहुं गजवक्त्रं स्वदन्तकम् | सलस्सलकुठाराक्षा मालाभसित त्रिलोचनाम् || वागीशं श्वेतवर्णाभं चतुर्हस्तत्रिलोचनम् | सदृशपुस्तकं चाक्षमालामथकमण्डलम् || धारयन्ति प्रसन्नास्या जटामकुटमण्डिताः | गन्धादिनार्चयेद्द्वार पालान्वेतान्वनामभिः || दिव्यन्तरिक्षभूमिष्ठान् पुष्टिपुष्टांघ्रि निग्रहैः | अस्त्रेणोच्चाटयेद्विघ्नान् वामशाखापसारितम् || प्. २३) प्रविश्य गर्भगेहं तु विन्यस्यास्त्र दुर्बरैः | तद्विघ्नोच्चटमार्थं तु महाप्यर्णां प्रतासयेत् || पार्परो परिमृष्ट नास्तिक प्रतिलोमकैः | अदर्शनार्थं तत्काले क्षिपेद्यवनिकाकांबुधः || वास्तोष्पतिञ्च सम्पूज्य देवदेवश्य पारथम् | प्रणम्य दण्डवद्भूमौ पूजां विज्ञाप्य देशिकः || पूर्वसन्ध्यार्चितां पूजां गायत्र्याभ्यर्च्ययो मरुत् | ब्रह्मभिर्माल्यमादाय चण्डेशाय निवेदयेत् || आद्यं चेद्धोरमन्त्रेण शोधयेद्दासकादिभिः | शुद्धं कृत्वा तु तद्देवं जलेनार्घ्याम्बुना सह || न शुन्यमस्तकं देवं कुर्यामन्त्रि कदाचन | आधाररूपिणीं शक्तिं गोक्षीरधवलप्रभाम् || चतुर्भुजं त्रिणेत्रञ्च पाशांकुशवराभयम् | वेदपद्मासनासीनां ततो नन्दं प्रपूजयेत् || दशबाहुं चतुर्वक्त्रं कुन्देन्दु सदृश प्रभम् | खड्गखेटधनुर्बाण कमण्डलसूत्रिणाम् || वराभय करोपेतं शूलपङ्कज पाणिनम् | आसनाम्बूरुहात्मानं शक्तिबुद्धाब्धिसंभवम् || धर्मज्ञानञ्च वैराग्यमैर्श्वर्यं चरणा नमून् | सिता काश्मीरताम्बूल चारुं सिंहाकृतिं स्मरेत् || प्. २४) अग्निरक्षो मरुत्सर्पाकष्ठासु च विपर्ययात् | पूर्वादि चित्र वर्णांञ्च गात्रकान् परिकल्पयेत् || अत ऊर्ध्वं चिते तत्र रक्तपाण्डर सन्निभैः | नैर्-ऋतेशानयोर्न्यस्य नालंग्रथ्यन्तकं स्मरेत् || तदूर्ध्वेष्ट दलं पद्मं कर्णिका केसरान्वितम् | केसरेषु च वामाद्या सूर्यकोटिसमप्रभम् || चतुर्भुजास्तथैकस्य पद्मावराऽभयान्विता | पूर्वपादे चाभिमुखः कर्णिकायां मनोन्मनीम् || ज्योत्स्न भावे मण्डलीनीकं स्वस्वरूपेण चिन्तयेत् | मण्डलाधिपतिं देवान् ब्रह्मविष्णुहरात्मकान् || अथोर्ध्व व्यापिनीं शक्तिं पूजयेत्कुटिलात्मिकाम् | व्याधि शुद्ध विद्यान्तं व्याप्तं शिवासनम् || स्नानात्पूर्वं यजेद्गन्ध पूष्पधूपैर्विचक्षणः | मण्डलत्रयसंजातां व्यक्ताव्यक्तस्वरूपिणीम् || मूर्तिमीश्वरत्वांगी मूर्तिमन्त्रे प्रपूजयेत् | तत्तद्वेरानुसारेण विद्वान् देहं विभावयेत् || ब्रह्मणि ब्रह्मभूतं या तन्यासाङ्गं स्वस्वदेशिके | मूर्तयो बहुधा शम्भोस्तत्तत्कर्मानुसारतः || दृश्यन्ते निष्कलस्यापि साधकानुग्रहे प्रिया | निरोधनं पुरुषेणैव कवचेनावकुण्ठनम् || प्. २५) अमृतीकरणं पश्चात् मूलमन्त्रेण देशिकः | इत्येवं पजक्ति संस्कारसंस्मृतं परमेश्वरम् || उपचारैर्यथा भाव उपदिष्टेत् समाहितः | सोमास्कन्देश्वरंश्चेत्तु तयोरावाहनादिकम् || विदध्यात् स्वस्वमन्त्रेण स्वस्वव्यक्तगुरुत्तमाः | ताम्बूलं मुखवासं च भक्तितो हृदयाणुना || रणपूजात्म तं मध्येषु प्रयत्नतः * * * | स्कन्दोमा सहितं देवं * द्येभ्यर्च्य समन्ततः || ईशपीटकवं रुद्रं ऊर्ध्वन्नेद्रे कुङ्कुमवन्नरः | दक्षिणे जनवद्घोरं सौम्येव कुसुमं भवेत् || चन्द्रांशु निर्मलं सद्यं पश्चिमे तु विचिन्तयेत् | एक वक्त्रा त्रिणेत्राश्च जटामकुटसंयुतम् || हृदयाद्धृदयं श्वेतं आग्नेययां तु हृदा ततः | शिरसं शिरसैशान्यां शिरसा कनक प्रभम् || नैर्-ऋतेयां शिवाङ्गं च * * * शिखरारुणम् | सर्वाङ्गं कवचं कृष्णं वायव्यां कवचेन तु || नेत्रं कपिलवर्णं तु शिवस्थानेन पूजयेत् | पूर्वाद्यादि चतुर्दिक्षु हत्रिकालाग्नि सन्निभम् || एवमावरणं यष्ट्वा पुनर्देशं प्रपूजयेत् | देवी स्कन्दादि युक्तानां चेराणाममदङ्गं च सर्वेषानावृतपूजनम् | प्. २६) स्नानं प्रोक्षणं वाऽपि कुर्यान्नित्यार्चना विधौ | नैमित्तिके प्रभोः कुर्यात् स्नपनं मण्डपादिषु || परिवेष्टक्रमं कृत्वा गेयनृत्तादिसंयुतम् | विशुद्धतैलं भस्मार्ध हस्तथा दुर्वाङ्कुराक्षतम् || पिष्टलक्षणं सारं र * * * मलकादिवत् | वर्णोनं च वच्छूद्राद्यु पिष्वादि परिकल्पयेत् || सुगन्ध वस्त्रपुष्पाद्यमन्यद्वांगला हिम | विप्राद्यैर्वाहयित्वाभि शंखतूर्यायवादिभिः || स्नपनाद्योग्यदेशे तु देवदेवादिमं बुधः | संप्रोक्ष्य कैतकन्नम्रती कृत्यमुद्रया नत्वा पर्यापकम् || पश्चात् ताम्बूल मुखवास युक् | शैलं संस्थाप्य देवाग्रे संप्रोक्ष्याभ्यर्च्य हेतिना || तैलाद्यं वस्त्रभिः पुष्पैः बिन्दु देवस्य मूर्धनि | दत्वाऽथ पादयोर्बाहौ मूर्ध्निदूर्वाङ्कुराक्षतैः || पश्चात् पिष्टावनोपर्ण द्व्यन्यलं सारं * दोदकैः | उद्धृत्य देवं मूर्धानं अभिषिच्योदकैः शुभैः || रजन्या लेपयेत्पश्चात् पुष्पदानान्तरी कृतिम् | ततो ग्रामार्चनं कुर्याद्देवाग्रस्सापिनैश्शनैः || वर्णकश्चैव वज्राद्यैः लाजिकास्त्रात्र चन्दिना | देवत्वा नेनमीशः स्यात् शुद्धवस्त्रे प्रमृज्य च || प्. २७) वस्त्रमाभरणं गन्धं माल्यं च धूपदीपकम् | परिवा * निवोद्येथ कुर्यादारात्रिकं शुभम् || सप्तपञ्चति पात्रस्थैर्दीप स्थपकैनुस्थरैः | प्रभूतोपिष्टसंस्थैराजिनी * * द्विजातिभिः || सर्वालंकारसंयुक्तैः देवाग्रे दक्षिणे यथा | विश्वाधामस्त्रमावाह्य स सार्पपरिवेशितः || मध्यादीशानपर्यन्तं गन्धपुष्पाभि पूजितैः | हस्त द्विकेश्वरं ब्रह्मं प्यरन्ध्रति ऋच्यरुन्धतीवतैः || मुदितैर्गोस्तनेनैव रथस्यादि मनादिकैः | दत्तेथमङ्गलैस्स्तोत्रैरातोद्य ध्वनिमिशितैः || पादतोष्णीषपर्यन्तं पुष्पाणि स तु हेतिना | उच्चैरुच्चैस्तरस्सम्यक् नीचैर्नीचैस्तरावपि || देवदेवस्य विशाखेन सह भक्तियुतो गुरुः | सोमास्कन्देश्वरं चेत्तु केवलं देवमेव वा || दत्वा चाचमनार्घ्यं च भादायाभि मन्त्रितम् | अंगुष्ठानामिकाभ्यां तु मथि * र्पधिपोपरि || त्रिं कृत्वा प्रक्षिपेद्दीपे तस्य विघ्नोपशान्तये | क्षिपेन्मूर्ध्नि ललाटे च गले हृदि तथांवयोः || नाभौ पाद द्वयोः पृष्ठे ककुद्देशे क्रमाद्बुधः | देव्या ललट गलयोस्स्कन्दे देव वदा चरेत् || प्. २८) भस्मशेषं ततो दद्यात् चण्डायाऽथ प्रसाधिनाम् | शंतदीपनिवात्राणि वाहयित्वाङ्गनादयः || महापीठाग्रतो वापि तटाके पादवाग्रतः | क्षिपेयुः शंखतूर्याभि दिनादैर्बहुदीपकैः || श्रीमान् पञ्चमहाशब्द दर्पणच्छत्रचामरैः | गेयान् रक्तस्तु तैस्स्तोत्रैः दामभिर्नन्दयेत् || प्रभूतं तु हविर्दद्यात् सर्वोपचारसंयुतम् | प्रदापयेत् प्रभूताद्यैः निवेद्यानि पृथक् पृथक् || हेमरूप्यादि पात्रेषु पादादारभ्य पत्रिषु | दघ्यन्न पायसादीनि शाकपर्यस्तकानि तु || दद्यादाचमनं चान्ते हस्तोद्वर्तन पूर्वकम् | ताम्बूलं मुखवासं च जपं कुर्यात् ततो गुरुः || पूजां निवेद्यदेवाय तृप्तवाञ्छेमितं फलम् | अन्वक्षमन्यतन्त्रेषु ज्ञात्वासम्पूज्य चाचरेत् || एवं नैमित्तिके पुण्यं सर्वदुर्भिक्षनाशनम् | ज्वरग्रहमहामारी प्रमुखा नपि नाशनम् || अभ्यङ्गनादि निर्वाच्या रहितस्सेव चाम्रता | द्ये द्रव्यैय नीराजन मथवस कल्पना लेपनं च पुष्पम् || धूपं च दीपहरविदनहविरमुदं हरेत् | पुन * * मदानां गेयचाद्यसानृत्तं तिलकतसुरण मात्रिकान्ते च पञ्च | प्. २९) ? पञ्चनादि पस्कृति ? रथ मुकुरंच्छत्रं दानं जपो देवासवस्तत् | ? पदयजनपरिति नमस्कारं द्वात्रिशत्यते शिव यजनविधौ ? चोदितास्ते परेश ज्यष्ठशृ क्वचित्षो साक्ष्यदिवात्र पञ्चास्यम् || इति विजयोत्तरे सूत्रसंग्रहे त्रिसहस्रसंहितायां सकलाराधनपटलः || अङ्कुरार्पणम् अद्यते संप्रवक्ष्यामि संक्षेपान्मङ्गलांकुरम् | तदङ्कुरञ्च मूलं स्यात् पुंस्याकाममहामरुः || स्थापनो स्थापने तीर्थ संस्थानेत महोत्सवे | दमनोत्सव यागेयं चातुर्मास्य विधावपि || अन्यस्मिन्नपि कल्याणे विदध्यान्मङ्गलांकुरम् | द्विविधं तत्समुद्दिष्टं व्यक्ताव्यक्तविभागतः || तत्तत्कर्म दिनात् पूर्वं न च सप्तेषु वह्निषु | तमिनेषु च या बीजा नाथव्यो व्यक्तना महत् || प्रत्यासत्यकालस्य स जा बीजपुरणम् | फलपल्लवसंयुक्तं नालिकेरप्रसूनकम् || पालिकादिषु संस्थाप्यं खण्डितमुखाक्षतैः | पवित्रैर्वर्णकैर्वाथ साधाराङ्कुरुवत्तरम् || प्. ३०) व्यक्ताव्यक्तं च मित्युक्तं अन्यद्भूताङ्कुरात्मकम् | निर्दिष्ट दिवसात्पूर्वात् रात्रै देवांकुरार्पणम् || उक्त ऋक्ष क्षपायां तु मर्त्यानां मङ्गलांकुरम् | मृतकुम्भादि वत्वेन कालात्मानं यजेद्दिनम् || पाली घटिशरावाख्यास्तदाधारः त्रिधा मतः | हेमजास्तारजस्ताम्रं संभव त्रयमत्रयन्तु वा || प्रत्येकं कल्पयेदष्टौ चतुरो वा स्वशक्तितः | तद्वर्तकं समासेन वक्ष्ये तं मानपूर्वकम् || अंगाङ्गुलं समारभ्य व्योमाङ्गुले विवृद्धृतः | विंशत्यन्तं विशालोच्च तत्क्षेत्रस्य समीरितम् || एकाशीति पदं क्षेत्रं प्रविभज्यसमाङ्गणम् | ओष्टस्यदन्तधानां तुङ्ग मूर्धादि तत्समः || व्योमाग्निलसक्षांशैः क्षेत्रव्यासो धरान्तकम् | नवसप्तेषु कोष्टेषु पालिकार्णा गताब्जवत् || दण्डं त्रिभागविमलं तत्पादं सप्तभिः पदैः | पालिका वर्तनं प्रोक्तं शरावाकृतिरुच्यते || पीनोष्ठं तत्र पैतोक्तं येश्च श्रावससंहृदम् | चतुरंशोनताशोच्चं किन्तु पाली प्रभा मतः || आस्यधृकलशाकारं दण्डपाद यथाक्रमम् | शिवव्योमरथाग्नीन्दु भावोच्च भवरांगितैः || प्. ३१) अहं वेद फलीन्द्रार्पी मानभागैस्सुविस्मृताः | वर्तयेत्कलशाकारमुक्तमानेषु भित्तिषुभिः || मुखं पादं च तन्नाभं घटयेदति सुन्दरम् | आननाग्नि चतुर्दिक्षु * * रिद्व्यङ्गुलेन तु || घटिका निगदृह्येवं वक्ष्ये सूपन क्रमम् | पदाद्येश्वर पञ्चाशत् कृत्वा विष्टाक्तसमत्रतः | मध्य कोष्ठवृतं बाह्ये रेखान्तं लेपयेत्पदम् || पूर्वपश्चिमवासोस्तु बहिःकोणपदाष्टिके | संस्थाप्य येच्छरावार्णि तदन्त पालिकाष्टकम् || अर्काकीपाश चन्द्रेषु तदश्च द्विपगस्थितम् | संस्थाप्य घटिका चाष्टौ पादानामष्टके क्रमात् || भद्रसंस्थापनं प्रोक्तं क्षुद्रस्य विधिरुच्यते | तत्वैर्विभज्य तं क्षेत्रं मध्ये पद चतुष्टयम् || संस्थाप्य लेपयेद्बाह्य रेखातमभितं पदम् | पदद्वयमथैकैक दिक्षु कोणेष्ववस्थितः || शरावपालिकाकुम्भा क्रमादीशानतो न्यसेत् | उक्तं मानव कल्याणैः पालिकापञ्चकं क्वचित् || क्षेत्रेनैव पदेनैवं दिक्षु कोष्ठ चतुष्टयम् | पुत्रकालानुरोधेन निश्चित्येक मतः क्रमात् || शूलास्त्रं चण्डकुद्दालं समस्त व्यस्त योगतः | प्. ३२) वस्त्रादिभिरलंकृत्य यथारोप्य रथादिषु | स्नानैः शुक्लाम्बरैः शैवैः सोष्णीषैस्स साधनैः || धारयित्वाङ्कुरा धारा नग्रतः शार्धमेधसे | आकीर्णं रुद्रकन्याभि रुद्रतदासिभिरावृतम् || ब्रह्मघोषसमायुक्तं हरिशब्दसमाकुलम् | संगीतनृत्तवादित्र वेदिभिर्ज्येसवैदितम् || च्छत्रचामरसंकीर्ण धूपदीपैस्समायुतम् | नानापरिणोपेत देवस्या नृपतेरिवा .. || वास्तुं प्रदक्षिणीकृत्य प्रासादं वा पुरादिकम् | नीत्वा सरित्तटां शुद्धामुद्यानं चैत मेव च || यद्वा प्रदक्षिणस्थानं प्रागुत्तर मुखस्थितः | संप्रोक्ष्य भूतलं तत्र गन्धतोयेन भेदिना || नवखण्डं प्रकल्प्याथ समध्ये साधारणात्मके | साद्यकोष्ठेऽथवाभूमिं अर्चयित्वा स्मन्त्रितः || अस्त्र मूर्तिञ्च कुद्दालमपि संपूज्य हेतिना | खात्वा मृदं समाहृत्य पात्रेषुस्खालिकादिषु || अतर्य द्वैस्सद्वस्त्रैरभ्यर्च्य हृदयेनताः | प्रविशेदालयं पश्चात् वाहयित्वा गजादिभिः || वास्तुं प्रदक्षिणं पश्चात् यदद्या पूर्वदा हृदः | अन्त्रं परीक्ष्य धाताय मूर्तिकां वा प्रदक्षिणम् || प्. ३३) यात्रा पुरस्तद्यदि वासो मे सोमार्धशेखरे | अन्यस्मिन्न न पोदेशे मण्डपादौ विनिर्मिते || मण्टपेऽथ विना नित्ये बीजनिर्वापमारभेत् | घट्टस्य घटिकादीनां मध्ये तदभिमतं क्रमात् || आसनं कल्पयेत् पश्चात् पद्मशालिभिस्तण्डुलैः | लाजतिलैश्च सन्दर्भ प्रस्थान फल पल्लवैः || अलंकृत्यासनं मध्ये पूजयेत् प्रणवासनम् | न्यस्त्वां सर्वात्मनां मध्ये चन्द्रक्ताम्भमनोहरम् || तन्तुना वेष्टयेद्गन्ध वारीणांग चलावधिः? | स्रग्वस्त्र भूषितं हेम चन्द्रमण्डलगर्भितम् || पिधानं कूर्चसंयुक्तं इन्दुमूर्ति मयं परम् | दूर्वा पञ्चांकुरां चण्डा मालाभिस्समलंकृतम् || दूर्वापुष्पाक्षताश्चैव कुशानां चण्डपूजिताः | अष्टमूर्तिकया पूर्णा पूर्णाङ्क यमलाहरान् || सटपाली शरावास्तु विन्यसेदनुपूर्वशः | प्रोक्षयित्वाथ पुण्याहं गन्धार्घ्य जलबिन्दुभिः || सिताग्नितोमसन्ताना मृत्ये प्रत्ये बटोदरे | कुन्दपुष्पनिभं सौम्यं कुम्भद प्रसवास्पदम् || प्रत्यङ्वदनसंकल्प रोहिण्यां सप्तवामकम् | शब्दं मात्रतत्वान्तं व्याप्ति कर्मसमर्चयेत् || प्. ३४) स्थाणुना गन्ध पुष्पाद्यैः दत्वान्ते पायसं हविः | ताम्बूलं मुखवासं च सोमा मन्त्रयेत् पुनः || ओं चन्द्र चन्द्रिकया जालसंभुदित जगत्त्रयम् | बीजान्यत्फलार्प्यर्प्यै समादिमुखं कुरु || चातुर्वमर्दे दण्डं महेशासु * * * * स्तु | शक्तिसंभवेषु संपूज्य लाजा स पमुद्गानिमाषशाल्यासकादि च | स तिलान्यादितश्शक्यस्संगृह्येकमङ्गमः(म्) | पात्रस्थ क्षीरसंस्थाप्य मनप्पामोबशक्तिदम् || प्रोक्षयित्वास्त्रमन्त्रेण समालभ्य हृदाणुना | अभ्यर्च्य सोमबीजेन धेनुमुद्रां प्रदर्शयेत् || बीजान् निर्वपेत्पश्चात् स्वस्वमन्त्रेण देशिकः | आवाह्य च वरं शैव सिद्धान्त पदवर्तिभिः || वादयेदपि वा ब्रह्म निष्ठातैर्वेदनेषुतैः | शंखकम्बलवादित्रैः स्तोत्रमङ्गलवाचकैः || ताम्बूलं पुष्पकं दत्वा मङ्गलांकुर सेवितम् | ध्यायन् पूरिता कुम्भं कुशादिकमनन्तरम् || नितरांबबा पुरैर्चन्द्रकुम्भ हृदं शुभः | प्रोक्षयित्वा सुखं बीजं सिंचन्निवसुधाकणैः || पूजयित्वा पुनर्देवं रोधयित्वा क्षताय च | तोषयित्वा कुण्टकालयोक्तन्न मुद्रकादिभिः || प्. ३५) यत्रैवं क्रियते देशे कालदेशः प्रवर्षति | ईतयो नैव वर्तन्ते तत्राङ्गं ककथा न्यसत् || कदाचिद्भुविदम्पत्योः न भवेद्विरहव्यथा | किंतुर्बबहुनोक्तेन मयबीजाङ्कुरो धनम् || सदैव सर्वजन्तूनां वर्धन्ते काम्य तत्क्रमा || इति विजयोत्तरे त्रिसहस्रसंहितायां अंकुरार्पण पटलः || शिवोत्सवविधि पटलः अथ वक्ष्ये विशेषेण शिवोत्सव विधिक्रमम् | अज्ञान मलसंलग्नात् जन्तूनुद्धृत्य बन्धनात् || प्रसूतिं कुरुते तेषां ज्ञानस्येत्युत्सवो मतम् | उद्भूत सृष्टिकारित्वाच्चाथ दुःखनिवारणात् || नित्यो नैमित्तिकः काम्यस्त्रिविधस्स तु कीर्तितः | नित्यपूजा वसाने तु यत्र * तो नित्य उच्यते || चैत्र मासादि मासेषु तत्तन्मासादिना विधिः | राज्ञां जन्मान्तनक्षत्राद्यन्तो नैमित्तिको भवेत् || प्रार्थितार्थ प्रसिद्ध्यर्थं कृतं काम्यं विधिर्बुधः | स्वरूपेण तयोर्भेदो यन्नैमित्तिक काम्ययोः || तस्मान्नैमित्तिकोक्तिर्या काम्योक्तिरविधा दयेत् | त्रयाणामपि चैतेषां नित्य पूर्वमुदाहृतम् || आद्यन्ते परमेशस्य वक्ष्यते नैमित्तिकोत्सवम् | प्. ३६) चित्राविशाखमूलाश्च चोत्तराषाढ दिनान्तकम् | तथा श्रवणपुषाथाऽश्विनी कृत्तिकान्तकम् || आद्या पुष्यमघार्क्षान्तमुत्तरान्त मनु क्रमात् | प्रकुर्यादुत्सवं प्राज्ञो मेषमासादिषु प्रभो || आर्द्रान्तं सर्वमासेषु ज्येष्ठेषु भ्यन्तमेव च | राजाभिषेक निर्याणं त्रिर्जन्मर्क्षावसानकम् || लोकदेव प्रसं ऋक्षं नीव्यन्तमपि बुद्धिमान् | चक्रवर्ती महाराज्ञो यत्र वारोचिते मनः || तद्दिनान्तञ्च तल्लिङ्ग प्रतिष्ठाभान्तमेव च | सौरमासः प्रशस्तः स्यात् चान्द्रमासो प्रशस्तिकाम् || तीर्थर्क्ष द्वयसंप्राप्ते एक मासे परं वरम् | यत्र योग बलं पूर्णं योगो यद्वानुकूलतः || पूर्वस्मिन्नपि कर्तव्यो यथा वित्तनुसारतः | स्नायादत्रमहादेवः तत्र पर्वप्रधानतः || संवीक्ष्य कल्पयेत्तीर्थं उक्तां संक्षेपाश्च योस्तव | ध्वजा रोहस्तथा तीर्थमेक मासे द्वयोस्तु वा || अन्त्यमे तद्दिनं श्रेष्ठं पूर्वं चेत् कर्तृनाशनम् | एकत्रिपञ्चसप्ताह नवाहानु दिनेषु च || तथा पञ्चदशाहेषु नामान्यत्र यथाक्रमम् | शैवं गौणं विभूतिञ्च भौवनं दैविकं तथा || प्. ३७) पैतृकं विजयं चेति भिद्यन्नथ त्रिधा पुनः | पुष्कलं विजयाख्यं च केवलं च क्रमेण तु || निर्दिष्ट दिवसात् पूर्व रात्रौ यत्राधिवासनम् | भवेद्बिम्बोत्सवो यत्र केवलान्तं विनिर्दिशेत् || तदेव भ्रमणिमाहुर्वशात् पक्षोत्सवादिषु | ध्वजारोहणपूर्वादि भेदैर्भिन्नास्त्रिधा पुनः || शैवं भौणं विभूतौ च वर्जयेत् केतुरोहणम् | भौवना द्विजयान्तौ च ध्वजारोहणमारभेत् || तत्रोक्त दिनमात्रे च द्विगुणे द्विगुणे क्रमात् | अंकुरार्पण पूर्वं च कारयेदुत्सवं सुधीः || ध्वजारोपयित्वाह्नि भेरीं सन्ताड्य तं निशि | उत्सवस्यादि रात्रौ तु यत्रस्यादंकुरार्पणम् || ध्वजारोहणपूर्वं तु विजानीयाद्विचक्षणः | पूर्वं निधिस्समुक्ता स्यात् भेरीं पश्चात् ध्वज क्रियाम् || कृत्वां कुरार्पणं यत्र कुर्याद्वै पूर्ववन्निशि | भेरी ताडन पूर्वं स्यात् रात्रै चैवांकुरार्पणम् || ध्वजारोह दिनात्पूर्वं द्यासादर्वाक् शुभे दिने | दारु संगहणं कुर्यात् यथा तेरनुस कर्मणि || अनुरूपशमेपेतं वनमुद्यानमेव च | प्रविश्य पूर्वरात्रै तु देशिकः शिल्पिभिस्सह || प्. ३८) भूम्यस्त्रेण समायुक्तं चण्डनाथसमन्वितम् | वृक्षं संपूज्य सन्तर्प्य कौतुकं बन्धयेद्धृदा || ततः प्रभाते विमले शूलास्त्रसहितो मुरुः | पूर्ववत्पूजयित्वाथ विसृज्यवनदेवताम् || वृत्तात्तेन कुठारेण च्छीरद्या मृत्युजितं जपन् | शिल्पिभिः च्छेदयेत्पश्चात् वास्तुविद्याविशारदैः || पादं विलक्षयेत् तस्य शुभाशुभ विभेदतः | अन्तर्न्यत्तत्पलाशांबुमरुद्दिक्षु न शोभनः || पातो वनस्पतेः शिष्टं दिक्षु पादसुशोभनः | देशिकं पूजयेत् पूर्वं वस्त्रहेमांगुलीयकैः || दैवज्ञं पूजयेत्पश्चात् ताम्बूलं दापयेज्जनैः | एवं सग्रीषु वृक्षादीनारोप्य शकटादिकैः || कर्मशाला निवेश्याथ विन्दतीकरथोदिकान् | तद्दिनेषु मुहूर्तेषु तु कुर्यान्मङ्गलैः सह || तत्र यानं प्रपादीनां मुहूर्तस्तम्भ वेशनम् | प्राकारं गोपुरं शालां मण्टपाद्यन्तरं तथा || परिचारा लयं पीठं ऋषभं तच्च तुष्करम् | कारयुक्तसुधापिण्ड कृतानिसन्निबन्धनम् || तत्साधु धवलं कृत्वा चित्रयेच्चित्रक्तिमैः | यत्रालंकृतलीलार्थं आस्थानं कुरुते विभुः || तत्र तत्र विधातव्या मण्टपाद्यास्सुशोभताम् | प्. ३९) साघ्रकेश घृतालिप्या रंगलेखा चितांचताः | वितानवस्त्रातपत्रेण संयुक्तादामभूषितः || शुभाभिर्वैजयन्तीभिः उत्पतन्ती वृता परी | हैमरत्नार्चिता चित्र दुकूलाम्बरभूषिता || स पौष्पा देव देवस्य विधातव्या रथारयः | नाना विधानि यन्त्राणि कर्तव्यानि पृथक् पृथक् || अथादिस्तम भानु हुनेन दारुचर्ममयं जपेत् | शैल ऋंचेष्टकं चान्य नासी कुर्याद्विचक्षणः || अंकुराण्यर्पयित्वादौ पूर्वोक्तविधिना गुरुः | वृषयागं ततः कुर्याच्छिवं विज्ञाप्य देशिकः || ध्वजारोहण पूर्वेद्युः नीतगन्धादिना वृषम् | अर्चयित्वा शिवाग्रस्थं कौतुकं बन्धयेन वा || शृङ्गेसवृषमन्त्रेण बद्धाऽग्रे पृष्ठतोऽपि वा | देशे संभाधनिर्मुक्ते शालिभिस्तण्डुलैः तिलैः || तत्र देशानुरोधेन संकल्प्य स्थण्डिल द्वयम् | पृथमास्थापयेत्केतुं तल्लक्षणमिहोच्यते || दृसलक्ष्याः सितः सूक्ष्मो घटितः पुनकर्तृभिः | लोकचिर ध्वजा नष्टा ववीयद्वा समानयेत् || शिवध्वजाद्दशांशादि लितान्ताय विस्तरान् | तद्वाहने युतो पेतान् स्वस्ववर्णानुसारतः || प्. ४०) रक्त पीतोऽथवा कृष्ण श्रुत्वा वसवस्सुतपसैः | रसैर्भूतकरैस्सम्यगायतो रोमवाजितः || शो * था चेक्षप्रमाणेन कर्तव्यास्तु ध्वजः | देवादि सर्वदेवानां उत्सवस्थापनादिषु || ध्वजवस्त्रादि सर्वाणि शालिकास्यधिकारितः | तद्वंश जाति कन्याभिः कर्तृतै तन्तुभिः शुभैः || पवित्रारोहणाद्यंतु कर्मसर्वत्रसंस्थितम् | आयामे पञ्च षट् सप्त भागे भागेन विस्मृतः || तन्मान समपूजो वा किञ्च न्यूनाधिकोथवा | तदर्ध शिखरोपेतस्तद्भागशिरोऽपि वा || वेत्रद्वयसमोपेतस्तदग्रे रज्जुयत्रवत् | ध्वजमेवं समारोप्य तन्मध्ये वृषमालिखेत् || द्वारोर्चन्नवधा कृत्वा भाग भाग प्रमाणतः | ज्येष्ठादि कन्यासान्तानि नवमानानि कल्पयेत् || मुखद्वालाभिपर्यन्तं वानंथत्वा वृषांगुलैः | कलाकोलकभागादि * * कल्प्यबुद्धिमान् || शिल्पशास्त्रोक्त मार्गेण स्थितं वा शयितं तु वा | पद्मासनसमारूढः पार्श्वे दीपाद्यथान्वितम् || च्छत्रचामरसंयुक्तं पूर्णकुम्भात्मरान्वितम् | त्रिशुलास्त्रैः समायुक्तं रहितं वा विचक्षणः || शिल्पिना कारयित्वैवमाचरेदक्षिमोचनम् | प्. ४१) प्रोक्षितं पुष्यतोयेन स्थापयित्वा शिवाम्भसा || संप्रोक्ष्यवृषमन्त्रेण गन्धाद्यैरर्चयेद्गुरुः | तदग्रे स्थण्डिलं न्यस्त्वा नवकुम्भा नलं कृतान् || वृषं लोकेश्वरा नष्टौ मध्यमे परितो यजेत् | तदग्रे स्थण्डिले होमं समिर्द्यरुध्रतैर्गुरुः || वृष गायत्रि मन्त्रेण शतमर्धार्धमेव वा | हुत्वातामग्रतो दण्डं स्थापयित्वाधिवासयेत् || धामद्वित्रिगुणं वाथ समं वा शिखरावधिः | नासिकान्तं गलान्तं वा वृषस्थलसमं तु वा || चतुस्त्रि द्वितलान्तं वा बहुभूमिषु सद्मसु | नवहस्तं समारभ्य यद्वा तिथि करावधि || वैणवं सारदारूढं क्रमुकं वाऽप्यनिन्दितम् | तत्वाङ्गुलादि भान्वन्तं शुभनामसमन्वितम् || वैणवं क्रमुकं दण्डं गृह्णीयात् स्वप्रमाणतः | सुरेश भानु निम्नाङ्ग रस वेदसमांगुलैः || आयतारि वियतैस्तारर्धं धनसंयतैः | दर्वाकारैर्यथा योग्यं रन्धैस्स्कन्दैस्त्रिभिर्युतम् || यथा बलं यथाशोभं दर्व्यनाभान्वि तेन च | वैणवाद्युपदण्डेषु तु यन्त्ररज्वा श्रयेण तु || लोहजेन तु नीलेन कटकेन समन्वितम् | प्. ४२) ज्येष्ठाङ्गुलिना हेतु बलयस्यो न रज्जुना | ध्वजारोह क्रियायोग्य दैवेन च समन्वितम् || दर्भमालासमायुक्तं प्रोक्षितां चास्त्रतो यतः | गन्धादिभिरथाभ्यर्च्य जयशब्दादि मङ्गलैः || पीठगोपुरयोर्मध्ये वृषगोपुरयोरपि | पीठाग्रे वा वृषाग्रे वा पृष्ठे वाऽप्युभयोरपि || चतुस्ताल प्रमाणेन खात्वा मृत्सदवर्जिते | नम्मत्रले हेमजं कूर्म प्रणवेन विनिक्षिपेत् || दण्डं संस्थाप्य यन्त्रेण तन्मूले वेदिकां कुरु | शिला पार्श्वेष्टकोद्भूतौ यद्वापक्षेष्टकान्विताम् || एकहस्ता त्रिहस्तान्ता त्र्यङ्गुलार्घ्यासुविस्तृताम् | समाद्यष्टांश वृद्ध्या तु साधान्तं पञ्चतोनताम् || उच्चार्धोर्धोन्नत व्यास पञ्चत्रिंशद्वशोभितम् | उच्चाद्यात्वादि रुद्रान्त भागेष्वेकांश मानतः || पतोपानपतीमूले यदि वा मेखलावतीम् | मानाङ्गुल वशात् कुर्यात् मात्रांगुल वशेन तु || वेदिमथसोपाद्य कृत्वा शिल्पिविसर्जनम् | गोमया लेपनं कृत्वा रजोभिस्तु विचित्रयेत् || शुद्धतोयेन सम्प्रोक्ष्य पूर्वनिश्यधिवासयेत् | अथवा ध्वजदण्डां तु सद्य एवाधिवासयेत् || प्. ४३) एवमेवाधिवास्याथ सर्वालंकारसंयुतम् | त्रिशूलेन समायुक्तं दद्याद्ग्राम बलिर्न वा || प्रभाते नित्यपूजान्ते ध्वजं पुष्पाद्यलंकृतम् | गन्धादीनां समभ्यर्च्य मुद्गान्नं विनिवेदयेत् || ताम्बूलं मुखवासञ्च श्रीमत्पञ्च महाध्वनिः | आतपत्रं च मुकुरं चामरे च प्रदर्शयेत् || कला न्यादि शिवप्रान्तं प्रपञ्चाधाररूपिणम् | शक्तिं ध्यात्वा वृषं साक्षात् देवदेवं च शूलिनम् || समारोप्य रथेरङ्गे शिबिकायां रथेषु वा | नाना वाद्य समायुक्तं नाना गानैः समन्वितम् || अस्त्रमूर्तिसमायुक्तं दिक्पतिभ्यो बलिं क्षिपेत् | एवं प्रदक्षिणं नीत्वा प्रसादाभ्यन्तरं विशेत् || ध्वजं स्थण्डिलसंयुक्तं ब्रह्मघोषसमन्वितम् | ग्राम प्रदक्षिणं कृत्वा दण्डस्थानं प्रविश्य च || मुहूर्ते देव निर्मुक्ते यजमानशुभ प्रदे | पुण्याहं वाचयित्वा तु प्रोक्षयित्वा तदम्भसः || विद्यादेहमयं दण्डं ध्यात्वा गन्धादिभिर्यजेत् | तद्दण्डस्य चतुर्दिक्षु नृत्तगेय रवान्वितम् || रज्जु यन्त्रेण संयोज्य ध्वज घण्टासमन्वितम् | वृषमन्त्रं समादाय कुम्भमान् वृषहृदि न्यसेत् || प्. ४४) गन्धाद्यैरर्चयित्वाऽथ विप्रस्वाध्यायघोषणैः | ध्वजमारोहयेन्मन्त्री न द्रुतञ्च विलम्बितम् || लोकपालघटस्तोयैः योजयेद्दण्डमूलतः | अस्त्रं सम्पूज्य गन्धाद्यैर्मुद्गान्नं विनिवेद्य च || आमन्त्रयेद्ध्वजं पश्चात् भ्रमणं चेह तत्र च | कार्याद्वया स्थिरेणापि भोगमोक्षार्थ सिद्धये || प्रासादध्वजमप्यस्मिन् काले चारो पयेत्सुधीः | ध्वजारोहणवेलायां वृषभस्य निवेदितम् || भुक्त्वा चास्या लभेत् पुत्रमीश्वरांशं न संशयः | यत्रैतत् क्रियते राष्ट्रे ध्वज यष्टिनिवेशनम् || ना कालमृत्युस्तत्राऽस्ति नाऽलक्ष्मीः पापकृत्स्वपि | स्वकला च त्रिपर्जन्यः सुभिक्षं विजयी नृपः || भवानि सहितं देवं आरोप्यशिबिकादिषु | ध्वजेन वा तदन्ते वा सर्वमङ्गलसंयुतम् || पुरं प्रदक्षिणीकृत्यामयेदास्थानमण्डपम् | परिवेष क्रमं कृत्वा सोपचारं यथोचितम् || पुनरस्तं गते भानौ भागं निर्वर्त्यनैत्तिकम् | मुहूर्ते समनु प्राप्ते भेरीताडन मारभेत् || देवाग्रे वाऽथ लिङ्गाग्रे शालिभिस्तण्डुलैस्तिलैः | स्थण्डल द्वितयं कृत्वा गर्भपुष्पाद्यलंकृतम् || प्. ४५) एकस्मिन् क्षपयित्वास्त्रं गन्धाद्यैरर्चयेद्गुरुः | तदग्रे स्थापयेद्भेरीं लक्षणोक्तामनिन्दिताम् || अग्रे पृष्ठे यथासव्यं वामात्मकमुखद्वयम् | सौरं चान्द्रं यथादेहं मुखसंकल्प्य च || पुण्याहं वाचयित्वाथ प्रोक्षयित्वा च तोयतः | नन्दी बीजं न्यसेन्मध्ये सौरश्चान्द्रमुखस्य योः || सम्पूज्यगन्धपुष्पाद्यैः नैवेद्यान्तैरूपस्करैः | आमरू युक्ततो मन्त्री नन्दिकेशं सुमन्त्रतः || दुन्दुभिध्वनिनादो वार्थं परमानन्द नन्दिकः | नन्दीश्वर नमस्तुभ्यं त्रिणेत्राय महात्मने || सन्तास्य हेतिमन्त्रेण त्रिःकृत्वा प्रथमं गुरुः | आहूय शुद्धं शैवदीक्षा सम * * * न्वितम् || सम्प्रोक्ष्य गन्धतोयेन तत्वतोरुसमंक्षिपेत् | सौख्याचारैर्विदग्धै भेरीद्गेनोद्यपञ्चभिः || तत्पुष्पं तत्र निक्षिप्य मनस्कृत्वा तनिन्दितम् | वादयेत्सुमुखो भूत्वा वाद्य विद्या विचक्षणः || नर्तको मर्दनश्चैव गायकोवंशकस्तथा | तण्डिमोरविकश्चेति पञ्चाचार्य उदाहृताः || पञ्चाचार्य विधौवर्णा अनुलोमाश्च सर्वतः | नानावाद्यैरथातोद्यैर्भेरी पटहमर्दिकैः || प्. ४६) तुमुलो झल्लरीभिश्च सरित्कारीत् तथा परैः | वीणा वेणु मृदङ्गैश्च शंखकाहलकच्चक्तैः || सककीम भिज जयाखण्डाभिरिन्द्र बहुभाषितैः | श्रीमत्पञ्च महायज्ञे ब्दर्देव श्रुतिसुतिप्रदैः || वादयेकश्शान्त समतालादि तालकात् | चर्मच्छन्नं च सक्तञ्च धरणं वंशमेव च || गानश्चेति विदुः पञ्च महाशब्दामनीषिणः | क्वचित्तदभिसंज्ञाभिः कीर्तिता परमेष्ठिना || ततोदितालगेयञ्च तत्तद्दिक्पाल तृप्तये | ब्रह्मणि समब्ध्ना च भृङ्गिणी मल्लतालकम् || नवाख्यो बलि तालञ्च छोटितालं चढक्करी | गौरी कुटि वरादी च कूर्जरी भेरिपस्तथा || देशारिशीर्ष त्रयंन्त इत्येते गानमुच्यते | अन्तालि मेघ नागञ्च कोल्लिकौशिकपञ्चमः || शालको नट्टनागञ्च तुङ्गनागञ्च तर्कशः | ब्रह्मादीशानपर्यन्तं तालकेयाः प्रकीर्तिताः || ततो देवास्समाहूय तदा मन्त्रेण पूर्वकम् | देशिको वाऽथ तच्छिष्यं सम्पाद्य बलि साधनम् || ग्रामप्रदक्षिणं कुर्यादस्त्रमूर्तिसमन्वितम् | शुद्धौदनेन साज्येन दिक्पतिभ्यो बलिंक्षिपेत् || प्. ४७) दिक्पाला एवयेत्सर्वान् तत्तिर्क्षञ्च विचक्षणाः | भेर्याघोषेण चेलाय दद्यास्तु दिवसं निधे || प्राणिनः सर्वथा तस्मात् न गच्छेयुस्सिचेकिनः | ततो देवेशकल्याणं सव्यमातीर्थकर्षणम् || तीर्थ स्नानं ततोऽन्ये कार्यमारोग्यकांक्षिभिः | चक्रवर्ती महाराज्ञा नैवायं नियमो भवेत् || परा यत्नात्मन्यं पुंसामपि तस्यात्मनाहते | देवेशेथ ध्वजारोहे भवे नैवान्तरध्वजः || देवकल्याण वेलाय नृपकल्याणं तथा भवेत् | विघ्नयाग नादर्वाक् ध्वजारोह दिनोपरि || पक्षवारोत्सवादिश्च नैव कुर्वीत वा सुधीः | ऊर्ध्वतानपि तत्काले समारब्धे महामखे || कुण्डास्त्रानल कॢप्तस्स्यान्न पृथग्याग यामिनी | यागेश्वरार्चनं होमं तत्तद्द्विगुणमाचरेत् || बिम्बोद्भवं ततः कुर्यात् नैववाक वाञ्छिता | यागार्थं मण्टपं कुर्यात् वितानध्वज यादृशम् || तदात्र निखिलं वक्ष्ये शर्वैन्द्रो वाररा ले | कर्ता शयानरूपेण सोन्यत्रापि समीरितः || कन्यसो मध्यमं ज्येष्ठस्त्रिविधोऽपि त्रिधा भवेत् | पञ्चभ्यो सप्तमैर्हस्तैः यावस्त्रिसप्त यत्नयः || प्. ४८) मानं हिते बहिर्मध्य भ्यन्तरं भुयो गतः | तत्र भक्ति यथा स्तम्भाश्शुद्धाष्पट्टारवोथवा || घनोघोषधी रागश्च काञ्चनं कामरामकौ | सुघोषा सर्वरोदक्षा मण्टपा नव मानताः || शैलजं वेष्टके वाथ मृण्मयं याग मन्दिरम् | समार्थं निर्गमं कक्ष्ये गीतो वेद च तोरणम् || चतुर्दिक्षोदको वापि मुखशालाविराजितम् | प्रागाप्यवाहितद्द्वारं संबोधेत दिगन्तरे || समन्ततः प्रचाच्छायाच्छन्न प्राङ्कणभूतलम् | सुविभक्ताङ्गसम्पूर्णं भद्रं यज्ञ निकेतनम् || कारयेच्छिल्पिकोचिदो * * * नाथ शिल्पिना | नाना कारोप भिन्नैर्वा कुण्डैर्नवभिरन्वितम् || पञ्चभिर्वै कृतो वाऽथ मूर्तिभेद वशो न वा | तन्मण्डलैरलं कुर्यात् परितो मखमण्डपम् || शान्तिभूति बलारोग्य संज्ञानितादितो न्यसेत् | त्रिकारा स च पञ्चान्त पाद पाद विवर्धनात् || उत्सेधाय विशालानि संछन्त्यूनाधिकानिव | तोरणानि पयो वृक्ष (जाति)जातिभेदेन वैकतः || शाखा विस्तार बाहुल्यं द्व्यङ्गुलाद्याविधङ्गुलम् | अष्टाङ्गुलात्करा भारि शूलशृङ्गाण्यथोपरि || प्. ४९) ऊर्ध्वशाखा ललाटस्थ मध्यमे तु विनायकम् | तत्सव्ये वामभागे च श्रियं वागीश्वरीमपि || पार्श्वयोः स्वस्तिकं पद्मं उत्पलं वा निवेशयेत् | अभावे पादपानां तु यथाला * प्रमाणतः || आत्मार्थे वा परार्थे वा तोरणानि प्रकल्पयेत् | अष्टमङ्गलसंयुक्तं वज्रायुधसमारथम् || स्रवन्ती वारि सम्पूर्णैः त्रिपादाधारवर्तिभिः | आज्ञादि पल्लवास्तीर्णवत्यै फल विभूषितैः || पूर्णकुम्भे प्रतिद्वारं रम्भास्तम्भैश्च भूषयेत् | भीमेन्द्रायुध बन्दूक कृष्णनीलाघनोपमैः || हेमाम्भोज निभैः शार्व ध्वजैश्च परिमण्डितम् | सवितार समादञ्च सम्प्रोक्ष्य च समाचरेत् || मण्डपश्शांकरं धाम निर्वृत्यादि कला मयम् | सदाशिवं स्मरेत् साक्षात् पाताकश्शक्तिलक्षितम् || तन्मध्ये वेकों कुर्यात् हस्तैर्भक्तिवशेन वा | त्रि चतुः पञ्चहस्तैर्वा तद्विस्तारं त्रिभागतः || एकहस्तसमुत्सेद्याः यद्वामुष्टिसमुन्निताम् | उपवेदिकयोपेता यथाशोभप्रमाणतः || दर्पणोदर वच्छुद्धांमसृणां तद्वदेव तु | कुण्डानि परितः कुर्या नव पञ्चैक भेदतः || प्. ५०) वेदियोशशाङ्कार्ध त्र्यश्रावृत्तानि पञ्चसु | ते सुश्राश्च जाष्ठ कोणानि दिक्षु न्यासं प्रकल्पयेत् || वतुलं नवमं मध्ये वारुणां वृषाङ्कयोः | सर्वत्र चतुरश्राणि भवेयुर्वर्तुलानि च || चतुरश्रामयेकंश्चेत् वर्तुलं पद्ममेव वा | बहिरङ्गुष्ठकाभत्वा च स्त्रीद्यङ्गुलाः क्रमात् || अर्ध्वतोमेवलास्तिस्रो यदि वेकाशडङ्गुलाः | उत्तराभिमुखा तेषु नाभिनकनलाकिषु || पूर्वाननास्तृतान्येषु यथाशोभं समन्ततः | वेदि तोरणकुण्डानां तस्यवादि प्रभेदतः || मानं मानाङ्गुलैर्मात्रांगुलैर्वा कल्पयेद्गुरुः | इत्थं विनिर्मिते तत्र कृत्वाशिल्पिविसर्जनम् || गोमया लेपिते वास्तु होमकर्मसमन्विते | पुण्याह प्रोक्षणोपेते विशुद्धे मखमण्टपे || शैवादि विजयान्तानां उत्सवं विजयात्मकम् | कर्तुरिच्छेद्यथदा यत्र ध्वजारोहनोमितः || द्वादशेऽहनि विघ्नार्थ मर्चयित्वा यथाविधिः | नानाविद्येपहरणि निवेद्यप्रार्थयेद्गुरुः || भगवान्मादि शैवोऽस्याहं महोत्सवः | प्रवर्तित प्रधात्वन्तं विघ्नं तव सन्निधौ || प्. ५३) एवं संप्रार्थ्यविघ्नेशं सर्वमङ्गलसंयुतम् | ग्रामं प्रदक्षिणी कृत्य प्रविश्य भगवान् ततः || कौतुकं बन्धयेत्सोमं यद्वा सोमार्ध धारिणम् | उत्पात धौकं वाधैवं वा नैकं वा कर्तृवाच्छया || चोराद्यैः संकुलो ष्ट्रे शूलास्त्रं केवलं तु वा | संस्नाप्य देवदेवेशं शुक्लाम्बर विभूषितम् || शुक्लोत्तरीय सममाल्या मण्डपादा बलं कृते | स्थापयित्वाथ तस्याग्रे स्थण्डिले शालि निर्मिते || हेमरौप्यादि पात्राणि तण्डुले च प्रपूजयेत् | त्रिपाद्युपरि विन्यस्य तदूर्ध्वे कौतुकं न्यसेत् || सौवर्णं राजतं वापि क्षौम कार्पासतन्तुजम् | निष्कमर्धं तदर्धं वा पञ्चत्रिसरजं तु वा || भस्म ताम्बुल पूर्वं स्यात् पुण्याहं वाचयेद्द्विजान् | गन्धादिभिर्हृदाभ्यर्च्य देशोको मन्त्र विग्रहः || सोष्णीषः सोत्तरास्स कुण्डलाद्यैरलंकृतम् | ताम्बूलं पुष्कलं दद्यात् केवं सेवाद्यतां नृणाम् || मुहूर्ते समनुप्राप्ते त्र्यम्बकेन तु मन्त्रतः | तद्भस्मन्यासमालभ्य ध्यात्वा तत्तु पणिमकङ्कणम् || देवस्य दक्षिणे हस्ते बन्धयेत्कोतुकं(सु)हृदा | ध्यात्वा चन्द्रकला रूपं देव्याः सव्येकराम्बुजे || प्. ५२) स्कन्द नन्दीश चण्डेश यदि तत्पार्श्ववर्तिनः | तेषामपि करे सव्ये सन्धयेत् स्वस्वमन्त्रतः || भस्मनापि कला दद्यात् द्रक्षोघ्ना लौकिकं विभो | अत्राविशिष्टा तद्भस्मा भक्तितो भक्तिं नयं निथौ || नन्दयन्ति पित्रान् सर्वान् मन्दन्ति यमलत्रयम् | सर्वमंगलसंयुक्तं अस्त्रलोकेश हेतिभिः || नये दन्तेथ देवेशं पीनो वामल त्रयम् | सकृतः पुण्यतोयैश्च गर्वैर्गन्धोदकैरपि || प्रोक्षयित्वास्त्रमन्त्रेण समन्ताद्यागमन्दिरम् | सम्पूज्य द्वारशाखासु दघादि द्वारपालकान् || प्रविश्यान्तरथैशान्यां कृत्वास्थण्डिलमुत्तमम् | तदूर्ध्वे विन्यसेदस्त्रं लोकेशास्त्र समद्वृतः || सम्पूज्य गन्धपुष्पाद्यैर्हविरन्तैरूपस्करैः | शिवाग्निं कल्पयित्वान्द्रे त्वीशानशु मध्यमेऽथवा || सर्वमुर्तात्मकं ध्यात्वा तर्पयेत्समिदादिभिः | पालाशसमिदाज्यान्तं लाजानथ तिलानपि || सिद्धार्थमकस्य राजान्नं शिवेनाङ्गरनु क्रमात् | हुत्वा तदन्ते ताम्बुलं पूर्णामन्ते विधाय च || ततोऽन्तर्बलिदानान्ते रोधयित्वा युवानलम् | आदिश्यबलिसामग्री दद्याद्ग्राम बलिं पुनः || प्. ५३) ब्रह्मादीशान्तकं यत्र द्वादशाश्शंकरावपि | बहुविधियुते ग्रामे मध्ये वा तद्बहिस्तु वा || कर्तव्यस्तु विचारेण यथा योगं बलिं क्रमात् | चतुष्पथेषु परिता वलिक * रि दण्डके || केवलैः दण्डकैः पूर्वोदीशानान्तं यथाविधि | तत्तद्दिनाथ ए धानां उक्तद्रव्येण मन्त्रवित् || द्रव्यास्त्रं लोकपालास्त्रं अन्नलिङ्गसमन्वितम् | समारोप्य रथे अस्मिन् पिञ्छाद्यैस्समलंकृतम् || बलिवाद्यसमुद्घोषैः सुरेतर भयंकरैः | ग्रामप्रदक्षिणं कृत्वा क्षिपेद्भूत बलिं क्रमात् || शुद्धोदनेन साज्येन दधिकान्नेन वा गुरुः | ततो ग्राम बलिं दद्यात् तदन्ते तं प्रविश्य च || महापीठे बलिं दद्यात् तदन्येन्य प्रविश्य च | यक्षादि स्वस्वमन्त्रतः * * * * * * * * || अन्नलिङ्गं विसृज्यास्त्रं साव्रतीन् सर्व विन्यसेत् | एवं दत्वा बलिं प्रातः कालं सायं तनेऽपि वा || तदन्ते कारयेद्देवं ग्रामादिषु महोत्सवम् | नानाविध महारत्न सूक्तहेमाम्बरादिकम् || दुकूलपट्टकार्पास सद्वस्त्रैरावृतं बहुम् | दिव्यरत्नमयाकलैर्मण्डितं मकुटादिभिः || प्. ५४) अपरिव्यक्तसौरभ्य नाना सृक्दामभूषितम् | ललट लोचनालोक निरस्त निखिलासुरम् || दक्षिणो पादङ्गदानात्त मनोरथ महाजनम् | गौरी मुखाम्बुजा सक्त वामाकी भ्रमरं हरम् || बोधयन्तमिवा दित्यमदनिद्रावशं गतान् | अशेषः प्राणिनः पद्म कुड्मलानीव भास्करः || शिबिकादौ समानीय वेदातोद्यरवान्वितम् | आतपत्रेण शुभ्रेण हेमदण्डेन चोपरि || निरस्तकटकप्रभाजालं विद्यमानीं च चामरैः | नाना परिकरोपेतं राज्ञामिव महाजनाम् || अग्रतो गम्यमानाभिरप्सरोभिरलंकृतम् | हिरण्यकासांसि वासांसि पक्षयन्तं तदस्थिषु || * * * * * * वेदी शाब्द सन्दर्भ गर्भितैः | निम सभक्तिश्चर्वीक सीमतमनोम्बुजैः || आमन्दित जनाकीर्णं प्रयुक्तस्तोत्रसंविदैः | नीलनीररु(ह)छाया तस्करैरायतेक्षणैः || दवस्यो भयो मुक्तेरे पौरैरर्च्यमानं विकासिभिः | क्वचित् सेवान्तिके शैवे क्वचिद्भैरवतान्त्रिकैः || वामस्थैः कुलमार्गस्थैः भूततन्त्रार्थवेदिभिः | गुरुसैरितिमार्गज्ञैः क्वचिदध्यात्मवादिभिः || प्. ५५) वेदिकैर्लौकिकैरन्यैः परलोका * * दिभिः | स्वस्वसिद्धान्तमार्गेण स्तवानैश्चानु सेवितम् || कामकालानुकाघात त्रिपुरध्वंसनादिभिः | नानाविधपिशाचैश्च स्तूयमानपराक्रमम् || संसारसागरोद्धार पौरभूतपुरोगसाम् | वालुकाविलसाध्वस्त शिखाशोधितभूतलम् || चन्दनक्षेथ सौगन्धिकोत्पलोमिश्रवारिभिः | जलदैरिवसंसिक्त सर्वमङ्गलविधिंक्रमाम् || ध्वजस्रग्दर्भमालाभिराकीर्णा भवनाखिलम् | आबद्धकिंकिणीमाला समुत्क्षिप्तमहाध्वजम् || स पूग कदलीस्तम्भ बद्धकाञ्चन तोरणम् | दीपांकुरोपकुम्भाद्यैः प्रतिद्वारं विभूषितम् || सन्ताद * * * धूपगन्धादि कृतदिङ्मुखम् | दिव्यपानीयताम्बूल मुखवासा ननु क्रमात् || तत्तत्कालोचिताचारैर्देवाय प्रतिचत्वरम् | सन्ध्यामारभ्य तत्काले भूयो भूयो निवेदयेत् || वास्तु प्रदक्षिणं कुर्यात् सोमसोमार्धमूर्धजम् | यस्मिन् पुरा पुरा दातु यदि ताम्रा करोति च || बिम्बोत्सवञ्च तत्रैव कारयेत् तत्र वित्तमः | विप्रकृष्टमधिष्ठानं नद्याद्यन्तरिक्षात् यदि || प्. ५६) तदन्य त्राप्यधिष्ठानेन दोषाय महोत्सवम् | तुषारचार चोराद्यैस्संबाधे तत्र वास्तु कृति || बलि चात्र विधिं कृत्वा शान्ति होमं समाचरेत् | तदन्ते देव देवे * भयेदास्थानमण्टपम् || भद्रं पीठे समासीने देवदेवं जगत्पतिम् | मण्टपे वाऽथ रङ्गे वा प्रपाद्ये वा मनोहरे || दुकूलाम्बरपुष्पादि वितानाद्यैरलंकृतम् | परिवेषसमासाद्य तत्रोक्त विधिपूर्वकम् || पाद्यमाचमनं चार्ग्यं दत्वा देवाय पूर्ववत् | उपचारैर्यथायोगं उपतिष्ठेत् समाहितः || हेमाभरण वस्त्रादि कर्मकारालयोत्सवे | सायं प्रातः यथाशक्त्या स्नपनं शान्ति होमकम् || नृत्तवादित्र गीताद्यै रथकालं विलंबयेत् | एवं दिनानि चत्वारि नीत्वा पञ्चमवासरे || सरित्तटे वोद्याने केदारे वा मनोहरे | सर्वालंकारसंयुक्तं प्रापयित्वा महेश्वरम् || प्राङ्मुखः सा गताभूमिं नाज्ञामाहर्तुं ईप्सिताम् | तत्तत्पदे यजेद्भूमिं ध्यात्वा पूर्वोक्त विग्रहम् || पृथ्वी बीजेन गन्धाद्यैर्भूमिमामन्त्रयेत् ततः | ओं भव्य सुगन्धरे भद्रे सर्वभद्राश्रये स्थिते || प्. ५७) सर्वकाम प्रदे देवि भूपतेरचला भव | एवमभ्यर्च्य गन्धाद्यैः देवीमामन्त्रयेत् ततः || भूपतिर्विजयी भूयाद्भूमिः संवर्धतामपि | तज्जनाः सुखिनस्सर्वे भूयासं चोत्तरोत्तरम् || आहरेदिष्ट कोष्ठस्थां भूमिं तद्वासु रूपिणीम् | हेमरूप्यादि पात्रेषु तद्बीजेन गुरूत्तमः || इत्यादाने नृपश्रेष्ठं आहरिष्यामि भूतलम् | परमेश विशेषोऽयं यागास्त्र विजयात्मनः || मृत्संग्रहेऽङ्कुरार्थञ्च विधिरेषस्सनातनः | तृतीये दिवसे वास्त्र मूर्तिं चण्डसमन्वितम् || सौवर्णाद्यङ्कुराधारैरग्रतः समलंकृतैः | नीयमानैर्महेशांशै वेरूष्णीष धारिभिः || वास्तुं प्रदक्षिणी कृत्य नित्योद्गानादिकांशुभिः | संप्रोक्ष्य हेतिना भूमिं खात्वाकुद्दालतो मृदम् || गृहीत्वा भवनं नीत्वा याति चास्तं गते सति | कृत्वां कुरार्पणं पूर्व विधिना देशिकोत्तमः || सुमुहूर्ते शुभे लग्ने विस्तीर्णायागमारभेत् | अलब्ध्वा विधिसामग्रीमस्त्रयागमहोत्सवे || अनर्च्यास्त्रं महाघोरं कोवाशत्रून् जयिष्यति | अमोघेनास्त्रयागेन नृपास्त्रस्थाप्यमोघतः || प्. ५८) मूलध्वजाः चतुः पञ्च षडंशेन प्रमाणकम् | यद्वातत्थि दिक्पाल हेति वाहन लक्षितम् || सतं ताम्बूल हर्म्यादि दिक्ष्वष्टासु ध्वजाष्टकम् | अन्तहीराङ्गणे मध्ये हारस्स्यादि भित्तिके || अष्टौ दण्डान् न्यसेत् प्रोक्तास्तेऽपि मूलप्रमाणतः | चतुःपञ्च षडंशे तत्पीठे तथैव च || स्कन्दोपदण्डरज्वादीन् यथार्हं परिकल्पयेत् | प्रासादाभिमुखान् केतु तत्तद्दिक्पालमन्त्रतः || आरोप्य पूर्ववन्मन्त्री गन्धाद्यैरर्चयेत् ततः | दिक्पालवर्णमन्नं वा शुद्धान्नं वा निवेदयेत् || द्वारपूजा ततोयाग गृहं प्राप्य द्वारपूजादिकं चरेत् | तोरणानि घटान्यष्टौ न्यस्त्वा पूर्वादितः क्रमात् || चतुर्दिक्षूत्तमाङ्गेषु विघ्नेशं भारतं श्रियम् | नन्दिं कालं यजेत् पूर्वेऽथाद्य भृङ्गी विनायकौ || वारुणे वृषभस्कन्दौ देवी चण्डौ यथोत्तरे | स्वाभिधानैश्चतुर्थ्यन्ते नान्यन्तैः प्रणवादिभिः || ततस्तोरण शाखासु तद्भावैः सह पूजयेत् | निधी नष्टौ यजेत् प्रोक्तं प्रशान्तशिशिरो ततः || पर्जन्या शोक नामानौ भूसंजीवनतामृतौ | धनश्रीदौ च कुम्भेषु प्रणवेन हृदा तथा || प्. ५९) कृत्वा त्रिविध विज्ञान मण्डपादपसारयन् | विशेत्पञ्चाद्यमार्गेण वामपादपुरस्सरम् || प्रदक्षिण क्रमेणाब्ज मण्डला स्थान दक्षिणे | स्थित्वोत्तरा ननो यज्ञ द्रव्याणि शुभलोकयन् || भद्रपीठे समासीने तत्वदृष्ट्या समाहितः | प्राकृतीं तनुमुत्सृज्य शैवमापाद्यशंबरैः || इष्ट्वा हुत्वा समाधाय शिवं हीनोभबिन्दुषु | कृत्वा व्यपात्रं तद्द्रव्यैः कर्महस्तं विधाय च || वर्धनी संहृत्यतानथैशान्यां वर्धन्याधारकल्पने | अहं गन्धार्घ्य पानीयैः संप्रोक्ष्यमखमण्डपम् || ईशान्यां स्थण्डिले कुम्भं शिवार्घ्यं विकिरोपरि | न्यस्त्वा पश्चिमदिग्नाला वर्धनीमपि देशिकः || विधात सूत्रतत्कूर्चं फलपल्लवसंयुतम् | स हेम पुष्पं कुम्भाया पूजयेत् तज्जलासनम् || मूर्तिञ्च देवं खड्गं च मन्त्रिगन्धादिभिर्यजेत् | वर्धन्यां सिंहसंस्थायां न्यसेत्पाशुपतास्त्रकम् || इन्द्रादि घटसंस्थेषु लोकपालांश्च सायुधान् | वर्धनीं सौम्यमादाय घटप्यष्टानु गामिनीम् || वर्धनीधारयायुक्त शिवकुम्भं परिभ्रमेत् | शिवाज्ञा श्रावयन् लोकपालेभ्यो यागरक्षणे || प्. ६०) संस्थाप्य कुण्डवर्धन्यो यजेद्देवं स्थिरादसम् | वर्धन्यासंयजेत् पश्चात् स्थण्डिलं वेदिकोपरि || शालिभिर्विमलैरर्घस्तत्तद्दलैः स्तिक्तैः | लाजदर्भैः प्रकल्प्याथ पञ्चद्यैरेक वृद्धिदः || तत्वान्तस्य नलिनं सम्यगालिखेत् | मध्यमे विन्यसेत् कुम्भं शिवाख्यं वर्धनीं तथा || उत्तरे नालनं युक्तं विद्येश्वर घटानपि | तत्सूत्र वेष्टनोपेतान् सापिधानान् स कूर्चकान् || खारिद्रोणप्रमाणैश्च शिवकुम्भादिकान् क्रमात् | नवरत्नं शिवाख्ये तु वर्धन्यां पञ्चरत्नकम् || अभावे पञ्चरत्नानां वर्धन्यां हेम निक्षिपेत् | विद्येश्वर घटेष्वेवं हेमपुष्पाणि विन्यसेत् || रत्नभागे गुरुहेम पुष्पं शिवघटे न्यसेत् | शिवाख्ये वस्त्र युग्मं च वर्धन्यामेकवस्त्रकम् || * * ष्वेकैव वस्त्रं च लोकपालघटेष्वपि | एवं सम्पाद्य सर्वं तु देवेशं प्रपूजयेत् || विशेष स्नपनोपेतं विशेषयतनान्वितम् | प्रभूतहविषोपेतं ताम्बूलादि समन्वितम् || ततो विस्तीर्ण यागार्थं सोमास्कन्देश्वरादिके | विशेषस्नपनोपेतः प्रा पत्कौतुकमाचरेत् || प्. ६१) ततो मण्टपमासाद्य देवेशसहितं तु वा | शिवकुम्भं यजेद्देवं साधनं च समूर्तिकम् || साङ्गां मनोन्मनीं देवीं वर्धन्यासंप्रपूजयेत् | यजेद्विद्येश्वरा प्रोक्त निशानान्तघटेष्वपि || दर्पणादौकमादर्के जलादेक्षपदागिदीन् ? | श्रियं सरस्वतिंन्दुमर्चयन्तं यजेद्गुरुम् || प्राग्वत् संस्कृत्यकुण्डाद्यं शिवाग्निंमन्त्रकल्पयेत् | नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिग्गतम् || तस्याग्निं मध्यमांशे तु शिवंसाङ्गं च तर्पयेत् | द्रव्यैः पूर्वोदितैरेवं शतमष्टोत्तरं गुरुः || जुहुयात् स्वस्वमन्त्रेण शिवाण्वर्धेन मूर्तिपाः | अन्ते तु जुहुयात् पूर्णं ताम्बूल प्रभृतीनपि || होमान्ते तु बलीं दद्यात् होमादौ वा विचक्षणः | सर्वादि तत्रानृत्तं च सर्वालंकारसंयुतम् || ऋग्यजुः सघनं मन्त्र जपं स्तोत्रं जपं तथा | चतुर्दिक्षु प्रकर्तव्या दद्यादन्तर्बलिं ततः || दद्याच्चन्दन ताम्बूलान् जनेभ्यो गुरुपूर्वकम् | तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते || नवान्नलिङ्गकं कुर्यात् दधिमिश्रहविर्मयम् | प्राग्वत् प्रधानं तद्बाहु पतात्रिं गन्धपुष्पकैः || प्. ६२) लोकपालादिकान्येषु अन्नलिङ्गेषु पूजयेत् | तन्तस्त्रि शूलसंयुक्तं दशायुधसमन्वितम् || वृषादि परिवाराणां बलिं दद्याद्ध्वजावधि | प्रविश्यनगराद्यं तु देवतार्चन देशके || बलिं दद्यात् क्रमेणैव देशिकः शिष्य एव च | गुलापूजादि भक्ष्यं च प्रथमेह्नि गणेश्वरम् || पायसं पद्मपुष्पञ्च ब्रह्म प्रिय द्वितीयके | तृतीये कृसरान्नं तु भूतानां स घृतं बलिम् || चतुर्थ रात्रौ चूर्णान्नं गन्धर्वाणां घृतान्वितम् | पञ्चमेह्नि प्रियं यन्न साज्यमिन्द्र प्रियार्थकम् || वेण्वन्नं दधिमृषीणां षष्टमेऽहनि | गुलान्नं घृतसंयुक्तं ऋषीणां षष्ठमेऽनि || दधात्तु सप्तमे * * * * * * * * * * | अष्टमे राक्षसानां तु माषान्नं तु घृतान्वितम् || शुद्धान्नं दधिसंयुक्तं शिवस्य नवमेहनि | ब्रह्मस्थाना * * * * * * * त बलिं क्षिपेत् || सर्वेषां दिन देवानां शुद्धान्नेन बलिस्तु वा | ततो लोकेश तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् || बलिं दद्यात् स्वमन्त्रेण प्रासादं संप्रविश्य च | बलिपीठ * * * * * * सर्वान्न लिङ्गकम् || प्. ६३) सप्ताहे वाऽथ पञ्चाहे त्रिदिनो व्योमरात्रिके | बेरधात्रा भवेत् प्राग्वत् प्रदीप बहुलान्वितम् || पूर्वोक्त सर्वालंकार सर्वमङ्गलसंयुतम् | एवं प्रदक्षिणीकृत्य प्रविश्या स्थानमण्टपम् || परिवेष क्रमं नीत्वा यथायोग्यसमन्वितम् | दत्वा पाद्यादिकं धूप दीपं भस्म च दापयेत् || एवं प्रतिदिनं सायं उषश्चाह्नि विधिक्रमम् | द्वितीय दिनमारभ्य प्रातः सायान्तरेऽपि वा || त्रिपुरघ्नादि देवानां यानं कुर्याद्विशेषतः | तेषां तत्पूर्वरात्रौ तु कृत्वा कौतुकबन्धनम् || यानान्ते स्नपनं कार्यं हविर्दत्वा प्रवेशयेत् | तृतीय दिनमारभ्योत्सवं चन्द्रशेखरम् || चतुर्थ दिनमारभ्योमास्कन्दोत्सवं भवेत् | पञ्चम दिनमारभ्य वृशेश्वरमथार्चयेत् || षष्ठ दिनमारभ्यार्ध नारीश्वरं तथा | पूर्वरात्रौ कौतुकं सर्व * * * * देवताम् || चतुर्थे पञ्चमे षष्ठे कुङ्कुमागरुकर्दमम् | चन्दनञ्च क्रमेणैव समालिप्य विशेषतः || अलंकृत्य च देवेशं यानं तैलं कृत्वा समाचरेत् | सप्तमेऽहनि सायाह्ने तैलाभ्यङ्गं समाचरेत् || प्. ६४) देवाग्रे तण्डुलं धार्यं तैलं तदुपरि न्यसेत् | प्रोक्ष्यार्घ्येण च तम्मन्त्र संहिता मनुना लभेत् || अवकुण्ठ्य तनुत्र्येण हृदा गन्धादिभिर्यजेत् | दन्तकाष्ठं च ताम्बूलं दत्वा दर्शनकं हृदा || तैलं शिवाणुना देवा क्रुद्धवादो दापयेद्गुरुः | देवादि दन्तकाष्ठादि क्रमेणैव तु दापयेत् || नन्दि चण्डेश्वरादीनां दापयेत्तु पृथक् पृथक् | तैल ताम्बूल सहिते * * भ्यो गुरुपूर्वकम् || प्रदद्याद्देवदेवेशं स्नपनाद्यं विधाय च | तत्तदन्ते समानीयात् कल्पिपतं याग मण्डपे || देवं स्नाप्य सम्पूज्य विनोदालोकनं नयेत् | ग्रामप्रदक्षिणं कृत्वा भवन * प्रपूजयेत् || अष्टमेऽहनि देवेशं मृगयात्रार्थ मानयेत् | युद्धारम्भ क्रियोपेतं नागवाजिसमन्वितम् || पुनश्चण्डेश्वरोपेतं मृगयात्रां समाचरेत् | मृगयात्रा वसाने तु देवे * स्नपनादिभिः || विधाय पूर्वविधिना पुनः सायन्तन क्रिया | तद्रात्रावपि नृत्तेशं स्नापयित्वा विचक्षणः || सितवस्त्रादिभिर्देवं अलंकृत्य विशेषतः | धूपदीपादिकं दत्वा कौतुकं बन्धयेत् ततः || प्. ६५) प्रागुक्त विधिना तत्र सर्वमङ्गलसंयुतम् | प्रभूतहविषं दद्यात् अपूपादिसमन्वितम् || शिबिकायां समारोप्य सर्वालंकारसंयुतम् | नानादीपसमायुक्तं प्रदक्षिणवशं नयेत् || आस्थानमण्डपे तत्र नृत्ताद्यैर्जागरं नयेत् | ततः प्रभाते नृत्तेशं अर्घ्यगन्धविधिर्गुरुः || सहस्रं वा तदर्धं वाऽष्टोत्तर शतं तु वा | ऊनमेकं तु पञ्चाशत् अथवापञ्चविंशतिः || अग्न्याधानादिकं सर्वं अग्निकार्योक्तमार्गतः | प्रायश्चित्तं तु विधिना अन्ते पूज्याहुतिं हुनेत् || स्नापयेत् कलशं पश्चात् वस्त्रमाच्छादनं परम् | नानाभरणसंयुक्तं नानामालासमन्वितम् || अलंकृत्य ततोदद्यात् धूपनैवेद्यकादिकम् | तत्पार्श्वे स्थण्डिलं कृत्वा पात्राग्निं यक्षकर्दमम् || कर्पूरादि समायुक्तं स्थण्डिलोपरि विन्यसेत् | संप्रोक्ष्य हेतिनामन्त्र्य संहिताहि समालभेत् || गन्धादिभिर्हृदाभ्यर्च्य कवचे नैव कुण्ठयेत् | तदग्रे स्थण्डिलं कुर्यात् शिवाग्निं विधिवद्गुरुः || समिदाज्येन चरुणा हुत्वा मूलाणुना शतम् | उद्भूते ये तदांशेन अङ्गा नामाहुतिर्भवेत् || प्. ६६) आन्ते पूर्णाहुतिं कुर्यात् शिवाग्निञ्च विसर्जयेत् | पात्रस्थं तत्समाधाय नृत्तेशे मूलमन्त्रतः || भावाद्यथाङ्गमालिप्य देवीनां दापयेद्गुरुः | ततो भक्त जनेभ्यश्च दापयेद्यक्ष कर्दमम् || सवत्सांगां सुवर्णञ्च तण्डुलं लवणं तिलम् | सर्पिस्तैलं क्रमेणैव दद्यादाचार्यं तृप्तयेत् || जलप्रदानसंयुक्तं यात्रादानमिति स्मृतम् | सर्वालंकारसंयुक्तं मुखेणसमन्वितम् || स्थानाचार्य समोपेतं आरोप्य शिबिकोत्तमे | पञ्चप्राकार मध्ये वा तद्बाह्ये वा प्रदक्षिणम् || कृत्वा यान क्रमं प्रोक्तं योग्यमङ्गलसंयुतम् | प्रविश्य मण्टपं पश्चात् परिवेषक्रमं नयेत् || तदा पाद्यादिकं दत्वा * * नादि समन्वितम् | नालिकेर जलाद्यन्तु दत्वाऽऽचमनं पुनः || अग्रतः प्रकीर्याथ दूर्वा पुष्पाक्षतादिकम् | धूपदीपादिकं दत्वा सर्वालंकारसंयुतम् || विनोद दर्शनोपेतं ततः संस्नापयेच्छिवम् | कौतुकं तु विसृज्याथ गुरवे तत्प्रदापयेत् || विशेषस्नपनोपेतं गन्धाद्यैः संप्रपूज्यतः | प्रभूतहविषोपेतं ताम्बूलं संप्रदापयेत् || प्. ६७) * * * * * * * * * * यानं समाचरेत् | सायाह्नसमये देवं अलंकृत्य विशेषतः || यानं तदङ्कणे कुर्यात् पूर्व * * * दन्तिके | नीराजनं ततः प्राग्वत् प्रकुर्यान्मङ्गलैः सह || रात्रं ते तु समारोप्य * * वेशं प्रवेशयेत् | महानसे तथा याग मण्डपे समलंकृतम् || निवेद्य देवं तत्रैव लाजैः पाद्य होमभूतिं सदापयेत् | द्विज प्रविश्य घ्नं पश्चात् स्नपनादि क्रमाचरे . || तद्रात्रौ तद्दिनस्यो दयात् पूर्वे गत्व चैवं जलाशयम् | * * * * * * * * * * * ह्मणं गुरुः || हे देवि गङ्गे यमुने नर्मदे च सरस्वतीम् | सिन्धो गोदावरीत्वञ्च कावेरी सन्निधिर्भवेत् || इति रूध्वं रवेरस्तमनं ये तु दीक्षिताम् | पापशुद्ध्यै च तन्मध्ये त्रिशूलपश्चाच्छिवमन्त्रमनुस्मरन् || वाच्यं * * तुकं तीर्थं प्रकुर्याद्देशिकोत्तमः | दशमेऽहनि होमान्ते चूर्णोत्सवमथा चरेत् || गोमया लेपनं नीत्वा तत्पुरः स्थण्डिलद्वयम् | एकत्र शूलमन्यत्र लुखलं मुसलं नयेत् || न्यस्त्वा दूर्वाक्षतं तैलं ताम्बूलं बहुलं तथा | उलूखले रात्रि चूर्णं तु निक्षिप्य तदनन्तरम् || प्. ६८) पूजयेद्देवदेवेशं पाद्याद्यैर्धूप चारितम् | दूर्वाङ्कुराक्षताद्यैस्तु कुर्याद्धृतशिरोर्पणम् || शिव तत्वादितो वात्मा तत्वादीनामथापि वा | स मुखं वापि देव्यां शूलं तथां तथम् || मुसले उलूखले बीजं आधाराख्यं क्रमाद्यजेत् | तयोर्दूर्वा प्रधानञ्च कर्तव्यं देशिकादिभिः || ततोऽसिना त्रिधा रात्रिंर्वाद्यैः चूर्णयेत् क्रमात् | अस्त्रेणादाय तच्चूर्णं नानापात्रेषु भावितम् || लिङ्गबेर त्रिशूलार्थं जनार्थं कलशादिषु | तैलं पृथक् पृथक् पात्र लिङ्गबेरार्थमाहरेत् || प्रोक्षदिना हृदायष्ट्वा दद्यात्तम्बुलपूर्वकम् | रात्रि चूर्णञ्च देयं स्यात् त्रिशूले * * समन्वितम् || कुर्याच्चूर्णोत्सवं शीघ्रं गम्यानु परिचारकैः | जनेभ्यः तैलताम्बूलं दापयेद्गुरुपूर्वकम् || ततः समुद्रनद्यादौ महातीर्थार्थमानयेत् | बेरी त्रिशूलसंयुक्तं सर्वालंकारसंयुतम् || स्थण्डिल द्वितयं तीरे कुर्याच्छाल्यादिना ततः | एक त्रिशूलं संस्थाप्य मन्यत्र कलशं न वा || सूत्रकूर्च समायुक्तान् सवस्त्रादि स पल्लवान् | पुण्याहं वाचयित्वा तु तेषु गन्धादिकां यजेत् || प्. ६९) देवानाहूय पूर्वोक्त दामदोष विसर्जयेत् | कौतुकस्य विसृज्याथ शूलं संस्नाप्येत्तुतैः || तीर्थ मध्ये ततः प्राग्वत् अवगाहनमाचरेत् | जलात्रिशूल मूर्तिर्यत्तत्तीरे विनिवेद्य च || पूजयित्वा ततः शूलं भवनं सन्निवेशयेत् | त्रिशूलेन सहस्नानं ये कुर्वन्ति नरोत्तमाः || तेऽपि यान्ति शिवस्थानं न तेषां तु पुनर्भवेत् | यागमण्डपमासाद्य पूर्णाहुतिमथा चरेत् || ततो मध्याह्न समये देवं सम्पूज्य देशिकः | यागस्थ कुम्भमानीय सर्वमङ्गलसंयुतम् || प्रदक्षिणवशान्नीत्वा लिङ्गपीठ मनु क्रमात् | देव देवीं च विद्येशान् ईशा स्यात् परितो न्यसेत् || * * * येन संप्रोक्ष्य विशेष स्नपनान्वितम् | ततः सम्पूजयेत् पश्चात् यथा विभवविस्तरम् || सायाह्न समये पश्चात् नयेत्तीर्थार्थमुत्तमम् | तद्रात्रौ लोकपालानां * * * मवरोहणम् || कृत्वा तद्दिनमारभ्य परिवेषक्रमं नयेत् | सप्ताह सर्ववाद्यादि सहितं यानहीनकम् || मौनं सप्तदिनं पश्चात् यजनेन समन्वितम् | चण्डपूजां तदन्ते तु होमस्तवनसंयुतम् || पुरश्चण्डेश्वरं नीत्वा यानं सप्ताह माचरेत् | प्. ७०) (सप्ताह सर्ववाद्यादि सहितं यानहीनकम् |) तदन्ते पूर्ववत्तीर्थं त्रिशूल सहितं नयेत् || ध्वजारोहण तद्रात्रौ विदध्याद्विधिपूर्वकम् | विजयाख्योत्सवः प्रोक्तः विशेषाद्येषु गम्यते || विजयोक्तं नयेत्सर्वं त्रिपञ्चाहादि पैतृकैः | लोकपाला ध्वजं चाष्टौ भक्तलिङ्ग विहाय च || देवि कोद्दिष्टशाहानि पैतृ * * * दाचरेत् | देविके भवने तीर्थं दिने रात्र ध्वजस्य हि || अवरोहं त्रिपञ्चाब्धि ग्रहरुद्र गणेषु च | विश्वपञ्च दशक्षो वा प्रायश्चित्तं तदूर्ध्वतः || ध्वजावरोह नक्षत्रे शुद्धाख्यैः स्नपनं नयेत् | लिङ्गे बेरे वृषे शूले स्नपनोक्तप्रकारतः || अर्चनोक्तं समभ्यर्च्य मालाभिरभि भूषयेत् | तद्रात्रौ पूजयेच्चण्ड ईश्वरं स्नपनं युतम् || शुद्धा वद्यकं दत्वा होमेन च युतं तु वा | ज्ञानतोऽज्ञानतो वाऽपि कृतं न्यूनाधिकं मया || ततस्तु मर्मसंपूर्णं चण्डनाथ तवाज्ञया | ध्वजपीठादिकं पश्चात् गत्वा होमं नयेद्गुरुः || विसर्ज * र्थमुक्षस्तु शताहुत्यावृषाणुना | ततो विसृज्य वृषभं * * * चत्वारो हयेत् || प्. ७१) ततो ग्रामबलिं दद्यात् अन्नलिङ्गसमन्वितम् | त्रिशूलेन युतं सर्वं वाद्यघोषन * * * || बलि प्रदान काले तु सर्ववाद्यं प्रघोषयेत् | अन्यत्र मौनमास्थाय मौनाख्यं बलिमाचरेत् || ग्रामं प्रविश्य ब्रह्मादीन् बलिं दत्वा विसर्जयेत् | ततः प्रविश्य भवनं बलि पीठे बलिं क्षिपेत् || उत्सवादौ च मध्ये च भक्तानामुत्सवं भवेत् | उत्सवान्ते स एव स्यात् कर्तव्यं चा वशेन तु || दमना रोहणादौ तु मासपूजार्थमुत्सवम् | विधाय कौतुकं पूर्वं रात्रौ वाद्य एव वा || आचार्य पूजा कर्तव्या वस्त्र हेमाङ्गुलीयकैः | निन्दा त्रिपञ्च निष्कान्तं तद्वृद्ध्या दक्षिणा भवेत् || यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् | एवं महोत्सवं कुर्याच्छ्रद्धापूर्वं नरोत्तमः || त्रि सप्त कुलमुद्धृत्य शैवं स्थानमवाप्नुयात् | इति विजयतन्त्रे त्रिसहस्रसंहितायां भक्तोत्सव पटलः || इति विजयोत्तरतन्त्रं समाप्तम् ########### END OF FILE #######