#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00619 Uniform title: viraktotpattikriyālakṣaṇa Description: Notes: Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: March 27, 2022 Publisher : vīraśaivaliṅgibrahmaṇagranthamala Publication year : 1906 Publication city : Solapur Publication country : India #################################################### ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ २४ वा विरक्तोत्पत्तिक्रियालक्षण | शके १८२८-१९०६ पृ० १) श्रीरस्तु विरक्तोत्पत्तिः उत्तरवातुले प्रमथपर शिवसंवादे | मंदराद्रौ गणाः सर्वे समेताः परमेश्वरम् || निरंजनविभोर्लीलां भाविनीं भवनाशिनीम् || १ || जिज्ञासवः परशिवं प्रार्थयामासुरादरात् || एवं गणैः प्रार्थ्यमानः शिवः प्रोवाच लीलया || २ || मच्छिखाचक्रमध्यस्थं चरलिंगं निरंजनम् || दीप्तमाविरभूत्साक्षान्मोक्षसाम्राज्यदायकम् || ३ || ममैतच्चरलिंगं तु मत्तः शतगुणाधिकम् || युक्तोऽहं परया शक्त्या शक्त्यतीतमिदं गणाः || ४ || इदं तु निष्कलं ज्ञेयं सकलोऽहं गणेश्वराः || वर्णेनाहं समायुक्तो वर्णातीतमिदं गणाः || ५ || आदौ तच्चरलिंगं तु निरंजन इति स्मृतम् || त्रेतायां दैवतं चैतन्निर्माय इति कीर्तितम् || ६ || द्वापरे निष्कलश्चेति विश्रुतं च तदेव हि || कलौ प्रभुरिति ख्यातं तस्य नामानि वै क्रमात् || ७ || कलौ तत्प्रभुदेवस्य पीठं कल्याणपत्तने || बसवेशादिप्रमथसंदोहपरिकल्पितम् || ८ || त्रिचैतन्यं त्रिकं शून्यं नादबिंदुकलात्मकम् || प्रणवं निर्गुणं तत्तु सर्व शून्यं त्रिधा स्थितम् || ९ || त्रिवृत्प्रवणगर्भत्वात्तत्पीठत्वात्तथा मतम् || शून्यसिंहासनं चेति सर्वतः प्रथितं भुवि || १० || पृ० २) भक्ताधीनतया गत्वा श्रीमद्बसवमंदिरम् || पीठमारुह्य भगवान् प्रभुः प्रमथराट् तदा || ११ || बसवेश्वरमुख्यानां ज्ञानदीक्षामनुग्रहात् || विधाय सर्ववेदांतसारसंग्रहरूपकम् || १२ || लिंगांगसामरस्यं हि बोधयित्वा तु संस्फुटम् || ततस्तेभ्यः प्रसादादि दत्वा सर्वमलापहम् || १३ || पावयित्वाऽखिलांस्तत्र श्रीचन्नबसवांकितम् || स्थलषट्कोयसंपत्तिगरिष्ठं ब्रह्मचारिणम् || १४ || विलोक्य कृपया दृष्ट्वा तमाहूयांतिके विभुः || स्वमुद्रणं स्वाश्रमं च पीठमाचारपुस्तकम् || १५ || संप्रदायैवमेवैतन्मतस्य परिपालनम् || कुरुष्व लोकोद्धरणार्थं (लोकोद्धाराय) शिष्यपंक्तिं प्रवर्द्धय || १६ || इत्थं प्रशास्य भगवान्निरंजनविभुस्तदा || गणाध्यक्षैः समं लोकहितार्थं संचरन् भुवि || १७ || भक्तौघाघविनाशार्थं दीक्षाशिक्षादिकं तथा || विधायाथ समस्तेषु देशेष्वपिहितेच्छया || १८ || विस्तार्य मामकं धर्मं पुनर्मां समुपेष्यति || ततस्तद्वंशजा भूमौ तदाचरणसंयुताः || १९ || सर्वभक्तानुग्रहार्थमटित्वा भूतलेऽखिले || तत्र तत्र मठांस्थापयित्वा दीक्षादिकानपि || २० || संस्कारान् बहुधा कृत्वैवोद्धरिष्यंति मन्मतम् || २१ || पृ० ३) मराठी भाषा*********** पृ० ४) मराठी भाषा ********** पृ० ५) || श्रीरस्तु || निराभारिलक्षणं | सूक्ष्मागमे, १२ पटले निराभारिचराणां च षड्गुणं भूषणं स्मृतं | एकन्यूनो भवति वा स दारीति निगद्यते || १ || वैराग्यं ज्ञानसंपत्तिर्ब्रह्मचर्यं तपोज्वलं | कारुण्यं च सदाचारमेतत् षट् संप्रकीर्तितं || २ || षट्संस्कारगुणं त्यक्त्वा लिंगधारी चरो यदि | स चरो न सदाचारी सोऽपि व्यक्तो निशाचरः || ३ || लिंगिब्राह्मणसंभूतो लिंगधारी क्रियान्वितः | कामिनीरहितो भूत्वा निराभारिपदं व्रजेत् || ४ || यो वीरमार्गगामी च चरधारी भवेत्सदा | अचरंश्चान्नभोक्ता च स कथं वीरशैववान् || ५ || सर्वे भक्ताः सदाचारदक्षवृत्तिप्रपूजिताः | भवन्ति यदि देवेशि न जायन्ते हि किं चराः || ६ || चराद्ज्ञानपरा जाताश्शापदानदयापराः | सद्भक्ता नच जायन्ते वीरमार्गेषु कोविदाः || ७ || आचारपुरुषो वीर आचारी वीरशैववान् | पृ० ६) अनाचारी चरेंद्रोऽपि दूषणीयो गणेश्वरैः || ८ || अनाचारपरत्वेन महापातकसंभवः | महापापोद्भवाद्देवि यातनाभाजनो भवेत् || ९ || अज्ञानादपि क्रोधाद्वा मोहनाद्वापि मानवः | बहुपापानि संकुर्वन् यातनाभाजनो भवेत् || १० || भक्तानां वीरशैवानां निराभारवतां सदा | काषायवस्त्र मीशानि स्वेष्टलिंगस्य भूषणम् || ११ || पांडुरं लिंगसूत्रं च पांडुरं शांभवांबरं | पांडुरं वसनं दूष्यं मद्ध्यानरतभाविनाम् || १२ || निराभारी विरक्तश्च लोकपूज्यो महेश्वरि | विना काषायवसनं न वहेच्छ्वेतमंबरम् || १३ || क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाधिकाः | पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || १४ || द्विजातिष्वधिका विप्रा विप्रेषु क्रतुबुद्धयः | क्रतुबुद्धिषु कर्तारस्तेभ्यः सन्यासिनोऽधिकाः || १५ || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः | तेषु श्रेष्ठा महाभाग मम लिंगांगसंगिनः || १६ || लिंगांगसंगिष्वधिकः षट्स्थलज्ञानवान् पुमान् | तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || १७ || स वंद्यः सर्वदा पूज्यः संसारविजिगीषुभिः | बहुनोक्तेन किं वत्स स एवायं न संशयः || १८ || पृ० ७) इत्येकवचनं पूर्वं सुयशावल्लभो मुदा | कुमाराय बभाणाद्य बोधितं चेह शांकरि || १९ || यस्मिन् स्थले वीरशैवो विराजति क्षणं क्षणं | तत् स्थलं लिंगसदनमिति भावय निश्चयम् || २० || वीरशैवोदराज्जातो निराभारी महेश्वरः | निराभारिपिता देवि वीरशैवो गणेश्वरः || २१ || वीरशैवः पितारूपी जननीरूप एव हि | गुरुरूपो वीरशैवो लिंगरूपो निरंजनः || २२ || निराभारी देशिकेंद्रो निगमागमपाठकः | पश्चिमस्थानगलितो भक्तिकारणवैभवात् || २३ || तत्पादपद्मगलिता जाह्नवी लोकपावनी | इयं गंगा वीरशैवे बभूव गलमालिका || २४ || क्रियाहीनः संचरामि लिंगहीनस्तथैवच | आकारहीनतो देवि केवलं ज्ञानरूपतः || २५ || देहधारी लिंगधारी क्रियाज्ञानात्मकः सदा | भूत्वा संचरते देवि मद्भक्तो वीरशैववान् || २६ || सर्वेषामधिकश्चाहं ममेशा वीरशैविनः || तेषां नास्त्यधिको देवि सत्यं सत्यं न संशयः || २७ || आचारहीनता यस्मिन् निराभारिणि वर्तते | यदि स चाधमः प्रोक्तो वचनेन मम प्रिये || २८ || सर्वधर्माय गांभीर्यं वर्तते शुद्धवर्तनात् | अवर्तनात्सर्वधर्मं विनाश्य ति वरानने || २९ || पृ० ८) शंकरसंहितायां, अध्याय ८३ | धारयेत्समतां कंथां क्षमाख्यां भस्मघुंटिकां | दयाकमंडलुं सत्यज्ञानदंडं मनोहरं || ५१ || वैराग्यभिक्षापात्रं च भक्तिभिक्षां च याचयेत् | लिंगांगसंगिनः शुद्धान् सदाचारान्वितान्नरान् || ५२ || एवं विचरतस्तस्य भवंत्येते परिग्रहाः | विद्या भार्या सुतस्तोषः क्षमा हि परिचारिका || ५३ || माता भक्तिः पिताचारस्सत्यं नप्ता शमः सखा | वैराग्यं सुहृदाचार्यो दमः श्रद्धा स्वसा मता || ५४ || दासीत्वहिंसा दासः स्यादस्तेयं परिकीर्तितः | मैत्र्याद्यास्तनयाः प्रोक्ता धर्मोऽसौ वाहनं मतम् || ५५ || ज्ञानं देहस्तथा क्षेत्रं विचारः सर्वगोचरः | देशो मोक्षः सुगम्योऽयं प्राणलिंगांगसंगिनः || ५६ || एतान् परिग्रहान् वत्स गृहीत्वा शुद्धमानसः | परिपूर्णश्चिदानंदश्चरेदुर्वीमिमां नरः || ५७ || ८१ अध्याये | अत्याश्रमी प्राणलिंगसंबंधी भस्मघुंटिकाम् | कंथां कमंडलुं भिक्षापात्रं दंडं च धारयेत् || ४८ || एताः पंच महामुद्रा यस्मिन् यस्मिन् भवन्ति हि | तं तं शरणमभ्येत्य सर्वभावेन पूजयेत् || ४९ || पंचमुद्रान्वितो धर्मो यस्मिन् वत्स प्रवर्तते | स वंद्यः सर्वदा पूज्यः प्राणलिंगसमन्वितैः || ५० || पृ० ९) सूक्ष्मागमे ७ पटले | निराभारमतं वक्ष्ये समाहितमनाः शृणु || ७५ || जन्तोः पुण्यं पापमिति कर्म द्विविधमुच्यते | निवृत्तकर्मभारत्वान्निराभार इति स्मृतः || ७६ || जटी मुंडी शिखी वापि काषायवसनान्वितः | निस्पृहो निजलिंगैक्यो भिक्षाशी भयवर्जितः || ७७ || मौनी भूतदयायुक्तो निराभार इति स्तुतः | माहात्म्यं जटिनां यत्स्यान्मुंडिनां च तदेव हि || ७८ || कंथाकमंडलुधरो भूतिरुद्राक्षसंयुतः | दंडकौपीनधारी च निराभार इति स्मृतः || ७९ || वन्यैः पत्रैश्च पुष्पैश्च फलैर्लिंगं प्रपूजयेत् | कामक्रोधादिरहितः शिवज्ञाना जिताद्रयः || ८० || जंगमस्तु चरेद्भिक्षां यावत्स्वोदरपूरणम् | चरेन्माधुकरीं भिक्षां चरस्थानो दयापरः || ८१ || एकान्नं तु न चाश्नीयाद्देवि तद्दोषकृद्यतः | यथा मधुकरः पुष्पान्मधु गृह्णाति पार्वति || ८२ || तथा गृहस्थाद्भिक्षेत उपवाससमोविधिः | एकान्नं वापि भुंजीयात् प्रार्थितं सद्भिरादरात् || ८३ || भक्तैर्गृहस्थैः संपूज्या एते माहेश्वरा जनाः | एतान्विना यात्रकृता पूजा सा निष्फला भवेत् || ८४ | न वस्तुसंग्रहं कुर्याद्यत्रकुत्रापि जंगमः | दत्तं दद्याच्च भक्तेभ्यो दरिद्रेभ्यो दयान्वितः || ८५ || सुवर्णरत्नदानादिवस्तुवृद्ध्युपजीवनात् | पृ० १०) अत्याश्रमी यदि चरेत् सोऽयं पातकिनां वरः || ८६ || जटाधारी शिखी मुंडी पंचमुद्रासमन्वितः | स्त्रीसंगं कुरुते यस्तु स मद्द्रोही न संशयः || ८७ || अतिवर्णाश्रमी मुंडा प्राणलिंगांगयोगभाक् | न धारयेच्छिरोवस्त्रमुष्णीषं वा न धारयेत् || ८८ || छिन्नभिन्नादि दुष्टं च यद्वल्लिंगं न पूज्यते | लिंगाचारव्रतभ्रष्टो जंगमस्तु न पूज्यते || ८९ || अन्योन्यमेतद्वंद्यं स्याच्छिवभावेन चेतसा | जंगमो जंगमं दृष्ट्वा न प्रणामं करोति यः || ९० || स एव जंगमद्रोही मम द्रोही न संशयः | जंगमं द्वेष्टि यो मोहात्स तु मां द्वेष्टि शांकरि || ९१ || तस्मादन्योन्यमपि च पूज्याः स्युर्जंगमस्थले | शिवभक्तिः शिवज्ञानं शिवमुद्रा शिवव्रतम् || ९२ || शिवलिंगार्चनश्रद्धा वृत्त्यंतरनिरोधनं | एते धर्मा यत्र सन्ति स भाराभारवर्जितः || ९३ || षट्स्थलज्ञानसंपन्नः षडंगांगसमाधिमान् | आत्मवत्परद्रष्टा च स एवाहं न संशयः || ९४ || वीरशैवपरो यस्तु यत्र तिष्ठति पार्वति | तत्तीर्थं तत्तपः शान्तिस्तत्र तिष्ठामि सर्वदा || ९५ || तीर्थयात्रादिकं चैषां नास्ति चान्यत्र पार्वति | पृ० ११) कैलासादिपदापेक्षां त्यजेल्लिंगांगयोगभाक् || ९६ || यत्रान्यदेवतापूजा तत्स्थानं परिवर्जयेत् | शिवभक्तिविहीनं च जनं नैव समाश्रयेत् || ९७ || आदातृदातृदेयानां शिवचिह्ने सुशोभनम् | शिवचिह्नांकितं ग्राह्यमन्यच्चांडालविट्समम् || ९८ || न तिथि र्नच नक्षत्रं न योगकरणादिकम् | सामुद्रिकं च भक्तानां नास्ति लिंगांगसंगिनाम् || ९९ || सर्वं शिवमयं पश्येदन्यभावो न विद्यते | लिंगांगसंबंधपदार्थज्ञानं मोक्षसाधनम् || १०० || तदेकमेव मोक्षः स्यान्मम लिंगांगसंगिनाम् | तस्मात्सर्वैः सदा कार्यं लिंगाराधनमादरात् || १०१ || पारमेश्वरागमे ८ पटले | ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | सरहस्यं सविस्तारं महिमानं मतस्य मे || १ || वीरत्वं नाम देवेशि यथा वीरो रणे भटः | तथा मते च सद्भक्त्या वीरो वैराग्यतो दृढात् || २ || ईषणत्रयनिर्मुक्ता ज्ञानविज्ञानतत्पराः | दृढवैराग्यसंपन्ना वीरास्ते शिवयोगिनः || ३ || अंधा ये लिंगिनो देवि परस्त्रीरूपदर्शने | युवानश्चापि पटवस्ते वीराः शिवयोगिनः || ४ || ये मूका लिंगिनो देवि परदोषानुवादने | सर्वज्ञा अपि वाचालास्ते वीराः शिवयोगिनः || ५ || पृ० १२) ये पंढाः परकान्तासु पंगवो येऽन्यपीडने | अजिह्वा ये रसास्वादे वीरास्ते शिवयोगिनः || ६ || अमानिनोऽदंभिनश्चाहिंसाक्षांत्यार्जवान्विताः | आचार्योपासनपरा वीरास्ते शिवयोगिनः || ७ || शौचात्मनिग्रहस्थैर्यैरनहंकारशालिनः | सर्वत्र समचित्ता ये वीरास्ते शिवयोगिनः || ८ || सत्यव्रतोक्तिनिरता अस्तेयधनतत्पराः | अपरिग्रहशीला ये वीरास्ते शिवयोगिनः || १३ || अद्वेष्टारोऽधिके स्वस्मात् स्वसमेष्वनसूयवः | अतिरस्कारिणो न्यूने वीरास्ते शिवयोगिनः || १४ || स्पर्धासूयातिरस्कारवर्जिताः शान्तचेतसः | मम ध्यानपरा नित्यं वीरास्ते शिवयोगिनः || १५ || यदोत्तिष्ठति स्वापेन स्मरन्नेव गुरुं शिवम् | उत्थाय चिंतयेद्देवि गुरुं मां लिंगरूपिणम् || १८ || यावल्लब्धेन देवेशि पत्रपुष्पाक्षतादिभिः | संपाद्य पूर्वदिवसे सर्वदोषसि पूजयेत् || १९ || नित्यं पूजोषसि शिवे मध्याह्ने सायमेव च | सायंप्रातरशक्तौ तु पूजयेत्सर्वदोषसि || २० || शक्तावुषस्यर्चनायामर्चयेदन्यथा शिवे | संध्यायामर्चयेन्नित्यं यथारुचि तथा भवेत् || २१ || पृ० १३) नित्यं त्रिकालतो नित्यं मध्याह्नेऽर्चनमैच्छिकम् || नित्यं प्रातश्च सायं च पूजा नित्यैकदा शिवे || २२ || अशक्तश्चासहायश्च यथेच्छं पूजयेत्सदा || शक्तोऽपि यो न कुरुते रौरवे नरके वसेत् || २३ || सत्यामपि च सामग्र्यां शक्तावपि ममार्चने || न पूजयेद्यः शाठ्येन कामुको विषयातुरः || २४ || कर्मज्ञानोभयभ्रष्टो निमग्नो दुःखसागरे || रौरवे नरके घोरे वसेदाचंद्रतारकम् || २५ || उषः सूर्योदयात्पूर्वं मुहूर्तावध्यनेहसि || पूजाकालः स विज्ञेयः शिवत्वप्राप्तिकारकः || २६ || अथवानंतरं भानोरुदयादर्चयेच्छिवम् || मध्याह्नेऽपि तथा सायं कृत्वा नक्षत्रदर्शनम् || २७ || निर्वर्त्यौषसिकीं पूजां जपस्तोत्रादिकं प्रिये || निर्गमेदटितुं भैक्ष्यं प्रणम्य गुरुमादितः || २८ || पर्यटेल्लिंगिनामेव भक्तानां शिवयोगिनाम् || यावदिच्छन् गृहद्वारं पक्कं वाऽपक्कमेव वा || ३० || निबद्धपादघंटो वा घंटो वा जयघंटिकः || शंखश्च शृंगिनादो वा दंडघंटोऽपि पर्यटन् || ३१ || रुद्राक्षाणां च मालाभिः कंथाकंबलभूषितः || विज्ञापयित्वा गृहिणः कया चिच्छब्दसंज्ञया || ३२ || भिक्षेत्याज्ञापयेल्लिंगी गुरुधर्ममनुस्मरन् || गृही वा गृहिणी वापि नत्वा जंगममानयेत् || ३३ || पृ० १४) शिवबुद्ध्यार्चयित्वा तं संतृप्तं प्रेषयेत्पुनः || यद्यपक्वं समानीतं पक्वं कृत्वार्पयेन्मम || ३४ || यदि स्यात् पक्कमानीतमश्नीयादर्पितं मम || न चैकभुक्तिनियमो नोपवासादि नो व्रतम् || ३५ || यथैव गच्छन्मार्गेषु शीतवातातपादिकं || ३८ || विषह्य लघु देवेशि स्वपदं चाधिगच्छति || न स्त्रीषु नैवानर्हेषु नाधर्मेष्वपि जन्मसु || ३८ || न तिर्यगादिनीचेषु जायते वीरशैवगः || ३९ || पटले ९ दैवोपलब्धसुखभुक् शिवपूजापराणः? || वीरशैवपदं प्राप्य सुखेनोपेति निर्वृतिम् || ४० || पात्रमेकं? तु? भैक्षायाः कंथैका कृष्णकंबलः? || दंडो ध्वनिः शिवे भक्तिर्वीरशैवस्य लक्षणम् || ४६ || शान्तिर्निष्ठा भूतदमा? चित्तवृत्तिनिरोधनम् || सर्वत्रेश्वरतादात्म्यं वीरशैवस्य लक्षणम् || ४५ || नैव रक्षन्ति? विषया न भोगा न च बांधवाः || नैव संपन्नदारिद्र्यं निष्ठैका सति शंकरे || ४८ || अरण्ये सन्ति पत्राणि नद्यां स्वादुकानि च || सन्ति हस्तौ च पादौ च मल्लिंगं निरुपद्रवम् || ५१ || पृ० १५) नोद्यमो नास्य सेवा वा नायासो नार्थसंक्षयः || आराध्य सुखमीशं मां धीमानेति शिवं पदम् || ५२ || प्राप्य वीरमतं त्यक्त्वान्यथेच्छेद्यः परं मम || स गृहीत्वा शुनः पुच्छं तर्तुमिच्छति सागरम् || ५३ || ज्ञात्वा गुरुमुखाच्छास्त्रं धृतकाषायदंडकः || प्रव्रजेद्गृहमुत्सृज्य शिखी मुंड्यपि वा? जटी || ५४ || पटले १५ | वन एव वसेन्नित्यभजनग्रामसंगतिः || न विशेन्नगरं ग्रामं गृहं वा गृहमेधिनाम्? || ५६ || यदि भक्तः समानीय दद्याद्भैक्ष्यं महेश्वरि || न रुचिं नापि वा सौख्यं चिंतयेन्न हिताहिते || ५७ || न स्त्रीणां वीक्षयेदास्यं न धर्मं शृणुयाद्वचः || न समाजं जनैरन्यैर्नेच्छासंचारमीश्वरि || ५८ || शयीत भूतले खट्वां वर्जयेच्छयने शिवे वसीत? वासः * * *? विवर्णं यद्यदीप्सति || ५९ || मुंडी जटी शिखी वापि कीर्णकेशोपि वा भवेत् || यदि मुंडी शिखी वा स्यादभ्यंगं स्वेच्छया यदि || ६० || जटी यदि न कुर्वीत तैलाभ्यंगमपि क्वचित् || यदि पूर्वं जटाधारी न पुनः क्षौरमाचरेत् || ६१ || पृ० १६) शिखी यदि शिवे लिंगी कुर्यादभ्यंगमैच्छिकम् || न चर्मपात्रसंस्पृष्टं तैलं स्पृश्येन्मदात्मकम् || ६२ || न नर्तनादिकं चित्रमीक्षेदेकान्ततो वसेत् || ६३ || शास्त्रेण गुरुवाक्येन यथावत्संप्रवर्तिनौ || मम लोके निवसतः स शिष्यः स गुरुः शिवे || ६६ || || सुप्रबोधागमे || निराभारस्य वीरस्य लक्षणं शृणु पार्वति || सर्वस्नक्चंदनादीनि वनितादिमहासुखम् || १ || तिरस्कृत्य स्वचित्तं तन्न्यसेत्परशिवे सदा || स्वात्मन्येकं विदित्वा तु सर्वसंगविवर्जितः || २ || दंडकौपीनकाषायजटायोगकमंडलून् || धृत्वाऽथवा शिरोमुंडी भूत्वा वसनवर्जितः || ३ || अजिनासनयुक्तः सन् काषायाच्छादकश्चरेत् || कूष्मांडखर्परं धृत्वा भवेच्छैवं दिगंबरः || ४ || यदृच्छया लब्धशैवप्रसादास्वादने रतः || कायेन वाचा मनसा त्यक्तभूवित्तकन्यकः || ५ || त्यक्त्वा गृहं मठादीनि मनुष्यादिगृहाणि च || प्रवासं तेन कर्तव्यं वने गिरिगुहादिषु || ६ || तृणीकृतजगज्जीवो लौकिकाचारवर्जितः || पृ० १७) त्यक्तप्रवरगोत्रश्च सूत्रवर्णादिकस्तथा || ७ || स्वयंभूलीलया सोऽहं ब्रह्मेति विदितात्मवान् || निर्ममो विग्रहो भूत्वा वधूसंगविवर्जितः || ८ || निष्कारणो निष्कलंको निर्विकल्पश्च निष्क्रियः || निष्प्रपंचो निरालस्यो रागद्वेषादिवर्जितः || ९ || निषिद्धे विधिरूपे च एकचित्तो भवेच्च सः || कर्मकांडिगृहस्थानां मंदिरेषु शुभाशुभे || १० || विवाहादिषु कार्येषु शवादिस्थापनेषु च || आगत्वा चैकदिवसं पुरग्रामे वसेच्च सः || ११ || गृहत्रयेष्वन्नपानं याचमानो भवेच्च सः || दत्तं चेदपि भुंजीत नोचेत्क्लेशं न कारयेत् || १२ || नांदोलिकां रोहयेत्स अश्वारोहणवर्जितः || पादचारी च संभूय चरेद्भूवलये सदा || १३ || अभक्तानां च भक्तानां शिक्षाशापविवर्जितः || एकभुक्तो भवेत्सोऽपि सदा वैराग्यवान् भवेत् || १४ || सती विद्या सुतस्तोषो विरागो बांधवः स्मृतः || १५ || क्षमैव परिवारस्तु सखा शान्तिरितीरितः || भक्तिर्माता सदाचारः पिता सत्यं सुतो मम || १६ || स्नुषा श्रद्धैव संप्रोक्ता नाशादास स्तथैव च || धर्मो वाहनमित्युक्त आचारो दम एव च || १७ || दासी त्वहिंसा संप्रोक्ता पौत्रा मैत्र्यादिसद्गुणाः || ज्ञानमेव शरीरं स्याद्विचारः क्षेत्रमेव च || १८ || मुक्तिरेव वरो देश इति निश्चितधीः सदा || कंथा कमंडलुश्चैव दंडो वै भैक्षपात्रकम् || १९ || पृ० १८) भस्मपात्रं च पंचैतान् बाह्यमुद्राश्च धारयेत् || तत्तन्मंत्रानुसारेण धृत्वा तु तदनंतरम् || २० || तदन्याः पंचमुद्रास्तु ह्यन्तरंगे तु धारयेत् || समतैव च कंथा स्याद्दंडो ज्ञानं तथैव च || २१ || कमंडलुदयैवासीद्वैराग्यं भैक्षपात्रकम् || क्षमैव भस्मघुटिकामेवं चांतेऽपि धारयेत् || २२ || एवंविधान् शैववेषान् ह्यंगीकृत्य सदाचरेत् || शिवार्चनं त्रिपुंड्राणां धारणं भस्मधूलनम् || २३ || शिवमंत्रजपश्चैव शिवध्यानपरायणः || सदा लिंगांगसंयोगक्रियाज्ञानादिसंयुतः || २४ || रसायनाद्यकृत्वा तु तथा वै क्रयविक्रयम् || वैद्यं वश्यं ज्योतिषं च व्यवहाराश्च लौकिकान् || २५ || विषयादीन् परित्यक्त्वा विरक्तः स्यादनंतरं || भवाख्यारण्यमध्यस्थलोभपकं परित्यजेत् || २६ || शुद्धवीरशिवाचार्याः पंचमुद्रान्विता भुवि || ५ || संचारं स्वेच्छया कुर्युर्भक्तैर्वंद्याश्च सर्वशः || दैवादागच्छतां पुंसामुपदेशः कृतो भवेत् || ६ || ज्ञानोपदेशः कर्तव्यो न च क्रियोपदेशकृत् || निराभारा वीरशैवाः सर्वे वंद्या न संशयः || ७ || दंडखंडनकर्तृत्वं तेषां नास्ति कदाचन || ८ || पृ० १९) || सिद्धान्तशिखामणौ || तद्धर्माचारं विरक्तोऽपि न त्यजेदित्याह || धर्म एव समस्तानां यतस्संसिद्धिकारणम् || निस्पृहोऽपि महायोगी धर्ममार्गं च न त्यजेत् || १ || ननु ज्ञानिनां किं धर्माचरणेनेत्यत्राह || ज्ञानामृतेन तृप्तोऽपि योगी धर्म न संत्यजेत् || आचारं महतां दृष्ट्वा प्रवर्तन्ते हि लौकिकाः || २ || सूक्ष्मागमे पटले १२ | प्रभोर्हस्ताब्जजातानां चरानां लक्षणं शृणु || कलशो वज्ररूपस्तु गोप्याननसमुद्भवः || १ || मूलप्रणवसंयुक्तो गंगातोयप्रपूरितः || जटिनो मुंडिनो वापि शिखिनो वापि संततम् || २ || भिक्षाशिनो भयातीताः काषायवसनान्विताः || निष्कामा निरहंकारा निरुत्सेका निरामयाः || ३ || निस्पृहा निजलिंगैक्या निरपेक्षा निराकुलाः || सर्वभूतदयायुक्ता निराभारा इति स्मृताः || ४ || पारमेश्वरागमे पटले ८ | धृत्वा काषायवसनं भिक्षाटनपराः सदा || शिवध्यानरताः शुद्धा वीरशैवा हि ते सदा || १६ || पृ० २०) वीरशैवव्रतस्थस्य नान्यत् कार्यं हि विद्यते || मम पू * * *? ध्यानं स्मरणं कीर्तनं विना || १७ || विशुद्धभक्ता मयि ये ये च वैका * * * *? मम ध्यानरता नित्यं वीरास्ते शिवयोगिनः || ९ || स्मरणं कीर्तनं के * * * *? गुह्यभाषणम् || संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च || १० || एतन्मै * * * * *? प्रवदन्ति मनीषिणः || विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् || ११ || तदुक्तलक्षण ब्रह्मचर्यव्रतपरा हि ये || योगिनो ये महात्मानस्ते वीराः शिवयोगिनः || १२ || यदि भिक्षाटनेच्छास्ते तदा भिक्षाटनं चरेत् || न कर्तव्यस्त्वनियमः साधनं ज्ञानमेव हि || २९ || त्रिकालमर्चयेल्लिंगं विहरेत यथासुखम् || विषयेंद्रियसंयोगं नैरंतर्येण यावता || ३६ || यत्नेन यतते लिंगी तावल्लघु सुखं व्रजेत् || वीरशैवमतस्थं यः पूजयेच्छिवरूपिणम् || ३९ || निस्तारयति दातारं दशपूर्वान् दशापरान् || यस्तिरस्कुरुते मूढः शिवलिंगिनमीश्वरि || ४० || स कोटिकुलसंयुक्तो रौरवे नरके पतेत् || तदेतत् कथितं देवि वीरशैवस्य लक्षणम् || ४१ || त्रिकालं भस्मना स्नानं शक्तितो लिंगपूजनम् || भैक्षं च शिवभक्तेषु वीरशैवस्य लक्षणम् || ४३ || पृ० २१) शिरोमुण्डनं ध्यानं तत्कथास्तोत्रमन्वहम् || शंकरस्य ममेशस्य वीरशैवस्य लक्षणम् || १२४ || मौनमेकान्तवासश्च मच्छास्त्रस्यावलोकनम् || विरक्तिर्विषयग्रामे वीरशैवस्य दने रत || ४६ || गुरुशुश्रूषणं शास्त्रचिंतनं तदनुष्ठिभिः || शान्तिरेकान्तवासश्च ठादी * *? शिवे मयि || ४९ || पूजनं सर्वदा लिंगी वीरशैवोपसर्पणम् || मत्पदप्राप्तये * *? सोपानपथमुच्यते || ५० || पारमेश्वरागमे पटले || १५ || अथाधिकारी गच्छेत मतं मम महत्तरम् || तुर्यवीरमहाशैवमप्रमत्तो वसेत्तदा || ५५ || तुर्यवीरमताविष्टो निवसेदेवमीश्वरि || अन्यथा भ्रंशते भूयोऽप्यधःकूपे न संशयः || ६४ || अज्ञात्वैतन्महाशास्त्ररहस्यं श्रीगुरोर्मुखात् || अबोधयित्वा शिष्यं यो भ्रष्टौ तावप्युभौ शिवे || ६५ || सुप्रभेदागमे | उपचारैः षोडशभिः पूजितस्तोषवर्जितः || अपूजितश्चेन्नो दुःखी भवेदेकप्रकारवान् || २७ || शीतोष्णयोः सुखे दुःखे शिलाविग्रहवद्भवेत् || पृ० २२) सुप्रभेदागमे | मदूर्ध्वमुखसंजातो निरंजनगणेश्वरः | शून्यपीठाधिकारी च पंचाचार्य * * *? रः | ८ | || व्यासकृतभविष्यत्पुराणे || राजयोगैकसाम्राज्यसौभाग्यः सर्वसुंदरः || मायाकोलाहलमहामायामदविभंजनः || १ || स गुरुः समस्तजगतामगोचरो निगमागमार्थनिरवद्यविग्रहः || मम चात्मबोधजनकाल्लमप्रभुः किमुतात्मनां सदृशप्रबोधवान् || २ || वीरशैवसदाचारसंग्रहे प्रकरणे || ८ || अथ निराभारिवीरशैवलक्षणं || सर्वस्रक्चंदनादीनि वनितादिमहासुखम् || तिरस्कृतस्वचित्तः सन् न्यसेत्परशिवे सदा || १२२ || स्वात्मन्यैक्यं विदित्वाथ सर्वसंगविवर्जितः || दण्डकौपीनकाषायजटायोगकमण्डलून् || १२३ || धृत्वाऽथवा शिरोमुण्डी भूत्वा वसनवर्जितः || पृ० २३) अजिनासनयुक्तस्सन् काषायाच्छादकश्चरेत् || १२४ || कूष्माण्डखर्परं धृत्वा भवेच्चैव दिगंबरः || यदृच्छया लब्धशैवप्रसादास्वादने रतः || १२५ || कायेन वाचा मनसा त्यक्तभूवित्तकन्यकः || त्यक्त्वा गृहमठादीनि मनुष्यादिगृहाणि च || प्रवासस्तेन कर्तव्यो वने गिरिगुहादिषु || १२६ || तृणीकृतजगज्जीवो लौकिकाचारवर्जितः || त्यक्तप्रवरगोत्रश्च सूत्रवर्णादिकं तथा || १२७ || पादांगुलीयवलयश्यामदन्तादिभिः सदा || स्त्रीजातिभिः कृतान्नादितिरस्कारी शिवव्रती || १२८ || पूर्वाश्रमगतान्मातृपितृर्नपि परित्यजेत् || स्वयंभुलीलया सोऽहं ब्रह्मेति विदितात्मवान् || १२९ || गृहस्थाचारवर्तीनां न कर्ता कार्यमंजसा || निर्नामो निर्ग्रहो भूत्वा वधूसंगविवर्जितः || १३० || निष्कारणो निष्कलंको निर्विकल्पश्च निष्क्रियः || निष्प्रपंचो निरालश्च रागद्वेषादिवर्जितः || १३१ || निषेधविधिरूपे च एकचित्तो भवेच्च सः || कर्मकांडिगृहस्थानां मंदिरेषु शुभाशुभे || १३२ || विवाहादिषु कार्येषु शवसंस्थापनादिषु || आगत्य चैकदिवसं पुरग्रामे वसेच्च सः || १३३ || ग्रहत्रयेष्वन्नपानं याचमानो भवेच्च सः || दत्तं चेदपि भुंजीत नो चेत्क्लेशं न कारयेत् || १३४ || पृ० २४) नांदोलिकां समारोहेदश्वारोहणवर्जितः || पादचारी च संभूय चरेद्भूवलये सदा || १३५ || अभक्तानां च भक्तानां शिक्षाशापविवर्जितः एकभुक्तो भवेत्सोऽपि सदा वैराग्यवान् भवेत् || १३६ || षट्स्थलान्त्यनिरालंबस्थानेषूद्यमवान्भवेत् || सती विद्या सुतस्तोषो वैराग्यं बांधवः स्मृतः || १३७ || क्षमैव परिवारस्तु सखा शांतिरितीरितः || भक्तिर्माता सदाचारः पिता सत्यं सुता मता || १३८ || स्नुषा श्रद्धैव संप्रोक्ता पौत्रा मैत्र्यादिसद्गुणाः || ज्ञानमेव शरीरं स्याद्विचारः क्षेत्रमेव च || १३९ || दासी त्वहिंसा संप्रोक्ता दासस्त्वास्था तथैव च धर्मो वाहनमित्युक्तं त्वाचारो दम एव च || १४० || मुक्तिरेव परो देश इति निश्चितधीः सदा || कंथा कमंडलुश्चैव दण्डं वै भैक्ष्यपात्रकम् || १४१ || भस्मपात्रं च पंचैता बाह्यमुद्राश्च धारयेत् || तत्तन्मंत्रानुसारेण धृत्वा तु तदनंतरम् || १४२ || तदन्यपंचमुद्रास्तु चांतरंगेऽपि धारयेत् || समतैव च कंथा स्याद्दण्डो ज्ञानं तथैव च || १४३ || कमण्डलुर्दयैवासीद्वैराग्यं भैक्ष्यपात्रकम् || क्षमैव भस्मघुटिकामेवं चान्तेऽपि धारयेत् || १४४ || केशग्रंथिजटावांश्च शिरोमुण्डी तथैव च मृगाजिनी च संभूय भूत्वा चैव दिगंबरः || १४५ || एवं विधाञ्छैववेषानंगीकृत्य सदा चरेत् || पृ० २५) शिवार्चनं त्रिपुंड्रस्य धारणं भस्मधूलनम् || १४६ || शिवमंत्रजपश्चैव शिवध्यानपरायणः || सदा लिंगांगसंयोगक्रियाज्ञानादिसंयुतः || १४७ || रसायनाद्यकृत्वा तु तथा वै क्रयविक्रयम् || वैद्यं वैश्यं ज्योतिषं च व्यवहारांश्च लौकिकान् || १४८ || विषयादीन्परित्यज्य विरक्तस्तदनंतरम् || भवाख्यारण्यमध्यस्थलोभपंकं परित्यजेत् || १४९ || तिरस्कृत्येंद्रियरिपून् मोहपैशाचिकं भयम् || तथैव क्रोधशार्दूलं ममतासर्पभीतिजम् || १५० || मन्मथाख्यस्तेयिनं च मदाख्यतिमिरं तथा || तापत्रयाख्यगर्ते च न प्रविष्टो भवेच्च सः || १५१ || विषयाख्ये कण्टकेऽपि पादप्रक्षेपवर्जितः || न प्रविष्टो भवेदेव सोऽहंकारमहाहृदे || १५२ || सर्वावधानी भूत्वैव विरक्तस्थाननिष्ठितः || षोडशैरुपचारैश्च पूजितस्तोषवर्जितः || १५३ || अपूजितश्चेन्नो दुःखी भवेदेकप्रकारवान् || शीतोष्णयोः सुखे दुःखे शिलाविग्रहवद्भवेत् || १५४ || क्रियादीक्षादिना पूर्वैराचार्यैर्दत्तमंजसा || सत्क्रियासंयुतं चेष्टलिंगं ब्रह्ममयं तथा || १५५ || गुरुवक्त्रेण सूक्ष्मे तु शरीरे च द्वितीयके || इदं प्राणमयं लिंगमिति संभावयेत्तथा || १५६ || तथैव प्राणलिंगं तु शरीरे कारणाह्वये || भावलिंगमिति ज्ञात्वा चेष्टलिंगं त्रिधा कृतम् || १५७ || पृ० २६) महालिंगमिति ज्ञात्वा तेषु भेदं न भावयेत् || इष्टलिंगं ततो धृत्वा पंचाचार्यैस्ततः परम् || १५८ || प्रकरणे || १५ || देव्युवाच | भगवंस्त्वन्मुखादेव गुरोर्लिंगस्य लक्षणम् || श्रुत्वा तद्वयमाहात्म्यमहं धन्याऽभवं विभो || २ || इदानीं चरमाहात्म्यं तच्चिह्नं तस्य गौरवम् || तदाचारविधिं श्रोतुं ममेच्छा वर्तते विभो || कृपया केवलं नाथ वद कारुण्यसागर || ३ || ईश्वर उवाच | सम्यक्पृष्टं त्वया गौरि साधु सन्मति मत्प्रिये || वक्तुं तच्चरमाहात्म्यं कल्पकोटिशतैरपि || ब्रह्मादीनां च सर्वेषामशक्यं मम तु प्रिये || ४ || तथापि त्वन्मुदे देवि संक्षेपेण वदाम्यहम् || गोपनीयं प्रयत्नेन मंत्रवत्प्राणवल्लभे || ५ || जंकाराज्जननं दूरं गकाराद्गतिनाशनम् || मकारान्मरणं नष्टं जंगमस्त्त्र्यक्षरात्मकः || ६ || यस्य नास्ति पुनर्जन्म गतिर्नास्ति कदाचन || बाधते यं न मरणं शृणु नाथे स जंगमः || ७ || जरामरणशून्यत्वाद्गमागमनवर्जनात् || मनुष्याचारराहित्याज्जंगमोऽयमुदाहृतः || ८ || पृ० २७) निरालंबो निर्विकल्पः कर्मपाशविवर्जितः || निःशून्यो निष्कलः साक्षाज्जंगमः स परः स्मृतः || ९ || गुणातीतः क्रियातीतः कलातीतश्चिरंतनः || तत्वातीतः परः साक्षाज्जंगमः शृणु मत्प्रिये || १० || निर्मोही निष्प्रियः शून्यः सत्वादिगुणवर्जितः || निराभारी निष्प्रपंचः सच्चिदानंदलक्षणः || ११ || शुद्धदेहः शुद्धमनाः शुद्धभावः शिवात्मकः || शुद्धबुद्धिः शुद्धगतिः शुद्धानां शुद्धिदायकः || १२ || सदसद्वस्तुरहितः सत्यासत्यविवर्जितः || कर्माकर्मविनिर्मुक्तश्चरः साक्षान्निरंजनः || १३ || स्वयञ्चरः पर इति जंगमेऽस्मिन्निरंजने || अस्ति भेदत्रयं सम्यग्ज्ञातव्यं वल्लभे त्वया || १४ || देव्युवाच | स्वामिन्सत्करुणावार्थे तस्य भेदत्रयस्य च || लक्षणं श्रोतुमिच्छामि वद सत्कृपया विभो || १५ || ईश्वर उवाच | साधु साधु महाभागे सम्यक्पृष्टं त्वयाऽधुना || ज्ञातुं शक्यं न सर्वेषामिदं तेऽद्य वदाम्यहम् || १६ || अंगीकृत्य सदाचारं धृत्वा जंगमलक्षणम् || ज्ञात्वा सद्धर्ममखिलं भूत्वा सुज्ञानवान्शुचिः || १७ || त्यक्त्वा दुष्कर्मनिचयं मुक्त्वा दौर्जन्यलक्षणम् || पृ० २८) हित्वा दुष्टमति शास्त्रं मत्वा सद्वेदशैवकम् || १८ || मठमेकं समाश्रित्य कृत्वा मल्लिंगपूजनम् || तत्पुरस्थितसद्भक्तगृहे भिक्षामटन्मुदा || १९ || तद्भिक्षार्जितसद्द्रव्येष्वास्थां हित्वा निरंतरम् || सावधानमनाः सम्यक्सत्यज्ञानपरो भवेत् || २० || गतागतेशभक्तानां चराणामौपचारकम् || कुर्वन्यो वसते नित्यं स एव स्वयजंगमः || २१ || अथ चरजंगमलक्षणम् | षट्स्थलाचारसंपत्तिं धृत्वा हित्वाऽष्टदुर्मदान् || षड्वर्गविक्रियां त्यक्त्वा कृत्वा षट्कर्मभंजनम् || २२ || षडूर्मिकचयं नीत्वा भित्वा षट्भ्रमणोन्मदम् || षडक्षरमनुं जप्त्वा भूत्वा तद्वन्निरंजनः || २३ || पंचाक्षरमनुं ध्यात्वा पंचक्लेशान्विपाटयन् वंचयन् वंचतां सम्यग्ज्ञानं संपत्तिवैभवात् || २४ || मलत्रयतरुं च्छित्वा धुलीकुर्वन्मदाचलम् || छिंदन्पाशाष्टकलतां भिंदन् व्यसनसप्तकम् || २५ || वीरमाहेश्वराचारसंपद्वृद्धिं दिने दिने || पालयित्वा प्राणसमं कायवाऽऽन्मानसैः परम् || २६ || शैवानुभावकं शास्त्रमंगीकृत्य पुराश्रयम् || तदैवाखिलशिष्याणामुपदिश्य दिने दिने || २७ || तदन्तःस्थमलं क्षाल्य कृत्वा तानखिलान् शुचीन् || तैः समं निखिलान् देशान्संचरन् शुद्धभावतः || २८ || तद्देशस्थमहाभक्तनिवहैः कृतपूजनम् || स्वीकुर्वन्मोदतोऽबाधं पावयंस्तान्महाजनान् || २९ || पृ० २९) कांश्चिद्दर्शनमात्रेण कांश्चिदंघ्रिसमीलनात् || हस्तस्पर्शनतः कांश्चित्पावयन्प्रणिनोयने (प्रणतान् जनान्) || ३० || एवं रीत्या भक्तिभिक्षां स्वीकुर्वन्संचरन्सदा || चरपट्टाधिकारी यः स एव चरजंगमः || ३१ || पारमेश्वरतंत्रे पटले १४ अशक्तः पूजने भक्त उक्तलक्षणकर्मणि || सर्वसंकल्पसिद्ध्यर्थं ध्यायेद्गुरुपदांबुजं || ८६ || मंत्रमूलं गुरोर्वाक्यं पूजामूलं गुरोः पदम् || ध्यानमूलं गुरोर्मूर्तिर्मोक्षमूलं गुरोः कृपा || ८७ || यस्त्वशक्तो मम ध्याने स ध्यायेद्गुरुमीश्वरं || जपे मंत्रस्य मे देवि श्रीगुरोर्नाम संस्मरेत् || ८८ || सर्वमंत्रमयं दिव्यं सर्वशास्त्रमयं शुभं || सर्ववेदात्मकं पुण्यं श्रीगुरोर्नाम मंगलं || ८९ || यदा साक्षाद्गुरोरूपं भक्तः पश्यति पुण्यवान् || तदेव मम देवेशि साक्षाद्दर्शनमुत्तमं || ९० || तस्मात्स्वर्गापवर्गेच्छुरिह भोगेच्छुरास्तिकः | सर्वदा सर्वयत्नेन गुरुदेवं समाश्रयेत् || ९१ || सर्वे वेदाश्च शास्त्राणि पुराणानि च संहिताः || स्मृतयो धर्मशास्त्राणि श्रीगुरोर्वचनं परं || ९२ || गुकारोंऽधंतमः प्रोक्तं रुकारो भास्करोदयः || पृ० ३०) मोहांधकारहरणाद्गुरुरित्यभिधीयते || ९३ || सप्तकोटिमहामंत्राश्चित्तविभ्रमकारकाः || एक एव महामंत्रो गुरुरित्यक्षरद्वयं || ९४ || द्वावेव मंत्रौ देवेशि सर्वेषामपि मुक्तये || सर्वक्लेशविनाशाय तौ गुर्विति शिवेति च || ९५ || भावयेत्सततं धीमान् जगदेतच्चराचरं || इंद्रियोपगतं यद्यत् श्रीगुरो रूपमैश्वरं || ९६ || गुरुयात्रा सदा काशीयात्रा तस्य प्रदक्षिणं || भूमिप्रदक्षिणं वत्ते दर्शनं मम सुव्रते || ९७ || इत्येत्कथितं देवि सर्वसारमनुत्तमं || रहस्यमात्मरक्षार्थं किं भूयः श्रोतुमिच्छसि || ९८ || पारमेश्वरतंत्रे पटले १५ ईश्वर उवाच- साधु साधु समीचीनः प्रश्नोऽस्ति भुवनेश्वरि || लोकोपकाराय कृतः शृणु वक्ष्यामि कृत्स्नशः || १५ || यदि त्वयात्र देवेशि न कृतः प्रश्न ईदृशः || भ्रश्येयुर्वीरशैवस्थाः रहस्याच्चाविवेकत; || १६ || रहस्यं विदितं देवि त्वया परममंगले || अद्य त्वयोद्धृताः सर्वे वीरशैवमतेश्वराः || १७ || अन्यदैवांधकूपेषु पतंति कुधियः शिवे || अज्ञात्वा मन्मते सारं रहस्यं परमार्थतः || १८ || वीरशैवमहाशूलखातेन पतिता अमी || पृ० ३१) देवि त्वत्प्रश्ननिश्रेणिप्रोद्धृताः सुखमद्य ते || १९ || यदा जालगतः पक्षी निर्गंतुं जालसूत्रतः || बहिर्द्वारमजानानो म्रियते यो यथा शिवे || २० || वीरभेदा न विज्ञेया हठाद्वीरमहाह्रदे || निपत्य दुःखं क्लिश्यंति शून्यकूपगता इव || २१ || न साधु बहु सेवंते गुरुं मद्रूपिणं शिवे || न जानंति ततः साधु पृष्ट्वा मतरहस्यकं || २२ || नाल्पज्ञः पारमन्वेति नाल्पज्ञः सुखमेधते || न लज्जेद्गुरुसेवायां नाल्पज्ञश्चाप्यपृच्छतः || २३ || प्राणार्थमानवसुभिर्गुरुशुश्रूषणोत्सुकः || साधयेदात्मनोऽभीष्टं गुरोरेव मदात्मकः || २४ || किंचिज्ञ्ज्ञा दांभिका भ्रष्टा गुरुरित्यभिमानिनः || वीरशैवं न जानंति शठाः पंडितमानिनः || २५ || अन्यस्मै बोधयंति स्म सर्वज्ञत्वं परं खलाः || नाचरंति स्वयं किंचिदधस्ते निपतंति हि || २६ || ततः स मद्गुरुमुखाच्छास्त्रमूलं विचारयेत् || न विशेदप्रमत्तोऽथ ह्यवीक्ष्यात्मबलाबले || २७ || पारमेश्वरतंत्रे पटले १७ शिवार्पितात्मा सततं न तेन सदृशः क्वचित् || भस्मच्छन्नः स एवाहं महापातकवानपि || ५६ || पृ० ३२) पापैर्विमुच्यते सद्यो मुच्यते च भवार्णवात् || रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितं || ५७ || तस्मात्सर्वेषु कालेषु वीर्यवान् भस्मसंयुतः || भस्मसंदिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः || ५८ || भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः || भूतप्रेतपिशाचाद्या रोगाश्चातीवदुःसहाः || ५९ || भस्मनिष्ठस्य सान्निध्याद्विद्रवंति दिशो दश || भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् || ६० || भूतिर्भूतिकरी यस्माद्रक्षा रक्षकरी यतः || किमत्र बहुनोक्तेन भस्ममाहात्म्यकारणात् || ६१ || व्रती च भस्मना स्नाति सोऽहमेव न संशयः || परमास्त्रं च देवानां भस्मैतदहमेव हि || ६२ || रुद्राक्षमालाभरणो भाले भस्मत्रिपुंड्रकं || मुखे मंत्रो गले लिंगं वीरमाहेश्वरः शिवः || ६३ || जटी मुंडी शिखी वापि कीर्णकेशो दिगंबरः || भाले भस्म गले लिंगं रुद्राक्षाभरणान्वितः || ६४ || शिवपंचाक्षरीयुक्तः सोऽहमेव महेश्वरि || वशी काषायवसनो निर्लज्जश्च दिगंबरः || ६५ || वल्कली वा भवेद्दंडी कुंडी कौपीनपात्रवान् || यत्र यत्र मनो याति स तत्र विहरेत्सुखं || ६६ || यत्र यत्र मनोरम्यमठे वा मंडपेऽपि वा || पृ० ३३) वने वा सुसुखासीनः शुद्धवस्त्रसमावृतः || ६७ || पाणौ लिंगं प्रतिष्ठाप्य पाणिमंत्रेण मंत्रितं || लिंगं शुद्धजलैः स्नाप्य शिवपंचाक्षरं जपेत् || ६८ || हस्ते पद्मं च संभाव्य तन्मध्ये पूजयेच्छिवं || देवीं च लिंगनाले तु ध्यात्वा पुष्पाक्षतादिभिः || ६९ || पूजयेद्योगवान्सम्यक् षोडशैरुपचारकैः || पूर्वोक्तेनैव संपूज्य क्षीरतोयैः शनैरपि || ७० || निवेद्य भक्तिसंयुक्तो बिरक्त्या वीरशैविनः || त्रियंबकेन मंत्रेण धारयेद्भक्तिपूर्वकं || ७१ || एवं पूजां च निर्वर्त्य भिक्षाटनमथाचरेत् || भिक्षाहारी निराहारी भिक्षान्नं न प्रतिग्रहः || ७२ || नित्यं भिक्षान्नभोजी च ह्युपवासफलं लभेत् || प्रत्यहं चंद्रवारे वा कंथादंडसमन्वितः || ७३ || घंटो वा जयघंटो वा दंडघंटादिसंयुतः || प्रेरयित्वा रवैर्भक्तं येन केनापि शब्दतः || ७४ || विरक्तमागतं ज्ञात्वा गृही चान्नजलादिभिः || नमस्कृत्वादराद्दद्याच्छिव एवागतः स्वयं || ७५ || तस्यान्नं भक्तिसंयुक्तो दद्याच्छंकररूपिणः || एवं पूर्वाह्णकाले तु विचरेद्वीरशैवकः || ७६ || वीरशैवमतं देवि देहपातांतमाचरेत् || कृत्यमित्येव निष्कामो यश्चरेद्वीरशैवकः || ७७ || ममार्पितात्मा सततं न तेन सदृशः क्वचित् || दिवा भिक्षाशनं चैव सदा लिंगार्चनं तथा || ७८ || पृ० ३४) वीरमाहेश्वराणां तु हीदमेव विशिष्यते सायाह्ने लिंगपूजा तु शिवपंचाक्षरीजपः || ७९ || शिवलीलाकथालापः स वै माहेश्वरोत्तमः || शिवार्थं देहसंशोषस्तपः कृछ्रादि नो मतं || ८० || शिवार्चाकर्म विज्ञेयं बाह्यं यागादि नोच्यते || जपः पंचाक्षाराभ्यासः प्रणवाभ्यास एव वा || ८१ || रुद्राध्यायादिकाभ्यासो न चान्याध्ययनादिकं || ध्यानं शिवस्य रूपादिचिंता ह्यात्मादिचिंतनं || ८२ || य एवं वर्तते योगी स वै माहेश्वरोत्तमः || अष्टधा लक्षणं देवि शिवधर्माधिकारिणः || ८३ || शिवभक्तेषु वात्सल्यं पूजायां चानुमोदनं || स्वयमभ्यर्चनं चैव तदर्थं चांगचेष्टनं || ८४ || तत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः || शिवानुस्मरणं नित्यं सर्वदा तदकैतवं || ८५ || एतदष्टगुणं चिह्नं यस्मिन् म्लेंछेऽपि दृश्यते || स एवातिप्रियो भक्तो मम योगी स एव हि || ८६ || इति ते कथितं देवि कार्यकर्मानुवर्तिनां || शिवाश्रमयुतानां च किं भूयः श्रोतुमिच्छसि || ८७ || पारमेश्वरतंत्रे पटले २२ अनाचारोऽपि वाचारवृत्तिः शुद्धापि वा नवा || सुजनो दुर्जनो वापि मद्भक्त्या पदमुतरेत् || ५ || पृ० ३५) भक्तः सर्वोत्तमो देवि निरपेक्षो ह्यकिंचनः || अप्युत्कटेभ्यः कर्मभ्यो महदादिभ्य एव च || ६ || यथा नदीषु मंदाकिन्यमरेषु शचीपतिः || भवती गिरिजा स्त्रीषु पुरुषेष्वहमीश्वरः || ७ || सर्वासां मद्विभूतीनां भक्त एव तथा वरः || तं बिभेमि कुतश्चापि यथा भक्तादहं प्रिये || ८ || अनादिवीरशैवसारसंग्रहे प्रकरणे १ परमरहस्ये || सर्वसंसारसौख्यानि त्यक्त्वा चित्तं शिवे लयेत् || दण्डकौपीनकाषायजटावल्कलधारकः || ३२७ || मुंडी वा शिवचिह्नानि धारयेदजिनादिकम् || भिक्षाशी नियताहारो सुखसंसारवर्जितः || निराभार इति ज्ञेयः स एव परमः शिवः || ३२८ || यजुर्वेदे || अस्मान्सखा प्रतरणः स वीरः || ३२९ || वीरागमे सर्वेषामपि शैवानां वीरशैवं महोत्तमम् || सुलभा देवपूजा च सुलभं च क्रियावहम् || ३३० || सुलभं देवपूजायाः सुलभं च क्रिया बहु || स्वल्पक्रिया बहुफलं वीरशैवं महेश्वरि || ३३१ || पृ० ३६) उत्तरवातुले || फलाधिकं क्रिया सूक्ष्मं वीरशैवं तु कथ्यते अन्यशैवं तु तत्सर्वं फलमल्पं क्रिया बहु || ३३२ || वृत्तम् || शुद्धं समस्तेंद्रियशर्मदं च स्वल्पप्रयासात्फलवृद्धिदं च || मोक्षप्रदं चैहिकसौख्यदं च सर्वोत्तमं शांकरकर्म सत्यम् || ३३३ || वीरागमे || तस्मात्सर्वप्रयत्नेन वीरमाहेश्वरं शुभम् || जीवन्मुक्तः स विज्ञेयो वीरमाहेश्वरः पुमान् || ३३४ || सत्यं वक्ष्यामि हे वत्स शिवलिंगार्चनक्रमम् || संसारदुःखरोगस्य भेषजं मुक्तिसाधनम् || ३३५ || नित्यं वेदितशैवैश्च सेव्यते लिंगसेवितम् || तत्वार्थैर्वीरशैवैश्च सेव्यते चरसेवितम् || ३३६ || शंकरसंहितायाम् || वृत्तम् || यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनः प्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || ३३७ || अनादिवीरशैवसारसंग्रहे प्रकरणे ३ वीरागमे || देव्युवाच- जंगमस्य च माहात्म्यं वर्णितं तत्वतस्त्वया || किमिदं तस्य माहात्म्यं ज्ञातुमिच्छामि शंकर || २ || पृ० ३७) ईश्वर उवाच- शृणु देवि प्रयत्नेन तेषां च महिमाव्ययम् || समुद्रवालुकश्चैव गणितुं शक्यते न हि || ३ || उपनिषदि || वृत्तम् || निर्नामं निरवग्रहं निरशनं निष्कारणं निष्कलं निस्संगं निरुपाधिकं निरुपमं निष्प्रक्रियं निश्चलम् || निष्पुण्यं निरनुग्रहं निरधिकं निर्वासनं निर्वहं निर्भेद्यं निरघं निरंजनपदं चैतद्भवेज्जंगमम् || ४ || ब्रह्मबिंदूपनिषदि || तदेव निष्कलं ब्रह्म निर्विकल्पं निरंजनम् || ५ || परमरहस्ये || निराकारं निरालंबं निराकुलनिरंजनम् || निष्पदं निष्प्रकाशं च ज्ञेयं जंगमलक्षणम् || ६ || गोरक्षसंहितायाम् || महानादं महाबिंदु महाशून्यं तु जंगमम् || महाशून्यमिदं सर्वमादिनाथं तु जंगमम् || ७ || वीरागमे || आदिमध्यान्तशून्यश्च सर्वानंदमयो विभुः || पृ० ३८) अनादिजंगमो देवि शिवरुद्रादिपूजितः || ८ || शून्यशून्यं परं शून्यं निःशून्यं निष्कलं तथा || आदिमध्यान्तशून्यं च ह्यनादिजंगमस्थलम् || ९ || निःशून्यं निर्वयः शून्यं शून्यशून्यमनामयम् || आदिशून्यं निरंतर्यमनादिजंगमस्थलम् || १० || आकाशं च जटाकाशं तत्वाकाशं निरंजनम् || हृदाकाशं चिदाकाशं शून्यजंगमलक्षणम् || ११ || आद्यन्तशून्यममलं सदानंदमयं विभु || अनादिजंगमं देवि ब्रह्मविष्ण्वेंद्रपूजितम् || १२ || आद्यंतरहितं ज्योतिरनादि प्रभु चाव्ययम् || अनादीशमजातं च ह्यनादिप्रभुजंगमम् || १३ || ईश्वर उवाच- निःसंगं च निराहारं निर्देहं निरुपाधिकम् || निस्सीमं निर्मल? चैव निरूपं जंगमं स्मृतम् || १४ || जगन्मध्ये स्थितो लोको न बाह्यो जंगमात्परः || जंगमः पंचभूतात्मा ह्यष्टमूर्त्यात्मजंगमः || १५ || सप्तद्वयभुवनानि सप्तोदन्वंत एव च || सप्तद्वीपाश्च निखिलं त्रैलोक्यं सचराचरम् || १६ || अनंतकोटिब्रह्माण्डं भूम्यादिकुलपर्वताः || *अष्टदिगूर्ध्वभागाधोगर्भीकृतस्तु *जंगमः || १७ || चतुर्वेदाश्च गर्भश्च पुराणं तस्य मध्यमम् || पृ० ३९) योगिनो मुनयस्सर्वे जंगमांघ्रिं समाश्रिताः || १८ || उत्तरवातुले || वृत्तम || साभ्यन्तरं सबहिरंगममूर्ततत्वं ज्योतिःपरं पुरुषमक्षरतः पराख्यम् || स्वात्मादिशक्तिघटितं मनसैव नित्यं ध्यातव्यरूपमिह यच्चरलिंगमाहुः || १९ || तस्य देहे समस्तानि भुवनानि चतुर्दश || पादयोरतलं विंद्यात्पादोर्ध्व वितलं तथा || २० || जंघयोः सुतलं ज्ञेयं जानुस्थं च महीतलम् || तलातलं तथोरौ च गुह्यस्थाने रसातलम् || २१ || पातालं कटिबंधे तु सप्तलोका इतीरिताः || भूलोको नाभिमध्ये तु भुवर्लोकस्तु कुक्षिके || २२ || हृदये चापि स्वर्लोको जनोलोकस्तु कंधरे || ताल्वोश्चापि तपोलोको ललाटे सत्यलोककः || महर्लोकस्त्वय मूर्ध्नि चतुर्दश समीरिताः || २३ || ब्रह्माण्डं मुकुटं तस्य वदनं गगनं शृणु || दिशस्सर्वाश्च बाहू च नेत्रे चंद्रार्कसंज्ञके || २४ || शरीरं व्योमरूपं च पातालं पादपंकजम् || करस्थले शून्यलिंगं मेघास्सर्वे जटामयाः || २५ || चंद्रज्योत्स्ना विभूतिश्च वेदास्सव क्रियामयाः || पृ० ४०) नक्षत्रं पुष्पनिचयं रुद्राक्षाः कुलपर्वताः || २६ || सागरा जलपात्रं च कंथा सृष्टिमयं जगत् || आसनं पृथिवी तस्य चाहोरात्रं गुहामठम् || २७ || त्रिकालं ज्ञानसौभाग्यं ऋतवः षट्स्थलं प्रिये || शेषोऽपि कटिसूत्रं च ज्ञानमुद्रा च वाऽऽन्मयी || २८ || मेरुर्दण्डो गुणः सूत्रं गोत्रं शिवकुलं भवेत् || वनस्पतयश्च रोमाण्येवमेतानि पार्वति || २९ || || द्वादशप्रकरणम् || एवंभूतसंसारजुगुप्सानंतरं गुरूपदेशाभावे स्वस्वरूपसाक्षात्कारासंभवात्तदथ गुरूपसदने कृते सत्यनंतरं गुरुकारुण्यस्थलमित्युच्यते || वातुले || यस्संसारान्महाघोरान्मोचयत्याश्रितान् जनान् || कृपाकटाक्षपातेन तस्मै श्रीगुरवे नमः || १ || शिवसूत्रवार्तिकायाम् || अगाधसंशयांभोधितारकानुग्रहप्रदः || परमोपायरूपत्वाद्गुरुदेवः परः शिवः || २ || शिवधर्मोत्तरे || वृत्तम् || स एव वंद्यः प्रतिपूजनीयः स एव माता जगतां पिता च || पृ० ४१) स एव बन्धुस्स गुरुः शिवः स्यात् ज्ञानामृतं यः परमं प्रदद्यात् || ३ || शंकरसंहितायाम् || नित्यानित्यविवेकवानिह परत्रापेक्षितार्थारतिश्शांत्याद्यंगसमन्वितस्सुचरितो मोक्षार्थितौत्सुक्यवान् || सत्यानंदपरप्रकाशपरिपूर्णात्मावबोधान्वितं कृत्याकृत्यविवेकिनं गुरुवरं प्रेयान्नरो भक्तिमान् || ४ || कठवल्युपनिषदि || श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विदुराचार्यो यो वक्त्रा कुशलोऽस्य लब्धा आचार्यो ज्ञाता कुशलोऽनुशिष्टः || ५ || स्कान्दे || तस्मादात्मविचारेण भवदोषविवर्जितः || शिवज्ञानपरं शान्तं महापातकनाशनम् || प्रणिपत्य गुरुं प्राज्ञः प्रार्थयेद्बुद्धिमात्मनः || ६ || मैत्रेयोपनिषदि || अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनं दृश्यत इत्युद्धर्त्तुमर्हसीत्यन्धोदपानस्थो भेक इवासमस्मिन्संसारे पृ० ४२) भगवंस्त्वं नो गतिरिति || ७ || वाक्यवृत्तौ || अनायासेन येनास्मान्मुच्येयं भवबन्धनात् || तन्मे संक्षिप्य भगवन्केवलं कृपया वद || ८ || शंकरसंहितायां || वृत्तम् || मत्वा भक्तिपुरःसरं गुरुवरं विज्ञाय तत्पार्श्वतः स्थित्वा जन्मशतागताद्भवभयाद्भीतोऽस्मि मां पाहि भो || इत्युक्तो गुरुरादरेण कृपया शिष्यं समीपस्थितं स्पृष्ट्वा पाणितलेन साधु गदितं प्रीतोऽस्मि वत्स त्वया || संसारार्णवतारके परशिवे लिंगस्वरूपेऽमले प्राणं जीवकलाधरं तव विधास्ये त्वं तथा स्याः परम् || ९ || भविजन्मकृतं पापं भक्तजन्मविवर्जितम् || भक्तजन्मक्रियाहीनं चेद्भवेद्घोरकिल्विषम् || १० || बोधायनशाखायाम् || अदीक्षितः शिवं न स्पृशेत् || ११ || वीरागमे || अदीक्षितैरनाचारैरमंत्रज्ञैरवैदिकैः || पृ० ४३) दूषितैः समयभ्रष्टैर्न? कार्यं शिवपूजनम् || १२ || यथा मृगपतिं दृष्ट्वा महामीतो वने गजः || अदीक्षितार्चनाल्लिंगं तथा भीतं महेश्वरि || १३ || शिवरहस्ये || त्रिपुंड्रं चैव रुद्राक्षं नित्यार्चनजपस्तथा || होमध्यानादिकं सर्वं दीक्षाहीनस्य निष्फलम् || १४ || अदीक्षितश्च यो विप्रश्चतुर्वेदधरोऽपि वा || संस्पृशेद्यदि वा लिंगं श्वानयोनिषु जायते || १५ || सोमशंभुतंत्रे || शिवसंस्कारहीनास्तु स्पृष्ट्वा लिंगं द्विजातयः || संचरंति महाघोरे नरके कालमक्षयम् || १६ || अदीक्षो नार्चयेल्लिंगं प्रविशेद्गर्भमंदिरम् || प्रमादात्तत्प्रविष्टे तु प्रायश्चित्तं तु कारयेत् || १७ || अदीक्षितैर्वा विद्वद्भिर्लिंगं बिंबादिकं तु वा|| गर्भगेहप्रवेशे तु परचक्राद्भवेद्भयम् || १८ || अदीक्षितश्च यो विप्रो न कुर्याल्लिंगपूजनम् || अरण्ये निर्जने देवि भवति ब्रह्मराक्षसः || १९ || वैदिकैर्गर्भगेहे तु प्रविष्टे स्पर्शने कृते || मृद्भाण्डानि परित्यज्य पुनः पुण्यं समाचरेत् || २० || पृ० ४४) अदीक्षितश्चतुर्वेदी शिवलिंगं यदि स्पृशेत् || कल्पकोटिसहस्राणि भवति ब्रह्मराक्षसः || २१ || चतुर्वेद्यप्यहंकाराच्छिवलिंगं तु पूजयेत् || राजा राष्ट्रं तु सर्वस्वं तस्य ग्रामं विनश्यति || २२ || ईश्वर उवाच- पतिपत्नीभ्रातृपुत्रदासीगृहपदातयः || एकदीक्षा भवेद्देवि विशेषः शुद्धभक्तिमान् || २३ || वातुलतंत्रे || देव्युवाच || पुत्रमातृपितृभ्रातृदारा बन्धुजनाश्च ये || एक एव गुरुस्तेषामन्यथा नरकं भवेत् || २४ || वीरागमे || गुरुरेको लिंगमेकं दीक्षा चैका प्रसादकम् || एका मुक्तिरियं देवि शैवदीक्षा विशिष्यते || २५ || दीक्षा च पतिपत्न्योश्च गुरुरेको भवेत्खलु || तन्मनःप्राणनैवेद्यं रतिसंगो वरानने || २६ || पतिपत्न्योरन्यगुरुर्दीक्षा चान्या भवेद्यदि || भ्रातृभृत्यसुतानां च भक्तिहीनं तु शांकरि || २७ || यथा दीक्षा द्विधा चैव प्रसादो द्विविधं भवेत् || पृ० ४५) तथा द्वयमिदं देवि विशेषः पातको भवेत् || २८ || पतिः पत्नी गुरुं लिंगमेकीभावान्न पश्यतः || अष्टाविंशतिकोटौ स्तो नरके कालमक्षयम् || २९ || पतिपत्न्योर्गुरौ लिंगे भाव एकः प्रशस्यते || त्रिषु लोकेषु पूज्येते गुरुभक्तियुतावपि || ३० || गुरुदेवं महादेवमेकीभावेन भावयेत् || भावद्वयेन भावेत नरके कालमक्षयम् || ३१ || गुरुसाहित्यभक्तानां मृते गुरौ प्रशस्यते || लिंगलीनश्चेतिभावश्चंडालश्चान्यभावतः || ३२ || आचार्ये बालबुद्धिं च नरबुद्धिं तथैव च || अशिष्टबुद्धिं कुर्वाणो रौरवं नरकं व्रजेत् || ३३ || गुरुं सदाशिवं मन्येत्* गुरुपत्नीं च पार्वतीम् || ज्येष्ठपुत्रं गुरुं मन्येत्* कनिष्ठानात्मना समान् || ३४ || शिवरहस्ये || इत्युक्त्वा पुरुषस्यास्य देशिकः करुणाबलात् || चक्रे दीक्षां महाशैवीमविद्यापाशकृंतनीम् || ३५ || योगसारे || शुद्धां यः शांभवीं दीक्षां करोति गुरुरुत्तमः || तस्मै दद्यात् स्वमात्मानं पूज्यो वंद्यः स सद्गुरुः || ३६ || पृ० ४६) स्वायंभुवसूत्रे || स देशिकमनुप्राप्य दीक्षाविच्छिन्नबंधनः || प्रयाति शिवसायुज्यं निर्मलो निरुपप्लवः || ३७ || सर्वज्ञानोत्तरसूत्रे || तत्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः || नान्येन शक्यते भोक्तुं मुक्त्वा दीक्षां शिवात्मिकाम् || ३८ || सिद्धांतशिखामणौ || गुरुदेवः परं तत्वं प्रकाशयति देहिनाम् || एवं सूर्यं विना लोके तमसां विनिवर्तकः || ३९ || मतंगपारमेश्वरे || वृत्तम् || दीक्षानलप्लुष्टमलस्य जन्तोः स्वाक्यं बलं व्यक्तिमुपैति योगात् || शक्त्या विभोश्चुंबितहृत्प्रदेशो नान्येन पुंसो विनिवृत्तिमेति || ४० || स्वायंभुवसूत्रे || अनेन क्रमयोगेन परां केवलतां गतः || अनाद्यशुद्धशून्यत्वात्प्राप्नोति न भवान्तरम् || ४१ || गरुलिंगजंगमाश्चैव प्रसादे करदर्शनम् || युतं धारणमेवोक्तं वीरशैवमहागमे || ४२ || वेधा मांत्री क्रिया दीक्षा वीरशैवं तु कथ्यते || कलशपंचकजाता वै शैवदीक्षा इति स्मृता || ४३ || पृ० ४७) अचिंत्यविश्वसादाख्ये || दीयते लिंगसंबन्धः क्षीयते च मलत्रयम् || दीयते क्षीयते यस्यास्सा दीक्षेति निगद्यते || ४४ || योगषट्सहस्रिकायाम् || दीयते च महाज्ञानं क्षीयते च मलं यथा || सा दीक्षा संज्ञिका तस्य गुरुदीक्षा गुरोर्मता || ४५ || वासिष्ठपुराणे || प्रसन्नं परमाचार्यं भुक्तिमुक्तिप्रदर्शकम् || प्रार्थयेदग्रतः शिष्यः प्रांजलिर्विनयान्वितः || ४६ || मुण्डकोपनिषदि || तस्मै स विद्वानुपसन्नाय सम्यक्प्रशांतचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् || ४७ || षडध्वशुद्धये प्रोक्तः षट्स्थलब्रह्मशांभवम् || उपदेशः षडध्वानमन्त्राध्वाख्यादयः क्रमात् || ४८ || वातुलतंत्रे || लिंगवृत्तसमं पीठं दीर्घं विस्तारमेव च || तदर्धं गोमुखं चैव इत्येतल्लिंगलक्षणम् || ४९ || इत्यादिलक्षणलक्षितस्य लिंगस्य तैलगुडगैरिकगुग्गुलसिकतासिक्थसर्जरसलाक्षाख्याष्टभिर्द्रव्यैरष्टब् अन्धं कृत्वा शिव- पृ० ४८) लिंगमेकां रात्रिं जलाधिवासेन पंचगव्येनैकां रात्रिं श्रीविभूतिसंमिश्रोदकेनैकां रात्रिमधिवासयेत् || ५० || मंत्रेण मंत्रितं तोयं तत्तीर्थमिति कथ्यते || ५१ || उदऽऽन्मुखो गुरुः प्रत्यऽऽन्मुखं शिष्यं नियुज्य च || अभिषेकं ततः कुर्यात्कलशस्थांबुभिश्शिवैः || ५२ || श्रीमत्पंचाक्षरीमंत्रं सतारं तु षडक्षरम् || षडंगलिंगसंयुक्तं षट्स्थलब्रह्मवर्चसम् || ५३ || स्वार्थं समुपदिश्याथ शिवसिद्धांन्ततंत्रके || शिवानुभवसूत्रेऽस्मिन्यदुक्तं तत्समादिशेत् || ५४ || वीरभद्रपुराणे || दीक्षाकाले तु गुरुणा साक्षी तु चरलिंगकम् || गुरुलिंगद्वयोः कर्ता मम कर्ता तु जंगमः || ५५ || शिवरहस्ये || कृत्वा शैवीं परां दीक्षां दत्वा विद्यां शिवात्मिकाम् || छित्वाऽविद्यामहापाशं कलाध्वानं विचिंतयेत् || ५६ || मध्यमानुवाके || तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता || नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा || ५७ || नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा || पृ० ४९) तस्यास्त्वग्निशिखामध्ये परमात्मा व्यवस्थितः || ५८ || वाचातीता मनोतीता वर्णातीता च तत्परा || ज्ञानातीता निरंजन्या कला या सूक्ष्मभावतः || ५९ || एवं भेदकला देवि सद्गुरोः शिष्यमस्तके || हस्ताब्जमथनाद्ग्राह्यात्तस्य भावकरोदितः || ६० || वातुलतंत्रे || देव्युवाच || कर्णे शिष्यस्य शनकैः शिवमंत्रमुदीरयेत् || स तु बद्धांजलिः शिष्यो मंत्रतद्गतमानसः || ६१ || शनैस्तं व्याहरेच्छिष्यः शिवाचार्यस्य शासनात् || पाशानशेषान्कर्तर्या छित्वा लिंगं समादिशेत् || ६२ || कर्तरी ज्ञानशक्तिः स्याद्यया पाशान् छिनत्यसौ || या कला परमा सूक्ष्मा मंत्राणां बोधिनी परा || ६३ || शिवरहस्ये || यथा कला तथा भावो यथा भावस्तथा मनः || यथा मनस्तथा दृष्टिर्यथा दृष्टिस्तथा स्थलम् || ६४ || सा कला परमा सूक्ष्मा मंत्राणां बोधिनी परा || तामाकृष्य यथान्यायं लिंगे समुपदेशयेत् || ६५ || सर्वलक्षणसंपन्ने तस्मिन् लिंगे वियोजिते || पीठस्थितेऽभिषिक्ते च गन्धपुष्पादिपूजिते || पृ० ५०) मंत्रपूते कलां शैवीं योजयेद्विधिना गुरुः || ६६ || वीरागमे || एकत्वं च परं साक्षात्प्रणवं प्राणगोचरम् || गुरुः प्रमथयन् शिष्यस्य लिंगे तं विनियोजयेत् || ६७ || अचिन्त्यविश्वसादाख्ये || शिष्यस्य प्राणमादाय लिंगेऽस्मिन्स्थापयेद्गुरुः || तल्लिंगं तस्य तत्प्राणं स्थापयेदेकभावतः || ६८ || तद्भागलक्षणां भक्तिं सुसूक्ष्मां परमामपि || दर्शयामास शिष्यस्य देशिकः परमेश्वरः || ६९ || तस्मिन् लिंगे परे दृष्टे निष्कले निरुपाधिके || यस्य जीवस्य कर्माणि क्षीयन्ते सकलानि वै || ७० || ततस्तल्लिंगमस्यांगे शिष्यस्यामिततेजसः || गुरुः संयोजयामास पूर्वोक्तेनैव वर्त्मना || ७१ || आणवं गर्भसंबंधमणुरूपं व्यवस्थितम् || मायिकं जातिभेदं च मोह इत्यभिधीयते || ७२ || कार्मिकं द्रव्यसंबंधमीषणत्रयसंयुतम् || इदं मलत्रयं दोषं गुरुणैव विमोचयेत् || ७३ || वातुलतंत्रे || यथा पुरत्रयं दग्धं युगपत्पुरवैरिणा || तथा मलत्रयं दग्धं युगपद्देशिकात्मना || ७४ || तनुत्रयगतानादिमलत्रयमसौ गुरुः || पृ० ५१) दीक्षात्रयेण निर्दह्य लिंगत्रयमुपादिशत् || ७५ || वेदमंत्रक्रियाकारा दीक्षा शैवी शिखा मता || तच्छिखा लिंगमित्युक्तं कर्ममायाणुवासना || ७६ || सा दीक्षा परमा शैवी त्रिधा भवति निर्मला || एका * वेधात्मिका साक्षादन्या मंत्रात्मिका मता || ७७ || क्रियात्मिकाऽपरा काचिदेवमेव त्रिधा भवेत् || हस्तमस्तकसंयोगच्छलाद्वेधेति गीयते || ७८ || गुरुणोदीरिता कर्णे या सा मंत्रेति कथ्यते || शिष्यपाणितले दत्ता या दीक्षा सा क्रिया मता || ७९ || त्रिष्वंगेष्वस्य शिष्यस्य लिंगत्रयमयं गुरुः || संयुयोज त्रिधाभूतपरदीक्षाबलेन तु || ८० || योगषट्साहस्रिकायाम् || सर्वांगपूततां प्राप्य यश्च सद्गुरुदीक्षितः || तस्य हस्तस्थिता मुक्तिः सद्गुरोः पाणिसंभवा || ८१ || शाकटिकागमे || वाचातीतं मनोऽतीतं भावातीतं निरंजनम् || नादबिंदुकलातीतं गुरुणा लिंगमुद्भवम् || ८२ || यतो वाचो निवर्तन्ते अप्राप्य मनसा सह || पृ० ५२) नादबिंदुकलातीतं तल्लिंगं गुरुसंभवम् || ८३ || वेदादिनाम निर्नाम महत्वं मम रूपकम् || गुरूक्तमंत्रमार्गेण इष्टलिंगं तु शांकरि || ८४ || वीरभद्रपुराणे || गुरुर्लिंगं समादाय शिष्यमस्तकसत्कलाम् || निजस्वभावमात्रेण विलोक्याकृष्य तां कलाम् || ८५ || लिंगे संस्थाप्य पादाम्बुस्नानं कृत्वा चरस्य च || तल्लिंगं तत्प्रसादेन भोजयित्वा विधानतः || ८६ || स्कान्दे || लिंगं संस्नाप्य पादांबुना प्रक्षाल्य चरस्य च || तल्लिंगस्य प्रसादं च भोजयित्वा विधानतः || ८७ || पश्चाच्च्छिष्यकरे दत्वा मूलपंचाक्षरीं स्मरेत् || चरलिंगप्रसादेन भुंजीयाच्च दिने दिने || ८८ || वीरागमे || परंज्योतिः प्रसादं च हस्तमूले सुधारणम् || प्रतिष्ठं गुरुमंत्रस्य श्रुतिस्मृतिष्वगोचरम् || ८९ || वातुलतंत्रे || एकमेव परं लिंगमंगेऽस्मिन् सुप्रतिष्ठितम् || सर्वतोमुखमाभाति नामरूपक्रियात्मना || ९० || पृ० ५३) योगसारसंग्रहे || हररूपं कायसंबंधं गुरुरूपं प्राणसंयुतम् || अशरीरमात्मसंबंधं गुरुलिंगचरानुग्रहम् || ९१ || गुरुदेवं शिवं साक्षात्तच्छिष्यो ज्ञानसारवित् || त्रिविधं हृदि संभावः कीर्तितं गौरवं व्रतम् || ९२ || तत्प्राणो लिंगदेहश्च जातो गुरुकरेऽपि च || आचारगौरवं लैंग्यं जंगमं च प्रसादकम् || ९३ || महालिंगमिदं ज्ञात्वा षड्विधं व्रतमाचरेत् || इति भेदं न जानाति प्रसादो निष्फलो भवेत् || ९४ || लिंगांगेन सुसंपन्नो लिंगप्राणदृढीकृतः || अभूत्सद्देशिकेंद्रेण प्रयत्नाद्दीक्षितो नरः || ९५ || एवं कृत्वा गुरुर्लिंगं शिष्यहस्ते निदापयेत् || प्राणवद्धारणीयं तत्प्राणलिंगमिदं भवेत् || ९६ || स्वीकरोति यदा लिंगं गुरुणा दीक्षयाऽणुना || तदा प्रभृति लिंगैक्यमविनाभावयोगतः || ९७ || रूपं कर्पूरमाख्यातं तद्गन्धोंऽगमितीरितम् || एतल्लिंगांगसंयोगः शिखिकर्पूरयोगवत् || ९८ || गुरुसंस्मृतभावः स्यां गुरुनिर्मितदेहवान् || विस्मृत्य पूर्वभावं च तदादीन्न समाचरेत् || ९९ || लैंग्ये || पृ० ५४) यथैव वह्निसंपर्कान्मलं त्यजति कांचनम् || तथैव गुरुसंपर्कात्पापं त्यजति मानवः || १०० || मुंडकोपनिषदि || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः || क्षीयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परात्परे || १०१ || वातुले || तस्मिन् दृष्टे परे लिंगे निष्कले निरुपाधिके || अस्य जीवस्य कर्माणि क्षीयन्ते सकलानि वै || १०२ || अविद्या हृदयग्रन्थिर्भिद्यते शतधापि च || संशया बहुसंकल्पाश्छिद्यन्ते च सहस्रधा || १०३ || सूतसंहितायाम् || प्रकृतिज्ञानकायश्च द्विधा भेदसमन्वितः || तथा * गुणनभावेन ज्ञानकायस्ततो भवेत् || १०४ || शिवरहस्ये || सर्पदष्टस्य यद्देहं तद्देहं विषदेहवत् || लिंगदष्टस्य यद्देहं तद्देहं लिंगदेहवत् || १०५ || योगदीपिकायाम् || यथा संस्कारसंपत्त्या ब्राह्मणो द्विजतामियात् || तथोपदेशसंपत्त्या स्यात्पुमानप्यलौकिकः || १०६ || तैलयुक्तं च कार्पासं ज्योतिःस्पर्शेन ज्योतिवत् || स्नेहयुक्तश्च सद्भक्तो लिंगस्पर्शेन लिंगवत् || १०७ || मुंडकोपनिषदि || संप्राप्यैनमृषयो ज्ञान- पृ० ५५) तृप्ताः कृतात्मानो वीतरागाः प्राशान्तास्ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानस्सर्वमेव विशन्ति || १०८ || शिवाद्वैते || ऋजवो मृदवः शुद्धा विनीताः स्थिरचेतसः || शौचाचारसमोपेताः शिष्यास्तेऽत्र प्रकीर्तिताः || १०९ || वातुले || आकृष्टास्ताडिता वाऽपि ये विषादं न यांति हि || ते योग्यास्संयुताः शिष्याः शिवसंस्कारकर्मणि || ११० || शिवाद्वैते || प्रह्वीभावं समासाद्य मनोवाक्कायकर्मभिः || गुरुभक्तिः सदा यस्य स शिष्य इति कथ्यते || १११ || सिद्धान्तशिखामणौ || गुरौ निजगुणाधारे मनोवाक्कायकर्मभिः || भावो यस्य स्थितो नित्यं स शिष्य इति गीयते || ११२ || कर्मणा मनसा वाचा गुरूणां भक्तिवत्सलाः || शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् || ११३ || अन्यथा वित्तहीनोऽपि गुरवे तत्परायणः || कृत्वा दंडनमस्कारं स्वशरीरं निवेदयेत् || ११४ || दीर्घदण्डनमस्कारो निर्लज्जो गुरुसन्निधौ || पृ० ५६) शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् || ११५ || श्रीमान्महातपा ज्ञानी शास्त्रज्ञः कुलजो महान् || कुर्याद्दण्डनमस्कारं निर्लज्जो गुरुसन्निधौ || ११६ || मानवपुराणे || शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन || तस्मादिष्टं गुरोः कार्यं कायेन मनसा गिरा || ११७ || क्रियासारे || ईश्वर उवाच || देवयात्रा गुरोर्यात्रा तीर्थयात्रेति च त्रिधा || आसां त्रिविधयात्राणां गुरुयात्रा फलाधिका || ११८ || गुरुसंदर्शनार्थन्तु भक्त्या यात्रां करोति यः || पुण्यदेही स विज्ञेयस्समस्तामरवल्लभः || ११९ || शिष्यो गुरुस्थितं ग्रामं प्रविशन्वाहनादिकम् || वर्जयेद्गृहसामीप्ये उष्णीषं पादुके अपि || १२० || क्रियासारे || उक्तलक्षणसम्पन्नो यस्मिन्देशे गुरुः स्थितः || तत्र शिष्यः स्वयं गत्वा प्रणमेद्दण्डवद्गुरुम् || १२१ || फलं प्रसूनं तांबूलमन्यत्किमपि वस्तु च || एष्वेकं गुरवे दत्वा नमस्कुर्यात्ततो गुरुम् || १२२ || उपचारेषु सर्वेषु द्वावेवात्यन्तशोभनौ || पृ० ५७) प्रियवाक् च प्रणामश्च तौ विनान्ये वृथा श्रमः || १२३ || पदे पदांतरं न्यस्य करौ चलनवर्जितौ || स्तुतिर्वाचा हृदि ध्यानं चतुरंगं प्रदक्षिणम् || १२४ || नापृच्छन्नामुखो ब्रूयाद्गुरोरग्रे कदाचन || स्वामिभट्टारकाचार्यदेवश्रीगुरुनामभिः || १२५ || अंगुलीपर्वस्फोटं च पादप्रक्षालनं तथा || तद्वाक्यप्रतिकूलं च न कुर्याद्गुरुसन्निधौ || १२६ || अपहास्यमवष्टंभं लीलयांघ्रिप्रसारणम् || विनोदोज्ज्वलवेषं च पर्यकं दन्तधावनम् || १२७ || परिहासविहीनस्य पुंसो जन्म निरर्थकम् || गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना || १२८ || एकासनेऽपि विषये गुरुणा सह मोदते || प्रायश्चित्तं न तस्यास्ति पापं गुरुतरं हि तत् || १२९ || प्रदक्षिणं नमस्कारं कुर्यात्पादाब्जसेवनम् || पयसाज्येन दध्ना वा शुद्धेनांघ्रिप्रलेपनम् || १३० || शंभुप्रभायाम् || पृ० ५८) प्रशान्तं गुरुमभ्येत्य शिवज्ञानामृतांबुधिम् || भजेत सततं यस्तु स शिष्य इति कथ्यते || १३१ || क्रियासारे || ततः श्लक्ष्णैर्मुद्गचूर्णैः कोष्णेन सलिलेन च || संप्रक्षाल्याथ वस्त्रेण तथार्द्रत्वप्रमार्जनम् || १३२ || शययासंस्तरणं सम्यक्केशसंमार्जनं नखैः || तैलाभ्यंगक्रियाचारस्नानकर्म यथासुखम् || १३३ || शौचार्थं मृज्जलादीनि दन्तकाष्ठप्रदेशनम् || पूजास्थानानुलेपं च गोमयेन सवारिणा || १३४ || शुभकार्येषु सर्वेषु विवादादिषु भक्तितः || गुरुमभ्यर्चयेच्छिष्यो वस्त्रहेमांगुलीयकैः || १३६ || विशीर्णं स्फुटितं दग्धं प्राक्तनं स्वधृतं पुरा || दष्टमाख्वादिभिर्वस्त्रं न दद्याद्गुरवे बुधः || १३६ || समीपे वापि दूरे वा स्वशरीरं निवेदनम् || गत्यागत्यादिकायासे स्वभार्यानंदनैस्तथा || १३७ || क्रियासारे || स्वाचार्यचरणद्वंद्वप्रक्षालितजलं सदा || यः पिबेद्धारयेद्भक्त्या सर्वपापैः प्रमुच्यते || १३८ || पृ० ५९) स्कान्दे || गुरुपादोदकस्नानं गुरूच्छिष्टं तु सेवयेत् || गुरुमूर्तिं सदा ध्यायेत् गुरुनाम सदा जपेत् || १३९ || बोधायनोपनिषदि || गुरूच्छिष्टप्रसादप्रक्षालिततीर्थग्रहणमुखेन दीक्षान्यायमाहुः || १४० || पादोदकं पाशहरं निर्माल्यं चैहिकप्रदम् || गुरुभुक्तं सदाकालमामुष्मिकफलप्रदम् || १४१ || स्कांदे || गुरुपादोदकं नित्यं सेवेत गुरुपूजकः || गुरूच्छिष्टपुरोडाशं भुंजीयाद्भक्तिनम्रधीः || १४२ || क्रियासारे || ईश्वर उवाच || यो भक्त्या स्वगुरोर्भक्तः शिष्यः पात्रेऽन्नमुझ्झितम् || भुंक्ते स सर्वदुरितैर्मुच्यते नात्र संशयः || १४३ || प्रदत्तं यत्स्वगुरुणा तांबूलं परिचर्वितम् || शिष्यस्तद्भक्षयेद्भक्त्या शुद्धान्तःकरणो भवेत् || १४४ || शिष्यस्तु शिक्षणीयत्वाद्गुरुर्गौरवकारणात् || तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् || १४५ || गुरोः प्रीतिकरः शिष्यो यस्स प्रीतिकरो मम || पृ० ६०) तस्याप्रीतिकरः शिष्यो ममाप्रीतिकरो भृशम् || १४६ || तस्मात्सर्वप्रयत्नेन गुरोः प्रीतिकरो भवेत् || गुरुभक्तिविहीनस्य मयि भक्तिर्वृथा भवेत् || १४७ || यजुर्वेदोपनिषदि || वेदमनूच्यार्योऽन्तेवासिनमनुशास्ति सत्यं वद धर्मं चर स्वाध्यायान्माप्रमदः भूत्यै न प्रमदितव्यं मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एष उपदेशः || १४८ || कैवल्योपनिषदि || यावदुपाधिपर्यंतं गुरुं शुश्रूषयेत् || १४९ || परातश्रुतौ || तस्माच्छुश्रूषुः पुत्राणां हृद्यतमः नेदिष्ठो ब्राह्मणो भवति || १५० || सिद्धान्तशेखरे || गुरुशुश्रूषणं कार्यं गुरोर्वाक्यानुवर्तनम् || सदा गुरुपरो नित्यं गुरोराज्ञां न लंघयेत् || १५१ || सूतसंहितायाम् || परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः || शुश्रूषा शुद्धविद्यायाः साधनं न हि संशयः || १५२ || पृ० ६१) ऐतरेयोपनिषदि || अथाधिविद्यमाचार्यः पूर्वरूपं अन्तेवास्युत्तररूपं विद्यासंधिः प्रवचनं संधानम् || १५३ || ग्रंथान्तरे || उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः || स एवाहं स्वप्रकाशो भाति विश्वप्रकाशकः || १५४ || || श्रीगुरुबसवलिंगाय नमः || || चतुर्दशप्रकरणम् || एवं लिंगधारणसम्पन्नो भक्तः सर्वांगेष्वालिंगितगुरुमाहात्म्यं यथेत्याकांक्षायामनंतरं गुरुमाहात्म्यस्थलमित्युच्यते || अथर्वणवेदे || कदंबगोलकाकारो विश्वस्यातिहितो वपुर्धत्ते जगद्धितार्थं वेदादिनिगमैः प्रणवादिमंत्रैः क्रियादिकर्मणे आत्माऽयं बोधः स रुद्रः स चरः द्विभुजः द्व्यक्षः द्विपाद एकशिरा एको रुद्र आचार्यरूपः || १ || वीरागमे || ललाटलोचनं चांद्रीं कलामपि च दोर्द्वयम् || पृ० ६२) अन्तर्निधाय वर्तेऽहं गुरुरूपो महेश्वरि || २ || लैंग्ये || स्पर्शादप्यधिकं मन्ये गुरुपादसरोरुहम् || स्पर्शश्च कुरुते स्वर्णं गुरुरात्मसमं हि तत् || ३ || श्रीरत्नाकरे || परमेश्वर उवाच || गुरुमूर्तिः शिवः साक्षान्नान्यथा च सुरेश्वर || वसते पादयुग्मे तु त्रैलोक्यं सचराचरम् || ४ || शिवरहस्ये || अंगुष्ठाग्रे चाष्टषष्ठितीर्थानि हि वसंति वै || नक्षत्रग्रहवृंदानि गुल्फे तस्य वसन्ति वै || ५ || सप्ताब्धयश्च पादाधस्तदूर्ध्वेऽष्टकुला नगाः || जंघयोर्वसते नित्यं षट्त्रिंशत्तत्वरूपकम् || ६ || जंगमस्थावराधारनिर्मलस्थिरचेतसे || जगद्वंदितपादाय तस्मै श्रीगुरवे नमः || ७ || चैतन्यं शाश्वतं शान्तं व्योमातीतं निरंजनम् || नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः || ८ || वाचातीतं मनोऽतीतं भावातीतं निरंजनम् || नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः || ९ || निराकारं निरालंबं निर्मलं निर्विकल्पकम् || निर्गुणं निश्चलं नित्यं परात्परपदं गुरुः || १० || पृ० ६३) निःशब्दश्च निरालंबो निश्शून्यश्च निराश्रयः || निर्देहो निर्मलो नित्यो गुरुदेवो नमोऽस्तु ते || ११ || यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः || भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः || १२ || गुरुदेवो महादेवो गुरुदेवः सदाशिवः || गुरुदैवात्परं नास्ति तस्मै श्रीगुरवे नमः || १३ || परः शिवो गुरुर्भूत्वा शिष्यदीक्षादिकारणात् || विश्वातीतो महाचोद्यश्चोद्यरूपाय वै नमः || १४ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || एते गर्भगता ज्ञेयास्तस्मै श्रीगुरवे नमः || १५ || अखंडमंडलाकारं व्याप्तं येन चराचरम् || तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || १६ || ज्ञानशक्तिसमारूढस्तत्वमालाविभूषितः || अज्ञानांधतमस्सूर्यस्तस्मै श्रीगुरवे नमः || १७ || अन्तस्तिमिरनिर्भेदभानवे कामधेनवे || सदाऽन्तेवासिनां कल्पतरवे गुरवे नमः || १८ || पृ० ६४) बहिस्तिमिरविच्छेत्ता भानुरेष प्रकीर्तितः || बहिरन्तस्तमश्छेत्ता विभुर्देशिकभास्करः || १९ || अचिन्त्यविश्वसादाख्ये || अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || २० || भवारण्यप्रविष्टस्य दृऽऽन्मोहभ्रान्तचेतसः || येन मे दर्शितः पंथास्तस्मै श्रीगुरवे नमः || २१ || अनन्तजन्मसंप्राप्तकर्मेधनविदाहिने || ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः || २२ || वृत्तम् || आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् || योगींद्रवंद्यं भवरोगवैद्यं श्रीसद्गुरुं नित्यमहं नमामि || २३ || वासिष्ठपुराणे || अगाधसंशयांभोधिसमुत्तरणतारणम् || वंदे विचित्रार्थपदं चित्रं तं गुरुस्वामिनम् || २४ || नादबिंदुकलातीतं वेदशास्त्रानुवर्तिनम् || आदिमध्यान्तरहितं नित्यानन्दात्मकं गुरुम् || २५ || शिवः समस्तकल्याणो नाथो नाथविवर्जितः || नादबिंदुकलातीतः शोभते सधनो गुरुः || २६ || पृ० ६५) शिवरहस्ये || अहमेव गुरुर्भूत्वा चरामि वसुधातले || अत्रिनेत्रचतुर्बाहुरव्यक्तोमार्धविग्रहः || २७ || निष्कलो हि महादेवो नित्यज्ञानमहोदधिः || सकलो गुरुरूपेण सर्वानुग्राहको भवेत् || २८ || हस्तपादादिसाम्येन नेतरैः सदृशं वदेत् || आचार्यं ज्ञानदं शुद्धं शिवरूपतया स्थितम् || २९ || शिवज्ञानं महाघोरसंसारार्णवतारकम् || दीयते येन स गुरुः कस्य वंद्यो न जायते || ३० || अप्रत्यक्षो महादेवः सर्वेषामात्ममायया || प्रत्यक्षो गुरुरूपेण वर्तते भक्तिसिद्धये || ३१ || गुरोः कटाक्षवेधेन शिवो भवति मानवः || रसवेधाद्यथा लोहो हेमतां प्रतिपद्यते || ३२ || सूर्यस्योदयमात्रेण सूर्यकांतः प्रकाशते || गुरोरालोकमात्रेण शिष्यो बोधेन भासते || ३३ || चंद्रावलोकने || वृत्तम् || वेद्यवेदकभेदविरोधिने वाच्यवाचकविकारहारिणे || नेति नेति परमार्थरूपिणे स्वस्वभावगुरवे नमो नमः || ३४ || पृ० ६६) परमाद्वैतविज्ञानपरमौषधदानतः || संसारोरगसंहारी देशिकः केन लभ्यते || ३५ || ब्रह्माण्डबुद्बुदोद्भूतं मायासिंधुं महत्तरम् || गुरोः कवलयत्याशु कटाक्षवडवानलः || ३६ || यत्सूक्तिदर्पणाभोगे निर्मला दृश्यते सदा || मोक्षस्त्रीबिंबरूपेण स गुरुर्भवतारकः || ३७ || कैवल्यकल्पतरवो गुरवः करुणलयाः || दुर्लभा हि जगत्यस्मिन् शिवाद्वैतपरायणाः || ३८ || हररूपं समादाय पूजां गृह्णाति सर्वदा || गुरुरूपं समादाय भवपाशं निकृंतति || ३९ || वीरागमे || गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि || सद्यस्संजायते ह्यस्य पशोः पाशपरिक्षयः || ४० || पशुनाथः शिवस्तस्मात्पशूनां पतिरित्यभूत् || पशुपाशविनिर्मुक्त्यै गुरोराज्ञां निरीक्षयेत् || ४१ || शिवरहस्ये || वृत्तम् || शिवताभरिते भुवनत्रितये शिवतां जनतां न तथापि गता || पृ० ६७) गुरुदर्शनतः शिवतामगमद्गुरुतः शिवतो गुरुरेव गुरुः || ४२ || न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं विदितं विदितम् || शिवशासनतश्शिवशासनतश्शिवशासनतः शिवशासनतः || ४३ || महिम्नस्तवे || महेशान्नापरो देवो महिम्नो नापरा स्तुतिः || अघोरान्नापरो मंत्रो नास्ति तत्वं गुरोः परम् || ४४ || शिष्याणां हृदयालेख्ये प्रद्योतयति यः स्वयम् || ज्ञानतूलिकया तेन गुरुणा कस्समो भवेत् || ४५ || आधाराद्यंबुजान्तस्थमाद्यन्तरहितं गुरुः || वाचश्च मनसश्चैव गुरोर्भावस्त्वगोचरः || ४६ || मन्नाथस्त्रिजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः || ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः || ४७ || ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् || मंत्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा || ४८ || अगमार्थानुसंधानाद्रागद्वेषविभंजनात् || ध्यानज्ञानद्वयान्नित्यमाराध्य इति कथ्यते || ४९ || आचिनोति च शास्त्रार्थमाचारं स्थापयत्यपि || स्वयमाचरते यस्तु आचर्यो हि स कथ्यते || ५० || वातुले || वृत्तम् || स्वज्ञानशक्तिविभवोत्थितकर्तृतत्वं सर्वोपदेशविधितंत्रकृतप्रतिष्ठम् || पृ० ६८) तेजोनिधिं परमपारसुखांबुराशिं बुद्धेः पदं विनिहितं गुरुलिंगमाहुः || ५१ || योगमुक्तामणौ || नास्ति माता पिता नास्ति नास्ति भ्राता सती सुतः || नास्ति बंधुः सखा चैव परमात्मा गुरोः परः || ५२ || गुरुः पिता गुरुर्माता गुरुर्बांधव एव च || गुरुदैवात्परं नास्ति तस्मै श्रीगुरवे नमः || ५३ || सिद्धान्तशेखरे || गुरुः शिवो गुरुर्मंत्रो गुरुर्माता गुरुः पिता || गुरुर्भ्राता गुरुर्बन्धुर्गुरुर्मित्रं गुरुर्धनम् || ५४ || गुरुर्लोको गुरुर्मुक्तिर्गुरुर्भोगो गुरुः सुखम् || गुरुर्वेदो गुरुः शास्त्रं गुरुर्योगो गुरुः फलम् || ५५ || गुरुर्दानं गुरुर्धर्मो गुरुर्दैवं गुरुर्मतिः || गुरुर्नेत्रं गुरुर्वक्त्रं गुरुर्वाणी गुरुर्मनः || गुरुः सर्वं गुरुः सत्वं गुरुरेव परः शिवः || ५६ || न मुक्तिर्न च धर्मश्च न पुण्यं न च पापकम् || न कर्म जन्म नेच्छा वै गुरोः पादनिरीक्षणात् || ५७ || योगषट्साहस्त्रिकायां गुकारश्च गुणातीतो रुकारो रूपवर्जितः || पृ० ६९) गुणातीतमरूपं च यत्तत्वं स गुरुः स्मृतः || ५८ || गुकारस्तैलवर्तिश्च रुकारो ज्वलनस्तथा || द्वयोर्योगप्रभावेन स्वयंज्योतिर्गुरुः स्मृतः || ५९ || गुकारस्तव रूपं च रुकारा मम रूपकम् || उभयोस्संगसौख्यं च गुरुवर्णं जपेत्सुधीः || ६० || तदहं संप्रवक्ष्यामि गोप्याद्गोप्यतरं परम् || सारात्सारतरं प्रोक्तं पदं प्रश्नाक्षरद्वयम् || ६१ || ज्योतिर्मयमनिर्देश्यं योगिनामात्मनि स्थितम् || कथं विज्ञायते लोके महागुरुदयां विना || ६२ || || षोडशप्रकरणम् || एवं मनसि स्थिरीकृतलिंगमाहात्म्यवतः भक्तस्य ज्ञानान्तरावस्थितजंगममाहात्म्यं यथेत्याकांक्षायामनंतरं जंगममाहात्म्यस्थलमित्युच्यते || ऋग्वेदादरणे || ईश्वरोऽतिथिरेव चरितस्तदिहाह स्म || १ || वीरागमे || सर्वलोकोपकाराय यो देवः परमेश्वरः || पृ० ७०) चरत्यतिथिरूपेण नमस्ते जंगमात्मने || २ || यजुर्वेदे || देवानां देवोऽतिथिः || ३ || पावनागमे || ब्रह्मविष्णुसुरेंद्राद्यैर्वंद्यमानपदद्वयम् || वेदागमार्थनिरतमुत्तमं जंगमस्थलम् || ४ || नवनाथप्रबोधायाम् || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || सर्वदेवमयः श्रीमानुत्तमं जंगमस्थलम् || ५ || स्कांदे || सर्वानुग्रहणार्थाय जगतां हितकारणात् || तज्जंगममिदं पुत्र जायते मोक्षकारणम् || ६ || अन्तर्धाय ललाटाक्षि शशांकं च पिधाय च || अवामभागललनो जंगमः परमेश्वरः || * चरत्येव विचरंति महीलोके सत्यमेव न संशयः || ७ || श्रुतिः || एवं सर्वदेवतात्मकं जंगमलिंगं भक्तानुग्रहार्थं पंचेंद्रियेषु पंचवक्त्राणि भुजद्वये दशभुजान् सर्वपादान् चरणद्वये विधाय दिव्यमंगलविग्रहान् दधातीति भगवत्यथर्वणशिखा प्रतिपादयति || ८ || वीरागमे || नित्यानंदपदं ज्ञानं चैतन्यं ज्योतिरूपकम् || शांतज्ञानमनंतं स्याच्चरमित्युन्नमस्कृतम् || ९ || पृ० ७१) पैंगलशाखायाम् || एतज्जंगमः शांतमजरमभयममृतं परं ज्योतिः || १० || वीरागमे || निरामयं निराभासं निष्प्रपंचं निरंजनम् || सर्वस्वभावसंपन्नमुत्तमं जंगमस्थलम् || ११ || निरंजनं निराभासं निर्विकारं निराश्रयम् || निर्गुणं ज्ञानरूपं च उत्तमं जंगमस्थलम् || १२ || निराकारं निरालंबं निर्विकल्पं निरंजनम् || निष्पदं निष्प्रकारं च ज्ञानवज्जंगमस्थलम् || १३ || द्वैतातीतं महाद्वैती ध्यानमौनपदद्वयम् || वेदागमार्थनिरतमुत्तमं जंगमस्थलम् || १४ || वेदातीतो महाद्वैती मार्गातीतोऽतिमार्गिकः || शास्त्रातीतो महाशास्त्री तत्स्याज्जंगमलक्षणम् || १५ || वेदातीतं मनोऽतीतमागमातीतमार्गिकम् || शास्त्रातीतं महाशास्त्री तत्स्याज्जंगमलक्षणम् || १६ || क्षरं न चाक्षरं चैव द्वयोर्नाम प्रवर्तकम् || यदुन्मुखपरिज्ञानं दुर्लभं जंगमस्थलम् || १७ || अमृतबिंदूपनिषदि || विश्वातीतो विश्वमयो विश्वात्मा विश्वसंभवः || पृ० ७२) विश्वचक्षुश्च तत्सर्वं वीरमाहेश्वरः पुमान् || १८ || आर्यभट्टारके || परं ज्योतिः परं लिंगं परमीशं परात्परम् || परं व्योममयं रूपमेतज्जंगमलक्षणम् || १९ || निस्संगत्वं निराभारं निस्सीमं निरुपाधिकम् || निर्देहं निर्मलं नित्यं तत्स्याज्जंगमलक्षणम् || २० || रूपारूपसमाख्यातं कामनिष्काममेव च || मायानिर्मायमेवोक्तमेतज्जंगमलक्षणम् || २१ || निराकारं सदाकारं निर्विकारं सुखावहम् || साक्षान्मुक्तिपदं भावमुत्तमं जंगमस्थलम् || २२ || माता नास्ति पिता नास्ति नास्ति नामकुलेऽपि च || अयोनि शंभुरूपं च उत्तमं जंगमस्थलम् || २३ || परमरहस्ये || शृणु देवि महातंत्रे दीक्षितो जंगमश्च यः || तस्य देहे समस्तं च भुवनं च प्रकाशते || २४ || तस्मिन् सुरासुरास्सर्वे जंगमस्थावरात्मकाः || यत्रैव जंगमाः संति तत्रैव निखिलामराः || २५ || सप्तकोटिमहामंत्रा उपमंत्रास्त्वनेकशः || आम्नायादीनि तंत्राणि सिद्धान्ता बहवश्च ये || २६ || भूतानि भुवनान्येव परिवेष्टंति संततम् || पृ० ७३) तस्मात्सदा शिवाकाराः साक्षाद्वै प्राणलिंगिनः || प्राणलिंगिपरं नास्ति न भूतो न भविष्यति || २७ || किं च || सामवेदे || यस्यान्तस्थानि भूतानि यस्मात्सर्वं प्रवर्तते || यमाहुस्तत्परं तत्वं स देवः स्यान्महेश्वरः || २८ || ग्रंथान्तरे || पंचवक्त्रसमारूढं जायते भौतिकं तथा || तस्मात्तदुद्भवेल्लिंगं चिद्रूपं जंगमस्थलम् || २९ || वीरागमे || नादनिश्चलितं लिंगं बिंदुनिश्चलजंगमम् || नादबिंदुसमायुक्तं श्रेष्ठं तल्लिंगजंगमम् || ३० || तत्रैव || लिंगं च जंगमश्चैव तदाधिक्यं वदामि ते || जंगमं ज्ञानरूपं तु क्रियारूपं तु लिंगकम् || ३१ || परात्परतरं साक्षात्परब्रह्मस्वरूपकम् || चैतन्यं शंकरं ज्योतिरक्षरं जंगमं स्मृतम् || ३२ || नारायणोपनिषदि || परात्परं यन्महतो महान्तं परात्परं परादव्यक्तात्परं यज्जंगमलिंगम् || ३३ || पारमेश्वरागमे || इष्टोत्पत्तिर्गुरोश्चैव गुरूत्पत्तिस्तु जंगमात् || जंगमोत्पत्तिशून्यत्वात्तच्छून्यं चरलिंगकम् || ३४ || स्वायंभुवागमे || निःशब्दं स्थावरं चैव मंत्रशब्दोपदेशयोः || लोकपूज्यतरं श्रेष्ठं देवि जंगमलिंगकम् || ३५ || उत्तरवातुले || दीक्षामूर्तिर्गुरुर्देवो पूजामूर्तिस्सदाशिवः || पृ० ७४) दीक्षापूजातिशिक्षा च सर्वकर्ता च जंगमः || ३६ || मतंगपारमेश्वरे || आदिमूर्तिश्च तल्लिंगं मूर्त्यनादिस्तु जंगमम् || मायाकुण्डलिसंभूतं न च मूर्तिर्महेश्वरि || ३७ || वीरागमे || आदिलिंगं यथा नाम त्वनादिश्शरणस्तथा || द्विविधं भेदनामानि अभेद्यं जंगमं भवेत् || ३८ || मतंगपारमेश्वरे || गगनं तु निराकारं साकारं लिंगरूपकम् || लिंगं रूपधरं देवि जंगमं रूपवर्जितम् || ३९ || ललितागमे || अणिमादिगुणं लिंगं गुणातीतं च जंगमम् || तत्वरूपमयं लिंगं तत्वातीतं च जंगमम् || ४० || सर्वागमोत्तरे || सप्तकोटिमहामंत्रं लिंगरूपं महेश्वरि || अक्षरं मंत्ररूपं च मंत्रातीतं च जंगमम् || ४१ || परमरहस्ये || मद्रूपं जंगमं देवि मम प्राणं समाधिकम् || मद्गुरुश्च मदंगं च मन्नाथं चरलिंगकम् || ४२ || स्मृत्वा स्मृत्वा सदा देवि जंगमं हृदयस्थितम् || सत्यं सत्यं मया ख्यातं चरलिंगं समाधिकम् || ४३ || उत्तरवातुले || नमस्ते चरलिंगाय तत्पुरुषाय वायवे || पृ० ७५) क्षाराभ्युक्तप्रकाशाय वकारमनुमूर्तये || ४४ || वीरागमे || जंगमस्तु महादेवि महतश्चाप्यगोचरः || जंगमस्तु महाश्रेष्ठो जंगमस्तु प्रशस्यते || ४५ || परमरहस्ये || निर्मलं निष्कलं शान्तं निर्भेद्यं निरुपाधिकम् || अद्वैतपरमानंदं ज्ञेयं जंगमलक्षणम् || ४६ || शंकरसंहितायाम् || वृत्तम् || पुराणवेदान्तशिवागमेषु विचार्यमाणं च तथान्तहीनम् || सदाशिवाख्यं विमलं चिदंशं परात्परं जंगमलिंगरूपम् || ४७ || अथर्वणे || रुद्रः सर्वेषां यो जंगमानां वितरतचक्षुस्तनुकुले तेजःस्वाहा यस्सर्वेषामधिपतिः परमपुराणि परितो लोकानां जितेर्जितिर्विभुर्विभूनां भवोद्भवाय स्वाहा यः सुसूक्ष्मः सर्वेषामन्तरात्मा स्तुतस्तेषामधिपतिर्जंगमो जंगमानां बभूव भवति स्वाहा यो ब्रह्मशब्दप्रणवाध्रुवशब्दशब्द अन्तरात्मा पृ० ७६) सर्वेषामधिपतिर्यो जंगमे स्वाहा यो बभूव || ४८ || शिवसंकल्पोपनिषदि || परात्परतरं ब्रह्म || ४९ || परमरहस्ये || वेदमंत्रक्रियायुक्तं सर्वमंत्रमनूद्भवम् || मद्रूपं जंगमं देवि सर्वक्रियाप्रतिष्ठितम् || ५० || वीरागमे || सर्वभावविनिर्मुक्तं सर्वसंकल्पनातिगम् || सर्वशून्यं परानंदं चिद्रूपं जंगमं स्मृतम् || ५१ || अजितागमे || सर्वतत्वाद्यसंभिन्नं देहाद्भिन्नं तथैव च || अहमंशाद्यसंभिन्नं चैतन्यं सर्वतोमुखम् || ५२ || अस्मिन्नर्थे वीरागमे || अणूनामप्यणुतरं महतां च महत्तरम् || मध्यस्थं सर्वदेहेषु उत्तमं जंगमस्थलम् || ५३ || गोरक्षसंहितायाम् || शिष्याणां च गुरुर्माता गुरोर्माता तु जंगमः || जंगमस्य न माताऽस्ति ह्यादिनाथस्तु जंगमः || ५४ || शिष्योत्पत्तिर्गुरोश्चैव गुरूत्पत्तिस्तु जंगमात् || जंगमोत्पत्तिशून्यत्वात्तच्छून्यो जंगमो भवेत् || ५५ || स्कन्दपुराणे || अहंममत्वशून्यत्वान्निजबोधैक्यरूपधृत् || स्वयमेव स्वयं भूत्वा चरतीति चरः स्मृतः || ५६ || वीरागमे || शिव एव समुत्पन्नः शिव एव विभूषितः || पृ० ७७) शिव एव जगत्कर्ता जंगमाख्यः प्रशस्यते || ५७ || जंगमं त्र्यक्षरं विंद्याद्भुवनानि चतुर्दश || स्वर्गो मर्त्यश्च पातालं जंगमाख्यं प्रशस्यते || ५८ || सद्रूपश्च जकारश्च चिद्रूपश्च गकारकः || आनंदः स्यान्मकारश्च सच्चिदानंदजंगमम् || ५९ || सूतसंहितायाम् || जकारो गुरुरूपं च गकारो लिंगमुच्यते || मकारो जंगमो ज्ञेयस्त्रिमूर्त्यात्मकजंगमः || ६० || वीरागमे || जकारो गुरुरूपं च गकारो लिंगरूपकम् || मकारो जंगमश्चैव सर्वकर्ता च जंगमः || ६१ || जकारः कथ्यते चंद्रो मकारः सूर्य उच्यते || एतयोर्गमनं मध्ये यस्य सोऽपि च जंगमः || ६२ || वीरागमे || जगन्मध्ये स्थितं यस्य जगद्भिर्वंद्यते सदा || जरामरणनिर्मुक्तं जकाराय नमो नमः || ६३ || गकारो भावपूर्णश्च गजाननपिता स्वयम् || गगनं व्यापकश्चैव गकाराय नमो नमः || ६४ || महामहो महातेजा महीतलविचारकः || महामूर्तिर्महाध्येयो मकाराय नमोऽस्तु ते || ६५ || वायवीयसंहितायाम् || पृ० ७८) महानादो महाबिंदुर्महदाकाशरूपकः || महायोगमयं रूपं परमात्मेति जंगमः || ६६ || वीरागमे || जकारोऽभेद्यरूपं च गकारश्चाप्यगोचरम || मकारो मनसा ग्राह्यमभेद्यं जंगमस्थलम् || ६७ || जकारं चैव नादश्च गकारं बिंदुरूपकम् || मकारं च कलातीतं सर्वकर्तृ च जंगमम् || ६८ || जकारं जननं दूरं गकारं गमिवर्जितम् || मकारं मरणं नास्ति जंगमस्थलमुच्यते || ६९ || जकरो हंसवाहः स्याद्गकारो गरुडध्वजः || मकारो रुद्ररूपश्च त्रिमूर्त्यात्मकजंगमः || ७० || वीरागमे || जकाराज्जनिता पृथ्वी गकाराद्व्यामसंभवः || मकारान्मर्त्यलोकश्च जंगमो जगदीश्वरः || ७१ || अणिमाद्यष्टसिद्धीनां निधीनां च नवाकरम् || सर्वसिद्धिस्रष्टृपदं सत् स्याज्जंगमलक्षणम् || ७२ || वीरागमे || आनभिर्ब्रह्मणो रूपमाकण्ठाद्वैष्णवं वपुः || आललाटान्महादेवस्त्रिरूपं जंगमस्थलम् || ७३ || कूर्मपुराणे || भूसुरो ब्राह्मणः प्रोक्तो भूरुद्रो जंगमस्तथा || सुररुद्रद्वयोर्मध्ये रुद्र एव विशिष्यते || ७४ || मूलमूर्तिर्महादेवो वेदवेद्यः सदाशिवः || पृ० ७९) आदिकर्ता जगन्नाथो वर्णानां जंगमो गुरुः || ७५ || प्रभाते जंगमे दृष्टे कोटिलिंगस्य दर्शनम् || ललाटान्नमते यस्तु सर्वपापैः प्रमुच्यते || ७६ || वीरागमे || प्रभाते जंगमे दृष्टे सर्वलिंगस्य दर्शनम् || ललाटेन नमेद्यस्तु सर्वतीर्थफलं भवेत् || ७७ || कोटिलिंगार्चने पुण्यं दृढभक्तस्य भक्तितः || तस्माच्छतगुणं पुण्यं जंगमानां च दर्शने || ७८ || कोटिलिंगार्चने पुण्यं शिलारूपा हि देवताः || तस्मात्कोटिगुणं पुण्यं जंगमानां च दर्शने || ७९ || स्कन्दपुराणे || व्रतिनश्चरलिंगस्य पूजनं श्रेष्ठमक्षयम् || दर्शनं चाधिकं वत्स मयोदितमिदं शृणु || ८० || चरस्य पूजावेलायां मत्सेवां शिवभक्तिमान् || आचरेत्सर्ववस्तूनि समर्प्य तदनंतरम् || ८१ || वीरागमे || स्थावराराधनात्पुण्यं जंगमाराधनाधिकम् || साधारणं सहस्रेषु जंगमं तु विशेषकम् || ८२ || ग्रन्थान्तरे || नादबिंदुकलातीतं वेदशास्त्रातिवर्तनम् || आदिमध्यान्तरहितं नित्यानंदात्मकं निजम् || पृ० ८०) शुचिर्भूत्वा विधानेन चरलिंगं प्रपूजयेत् || ८३ || लैंग्ये || कोटितीर्थसदास्नानात्कोटिलिंगार्चनाज्जपात् || कोटिक्षेत्राटनात्पुण्यं विशेषं चरपूजने || ८४ || वीरागमे || पंचत्वं प्रापिते देहे वस्त्रालंकरणादिवत् || विना जंगमलिंगस्य प्रसादं च ममार्पयेत् || ८५ || शिवरहस्ये || अनादिर्जंगमश्चैव सादिलिंगस्थलं भवेत् || अनादेस्तु विरुद्धो न इष्टोच्छिष्ठं तु किल्बिषम् || ८६ || स्कांदे || लिंगस्य चेतनं कृत्वा जंगमस्य प्रसादतः || चरोच्छिष्टं विना वत्स न च लिंगं न च क्रिया || ८७ || लैंग्ये || क्षीरकुंभसहस्राणि घृतकुंभशतानि च || विनार्पयेच्चरोच्छिष्टमिष्टलिंगेन हि प्रिये || ८८ || वीरागमे || स्वर्णोदकसहस्त्रैश्च रत्नोदकशतैरपि || स्नापिते चरपादांबु विना लिंगे निरर्थकम् || ८९ || तत्रैव || चरपादोदकस्नानं विशेषं मम कथ्यते || एतद्भक्तिविहीनस्य रोचते न च पूजनम् || ९० || पृ० ८१) किंच || चरोच्छिष्टेन मां कोऽपि विनापि भजते यदि || नास्ति तस्य विनिर्मोक्षः संसारे जन्मकोटिभिः || ९१ || शिवरहस्ये || चरलिंगस्य शेषं च भुंक्ते लिंगार्पणं विना || गुरुद्रोही शिवद्रोही परलोको न विद्यते || ९२ || वीरागमे || प्रसादं शिवलिंगस्य न संदेहात्समर्पयेत् || जारात्तु जन्म भवति विदुः प्राज्ञा नरोत्तमाः || ९३ || भैरवागमे || चरोच्छिष्टं विना यो मां भजते श्रद्धयान्वितः || नास्ति तस्य विनिर्मोक्षः संसाराज्जन्मकोटिभिः || ९४ || शिवरहस्ये || निवेदनेन विधिना विशेषाश्रयमीशितुः || निर्मलस्य विभोस्तस्यामयिकं कलुषान्वितम् || ९५ || विनिवेद्यान्तकथनं वद कारुण्यसागर || प्रसादकलुषं वस्तु जंगमं लिंगमेव च || मंत्रवारि विशुद्धं यच्छिवाय विनिवेदयेत् || ९६ || सूतसंहितायाम् || इष्टलिंगप्रतिष्ठायां श्रीरुद्रं शतरुद्रियम् || अभिषेको न कर्तव्यः कर्तव्यं पादतीर्थतः || ९७ || वीरागमे || जंगमानां च चरणपूजनं शिवपूजनम् || गन्धाक्षतप्रसूनादिधूपदीपनिवेदनैः || ९८ || चरलिंगस्य पूजायां पादतीर्थं प्रपूजयेत् || पृ० ८२) गन्धाक्षतप्रसूनादिधूपदीपं निवेदयेत् || ९९ || शिवलिंगाभिषेकार्थं साधयेत् पापशोधनम् || प्रसादान्नं भोजयेच्च वीरशैवस्य दीक्षया || १०० || ब्रह्माण्डपुराणे || ममापि चरलिंगस्य प्रसादान्नं समर्पयेत् || तच्छेषं शिवभक्तश्च भुंजीयात्सविशेषतः || १०१ || कालिकाखण्डे || जंगमे सर्ववस्तूनि समर्प्य सुविचारतः || तद्द्रव्यं च पदार्थोक्तं तत्पदार्थं च लिंगके || १०२ || निवेदितप्रसादं च भोजयेत् सततं सुधीः || रसानां लंपटं त्यक्त्वा शिवमार्गानुवर्तिनाम् || भक्तानां सुप्रसादं च शिवलिंगे निवेदयेत् || १०३ || शिवधर्मोत्तरे || लिंगार्पितप्रसादं च न दद्याच्चरलिंगके || चरार्पितप्रसादं च दद्याच्च शिवलिंगके || १०४ || समाघ्रातं परिस्पृष्टं यथा दृढमनिच्छया || मनोवाक्वायकर्मभ्यश्चरलिंगे समर्पयेत् || तत्प्रसादं पुनर्लिंगे दत्वोच्छिष्टं तु सेवयेत् || १०५ || ग्रंथान्तरे || मुक्त्वा पूजां तु लिंगस्य चरलिंगं तु सेवयेत् || तां पूजां चरलिंगस्य कृत्वा द्रव्यं निवेदयेत् || तत्प्रसादविमिश्रं तु श्रेष्ठं लिंगे निवेदयेत् || १०६ || श्रोत्रादींद्रियसौख्यं च मुक्त्वा लिंगोपभोगिना || पृ० ८३) लिंगेऽपि तु समर्प्यं स्याच्चरलिंगप्रसादकम् || १०७ || पारमेश्वरागमे || वृत्तम् || तापत्रयाणां च मलत्रयाणां गुणत्रयाणां विहृतिप्रभावम् || प्रसादलेपं च पुनश्चरस्य लिंगे च दत्वा शरणः प्रभुंक्ते || १०८ || विजयभैरवागमे || लिंगप्रसादं सकलं चरोच्छिष्टं तु निष्कलम् || चरशेषात्पदं नास्ति लिंगोच्छिष्टं फलप्रदम् || १०९ || तन्निमित्ताद्भवांभोधिं तर्तुं तच्चरशेषकम् || स्वेष्टलिंगे तु तद्दत्वा पुनर्भोजनमाचरेत् || ११० || किंच || तच्छेषं स्वेष्टलिंगस्य भोजयेत् सततं सुधीः || १११ || स्थावरं जंगमं चेति द्विविधं लिंगमुच्यते || चराग्रे स्थापयेत्पश्चात् शुद्धान्नमिति कथ्यते || ११२ || तदन्नं शिवलिंगे तु दत्वा निर्मलभावतः || प्रसाद इति निश्चित्य तत्प्रसादं तु सेवयेत् || ११३ || चरलिंगे विचारेण समर्प्य तदनंतरम् || स्वलिंगे च प्रसादान्नं दत्वा भोजनमाचरेत् || ११४ || स्कान्दे || चर एव स्वलिंगं च शेषं लिंगे समर्पयेत् || चरेंद्रियमुखद्वारे सदा सन्निहितः शिवः || ११५ || पृ० ८४) ग्रंथान्तरे || सिक्थे सिक्थे महादेवि कोटिलिंगार्चनं भवेत् || जंगमस्य प्रसादान्नं नैवेद्याय प्रकल्पयेत् || ११६ || प्रदेशान्तरे || द्रव्यं क्रियास्वरूपं च प्रसादं निर्मलं तथा || पदार्थो जन्महेतुः स्यात्प्रसादो भवनाशनः || तस्माज्जंगमलिंगस्य प्रसादं च ममार्पणम् || ११७ || ग्रंथान्तरे || निखिलानि पदार्थानि समर्प्य तदनंतरम || ममापि तत्प्रसादं च दत्वोच्छिष्टं तु भोजयेत् || ११८ || वीरागमे || द्रव्यस्वरूपं विज्ञाय चरलिंगे समर्पयेत् || तत्प्रसादं स्वेष्टलिंगे दत्वा तच्छेषमुत्तमम || भोजयेत् सततं भक्त्या स एव शिव उच्यते || ११९ || ब्रह्मांडपुराणे || चरमेव प्रशंसन्ति तच्छेषान्नस्य भोजनात् || सायुज्यपदवी देवि मम वाक्यं न संशयः || १२० || अस्मिन्नर्थे कालिकाखण्डे || तम्माल्लिंगार्चनं कार्यं शुद्धवस्त्विति भावतः || १२१ || चराचरविभेदन मद्रूपं द्विविधं स्मृतम् || चरेण शुद्धं द्रव्यं चेदचरे चार्पितं मम || १२२ || योऽयं चर इति ख्यातो मम देहात्मतां गतः || शब्दादिविषयास्तेन स्पृष्टाः शुद्धिं प्रयांति हि || १२३ || पृ० ८५) तैत्तरीयोपनिषदि || चरणं पवित्रं विततं पुराणं येन पृत?स्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पृता अतिपाप्मानमरातिं तरेम || १२४ || पारातश्रुतौ || लोकस्य द्वारमर्चिमत्पवित्रं ज्योतिष्मत् भ्राजमानं महस्वदमृतस्य धारा बहुधा दोहमानं चरणं नो लोके सृयितां दधातु || १२५ || अथर्वणे || तं त्वोदनस्य पृच्छामि || १२६ || वाचिकत्वाच्छुद्धो लिंगार्पणचेता मुखेन जंगमानां च शुद्धं द्रव्यं भवति || १२७ || जाबालोपनिषदि || चरं मेयमानं दृशे तच्छेषं येन भुज्यते परब्रह्मणस्तच्छेषं मम तृप्तिर्न संशयः || १२८ || अथर्वणशिखायाम् || भ्रुवोर्मध्ये मम रूपं सहस्राब्जे लिंगं स्थितं पश्चिमे शिखायां जंगमः शून्यो विश्वानुग्राहको जंगमः जंगमस्य पादांबुना शिवलिंगस्य स्नपनं तत्प्रसादं च भोजयेत् || १२९ || अथर्वणे || ओं जंगमस्य सिक्तपादांभो लिंगस्य तनुमीरयेत् तत्प्रसादो भोग्यपदं पादांबुजसलिलं पृ० ८६) आसेवितं भुंजीयादन्यं नोपासीत शिवलिंगकारिं पायात् || १३० || यजुर्वेदे || ओं नमः परमात्मने ब्राह्मे मुहूर्ते उत्थाय शरीरं परिमार्जयेत् गुरुवन्दनं कृत्वास्य मठे आगत्य जंगमपादयोर्नमः जंगमं स्वगृहं प्रवेश्य तत्रादौ प्रोक्षयित्वास्य परमेश्वरस्य आशा नास्ति परमेश्वरो भगवान् स्यात् स्थावरं जंगमं चैव त्रैलोक्यं जंगममध्यात् जंगम ईश्वररूपः जंगमपादोदकं सकलतीर्थानां श्रेष्ठं यदा लिंगस्य समर्पितं तत्तीर्थं पाषाणं लिंगं भवेत् तस्य सेवितभक्तास्ते भक्ताः परमेश्वररूपाः ये जंगमरूपिणः प्रणवस्वरूपाः यथा तद्रूपः परमेश्वर एकमूर्तिस्त्रयो भागाः स्युर्गुरुः स्याद्भवेल्लिंगरूपं च तयोर्जंगमाधिकं भवेत् त्रिविधमेकभेदं च एकभेदं त्रिभागं च त्रिविधस्वरूपमेकं भवेत् वेदा वदन्ति सर्वे मुनयो भाषितं सत्यं सत्यं पुराणागमोपपुराणप्रसिद्धं स्मरेत् सर्वदेवानां ब्रह्मविष्णुरुद्राणां च त्रिमूर्तीनां चैतन्यं जंगमं चैव जंगममुखेन परमेश्वरस्तृप्तः रुद्रस्तस्य प्राणायामत्रयं कृत्वा समाम्नातमूले तत्र स्थितो पृ० ८७) ब्रह्ममध्ये मातृगणाः स्मृताः कुक्षौ च सागरास्सर्वेऽपि द्वीपाः वसुंधरा ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वणः अंगैश्च सहितास्सर्वे मार्जयेत् वेदा वदन्ति भाषितं सा प्रतिष्ठा त्रैलोक्ये च यजुर्वेदादिसमश्रुतिपंचदशाध्याये प्रोक्तम् || १३१ || जाबालोपनिषदि || चरमियं वै देवता दृश्यते शेषो भुंजते परब्रह्म स्यात्तच्छेषं तृप्तिर्न संशयः || १३२ || ब्रह्मगीतायाम् || जंगमानां च पादांबु तत्प्रसादस्य सेवनम् || सेविनां मोक्षसिद्ध्यर्थं सत्यमीश्वरभाषितम् || १३३ || अस्मिन्नर्थे परमरहस्ये || चरस्य पादतीर्थेन लिंगमज्जनमुत्तमम् || तत्प्रसादो महादेवि नैवेद्यं शुभदं भवेत् || १३४ || स्कांदे || तस्य जंगमलिंगस्य प्रसादं लिंगसेवितम् || मया प्रोक्तं तु कर्तव्यं पज्जलं शिखिवाहन || १३५ || वीरागमे || चरपादोदकाल्लिंगं स्नाप्य प्रसादमर्पयेत् || एतन्मार्गप्रचारी यः स भक्त इति कथ्यते || १३६ || पृ० ८८) स्कन्दपुराणे || लिंगभक्ताश्रयं वत्स शृणुष्वैकमना इह || चरपादोदकाल्लिंगं स्नाप्य प्रसादमर्पयेत् || १३७ || निरंजनस्य शुद्धस्य निस्स्थलस्य चरस्य च || पादांबुना लिंगमूर्तेः स्नानं कुर्वीत भाजनम् || तत्प्रसादेन तं पश्चाच्छिष्यः प्राणे विनिक्षिपेत् || १३८ || पादोदकं प्रसादान्नं विशेषमधुनोच्यते || मत्प्राणो जंगमो नित्यं मल्लिंगं जंगमस्तथा || १३९ || वीरागमे || पादाभिषेकसलिलं भुक्तशेषान्नमुत्तमम् || अभिषेकं च नैवेद्यप्रसादं शिवलिंगके || १४० || तत्रैव || पादतोयं च निर्माल्यं प्रसादं च चरस्य च || योऽपि लिंगार्पितं भुंक्ते स रुद्रो नात्र संशयः || १४१ || शिवरहस्ये || पादाब्जतोयनिर्माल्यप्रसादं तु चरस्य च || यस्तु लिंगार्पितं भुंक्ते स रुद्रो नात्र संशयः || १४२ || स्कांदे || तस्माल्लिंगे प्रसादं च निर्माल्यांघ्रिजलं तथा || अर्पयेच्चरलिंगस्य शृणु षण्मुख सर्वदा || १४३ || वीरागमे || जंगमस्य प्रसादं तं नैवेद्यार्थं प्रकल्पयेत् || पादोदकजलस्नानं विशेषो हि ममोच्यते || १४४ || पृ० ८९) शिवरहस्ये || पादतीर्थप्रसादाभ्यां कुर्याल्लिंगार्चनं सदा || यः सेवेत स भक्तानां मम रूपं तु पार्वति || १४५ || पारमेश्वरागमे || पादाभिषेकसलिलं लिंगमज्जनमुत्तमम् || मत्प्रसादं च नैवेद्यं तथा मुक्तिफलं ध्रुवम् || १४६ || ब्रह्माण्डपुराणे || जंगमानां च चरणसलिलं पापनाशनम् || प्रसादं मोक्षसिद्ध्यर्थं सत्यमीश्वरभाषितम् || १४७ || जंगमस्य पादतीर्थं लिंगमज्जनमुत्तमम् || तत्प्रसादं महादेवि नैवेद्यं शुभमंगलम् || १४८ || ईश्वर उवाच || तस्माज्जंगमलिंगस्य प्रसादेन ममार्पयेत् || अभिषेकजलस्नानं विशेषं मम कथ्यते || १४९ || चरपादोदकं लिंगे स्नानं प्रसादमर्पयेत् || प्रचारानुभवश्चेति सोऽपि भक्तश्च कथ्यते || १५० || जंगमो ज्ञानरूपश्च क्रियारूपं च लिंगकम् || तदंघ्रिजलस्नानं च शेषं समर्पणं भवेत् || १५१ || तस्माज्जंगमलिंगस्य प्रसादः सेवितो मया || पज्जलेनैव स्नानं हि कर्तव्यं शिखिवाहन || १५२ || लिंगभक्ताश्रयं वत्स शृणुष्वैकमनास्सदा || चरपादोदकं लिंगे स्नाप्य प्रसादमर्पयेत् || १५३ || पृ० ९०) नंदिकेश्वर उवाच || पादोदकं प्रसादान्नं नित्यमासेविनां नृणाम् || दशपापविनाशस्तु कथ्यते गणपुंगव || १५४ || मत्प्राणो जंगमो देवि मल्लिंगं जंगमस्तथा || आवयोस्तत्प्रसादस्तु भोग्यः स्यादिति निश्चिनु || १५५ || वीरागमे || स्वयं प्रसादरूपोऽयं सच्चिज्जंगम उच्यते || सौख्यं शतगुणाधिक्यं प्रसादात्प्राप्यते नृणाम् || १५६ || शाकटायने || शिष्यप्राणो गुरुर्देवि गुरुप्राणस्तु जंगमः || जंगमस्य प्रसादः स्यात्सर्वशास्त्रेषु गीयते || १५७ || वीरशैवाचारप्रदीपिकायां गुरुलक्षणम् देव्युवाच- कलेः कलुषिते काले दुर्जये दुरतिक्रमं || क्षीणे वर्णाश्रमाचारे संकरे समुपागते || १ || केनोपायेन मुच्यंते भक्तास्तव महेश्वर || २ || ईश्वर उवाच || संसारदुःखकांतारे निमग्नश्च महातपे || चक्रवद्भ्रमते देवि लिंगार्चनविवर्जितः || ३ || यो जातु नार्चयेल्लिंगं न स्मरेन्न च कीर्तयेत् || किं तेन जातमात्रेण भूभारेणान्नशत्रुणा || ४ || पृ० ९१) अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः || पापानामन्नरूपाणां तस्य भोजनमुच्यते || ५ || नास्ति लिंगार्चनं यस्य म्लेंछयोनौ प्रजायते || न शिवार्चनसाम्योऽस्ति धर्मोऽन्यो भुवनत्रये || ६ || इति ज्ञात्वा प्रयत्नेन पूजनीयः सदाशिवः || सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः || ७ || लिंगमध्ये महादेवः साक्षाद्देवो व्यवस्थितः || अनुग्रहाय लोकानां तस्माल्लिंगं प्रपूजयेत् || ८ || उपदेशं विना लिंगं प्रपूजयति यो नरः || नरके पच्यते देवि सूपदेशो ह्यतः स्मृतः || ९ || यथा मृगपतिं दृष्ट्वा भवेद्भीतो वने गजः || अदीक्षितोऽर्चयेल्लिंगं तथा भीतो महेश्वरः || १० || त्रिपुंड्रं चैव रुद्राक्षं नित्यार्चनजपस्तथा || होमध्यानादिकं सर्वं दीक्षाहीनस्य निष्फलं || ११ || अदीक्षितश्चतुर्वेदी न विशेद्गर्भगेहकं || प्रमादाद्गर्भगेहं तु प्रायश्चित्तं तु कारयेत् || १२ || अदीक्षितश्च यो विप्रः कुर्याल्लिंगस्य पूजनं || अरण्ये निर्जने देवि भवति ब्रह्मराक्षसः || १३ || चतुर्वेदी त्वहंकारी शिवलिंगं तु पूजयेत् || राजराष्ट्रविनाशश्च तस्य ग्रामोऽपि नश्यति || १४ || दीयते ज्ञानसंबंधः क्षीयते च मलत्रयम् || दीयते क्षीयते येन सा दीक्षति निगद्यते || १५ || उपदेशं चौपदिश वीरशैवीयदीक्षया || पृ० ९२) गुरुं विचारयेच्छिष्यो महादेवं प्रपूजयेत् || १६ || वृत्तं || नित्यानित्यविचारवानिह परत्रापेक्षितार्थारतिः शांत्याद्यंगसमन्वितः सुचरितो मोक्षाभिलाषी सुखी || सत्यानंदपरं प्रकाशपरिपूर्णात्मावबोधान्वितं कृत्याकृत्यविवेकिनं गुरुवरं प्रेयान्नरो भक्तिमान् || १७ || सद्वंशजः समापूर्णः प्रशांतः प्रियभाषणः || गंभीरः सत्यवाग्वाग्मी संतुष्टः करुणास्पदः || १८ || स्निग्धः स्मितमुखो रागी प्रगल्भो निरहंकृतिः || शुचिः सुशीलो धर्मिष्ठः सदाक्षिण्यो बृहद्ध्वनिः || १९ || निर्मत्सरो गुणग्राही प्रशांतो विजितेंद्रियः || वेदांगेषु कृताभ्यासः पुराणश्रुतिवित्तमः || २० || सर्वागमेषु कुशलः कुलीनश्च महामतिः || मंत्रोद्धारप्रवीणश्च मंत्रार्थप्रतिपादकः || २१ || (सुप्रबोधागमे) पदवाक्यप्रमाणज्ञो वेदवेदांतपारगः || तिथिनक्षत्रयोगज्ञो भूपरिग्रहकर्मवित् || २२ || शैवसिद्धांततत्वज्ञः प्रतिष्ठामंत्रपारगः || मोक्षदः करुणोपेतो वीतरागो विमत्सरः || २३ || क्रियापादे तु निपुणश्चर्यापादे तु रंजकः || योगपादे कृताभ्यासो ज्ञानपादे विशेषवित् || २४ || क्रियादिज्ञानपर्यंतं शिवतत्वविनिश्चयः || पृ० ९३) संप्रदायागतज्ञानो लोभदंभविवर्जितः || २५ || लिंगांगस्थलभेदज्ञः षट्स्थलज्ञानतत्परः || शिवसिद्धांततत्वज्ञः षडध्वज्ञानवत्सलः || २६ || नित्यकर्मादिकुशलो नमित्तिकविचक्षणः || काम्यादिकर्मचतुरो दीक्षाकर्मादिकर्मठः || २७ || मंडले मंडपे कुंडे प्रासादे प्रतिमासु च || लिंगपीठे शिलायां च परीक्षानिपुणाग्रणीः || २८ || शिवस्य च गुरोर्भक्तः शिवैकाहितमानसः || शिवार्चनासक्तचित्तः शिवध्यानैकतत्परः || २९ || गुकारं च गुणातीतं रुकारं रूपवर्जितं || गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः || ३० || निराकारं निरालंबं निर्मलं निर्विकल्पकं || निर्गुणं निष्कलं नित्यं परात्परपदं गुरुं || ३१ || (वीरागमे) ललाटलोचनं चांद्रीं कलामपि च दोर्द्वयं || अंतर्निधाय वर्तेऽहं गुरुरूपो महेश्वरि || ३२ || वसते पादयुग्मे तु त्रैलोक्यं सचराचरम् || अंगुष्ठाग्रे चाष्टषष्ठितीर्थान्यस्मिन्वसंति वै || ३३ || सप्ताब्धयस्तु पादाधस्तदूर्ध्वं चाष्ट ते नगाः || जंघयोर्वसते नित्यं षट्त्रिंशत्तत्वसंचयः || ३४ || पृ० ९४) स्मर्तव्यः पठनीयश्च गुरुः परमकारणः || गुरुदेवं महादेवं चैकभावेन भाविताः || ३५ || त्रिषु लोकेषु पूज्यंते ते नरा गुरुभक्तितः || गुरुर्गृहस्थ एव स्यान्न कदाचिद्यतिर्गुरुः || ३६ || यथाहं सर्वलोकानां गुरुरंबिकया सह || ३७ || (क्रियासारे) ईश्वर उवाच || गृहस्थः सर्ववर्णेषु श्रेष्ठो गुरुरुदाहृतः || नैष्ठिकस्त्वधमो ज्ञेयो भांतिकस्तु ततोऽधमः || ३८ || वानप्रस्थयतीनां तु गुरुत्वं निष्फलं सदा || शिष्यस्य शिक्षणीयत्वाद्गुरुर्गौरवभावतः || ३९ || तस्मात्सर्वप्रयत्नेन गुरुर्गौरवमाचरेत् || वयः षोडशकादूर्ध्वमिष्यते सप्ततेरधः || ४० || शिवज्ञानामृतस्वादपरिसंतुष्टमानसः || तत्वविच्छिवसंयुक्तो मुक्तिदो न तु चापरः || ४१ || गुरवो बहवः संति शिष्यवित्तापहारकाः || दुर्लभोऽयं गुरुर्देवि शिष्यहृत्तापहारकः || ४२ || (सिद्धांतशिखामणौ) ज्ञानहीनं गुरुं प्राप्य कुतो मुक्तिमवाप्नुयात् || भिन्ननौकागतः [भिन्ननावं गतः] सिंधोर्यथा पारं न गच्छति || ४३ || तस्माज्ज्ञानाधिकं शिष्यो गुरुमेव समाश्रयेत् || इत्थं गुरुः समाख्यातो वर्जनीयोऽधुनोच्यते || ४४ || पृ० ९५) व्यसनी वामनः कुब्जः कोपी च कुलटः शठः || चपलोऽधिकहीनांगः पापीयान्सूचकोऽन्यजः || ४५ || व्याधिगस्तार्किकः शूरः काकनादो बकव्रती || गुरुदेवद्विजातीनां निंदको वृषलीपतिः || ४६ || अपूज्यकुलसंभूतस्त्रीकर्मी शिववर्जितः [सेव्यवर्जितः]|| लंबोष्ठो वक्रनासश्च गवीनः कलहप्रियः || ४७ || परापवादशीलश्च परग्रंथोपजीवकः || बाला बहुगुणैर्युक्ता वृद्धाः खंजास्तथैव च || ४८ || एवमादिगुणैर्युक्ता वर्जनीयाः प्रयत्नतः || पूर्वं गुरुं परित्यज्य योऽन्यं गुरुमुपाश्रयेत् || ४९ || स पुनर्भूरिति ज्ञेयः सर्वकर्मसु गर्हितः || द्विजातिर्वा ततः शूद्रः स्वस्वोक्ताचारवान् शुचिः || ५० || सत्यवाग्गुरुभक्तश्च दंभाहंकारवर्जितः || रागद्वेषविनिर्मुक्तः शांतः सर्वजनप्रियः || ५१ || अहिंसको दयावांश्च नित्यमुद्युक्तचेतनः [नित्यविध्युक्तचेतनः]|| गुरुशुश्रूषणरतो मनोवाक्कायकर्मभिः || ५२ || बहिरंतश्चरैः प्राणैर्गुरुभक्तियुतो नरः || गुरुरेवंविधं शिष्यं वर्षमेकं परीक्षयेत् || ५३ || गुर्वाज्ञाचकितः सौम्यः शिष्य इत्यभिधीयते || पृ० ९६) ज्ञानेन क्रियया चाथ गुरुः शिष्यं विशोधयेत् || ५४ || योऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः || तस्मात्सर्वप्रयत्नेन गुरुः शिष्यं परीक्षयेत् || ५५ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासनाविधौ || देहपातस्तथा कंपः परमानंदहर्षणे || स्वेदो रोमांच इत्येतच्छक्तिपातस्य लक्षणं || ५६ || (इति शक्तिपातलक्षणम्) उक्तलक्षणसंपन्नो यस्मिन् देशे गुरुः स्थितः || तत्र शिष्यः स्वयं गत्वा प्रणमेद्दंडवद्गुरुं || ५७ || स्वगुरुं वा महेशं वा प्रणमेदेकपाणिना || यदि पूर्वार्जितं पुण्यं तत्सर्वं च विनश्यति || ५८ || अष्टांगैरथ पंचांगैस्त्रिभिरंगैर्नमस्त्रिधा || उरसा शिरसा दृष्ट्या मनसा श्रद्धया गिरा || ५९ || पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग उच्यते || शिरः कराभ्यां जानुभ्यां पंचांगैः प्रणमेच्छिवं || ६० || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || एते गर्भगता यस्य तस्मै श्रीगुरवे नमः || ६१ || अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || ६२ || अनंतजन्मसंप्राप्तकर्मेधनविदाहिने || ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः || ६३ || भवारण्यप्रविष्टस्य दिऽऽन्मोहभ्रांतचेतसः || येन मे दर्शितः पंथास्तस्मै श्रीगुरवे नमः || ६४ || पृ० ९७) देशिकस्य मुखं दृष्ट्वा प्रणमेद्दंडवद्भुवि || पतंति सर्वपापानि नोत्तिष्ठंति पुनः सह || ६५ || गुरुं दिदृक्षुर्यः शिष्यः सद्भक्त्याऽनुदिनं स तु || रिक्तपाणिर्न तं पश्येद्यथा राजा तथा गुरुः || ६६ || स्वामिन् भट्टारकाचार्य मययेवं त्वं कृपां कुरु || इत्युक्तं प्रवदेच्छिष्यमुपदेशं करोम्यहम् || ६७ || अनुग्रहकरणार्थे जपे विनियोगः निष्कलो देवता सुज्ञान ऋषिः || अनुष्टुप् छंदः नादरूपे प्रणवं बीजम् || मूलमंत्रेण पंचतत्वानां सादाख्यानां समारभेत् || दशमाध्याये गुरुशुश्रूषणं वक्ष्ये तद्यथा शृणु यत्नतः || ततः कुर्वीत शुश्रूषां सद्भक्त्याऽहरहर्गुरोः || १ || शुश्रूषायाः क्रमं चाथ शृणुष्व चतुरानन || मनस्यविरतं सम्यग्गुरोराकारचिंतनम् || २ || शुश्रूषोपायता काचित् हृच्छुश्रूषेत्युदाहृता || देव किं कर्म कर्तव्यं तदेवेत्युत्तरं पुनः || ३ || एवमादिप्रियोक्तिश्च सा वाक्शुश्रूषिका स्मृता || समीपे वापि दूरे वा स्वशरीरनिवेदनम् || ४ || गमनागमनायासैः स्वभावानंदनैस्तथा || पृ० ९८) प्रदक्षिणनमस्कारान्सम्यक् पादावनेजनम् || ५ || पयसाऽऽज्येन दध्ना वा लब्धेनांघ्रिप्रपूजनम् || ततः सूक्ष्मैर्मुद्गचूर्णैरुष्णेन सलिलेन च || ६ || प्रक्षाल्य शुद्धवस्त्रेण तदूर्ध्वोदकमार्जनम् || ७ || शययासंस्तरणं कृत्वा केशान्संमार्जयेन्नखैः || तैलाभ्यंगक्रियाश्चाथ स्नानकर्म यथा शुभम् || ८ || श्रीखंडलेपनं पुष्पमालिकाचारुबंधनम् || शौचार्थं मृज्जलादीनि दंतकाष्ठप्रदापनम् || ९ || पूजास्थानानुलेपं च गोमयेन सवारिणा || पूजायै जलपुष्पाणि तत्र योग्यानि विन्यसेत् || १० || एवमादीनि चान्यानि गृहकर्माणि यानि वै || एतैः कृता च सा सेवा कायिकेत्यभिधीयते || ११ || धान्यस्वर्णपशुक्षेत्रदासीदासांबराणि च || पर्यंकभूषणान्यत्र त्रिपादचषकानि च || १२ || चंदनान्यनुलेपोक्तद्रव्याणि सुरभीणि च || केशानुलेपद्रव्याणि कस्तूर्यादीनि यानि च || १३ || तुरंगमगजांदोलस्यंदनानि शुभानि च || तेषां प्रदानं सद्भक्त्या घनशुश्रूषिका स्मृता || १४ || द्रव्यसामर्थ्यसंपन्नो यः कश्चिच्छिष्यकस्सदा || सर्वशुश्रूषिकां कुर्यात्स गुरोरेव भक्तितः || १५ || न्यायार्जितं स्थितं स्वर्णमुख्यं यद्व्यावहारतः || तदेव द्रव्यं गुरवे दद्याद्दाने हि तद्वरं || १६ || अन्यायेन यदानीतं पुरुषेण तु केन चित् || पृ० ९९) न दद्याद्गुरवे तत्तु रत्नं स्वर्णमपि क्वचित् || १७ || नूतनं सदृढं स्निग्धं धवलं नेत्रवल्लभम् || दद्यादाच्छादनं भक्त्या गुरवे सर्वदा बुधः || १८ || * विशीर्णं स्फुटितं दग्धं प्राक्तनं स्वधृतं पुरा || * दष्टं कीटादिभिर्वस्त्रं न दद्याद्गुरवे बुधः || १९ || परुषं दुष्क्रियायुक्तं नीलसूत्रविनिर्मितम् || पट्टवस्त्रेतरं वस्त्रं सुजीर्णं न प्रदापयेत् || २० || पट्टदेवांगचीनानि वासांस्यन्यानि यानि च || चित्राणि दद्यान्नृपतिरितरो वा धनाधिपः || २१ || गुरोः प्रियाणि द्रव्याणि यानि कानि चिदन्वहं || तानि भक्त्या प्रदेयानि शिष्येण सुलभानि वै || २२ || दरिद्रश्च स्वयं शिष्यः प्रतिसंवत्सरं यजेत् || वासः प्रावरणार्थाय दद्यात्तन्नेत्रवल्लभम् || २३ || गुरुं स्वगृहमायांतं दृष्ट्वा भक्तियुतो नृपः || तस्मै दत्वाशनं नत्वा चाग्रे तिष्ठेदनुज्ञया || २४ || आचार्यचरणद्वंद्वप्रक्षालितजलं सदा || यः पिबेद्धारयेद्भक्त्या सर्वपापैः प्रमुच्यते || २५ || चंदनं साक्षतं पुष्पं स्वर्णं तांबूलमंबरम् || पात्रे विधाय गुरवे शिष्यो दद्यात्स्वपाणिना || २६ || संभोजयित्वा स्वगुरुं पश्चाद्भुंजीत बुद्धिमान् || गुरोः पुरस्ताद्यो भुंक्ते गुरुद्रोही न संशयः || २७ || यानि भक्त्या च नूत्नानि कंदमूलफलानि च || पृ० १००) अपूपान्यपि चान्यानि गुरोः पूर्वं न भक्षयेत् || २८ || शिष्येन भोजनात्पूर्वं न भोक्तव्यं कदाचन || भोजनानंतरेऽश्नीयात्स्वगुरोर्यः स पुण्यभाक् || २९ || यो भक्त्या गुरुणा भुक्तं पात्रस्थं न च मुंचति || स भोक्ता सर्वदुरितैर्मुच्यते नात्र संशयः || ३० || तांबूलमुत्तमं तस्मै ततः पात्रेण दापयेत् || पश्चादिष्टानि वस्तूनि दत्वा नत्वा क्षमापयेत् || ३१ || प्रदत्तं च स्वगुरुणा तांबूलं परिचर्वितम् || शिष्यस्तद्भक्षयेद्भक्त्या शुद्धांतःकरणो भवेत् || ३२ || शुभकार्येषु सर्वेषु विवाहादिषु भक्तितः || गुरुमभ्यर्चयेच्छिष्यो वस्त्रहेमादिभिस्तदा || ३३ || तत्रापि च सभापूजाविधेः पूर्वं गुरुं यजेत् || ततः सभां यजेद्योग्यः क्रमेणैव यथाशुभम् || ३४ || सभांतरे गुरुं धीमान् कदाचिदपि नार्चयेत् || आसनस्थं विशोध्यांघ्री गंधपुष्पाक्षतैर्यजेत् || ३५ || ततोऽर्पयेत्स्वगुरवे वस्त्रहेमांगुलीयकान् || दरिद्रश्चोदितेष्वेषु यथाशक्ति त्ववंचयन् || ३६ || एवमेवार्चयेच्छिष्यो गुरुं लब्धधनेन वा || गुरुयात्रा देवयात्रा तीर्थयात्रेति च त्रिधा || ३७ || आसां त्रिविधयात्राणां गुरुयात्रा फलाधिका || गुरोः संदर्शनार्थं तु भक्त्या यात्रां करोति यः || ३८ || पुण्यदेही स विज्ञेयः समस्तामरवल्लभः || शिष्यो गुरुस्थितं ग्रामं न विशेद्वाहनेन च || ३९ || वर्जयेद्गृहसामीप्ये तथा वै पादुकानि च || पृ० १०१) गुरोर्दिदृक्षुर्यः शिष्यः सद्भक्त्याऽनुदिनं तदा || ४० || रिक्तपाणिर्न तं पश्येद्यथा राजा तथा गुरुः || फलं प्रसूनं तांबूलमन्यत्किमपि वस्तु च || ४१ || एष्वेकं गुरवे दत्वा नमस्कुर्यात्ततो गुरुम् || श्रीमांश्चापि तपस्वी च शास्त्रतः कुलशीलवान् || ४२ || कुर्याद्दंडनमस्कारं निर्लज्जो गुरुसंनिधौ || उपचारेषु सर्वेषु द्वावेवात्यंतशोभनौ || ४३ || प्रियवाणी प्रणामश्च तौ विनान्ये वृथा स्मृताः अग्रे दृष्ट्वा नमस्कृत्वा प्रदक्षिणमनुस्मरन् || ४४ || प्रदक्षिणं च कुर्वीत यथाशक्त्यनुसारतः || प्रदक्षिणज्ञो यो धीमान्न तु दीर्घपदं न्यसेत् || ४५ || न गच्छेच्चरितो धीमान्न जल्पेदितरैः सह || पदे पदान्तरं न्यस्य करौ चलनवर्जितौ || ४६ || स्तुतिं वाचा हृदा ध्यानमेवं कुर्यात्प्रदक्षिणं || एवं शिष्यः शुचिः कुर्याद्भक्त्या सह परिक्रमम् || स्वगुरोः पुरतः शिष्यौ नेतरान्कीर्तयेज्जनान् || ४७ || असह्यभाषणं चैव न वदेदितरेतरम् || नानृतं नाप्रियं वाक्यं न गुह्यं चापि भाषयेत् || ४८ || नाप्रच्छन्नमुखो ब्रूयाद्गुरोरग्रे कदाचन || स्वामिभट्टारकाचार्यदेवश्रीगुरुनामभिः || ४९ || वाच्यः सदा गुरुः शिष्यैर्जातुचित्रानुनामभिः || त्वं शब्दं न प्रयुंजीत गुरौ शिष्यः कदाचन || ५० || आज्ञां न लंघयेत्तस्य समं नोपविशेद्यथा || आसनं वाहनं वस्त्रं भूषणं शयनं तथा || ५१ || न कुर्याद्गुरुसादृश्यं गतिसिद्धिहितेच्छुकः || गुरुगेहे समीपे वा न यथेष्टासनो भवेत् || ५२ || पृ० १०२) गुरुर्देवो यतः साक्षात्तद्गृहं शिवमंदिरम् || गरुस्थितस्थलादुच्चैः स्थले वा चोन्नतासने || ५३ || उदग्रवेदिकायां तु शिष्यो नासीत जातु चित् || ५४ || नोल्बणं धारयेद्वेषं नालंकारांश्च जातु चित् || नानाभोगादिकान्कुर्यान्न विलासपरो भवेत् || ५५ || न चोत्तिष्ठेद्विशेन्नैव न वृथा कार्यमाचरेत् || दीक्षां व्याख्यां प्रमत्तत्वं गुरोरग्रे विवर्जयेत् || ५६ || अतिहासमवष्टंभं लीलामंघ्रिप्रसारणम् || विनोदोज्ज्वलवेषं च पर्यंकं दंतधावनम् || ५७ || पूर्वस्फोटविकार च पादप्रक्षालनं तथा || तद्वाक्यप्रतिकूलं च न कुर्याद्गुरुसंनिधौ || ५८ || पात्रं स्नानजलं छायां माल्योपकरणानि च || भक्तिहीनोऽपि पादाभ्यां न स्पृशेन्नैव लंघयेत् || ५९ || पादुकासनशययादि गुरुणा यद्यदीहितं || नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत्क्वचित् || ६० || न गुरोराश्रमे कुर्यादुपानट्परिसर्पणम् || गच्छतः पृष्ठतो गच्छेद्गुरोश्छायां न लंघयेत् || ६१ || नोपविष्टे भवेदूर्ध्वं नोच्चासनगते विशेत् || पश्चात्पादेन निर्गच्छेन्नमस्कृत्वाऽग्रतो गुरोः || ६२ || स्वगुरोर्मनसाभीष्टं यत्तदेवाचरेत्सुधीः || कार्यविज्ञापनार्थं तु गुरूणां दूरवासिनां || ६३ || या त्रिरेखावृता संख्या षडित्यभिहिता बुधैः || पृ० १०३) ताडपत्रं दृढं सौम्यमृजुं साग्रं द्विधा कृतम् || ६४ || मृदुलं यत्प्रशस्तं तन्मतं लेखाविलेखने || कर्कशं कल्मषं वक्रं हीनाग्रं स्फुटितं युगम् || ६५ || तालपत्रं न तच्छ्रेष्ठं मतं लेखाविलेखने || विसर्गमात्रानुस्वारैर्वर्णस्पष्टं यथा भवेत् || ६६ || तथैव विलिखेत्पत्रे छिंद्याद्वर्णं न जातुचित् || संदिग्धं छिन्नवर्णं चाप्रशस्तं गूढभाषणम् || ६७ || न कदाचिल्लिखेत्पत्रे स्वाचार्याय सदा सुधीः || प्रशस्तभाषासंयुक्तं विनयस्तुतिपूर्वकम् || ६८ || विज्ञापनीयं गुरवे यत्कार्यं तत्समालिखेत् || पत्रं चाल्पमिति ज्ञेयं प्रविलिख्य प्रयोजनम् || ६९ || गुरोर्विज्ञापनार्थाय प्रेषयेदंतिकं गुरोः || गच्छंस्तिष्ठन्स्वपन्जाग्रन् यद्यत्कर्म तमाचरेत् || ७० || समक्षं त्वपरोक्षं वा कर्तव्यं गुर्वनुज्ञया || गुरोर्गुरुस्तस्य गुरुस्तद्गुरोरग्रजा अपि || ७१ || तद्भार्याश्च नमस्कुर्यात्सदा वै प्रीतिवत्सलैः || तथापि स्वगुरोः पुत्रं पश्येद्गुरुमिवापरम् || ७२ || आत्मा वै पुत्रनामासीदागमोक्तिनिदर्शनात् || ७३ || कदाचिदपि शिष्यो वै न निंदेदीश्वरं गुरुं || शिवस्य च गुरोर्निंदां तथा न शृणुयात्सदा || ७४ || स्वमातृपितृभार्यादिभ्रातृबंधुसुतेषु च || ये गुरुद्वेषिणस्तान् हि नत्वा शिष्यः परित्यजेत् || ७५ || पृ० १०४) गुरुं निंदति य शिष्यो द्रव्यं हरति तस्य च || करोति द्वेषिभिः स्नेहं? स चांडालो न संशयः || ७६|| सन्मानं गुरुभाषायां गुरोः शिष्यो य इच्छति || स महापातकी ज्ञेयः पतत्येव स दुर्गतो || ७७ || यः पश्यति गुरुं शिष्यः साधारणमनुष्यवत् || तस्य भक्तिर्द्वया ब्रह्मन्नेवास्त्यत्र? न संशयः || ७८ || यः पश्यति गुरुं शिष्य उदासीनमनीषया || स पापात्मा महाघोरे नरके परिवर्तते || ७९ || दूरतो यो गुरुं दृष्ट्वा चोदासीनतया व्रजेत् || श्वानयोनिशतं गत्वा भवेच्चांडालवेश्मनि || ८० || समस्तदेवतावासं सर्वमंत्रास्पदं गुरुम् || उपेक्षते यः पापात्मा रौरवं नरकं व्रजेत् || ८१ || हृदि नायं ममाचार्य इत्युपेक्षां करोति चेत् || मयि भक्तिर्वृथा तस्य तथैव च समर्चनम् || ८२ || योग्यमाद्यं गुरुं त्यक्त्वा शिष्यः क्षुद्रक्रियान्वितम् || गुरुं समाश्रयेद्दन्यं यः स याति सदुर्गतिं || ८३ || गुरोरत्यंतभक्तस्य शिष्यस्येह परत्र च || न किंचिद्दुर्लभं ब्रह्मन् समस्तं सुलभं सदा || ८४ || अथ किं बहुनोक्तेन गुरुदेवो महेश्वरः || प्रत्यक्षे वा परोक्षे वा गुरोः प्रीतिं समाचरेत् || ८५ || गुरुप्रीतिकरः शिष्यो यः स प्रीतिकरो मम || तस्य प्रियकरः शिष्यो मम प्रियकरो भृशं || ८६ || पृ० १०५) तस्मात्सर्वप्रयत्नेन गुरोः प्रीतिकरो भवेत् || गुरुभक्तिं विना तस्य मयि भक्तिर्वृथा भवेत् || ८७ || शिष्यस्तस्मात्प्रयत्नेन गुरौ भक्तिं समाचरेत् || यः कश्चिद्गुरुभक्तः स्यात्स याति परमां गतिम् || ८८ || पारमेश्वरतंत्रे २ पटले | मुमुक्षुरीश्वरे भक्तः श्रीगुरुं शिवमाश्रयेत् || सर्वलक्षणसंपन्नं सर्वज्ञं सर्वसंमतम् || ६३ || सदाचाररतं शुद्धं शिवभक्तमलोलुपम् || यथार्थवादिनं शांतं द्वेषासुयादिवर्जितम् || ६४ || विदिताखिलशास्त्रार्थमिंगितज्ञमनाकुलम् || अथेंऽनातुरमात्मज्ञमकासुकमवंचकम्? || ६५ || वाग्मिवं? शिवतत्वार्थबोधकं हृष्टमानसम् || एतादृशगुणोपेतमुपेयाद्गुरुमीश्वरम् || ६६ || रिक्तहस्तेन नोपेयादुपसर्पन् गुरुं शुचिः || नमस्कृत्य विधानेन साष्टांगं भक्तिपूर्वकम् || ६७ || कृतांजलिपुटः स्थित्वा स्तुत्वा विज्ञापयेत्ततः || नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे || ६८ || देहि शिष्याय मे वीरशैवदीक्षामभीष्टदाम् || पृ० १०६) इति पृष्टोऽथ शिष्येण यदि दातुमना गुरुः || ६९ || विशोध्य वर्षत्रितयमथ तं दीक्षयेद्बुधः || कुशलं श्रीगुरोर्भक्तं श्रीगुरोः प्रियकारिणम् || ७० || कर्मणा मनसा वाचा छायेवानुचरं सदा || गुरुमंत्रात्मदैवेषु तथैवासनमुद्रयोः || ७१ || अभेदभावनाधीरं सत्यवादिनमास्तिकम् || प्राणार्थमानवसुभिर्मनोवाक्कायकर्मभिः || ७२ || सर्वदा सर्वभावेन गुरुशुश्रूषणे रतम् || अप्रमत्तमुदारांगं दृढचित्तमनामयम् || ७३ || असत्यवादरहितमवंचकमदुर्हृदम् || अनर्थलोभमर्थाढ्यं मृदुसंभाषणप्रियम् || ७४ || इत्यादिगुणसंपन्नमथ तं दीक्षयेच्छिवं || हस्तमस्तकसंयोगमाचरेच्च शिवं स्मरेत् || ७५ || ७ पटले | नात्मार्थं पाचयेदन्नं नाद्याच्चातिथ्यनर्पितं || शक्त्या संपूजयेल्लोके जंगमं गृहमागतं || ४१ || नाद्यादलिंगिनश्चान्नं दृष्टं चान्नमलिंगिना || याचयेद्गृहमागत्य दद्यादन्नमलिंगिने || ४२ || नोदासीनं न च द्वेषं न हिंसा नापि वंचनं || कुर्वीत लिंगी यत्नेन विमतेष्वप्यलिंगिषु || ४३ || पृ० १०७) पूज्यपूजकभावादौ भोजनादिषु कर्मसु || विमतत्वादयोग्यत्वादेवमेवाखिलं जगत् || ४४ || गृहमायांतमालोक्य गुरुं वाऽगुरुमेव च || यो गृही भवते नम्रः स गुरुर्नेतरः क्वचित् || ४५ || तदागतं गृहे वीक्ष्य प्रत्युत्थायाभिवादयेत् || श्रमापनोदनं कुर्याद्व्यजनादिभिरादरात् || ४६ || प्रणम्य स्वागतं ब्रूयात्पादप्रक्षालनं चरेत् || प्रथमं पूजयेद्गंधपुष्पैः संक्षालयेत्ततः || ४७ || अंगुष्ठे भावयेद्रुद्रं तर्जन्यां शंकरं स्मरेत् || मध्यमायां महादेवमनामिक्यां त्रियंबकं || ४८ || कनिष्ठिकायामीशानं पादोपरि कपर्दिनं || पादाधः पंचवदनं गुल्फयोरुग्रभर्गकौ || ४९ || सर्वं लिंगमयं ध्यात्वा पादं जंगमलिंगिनः || पिबेत्संक्षालितं तोयं पीत्वा शिरसि धारयेत् || ५० || न पातयेदधो बिंदुं पादप्रक्षालनांभसां || पुनः संपूजयेद्गंधपुष्पधूपादिभिः क्रमात् || ५१ || स्त्रियो वा पुरुषो वापि सर्वत्रातिथिपूजने || पुंभिः पुंसां स्त्रियां स्त्रीभिर्दद्याद्गंधादिकं करे || ५२ || न जातिभेदस्तत्रास्ति लिंगिनां शिवयोगिनां || न दृष्टिस्पृष्टदोषो वा सर्व एव शिवाः शिवे || ५३ || गुरुर्लिंगं जंगमश्च पादतीर्थं प्रसादकं || देहे विभूतिरुद्राक्षौ मम पंचाक्षरीमनुः || ५४ || पृ० १०८) अष्टावरणसंयुक्ता वीरमाहेश्वरा नराः || मम रूपधरा देवि विचरंति महीतले || ५५ || न त्यजेल्लिंगिना भुक्तं शिष्टमुच्छिष्टधीहतः || न क्षालयेच्च तत्पात्रं न भेदं तत्र कारयेत् || ५६ || येन केनापि भुक्ते तु लिंगिनोच्छिष्टपात्रके || पात्राभावैककालादौ सर्वेऽप्यश्नंति लिंगिनः || ५७ || सिद्धांतशिखामणौ अथ गुरुमाहात्म्यस्थलम् अवतरणिका- अथ प्रसादनिष्ठेन ज्ञातव्यं गुरुमाहात्म्यस्थलं निरूपयति- श्लोकः- गुरुरेवात्र सर्वेषां कारणं सिद्धिकर्मणाम् || गुरुरूपो महादेवो यतः साक्षादुपस्थितः || १ || व्याख्यानं- अत्र लोके भोगमोक्षलक्षणसकलसिद्धिकर्मणां गुरुरेव कारणं ङ रोरधिकं न गुरोरधिकं इति शिवरहस्यवचनात् यतः परमेश्वर एव साक्षाद्गुरुरूपः सन् उपस्थितः तिष्ठतीत्यर्थः || १ || अवतरणिका- ननु निष्कलः शिवः किमर्थं सकलगुरुरूपेण प्रकाशत इत्यत्राह- श्लोकः- निष्कलो हि महादेवो नित्यज्ञानमहोदधिः || सकलो गुरुरूपेण सर्वानुग्राहको भवेत् || २ || व्याख्यानं- नित्यज्ञानार्णवपरमेश्वरः निष्कलोऽपि निरवयवोऽपि गुरुरूपेण सकलः पृ० १०९) सन् करचरणादिविशिष्टः सन् सर्वानुग्राहको-भवेत् लोकानुग्रहार्थं भातीत्यर्थः || २ || अवतरणिका-तस्माद्गुरुशिवयोर्भेदो नास्तीत्याह- श्लोकः- यश्शिवस्स गुरुर्ज्ञेयो यो गुरुस्स शिवः स्मृतः || न तयोरंतरं कुर्यात् ज्ञानावाप्तो महामतिः || ३ || व्याख्यानं- गुरोर्मोक्षकारणीभूतज्ञानप्रदत्वेन शिवाभिन्नत्वात् अन्यथा ज्ञानानुदयप्रसंगात् तदर्थं सूक्ष्मदृक् तयोरंतरं भेदं न कुर्यादित्यर्थः || ३ || अवतरणिका- यथाहं सर्वलोकानां गुरुरंबिकया सह इत्यागमोक्तेः शिवसदृशं श्रीगुरुं प्राकृतैस्सदृशमनुक्त्वा पूजयेदित्याह- श्लोकः- हस्तपादादिसाम्येन नेतरैस्सदृशं वदेत् || आचार्यं ज्ञानदं शुद्धं शिवरूपतया स्थितम् || ४ || व्याख्यानं- शुद्धं निर्मलांतःकरणम् शिवज्ञानप्रकाशकम् उमामहेश्वररूपेण स्थितम् श्रीगुरुं हस्तपादादिसाम्येन प्राकृतैस्सदृशं संतं न वदेत् || ४ || अवतरणिका- तेन किं भवतीत्यत्राह- श्लोकः- आचार्यस्यावमानेन श्रेयःप्राप्तिर्विहन्यते || तस्मान्निश्रेयसप्राप्त्यै पूजयेत्तं समाहितः || ५ || व्याख्यानं- आचार्यस्यावमानेन प्राकृतजनसमोक्त्या भोगमोक्षलक्षणश्रेयःप्राप्तिर्विहन्यते तस्मात् निःश्रेयसप्राप्त्यै भोगमोक्षावाप्त्यै समाहित एकाग्रचित्तः सन् तं श्रीगुरुं पूजयेदित्यर्थः || ५ || पृ० ११०) अवतरणिका- अथ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इति श्वेताश्वतरश्रुत्यर्थं प्रकटयन् गुरुमहत्वस्थलं समापयति- श्लोकः- गुरुभक्तिविहीनस्य शिवभक्तिर्न जायते || ततः शिवे यथा भक्तिस्तथा भक्तिर्गुरावपि || ६ || व्याख्यानं-स्पष्टं || ६ || इति गुरुमहत्वस्थलम् अथ जंगममाहात्म्यस्थलम् अवतरणिका-अथ गुरुलिंगमहत्वात्संवेद्यजंगमस्थलं प्रकाशयति- श्लोकः- गुरुशिष्यसमारूढलिंगमाहात्म्यसंपदः || सर्वं चिद्रूपविज्ञानाज्जंगमाधिक्यमुच्यते || १ || व्याख्यानं- आचार्यः पूर्वरूपमंतेवास्युत्तररूपं विद्यासंधिः इति श्रुतेः गुरुशिष्यमध्यगतशिवलिंगमहत्वसंपदः सर्वं विश्वप्रपंचं चिद्रूपविज्ञानात् चित्क्रियारूपत्वेन विज्ञानात् जंगमाधिक्यमुच्यते, गुरुशिष्ययोरिष्टप्राणभावेषु तादात्म्यभावनया समारूढलिंगमहत्वसंपत्त्या सर्वं विश्वं शिवशक्त्यात्मकमिति विज्ञानमेव जंगमाधिक्यमित्यर्थः || १ || अवतरणिका- अथ ते केषु जंगमा इत्यत्राह- श्लोकः- जानंत्यतिशयाद्ये तु शिवं विश्वप्रकाशकम् || स्वस्वरूपतया ते तु जंगमा इति कीर्तिताः || २ || व्याख्यानं- तस्य भासा सर्वमिदं विभाति इति श्रुतेः ये विश्वप्रकाशकं स्वकीयचित्क्रियाशक्तिभ्यां प्रपंचप्रकाशं शिवं अतिशयेन सर्वासर्वशब्दार्थयोर्मायाकार्यको- पृ० १११) टिप्रविष्टत्वेनासनातनत्वात् एतज्जीवनभूतज्ञत्वकर्तृत्वयोस्सनातनत्वात् अन्यथा स्वविषयकज्ञानशून्यत्वेन स्फटिकांदिप्रकाशवज्जडत्वप्रसंगात् तयोर्जीवेश्वरसाधारणीभूतास्मद्रूपात्मतत्वनिजस्वभावत्वात् स्वयं तदनतिरिक्त इति दृढतरनिश्चयेन स्वस्वरूपतया जानंति ते जंगमा इत्यर्थः || २ || अवतरणिका- अथ शिवयोगित्वेन प्रसिद्धजंगममहत्वं पंचभिस्सूत्रैः प्रतिपादयति- श्लोकः- ये पश्यंति जगज्जालं चिद्रूपं शिवयोगतः || निर्धूतमलसंस्पर्शास्ते स्मृताश्शिवयोगिनः || ३ || व्याख्यानं- ये जंगमा देवा विश्वं शिवयोगतो विश्वस्य शिवसंबंधाभावे चिद्बाह्यत्वेन संकल्पतापत्तेः शिवसंबंधोंऽगीकरणीय एव स च संयोगरूपो न भवति तस्य क्रियापूर्वत्वेन भिन्नदेशस्थितयोरेवोपपद्यत इति ब्रह्मबाह्यदेशाभावेन तादात्म्यरूप एवेत्युपपादितत्वात् चिद्रूपं चित्क्रियास्वरूपमिति पश्यंति जानंति ते निर्धूतमलसंस्पर्शा निर्गताणवादिमलसंबंधिनः शिवयोगिन इति स्मृता इत्यर्थः || ३ || श्लोकः- घोरसंसारतिमिरपरिध्वंसनकारणम् || येषामस्ति शिवज्ञानं ते मताश्शिवयोगिनः || ४ || व्याख्यानं- भयंकरसंसारांधकारनिवारकं शिवाधिक्यज्ञानं येषामस्ति ते शिवयोगिन इति मताः स्मृता इत्यर्थः || ४ || अवतरणिका- अथ ते कीदृशाः कथं तिष्ठंतीत्यत्राह- श्लोकः- जितकामा जितक्रोधा मोहग्रंथिविभेदिनः || समलोष्टाश्मकनकास्साधवश्शिवयोगिनः || ५ || समाः शत्रौ च मित्रे च साक्षात्कृतशिवात्मकाः || निस्पृहा निरहंकारा वर्तंते शिवयोगिनः || ६ || व्याख्यानं- स्पष्टं || ५ || ६ || पृ० ११२) अवतरणिका- एवमुक्तलक्षणज्ञानसंपन्नाः साक्षाच्छिवा एवेत्याह- श्लोकः- दुर्लभं हि शिवज्ञानं दुर्लभं शिवचिंतनम् || येषामेतद्द्वयं चास्ति ते च साक्षाच्छिवात्मकाः || ७ || व्याख्यानं- शिवज्ञानं शिवाधिक्यज्ञानं शिवचिंतनम् उक्तयुक्तिभिः स्वयमेव शिव इति मननं च दुर्लभं एतद्द्वयं येषामस्ति ते साक्षाच्छिवरूपा इत्यर्थः || ७ || अवतरणिका- अथ पुनस्तेषां महत्वं श्लोकद्वयेनाह- श्लोकः- पादाग्ररेणवो यत्र पतंति शिवयोगिनाम् || तदेव सदनं पुण्यं पावनं गृहमेधिनाम् || ८ || सर्वसिद्धिकरं पुंसां दर्शनं शिवयोगिनाम् || स्पर्शनं पापशमनं पूजनं मुक्तिसाधनम् || ९ || व्याख्यानं- शिवयोगिनाम् जंगमदेवानामित्यर्थः गृहमेधिनाम् गृहस्थानामित्यर्थः पुण्यं पुण्यक्षेत्रमित्यर्थः पावनं पवित्रं शिष्टं स्पष्टं || ८ || ९ || अवतरणिका- अथैवं तादृशशिवयोगिनां संपर्कात्सर्वेप्सितार्थसिद्धिरित्याह- श्लोकः- महतां शिवतात्पर्यवेदिनामनुमोदिनाम् || किं वा फलं न सिद्ध्येत संपर्काच्छिवयोगिनाम् || १० || पृ० ११३) व्याख्यानं- शिवरहस्याभिप्रायवेदिनाम् शिवसुखानुमोदिनां महतां सत्पुरुषाणाम् जंगमदेवानां संपर्कात्किं वा फलं न सिद्ध्येत सर्वं सिद्ध्येदित्यर्थः || १० || इति जंगममहत्वस्थलम् भक्तमाहात्म्यस्थलम् अवतरणिका- अथ गुरुलिंगजंगममहत्वलंपटस्य भक्तस्य महत्वं द्वादशसूत्रैः प्रतिपादयति- श्लोकः- गुरोर्लिंगस्य माहात्म्यकथनाच्छिवयोगिनाम् || सिद्धं भक्तस्य माहात्म्यं तथाप्येष प्रशस्यते || १ || व्याख्यानं- गुरुलिंगजंगमेष्वेवंविधमाहात्म्यज्ञानपूर्वकं भक्तेः क्रियमाणत्वेन भक्तमाहात्म्यं सिद्धमिति तथैवायं शास्त्रे प्रशस्यते उत्कर्षेण भण्यत इत्यर्थः || १ || अवतरणिका- अथ के भक्ता इत्यत्र यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति श्रुत्यर्थानुसारेण भक्तस्वरूपमाह- श्लोकः- ये भजंति महादेवं परमात्मानमव्ययम् || कर्मणा मनसा वाचा ते भक्ता इति कीर्तिताः || २ || व्याख्यानं- हस्ताभ्यामर्चनारूपकायिकक्रियया शिवमूर्तिध्यानरूपमानसक्रियया स्तुतिरूपवाचिकक्रियया च ये परमात्मानं लिंगरूपिणं महादेवं भजंति ते भक्ता इत्यर्थः || २ || अवतरणिका- शिवभक्तेः जातिभेदोऽस्ति किमित्यत्राह- श्लोकः- दुर्लभा हि शिवे भक्तिस्संसारभयतारिणी || सा यत्र वर्तते साक्षात्स भक्तः परिगीयते || ३ || व्याख्यानं- स्पष्टं || ३ || पृ० ११४) अवतरणिका- तस्माज्जननमरणपरिपीडितानां जनानां शिवभक्तिव्यतिरेकेण केनापि सत्कर्मणा प्रयोजनं नास्तीत्याह- श्लोकः- किं वेदैः किं ततः शास्त्रैः किं यज्ञैः किं तपोव्रतैः || नास्ति चेच्छांकरी भक्तिर्देहिनां जन्मरोगिणाम् || ४ || व्याख्यानं- शास्त्रैः वेदार्थानुगैः शिवागमसूत्रपुराणादिभिरित्यर्थः शिष्टं स्पष्टं || ४ || अवतरणिका- अथ शिवभक्तिव्यतिरेकेण विधीयमानं सत्कर्म विफलं विपरीतफलदं चेति दृष्टांतपूर्वकमाह- श्लोकः- शिवभक्तिविहीनस्य सुकृतं चापि निष्फलं || विपरीतफलं च स्याद्दक्षस्यापि महाध्वरे || ५ || व्याख्यानं- स्यात् अभवदित्यर्थः || ५ || अवतरणिका- अथ शिवभक्त्या दुष्कर्मापि सत्कर्म भवेदिति दृष्टान्तपूर्वकमाह- श्लोकः- अत्यंतपापकर्माऽपि शिवभक्त्या विशुद्ध्यति || चंडो यथा पुरा भक्त्या पितृहाऽपि शिवोऽभवत् || ६ || व्याख्यानं- शिवः शिवगणाधीश इत्यर्थः शिष्टं स्पष्टं || ६ || अवतरणिका- नन्वेवं चेत् शिवभक्तानां पुण्यपापसंबंधोऽस्ति वा नवेत्यत्राह- पृ० ११५) श्लोकः- सुकृतं दुष्कृतं चापि शिवभक्तस्य नास्ति हि || शिवभक्तिविहीनानां कर्मपाशनिबंधनम् || ७ || व्याख्यानं- स्पष्टं || ७ || अवतरणिका- तत्कथमित्यत्र दृष्टांतपूर्वकं सूत्रद्वयेनाह- श्लोकः- शिवाश्रितानां जंतूनां कर्मणा नास्ति संगमः || वाजिनां दिननाथस्य कथं तिमिरजं भयम् || ८ || व्याख्यानं- दिननाथस्य रवेर्वाजिनामश्वानां यथांऽधकारप्रयुक्तभीर्नास्ति तथा शिवभक्तानां कर्मणा पुण्यपापमयेन कर्मणा संगमः संबंधो नास्तीत्यर्थः || ८ || श्लोकः- निरोद्धुं न क्षमं कर्म शिवभक्तान्विशृंखलान् || कथं मत्तगजान् रुंधेच्छृंखला बिसतंतुजा || ९ || व्याख्यानं- शिवदीक्षयाऽऽणवादिमलत्रयस्य निवृत्तत्वेन विशृंखलान् शिवभक्तान् कर्म निरोद्धुं न क्षमं न समर्थं तत्र दृष्टांतः मृणालतंतुनिर्मिता शृंखला यथा मत्तगजं न रुंधेत न तथेत्यर्थः || ९ || अवतरणिका- तस्माच्छिवभक्त एव पूज्य इत्याह- श्लोकः- ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव वा || अंत्यजो वा शिवे भक्तः शिववन्मान्य एव सः || १० || व्याख्यानं- स्पष्टं || १० || अवतरणिका- ननु शूद्रादीनां ब्राह्मणाद्यपेक्षया निकृष्टत्वात् कथं तेषां तत्समानत्वमित्यत्राह- श्लोकः- शिवभक्तिसमावेशे क्व जातिपरिकल्पना || पृ० ११६) इंधनेष्वग्निदग्धेषु को वा भेदः प्रकीर्त्यते || ११ || व्याख्यानं- स्पष्टम् || ११ || अवतरणिका- तस्माच्छिवभक्ता एव गणेश्वरा इत्युक्त्वा भक्तमाहात्म्यं समापयति- श्लोकः- शुद्धा नियमसंयुक्ताः शिवार्पितफलागमाः || अर्चयंति शिवं लोके विज्ञेयास्ते गणेश्वराः || १२ || व्याख्यानं- ये शुद्धाः दीक्षया परिपूतः नियमसंपन्नाः शिवव्रतिनः शिवार्पितफलागमाः तदर्पितपुण्यपापफलागमाः संतः लोके शिवलिंगमर्चयंति ते ङाशिवस्य शिवोपास्तिः ङारुद्रो रुद्रमर्चयेत् इत्यादिवचनैः गणेश्वरा इति रुद्रा इति विज्ञेया इत्यर्थः || १२ || इति भक्तमाहात्म्यस्थलम् अवतरणिका- गुरुस्वरूपं विशदयति- श्लोकः- गुणातीतं गुकारं च रूपातीतं रुकारकम् || गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः || ८ || व्याख्यानं- गुकारं प्राकृतगुणातीतं रुकारं अशुद्धमायारूपातीतं गुणातीतमरूपं च मंडलत्रयात्मकगुणत्रयं ज्योतिर्मयबैंदवकलाशून्यचिन्मयवस्तु यः ददाति उपदिशति सः गुरुः स्मृतः गुरुरिति स्मृत इत्यर्थः || ८ || अवतरणिका- अथैतत्प्रसंगादाचार्यस्वरूपं च विशदयति- श्लोक- आचिनोति च शास्त्रार्थानाचारे स्थापयत्यलम् || पृ० ११७) स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते || ९ || व्याख्यानं- शास्त्रार्थान् वीरशैवशास्त्ररहस्यार्थान् प्रकटीकृत्य कथयति आचारे वीरशैवाचारे शिष्यान् अलं आधिक्येन स्थापयति नियमयति स्वयं च वीरशैवाचारे आचरते तेन हि तेन कारणेन आचार्यो वक्ता कुशलोऽस्य लब्ध इति कठवल्लीश्रुत्यनुसारेणाचार्य इत्युच्यत इत्यर्थः || ९ || अवतरणिका- अथ देशिकशब्दनिर्वचनं च कृत्वा शिवलिंगैक्य एव जगद्गुरुरिति सूत्रद्वयेनोक्तदीक्षागुरुस्थलं समापयति- श्लोकः- षडध्वातीतयोगेन यतते यस्तु देशिकः || मायाब्धितारणोपायहेतुर्विश्वगुरुः शिवः || १० || व्याख्यानं- ज्ञानान्मुक्तिं दिशति यस्स देशिक इति स्मृतः इति कामिकवाक्यप्रसिद्धो यो देशिकः षडध्वातीतयोगेन अध्वनामध्वपते श्रेष्ठस्याध्वनः पारमय इति श्रुतिप्रसिद्धवर्णपदादिषडध्वातीतयोगेन यतते उद्योगवानास्ते स शिवः शिवलिंगैक्यः मायाब्धितारणोपायहेतुभूतजगद्गुरुरित्यर्थः || १० || अवतरणिका- अथ कथमयं जगद्गुरुरित्याह- श्लोकः- अखंडं येन चैतन्यं व्यज्यते सर्ववस्तुषु || आत्मयोगप्रभावेन स गुरुर्विश्वभासकः || ११ || व्याख्यानं- सर्ववस्तुषु नीलपीतादिसकलवस्तुषु आत्मयोगप्रभावेन स्वानुभवबलात् अखंडं सच्चिदानंदात्मकं चैतन्यं येन व्यज्यते नीलपीतादिप्रतिनियतपदार्थावभासनकालेऽप्यहमित्यखंडचैतन्यमनुवर् तत एव अन्यथा तद्वेद्यदर्शनं न स्यादिति स्फुटीक्रियते स गुरुः विश्वभासकः विश्वप्रकाशक इत्यर्थः || ११ || || इति दीक्षागुरुस्थलम् || पृ० ११८) || अथ शिक्षागुरुस्थलम् || अवतरणिका- अथ बोध्यबोधकभावेन ज्ञानद्वारेण शास्यते || शिष्यो हि येन गुरुणा स शिक्षागुरुरुच्यते इति वातुलोत्तरवचनानुसारेण शिक्षागुरुस्थलं निरूपयति- श्लोकः- दीक्षागुरुरसौ शिक्षाहेतुः शिष्यस्य बोधकः || प्रश्नोत्तरप्रवक्ता च शिक्षागुरुरितीर्यते || १ || व्याख्यानं- असौ दीक्षागुरुः शिष्यस्य बोधकः सन् प्रश्नोत्तरप्रवक्ता शिष्यकृतप्रश्नस्योत्तरं दत्वा शिक्षाहेतुश्च शिक्षाकारणः सन् शिक्षागुरुरिति कथ्यत इत्यर्थः || १ || अवतरणिका- अथामुमेवार्थं स्फुटयति- श्लोकः- बोधकोऽयं समाख्यातो बोध्यमेतदिति स्फुटम् || शिष्ये नियुज्यते येन स शिक्षागुरुरुच्यते || २ || व्याख्यानं- अयं शिवसिद्धांतबोधकः परतत्वप्रकाशक इत्यर्थः ङ सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | इति वैयाकरणोक्तेः स्फुटं देशिकोपदेशस्फुटीभूतं एतत् शिवयोगज्ञानं बोध्यं इति येन गुरुणा शिष्यः समाख्यातः बोधकः सन् नियुज्यते नियम्यते स शिक्षागुरुरित्युच्यत इत्यर्थः || २ || अवतरणिका- अथ आचार्यः पूर्वरूपं अंतेवास्युत्तररूपं विद्या संधिः आचार्योंऽतेवासिनमाशास्ति इति श्रुत्यनुसारेण द्वैविध्येन तत्स्वरूपं वर्णयति- श्लोकः- संसारतिमिरोन्माथिशरच्चंद्रमरीचयः || वाचो यस्य प्रवर्तंते तमाचार्यं प्रचक्षते || ३ || व्याख्यानं- यस्य वाचः उपदेशवाक्यानि संसारतिमिरविनाशने शरच्चंद्रमरीचय पृ० ११९) इव प्रवर्तंते तं आचार्यं संतं प्रचक्षते कथयंति || ३ || श्लोकः- ददाति यः पतिज्ञानं जगन्मायानिवर्तकम् || अद्वैतवासनोपायं तमाचार्यवरं विदुः || ४ || व्याख्यानं- यो जगन्मायानिवर्तकम् प्रापंचिकभेदभ्रांतिनिवर्तकम् पतिज्ञानं पतिं विश्वस्यात्मेश्वरं शाश्वतम् शिवमच्युतम् इति नारायणोपनिषत्प्रसिद्धस्वात्माभिन्नशिवज्ञानम् ददाति प्रकाशयति तं आचार्यवरं आचार्यश्रेष्टं संतं विदुः जानंतीत्यर्थः || ४ || अवतरणिका- अथ शिवाद्वैतज्ञानसंपन्नः सन् शिष्यसंदेहवारक एव गुरुश्रेष्ठ इति सूत्रद्वयेनाह- श्लोकः- पूर्वपक्षं समादाय जगद्भेदविकल्पनम् || अद्वैतकृतसिद्धांतो गुरुरेष गुणाधिकः || ५ || व्याख्यानं- जगद्भेदविकल्पनं प्रापंचिकभेदद्वैविध्यविशिष्टं पूर्वपक्षं समादाय अंगीकृत्य अद्वैतकृतसिद्धांतवानेष गुरुः शिक्षागुरुरेव गुणाधिकः श्रेष्ठ इत्यर्थः || ५ || श्लोकः- संदेहवनसंदोहसमुच्छेदकुठारिका || यत्सूक्तिधारा विमला स गुरूणां शिखामणिः || ६ || व्याख्यानं- विमला निर्मला यत्सूक्तिधारा यस्य गुरोरुपदेशवाक्यधारा संदेहवनसंदोहसमुच्छेदकुठारिका संशयारण्यसमुच्छेदपरशुः सः गुरूणां शिखामणिः श्रेष्ठ इत्यर्थः || ६ || अवतरणिका- अथे *? मर्थमेव विशेषयति सूत्रद्वयेन- श्लोकः- यत्सूक्तिदर्पणाभोगे निर्मले दृश्यते सदा || पृ० १२०) मोक्षश्रीर्बिंबरूपेण स गुरुर्भवतारकः || ७ || व्याख्यानं- निर्मले यस्योपदेशोक्तिदर्पणमंडले मोक्षलक्ष्मीः बिंबरूपेण प्रतिबिंबरूपेणेत्यर्थः दृश्यते प्रकाशते स गुरुः भवतारकः संसारार्णवतारक इत्यर्थः || ७ || अवतरणिका- अथ प्रकारांतरेणाह- श्लोकः- शिष्याणां हृदयालेख्यं प्रद्योतयति यः स्वयम् || ज्ञानदीपिकयाऽनेन गुरुणा कः समो भवेत् || ८ || व्याख्यानं- यः श्रीगुरुः शिष्याणां हृदयालेख्यं हृत्कमलस्थनिजरूपचित्रं ज्ञानदीपिकया ज्ञानदीपेन प्रद्योतयति प्रकाशयति अनेन गुरुणा शिक्षागुरुणा कः समो भवेत् न कोऽपि सम इत्यर्थः || ८ || अवतरणिका- अथैतादृशगुरुरस्ति वेत्यत्रास्ति दुर्लभ इत्युक्त्वा शिक्षागुरुस्थलं समापयति- श्लोकः- परमाद्वैतविज्ञानपरमौषधिदानतः || संसाररोगनिर्माथी देशिकः केन लभ्यते || ९ || व्याख्यानं- शिवकारुण्यरहितेन केनापि न लभ्यत इत्यर्थः || ९ || इति शिक्षागुरुस्थलम् || || अथ ज्ञानगुरुस्थलम् || अवतरणिका- अथ श्हिवरूपानुसंधायि ज्ञानं येनोपदिश्यते || मुमुक्षोर्मोक्षसिद्ध्यर्थं स ज्ञानगुरुरुच्यते इति वातुलोत्तरवचनानुसारेण ज्ञानगुरुस्थलं निरूपयति- श्लोकः- उपदेष्टोपदेशानां संशयच्छेदकारकः || सम्यग्ज्ञानप्रदस्साक्षादेष ज्ञानगुरुः स्मृतः || १ || व्याख्यानं- उपदेशानां रहस्यार्थानां उपदेष्टा उपदेशकृत् संशयच्छेदकारकः शिष्य- पृ० १२१) संदेहवारक एषः शिक्षागुरुरेव सम्यक् साक्षात् ज्ञानप्रदः प्रत्यक्षीभूतशिवज्ञानप्रदः सन् ज्ञानगुरुरिति स्मृत इत्यर्थः || १ || अवतरणिका- ननु शिवज्ञानं कीदृशं तत्कथं प्रत्यक्षीकरोतीत्यत्राह- श्लोकः- निरस्तविश्वसंभेदनिर्विकारं चिदंबरम् || साक्षात्करोति यो युक्त्या स ज्ञानगुरुरुच्यते || २ || व्याख्यानं- निरस्तविश्वसंभेदं न किंचिदवेदिषमिति शून्यप्रतीतिबलात् निराकृतविश्वभेदं विकाररहितं चिदाकाशं चिद्व्योम युक्त्या स्फुटतरभासमाननीलसुखादिप्रमात्रन्वेषणद्वारा पारमार्थिकप्रमातृलाभ इहोपदिश्यत इति शिवाद्वैतशास्त्रोक्तस्वानुभवयुक्त्या यः प्रत्यक्षीकरोति स ज्ञानगुरुरित्यर्थः || २ || अवतरणिका- अथ शिवज्ञानं प्रस्तौति सूत्रद्वयेन- श्लोकः- कलंकवानसौ चंद्रः क्षयवृद्धिपरिप्लुतः || निष्कलंकस्थितो ज्ञानचंद्रमा निर्विकारवान् || ३ || व्याख्यानं- क्षयवृद्धिपरिप्लुतः क्षयवृद्धिपीड्यमानः असौ चंद्रः कलंकवान् निर्विकारवान् विकाररहितः ज्ञानचंद्रमाः चिच्चंद्रः निष्कलंकस्थितः कलंकरहितः सन् तिष्ठतीत्यर्थः || ३ || श्लोकः- पार्श्वस्थतिमिरं हंति प्रदीपो मणिनिर्मितः || सर्वगामि तमो हंति बोधदीपो निरंकुशः || ४ || व्याख्यानं- मणिनिर्मितः रत्ननिर्मितः दीपः पार्श्वस्थांधकारं निवारयति निरंकुशः अनर्गलः बोधदीपः चित्प्रदीपः सर्वगामि तमः सर्वत्र विद्यमानं तमः निवारयतीत्यर्थः || ४ || पृ० १२२) अवतरणिका- अथ शिवज्ञानोपदेशतत्परं श्रीगुरुं सूत्रद्वयेनप्रस्तौति- श्लोकः- सर्वार्थसाधकज्ञानविशेषादेशतत्परः || ज्ञानाचार्यस्समस्तानामनुग्रहकरः शिवः || ५ || व्याख्यानं- भोगमोक्षलक्षणसर्वप्रयोजनसाधकशिवज्ञानविशेषोपदेशासक्तः ज्ञानगुरुरेव समस्तानां मुमुक्षूणां अनुग्रहकरः साक्षाच्छिव इत्यर्थः || ५ || श्लोकः- कटाक्षचंद्रमा यस्य ज्ञानसागरवर्धनः || संसारतिमिरच्छेदी स गुरुर्ज्ञानपारगः || ६ || व्याख्यानं- यस्याचार्यस्य कटाक्षचंद्रमाः शिवज्ञानोदधिवर्धनः संसारतिमिरच्छेदी स गुरुः श्रीगुरुः ज्ञानपारगः परापरज्ञानपारंगत इत्यर्थः || ६ || अवतरणिका- अथ तमेव गुरुं भानुत्वेन वर्णयन् ततोऽप्याधिक्यं प्रतिपादयति- श्लोकः- बहिस्तिमिरविच्छेत्ता भानुरेष प्रकीर्तितः || बहिरंतस्तमश्छेदी विभुर्देशिकभास्करः || ७ || व्याख्यानं- एष भानुः बहिस्तिमिरविच्छेत्ता बाह्यांधकारनिवारकः विभुः चिद्व्यापकः देशिकभास्करः ज्ञानाचार्यसूर्यः बहिरंतस्तमश्छेदी नायं शिव इति विषयगतमज्ञानं नाहं शिव इत्यंतर्गतज्ञानं भिनत्तीति प्रकीर्तितः || ७ || पृ० १२३) अवतरणिका- अथ शिववेदकं शिवज्ञानं सूचयित्वा ज्ञानगुरुस्थलं सूत्रद्वयेन समापयति- श्लोकः- कटाक्षलेशमात्रेण विना ध्यानादिकल्पनम् || शिवत्वं भावयेद्यत्र स वेदः शांभवो मतः || ८ || व्याख्यानं- ध्यानधारणादिसंकल्पं विना श्रीगुरोः कृपापांगदर्शनमात्रेण शिवत्वं भावयेत् स्फुटं भवेत् स वेदः शांभव इति मतः संमत इत्यर्थः || ८ || श्लोकः- शिववेदकरे ज्ञाने दत्ते येन सुनिर्मले || जीवन्मुक्तो भवेच्छिष्यस्स गुरुर्ज्ञानसागरः || ९ || व्याख्यानं- येन श्रीगुरुणा शिववेदकरे स्वात्मशिवतास्फुटीकरणप्रवीणे निर्मले शिवज्ञाने दत्ते सति शिष्यो जीवन्नपि मुक्तः स्यात् स गुरुः शिवज्ञानसागर इत्यर्थः || ९ || पारमेश्वरागमे ५ पटले | यो विजानाति गिरिजे स मामेव न संशयः || अर्चयेज्जंगमं धन्यः संध्यायां गृहमागतं || ८७ || लब्धमात्रेण च गृहे शिष्टेन स्वात्मजीवनात् || योऽर्चयेज्जंगमान्भक्त्या मामेवार्चितवान् हि सः || ८८ || साक्षान्मद्रूपमीशानि शयनासनभोजनैः || अनाथं रोगिणं दीनं मूकं बधिरमेव च || ८९ || पंगुं मुंडं दुराचारं नावमन्येत लिंगिनं || न कार्यः कलहो देवि अन्योऽन्यं शिवयोगिभिः || ९० || न पैशुन्यं न मात्सर्यं न द्रोहं नापि पीडनं || पृ० १२४) न स्पृशेदायुधं क्वापि प्राणैः कंठगतैरपि || ९१ || ६ पटले | जंगमं पूजयेद्यस्तु साक्षान्मद्रूपमीश्वरम् || स मां पूजितवानेव सोऽहं देवि न संशयः || ११ || तस्माद्यो भक्तिमान् शक्तो जंगमेषु महात्मसु || तद्धि भक्तस्थलं विद्धि मम चातिप्रियं शिवे || १२ || यो गुरूक्तेन मार्गेण लिंगपूजारतः सदा || जंगमानर्चयेच्छक्त्या स हि माहेश्वरः स्मृतः || १३ || त्रिकालमर्चयेल्लिंगं मम भक्तेषु भक्तिमान् || स्वमताचारनिरतः स वै माहेश्वरः प्रिये || १४ || जलतत्वमिदं देवि तनुरन्यतमा मम || तस्याधिदेवता चाहं सोऽहं देवि न संशयः || १५ || य उक्तलक्षणस्तु स्यादाचारे जंगमार्चने || स्थलं माहेश्वरं विद्धि मम चातिप्रियं शिवे || १६ || योऽनर्पितं महेशानि नार्चयित्वापि जंगमान् || नाश्नाति न त्यजेन्मह्यमर्पितं कृच्छ्रगोऽपि वा || १७ || सोऽयं प्रसादी कथितः सोऽहमेव न संशयः || तत्प्रसादिस्थलं विद्धि मम चातिप्रियं शिवे || १८ || ########### END OF FILE #######