#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00101 Uniform title: visvasāratantra Editor : Chatterji Description: Typed from edition by Chatterjee published in Calcutta, Bengal end of 19th century. Printed in Bengali characters. Notes: E-text transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: January 28, 2007 Publisher : Publication year : Pre-1900 Publication city : Calcutta Publication country : India #################################################### विश्वसारतन्त्रम् प्रथमः पटलः | प्रणम्य शङ्करं गौरीं सदानन्दविवर्द्धिनीम् | सुखमोक्षप्रदां रम्यां महाकालेन धीमता || १ || क्रियतेऽदोमहातन्त्रं तन्त्राणां सारमुत्तमम् | तत्र प्राक् पार्वती शम्भुं प्रतिपप्रच्छ तद् यथा || २ || कैलासे पर्वते रम्ये नानाधातुसमन्विते | सिद्धगन्धर्वसंघैश्च सेविते पर्वतोत्तमे || ३ || नानामुनिसमाकीर्णे नानासुरसमन्विते | लताजालसमाकीर्णे नानातरुसमन्विते || ४ || सुवर्णे मातृकावर्णे मूर्तिमद् भिरुपासिते | ब्रह्मादौर्देवसंघैश्च सेविते पर्वतोत्तमे || ५ || गङ्गानिर्झरसंसक्त-वहूपाषाण शोभिते | पार्वती प्राह देवेशं सर्वभूतहिते रतम् || ६ || श्रीपार्वत्युवाच | देवदेव जगन्नाथ योगशास्त्रविशारद | रहस्यं प्रष्टुमिच्छामि किञ्चित् त्वां भक्तवत्सल || ७ || गुह्याद् गुह्यतरं साक्षाद् यत् किञ्चित् सुरसत्तम | रहस्यं वद देवेश यत् सुरैरपि दुर्लभम् || ८ || यन्त्राणां मन्त्रवर्णानां सृष्टिरुत्पत्तिलक्षणम् | स्मृतिशास्त्रवर्षकृतां यत् किञ्चित् स्थिरजङ्गमम् || ९ || भूतं भव्यं भविष्यञ्च पाठस्य लक्षणं परम् | शालग्रामस्य माहात्म्यं तीर्थानां पर्वतस्य च || १० || षट्कर्मणश्च माहात्म्यं शक्तिमाहात्म्यमुत्तमम् | मन्त्राणां साधकानाञ्च साधनस्य महेश्वर || १२ || वर्षकृत्यस्य माहात्म्यं उपरागस्य वै तथा | पत्रपुष्पस्य माहात्म्यं साध्यस्य च तथैव च || बलिदानस्य माहात्म्यं पशुपक्ष्यादिकस्य च | कर्मणश्च तथा कृत्यं देहस्य च तथैव च || मुद्रासनस्य योगस्य धारणाध्ययनस्य च | वर्णानां वर्णमाहात्म्यं तथा कर्तव्यकर्मणः || देवस्य विहितस्यापि धर्म्माधर्म्मस्य तत्परं | युगानां युगमानस्य ज्योतिः शास्त्रस्य वै तथा || काव्यशास्त्रस्य माहात्म्यं शब्दब्रह्म ततः परं | देहस्य देहयोगस्य कुण्डस्य यज्ञकर्मणः || ब्रह्माण्डस्य च माहात्म्यं भूतभव्यभविष्यतः | देहस्य च तथा तस्य परलोकस्य वै तथा || आयुर्वेदस्य माहात्म्यं च भक्तान्नक्तं ततः परं | कथयमास मन्त्राणां आचाराणां तथैव च | तस्यास्तद्वचनं श्रुत्वा विहश्य जगदीश्वरः || कथयामास तत् सर्वं प्रश्नानां प्रश्नमुत्तमम् || श्री ईश्वर उवाच | साधु देवि त्वया पृष्टं साधु लोकहितं परम् | कथयिष्ये सुगोप्यं वै शृणुष्वावहिता भव || योगशास्त्रस्य माहात्म्यं कथयामि सुरप्रिये | आगमन्त विना योगं न बोधयति मानवः || आगतः शिववक्त्रेभ्यो गतश्च गिरिजामुखे | मलत्रयव्यपारत्वात् तस्मादागम उच्यते || आदौ देहं प्रवक्ष्यामि तत् शृणुष्व युथायुथं | विना देहे आगमस्य प्रकाशः क्रियते कुतः || कारणं परमब्रह्म कार्ययो हि वाचकात्मकः | वाच्यवाचकमात्रेण तत् सर्वं वाचकं भवेत् || वाचावाचेन या येन परं ब्रह्मानुमीयते | वाचको हि हरिः साक्षात् वाच्यश्च परमेश्वरः || आसीच्छक्तियुतो देवः सदाशिव इति श्रुतः | शुद्धः सनातनो नित्यः सच्चिदानन्दरूपकः || अक्षरं परमं ब्रह्म अच्युतः शुद्धनिर्मलः | गुणत्रयात्मकः श्वेतः सृष्टिमूलमुदाहृतः || सदाशिवेति विख्यातश्चित्स्वरूप इति स्मृतः | शब्दब्रह्मात्मको विष्णुर्योगीन्द्रः सुरनायकः || तस्य क्रीडाविभागेन इयं सृष्टिर्व्वितन्यते | काले मायारतः सोथ संसृजेत् सचराचरम् || मायया सह तस्यापि अहं तत्वं मनन्ततः | अहं तत्वाद् विकुर्वाणः सर्वञ्च सचराचरम् || अहङ्कारात्मकं सर्वं जगत् स्थावरजङ्गमम् | क्रीडया सकलं विश्वं संसृजेज्जगदीश्वरः || इच्छावतेभा उत्पात्य वहवो जज्ञिरे पुरा | विघ्नाश्च जज्ञिरे पूर्वं धर्मकर्म ततः परम् || धर्मो हि शास्त्ररूपेण योगेन जायते प्रिये | विघ्नानां पूजनं तत्र ततः कुर्ययाद् विधानतः || अथ [अर्थ] योगं प्रवक्ष्यामि शृणुष्व कमलानने | सदाशिवाद् भवेदिच्छा कालयोगसमन्विता || गुणक्षोभकरी सा तु सर्वसंमोहकारिणी | आद्या परा महामाया नित्यानिष्टविनाशिनी || सुखदा शुभदा नित्या सर्वभूतेषु संस्थिता | न मायायोगयुक्तेन सृष्टिरेषा भवेदिति || (प्. २) यदा तुष्टा भवेन्माया तदा सिद्धिमुपालभेत् | दैवी ह्येषां गुणमयी सर्वभूतसमन्विता || तस्याः क्रीडाविभागेन सृष्टिरेषा भविष्यति | यस्यां सर्वं समुद्भूतं यस्यामद्यापि तिष्ठति || लयमेष्यति कालान्ते तस्मै [तस्यै] देव्यै नमो नमः | या ब्राह्मी वैष्णवी रौद्री देवी प्रज्ञा शिवा तथा || सर्वभूतस्थिता माया तस्मै [तस्यै] देव्यै नमो नमः | दर्पणप्रतिबिम्बेन यथा माया प्रदृश्यते || बहूउमिथ्या यथानित्यं तथा सृष्टिषु पार्वति | माया सेच्या सदा नित्या माया पूज्या सदा प्रिया || माया स्तुत्या सदा देवि वन्दनीया पुनः पुनः | मायया तु विना सृष्टेर्नास्ति उत्पत्तिकारणम् || सर्वत्र सर्वभूतेषु स्थावरेषु चरेषु च | ज्योतिर्ब्रह्ममयीं देवीं लक्षते सचराचरम् || लोभमोहकामक्रोधाः सगुणा निर्गुणा तथा | कालयुक्ता यदा सैव तदा सर्वं विधीयते || कालमायामयी भूत्वा गुणक्षोभं नयेत् सदा | कालेन प्रेरयेन्मायां सृष्टेरुत्पत्तिहेतवे || या मूलप्रकृतिः प्रोक्ता सा माया परिकीर्तिता | यो ह्ययं सदाशिवः प्रोक्तः स एव पुरुषः परः || एकं ब्रह्म द्विधा भूत्वा सृष्टिरेषा विधीयते | अर्द्धेन पुरुषो भूत्वा अर्द्धेन वनिता तथा || तावुभौ तु समौ भूत्वा सृष्टिव्यक्तिं नयेत् सुधीः | यथा सदाशिवः प्रोक्तस्तथा माया प्रकीर्तिता || यथा माया तथा चार्द्धा तथा चैव सदाशिवः | यथा गृहे प्रदृश्येत गृहिणी गृहपालयोः || तथा शिवस्य सा नित्या शिवानी मूलरूपिणी | गृहिणी परिहीनस्य यथा गृहपतेर्गतिः || तथा भवति देवेशि तथैव च सदाशिवः | तस्मान्माया सदा वन्द्या पुजनीया परात् परा || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरोऽन्ये च ये पराः | सर्वे ते मायया देहं लभन्ते नात्र संशयः || अर्च्चियो ये यथा भूमौ भास्करस्य गभस्तयः | ब्रह्मवस्तु तथा भूत्वा मायया व्यापकं महत् || न तु ब्रह्मातिरिक्तः स्यात् जगत् स्थावरजङ्गमम् | मायया वशगाः सर्वे ब्रह्म-विष्णु-शिवादयः || न मायावशगाः केचिन् महाकालवचो यथा | सर्वदा सर्वभावेन माया सेव्या दिवानिशम् || स्थूलं प्रकाशयेत् सूक्ष्मं स्थूलं सूक्ष्मार्थमाश्रयेत् | न हि स्थूलाद् विना देवि सूक्ष्मं याति प्रकाशनम् || यदिहास्थि तदान्यत्र यन्नेहास्थि न तत् क्वचित् | आगमस्य समो ग्रन्थः सदा नास्थीह भूतले || किमन्यैरसदालापैर्यत्रायुर्व्ययतामिषात् | निद्रया ह्रियते देवि व्यवायेन च वायवः || दिवाचार्थेह या देवि कुटुम्बभरणेन च | सर्वत्र सर्वकालेषु जाग्रत् स्वप्नसुषुप्तिषु || वन्दनीया सदा स्तुत्या पूजनीया च सर्वदा | श्रोतव्या कीर्तितव्या च माया नित्या नगात्मजे || यदा माया भवेत् तुष्टा आद्या संवित्प्रदायिनी | हरिर्ब्रह्मा शिवः सर्वे लभेयुस्तोषमुत्तमम् || ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः सर्वं महेश्वरि | श्रोतव्या कीर्तितव्या च हरेर्माया दिवानिशम् || अथ सृष्टिं प्रवक्ष्यामि स्थूलबोधस्य हेतवे | स्थूले निर्जित्य चात्मानं तदा सूक्ष्मं विशेद् धिया || (प्. २ब्) यत् तु सूक्ष्मं महेशानि तत्सृष्टेर्गोचरं न हि | अनुमानेन तद्भाव्यं तत् सर्वं शास्त्रवर्त्मना || सूक्ष्मं यत् परमं ब्रह्म तत् दुर्गे गोचरम् न हि | तत् तु सर्वं समाधौ च तत् सर्वं शास्त्रवर्त्मना || $$$$$$$$$$$$$$$ सूक्ष्मं यत् परमं ब्रह्म आत्मनोगोचरं न हि | तत् सुभाव्यं महेशानि तत् सर्वं शास्त्रवर्त्मना || सर्वेषां लोचनं देवि बुद्धिशास्त्रं प्रचक्षते | स्थिरचित्तेन भक्त्या च असं सर्गसमन्वितैः || श्रोतव्यं सर्वदा शास्त्रमागमः सर्वकालतः | श्रवणाज्जायते भक्तिर्भक्त्या चैव प्रपूजयेत् || पूजनाज्जायते ज्ञानं ज्ञानाद् भूतानि शोधयेत् | आत्मनः शुद्धितां प्राप्य दृढचित्तः प्रजायते || दृढचित्ते समाधिः स्यात् समाधेर्मोक्ष उच्यते | मायासेवां विना न स्यात् मुक्ति ज्ञानञ्च शोभनम् || चतुर्विधविधानं स्यात् पुर्वादिषु यथाक्रमम् | पृथिव्या यधादेशे च सुमेरुः पर्वतः स्थितः || तत् पूर्वादिषु विज्ञेयः सर्वशास्तेष्वयं विधिः | आचारो मन्त्र यन्त्राणां देशभेदे च सर्वतः || कर्तव्यं सर्वभावेषु महाकाल वचो यथा | विद्या वा पाथवाविद्या द्वावेते मायया वृते || विद्या तु सर्वदा सेव्या नापविद्या कथञ्चन | या विद्या सा महामाया सा तु सेव्या सदा बुधैः || अविद्या कर्मबन्धः स्यात् बन्धाज्ज्ञानं विनश्यति | ज्ञाननाशात् भवेद्धानिर्हानौ संसरणं पुनः || संसारात् तु भवेद्धानिघोरं नरकमेव च | तस्मादविद्यां कुत्रापि न सेवेत् मोक्षमिच्छुकः || शिवस्तु द्विविधः प्रोक्तः सगुणो निर्गुणस्तथा | निर्गुणः प्रकृतेरम्यः सगुणः सकलात्मकः || सकलात्मकादियं सृष्टिः कथ्यते ब्रह्मणा पुरा | सगुणं निर्गुणं वापि कथ्यते शृणु पार्वति || यदुक्तं ब्रह्मणा पूर्वं यदुक्तं विष्णुना पुरा | सदाशिवेन यत् प्रोक्तं तत् सर्वं प्रवदाम्यहम् || ऋषिभिस्तु पुराप्रोक्तं भारतीं शुभलक्षणाम् | तान्ते सर्वं प्रवक्ष्यामि शृणुष्व कमलानने || वाच्यं हि परमं ब्रह्म वाचका अक्षराः स्मृताः | आश्रयाश्रयिभावेन तत् सर्वं प्रवदाम्यहम् || क्षरतीति क्षरः प्रोक्तः सर्वतन्त्रसमन्वितः | तन्नास्ति यत्र तत्रापि अक्षरः परिकीर्तितः || यथा धातुषु देहस्य उत्पत्तिः परिकीर्तिता | तत्र यत् परमं ब्रह्म तत् सर्वं प्रवदाम्यहं || सदाशिवो भवेदग्निस्तदा घोषस्ततः परः | अघोषश्चैव संघोषो महाप्राणस्ततः परः || महाप्राणात् सुघोषश्च तस्माच्चैव अनाहतः | अनाहताद्धनिश्चैव तस्मान्नादः सुरेश्वरि || नादाद् तवेत्तदा बिन्दुर्बिन्दुन्तु शशिसुर्यययोः | (प्. ३) शैवात्मिका भवेत् सृष्टिः सृष्टिरेषा विधा स्मृता || सा सृष्टिः सर्वतन्त्रेषु कीर्तिता सात्विकी शुभा | अथ शैवात्मिका सृष्टिः कथ्यते क्रमयोगतः || शिवः शक्तियुतः साक्षात् सा हङ्कारसमन्वितः | न हि शक्तिं विना देवि सृष्टिरेषा विधीयते || क्षेत्रं विना यथा चैव वीजोत्पत्तिर्न दृश्यते | शक्तेरिच्छा भवेद् देवि यदा सृष्टिस्तदा भवेत् || दर्पणप्रतिबिम्बेषु प्रतिबिम्बं महेश्वरि | यपेयं सृष्टिरुत्पत्तिः कथ्यते शृणु पार्वति || सृष्टिस्तु द्विविधा चासीत् मानसी मैथुनी तथा | पुराकृतयुगे सृष्टिर्मानसेभूत् प्रजापतेः || तेनैच्छत् कामाकर्माणि वासुदेवपरायणा | तत्र क्रोधमभुद्विष्णो रूपसर्गस्ततः परम् || ते तु क्रोधरशात् सर्वे जगत् क्षयपरायणाः | रजोगुणात्मिका सृष्टिस्तदा भवति तत् परा || चन्द्रसूर्यात्मकोबिन्दुर्नादश्च त्रिगुणात्मकः | चन्द्रसूर्यात्मकामन्त्राः कथिताः पद्मयोनिना || बिन्दुः शिवात्मको ज्ञेया नादश्च जगदीश्वरी | शक्तेः सम्भोगमात्रेण भवेन्नादः क्रियापरः || नादाद् भवेन्महाबिन्दुः स च कर्मपरायणः | बिन्दुः सर्वात्मकः सर्वशास्त्रेषु परिकीर्तितः || ब्रह्मा विष्णुश्च रुद्रश्च त्रिविधा परिकीर्तिताः | रजः सत्वः तमश्चैव त्रिगुणाः सर्वसम्मताः || सर्वेषु भूतवर्गेषु त्रिगुणाः परिकीर्तिताः | देवता त्रिविधा देवि तमोरजः समत्वयुक् || तेषां तु लक्षणं तत् तत् पश्चात् सर्वं वदाम्यहम् | बिन्दौ भवेन्महादेवि शब्दब्रह्मशिवात्मके || गुणत्रयं भवेद् बिन्दौ सिद्धयः शुभदायकाः | योगशास्त्राणि तत्रैव जायन्ते कमलानने || तत्त्वशास्त्राणि तत् पश्चात् मोक्षशास्त्राणि तत् परम् | ज्ञानशास्त्राणि तत् पश्चात् पुराणानि ततः परम् || महापुराणशास्त्राणि पारहंस्यानि तत् परम् | दीनांशतत्वशास्त्राणि जायन्ते तदनन्तरम् || ब्राह्मणाः क्षत्रिया वैश्याः सर्वे बिन्द्वात्मकाः स्मृताः | वेदशास्त्रादयः सर्वे सर्वे बिन्द्वात्मकाः स्मृताः || अथ बिन्दोर्विभागेन शब्दस्त्वेको भवेन्महान् | अवाचां परमं ब्रह्म अदृश्यञ्च विशेषतः || शब्दब्रह्म हि तत् प्राहूः सर्वागमविशारदाः | अथ कामाञ्च यद् वस्तु ज्ञानेन परिगीयते || शब्दब्रह्मं तदेवाहूः सर्वतन्त्रविशारदाः | सुप्तोश्यानावरोहत्वात् प्रोक्तोनेतादृशोरवः || शब्दक्षेत्रेति त्वां प्राह साक्षाद् देवः सदाशिवः | अनाहतेषु चक्रेषु स शब्दः परिकीर्त्त्यते || अनाहतं महाचक्रं हृदये सर्वजन्तुषु | तत्र ओङ्कार इत्युक्तो गुणत्रयसमन्वितः || शिवोब्रह्मा तथा विष्णुरोङ्कारेषु प्रतिष्ठिताः | अकारश्च भवेद् ब्रह्मा उकारः सच्चिदात्मकः || मकारो रुद्र इत्युक्त इति वर्णस्य कल्पना | अकारे च भवेद् विष्णु रुकारे च प्रजापतिः || मकारे च भवेद् रुद्र इति वा वर्णनिर्णयः | (प्. ३ब्) इत्येरं सर्वतन्त्रेषु कथिता पद्मयोनिना || तस्मिन्नेव क्षणे बिन्दुः स भवेद् द्विविधः प्रिये | भक्ति युक्तात्मको बिन्दुरिति वेदेषु निश्चयः || रौद्री वामा तथा ज्येष्ठा त्रिविधा शक्तिरुत्तमा | रौद्री रुद्रप्रिया शक्तिः सदा रुद्रगुणान्विता || वामा तु विष्णुसंशक्ता वैष्णवो तदगुणान्विता | ज्येष्ठा तु ब्रह्मणः शक्तिः सृष्टिरुत्पत्ति लक्षणा || रजो गुणान्विता सृष्टिर्ज्येष्ठा सर्वसमन्विता | तमोगुणान्विता शक्तिर्वैष्णवी सर्वसम्मता || या तु रौद्री महाशक्तिः सा शुभा परिकीर्तिता | सात्त्विका सा महाशक्तिः शिवस्य वचनं यथा || सदाशिवात् परं किञ्चित् शिवमेरुं प्रचक्ष्यते | तस्य शक्तिर्भवेद् देवि या शक्तिस्तामसी मता || सदाशिवस्य देवेशि शक्तयो वहूधाः स्मृताः | इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्ततः परा || शिवस्य विविधा शक्तिर्विमलाद्याः शुभप्रदाः | विमलोत् कर्पिणी ज्वाला क्रिया सत्या ततः परा || योगा प्रह्वी तथैशानी उग्राणी च पुनः पुनः | ब्रह्माण्याद्याः शक्तयश्च जगदेतच्चराचरम् || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराह्यनन्तरेन्द्राणी चामुण्डा कमला पुनः || ततो नानाविधा चैव शक्तयो वहूधा मताः | सर्ववर्णात्मिका शक्तिः सदा पूर्व शिवस्य च || भूतं भव्यं भविष्यञ्च यत् ब्रह्माण्डसमुद्भवम् | सर्वं शिवस्य देवेशि शक्तिः सर्वसमन्विता || नहि शक्तिं विना विश्वं क्षणमात्रं प्रदृश्यते | शक्तिभिः पुरितं विश्वं सर्वं स्थावरजङ्गमम् || आश्रयाशयि भावेन संप्राप्याद्यापि तिष्ठति | अथ बिन्द्वात्मिका शक्तिः सा रौद्री परिकीर्तिता || अथ नादात्मिका शक्तिः सा ज्येष्ठा परिकीर्तिता | अथ वीजोद्भवा शक्तिः सा वामा परिकीर्तिता || वामा तु वामदेवस्य शक्तिः सा प्रकृतिः शुभा | शब्दब्रह्म इति प्राहूः सर्ववेदविदो जनाः || शब्दस्तु शब्दमात्रं स्यात् ब्रह्मेति परमं पदम् | कथं शब्देन ब्राह्मेण एकत्वं प्रतिबुध्यते || वाच्यवाचकशब्देन ब्रह्मशब्देन वा प्रिये | एकत्वमुह्यते सर्वं शब्दब्रह्म तदुच्यते || यथा धातुं विना देवि देहस्य धारणं न हि | तथा जीवं विना देवि न धातुः प्रतिबुध्यते || धातुजीवात्मनो चैक्यं यथा देवेषु गीयते | शब्दब्रह्म पदादेकं तथैव परिकीर्त्यते || एकत्र देहयोगेषु जीवात्मा परमात्मना | तथैव सर्वतन्त्रेषु शब्दब्रह्मेति कीर्त्यते || न हि ब्रह्म विना शब्दः प्रकाशात्मा भवेत् स्वयम् | शब्दब्रह्मेति तत् सर्वं भूतं भव्यं भविष्यकम् || प्रकाशमभिधीयेत यथा सुर्ययो दिवानिशम् | अनुमानेन तत्सर्वं शब्दार्थञ्च धिया स्मरेत् || अचिन्त्यो हि यदाब्रह्म प्रकाश उपजायते | तदा तस्यापि शब्दार्थं प्रत्यक्षमुपजायते || (प्. ४) तत् प्रत्यक्षेण तत् सर्वं तत् तद्वस्तुषु जायते | अथ बिन्दो महेशानि लक्षणं परिकीर्त्त्यते || रिन्दोः प्रकाशात् सर्वे वै कालपादादयः क्रमात् | कालाद् भवेन्महाबिन्दुर्बिन्दुः शक्तिसदात्मकः || अजायन्ते जगत् साक्षि ब्रह्म-विष्णु-शिवादयः | काल योगाद् भवेन्नादः स च सर्वगुणान्वितः || नादाद् भवेत् तदा देवि क्रियायोगदायस्त्विमे | नादाद् भवेत् तदा देवि पञ्चाशन्मातृकाः क्रमात् || अकारादि क्षकारान्ताः स्वरास्तन्त्रसमन्विताः | पूर्वे ह्रस्वाः परे दीर्घाः षण्तास्तु तदनन्तराः || ऋ ॠ ऌ ॡ तथा सप्ताः सर्व तन्त्रसमन्विताः | कादिमान्ताभवेत् प्पर्शाः सर्वतन्त्रसमन्विताः || या दिक्षान्तास्तु ये वर्णास्ते वर्णास्तन्त्रसम्मताः | धातवः सर्वतन्त्रेषु यादिवान्ताः शुभप्रदाः || उष्माणः शषसहाज्ञेया अस्थिमज्जादयः शुभाः | लक्षौ वर्णौ परात्मानौ जीवात्मपरमात्मकौ || मकारान्तानि तत्वानि वर्णानि कीर्तितानि वै | जीवे प्राणे मनोबुद्धौ महदहङ्कारसंयुते || मादितान्तो महाभुते कर्णे त्वचि च चक्षुषि | जिह्वा ग्राणे वाचि पाणौ पायुपादे च लिङ्गके || भुतेषु ङादिकान्तस्य हृदये मण्डलत्रय | रादिवान्तानि संचिन्ता षडङ्गानि च धातुषु || एवं संचिन्ता वर्णानि सृष्टेरुत्पत्तिलक्षणम् | शब्दब्रह्मति देवेशि सर्वतन्त्रेषु सर्वदा || वर्णात्मनाविर्भवति पद्यपद्मानि भेदतः | पञ्चाशद्वर्णबीजाच्यं चराचरमिदं जगत् || देवता ब्राह्मणा देवि सर्ववर्णात्मिकाः स्मृताः | अथ बिन्दुद्भवाः सर्वे भूतात्मानः सुरासुराः || अथ बिन्दुद्भवः शब्दस्तस्मादाकाशसम्भवः | आकाशात्तु भवेत् स्पर्शः स्पर्शाद्वायोः समुद्भवः || अथ वायोर्भवेत्तेजस्तेजसोग्निसमुद्भवः | रसोग्नेस्तु भवेत्तस्माद्रसाज्जलसमुद्भवः || जलाद्भवेत्तदा गन्धस्तस्मात्तु पृथिवी स्मृता | गन्धादिपञ्चसंयुक्ता गुणाभुमेः सुरेश्वरि || चतुर्गुणं जलं ज्ञेयं वह्नेर्वायोर्गुणास्त्रयः | आकाशश्य द्विधाप्रोक्तो गुणोलक्षितलक्षणः || आकाशात् द्विगुणं प्रोक्तमनिलञ्च ततः परम् | तस्मात् तु द्विगुणं वह्निर्वह्नेस्तु द्विगुणं जलम् || जलात् तु द्विगुणा पृथ्वी समाना वा प्रकीर्तिता | अथावा सगुणं प्रोक्तं भूतं तन्त्रसमन्वितम् || पृथिव्यामोषधिर्जाता ओषधेरन्नमेव च | अन्नाद्भवेत् तदा देवि ब्रह्माण्डं शशिसुर्ययोः || शशिसुर्यात्मकं सर्वं चराचरमिदं जगत् | अचरा बहुधा देवि गिरिवृक्षादि भेदतः || ते सर्वे तु चराज्ञेयाः शङ्करेण च भाषिताः | जङ्गमा विविधाः सन्ति पशुपक्ष्यादि भेदतः || चरास्तु त्रिविधा ज्ञेयाः स्वेदाण्डजजरायुजाः | स्वेदजाः क्रमिदं शाद्या अण्डजाः पन्नगादयः || जरायुजाश्च वहवः सर्वे वै मानुषादयः | मनुष्यः सर्वतन्त्रेषु भवेदिति जरायुजः || पञ्चभूतात्मकं सर्वं कथितं पद्मयोनिना | (प्. ४ब्) पञ्चभूता महाभूतैर्व्याप्तं सर्वं चराचरम् || शब्दस्पर्श रूपरसगन्धाश्च परिकीर्तिताः | महाभूतानि देवेशि कथितानि मनीषिभिः || आकाशञ्च तथा वायुरग्निरापस्तथा धरा | भूतानि कथितान्येव स्थूलरूपेण पार्वति || देहश्च तुर्विधोज्ञेयो जन्तोरुत्पती भेदतः | उद्भिज्जः स्वेदजोण्डोऽखश्चतुर्थश्च जरायुजः || उद्भिद्य भुमिमुद्गच्छुत्युद्भिदः स्थावरस्तु सः | निर्दिष्टः स्कन्दविटपपत्रपुष्पफलादिभिः || पञ्चभूतात्मकं सर्वं क्षामधिष्ठाय जायते | अतायोन्यग्निपवननभसां समवायतः || स्वेदजः सिद्यमानेद्योभुवह्न्यद्भ्यः प्रजायते | षुक्मत्कुनकीट्याद्याः प्रियाद्याः क्षणभङ्कुराः || अण्डजोवर्तुलीभूतात् शुक्रशोणितसम्भवात् | कालेन भिन्नात् पुर्णात्मा निर्गच्छन् प्रक्रमिष्यते || अहिगोधादयो भेकशिण्डमारादयश्च ये | जरायुजो ग्रामगतः क्रियते सृष्टिसम्भवः || प्रजायते चतुर्विंशतत्तसंयुक्तदेहवान् | स्वस्तानाच्च च्युतात् शुक्राद् बिन्दुमादाय मारुतः || एवं सर्वत्र देहेषु जायते च जरायुजाः | उत्पत्तिस्थितिरूपेण संहारेण शिवप्रिये || ब्रह्माणी वैष्णवी भुत्वा तथा रौद्री भवेत् परा | पञ्चभूतकला देदि शृणुष्व सर्वसिद्धिदाः || शान्तातीता तथा शान्तिर्विद्या च संप्रतिष्ठिता | निवृत्तिरेषा कथिता पञ्चभूतकला प्रिये || उत्पत्तिरेषा कथिता तन्त्रेषु परमेश्वरि | संहारा व्युत् क्रमेणैव आकाशान्ता प्रकीर्तिताः || मण्डलान्येव भूतेषु परिमीतानि यत् शृणु | आकाशमण्डलं प्रोक्तं वर्तुलं सर्वसम्मतम् || षट्कोणमण्डलं वायोस्त्रिकोणन्तु विभावसोः | अष्टास्रं वरुणस्यापि चतुरस्रं धरागतम् || त्रिकोणन्तु भवेद् वायोस्त्रिकोणं वरुणस्य च | इति वा सर्वतन्त्रेषु कथितं पद्मयोनिना || अर्द्धेन्दुसन्निभं व्ट्तं जलस्य इति वा प्रिये | त्रिकोणं स्वस्तिकोपेतं वह्नेः सर्वसुखावहम् || षड् बिन्दुलाञ्छितं वृत्तं मण्डलं गगनस्य च | शुक्लवर्णं जलस्यापि गौरवर्णन्तथा परे || भूतानि सर्वभुतेषु कथितानि मनीषिभिः | पृथिव्यां सर्वभूतानि जायन्ते स चराचरम् || श्रोत्रं त्वक् लोचनं जिह्वा घ्राणं बुद्धिन्द्रियाणि च | वाक् पाणिपादपायुपस्थानि कर्मेन्द्रियाणि च || वचनादाने च गतिः विसर्गानन्दकौ च संप्रोक्तावागाद्यार्थाः | मनोबुद्धिरहङ्कारं चित्तमपि च कारणम् | भुतेन्द्रियेन्द्रियार्थे वा दृष्टञ्च पञ्चविंशतिः || सत्वं रजस्तम इति प्रधानाः परिकीर्तिताः | एतैरुक्तानि भूतानि कथितानि मनीषिभिः || अथ बिन्दुद्भवाः सर्वे विकाराः स्थवरादयः | मनोबुद्धिरहङ्कारश्चित्तञ्च सर्वस्म्मतम् || कामक्रोधौ लोभमेहौजरा च मरणादयः | अथ हिंसयदयः सर्वे तमोगुणयुतानताः || (प्. ५) ये निवृत्ता महात्मानन्ते तु सत्वगुणाम्बिताः | इच्छायुक्ताश्च ये सर्वे ते सर्वे राजसाः स्मृताः || अतः कलौ महेशानि राजसास्तामसा वहूः | नास्ति देवि कलौ कुत्र सत्ववान् पुरुषः क्वचित् || रजोगुणाः कर्मपयाः दुःखेषु सुखबुद्धयः | अत्र कर्मादिसिद्धिः स्यात् कथिता पद्मयोनिना || राजसास्तामसा ये तु तामसा अधमाः स्मृताः | इन्द्रियस्था महादेव्याः शक्तयन्तद् गुणाःन्विताः || अथ बिन्द्वात्मिकाः सर्वाः सर्वतन्त्रेषु कीर्तिताः | धातवस्तत्र जायन्ते सर्वभूतसमन्विताः || त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः | वातपित्तकफा दोषा दुख्याश्च स्युः सप्तधातवः || हकारादि लकारान्ताः पञ्च बीजानि तानि ते | कीर्तयिष्यामि विधिना भुतोत्पत्तौ क्रमेण तु || ह ष व र ल कारश्च क्रमेण परिचिन्तयेत् | अथ बिन्द्वात्मनः शन्तोर्जायन्ते कमलानने || एकत्र योगयुक्तेन देहिदेहस्य सम्भवः | अथ देहात्मकाः सर्वे ब्रह्माविष्णुशिवादयः || भिद्यमाने महात्मानन्ते सर्वे ब्राह्मनादयः | तेषु वेदविदः सर्वे ये ते देवि सुरासमाः || विद्याविद्ये शिवः साक्षात् द्वौ तनु परिकीर्तितौ | या तु विद्या युता देवि सा पुज्या सुरनायकैः || अविद्या या तनुः प्रोक्ता सापि भुज्या पशोः समा | विन्द्वार्भरं त्रिकालञ्च परमात्मादिलक्षणम् || असंक्षयञ्च तत् सर्वं सुक्ष्मातिसुक्ष्मसंयुतम् | निमिषाद्यास्तथा माया दिवसाश्च तथा निशा || पक्षमासाश्च ऋतवश्चायनो वत्सरं पुनः | युगञ्च युगमानञ्च तथा मन्वन्तराणि च || महाप्रलयपर्यान्तं सर्वं बिन्द्वात्मकं स्मृतम् | अथवा स्यान्महेशानि बिन्दुनादात्मकं जगत् || मूलभूतात् तदाव्यक्ताद् विकृतात् परवस्तनः | आसीत् किल महत्तत्वं विकारमयसम्भवम् || महत्तत्वाधङ्कारस्त्रिविधः परिकीर्तितः | विविधास्त्रिविधाश्चैव गुणानां मानयोगतः || वैकारिकस्तैजसश्च तामसश्च अहंत्रिधा | वैकारिकादहङ्काराद् भवेयुः सुरपालकाः || इन्द्रादयः सुराधीशाः सर्वेहङ्कारसम्भवाः | अवतारस्तथा सर्वे स्मृता वैकारिकाः प्रिये || मायया मोहितधियः सर्वावस्तवलिप्सरः | न मायासेवया पुर्वं मुर्तिर्न भवति प्रिये || आधाय वारिणा बीजं गगणं युगपदाविशेत् | मुखे वाणी चन्द्रसुर्यौ चक्षुषी वरुणं वसेत् || नासादग्नौ तु नासाभ्यां सगुणेन समन्वितौ | लौभमोहौ तथाचौष्ठौ यमस्तु दशने ततः || दिशः कर्णौ तथा मघाः कालपाशे भुजे तथा | इन्द्रस्तु तनुयग्मे च धर्मपुष्ठेऽधर्मकरः || नाभौ ब्रह्मा तथोपस्थे भगे लक्ष्मीस्ततः परम् | गुह्ये मित्रं तथा पादौ विष्णुः साक्षात् ततः परम् || (प्. ५ब्) सर्वत्र सगुणेनैव गणमाविश्य पार्वति | विकारमनुभुयात् तु शरीरमनुकम्पयेत् || वैकारिकादलङ्काराद्देवतैकादशन्तथा | दिग्वातार्कप्रचेतोऽग्रिहारीन्द्रोपेन्द्रमित्रकाः || अहङ्कारात्तैजसात् तु इन्द्रियाणि दशाभवन् | तन्मात्रक्रमयोगेन सर्वं तत्र गुणागुणम् || भूतादिकादहङ्कारात् पङ्चभूतानि जज्ञिरे | अहङ्कारात्मकं सर्वं देवि स्थावरजङ्गमम् || रिकारान्तेऽभवन्नष्टौ युक्तान्ते त्वविकारिणः | विशुद्धं निर्मलं यत् तु तद्युक्तं परिकीर्तितम् || कर्मणा जायते जन्तुण् कर्मणैव प्रलीयते | देहे प्रनष्टे तत् कर्मपुनर्देहे प्रलभाते || देहः कर्मात्मकः प्रोक्तः तत् तु वेदे प्रतिष्ठितम् | वालकस्य यथा मात्मां ततः पूर्वक्षणे नहि | सर्वं मिथ्यैव देवेशि कथिता पद्मयोनिना | चराचरमिदं देवि सर्वं कर्मात्मकं शृणु || माता कर्म पिता कर्म कर्मो हि परमो गुरुः | स्वर्गः वा नरकं वापि कर्मनैव लभेत् तनुम् || यदिदं विहितं कर्म तत्त्व कुर्याद् दिवानिशम् | मनुष्यानां महेशानि लक्षणं शृण्वतः परम् || आदौ जन्म प्रवक्ष्यामि शृणुष्व कमलानने | ऋतुकाले तु संप्राप्ते स्त्रिया पुरुषयोगतः || कालेन पुरयेद्देवं स्त्रियञ्च पुरुषं पुनः | मैथुनेषु तदा भुत्वा मैथुनन्तु विधियते || तदा धन्ञ्जयो वायुस्तं वीजं गर्भमञ्चये | विधाय योनिमार्गे च पुनरेव निवशयेत् || कलनन्ते कवात्रेणा पञ्चरात्रेण बुद्बुदम् | एवं क्रमेण तं देहं वायुना वर्द्धयेत् क्रमात् || ततः प्रभृति तस्यापि आयुर्व्युनशताष्टकम् | आदौ भावेन्महेशानि पञ्चभूतात्मकं वपुः || सगुणं सकलं तत्र शरीरे चिन्तयेत् सदा | असत् सच्चैव यत् किञ्चित् यत् किञ्चिद् करणी तले || तत् सर्वं चिन्तयेद्देवि शिवस्य वचनं यथा | भावान्ते सर्वकालेयु काले चेष्टौ विधीयते || आदौ भवेन्महेशानि समन्तं देह योगतः | आदौ वा पादतो जन्म प्रतिलोमक्रमेण च || पुराकृतपुगे माये ब्रह्मणा भावितं क्रमात् | महाकालमतं सर्वं शङ्करस्य मदेन च || विष्णुना भावितं सर्वं विधानं व्युत्क्रमेण च | मन्तकाज्जयते मुर्द्ध्नि तदा चक्षुर्द्वयं प्रिये || तदा कर्णे तदा जिह्वा द्वयं तस्या भवेत् तदा | नासारन्ध्र द्वयं तत्र जायते देहयोगतः || ग्रीवाच्च ङ्कन्धयुग्मौ तौ स्तनन्धं ततः परम् | नितयं कर्चिदेहञ्च नाभिदेहं ततः परम् || लिङ्गगुह्यं तदा आदौ सर्वतन्त्रेष्वयं विधिः | पूर्वकर्मानुरोधेन लिङ्गभेदः प्रजायते || लोमानि यत्र जायन्ते वह्निदेहे सुरेश्वरि | नाभेः सकासाज्रजायन्ते नाभ्यः क्षेत्रप्रपोषकाः | अग्न्यात्मिका भवेन्नाडी पिङ्गला दक्षदेशके | इडा भुवामभागस्य दक्षिणे पिङ्गला शुभा || (प्. ६) मध्ये सुषुम्ना विज्ञेया नाडी देवि स्वरात्मिका | नात्योऽनन्ताः समुतपनाः सुषुम्ना पञ्चपर्वषु || या सुषुम्ना महानाडी अग्निसोमात्मिका सती | अग्न्यात्मिका भवेन्नडी पिङ्गला दक्षदेशके || चन्द्रात्मिका भवेन्नाडी वामे सर्वषुखा वहा | गान्धारी हस्तिजिह्वा च सपुषा लम्बुषा महा || यशस्विनी शङ्खिनी च कुहूः स्युः सप्त नाडयः | मूलाधारस्थिताः प्राणाः सर्वे ते वायुधारिणः || वायरस्त्र दश प्रोक्ताः क्ष्त्रेषु परमेश्वरि | सेव्यसेवकरूपेण बोद्धव्यान्ते क्रमादिमे || प्राणोऽपानः समानश्च उदानो व्यान एव च | प्रधाना वायवः प्रोक्ताः सेवकाः कथ्यते पुनः || साधनं प्राणवायुनां पश्चाद् वक्ष्यामि तत्वतः | हंसाख्या साधनमन्त्रे तत्वार्थं कथयामि ते || नागः कुर्मोऽथ कृकरो देवदत्तो धनञ्जयः | अग्नयो दोषदुष्टैषु संलीना दशवायवः || प्राणादौ च हृदिस्थाने पद्मरागसमद्युतिः | अपानो गुह्यदेशे च इन्द्रगोपसमः स्मृतः || गोक्षीरधरणाकारः समानो नाभिदेशके | उदानः कण्ठदेशे च धूम्रवर्णः प्रकीर्तितः || व्यानः सर्वेषु देहेषु ज्योतीरूपेण दृश्यते | हृदये प्राणवायुश्च अपानस्तु गुदेदिशेत् || इन्द्रियाणां क्रमेनैव शृणुष्व कमलानने | चक्षुषो विषयं दृष्टिः कर्णयोः शब्दमेव च || गन्धस्तु नसि?विज्ञेयः सर्वतन्त्रसमन्वितः | आदानं भूजयुग्मेषु जिह्वायां रस उच्यते || गुह्ये विसर्गं विज्ञेयमानन्दस्तु उपस्थके | गमनं पादयुग्मे च कथ्यते परमेश्वरि || वुभूक्षा च पिपासा च प्राणदेशे प्रतिष्ठिता | मनसः शौकमोहौ च ज्वरा मृत्युः शरीरके || विनाशकाले शारीरे सर्वजन्तुषु उद्धृताः | उद्धृतान्ते महात्मानो महावलपराक्रमाः || षट्कोषिकन्तु सर्वेषां शरीरं परिकीर्तितम् | मज्जास्थिपायरः शुक्रास्तथा त्व*? सशोणितम् || इति षट्कोषिकं नाम भेदो भवति देहिनाम् | अथोपस्ते भगे चैव आनन्दः परिकीर्तितः || विपन्तौ सर्ववर्णानां विनाशः परिकीर्तितः | भूतानामेव चोत्पत्ति दैहजन्म उदाहृतम् || एकब्रह्मणि नानात्वं जीवभावः प्रकीर्तितः | तनिरोधोऽस्य मरणं सर्वतन्त्रसमन्वितम् || ब्रह्मणो मरणं नास्ति नैव तस्य तु जीवनम् | याः स्त्रियः सर्वतन्त्रेषु शिवपत्न्यः शुभावहाः || ये च ते पुरुषाः प्रोक्तास्ते सर्वे रुद्ररूपिणः | हरगौर्यात्मकं सर्वं चराचरमिदं जगत् || विनाशः सर्वधातुनां तत्तु पार्थविकारजम् | शुक्रशोणितसंयोगात् शरीरं परिकल्पितम् || शुक्रमन्नसमुद्भूतं अन्नन्तु पृथिवी तले | शुक्रादिस्थं ततो मज्जा मदेश्च परमेश्वरि || त्वगसृङ् मां सलोमानि शोणितात् परिकीर्तितम् | (प्. ६ब्) शुक्रात् तथा देवि रुक्षं सर्वतत्वरसात्मकम् || पुरुषेषु तथा स्त्रीषु शरीरं परिकल्पितम् | यथा दीपस्य दीपत्वं स्नेहयोगेन दृश्यते || तथा कर्ममनुप्राप्य शरीरं संप्रजायते | कर्मक्षये भवेत् तस्य पमनं देहवोगतः || यथा तृणजनौकैवं तृणं त्यक्त्वा तृणं ब्रजेत् | क्षेत्रं त्यक्त्वा पुनः क्षेत्रं तथा जीवः समाश्रयेत् || नाडी आप्यायनी नाम स्त्रीणां नाभौ प्रतिष्ठिता | उदरे गर्भकाले तु पोषयेदगर्भसञ्चयम् || इडास्तु स्दृशास्तत्र स्त्रीषु तत् पुरुषेषु च | अथायोग्या?त्मिकाः सर्वाः स्त्रियः सर्वसमन्विताः || अथ लिङ्गात्मक्यः सर्वे पुरुषाः परिकीर्तिताः | पुर्वकर्मानुरोधेन लिङ्गभेदं निगद्यते || अथ शृङ्गारयोगेन शरीरं कथ्यते प्रिये | रजोऽधिकाद्तवेत् तत्र नारी रेतोऽधिकः पुमान् || अतः परं तयोस्तुल्यं षण्डं शरीरावयवं ततः | इन्द्रियाणि तदा देवि जायन्ते क्रमयोगतः || आध्यात्मिकमाधिभौतिकमाधिदैवं ततः परम् | भावाभावौ ज्वरामृत्युर्यत् किञ्चित् कुण्डसम्भवम् || तत् सर्वं शृणु देवेशि शरीरेऽस्ति सदानृणाम् | योनिदेशे भवेद्रन्ध्रं नाभिमुलं यतो ध्रुवम् || गर्भशेषन्तुतं प्राहूं सर्वतन्त्रविदो जनाः | उन्दनं तत्र तिष्ठेति तत्र देहे प्रजायते || कर्मयोगानुरूपेण निर्माणं विधिनादिशेत् | विनिर्माय कर्मफलं पुर्वपुर्वभवं कृतम् || प्राप्ते तु पञ्चमे मासि सप्तमे वा तथा पुनः | जीवप्रसेचनं कुर्यात् पुर्वकर्मफलं स्मरन् || द्यानेन ध्यानयोगेन योगध्यानं सदा स्मरेत् | एवं मासत्रयं कृत्वा तदा भुमौ पतेत् पुनः || ईश्यस्तुतस्तदा गर्भः पुर्वजन्म शुभाशुभम् | स्मरं स्तिष्थन् क्षणं तत्र निश्चेष्टौ भवति ध्रुवम् || कालपुर्णे तदा तस्य दशमासं तदोदरे | पुर्वकर्म स्मरन् देही यावदगर्भे भवेत् स्थितिः || सदाशिवात् तदा जीवः स्वशक्त्या गता तत् तनुम् | व्यक्तं निधाय तत् क्षेत्रं रहिर्देशं नयेत् तदा || वहिर्देशन्तु तत् प्राप्य पुर्वज्ञानं विनश्यति | तदा तु लौकिकं कर्म शास्त्रोक्तं विधिनामुना || पुर्वकर्मानुरोधेन क्रियते देहवान् ततः | ततश्चैव तन्यरूपा सा शिवशक्तिः सुरेश्वरी || आश्रित्य पालयेत् क्षेत्रं यथा माता स्वयं शिशुम् | दिक्पालाह्य नवच्छिन्ना अवस्था देहभेदतः || वाल्यकश्च शिशुश्चैव पौगण्डः कैशोरस्तथा | अतः परन्तु युवकः प्रौढश्चैव ततः परम् || अतिप्रौढास्तथा वृद्धोऽतिवृद्धन्ततः परम् | पलितं मरणञ्चैव अवस्था शरिकीर्तिता || बाल्यपौगण्डकैशोरयुवकप्रौढमेव च | अतिःप्रौढश्च वृद्धश्च पलितं तदनन्तरम् || मरणान्ता दशाः प्रोक्ताः सर्वतन्त्रसमन्विताः | दशातु नवधा प्रोक्ता महाकालवच्चे यथा || इति वा सा दशाप्रोक्ता शङ्करश्च मतेन च | (प्. ७) निषेकगर्भजन्मादिबाल्यकौमारषौवनम् || वरोमध्यं जन्ममृत्युरित्यरस्थातनोर्नव | अन्तर्दशास्ततस्त्वेताः कथिताः पद्मयोनिना || जाग्रत् स्वप्न सुषुप्तिश्च तुरीयं सर्वसम्मतः | परापरविभागेन शिवशक्तिरियं मता || योगिनां हृदयास्तोजे नृत्यन्ती प्रेतरूपिणी | सर्वेषां भूतवर्गाणां मृगाधारे प्रतिष्ठिता || विद्युदग्निसमुद्भूता प्रसुप्तभुजगातनुः | सर्ववेदमयी देवी सर्वतन्त्रमयी शिवा || सर्वतन्त्रमयी नित्या सर्वतन्त्रस्वरूपिणी | नित्यानन्दश्वरूपा वा अध्यात्मदीपरूपिणी || सर्वतत्वमयं साक्षात् सुक्ष्मात् सुक्ष्मतरा विभुः | त्रिधामजननी चैव शब्दब्रह्मश्वरूपिणी || पञ्चाशद्वर्णरुपासा सर्वतन्त्रसमन्विता | सर्वेषु भूतवर्गेषु नानाशब्दविनासिनी || चैतन्यं सर्वभुतेषु महाकालवचो यथा | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराह्यनस्तरैन्द्राणी चामुण्डा सप्तमी तथा | महालक्ष्मीर्महादेवी विकृता प्राकृता तथा || अणिमा सधिमा?प्राप्तिः आकाश्या महिमा तथा | ईशित्वञ्च वशित्वञ्च ततः कामावशायिता || विमलोत् कर्षिणी ज्ञाना प्रह्वी सत्या ततः परा | इशानानुग्रहा नित्या अन्या सा विविधा स्मृत्य || नवग्रहान्तथा चामी लोकपालाः सुरेश्वराः | करणानि च रोगानि झङ्कानि राशयन्तथा || चन्द्रवंशाः सुर्यवंशा मनुवं शान्तथा पराः | नागयक्षाश्च गन्धर्वाः किन्नराश्चारणादयः || अस्त्राणि सर्वशास्त्राणि गुप्तरत्नानि यानि च | प्राकृतानि विकृतानि भावाभावानि वान्यपि || पञ्चभूतानि भूतानि महाभूतानि यानि च | उक्तानुक्तानि यत्किञ्चित् स्थावराणि चराणि च || पुष्पगन्धादिकान्यैव रसास्तैजसवृत्तयः | कालमासादयः सर्वे ब्रह्माण्डभाण्डसम्भवाः || महामायाप्रभावेण विश्वमेतत् प्रकीर्तितम् | बालिका तरुणी वृक्षा पौगण्डी कैशोरी तथा || युवती सुकुमारी च प्रौढा च अतिपुर्विका | महाप्रौढा च प्रौढा च अतिवृक्षा ततः परा || पलितास्ता दशान्तस्याः सर्वक्षेत्रेषु पार्वति | द्यात्वात्मकं तदा देहं विन्यस्य सुरदायिका || अत उर्द्धं महामाया भवेत् सैव रजस्वला | आवस्थ्य द्वादशाब्दांश्च यावद्विंशतिसंख्यकम् || सुकुमारी तु सा प्रोक्ता सर्वतन्त्रसमन्विता | मणिपाषाणधातुनां तेजोरूपेण संस्थिता || जीवजन्तुषु देवेशि किं वक्तव्यमतः परम् | यत्र नास्ति महामाया तत्र किञ्चिन्नविद्यते || वर्णात्मिका महामाया सर्वतन्त्र स्वरूपिणी | श्रीपार्वत्युवाच || वर्णाः के देवदेवेश का शक्तिः सर्वसम्मता | कला का देवदेवेश कथयामास तत्वतः || तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः | कथयामास तत् सर्वं रहस्यं सुरदुर्लभम् || श्री ईश्वर उवाच | साधु पृष्टं महामाये साधुलोकहितं परम् | धन्यासि कृत पुण्यासि धन्यासि लोकवत्सले || कथयिष्यामि तद्गुह्यं सुण्डप्यं भुवनत्रये | अकारादि क्षकारान्ताः पञ्चाशद्वर्णसंज्ञकाः || महाविद्या महेशादि तव मूर्तिः प्रकीर्तिता | पुरा कृतयुगे देवि कैलाशे पर्वतोत्तमे || त्वदीयपादयुगलं द्यायेऽहं ध्यानयोगतः | मम सिद्धिर्भवेद्देवि युगान्ते कमलानने || महानन्दं समुत्पन्नं यत् क्षेत्रे तदनन्तरम् | नृत्यगीतं पुरा भुत्वा हस्तवाद्यमथा भवेत् || ततस्तस्मिन् क्षणे देवि शब्दब्रह्मविभूषितम् | सर्वश्रुतिगणाकीर्णं सर्वकालसमन्वितम् || ब्रह्माण्डस्य यथा जीवं विष्णुं सर्वगुणाशयम् | तदाहि पटहं प्राप्यं तस्य राद्यमथा भवेत् || तत्र शब्दे तदा याता आदिक्षन्ता सुरालये | पञ्चाशब्वर्णयोगेन वाच्यवाचक योगतः || सर्वमन्त्रा महामन्त्रा महाविद्या महामहा | गुढाक्षरेण जायन्ते तत् सर्वं प्रवदाम्ह्यहम् || दीर्घस्वरान्त्वदीयाज्ञा मदीराज्ञान्ततः परा | त्वदीया च मदीया च कादिमान्ता प्रकीर्तिताः || एषां मध्ये मकारस्तु पुरुवः परिकीर्तितः | हक्षौ वर्णौ महेशानि जीवात्मपरमात्मकौ || हकारस्त शिवः साक्षात् सर्वतन्त्रसमन्वितः | अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ततः परम् || ओ औ अं अः स्वराः प्रोक्ताः सर्वतन्त्रसमन्विताः | वाच्यवाचकयोगेन जिह्वागुणेन सर्वतः || एको हि परमं ब्रनानात्वेन निरूप्यते | यथावह्नेः स्फुलिङ्गानि नानारूपाणि दृश्यते || यथा निराच्छरीरञ्च च्छिन्नाकारं प्रदृश्यते | एको नालायते वह्निर्दारुयोगे यथा पुरा || दीर्घ स्वरस्य देवेशि देवता भुवनेश्वरी | ह्रस्वस्वरस्य देवेशि देवता शङ्करः स्वयम् || कादिक्षान्ताः हमाः? प्रोक्ताः सर्वतन्त्रसमन्विताः | शब्दार्था अज्मले देवि द्रव्यायोगेन कथ्यते || हलानि सर्वबीजानि कीलकानि स्वराणि च | विनाकीलैरियं सृष्टिर्न देवि स्थिरतामियात् || न कर्म लभते देवि विनाप्राणैर्यथा तनुः | तत्तद्बुद्ध्या निरूप्येत प्रत्याक्षं दृष्टिगोचरम् || देशे देशे च शब्दार्थाः नानार्थाः परिकीर्तिताः | अज्झलैः सर्वद्रव्याणां क्रिया संज्ञा विधीयते || सुषुम्ना मध्यदेशे च वैखरी नाडिका स्मृता | वायुरूपा तु सा नाडी वहू (वायु) योगेन शब्द्यते || सुषुम्ना मूलदेहे तु शब्दोत् पत्तिश्च हेतवः | कण्ठादिकरणैर्भिन्ना वर्णरूपा महेश्वरी || आविर्भवन्ति वर्णानि स्पर्शाश्च व्यापकान्तथा | कादिमान्तास्तथास्पर्शा यादयो व्यापकाः स्मृताः || उष्माण शवसाः? ज्ञेया सर्वतन्त्रसमन्विताः | सप्तवर्गस्य देवेशि देवताः कथयामि ते || रक्तवर्णा सुर्यरूपा कवर्गस्य च देवताः | काव्यश्च वर्गप्रभवष्टवर्गस्य रुधः स्मृतः || (प्. ८) तवर्गस्य गुरुः सुरः पवर्गस्य शनैश्चरः | षवर्गस्य यथा चन्द्रो देवि सर्वार्थसाधकः || शवर्गस्य च भुविस्वो वर्गाधिष्ठाभुदेवताः | वर्गन्यासे यजेद् देहे सर्वसिद्धिफलाप्तये || पञ्च पञ्च भवेद्देवि कादिलान्तामयः क्रमात् | हक्ष्मवर्गस्य देवेशि नृसिंहः सर्वसम्मतः || क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण | त थ द ध न प फ ब भ म ततः परम् || य र ल व श ष स ह क्ष वर्णाः प्रकीर्तिताः | अ आ ए क च छ त प षसा वायव्याः परिकीर्तिताः || ऌ ॡ अं ङ् ञ ण न म वक्ष्मा आकाशाः परिकीर्तिताः | ई ऊ ऐ ख छ ठ थ प वक्षा आग्नेयाः परिकीर्तिताः || ऋ ॠ औ घ झ च ध भ ब मा वरुणाः परिकीर्तिताः | उ उ ओ गजडदर नानाः पार्थिवाः परिकीर्तिताः || पञ्चभूतात्मका वर्णा अज्झलाः परिकीर्तिताः | पञ्चभूतात्मका वर्णा सर्वतन्त्रेषु गोपिताः || पञ्चाशद्वर्णसंयुक्ता मातृका चक्रसंस्थिताः | षटचक्रात्मिका मन्त्रा मातृकान्ता शरीरिणी || सप्तचक्रेऽपि वैकुण्ठः स्वदेहे चिन्तयेत् सदा | आधारे लिङ्गनाभौ हृदयसरसिजे तालुमुले ललाटे द्वे पत्रे षोडशारे द्विदशदलगते द्वादशाजे चतुष्के | वासान्ते वालमध्ये ड फ क ठ सहिते कण्ठदेशे स्वरांश्च हक्षं तत्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि || अथ वक्ष्ये महेशानि वर्णानां शक्ति व्यञ्जना | अकारादि क्षकारान्ताः सर्वतन्त्रसमन्विताः || शक्तिस्तु द्विविधा प्रोक्ता कलास्तु द्विविधाः स्मृताः | निवृत्तिश्च प्रतिष्ठाश्च विद्याशान्तिस्ततः पराः || इक्षिका दीपिकाचैव वाचिका मोचिका तथा | सुक्ष्मासुक्ष्मामृताज्ञाना अमृताप्यायनी तथा || व्यापिणी व्योमरूपा च स्वरवर्णात्मिका स्मृताः | सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा || स्थितिर्बुद्धिर्जरा चै गालिनी शान्तिरीश्वरी | रतिश्च कामिअकाचैव वसुदानादिनी तथा || प्रीतिर्दीर्घा तथातीक्ष्ना रौद्री च अभया तथा | निद्रा तन्त्री क्षुधा क्रोधी क्रियोत्कारी ततः परा || मृत्युश्चैव तथा श्वेता पीता च वारुणा सिता | अनन्ताश्च कलाः सर्वा ब्रह्मविष्णुशिवात्मिकाः || सदाशिवात्मिकाः सर्वाः कलाश्चैता महेश्वरि | अक्षक्रक् स्वस्तक गुण कपालाढ्य कराम्बुजाः || न्यासे तु योजयेत् सर्वा यथास्थानविधानतः | कपालवदने वाक्ष्नोः कर्णयोर्नसि गण्डयोः || ओष्ठाधरे दन्तपक्तौ जिह्वायां चन्द्रमण्डले | अकारादि क्षकारान्ताः स्वरास्तत्र समन्विता || दक्षस्कन्धेः कूर्परे च मणिरन्ध्रेऽङ्गुलि मूलके | अङ्गुल्यग्र तु विन्यास्याः कादि ङान्ता विधान्तः || अथ वामभुजस्थाने चादि ञान्ता विधानतः | नितम्बे जानुचक्रे च जङ्घा मूले कटौ तथा || अङ्गुल्यग्रे तु विन्यास्याष्टादि णान्ताः स्वदक्षिणे | (प्. ८ब्) वामभागे तथान्यास्यास्यास्तादिनान्ता विधानतः || दक्षपार्श्वे वामपार्श्वे पृष्ठे द्व्यंशे नाभौ तथा | जठरे विन्यसेद्देहे पादिमान्ता विधानतः || हृदये दक्षस्कन्धे च ग्रीवामुलावामांशके | हृदादिदक्षपादे च हृदयादि तथोदरे || हस्तयोः पादयोर्न्यास्या विधानेन च पार्वति | हृदयादितथोपस्थे हृदयादि स्वमुर्द्धनि || त्वगसृगादिविज्ञेयः सर्वतन्त्रसमन्वितः | सहौ रसात्मके क्रमात् क्षकारः परमात्मनि || त्वगसृङमांसमेदेषु अस्थिमज्जात्मक्शुक्रसु | जीवात्मा परमत्मा च विन्यसेद्देहमात्मनि || एषु स्थानेषु देहेषु कलान्यासे नियोजयेत् | नीलकण्ठाद्याश्च ताः सर्वाः मुर्तयः सर्वसम्मताः || यथाक्रमे यथास्थाने विन्यसेद्विधिनाऽयुना | श्रीकण्ठाद्यसुक्ष्मा च त्रिमुर्तिरमरेश्वरौ || अर्घीशोभावभुती च तिथीशस्थानको हरः | झिन्टाशो भौतिकः सद्योजातश्यानुग्रहेश्वरः || अर्जुनश्च महासेनः षोडशः स्वरमुर्तयः | क्रोधीशश्चैव चण्डेशः पञ्चात्मकशिवोत्तमौ || एकरुद्रश्च कुर्मैकनेत्रैकश्च तु वानानः | अजेशः सर्वसोमशा तथा लाङ्गुलदारुकौ || अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ | अभ्री मीनश्च मधोख्यो लोहितश्च शिखी पुनः || छगलण्ड द्विरण्डेशो महकालसुकालिनौ | भुजङ्गेशः? पिनाकीशः खड्गीशाख्या व कुन्तथा || श्वेतो भूग्वीश नकुली शिवाः संवर्तुकास्तथा | एता रुद्रात्मिकाः सर्वाः शक्तयः शुनखर्परा || शुक्लवर्णास्त्विमाः सर्वा वर्णन्यासे नियोजयेत् | पृणोदरी च विरजा शाल्मली तदनन्तरा || लोलाक्षी वर्तुलाक्षी च दीर्घघोन ततः परा | सुदीर्घमुखी गोमुख्या दीर्घजिह्वा ततः परा || दण्डोदरी ऊर्द्धकेशी विकृतास्या ततः परा | ज्जालामुखी शुचिमुखी उल्कामुखी ततः परा || विद्यामुखी तु विज्ञेया सुराणां शक्तयन्तिमाः | सरस्वती महाकाली गौरी त्रैलोक्यमोहिनी || मन्त्रशक्तिरात्मशक्तिर्भूतमाता ततः परा | लम्बोदरी द्राविणी च नगरी खेचरी तथा || म**?दरा रूपिणी च विधिनी तदनन्तरा | काकोदरी पुतना च भद्रकाली ततः परा || योगिनी शङ्खिनी चैव गन्धिनी कालरात्रिका | कूजिनी कवर्दिनी चैव **? चैव क्रिया तथा || सुमुखी ईश्वरी चैव रेवती च ततः परा | मायवी वारुणी चैव वायसी वक्ष (वि)दारिणी || सहजा च तथा लक्ष्मीर्व्यापिनी च ततः परा | ब्रह्मपीठस्थितास्त्वेता रक्तवर्णाः शुभप्रदाः || रक्तोत् पलकपालाढ्या अलङ्कृतकराम्बुजा | रुद्राण्यः सर्वैस्द्धाख्या इति वा कल्मयेत् सदा || केश्व नारायण गोविन्दविष्णवः | मधुसूदन त्रिविक्रम वामनः श्रीधरस्तथा || माधव हृषिकेशः पद्मनाभो दामोदरन्ततः परः | वासुदेवः सङ्कर्षणः विष्णुशक्तिं स्तिमाः स्मृताः || (प्. ९) प्रद्युम्नश्चानिरुद्रश्च सर्वतन्त्रसमन्विताः | चक्रीगदी तथा शाङ्गी खड्गी शङ्खी हली पुनः || मुषली शूली च पाशी अङ्कुशी तदनन्तरा | मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः || कृष्णसखः साततश्च सौरी शुरो जनार्दनः | भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषः परः || वली वलानुजो वालो वृषघ्नश्च वृघी पुनः | हंसो वराहो विमलो नृसिंहः सर्वसम्मतः || केशवाद्यास्त्विमाः सर्वा विन्यसेद्विष्णुपूजने | सर्वे श्यामा च शुभदाः शङ्खचक्रलसत् कराः || कीर्तिः कान्तिस्तुष्टिपुष्टी स्मृतिः शान्तिः क्रिया दया | मेधा सहस्रो श्रद्धा च लज्जा लक्ष्मीः सरस्वती || प्रीती रतिश्च ताः सर्वाः शक्तयः सुरनायिकाः | जया दुर्गा प्रभासत्या चण्डा वाणी विलासिनी || विजया विनदा विश्वा विनोदा शूलदा स्मृतिः | ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा || वरामा क्लेदिनी क्लिन्ना वसुदा वसुधा परा | परायणा तथा सूक्ष्मा सन्ध्या प्रज्ञाअ तथा निऽसा || अमोघा विच्युता चैव देव्याङ्गे शक्तयन्त्विमाः | विद्युद्गमे समानार्द्यः पङ्कजद्वयवाहूना || एकदेव्याः समानार्द्यः सुस्मिताः सर्वसिद्धिदाः | मातृकावर्णभेदेभ्यो मन्त्रविद्या प्रजज्ञिरे || मातृका हि महादेवि सर्वबीजस्वरूपिणी | यथा देहे इन्द्रियाणां मनसाश्च प्रधानता || यथा ज्योतिर्गगनाहि सुर्याश्चैव वरस्तथा | तथा सर्वेषु मन्त्रेषु मातृका बीजरूपिणी || मन्त्रे मन्त्राङ्गता न्यस्य विद्याङ्गे शक्तयः शुभाः | आत्मनः क्षेत्रयोगेन विन्यसेत् सर्वसम्मतः || मन्त्राङ्गे मन्त्रशक्तीस्ता देव्याङ्गे देवशक्तयः | अस्य मन्त्रस्य मन्त्राङ्गं विद्याङ्गे शक्तयः शुभाः || राशयो विन्यसेद्देहे मेषादिषु विधानतः | शीर्षे मुखे बाहूद्वयोदरे च विन्यसेत् क्रमात् || कटिरस्थिगुह्ये च उरु जानु जङ्घे चरणाचितिक्रमशः | महाकालमतं न्यासं राशीनां सिद्धिदायकम् || अरुणासितहरित पाटलपाण्डु विचित्रासितेतरपिङ्गलौ | पिङ्गल कर्वुरभूकमलिना रुचयो यथासंख्यम् || मेषादीनां यथास्थानेषु वर्गेन विचिन्तयेत् | मूर्द्ध्नि वदने कण्ठे हृदये च भूजद्वये || पृष्ठे नाभौ उदरे उपस्थे गुह्ये पादयुगे तथा | मेवं वृषं मिथुनञ्च कर्कटं सिंहं ततः परम् || कन्यां तुलां विच्छां धनुर्मकरं कुम्भमेव च | मीनान्तं विन्यसेद्देहे ओङ्कारान्तं नमोऽन्वितम् || नक्षत्राणि न्यसेत् तत्र मुर्द्ध्यादिपादमन्तकं | अश्वन्यादिरेवत्यन्ता अष्टाविंशतिसंज्ञका || अश्विनी भरणी चैव कृर्त्तिका रोहिणी मृगा | आर्द्रापुनर्वसु पुष्या अश्लेषा च मघा तथा || पूर्वोत्तरफल्गुनी च हस्ता चित्रा ततः परा | स्वाती विशाखानुराधा ज्येष्ठा मुला ततः परा || (प्. ९ब्) पूर्वाषाढा उत्तरा च श्रवणाभिज्तस्ततः | धनिष्ठा शतभिषा च पूर्वभाद्रपदा ततः || उत्तरभाद्रपदा चैव रेत्यान्ताः समीरिताः | प्रणवाद्या नमोऽन्ताश्च विन्यसेद्देहमात्मनः || मूर्द्ध्नि भूयुगे चक्ष्नोः कर्णयोर्नसि गण्डयोः | जिह्वायां ग्रीवामूले च स्तनद्वन्द्वे तथा हृदि || पृष्थे नाभौ तथा लिङ्गे गुह्ये शिश्ने न्यसेत् क्रमात् | ओंकाराद्या नमोऽन्ताश्च तिथयः सर्व सिद्धिदाः || पीठानि विन्यसेद्देहे सर्वकार्यार्थ सिद्धये | मूर्द्ध्नि वदने गले पादौ नाभौ कुक्षे नितम्बके || पादयोर्विन्यसेद्देहे सर्वकार्यार्थसिद्धये | कामरूपं कामकटं उड्डीशं तदनन्तरम् || जालन्धरञ्चास्रतकं तथाज्वालामुखी प्रिये | श्रीशैलं मलयञ्चै विन्यसेत् सर्वसिद्धये || आधारशक्तिं कुर्मञ्च वराहं तदनन्तरम् | महामण्डुक कालाग्नि रुद्रसंज्ञं ततः परम् || ततः परन्त तत् सर्वमनन्तं पृथिवीं तथा | मणिमण्डपं कल्पतरुं स्वर्णसिंहं ततः परम् || सन्विन्नालमनन्तञ्च सर्वतत्वात्मकं ततः | कमला`न्चाङ्गपत्रञ्च केशवं कर्णिकां तथा || सर्वतत्वमयं तत्र कमलं विन्यसेद्धिया | सत्वं रजस्तमश्चैव आत्मानं परमात्मकम् || अन्तरात्मानं ज्ञानात्मानं क्रमेण विन्यसेत् ततः | ओङ्कारादिनमोऽन्तञ्च मूलाधाराद् शुदात्मकम् || धर्मपीठं न्यसेत् तत्रात्मानं देव प्रपूजयेत् | धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यं तदनन्तरम् || दक्षस्कन्धे तथा वामे तथा पादस्य मुलके | मुखे पार्श्वे तथा नाभौ सव्ये च विन्यसेत् सदा || अधर्मञ्चैव वैराग्यमपूर्वं विधिना ततः | अज्ञानञ्चैव ऐश्वर्यमपूर्वञ्च क्रमेण वै || ओंकाराद्यं नमोऽन्तन्तु विन्यसेत् सर्वकालतः | तत्त्वन्यासं ततः कुर्यात् जीवादिपूर्वसम्भवम् || सर्वेषु मन्त्रवर्गेषु तत्वन्यासं विलिष्यते | विना तत्वेन तत्त्वस्य उत्पत्तिः प्रतिबुध्यते || धर्मं इरितश्यामवह्नौ मरुति पित्तञ्च वैराग्यम् | ज्ञानं भूतागारं च द्विरद तत्त्वमैश्वर्यं मीने कृष्णम् || न ए ञ पूर्वन्तु जयतु दिशि चित्राणि गात्रपीठानि | सर्वेषु मन्त्रविद्याषु न्यासोऽयं कामदायकः || मातृकां विन्यसेद्देहाभान्तरे विधिनामुना | अन्तर्यागं तथा योगं वायुं कुर्याद्विचक्षणः || भूतशुद्धिं पुराकुर्यात् विधिनानेन दोहकः | यादिवान्तैर्विधानेन पूरककुम्भकरेचकैः || इडया पुरयेद्वायुं श्वासनाड्याः शनैः शनैः | मात्रया षोडशेनैव ततः कुर्याच्च कुम्भकम् || यंमन्त्रेण चतुःषष्ट्या यथा कुम्भं ततः परम् | सुषुम्नायां कुम्भयित्वा पिङ्गलायान्तु रेचयेत्? || चतुर्धाचन्द्र सह जप्त्वा रंवीजेनैव प्लावनी | श्वाससंहरणा नाड्या त्यजेद्वायुं शनैः शनैः || पुरा कुक्षिगतः पापं चिन्तनीयो मनीषिभिः | (प्. १०) ब्रह्महत्या शिरङ्कञ्च स्वर्णस्तेय भुजद्वयम् || सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् | तत् संसर्गात् पदद्वन्यद्व मङ्गप्रत्यङ्गपातकम् || उपपातकरोमाणं रक्तश्मश्रुविलोचनम् | खड्गचर्मधरं वामाङ्गुष्ठपरिमाणकम् || अधोमुखः कृष्णवर्णं वामकुक्षौ विचिन्तयेत् | एषु ये ऋषयः प्रोक्तास्तान् प्रवक्ष्याम्यनुक्रमात् || पुरकादिषु देवेशि ऋषयः सर्वसम्मताः | किस्कन्दः कश्यपश्चैव हिरण्यगर्भस्ततः परम् || अस्य पापस्य देहस्य अन्तर्यामी ऋषिः स्मृतः | एवं द्यात्वा वह्निनाडी दाहयेत् सकलां तनुम् || प्राणायामं ततः कुर्यात् भूतशुद्धिरनन्तरम् | भूतानां शोधनं कृत्वा भावना तु तथा दिशेत् || आपादमुर्द्ध्नि पर्यान्तं भावयेद्देहमात्मनः | पञ्चाशद्वर्णबीजाढ्यं महाभूतादिसंयुतम् || गन्धं रसं तथा स्पर्शं रूपं शब्दं ततः परम् | भावयेदात्मनो देहं सहस्रं कमलं यतः || सहस्रारे महापद्मे द्यायेद्देवीं सनातनीम् | सदाशिवेन संयुक्तां विपरीतरतस्थिताम् || भूतानि च महापूर्वसंलीनानि विधानतः | स्थापयेत् तत् पदाम्भोजे तदा वर्णादि चिन्तयेत् || क्षकारादि अकारान्तं प्रतिलोमेन देशिकः | संहारचक्रं समुद्दिष्टं सर्वतन्त्र समन्वितम् || षट्चक्रं चिन्तयेद्देहे विधिनानेन देशिकः | मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् || आज्ञा विशुद्धं शुद्धाख्यं क्रमेणैव स्वदेहके | सहस्रारं महापद्मं विशुद्धाख्यं प्रकीर्तितम् || मूलाधारं तथोपस्तं नाभिदेशं ततः परम् | हृदयं कण्ठदेशञ्च भ्रूयुग्मं तदनन्तरम् || सहस्रारान्तकं प्रोक्तं सप्तचक्रं सदेहके | डाकिनी हाकिनी चैव राकिनी लाकीनि तथा || काकिनी शाकिनी चैव षट्चक्रस्य च देवताः | हाकिनी देवता प्रोक्ता सहस्रारे सुरेश्वरी || पत्रवर्णात्मकं तत्र क्रमेण चिन्तयेद्धिया | चतुःपत्रं मूलाधारं वादिसान्तं महेश्वरी || वादिलान्तञ्च षट्चक्रं स्वाधिष्ठानं विचिन्तयेत् | मूलाधारं गुदे चैव स्वाधिष्ठानञ्च लिङ्गके || दशपत्रं डादिफान्तं नाभिदेशं विचिन्तयेत् | मणिपूरं महाचक्रं शब्दब्रह्मविभूषितम् || विशुद्धं द्विदलं प्रोक्तं हक्षवर्णविभूषितम् | सर्ववर्णात्मकं पत्रं पद्मना परिकीर्तितम् || दक्षिणावर्तयोगेन लिखनं चिन्तयेद्धिया | अनुलोमः सृष्टिकाले संहारे प्रतिलोमकः || एवं विचिन्त्य स्वदेहं जीवात्मानं विचिन्तयेत् | मूलाधारे स्थितं जीवं कुण्डलीरूपसंस्थितम् || बिद्युदग्निसमुद्भूतं तडित्कोटिसमप्रभम् | हूङ्कारेण समुच्चार्यं मूलाधारात् तदा पुनः || निर्वात् इव दीसोऽपि यथा देहसमन्वितः | सोऽहं मन्त्रमयं देहं जीवात्मानं विचिन्तयेत् || (प्. १०ब्) ध्यानेन ध्यानयोगेन चिन्तयेच्च शनैः शनैः | एवं विचिन्त्य स्वदेहं प्राणायामं ततः परम् || देवता च तथा जीवं समभारं विचिन्त्य च | अकारादिक्षकारान्तं पुरकं कुम्भ(क) रेचकम् || वारत्रयं ततः कुर्यात् विधिनानेन देहिकः | अकारादि क्षकारान्तं पुरयेदिडया शनैः || एवं विचिन्त्य स्वदेहं प्राणायामः ततः परम् | कादिमास्तैः कुम्भयेच्च सुषुम्नायां विधानतः || पिङ्गलायां रेचयेच्च यादिफान्तैः शनैः | प्राणायाममिदं प्रोक्तं सर्वतन्त्रसमन्वितम् || त्रिः पठेदायतः प्राणः प्राणायामः प्रकीर्तितः | कुम्भयित्वा समातृका मातृका चानुलोमतः || पञ्चभूतं महाभूतं स्वजीवञ्च विचिन्तयेत् | स्वजीवं गुणसंयुक्तं विन्यस्य प्राणमुच्चरेत् || संपुट्य स्वरवर्णेन सर्वगेण हृदादिषु | प्राणप्रतिष्ठां कूर्ध्वीत हृदये तनुसंयुतम् || दक्षस्य तनुसंयुक्तं कथितं मन्त्रवेदिना | आननं बिन्दुसंयुक्तं अर्द्धचन्द्रविभूषितम् || लज्जाबीजमिदं प्रोक्तमक्षोभ्येन सुरेश्वरि | ब्रह्मा बिन्दुसमायुक्तं वह्निबीजसमन्वितम् || एषोदशस्वरेणाद्यं अङ्कुशं परिकीर्तितम् | प्राणप्रतिष्ठामन्त्रस्य देवता ब्राह्मणादयः || ब्रह्मा विष्णुश्च रुद्रश्च ऋषयः परिकीर्तिताः | ऋग्यजुश्चैव सामानि च्छन्दांसि च तदा भवेत् || याद्याः सप्तसकारान्ता अत्रिमेत्रसमन्विताः | शिरोऽर्द्धदन्तसंयुक्तं हंसमन्त्रसमन्वितम् || कुण्डलीं तां समानीय तेन मार्गेण साधकः | मूलाधारे स्थापयित्वा हंसमन्त्रं जपेद्बुधः || पञ्चाशद्वर्णबीजानि बिन्दुयुक्तानि चिन्तयेत् | मम प्राणा इह प्राणा मम जीव इह स्थितः || सर्वेन्द्रियाणि धातुनि सत्वानि परिचिन्तयेत् | भूतानि चैव तत्वानि विचिन्त्य विधिनामुना || इहागत्य सुखं चिरं तिष्ठस्तु वह्निसुन्दरी | एष प्राणमनुः प्रोक्तः सर्वतन्त्रसमन्वितः || नृसिंहस्य च बीजेन प्राणप्रवेशनं स्मृतम् | तदा प्राणस्य ध्यानञ्च संम्मरेत् प्रयतः शुचिः || वाह्यदेवतायाः प्राणमन्त्रं दिशेच्च सुन्दरी || || इति श्रीविश्वसारतन्त्रे देहोत्पत्तिर्नाम प्रथमः पटलः || १ || द्वितीयः पटलः | अथ योगं प्रवक्ष्यामि शृणुष्व कमलानने | ब्रह्मणा भाषितं पूर्वे नारदाय कृते युगे || तत् शृणुष्व महेशानि मन्त्रमूर्तिविशुद्धये | पञ्चभूतस्य विज्ञानं प्रधानं योगमुत्तमम् || तेषां गतिं विचिन्त्याथ इष्टदेवीं विचिन्तयेत् | भूतानाञ्च गतिं वक्ष्ये स्वदेहे शृणु पार्वति || (प्. ११) तदा तत् कालकालदासा गतिः शुभदायिनी | योगशास्त्रं महेशानि साङ्गं मोक्षप्रदायकम् || जीवात्मपरमात्मनोरैक्यं सञ्चिन्तयेद्धिया | समाधिः परमं योगं सर्वतन्त्रसमन्वितम् || विशुद्धं निर्मलं नित्यं सदसद्भाववर्जितम् | मनसा वचसा चैव कायिकेन विचिन्तयेत् || तदेव परमं योगं शिवेन भावितं पुरा | शुद्धं शुद्धगुणं देवं चिन्तयेत् तमहनिर्शिम् || सदाशिवं शक्तियुक्तं सहस्रदलसस्थितम् | मनसा भावशुद्धेन समाधौ चिन्तयेत् सदा || मन्त्रवर्णात्मकं देवं मन्त्रवर्णात्मिकां शिवाम् | मनसाभ्यासयोगेन चिन्तयेत् साधकः सदा || निश्चेष्टो निरहङ्कारो निर्द्वन्द्वा निस्परिग्रहः | गो-काक-मृग-चर्चायां यदाचरति देशिकः || भावयेद्विधिनानेन सर्वकालेषु सर्वदा | सर्वतत्वेषु तं देवं तां देवीं सुरपूजिताम् || नित्यां विशुद्धां शुद्धाद्यां सदसद्भाववर्जिताम् | सर्वकालक्षयकरीं सर्वमन्त्रेषु संस्थिताम् || अस्त्रविद्यात्मिकां नित्यां नानास्वर निवासिनीम् | न जरा मरणं तत्र चिन्तयेद्दक्षजात्मिकाम् || ज्योतिर्ब्रह्मात्मिकां देवीं चिन्तयेद्ध्यानयोगतः | जित्वा दारात्मनः शत्रुन् कामक्रोधादिकं प्रिये || कामं क्रोधं तथा मोहं लोभहिंसादयस्तथा | इन्द्रादयश्च तान् सर्वान् ध्यानेन विधिना मुना || ध्यायेन्मानसपद्मस्थां शक्तिं शिवसमन्विताम् | नानालङ्कारसंयुक्तां नानागुणसमन्विताम् || षडुर्मयन्तदा जिह्वा चिन्तयेज्जगदम्बिकाम् | कामादयन्तु देवेशि दुःखानि कथितानि ते || योगाष्टाङ्गैरिमां जित्वा योगिनो युगमाप्नुयात् | अपश्यदात्मनो देहे सहस्रारे शिवं स्मरेत् || तदेवं पुरुषं पूर्णं मायाञ्च तदपाश्रयाम् | एवं चिन्तयित्वाथ समाधिं योगमभ्यसेत् || दाहशक्तिं यथाङ्गारे आश्रयं वाप्य तिष्ठति | यमाद्यागमसस्पग्ने स एव श्रीसदाशिवं || तस्य चाङ्गविभागेन शास्त्रमेतत् प्रकीर्त्यते | यमं नियममासनं प्राणायामस्तत परम् || प्रत्याहारं धारणञ्च ध्यानञ्चैव समाधिकम् | अष्टङ्गेयोगमित्युक्तं सर्वतन्त्रसमन्वितम् || अहिंसा सत्यमन्तयं ब्रह्मचर्यकृपार्जवम् | क्षमा धृतिर्मिताहारः शौचञ्च दमनं तथा || एते यमा महेशानि सर्वतन्त्रसमन्विताः | तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम् || सिद्धान्तश्रवणं नित्यं ह्रीर्मतिश्च जपो हृदम् | दशैते नियमाः प्रोक्ताः सरतन्त्रसमन्विताः || पद्मासनं स्वस्तिकाख्यं तथा | बीरासनमिदं प्रोक्तं पञ्चकं क्रमतः सुधीः || उर्वो भद्रवज्रासनं रुपरि विन्यस्य सम्यक् पादयुगं प्रिये | अङ्गुष्ठौ च निबद्धयात् व्युत्प्रमेणैव पृष्ठके || पद्मासनमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | (प्. ११ब्) जानुनोरन्तरे सम्यक् कृत्वा पादतले पुनः || ऋजुकायो विशेद्योगी स्वस्तिकासनमीरितम् | सीमान्याः पार्श्वयोर्न्यसेद् गुल्पयुग्मं सुनिश्चितम् || वृषाधः पार्श्वपादौ तु पाणिभ्यां परिलाञ्छयेत् | भद्रासनमिदं प्रोक्तं योगिनां हृदयङ्गमम् || उर्वाः पादौ क्रमाम्नस्य जान्वोः प्रत्यङ्मूखेऽङ्गुली | करौ निदध्याद्देवेशि वज्रासनमुदाहृतम् || एक्पादमधः कृत्वा विन्यस्योरौतथेतरम् | ऋजुकायो विशेद्योगी वीरासनमुदाहृतम् || आसनानि वहुन्येव सन्ति वेदेषु पार्व्ति | सर्वेषां श्रेष्ठमित्व्युक्तं स्वस्तिकाख्यं सुखावहम् || इडया पुरयेड्वायुं यं जप्त्वा षोडशमात्रया | धारयेच्च सुषुम्नायां चतुःषष्ट्या तु तं स्मृतम् || पिङ्गलायां त्यजेद्वायुं द्वात्रिंशत्तेन मात्रया | भूतशुद्ध्यात्मकं प्राहूः सर्वतन्त्रविदो जनाः || रंमन्त्रंअ प्र्तिलोमेन पूरककुम्भकरेचकम् | तेनैव विधिना कृत्वा ठंमन्त्रं प्रज्पेत् ततः || तेनैव विधिना जप्त्वा पापे भष्मनि संत्यजेत् | लंमन्त्रे चिन्तयेद्देहं पञ्चाशद्वर्णसंयुतम् || धराबीजेन तं देहं दृढीकृत्य स्वयं ततः | मात्रावृद्धिक्रमेणैव जपेद् द्वादश षोडश || जपेन्न्यासादिकं कृत्वा सर्वसिद्धिं लभेन्नरः | क्रमादभ्यसतस्तस्य न्वोदगमा * * * धमः || मध्यमं कल्पसंयुक्तो भूमित्यागं ततः परम् | उत्तमस्य गुणावाप्तिर्यावत् शीलनमीष्यते || इन्द्रियाणां विचरतं विषषेषु द्विधा कृताम् | वलादाहरणं तेभ्यः प्रत्याहारः समहृतः || अङ्गुष्ठगुलफजानुरुर्मनसि लिङ्गनाभिषु | हृच्छिरः कण्ठदेशेषु लम्बिकायास्तथ नसि || भ्रूमध्ये मस्तके मूर्द्ध्नि द्वादशान्ते तथा विधिः | धारणं प्राणमरुतो धारणा परिकीर्तिता || समाहितेन मनसा चैतस्यान्तरवर्तिना | आत्मन्यभीष्ठदेवानां ध्यानं ध्यानविदो विदुः || समत्वभावनानित्यं जीवात्मपरमत्मानोः | समाधिः कथितो देवि सर्वतन्त्रसमन्वितः || ध * * * वत्यङ्गुलायां शरीरमुभयात्मकम् | गुदधवान्ते तु * स्कन्धमुत्सेधं द्वाङ्गुलं विदुः || तस्य द्विगुणविस्तारं वृत्ताकारेण संस्थिताम् | नाड्यन्तत्र समुद्भूता मुख्यान्तिस्रः समीरिताः || इडा वामे स्थिता नाडी चित्र सा योगिनां शुभा | ब्रह्मरन्ध्रं विदुस्तस्यां पद्मसुत्रनिभं प्रिये || आधारञ्च विदुस्तत्र सर्वतन्त्रसमन्वितम् | दिव्यमर्ग्मिदं प्राहरमृतानन्दलक्षणम् || इडायां चिन्तयेच्चन्द्रं पिङ्गलायां दिवाकरम् | सुषुम्नायान्तु देवेशि तावुभौ चिन्तयेत् तनौ || अग्निसोमात्मिका नाडी सुषुम्ना तन्त्रसम्मता | आधारपद्ममध्यह्नं? त्रिकोणमतिसुन्दरम् || ज्योतिषां निलयं तच्च कथितं पद्मयोनिना | तत्र विद्युल्लताकारा कुण्डली परदेवता || परिष्कृरति देहेऽस्मिन् सुप्ताहिसदृशाकृतिः | (प्. १२) विभर्ति कुण्डली देहमात्मानं हंसमन्त्रतः || हङ्कारवर्णसम्भूता कुण्डली कुलनायिका | गमनागमने मन्त्रं हङ्कारं लङ्करेण च || कथितं बीजमन्त्रस्य कुण्डस्यास्तत्र सम्मतम् | हंसप्राणाश्रयो नित्यं प्राणनाडी पथाश्रयं || आधाराद्वहते वायुर्यथावत् सर्वदेहिनाम् | देहं प्राप्य सुनाडीभिः प्रयाणं कुरुते वहिः || द्वादशङ्गुलमात्रेण प्राणस्य पुरुषस्ततः | वायुरूपेण जीवोऽसौ सर्वज्ञो व्यापकः स्मृतः || मुलाधारात् सहस्रारं व्याप्य तिष्ठति कुण्डली | सुषुम्ना मध्यदेहे च सुक्ष्मात् सुक्ष्मस्वरूपिणी || वायुस्वरूपा सहिता वायुमास्थाय तिष्ठति | आयाति याति सततं कुण्डली परदेवता || रम्ये मृद्वासने पुण्ये पटाजिनकुशोत्तरे | स्वस्तिकासनमास्थाय योगमार्गपरो भवेत् || ज्ञात्वा भूतोदयं देहे यथावत् प्राणवायुना | शक्तिरूपां ध्यायेद्वामे पार्श्वे नाभौ सदा प्रिये || पिङ्गलाया महेशानि शम्भुरूपं दिवाकरम् | चन्द्ररूपां वामनाड्यां शिवानीं चिन्तयेद्धिया || भूतात्मके तु देहेऽस्मिन् सर्वभूतोदयं शृणु | चिन्तयेद्वायुनानेन सर्वसिद्धाप्तये सुधीः || किं राज्यैरसदालापैर्षत्रायुर्वायतामियात् | श्वाससंहरणान्नाड्या गतिं तेषां विचिन्तयेत् || ध्यात्वात्मकमिदं देहं पोषयेच्छम्बुगेहिनी | दण्डाकारगतिर्भूमेस्तोस्वस्य पु* कामता || ऊर्द्धागतिः पावकस्य वायोतिर्यक् गतिः स्मृता | गतिर्व्योम्नोर्भवेन्मध्या सर्वतन्त्रसमन्विता || ध्यात्वात्मकमिदं देहं पोषयेद्वायुरूपिणी | त्वचि स्थिता महामावा असृक् स्थिता शिवा शुभा || तथा मांस स्थितां देवी तथा मेदं स्थिता सती | अस्थि स्थिता शिवपत्नी सा मज्जारां शम्भुसुन्दरी || शुक्रस्था वायुरूपा च तथा प्राणात्मिका स्मृता | जीवप्रापात्मिका नित्या सर्वक्षेत्रेषु संस्थिता || मारणादिं प्रकूर्वीत भूतानामुदये सुधीः | विचिन्त्य चात्मानो देहे गतिस्तस्य प्रिये सदा || वरणेरुदये कुर्यात् स्तम्भनं सर्वसम्मतम् | शान्तिकं पौष्टिकं तोयस्य समये प्रिये || मारणं कुरुते शत्रोरग्नेरुदययोगतः | वायोस्तु उदये कुर्यात् स्तम्भनं सर्वसम्मतम् || अथ उच्चाटनं कुर्यात् सर्वतन्त्रसमन्वितम् | क्षेत्रादिनाशनं कुर्यात् आकाशस्योदये सुधीः || आसुर्योदयमारभ्य यावद्वै घटिकाद्वयम् | एवं क्रमेण विज्ञाय षट्कर्मषु विचिन्तयेत् || आधाय वायुनक्षत्रं योगमेवं विचिन्तयेत् | मारुतं चिन्तयेद्देहे ध्यानयोगेन देहिकः || ध्यात्वा वायुं स्वदेहे तु चिन्तयेत् परदेवताम् | नादः संजायते क्षेत्रे वायुना परमेश्वरि || मत्तभृङ्गसमश्चादौ तथा वंशीधवनिं श्रुतः | तदा घण्टास्वनो जातस्तदा मेघस्वनन्ततः | (प्. १२ब्) एवमभ्यसतस्तस्य नास्ति शोकादिदोषजम् | भयं तस्य भवेत् सिद्धिः सर्वसिद्धिरनुत्तमा || नादो भवेत् ततो बिन्दुश्चन्द्रसुर्यात्मकः स्मृतः | बिन्दुं नादात्मकं केचिद्वदन्ति मुनिमत्तमाः || बिन्दुनादात्मकं सर्वं चराचरमिदं जगत् | बिन्दुः पुमान् भवेन्नादः स्त्रीरूपः सर्वसम्मतः || जगतां कारणं नादः कथितः पद्मयोनिना | बिना मैथुनधर्मेण न सिद्धिः स्यात् कथञ्चन || हंसौ तत्र समुद्भूतौ पुंस्त्रियौ तन्त्रसम्मतौ | हंमन्त्रे पुरुषः प्रोक्तः सकारः प्रकृतिः स्मृता || तविमौ सकलं विश्वं व्याप्तौ तत् कुण्डकेन च | तदा तद्भावमाप्नोति तदा सोऽहमिति स्मृतः || स एव परमं ब्रह्म कुटस्थो जगदङ्कुरः | सर्वे देवास्तथावेदा दिग्वाताद्यादरन्तथा || त्रुट्यादिकालकल्पाश्च तत्तद्देवस्तदात्मकः | यस्मिंश्च प्रणयं यान्ति विनाशं जगदीश्वरि || यस्मिन् सृष्टिः सदोद्भूतिर्यस्मिन्नद्यापि जायते | स एवं परमं ब्रह्मसोऽहस्तावेन जायते || सहवर्णो बिन्दुपाथसक्तिवर्णं दिशेस्मुदा | प्रणवं सर्वतन्त्रेषु कथितं पद्मयोनिना || परानन्दमयं ब्रह्म शब्दब्रह्मविभूषितम् | आत्मनो देहमध्ये तु सर्वतन्त्रात्मकं प्रिये || चिन्तयेद्विधिनानेन ब्रह्मविष्णुशिवात्मकम् | जगतां कारणं प्रोक्तं वेदमन्त्रस्य कारणम् || गायत्री प्रणवञ्चैव सर्वतन्त्रेष्वयं विधिः | गायत्री प्रणवस्याथ मन्त्रार्थं ब्रह्मणा पुरा || चतुर्वेदेषु शास्त्रेषु न निष्ठातः पुरोगतः | समाधियोगमेतद्धि कथितं पद्मयोनिना || समाधौ चिन्तयेद्देवीं भूतशुद्ध्यादिकं दिशेत् | न्यासजालं विधायाथ समाधौ पूजयेत् सदा || समाधौ यादृशं कुर्यात् पूजनं जलतर्पणम् | वाह्ये तु तादृशं कुर्यात् शङ्करेण च भाषितम् || || अतः परं कर्मयोगं वक्ष्यामि शृणु शङ्करि | आश्रमं विविधं तत्र कथितं पद्मयोनिना || ब्राह्मणाः क्षत्रिया वैश्याः सर्वतन्त्राधिकारिणः | कर्माधिकारिणस्ते तु सर्व तन्त्राधिकारिणः || ये चान्ये सङ्कराः प्रोक्ता अथ शुद्रा महेश्वरि | ते सर्वे कर्मकर्तुणां सेवकः परिकीर्तिताः || तेषामर्द्धफलं लब्द्धा मोदते दिवि देववत् | न शुद्राय मतं दद्यात् प्रेणवं वेदवाधितम् || न मन्त्रं मन्त्रयोगञ्च तथा मन्त्राङ्गिताः पुनः | न शूद्रेभास्तथा स्त्रीभ्यः प्रदद्यात् साधकः सदा || वलाम्बा यदि वा कुर्यात् सर्वकर्मान्तरं सदा | तदा स्वर्गात् पतन्त्येव रक्षणात् सैकतहर्म्यवत् || देवपुजादिकः कर्म वक्ष्यमि शृणु सुन्दरि | प्रथमं तत्र वक्ष्यामि लक्षणं गुरुशिष्यषोः || सर्वशास्त्रपरो दक्षः सर्वशास्त्रार्थवित् सदा | युवकः सुन्दरः साङ्गः कुलीनः शुभदर्शनः || जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः | पितृमातृहिते युक्तः सर्वकर्मपरायणः || (प्. १३) आश्रमी देशस्थायी च गुरुरेचं विधीयते | शिवान्ते तादृशो ज्ञेयः साधनः सर्वसम्मतः || कथितं यागले पूर्वं तव प्रीत्या निवेदितम् | अथ भक्ष्यं प्रवक्ष्यामि शृणुष्व कमलानने || अन्नं दुग्धं तथा तरुं पायसं पुपसुपकम् | नवनीतं फलान्ये च गुडपायससं युतम् || सर्वाणि फलपुष्पाणि भक्षयेच्च विधानवित् | लसुनं गुञ्जनं निम्बमसुरं शुरणं तथा | जम्बीरं नकुचं कांस्यं अलाबुमयथुं तथा | बीजमांसं तथा मांसं लाकञ्चैव पलाण्डुकम् || आमिषं रक्तश्राकादीन् ताम्बुलञ्च अलातकम् | तालगर्जुनमुषितं दुग्धं ब्रष्टादिकञ्च यत् || कार्षिकञ्चैव षद्भ्रष्टं हविषो परिवर्जयेत् | कुचेलञ्च तथा तैलमाम्लञ्च नखलोमकाः || अभाङ्गमसदालापं हविष्याली विवर्जयेत् | अथ देव्या मतं वक्ष्ये पुष्पाणि शृणु पार्वति || तुलस्यौ पङ्कजौ जात्यौ केतक्यौ करबीरकौ | शस्तानि वश? पुष्पाणि तथा रक्तोत् पलानि च || उत्पलानि नलिन्यानि कह्लारकुसुदानि च | मालती कुमुदाङ्गार-नन्द्यावर्णादिकानि च || पलाशपटलावेड्रेथवलावटकानि च | अलोकोद्तवबिल्वेषु कर्णिकारोद्तवानि च || एतान्यन्यानि तन्त्रेऽस्मिन पुष्पाणि सन्ति वै प्रिये | नानादेशोद्भवानि स्युः सर्वकालोद्भवानि च || दलानि चैव पुष्पाणि दद्यादेवैर्विशेषतः | अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महेश्वरि || शृणुष्व परया भक्त्या मथोक्तं ब्रह्मणा पुरा | कमले करवीरे देवे कुमुदे तूलसीद्वयम् || जातीद्वयं केतकी द्वे कह्लारं? चम्पकोत्पलम् | कुन्दमन्दारपनागपटलानागचम्पकम् || अरुष्करं कर्णिकारं पार्वन्ती नवमल्पिका | सौगन्धिकं सोकवण्डः पलाशाशोकमज्जका || धुस्तुरं वर्जकं निम्बमर्जनं मणिपुरकम् | सिन्धुवारमपामार्गं कालपुष्पं निकामजम् || व्याघ्राटकं दमनकं मरुवकं ततः परम् | लवङ्ग-जल-कर्पुरं तगरञ्च जवां तथा || बिल्वपुष्पं द्रोणपुष्पं कामराजं सुहोडकम् | दलानि करबीराणि जलस्थानि स्थलानि च || गिरिज्यानि देशज्यानि नानापुष्पाण्यतः परम् | कथितं सर्वतन्त्रेषु विश्वसारे विशेषतः || कव्यकारुष्कराख्यामलक डुम्बुरो जम्बुसंज्ञक |? खदिर कृष्णलापा च पुष्पाणः नागरौहिणौ || पलाशप्लक्षमाम्राक विक्षार्जुन विकक्षता | वञ्जुलो विकलः सज्जो बन्धुकपनशार्ककौ || शमई कदम्ब निम्बाम्र मधुगन्धादिनाङ्घ्रिपा | आयुष्कारः श्रीकामश्च कदाचिच्छेदषेन्नहि || ए?षु वृक्षेबु देवेशि शिवः साक्षात् सदा स्थितः | (प्. १३ब्) अथ स्थानं प्रवक्ष्यामि कर्मयोगेन पार्वति || अयोध्या मथुरा माया काशी काञ्ची अवस्तिका | द्वारका च हरिद्वारं तथा गोदावरी प्रिये || सेतुबन्धश्च सरयुः कुरुक्षेत्रं गया तथा | ह्रदं द्वैपायनं नाम सुर्वारुकमतः परम् || रोहिताश्चं शोणभद्रं विष्णोः पाद्यन्वितां गयां | फल्गुञ्चैवोदीची स्थानं कञ्चनञ्च ततः परम् || मानसरोवरञ्चैव तथा विन्धेश्वरं प्रिये | कैलाशञ्च भृण्डपुरं मन्दरञ्च हिमालयम् || चर्मन्नती वेत्रवती बाहू दासुरसा तथा | दशाश्वमेधसम्भूतं प्रयागं पूलहाश्रयम् || यमुनां चन्द्रभागाञ्च गङ्गाञ्च पनसं तथा | जालन्धरं वदरिकां तथाचैव सरस्वतीम् || सङ्केताश्रममित्युक्तं कपिलस्याश्रयं तथा | पुरोबोधं व्यासनीञ्च तथा चैव प्रियम्बदाम् || कामरूपञ्च गोकर्णं वकार्या सहितं प्रिये | गुह्यकन्याश्रनं देवि नटिकालयमेव च || हाटकाचलकञ्चैव एकलिङ्गनदस्य च | गन्धमादनं किम्पुरुषं दुर्गापीठं ततः परम् || पुराणभारतादिनामालयं तुलसीतलम् | गोस्थानं बिल्वमूलञ्च निजखातजलाशयम् || देवताखातकं स्थानं नदीदीरं ततः परम् | देवस्थानं श्मशानञ्च कुलवृक्षस्य मूलकम् || देवतायतनञ्चैव शिवस्याश्रममेव च | अन्यानपि महेशानि भारते यं प्रकीर्तितम् || पुराणे यामले तन्त्रे अन्येषु यत् प्रकीर्तितम् | सिद्धाश्रमं सकलञ्च सप्तसागरकं तथा || गङ्गाद्वारञ्च गङ्गाञ्च गङ्गासागरमेव च | सप्तगोदावरीञ्चैव नारदश्याश्रमं तथा || वेदे रामायणे प्रोक्तं यानि तीर्थानि भाविनि | दीक्षां मङ्गलकार्व्यञ्च शालग्रामान्तिकं दिशेत् || स्थानान्ये तानि देवेशि कथितानि मनीषिभिः | मीक्षामङ्गलकार्येषु सर्वत्र विधिरिष्यते || भैरवं भैरवगणं वान्त्वीशं? पूर्वतोऽर्चयेत् | मन्त्रेणानेन देवेशि प्रणवादिनमोऽन्वितम् || नानोपहारवलिभिर्यावकाद्यैरलङ्कृतम् | ओं तीक्ष्मदंष्ट्रैमहाकाय कल्पान्तदहनोपमः || भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि | गृह्न गृह्न वलिं देव स्वकीयगणसंवृतः || सर्वोपद्रवविघ्नानि नाशय त्वं सुरेश्वरः | यज्ञकुण्डं प्रवक्ष्यामि शृणुष्व कमलानने || कुण्डमष्टविधं प्रोक्तं सर्वतन्त्रसमन्वितम् | चतुरस्रं योनिमर्द्धचन्द्रं त्रास्रञ्च वर्तुलं || षडस्रं पङ्कजाकारमष्टस्रः तन्त्रसम्मतम् | चतुरस्रं चतुकोणं सर्वतन्त्रसमन्वितम् || अर्द्धचन्द्रानभं कुण्डमर्द्धचन्द्रं विदुर्वुधाः | त्रिकोणं त्र्यस्रमुद्दिष्टं सर्वतन्त्रसमन्वितम् || वर्तुलं वर्तुलाकारं षडस्रं षट्कसंयुतम् | अष्टकोणेषुतं कुण्डं अष्टास्रं परिकीर्तितम् || एकहस्तमिते भुमौ कुण्डं कुर्याद्विधानतः | चतुरस्रं भवेत् कुण्डं सर्वतन्त्रसमन्वितम् || (प्. १४) कोणायुतं कुर्यात् सुत्रं षत्तु दीर्घं प्रदृश्यते | तदेव तद्वितस्तं स्यात् सर्वतन्त्रसमन्वितम् || एवं द्वदशकं यावत् तावत् कुण्डं विनिर्मयेत् | कौ पृथिव्यां यदातीनं दृश्यते सुमनोहरम् || तस्मात् कुण्डं समाख्यातं साधकानां हिताय वै | परिमाणमिते भूमौ कुण्डं कुर्याद्विधानतः || कुण्डाणां यादृशं सानं तादृशं खननं स्मृतम् | त्रिसुत्री करणं कुर्यात् मूलमध्याग्रदेशके || सुन्दरं विधिना कुर्यात् साधकस्य मनोहरम् | कुण्डाणां मेखलास्तिस्रः सर्वतन्त्रसमन्विताः || एकाङ्गुलान्तरं कुर्यात् मेखला सुमनोहरा | दशहस्तस्तु यावत् स्यात् तावत् कुर्याद्विधानतः || एकैकाङ्गुलमानेन क्रमेण परिवर्द्धयेत् | मेखला सुरकार्या सा साधकस्य मनोहरा || एकाङ्गुलं द्वाङ्गुलञ्च त्र्यङ्गुलञ्च क्रमेण तु | वर्द्धयेद्विधिनानेन शङ्करेण च भाषितम् || कुण्डस्य सम्मुखे दद्यात् योनिन्तां सुमनोहरम् | योन्यग्रन्तु क्रमेणैव परमात्रेण वर्द्धयेत् || हस्ताद्धस्तान्महादेवि षवद्वितयमानतः | सरन्ध्रं कुरुते योनिं सर्वतन्त्रसमन्विताम् || षावान् कुण्डस्य खननं तदन्तं योनिरन्ध्रकम् | तदन्ते निर्मयेत् पद्मं सुन्दरं सुमनोहरम् || कुण्डमधो तु कुर्वीत खननोऽपि च सर्वतः | किञ्चित् तिर्यक् क्रमेणैव पूर्णमुत्तर्कं पुनः || अश्वश्यपल्लवाकारां योनिं कुर्याद्विधानतः | सुन्दरं सदृशं कुर्यात् यथा दृष्टिमनोहरम् || चतुरस्रं कृते क्षेत्रे सर्वं कुण्डं विनिर्मयेत् | कुण्डन्तु यादृशं कुर्यात् तादृशी मेखला स्मृता || हस्तस्य कथितं मानं चतुर्विंशति चाङ्गुलम् | यवाष्टकैरङ्गुलं स्यात् सर्वतन्त्रसमन्वितम् || कुण्डानां यादृशं मानं खननं तादृशं स्मृतम् | तदर्द्धं वा खनेत् कुण्डं सर्वतन्त्रसमन्वितम् || शतहोमे हस्तमात्रं हस्तमात्रं सहस्रके | अयुते तु द्विहस्तं स्याद् क?स्तं वा परिकल्पयेत् || चतुर्हस्तन्तु लक्षे स्याद् द्विलक्षे द्विगुणं स्मृतम् | षड् हस्तं दशलक्षे स्यात् कोट्यामष्टकरं स्मृतम् || एकहस्तमितं कुण्डमेकलक्षे विधीयते | लक्षन्तु दशकं यावत् तावद्धस्तेन वर्द्धयेत् || दशहस्तमितं कुण्डं कोटीहोमे विधीयते | कलौ नैव महेशानि महायज्ञस्य सम्भवम् || महाहोमे कृते लोका अश्वमेधमवाप्नुयुः | सर्वसिद्धिकरं कुण्डं चतुरस्रं महेश्वरि || पूल्र?प्रदं योनिमुण्दमर्द्धचन्द्रं धनावहम् | शत्रुक्षयकरं त्रास्रं वर्तुलं शान्तिकर्मणि || षडस्रं मारणे प्रोक्तं पुष्टिदं पद्ममुत्तमम् | रोगोपनाशनं कुण्डं चतुरस्रं महेश्वरि || * * * * * * * * मष्टास्रं सर्वसम्मतम् | विप्राणां चतुरस्रञ्च राज्ञाञ्च वर्तुलाकृतिः || वैश्यानामर्द्धचन्द्रं हि सर्वतन्त्रसमन्वितम् | चतुरस्रन्तु सर्वेषामिति * * * सरसम्मतम् || कुण्डस्य रूपं जानीयात् परमं प्रात *र्वपुः | (प्. १४ब्) प्राच्यां शिरः समाख्यातं हृदि दक्षिणसौम्ययोः || कुण्डन्तु उदरं ज्ञेयं योनिपादौ तु पश्चिमे | एवं कुण्डं विजानीयात् सर्वतन्त्रेषु गोपितम् || नित्यं नैमित्तिकं कर्म स्थण्डिले परिकल्पयेत् | बालुकाभिर्विनिर्माय षावदङ्गुलमानकम् || एवं बहूविधं देवि तन्त्रे तन्त्रे निरूपितम् | नानावर्णैश्चित्रवर्णैश्चित्रितं सुमनोहरम् || गुण्डीककण्ठसमायुक्तं मृगपादादिसंयुतम् | वारहोष्ट्रमृगोष्ट्रञ्च गजोष्ट्रकुर्ममेव च || हस्तिकुम्भसमायुक्तं एवं कुर्याद्विधानतः | एवं श्रुवं विजानीयात् मण्डलानि ततः परम् || मण्डलं चतुर्विधं प्रोक्तं सर्वतन्त्रसमन्वितम् | पञ्चाजं नवनाभञ्च सर्वतोभद्रमेव च || लघुसर्वतमाख्यातं सर्वतन्त्रसमन्वितम् | चतुरस्रं कृतं क्षेत्रं समभागसमन्वितम् || पञ्चधा वा चतुर्द्धा वा चतुष्कं मध्यदेहके | सम्भागेन कुर्वीत चतुर्दिक्षु विधानतः || तन्मध्ये विलिखेत् पद्मं सुन्दरं सुमनोहरम् | किञ्जल्कसहितं वेश्यं साष्टपत्रं सकर्णिकम् || पद्माद्वहिर्भवेत् पिठं चतुर्दिक्षु विधानतः | वीथिका पंक्तियुक्तेन भावशोभोपशोभितम् || विधिना विलिखेन्मण्डलं सर्वतन्त्रसमन्वितम् | नानाचुर्णैः पुरषेत् तं विधिना साधकः सदा || रञ्जयेत् पञ्चचुर्णेन मण्डलं सुमनोहरम् | पीतं हरिद्रचुर्णञ्च शुक्लं शालिअसमुद्भवम् || कौशम्भं लवणं प्रोक्तं कृष्णं दग्धपुलाकजम् | अथवा नीलचूर्णं स्यात् कृष्णवर्णमुदाहृतम् || बिल्वादिपत्रजं श्याममित्युक्तं पञ्चवर्णकम् | नानाचुर्णेन तत् पद्मं रचयेद्विधिनामुना || कर्णिकां पीतवर्णेन केशराण्यरुणेन च | शुक्लाअनि पत्रवर्णानि अग्ररक्ता समीरिता || उपशोभा पातवर्णेन सत्वानि श्यामलेन च | अथवा रक्तवर्णेन रचयेत् कर्णिकां सुधीः || यत्र तत्र यथास्थाने पद्मं तत् रचयेत् क्रमात् | सुन्दरार्थमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् || पीन्तु? तत्र संप्रोक्तं पद्मानि शुक्लसम्भवम् | द्वाराणि शुक्लवर्णानि शोनरक्ता समीरिता || उपशोभा पीतवर्णा कोणानि अरुणानि च | पीठादनन्तरं दद्याल्लतिका कल्पसंज्ञका || नानवर्णेन सा कार्या फलपुष्पसमन्विता | सर्वत्र समभगेन मण्डलं रचयेत् सुधीः || सर्वाणि दृश्यते यस्मात् तन्त्राणि सुमनोहरम् | राक्षसं पूजयेत् पूर्वे वास्त्वधीशं विशालधीः || कृतेन येन मन्त्रज्ञो दीक्षायाः फलमश्नुते | राक्षसं वास्तनामानं हत्वाधिष्ठाय तत्तनुम् || घोरदंष्ट्रं महाकायं पिङ्गाक्षञ्च त्रिलोचनम् | कपालखट्टाङ्गधरं स्वकीयगुणसंयुतम् || गुजयेद्गन्धपुष्पाद्यै रक्तमांसादिसंयुतः | तस्याज्ञाञ्च पुरा कृत्वा वास्तुयागं विधीयते || सर्वतो भद्रकं नाम कथितं पद्मयोनिना | उपशोभां परित्यज्य लघु सर्वत्र नामकम् || (प्. १५) चतुरस्रं भुवं कृत्वा समभागेन देशिकः | नवपद्मं लिखेत् तत्र विधिनानेन पार्वति || सुन्दरं सदृशं कुर्यात् नानावर्णेन देशिकः | नवलाभमिदं प्रोक्तं मण्डलं सर्वसिद्धिदम् || चतुष्कोणे दिशि मध्ये लिखेत् पद्मं सुलक्षणम् | पञ्चनाभमिदं प्रोक्तं मण्डलं सुमनोहरम् || येन तेन प्रकारेण देवपुजाविधानके | अवश्यमेव कर्तव्यं मण्डलं विधिनामुना || तदा भवति सा देवी सुप्रीता भवसुन्दरी | सर्वतो दृश्यते भद्रं सर्वतोभद्रसंज्ञकम् || नानाचूर्णेन संयुक्तं मण्डलं सर्वतन्त्रके | अथ वक्षो महेशानि वास्तुयागं सुशोभनम् || सर्वमङ्गलकार्येषु वास्तुयागं देशेत् पुरा | पृथिवीं प्रणमेदादौ मन्त्रेण नेन देशिकः || ओं सर्वरत्नसमकीर्णे वसुधे सिन्धुमेखले | सिद्धिं देहि जगन्मातः सर्वभीष्टफलाप्तये || चास्तयागं विनाअ देवि न कर्म किञ्चिदाचरेत् | चतुरस्रं भुवं कुर्यात् समरेखा शिता शुभा || कर्णसुत्रमिदं दद्यात् समभागेन देशिकः | नानावर्णैः समारेखा सुन्दरी सुमनोहरा || रञ्जरेत् पञ्चवर्णेन विधिनानेन देशिकः | पूजयेत् तत्र तान् देवान् यथा भागेन देशिकः || यथोक्तविधिना देवान् यथास्थाने च देशिकः | पूजयेद्विधिनानेन गन्धपुष्पादिचन्दनैः || नालोपहारवलिभिर्न्नानान्नैः पुपशृपकैः? | पूजायद्विधिना धीमान् धूपदीपान्नवारिभिः || ब्रहाणं पूजयेत् तत्र मध्यकोष्ठचतुष्टये | दिक्चतुष्.के तु पूर्वादि पूजयेद्विधिना ततः || पूजयेत् परया भक्त्या सर्वकार्यार्थसिद्धये | द्वौ द्वौ कृत्वा यजेद्देवि सर्वसिद्धिफलाप्तये || अर्चयेद्दिक्षु पूर्वादि क्रमतो विधिना त *? | देवसाधकयोर्मध्ये तत् सर्वं कथितं प्रिये || अर्यामनं विवस्तन्ता? तथा मित्रमहाधवम् | पूजयेद्विधिना पूर्वं यथोक्तेनैव साधकः || वह्न्यादि कोणार्द्धद्वन्द्वेषु पूजयेत् परितः सुधीः | सावित्रां सवितारञ्च् शुक्रमिन्द्रयमं पुनः || रुद्रं रुद्रवनञ्चैव आपं आप्यापवत्सकम् | तत् कर्णसुत्रस्यो भयतः कोष्ठेषु परितः पुनः || पूर्वादिषु क्रमेणैव पूजयेद्विधिनामुना | सर्वं शुद्धं चार्यामनं जम्भकं निपिपित्सकम् || अर्चयेद्दिक्षु पूर्वादि ततः कोष्टावसारके | ईशानाद्यैरपर्जन्यो जयस्तः शत्रुभाष्करः || सद्योवृवान्तरीक्षश्च ततः पूर्वे यजेत् सुधीः | अग्निपुषा च वितथो यमश्च ग्रहरक्षकः || गन्धर्वभुण्डराणौ? च मृगश्च दक्षिणे यजेत् | निमति द्वौवारिकश्च सुग्रीववरुणस्तथा || पुष्पदन्ता सुरेशेय रौगौप्रताग्दिशिस्तिता? | वायुर्नागश्च मुख्यश्च सोमो भलाट एव च || मङ्गलाध्यो दित्यदिती सोमस्य दिशि संस्थिताः | (प्. १५ब्) एवं बहूविधानेन गन्धपुष्पान्नावारिभिः || पूजयेत् परया भक्त्या ब्रह्मणा भाषितं पुरा | नानावर्णैश्चित्रवर्णैश्चित्रितं मणिमण्डलम् || वितानपत्रमालादौ र *?ङ्कुर्याद्विधानतः | पताकाभिर्ध्वजं कुर्याच्चतुर्दिक्ष मनोहरम् || अष्टौ कुम्भानष्टदिक्षु मण्डपे रचयेत् सुधीः | आचार्याकुण्डं कुर्वीत मधो विदिविधानतः || जाताङ्कुराणि कुर्वीत तत्र तत्र चतुर्दिशि | पालिका पञ्चमुख्यश्च सवविश्च ततः क्रमात् || षोडशद्वादशाष्टाभिरङ्गुलीषु क्रमादिमाः | सुगन्धितोयपुर्णेन जाताङ्कुरमुदाहृतम् || सुधावीजेन बीजानि निःक्षिपेत् तत्र सर्वतः | आचार्यं विधिना कुर्यात् सर्वशास्त्रार्थपारगम् || श्यामाकमायकन्धुश्च ब्रीहयः सर्वसम्मताः | दीक्षायाः सप्तमे पूर्वदिवसे संयतः सदा || सप्तरात्रिषु कूर्वीत पूजनं सर्वदेवताः | नानोपहारवलिभिः पूजयेत् परमेश्वरीम् || प्रणवाद्यैर्नमोऽन्तैश्च पूजयेत् परमेश्वरीम् | भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हविः || क्रमेण पूजयेत् सर्वान् सप्तरात्रिषु देशिकः | सप्तानामपि रात्रीणां देवता सर्वसम्मता || उपहारैः पूजयेत् तान तानि वक्ष्यामि पार्वति | लाजाभिः पूजयेद्भूतान् गन्धपुष्पादि चन्दनैः || भूताधिपं भूतगणं भूतेशञ्चा क्र्मेण तान् | ति?लहरिद्रादधिशक्तुभिः पूजयेदुपहारकैः || तण्डुलान् तिलसंमिश्रान् सान्नपुष्पैः प्रपूजयेत् | पितॄणां पूजयेन्नित्यं कथितं पद्मयोनिना || करम्भजालायक्षेभ्यो नारिकेलोदकान्वितम् | गुडेदेकं गुडान्नञ्च नानारससमन्वितम् || दधिदुग्धं पायसान्नं यद्यच्च प्रियता महत् | विष्णवे विनिवेद्योथ सर्वसिद्धिं लभेन्नरः || तदालोकेश्वरेभाश्च पूजयेत् कर्मसिद्धये | मातृकाः पूजयेत् तत्र गौर्याद्याः सर्वदेवताः || गौरी पद्मा शची मेधा सावित्री विजया जया | देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा || आत्मदेवता कुलदेवता पूजयेत् क्रमतः सदा | गणेशाद्याः पूजयेत् ता क्षमस्वेति क्रमाद्वदेत् || वसोर्धारा तदा देया सर्वविघ्नविनाशिका | पूजयेत् परया भक्त्या द्वारोपरिचरं रुधः || तदा नान्दीयुधश्राद्धं कुर्याच्च विधिनामुना | पितरं पितामहञ्चैव तथैव प्रपितामहम् || जीविते पितरि कुर्यात् श्राद्धं तत् पितृपूर्वकम् | मातामहं प्रमातामहं वृद्ध प्रमातामहन्ततः || षट्पिण्डं प्रक्षिपेद्देवि अनुद्दिश्य स्वशक्तितः | नामगोत्रानुरोधेन श्राद्धं कुर्याद्विधानतः || देवता पूर्वकं श्राद्धं कुर्यान्नान्दीमुखं पुनः | पुरोरवोमाद्रवसौ सर्वकार्येषु देवताः || सर्वदेवक्रमेणैव श्राद्धे दद्याज्जलाञ्जलिम् | पुण्याहं वावयित्वा च सर्वकर्मसमुद्दिशेत् || (प्. १६) सर्वत्र सर्वकार्येषु गणेशघटपूर्वकम् | गणेशं सवितारञ्च शिवमतः परम् || विष्णुञ्च पूजयेद् यत्नात् सर्वकार्यार्थसिद्धये | लक्ष्मीं सरस्वतीं गङ्गां यमुनां विघ्ननाशिनीम् || दिक्पालान् दिग्गजान् देवान् ऋषीन् मणिगणांस्ततः | वासराणि तिथिर्योगान् करणानि च पार्वति || पूजयेत् परया भक्त्या सर्वतन्त्रसमन्विता | तदग्निं प्रज्वलेत् कुण्डे विधिनानेन देशिकः || पूर्वोक्तकुण्डवर्गेषु क्रमेणैव सुसाधकः | प्रज्वलेद्विधिना वह्निं मन्त्रवाचनपूर्वकम् || मूलमन्त्रेण तं कुण्डं संकुर्याद्विधिनामुना | यस्य लोकस्य यं मन्त्रं दद्याच्च विधिना गुरुः || तं मूलमन्त्रं विज्ञेयं सर्वतन्त्रसमन्वितम् | अथवा कथयष्येऽहं शृणुष्व कमलानने || कवचेनास्त्रेमन्त्रेण तं कुण्डं खननं स्मृतम् | प्रोक्षयेत् तच्चरणेनैव सर्वतन्त्रसमन्वितम् || पान्तं हलटसमायुक्तमन्त्रमन्त्रं विदुर्बुधाः | शिवबीजं समुद्धृतय षष्ठस्वरसमन्वितम् || बिन्दुनादसमायुक्तं कवचं परिकीर्तितम् | मायाबीजञ्च तं बिद्यां महाकालवचो यथा || मायाबीजेन अस्त्रेण समं कुर्याद्विधानतः | लज्जाबीजेन तं कुण्डं लेपनं परिकीर्तितम् || शान्तं वह्निसमायुक्तं नादबिन्दुविभूषितम् | लज्जाबीजमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् || मायाबीजेन अस्त्रेण तं कुण्डं सेचयेत् ततः | तत्र रेखा प्रकर्तव्यास्तिस्रः तिस्रः क्रमेण ताः || प्रागग्रा उदगग्रास्तः सर्वतन्त्रसमन्विताः | यावान् कुण्डस्य विस्तारस्तावान् ताः समभागताः || कुशेन कुशमूलेन समभागेन देशिकः | ताः कुर्व्यान्मूलमन्त्रेण कवचेन तथा प्रिये || अथवा कवचेनैव शिखां कुर्याद्विधानतः | प्रागग्राणां स्मृता देवा मुकुन्देशपूरन्दराः || रेखाणामुदग्राणां ब्रह्मवैवस्वतेन्दवः | पूजयेद्गन्धपुष्पाद्यैः कुण्डाभान्तरदेशके || रेखासु पूजयेद्देवान् ततः षट्कोणमारभेत् | कुण्डस्य मध्ये कुर्वीत षट्कोणमतिसुन्दरम् || तत्रापि पूजयेदग्निमावाहनपूरःसरम् | सर्वत्र प्रणवेणैव कवचेनैव पार्वति || संस्कुर्यात् तथा रेखाः सर्वतन्त्रसमन्विताः | वागीश्वरीमृतुस्नातां ततः सुक्ष्मस्वरूपिणीम् || वागीश्वरसमायुक्तां शृङ्गाररसिकां युताम् | सर्वालङ्कारसंयुक्तामकालजलदोपमाम् || नानोपहारवलिभिः पूजयेद्गन्धचन्दनैः | एवं ध्यात्वा पूजयित्वा तत्राग्निज्वलनं दिशेत् || चतुर्भूजं रक्तवर्णं सर्वलङ्कारसंयुतम् | सुर्याकान्तसमुद्भूतमथवा लोहसम्भवम् || सवानस्योद्भवं वापि पाषाणसम्भवन्तथा | मुखतः संसृजेद्वापि वेदमन्त्रविधानतः || विद्युदग्निसमुद्भूतं यत्नाद्वा आनयेत् ततः | द्विजगेहात् तथानीर अग्निं ब्राह्मणसंयुतम् || संस्कुर्याद्विधिना चैव मन्तेणानेन देशिकः | (प्. १६ब्) कवचं प्रणवाद्यञ्च अस्त्रान्तं मन्त्रमुद्धरेत् || निरस्तं परवारेड प्रक्षिपेद्दक्षिणे सुधीः | क्रव्यादांशस्य त्यागेषु मन्त्रमेनं समुद्धरेत् || शरेण वह्निबीजेन कवचेन महेश्वरि | ज्वालयेत् कुण्डमध्ये च तं वह्निं शुभहेभवे || देनुमुद्रां तदा तत्र दर्शयेद्वह्निमुर्द्धनि | अस्त्रेण रक्षयेदग्निं कुण्डेषु विधिनामुना || कवचेनावगुण्ठ्यापि ततः कुण्डोपरिभ्रमेत् | प्रणवेण परिभ्राम्य वह्निबीजेन पूजयेत् || गन्धपुष्पादिना देवीं तदा वागीश्वरीं प्रिये | क्षालयेन्मनुनानेन वह्निस्तत्र समन्वितः || बिन्दुनादसमायुक्तं सान्तं बीजं समुद्धरेत् | शिवबीजेमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् || तदाग्निं ज्वालयेत् तत्र मन्त्रेणानेन देशिकः | चित् पिङ्गल दह दह पच युग्ममुदीर्या च || सर्वं ज्ञापय जायान्ता वह्नेस्तत्र समन्वितः | चन्द्रबीजं नान्तर्युक्तं मुखवृत्तसमन्वितम् || शिवबीजं तथोद्धृता मुखवृत्तं नियोजयेत् | वह्निजाया समुदिष्टा सर्वतन्त्रसमन्विता || सुवर्णवर्णं द्यायेद्वह्निसाधकसत्तमः | ततोऽग्निः सर्वताङ्गेषु बीजादि विन्यसेत् क्रमात् || मूर्द्ध्नि वज्रं तथा प्राणपायुलिङ्गेषु देशिकः | चक्षुर्युग्मं न्यसेज्जिह्वां वह्नेः सर्वाङ्गसिद्धये || बिन्दुनादसमारूप?सादिवान्तान् क्रमेन तान् | षष्ठस्वरसमायुक्तान् यकारसहितान् क्रमात् || जिह्वा वह्नेस्तु विविधा ब्रह्मणा भाषिता पुरा | सात्वका राजसा चैव तामसा सर्वसिद्धिदा || वह्निमन्त्रेण सर्वत्र विन्यसेत् सर्वसिद्धये | हिरण्या गगणारक्ता कृष्णा च सुप्रभा तथा || बहूरूपा च रूपा च सत्वकर्मसुयोजयेत् | पद्मरागः सुपर्णा च तथा च भद्रलोहिता || लोहिता च तथा श्वेता धूम्र चैव करालिका | रजोगुणयुताः सर्वाः सर्वकार्येषु योजयेत् || विश्वमूर्तिस्फुलिङिन्यो धूम्रवर्णो जरा तथा | लोहिता च करालाख्या काली च तदनन्तरा || क्रूरकर्मणि सप्तैता योजयन्ति विधानतः | जिह्वा स देवता वर्णः शृणुष्व हरवल्लभे || गुणवर्णात्मिका जिह्वा कथिता तन्त्रवेदिभिः | अमराः सर्वगन्धर्व यक्षगन्धर्व पिशाचकाः || साक्षमः सप्तजिह्वानां देवताः समुदीरिताः | पूजयेद्गन्धपुष्पाद्यैः र्धूपदीपावरादिभिः || प्राणप्रतिष्ठां कुर्वीत प्राणमन्त्रेण देशिकः | अष्टोङ्गे चाष्टमन्त्राणां विन्यसेद्देशिकोत्तमः || मूर्द्ध्नि अंशे च कट्याञ्च पार्श्वयोः कटिदेशके | हृदये विन्यसेन्मन्त्रान् सर्वतन्त्रसमन्वितान् || जातवेदाः सप्तजिह्वा हवावाहनसंज्ञकः | अश्वोदरजसंज्ञोऽन्यः पूर्वविश्वनराह्वया || कौमारतेजा स्यात् विमुखस्ततश्चाग्निमुखः स्मृतः | ताराश्रये पदानि स्युर्न तास्ता वह्निमूर्तयः || अङ्गुषादिक्रमेण हि विन्यसेद्विधिनामुना | अङ्गुष्ठा तर्जनी मध्यानामिका च कनिष्ठिकाः || सर्वाङ्गुलिकरद्वन्द्व प्रतिलोमतः परः | (प्. १६) आवाहनादिकं कृत्वा आसनं परिकल्पयेत् || वह्नये नम इत्व्युक्तं आसनं प्रणवादिकम् | तदा ध्यायेच्च तं वह्निं मन्त्रेणानेन देशिकः || रक्षयेत् परतो वह्निं तत्तोयैस्तस्त?वेदिभिः | वह्निबीजेन देवेशि कवचेन शुभेन च || प्रणवेन नमोऽन्तेन फडन्तेन यथाविधि | दक्षिणावर्तयोगेन जलरेखा निवेदयेत् || तथा कुशेषु सर्वत्र चतुर्दिक्षु सुसाधकः | मुलाग्रेण च संस्पृश्य पूर्वाग्रेण विधानतः || स्वदक्षिणप्रमाणेन ततः कुर्यात् परिस्तरम् | कवचेन चतुर्दिक्षु कुशप्रस्तरणं स्मृतम् || सम्मुखं वर्जयित्वा च कथितं पद्मयोनिना | तदा देवीं तदा देवं ततः कुर्याद्विसर्जनम् || क्षमस्वेति च मन्त्रेण सर्ववेदानुसारतः | स्वस्थानं गच्छ देवेशि शक्तियुक्तः सदाशिवः || वैश्वानरं जातवेदं तदा क्रयादिहावहः | लोहिताक्षपदं क्रमात् सर्वकर्माणि साधकः || वह्नेर्जायावधिर्विद्या रेफाद्या सर्वसिद्धिदा | मन्त्रोद्धारमिदं वह्नेर्विंशत्येकोणवर्णकैः || आवाहनस्य मन्त्रोऽयं कथितं पद्मयोनिना | षट्कोणे कुण्डमध्ये च जिह्वास्ताः पूजयेत् क्रमात् || गन्धपुष्पान्ननैवेद्यैर्धुपदीपैर्श्च चन्दनैः | लोकपालानष्टकुन्ते पूजयेत् पूर्वयोगतः || इन्द्रं वह्निं यमं रक्षः वरणञ्च नभःस्वतम् | स्वधान्तं पूजयेदीशं शस्त्रवाहनभूषणम् || ईशाने तत्र ब्रह्माणं नैर्-ऋते सर्पराजकम् | पूजयेदासनेष्वेतान् सर्वकामार्थसिद्धये || कृष्णवर्णं तथा कृष्णं नीलवर्णं ततः परम् | अनन्तं चिन्तयेद्धीमान् वह्नेश्चैव चतुर्दिशि || वज्रं शक्तिं तथा दण्डं खड्गपाशं ततः परम् | धूम्रवर्णं शुक्लवर्णं कृष्णवर्णं ततः परम् || शुद्धवर्णं तथा शुद्धं पूजयेन्मूर्द्ध्नि योगतः | ब्रह्माणं रक्तवर्णञ्च शुक्लवर्णं ततः परम् || अनन्तं चिन्तयेद्धीमन् वह्नेश्चैव चतुर्दिशि | वज्रं शक्तिं तथा दण्डं खड्गपाशं ततः परम् || अङ्कुशञ्च गदां शूलं पद्मं चक्रं ततः परम् | दिक्पालानामिदं प्रोक्तं मन्त्रतन्त्रसमन्वितम् || अस्त्राणां वरवर्णानां वक्ष्यामि शृणु पार्वति | पीतं हिमाभं शुक्लाभं भास्वरं कन्दवर्णकम् || नीलञ्च करबीजञ्च गौरं शुक्लं ततः परम् | ईषद्रक्तं श्वेतारुणं क्रमतः परिकल्पयेत् || पूजयेद्वाहनं तत्र स्वस्थानेन यथाविधि | ऐरावतमजं वाहं नरं मकरमेव च || मृगमश्वं वृषं हंसं कुर्मञ्च देशिकः क्रमात् | मूलमन्त्रेण सर्वत्र कवचेन तथैव च || श्रुवस्य शोधनं कृत्वा इत्तरस्यां दिशिक्षिपेत् | अस्त्रमन्त्रेण तां स्हा?लीं तेनैव संस्कृतं दिशेत् || कुशपत्रद्वयं तत्र मूलमन्त्रेण निःक्षिपेत् | होमार्थं निःक्षिपेत् तत्र घृतं मन्त्रं समुच्चरन् || कुशपत्रद्वयं पश्चाद्धुनेद्वह्नौ विधानतः | (प्. १७ब्) हृदयेनैव मन्त्रेण कथितं पद्मयोनिना || सर्वाङ्गेसंमरेत् तत्र वह्नेः सर्वसमृद्धये | नाडीं प्राणांस्तथा दन्तान् मुखं वा कुक्षिकर्णयोः || गण्डयोरोष्ठयोरग्नेः पायुपस्थं कटिं तथा | नितम्बमुदरं स्मृत्वा जानुयुग्मं कटिद्वयम् || भूजद्वन्द्वं नसिद्वन्द्वं जिह्वा पृष्ठं ततः परम् | स्तनद्वन्द्वं ग्रीवामूलं लोमकूपं ततः परम् || ततो ध्यात्वा घृतं दद्यात् समृद्धये | एभिमन्त्रैर्महेशानि इन्द्राणि विनिमर्द्धयेत् || कवचं प्रणवेनैव अग्निशब्दं ततः परम् | स्वाहान्ता कथिता विद्या अग्नेर्दक्षिणयोगतः || तत्वबीजं समुद्धृत्य सोमाय वह्निवल्लभा | वामलोचनतो दद्यादाहूतिः सर्वसिद्धये || तदाग्नीसोमाभ्यां क्रषात् स्वाहान्ताः सर्वसम्मताः | वह्निबीजं अग्निं ङेन्तं समुद्धरेत् || तदास्विष्टिकृतं क्रयात् स्वाहान्ताः सर्वसम्मताः | तन्मुखे जुहूयाद्धीमान् स्वाहा सर्वसमृद्धये || पूर्वबीजद्वयं स्मृत्वा ङेऽन्तमग्निं समुद्धरेत् | प्रत्येकेन च प्रत्यङ्गं स्वाहान्तं मन्त्रपूञ्जकम् || समुद्धृत्य तदा तद्यात् अग्नेरङ्गसमृद्धये | वह्निबीजेन प्रत्यङ्गे दद्यादाहूतिकं क्रमात् || पुनः पुनश्च जुहूयाद्वह्निबीजेन सर्वतः | प्रत्येकैकाहूतिं दद्यात् सर्वाङ्गोऽपाटने बुधः || मूलमन्त्रेण तत्राग्नौ पञ्चविंशाहूतिः क्षिपेत् | वह्निदेवतयोरैक्यं चिन्तयेद्विधिनामुना || ब्रह्मणे सृष्टिकर्त्रे च तदा दद्यात् प्रजायतेः | ओंकाराद्या नमोऽन्ताश्च स्वाहाशक्तिसमन्विता || इड्यग्निज्वलनं प्रोक्तं महाकालं मतं प्रिये | अथ द्रव्यविधिं वक्ष्ये होमार्थं मानसंयुतम् || कर्षमात्रं घृतं प्रोक्तं तन्मानन्तु पयः स्मृतम् | पञ्चामृत`न्च तन्मानं तत्समं मधुदुग्धयोः || गव्यं यत् तत् समानं स्यात् लाजाद्यामुष्टिसम्मता | ब्रीहयो मुष्टिमात्राः स्युन्तद्विकारस्तथैव च || गुडादिकं पलार्द्धं स्यात् सर्वतन्त्रसमन्वितम् | फलमेकैकं संस्निग्धं पत्रं पुष्पं तथैव च || वृहत्फलं खण्डखण्डं यथोक्तं प्राह संयुयुतम् | अनुग्राससमं कुर्यात् सर्वतन्त्रसमन्वितम् || सुक्तिप्रमाणं लवणं मरिचान्यपि विंशतिः | गुग्गुलं तिन्तिडीबीजं हिङ्गुञ्च तादृशं स्मृतम् || चन्दनागुरुकर्पुरकस्तुर्कस्तुरीकुङ्कुमानि च | सर्वत्र सर्वतन्त्रेषु होममानमुदाहृतम् || अघोरञ्च तदा दद्यात् प्रत्यघोरं ततः परम् | इन्द्राय पदमुद्धत्य इत्तराग्रं पुराक्षिपेत् || षमाष? पदमुद्धत्य पूर्वाग्रं वरुणं तथा | सोमार च ततो दद्यात् सर्वद्वारचतुर्दिशि || दक्षिणावर्तुःयोगेन आसनं परिकल्पयेत् | (प्. १८) तत्रोपरि सदा ध्यायेदिष्टदेवं विधानतः || अथाङ्गहोमसानस्य फलं वक्ष्यामि पार्वति | विअश्यानरं सदा ध्यायेत् समिद्धोमेषु पार्वति || समानमाज्यहोमेषु ध्यायेद्वह्निं विचक्षणः | तन्मुखे जुहूयात् सर्वं होमे सर्वसमृद्धये || कर्णहोमे भवेद्याधिर्नेत्रे कुजोकृतिर्भवेत् | नासिकायां मनः पीण्दा मस्तके धनसंक्षयः || सर्वकार्ययेषु सर्वत्र मुखे होमं दिशेत् सुधीः | अग्नेर्नामानि वक्ष्यामि शृणुष्व कमलानने || काम्यकर्मसु नित्येषु कुर्याद् यत्नेन देशिकः | अग्नेस्तु मरुतो नाम गर्भाधाने विधीयते || चन्द्रमाः पुंसवने ज्ञेयः पौष्टिके शृङ्गनामकः | शीमन्ते मङ्गलो नाम प्रगल्भो जातकर्मणि || नाम्ना वै पार्थिवो वह्निः प्राऽसने शुचिनस्तथा | सत्यनामा च चुडायां ब्रतोद्देशे समुद्भवः || गोमेधे धृर्यनामा च विवाहे योजकः स्मृतः | सर्वत्र सर्वकार्येषु योजको ब्रह्मसम्मतः || देवानां हव्यवाहः स्यात् पितॄणां कव्यवाहनः | अग्नेस्तु तेजसो नाम रौद्रहोमे विधीयते || शान्तिहोमे शिखी नाम उतसर्गे जातवेदसः | भूमौ शुद्धौ हसुर्नाम स्वजाते च धनञ्जयः || लक्षहोमे भवेद्वह्निः कोटिहोमे हू?ताशनः | शान्तयर्थे अग्निनामा च वारुणे च हू?ताशनः || विष्णुहोमे हू?तश्चैव कल्याणे भद्र एव च | वह्नेर्नाम इदं प्रोक्तं सर्वतन्त्रसमन्वितम् || अन्येषु काम्यकर्मेषु योजकः सर्वसम्मतः | अथाग्निवर्णं वक्ष्यामि शृणुष्व कमलानने || स्वर्णसिन्दुरवालार्क कुङ्कुमक्षौद्रसन्निभः | सुवर्णरेतसो वर्णः शोभनः परिकीर्तितः || अथ स्वरं प्रवक्ष्यामि वह्नेः सर्वसमृद्धिदम् | भैरवादीन् दहन्तीव्रधवनिरग्नेः शुभावहः || नागचम्पक पुन्नाग पाटला युथिकान्वितः | पूष्पेन्दीवर कह्लार सोऽपि गुग्गुलसद्तवः || पावकस्य शुभो गन्धः सर्वतन्त्रसमव्नितः | प्रदक्षिणस्त्यक्तकम्पश्च्छत्राभाशिखिनः शिखा || शुभदा यजमानस्य राज्यस्यापि विशेषतः | कुन्देन्दुधवलो धूमः सर्वकर्मशुभावहः || कृष्णवह्निगतो वह्निः सर्वनाशं करिष्यति | वायसस्वरसंयुक्तं तत्रायुश्च विनश्यति || श्वरस्वरसमो वह्निः सर्वं नश्यति तत्क्षणात् | पुतिगन्धो भवेद्वह्निः सर्वनाशं करिष्यति || एवं बहूविधं दोषं तन्त्रे तन्त्रे निरूपितम् | सर्वदोषप्रशान्त्यार्थं शताष्टाहूतिकं हूनेत् || वह्निदेवतरोरैक्यं विभाव्य परिचिन्तयेत् | तदा हूनेद्वह्निमुखे देवरूपे विधानतः || अथ चक्रं प्रवक्ष्यामि सर्वतन्त्रसमन्वितम् | सिद्ध्यादिचक्रं वक्ष्यामि शृणुष्व कमलानने || चतुरस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् | (प्. १८ब्) पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु || अकारादि क्षकारान्तं मूलकोष्ठादितः सुधीः | विलिखेत् क्रमयोगेन पूर्वं पूर्वतरेण च || दक्षिणाचतुर्योगेन कोष्ठवर्णान् लिखेत् क्रमात् | येनैव लिखनं कुर्यात् तेनैव गणनं स्मृतम् || सिद्धिः साध्यः सुसुद्धोऽरिः क्रमेण चिन्तयेद्बुधः | पुनः पुनश्च तत्रैव तद्काम यत्र योगतः || तथैव क्रमयोगेन चिन्तयेद्विधिना ततः | दक्षिणावर्तयोगेन क्रमेण गणयेत् सुधीः || सिद्धिः सिध्यति कालेन जपात् साध्यो हूतादिभिः | सुसिद्धाः पोषका ज्ञेया अविलम्बं निकृन्तति || धुस्तुरपुष्पसदृशं राशिद्वादशसंयुतम् | वानं गौरं खुरं गौणं शमी शोभेति राशिषु || क्रमेण भेदिता वर्णः कन्यायं शादयः स्मृताः | अकारादिक्षकारानतान् मेषादिराशियोगतः || मीनान्तं विलिखेत् कोष्ठे वर्णान् देशिकसत्तमः | वामदक्षिणयोगेन तान् वर्णान् विलिखेत् सुधीः || तेनैव गणनं कुर्यात् स्वराशिमिलनं स्मृतम् | स्वनामकाक्षरं यत्र तत्र तं मिलनं स्मृतम् || एकपञ्च नव बान्धवाः स्मृता द्वौ च षट् दशमन्तमेवकाः | वह्निरुद्र मूल षस्तु पोषका द्वादशाष्त चतुरस्रघातकाः || प्राणोभापच्छप्राय रुद्रस्याद्रिरुरुकरम् | लोकलोपच्छ प्राय खलोदयातेषु ते दिता थ || वर्णाः क्रमात् स्वरान्यौ ओर रेवत्यां स्वगतस्तथा | नक्षत्रचक्रमित्युक्तं वर्णमानेन तं लिखेत् || नवकोष्ठ त्रिः क्रमेण विलिखेत् साधकोत्तमः | स्वराशि भावकोष्ठानामनुकुलान् यजेन्मनुन् || जन्ममप्पद् विपत्क्षेमः प्रत्यरिः साधको वधः | मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः || अश्वियमानलो धाता शशिरुद्रादिति गुर्वहिपितृभगार्यमादनकृ?त्वष्टृपवन तथैन्द्राग्नीमित्रेन्दौ निर्-ऋति जलविश्वदेवा हरिस्तथा वासवः वरुणोऽजैकपादोऽहिव्रध्नपुषेति भानाम् || स्व-ऋक्षेण च देवेन मित्रेण राशियोगतः | ऋअक्षस्य मलिनं प्रोक्तं सर्वतन्त्रसमन्वितम् || स्वकुलानाकुल्ञ्च क्रमं वक्ष्यामि शृणु पार्वति | भूतवर्णात्मकं चक्रं स्वकुलान्यकुलं स्मृतम् || भूतात्मकं मन्त्रवर्णं साधकाय निवेदयेत् | स्वकुलं कथितं चक्रं स्वनामाक्षरसंयुतम् || स्वकुलं विभजेन्मन्त्रं नान्यत् कुलं कपञ्चन | अग्नेस्तु वायवो मित्रमन्योन्यसरसम्मतः || यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत् | पार्थिवो वरुणं मैत्रमोग्नेषापि मारुतम् || पार्थिवस्याक्षराणाञ्च शत्रुत्वे मारुतं स्मृतम् | आग्नेयस्यान्तसं शत्रुर्नचभसन्तेज एव च || एतेषामेव सर्वेषामविरोधि च नाभसम् | परस्परविरुद्धानां न कुर्यान्मलिनं बुधः || जलञ्च वह्निवर्णस्य प्रतिकुलं बिदुर्बुधाः | (प्. १९) इन्द्रर्क्षनेत्र रविपञ्च दशर्तुवेद वह्न्यायुधाष्ठनवभिर्गुणितां साध्यान् || दिग्दृगिवश्रुतिगजाग्निमुनिषु वेद षड्वह्निभिश्च गुणितानथ साधकार्णान् | नामाज्झ नादक च वाद्याहूजभुक्तशेषजिज्ञात्वोभयोवधिकशेषमृणं धनं स्यात् || देवताक्षरं कुर्यात् विचारविधिना ऋणी | अन्यथा विपरीतेन तत् सर्वं निष्फलं भवेत् || क्रमेण क्रमयोगेन गृहैरङ्गानि वर्द्धयेत् | इन्द्रार्क्षादि विचार्याथ तन्त्रोऽयं क्रमसम्मतः || षट् षट् षट् शून्यमित्युक्तं त्रिचतुष्कद्वयं ततः | शून्यं ताञ्च ततः शुन्यं त्रिस्तत्रान्ते निवेदयेत् || देवताङ्गमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | द्वौ द्वौ पञ्च हि शून्यं स्यात् द्वावेकः शून्यमेव च || चतुश्चतुस्तपैकञ्च साधकस्याङ्कमीरितम् | अकठमत्रुमेणैव गणनं परिकीर्तितम् || कूर्मचक्रमहं वक्ष्ये जपसिद्धिफलप्रदम् | विना विदारात् तत् सिद्धिं न लभेत् कथञ्चन || वर्तुलं नवकोष्ठञ्च कूर्माकारां लिखेत् सुधीः | हस्तौ पादौ पृष्थमुखकुक्षिपार्श्वयुगे पुनः || पूर्वादिक्रमयोगेन विलिखेत् साधकः स्वयं | नवकोष्ठे लिखेद्वर्णान् पूर्वादिक्रमयोगतः || पूर्वादिक्रमयोगेन विलिखेदष्टवर्गकान् | पञ्च पञ्च पञ्चवर्गः कादिङान्तमिदं क्रमात् || चादि ञान्तं तादिनान्तं टादिणान्तं ततः परम् | पादिमान्तं षादिवान्तं चतुष्कं तदनन्तरम् || शादिसान्तं त्रिभिः कुर्यात् हक्षवर्णौ ततः परम् | वर्गाष्टकमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् || कुक्षिकोष्ठं विनिर्भेद्य नवकोष्ठं विनिर्मयेत् | तत्र पूर्वादिक्रमतः द्वौ द्वौ कृत्वा लिखेत् स्वरान् || * * दिशां पूर्वं पूर्वं कथितं पद्मयोनिना | दिक्षु पूर्वादिविधिना गणनं परिकीर्तितम् || क्षेत्राद्यक्षरकं यत्र तत्र कर्म सुखं स्मृतम् | मुखे सिद्धिप्रदः प्रोक्तं करस्थं स्वल्प?जीविनः || उदासीनः कुक्षिसंस्थः पादस्थो दुःखमेव च | वन्दनोच्चाटनं कुर्यात् पुच्छस्थं सर्वकर्मसु || कूर्मचक्रमिदं प्रोक्तं सर्वसिद्धिफलप्रदम् | रेखाद्वयं पूर्वपरेण कुर्यात् तन्मध्यतो याम्यकुवेरभेदात् || महेशरक्षोऽधिपतिक्रमेण भित्वा तथा वायुहूभाशनेन || अक्लीववर्णान् विलिखेदथादीन् यथाद्यकोष्ठे कडमा भवन्ति | मेषाद्यमालिख्य विधानमेतत् यथाण्डजान्ते तु समर्पणं स्यात् || अत्रापि राशेर्विहितो विचारः पराशरव्यासवशिष्ठमुख्यैः | यथा तु राशेर्गणनं विधानम् पूर्वे महेशानि तथैव चेत् || विना विचारेण यथा भवेच्च न सिध्यते सिद्धिचतुर्युगेषु | षट्चक्रशोधितो मन्त्रो नास्ति संसारमध्यतः || काञ्चनं रजतं वापि दिव्यास्त्रं * विशेषतः | गुरुसन्तोषणं कृत्वा दद्याद्दीक्षां विशालधीः || ऋणादौ परिदीहात्तु जपं कुर्याच्चतुर्गुणम् | (प्. १९ब्) हृदये तु नमःशब्दः शिरसे वह्निसुन्दरि || शिखायै वषडित्युक्त्यं कवचाय हूमीरितम् | वौषट् नेत्रेषु विन्देत सर्वाङ्गेऽस्त्राय फट् स्मृतः || अथ मन्त्रस्य जननं वक्ष्यामि तन्त्रसम्मतम् | यं ज्ञात्वा सिद्धिमन्त्राणामधिपो जायते नरः || मातृकावर्णभेदेभ्यः सर्वमन्त्राः प्रजज्ञिरे | अज्झलैकत्रसंयुक्तं कुटाक्षरमुदाहृतम् || कुटो बीजः प्रकटितः परिभाषासमा स्मृताः | यस्तु कुटः स बीजः स्यात् बीजकुटाक्षरः स्मृतः || मन्त्राः पुंदेवताः ज्ञेयाः विद्यास्त्री देवता स्मृता | स्त्रीनपुंसकान्मानो मन्त्राः सर्वे समीरिताः || पुंमन्त्राङ्गफडन्ताः स्युर्द्विठान्ताः स्युस्त्रियो मताः | न पुंसका नमान्ताः स्युरित्युक्ता मनुना त्रिधा || स्त्रियो वा पुरुषो वापि वर्णास्ते समुदीरिताः | शन्तान्ते त्रिविधा मन्त्रा वश्यशान्त्यभिचारके || अग्निसोमात्मिका मन्त्रा विज्ञेया क्रुरकाम्यया | मन्त्रविद्या विभागेन द्विविधा मन्त्रजातयः || कर्मणो विहिता रान्त्य विषत् प्रायसमीरिता | आग्नेया वयवः सौम्या भूमिष्ठेन्द्वमृताक्षरा || आग्नेया दक्षिणे संस्था सौम्या वामे नियोजिता | सुषुम्नायान्तु ते सर्वे बोधयन्ति मणीषिणः || मन्त्रात्मकन्तु क्षेत्रोऽयं नाड्यो मन्त्रान्तत्मकाः स्मृताः | धातवो मन्त्रसंयुक्ता अन्तःकरणमुत्तमम् || अन्तः करण मन्त्रञ्च वचनानि च मन्त्रयुक् | रात्रिदिवं मन्त्रमयं सर्वतन्त्रमयं जगत् || विना मन्त्रैर्न किञ्चित् स्यात् ब्रह्माण्डे शृणु भाविनि | आगमोक्त विधानेन सर्वं कुर्यादतन्त्रितः || प्रयच्छन्ति फलं सर्वे प्रबुद्धा मन्त्रिणां सदा | च्छिन्नादिदुष्टा ये मन्त्रा पालयन्ति न साधकम् || छिन्नोरङ्गशक्तिहीनः पराङ्मुख उदीरितम् | रधिरो नेत्रहीनश्च कीलितस्तन्तितस्तथा || दग्धस्तम्भश्च भीतश्च मलिनश्च तिरस्कृतः | भेदितश्च केकारवो * * * जीवहीनकः || धूमितो लिङ्गितश्चैव मोहितश्च क्षुधार्तकः | अतितृष्णाङ्गहीनश्च अतिक्रूरस्ततः परम् || अतिकुटस्तथाब्रीडः शान्तमानस एव च | स्थानभ्रष्टो विकलश्च अतिवृद्धस्ततः परः || निस्नेहः पीडितश्चैव वक्ष्याम्येषाञ्च लक्षणम् | यस्यादिमध्यमान्तेषु नीलबीजं स्वराक्रान्तं स एव च्छिन्नः | आदि मध्यावशानभूबीजद्वन्द्वं स एव रुद्धः कथितः | मायात्रषञ्च प्रणवं रेफहीनं यस्य हीनः स कथितः पद्मयोनिना || कामबीजं मुखे माया शिरस्थङ्गुलमेव च | पराङ्मुखं संमन्त्रन्तु कथितः पद्मयोनिना || हूङ्कारो बिन्दुसंयुक्तश्चाद्यन्तमध्य इन्दुबीजविवर्जितः | स एव वधिरो मन्त्रः सर्वसिद्धिविवर्जितः || पञ्चवर्णो मनुर्यस्य रेफार्केन्दुविवर्जितः | नेत्रहीनः सर्वसिद्धिविवर्जिते मन्त्रश्च सः | आदौ मध्ये तथाचान्ते हंसप्रसादवाग्भवः | बिन्दुयुक्तं हकदरं फट्कारं वा तथैव च || अङ्कुशं वा तथा माया नमामि च ततः परम् | स एव कीलितो मन्त्रः सर्वसिद्धिविवर्जितः || एकं मध्ये द्वयं मूर्द्ध्नि षम्मिन्निद्रपुरन्दरौ | न विद्याते समन्त्रं स्यात् स्तम्भितः सर्वसिद्धिविवर्जितः || वह्निराद्यसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि | सप्तधा दृश्यते तन्तु दग्ल? मन्त्रं प्रचक्षते || अस्त्रं द्वाभ्यां त्रिभिः षड्भिरष्टा भिर्दृश्यतेऽक्षरैः | स्तम्भः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः || यस्य मुखे नास्ति माया प्रणवं वा विधानतः | भीतः स कथितो मन्त्रः सर्वसिद्धिविवर्जितः || आदौ मध्ये तथाचान्ते यस्य सान्नचतुष्टयम् | स एव मलिनो मन्त्रः सर्वविघ्नसमन्वितः || यस्य मध्ये दकारो वा कवचं मूर्र्ध्नि दृश्यते | त्रिविधं दृश्यते चास्त्रं तिरष्कृत उदाहृतः || हद्वयं हृदये शीर्षे वषट् वौषट् च मध्यतः | स एव भेदितो मन्त्रः सर्वशास्त्रविवर्जितः || त्रिवर्णो हंसहीनो यः स सुषुप्त उदाहृतः | मन्त्रो वाप्यथवा विद्या सप्ताधिकदशाक्षराः || फट्कारः पञ्चकादिर्यो मदोन्मत्त उदाहृतः | सप्तदशाक्षरा मन्त्राश्चास्त्रमन्त्रं सदा प्रिये || मूर्च्छितः कथितो मन्त्रः सर्वसिद्धिविवर्जितः | पञ्चफट् यस्य मन्त्रस्य विरामस्थानसंयुतः || कृतवीर्यः स कथितो नास्ति तस्य प्रयोजनम् | सप्तवर्णो भवेद्वाणः कुमारोऽष्टाक्षरः स्मृतः || षोडशार्णो युवा मन्त्रः सर्वसिद्धिविवर्जितः | चत्वारिंशल्लिपिर्यस्य प्रौढः स परिकीर्तितः || आदौ मध्ये तथा चान्ते चतुरष्कयुतो मनुः | स एव छीनमन्त्रः स्यात् तथा चाष्टादशाक्षरः || त्रिकोणविंशो यो मन्त्रस्तावद्वर्णसमन्वितम् | हृल्लेखाङ्कुशबीजाढ्यं प्रध्वस्तस्त्वं प्रचक्ष्यते || द्वाविंशत्यक्षरी विद्या माया कामविवर्जिता | ध्वस्तरूपा च सा विद्या सर्वसिद्धिविवर्जिता || मूर्च्छिता कथिता विद्या मन्त्राणां हानिकारिणाम् | त्रिंशद्वर्णश्चतुः षष्टिवर्णो मन्त्रः शताक्षरम् || चतुःशताक्षरश्चापि वृद्धः स परिकीर्तितः | नवाक्षरो ध्रुवयुतो मनुर्नित्रिंशदैवतः || यस्यावसाने च हृदयं शिवौ मन्त्रो च मध्यतः | शिखावर्म संयुक्तं वषट् वौषट्कार एव च || शिवशक्त्यर्णहीनो वा स निर्बीज उदाहृतः | एषु स्थानेषु फट्कारः षोढा यस्मिन्न विद्यते || स मन्त्रः सिद्धिहीनः स्यात् सर्वतन्त्रविवर्जितः | द्विवर्णं सत्वहीनः स्यात् चतुर्वर्णस्तु केकरः || षडक्षरो बीजहीनस्तच्च सप्ताक्षरो मनुः | सार्द्धद्वादशवर्णोऽपि धुमितः सत्वनन्दितः || सार्द्धबीजस्त्रयस्तद्वदेकविंशतिसंज्ञकः | विंशत्यर्णस्त्रिंशवर्णो यः स्यादाल्लिङ्गितः स्मृतः || द्वात्रिंशदक्षरो मन्त्रो मोहितः परिकीर्तितः | चतुर्विंशति मन्त्रोऽयं सप्तविंशतिवर्णकः || क्षुधार्तः स तु विज्ञेयः सर्वतन्त्रविवर्जितः | चतुर्विंशतिवर्णो यः सप्तविंशति संज्ञकः || एकादशाक्षरो वापि पञ्चव्ंशति वा प्रिये | एषोविंशति वा वर्णः स मन्त्रस्त्वङ्गहीनकः || षड्विंशत्यक्षरो मन्त्रः षड्विंशदर्णकस्तथा | त्रिंशदेकोणवर्णो वा अङ्गहीनः स एव च || अष्टाविंशत्यक्षरो य एकविंशदथापि वा | अतिक्रूरं सविज्ञेयो निन्दितः सर्वकर्मसु || पञ्चषष्ठाक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः | एकोणशतपर्यान्तं पञ्चषष्ठाक्षरादितः || ते सर्वे विफला ज्ञेया शतं सार्द्धं शतन्तु वा | शतद्वयं त्रिनवतिरेकहीनाथ सापि वा || यावत् शतत्रयं संख्या निःस्नेहास्ते प्रकीर्तिताः | चतुःशतान्यथावच्च यावद्वर्णसहस्रकम् || अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्जितः | सहस्रार्णाधिका मन्त्रा दण्डकापीडिताह्वया || द्विसहस्राङ्ग वा मन्त्राः खण्डशः शतधा कृताः | ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः || तथा विद्याश्च बोद्धव्या मन्त्रभिः काम्यकर्मसु | दोषान्वितमविज्ञाय यो मन्त्रं भजते बुधः || सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि | यदा दोषमविज्ञाय मन्त्री विद्यां भजेन्नरः || सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि | छिन्ना दुष्टाश्च ये मन्त्रा तन्त्रे तन्त्रे निरूपिताः || ते सर्वे शोधमायान्ति मातृकार्णप्रभावतः | मातृकार्णं पुटीकृत्य मन्त्रविद्यां विशेषतः || शतमष्टोत्तरं पूर्वे प्रजपेत् फलसिद्धये | तदा मन्त्रो महाविद्या यथोक्तफलदो भवेत् || मातृकापुटिते कृत्वा मध्ये वर्णान्निधाय च | मन्त्रान् वर्णान् ततः कुर्याद् बोधनं सर्वसम्मतम् || योनिमुद्रां विधायाथ प्राणायामपुरःसरम् | ब्राह्मणान् भोजयेदादौ शतमष्टोत्तरं प्रिये || तदाहूनेन्महेशानि द्रव्याणि विधिनामुना | गुडत्वकं हूनेदादौ शतमष्टाहूतिं प्रिये || लाजान् हूनेत् तदा देवि शतमष्टोत्तरः हूतीः | नानासुगन्धिद्रव्याणि शतमष्टोत्तराहूतीः || सहस्राष्टोत्तरं तत्र हूनेदाह्यं विधानतः | वस्त्रालङ्कारकं तत्र विभवस्यानुरूपतः || ताम्बूलकर्पुरादिनि यथा विभवयोगतः | सुवर्णं रजतं गाञ्च आचार्याय निवेदयेत् || तदा भवेन्मन्त्रसिद्धिः सर्वतन्त्रमन्वितः | एकाक्षरी भूवनेशान्या गणेशस्य शिवस्य च || विष्णुरेकाक्षरञ्चैव सुर्यास्य प्रणवस्तथा | श्रीरामस्य तथा वह्नेः सिद्धिविद्यादयश्च ये || तेषां ग्रहणमात्रेण सिद्धादिदुषणं नहि | मोहाद्वा यदि वा दैवाच्छोधयेदात्मशुद्धये || देवता जायते सैव लङ्करस्य मतेन च | अथ दीक्षां प्रवक्ष्यामि श्र्णुष्व कमलानने | यस्य विज्ञानमात्रेण देवत्वं लभते नरः | दिव्यज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः | तस्याद् दीक्षेति सा प्रोक्ता सर्वतन्त्रसमन्विता | (प्. २१) चतुर्विधा तु सा दीक्षा ब्रह्मण भाषिता पुरा || क्रियावती वर्णमयी कलावती वेधमययपि | ताः क्रमेणैव कथान्ते सर्वस्म्पत् प्रदाः शुभाः || गुरोर्निमन्त्रणं कुर्यात् पूर्वेद्युः साधकः सदा | वस्त्रालङ्कारस्वर्णैश्च गोभिश्चैव विधानतः || छिन्नादिमन्त्रविद्यासु महाविद्यामहासु च | शोधनञ्च न कुत्रापि शङ्करस्य मतेन च || छिन्नायां कालिकायाञ्च सुन्दर्यास्त्रिपुरा तथा | उग्रतारापि विद्यासु तथा एकाक्षरीषु च || यक्षिणी गणमन्त्रेषु विष्णुमन्त्रगणेषु च | नारसिंहेषु मन्त्रेषु माहेशे गाणपतेषु च || विशेषतो देवीमन्त्रे क्वचिद्दोषो न जायते | कलौ चण्डी नृणां हेतौ शिवस्थानं विसुज्य च || पृथिव्यां निजवृन्देषु विचारात्तु न संशयः | विधिना स्नान मुन्दिश्य कुर्यात् पौर्वाह्निकीं क्रियाम् || नदीं वा देवखातं वा दीर्धिकां सागरन्तथा | गङ्गाद्याः सरितः सर्वा स्थानेषु शस्यते बुधैः || काश्यादिसर्वतीर्थाणि भारते यानि सन्ति वै | तानि स्नाने प्रशस्येत सर्वपापहराणि वै || परधाते तु कर्तव्यः पञ्चपिण्डोद्भाद्धरो बुधैः | उत्तिष्ठोत्तिष्ठ पङ्क त्वं त्यज पुण्यं परस्य च || पापाणि मे विनश्योथ शान्तिं देहि सदा मम | गङ्गे च यमुने चैव गोदावरि सरस्वति || नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु | ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते वरेः || तेन सतोन मां देवि तीर्था *? देहि दिवाकर | श्रेयो व्रतानि तीर्थानि सुर्यारश्मि स्थितानि च || अत्रागत्य अवः हित्वा सर्वसिद्धिं प्रपच्छ मे | चतुरस्रं विनिर्माय तत्र स्नानं दिशेत् सुधीः || मृद्गोसरञ्च गङ्गाञ्च मक्षयित्वा विधानतः | स्नानं कुर्वीत विधिना महाकालवचो यथा || ओं अश्व क्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धते? | मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतं || ऊद्धृतासि ववाहेण कृष्णेन शतवाहूना | नमस्ते सर्वभूतानां प्रभवारिणि सुव्रते || आरुह्य मम गात्राणि सर्वपापं प्रमोचय | तवा? स्नानं दिशेत्तत्र चतुरस्रे विधानतः || उत्तराभिमुखीभूव? पूर्वाभिमुखमाविशेत् | स्वस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् || तत् पादोदकजां धारां निपतन्तीं स्वमूर्द्धणि | चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् || तदा संक्षालयेत्तोयमन्त्रर्देहगतं मसम् | तत् क्षणात् विरजो मन्त्र भवेदेवं न संशयः || मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च | वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्तितम् || एवं स्नात्वा विधानेन शुचिर्भवति नान्यथा | वृद्धिश्राक्तं ततः कुर्याद् गनेश्व घटपुर्वकम् || ओंकारादि नमोऽन्तेन आवाहनपुरसरैः | गनेशं पूजयेत्तत्र सर्वविघ्नप्रशान्तये || तत्रापि च गृहे पूजा दीक्षास्थाने विधानतः | (प्. २१ब्) हस्तपादौ विशुद्धार्थं शुद्धवस्त्रं पिधाय च || आचम्य विधिना धीमन् द्वारदेवान् ततोऽर्चयेत् | क्षेत्राधीपं क्षेत्रपालं गृहदेवीं ततः परम् || गन्धपुष्पं धूपदीपं नैवेद्यानि निवेदयेत् | एषां पूजां विलङ्घ्याथ न सिद्धिः स्याद् युगे युगे || अग्राणामुपवाराणां कियद्भागं ददेत् पुरा | गणेशं विघ्नराजञ्च लक्ष्मीं दुर्गां सरस्वतीम् || विनायकञ्च वटुकं गङ्गाञ्च यमुनान्ततः | भोगवतीं प्रपूज्याथ वामशाखां स्पृशन् कियत् || गृहं प्रविश्य विधिना तत्तद्विघ्नान् विनाशयेत् | कृताञ्जलि पुटौ भूत्वा मन्त्रमेनं समुच्छरेत् || ओं सूर्यः सोमो यमः कालो महाभूतानि पञ्च च | एते शुभाशुभमोह कर्मणो नरसाक्षिणः || घटस्यारोपणं कुर्यान्मन्त्रेणानेन देशिकः | घटारोपणमन्त्रश्च सर्वतन्त्रसमन्वितः || आवाहयेद्यटे तत्र गणेशं शिवनन्दनम् | पुण्याहं वाचयित्वादौ स्वस्तिवाचनपूर्वकम् || अस्त्राय फण्मन्त्रेण भौमान् विघ्नान् विदुरयेत् | दिव्यदिष्ट्यादिवाविघ्नान् दुरयेच्च चतुर्दिशि || अनिमेषचक्षुषा दृषिर्दिव्यदृष्टिः प्रकीर्तिता | मासभक्तेन चान्नेन यावकेन च संयुतम् || अजाकर्णस्य रक्तेन दुग्धेन मधुरेग? च | पूजयित्वा विधानेन द्वारदेशेन साधयेत् || कवचेनैव बीजेन सप्तकृत्वोजपेन च | निःसार्य विघ्नान् तान् सर्वान् तदा रक्षां दिशेत् पुनः || आत्मानं रक्षयेत् तत्र वह्निप्राचीरयोगतः | वह्निबीजेन चतुर्दिक्षु प्राचीरं भावयेद्धिया || तदा तालत्रयं दद्यात् वह्निबीजेन देशिकः | उर्द्धेर्द्धे क्रमयोगेन गुरुप्रणतिमादिशेत् || ओं गुरुभ्यो नमो नित्यं तदा च गुरुपादुकाम् | परं परं परां परात् परापरमतः परम् || क्रमेण प्रणमेद्धीमन् ओं कारादिनमोऽन्वितान् | गणेशं दक्षिणे नत्वा वम्मुखे? इष्टदेवताम् || गणेशं स्थापयेत् तत्र पूर्वोक्तेन वटे सुधीः | आवाहयामाहं देवं गणेशं शिवनन्दनम् || व्याघ्रचर्मास्वरधरम् कालयज्ञोपवीतिनम् | गणकोट्या परिवृतं देवं मोदकभोजनम् || अविघ्नेशं महाकायं सर्वलोकैकपूजितम् | तमीशं सर्वशास्तार्थं रौद्रमावाहयाम्यहम् || एह्येहि भगवन् देव सर्वविघ्नविनाशक | इमां पूजां गृहाण त्वं सर्वं मे सफलं? कुरु || सिन्दुररक्तपुष्पाद्यैः पूजयेच्छिवनन्दनम् | अञ्जल्यावाहयेदादौ सर्वत्रायं विधिः स्मृतः || स्वागतादि ततः प्रश्नं प्रत्युत्तरसमन्वितम् | आसनन्तु तदा दत्वा पाद्यमर्घ्यं निवेदयेत् || पाद्यं सुवासितं स्वादु सर्वभूतसुधावहम् | दुरयात्राश्रमहरं पाद्यञ्च प्रतिगृह्यताम् || पाद्यं नमः पादमूले स्वाहार्घ्यं शिरसि स्थितम् | मधुपर्कं स्वधान्ते तु पुनराचमनीयकम् || स्नानीयञ्च नमो ब्रूयात् पुनर्गन्धादिकं ततः | (प्. २२) वस्त्रं यज्ञोपवीतञ्च नमोऽन्ते परिकल्पयेत् || अन्नं भक्ष्यं स्वधान्ते तु धूपदीपं स्वधा नमः | क्रमेण निक्षिपेत् तत्र देवाय विधिनामुना || अर्घ्यपात्रे प्रदद्याच्च ततः शृणु वरानने | अर्घ्योदकं भवेच्छङ्खे श्यामार्कयवदुर्वकैः || नानागन्धसमायुक्तं कुशाग्रतिलसर्षपम् | विष्णुक्रान्ता च यवकं शङ्खे अर्घ्यं निवेदयेत् || मूलमन्त्रेण सर्वत्र ओंकारादि नमोऽन्वितान् | काण्डाच्चैवेति मन्त्रेण चार्घ्यं दद्याच्च साधकः || पाद्यमन्त्रेण कुर्वीत तथाचाचमनं पुनः | दद्यात् पुरुषसुक्तेन स्नाननीयं साधकोत्तमः || पुनरचमनं गन्धं गन्धद्वारेति मन्त्रवित् | श्रीश्च तेति च मन्त्रेण पुष्पन्दद्यात् शुभाय च || नानास्वादुसमायुक्तं ब्रह्मत्वफलहेतवे | मया निवेदितं भक्त्या मधुपर्कं गृहाण मे || दध्ना च मधुसर्पिर्भ्यां मधुपर्कं प्रकीर्तितम् | वनस्पतिरसोत्पन्नो गन्धाच्यो गन्ध उत्तमः || आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् | सुप्रकाशो महादीपः सर्वतस्तिमिरापनुः || सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् | प्रक्षालनाय हस्तस्य पश्चात् पात्रं क्षिपेत् सुधीः || प्रदीपावलिभिः कुर्यान्निकटे धूपदीपदौ | शातकुम्भप्रपूर्णेन मण्डपः रचयेत् सुधीः || गणेशं पूजयित्वा च सुर्यं विष्णुं शिवां शिवं | पूजयेद्विधिना तत्र घटे सर्वसमृद्धये || वृद्धिश्राद्धं ततः कुर्यान्मातृकापूजनं पुरा | नमः स्थाने वदें पुष्टिं श्राद्धे नान्दिमुखे बुधः || वसुधारां ततो दत्त्वा दीक्षाकर्म समुद्दिशेत् | गुरुणा स्वेन देवेशि शिष्यः कुर्याद्विधानतः || गुरुणा कारयेत् कर्म शिष्यः सर्वं चरेत् सुधीः | चन्दनागुरुकर्पुरैः र्धूपयेद् यागमण्डपम् || तदा वटं स्थिरीकुर्याद् यावद्दीक्षाविधिर्भवेत् | ओं स्थिरो भवेति मन्त्रेण स्थिरीकरणमुद्दिशेत् || ततः कृताञ्जलिर्भूत्वा मन्त्रमेनं वदेत्ततः | ओं नमो गणेभ्यः इति | मासभक्तवलिन्दद्यात् भूतप्रेतपिशाचके | ओं भूत्यः प्रेताः पिशाचाश्च पाताले भूतले स्थिताः || पर्वताग्रे तथा वृक्षे गृहक्षेत्रादिषु स्थिताः | तुष्टा भवन्तु ते सर्वे मम गृह्नस्त्विमं वलिम् || यावकैरक्तकुसुमैरजामहिषशोणितैः | मत्स्यमांसादिभिभ्रष्टैदुर्गकैश्च विधिनामुना || वलिं दद्याच्च तत्रापि तदा मङ्गसमारभेत् | यज्ञोपवीतमन्त्रेण दद्यात् यज्ञोपवीतकम् || नानारत्नैश्च घटितं विश्वकर्मादिनिर्मितम् | सर्वाङ्गशोभाभरणं गृहाण फलहेतवे || अत्र विष्णोर्मतेनैव विघ्नानान्तु पुनर्वलिम् | अन्यत्र मूलमन्त्रेण सर्वं दद्याद्विधानतः || ओंकारादिनमोऽन्तेन दद्याद् वा शिवसम्मतम् | कुर्चमुष्टिं क्षिपेदादौ फट्मन्त्रेण सुसाधकः || तिलान् कुशान् श्वेतसर्षपान् कुर्चमुष्टिः प्रकीर्तिता | विकीरान् प्रक्षिपेच्चैव सप्तजप्तान् परात्मना || लाजचन्दनसिद्धार्थयवदुर्वाकुशाक्षताः | विकिरा इति निर्दिष्टाः सर्वविघ्नविनाशकाः || अष्टदिक्षुचाष्टकुम्भान् रक्षार्थतोषपुरितान् | ब्राह्म्यादि मातॄः संपूज्य सर्वतन्त्रसमन्विताः || ध्यात्वैता विधिनानेन गन्धपुष्पान्नवारिभिः | दण्डकमण्डलुधरमक्षसुत्राभयन्ततः || विभ्रती कनकच्छायां ब्राह्मी कृष्णाजिनोज्ज्वला || १ || शूलं कपालं परुशं मृगपोतं मनोहरम् | वहन्ती हिमशङ्काशा ध्येया माहेश्वरी शुभा || २ || अङ्कुशं दण्डखट्टाङ्गौ पाशञ्च दधती करैः | ध्येया बन्धुकसङ्काशा कौमारी शर्मदायिनी || ३ || चक्रं घण्टां गदां खड्गं विभती सा मनोहरा | तमालश्यामला ध्येया वैष्णवी शर्मदायिनी || ४ || मुषलं कारवालञ्च खेटकं दधती फलम् | करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः || ५ || अङ्कुशस्तोमरं विद्युत् कुलीशौ विभ्रती करैः | इन्द्रनील निभेन्द्रानी ध्येया सर्वसमृद्धिदा || ६ || शूलं कृपाणं नृशिरः कपालं दधती करैः | मुण्डसृङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ || अक्षस्रजं बीजरूपं कपालं पङ्कजं करैः | वहन्ती हेमशङ्काशा महालक्ष्मीर्हरिप्रिया || ८ || एवं संपूजा विधिना तदा कुर्वीत मङ्गलम् | द्विज स्त्रीणां ब्राह्मणानां आशीर्वादं प्रगृह्या च || जयशब्दैर्ब्रह्मशब्दैर्ब्राह्माणान् परितोष्य च | बन्धुवर्गान् प्रतोष्याथ अधिवासं ततो दिशेत् || मन्त्रेणानेन द्रव्येण क्रमेण साधकोत्तमः | अधिवासं प्रकुर्वीत शिवस्य सावधानतः || ओंकारं पूर्वमुच्चार्या नमोऽन्तेन समर्पयेत् | भूरसीति च मन्त्रेण मृत्तिकां प्रक्षिपेद् गुरुः || गन्धद्वारेति मन्त्रेण गन्धं ददात् तु देशिकः | प्रपर्वतस्य वृषभस्य पृष्ठान्नावंश्चरन्ति च यानि च ईशानान्ता आववृत्तन्नधराण्डदक्ता अहिब्रध्नमनुरीषमाणाः || मन्त्रेणानेन देवेशि शिलान्दव्याद्विधानतः | विष्णोर्विक्रमण विज्ञोर्विक्रान्तमसि वैष्णवमसि वैष्णवे धानां स्यान्मन्त्रेण धान्यं सर्वतन्त्रसमन्वितम् || ओं काण्डादिति च मन्त्रेण दुर्वान्दद्यात् विधानतः || ओं श्रीश्च त्ति च मन्त्रेण पुष्पं दद्यात् शिरोपरि || ओं या कलिनीति च मन्त्रेण फलं दद्याच्छशोः? शिरे || ओं घ्वतवती भूवनानामभिश्रियोर्वी पृथ्वीमधुदुघे सुपेससा | द्यावा पृथिवी वरुणस्य धर्मणा विष्कभिते अजार? भूरिरेतसा || मन्त्रेणानेन घृतं दद्याच्छिशोः शिरे || स्वस्ति न इति मन्त्रेण स्वस्तिकञ्च निवेदयेत् || ओं सिद्धोरिवेति सिन्दुवं || ओं लङ्घं वेतीति मन्त्रेण लङ्घं दद्याच्छिशोः शिरे || ओं समिद्धेति च मन्त्रेण कर्जमन्त? निवेदयेत् || (प्. २३) ओं युञ्जन्ति ब्रध्नमरुतं चरन्तं परितस्थु?यः | रोचन्ते रोचनादिवि रोचनां परितो दद्यान्मन्त्रेणानेन देशिकः || अन्नपते अन्नस्य नो देहान् मीवस्य शुष्मिणः | प्रप्रदातारं तारिष उर्जं नो हि द्विपदे चतुस्पदे || मन्त्रेणानेन अन्नस्य स्पर्शनं परिकीर्तितम् | हिरण्यगर्भेति मन्त्रेण काञ्चनं परितो ददेत् || रूपेण वो रूपमाद्यानान्तु वो विश्ववेदा विभजतु | एतस्य पथा श्वेतचन्द्रदक्षिणायतस्त्वन्तरिक्षम् यतस्व सदस्थैः || मन्त्रेणानेन देवेशि रौप्यं दद्याद्विधानतः | असौ य इति मन्त्रेण ताम्रं दद्याद्विचक्षणः || रक्षोहनो इति मन्त्रेण् सिद्धर्थं दत्त्वा दपर्णन्दद्याच्छिष्यस्य मूर्द्धनि | आकृष्णेनेति | मनोज्योतिरिति मन्त्रेण दीपं दद्याद्विधानतः | प्रतिपदसि प्रतिपदेत्वा अनुपदसि अनुपदेत्वा सम्पदसि सम्पदेत्वातेजोसि तेजसेत्वा प्रणस्तवसि संपात्रोसि प्रसन्नं मम कुरु सर्वं देवीचरणयुगलं वन्दनीयम् | अधिवासमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | ततः परदेने शिष्यं स्नात्वाचम्य विधानतः || आशीर्वादं द्विजानाञ्च मङ्गलं स्त्रीसमन्वितम् | गृहं प्रविस्य विधिना कुर्यात् यज्ञेश्व || र्च | घटे च पूजयेद्विष्णुं गन्धपुष्पगुडोदकैः | शालान्नैः पुपसुपाद्यैरावाहनपुरःसरैः | पूजयित्वा हरिं तत्र भूतशुद्ध्यादिकं दिशेत् || गुरुं प्रणस्य विधिना भूतशुद्धिमथाचरेत् | ओं अज्ञानतिमिरान्धस्य ज्ञानाज्ञानपलाकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः | नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे || यस्य वागमृतं हन्ति विषं संसारमज्ञकम् | प्रातःशिरसि शुक्लेऽजे द्विनेत्रं द्विभूत्वं गुरुम् || वराभयकरं शान्तं स्मरेत्तन्नाम पूर्वकम् | एवं प्रणम्याथ पुरा भूतशुद्धिमथाचरेत् || ब्रह्माणं क्षेत्रपालञ्च वास्त्वीशं नैर्-ऋतन्ततः | ईशानादिषु कोणेषु भ्हुतशुद्धिं तदादिशेत् || यमिति वायुबीजेन षोडशेन प्रपूरयेत् | श्वाससंहरणनाड्या सुषुम्नायाञ्च कुम्भयेत् || चतुःषष्ट्या तु तेनैव पापदेहं प्रशोधयेत् | तेन बीजेन विधिना पिङ्गलायाञ्च रेचयेत् || द्वात्रिंशन्मात्रय भस्म श्वासमार्गे शनैः शनैः | एवं वारत्ररं? कृत्वा भूतानां शोधनं स्मृतम् || पूरयेत् प्रतिसोमेन वह्निबीजेन देशिकः | षोडशेन चतुःषष्ट्या कुम्भयेद्रेचयेत्ततः || द्वात्रिंशन्मात्रया चैव दाहनं परिकीर्तितम् | चतुर्विंशप्रपू?ह्याथ तत्वर्णं प्रज?पेत् क्रमत् || शोषणं दहनञ्चैव प्लावनं परिकीर्तितम् | किस्कन्नः? कश्यपश्चैव हिरण्यगर्भस्तथैव च || बीजानां ऋषयः प्रोक्ता ब्रह्मणा कमलेक्षणा | प्राणायामन्ततः कुर्यत् क्रमेण देशिकोत्तमः || सहस्रारे महापद्मे चिन्तयेदिष्टदेवतम् | यथध्यानं यथोक्तेन गुरुमार्गेण देशिकः || (प्. २३ब्) तदा भूतानि तत्रस्थानि सगुणानि विधानतः | स्कामशक्तियुक्तानि वर्णमात्राक्रमेण च || प्रतिलोमेन संहृत्य सतद्वत् धातुसंयुतैः | मुलाधारात् सहस्रारं षट्चक्रक्रमयोगतः || व्युत्क्रमेण विचिन्त्याथ स्हस्रारं यथाविधि | हूंमन्त्रे चाननयेज्जिवं षट्चक्रक्रमयोगतः || ऐक्यं विभाव्य तत्स्थाने मन्त्रमेनं समभ्यसेत् | सोहं मन्त्रं समुच्चार्य सुक्ष्मं ब्रह्म विचिन्तयेत् || तत्क्षणात् निर्मलं देहं निर्दन्द्वं निस्परिग्रहम् | अद्वैतञ्चिन्तयेत् तत्र मनसा भक्तियोगतः || अकारादि क्षकारन्ता वर्णमाला क्रमेण च | चिन्तयेत् श्वासरोधेन पुरकुम्भकरेचकैः || एवं विचिन्त्य तान् सर्वान् ततश्चन्द्रमनुं स्मरेत् | ठान्तं बिन्दुसमायुक्तमर्द्धचन्द्रविभूषितम् || चतुर्द्धा प्रजपेन्मन्त्रं मनसा वायुना सुधीः | इन्द्रबीजं जपेत्तत्वद्धराबीजं ततः परम् || दृढीकृत्य विधानेन धारया सुधया पुनः | तदा सञ्चिन्तयेद्देहं पूर्वोक्तं मातृकामयम् || सकलानादसंयुक्तं सशक्तिसहितन्ततः | पञ्चाशद्वर्णसंयुक्तं महाभूतसमन्वितम् || पञ्चभूतात्मकं देहमनुलोमेन चिन्तयेत् | अतर्यामि ऋधिस्तस्य प्राणाश्च देवताः स्मृताः || वक्षस्थले दक्षः हस्तं दद्याद्यत्नेन देशिकः | पूर्वोक्तप्राणमनुना ऋषिच्छन्दःसमन्वितम् || हंसमन्त्रेण तं प्राणमावाहनमुदाहृतम् | सधाभूनि च सत्वानि इहागत्य सुखं चिरम् || तिष्ठ्यन्तु वह्निजायान्तं मन्त्रमेनं समुद्धरेत् | अकारादि क्षकारान्तं पञ्चाशद्वर्णसंयुतम् || विचिन्त्य मनसा देहं तदा देहौ भवेन्नरः | प्राणायामेन त्रिवृता वलं प्राणेषु निःक्षिपेत् || अकारादि क्षकारान्तैः पूरकुम्भकरेचकैः | प्रतिलोमानुलोमेन विचिन्त्य प्राणमावहेत् || तत् क्षणाद्वीरजो मन्त्री भवेत् साक्षात् सदाशिवः | नृसिंहेनैव बीजेन देहे जीवं विनिःक्षिपेत् || मूलाधारं तदा प्राप्तं जीवात्मानं विचिन्तयेत् | कुण्डलीरूपसंभूता विद्युदग्निसमप्रभा || निर्मला निर्विकारस्था सर्वसिद्धिसमन्विता | तदा तु विन्यसेद्देहे मातृकां वर्णरूपिणीम् || मन्त्रेणानेन तां ध्यात्वा विन्यसेत् सकलां तनुम् | ओं पञ्चाशल्लिपिभिरिति | एवं ध्यात्वा वर्णमालां विन्यसेत् साधकोत्तमः | आदौ न्यसेत् स्वदेहे तु वर्णमालाक्रमेण च || रक्ताद्धिप्तारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासवाणान् | शूलं कपलं दधतीं कराजै रक्तां त्रिनेत्रां प्रणमामि देवीम् || षट्चक्रे विन्यसेद्वर्णान् भूतवर्णविभूषितान् | यथाक्रमेण पत्राणि देवतासहितानि च || यथा स्थाने न्यसेद्वर्णान्मस्तकादिविधानतः | अन्तरे विन्यसेदादौ तदा न्यासेर्वहिर्दिशेत् || मूर्द्ध्न्यादि विन्यसेद्वर्णान् वाह्यस्थानेषु देशिकः | रक्ताम्भोधिस्तपोतोज्वलदरुणसरोजाधिरूढा || कराग्रैः पाशं कोदण्डमिक्षुशरमथगुणमप्यङ्कुशं पञ्चवाणान् | (प्. २४) यिभ्राणासृक् कपालं त्रिनयनविलसत् पीनवक्षोरुहाच्या देवी वालार्कवर्णा भवतु शुभकरी प्राणशक्तिः परा मे || सधातुप्राणशक्त्याथ शक्तियुक्तेन देशिकः | विन्यसेत् परया भक्त्या यथा देवो भवेत् सदा || पाशाङ्कुशं न्यसेत् देहे विधिनानेन देशिकः | पाशबीजं पादयुगे अङ्कुशं मूर्द्ध्नि विन्यसेत् || हृदये शक्तिबीजञ्च विन्यसेद्विधिनामुना | ध्यात्वा देवीं विधानेन साधको यतमानसः || वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् | वालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां हरगेहशालिनीम् || एवं विन्यस्य स्वदेहं तदादिग्बन्धनञ्चरेत् | अस्त्राय फट् मन्त्रेण चतुर्दिक्षु निवेदयेत् || च्छोटिकाभिः क्रमेणैव दशैर्वा द्वादशैः क्रमात् | तदा तु लक्ष मनन्तं पुनः कुर्याद्विधानतः || अघोरास्त्रं चतुर्थ्यन्तं कर्तृकाबीजसंयुतं | चतुर्दिक्षु नियुज्याथ प्राणायामं पुनः पुनः || मूलमन्त्रेण कुर्वीत प्राणायामं विधानतः | त्रिधा चतुर्द्धा तत्रैव पुनः कुर्याश्रिधा प्रिये || पुरकं रेचकं कुर्यत् कुम्भकं विधिनामुना | हृदयादि षडङ्गेषु हृल्लेखां विन्यसेत् क्रमात् || दीर्घस्वरेण सर्वत्र षडङ्गमभियोगतः | पञ्चाङ्गमन्त्रवर्गेषु नेत्रहीनं दिशेद्धिया || कल्पयेदात्मनो देहे धर्मपीठन्ततः परम् | कुर्याच्च कीलकं मन्त्री मन्त्रवर्णेन संयुतम् || आधारादिस्वदेहेऽस्मिन् विन्यसेत् पूर्ववत् सुधीः | तत्वानि विन्यसेद्देहे शिवोक्तानि विधानतः || अध्वयुक्तानि तत्वानि मन्त्रसिद्धिफलाप्तये | कलाध्वाचैव तत्वाध्वा भुवनाधरा च पार्वति || वर्णाध्वा च पदाध्व च मन्त्राध्वा तदन्तरम् | ओंकाराद्यं ङेयुतञ्च नमोऽन्तञ्च यथास्थिति || विधिना विन्यसेत् सर्वं शङ्करस्य मतेन च | निवृत्त्याद्याः कलापञ्च कलाध्वा परिकीर्तिताः || पञ्चभूतस्य स्थानेषु विन्यसेद्विधिनामुना | आकाशात् कण्ठर्यन्तं गगनं विन्यसेत्ततः || आकण्ठान्नाभिपर्यन्तं न्यसेद्वायुं विधानतः | आनाभिमूलपर्यान्तं विन्यसेत्तु विभावसुः || आमुलाज्जानुपर्यन्तं वरुणं विन्यसेत्ततः | आजानोः पादपर्यन्तं धरणीं विन्यसेत् क्रमात् || कलान्यासमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | तत्वाध्वा तु महेशानि बहूधा कीर्तिता बुधैः || षट् त्रिंशत् शिवतत्वानि द्वात्रिंशद्वैष्णवानि च | चतुर्विंशति तत्वानि ब्रह्मतत्वानि पार्वति || दशाधिकं तथा सप्तशिवतत्वानि तानि च | शिवतत्वानि वक्ष्यामि शृणुष्व कमलानने || सदाशिवः शिवशक्तिर्विद्या ईश्वर एव च | पञ्च शुद्धानि शैवेऽस्मिन् कथितानि मनीषिणा || माया कालश्च नियतिः कलाविद्या ततः परा | रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च || (प्. २४ब्) प्रकृतिर्बुद्धिरहङ्कारो मनोज्ञानेन्द्रियाणि च | कर्मेन्द्रियाणि तन्मात्रपञ्चभूतनि यानि च || अशुद्धानि महेशानि कथितानि मनीषिभिः | शिवतत्वानि देवेशि शुद्धाशुद्धानि सर्वतः || शैवनामिह तत्वानां विभागः परिकीर्तितः | विष्णुतत्वानि वक्ष्यामि शृणुष्व कमलानने || जीवप्राणधिरश्चित्तं ज्ञानं कर्मेन्द्रियं तथा | तन्मात्रपञ्चभूतानि हृत्पद्मं तेजसा त्रयम् || वासुदेवः सङ्कर्षणः? प्रद्युम्नश्चानिरुन्धकः | विष्णुतत्वानि सर्वाणि कथितानि मनीषिभिः || पञ्चभूतानि हृत्पद्म इन्द्रियाणि च षट् तथा | गर्वो बुद्धिः प्रधानश्च शिवतत्वानि पार्वति || निवृत्ताद्याः कला पञ्च तदाबिन्दुकला पुनः | नादः शक्तिः शिवश्चैव सदा पूर्वप्रकीर्तितः || आत्मविद्या शिवः शक्तिः शिव एव स्वयं पुनः | सर्वतत्वञ्च तत्वानि शिवायाः परिकीर्तिताः || एवं तत्वानि देवेशि विन्यसेदात्मनस्तनौ | अतलं वितालञ्चैव सूतलञ्च तलातलम् || महातलञ्च पातालमानाभेर्विन्यसेत्ततः | भुर्भुवः स्वर्महर्ज्ञानस्तपः सत्यं ततः परम् || विन्यसेदात्मनो देहे हृदयादिशिखावधि | ईरितो भूवनाध्वेति भूवनानि चतुर्दश || वर्णाध्वेति वदन्त्यर्णान् आदिक्षान्तान्मनीषिणः | वर्णैः सह पदानि स्युर्विन्यसेत् स्वतनौ सदा || मन्त्राणि विन्यसेद्देहे यथास्थानविधानतः | एवं विन्यस्य स्वं देहं कुण्डे वह्निञ्च ज्वालयेत् || पूर्वोक्तविधिना चैव घटे देवीं प्रपूजयेत् | गङ्गातोयाम्बुपूर्णेन ईशाने स्थापितं घटं || तत्रापि पूजयेद्देवीं गन्धपुष्पान्नवारिभिः | नानोपहारवलिभिः खड्गखेतकधारिणीम् || नयनत्रयसंयुक्तामुद्यतकोटिसमप्रभाम् | शिवशक्तिमषीं देवीं सर्वालङ्कारभूषिताम् || शवरूपमहादेव हृदयस्थां सूशोभनाम् | व्याघ्रचर्म परिधानां कुङ्कुमारुणपल्लवाम् || शुष्कमांसां घोरदंष्ट्रां योगिनीगणसंयुताम् | पूजयित्वा महेशानीं हूत्वा च विधिना ततः || ततः परदिने कुर्याद्दीक्षान्तन्त्रविदः सदा | दन्तकाष्ठं तदा दद्याच्छिध्याय नियतात्मने || क्षीणशाखिसमुद्भूतं तिक्ताकुञ्च ततः परम् | द्वादशाङ्गुलमानेन ततः पूर्वमुखः क्षिपेत् || उत्तराभिमुखीभूयदन्तधावनमाचरेत् | दिवसे दक्षिणा मुखो निर्मलेन जलेन वै || ओं अन्नादाय व्युहध्वं सोमराजायमागमत् | समेमुखं प्रमार्ज तु यशसा च भगेन च || तदा न्यास तनुः कुर्यात् पूर्ववत् विधिनामुना | पञ्चगव्यं पाययित्वा शिष्यं दक्षिणदेशतः || वामदेशं समानीय मन्त्रसंस्कारमारभेत् | जननं जीवनं पश्चात् ताडनं बोधनन्ततः || अथाभिषेको विमलीकरणाप्यायने पुनः | तर्पणं दीपनं शुप्तिर्दशैता मन्त्रसंस्क्रिया || मन्त्राणां मातृकामध्यादुद्धारो ज्ञ?ननं स्मृतं | ह्रस्वदीर्घस्वरेणैव विधिना विलिखेद् यतः | (प्. २५) क्रमेण मन्त्रवर्णानामूद्धारं समुदीरितम् | प्रणवान्तरितं कृत्वा प्रत्येकेन जपेद्दश || जीवनं कथितं सर्वतन्त्रेषु परमेश्वरि | मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा || दशधा शृणु देवेशि ताडनं परिकीर्तितम् | अश्वश्यपत्रैर्विधिना सर्वतन्त्रसमन्वितम् || प्रत्येकं वायुबीजेन बोधनं तदनन्तरम् | विलिख्य मन्त्रवर्णानि तद्वर्णे करवीरजैः || यान्तेन बोधनं कुर्यात् बोधनं तदुदाहृतम् | पञ्चविंशतिवारेण तं मन्त्रमभिषेचयेत् || शुभोदकेन दुग्धेन अभिषेकमुदाहृतम् | प्रणवं शिवबीजञ्च चतुर्दशस्वरान्वितम् || त्रिधा निःक्षिप्य मन्त्रस्य मूलान्तेन तथोदरे | प्रजपेद्विधिना मन्त्रं पञ्चविंशतिसंख्यया || विमलीकरणं प्रोक्तं सर्वतन्त्रसमन्वितम् | तारमायारमायोगपुटितेन जपेनमनुं || शतमष्टोत्तरेणैव दीपयेत् साधकोत्तमः | दीपनं कथितं मन्त्रं गोपनं त्वप्रकाशकम् || भद्रस्याप्यथवा भद्रं गुरुवक्त्राद्विलाप्य च | प्राणान्तेऽपि न कुत्रापि प्रकाशमभिधीयते || दशसंस्कारकं कृत्वा ऋषिन्यासादिकृत्य च | पूजयेत् परया भक्त्या घटे तां जलरूपिणीम् || अ आआअर्घ्यादिना प्रपूज्याथ सर्वसिद्धिं लभेन्नरः | सपर्या त्रिविधा प्रोक्ता देवपूजा विधानके || गन्धपुष्पाक्षतयवकुशाग्रतिलशर्षपा | दुर्वाङ्कुरैः क्रमाद्दिव्यैरर्घ्याष्टकमुदाहृतम् || पाद्यं श्यामाकदुर्वाजविष्णुक्रान्ताभिरुच्यते | जातिलवङ्गकक्कोलैरक्तमाचमनीयकम् || विऽऽउस्द्धेन जलेनैव वरमाचमनीयकम् | अर्घ्यपात्रं दिशेत् वामे त्रिकोणमण्डले क्रमात् || तत्र वह्निं प्रपूज्याथ तदा तस्य कला स्मरेत् | धुम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी || सुश्रीः सुरुपा कपिला हव्यकव्यवहा तथा | ओं शङ्खाधाराय नमः | इति त्रिपदीं परिपूजयेत् | अस्त्राय फट् च मन्त्रेण शङ्खं प्रक्ष्याल्य यत्नतः | पूजयेच्छ्ङ्खयोगेऽपि सुर्यस्यैव कलास्ततः || तपिनी तापिनी धूम्रा मरिचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा || एताः कलास्तु सुर्यास्य सुर्यमण्डलसंस्थिताः | ओंकारादि नमोऽन्ताश्च कलाः सर्वाः सुरेशरि || तीर्थमन्त्रेण संपूज्य सोममण्डलतः परम् | अमृता मानदा पुषा तुष्टिः पुष्टीरतिर्धृतिः || शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा | पूर्णा पूर्णामृता कामदायिन्यः सुरसम्भवाः || मत्स्यमुद्रां प्रदर्श्याथ धेनुमुद्रां प्रदर्शयेत् | अङ्कुशन्तु प्रदर्श्याथ सुगन्धिकुसुमं क्षिपेत् || मुद्रान्ता विधिना देवि पश्चाद्वक्ष्यामि यत्नतः | तेनैव विधिना कुर्यात् मुद्रा तन्त्रामुसारतः || सर्पिषा तिलजेनैव दद्याद्दिपं विधानतः | स्वदक्षिणे दीपमुच्चैर्दद्यात् देशिकसत्तमः || मूलमन्त्रं जपेत्तत्र अष्टधा विधिना सुधीः | (प्. २५ब्) मातृकाः प्रतिलोमेन जपेत्तेन क्रमेण वै || मन्त्राङ्गं विन्यसेत्तत्र षडङ्गपरिमाणतः | नैवेद्यं गन्धपुष्पेषु तज्जलं प्रक्षिपेद् यतः || नानाशाल्यादिसम्भूतं गव्यं सन्देशसंयुतम् | नानारससमायुक्तं नैवेद्यं देवपूजने || धूपदीपौ ततः कुर्यात् विधिनानेन देशिकः | धूपन्तु विविधं प्रोक्तं ब्रह्मविष्णुशिवात्मकम् || ब्रह्मात्मकन्तु यद्धूपं सर्वेषां परिकीर्तितम् | अगुरुजिरगुग्गुलुशर्करामधुचन्दनैः || धूपयेदाज्यसंमिश्रैस्ततः सर्जरसैः प्रिये | चन्दनागुरुकर्पुरचोरकुङ्कुमरोचना || जटामांसई कपियुता शक्तिगन्धाष्टकं विदुः | चन्दनागुरुकर्पुरङ्गी?वेवकुष्ठकुङ्कुमम् || जटामांसी सुरमिति विष्णोर्गन्धाष्टकं विदुः | चन्दनागुरुकर्पुरतमालदलकुङ्कुमम् || कुसितं कुष्ठसंयुक्तं शैवं गन्धाष्टकं विदुः | आज्यं दधिमधुमिश्रं मधुपर्कं प्रकीर्तितम् || गोमुत्रं गोमयं क्षीरं दधिसर्पिक्रमेण च | पञ्चगव्यादिकं प्रोक्तं सर्वतन्त्रसमन्वितम् || दधिदुग्धं घृतं दद्यात् नारिकेलोदकं ततः | शर्करादीनि संयोज्य पञ्चामृतमुदाहृतम् || एतानि सोपचाराणि कथितानि मनीषिभिः | प्रधानं षोडशं तत्र दशा च दशकं स्मृतम् || पञ्चोपचारं कर्तव्यं अवश्यं शृणु तत् परम् | विनोपचारैर्या पूजा सा पूजा न प्रसीदति || आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमनं स्नानं वसनाभरणानि च || सुगन्धिकुसुमं धूपदीपं नैवेद्यकन्ततः | क्षौमवासं चन्दनञ्च उपहारस्तु षोडश || पाद्यमर्घ्यमाचमनं मधुपर्कः पुनर्जलम् | सुगन्धिकुसुमं धूपदीपं नैवेद्यचन्दनम् || दशोपचारमित्युक्तं मनुना प्राब्रवीत् पुरा | सुगन्धकुसुमादीनां पूजा पञ्चोपचारिका || षोडशी तु प्रधाना तु दशधा तदनुस्मृता | पञ्चधा तदनुप्राप्ता कर्तव्या भूतिमिच्छता || एवं वहूविधं देवि तन्त्रे तन्त्रे निरूपितम् | आत्मनो यद्धितं वस्तु तद्दद्याद्देवपूजने || देवता आत्मनो देहे स्पृहयन्ति वहुन्यपि | यद्यद्वाञ्छितवस्तुनि तत् कुर्याद्देवपूजने || सुतिथौ शुभनक्षत्रे मन्त्रं दद्याद्विचक्षणः | पौर्णमासी सप्तमी च अष्टमी नवमी तथा || चतुर्दशी दशमी च पञ्चमी च विशेषतः | एतास्तु तिथयः प्रोक्ता दीक्षामङ्गलकर्मसु || अश्विनी मघमूला च तथा पूर्वत्रयेषु च | स्वाती विशाखा ज्येष्ठा च रोहिणी च शुभावहा || ववकोलवतैलश्च वणिजस्तदन्तरम् | करणानि शुभान्येव सर्वतन्त्रे.उस् भामिनि || ऋक्षप्रधानकाले च दीक्षां कुर्याद्विधानतः | ध्रुवमृदुसुनक्षत्रशुभवारे सत्तिथौ दीक्षा || शुभलग्ने शुभचन्द्रे केन्द्रकोणे तु शुक्रे गुरौ धर्मे | अथ सामान्यकाले मनः प्रसादितदीक्षा || सुतिथौ शुभनक्षत्रे मन्त्रं गृह्नीराद्वचक्षणः | (प्. २६) वैशाखादिषु मासेषु मन्त्रारम्भः शुभप्रदः || वैशाखे सर्वसिद्धिः स्यात् ज्यैष्ठे सर्वविनाशकः | आषाढे पुत्रलाभः स्यात् श्रावणे धनसञ्चयः || भाद्रे प्रजाविनाशः स्यात् आश्विने शुभदा भवेत् | कार्तिके वस्कुलाभः स्यात् मार्गे स्युः सर्वसम्पदः || ज्ञानहानिकरः पौषे माघे मेधासमन्वितः | फाल्गुणे सर्वसिद्धिः स्यात् न चैत्रः शुभसुचकः || चैत्रे दीक्षापि कर्तव्या मदनस्य त्रयोदशी | सम्वत्सरस्य यत् पुण्यां तत् पुण्यं लभते प्रिये || उत्तरायणसंक्रान्त्यां महाविषुवके पुनः | महोत्सवे प्रकूर्वीत दीक्षाकर्ममनुत्तमम् || अविहितकालेषु चन्द्रसूर्यग्रहः स्मृतः | सूर्यग्रहसमः कालः सर्वकालेषु दुर्लभः || चन्द्रग्रहसहस्रं हि सूर्यस्य परिकीर्तितः | न वारो न च नक्षत्रं न तिथ्यादिषु दुषणम् || न योगकरणञ्चैव शङ्करस्य मतेन च | सूर्यः सोमः शशीपुत्रः शुक्राचार्यः सुराधिपः || नन्दाभद्रासु कर्तव्यं सर्वतन्त्रसमन्वितम् | सुचित्तस्य प्रसादेन गुरौ राज्ञां सदा लभेत् || पूराप्रसादमात्रेण चतुर्वर्गं लभेन्नरः | तत्पादुको धर्मदाता पितृपुत्रसमन्वितः || पित्तरप्यधिकं मन्ये गुरुं तन्त्रेषु पार्वति | किन्नरैः किं कुलैस्तेषां किन्भृत्यैः पुत्रवान्धवैः || सर्वदा सर्वभावेषु गुरो राज्ञां लभेत्तु यः | त्रिविधा च भवेद्दीक्षा सर्वतन्त्रसमन्विता || महादीक्षा तथा दीक्षा उपदेशस्ततः परम् | युगे युगे च बोद्धव्या उपदेशः कलौ प्रिये || कृते प्रत्युक्तमार्गेण त्रेतायां स्मृतिर्भारते | द्वापरे तु पुराणोक्ता कलावागमतो द्विजाः || एवं वहूविधा देवि तन्त्रे तन्त्रे निरूपिता | कलौ दीक्षा प्रकर्तव्या देशकालासुरूपतः || न कुर्यान्निर्द्धनो दीक्षा शुभयोर्मङ्गलाय च | दक्षकर्णे तदा मन्त्रं ऋष्यादिकसमन्वितम् || तदा तस्मिन् क्षणे देवि जपेन्मन्त्रं शताष्टकम् | तदा हूनेदग्निकुण्डे सहस्राष्टात्तरं शतम् || सुगतिरक्षणार्थाय सगुरुस्तु जपेन्मनुम् | तं देवं पूजयेत्तत्र तदा सिद्धिं न नाशयेत् || तदा देवीं यजेद्विद्वान् गन्धपुष्पान्नवारिभिः | दशपुष्पाणि तत्रैव दद्याद्देव्यै विधानतः || तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरजे | शस्तानि दशपुष्पाणि तथा रक्तोत्पलानि च || एतानि संयोज्य यथाविधानि समन्त्रयुक्तेन च साधकेन्द्रः | तथा लभेन्मन्त्रवरप्रसादं यथोक्तं * * गुरुणा कृते पुरा || नानालङ्कारसंयुक्तां देवीं कुर्याद्विधानतः | तदा तस्मिन् क्षण् दद्यादाशीर्वादं सदा गुरुः || ओं भद्रमन्तु शिवष्णान्तु महालक्ष्मीः प्रसीद तु | सिद्धयः सन्तु सततं तव वा~छाफलप्रदाः || आत्मानञ्च गुरुञ्चैव नानालङ्कारभूषणम् | दण्डने कटकैर्होमे मुकुटैरङ्गदैरपि || (प्. २६ब्) हारकेयुरवलयनुपुराणि यथाविधि | पट्टवस्त्रैः स्वर्णसुत्रैर्दद्याद् यज्ञोपवीतकम् || नानालङ्कारसंयुक्तं गुरुं कुर्याद्विशालधीः | धरां वृत्तिकरीं दद्याद्धेनुनामर्बुदार्बुदम् || शरीरमर्थं प्राणांश्च सर्वं तस्मै निवेदयेत् | प्राणान्तेऽपि च कस्मैचित् न मन्त्रञ्च प्रकाशयेत् || गुरोर्लक्षा मनुं दद्यात् सुवर्णदक्षिणां प्रिये | अवश्यं स्वर्णं गुरवे दद्याच्च विधिना सुधीः || पञ्चाङ्गदीक्षा कर्तव्या साधकः सर्वसिद्धये | तुर्याक्षर`न्च देवानां तुर्याणाञ्च क्रमेण च || शङ्करञ्च गणेशञ्च तथा तुर्यं हरिं तथा | सान्तः सत्यान्तसंयुक्तो बिन्दुभूषितमस्तकः || पञ्चान्तकं शशधरं बीजं गणपतिर्विदुः | शान्तं वह्निसमायुक्तं परा मनुवर्णयुक् || वह्निवसुस्वरयुतः स्वर्गकृष्णमनुर्मतः | शम्भौ मध्यगते हवीनहरभूदेष्टौ हरौ शङ्करे भाष्यनागयुताववौ गणपश्रीशेषदुर्गास्थिता | देव्यां विष्णुहरैकदन्तरवयः गौरीसुते शङ्करेनार्या वैष्णव एव शङ्करादि शान्यस्तत्तेते हानिदा | एतत् पूजाक्रमं प्रोक्तं नराणां शुभदायकम् | ब्राह्मणान् भोजयेत्तत्र वेदबोधेन वर्त्मना || एको विद्वान् सहस्रेषु मुर्खेषु च विशेष्यते | पण्डितान् भोजयित्वा च महादेव्यां लज्ञ्?न्नेरः || सदा कुर्यात् विधानेन कुमार्या भोजनं प्रिये | कुमारीं पूजयित्वा च सर्वसिद्धिं लभेन्नरः || गृहीत्वा च महाविद्यां जपेज्जीवावधिप्रिये | मन्त्रभागे भवेन्मृत्युः शङ्करेण च भाषितम् || यत्र तत्र यथास्थाने जीवेत् जपेत् सर्वार्थसिद्धये | न दोषो मानसे जापे सर्वकालेऽथ सर्वदा || प्रजपेत् परया भक्त्या महाविद्यामहर्निशम् | नास्ति तत्र विचारं स्यान्न ब्रात्याञ्च कथञ्च न || न दुरं प्रवदेद्विद्वान् नाश्विनं प्रवदेत् सदा | असदालापनं तत्र न कुर्वीत कथञ्चन || महागुरूनिपातादौ न पूजायां विकल्पना | मोहाद्वा य दिवा दैवात् पूजयेन्न च साधकः || तस्य सर्वं विनश्याथ मारयेत्तं सदाशिवः | अशुचौ वा शुचौ वापि सर्वकालेऽपि सर्वदा || पूजयेत् परया भक्त्या सर्वकर्मसु सिद्धये | कौलं वेशं सदा कुर्यात् देव्याः पूजाविधानतः || एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे | शवोपरिचितास्थो वा जपेद्विद्यामनन्यधीः || बिल्वमूले तडागे वा गोष्थाने च सुरालये | चतुस्पथे तथागारे पीठे च परमात्मनि || यावत् सिद्धिर्भवेन्मन्त्रस्तावच्च प्रजपेत् सुधीः | यजैर्दानैस्तथा होमैब्राह्मणस्य च भोजनैः || पूरश्चरणमानेन नियमेन जपेत् सदा | जपसंख्या प्रकर्तव्या नासंख्या च कथञ्चन || असंख्याकारकस्यापि सर्वं भवति निष्फलम् | यत्फलं यस्य मन्त्रस्य तदैव सिद्धिरिष्यते || सिद्धे मनौ सदा कुर्यात् यद्यमन्यत् प्रकीर्तितम् | (प्. २७) पूरश्चरणकार्यस्य प्रारम्भश्च विधीयते || तत्क्षणादस्य देवेशि शङ्करस्य मतेन च | मन्त्रसिद्धिं प्रथमतः ततः कामाफलाविधिः || इति विश्वसारतन्त्रे द्वितीयः पटलः | तृतीयः पटलः | अथ मन्त्रान् प्रवक्ष्यामि शृणुष्व कमलानने | यस्याः प्रसादमात्रेण चतुर्वर्गं लभेन्नरः || वैशाखस्य चतुर्दिक्षु मन्त्राणां साधनस्य च | सन्ति सर्वत्र तन्त्राणि चतुर्द्धा परमेश्वरि || कोटिकोटी च मन्त्राणां यन्त्राणां साधनस्य च | पृथिव्यां देवलोकेषु गन्धर्वेषु रसातले || नागलोके ऋषिलोके कुष्माण्डे राक्षसेषु च | नानारूपाणि तन्त्राणि सन्ति वैशेषिकानि च || सर्वेषां तन्त्रमन्त्राणां मानुषेषु षिशिष्यते | यानि तन्त्राणि सन्तीह देवता प्रार्थितानि च || मनुष्य सदृशो जन्म कुत्रापि नैव विद्यते | देवताः पितरः सर्वे वाञ्छन्ति जन्म मानुषं || दुर्लभो मानुषो देहं सर्वदेहेषु सर्वदा | तत्रापि भारताखे च जन्म वै तत् सुदुर्लभम् || तत्र विद्यारतां गेहे जन्म चेदतिदुर्लभम् | तत्रापि संशयच्छेत्ता विशेषेण च भाविनि || तत्र मन्त्रवतः पुंसः सोऽपि चेदतिदुर्लभः | तत्रागमविदः श्रेष्ठः सर्ववेदेषु पूजितः || तत्रापि साधकश्रेष्ठः सर्वतन्त्रेषु गोपितः | श्मशानवासिनी श्रेष्ठा देवतन्त्रेषु पार्वति || यक्षगन्धर्वनागेषु विचक्रमनिवासिनी | कुष्न्माण्दविघ्नलोकेषु भैरवः सर्वसम्मतः || मनुष्येषु भवेद्देवि देवः साक्षात् सदाशिवः | रक्त पीतपयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभिस्त्र्यक्षैर्वा स्थिताअङ्गीशमिन्दुमुकुटं पूर्णेन्दुकोटि प्रभम् | शूलं टङ्ककृपाणवज्रदहनाम्नागेन्द्रघण्टाङ्कुशान् पाशं भीति हरं दधानममिताकल्पोज्वलाङ्गं भजे || प्रणम्य कथयष्येऽहं सर्वलोकहितं परम् | यस्मिन् मन्त्रे यथाचारस्तत्र धर्मस्तु तादृशः || कृतार्थस्तेन जायेत स्वर्गमोक्षसमाहितः | भ्रान्तिस्तु एव कर्तव्या वदि सिद्धिः प्रजायते || शुद्धचित्तो भवेदत्र सिद्धिः स्यादपवर्गतः | महाचीनक्रमान्नत्वा देवीं त्रैलोक्यसुन्दरीम् || पूजयेत् प्रत्यहं मन्त्रं सर्वसिद्धिपरायणः | न श्रुतिर्न स्मृतिस्तत्र न क्रिया कान्तस्म्भवम् || एकभावेन सततं पूजयेत् परदेवतां | मुक्तामुखे देवतायाः सर्वमन्त्रं जगाद सः || यक्षगन्धर्वन्यासेषु ततः पीतमुखे विदुः | कुष्माण्डविघ्नलोकेषु पयोदेन मुखेन वै || मौक्तिकेन जवावक्त्रेण मनुष्येषु निगद्यते | शिष्येभ्योऽध्यापयानाम महाविद्यां सुरेश्वरि || सर्वेषां श्रेष्ठमित्युक्तं मनुष्यार्थं विधानतः | मनुष्यस्य च मन्त्रस्य देवता स्पृहषन्ति हि || कोटिमन्त्रेषु ये गोप्या मनुष्याणां विधानकम् | अद्यापि भूतले देवि मनुष्याः पञ्चदेवताः || (प्. २७ब्) प्रार्थयन्ति तपस्याभिः कथितं पद्मयोनिना | प्राथयन्ति तपस्याभिः कथितं पद्मयोनिना || इत्युक्ताः श्रुतियुक्ताश सर्वविद्याः प्रजज्ञिरे | महाविद्यां महापूर्वां ध्यानन्यासं तथा जपम् || पूजाविधिं तथास्तोत्रं कवचञ्च स्तवं तथा | आचारं साधनञ्चैव क्रमेण कथयामि ते || मन्त्रविद्याविशेषश्च तन्त्रे तन्त्रे निरूपितः | जीवकोटिप्रविष्टास्ता महाविद्या महेश्वरि || देवकोटिप्रविष्टास्ताः सर्वतन्त्रसमन्विताः | महाविद्या महेशानि जीवदेवौ प्रकीर्तिता || जीवे जीवस्य सिद्धिः स्यात् देवे देवत्वमिष्यते | द्वावेतौ सर्वतन्त्रेषु मनुष्येषु नियुज्यते || मननाग्राहिमन्त्रोऽयं साधकं भववन्धनात् | अतोऽत्रगीयते सद्भिर्मन्त्रः संसारच्छेदकः || अथ विद्यां प्रवक्ष्यामि शृणुष्व कमलानने | प्रचण्डचण्डिकां वक्ष्ये चतुर्वर्गफल प्रदाम् || यस्य विज्ञानमात्रेण तवेद्भुमिपूरन्दरः | धनं धान्यं सुतां जायां हयं हस्तिनमेव च || वसुन्धरां महाविद्यां अष्टौ सिद्धिं लभेन्नरः | मातृकावर्णभेदेभ्यः सर्वमन्त्राः प्रजज्ञिरे || महाविद्या महापूर्वा महामन्त्रश्च भाविनि | सर्वेषां बीजमित्युक्तं शङ्करस्य मतेन च || विविधा च महाविद्या सर्वतन्त्रसमन्विताः | प्रकृतिर्विकृतिश्चैव सर्वतन्त्रेषु सम्मतः || श्रीबीजं प्रकृतिर्लज्जा विकृतिर्माया | प्रकृतिविकृती वाग्भरं प्रकृति विकृती च || सम्बोधनपदं कीलं मायाद्वन्द्वं प्रकृतिः फट् | प्रकृतिर्विकृतिर्वह्नि*?न्दरी | लक्ष्मीबीजं मायाबीजं ततः परं | वाग्भरं तदनन्तमेव वज्रवैरोचनीये ततः | मायाद्वन्द्वं फडन्तञ्च तदन्ते वह्निसुन्दरी || पूर्वमायापदे देवि कामबीजं प्रतन्यते | महाकालमतं प्रोक्तं मन्त्रोद्धरशुभावहम् || कामाद्यां वागभवाद्याम्बा मायाद्याम्बा यजेत् सुधीः | लज्जाद्यां वा यजेद्विद्यां चतुर्वर्गफलप्रदाम् || लक्ष्याद्याम्बा श्रीप्रसिद्धार्थं कामाद्याः कामसिद्धये | मायाद्या वश्यकार्येषु लज्जाद्याः शत्रुनाशने || पश्चिमे प्रजपेद्विद्यां मेरोर्दक्षिणकुलतः | उत्तरे प्रजपेद्विद्यां तथा प्राच्यां विशेषतः || पश्चिमे च मायायुक्ता श्रीविद्यायाश्च दक्षिणे | उत्तरे वाग्भराद्याश्च कामाद्यास्तदनन्तरे || भैरवेण तत् कथितं विधानञ्च कृते युगे | एवं तद्देवतासङ्घर्ज्जपेद्विद्यां विधानतः || सहस्रशतकं विद्या तन्त्रे तन्त्रे निरूपिता | श्यामावक्ता महाविद्या विविधा तन्त्रशास्त्रतः || गायत्रीं प्रजपेद्विद्वान् विधानेन शृणुष्व तत् | कामाद्यां प्रजपेद्विद्यां सर्वकामफलाप्तये || चित्स्वरूपां तथा ङेन्तां विद्महे तदनन्तरम् | वज्रवैरोचनीं ङेन्तां धीमहि तदनन्तरम् || तन्नो मातः प्रचोदयात् गायत्री सर्वसिधिदा | वैरोचनीं वदेद्धीमान् ङेन्तञ्च विद्महे ततः || (प्. २८) छिन्नमन्तां तथा ङेन्तां धीमहि तदनन्तरम् | तन्नो देवी समुद्धृत्य तदा क्रयात् प्रचोदयात् || महाकालमता देवी गायत्री सर्वसम्मता | लजाद्यां वा कामाद्यां वा मायाद्यां वा जपेत् सदा || वाग्भवाद्यां जपेद्विद्यां चतुर्वर्गफलप्रदाम् | गायत्र्या त्राति तान् सर्वान् साधकान् भववन्धनात् || तेनैव गीयते सद्भिर्गायत्री सर्वसम्मता | चतुर्लक्षं जपं कुर्यात् पूरश्चरणकर्मणि || लक्ष्मीं लज्जां तथा मायां मात्रां द्वादशिकामपि | वज्रवैरोचनीयेति मात्रे फट् स्वाहया युतम् || वान्तं वहनसंयुक्तं रतिबिन्दुविभूषितम् | चतुर्थस्वरवर्णस्य रतिसंज्ञां कृते बुधैः || लक्ष्मी बीजमिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | वामाक्षिवह्निसंयुक्तं बिन्दुनादविभूषितम् || शिवबीजं महेशानि लज्जाबीजमुदाहृतम् | ईशानमुद्धृत्य पूरारिबीजं सबिन्दुकं नादविभूषितञ्च || सवामकर्ण परितः प्रकल्पा मायासुवन्तीह मनीषिनन्ताम् | द्वादशस्वरवर्णस्य नादबिन्दुसमन्वितम् || वाग्भवं बीजमित्युक्तं सर्ववाक्यविशुद्धये | सम्बोधनपदे देवि देवतामूर्तिरीरिता || अतः परे मायाबीजं तदन्तेऽस्त्रं ततः परम् | योजयेत् परया भक्त्या शक्तिस्तु वह्निसुन्दरी || अन्या या विविधा विद्या सा तु देवी सुरेश्वरी | विकृतिः श्वरूपिणी सैव सर्वतन्त्रसमन्विता || भैरवस्तु ऋषिश्चान्याः सम्राट्च्छन्दः समीरितः | देवता सर्वसिद्धाख्या नाम्ना त्रिभुवनेश्वरी || मायाबीजं स्वाहाशक्तिः कथितं पद्मयोनिना | अथ ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने || ध्यानं तत्रिविधं प्रोक्तं सकलं निष्कलं तथा | कलातीतञ्च तत् पश्चात् शृणु देवि यथातथम् || निष्कलं यतिभिः कार्यं सकलं गृहमेधिनः | कलातीतं ब्रह्मचर्यं कथितं पद्मयोनिना || स्वनाभौ नीरयं ध्यायेत् छन्दो विकसितस्मितम् | तत् पद्मकोषमध्ये तु मण्डलं चण्डरोचिषु || जवाकुसुमसङ्काशं रक्तबन्धुकसन्निभम् | रजः सत्वतमोरेखा योनिमण्डलमण्डितम् || मध्ये तु तां महादेवीं सुर्यकोटिसमप्रभाम् | छिन्नमस्ता करे वामे धारयन्तीं समस्तकम् || प्रसारितमुखीं देवीं लेलिहानोग्रजिह्विकाम् | पिवन्तीं रौधिरीधारां निजकण्ठविनिर्गताम् || विकीर्णकेशपाशञ्च नानापुष्पसमन्वितान् | दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् || दिगम्बरीं महाघोरां प्रत्यालीढपदे स्थिताम् | अस्थिमालाधरां देधीं नागयज्ञोपवीतिनीम् || रतिकामोपविष्टञ्च सदा ध्यायन्ति मन्त्रिणः | सदा षोडशवर्षीयां पीनोन्नतपयोधराम् || विपरीतरतस्थौ च ध्यारेद्रतिमनोभवौ | डाकिनी रुक्षिणी युक्तां वामदक्षिणयोगतः || देवी गलच्छोणितानां धारापानं प्रकुर्वतीम् | डाकिनीं वामपार्श्वे च कल्पान्तज्ज्वलनोपमाम् || (प्. २८ब्) विद्युच्छटाभनयनां दन्तपंक्तिवलाकिनीम् | दंष्टाकरालवदनां पीनोन्नतपयोधराम् || महादेवीं मुक्तकेशीं महाघोरां दिगम्बरीम् | कपालकर्तृकाहस्तां वामदक्षिणयोगतः || देवी गलच्छलद्रक्तधारापाणं प्रकुर्वतीम् | करस्थितकपालेन भीषणेनातिभूषणाम् | आद्यां निषेव्यमानां तां ध्यायेद्देवीं विचक्षणः | एवं ध्यात्वा यजेद्देवीं सर्वसिद्धिफलाप्तये || भैरवोक्तमहं वक्ष्ये ध्यानं सर्वष?नाशनम् | उद्यात्कोटिरविप्रभं * * * * वामे करे विभ्रतीं भीमां घोरकपालिकां स्वरुधिरापाने प्रसक्ताननाम् | भोगेन्द्रोचितदेहतीरुरुचिरां खड्गं तथा दक्षिणे प्रत्यालीढपदां दिगन्तवसनां ध्यायेत् सदा सुन्दरीम् || पूर्ववद्विन्यसेद्देहं पूर्ववद्भूतशोधनं | प्राणायामं पूर्ववच्च अर्घ्यपात्रं ततः परम् || पूजोपकरणं कुर्याद् वाह्ययोगप्रसिद्धये | पूर्ववत् स्थानमुद्दिश्य प्रान्तरे सततं जपेत् || नार्चनं पूजनं तस्या मन्त्रमात्रं जपेत् सदा | महाविद्याविशेषे तु विचारो नैव विद्यते || महागुरुनिपातादौ नास्ति दोषः कथञ्चन | अशुचौ वा शुचौ वापि सर्वकालं जपेत् सुधीः || लेहवक्षं प्रकुर्वीत विचारं तन्त्रसम्मतम् | नापि देहविचारं स्यात् न मित्राद्यापि हर्षणम् || सर्वत्र सर्वकालेषु मन्त्रविद्यां जपेत् सदा | चक्रं विलिख्य विधिना यजेच्छक्तिर्विचक्षणः || त्रिकोणं विन्यसेत् पूर्वं योनिमण्डलमण्डितम् | विश्वत्रयं तत्र कुर्यात् साष्टपत्रं प्रमाणतः || बूपुरत्रितयं दद्यात् वज्रशूलसमन्वितम् | कपालकर्तृकां दद्यात् वामदक्षिणयोगतः || मध्ये कुर्चयुगं लिख्यं स्वाहान्तं वा फडन्तकम् | महाचक्राय इति च नमोऽन्तं पूजयेद्धिया || अथ यन्त्रान्तरं वक्ष्ये शृणु सावहितो भव | लिखेदष्टदलं पद्मं मध्ये तस्य त्रिकोणकम् || मण्डलं विलिखेद् तानोन्तदन्ते? योनिमण्डलम् | मायाबीजं लिखेत्तत्र त्रिकोणे फट्समन्वितम् || तत्र आवाहयेद्देवीं तासां वाहनमन्त्रतः | आधारशक्त्यादिकं कुर्यात् पूजां सर्वसमृद्धये || आधारशक्तिं पूजयेत् पङ्कजद्वयधारिणीम् | अधःकुर्मासनारूढां शरच्चन्द्रनिभानाम् || तदुर्द्धे पूजयेद्देवं कुर्मं नीलाभसन्निभम् | यजेद्त?नधरं देवमेककुण्डलधारिणम् || सहस्रफणसंयुक्तं देवगन्धर्वसेवितम् | तन्मूर्द्ध्नि पूजयेद्देवि सागरान्तां समेखलाम् || पृथिवीं रत्नद्वीपञ्च कल्पवृक्षं ततः परम् | तदधः पूजयेद् दिव्यं स्वर्गसिंहासनं शुभम् || नानाचित्रसमायुक्तं पूजयेद् विधिनामुना | आनन्दकन्दं तत्रैव सम्बिन्नालमतः? परम् || सर्वतत्वात्मकं तत्र कमलं सुमनोहरम् | रजःसत्वं तमोयुक्तं गुणं तत्र प्रपूजयेत् || (प्. २९) आत्मानमन्तरात्मानं तत्रापि परिपूजयेत् | रतिकामस्तदा तत्र विपरीतरतौ स्थितौ || तत्रोपरियजेद् देवीं त्रिशक्तिरूपिणीं सदा | रजोगुणात्मिकां शक्तिं वर्णिनीं दक्षदेशकम् || तस्याः सदशरूपस्थां सर्वतन्त्रसमन्विताम् | तमोगुणात्मिकां शक्तिं वामपार्श्वे यजेत् सदा || डाकिनीं सर्वसिद्धाख्यां मध्ये देवीं सनातनीम् | शुद्धसत्त्वसमुद्भूतां नानावर्णविभूषिताम् || ओंकारादिनमोऽन्तञ्च मन्त्रसिद्धिफलप्रदाम् | सर्वसुसिद्धिवर्णीं ब्रूयात् सिद्धिश्च डाकिनीम् || वज्रवैरोचनीं ब्रूयात् सम्बुद्धान्तां विधानतः | इहावह इह तिष्ठ तिष्ठ इति मन्त्रेण पूजयेत् || प्राणप्रतिष्ठां कुर्याच्च पूर्ववत् कमलानने | दद्यादासनमन्त्रेण आसनावाहनन्ततः || षडङ्गञ्च तदा न्यस्य यजेद्देवीं सुसाधकः | तदा देवीं यजेद्देवि वलिदानादिमन्त्रतः || सम्बुद्ध्यन्तं पदं ब्रूयात् देहि एहि पदद्वयम् | गृह्न गृह्न इमं ब्रूयात् वलिशब्दं ततः परम् || ममशब्दं समाभाष्य सिद्धिं देहि पदद्वयम् | कवचं द्वितीयं चोक्त्वा करालिके पदं ततः || फट् स्वाहान्तो महामन्त्रो वलिदानविधानके | वलिं नानाविधं दद्यात् आमं पक्वं ततः परम् || आमान्नं परमान्नञ्च गौडं गुडविकारजम् | रक्तमांसं तथा भ्रष्टं सुरां नानाविधामपि || गौडीं पौष्टीञ्च तालञ्च खर्जुरीं पुष्पसम्भवाम् | सुपक्वकाज्ञिका चैव दानाचामरयोषितः || ब्राह्मणाः क्षत्रिया वैश्याः सर्वे पात्राधिकारिणः | पशुं नानाविधं दद्यात् नरञ्चैव विशेषतः || समभ्यर्च्य बलिं पूर्वे गन्धपुष्पादिचन्दनैः | तदानुज्ञां गृहीत्वा च अङ्गदेवान् प्रपूजयेत् || तुषारस्फटिकश्यामः नीलकृष्णारुणार्चिषः | वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || हृदयादि यजेद् देवीं क्रमेण साधकोत्तमः | खड्गाय हृदयं ब्रूयात् खड्गाय च शिरोपरि || श्रीवक्त्राय शिखादेशे पाशं तं कवचेन च | अङ्कुशं नेत्रयुग्मे च सर्वाङ्गे विन्यसेत् ततः || असुरक्षयकाराय सर्वाङ्गे विन्यसेत् सुधीः | अष्टपत्रे यजेच्छक्तीः ओंकारादिविधानतः || ओंकारीं वर्तिनीञ्चैव डाकिनीं तदनन्तरम् | महाभैरवीं भैरवीञ्च इन्द्राक्षीं पूजयेत् ततः || पिङ्गलाक्षीं संहारिणीं पूर्वादिक्रमयोगतः | मध्ये तु कवचद्वन्द्वं फडन्तं पूजयेत् क्रमात् || स्वाहान्ते सर्वदा देव्याः पूजनं परिकीर्तितम् | भैरवं पूजयेद् देवं सम्मुखे विधिनामुना || सम्राट् छन्दो दक्षिणे च मन्त्रवर्णान् तथोत्तरे | बीजशक्तिर्दक्षदिशि पूजयेत् क्रमतः सुधीः || मातरः पत्रमध्ये च ब्रह्मद्याः सर्वसिद्धिदाः | पूर्वोक्तध्यानन्यासेन पूजयित्वा यथाक्रमात् || इन्द्रादिलोकपालान्ताः पूजास्तत्र समन्विताः | (प्. २९ब्) भूपुरे पूजयित्वा च पूर्वादिक्रमयोगतः || इन्द्रादिकं पूर्वमुक्तं तेषां मूर्तिं प्रत?न्यते | पीतरक्ता शिता श्यामा धूम्रा शुक्ला च पार्वती || कृष्णा गौरी च रक्ता च शुक्लवर्णा ततः परा | ब्रह्माणी च तथा देवी हरेर्लक्ष्मी समीरिता || तत्रापि पूजयेत् तेषां मन्त्राणां मूर्तयस्त्विमाः | वज्राद्या अस्त्रसंदिष्टाः सर्वतन्त्रसमन्विताः || पीता शुक्ला शिताकाशा विद्युद्रक्तासितासिता | कारवेल्लपाटलाभा वज्रद्याः कीर्तिता बुधैः || अथासनस्य मन्त्रोऽयं कथितं पद्मयोनिना | सम्बुद्धान्तं पदं ब्रूयात् देहि एहि पदद्वयम् || इदमासनसमुद्धृत्य गृह्न गृह्न पदद्वयम् | सा सिद्धिञ्च समुद्धृत्य देहि देहि पदद्वयम् || मम शत्रून् समाभाष्य मारयद्वितयं पुनः | कर्तृकाद्वितयञ्चोक्ता अस्त्रान्तायान्तसुन्दरी || आसनस्य तु विद्येयं कथिता पद्मयोनिना | एवं संपूज्य विधिना नैवेद्यान्तं विधानतः || चक्रस्य दिक्षु कुर्वीत विधानेन प्रपूजनम् | गन्धपुष्पधूपदीपनैवेद्यैर्विधिनामुना || करालं विकरालञ्च अतिकरालं ततः परम् | महाकरालं देवेशि चतुर्थ्यन्तं प्रपूजयेत् || मायाबीजादिकं कृत्वा नमोऽन्ते पूजयेत् सदा | पञ्चाङ्गदेवतां वक्ष्ये शृणुष्व कमलानने || एवं विना न सिद्धिः स्यात् शङ्करेण च भाषितम् | एवं संचिन्ता विधिना गन्धपुष्पादिभिस्ततः || पूजयेत् परया भक्त्या महाविद्यां विशालधीः | अन्तर्यागं ततः कृत्वा वहिर्यागं ततः परम् || मन्त्रन्यासं ततः कुर्यात् जपकाले विधानतः | आपादमस्तकं कुर्यात् प्रतिलोमानुलोमतः || प्राणायामं ततः कृत्वा जपेद्विद्यां विधानतः | आत्मानं देवतात्मानं भावयित्वा विधानतः || वस्तालङ्कारगन्धाद्यैर्भूषयित्वात्मनस्तनुम् | जपेन्मन्त्रं विधानेन जापकः सर्वसिद्धये || एकै कर्मात्रं कुर्वीत जपनन्तु दिवानिशम् | द्वितीये चञ्चला मूर्तिः कथिता पद्मयोनिना || प्रणवाद्यां लज्जायुगं सम्बुद्धान्तपदं ततः | मायाफट् स्वाहया युक्तां चतुर्वर्गफलप्रदाम् || न प्रकाश्या इयं विद्या प्राणान्तेऽपि कदाचन | नीलवर्णा भवेन्मूर्तिः सर्वतन्त्रसमन्विता || श्रीपार्वत्युवाच | येन वर्णेन ये देवाश्छन्दांसि ऋयश्च ये | तान् सर्वान् श्रोतुमिच्छामि कथयस्व प्रसादतः || ईश्वर उवाच | एवं प्रणम्य देवेशि ब्रह्मविष्णुमहेश्वरम् | कथयिष्ये विधानेन शृणु सावहिता भव || वकारे वरुणः साक्षात् जाकारे च सुरारिणः | ऐकारे त्रिपुरा देवी रेफस्त्रिपुरसुन्दरी || त्रैलोक्यविजया देवी सदैवोद्धारसंस्थिता | इकारे च महादेवं नकारे गिरिनायकः || ईकारे कमला साक्षात् मकारे च सरस्वती | (प्. ३०) मयोमुखे महादेवी प्रकृतिः सर्वसिद्धिदा || विकृतिश्चैव फट्कारे स्वाक्रे कुसुमायुधः | हाकारे च रतिस्तिष्थेत् लक्ष्मी श्रीबीजयोगतः || मनोभवा लज्जाबीजे मायायान्तु महामता | चतुर्थे तु गुणातीता मुक्तिविद्या प्रदायिनी || छन्दः सम्राट् भैरवस्तु ऋषिर्मन्त्रसमुच्चयः || अथ स्तवं प्रवक्ष्यामि ब्रह्मणा यं क्रतं पुरा | तत् शृणुष्व महेशानि विधानं सुरदुर्लभम् || नाभौ शुभ्रारबिन्दं तदुपरिकमलं मण्डलं चण्डरश्मेः संसारास्यैकसारा त्रिभुवनजननी धर्मकर्मोदया या | तस्मिन् मार्गे त्रिमार्गे त्रितयतनुधरीं छिन्नमस्तां प्रशतां तां वन्दे ज्ञानरूपां मरणभयहरां योगिनीं योगनिद्रां || नाभौ शुभ्रसरोजवक्त्रविलसद्वन्धुकपुष्पारूणं वामेच्छिन्नशिरोधरां तदितरे पाणौ वृहत् कर्तृकाम् | प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजां छिन्नास्वीयशिवः समुच्छलदसृग्कारां पिवन्तीं पराम् || वालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भाषिणीं वामादन्यत्र नाडी वहूवहूलगलद्रक्तधाराभिरुच्चैः | धारन्तीमस्तिभूषां करकमललसत् कर्तृकामुग्ररूपां रक्तामारक्तकेशीमपगतवमनां वर्णिनीमात्मशक्तिम् || प्रत्यालीढारुपादां दिगन्तरलसत्केयुरकोटिप्रभां दिग्वस्त्रां मस्तकेशां प्रलयघनघटां घोररूपां प्रचण्डाम् | दंष्टा दुष्प्रक्षवक्त्रो रविवरविलसत् लोलज्जिह्वाप्रभाषां विद्युलोलाक्षियुग्मां हृदयतटलसद्भागी भीमात्ममूर्तिम् || सदाश्छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनीं वर्द्धयन्तीं ब्रह्मेशानाच्युताद्यैः शिरसि न हि तां वन्द्यपादारविन्दामात्मज्ञैर्योगिमुख्यैः प्रतिपदमनिशं चिन्तितां चिन्तरूपाम् | संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्तां तां वन्दे ज्ञानरूपां मरणभयहरां योगिनीं योगनिद्रां || इष्टान्तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि उत्पत्तिस्थितिसंहृतीर्घटयितुं * * त्रिरूपां तनुम् | त्रिअगुण्याज्जगतो मदीयविकृतिर्ब्रह्मा हरिः शूलधृक् तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये || (यस्याः स्मेरपदारबिन्दुयुगशं नित्यं भजन्तेऽमराः) अलिपिसिपुरन्क्रीयोगपूजापरोऽहं बहूविधजलधारारम्भसम्भारितोऽहम् | पशुजनविरतोऽहं भैरवीसंसृतोऽहं गुरुचरणपरोऽहं भैरवोऽहं शिरोऽहम् || इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा | सर्वसिद्धिप्रदं साक्षात् महापातकनाशनम् || यः पठेत् प्रातरुश्याय देव्याः सन्निहितोऽपि वा | तस्य सर्वार्थसिद्धिः स्यात् यदयन्मनसि वर्तते || धनं धान्यं सुतां जायां हयहन्तिनमेव च | वसुन्धरां महाविद्यामष्टौ सिद्धिर्भवेद्द्रुवम् || (प्. ३०ब्) अन्यच्च वाञ्चितं सर्वं तत् सर्वं तदनुग्रहात् || इति विश्वसारतन्त्रे प्रचण्डचण्डिकास्तोत्रं समाप्तम् || प्राणाग्निहोत्रं वक्ष्यामि देव्याः प्रीतिकरं परम् | कांस्यपात्रे तु सिद्धर्थं कुर्यात् सपयसं घृतम् || अस्त्रेणोत् क्षिपेधेन्नास्वतिकृत्याष्टधा मन्त्रं जप्ताशोषणदहनपचनं कुर्यात् संस्पृश्य वामाङ्गुष्ठेन पुनर्धेनुमुद्रया अमृतीकृत्याभार्च्च्य मूलं यथापदं ङेन्तं वह्निसुन्दरी | पुनरञ्जलिं दत्त्वा कुसुमं समुखमानीय वामहस्ते ग्रासमुद्रां प्रदर्श्य निवेदयामि तुभ्यं गृहाणेदं सुरेश्वरि | दक्षिणे प्राणादिमुद्रां प्रदर्शयेत् | कनिष्ठानामिकाङ्गुष्ठा प्राणाय स्वाहेति पदम् || तर्जनीमध्यमाङ्गुष्ठा अपाअनाय पदं वदेत् | कनिष्ठानामिकामध्या अङ्गुष्ठाव्यानार पदं वदेत् || मध्यमा तर्जन्यनामा वृद्ध्याचोदनाय पदम् | सर्वाङ्गुलिभ्यः समानियेति च पदं वदेत् || परमात्मिकायै भुवनेश्वर्यौ नमः | इति || पुनराचमनीयादिकं दत्त्वा अग्निहोत्रं तेनैव कृत्वा ताम्बुलादिकं दत्त्वा धूपदीपौ च दत्त्वा छत्रचामरादिकं प्रदर्श्य कर्मार्पणं कृत्वा प्रणम्य निर्माल्यादिकं वैष्णवीगणेभ्यो दत्त्वा परमानन्दं कृत्वा महाप्रसादं भुञ्जीत | महाकालमतं सर्वं कथितं पद्मयोनिना | भीमोद्भीमभयापहं हरवधुं वन्दे भवानीं पराम् | नीलान्तोदलितां समस्तजननीमाद्यां परां चिन्मधीम् | धारारक्तप्रपूरितान् नरगलन्मुण्डं स्वरामे भूजे || दक्षे खर्पररत्नाविलसत् हारावलीशोभिताम् | ओंकाररूपां परमां परमाशक्तिं समस्तां जननीं नमस्ते | आनन्दरूपां रुधिरार्द्धवक्त्रां स्वमस्तकं वामकरे भवानीम् | नमोऽस्तु तां नित्यमलक्षलक्षणां सुरासुराभ्यर्चितपादपद्माम् | दक्षे वर्णमयीं सुतीक्ष्णकिरणां रक्तां विचित्रां पराम् | दिग्वासां सुरपूजितां स्मितसुखीं तां वर्णिनीं वै नमः | वामे देवीं समस्तैस्त्रिदशगणशतैः पूजितां सु * भीमाम् | रक्तालङ्कारवस्तां निखिलपशुगणोन्माखिनीं तां नमस्ते | यां देवैर्ब्रह्ममुख्यैरसितकिलकलाशक्तिरूपस्य चाद्या | या विद्या देववन्द्या हरिहरनममिता या परा श्रीभवानी | या नित्यानन्दरूपा निखिलभयहरा ब्रह्मरूपस्वरूपा | तां देवीं | छिन्नमस्तां भवभयशमनीं कालरूपां रुपुणाम् || नमो नमस्ते जननीं समस्तां ओंकाररूपां किल वज्रवक्त्रां हूङ्कारकारीं रवद्यैत्यमुख्यान् | हूङ्कारशब्दैः कृतचुर्णितां तान् | हुङ्कारशब्दावृतदिग्विभागां हुङ्कारशब्दाच्चरतीं समस्ताम् | हुङ्कारशबाद् गलितां भवानीं | नमो नमस्तेऽखिललोककर्त्रीम् | (प्. ३१) आद्यां नमस्ते जय भीमरूपे नमोऽस्तुते देवि परा परोक्षे | नमो नमः शम्भुपराक्रमाणां शक्तिं समास्ताञ्च नमो नमस्ते | त्वं देवी सुरपूजिता भयहरा शम्भुप्रियानन्दिनी | भक्तानं सूलभा महालयमयीं सिंही समस्तां द्विधाम् | ये त्वां गादमयीं भजन्ति जननीमादाश्च सिद्धाश्च ये | आद्यां श्म्भुपराक्रमां हरिहरब्रह्मादिभिः सेवितां ब्रह्माणीं सुरसङ्घवन्दितपदां भीमां महाभैरवीम् | सर्वानन्दकलाकलापकलितां नित्योत्सरां साधके वन्दे त्वां जगतां समस्तजननीं श्रीमद् भवानीं पराम् || नमो देवी चण्डे प्रचण्डैकचण्डि नमो देवि दुर्गे भवानीति सत्यम् | स्तुवन्ति प्रसनात्मना ये च नित्यं न तेषां ज्वरायातनाचोग्रभीतिः | जया चण्डरूपा प्रचण्डातिचण्डा भवानीहृदा सागरा सिद्धिरूपा | स्तुवन्तो जपन्तः स्मरन्तश्च नित्यं न तेषां ज्वरा यातना चोग्रभीतिः | उमे देवि दुर्गे परा सिद्धिरूपा परा डाकिनी वर्णिनी विश्वमाता | हरार्द्धाङ्गभागा परित्राहि दीपं नमस्ते नमस्ते नमस्ते तु दुर्गे || निधीनां निधीशो नरस्त्वां प्रपन्ना नराणां नरेन्द्रास्त्वदीयप्रसादात् | किमन्यं शरणां विलङ्घ्याङ्घ्रियुग्मं प्रपन्नं प्रसादं मनुष्यान पुनीहि || ईश्यं त्वां स्तुतिरष्टकैर्द्विगुणितैः संस्तौति विश्वेश्वरीं | धन्यः सर्वसुखावहो भूवितले नित्योत् सवं तद्गृहे | सिद्धिः सर्वजनेश्वरः सुकविता वाग्मी च विद्यान्वितो मुक्तिं भुक्तिकरं सवस्तजगतां पूजाः सुरेन्द्रा यथा || इति विश्वसारतन्त्रे परदेवता कौशिकी स्तवराजः समाप्तः | श्रीपार्वत्युवाच | नमस्ते नाथ भगवन् शिवायाः शिवरूपिणे | विद्यावतां रसं सिद्धौ श्रीकृतानेकविग्रहः || नराय नररूपाय परमात्मैकरूपिणे | सर्वज्ञान ततो भेदभानवे चिद्घनाय ते || स्वतन्त्राय सदाक्लप्तविग्रहाय शिवाय च | परतन्त्राय भक्तानां भव्यानां भावदायिने || विवेकानां विवेकाय विमर्षाय विमर्षिणाम् | प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे || पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्याद्विपर्ययः | सदासत् चित् स्वरूपेता देहि मे तव दासताम् || ईश्वर उवाच | अथ वक्ष्ये महेशानि नित्या श्रीः सर्वसिद्धिदा | यस्याः प्रस्तावाल्लभते चतुर्वर्गान् सुदुर्लभान् || ईश्वरी प्राह देवेशं या नित्या हिन्नमस्तका | तस्याः प्रभावसकलं तत्वतो ब्रूहि मे प्रभो || पुरा प्रोक्ताचले रम्ये कैलाशे त्रिपुरान्तक | अद्यैव तत् समस्तं मे प्रकाशय दयानिधे || ईश्वर उवाच | कोटितन्त्रेषु गोप्या हि मन्त्राणां मन्त्रनायकौ | कवचं हि तयोर्देवि शृणुष्व सर्वकामदम् || रहस्यं त्वां महादेवि सुशुप्तं परमं महत् | कथयिष्यामि मन्त्राणां सर्वसिद्धिकरं परम् || ओंकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये | कर्तव्यं सर्वभावेन जपश्चात्र दिवानिऽसम् || नार्चनं पूजनं चास्या मन्त्रमात्रं जपेन्नरः | करस्थाः सिद्धयः सर्वा अणिमादि गुणाकराः || ओं अनयोश्छिन्नमस्तामन्त्रयोर्भगवान् शिव ऋषिरसुष्टुप्छन्द आद्याशक्तिर्भगवतीश्छिन्नमस्ता देवता मम सुकवित्वपाण्डित्यसमृद्धये विनियोगः | ओंकारे मस्तके पातु वदने ह्री/ सदावतु | वज्रवैरोचनी मे कण्ठे हृदये पातु सर्वदा || हु/ पातु गुह्यलिङ्गे हुं पातु पृष्थे हरिप्रिया | फट् स्वाहा पार्श्वयोः पातु हस्तयोः पादयोस्तथा || विजया नाभिदेशे स्यात् जया रक्षतु कर्णयोः | गण्डे कवित्वदा पातु शिखायाञ्च पराजिता || भवानी पातु भवने सर्वैश्वर्यप्रदायिनी | विद्यादानरता देवी पातु वक्त्रे सरस्वती || सिद्धाख्या भैरवी पातु राजस्थाने सुरार्चने | भीमरूपा सदा पातु श्मशाने भयहारिणी || पुत्रान् रक्षतु देवेशि भावरूपा भयापहा | शास्त्रे वादे च संग्रामे जले च विमले गिरौ || अरण्ये सर्वदा पातु जया श्रीछिन्नमस्तका | आपादमस्तकं रक्षां करोतु मम चण्डिका || दारान् रक्षतु देवेशी चण्डरूपा भयापहा | नित्यानन्दस्वरूपा या सर्ववेदे प्रतिष्ठिता || पातु नित्यं महेशानि सर्वदा शिवभूतिका | डाकिनी वर्णिनी रक्षां करोतु मम सर्वदा || भूतप्रेतालये घोरे दुर्गमे भीषणावतु | इति ते कवचं देवि त्रिषु लोकेषु दुर्लभम् || यत्र तत्र न वक्तव्यं न वक्तव्यं कदाचन | गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् || तत् शृणुष्व महेशानि निषिद्धं यमनौ प्रिये | दत्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् || शठाय भक्तिहीनाय क्रूराय शुचकाय च | लोलुपाय च दुष्टार न दद्यात् कवचं प्रिये || भक्तियुक्ताय शिष्याय महेच्छाय शुभाय च | वैष्णवाय विशुद्धय दातव्यं कवचं प्रिये || कवचं स्मरणाद्देवि चतुर्वर्गफलं लभेत् | कवचस्य तु महात्मां नाहं वर्षशतैरपि || न शक्नोमि महेशानि वक्तुं तस्य फलञ्च यत् | न दाराणां न पुत्राणां न वन्धुनाञ्च पार्वति || पश्यन्ति न हि ते शोकं नृपपूज्या भवन्ति च | शुचिर्भुत्वा शुचिर्वापि कवचं सर्वकामिकम् || पठनं स्मरणं वापि मर्त्यः शापासुग्रहक्षमः | आनन्दनन्दसिन्धुनामधिपः कविराड् भवेत् || सर्ववागीश्वरो मर्त्यो लोकवन्द्यो धनेश्वरः | रणे भूते विवादे च जयं तस्य भवेद्ध्रुवम् || पुत्रपौत्रान्वितो मर्त्यो विलासी सर्वयोषिताम् | (प्. ३२) शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा || गर्वी खर्वो भरतोव वादी स्खलति दर्शनात् | मृत्युश्च दैवतां याति दासस्तस्यावनीभुजः || प्रसङ्गात् कथितं देवि रहस्यं सुरदुर्लभम् | गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् || तत्रापि कवचं देवि दुर्लभं भुवनत्रये | गुरुर्द्देवो हरः साक्षात् पत्नी तस्य हरप्रिया || अभेदेन यजेद्यस्तु तस्य सिद्धिरदुरतः | मन्त्राचाराः पुरा प्रोक्ताः क्रमतस्तान् भजन् जपेत् || नाभौ ज्योतिस्तथा वक्त्रं हृदये परिचिन्तयेत् | ऐश्वर्यं सुकवित्वञ्च महावागीश्वरो नरः || नित्यं तत्र महेशानि महिलासङ्गमञ्चरेत् | पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा || शक्तियुक्तो जपेन्मन्त्रं न मन्त्रं केवलं जपेत् | ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः || तं दृष्ट्वा साधकं देवि प्रसंशन्ति मुदान्विताः | इति ते कवचं देवि चण्डादेव्याः प्रकीर्तितम् || भक्तिमुक्तिप्रदं साक्षात् कल्पवृक्षस्वरूपकम् | (आसाद्यापि गुरुः प्रासाद्य इयं कल्पद्रुमोपमम् ||) मोहेनापि मदेन वा न हि जनो जाडोन वा मुह्यति | सिद्धोऽसौ खलु सर्वदुःखविपदां पारं प्रयान्ति * दे || नित्यं तस्य नृपश्च देवि परतो नश्यन्ति तस्यास्तये | लिखितं धारयेद्घस्तु कण्ठे वा मस्तके भुजे || तस्य सर्वार्थसिद्धिः स्यात् यद्यन्मनसि वर्तते | गोरोचनाकुङ्कुमेन भूर्जपत्रे महेश्वरि || साधयो व्याधयस्तस्य दुःखलोकभयं क्वचित् | वादी मुकतिपोषकस्तवयति क्ष्मा वल्लभोदासते || गर्वी खर्वति वङ्कतिः क्षितिपतिर्वैश्वानरः शीतति | आचाराष्टकसिद्धिरूपसपरम् सिद्धाष्टकं तद्भुजे || तां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् || इति विश्वसारतन्त्र प्रचण्डचण्डिका कवचं समाप्तम् | ईश्वर उवाच | प्रातरेव समुश्याय हस्तपादं विशुद्ध्य च | उत्तराभिमुखीभुय कुर्याद्भक्त्या गुरोर्नतिम् || मनसा वचसा वापि कायिकैश्च विशेषतः | क्षेत्रेशं वास्तुराजञ्च विघ्नराजं ततः परम् || दुर्गां विनायकं शम्भुं भैरवं वटुकान्वितम् | ब्रह्माणं नैर्-ऋतञ्चापि चक्रपाणिं नमेत् सदा || विघ्नेभ्यो विघ्ननाथेभ्यः ऋषिभ्योऽपि नमेत् सदा | एवं प्रणम्य देवेशि ध्यायद्देवीं विचक्षणः || प्रान्तरे वा श्मशाने वा शून्यवासे तथा गृहे | अद्वैतभावनां कुर्यात् ब्रह्माण्डसदृशीं तनुम् || आधारशक्तिं सञ्चिन्त्य पङ्कजद्वयधारिणीम् | तन्मूर्द्ध्नि चिन्तयेद्देवि कुर्मरूपं जनार्दनम् || नीलमेघनिभं देवं सर्वतत्त्वसमन्वितम् | तस्य पृष्ठस्थितं देवमनन्तं चिन्तयेद्धिया || सहस्रफणसंयुक्तं शुद्धस्फटिकसन्निभम् | ककुद्यंशे हलं ध्यायेत् मुद्गरं वामपार्श्वके || एककुण्डलरत्नेन भूषणेनाभिभूषणम् | एकचक्रस्य उपरि पृथिवीं चिन्तयेद्धिया || तथा पृथिव्यां सिद्धार्थं तथैनां चिन्तयेत् सुधीः | कृष्णवर्णं शुक्लब्रीहिं भूजयुग्मेन भूषिताम् || नानागुणगणादाञ्च सर्वसत्त्वप्रपूरिताम् | सपर्वतरणाकीर्णां सर्वरत्नविभूषिणाम् || सर्वमन्त्रमयी देवीं विष्णुपत्नीं मनोहराम् | समुद्रनदसङ्कीर्णां सर्वकालविभूविताम् || अत्रापि मण्डपं ध्यायेत् मनसा मणिभूषिताम् | ततः कल्पतरुं तत्र सर्ववाञ्छाफलप्रदम् || तदवस्थाञ्च ते?येच्च सत्वसिंहासनं महत् | धर्मादिसंयुक्तं पीठं सर्वज्ञानसमन्वितम् || करालादि चतुर्दिक्षु द्वारदेशे विभूषितम् | नानाचित्रसमायुक्तं नानारत्नैश्च भूषितम् || नानाङ्गस्त्रसमायुक्तं ओंकार्यादिविभूषितम् | सृखड्गादिसमायुक्तं चिन्तयेद्विधिनामुना || आनन्दकन्दं तन्मूर्द्ध्नि चिन्तयेत् सर्वदा सुधीः | सम्विन्नालं तदा तत्र सर्वं ज्ञानसमन्वितम् || सकलानादसंयुक्तं मण्डलत्रयभूषितम् | तत्रापि चिन्तयित्वा च साष्टपत्रं सकर्णिकम् || नानावर्णं चिन्तयित्वा भूषितं सुमनोहरम् | एवं सचिन्त्य मनसा हृत्पद्मास्थां सुरेश्वरीम् || चिन्तयेद्विधिनानेन शङ्करेण च भाषितम् | विपरीतरतस्थौ च रतिकामौ विचिन्तयेत् || तत्पृष्थे चिन्तयेद्देवीं मूलप्रकृतिरूपिणीम् | डाकिनीं वर्णिनीयुक्तां वामदक्षिणयोगतः || कपालकर्तृकाहस्तां मुण्डमालाविभूषितम् | अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् || स्वमस्तकं वामभूजे भवानीं स्वदक्षिणे तीक्ष्न करालकर्तृकां | सुरासुराद्यर्चितपादपद्मां सदा भवानीं प्रणयामि चित्ते || प्रत्यालीढपदस्थितां त्रिभूवन प्रक्षोभविद्राविणीं नित्यां त्रैपुरवन्दिनीं त्रिजगतां संक्लेशदारात्मिकाम् | तामाद्यां सुरयङ्घवन्दितपदद्वन्द्वां त्रिशदात्मिकाम् | विस्वोष्ठां निखिलाघ्यपादशमनीं नित्यं सदा वै नमः || मम मनसि विधत्वं सर्वभूतात्मसंस्थं शमयतु तव पादद्वन्द्वमेतन्महेशि | प्रतिदिनमनुमेनेमत्कृते प्राणसंस्था भवसि भयदात्रीं शक्तिरुपां नमामि | मातस्त्वतीयपदमज्ञमेतत् नमामि नित्यं दुरिस्तं निहन्तम् | सुरासुरार्चितकारणार्थं तं नौमि नित्यं सकलाप्तहेतोः | भवानि त्वं दासे मयि वितर दृष्टिं सर्वसुहृदां हृदाषाढां सारां निखिलभवभावौघशमनीम् | वितन्वन् चिन्तां वासमयमखिलं नित्यमहसीम् | महिमास्था मेध्यां युगयुगान्तां कालशमनीम् | नमस्ते नमस्ते जगतां धुगन्तां संहारकारीं भवभावरुपाम् | पुरा पुरारेव स्वकुलमूलं क्रूलसूलङ्घविपन्नकालम् || त्वं ब्राह्मी त्वञ्च रौद्री हरिहरनमितां त्वं पराख्या भवानी | त्वं नित्या कालरूपा निखिलभयहरा सर्वविद्यापरा या | (प्. ३३) त्वं गौरी छिन्नमस्ता कलिमलमथनी त्वं नदी सागराख्या | त्वं माता त्वञ्च ताण्डस्त्रिभुवनजननी कालरूपारिपुणाम् | त्वं काली शम्भूपत्नी हरिहरनमिता भद्रकाली कराली | प्रेताख्या प्रेतरूपा परिकरकमला पाशरूपा पराख्या | त्वामाद्यां प्रकृतिं स्मरामि मनसा तारार्णसंप्राप्तये | मातस्तातः सुतानां भवभयशमनीं तत्क्षणाद्दुरतोऽपि | अपि मातः प्रणीधामकौतुकं भवसं सारपारापारात्मकानाम् | सततं परिहृत्य तत्समाप्तं निजकुलन्तीं विनिधान मां न हि सुरा त्वं सुरारिः | परात्वं पुरात्वं रतीत्वं सुरारिः | निशा त्वं दिवा त्वं दरिद्रा धनाढ्या त्वं सुखी त्वं दुःखानां कृती त्वं कृपाणाम् | मातस्तारयं परमासावीराणादोनापरिमितहारा | खेलासाधनशक्तिः श्रेष्ठा युवती प्रौढा वृन्दावाला | निद्रा तन्द्रा हेला हला काला काली घोरनादा | नमस्ते नमस्ते नमस्तेऽस्तु दुर्गे नमस्ते भवानी सत्यम् | नमस्ते नमस्ते कृपासिद्धिरुपा नमस्ते नमस्ते परा डाकिनी या | तवास्थिमाला परिकल्पिता बुधैः सुगन्धिपुष्पेण यथा सुरारेः | त्वदीयमुण्डेन संहन्तु निवेदितन्तु यद्बू देवपद्माख्यमुदीरिता मया | त्वदीयमुण्डं स्वभूजे तु यतः स्थितं तदेव मुण्डं तदेव मुनीन्द्रैः | स्वदक्षिणं यत्तु त्वदीयकर्तृका तदा भव वेदविदो वदन्ति | या ते वर्णिनी डाकिनीहरवधू सव्ये तदादक्षिणे | ब्राह्मि त्वं सुरसंघवन्दितपदा कृष्णा तथा वैष्णवी | त्वं देवी सुरसंघवन्दितगतिं प्राप्तौ च सन्तोषतः | प्रस्थात्वां भवसुन्दरीं गिरिसुते देवाय पदा शान्तिः शुभा शाङ्करी | क्षेस्याक्षेमदार्थाशेषभयहरा माता जगन्मोहिनी | यौ तौ प्रत्यासन्तस्थौ हरेः पुरा | शम्भुना शम्बोका च कलापकलितौ विस्वापयन्तो जगत् | तेनेमां सुरसङ्घवन्दितगतिं प्राप्तौ च सन्तोषतः | प्रस्थात्वां भवसुन्दरीं गिरिसुते देवाय भूत्यं नमः | मातः पद्मदलार्चिते परिमिते तन्मण्डलाभ्यन्तरे | चक्रं योनिनिभं सुरासुरवधुरभ्यर्चिता तन्मुहूः | नित्यं स्तौमि नमामि हरवधुं शान्तिफलप्राप्तये | तृप्तिं देहि यज्ञप्रदां सुरविपोर्लक्ष्मीसमाभीष्टये | त्वं श्रीस्त्वमीश्वरी बुद्धिर्लज्जा लक्ष्मीः सरस्वती | शान्तिर्जयदा नित्या अम्बा क्षेमङ्करी तथा | ब्राह्मी माहेश्वरी गौरी कराली विअकरालिनी | सती पतिव्रता साध्वी सुन्दरी पुरसुन्दरी | चित्स्वरूपा शुभा गीता गङ्गा सीता सरस्वती | सर्वमन्त्रमयी देवी सर्वशान्तिफलप्रदा | आपस्त्वं चित्स्वरूपा च सर्वमन्त्रमयी विभूः | इयं स्थिता नित्या वसुन्धरा प्रिये त्वदीरशान्त्यादिमपीह भूतले | विना स्थितिः शान्तिकारिणी भवेत् पुरा येन सती प्रकोपिता | (प्. ३३ब्) जले रसात्मिका शक्तिर्दाहिका वह्निमण्डले | स्पर्शात्मिका च तद्वायौ कीर्तिता मुनिभिः सदा || आकाशे शब्दरूपा त्वं सूक्ष्मा सूक्ष्मस्वरूपिणी | पृथिव्यां पूर्णशक्तिस्त्वं कथिता पद्मयोनिना || सुकुमारी तथा प्रौढा युवती रसदायिनी | सर्वशक्तिमयी देवि कथिता पद्मयोनिना || लक्ष्मीस्त्वं लक्ष्मीबीजस्था लज्जा या भुवनेश्वरी | माया बीजाङ्कुरी नित्या भवभीतिविनाशिनी || सरस्वती वाग्भवस्था वकारे वारुणीस्थिता | जकारे जगतां माता वैकारे विमलास्थिता || सर्वपापप्रशमनी रकारे वह्निसुन्दरी | चकारे चण्डिका देवी चण्डमुण्डविनाशिनी || नारायणी नीकारे च कारे चित्स्वरूपिणी | ब्रह्माणी वैष्णवी ज्ञेया चकारे परमेश्वरी || फलप्रदा फट्कारे च स्वाकारे शम्भुसुन्दरी | अर्द्धनारिश्वरश्चात्मा हाकारे हरवल्लभा || एतास्तु सततं पूज्या स्तुत्याहहरवल्लभे | वर्णस्था मातृकाः प्रोक्ता ब्रह्मणान्ताः पूराकृताः || मातस्तदीयमहिमा किमपीह शक्तिर्विष्णुं जगत्यखिलकृत्यशेषम् | पुनीहि नित्यं शकलाशयार्थं पुनीहि भक्तान् फलसिधिहेतौ || आराध्य मातस्तव पादयुग्मं ब्रह्मादयोऽपि श्रुतिभागवतादिषु | अन्ये ये परे च मुनयः सुराश्च तेषां भवेत् कीर्तिरलङ्घ्यरूपा || वेदान्तराक्यैः परितोषिता त्वं वेदान्तवाक्यैर्विभूषिता त्वम् | वेदान्तवाक्यैः परमाः परा या तां नौमि नित्यं हरगेहशालिनीम् | काली त्वं कालरूपा भवभयशमनी कालकाली कराली | तुङ्गा त्वं तुङ्गरूपा घुरघुरवता घोररूपा कृपाद्या || नित्या त्वं नित्यरूपा भवभयशमनी योगरूपा युगाद्या | चिद्रूणा वह्निरूपा परिहर सकलं दोषरूपं भवान्धौ || हरार्द्धाङ्गभागी शिवानी च नित्यं शिवापरा त्वं डाकिनी विश्वयोनिः | मुनीनां मुनीन्द्रा भक्तियोगेन नित्यं सदासिद्धिरुपा त्वदीया प्रकृतिः | क्षमा त्वं कला त्वं कालरूपा शिवात्वं शरण्यं भरण्यं विभुनां विभुतिः | वसीत्वं वसीनां सुरात्वं सुराणां रसानां रसत्वं रिपुवान् पुनीहि | सर्वार्थसाधनी चिन्ता चञ्चला चपला चला | सर्वशक्तिमयी देवी सर्वनित्या नगात्मजा || चण्डा त्वं चण्डरूपा चपलतनु तनुभाविधात्री स्वरूपा | स्वाहा त्वं शक्तिरूपा सुरवरनमिता द्रीटी? द्रीः स्वरूपा | आद्या त्वं विश्वरूपा वरिरथपरिखामानिता भुमिरेषा | त्वां वन्दे भावरूपां हरिहर नमितां सिद्धिदां सिद्धिकानाम् | शाधा? त्वं वेदरूपा प्रणवतनुधरा ब्रह्मरूपा भवानी | वन्द्या त्वं वन्दनीया निखिलभयहरा साधकानां सदैव | ओंकारे वर्णरूपा त्रितयतसुधरा वर्णरूपा भवानी | नित्या त्वं वन्द्यारूपा अतनुतमुधरा वेदवाता वलाध्या |? निधीनां निधी त्वं सदाश्वेतवर्णा कलानां कला त्वं सदागौरवर्णा | (प्. ३४) क्षुधार्ता क्षुधा हि कला हि प्रतप्ता रसानां रसैस्तान् प्रतप्तान् पुनीहि | विन्यस्य स्वतनौ त्वदीयचरणं सद्धौ सदावाञ्छितम् | नम्यस्ते जगतां मदीयविकृतिं सशान्तिमाप्ताप्तये | यद् देहं विनिधार विश्वमात्मानं तक्त्या भवेत् शास्त्रतः | त्वं त्वां नित्य त?सुं नमामि मनसा भक्त्या तथा कायिकैः | अतो नित्यं धन्या धन्यापवादं तत् पादयुतैः पुनस्तां शुमन्तीं खिलकिलगतिं पादपरमाम् | पराख्यां नित्याध्यां किलिकिलिकालवलयां विपन्नां विनयगहनां सत्वरपदां यस्य विद्यां प्रगायन्तीं त्वदीयगुणसम्भवां यस्य कर्णौ विशृणुस्तौ त्वदीयगुणमुत्तमम् | यस्य हन्तौ प्रकुर्वन्तौ त्वदीयपूजनं प्रिये | यस्य पादौ च गन्तव्यौ तदर्थे कमलानने || तेत्य ऋषिभ्यो देवेशि नमो नित्यं नमो नमः | नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः | नमो नमस्तेऽखिललोककर्त्री नमो नमस्ते जगतां जनित्री | नमो नमः श्म्भुपराक्रमाणां नमो नमो देवि परापराख्या || जगतिजन विवादः स्थानरूपे नराणां स्मररिपुवनिताभिः कीर्तिता सुक्ष्मरूपा | मदनकिलवलानां कल्पते कामिनीभिः परिकययुवतीभिः प्रेषिता प्रेषणीया | इश्यमेव शतार्द्धेन यस्तां स्तौति दिने दिने | तस्य श्रीर्वसगा भद्रे अणिमाद्यागुणाकरा || क्रमेण स्तौति यो देवीं क्रमस्तोत्रैर्दिने दिने | तेषां स्त्रीर्वशगाः सर्वाः सम्पदामालयो भवेत् || अनेन सदृशं स्तोत्रं जगत् स्वपि न विद्यते || इति श्री विश्वसारतन्त्रे परदेवतायाः प्रचण्डचण्डिकायाः क्र?म स्तोत्रं समाप्तम् || संस्तुत्य विधिना येन प्राणायामं दिशेत् तदा | प्राणायामं विविधं तत्र कथितं पद्मयोनिना || आत्मसमर्पणं कुर्यात् मन्त्रेणानेन देहिकः | कृत्वाञ्जलिपुटौ भूत्वा मन्त्रमेनं समुद्धरेत् || इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारितः | जाग्रत् स्वप्नसुसुप्त्यवस्थावेतीररेत् || ततश्च मनसा वाचा कर्मणा इति कीर्तयेत् | तथा पद्भामुदारेणेति पुनः पुनः || शिङा च यत् कृतञ्चैव स्मृतञ्च यत् पदं पुनः | सर्वं ब्रह्मार्पणञ्चान्तु प्रणवादिनमोऽन्वितम् || श्रीपार्वत्युवाच | प्रचण्डचण्डिकाविद्या पूर्वोक्ता सर्वसम्मता | सहस्रनामस्तोत्रस्य कथयामास तत्वतः || कैलाशशिखरे रम्ये नाना धातुसमन्विते | सिद्धगन्धर्वसंङ्घैश्च सेविते पर्वतोत्तमे || (प्. ३४ब्) नानावृक्षगताकीर्णे शीकराम्बुकलावृते | ध्यानापतपसासीनं प्रमन्नमुखपङ्कजम् || रिपुच्छलेभनरनं त्रिनेत्रं शुरधारिणम् | जटाजूटसमायुक्तां त्रिनेत्रं भास्करात्मकम् || नानावेदैश्च शास्त्रैश्च सेवितं शशिशीतलम् | चन्द्रच्छविनिभं गौरं नानातालसमन्वितम् || देवी पप्रच्छ गिरिशं सर्वभूतात्मकं शिवम् | प्रचण्ड चण्डिकादेव्या माहात्मां सुरदुर्लभम् || कथयामास देवेश यथोक्तं ब्रह्मणा पुरा | तस्य तद्वचनं श्रुत्वा विहसा जगदीश्वरः || कथयामास तत्सर्वं ब्रह्मवज्रविनिर्गतम् | प्रचण्डचण्डिकादेव्या माहात्म्यं शृणु पार्वति || यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति | लयमेष्यति तत्सर्वं जगदेतच्चराचरम् || तद्योनौ सर्वमेतद्धि प्रतिपादयति प्रिये | कालमायाकलात्मानः सर्वे तस्यां प्रतिष्ठिताः || तस्यामहं पुरा जातः सर्वैस्तत्वसमन्वितैः | तस्या ध्यानाज्जगत्स्तोत्रं नमस्कारः क्रमात् पुनः || जन्मादिमरणं मर्त्यं नास्ति तस्य युगे युगे | तस्या प्रभावं देवेशि शृणुष्व विधिनामुना || प्रातःकाले निशीखे च सन्ध्ययोरुभयोरपि | यः पठेत् साधकश्रेष्ठः स एव श्रीसदाशिवः || प्रचण्ड चण्डिकासहस्रनामस्तोत्रस्य भगवान् श्रीसदाशिव ऋषिः सम्राट् छन्दः आद्या शक्तिर्भगवती प्रचण्डचण्डिकात्मशक्तिरूपिणी देवीदेवता मम चतुर्वर्गफलाप्तये विनियोगः | पूर्वोक्तरूपां तां देवीं ध्यात्वा स्तोत्रं सदा पठेत् || ओं प्रचण्डचण्डिका चण्डी चण्डरूपा सतीसखी | अति चण्डा महाचण्डा कालरात्रिर्वसुन्धरा || महामाया घोररूपा विशोका शोकनाशिनी | कात्यायनी जगन्माता विश्वमाता पतिव्रता || जगन्मान्या जगज्जीवा चण्डीचण्डविनाशका | सुखी सत्यवती लोभा नदीनादा सुवेनिका || मुक्तदेशी सुकेशी च घोरा घर्घररूपिणी | विसन्ना च विपन्ना च स्वच्छत्पन्ना पतिव्रता || घोरनेत्रा विशालाक्षी कामाख्या कुलसुन्दरी | कुसुमा च महाकामा विनोदा सर्वसिद्धिदा || त्रिनेत्रा रक्तनेत्रा च त्रिनेत्रा केकराकृति | पलिता पललप्रीता वृद्धमाता पतिव्रता || सुपतिः सत्पतिः सत्या सभासंक्षोभकारिणी | अनुप्रेमा महाप्रेमा सुप्रेमा च प्रेमात्मिका || कालाक्षी कालरात्रिश्च घोरनेत्रा घृणाकृपा | सुतृप्ता च स्वतृप्ता च अहल्या पापनाशिनी || केकराक्षी कुलाक्षी च सुकुला कुलपूजिता | विपृथुः परिपाल्याच भक्तिरम्या सनातनी || शुची मुखी कलामुखी लोलजिह्वा विपन्नगा | ललना चलना लोला नानासुरविनाशिनी || शब्दरूपा च ओंकारी ह्री?ङ्काराक्षररूपिणी | श्रीबीजा लज्जारूपा च कोपना च नितम्बिनी || शवासना चिताचैत्या चैत्यवृक्षप्रिया शिवा | छिन्नमस्ता विमन्ता च सुमन्ता मन्तरूपिणी || कोटराक्षी पद्मनेत्रा मृगनेत्रा मृगाक्षिका | चट्टला चञ्चला चाना चपला चपलप्रिया || चपलाङ्गी चपला च कर्मपाशाकहाकृमि | कृपावती तथा कृपा इन्द्राक्षी हरवल्लभा || नारायणी विश्वमाता भवानी पापनाशिनी | चामुण्डा उग्रचण्डा च महाचण्डा उमा उषा || प्रज्ञाज्ञाना महाज्ञानाज्ञानज्ञाज्ञाननाशिनी | ज्ञानदा ज्ञानवृद्धा च षड्वर्गबीजरूपिणी || अनुरूपा वृहद्रूपा स्वरूपा रूपवर्जिता | विरूपा च स्वरूपा च सत्यधर्मपरायणा || सन्ध्या सन्ध्या सुशीला च सत्यधर्मस्वरूपिणी | शालग्रामशिला सौम्या शालग्रामनिवासिनी || शालासभा सकला च सुस्तनी स्तनरूपिणी | विगता विगतप्राणा कामधेनुः कलासमा || विसमा च विसङ्गा च सुसङ्गा सङ्गरूपिणी | सृष्टिस्थितिक्षयकरी वाराही विरलातनुः || नारसिंही रमा रामा वामदेवप्रिया तनुः | कामकण्ठी कम्बुकण्ठी सुग्रीवा ग्रीवरूपिणी || कबन्धा कबन्धा कृत्व्या सर्वकृत्या विनाशिनी | राधिका सत्यभामा च बालिका बालरूपिणी || सुवहा च सुरङ्गा च विवाहूर्वाहूरुपिणी | दीर्घवाहूस्तथा खर्वा खर्वदेहा विनावती || दन्तुरा सुदतीभीक्षा युगदन्ता युगावती | सुदन्ता च विदन्ता च अतिदन्ता महामती || एकदन्ता एकदंष्ट्रा घोरदंष्टा रविशशी | सूर्यात्मिका सूर्यपत्नी सूर्यमण्डलसंस्थिता || गगणाविरणावेला विपन्ना विसमागतिः | सूर्यः सूर्यकला सौरिर्द्वादशात्मा दिवाकरः || भानुः सुभानुः स्वर्भानुर्भानुरूपा भरीदुति | तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः || सुनन्दा भोगदा विश्वबोधिनी धारिणी क्षमा | पूर्णा पूर्णामृता चन्द्रा अर्द्धचन्द्रातिचन्द्रिका || चन्द्रमण्डलसंस्था च सदाचन्द्रावती प्रिया | चन्द्रात्मिका चन्द्रकान्तिर्ज्योत्स्ना श्री प्रीतिरङ्गदा || पूर्णा पुर्णामृता तोया तुष्टिः पुष्टिः रतिधृतिः | शशिनी चन्द्रिका कान्तिः सर्वर्कान्ता निवासिनी || चन्द्रमण्डलमध्यस्था कामदा सुरसम्भवा | आत्मा बुद्धिर्महाबुद्धिः सर्वबुद्धिः सुबुद्धिधृक् || सर्वात्मा सर्वमाता च सर्वाचारवती सती | सत्यधर्मस्वरूपा च सभासंक्षोभकारिणी || अविद्याविधिरूपा च ज्ञानमायाचलाकृती | आत्मबुद्धिरहङ्कारामनस्तत्वा चिताचिति || चिन्ताचिन्त्यप्रमेया च सरतत्त्वप्रतिष्ठिता | बीजरूपा जीवरूपा सर्वबीजशरीरिणी || विरिणी रेणुका कुम्भा सुकुम्भा च शुभामति | कृशाङ्गी कुलीशाङ्गी च वज्राङ्गी वज्रसम्भवा || वृक्षशोभा सुशोभा च विशोभा विशभप्रभा | पाण्डवा धूम्रवर्णा च रक्तवर्णा रतिः स्मृतिः || शुक्लवर्णा च शुक्ल्यङ्गी शुक्ला च शुक्लवर्णिका | सिताङ्गी च सुतीक्ष्ना च नानावर्णा विवर्णिका || विगता विगतप्राणा विरूपा रूपवर्जिता | सिन्दुराञ्चितसिमन्ता सूशीला दीर्घनेत्रिका || मुक्तारञ्जितनासा च सुनासा गिरिका तथा | (प्. ३५ब्) क?णती च गतीरा च नाभिमूलनिवासिनी | षट्चक्रभेदनकरी परमामृतशोभना | सुसुम्नेडायोगवती पिङ्गलाक्षी च वैखरी || गान्धारी हस्तिजिह्वा च हस्तिनी च विलोलिका | अनन्तनाडीसंभूता सुनाडी नलिनी नटी || गर्भाशाया गर्भरूपा सुगर्भा गर्भमोचनी | प्राणापानसमाना च उदानव्यानरूपिणी || कुण्डली च कुलीना च चञ्चला च विशोधिका | शोधिका सुन्दरी सैत्या शोधिका बिन्दुरूपिणी || परात्मात्स विश्वासासाम्समाशशिनी शशि | कुलकुण्डा कुहरिणी कुमतिः सुमतिः शिशुः || डाकिनी हाकिनी चैव राकिनी लाकिनी तथा | शाकिनी काकिनी चैव षट्चक्रक्रमदेवता || वशिनी योगिनीरूपा योनिदेशनिवासिनी | योनिप्रिया योनिरुचिः सुयोनिः क्षुद्रयोनिका || शोणरूपा महारूपा वलिनी योनिसम्भवा | योनिप्रिया योनिरता योन्यन्तरनिवासिनी || योन्यामतिर्योनिसुता सद्ययोनिप्रियङ्करी | लिङ्गा लिङ्गप्रिया लिङ्गा लिङ्गस्था लिङ्गसुन्दरी || लिङ्गागतिर्महामुद्रा लिङ्गरूपा सदागतिः | लिङ्गदेशनिवासी च लिङ्गिनी लिङ्गरुपिणी || लिङ्गमाला कण्ठदेशा भगमालाविभूषिता | लिङ्गस्वरूपिणीप्रेताः शिवलिङ्गाभिधायिनी || महायोनिर्महद्योनिर्योनिजा योनिरूपिणी | कुमारी बालिका बाला कुमारी पूजकप्रिया || कुमारीरूपिणी कुन्ती कुलजा कुलरूपिणी | कुलस्था कुलरूपा च कुलवंशा कुलावती || कुमाराङ्गी कुमारी च रोहिणी रेवती रमा | गौरी च रोहिणी रम्या रजता च रजस्वला || युवती प्रौढिका प्रौढा महाप्रौढा विलाशिनी | कामिनीः कामदाः कान्ताः कामाज्ञाः कामभाविनी || कामाः काली कुलाक्लेशा सर्वक्लेशविनाशिनी | रतिदा च रतिप्रीतिः सुरतासुरदा शुभा || कन्या धन्या तथा मान्या विमानी मानदावती | स्थूला दीर्घा महादीर्घा दीर्घनेत्रा सुलक्षणा || बहूला च विपन्ना च सुगन्धा प्रमदा गतिः | नानारूपवती सत्या युवती यमुना सदा || यशोदा गती यज्ञा यादवी वनवासिनी | वनमालिनी विपख्या च विशेषाख्या रतिप्रिया || नानागुणवती यज्ञा ज्ञाना ह्यज्ञाननाशिनी | धीर्धृतिरसलोमा च लोमसी च सुलोमसा || नानारूपवती रम्या रूपहा रूपदायिनी | रूपणी च विपन्ना च सम्पन्ना च महाहृतिः || चन्द्रानना च विज्ञेया आद्या त्रिभुवनेश्वरी | दुरिता कुलपुज्या च मातङ्गी कुलसुन्दरी || दीर्घजङ्घा काकजङ्घा सुपदापदरूपिणी | पादपद्मा महापद्मा पद्मानन्दा प्रियाशुभा || सर्वाङ्गसुन्दरी नित्या तथा त्रिपुरसुन्दरी | आर्या द्वैपायनी कृष्णा विरूपा च विपाचिका || षड्गर्भा च नहागर्ता प्रेमप्रीता रमावती | सुशीला पुण्यशीला च शाम्भवी च विमानिता || (प्. ३६) प्रभावती विमाना च चण्डघण्टा महामतिः | पिङ्गलाक्षी च इन्द्राक्षी उमा शाकम्भरीति च || अपर्णा निश्चला लोला सर्वनित्या नगात्मजा | कैरातीरोक्षसी घोरा उग्रतारा सरस्वती || महोग्रा च सुमध्या च एका एकजटा मना | मन्त्रविद्या महाविद्या महामन्त्रा महामहा || देवता देवमाता च महामाता महामतिः | चित्रलेखा सुलेखा च लेखा च प्रियदायिनी || कालिका कालमाता च महाकाला कलाकृती | श्मशानवासिनी प्रेता प्रेतस्थाननिवासिनी || प्रेतानना गणक्रीडा प्रेतवाहनवाहना | नागयज्ञोपवीताङ्गी नागिनी नागवल्लभा || मुण्डमालाधरा देवी पञ्चमुद्राविभूषिता | नागपाशधरा कृष्णा रक्तारुधिरलोमिका || धूमार्चिः शवरीचन्द्रा शवस्था शववाहिनी | अस्थिमालाधरा आस्था अनास्था वेदनिन्दका || वेदमाता वेदशिखा विशाखा शिखिवर्तिनी | नानावाणधरा देवी चर्मचापप्रबोधिनी || पाशमुद्गरकुन्ती च नानास्त्रधारिणी सुरा | वीरासना वीरपाना मांसपाना सदा तथा || मद्यपाना मांसरुचिर्मुदाशीर्मुदनामदा | तोतला तुलसी तुण्डा तुण्डाक्षरनिवासिनी || आधाररूपिणी ध्येया मूलाधारनिवासिनी | नानातेजस्विनी क्लिन्ना रूद्रग्रस्ता प्रणीपृथुः || पृथिवी द्वीपिका ज्येष्ठा कमला विमला कला | कलाख्या कालमान्या च सर्वकालविलासिनी || महाकाला कालरूपा परमाख्यादिरूपिणी | पावनीवदना वेदा सर्वविद्या विसालिनी || अम्लानवसना वासा पट्टवस्त्रपिधायिनी | मानालङ्कारसंयुक्ता नानास्त्रधारिणी शुभा || सर्वाणी सर्वसन्ध्या च त्रिसन्ध्या कालरूपिणी | महानिशा तथानित्या सर्वसैन्यविनाशिनी || धनिष्ठा धनदा धन्या धनधान्यविवर्द्धिनी | सेनानी सैनिका सेना सर्ववाहनवाहना || तोषिणी पोषिणी पोषा सपुषा लम्बुधा तथा | कोषिणी कुशिनी कोषामुवलास्त्रा तिलोत्तमा || नरनारायणी गौरी कामदेवी वनस्पतिः | वदनावासिनी वश्या वेश्यावेशविलासिनी || कुलटा सत्यलोकेशा नानालोकनिवासिनी | गन्धर्वा च तीर्थपतिर्महातीर्थवनस्पतिः || अम्बा अम्बालिका चाम्बा अम्बिकाद्रू?दिनी महत् | पुरुषाङ्गी पुरुषी च स्त्रीस्वरूपा तथा पुमान् || सर्वशास्त्रमयी देवी सर्वमन्त्रमयी शिवा | नानाविद्या च मन्त्रा च नानास्त्रधारिणीवरा || नदीसिन्धु सर्वमयी सर्वतीर्थमयीमना | गङ्गा गीता च गायत्री सावित्री नरकान्तका || रेवती रोहिणी चेता चिन्तासर्वविनाशिनी | सप्तविंशति ऋङ्गाणि काश्यपि कश्यपप्रिया || मृत्स्ना सुला च माला च सर्वमाला महत् प्रभा | प्रेतदेहकरा ज्येष्ठीवाला रौद्री च भ्रामरी || डामरी डमरूपा च वसुधान्तः प्रकाशिनी | (प्. ३६ब्) उर्वी गुर्वी गुरुज्ञेया गुरुरूपा महामतिः || अतसी च सती गङ्गा सर्वश्वेता प्रियम्बदा | फु?ल्लनीटि विटित्वा च कैकटी शङ्कटी तथा || छेदनी क्षेपणि क्षेपा सर्वसिद्धेषु संस्थिता | ज्योतिर्ब्रह्ममयी देवी सर्वज्योतिःषु दीपिका || विदीप्ता अतिदीप्ता च सुदीप्ता मुद्रिका तथा | महाधूद्रा वृहद्योनीः सर्वयोनिषु संस्थिता || योनिप्रिया योनिरुचिर्योनिक्रीडा सदागतिः | विरिणी मञ्जरी पाला विपदो कृपणाकृतिः || सरयुसरस्वतीफल्गुः कैङ्किला सा महानदी | वंक्षुमुद्रा तथा सीता अलका नन्दनावनी || हरिद्वारावती तीर्था मथुरा द्वारका तथा | अवन्ती अङ्गदा पम्पा विचित्रा विभ्रमा तथा || स्वप्नावती हंसमुखी लोपामुद्रा सुभद्रिका | श्वेतारुणा च भेरुण्डा उत्तरा कुलसुन्दरी || भैरवी विपुलादेहा रिपुदेहेषु संस्थिता | पार्वती मानदा नित्या अविद्या विकला तथा || हंसाख्या च वलाका च काकस्याविकटानना | पुभ्रता पुष्पहास्या च सुपुष्पा पुष्पहासिनी || विलोलिका विभ्रमा च सर्वाश्रमनिवासिनी | असच्च सदसच्चेव सर्वविश्वक्षयङ्करी || शकुन्तला देवयानी पुत्रिका अप्सरा तथा | गोपालिका नदीवेन्धा विकटाकटपुतना || त्रिपुरा भैरवी देवी पञ्चमी तिथिरूपिणी | सर्वपर्वतवासी च श्मशानालयवासिनी || सर्ववेदमयी स्वर्गास्वर्गद्वारनिवासिनी | अष्टमी नवमी चैव कुहूः शुक्ला चतुर्दशी || षष्ठी च पौर्णमासी च योगासि करणानि च | सर्वत्तु प्रलयाकल्पा सुकल्पाक्षयकारिणी || सर्वकन्या सर्वमाता सर्वसत्या सती शिशुः | कुन्ती च कुशला क्रीडा शम्भुदर्पविनाशिनी || निशुम्भशुम्भहन्त्री च रक्तबीजविनाशिनी | हालाहलप्रियकरी कालीका दुर्गनाशिनी || नारी नगरवासी च सर्वद्वारस्थितालया | गणरूपा गया गोत्री प्रेता गोपालरूपिणी || अरुणाक्षी चन्द्रमुखी सर्वनाम्नी सरस्वती | श्रुतिश्च स्मृतिरूपा च कार्यशास्त्रविनोदिनी || मधुकैटभहन्त्री च दुर्गासूरविनास्शिनी | चण्डमुण्डक्षयकरी शिवदुती शिवप्रिया || त्रैलोक्यपावनी नन्दा मन्दभागा ह्यूपद्रूता | अल्लायुषी क्षीणपुष्टा परप्रीतिविवर्द्धिनी || सुप्रीता श्लोकिनीश्लोका चाण्डाली वायसी तथा | सर्वासुरक्षयकरी कालीकोण निवासिनी || माकरी च तथा भौमी होरानटका निर्झरा | कुलघ्ना यावती कोला निकोला त्रासरूपिणी || कृतान्तत्रासिनी भीमा सावित्री मुक्तिदायिनी | माता च स्कन्दमाता च जियमाता जिनेश्वरी || अजिना कुत्तिवसना व्याघ्रकीर्तिपिधायिनी | त्रिशक्तिः शक्तिरूपा च डाकिनी वर्णिनी तथा || दंष्ट्राभीमा पिङ्गलाक्षी कंशिनी औदरी तथा | ओंकारी वर्णमाता च क्षेमङ्करी स्वरूपिणी || प्राणशीला सुशीला च सुरक्ता रक्तवाहिनी | (प्. ३७) चेलिनी सिंहसंस्था च व्याघ्रस्था जगवाहिनी || पारिजातहरा मर्त्यसत्यलोकनिवासिनी | सुरभी वामनी चैव निन्दका नन्दिनीति च || लक्ष्मीश्च सत्यभामा च हिडम्बा वकरूपिणी | ज्वरमाता ज्वरी ज्वाला ज्वालिनी ज्वलदा ज्वला || त्रिशिरा त्रिपथा तिस्रः कर्माङ्गवासिनी क्रिया | मन्दा मन्दमती भोगवती पातालगामिनी || गगणाश्वा गणाश्वा च आश्वाम्बा सुकुलीमहि | कुमदा भक्तिसंयुक्ता भक्तिरम्या सनातनी || निष्कामा च सकामा च सर्वकामाङ्गवासिनी | कामाङ्गनाशिनी क्लिन्ना मनोभुः पुष्टिवर्द्धिनी || औषढी वैद्यमाता च सर्वमृत्युविनाशिनी | उक्तानुक्ता च यत् किञ्चित् स्थावराणि चराणि च || तत्र नित्यस्थिता देवी छिन्नमस्ता शिवप्रिया | इति सहस्रनामेदं शिवायाः शिवभाषितम् || यः पठेत् प्रातरुश्याय प्रात्रःकाले निशामुखे | अर्द्धरात्रौ तथा रात्रौ पूजाकाले महेश्वरी || श्मशाने प्रान्तरे दुर्गे घोरे निगडवन्धने | नौकायां गिरिदुर्गे च शङ्कटे प्राणसंशये || यत्र तत्र भये प्राप्ते विषवह्निभयादिषु | रवौ सिंहे च संप्राप्ते योऽर्चयेत् परमेश्वरीम् || पठित्वा पाठयित्वा च सर्वान् दुष्टान् विनाशयेत् | न पश्यन्ति च ते सर्वे साधकं सर्वकालतः || पठित्वा कवचं देवि स्तवमेनं विधानतः | यत्र तत्र गतो वापि जयन्तस्य करे स्थितः || केतौ वा दुन्दुभौ वापि स्वर्गस्थाने विशेत् सदा | विजिते पार्थिवान् सर्वान् गृहमायातिसंहरेत् || भौमावास्यां निशाभागे चतुष्पथगतो नरः | श्मशाने प्रान्तरे गत्वा दग्धमीनसमन्वितम् || पायसान्नं वलिं दत्वा कुबेर इव मानवः | चितायां भौमवारे च यो जपेत् साधकोत्तमः || पठित्वा कवचं तत्र पठेन्नाम सहस्रकम् | सोऽदर्ऽऽगनो भवत्याशु षण्मासाभ्यासयोगतः || जपेन्मन्त्रं महादेवि चण्डदेव्या विधानतः | गजाष्टकायुतं ज्ञात्वा वाणीवत् सत् कविर्भवेत् || समिषान्नं वलिं दत्वा शून्यारामे तथा गृहे | जपित्वा च पठित्वा च भवेद्वागीश्वरः परः || रजस्वला भगं दृष्ट्वा जपेच्च साधकः स्वयम् | षट् सहस्रं जपित्वा च भवेद्भूमिपुरन्दरः || स्वशुक्रैः शोणितैश्चैव पठित्वा कवचं सुधीः | वलिं दत्वा जपेन्मन्त्रं स भवेत् सम्पदां पदः || परयोनौ जपेन्मन्त्रं स भवेत् सम्पदां पदः | दग्धमीनं कुक्कुटाण्डं मुषिकं महिषं नरम् || मधुमांसं पिष्टकान्नं वलिं दद्यान्निशामुखे | यत्र तत्र यथा स्थाने स्वयं नृत्यपरायणः || दिगम्बरो मुक्तकेशः स भवेत् सम्पदां पदः | परयौनौ जपेन्मन्त्रं सर्वकालेषु सर्वदा || धर्मार्थकाममोक्षार्थी चतुर्वर्गं लभेन्नरः | (प्. ३७) मद्यमांसं बलिं दत्वा निशायां साधकैः सह || जपित्वा च महाविद्यां सुन्दरीं भवसुन्दरीम् | योनिक्षालनतोयेन तर्पयेत् चण्डिकां सुधीः || षट् सहस्र प्रमाणेन भवेत् तस्य वसेज्जगत् | परिचिन्त्तं विचिन्त्याथ जपेल्लक्ष्यमनन्यधीः || तानि सर्वाणि विधिना देवीं दद्याद्दिने दिने | यदन्निवेदयेद्देव्यै तसांशं भक्षयेन्नरः || तदा भवेन्महाप्राज्ञः सर्वतत्त्वपूरस्कृतः | दग्धमीनं दग्धमांसं काककुक्कुटमुषिकम् || निशाभागे बलिं दत्त्वा साक्षान्नारायणो भवेत् | नैवेद्योच्छिष्टद्रव्येण दद्यात् साधकसत्तमः || अर्द्धरात्रे निशाभागे पूजयित्वा विधानतः | स्तुत्वा भगवतीं नित्यां देवीं मूलस्वरूपिणीम् || षण्मासेन लभेत् सिद्धिं देवैरपि सुदुर्लभाम् | भगलिङ्गैर्भगाख्यानैर्भगशब्दाभिधानकैः || भगलिङ्गामृतैर्द्दद्यात् नैवेद्यां साधकोत्तमः | स भवेत् पार्वतीपुत्रः चण्डदेव्याः प्रसादतः || योनिक्षालनतोयेन च्छन्दकैकं क्षिपेत् सदा | स्वधानेदं भगवती भगलिङ्गामृतं मम || स्वशक्तौ परशक्तौ वा सर्वकालं जपेत् सुधीः | निशायां दिवसे वापि देव्याः प्रीतिं विवर्द्धयेत् || मासमात्रेण ते सिद्धिर्देवैरपि सुदुर्लभा | मद्यैर्मांसैर्यजेद्देवीं छिन्नमस्तां महामतिः || तस्यांशं भक्षयित्वा च भवेद्भूमिपुरन्दरः | मारणं द्वेषणञ्चैव वशीकरणमेव च || यमसूर्येन्दुवास्वादीन् स्तम्भयेत् साधकः सदा | मोहनोच्चाटनञ्चैव षट् कर्माणि भवेन्नरः || राजा च दासवद्भावं करोति कमलानने | वादी मुकोभवेद्दृष्ट्वा स एव निष्प्रभामताः || वक्षभूतपिशाचाद्या डाकिनो ये सुरादरः | कुष्माण्डा विघ्नकर्तारः स्वयमेव यमः स्वराट् || न पश्यन्ति न शृणुन्ति दृष्ट्वाचारविधिप्रिये | स्वर्गमर्त्ये च पाताले गन्धर्वाकु भूतला || निवातकवचादीनां भयं तेषां न जायते | गोरोचनाकुङ्कुमेन लिखेदेतत् स्तवं सुधीः || स्वयम्भूकुसुमैः शुक्रैर्भूर्जपत्रे कुजे शनौ | शुभयोगे सुनक्षत्रे सुतिथौ शून्यमन्दिरे || सद्या च विलिखेन्मन्त्रकवचं स्तवनं शुभम् | तद्योनौ पूजयेद्विद्यां निशाशेषे विधानतः || वस्त्रालङ्कारगन्धाव्यै? स्तोषयेत् परमेश्वरीम् | तथानिवेदयेद्रक्षां देवीं ध्यात्वा विधानतः || मस्तके वा भूजे धृत्वा सर्वसिद्धिं लभेन्नरः | सिन्दुरचन्दनैर्देव्याः स्वभूषणविभूषणैः || कुमार्याः पूजयित्वा च स एव श्रीसदाशिवः | स्वरतीं कुलटां रम्यां वालिकां मदनान्विताम् || पूजयित्वा जपित्वा च वशयेत् सकलं जगत् | नास्ति विद्वेषणं तत्र मित्राः सर्वे सुरासुराः || यत्र तत्र स्थितो ग्रहः कमला तत्र तिष्ठति | न माचार्यादि भयं तत्र नाधन्नो व्याधयस्ततः || दुर्भिक्षशमनं याति दीर्घायुर्भवति ध्रुवम् | (प्. ३८) न शोकं नगवां व्याधिर्ग्रहदोषादिकञ्च यत् || नास्ति चौरभयं तत्र रोगशोकयुतो नरः | नष्टे वा अग्निदाहादौ स्तवे यन्त्रे वरानने || मासोपवासं कर्तव्यं देव्याः प्रीतिं विवर्द्धयेत् | पूजयित्वा विधानेन छागमेषादिभिर्गवैः || रुरुभिर्हरिणैर्ष्ट्रैर्गजैः क्रोडै शिवाखुभिः | स्ंहैरश्वर्वयलोलैर्नारिकेलैश्च कच्छपैः || हूत्वा च पूजयित्वा च तुष्टा भवति चण्डिका | मासि मासि सदा दद्यात् वलिं देव्यै विधानतः || कुम्भे कुम्भे सुरां नित्यं हूत्वा च विधिना सुधीः | तोषयेत् पार्वतीं चण्डीं छिन्नमस्तां विरूपिणीम् || शिवावलिं निवेद्याथ तोषयेर्जगदम्बिकाम् | भगशब्दं समुच्चार्य भगशब्दैस्भवेत् सदा || रजस्वला भगे नित्यं जपेद्विद्यां विशालधीः | लक्षमेकं तदर्धं वा तदर्धं वा तदर्धकम् || निशायां पूजयेद्देवीं कुमारीं पर्वतत्मजाम् | तदा भवति संतुष्टा स्कन्दमाता सरस्वती || कामाद्यां च जपेद्विद्यां लक्ष्याद्व्यां वा जपेत् सदा | ओंकाराद्यां जपेद्विद्यां लज्जाद्या च जपेत् सदा || सर्वदा सर्वकालेषु लक्ष्याद्यां सर्वसिद्धिदाम् | उपास्य विधिना धीमान् पूजयित्वा कुमारिकाम् || तद्योनौ प्रजपेद्विद्यां षट् सहस्रं दिने दिने | न दोषो विद्यते तत्र ब्रह्मणो भाषितं पुरा || आचाराष्टकरूपेण सिद्धिरूपेण संशयः | किमन्यं वहूना देवि कथितव्यमतः परम् || इति विश्वसारतन्त्रे प्रचण्डचण्डिकासहस्रनामस्तोत्रं समाप्तम् || अथातः संप्रवक्ष्यामि मन्त्रं त्रैलोक्यपूजितम् | महाविद्या महापूर्वा ब्रह्मणा भाषिता पुरा || विष्णुना कथिता विद्या ब्रह्मणे नाभिपङ्कजे | ब्रह्मणा कथिता विद्या नारदाय ततः परम् || नारदो असितायेति असितो देवलाय च | देवलो गौतमायेति गौतमः कश्यपाय च || कश्यपेन पुरा विद्या षण्मात्रं प्रजपेत् सदा | तदा भवेन्महाप्राज्ञः प्रजापतिरिवापरः || ततः प्रजापतिर्भूत्वा सशरीरं दिवं गतः | एतस्मिन्नेव काले तु भैरवश्चिन्ततो भवेत् || विद्यां गृहीत्वा स ऋषिः स्वर्गन्तुमुपचक्रमे | तदास्वेति महेशानि नरलोके कथं भवेत् || धनिनः श्रोत्रिषश्चैव सर्वे धर्मपरायणाः | इति कृत्वा मतं तत्र कश्यपस्थानमागमत् || तत्कृत्वा कश्यपो देवा महाविद्यां षडक्षरीम् | कथयामास तां विद्यां छिन्नमस्तां सुरेश्वरीम् || तदा भवन्ति ते लोकाश्चतुर्वर्गफल प्रदाः | अथातः संप्रवक्ष्यामि देव्या मन्त्रं मनोहरम् || सुगुप्तं परमं पुण्यं सर्वसिद्धिप्रदायकम् | मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने || (प्. ३८ब्) यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्वयम् | किमन्यैः देवेशि ययद्वाञ्छितमुत्तमम् || तद् सर्वं लभते देवि मन्त्रज्ञानेन देशिकः | शिवबीजं समुद्धृत्य रतिबिन्दुविभूषितम् || वह्निबीजान्वितं कुर्याद्वर्णेयं समुदाहृता | इन्द्रबीजं समारूढं वर्गाद्यं परिकीर्तितम् || रतिबिन्दुसमायुक्तं कामबीजं समाहितं | लक्ष्मीबीजन्तु पूर्वोक्तं वाग्भवं तदनन्तरम् || मायाबीजं तथास्त्रञ्च षड्वर्णं परिकीर्तितम् | हृल्लेखा मदना लक्ष्मीर्वाग्भवं कुर्चमेव च || अस्त्रान्तं छिन्नमस्ताया महाविद्या प्रकीर्तिता | अस्यापि सदृशी विद्या जगत्स्वपि न विद्यते || षड्वर्णोऽयं मनुः साक्षात् मोक्षदो नात्र संशयः | जपपूजादिकं सर्वमस्याः षोडशवर्णवत् || देवकुटात्मिका विद्या चतुर्वर्गफलप्रदा | अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने || प्रीत्यालीढपदां सदैव दधतीं छिन्नं शिवः कर्तृकां दिग्वस्त्रां स्कन्दशोणितसुधाधारां पिबन्तीं मुदा | सर्पावन्ध शिरोवलिस्त्रिनयनां हृद्यूत् पलानां कृताम् | मद्याशक्तमनोमनो भवोपरिहृदि ध्यानाज्जवासन्निभाम् || दक्षे चातिसिता विचित्रगदय कुन्तं तथा खर्परम् | हस्ताभ्यां दधतीं रजोगुणभवान्नाम्नापि सावर्णी || देव्या च्छिन्नकवन्धतः पतदसृग्धारां पिबन्तीं मुदा | नागाबन्द्धशिरोवलिर्मनुविदा ध्येया तथा सा सुरैः? वामे कृष्णतनुं तथैव दधतीं खड्गं तथा खर्परम् | प्रत्यालीढपदां कवन्धविगलद्रक्तं पिवन्ती मुदा | शेषाया प्रलये समस्तभूवनं भोक्तुक्षमी तामसी || शक्तिः सैव पदा परा भगवती नाम्नापि सा डाकिनी | एवं संचिन्त्य तां देवीं पूर्ववत् प्रजपेत् सदा || आचारात् पूर्ववत् कुर्यात् अथवा कालिकासमम् | ऋषिन्यासादिकं कृत्वा भूतशुद्धिं विधाय च || अथ वक्ष्ये महेशानि स्तवराजं शुभावहम् | शृणुष्व परया भक्त्या सर्वकामफलप्रदा || थेलत्कुण्डलमण्डलयुगस्फारभ्य वक्त्राम्बुजस्कुर्ज्यानीरजलोचनैस्त्रिजगतीव्यक्तं त्रिलोकीगता | प्रोद्गण्डप्रकटाट्टहासपट्टभिर्दंष्ट्राङ्कुरौ प्रोल्लसन्नालाकुञ्चितकेशपिङ्गलजटाजुटटेस्तुभ्यं नमः || वैषाघ्राजिनरञ्जितसज्यादानेरन्यै प्रलयघोरे खर्वानिर्वचनीय नीलशुभगे मुण्डावलिमण्डिते | कर्तृं कन्दरुचिं विचित्ररुचित्रा भालं दधाने पदे मातर्भक्तजनानुकल्पनि महामाये तुभ्यं नमः | इश्यं मे सुरवृन्दवन्दितपदद्वन्द्वारविन्दप्रभाम् | देवीमिष्टफलार्थसाधनकरीं ज्ञानप्रदामिश्वरीम् || ध्यायन्ति स्तुतितिस्तुवन्ति? सततं प्रायेण तेषां मुखाद्वाचा निर्मलगद्यपद्यरुचिराङ्कीयस्त्यनं सम्पदम् || इति विश्वसारतन्त्रेषडक्षरी स्तवराजः समाप्तः || (प्. ३९) श्रीपार्वत्युवाच || देवदेव महादेव सर्वविद्याविशारद | कपालखट्ट्वाङ्गधर सर्वमन्त्रपुरङ्कृतः || षडक्षरस्य कवचं कथयामास तत्वतः | श्री ईश्वर उवाच || देव देवा महादेवः सर्वविद्या विशारदः | तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः || षडक्षरस्य कवचं कथयामास तत्वतः | श्री ईश्वर उवाच || साधु साधु महेशानि साधुलोकहितञ्च यत् | कथयामि महागोप्यं कवचं सुरदुर्लभम् || सुगोप्यं सर्वतन्त्रेषु सर्वदेवेषु गोपितम् | गोपितं सुरसंघैश्च विश्वसारे प्रकाशितम् || प्रातःकाले तथा मध्ये सायाह्ने च विशेषतः | अर्द्धरात्रौ तथा रात्रौ निशाभागे विशेषतः || सशक्त्या प्रजपेन्मन्त्रं कवचं प्रपठेन्नरः | तत्क्षणात् देवतासिद्धिर्लभते नात्र संशयः || ध्यात्वा देवीं पठेदेतत् कवचं सुरपूजितम् | ओंकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये || नार्चनं पूजनं तस्या मन्त्रमात्रं जपेन्नरः | प्रपठन् कवचं नित्य भैरवेण च भाषितम् || हृल्लेखामूर्द्ध्नि मां पातु ह्रींस्वरूपा महेश्वरी | क्लीं स्वरूपा महामाया सर्वतन्त्रसमन्विता || लक्ष्मीरूपा सदा पातु सर्वदेहेषु पूजिता | वदने सर्वविद्याख्या वैष्णवी सिद्धिदायिनी || सरस्वती सदा पातु जिह्वायां शक्तिरूपिणी | ऐकारबीजरूपा च कवचे हृदये इवतु || हुंकारबीजरूपा च माया रूपा महेश्वरी | हस्तायाः पादयोर्नाभौ पार्श्वयोश्चक्षुषोर्नसि || उदरे च नितम्बे च लिङ्गे गुह्ये पदद्वये | हस्तयोः पृष्ठवंशे च ककुद्यंशे नितम्बके || फट्कारः सर्वदा पातु अस्त्ररूपा शिवप्रिया | डाकिनी वर्णिणी रक्षां करोतु मम मस्तके || वज्रवै रोचनी पातु सर्वाङ्गे छिन्नमस्तका | ओंकारि सर्वदा पातु सर्वाङ्गेष्वङ्गदेवता || पिङ्गलाक्षी सदा पातु सर्वाङ्गेष्वङ्गदेवता | इति वा प्रपठेद्देवि सर्वशास्त्रे स्वयं विधिः || खड्गरूपा सदा पातु मूर्द्ध्नि देशे सदा मम | श्रीवज्रा सर्वदा पातु शिखायां मन्त्ररूपिणी || पाशरूपा सदा पातु सर्वाङ्गे कवचरूपिणी | अङ्कुशा सर्वदा नेत्रयोः शशिसूर्ययोः || असुरक्षयकरी देवि सर्वाङ्गे अस्त्ररूपिणी | ओंकरालः सर्वदा पातु विकरालः सदावतु || अतिकरालः सदा पातु महाकरालः सदावतु | ओं गणपतिः सदा पातु परमगुरुः सदावतु || गुरुर्वा सर्वदा पातु क्षेत्रपालः सदावतु | आधारशक्तिः सदा पातु कुर्मेऽयं सदावतु || अनन्तः सर्वदा पातु हृत्पद्मं सर्वदावतु | वर्णरूपा सदा पातु छिन्नमस्ता शिवप्रिया || इति कवचं दिव्यं कथितं सुरदुर्लभम् | यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः || गोपितः सर्वतन्त्रेषु विश्वसारे प्रकाशितम् | प्राणान्तेऽपि न वक्तव्यं नाशिष्याय कदाचन || (प्. ३९ब्) शठार भक्तिहीनाय क्रूराय कवचं प्रिये | न वक्तव्यं न वक्तव्यं न वक्तव्यं कथञ्चन || रे पुभ्रा? मित्रा शृणुष्व शैवेनोक्ता पुरा श्रुती | तस्मान्मन्त्रं यथायन्त्रं कवचञ्च विधानवित् || न दातव्यं न प्रकाश्यं दर्शयेन्न कदाचन | मासमेकं पठेद्यस्तु कवचं सुरदुर्लभम् || स भवेत् सुन्दरः साक्षात् कुवेर इव चापरः | मासद्वयं पठेद्यस्तु स भवेत् सम्पदां पदः || मासत्रयं पठेद्यस्तु स भवेन्निधिभाजनम् | मासचतुर्थे संप्राप्ते कवीनामग्रणीर्भवेत् || संप्राप्ते पञ्चमे मासि भवेत् शैवो निरामयः | षष्ठे मासे तु संप्राप्ते भवेद्भूमिपुरन्दरः || सप्तमे मासि संप्राप्ते त्वधनी धनवान् भवेत् | अष्टमे मासि संप्राप्ते पुत्रप्रौत्रान्वितो भवेत् || नवमे मासि संप्राप्ते निरुग्नो भवति ध्रुवम् | दशमे मासि संप्राप्ते सर्वविद्येश्वरो भवेत् || एकादशे तु संप्राप्ते चतुर्वर्गं लभेन्नरः | इति विश्वसारतन्त्रे परदेवतायाः षडक्षर्याकवचं समाप्तम् || एवं सञ्चिन्त्य विधिना तज्जपञ्च समर्पयेत् | मन्त्रेणानेन देवेशि पूजयित्वा सुरेश्वरीम् || गन्धपुष्पैश्च धूपैश्च गीतवाद्यपुरःसरैः | पूजयित्वा महामायां सालङ्कारेण देशिकः || ओङ्कारं पूर्वमुच्चार्य गुह्यातिगुह्यमुच्चरेत् | गोप्तीपदं समुद्धृत्य गृहाणपद पूर्वकम् || अस्मत् कृतं समुद्धृत्य तदा जपपदं भवेत् | सिद्धिर्भवतु मे देवि त्वत् प्रसादात् त्वयि स्थिता || मन्तोऽयं कथितो देवि सदा जपसमर्पणे | यन्त्रोसर्गात् ततः कुर्यात् मन्त्रेणानेन देशिकः || मूलमन्त्रं समुच्चर्य चतुर्थ्यन्तपदं वदेत् | चतुर्वर्ग फलोद्देशं स्वगोत्रञ्च सुरेश्वरि || नमोऽनन्तञ्च ततो दद्यात् शङ्करेण च भाषितम् | (लक्षमेकं जपं कुर्यात्) यथालिङ्गे तथा पादं लिङ्गसंख्या कृता मया | शालग्रामे मनौ यन्त्रे प्रतिमा चित्रकेषु च || पुस्तके त्रिशिखे स्वर्गे गुरुपादद्वयेषु च | पूजयेत् पयया भक्त्या शङ्करेण च भाषितम् || लक्षमेकं जपं कुर्यात् पुरश्चरणकर्मणि | महाविद्या विषये तु जपं लक्षं प्रमाणकम् || सर्वत्र सर्वतन्त्रेषु कथितं पद्मयोनिना | मद्यैर्मांसैर्वैर्जयन्तैः शक्तुभिर्मधुमांसकैः || पूजयेत् परया भक्त्या देवीं दानवनाशिनीम् | प्राणप्रतिष्ठां सर्वत्र कृत्वा मन्त्रं जपेत् सुधीः || पूजां कृत्वा विधानेन स्विकारं प्रतिपादयेत् | नानात्वदामि न शृणोमि न चिन्तयामि न स्मरामि न भजमि न चाश्ररामि | त्यक्त्वा त्वदीयचरणा पूजमादरेण मां त्राहि देवि कृपया मयि देहि सिद्धिम् | (प्. ४०) अज्ञानाद्वा प्रमादाद्वा वैगुण्यात् साधनस्य च | यन्न्युनमतिरिक्तं वा तत् सर्वं क्षत्तुमर्हसि || द्रव्यहीनं क्रियाहीनं श्रद्धभक्तिविवर्जितम् | तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे || यन्मया क्रियते कर्म षन्महत् स्वल्पमेव वा | तत् सर्वञ्च जगाद्धत्रि क्षन्तव्यमयमञ्जलिः || तदा पुष्पाञ्जलिं दत्वा जाग्रत् स्वप्नसुषुप्तिषु | तत्सर्वं भाववान् पूजाहया हत्यै नमः शिवे || यन्मया क्रियते कर्म षन्महत् स्वल्पमेव वा | तत्सर्वञ्च जगत्धात्रि क्षन्तव्यमयमञ्जलिः || तदा पुष्पाञ्जलिं दत्वा अद्वैतञ्च समुच्चरेत् || श्री ईश्वर उवाच || अद्वैतभावनां वक्ष्ये शृणुष्व कमलानने | यस्य विज्ञानमातेण भवेद्गङ्गाधरः स्वयम् || अहं स्त्री पुरुषोऽहं सदाशिवोऽहं परमप्रकृत्यहम् | पवमपुरुषोऽहं नादोऽहं बिन्दुरहं कलाश्चाहम् || शब्दब्रह्मोऽहं क्रियायोगोऽहं ब्रह्माहं विष्णुरहं सौराऽहं ब्राह्माहं वैष्णवोऽहं शिवाहम् | नानाशक्त्यहमसुरोऽहं सुरोऽहं उच्चारवहितोऽहम् | विद्योहं वेदाश्चाहं वेदसाक्षिणश्चाहं वेदक्रियाहं कर्मयोगोऽहं धर्मकर्माहम् | पितामहं मातामःअं पुत्रोऽहं गुरुरहं आचार्योहं आगमोऽहम् | महाभागवतोऽहं श्रीभागवतोहं श्रुतिशास्त्राण्यहम् | मन्त्रार्थाऽहं स्तवोऽहं कवचोऽहं अहं सहस्रनाम गायत्र्यहं बीजानाहं त्र्यक्षरोऽहं पञ्चाशद्वर्णमातृकाहं पञ्चमहाभूतान्यहं तत्वानाहं स्थुलोहं सूक्ष्मोऽहं कुलाचलश्चाहं प्राणायामादिषोडशपदार्थोऽहम् | ऋषिश्चाहं मुनयश्चाहं लक्ष्म्यहंअ श्रियोऽहं प्रियोऽहं गौर्यहं प्रेतोऽहं कुष्माण्डाश्चाहं लोकपालाश्चाहं ग्रहाश्चाहं दिग्गजाश्चाहं दशदिशोऽहं ऊर्द्धोऽहं अधोऽहं चतुर्दशभुवनान्यहम् | तत् स्थोऽहं तदहं संप्रकुर्यात् | जपेन्मन्त्रं विधानेन संख्यां कुर्वन् विधानतः | न दोषो मानसे जापे इत्याह भगवान् हरिः || इति विश्वसारतन्त्रे प्रचण्डचण्डिका विवरणे तृतीयः पटलः || अथातः संप्रवक्ष्यामि पुण्यां वै दक्षिणाविधिम् | सर्वसिद्धि प्रदं साक्षात् महापातकनाशनम् || देवैर्देवत्वविषये सिद्धेः सिद्धत्वसिद्धये | राक्षसैः पन्नगैर्देवि मनुष्यैश्च मुमुक्षुभिः || श्मशाने च शून्यागारे चतुष्पथे | शवोपरि चितास्थो वा शययास्थो मैथुने रतः || परयोनौ योनियन्ते पूजयेत् परदेवताम् | योनिकुण्डे रक्तपुष्पैर्विल्वैः गुरुसमन्वितैः || ऋतुकालोद्भवैः पुष्पैर्जवाजावकसं युतैः | (प्. ४०ब्) कुक्कुटैर्महिषैर्मत्स्यैर्मार्जारैर्नकुलैस्तथा | मृगैर्मेषैः काकशूकैर्मद्यैर्मधुरपायसैः || नरास्थैर्नरमांसैश्च महाशङ्घैर्विशेषतः | नारास्थैर्मालिकां कृत्वा महादेवीं जपेत् सदा || मणिपाषाणधातुनां मालाकार्या विचक्षणैः | दिवसे वैष्णवाचारो विष्णुवेशे च संस्थितः || धर्मशास्त्रप्रसङ्गेन श्रीभागवतगायने | हविष्यान्नं दिवा कुर्यात् साधकः सफलाप्तये || किन्तु रात्रौ प्रकुर्वीत सामिधान्नं शिवप्रिया | दन्ताख्यां मालिकां कृत्वा सदा मन्त्रं जपेत् सुधीः || लतागृहे जपेन्मन्त्रं साधकः सुसमाहितः | पूजा स्थाने विनिक्षिप्य नरमुण्डं तदुर्द्धके || कमलासनमासाद्य पूजयेत् परदेवताम् | षट्सहस्र प्रमाणेन प्रत्यहं किं न सिध्यति || अशुचौ वा शुचिर्वापि यथस्थाने च देशिकः | प्रजपेत् परया भक्त्या सर्वतन्त्रसमन्विता || धर्मार्थकाममिक्षार्थी सततं प्रजपेन्मनुम् | भक्ष्याभक्ष्यविचारं हि न कर्तव्यं सदाबुधैः || न च ब्रात्यं तथा हिंसा न मिथ्याभाषणं क्वचित् | सर्वत्र सर्वभावेषु यजेत् कालिं महामतिः || करालवदनां घोरां मुक्तकेशीञ्चतुर्भुजाम् | चामुण्डां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् || सदाश्छिन्नशिरः खड्गवामाधोर्द्धकराम्बुजाम् | अभयं वरदञ्चैव दक्षिणोर्द्ध्वोधपाणिकाम् || महामेघ प्रभां श्यामां मुण्डमाला विभूषिताम् | दिगम्बरीं महाभीमां प्रत्यालीढपदे स्थिताम् || कण्ठावशक्तमुण्डालिगलद्रूधिरचर्चिताम् | कर्णावतंशतां नीतशवयुग्मभयानकाम् || घोरदंस्ट्रां करालस्यां पीनोन्नतगयोधराम् | शवानां करसंघातैः कृतकाञ्चीं हसन्मूखीम् || सृक्कद्वयगलद्रक्तधारा विक्षूरिभाननाम् | अकालजलदश्यामां श्मशानालयवासिनीम् || शिवाभिर्घोरावाभिश्चतुर्दिक्षुसमन्विताम् | शवरूपमहादेवहृदयोपरि संस्थिताम् || स्वयोनिं शिवलिङ्गे तु निक्षिपत्तिं मुहूर्मुहूः | एवं ध्यात्वा महाकालीं चतुर्वर्गफलप्रदाम् || मद्यैर्मांसैर्स्तथा शुक्रैर्गोमांसैः पूजयेत् सदा | अमाद्यै पूजयेद्देवीं भवानीं भवमोचिनीम् || सर्वकाले सदा देवीं ध्यत्वा च विधिना सुधीः | स्वशक्त्य प्रजपेन्मन्त्रं न शक्त्या च कथञ्चन || अविकारेण मनसा ध्यात्वा देवीं सनातनीम् | प्रजपेत् परया भक्त्या सर्वकाले च सर्वदा || त्रिसन्ध्ये च जपेद्विद्यां श्मशाने च विशेषतः | सहस्रप्रमाणेन प्रत्यहं किं न सिध्यति || नात्र सिद्धाद्यपेक्षा च न च मित्रादिदुषणम् | न वित्तव्ययवाहूल्यं न च व्यत्यं कथञ्चन || मत्स्यैर्मद्यैः पुरश्चर्यां सर्वदा कारयेद्बुधः | तस्यां संभक्षयेद्धीमान् शिष्याय प्रणतात्मने || न भक्षयेच्च तस्यांशं देवता जायतेऽचिवात् | (प्. ४१) यत्र मां चिन्तयेद्देवीं सर्वकामसमृद्धये || तस्य हस्ते सदैवास्ति अणिमादिर्न संशयः | गद्यपद्यमयीं वाणीं सभायां तस्य जायते || तस्य दर्शनमात्रेण वादिनो निष्प्रभा भवेत् | राजा च दासभावत्वं भजते चापरेण किम् || वह्नेः *?तां जलस्तस्भं गतिस्तस्तं विवस्वतः | दिवारात्रिव्यत्ययञ्च वशीकरणमेव च || सर्वेषां वल्लभो याति यशः कीर्तिविवर्द्धनः | अन्तेऽभवन्महादेव्या गणत्वं नात्र संशयः || देव्यानन्दे सदानन्दः स एव कालिका तनुः | निन्दाद्रव्येषु नैवेद्यं त्रिसन्ध्ये च निवेदयेत् || नित्यं यो निन्दयेद्भूत्वा द्रव्याणि मनसापि वा | योगिन्यः पाशहस्तेन तं वध्नाति यदृच्छया || लौहद्गमुरयोगेन चुर्णयन् मस्तकं ततः | मांसास्थिमज्जाचर्वण्यो योभिन्यः शुभलक्षणाः || पूजां कृत्वा तु देव्याः स भगगीतिं विनिर्दिशेत् | लिङ्गगीतिं विशेषेण महेशानि विनिर्दिशेत् || आनीय योषितं दिव्यां विवस्त्रां नृत्यमारभेत् | शून्यागारे तया सार्द्धं स्वयं नृत्यपरायणः || शुक्रशोनितयोगाभ्यां पूजयेत् परदेवताम् | षण्मासेन लभेत् सिद्धिं देवैरपि सुदुर्लभाम् || तन्मासे तस्य सिद्धिः स्यान्महाकालेन भाषितम् | श्रीपार्वत्युवाच || काली विद्या महाविद्या सर्वविद्यासु चोत्तमा | कथयामास तत्त्वञ्च तत्त्वार्थेन विशेषतः || काली विद्या महाविद्या सुचिता न प्रकाशयेत् | तस्यास्तद्वचनं श्रुत्वा प्रजहास महेश्वरः || विहस्य कथयामास अश्रुशष्यादिकञ्चरेत् | श्री ईश्वर उवाच | साधु पृठं महादेवि साधुलोकहितञ्च यत् | तत्सर्वं कथयामाद्य तत्त्वा*?न विधानतः || यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति | सृष्टिसंहारकाले च लयमेष्यति यत्तनौ || पञ्चभूतमयी विद्या सर्वतन्द्रमयी शिवा | दिवारात्रिमयी विद्या सर्वतन्त्रमयी शिवा || मातृकावर्णभेदेभ्यः कालीमन्त्राः प्रजज्ञिरे | प्राणायाम्प्रभावेण मन्त्रसिद्धिं लभेन्नरः || भैरवस्तु ऋषिश्चास्यो अनुष्टूप्छन्द एव च | कालिका देवता प्रोक्ता स्वाहाशक्तिसमन्विता || त्वदीयांशं समुद्धृत्य पुरा काली महातनुः | निशुम्भशुम्भमथने सहृतं तनुसंज्ञितः || यथा ते क्रोधसंभूता तदा काली विनिःसृता | पुराक्रोधातुरवपुः कृष्णवर्णं महेश्वरि || तस्माच्च कालीसम्भुता भवशत्रुविनाशिनी | मन्त्रोद्धारमहं वक्षो भैरवेण च भावितम् || वर्गाद्यं वह्निसंयुक्तं रतिबिन्दुविभूषितम् | त्रिगुणञ्च ततः कुर्चद्वयं मायाद्वयं ततः || दक्षिणे कालिके चेति पूर्ववच्च तथैव च | ठद्वयेन समामुक्ता महाविद्या महेश्वरि || नातः परतरा विद्या नातः परतरा श्रुतिः | (प्. ४१ब्) नातः परतरा सिद्धिः कथिता पद्मयोनिना || कादिवर्णानि प्रकृतयः हादिवर्णादिव्?इकृतयः | कूर्चद्वयं प्रकृतिर्लज्जाद्वयं विकृतिसम्बोधनपदम् || कीलकं पुनरतिकादिवर्णानि प्रकृतयः | हादिवर्णानि विकृतयः कूर्चद्वयं प्रकृतिविकृतिवह्निजाया शक्तिरूपा प्रकृति मत्र मां जा *? न्ति सर्वेषां वल्लभां भवन्तीति | संवारं तरति च मृत्युं जयति | स पा *? नं तरति | स सर्वहत्यां तरति | स च महापातकान्यु पपातकानि तरन्ति | नाशिष्याय नातिंस्राय क्रूराय हठवादिने || न्युनाङ्गे चातिरिक्ताङ्गे न वक्तव्यं कदाचन | मोहाद्वा यदिवा दैवात् हठवादेन वा प्रिये || कथयित्वा थलायैनां तस्य सर्वं विनश्यति | यथा दरिद्रोऽपि प्रभुतमर्थं प्राप्यं सुगोप्तं परितः प्रकल्पयेत् | तथैवमेनां परितो निरूपयेत् विधानमेतत् कथितं पुरारिणा | कौलवेशे सदा जप्या कौलाचारेण सर्वदा || शुद्धगोलोद्भवैर्देवि कुण्डगोलविधेन च | श्रीदेव्युवाच | केनोपायेन भगवन् कुण्डगोली भवेन्नरः | श्री ईश्वर उवाच || अमृते जायते भर्त्ता या नारी कुण्डमुच्यते | मृते तु गोलकः प्रोक्तः सर्वकर्मफलप्रदः || तस्या योनौ विशेषेण जपेन्मन्त्रं विशालधीः | ऋषिन्यासादिकं कृत्वा पूर्ववत् न्यासमाचरेत् || गुर्वादिकं नमस्कृत्य यजेद्देवीं समाहितः | त्रिकोणं विन्यसेत् पूर्वं पुनश्चैव त्रिकोणकम् || नवकोणन्तु तस्यान्ते तन्मध्ये स्थापयेच्छिवाम् | ततः पद्मं लिखेद्विद्वानष्टपतं सकर्णिकम् || त्रिपुरान्वितयारूढं योनिमण्डलमण्डितम् | तन्मध्ये पूजयेद्देवीं दक्षिणा सिद्धिदायिनीम् || कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् | विप्रचित्तं वलाकाञ्च ततो नीलां घनां पुनः || मेवनादां मिताञ्चैव अमिताञ्च ततः परम् | मुद्रां मात्रां तथाचोग्रामुग्राञ्च तदनन्तवम् || दीप्तां प्रदीप्तां चित्राञ्च वहिर्योनौ प्रपूजयेत् | त्रिपञ्चारे महापीठे काल्याद्याः शक्तयः शुभाः || सर्वा असिकराः श्यामा मुण्डमाला विभूषिताः | देव्याः सदृशवेशाछ्याः स्वस्वभर्तृसमन्विता || पूजयेद्विधिना कालीं कलिकन्मयनाशिनीं छिन्नवत् पूजयेद्देवीं मद्यमांसादिभिर्मुदा | पुरश्चरणमस्याश्च पूर्वं कुर्यान्निरामिषैः | सावित्राख्यानमित्युक्तं हरिष्यान्नैर्विधानतः || सिद्धेमनौ प्रकुर्वीत कुलाचारः सदा शुचिः | यावत् शुद्धिर्भवेद्विद्या तारच्च प्रजपेत् सदा || पुरश्चरणमस्याश्च पूर्वं कुर्यान्निरामिषैः | पूजास्थानं प्रकुर्वीत नानाचित्रैश्च चित्रितम् || सिन्दुरहरितालाभ्यां रचरेत् मण्डलं बुधः | तत्रापि पूजयेत् कालीं साधकः शक्तिसंस्थितः || (प्. ४२) एकत्र भोजनं कुर्यात् स्वशक्त्या सर्वकालतः | ताम्बूलपूरितं वक्त्रं कुर्याच्च विधिनामुना || कर्पूराद्या सदाजिह्वा जपकाले दिशेद्बुधः | करण्डैर्वेष्टितैः स्थाने एकैकं साधकैः सह || प्रजपेत् परया भक्त्या लक्षमेकं दिवानिशम् | सिद्धे मनौ प्रकुर्वीत प्रयोगान् साधकोत्तमः || निष्टीवनं दन्तकाष्ठं स्वदेहोद्वर्तनं तथा | संयुक्तैर्मानुषैः केशैर्मुद्गीर्णान्नेन भोजनम् || होमयेत् सिद्धिकालेन साधकः सकवाप्तये | गोमांसं मधुनालोडा वामहस्तेन होमयेत् || मासार्द्धेन भवेत्तस्य अष्टौ सिद्धिर्नसंशयः | लक्षणं जायते तस्य स्वप्नतादि तद्गुणैः || गायत्रीं प्रजपेदादौ तत् शृणुष्व वरानने | कालिकां वै वदेत् ङ्तां विद्महे तदनन्तरम् || दक्षिणायै तदा ब्रूयात् धीमहीति ततः परम् | तन्नो मातः समुद्धृत्य तदा ब्रूयात् प्रचोदयात् || कामाख्यद्यां वा जपेद् विद्यां लक्ष्म्याद्यां वा जपेत् सुधीः | मायाद्यान्वा जपेद्वापि गायत्रीं सर्वकालतः || लज्जाद्यां वा जपेद्वापि कूर्चाद्यां वा विशेषतः | नीजबीजादिकां वापि ओंकाराद्यां तथैव च || तदा भवेन्महासिद्धिर्महाकालेन भाषितम् || अथ यन्त्रान्तरं वक्ष्ये शृणुष्व कमलानने | त्रिकोणं विन्यसेत् पूर्वं नवकोणं ततः परम् || पद्मं त्रिपुरसंयुक्तं त्रिकोणं तत्र पार्वति | पूजयेद्गन्धपुष्पाभ्यां सिन्दुरहरितालकैः || मत्स्यैर्मांसैरासपकैर्मद्यैर्नानाविधैस्तथा | चतुर्लक्षप्रमाणेन पुरश्चरणमुच्यते || यत्र तत्र यथाचारं यथास्थाने जपेत् सुधीः | यावत् सिद्धिर्भवेद्विद्या तावज्ज्यप्यं दिवानिशम् || मासार्द्धेन भवेत् तस्य अष्टसिद्धिर्न संशयः | जपाद्दशांशतो होमस्तद्दशांशेन तर्पणम् || मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् | एवं विचिन्त्य मनसा पूजयित्वा तु यत्नतः || वहिर्यागं ततः कुर्यात् साधको यतमानसः | हृल्लेखाबीजमुच्चार्य सदाशिवं वदेत्ततः || अशक्तौ द्विगुणं जप्यं दशांशस्य विधीयते | सर्वमन्त्रेषु विद्यासु विधानं समुदीरितम् || काल्यस्तु विधिना देवि सन्तिमूर्त्या विशेषतः | ताः सर्वाः कथयामाद्य तन्त्रेऽस्मिन् संपदावहा || श्मशानकाली देवेशि गुह्यकाली ततः परा | एकजटा तथा काली दक्षिणा शुभलक्षणा || भद्रकाली महाकाली रक्तकाली ततः परा | कालरात्रिस्तथा काली सर्वतन्त्रेषु गोपिता || दक्षिणावज्जपेत् सर्वाः सर्वसिद्धिसमृद्धये | भैरवेण पुरा प्रोक्ता सर्वविद्यारणुत्तमा || महाकालमतं ध्यानं वक्ष्ये सर्वफलप्रदम् | महामेघप्रभां श्यामां मुण्डमालाविभूषिताम् || (प्. ४२ब्) खड्गं दक्षिणपाणौ तु विभ्रतीन्दीवरं तनुम् | कर्तृकं खर्परं चैव क्रमाद्वामेन विभ्रतीम् || द्वां लिखन्तां जटामेकां विभ्रती शिरसा शुभम् | साट्टहासां महाघोरां रावयुक्तां विभीषणाम् || शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् | चतुर्भूज्वां घोरा दंष्ट्रां त्रिनेत्रां युगदन्तुराम् || एवं विचिन्त्य मनसा पूजयित्वा तु यत्नतः | वहिर्यागं ततः कुर्यात् साधको यतमानसः || हृल्लेखा बीजमुच्चर्य सदाशिवं वदेत्ततः | महाप्रेतपदं ब्रूयात् ङेन्तं ब्रूयात्तदासनम् || परात्परा ङेन्तां प्रवदेत्तदनन्तरम् | तदा देवीं चतुर्थ्यन्तां नदान्तां प्रणवादिकाम् || देव्या आसनदानेन तु एषा विद्या प्रकीर्तिता | अथापरं प्रवक्ष्यामि ध्यानं सर्वार्थसाधनम् || भैरवोक्तमहं वक्षें शृणुष्व सुसमाहितः | शवशिरोरचितामालयाभवद्यदा विभावितमुद्रया || श्रुतियुगाञ्चितशवयुग्मकाङ्घितौ उरु च भानुमहेशहृत्तिमण्डलौ | हृदयकर्मणि संस्थितया कृपात्र करण कलिकर्मपादयावदनमिन्दुकलाङ्कितामीक्षतेमितयामाऽमिततयाविरुता परिचेष्टिता स्वजलवाञ्चित सिद्धित सिद्धिकरीम् | सदा भव्तु मे शुभदा किल दक्षिणा || एवं वा चिन्तयेद्देवीं कलिकल्मषनाशिनीम् | नमस्कारं प्रकुर्वीत पूजयित्वा सुरेश्वरीम् || एकं चण्ड्यां सप्त सूर्ये त्रिणि कुर्याद्विनायके | चत्वारि केशवे कुर्यात् शम्बोरर्द्धप्रदक्षिणम् || शङ्खहस्तेन सर्वत्र दक्षिणं परिकीर्तितम् | ततः कर्मार्पणं कुर्यात् मन्त्रेणानेन देशिकः || इतः पूर्वपदञ्चोक्त्वा प्राणबुद्धिदेहकारितो वदेत् | जाग्रत् स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्य? रात्रिन्दिवा च वदेत् | यदुक्तं यत् कृतं चोक्त्वा सर्वं त्वषि सनर्पितमस्तु वदेत् | ओं तत् सर्वं त्वयि समर्पितमुचार्य सिद्धो भवति साधकः || सर्वत्र भक्ष्याद्रव्येण || अभ्युक्षणं प्रकुर्वीत तुलसीदलपूर्वकम् | धेमुद्राप्रदर्श्याथ गालिनीं दर्शयेत् सदा || प्रणवादिनमोऽन्तेन देवनाम चतुर्थकम् | निवेदयामि तत्सर्वं जुषानेदं महेश्वरि || पुनराचमनं दत्त्वा बलिदानं दिशेत् ततः | एह्येहि जगतां मातर्जननिं जगतां तथा || गृह्न गृह्न इमं नित्यं बलिदानं ततः परम् | सिद्धिं देहि पदद्वन्दं ततः शत्रुक्षयं कुरु || यगशब्दं समुच्चार्य ततः कुर्चयुगं पुनः | हृल्लेखाद्वितयं पूर्वे तत्र कवचद्वयं पुनः || तदा मन्त्रं समुद्धृत्य फडन्तं वह्निसुन्दरी | वलिदानमिदं मन्त्रं सर्वतन्त्रसमन्वितम् || सर्वासु मन्त्रविद्यासु यथानाम्ना क्षिपेद्वलिम् | वलिदानन्तु सर्वत्र विज्ञेयं साधकोत्तमैः || अथ स्तोत्रं || कर्पूरं मध्यमान्त्य स्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजन्ते मातरेतत् त्रिपुरहरवधू त्रिः कृतं ये जपन्ति | (प्. ४३) तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छुन्दं ध्वान्तधाराधरुरुचिचिकुरे सर्वसिद्धिं गतानाम् || १ || ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् | जित्वा वाचामधीशं धनदमपि चिरं मोहयन्त्यम्बुजा?क्षी वृन्दं चन्द्रार्द्धचुडे प्रभवति महाघोरवाणावतंसे || २ || ईशो वैश्यानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजन्ते द्वन्दमन्यद्विगलितचिकुरे कालिके ये जपन्ति | द्वेष्टारन्ते निहन्ति त्रिभुवनमखिलं वऽस्यभावं नयन्ति सृक्कद्वन्दाश्रुधाराविनिहितवदने दक्षिणे कालिकेति || ३ || उर्द्धं वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः | सव्ये चाभिर्वरञ्च त्रिजगद्घहरे दक्षिणे कालिकेति | जप्त्वै तन्नाम ये वा तव मनुविभवं भावसन्त्येवमन्व तेषामष्टौ करस्थाः प्रकटितवदने सिद्धयस्त्रा स्वकस्य || ४ || वर्गाद्यं वह्नियुक्तं विधुरतिललितं तभ्रयं कूर्चयुग्मं लज्जाद्वन्द्वञ्च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा | मातर्ये जपन्ति स्मरहरमहिले भारयन्तः स्वरूपं ते लक्ष्मीर्लास्य लीलाकमलदलदृशः कामरूपा भवन्ति || ५ || प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भाव्यित्वा जपन्ति | तेषां नेत्रारविन्दे विहरति कमला वक्त्र शुभ्रांशुविम्बे वाग्देवी देवीमुण्डस्रगतिशयलसं कण्ठि पीनस्तनाढ्ये || ६ || गतासूनां वाहू प्रकरकृतकाञ्चीपरिलसन्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्री त्रिनयनाम् | श्मशानस्थां तल्पे शवहृदि महाकालसुवताप्रशक्तां त्वां ध्यायन् जननि जडचेता अपि कविः || ७ || शिवाभिर्घोरावाभिः शवनिवहमण्डास्थिनिकरैः परं संकीर्णायां पकटितचितायां हरवधूम् | प्रविष्टां त्वां तुष्टामुपरि सुरतेनातियुवतीं प्रसन्नां त्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः || ८ || वदामन्ते किंवा जननि वय मुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् | तथापि त्वद्भक्तिर्मुखरयति चास्माकमपि ते तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः || ९ || समस्तादापीनन्तनजघनध्वग् यौवनवती रताशक्तो नक्तं यदि जपति भक्तस्तव मनुम् | विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः || १० || समाः सुस्थीभूतां जपति विपरीतं यदि सदा विचिन्त्य त्वां ध्यायेन्नतिशयमहाकालसुरताम् | तदा तस्य क्षौणीतलविलसमानस्य विदुषः कराम्भोजे वश्याहरवधु महासिद्धिनिवहाः || ११ || प्रसुते संसारं जननि निजगतिं पालयति च समस्तं क्षित्यादि प्रलयसमये नाशयति च | (प्. ४३ब्) अतस्त्वां धातापि त्रिभुवनपतिः श्रीपतिरथ्ये महेशऽपि प्रायः सकलमपि किंस्तौमि भवतीम् || १२ || अनेन्के सेवन्ते तवाचरगीर्वाणनिवहाविमूढान्स्ते मातः किमपि न हि जानन्ति परमम् | समायाध्यामाद्यां हरिहरविरिञ्च्यादिविबुधैः प्रपन्नोऽस्मि स्मैरं रतिरसमानन्दनिरताम् || १३ || (प्. ४३ब्) धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेकाकन्याणी गिरिशरमणि कालि सकलम् | स्तुतिः का ते मातस्तव करूणया मामगतिकं प्रसन्ना त्वं भूयात् तव मनुनभूयान्मम जनुः || १४ || श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं तस्का?नां निजगलितवीर्येण कुसुमम् | पदं त्वत् प्रत्येकं मनुमपि तव ध्याननिरतो महाकाली स्वैरं स भवति धरित्रीपरिवृढ || १५ || गृहे सम्मर्जन्या परिगलि?तबीजं हि कुसुमं श्मशाने मध्याह्ने वितरति चितायां कुजदिने | समुच्चार्या प्रेम्नामनुमपि सकृत् कालि सततं गजारूढो याति क्षितिपरिवृढः सत् कविवरः || १६ || स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरे ध्यायन् ध्यायन् यदि ज्वपति भक्तस्तवमनुम् | स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी न दीनः पर्यान्ते परमपदलीनः प्रभवति || १७ || त्रिपञ्चारे पीठे शवलिवहृदि स्मेरवदनां महाकालेनोच्चैमदनरसलावण्यनिरताम् | समाशक्तो नक्तं स्वयमपि वतानन्द निरतो जनो यो ध्यायेत् त्वामयि जननि स स्यात् स्मवहरः || १८ || सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्रं मेषं नरमहिषयोश्छागमपि वा | वलिन्ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वं प्रभवति || १९ || वशी लक्षं मन्त्रं प्रजपति हविष्यासनरते दिवामातर्युस्मच्चरणयुगलध्याननिरतः | परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं सम्यक् स्मवहरसमानः क्षितितले || २० || इदं स्तोत्रं मातः तव मनुसमुद्धारणरतो (जनुः) स्वरूपाक्षं पादाम्बुजयुगलपूजाविधियुतम् | निशंर्द्धं वा पूजासमयमथवा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः || २१ || कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वधन्तस्य क्षौणीपतिरपि कुवेरप्रतिनिधिः | रिपुः कारागारं कलयति तं कलि कलया चिरं जीवन्मुक्तः स भवति सुभक्तः प्रतिजनुः || २२ || अथ कवचं || कथयामास तत्वेन येन स्यात् प्रीतिरुत्तमा || ईश्वर उवाच || शृणु वक्ष्यामि कवचं सर्वशत्रुविदारणम् | सर्वशान्तिकरं साक्षात् महापातकनाशनम् || सर्वव्याधिप्रशमनं सर्वसम्पत् प्रदायकम् | चतुर्वर्गप्रदं साक्षात् महापातकनाशनम् || (प्. ४४) अस्याः श्रीदक्षिणकालिकायाः कवचस्य श्रीभगवान् महाकाल् ऋषिरनुष्टुपच्छन्दः आद्या शक्तिर्भगवती देवता द्रीऊ बीजं स्वाहा शक्तिसमृद्धये विनियोगः | क्लीं पातु मस्तके देवि शिखायां द्रीऊं महेश्वरि | भ्रूमध्ये क्रीं महेशानि पातु मां चक्षुषोर्द्वयोः || क्लीं पातु नासिकावक्रे हुं जिह्वायां महेश्वरी | द्रीऊं पातु तालुमूले च द्रीऊं पातु ब्रह्मरन्ध्रके | दक्षिणे कालिका पातु हृदये सर्वसिद्धिदा | क्रीं पातु कर्णयुगले क्रीं पातु ओष्ठयुग्मके || द्रीऊं पातु जिह्वामूले तु हुं पातु वदने पुनः | दन्तपङ्क्तौ च हुं पातु द्रीऊं पातु पार्श्वयुग्मके || मूलाधारे महेशानि द्रिऊं पातु मय सर्वदा | पार्श्वयोर्हस्तयोश्चैव अंशयोश्च कटिद्वयोः || लिङ्गगुह्ये नितम्बे च नाभौ च जठरे पुनः | सर्वधातुषु प्राणेषु इन्द्रियेषु तदात्मके || महाभूतेषु भूतेषु तत् कालासु च पार्वति | सर्वाङ्गे पातु देवेशि स्वाहाशक्ति समन्विता || करालवदना पातु जानुयुग्मं सदा मम | सद्यश्छिन्नमुण्डधरा पातु मे पाद्युग्मकम् || सर्गाङ्गुलिषु मे पातु वामोर्द्ध्वखड्गधारिणी | अभया वरदा पातु श्मशाने मां महेश्वरी || महानेघप्रभा पातु रणे द्युते च पार्वती | चामुण्डा पातु देवेशि अरण्ये सर्वसिद्धिदा || श्यामा देवी सदा तु शङ्कटै शत्रुमध्यतः | दिगम्बरी सदा पातु राजद्वारे सुरार्चने || मुण्डमालाधरा पातु जानुदेशे सदा मम | शवकुण्डलधारिणी मां प्रान्तरे परमेश्वरी || घोरदंष्ट्रा सदा पातु जलमध्ये महेश्वरि | करालास्या सदा पातु वह्निमध्ये शिवप्रिया || पीनस्तनी सदा पातु योषितां सङ्गयोगतः | शवकाञ्चीधरा पातु भूतप्रेतादिमध्यतः || रक्तपाना सदा पातु प्रमत्तस्थानयोगतः | घोररूपा महारौद्री पातु मां भोजने सदा || श्मशानवासिनी पातु मृत्युस्थाने सदा मम | भवने पतु मां देवी काली सर्वसमृद्धिदा || कपाली पातु मां देवी पुत्रान् सर्वसमृद्धये | कुरुकुल्ला सदा पातु शयने मां महेश्वरी || कुल्ला मां सर्वदा पातु गमने विघ्ननाशिनी | विरोधिनी सदा पातु शत्रूणाञ्च विरोधने || विप्रचित्ता सदा पातु पर्वते पर्वतत्मजा | उग्रा देवी सदा पातु वाग्वाये सर्वसिद्धिदा || उग्रप्रभा सदा पातु क्षुधायां पर्वतात्मजा | निद्रायां पातु देवेशि दीप्ता सर्वसमुद्धिदा || लीला देवी सदा पातु मम वृद्धौ महेश्वरी | लज्जायां पातु देवेशि घना नाम महेश्वरी || चौरव्याधिभयात् पातु कराला कालनाशिनी | मात्रादेवी सदा पातु गृहे क्षेत्रादिकेषु च || शुभ्रा देवी सदा पातु स्वर्गे मर्त्ये महेश्वरी | मात्रादेवी सदा पातु मम सर्वार्थसिद्धिदा || (प्. ४४ब्) पातु पातालदेशे मां ब्रह्माणी सर्वकामदा | संग्रामे पातु देवेशि इन्द्राणी विजयप्रदा || चामुण्डा पातु मां देवी परराष्ट्रे महेश्वरी | स्वर्गे मां पातु देवेशी लक्ष्मीः सर्वसमृद्धिदा || योगिनी चक्रसहिता पातु काली सदा मम | कवचस्य तु माहात्मां त्रैलोक्यमध्यमध्यतः || मन्त्रं मन्त्रार्थकं सर्वं कवचे गदितं मया | न दाराणां न पुत्रा?णां न बन्धूनाञ्च पार्वति || पश्यन्ति न हि ते शोकं नृपपूजा भवन्ति ते | शुचिर्भुत्वाशुचिर्वापि कवचं सर्वकामिकम् || प्रपठन् वा स्मरन्मर्त्यः शापानुग्रहणक्षमः | आनन्दसिन्धुनामधिपः *?विराड् भवेत् | सर्ववारीश्वरो मर्त्यः शापानुग्रहणक्षमः | गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् || तत्रापि कवचं देवि दुर्लभं भुवनत्रये | गुरुदेवो हरः साक्षात् पत्नी तस्य हरप्रिया || अभेदेन भजेद्यस्तु तस्य सिद्धिरदुरतः | मन्त्रद्वारा पुराप्रोक्तक्रमतस्तां भजन् जपेत् || ऐश्वर्यां सुकवित्वञ्च महावारीश्वरो भवेत् | नित्यं तत्र महेशानि महिलासङ्गमञ्चरेत् || पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा | लज्जायुक्तो जपेन्मन्त्री न मन्त्रं केवलं जपेत् || स मायायोगयुक्तेन जपेन्मन्त्रमनन्यधीः | ब्रह्मा विष्णुश्च रूद्रश्च देव्याश्च सुरसत्तमाः || तं दृष्ट्वा साधकं देवि लज्जायुक्तो भवन्ति ते | स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः || प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् | विघ्नात्मकाश्च देवा ये स्वर्गे मर्त्ये रसातले || प्रशंसन्ति सर्वे तं दृष्ट्वा साधकसत्तम् | इति ते कवचं देवि महाकाल्याः प्रकाशितम् || भक्तिमुक्तिकरं साक्षात् महापातकनाशनम् | आसाद्वापि गुरुं प्रासाद्य य इदं कल्पद्रुमावल्म्बनम् || मोहेनापि मदेन वा नहि जनो जाभ्यं न वा युज्यति | सिद्धोऽसौ भुवि सर्वदुःखविपदां ** * * * प्रान्तको मित्रं तस्यनृपस्य देवरिपवो नश्यन्ति तस्याप्तये || लिखितं धारयेद्यस्तु कण्ठे वा सन्तके भुजो तस्य सर्वार्थसिद्धिः स्यात् यद्यन्मनसि वर्तते | गोरोचनाकुङ्कुमेन भुर्जपत्रे महेश्वरि | नाधयो व्याधयन्तस्य दुःखशोकभरं क्वचित् || गोरोचनाकुङ्कुमैर्वा रक्तचन्दनकेवला | यावकैर्वा महेशानि लिखेद्यस्तु विशेषतः || अष्टम्यां मङ्गलदिने चतुर्दश्यायथापि वा | दुर्गां वा देवदेवेशि लिखेत् देशिकसत्तमः || मध्यायां श्रवणायां वा रेवत्यां वा विशेषतः | सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे || मीनराशौ गुरुगते कस्थेवृश्चि शनैश्चरे | लिखित्वा धाररेद्वस्तु उत्तराभिमुखी भवेत् || श्मशाने प्रान्तरे वा शुन्यागे विशेषतः | (प्. ४५) निशायान्तु विशेषेण तस्य सिद्धिरचञ्चला || भूर्जपत्रे लिखेन्मन्त्रं तरुणा च महेश्वरि | ध्यानधारणयोगेन धावयेद्यस्तु भक्तितः || अचिरे तस्य सिद्धिः स्यान्नात्र कार्या विचारणा | वादी मुकति प्रोषकस्तरवति क्ष्मारन्न भेदो मतः || गर्वी खर्वति सर्वविज्जडयति वैश्वानरः शीतति | आचाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं सिद्धिदम् || त्वां वन्दे भवभीतिभञ्जकरीं तद्भजे गिरीशप्रियाम् || इति श्रीविश्वसारतन्त्रे दक्षिणाकवचं समाप्तम् || मन्त्रभेदान् प्रवक्ष्यामि शृणुष्व कमलानने | यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्तयम् || दक्षस्कन्दं समुद्धृत्य रतिबिन्दुसमन्वितम् | बिन्दुनादसमारूढं महाविद्या प्रकीर्तिता || एकाक्षरी महाविद्या चतुर्वर्गफलप्रदा | दशलक्षं जपेद्विद्यां पुरश्चर्या विधानतः || तथारात्रौ जपेद्विद्यां सर्वसिद्धिसमन्विताम् | पूर्ववत् पूजनं तस्याः पूर्ववत् कर्ममाचरेत् || ऋषिन्यासादिकं सर्वं पूर्ववत् परिकल्पयेत् | पुरश्चरणमस्याश्च पूर्ववत् कल्पयेद्बुधः || सर्वं पूर्ववदेवास्या महाकालेन भाषितम् | त्र्यक्षरी च महाविद्या तामादा कथयामिते || मूलबीजं तदा माया लज्जाबीजं ततः परम् | महाविद्या महाकाल्या महाकालमता प्रिये || अथ पञ्चाक्षरी विद्या शृणुष्व कमलानने | प्रजापतिं समुद्धृत्य वह्न्यारूढं ततः परम् || चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम् | वामश्रवणसंयुक्तं ईशानञ्च समुद्धरेत् || बिन्दुखण्डेन्दु संहृत्य कूर्चबीजमिदं स्मृतम् | ईशो वैशानरारूढो रतिबिन्दुविभूषितः || लज्जाबीज मिदं प्रोक्तं सर्वतन्त्रसमन्वितम् | बीजत्रयं क्रमेणैव तदन्ते वह्निसुन्दरी || पञ्चाक्षरी महाविद्या कथिता पद्मयोनिना | षडक्षरी महाविद्या वक्ष्यामि शृणु पार्वति || बीजत्रयं समुद्धृत्य अस्त्रवर्णं समुद्धरेत् | वह्निजाया विधिप्रोक्ता विद्या त्रैलोक्यमोहिनी || अष्टाक्षरी महाविद्या कथ्यते शृणु पार्वति | बीजत्रयं क्रमेणैव पुनर्बीजत्रयं सुधीः || स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा | एकादशाक्षरी विद्या कथ्यते शृणु पार्वति || वाग्भवं हृदयं ब्रूयात् वह्न्यारूढं प्रजापतिम् | चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम् || द्विगुणञ्च ततः कृत्वा ङेन्ताञ्च कालिकापदम् | स्वाहान्ता कथिता विद्या प्रिये एकादपाक्षरी || ऋषिः स्याद्दक्षिणा मूर्तिः छन्दः पंक्ति रुदाहृतः | परात्परतरा शक्तिर्देवता कालिका स्मृता || एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा | भाघ्येन लभते चैषां चतुर्वर्गफलप्रदा || (प्. ४५ब्) लक्षद्वयं जपेद्विद्यां पूरश्चरणकर्मणि | अन्यासां वर्णलक्षं स्यात् कथितं पद्मयोनिना || अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने | ऋषिणा यं पुरा प्रोक्तं दक्षिणा मूर्तिसंज्ञका || चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् | खड्गञ्च दक्षिणे पाणौ विभ्रतीन्दीवरद्वयम् || कर्तकां खर्पवञ्चैव क्रमाद्वामेन विभ्रतीम् | द्यां लिखन्तीं जटामेकां विभती शिवसा स्वयम् || मुण्डमालाधरा शीर्षा ग्रीवायामपि सर्वदा | वक्षसा नागहारेण विभ्रतीं रक्तलोचनाम् || कृष्णवस्त्रधरा कनां व्याघ्राजिनसमन्विताम् | वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् || विन्यस्य सिंहपृष्ठे तु लोलिहाना शवः स्वयम् | अट्टहासां महाघोरां रावयुक्तान्तु भीषणाम् || एवं सञ्चिन्तयेत् कालीं कलिककलुषनाशिनीम् | सततं भक्तिमन्त्रैस्तु भाग्यैश्वर्यसुखेन्दुभिः || गुरुं नत्वा विधानेन चिन्तयेत् परदेवताम् | अथापरं प्रवक्ष्यामि प्रकारं ऽऽगुभलक्षणम् || शृणुष्व परया भक्त्या कालीं कल्मषनाशिनीम् | मूलबीजं तदा माया लज्जाबीजं ततः परम् || तदा दक्षिणकालिकेति तदन्ते वह्निसुन्दरी | एकादशाक्षरी काली चतुर्वर्ग फलप्रदा || कवचं मूलबीजाढ्यं तदन्ते भूवनेश्वरीम् | तदा च दक्षिणे चेति अस्त्रान्ता समुदीरिता || अथापरां प्रवक्ष्यामि विद्यां विंशतिवर्णिकाम् | यस्याः प्रसादमात्रेण भवेद्भूमि पुरन्दरः || मूलबीजद्वयं ब्रूयात् ततः कूर्चयुगं पुनः | लज्जायुगं सम्बोधान्तपदद्वयम् || पूर्ववत् षट्तथाबीजं तदन्ते वह्निसुन्दरी | ऋषिः स्याद्दक्षिणा मूर्तिश्छुन्दःपंक्तिरुदाहृतः || देवता कथिता सद्भिः काली दक्षिणपूर्विका | एकादशीक्षरी विद्या कथ्यते शृणु पार्वति || मूलं कवचमायाञ्च सम्बुद्धान्तपदद्वयम् | स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा || ॠषिः स्याद्दक्षिणामूर्तिश्छन्दोऽनुष्टुबुदाहृतम् | अथापरां प्रवक्ष्यामि विद्यां त्रिभवमोचनीम् || निजबीजं समुद्धृत्य तदन्ते वह्निसुन्दरी | भैरवा ऋअषयः प्रोक्ताः सर्वतन्त्रसमन्विताः || असिताङ्गोरुरुश्चण्डोग्रक्रोधोन्मत्तसंज्ञक्म् | कपाली भीषणञ्चैव संहाराश्चाष्टभैरवाः || एषा माता महाविद्या शृणुष्व कमलानने | अष्टाक्षरी च सा विद्या सर्वतन्त्रेसुगोपिता || नीजबीजद्वयं कूर्चद्वयं लज्जाद्वयं ततः | स्वाहान्ता कथिता काली धर्मकर्म फलप्रदा || अथ पञ्चाक्षरी विद्या भैरवाणां तथा शृणु | निजकूर्चं तथा लज्जा तदन्ते वह्निसुन्दरी || पञ्चाक्षरी महाविद्या पञ्चवकृअ ऋषिः स्मृतः | नवाक्षरी महाविद्या शृणुष्व कमलानने || निजबीजत्रयं कूर्चयुगं लज्जा ततः परम् | स्वाहान्ता कथिता विद्या सर्वसम्पत्करी शुभा || नवाक्षरी महाविद्या नवलक्षणसंयुता | (प्. ४६) अथ चाष्टक्षरी विद्या शृणुष्वावहिता भव || निजबीजं ततः कूर्चं तदा मायां समुद्धरेत् | पुमस्तान्येरतेनैव स्वाहान्ता मोक्षदायिनी || अथापरां प्रवक्ष्यामि दशतत्वसमन्विताम् | यस्य कटाक्षमात्रेण भवेत् त्रैलोक्यमोहनः | मुलद्वयं द्वयं कूर्चं द्वयं लज्जा द्वयं ततः | पुनस्तान्येव तेनैव तदन्ते वह्निसुन्दरी || चतुर्दशाक्षरी विद्या चतुर्वर्गफलप्रदा | अथ वक्ष्ये महेशानि कालीं कलुषनाशिनीम् || यस्याः कटाक्षमात्रेण तवेद्वागीश्वरः परः | धनं धान्यं सुतां जायां हयं हस्तिनमेव च || यद्यन्मनसि वाञ्छन्ति तत्तत् सर्वन्तु फलं लभेत् | नातः परतरा विद्या मुनीनां मोक्षदायिनी || गृहीणाञ्च यतीनाञ्च सर्ववाञ्छा फलप्रदा | रेपुत्रे मित्र शृणुतविद्या नातः परा क्वचित् || किं धनैः किं जनैन्ते * *? किं पुत्रैर्वन्दुवान्धवैः | किमन्यैरसदालापैर्यत्रयुर्वायतामियात् || नार्चनं पूजनं तस्या मन्त्रमात्रं जपेन्नरः | करस्थाः सिद्धयः सर्वा भविष्यन्ति कलौ युगे || ब्रह्म त्रयं समुद्धृत्य रतिबिन्दुसमन्वितम् | नादबिन्दुसमायुक्तं लज्जाकूर्चद्वयं पुरा || पुनः क्रमेण उद्धृत्य वह्निजायावधिस्ततः | षोडशीयं समाख्याता विद्या कल्पद्रुमा यथा || पूर्ववत् पूजनञ्चास्याः सर्वं न्यासादिकं प्रिये | त्रिकोणं विन्यसेत् पूर्वं पुनश्चापि त्रिकोणकम् || नवकोणं पुनस्तत्र तन्मध्ये स्थापयेच्छिवाम् | सर्वाणां कालिकानाञ्च यन्त्रोऽयं परिकीर्तितः || मद्यैर्मांसैर्भगैर्गोभिर्वैजयन्तीश्च गृञ्जनैः | कुक्कुटैर्महिषैश्छागैर्नकुशैश्च गवैस्तथा || गजैरुष्ट्रैश्च सुवहैर्मांसैश्च मधुपायसैः | स्वरक्तैः केशमांसैश्च स्वशुक्रैः पूजयेच्छिवाम् || भगलिङ्गैर्भगाख्यानैः शक्तिभिः सुरनायिकाम् | नानापुष्पैश्चन्दनैश्च नानोपहारवारितिः || नानामद्यैश्च मांसैश्च शौण्डैः शोण्डप्रियां यजेत् | नानापुष्पैश्च धूपैश्च साधकैः सह पार्वति || निशायां पूजयेद्देवीं सर्वकालेषु सर्वदा | एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे || शवोपरि चितास्थो वा कुलवृक्षस्य मूलके | परयोनौ योनियन्त्रे कालीपीठे दिवानिशि || स्वषम्भुकुसुमैः शुक्रैः सूतिकागारके तथा | यथाकाले यथास्थाने यथा देवीं सनातनीम् || शिवाभिः पशुमांसैश्च कुलटायो निदेशके | सर्वदा पूजयेद्देवीं यथाचारेण देशिकः || न ब्रह्मणो स्य विचारः स्यात् नाशुचिः कुत्र पार्वति | अशुचौ वा शुचौ वापि सर्वकालेषु सर्वदा || ऋषिन्यासादिकं कृत्वा यजेद्विद्यामहनिशम् | जपेनदेवताः सर्वाः स्तूयमाना प्रसीदति || जापकस्य च माहात्मां नास्ति देवी महीतले | सर्वत्र साधको धन्यः स एव साधकः पर || (प्. ४६ब्) आत्मानं दिव्यवस्त्रेण दिव्यालङ्कारचन्दनैः | स्त्रीवेशे भूषरेद्देहं यथाकाल्या भवेत्तनुः || कूलाचारं सदा कुर्यात् मासि मासि विशेषतः | तत्सर्वं देवदेवेशि पश्चाद्वक्ष्यामि यत्नतः || चतुर्दशी शोडशी च विंशत् ब्रह्मात्मिका च या | तासां लक्ष्यप्रमाणं स्यात् पुरश्चरणकर्मणि || अन्यासां सर्वविद्यानां वर्णलक्षं प्रकीर्तितम् | सर्वासान्तु महापूजा दक्षिणावत् प्रकीर्तिता || आचाराष्टकरूपेण सिद्धिरूपेण संशयः | क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने || नीजबीजस्य देवेशि देवो नारायणः परः | काकारस्य तु देवेशि देवता (च प्रजापावता) कालिका स्मृता || ककारस्य तु देवेशि देवी त्रैलोक्यमोहिनी | मायाबीजस्य देवेशि देवता भूवनेश्वरी || दकारस्य तु देवेशि दुर्गाशक्तिः समीरिताः | क्षिकारस्य तु देवेशि नृसिंहः परिकीर्तितः || णेकारस्य तु देवेशि देवो नारायणः परः | काकारस्य तु देवेशि देवता च प्रजापतिः || निकारस्य तु देवेशि देवता च पुरन्दरः | बीजार्थं पूर्वमुक्तं हि वह्निजायां शृणुष्व तत् || सकारस्य तु देवेशि सावित्री देवता स्मृता | वकारस्य तु देवेशि वरुणः परिकीर्तितः || आकारस्य तु देवेशि अनन्तः परिकीर्तितः | सर्वेषां कथितं देवि मन्त्रार्थं तन्त्रसंयुतम् || ब्राह्मेमुहुर्ते चोश्याय ध्यारेद्देवीं सनातनीम् | पूर्वोक्तं गुरुणा ध्यानं कुर्यात् साधकसतामः || अष्टोत्तरसहस्रं हि जपित्वा विधिनामुना | क्रमस्तवं पठेन्नित्यं विधिनानेन देशिकः || ओं नमो गुरुभ्यो देवताभ्यस्तथापरतराय च | परापरेस्त्यस्तं (?) नत्वा परात् पराय क्षेत्रपालं नमस्कृत्य द्वारदेवान् विधानतः | लक्ष्मीं सरस्वतीं दुर्गां ग्ङ्गां गोदावरीं तथा | भोगवतीं नमस्कृत्य वास्तुदेवं नमेत् तु सः || विघ्नराजञ्च वास्त्वीशं क्षेत्रेशं प्रणमाम्यहम् | नैर्-ऋतञ्चैव ब्रह्माणं ब्रह्मकर्मात्मकं प्रिये || विघ्नान् प्रण्म्य विधिना स्थनदेवं नमेत् ततः | आधारशक्तिं तां नत्वा पङ्कजद्वयधारिणीम् || नीलवर्णां महामायां द्वादशाक्षररूपिणीम् | नीलवर्णं महाकायं कुर्मं हिमाद्रिसन्निभम् || सर्वशक्तियुतं विष्णुं कुर्माकारं नमाम्यहम् | तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् || सहस्रफलसंयुक्तं सर्पाकारं हरिं नमः | हेमाद्रिस (?) दृशं विज्ञं एककुण्डलधारिणम् || फणासहस्रैर्मणिभिर्भूषितं तं नमाम्यहम् | तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् || तस्य कक्षः स्थितं ध्यायेत् लाङ्गलं शत्रुनाशनम् | मुद्गरं वामभागेन रत्नैकादशसंयुतम् || तस्य मूर्द्ध्नि स्थितं ध्यायेत् वराहं विष्णुमव्ययम् | एकदन्तं महाकायं कालमेघसमप्रभम् || तस्य दन्ते सदा ध्यायेत् पृथिवीं कर्मदायिनीम् | (प्. ४७) नीलवर्णां महादेवीं शनिशूकविभूषिताम् || अणिमादिगुणैर्युक्तां सर्वसत्वप्रतिष्ठिताम् | तस्य मूर्द्ध्नि सदा ध्यायेत् समुद्रान् रत्नसंयुतान् || नानापर्वतसंयुक्तां पृथिवीं चिन्तयेद्धिया | पर्वतान् चिन्तयेत् तत्र चिन्तरेत् कुलभूषितान् || दिग्गजेभ्यो नमस्कृत्य योगभ्यः प्रणमेत् सदा | मुनीन्द्रेभ्य ॠषिभ्यश्च योगशास्त्रधराय च || शाक्तेभ्यो वैष्णवेभ्यश्च शैवेभ्यः प्रणमेत् सदा | मन्त्रेभ्यो मन्त्रदेवेभ्यो मन्त्रशास्त्रपराय च || चन्द्राय चन्द्रवंशेभ्यः सूर्यावंशेभ्य एव च | महाभूतेभ्यो भूतेभ्यः कलाभ्यः प्रणमेत् सदा || पूष्पेभ्यः पुष्पहासेभ्यो गन्धर्वेभ्यो नमः सदा | यक्षेभ्यो भूतवर्गेभ्यः प्रेतेभ्यः सर्वकर्मसु || शब्देभ्यः शब्दब्रह्मेभ्यः प्रणयामि सदा प्रिये | रुद्रेभ्यो रुद्रवंशेभ्यो भैरवेभ्यो नमो नमः || लिङ्गेभ्यो लिङ्गदेवेभ्यो वेदेभ्यो वेदशाक्षिणे | भारतेभ्यो नमस्कृत्य श्रीमद्भागवताय च || संहिताभाश्च शास्त्रेभ्यः सशास्त्रेभ्यो नमो नमः | ग्रस्थार्थेभ्यो नमस्कृत्य तन्त्रेभ्यः प्रणमेत् सदा || यामलेभ्यो नमस्कृत्य चन्द्रसूर्यां नमेत् सदा | जीवेभ्यः सर्वभावेभ्यो जङ्गलेभ्यो नमो नमः || स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा | प्रमाणादिपदार्थेभ्यः शोषभ्योऽपि नमो नमः || यन्त्रेभ्योऽशि नमस्कृत्य यथार्थेभ्यो नमो नमः | स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा || पूजोपकरणेभ्यश्च ब्राह्मणेभ्यो नमो नमः | योगिनीभ्यो नमस्कृत्य सशक्तिभ्यो नमो नमः || रत्नेभ्योऽपि नमस्कृत्य नदीभ्यः प्रणमेत् सदा | पीठेभ्योऽपि नमस्कृत्य मातृभ्यः प्रणमेत् सदा || सत्वेभ्योऽपि नमस्कृत्य इन्द्रियेभ्यो नमः सदा | क्षेत्रेभ्योऽपि नमस्कृत्य क्षेत्रपालेभ्य एव च || कुलाचलेभ्यो नत्वा च प्रदुर्भावेभ्य एव च | उक्तानुक्तञ्च यत्किञ्चित् तेभ्यो नित्यं नमो नमः || नमामि सत्यसम्कल्पां सर्वपर्वतवासिनीम् | पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे || मातस्तदीयशरणं नृपाणां ध्यानाष्पदैर्वाञ्छितवाञ्छनीयम् | तेषां हृदि स्फुरति त्वच्चरणारविन्दं स एव धन्यः सुरलोकपूज्यः || गाङ्गैः शुभैः कुङ्कुमपङ्कलेपैर्मातस्त्वदीयशरणं यदि भावशुद्धैः | स्मरन्ति शृणुन्ति लुठन्ति धीरास्तेषां जरा नैव भवेद्भवानि || त्वदीयजङ्घाशरणं सुराणां परापराणां परमां प्रकृतिः | दिने दिने देवि भाव्यकरस्था किमन्यमुच्चं कथयन्ति सन्ति || कवीन्द्राणां दर्पं करकमलशोभापरिचितं विधुन्वन् तज्जङ्घामेतद् गिरिसुते | अतस्त्वपादाब्जं जननि चेतसि हितम् | नरीभूतं भूतं प्रणिहितपदं शङ्करमपि | ये ते दरिद्राः सततं हि मातस्त्वदीयपादं मनसा जपन्ति | (प्. ४७ब्) देवासुरासिद्धवराश्च सर्वे तव प्रसादात् सततं लुठन्ति || हरिस्त्वं पादाब्जं ध्यात्वा निखिलजगतां भूतिवभूतशिवः सिद्धो भूयात् किमपि परमं तत्परम् | प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितम् | किमन्यत् ते नातस्तव चरणयुगलस्य फलता || इन्द्राः सुराणां शरणं शरण्ये प्रजापतिः कश्यप एव नान्यः | गिरां भूतिर्विष्णुभवौ परेशि पादाब्जफलं समस्तम् || त्वदीयपादार्चनतत्परो हरिः सुदर्शनाधीश्वमुपालभेत् | धरित्री गन्धरूपेण वासिनं तज्जलं धृतम् || तेजसा वह्निरूपेण वायुपुष्पवपुर्धृतम् | आकाशं शब्दरूपेण प्रणवे ब्रह्मरूप्धृक् || मुखं मुखं चन्द्राकारिस्त्रिभुवनपदैर्मुग्धसहितं त्रिनेत्रन्ते मातः परहितमनोभिः सप्तण्डम् | न सिद्धिं तस्यापि स्मरति सततं विश्वमखिलम् | कटाक्षैस्ते मातः सकल * (?)दपद्मं स लडते || तवसी मन्त्रं जपतः सत्यं न हि तेषां खलु साध्यतत्वम् | ये सुरपाले सुरतचित्ते धन्या तु विश्वरता विधत् ते || क्रतुस्त्वंहविस्त्वं मुरारिः पुरा त्वं परात्वं सदा श्रीमुवारे | हरिस्त्वं तरा त्वं शिवात्वं शिवानी || गडिस्त्वं मतिस्त्वं गतिस्तं भवानी | नरात्वं नरस्त्वं नाराणां क्रियाया || चयत्वं वरस्त्वं वरण्ये शिवायाः | नदस्त्वं नदीस्त्वं गतिस्त्वं निधीनां सुता त्वं सुतस्त्वं पिता त्वं गृहीणाम् | त्वदीयमुण्डाख्यवभवानीमालां विधाय च ते पद्मजादयः | सुराधिपात्वं लभते मुनीन्द्राः शरण्यमेतत् किमपीय चान्यत् || नरस्य मुण्डञ्च तथा हि खड्गं भुजद्वये ये मनसा जपन्ति | तथेतरो देवि वराभयञ्च भवन्ति ते सिद्धिजनैर्मुनीन्द्राः || शवोपरि त्वं हृदये निधाय जपन्ति विद्याञ्च हितं कदाचित् | तदा भवेत् काव्यरहस्य वेत्त (?) अन्ते पदद्वन्द्वमुपाश्रयेत् || दिगन्धी त्वां मनसा विचिन्त्य जगत् पराख्या जतां जनित्री | भवेत् पराख्ये जगतां गतिश्च किमापराख्यं शरणं भवामः || शिवार्वैर्वा परिवेष्ठितान्तां विधाय चित्ते सततं जपन्ति भवेयुर्द्देवेशि जनापवादे निधी शतां देवि परा वदन्ति | त्वदीयशृङ्गाररसं निधाय जपन्ति मन्त्रं यदि वेदमुख्याः | भवन्ति ते देवि जनापवादं कविः कवीनामपि स्वजन्मा || विकीर्णकेशं मनसा विधाय जपन्ति विद्याञ्चकितं कदाचित् | सुरादिपत्यं लभते नरः स किमन्त भूम्यां शृणु कालकाली || त्वदीयबीजत्रयमाभवेत् जपन्ति सिद्धा भूवि मुक्तकेतुः | तदेवमातस्तव पादयोगा भवन्ति सिद्धञ्च दिनत्रयेऽपि || त्वदीरकूर्च द्वयजापकत्वात् सुरासुरेभ्येऽपि भवेच्च वन्द्यः | धनित्वपाण्डित्य लभन्ति सर्वे किमापरं देवि परापराध्ये || त्वदीयलज्जाद्वयजापकत्वात् भवेन्महेशानि चतुर्थसिद्धिः | त्वदीयसम्बुद्धिपद प्रसादात् नराधिपत्वं लभते मुनीन्द्रः || (प्. ४८) पुनस्तन्नाम्नः शृणु मातरे तत्फलं चतुर्वर्गं वदन्ति सन्तः | बीजत्रयं पुनरप्यपास्य सुरापत्वं लभयत मुनीन्द्रः || पुनस्तथा कूर्चयुगे च मातर्नमन्ति सिद्धा नरसिंहरूपाः | अतो लज्जाद्वयजापकत्वात् लभन्ति सिद्धिं मनसा जनास्ते || अनन्तदं क्षिप्य विभावसोः सतीत्वन्मन्त्रमुदारमिदं वदन्ति | त्रिपञ्चारे पीठै जननि सततं सिद्धिसहितं विचिन्वन् संचिन्वन् परमामृतरूपदक्षिणापदाम् || सदा कालीं ध्यात्वा विधिपूजां परिकरां विशेषाख्यां न खलु भवगङ्गाभयमदः | अतीतवनीलायेपादपद्मे जनित्री भवति विभूत्यै | शेर्योवासामुपहरान्नयति पदत्वांखिलमनुमत्ता || त्वऽम श्रीस्त्मीश्वरीकाली कराली विकरालिका | लज्जा लक्ष्मी सती गौरी नित्या चिन्ता चितिप्रिया || परा * (?) द्या परीक्षा च परमा परमावपुः | यैर्गन्द्धद्यैश्चित्ते प्रचयपदपद्मैः पदयुतैः || सदा नत्वा स्तुत्वा जपति हृदि मन्त्रं मनुविद्या | न तेषां संसारे विभवभयभङ्गप्रमथने || क्षणं चित्तं देवि प्रभवति विमार्गे परिकरः | त्रयस्त्रिंशैः श्लोकैर्यदि जपभि मन्त्रं स्तुवति च || नमेच्चेतामेता परमममृतकलशं सुरवरम् | भवेत् सिद्धिसिद्धो जगति शिरसा त्वत्पदयुगम् || प्रणम्य प्राकाम्य सुरासुरजनैः पूज्याविहितम् || इति विश्वसारतन्त्रे दक्षिणकालिका विवरणे चतुर्थः पटलः || अथ दुर्गामहं वक्ष्ये शृणुष्व कमलानने | यस्य * (?) प्रसादमात्रेण भवेद्गङ्गाधरः स्वयम् || थान्तवर्णं समुद्धृत्य वामकर्णसमन्वितम् | इन्दुबिन्दुसमायुक्तं बीजं दुर्गामनोः प्रिये || चतुर्वर्गप्रदं साक्षात् महापातकनाशनम् | अस्यापि सदृशी विद्या जगत्यस्मिन्न विद्यते || किमन्यैरस * (?) लापैर्यत्रायुर्व्ययक्ताअमियात् | तत् तु दुर्गामनोर्देवि षोडशांशं लभते || एकाक्षरीसमो नास्ति विद्यां त्रिभुवने प्रिये | विना गन्धैर्विना पुष्पैर्विना होमपुरःसरैः || प्राणायामः विना देवि जपमात्रेण सिद्धिदा | जमदग्निर्भरद्वाजो भूण्डगौतमकश्यपाः || विश्वमित्रः शिरो नन्दिः कहोलिस्तुण्डिकस्तथा | एते च ऋषयः प्रोक्ता दुर्गामन्त्रस्य पार्वति || मन्त्रस्य ऋषिर्द्देवेशि नारदः परिकीर्तितः | गायत्रीछन्द आख्यान्तं दुर्गधिष्ठ तु देवता || चतुर्वर्खप्रदा देवी सर्वतन्त्रेषु संस्थिता | यस्याः कटाक्षमात्रेण भवेद्भूमिपुरन्दरः || ईहैव धनिनो भूत्वा राजानञ्च वसं नयेत् | स भवेत् वचसा धीमान् वृहस्पतिरिवापरः || ब्राह्मणो वेदविद्भूयात् राजावशमवाप्नूयत् | वैश्यो धनसमृद्धिः स्यात् सर्वसिद्धिं लभेन्नरः || विविधा सा महाविद्या तत् शृणुष्व गणेश्वरि | (प्. ४८ब्) कूर्चाद्यां वा जपेद् विद्यां तदन्ते वनिसुन्दरी || लज्जाद्यां वा जपेद्विद्यां फडान्तान्ता विशेषतः | वधुर्बीजयुतावापि स्वाहान्तां वा जपेत् सुधीः || शतविश्वं महेशनि वधूबीजं प्रकीर्तितम् | अथ लज्जायुतावापि स्वाहान्तां वा जपेन्मनुम् || षोडशव्यञ्जनं वापि माक्षिवह्निथंयुतम् | इन्दुबिन्दुसमायुक्तं लज्जाबीजमिदं स्मृतम् || महाकालमता लज्जा अयं भेदः प्रकीर्तितः | लज्ज द्याम्बा जपेद्विद्यां चतुर्वर्गफलाप्तये || वाग्भवाद्यां जपेद् वापि प्रणवाद्यापि वा पुनः | कामबीजादिकं वापि फडान्तां वा जपेत् सदा || ऐक्षरी विविधा विद्या कथिता ब्रह्मणा पुरा | लज्वाद्यां वा वाग् भवाद्यां वा कामाद्याम्बा जपेत् सदा || प्रणवाद्यां फडन्ताम्बा कवचाद्यां विशेषतः | लज्जाद्यां वा वधूबीजयुतां वा प्रजपेत् सदा || एतास्त्र्यक्षरयुक्ता च दुर्गाविद्या प्रकीर्तिता | फडान्ता सर्वबीजाद्या कथिता पद्मयोनिना || दीर्घस्वरसमायुक्ते इन्द्रबीजानि (?) पार्वति | विन्यसेदात्माना देहे हृदयादिषु पार्वति || पूर्ववन्न्यासवर्गं स्यात् पूर्ववत् कर्ममाचरेत् | कालीवदाचरेत् विद्यां जपेद्विद्यामहर्न्निशम् || लक्षद्वादशके देवि पुरश्चरणमीरितम् | सिद्ध्यादिशोधनं नात्र न च मित्रादिदुषणम् || न वित्तवायवाहूलां न च कार्यं कथञ्चन | यथाकाले यथास्थाने यथाचारविधानतः || पूजयेत् परय भक्त्या दुर्गां दुर्र्गतिनाशिनीम् | मद्यर्मांसैः शूपपूपैर्भगा शशकशल्लकैः || लिङ्गगीतैर्भगाक्षालैर्मार्जारवहूलैस्तथा | गोमांसैर्मृगमांसैश्च मत्स्यैश्च शूकराखुभिः || सुवहैर्दृष्टान्धैर्श्च सिक्तैश्चायैश्च पिच्चलैः | नानामद्यश्च पशुभिः पूजयेत् परमेश्वरीम् || कालीवत् पूजयेद्विद्यां दुर्गां दुर्गविमोचिनीम् | स्वयम्भु कुसुमैः शुक्रैः सुगन्धकुसुमान्वितैः || यवायावकसिन्दुरै वक्तचन्दनसंयुतैः | नानामांसैः काकशूकैः पेचकैर्महिषैर्न रैः || गजैरुष्ट्रैः ख ऐ (?) र्गृध्रैः पूजयेद्विधिनामुना | तदा भवेन्महादेवि सिद्धिः स्यान्नत्र संशयः || गायत्रीं प्रजपेद्देव्या विधानेन दिने दिने | नक्ष्म्याद्यां (?) प्रणवाद्यां वा वाग्भवाद्यां क्रमादिका || लज्जाद्यां वा जपेद् देव्या गायत्रीं तन्त्रसंमृतां | दुर्गा देवीं वदेत् ङेन्तां विद्महे तदनन्तरम् || चित्स्वरूपां तथा ङेन्तां विद्महे चैव धीमहि | तन्नोदेवी समुद्धृत्य तदन्ते च प्रचोदयात् || एषा देव्याश्च गायत्री सर्वसिद्धि प्रदायिनी | चतुर्लक्षं पुरश्चर्यां जपेद्विद्यां विशालधीः || प्रणवाद्यां जपेद्विद्यां देव्या आसनदानके | प्रणवं पूर्वमुच्चार्य तदा वज्रनखं वदेत् || दंष्ट्रायुधं समुद्धृत्य ङेन्तं सिंहं महादिकम् | (प्. ४९) आसनाय समाभाष्य नमो देव्यै वदेत् पुनः || पूर्ववन्न्यासवर्गं स्याद् कायेद्देवीं सनातनीम् | महाकालमतं ध्यानं शृणुष्व कमलनने || सिंहस्कन्ध दिरूढाञ्च नानालङ्कारभुषिताम् | चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् || रक्तवस्त्रपरीधानां वालार्कसदृशीं तनुम् | नारदाद्यैर्मुनिगणैः सेवितां भवसुन्दरीम् || त्रिवली वलयोपेतां नाभिनालमृणालिनीम् | रत्नद्वीपमणिद्वीपे सिंहासनसमन्विते || प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीम् | अथवा चिन्तयेत् दुर्गां सर्वदुर्गविनाशिनीम् || सिंहस्था शशिशेधरा मरकतप्रप्यैश्चतुर्भिर्भुजैः शङ्खं चक्रधनुःशरांश्च दधतीं नेत्रैस्त्रिभिः शोभिताम् | आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्कणन्नृपुरा दुर्गा दुर्गतिहारिणी भवत्युनो रत्नोल्लसत्कुण्डला || चतुर्लक्ष्मं हधिष्याशी एकलक्षमथापि वा | जपित्वा तु त्रयं लक्षं परशक्तौ सदा जपेत् || सावित्री विधिना पूर्वं पुरश्चर्यां जपेन्मनुम् | सिद्धे मनौ सदा कुर्यात् मासि मासि विधानतः || कुलाचारः विधानेन कुर्याद्देव्शिकसत्तमः | विन्यसेत् पूर्ववत् सर्वं न्यसेद् देवीं विशालधीः || सदा हूनेन्महादेव्याः परमार्थं दिने दिने | साज्यैर्विल्वदलैर्हूत्वा वशयेत् सकलं जगत् || करवीरं पटलञ्च पद्ममाम्रं मधूकजम् | चम्पकं नागमुण्डञ्च हिङ्गुकर्मामरीचकैः || तेजपत्रं गुण्डत्वञ्च महामासं हूनेत् सदा | छागमुषिकमेषदीन् सततञ्च हुनेत् सुधीः || सिद्धे मनौ सदा हूत्वा वशयेत् सकलं जगत् | पलाशं पद्मपुष्पञ्च सर्वदा होममादिशेत् || भवेद्वागीश्वरः साक्षात् शङ्करेण च भाषितम् | किमन्यद्वहूना देवि यद्वद्वाञ्छितमात्मनः || कृत्वा च विधिना सम्यक् भवेद् भूमिपुरन्दरः | किमन्यद्वहूना देवि चतुर्वर्गफलं लभेत् || दुर्गायन्त्रं प्रवक्ष्यामि शृणुष्व कमलानने | त्रिकोणं विन्यसेदादौ नवकोणसमन्वितम् || त्रिवृत्तं सहितं सर्वं पद्मपत्रसमन्वितम् | त्रिरेधसहितं वज्रशूलं भूपुरमण्डितम् || समीकृत्य यथोक्तेन विलिखेद्विधिनामुना | नानास्त्रसंयुतं लेख्यं चक्रं तन्त्रसमन्वितम् || तत्र तां पूजयेद्देवीं मूलप्रकृतिरूपिणीम् | पद्मस्थां पूजयेद् दुर्गं सिंहपृष्ठे निषेदुषीम् || प्रभाद्याः शक्तयः पूज्या गन्धाद्यैर्नवकोणके | प्रभा माया जया सुक्ष्मा विशुद्धा नन्दिनी पुनः || सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः | क्रमाद्यां पूजयेत् ताभिः * * * * * * * * || ओंकारं पूर्वमुचार्य द्रीऊं कारं तदनन्तरम् | यथाप्दं सम्बुद्ध्यन्तां पूजयेत् क्रमतः क्रमात् || शङ्घपद्मनिधी देव्या वामदक्षिणयोगतः | पूजयेत् परया भक्त्या रक्तचन्दनपूर्वकैः || अर्घ्यदानं तदा कुर्यात् पूजान्ते पर्वतात्मजाम् | (प्. ४९) अङ्गवृत्तिः पुनः पूज्या नवकोणेषु मातरः || ब्रह्माद्या मातरश्चैव स्वभूषणभूषणाः | वज्राद्यायुधसंयुक्ता भूपुयरे लोकनायकाः || पूजयेत् परया भक्त्या दुर्गां दुर्गतिनाशिनीम् | पूर्ववत् साधयेत् सर्वान् सर्वाभीष्टफलाप्तये || श्री ईश्वर उवाच || त्रिकोणं विन्यसेत् पूर्वं नवकोणसमन्वितम् | साष्टपत्रं त्रिविम्वाच्यं भूपुरशूलयुक्सदा || तत्रापि पूजयेद् देवीं दुर्गां दुर्गतिनापिनीम् | सिन्दुरहरितालाभ्यां सुन्दरीवत् प्रपूजयेत् || अथवक्ष्यामि कवचं शृणुष्व कमलानने | यज्ज्ञात्वा साधकाः सर्वे लभन्ते श्रियमुत्तमाम् || अज्ञात्व कवचं देवि दुर्गामन्त्रञ्च यो जपेत् | न पूजाफलमाप्नोति अन्ते च दुर्गतिं व्रजेत् || ओं उमा देवी शिरः पातु ललाटं शूलधारिणीम् | चक्षुषी खेचरी पातु (मुलाचां) नासा च द्वारवासिनी || सुगन्धवासिनी पातु वदने साधनी तथा | जिह्वाञ्च चण्डिका पातु ग्रीवां सौभद्रिका तथा || अशोकवासिनी चेतो द्वौ वाहु वज्रधारिणी | हृदयं ललिता देवी उदरे सिंहवाहिनी || कट्यां भगवती देवी द्वावुरू विन्ध्यवासिनी | महवला तु जङ्घे द्वे पादौ भूतलवासिनी || एवं स्थितासि देवी त्वं त्रैलोक्यरक्षणात्मिका | रक्षमां सर्वगात्रेषु दुर्गे देवी नमोऽस्तु ते || इति विश्वसारतन्त्रे दुर्गाकवचं समाप्तम् || श्रीपार्वत्युवाच | येन वर्णेन देवेशि ये देवाश्छन्दांसि ऋअषयश्च ये | तान् सर्वान् देवदेवेश कथयामास तत्त्वतः || श्री ईश्वर उवाच | प्रणम्य श्यामवर्णाभां दुर्गां दुर्गतिनाशिनीम् | दकारे दक्षिणामूर्तिरुकारे च उमापतिः || अर्द्धचन्द्रे शिवः साक्षात् देवस्त्रिभुवनेश्वरः | दुर्गाध्या देवता प्रोक्ता सर्वदुर्गप्रणाशिनी || येन बीजादिकं कुर्यात् दैवतेव तदादिकम् | अथ वक्ष्ये महेशानि देव्या नाम सहस्रकम् || शृणुष्व परया भक्त्या न वेदेन च भाषितम् | अस्या दुर्गा विद्यायाः सहस्रसामस्तोत्रस्य भगवान्नारद ऋषिरनुष्टुप्च्छन्द आद्या शक्तिर्भगवती दुर्गा देवता महामाया शक्तिश्चतुर्वर्गफलप्राप्तये विनियोगः | ओं दुर्गा शिवा क्षमा धात्री लोकमाता शिवप्रिया | ब्राह्मी माहेश्वरी देवि कौमारी वैष्णवी तथा || वाराही नारसिंही च कमला चण्डिका तथा | आद्या वाणी देवता च देवमाता दया द्युतिः || विद्याः पुष्टिस्तथा तुष्टिः क्षुधा निद्रा विभावरी | मन्त्रमाया महाशक्तिर्विद्या विद्याविपन्नगा || सर्वमन्त्रमयी शीक्षासर्वविद्यामयी तथा | लक्ष्मिर्वाणि * * * * वाग्भवा भवनप्रिया || (प्. ५०) कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा | ताला तालवती देवी नानागानप्रिया सदा || नारायणी महामाया जयदुर्गा जयाजनी | विजया च जया जैत्री जयनी जयगामिनी || जयदा सुखदा सत्या मोक्षदा जयनादिनी | विनिता विष्णुमाता च विश्वनाता विपाचिका || ब्रह्माणी विमला रौद्री ज्येष्ठा जाया च वामना | वसना वासना क्रोडा कुब्जिका अप्सरा तथा || उर्वशी कदली केका कामाख्या च क्षमावती | तीव्र च वनदा धात्री त्रिजगज्जननी चला || दानपात्री मितिमित्रा त्रासिनी त्रासवासिनी | निम्ननाभिर्भिन्दिपाला वल्लभा वशदार्थिनी || त्रिनेत्रा जगतां माता * * सत्यम्बधा स्मृतिः | विस्मृतिर्विपथुः प्रेम्ना प्रेयशास्त्रविशारदा || धनपुत्रविनाशी च चण्डिका कमलालया | यादवी यदुकन्या च चञ्चला चपला तथा || त्रितेत्रा एकनेत्रा च द्विनेत्रा च सुनेत्रिका | पोषणी पोषका पोषा वलहानिकरिविधिः || धीर्धितिर्धनदा नामा दानवी विधिरूपिणी | कालिका कालरात्रिश्च रक्तचन्दनसंयुता || कुङ्कुमाङ्कितसर्वाङ्गी रक्तवस्त्रविधारिणी | अतसीपुष्पवर्णाभः गौरी सर्वप्रियङ्करी || भानुमती सती पात्री त्रैलोक्य जननी यतिः | जामाता जयरूपा च जामातुप्रियवादिनी || नीतिप्रिया नीतिरुचिः सुरुचिश्च रुचिस्तथा | रतिप्रिया रतिकरी रतिदा रतिवर्द्धिनी || लयरूपा महारूपा सर्वसत्त्वरतिः स्वधा | शोभना शोभनाङ्गी च सुकुमारी शिवातनुः || बालिका च कुमारी च कुमाराङ्गनिवाशिनी | कुलीना च सुपर्णा च शोभनङ्गी शुभातनुः || कुमारी पूजक प्रीता कुमारी प्रीतिदायिनी | कुमारी सेवका सन्त्य कुमारी सुखदायिनी || कुमारीयोनिसंस्थात्री कुमारीभोगदायिनी | कनका च रजोयुक्ता ऋतुरूपा ऋतुप्रिया || रजस्वला तद्गुणा च सगुणा गुणपूजिता | सगुणा निर्गुणा क्षेमा गुणभेदकरी क्रिया || कैशोरी च किशोरस्था किशोरप्रियवासिनी | किशोरस्था किशोरी च किशोरप्रियपूजका || युवती च युवायुथा यौवनस्था युगानगा | युगनानायुगकरी युगस्था युकपूजका || युवतीशरणप्रीता युवत्या सहसंयुता | अमाकला सहस्था च शशिरेखा शिखाशिखी || आशापुरा च चन्द्रेणा चन्द्रकान्तिप्रिया चता | अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः || शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा | पूर्णा पूर्णामृता कामदायिन्यः कामदा कला || अनेकरूपिणी रूपा अनेकसुरदायिनी | विनया विरवा वेला वेलासंध्या विधिप्रिया || अरतिः सुरतिः स्तुत्याः सत्यवत्याः सदा चसाः | अनलाः कमलास्था च सुमाल्या मालदारिनी || माननीया सदा सत्या सर्वसत्यप्रिया तनुः | शोण्डप्रिया रतिकरी कालाक्षी कालरूपिणी || (प्. ५०ब्) सर्वकालक्षयकरी सर्वकालविनाशिनी | अनुरूपा वृहद्रूपा स्वरूपा रूपवर्जता || जगता जगतां माता जगन्मान्या जयावती | जननी च जया जेया सर्वजेयदा सुधीः || विसङ्गा च सुसङ्गा च अनेकसङ्गवर्जिता | निर्जिता विजना विज्ञा विधिज्ञा ज्ञानदायिनी || मार्गदात्री मार्गकर्ती सुमार्गा पापनाशिनी | परदारा परप्रीता परदारप्रियाश्रया || प्रम्नेचो केकरा कृत्या उम्नोचा च उमावती | अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका || वैशारदी विशेषज्ञा कालशस्यविवर्द्धिनी | औषधिर्वैद्यमाता च चिकित्सा च चिकित्सिका || कलावती वर्णमन्नी मेदामयापि पूतना | क्रियावती वर्णतनुः सुवर्णा रसिका रमा || काली कृष्णा कृपापेता कोलानां सङ्गवादनी | काकिनी चपलवती तथा कार्षापणप्रिया || तस्का शुभ्रा च तस्कस्था तल्पस्था च सुतप्लिका | गुह्यकाली भद्रकाली महाकाली कलावती || अतितल्पा महातल्पा सुतल्पा शोषिका तथा | विन्ध्यचक्रनिवासी च सावित्री भुवनेश्वरी || एकपक्षा एकनेत्रा एकदा लक्षदायिनी | कोटिदा धनरूपा च धनधान्यनिवासिनी || दुर्गा च दुर्गरूपा च दुर्गे देवि नमोऽस्तु ते | ओङ्कारी चैव ह्रीङ्कारी वर्णमाता वलप्रदा || द्रीऊंकारी च स्त्राङ्कारी च हुङ्कारी बीजरूपिणी | स्त्रीङ्कारी चैव हुऽन्कारी सर्वमन्त्रमयी स्मृतिः || सुस्मृतिः स्मृतिरूपा च स्मृतिरूपा रसप्रदा | सर्वशास्त्रमयी देवी नानासर्थप्रियातनुः || अनर्था वहूला खेला वाला च वालिकारिणी | अर्थप्रिया अर्थकरी त्रिकूटा कूटरूपिणी || त्रिकुटस्था पञ्चकूटा सर्वकूटशरीरिणी | एकवस्त्रा त्रिनेत्रा च एकनेत्रा त्रिनेत्रिका || चन्द्रानना महागौरी गर्भाशयनिवासिनी | गर्भाशया जरायुस्था स्वेदजा अण्डजा तथा || उद्तदा अण्डरूपा च अरूनाराक्तदन्तिका | रम्भात्मना यशस्वी च योनिदेशनिवासिनी || इडासुषुम्ना योगवती गान्धारी च कुहूः पुनः | अलम्बुषा हस्तिजिह्वा नलिनी च निडावती || वैखरी शब्दरूपा च षट्चक्रक्रमवासिनी | षट्चक्रभेदनकरी परमामृतसम्भवा || मन्त्रमण्डलमध्यस्था कालरूपा गुणाकरा | सूर्यमण्डलमध्यस्था सूर्यमण्डलवासिनी || अरुणा अरुणी दृष्टा सूर्यकान्तिर्दिवापतिः | तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः || सुषुम्ना भोगदा विश्वा बोधिनि धारिणी क्षमा | नानाधातुमयी देवी नानाधात्वन्तराफला || वहूला वहूदा विज्ञा अज्ञानज्ञानहारिणी | मनोज्ञा ज्ञानहानिश्च भेरुण्डा भैरवीति च || सुन्दरी पुरुरूपा च कात्ययन्यपि पूतना | राक्षसी डाकिनी देवमयी वेदविभूषणा || जरा वृद्धा वृद्धमाता वृद्धस्था वृद्धरूपिणी | देवयानि सती पात्री विचित्रा चित्ररूपिणी || (प्. ५१) चित्रलेखा च कुष्माणी कुम्भकर्णविनाशिनी | मधुकैटभहन्त्री च विश्वेशभवनाशिनी || चण्दवैरी विनाशी च कैटभी कपटेश्वरी | कपटा कपटा क्रोडा विकृतिः कृतिनाशिनी || कंसासुरविघाता च वकासुरविनाशिनी | (मधुकैटभहन्त्री च विश्वशभवनाशनी ||| चण्डवैरी विनाशी च) पूतनाजीवहन्त्री च केश्यसुरविनाशिनी | कालयवनहन्त्री च जटासुरविनाशिनी || अरिष्टधेनुहन्त्री च जगतः शोकनाशिनी | कालनेमि वधे प्रोक्ताः सर्वसत्त्वेषु संस्थिता || अलक्ष्मीर्लक्ष्मीरूपा च सर्वशक्तिस्वरूपिणी | निशुम्भशुम्भहवनी रक्तबीजविनाशिनी || वैदामाता सुमाता च सुमित्रामित्रनाशिनी | कौशल्या केकयी नित्या मन्थरा वहूदा तथा || साश्वती चैव गायत्री द्रौपदी च सुभद्रिका | उत्तरा चैव गान्धारी जगद्धात्री वपुःप्रिया || चित्रिणी चैव कुष्माणी प्रभावती रातप्रिया | ज्वरारुरुद्ररूपाश्च लोमसा राक्षसी तथा || हिडम्बा वकरूपाश्च शुकी कृत्वा कृपावती | मनोन्मयी मानमयी रमणीया मनोहरा || मोहिनी मोहरूपा च सर्वमोहविनाशिनी | न प्त्री पात्री देवहुतिः सत्य च सत्यवादिनी || सत्यभामा च माना च भुषणा भुषणावती | कुक्कुटा वायवी वेनि सुमाना राक्षसी प्रिया || अनेकरूपा रूपा च वहूरूपा वहूप्रदा | जया दुर्गा प्रभा सत्या सटिनाटिर्विटम्बिका || अतिचैत्वी महाचैत्वा शिखिनी कृपणावती | कृपणा भिन्दिपाली च कुन्ती सुन्दरवासिनी || धनुः शवी च पाशा च पाशहन्ता गदागदी | खट्वाङ्गधारिणी धीरा वाणपुंथानुवर्तिनी || गङ्गा काशी सती सीता अलका अलकप्रियः | चक्षुर्भद्रा कपाली च पुष्पा चैव वसुन्धरा || पुनः पुनः कर्म * णा विपासा मदनावती | कावेरी सविता सत्या वेत्रवती च वेदिका || अमुना चैव आयुर्दा तथा तुङ्गवती प्रिये | अनेकनद्यः सर्वास्ता वान्धवा परतात्मजा || अम्बिका गिरिका मेना गौरी सर्वज्ञभाविनी | भवानी कमला लक्ष्मीर्ब्रह्मपुत्रप्रिया तथा || निदिग्किका स्पृ * (?)ई व्याघ्री वद्या वैद्यचिकित्सका | आहेरूरथरूपा च रथ्या चत्वरवासिनी || सर्वज्ञानमयी सत्या वर्णरूपा वनप्रिया | ततः शङ्कररूपा च शङ्करी कमलप्रिया || ब्राह्मणी रङ्गिका वेश्या कुलटा वेशरूपिणी | कामचारी कामगमा कामभावविअर्द्धिका || अकामा चैव कामा च कामराजेश्वरी प्रिया | सुन्दरी भैरवी स्तुत्या स्तवनीया तिथिप्रिया || पञ्चमी च तथा षष्ठी अष्टमी नवमी तथा | चतुर्दशी कुहूश्चैव स्कन्दषष्ठी च पूर्णिमा || नक्षत्ररूपिणी ध्येया सर्वनक्षत्रवासिनी | अश्विनी भरणी चैव रोहिणी रेवतीति च || नक्षत्रगणमाला च सर्वपर्वनिवासिनी | त्रिसन्ध्यवासनी सन्ध्या शुभदा च शुभप्रदा || (प्. ५१ब्) नित्यरतिस्थला नित्या नित्यानन्दस्वरूपिणी | जयदा जयमान्या च जर्जरा ज्वरनाशिनी || जनित्री जन्मदात्री च जन्मभूमिः कृतालया | पार्वती पुरवासी च शाम्भवी दैत्यरूपिणी || दनुपुत्रप्रमाथी च कद्रुश्च वनिता तथा | देवकन्या देवमाता देवपत्नी दितिप्रिया || आदितिः सुदितिर्ज्ञेया दानवी दानरूपिणी | दानमान्या दानवी च अनन्या मृत्युरूपिणी || वधिरा वनदा विश्वा विश्वमाता वलप्रदा | कुमुदा च गणाम्बा च अम्बा मङ्गलचण्डिका || विशेषज्ञा विशेषस्था सर्वतत्त्वेषु संस्थिता | कालरात्रिः कुजिनी च चण्डमुण्दा महातपा || इन्द्राक्षी पङ्गलाक्षी च दीर्घनेत्रा सुलोचना | दीर्घघेनो महाघोणा सुघोणा घोणरूपिणी || सुदती युगदन्ता च अनेकदन्तरूपिणी | सुगन्धा गन्धरुपा च वहूगन्धा सुगन्धिका || नानावाद्ययुता देवी वाद्यरूपा विनावती | निरशा नागरी भूयश्चौरप्रिया च शाङ्करी || गृहस्य जननी गुह्या अतिगुह्यातिगोपिता | सर्वशास्त्रमयी शक्तिरक्षरा वर्णमालिका || द्रिऊ/ स्त्रिं स्वरूपाङ्गीं च तालातालप्रिया तनुः | वेत्रपानिश्चित्रकरी विचित्रा विद्रुमा तथा || ललिता ललना ये यित् आशीरूपा युगालिका | मुक्तामाणिक्यवैदुर्यस्पर्शरूपवती रतिः || विनेया विनता दाना दानरूपा नदी नदा | पुरुषाङ्गी च पुरुषी सुपुरुषप्रिया तनुः || चञ्चला चपला बाला बालक्रीडावती विभुः | प्राकृतादेशभाषा च गाथागायनसम्भवा || वलिमाता वलिदेशा सुवलिर्वलिरूपिणी | रक्तपाना रक्तरुचिः सुरुची रुचिरानना || सर्वमङ्गलमध्यस्था सर्वमण्डलवासिनी | अग्निरूपा अग्निवर्णा मण्डली अग्निरूपिणी || धुम्रार्चि रुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः स्वरूपा भव्या च हव्यकव्यवहा तथा || कव्यस्था कव्यरूपा च कव्यदा कव्यरूपिणी | पितुभुर्मातुरूपा च तत्स्था तत् स्थानरूपिणी || किङ्कराख्या कुलश्रेष्ठा कपटा कपटाकृतिः | क्षीणाङ्गी कुलिङ्गाङ्गी च वज्राङ्गी वज्रसम्भवा || नृमुण्डस्रग्विनी सुश्रीः सुरूपा रूपवर्जिता | शिवदुती दुतीमाता सिद्धिदा सिद्धिवल्लभा || अनिमा लघिमा प्राप्तिः प्रकाम्या महिमा तथा | इषत्वा च वसित्वा च तथ कामावशायिता || इच्छासिद्धिरसिधा च वसित्वार्द्धनिवासिनी | मत्स्यपाना मत्स्यहारा सर्वाशी मांसभक्षणा || साधका साधकप्राणा साधकप्राणदायिनी | विनीता विनयप्रेम्ना अपि कीटपतङ्गिका || भुजङ्गभुषणा काली भुजङ्गक्रोडशायिनी | शवतल्पगता नारी भैस्मी भमी कुशावती || कुशधा कुशलप्रेम्ना सुकुशा च कुशाकृतिः | कुसन्ताना दीनवती दविता दविणीदवि || अदरिद्रा सुदरिद्रा तपोयुक्ता तपप्रिया | इञ्चवृत्तिकरिः सिद्धिः सर्वमाना मनोरमा || वमना वमनप्रीता त्रिबीजबीजरूपिणी | (प्. ५२) निर्विजा जनत जन्या जगज्जीवनरूपिणी || जीवात्मा परमात्मा च आत्म आत्मविवर्जिता | अर्चिता प्रणता ध्याता ध्यानगम्या धनञ्जया || वैरिणी सारिणी मारी मारणा मरणप्रिया | दुर्गमा दुर्गरूपा च दुर्गा दुर्गतिनाशिनी || राजपुत्री रजपत्नी राजमाता रजोवती | भञ्जघङ्गभयाभाना भवना भवनप्रिया || भवानी भाविनी भव्या भव्यभावा भयापहा | भवित्री भवरूपा च भवानी भवनाशिनी || मूर्तिमूर्तिमयी मृत्युर्मृत्युदा मूर्तिदा मतिः | चौरप्रिया चौररुचिः चौरैर्नित्यं नमस्कृता || वाग्देवीवदना माया विकटाक्षा कटाक्षिका | नारदी देवमाता च दानवेन्द्राप्रिया तनुः || जित्वरा जयमान्या च जयदा जयवाहना | उच्चैःश्रवा हयानां हि मनुष्याणां नराधिपः || वासनाममृता सत्या धनानां धनसञ्चया | धेनुनां नन्दिनी नाम वाद्यघण्टा प्रकीर्तिता || विपदा ब्राह्मणी नित्या अकारा अक्षरेतरे | अकारे च ओकारे च स्त्रीङ्कारे च उकारके || औकारी च वर्णमाला पण्डिता पण्डितप्रिया | इन्द्रियाणां मनश्चास्मि शास्त्राणामागमाकृतिः || आचाराणां भवेद्वारा वामदेवप्रियावलिः | वामाङ्गवासिनी देवी अर्द्धनारी स्वरूपिणी || सृष्टिस्वरूपिणी आद्या परमाद्या पराजया | अजया विजया बिम्बी विश्वाविस्वतनुर्विदः || विमुथा सुमुथ वेश्या वृक्षानाश्वथरूपिणी | संसारसमया माया मायाशास्त्रप्रकीर्तिता || कुपटाकपटा कुप्या कुप्यपर्वतवासिनी | कैलाशवासिनी कीला अवला च स्वरस्वती || कीलालपा (?) अपाल्पा च अजप्ता अर्घवत्सल | औजडज्जडरूपा च सुजडा जडवर्जिता || अनेकनाम्नी एकनाम्नी सर्वनामविवर्जिता | ज्योतिर्ब्रह्ममयी साक्षात् छन्दोब्रह्मस्वरूपिणी || सर्वसत्त्वक्षरकरी सर्वसत्त्वेषु संस्थिता | वीणा वद्यवती वेश्या अर्चिश्च सुरुचिस्तथा || सुनीतिश्च कयाधुश्च हृतद्युतिस्ततः परा | चाण्डाली वायसी वाला वान्याचरणभद्रिका || रसालमातृका वान्यः वनस्था वनगोचरा | पृथिवी च तथा रीति त्रिपधा सामगायिनी || सामवेदरता सीमा सामवेदविनाशिनी | कौटुम्बी च कटुम्बी च कुमनानयनानना || सुभद्रा कुन्तला दन्त्री श्रीः सल्लोकैश्चरा वहिः | अभ्यन्तरा वहिस्था च नानामालाविधारिणी || यामिनी मासिका माता प्रमाता मातृकायतिः | रसानाञ्च मधुस्वादुः शब्दानां प्रणवस्तथा || वर्णनां ब्राह्मणः साक्षात् धान्यानां शालिरुत्तमा | शस्यानां शालिका नामा क्षेत्राणां काशिका तथा || ह्र्दानां सागरा गङ्गा रत्नानां काञ्चनं तथा | नगानां मेरुरुद्दिष्टा पर्वतानां पितुः प्रिया || नदीनाञ्च भवेद्गङ्गा तीर्थे पुष्कररूपिणी | पुलस्तस्यालयं प्रोक्तमाश्रमेषु च पार्वती || धन्यानाञ्च कुबेरश्च पतीनां पततात् पतिः | (प्. ५२ब्) गतिर्गतिमताञ्चैव विनरेषु प्रमाष्टिका || सर्वाणी तमसी ज्ञेया वदनामृतरञ्जिका | कर्पूरा मोदनी श्वासा ताम्बूलपूरितानना || रक्तवस्त्रपरिधाना रक्तवस्त्रोत्तरीयनी | पात्तनी पात्तनी प्रेम्ना कोपकन्या प्रमोदनी || कालिः कालिप्रिया केलिः क्रीडाथेला च कुर्द्धिका | चिठी कुठी प्रियकरी वेन्द्धटा कन्दनी तथा || जन्मभूमिः सुजन्मा च जन्मद्वारनिवासिली | नाडीसन्धानरूपा च सर्वमांसप्रिया तथा || शृङ्गा राङ्गनिवासी च शृङ्गारभावभाविका | चन्द्रिका चन्द्रकान्तिश्च ततश्चन्द्रकरी क्रिया || १००० || इदं सहस्रनामानि नारदेन च भाषितम् | तदहं कथितं देवि दुर्गानामसहस्रकम् || श्लोकं वा पादमेकाम्बा यः पठेत् प्रातरेव हि | स भवेत् पार्वती पुत्रः स्वयं नारदभाषितम् || वन्ध्या वा काकवन्ध्या वा मृतपत्या च योषिताम् | पठनात् श्रवणाद्वापि भवेत् पुत्रः स्वयं शिवः || ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | सर्वं नश्यति देवेशि स्तवस्यास्य प्रसादतः || दिगम्बरो मुक्तवेशः श्मशानालयमागतः | मासभक्तवलिं दत्वा भवेन्नित्यपरायणः || दग्धमीनं दग्धमांसं दग्धद्रव्यादिकञ्च यत् | म्दयं मांसं सदा दद्यात् दग्धमीनसमन्वितम् || निवेद्य देव्यै तत्सर्वं जपेन्मन्त्रमनन्यधीः | षट्सहस्रं निशाभागे तदा नृत्यपरायणः || आगत्य स्वगृहं तत्र गुरवे दक्षिणां दिशेत् | ततस्तवं महादेवीं विधिनानेन देशिकः || पूजयेत् प्रातरेव प्राक् कुमार्याः सुरपूजकाः | सुन्दर्याः सुकुमाराङ्गाः सर्गमुक्तिप्रदायिकाः || पूजयित्वा विधानेन तद्योनौ प्रजपेत् सुधीः | नित्यं त्रिसन्ध्यं प्रजपेत् शतमष्टोत्तरं ततः || एवं यः कुरुते धीमान् षण्मासं तन्त्रसंयुतः | भस्य साक्षात् भवेद्देवि दुर्गा दुर्गतिनाशिनी || गोरोचना कुङ्कुमेन यावकैश्चन्दनैस्तथा | सिन्दुरकर्पूरमधुरैर्विलिखेत् तं ततः सुधीः || भूजे वा मस्तके धृत्वा वशयेदाखिलं जगत् | गन्धपुष्पादिनाभार्च्य गीतवाद्यैः पुरःसरैः || देव्यः प्रीतिविशेषं यं कुर्यान्मननवाचनम् | आखेटकमुपाख्यानं ततः कुर्याद्दिनत्रयम् || ब्राह्मणान् भोजयित्वा च नार्याश्चैव सुशोभनाम् | तदा भवेन्महारक्ष्यां यावज्जिवनसंयुतम् || स भवेत् पार्वती पुत्रः सर्वसत्त्वपुरस्कृतः | तं दृष्ट्वा साधकं देवि सिंहव्यघ्रादयश्च ये || ते सर्वे प्रपलायन्ते सिंहं दृष्ट्वा यथा मृगाः | सिद्धे मनौ प्रकुर्वीत प्रयोगान् सुरपूजकान् || साध्यप्रामस्य आनीयमृत्तिकां किञ्चितुत्तमाम् | तल्रिभागं विभक्त्याख पलद्वादशकं यथा || त्रिभागञ्च भवेन्नित्यं ग्रामान्तिकं खनेत् सुधीः | तद्भागं विलिखेद् येन विधानं तत् शृणु प्रिये || करीषवालुकामृद्भिः पत्राश्वत्थसमाहिते | (प्. ५३) स्वप्रमाणे खनेद्गर्त्ते गीतवाद्यपुरःसरैः || विमुखेन निखन्येत गृहमागत्य साधकः | गीतवाद्यैर्महामायां बलिदानैः प्रपूजयेत् || तत्रात्रौजागरणं कुर्यात् मधुना सिञ्चयेत् सुधीः | गृहाभ्यन्तरदेशे च खनेत्तां मृत्तिकां यतः || तदा भवेत् तथात्वञ्च सिद्धिः कुर्यादतन्त्रितः | नैवेद्यं निक्षिपेद्देवैर्विधानेन सुसाधकम् || साधकान् भोजयित्वा च तोषयेत् सेवनादिभिः | तदा भवेन्महप्रीतिर्देव्या सर्वार्थसिद्धये || क्रुद्धां दुष्टां तथाक्रान्तां केकरां शोकसंयुताम् | चिन्तयेत् परया भक्त्य देवी षट्कर्मयोगतः || निशुम्भं वैरिणं ध्ययेदात्मनां पर्वतात्मजाम् | मारयेदखिलान् शत्रून् हेमाद्रिसदृशानपि || यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् | दुर्गापदप्रसादेन तं तमाप्नोति नित्यशः || स्वयम्भुकुसुमैः शुक्रैर्यवायावकसंयुतैः | पूजयित्वा विधानेन लभेत् सिद्धिमनुत्तमाम् || मासिमसि यजेद्देवीं दुर्गां दुर्गतिनाशिनीम् | मत्स्यैर्मांसैम्.गैर्गाभिः पूजयेत् पर्वतात्मजाम् || चन्दना गुरुकर्पुरविडङ्गवकुलानि च | सर्वौषधिजले स्नात्वा पूजयेत् परदेवताम् || कुङ्कुमपद्मगुरुभिर्हेम्नैः नानागन्धसमन्वितैः | शवाङ्गारेण च संपिष्य तथा मूलस्य दारुभिः || शोधयित्वा विधानेन मूलमन्त्रेण साधकः | शतमष्टोत्तरञ्चैव तिलकं कुरुते सुधीः || तद्दृष्ट्वा तिलकं देवि भवेत् तस्य वशे जगत् | भौमावास्यां निशिथे च श्मशाने च दिने दिने || दद्याद्वलिं महदेव्यै ध्यात्वा तां पर्वतात्मजाम् | स भवेत् सम्पदामादिं महेशहैव चापरः || किमन्यैर्वहूना देवि सर्वसिद्धिर्लभेन्नरः | इति विश्वसारतन्त्रे दुर्गानामसहस्रं समाप्तम् | श्री ईश्वर उवाच | शतनामं प्रवक्ष्यामि शृणुष्व कमलानने | षस्याः प्रसादमत्रेण दुर्गाप्रीतिर्भवेत् सदा || ओं सती साध्वी भवप्रीता भवानी भवमोचनी | आद्या दुर्गा जया आर्या त्रिनेत्रा शूलधारिणी || पिणाकधारिणी चित्ता चण्डमुण्डमहातपा | मनोबुद्धिरहङ्कारा चित्तरूपा चिताचितिः || सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी | अनन्त भाविनी भाव्या भव्या भवाभयापहा || आसुरी वेददाता च चिन्तावर्त्मप्रिया सदा | सर्वविद्या दक्षकन्य दक्षयज्ञविनाशिनी || अपर्णानेकपर्णा च पाटला पाटलावती | पट्टास्वरपयीधाना कलन्मञ्जीररञ्जिनी || अमेया विक्रमा क्रूरा सुन्दरि पुरसुन्दरी | नवदुर्गा च मातङ्गी मतङ्गमुनिपूजिता || द्राक्षी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा | चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः || विमलोत्कर्षिणी ज्ञाना क्रिया सत्या च बुद्धिदा | बहूना बहूला प्रेम्ना सर्वा वाहनवाहना || निशुम्भशुम्भहननी महिषासुरमर्द्धिनी | मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी || सर्वासुरविनाशी च सर्वदा नरघातिनी | सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा || अरुणा अरुणी दृष्ट्वा सुर्याकान्तिर्दवापतिः | तपनि तापनि धूम्रा मरीचि ज्वलनी रुची || सुषुम्ना भोगदा विश्वा वाधिनी धारिणी क्षमा | नानाधातुमयी देवी नानाधात्वन्तराफला || अनेकशस्त्रहन्त च अनेकास्त्रविधारिणी | कुमारी चैव कन्या च कौमारी युवतीमतिः || अप्रौढ चैव प्रौढा च वृद्धमाता वलप्रदा | य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् || नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति | धनं धान्यं सुतं जायां हयं हस्तिनमेव च || चतुर्वर्गं तथा चान्ते लभेन्मुक्तिञ्च सात्वतिम् | कुमारीं पूजयित्वा च ध्यात्वा देवीं सुरेश्वरीम् || पूजयेत् परया भक्त्या पठेन्नम शताष्टकम् | तस्यसिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि || राजानो दाशतां यान्ति राज्यश्रियमवाप्नुयात् | गोरोचनालक्तकुङ्कुमेन सिन्दुरकर्पूरमधुत्रयेण || विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः | भौमावास्यां निशाभागे चन्द्रे शतभिषागते || विलिख्य प्रपठन् स्तोत्रं स भवेत् सम्पदां पदम् | इति विश्वसारतन्त्रे दुर्गानामशताष्टकं स्तोत्रं समाप्तम् || श्री पार्वत्युवाच | देव देव महादेव सर्वज्ञ सुरपूजक | गौरस्य शिवपुत्रस्य विधानं कथय प्रभो || तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः | कथयामास तत्सर्वं विधानं सुरपूजकः || श्री ईश्वर उवाच | साधु साधु वरारोहे गणेशस्य महात्मनः | पूजनञ्च तथा यन्त्रं सर्वतन्त्रेषु गोपितम् || हरिद्रस्य गणेशस्य माहात्मां सुरदुर्लभम् | देवैर्देवत्वविधयो गन्धैर्वैः सिद्धमात्मनः || पञ्चवक्त्रैर्महेशानि किं वक्तव्यं सुरेश्वरम् | माहात्मां तन्त्रयन्त्रस्य स जानामि वरानने || सहस्रवदनैस्तस्य अनन्तो न गराट् स्वयम् | कदाचिद्वक्तु कामः स्यान्माहात्मां सुरदुर्लभम् || ऋअषयः पितरो देवाः नागानागाः सुवासुराः | जपन्ति नियतं मन्त्रं गणेशस्य महात्मनः || मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने | इन्द्रबीजं समुद्धृत्य निजबीजं समुद्धरेत् || चतुर्दशस्वरेणाच्यो बिन्दुखण्डस्त्वलङ्कृतम् | एकाक्षरी महाविद्या कथिता पद्मयोनिना || (प्. ५४) चतुर्वर्गप्रदा साक्षात् महापातकनाशिनी | नाशिष्याय च क्रूराय खलायामित्रदर्शिने || न दर्शयेन्न श्रोवयेत् यदीच्छदात्मनो हितम् | काक्षरसमा नास्ति विद्या त्रिभवनप्रिये || अथ ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने | नवरत्नमयं द्वीपं अविदित्वा रसाम्बुधौ || तद्वीचिधौतपर्याङ्के मन्दमारुतसेवितम् | मन्दरपारिजाताख्या कल्पवृक्षलताकुलम् || उद्धृत्य रत्नच्छायाभिररुणीकृतभूषणम् | तस्य मध्ये पारिजातं नवरत्नमयं स्मरेत् || सुरभिः सेवितं सद्भिरनिशं प्रीतिवर्द्धनैः | तस्याधस्तन्मनीपीठे रचिता मातृकाम्बुजे || षष्ठौ नास्तस्तिकोणस्थं साष्टपत्रं त्रिबिम्बयुक् | अर्द्धचन्द्र प्रतीकाशं सविञ्जल्कसमन्वितम् || नानास्त्रसंयुते मन्त्रे महागणपतिं स्मरेत् | हस्तीन्द्राननमिन्दुचुडमरुणच्छायं त्रिनेत्रं रसदाश्लिष्टं प्रियया सपद्मकरषा स्वाक्षस्थया सन्ततम् | बीजायुगदिक्षुकर्मिकरुचा * * विषाणरत्नकलसान् हस्तैर्वहन्तं भजे | गण्डपाणी गलद्दानमानसोत्तानमानसान् | द्विवेफान् कर्ण * (?)लाभ्यां वारयन्तं मुहूर्मुहूः || कराग्रधृतमाणिक्यकुम्भवक्त्रविनिसुतैः | रत्नच्छायं प्रणयन्तं साधकान् मदविह्वलम् || माणिक्यमुटांशेषु रत्नाभरणभुषिताम् | ध्यत्वाअ तं प्रजपेद् देवं गणेशं शिवनन्दनम् || चतुर्लक्षं पुरश्चर्यं जपेच्च नियतं शुचिः | करस्थाः सिद्धयः सर्वा भवन्ति कमलानने || श्रीपार्वत्युवाच | वर्णस्य देवतादेव कथयामास तत्त्वतः | छन्दश्चैव ऋषिश्चैव लोकनाथ जगद्गुरो || श्री ईश्वर उवाच | आद्यः सुराधिपश्चैव देव देवः सदाशिवः | गकारस्य महेशानि देवता परिकीर्तिता || अर्द्धचन्द्रस्य देवेशि देवतागणनायकः | शकारस्य भवेदिन्द्रः सर्वकामफलप्रदः || आद्या शक्तिर्महामाया ऊकारस्य प्रकीर्तिता | महादेवस्य मन्त्रस्य ऋषिवादीवरानने || पूर्ववन्न्यासवर्गञ्च पूर्ववत् पूजनं प्रिये | कवचं कथितं देवि सर्वं तदादिषामले || अत्रैव कथ्यते सर्वं तत् शृणुष्व वरानने | श्री ईश्वर उवाच | शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये | पठित्वा धारयित्वा च मुच्यते सर्वसङ्कटात् || अज्ञात्वा कवचं देवि गणेशस्य यदा जपेत् | सिद्धिर्न जायात् तस्य कल्पकोटिशतैरपि || ओं आमेदः पातु शिरसि प्रमेदश्च शिखोपरि | सन्मोदोरुयुगे पातु क्रमध्ये च गणाधिपः || गणक्रीडश्चक्षुयुग्मे नासायं गणनायकः | गणक्रीडान्वितः पातु शिर *इ(?) प्रमेदः वाहूयुग्मं सदा मम || विश्वकर्ता च उदरे विश्वहर्ता तथोदरे | गजवक्त्रः कटीदशे एकदन्तो नितम्बके || लम्बोदरः सदा पातु गुह्यदेशे सदा मम | (प्. ५४) व्यालयज्ञोपवीतिर्मां पातु पादयुगे सदा || जापकः सर्वदा पातु जानुयुग्मे गणाधिपः | हारिद्रः सर्वदा पातु सर्वाङ्गगणनायकः || य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि | कवचं सर्वसिद्धाख्यं सर्वविघ्नविनायकम् || सर्वसिद्धिकरं साक्षात् सर्वपापविमोचनम् | सर्वसम्पत्प्रदं साक्षात् सर्वशत्रुक्षयङ्करम् || ग्रहपीडा ज्वरारोगा ये चान्ये गुल्मजादयः | पठनात् श्रवणच्चैव नाशमायान्ति ततक्षणात् || धनधान्यकरं देवि कवचं सुरपूजकम् | समो नास्ति महेशानि त्रैलोक्ये कवचस्य तु || हारिद्रस्य महेशानि कवचस्य तु भुतले | किमन्यैरसदालापेर्यत्रायुर्व्ययतामियात् || इति विश्वसारतन्त्रे हारिद्रगणेशस्य कवचं समप्तम् || मन्त्रं वहूविधं देवि कथितं पद्मयोनिना | लक्ष्म्याद्यां वा कामाद्यां वा मायाद्यां वा जपेत् सुधीः || लज्वाद्यां वा वधु * * बीजाद्यां वा जपेत् सदा | ओंकाराद्यां महाविद्यां निजबीजादिकन्तथा || गगणं विधुयुक् कृत्वा मध्यमान्भरलोपयेत् | निजबीजं महेशानि कथितं पद्मयोनिना || द्व्यक्षरी सा महविद्या त्र्यक्षरी अस्त्रसंयुता | चतुर्वर्गप्रदा साक्षात् महापातकनाशिनी || वाग्भवाद्यां जपेद्विद्यां पाण्डित्ये च सदा सुधीः | अथ दुर्गामहं वक्ष्ये शृणुष्व कमलनने | विविधा सा महाविद्या महाकालमता प्रिये || लक्ष्म्याद्या वाग्भवाद्यां वा कामाद्या कामदायिनी | लज्वाद्यां वा नहाद्यां वा कूर्चाद्यां वा जपेत् सदा || वधुबीजादिकं वापि जपेद्विद्या विशालधीः | षोडशव्यञ्जनं देवि वामाक्षिवह्निसंयुतम् || इन्दुबिन्दुसमारूढां लज्जाबीजमिदं स्मृतम् | देवी बीजादिकं वापि प्रजपेज्जपसिद्धये || इन्दुबिन्दुसमारूढमनुस्वरसमन्वितम् | देवी बीजमिदं प्रोक्तं ब्रह्मणा भाषितं पुरा || फडन्ता त्र्यक्षरी विद्या सर्वतन्त्रेषु गोपिता | वह्निजायावधिः प्रोक्ता विद्या चैव त्रिवर्णिका || भोग्येन लभते विद्यां सर्वसम्पत् प्रदायनी | नातः परतरा विद्या तीर्थं नातः परात्परम् || विद्याचुडामणिं देवि कथितं पद्मयोनिना | कश्यपः काहलिश्चैव शिवानन्दोऽथ गौतमः || च्यवनः शुक्रशुक्रौ च तथैव पुलहः क्रतुः | वशिष्ठश्चैव दुर्वासा शान्तनुः सगरः कृपः || सर्वे शाक्ता महात्मानः सर्वाचारपरायणाः | ते शैवा वैष्णवान्ते स्युस्ते सर्वे शिवपूजकाः || त एव शिवरूपेण विचरन्ती महीतले | तेषां मम न देवेशि न कुत्रापि महीतले || (प्. ५५) देवकूटात्मिका विद्या कथिता पद्मयोनिना | यथा चारे यथाकाले यथास्थाने यथाविधि || इति विश्वसारतन्त्रे श्रीदुर्गाविधाने पञ्चमः पटलः | अथ वक्ष्ये महेशानि विद्या सर्वफलप्रदा | चतुर्वर्ग प्रदा साक्षात् महापातकनाशिनी || सर्वसिद्धिप्रदा नित्या सर्वपापक्ष्या तथा | सर्वमङ्गलनित्या तु भक्तिमुक्तिप्रदायिनी || गुह्यकाली महाविद्या त्रैलोकेऽपि च दुर्लभा | देवकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता || मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने | इन्द्रादिरूढं वर्गाद्यां रतिबिन्दुसमन्वितम् || विगुणञ्च तदा कृत्वा ईशानञ्च समुद्धरेत् | वामाक्षिवह्निसंयुक्तम् नादबिन्दुसमन्वितम् || लज्जाद्वयमिदं प्रोक्तं सर्वविद्यावसानुगम् | तदा गुह्यकालिकेति अथवा दक्षिणे वदेत् || सप्तबीजं पुनः पूर्वं क्रमेण चिन्तयेद्धिया | वहिन्जायावधिप्रोक्ता विद्या त्रैलोक्यमोहिनी || नातः परतरा विद्या तीर्थं नातः परं वरम् | ते धन्याः कृतपुण्यास्ते ते सर्वे शिवपूजकाः || ते सर्वे वैष्णवाः शास्त्रवेत्ता च बोधनायकाः | तेषां समानं देवेशि त्रैलोक्ये नैव विद्यते || तथा च श्रुतिः || यदा गुह्यकालिकायाः कामराजं वा कूर्चं वा सम्बोधनपदं वा वेत्ति सर्वदा सर्वकालेषु सर्वहत्यां तरति सर्वमृत्युं तरति सर्वशास्त्रं वेत्ति धनिनो भवन्ति अन्तेदेवलोकं गच्छति | देव्याश्चरणप्रसादः स्वदेहदेवीं पश्यति असाध्यं साधयति | किमन्यद् वहूना देवि सर्वसिद्धिमुपालभेत् || अस्यापि सदृशी विद्या त्रैलोक्येऽपि च दुर्लभः | अत्र कूर्चं शक्तिस्वाहा च शक्तिः | अथवा कूर्चवाजे द्वे स्वाहा च शक्तिः | सर्ववर्णात्मिका देवी चित्स्वरूपा च निर्मला | अविकारा आनन्दरूपा प्राणान्ते वा स्वगोत्रे शठाय मित्राय प्रकाशानाह इति श्रुतौ | कामराजत्रयाणां शक्तिस्त्रैलोक्यमोहनः | कूर्चद्वयस्य शक्तिमूलप्रकृती नित्या ज्वालाद्यस्य शक्तीत्रिभुवनेश्वरी | आद्या गुह्याया दक्षिणां वा शब्दस्य शक्तिर्दाक्षणा मुर्ति ऋषिः पुनर्बीजानां तथैव स्वाहा | शब्दस्य शक्तिकालका कल्मषनाशिनी | दक्षिणे पदं वा गुह्यपदं वा कीलकं गकारे तु महादेवी देवतागणनायकः | उकारे च महादेवी हकारे च सदाशिवः | एकारे ईश्वरी देवी एवं वर्णस्य देवता || विविधा सा महाविद्या कथिता पद्मयोनिना | तत् शृणुष्व महेशानि यदुक्तं ब्रह्मवादिभिः || कामराजं तथा कुर्चं तदन्ते भूवनेश्वरी | गुह्य च कालिका देवी तथा बीजतृतीयकम् || (प्. ५५ब्) स्वाहान्ता कथिता विद्या सर्वविद्यास्वनुत्तमा | द्वौ द्वौ बीजानि तदुद्धृत्य तदा सम्बोधने वदेत् || पुनस्तथैव षड्बीजं तदन्ते वह्निसुन्दरी | विंशद्वर्णात्मिका विद्या त्रिकोण (?) वाप्रकीर्तिता || कामराजं तदा ब्रूयात् कवचं भुवनेश्वरी | सम्बोधनं तदा ब्रूयात् स्वाहान्तेत्यः परा स्मृता || एकादशाक्षरी विद्या दशवर्णात्मिका भवेत् | एकाक्षरी कामराजं त्र्यक्षरी च त्रिबीजिका || षड्क्षरी षड्बीजानि स्वाहान्ताष्टाक्षरी स्मृता | द्वाक्षरी कामबीजञ्च फडन्ता त्र्यक्षरीमता || बीजत्रयं तदास्त्रञ्च कथिता चतुराक्षरी | बीजानि निर्गुणीकृत्य त्यक्त्वा सम्बोधनं पदं || स्वाहान्त कथिता विद्या सर्वतन्त्रेषु गोपिता | एषा तु षोडशी विद्या चतुर्वर्गफलप्रदा || भक्तिमुक्तिप्रदा विद्या सर्वलोकवशङ्करी | सर्वशत्रुक्षयकरी कल्पवृक्षस्वरूपका || भाग्येन लभते विद्यां सर्वत्रैव सुदुर्लभा | पराशरो वशिष्ठश्च मैत्ररः कश्यपस्तथा || उतसक्ः काशीराजः तथा अश्वपतिः प्रिये | पुलस्त्यः पुल्हश्चैव क्रतुः कात्यायनस्तथा || बोधायनः शङ्खधरः स्तु ण्डश्चैव वरनने | काश्यपिर्गरुडः श्वेतः केतकी काहलस्तथा || जातनिश्चासुरिश्चैव हरिर्वामनरूपधृक् | सहस्रपादहिर्ब्रध्नभरद्वाजश्च भास्करः || विशालाक्षः सुरानन्दो द्वादशात्मा दिवाकरः | एते स्युः सेवका देवि गुह्यकाल्यास्तु षोडशी || षोडशी दुर्लभा विद्या सर्वतन्त्रेषु गोपिता | दक्षिणे पदमाभाष्य भवेत् पञ्च दशाक्षरी || षोडशी गोपिता विद्या तत्रापि तद्गुरुः प्रिये | विधानं तत्र सुलभं नैव कुत्रापि पार्वति || कामराजद्वयं भ्यक्त्या भवेद्विद्या चतुर्दशी | सप्तबीजं पुरा प्रोक्तं गुह्ये च कालिके पुनः || स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता | कामराजं परित्यज्य अथवा षोडशाक्षरी || एवं वहूविधा विद्या तन्त्रे तन्त्रे प्रकीर्तिता | अथ वक्ष्ये महाविद्यां सर्वतन्त्रेषु गोपिताम् | भृण्डरामेण या प्रोक्ता तत् शृणुष्व वरानने || कामबीजं समुद्धृत्य सम्बुद्धन्तपदद्वयम् | पुनः कामं तदन्ते च दद्यात् कुर्चञ्च सुन्दरीम् || एषा नवाक्षरी विद्या गुह्यशब्दसमन्विता | दक्षिणे पदमाभाष्य भवेद्विद्या दशाक्षरी || एवं वहूविधा विद्या तन्त्रे तन्त्रेषु दुर्लभा | लक्षधा विद्यते विद्या महाकालेन भाषिता || पूर्ववन्न्यासवर्गञ्च पूर्ववत् पूजयेत् शिवाम् | पूर्ववत् प्रजपेद्विद्यां सर्वं पूर्ववदेवहि || वलिदानं तथा यन्त्रं पूर्ववत् परिकल्पयेत् | शतापराधे वनितां पूष्पेणैव न ताडरेत् || कुत्सितां वा सुवेशं वा कुमारीं युवतीं तथा | न निन्देन्मनसा वाचा नमस्कृत्य विसर्जयेत् || (प्. ५६) भद्रकाल्यादयो विद्य कल्पन्ते शृणु पार्वति | कामराजादिकं बीजं सर्वं पूर्वापरे यजेत् || भद्रकालीं तथा ङेन्तां बीजमध्ये नियोजयेत् | स्वाहान्ता कथिता विद्या विंशद् वर्णात्मिका प्रिये || चतुर्वर्गप्रदा देवी भद्रकाली शुभानना | शतधा विद्याते विद्या तन्त्रे तन्त्रे विशेषतः || सप्तबीजं समुद्धृत्य श्मशानकालिकां ततः | पूर्वबीजक्रमेणैव स्वाहान्ता सर्वसम्मता || विंशत्येकाधिका विद्या भद्रकाल्याः प्रकीर्तिता | बीजानि उद्धरेत् पूर्वे महाकालिपदं पुनः || तदन्ते सप्तबीजानि स्वाहान्ता सर्वसम्मता | विंशद्वर्णा महाविद्या भद्रकाल्याः प्रकीर्तिता || तासां ध्यानमहं वक्ष्ये शृणुष्व कमलानने | महामेघप्रभां रक्तां कृष्णवस्त्रपिधायिनीम् || लसज्जिह्वां घोरदंष्ट्रां कोटराक्षीं लसन्मुखीम् | नागहारवलोपेतां चन्द्रार्द्धकृतशेखराम् || द्यां लिऽऽखन्तीं जटामेकां लेलिहानां शवं स्वरम् | नागयज्ञोपवीताङ्गी नागशयया निशेदुषीम् || पश्चाच्चैव नृमुण्डेन वनमालां महोदवीम् | सहस्रफलसंयुक्तमनन्तशिरसोपरि || चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकाम् | अशी वषैर्नागफणैः कङ्कण द्वितीयं विदुः || अनन्तनागराजेन दक्षिण करमण्डिताम् | वामे शवसुरूपान्तं कल्पितं शवरूपकम् || द्विभुजां चिन्तयेद्देवीं नागयज्ञोपवीतिनीम् | नवरत्नैः समवद्धकुण्डले श्रुतिमण्डिते || प्रसन्नवदनऽम् सौम्यां सर्वरत्नविभूषिताम् | नारदाद्यैर्मुनिगणैः सेवितां शिवगेहिनीम् || तट्टहासां महाभीमां साधकाभीष्टदायिनीम् | एवं ध्यात्वा यजेद्देवीं कालीं कल्मषनाशिनीम् || अथवा चिन्तयेद्देवीं गुह्यकालीं महोदयम् | चतुर्भुजां महाकालीं शवकुण्डलधारिणीम् || घोरदंष्ट्रां करालस्यां महामेघघनच्छविम् | मुण्डमालं कपालञ्च सुतीक्ष्णकर्तृकांपुनः || नागवर्गञ्च हस्ते देवे सव्ये दक्षिणयोगतः | सहस्रफणसंयुक्तमनन्तगणभूषिताम् || शिवाविकृतशब्देन सामवेदप्रगायतीम् | सृक्कद्वयग्लद्रक्ताधाराविस्फुरिताननाम् || लेलिहानां शवं साक्षात् प्रत्यालीढपदस्थिताम् | दिगम्बरीं महाभीमां नानावाल्यैश्च सेविताम् || शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् | शवरूपमहादेवहृदयपरिसंस्थितम् || विकसद्रत्नवर्ष्यैश्च साधकार्थप्रपूरिणीम् | एवं वा चिन्तयेद्देवीं गुह्यकालीं महेश्वरीम् || देवकूटात्मिका विद्या सर्वतन्त्रसमन्विताः | ध्यानभेदे भवेद्विद्या जीवकूटात्मिका प्रिये || अथवा चिन्तयेत् कालीं महाकालमतां प्रिये | महामेघप्रभां श्यामां रक्तवस्त्रपिधायिनीम् || ललज्जिह्वां करालास्यां घोरदंष्ट्रं भयानकाम् | शवकुण्डलयुग्मेन भूषितां सुमनोहराम् || सर्वलावण्यवसतीं सृक्कद्वयगणर्ककम् | (प्. ५६ब्) शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् || शवरूप्महदेवहृदयोपरिसंस्थिताम् | अभयञ्च वरदञ्चैव खड्गं मुण्डं सुशोभनम् || सहस्रफणसंयुक्तैर्नानानागैर्विभूषिताम् | शवरूपमहादेव कल्पिता शवरूपकम् || अनन्तनागराजेन दक्षिणं करमण्डितम् | नानादेवैश्च गन्धर्वैर्नानातालसमन्वितैः || नानानागसमायुक्तैः सेवितां सुमनोहराम् | एवं संचिन्तयेद्देवीं कुरुकुल्लादिसंयुताम् || पूजयेत् परया भक्त्या गुह्यकालीं महोदयाम् || अथ यन्त्रं प्रवक्ष्यामि शृणुष्व कमलानने | त्रिकोणं विन्यसेत् पूर्वं षट्कोणपरिमण्डितम् || नवकोणं पुनस्तत्र तत्रापि पूजयेत् शिवाम् | अथवा पूजयेत् यन्त्रे तत् शृणुष्व नगात्मजे || त्रिकोणञ्चैव षट्कोणं नवकोणं मनोहरम् | त्रिविम्बं साष्टपत्रञ्च सकिञ्जस्कंसमन्वितम् || भूपुरत्रितयारूढं योनिमण्डलमण्डितम् | त्रिपञ्चारमिदं चक्रं सर्वतन्त्रसमन्वितम् || त्रिकोणञ्चैव षट्कोणं नवकोणं ततः परम् | त्रिविधं साष्टपत्रञ्च भूपूरत्रितयान्वितान् || पूजयेत् परया भक्त्या तन्मध्ये भवसुन्दरीम् | त्रिपञ्चारे पीठे जननि सततं विधियुत महात्मानः सर्वे सततमहता सिद्धिकविता | विनिर्द्धूता जिह्वासकलवाधनिहता न तेषां संख्यानां विभवमति जयति चिरम् || अथ देव्याश्च पूजासु शक्तयः परिकीर्तिताः | कालीं कपालिनीं कुल्लां विप्रचित्तां विरोधिनीम् || उग्रामुग्रप्रभाञ्चैव षट्कोणे परिचिन्तयेत् | दीप्तां घनां प्रदीप्ताञ्च मात्रां मुद्रां मितां पुनः || नीलां नीलघनां घोरां अट्टहासां करालिनीम् | अमिताञ्च मितां मुद्रां सुघोरां पूजयेत् क्रमात् || ब्राह्म्यादिमातरः पूज्या पत्रेषु च ततः परम् | भूपुरे लोकपालाः स्युस्तदस्त्राणि च तद्वहिः || भूपुरे च चतुष्कोणे पूजयेत् क्रमतः सुधीः | विष्णुं शिवं तथा सुर्यं गणेशं पूजयेत् क्रमात् || महाविद्या विधानेन पञ्चदेवक्रमं विदुः | एवं यः पूजयेद्विद्वान् तस्य सिद्धिरदुरतः || मूलमन्त्रेण सर्वत्र पाद्यमर्घ्यं निवेदयेत् | पूजयेत् परया भक्त्या गुह्याकालीं विधानतः || सदाशिवं वदेत् ङेन्तं महाप्रेतपदं पुनः | गुह्यकाल्यासनं गुह्यकाली तथा तथा ङितः || गृह्न गृह्न पदद्वन्द्वं मम शत्रून् वदेत् ततः | नाशय द्वितयं ब्रूयत् खादय द्वितयं वदेत् || तुरु तुरु पदद्वन्द्वं तत् स्फुरस्फुरेति च | च | छिन्दि छिन्दि पदद्वन्द्वं सिद्धिं देहि पदद्वयम् || कवचद्वितयं ब्रूयात् तदन्ते वह्निसुन्दरी | पञ्चाशद्वितया रूढो वलिधाने निवेदयेत् || गायत्रीं प्रजपेत् काल्या गुह्यशब्दसमन्विताम् | कामराजं समुद्धृत्य मन्त्रराजं तथाङितम् || (प्. ५७) विद्महे तत्रानन्तरे तु उद्धरेद् यत्नपूर्वकम् | विद्ये पुण्ये समाभाष्य धीमहि तदनन्तरम् || ताम्रापदं समाभाष्य तदा देवी प्रचोदयात् | गुह्यकाल्यास्तथा काल्या गायत्री कथिता प्रिये || नात्र सिद्धददापेक्षा च न च मित्रादिदुषणम् | न वित्तव्ययवाहूल्यं कथितं पद्मयोनिना || यथाकाले यथास्थाने यथचारं यजेत् शिवाम् | गुरुं सन्तोष्य यत्नेन जपेद्विद्यामनन्यधीः || गुरुसन्तोषतः सर्वं फलभाग् भववति ध्रुवम् | गुरोराज्ञामनादृत्य विद्यां प्राप्य जपेन्नरः || सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि | शाकैः सूपैश्च पूपैर्वहूलघनघृतैर्मद्यमांसैश्च दुग्धैः चोष्यैश्चर्व्यश्च लेह्यैः सुवहूवहूगलच्छोलितैः शिक्यमांसैः | ग्राहैः कूर्मैश्च गोभिद्दला शिवशरासुकैश्छागमेषैः शल्ल्यैर्गोधाविडालैर्नवपशुपशुभिर्मत्स्यमांसैश्च दग्धैः | मार्ग्यैर्मेधैः परममसृतं पत्रपुष्पैश्च पिष्टैः शाल्यैन्नः पूजयेत् तां सकलसुरवधुपूजितां तां नमामि || गृञ्जैः शक्तिसमाप्ता जननि जनमभुः पूजयित्वा विधानै रात्रौ चाह्रि शुचिरशुचिभिर्वैजयन्त्यं जयन्ताम् | एवं संपूज्य तां देवीं गुह्यकालीं महोदयाम् | स्तवेनानेन संस्तुत्य साधयेत् सिद्धिमुत्तमाम् || अतः काल्यां स्तवं वक्ष्ये शृणुष्व कमलानने | यत् प्रसादान्महात्मानः सर्वसिद्धिमवाप्नुयुः || शिव उवाच | ओंकाल्यानीना महातेजा लोकधात्री महायशा | सरस्वती महालक्ष्मीः प्रजाश्रीबुद्धिवर्द्धिनी || धृतिदा पुष्टिदा स्वाहा कालीं कालीकामरूपिणी | सर्वसत्त्वहिते युक्ता संग्रामे तारिणी जया || इन्द्वती शङ्खिनी पुर्णा विद्या राज्ञी प्रियप्रदा | चन्द्रानना महागौरी कूजिता पितवासवा || महामाया महालोका महावलपराक्रमा | महारौद्री महाचण्डा दुष्टदानवघातिनी || प्रशान्ता शान्तरूपा च विजया च वलप्रदा || विद्युन्माली गदी खड्गी चक्री चापोदातायुधा | जृम्भिनी स्तम्भिनी बाला कालरात्री निऽसाचरी || यक्षिणी मोहिनी कृष्णा प्रशान्ता शान्तरूपिणी | ब्रह्माणी वेदमाता च तुहिनाचलवासिनी || मङ्गला शाङ्करी सौम्या जातवेदा मनोभवा | करालिनी महावेगा साध्या सत्यपराक्रमा || कान्तरी द्रविणी रक्ता नष्टशत्वविनाशिनी | वरदा शशिनी शास्त्रस्वरूपा मिविक्रमा || शवरी योगिनी सिद्धा चाण्डाली चामृता ध्रुवा | पूण्या धन्या महाप्रीतिः प्रीतिदा प्रेमविह्वला || कृतान्तवासिनी भीमा उग्रा उग्रमहातपा | जगदेकहितायुक्ता शरण्या भक्तवत्सला || वागीश्वरी शिवा सूक्ष्मा सर्वा नित्या नगात्मजा | सर्वार्थसाधनी भद्रा गोष्ठी धात्री धनप्रदा || (प्. ५७ब्) अभया गौतमी श्रेष्ठा निशीखे च श्रीः सर्वार्थकामुगा | अभया गौतमी श्रेष्ठा निशीथे च श्रीः सर्वार्थकामुगा || तारानामगुणा सर्वा सर्वाशा परिपूजिता | अष्टोत्तरशतं नाम कीर्तितं हितकाम्यया || रहस्यमद्भुतं गुह्यं देवानामपि दुर्लभम् | प्रातःकाले निशीथे च रात्रौ वा परमेश्वरी || यः पठेत् पाठयेद्वपि षण्मासं प्रत्यहं प्रिये | तस्य सर्वार्हसिद्धिः स्यात् यद्यन्मनसिवर्तते || अष्टोत्तरशतं नाम कीर्तनं हितकाम्यया | सौभग्यकरणं जन्तोः सर्वपापविनाशनम् || सर्वव्याधिप्रशमनं सर्वकाले सुखावहम् | त्रिकालं यः पठेद्धीमान् शुचिर्भूत्वा समाहितः || सोःअचिरेऽनैव कालेन राज्यश्रियमवाप्नुयात् | दुःखितोऽपि सुखी नित्यं दरिद्रो धनवान् भवेत् || यतो भवेत् महाप्राज्ञो मेधावी नात्र संशयः | वन्धनान्मुच्यते वद्धो व्यावहारे जयी भवेत् || स एव दासतां यान्ति शृङ्गिणश्चापि दंस्ट्रीणः | संग्रामे सङ्कटे दुर्गे नाभयं स्यात् समङ्गले || स्मृत्वैतानि च नामानि सर्वपापं व्यपोहति | यस्त्विमां प्रातरुत्थाय मानवः कीर्तियिष्यति || स दीर्घायुरायुष्मान् स श्रिया च न मुच्यते | देवा यक्षास्तथा नागा गन्धर्व्याः कटपूतना || भूतप्रेतपिशाचाश्च मातरो देवमातरः | (अत्र पतितम् |) नितम्बे कालिका पतु कालिका कालनशिनी | क्लीं पातु कण्ठदेशे च पार्श्वे क्ली/ सर्वदावतु || वामपार्श्वे सदा पातु क्ली/कारी सर्व्कामदा | स्तनयुग्मे सदापातु हू/कारी सर्वसिद्धिदा || हुङ्कारी सर्वदा पातु स्कन्ददेशे महेश्वरी | द्रीऊं पातु नाभौ गुह्ये च सर्वशक्तिषु संस्थिता | स्वाहा मां पातु सर्वत्र हस्तयोर्वाहूपादयोः || सर्वाङ्गे पातु मां देवीं गुह्यकाली महोदया | पातु मां सर्वदा काली कपाली सर्वदावतु || राजद्वारे शङ्कटे च श्मशाने सर्वदावतु | सर्वदा पातु मां देवी दुर्गा सर्वसमृद्धिदा || कुरुकुल्ला सदा पातु आसने सर्वकामदा | विप्रचित्ता सदा पातु चिताङ्गसर्वसिद्धये || विरोधिनी सदा पातु मां सर्वसिद्धिदा | पर्वतेमां सदा पातु उग्रा देवी महोदया || नद्यां पातु देवेशी मां माया उग्रप्रभा सदा | राजद्वारे सदा पातु दीप्ता दीप्तस्वरूपिणी || लीला मां सर्वदा पातु श्मशाने सर्वसिद्धये | सुदीप्ता सर्वदा पातु गमने विघ्ननाशिनी || अदीप्ता सर्वदा पातु शयने शत्रुनाशिनी | विदीप्ता सर्वदा पातु भोजने सर्वसिद्धिदा || सदा नीला घना पातु कारागारे शिवप्रिया | लीला मां सर्वदा पातु प्रमत्त्य स्थानयोगतः || मात्रा मां सर्वदा पातु योषितां सङ्गयोगतः | प्रमात्रा सर्वदा पातु देव्याः पार्श्वे समाश्रया || मातरः सर्वदा पान्तु सुभूषण भुषणा | (प्. ५८) महामेघप्रभा पातु उत्तरे सर्वसिद्धिदा || रक्तवर्णा सदा पातु पश्चिमे वरुणालये | हसन्मुखी महामाया वायव्यां परिरक्षतु || नागहारलतापेता ऐशान्यां हरसुन्दरी | चन्द्रार्ध धारिणी पातु * * ऊर्द्धनिवासिनी || सदा एकजटा पातु स्वर्गे मर्त्ये रसातले | लेलिहाना सदा पातु श्मशाने शत्रुनाशिनी || शवकाञ्चीधरा पातु प्रेतस्थाने हरप्रिया | मुण्डमालाधरा पातु पातु सर्वत्र सर्वदा || ततो नागफणा मूर्ध्ना पातु मां शम्भुसुन्दरी | शवपुत्रधरा पातु नागहस्ता सदावतु || शवपृष्टस्थिता पातु देवी गुह्यादिकालिका | ततः शवसुता पातु सर्वत्र सर्वसम्पदा || त्रिनेत्रा सततं पातु कारागारे शिव प्रिया | सृक्कवधः गलद्रक्ता शङ्कटे सर्वदावतु || अट्टहासा महामाया दुर्गे मां सर्वदावतु | महामाया महेशानि श्मशाने सर्वदावतु || श्मशानस्था महामाया संग्रामे सर्वदावतु | श्मशाने प्रान्तरे घोरे दुर्गे निगडवन्धने || सङ्कटे गिरिदुर्गे च नद्यादितीरसंयुते | कारागारे प्रान्तरे च स्वर्गे मर्त्ये रसातले || विवादे शत्रुमध्ये च सभायां वाग्वाये सदा | शत्रुमध्ये तथा नौषु सदा मां कालिकावतु || स्वर्गे मां पातु देवेशि ब्रह्माणी ब्रह्मदायिनी | माहेश्वरी सदा पातु पृथिव्यां पर्वतात्मजा || यौवने सततं पातु कौमारी रूपधारिणी | व्यवहारे सदा पातु वैष्णवी विष्णुवल्लभा || जनमध्ये सदा पातु जयदा जयवर्द्धिनी | संग्रामे पातु देवेशी इन्द्राणी विजयप्रदा || परराष्ट्रे सदा पातु चामुण्डा शत्रुनाशिनी | लक्ष्मीर्मां सर्वदा पातु गुह्ये सर्वसमृद्धिदा || योगिनी चक्रसहिता कोकिला सर्व्दावतु | कवचस्मरणाद्देवि लभेद्वा स्थितमुत्तमम् || अशुचौ वाशुचौ वापि कवचं सर्वकामदम् | हविष्याशी पठेद्धीमान् सदा च दिवसे सुधीः || रात्रौ पठेद्विशेषेण रताशक्तौ महामतिः | पाण्डित्यं सुकवित्वञ्च षण्मासेन लभेन्नरः || रणे द्यूते विवादे च संग्रामे शत्रुमध्यतः | वाग्वाये दुर्गमे धीमान् प्रपठेत् कवचं सदा || नासाध्यं वर्तते तस्य पृथिव्यां पर्वतत्मजे | शत्रवो दासतं यास्ति सर्वेषां वल्लभः सदा || गुरोः प्रसादमासाद्य प्रपठन् कवच सुधीः | नासाध्यं वर्तते तस्य त्रिषु लोकेषु पार्वति || गोरोचनाकुङ्कुमेन लिखेद्विद्यां विशेषतः | मस्तके वा भुजे वापि धृत्वा वशयेत् सकलं जगत् || श्मशाने प्रान्तरे वापि लिखेत् कवचमुत्तमम् | रक्तचन्दनसिन्दुरैर्यवकैश्च विशेषतः || विलिखेद्विधिना रात्रौ कवचं सुरदुर्लभम् | सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे || मीनराशौ गुरुगते लिखेद् यत्नेन देशिकः | श्मशाने विलिखेद्विद्यां शत्रूणां मारणे सदा || (प्. ५८ब्) चिताम्भसि लिखेद् यन्त्रं मारणे शत्रुवश्यके | उच्चाटने लिखेद् यन्त्रं गोमये कवचेलके || ततः स्वर्णशलाकया लिखेद् यन्त्रमनन्यधीः | स्वरम्भुकुसुमैः शुक्रैः विलिखेद्विधिनामुना || मारणे द्वेषणे भुमिपुत्रे राहोर्वारे लिखेद् यतः | तस्य सर्वाणि सिद्धानि कवचस्था चरन्ति ते || गुरुणा वैष्णवैर्वापि ध्रियते यन्त्रमुत्तमम् | अणिमादिमहासिद्धिस्तस्य सेव्य विधीयते || ततः सौरे जपेन्मन्त्रं तथा मङ्गलवासरे | चितायां वारुणमुखे सर्वसिद्धिं लभेन्नरः || अशुचौ वा शुचौ वापि पठेत् कवचमुत्तमम् | तस्य सर्वार्थसिद्धिः स्यात् यद् यन् मनसि वर्तते || धनं धान्यं सुतं जायां हरं हस्तिनमेव च | कवचस्य तु पाठाद्वै जायते वत्सरात् प्रिये || कवचस्य तु माहात्मां नाहं शक्नोमि वेदितुम् | वहूना किं महेशानि सर्वसिद्धिं लभेन्नरः || इति विश्वसारतन्त्रे गुह्यकाली कवचं समाप्तम् || क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने | ब्राह्म्ये मुहुर्ते उत्थाय गुरुदेवान् नमस्करेत् || वारुणीमथमाश्रित्य नमस्कुर्यादुपर्याधः | गुरुभ्योऽपि नमो नित्यं नमस्तत्पादुकाय च || परं परेभ्यः परात्परेभ्योऽपि नमोनमः | आधारशक्तिं नमस्कृत्य कुलाचारं नमस्करेत् || धर्मकर्म नमस्कृत्य कूर्मराजाय वै नमः | अनस्ताय नमो नित्यं वराहाय नमो नमः || पृथिव्यै च नमो नित्यं कुलाचारेभ्यो नमो नमः | नमो नमः समुद्रेभ्यो नमो नित्यं रत्नैरमृतैर्जलैः || कुलवृक्षेभ्यो नमो नित्यं कल्पवृक्षाय वै नमः | स्वर्णसिंहासनेभ्यश्च मानवेभ्यो नमो नमः || चतुर्दिक्षु नमस्याथ सर्वदेवान् नमस्करेत् | वेदभ्योऽपि नमो नित्यं वेदार्थेभ्यो नमो नमः || * * * * * * * * जीवेभ्योऽपि नमे नमः | भुचरेभ्यो नमो नित्यं खेचरेभ्यो नमो नमः | योगेभ्योऽपि नमो नित्यं योनिभ्योऽपि नमो नमः || डाकिनीभ्यो नमो नित्यं रुद्रेभ्योऽपि नमो नमः | भुतेभ्योऽपि नमो नित्यं प्रेतेभ्योपि नमो नमः || भुचरेभ्यो नमो नित्यं * * * * * * * * यक्षेभ्योऽपि नमो नित्यं विघ्नेभ्योऽपि नमो नमः | मुनिभ्योऽपि नमो नित्यं मुनीन्द्रेभ्यो नमो नमः | राजर्षिभ्यो नमो नित्यं देवर्षिभ्यो नमो नमः || हंसेभ्योऽपि नमो नित्यं मूर्तिभ्योऽपि नमो नमः | भुतेभ्योऽपि नमो नित्यं महाभुतेभ्यो वै नमः || आचार्योभ्यो नमो नित्यं शङ्करेभ्यो नमो नमः | वैष्णवाय नमो नित्यं ये च मायाविनो न हि || (प्. ५९) मायायै प्रणमेन्नित्यं तत्त्वेभ्योऽपि नमो नमः | भावनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च || शरीरेभ्यो नमो नित्यं व्यापकेभ्यो नमो नमः | मन्त्रेभ्योऽपि नमो नित्यं मन्त्रार्थेभयो नमो नमः || वर्णात्मिकाभ्यश्च नमस्तदधिष्ठातृदेवते | तत्पादेभ्यो नमो नित्यं तत्पादेभ्यो नमो नमः || भवनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च | स्तवेभ्यश्च कवचेभ्यश्च नामभ्योऽपि नमो नमः || आगमेभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः | तत् क्रियाभ्यो नमो नित्यं श्रेष्ठशास्तेति कीर्त्यते || रसेभ्योऽपि नमो नित्यं गन्धेभ्योऽपि नमो नमः | पीठ्भ्योऽपि नमो नित्यं तत्स्थेभ्योऽपि नमो नमः || सत्त्वेभ्योऽपि नमो नित्यं राजसेभ्यो नमो नमः | तामसेभ्यो नमो नित्यं गुणेभ्योऽपि नमो नमः || सर्वविद्यावतरेभ्यो सिद्धेभ्योऽपि नमो नमः | आनन्दकन्दाय नमस्कृत्य सम्बिन्नालाय वै नमः || सर्वतत्त्वाय कमलाय प्रकृति पत्रेभ्य एव च | सिद्धिपीठाय संन्यस्य शवरूपशिवाय च || त्रिपञ्चाराय चक्राय नमो नित्यं नमो नमः | तत्रस्थायै कालिकायै गुह्यायै कामरूपिण्यै || कुरुकून्दादिशक्तिभ्यः कालिकायै नमो नमः | नमो नमस्तेऽस्तु परापरख्ये नमो नमः शम्भुपराक्र्मायै | विशालनेत्रां सुरसङ्घ्यवन्दितां सुरासुराभ्यर्चितपादपद्माम् || नृमुण्डमालां कलितांश अर्द्धैः परात्परे ते प्रभवन्ति सिद्धाः | स्थुलेति केचित् प्रवदन्ति सूक्ष्मा सूक्ष्मेति सर्वे मुनयो वदन्ति || त्वामम्बिकां नौमि विशालनेत्रे सुमङ्गलं देहि मदीयगेहे | त्वदीयपादाम्बुजमेवमेतत् निष्यव्य सिद्धाः प्रभवं प्रयान्ति || मातस्तरय पापात् सर्वान् शोकान् दुःखजगज्जनवश्यान् | त्वन्नाम्ना वि मनसि विधिना सर्वैः सकलफलाप्तविधिना || इति विश्वसारतन्त्रे गुह्यकालिकायः क्रमस्तवः समाप्तः || इति विश्वसारतन्त्रे षष्ठः पटलः || श्रीपार्वत्युवाच | देवदेव महादेव सर्वशास्त्रविशारदः | पञ्चमीया पुरा प्रोक्ता विद्यात्रिपुरपूर्विका || सुन्दरी सर्वसिद्धानां चुडामणिरिति स्मृता | तस्याः प्रभावसकलं कथयामास तत्वतः || तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीऽस्वरः | कथयामास तत् सर्वं पार्वत्युक्तं विधानतः || श्री ईश्वर उवाच | न देयं प्राकृतेलोके नाशिष्याय कथञ्चन | नाभक्ताय शठायैनां क्रूराय हठवादिने || निन्दकार सुचकाय देवलाय विशेषतः | पट्टिकाख्यायनायैनां ग्रामयाजानिके तथा || दारिद्रार लोलुपाय औदराय विशेषतः | शङ्कराय न शूद्राय दद्याद्विद्यां विशेषतः || राज वा राजपुत्रो वा साधकः परिकीर्तितः | अभावन्न्यासिनः केचित् ये ते योगपरायणाः || नमामि मद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् | शिरसा योगपीठस्थं मुक्तिकामार्थ्सिद्धये || ब्रह्मा चाधारशक्तिश्च कालासुरपुरन्दरः | एतान् संयोज्य पुरतः ईश्वरी योजयेत् शिवाम् || चन्द्रबीजं शिवादिस्थं शिवबीजं तदन्तिके | मादनंशत्रुबीजञ्च तदन्ते भुवनेश्वरी || शिवबीजं मादनस्थं शिवबीजं ततः परम् | चन्द्रबीजं शत्रुबीजं तदन्ते भुवनेश्वरी || तुण्डाक्षरं शिवादिस्थं चन्द्रबिन्दुसमन्वितम् | धराचलशुभाबीजं एकत्रापि नियोजयेत् || शिवबीजं चन्द्रसंस्थं कामबीजं ततः परम् | शिवचन्द्रं समुद्धृत्य योजयेद्भुवनेश्वरी || सर्वमेकत्र संयोज्य पञ्चपञ्चाक्षरी भवेत् | पञ्चकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता || विद्याचूडामणिर्देवि प्रोक्ता सर्वोत्तमा प्रिये | तव स्नेहान्मयाख्यातं नाख्येयं यस्य कस्य ते || या नित्या परमा शकिर्त्यस्यात् चैतन्यरूपिणी | तां नमामि महादेवीं पञ्चमीमात्मरूपिणीम् || यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति | जयमेष्यति तामेव पञ्चमीं प्रणमाम्यहम् || भूगृहं गुणरेखा च वेदद्वारोऽपि शोभितम् | त्रिवित्तं षोडशदलं तथाष्टकलकर्णिकम् || शत्रुकोणं दिक्युगञ्च वसुत्रिकोण वैन्दवम् | एवमेतन्महाचक्रं महाश्रीत्रिपुरालयम् || अधः कल्पितरोर्नित्यं भवान्या वर्त्ममन्दिरे | रत्नसिंहासने देव्याः त्रिचक्र प्रणमाम्यहम् || इन्द्रो मां रक्षयेत् पूर्वे आग्नेययामग्निदेवता | याम्ये यमः सदा पातु नैर्-ऋत्यां निर्-ऋतिश्च माम् || पश्चिमे वरुणः पातु वायव्यां वायुदेवता | धनदश्चोत्तरे पातु ऐशान्यामीश्वरोऽवतु || ऊर्द्धं प्रजापतिः पातु अधश्चानन्तदेवता | एवं दशदिशो रक्षां कुर्वन्तु देवतागणाः || गणेशः सर्वदा पातु क्षेत्रेशः पातु सर्वदा | गणनाथः सदा पातु दुर्गा मां परिरक्षतु || वटुको भैरवश्चान्ते क्षेत्रपालोऽपि रक्षतु | सह रत्या सपत्या च कामदेवेश सर्वदा || पत्या सहवसन्तोऽपि पातु मां नन्दने वने | चक्रस्य पश्च्मिमे द्वारे भवन्या रत्नमन्दिरे || शङ्खपद्मिनिधी रक्षां करोतु मम सर्वदा | पातु मां रत्नसोपानं परमैश्वर्यशोभितम् || रक्षयेत् पश्च्मिमं द्वारं भवान्या रत्नमन्दिरे | सरस्वती महालक्ष्मीर्महामाया दुर्गा विभुतये || भद्रकाली च चामुण्डा स्वाहा चैव शुभङ्करी | गौरी च लोकधात्री च वागीश्वर्यादयो मम || एताः पञ्चस्थिताः सर्वा रक्षां कुर्वन्तु सर्वदा | चक्रस्य दक्षिणे भागे श्रीमत्पात्रस्य मण्डले || (प्. ६०) वह्नेश्च मण्डलं पातु कुलदेव्याश्च पूजने | पाषण्डकारिणो भूता भूमौ ये चान्तरीक्षगाः || दिव्यलोक स्थिता ये च ते नश्यन्तु शिवाज्ञया | शिवं कुर्वन्त ताः सर्वा आसने पञ्चदेवताः || वास्तूनामधिपो ब्रह्मा स्रष्टा रक्षतु सर्वदा | सूर्याग्निमण्डले पूर्णे दुम्रार्चिरुष्मज्वलिनि ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा मां पातु मम कामार्थसिद्धये || तपनी तापिनी धूम्रा मरीचि ज्वलिनी रुचिः | सुनन्दा भोगदा विश्वा वारिणी धारिणी क्षमा || एताः कलास्तु सूर्यास्य सूर्यमण्डलसंस्थिताः | एताभिः सहितो नित्यं आदित्यः कुरुतां मम || सवितुर्मण्डले तत्र सोमस्यामृतमण्डलम् | प्रथमं सर्वदा पातु भैरवानन्दहेतुकम् || अमृता मादना पूषा तुष्टिः पुष्टी रतिर्धृतिः | शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || पूर्णा पूर्णामृता कामदायिन्यः सुरसंभवा | सोममण्डलमध्यस्था रक्षां कुर्वन्तु सर्वदा || रचिवेदकमापूर्णे सुधांशुः पूर्णमण्डले | नक्षत्राधिपति रक्षां करोतु मम सर्वदा || सूर्याग्निमण्डले देवि संपूर्णे शशिमण्डले | आनन्दभैरवो रक्षां करोतु मम सर्वदा || तत्र पूर्णामृते पूर्णे शक्तिर्य वारुणी कला | आनन्दरूपिणी रक्षां करोतु मम सर्वदा || सर्वाधोमण्डुकाधारे रुद्रः कालानलो विभुः | रक्षां करोतु मे नित्यं यामुनः प्रकृतिः सदा || ततश्चाधारशक्रित्या मम रक्षां करोतु सा | कूर्मस्तु सततं पातु अनन्तो रक्षयेत् सदा || तस्य मूर्द्ध्नि स्थिते चक्रे वराहः परिरक्षतु | दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा || सदुद्रः सर्वदा पातु सुरत्नैरमृतैर्ज्जलैः | रत्नद्वीपस्तु मे रक्षां करोतु स्वर्णपर्वतः || पातु मां नन्दनोद्यानं रक्षन्तु कल्पपादपाः | अधस्तेयां सदा पातु विचित्रा रत्नभूमिका || श्रीरत्नमन्दिरं पातु सततं पतु वेदिका | श्वेतपुत्रं सदा पातु रत्नसिंहासनं सदा || सिंहासनस्य पर्श्वस्थौ धर्मो ज्ञानञ्च रक्षतु | वैराग्यं रक्षयेन्नित्यमैश्वर्यं रक्षयेत् सदा || अधर्मो रक्षयेन्नित्यमज्ञानं परिरक्षतु | अवैराग्यञ्च मां पातु अनैश्वर्यञ्च सर्वदा || सिंहासनस्य मध्यस्था माया मां परिरक्षतु | विद्या मां पातु तत्रैव पञ्चनालञ्च सर्वदा || अधश्चोर्द्धे सदा पातु तत्त्वरूपा च कालिका | सूर्यस्य मण्डलं पातु पातु सोमस्य मण्डलम् || वह्नेश्च मण्डलं पातु सत्त्वञ्च पातु सर्वदा | रजस्तु पातु मां नित्यं पातु नित्यं तमोगुणः || ज्ञानमाया कलाविद्या तत्त्वात्मने विभूतये | रत्नसिंहासने देव्या रक्षां कुर्वन्तु सर्वदा || ब्रह्मा विष्णुञ्च रुद्रश्च ईश्वरश्च सदाशिवः | एते पञ्च महाप्रेता रक्षां कुर्वन्तु सर्वदा || स्वधास्तु वासनं पातु पातु प्रेताम्बुजासनम् | देव्यासनं सदा पातु पातु चक्रासनं सदा || सर्वमन्त्रासनं पातु साध्यासिद्ध समं सदा | ईश्वरी सुन्दरी चैव वासिनी श्रीश्च मालिनी || सिद्धैश्वर्यादयः सर्वास्त्रिराद्याश्च पान्तु माम् | समस्त प्रकटा गुप्ता तथा गुप्ततराश्च या || सम्प्रदायकुलं कौलनिर्गतातिरहस्यगान् | परापररहस्याख्या अति पूर्वरहस्यगा || एतास्तु सततं रक्षां कुर्वन्तु योग्नीगणाः | अणिमा पश्चिमे पातु लघिमा चोत्तरे सदा || वसित्वा मरुते पातु प्राकाम्या पातु ईशके | भक्तिसिद्धिस्तथा रक्षामिच्छा रक्षतु नैर्-ऋते || अधः पातु सदा प्राप्तिः सर्वकामप्रदायिनी | सर्वकामा सदा पातु ऊर्द्धे चोर्द्धनिवासिनी || भैरवश्चासिताङ्गेयः कामरूपः पीठके | ब्रह्माणी सहितः पूर्वे द्वारे मां परिरक्षतु || मलयेचाग्निदिग्भागे संस्थितो रुरुभैरवः | माहेशी सहितः पातु कुलाचरस्य सिद्धये || चण्डकोऽनुगिरौ रक्षां कौमारी सहितो यमे | करोतु भैरवो नित्यं पूजकानाञ्च सिद्धये || भैरवी सहितः क्रोधः कुलान्ते पीठराजके | नैर्-ऋत्यां सर्वदा पातु भोगकामार्थसिद्धये || चौद्वारे पश्चिमे पातु वाराहीसहितः सदा | उन्मत्तो भैरवो रक्षां करोतु सर्वदा मम || जालान्दरे महापीठे कपाली भैरवः सदा | इन्द्राणी भैरवी रक्षां वायव्यां प्रकरोतु मे || उड्डीयानोत्तरे पीठे चामुण्डा सहिता सदा | भीषणो भैरवः पातु साधकानाञ्च सिद्धये || संहारचण्डिकासिद्धिं देवीकोटस्य पीठके | ऐशान्यां सर्वदा पातु कुलाम्नायस्य सिद्धये || सर्वसंभोभेनी मुद्रा पश्चिमे पातु सर्वदा | द्राविणी चोत्तरे पातु पूर्वै चाकर्षिणी सदा || याम्ये रम्ये सदा पातु उन्मादो मरुते सदा | ईशे महाङ्कुशा पातु त्रिखाण्डा पातु चालने || नै-ऋत्यां बीजरूपा तु ऊर्द्धं रक्षतु खेचरी | महमुद्रा अधः पातु योगिनी योनिरूपिणी || एताश्चक्रस्थिता नित्यं देवताः सर्वकामदाः | चतुरस्रत्रिरेखायां रक्षां कुर्वन्तु सर्वदा || कामकर्षणरूपा च बुद्ध्याकर्षणरूपिणी | स्मृत्याकर्षणरूपा च नामाकर्षणरूपिणी || अमृताकर्षिणी देवी शरीराकर्षरूपिणी | एताश्चक्रस्थिता नित्या सुरगाः षोडशे दले || सर्वाभीष्टप्रदा देव्यो रक्षां कुर्वन्तु सर्वदा | अनङ्गकुसुमा पूर्वे दक्षिणेऽनङ्गमेखला || पश्चिमेऽनङ्गमदना चोत्तरे मदनातुरा | अनङ्गरेखा चाग्नेययां नैर्-ऋतेऽनङ्गवेगिनी || अनङ्गादशा तु वायव्ये ईशे चानङ्गमलिनी | कवर्गाद्यष्टवर्गस्था अष्टौ चानङ्गशक्तयः || रक्षां कुर्वन्तु ताः सर्वदा देव्यश्चाष्टदले स्थिताः | सर्वसंक्षोभिनी शक्तिः सर्वविद्राविणी तथा || सर्वाकर्षणशक्तिश्च सर्वाह्लादनकारिणी | (प्. ६१) सर्वकामप्रदा देवी सर्वदुःखविमोचनी || सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी | सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी || वहिर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा | सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्याफलप्रदा || सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी | सर्वाधारस्वरूपा च सर्वपापहरा तथा || सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी | तथैव हि महादेवी सर्वेप्सितफलप्रदा || अन्तर्द्धव * चक्रस्था रक्षां कुर्वन्तु सर्वदा | वाग्देवी वासिनी पातु पातु कामेश्वरी च माम् || मेदिनी विमला पतु अरुणाजयिनी च माम् | सर्वेश्वरी च मे रक्षां करोतु कौलिकी सदा || अष्टकोणान्तरे देव्या रक्षां कुर्वन्तु सर्वदा | पाशाङ्कुशशवांशश्च नित्यं चायुधदेवता || देव्याः श्रीचक्रन्त्रध्यस्था रक्षां कुर्वन्तु सर्वदा | षडङ्गं युवती पातु अङ्गस्थानाङ्गरूपिणी || महादेव्याश्च चक्रस्था रक्षां कुर्वन्तु र्वदा | श्रीमत्रिकोणमध्ये तु तत्र कोणत्रयेषु च || मध्ये तु सर्वदा पतु चतस्रः पीठवताः | वामे कामेश्वरी पातु पूर्णेवज्रेश्वरी सदा || जालन्धरे नहापीठे पातु मां भगमालिनी | सूर्येन्दुवह्निपीठे तु बिन्दुचक्रनिवासिनी || ब्रह्मस्वरूपिणी पातु श्रीमत्रिपुरसुन्दरी | त्रैलोक्यमोहनचक्रे तु सर्वसंक्षोभकारके || तत्र चक्रेश्वरी नित्या पायात्रिपुरसुन्दरी | चतुर्द्धशारचक्रे तु सरसौभाग्यदायके || तत्र चक्रेश्वरी नित्या पायात् त्रिपुरवासिनी | वहिर्द्वारे * चक्रे तु सर्वार्थसाधके चरे || त्रिपुराश्रीः सदा पातु मम कल्याणहेतवे | अस्तर्दशारचक्रे तु सर्वरक्षाकरे वरे || नित्यञ्चक्रेश्वरी देवी पायात् त्रिपुरमालिनी | अथाष्टदशारचक्रे तु सर्वरोगहरे वरे || पातु मां त्रिपुरा सिद्धा देवी चक्रेश्वरी सदा | चक्रेश्वरी * मे रक्षां करो तु त्रिपुराम्बिका || सर्वानन्दमये चक्रे श्रीमत्रिपुरमध्यगे | महाचक्रेश्वरी पातु श्रीमत्रिपुरसुन्दरी || नित्या कामेश्वरी पातु पातु मां भगमालिनी | च्छिन्ना मां सर्वदा पातु भेरुण्डा पातु सर्वदा || मां वह्निवासिनी पातु महाविद्येश्वरी तथा | पातु मां शिवदुती च त्वरिता रक्षयेत् सदा || कुलसुन्दरी च त्वां पातु नित्यानित्या च पातु माम् | नित्या नीला पताका च विजया पातु सर्वदा || श्रीसर्वमङ्गला पातु नित्यं ज्वालांशुमालिनी | विचित्रा सर्वदा पातु षोडशी पातु सुन्दरी || महाविद्या तु वीर या पातु मां रसरूपिणी | महासप्तमी नित्या नित्या चानन्दकारिणी || चतस्रः समया देव्या योगिन्यः पान्तु सर्वदा | डाकिनी राकिनी पातु राकिनी राकिणी तथा || शाकिनी हाकिनी पातु चक्रस्था योगिनी गणा | रणस्था मातृकां सर्वा रक्षां कुर्वन्तु सर्वदा || (प्. ६१ब्) चतुरस्रे महाचक्रे बुद्धो मां परिरक्षतु | पातु मामनिशं देवः षोडशारे प्रजापतिः || तथाष्टदलचक्रे तु शिरो मां परिरक्षतु | चतुर्दशारचक्रे तु भास्करो रक्षयेत् सदा || द्विदशारे सदा पातु प्रभुर्नारायणो विभुः | अष्टारचक्रमध्ये तु पातु मां परमेश्वरी || नवचक्रेश्वरी नित्या या नित्या परमा परा | पातु मामनिशं देवी श्रीमत्रिपुरसुन्दरी || महात्रिपुरसुन्दर्याश्चिन्तनीया च या परा | ब्रह्मस्वरूपिणी पातु पञ्चमी परदेवता || ऐशान्यां सर्वदा पातु नित्यं निर्माल्यवासिनी | शेषिका सुन्दरी पातु विन्धचक्रनिवासिन || नित्यं कामकला पातु मुद्रा मं पातु खेचरी | शक्तिर्मां सर्वदा पातु मुलाधारनिवासिनी || इदं त्रिपुरसुन्दर्या रक्षामन्त्रन्तु पुण्यदम् | पूजाक्रमेण कथितं साधकानां सुखावहम् || क्रमेणानेन विधिना श्रीमत्रिपुरसुन्दरी | सम्पुज्य साधकश्रेष्ठो रक्षामन्त्रं सदा पठेत् || प्रातःकाले शुचिर्भूत्वा निशायामर्द्धरात्रके | अथवा शङ्कटे प्राप्ते राजस्थनेषु दुर्गमे || जले वा चालने वापि श्मशाने दुर्गमे गिरौ | यत्र तत्रितये प्राप्ते सर्वत्रैव पठेन्नरः || सर्वावयव भावेन देवीं सञ्चिन्त्य साधकः | रक्षां कुर्वीत यत्नेन सर्वोपद्रवनाशिनी || स्तोत्रञ्चाद्भुतमेतत्रिलोक्ये चापि दुर्लभम् | गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् || यस्मै कस्मै न दातव्यं न दातव्यं कदाचना | शिययाय भक्तियुक्ताय साधकाय प्रकाशयेत् || भ्रष्टेभ्यः साधकेभ्योऽपि वान्धवेभ्यो न दापयेत् | दत्ते च सिद्धिहानिः स्यादित्यज्ञा शङ्करे कृता || मन्त्राः पराङ्मुखा यान्ति क्रूद्धा भवति सुन्दरी | अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् || यद्गेहे विद्यते ग्रन्थं लिखितं स्तोत्रमुत्तमम् | चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति || तस्माद् यत्नादिदं ग्रन्थं पूजयेद्गन्धपुष्पकैः | पूजाफलं भवेन्नित्यं सान्निध्या सुन्दरी भवेत् || स्तवराजमिदं पुण्यं यः पठेत् सुसमाहितः | यत् फलं लभते यस्मात् शृणु तत् साधकस्य च || वारमेकन्तु योऽधीते प्राप्नोति पूजनं फलम् | विदितो मातृचक्रस्य साधको भुवि जायते || मासमेकं क्रमेणैव पठेद्भक्तिपरायणः | स्वर्गेऽपि विदितो भुत्वा देवी पुत्रस्तु भुतले || भक्ता वा धारयेद् यस्तु लिखित्वा स्तोत्रमुत्तमम् | शिखायामथवा कण्ठे करे वा वामदक्षिणे || स भवेत् साधकश्रेष्ठो मातृकाणाञ्च भवेत् प्रियः | लभते सर्वकामांश्च परं स्वस्त्ययनऽ भवेत् || तस्मादिदं प्रयत्नेन धारयेद्विधिनामुना | पठित्वा पाठयित्वा च त्रैलोक्यं वशमानयेत् || भक्ताय दीयते यस्मै मन्त्रं रक्षाकरं परम् | धृत्वा सुवर्णमध्यस्थं सर्वकामं ततो लभेत् || (प्. ६२) यद् यद्वाञ्छन्ति कामानि भक्तिमुक्ति कराणि च | लभते नात्र सन्देहो भुवि सर्गे रसातले || दृष्ट्वा तं साधकश्रेष्ठं ग्रहराक्षसहिंस्रकः | दुरादेव पलायन्ते न समर्थश्च हिंसितुम् || विषं निर्विषतां याति पापानि यान्ति संक्षयम् | देववन्मनोवा भुत्वा भुनक्ति वहूलं सुखम् || तस्माग्न्नित्यं पठेद्धीमान् मुक्तिकामार्थसिद्धये | भक्त्या च पूजयेद्देवीं सुरक्षां सर्वदाचरेत् || पूर्वं याति परिज्ञानं वेत्ति जन्मसहस्रकम् | पुनर्न जायते योनौ मरणं नास्ति चापरम् || गन्धर्वरूपवान् भूत्वा संपूज्य परमेश्वरीम् | रक्षामन्त्रं पठित्वा तु देवत्वं लभते ध्रुव्म् || अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् | असाध्यं साधयेत् सर्वं दुर्लभं लभते ध्रुवम् || अतिदुःखालये घोरै भीते निगडवन्धने | तत्रा अस्त्वं पठेन्भक्त्य ध्रुवं मुच्येत् वन्धनात् || अतान्त रोगयुक्तो वा यदि देवीं प्रपूजयेत् | सम्यग् वा श्लोकयेकं वा सद्योरोगात् प्रमुच्यते || मोहनस्तम्भनाकर्णणमरणोच्चाटनन्तथा | कल्पनादेव जायन्ते सर्वसिद्धिमुपालभेत् || इदं त्रिपुरसुर्यास्तवराजं मनोहरम् | रक्षामन्त्रस्तु शुभदं शिवेन परिकीर्तितम् || छत्रं मूर्द्ध्नि सहस्रपत्रकमलंअ रक्तं सुधावर्षणं दिव्यस्त्रीपरिचार्यमाणमनिशंचात्मानमेवं सदा | ध्यायेन्मानसपङ्कजे भगवतीं रक्ताम्बुजापूर्णानमे सोऽहं यस्तु समस्तमांशु लभते रक्षास्पदं भुतले | आकाशे सुप्रकशे सकलगुणमयीं सुन्दरीं रक्त नेत्रां रक्तापद्मसनस्थां तरुणरविनिभां रक्तचन्दनप्रभावाम् | आत्मानं सर्वभावैः सकलगुणयुतां सर्वदा यो हि पश्येत् | साक्षाद् देवः शिवो वा मदनदहनकृत् खेचरो जायते सः || इति श्रीविश्वसारतन्त्रे पञ्चमीस्तवराजः समाप्तः || अथा ध्यानं प्रवक्ष्यामि शृणुष्व कमलानने | यस्याः प्रभावमात्रेण साक्षाद् देवो भवेत् सदा || हृत्पद्ममध्ये देवेशीं सुन्दरीं चिन्तयेत् सदा | आनन्दकन्दसंभुतं सम्बिन्नालात्मकं तथा || रजःसत्त्वतमो रेखसंयुतं योनिमण्डलम् | षोडशारमहापद्मं सर्वतत्त्वगुणान्वितम् || तन्मध्येऽष्टदलं पद्मं सर्वतत्त्वगुणान्वितम् | त्रिपञ्चारञ्च तन्मध्ये नवकोणं ततःअ प्रम् || षट्कोणं तत्रिकोणास्थं बिन्दुनादसमन्वितम् | नारायह्यात्मके यन्त्रे सुन्दरीं चिन्तयेत् सदा || देवीं दानवकोटिघ्नीं सुर्यकोटिसमप्रभम् | रक्तवस्त्रपरीधानां नानालङ्कारभूषिताम् || अनर्घरत्नघटितं मुकुटं मूर्द्ध्निविर्भ्रतीम् | सुर्यकोटिसमं तेजे विभतीं नयनत्रयम् || शवरूपमहादेवहृदयोपरिसंस्थिताम् | प्रत्यालीढपदां घोरा मुक्तकेशीं दिगम्बराम् || शृङ्गाररससंयुक्ताम् हावभावसमन्विताम् | पाशाङ्कुशवराभीतं विभ्रतीं सुमनोहराम् || अनङ्गाद्या महाशक्तिं सेवितां भवसुन्दरीम् | एवं ध्यात्वा यजेद् देवीं सुन्दरीं सुमनोहराम् || मद्यैर्मांसैश्च शुक्रैश्च त्रिमधुत्रयसंयुतैः | दग्धभ्रष्टादिद्रव्यैर्मधुमद * विशेत् कामिनीभिश्च नित्यम् || शोण्डैर्गोभिर्नकुलगवयैः शूकवैर्मुयिकाद्यैः | मार्जरैशिक्यद्रवैर्नवपशुपशुभिराद्रकैर्वाशुगत्यैः || यद दत्स्थाने विहितमनुना मद्यमांसादिशिक्यै रात्रौ पूजा | नियतभवने कीर्तिता कीर्तिमद्भिः || नानायोगैर्युवतीभिः सदाभुतिर्यागैर्विशेषैः | रात्रावह्निर्प्रजपति सदा तत्र योनौ समाधौ || एवं यः पुजयेद् देवीं सुन्दरीं भवसुन्दरीम् | तस्य हस्ते भवेद् देवीं अणिमाद्या गुणाकरा || विना मद्यैर्विना मांसैर्विना योनौ यजेत् शिवाम् | सिद्धिर्न जायते तत्र कल्पकोटिशतैरपि || मांसास्थिमज्जाचर्वण्यो योगिन्यः सर्वकालतः | तस्य हानिर्भवेद् देवि प्रत्यहं चापरेण किम् || अथवा तत्क्षणात् तस्य भवेन्मृत्युर्न संशयः | यतिर्वा भुपतिर्वा सोऽधिकारी प्रकीर्तितः || विनामरैर्यजेद् देवीं सुन्दरीं यदि साधकः | भ्रातरं वा तथा पुत्रं खादयेद् तवसुन्दरीम् || क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने | ओं गुरुभ्योऽपि नमो नित्यमिद्यादि || श्रीपार्वत्युवाच | देवदेव महादेव सर्वशास्त्रविशारद | कृपां कुरु जगन्नाथ सर्वज्ञोऽसि महामते || * * सुया प्रोक्ता विद्या त्रिपुरपूर्विका | तस्याश्च कवचं द्रव्यं कथयामास तत्त्वतः | तस्याश्च वचनं श्रुत्वा विहस्य जगदीश्वरः | कथयामास तत्सर्वं कवचं दिव्यरूपिणम् || श्री ईश्वर उवाच | कथयिष्ये महाविद्यां कवचं सुरदुर्लभम् | तत्शृणुष्वात्र विधिना सुगोप्यं भुवनत्रये || तस्याः प्रभावात् सकलं विभाति भुवनत्रयम् | यस्याः सर्वं समुद्भूतं यस्यामद्यापि तिष्ठति || माता पिता जगन्माता जगद्रक्षास्वरूपिणी | सिद्धिदा सिद्धिजन्तूनामसिद्धा दुष्टजन्तवः || सर्वभुतकरी देवि सर्वभुतस्वरूपिणी | ककारे पातुमां देवी कामिनी कामदायिनी || एकारे पातु मां देवी मुलाधारस्वरूपिणी | ईकारे पातु मां देवी रतिः सर्वसुखप्रदा || नकारे मातु मां * * इन्द्राणी हरवल्लभा | ह्रीङ्कारे पातु मां देवी सर्वत्र शम्भुसुदरी || एतैर्वर्णैर्महामाया वाग्भवं पातु मस्तके | हकारे पातु मां देवी शिवानी हरगेहिनी || सकारे पातु मां देवी सर्वपापप्रणाशिनी | (प्. ६३) ककारे पातु मां देवी कामरूपकला सदा || लकारे पातु मां देवी धराधरणिरूपधृक् | ह्रीङ्कारे पातु मां देवी शङ्करार्धशरीरिणी || एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी | * * * * * * कामराजपियावतु || सकारे पातु मां देवी सावित्री शर्मदायिनी | ककारे पातु सर्वत्र कलाः स्वरस्वरूपिणी || ककारे पातु मां देवी लक्ष्मीः सर्वलक्षणा | ह्रीङ्कारे पातु सर्वत्र देवी त्रिभुवनेश्वरी || एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी | वाग्भवं मस्तके पातु वदने कामराजिका || शक्तिस्वरूपिणी पातु हृदये मन्त्रसिद्धये | सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु || रक्तवर्णा सदा पातु सुन्दरी सर्वदा शर्मदायिनी | सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदा शिवा || नानालङ्कारसंयुक्ता सुन्दरी पातु सर्वदा | जगदाह्लदजननी सर्वत्र पातु मां सदा || सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी | सर्वलक्ष्मीमयी पातु परमानन्दरूपिणी || पातु मां सर्वदा देवी नाम्ना शङ्खनिधिप्रिया | ततः पद्मनिधी देवी शिवानी शर्मदायिनी || दक्षिणामूर्तिर्मां पातु ऋषिः सर्वत्र मस्तके | पंक्तिछन्दः स्वरूपा मां मुखे पातु सुरेश्वरी || गाद्धारस्वरात्मिका पातु हृदये शङ्करी सदा | सर्वसम्मोहिनी पातु संक्षोभिनी सदावतु || सर्व * द्राविणी पातु सर्वाकर्षणरूपिणी | पातु सर्वाह्लादकरी सर्वसंक्षोभिनी सदा || सर्वसिद्धिप्रदा पातु सर्वाकर्षणरूपिणी | क्षोभिनी सर्वदा पातु वसिनी मां सदावतु || आकर्तिणी सदा पातु सम्मोहिनी सदावतु | रती देवी सदा पातु भगा मां सर्वदावतु || भगायै सर्वदा पातु भगमाला सदावतु | भगसर्पिणी सदा पातु त्रिपुरा सर्वदावतु || त्रिपुरामालिनी पातु वाला मां सर्वदावतु | माहेश्वरी सदा पातु कौमारी सर्वदावतु || वासिनी सर्वदा पातु महासिद्धिर्मदा सदा | सर्वविद्राविणी पातु गणनाथः सदावतु || दुर्गा देवी सदा पातु वटुकं सर्वदावतु | क्षेत्रपालं सदा पातु पातु आधारशक्तिका || अनन्तः सर्वदा पातु वराहः सर्वदावतु | पृथिवी सर्वदा पातु स्वर्णसिंहासनं तथा || रक्तामृताम्बुधिसततं पातु मां सर्वकालतः | सुधाशुवाहनं पातु कल्पवृक्ष सदावतु || श्वेतच्छत्रं सदा पातु रत्नद्वीपः सदावतु | नन्दनोद्यानसहितं पातु मां सर्वसिद्धये || दिक्पालाः सर्वदा पान्तु इन्द्राद्याः कमलानने | वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा || अस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा | सिद्धः पान्तु सदा देवी सर्वसिद्धिप्रदावतु || सर्वाङ्गसुन्दरी देवी सर्वत्र सर्वदावतु | आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका || सर्वत्र च सदा पातु सुन्दरी भवसुन्दरी | पथिदेवालये घोरे शङ्कटे दुर्गमे गिरौ || अरण्ये प्रान्तरे चैव सर्वत्र सुन्दरी शिवा | इदं कवचमित्युक्तं मन्त्रोद्धारञ्च पार्वति || यः पठेत् प्रातरुत्थाय त्रिसन्ध्ये नियतः शुचिः | तस्य सर्वार्थसिद्धिः स्यात् यद्यन्मनसि वर्तते || गोरोचनाकुङ्कुमेन रक्तचन्दनकेऽपि वा | स्वयम्भुकुसुमैः शुक्रैः भुमिपुत्रे शनैश्चरैः || श्मशाने प्रान्तरे वापि शून्यागारे शिवालये | स्वशक्त्या गुरुणा यन्त्रं पूजयित्वा कुमारिकाम् || तद् योनौ पूजयित्वा तु गुरुपत्न्या विशेषतः | पूजयित्वा विधुत्या च स्तुत्वा च विधिनामुना || धारयेद् गुरुणा यन्त्रं पूजयित्वा कुमारिकाम् | तद् योनौ पूजयित्वा च गुरुपत्नीं प्रतोष्य च || देव्यै वलिं निवेद्याथ नरमार्जारमुषिकैः | नकुलैर्महिषैर्मषैः पूजयित्वा विधनतः || धृत्वा सुवर्णमध्यस्थां कण्ठे वा मस्तके भुजे | सुतिथौ शुभनक्षत्रे सुराशेरुदये तथा || धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः | कवचस्य तु माहात्मां न हि वर्षशतैरपि || शक्नोमि तु महेशानि वक्तुं तस्य फलञ्चरेत् | नास्ति चौरभयं तस्य न तत्र व्याधिपीडनम् || न दुर्भिक्षभयन्तत्र न चाधिपीडनं तथा | सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् || सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् | यत्र तत्र न वक्तव्यं न दातव्यं कदाचन || मन्त्रं प्राप्य विधानेन पूजयेत् सततं सुधीः | तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् || गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपितम् | तत्रापि कवचं द्रव्यं दुर्लभं भुवनत्रये || श्लोकं वा स्तवमेनं वा यः पठेत् प्रयतः शुचिः | तस्य सर्वार्थसिद्धिः स्यात् शङ्करेण च भाषितम् || गुरोर्देवहरः साक्षात् पत्नी तस्य हरप्रिया | अभेदेन यजेद् यस्तु तस्य सिद्धिरदुरतः || वादी मूकति पोषकस्तरयति क्ष्मावल्लभो दासते | गर्वी खर्वति सर्वविज्जडयति वैश्वानरः शीतति || आहाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं तद्भजे वन्दे तां भवतीतिभञ्जनकरीं शम्भुप्रियां सुन्दरीम् || इति विश्वसारतन्त्रे त्रिपुरसुन्दरी कवचं समाप्तम् || श्रीपार्वत्युवाच | देवदेव महादेव गुह्यशास्त्रविशारद | शतनाम च सुन्दर्याः कथयामास तत्त्वतः || श्री ईश्वर उवाच | साधुपृष्ह्तं त्वया देवि देवानां हतकारिणी | शृणुष्वावहिता देवि शतनामस्तवोदितम् || सर्वसम्पत् करं साक्षात् सर्वविघ्नविनाशनम् | यः पठेत् प्रातरुत्थाय साधकः सुसमाहितः || (प्. ६४) शुचिर्भुत्वा विशेत् तत्र आसने साधकोत्तमः | तस्य सर्वाणि विघ्नानि पलायन्ते दिशो दश || समाधाय मनो देव्यै हृत्पद्मकर्णिकालये | कार्तिकोक्तं पठेत् स्तोत्रं सर्वसम्पत् करं शुभम् || श्रीकार्तिकेय उवाच | ओं सुन्दरी परमेशानी भवानी कमलानना | पद्मालया महापद्मा लक्ष्मीर्नारयणी सदा || ब्रह्माणी ब्रह्मरूपा च परब्रह्मकुटुम्बिनी | सर्वसिद्धिप्रदा सत्या पाशहस्ता च चापिनी || अङ्कुशी खड्गहस्ता च नानालङ्कारधारिणी | अष्टसिद्धिप्रदा चैव योगशास्त्रपरायणा || कल्याणी कामदात्री च सर्वकामप्रदायिनी | महामाया महामात्रा महामोहविनाशिनी || यक्षिणी हिङ्गुमस्ता च ताराशुन्यनिवासिनी | पञ्चाशद्वर्णभेदा च सर्वाक्षरमयी सदा || भैरवी सुन्दरी भारा कालिका चित्ररूपिणी | एकानैकामहेत्या च सर्वमन्त्रम्यी सदा || स्वाहा स्वधा वषट्कारा सर्वकामप्रदायिनी | अनङ्गकुसुमानङ्गमदनामदनातुरा || अनङ्गमेखलानङ्गा कामबीजेश्वरी कला | तपिनी तापिमी धुम्रा मरीचिर्ज्वालिनी रुचिः || सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा | अमृता मानदा पूष्य तुष्टि पुष्टिरतिर्धृति || शशिनी चन्द्रिका कान्तिर्ज्ज्योत्स्ना श्रीपतिरङ्गदा | पूर्णा पूर्णामृता कामदायिनी शम्भुसुन्दरी | धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिणी || सुश्रीः कृपणा कपिला हव्यकव्यवहा तथा | स्वयम्भुकुसुमप्रीता शुक्रस्था शुक्रवल्लभा || भगस्था भगरूपा च भगमालाविभूषिता | इति ते कथितं दिव्यं देव्या नाम शतं शुभम् || ध्यात्वा च सुन्दरीं देवीं यः पठेत् सुसमाहितः | एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः || यः पठेत् प्रयतो भुत्वा साधकःसुसमाहितः | स भवेत् साधकश्रेष्ठो गणेश इव चापरः || यद्यद्वाञ्छति जायते तत् तत् सर्वं फलं लभेत् | मासमेकं पठेद्यस्तु मध्याह्ने साधकोत्तमः || अर्चयित्वा महादेवीं सुन्दरीं त्रिपुरात्मिकाम् | स भवेत् सम्पदामादिः कुवेर इव चापरः || मासद्वयं यथाकाले यः पठेत् साधकोत्तमः | मासत्रयं पठित्वा च अपुत्रः पुत्रवान् भवेत् || तूर्यमासं पठेद् यस्तु भवेद्वागीश्वरः परः | पञ्चमासं पठेद् यस्तु हतराज्यमवाप्नुयात् || षष्ठे मासि पठेद् यस्तु धन्वान् जायते सदा | सप्तमे मासि संप्राप्ते शङ्करत्वमवाप्नुयात् || मासाष्टकं पठेद् यस्तु श्मशाने शून्यमन्दिरे | सर्वशत्रुक्षयं तस्य जायते नात्र संशयः || नवमे मासि संप्राप्ते सर्वयोगविशारदः | दशमे मासि संप्राप्ते वाञ्छाकल्पतरुर्भवेत् || एकादशे रुद्ररूपी द्वादशे सिद्धिनायकः | एवं यः पठते स्तोत्रं पूजयित्वा सुरेश्वरीम् || सिन्दुरैरक्तचन्दनैः सुकुसुमैर्विविधैस्तथा | दूर्वाविल्वदलैश्चैव कुशैश्चन्दनकुङ्कुमैः || (प्. ६४ब्) अर्घ्यं दद्यात् पूजयित्वा सुन्दरीं भवसुन्दरीम् | सर्वसिद्धिं लभेत् तत्र कार्तिकेयेन भाषितम् || हिङ्गुलैर्हरितालैश्च लाक्षागोरोचनादिभिः | पूजयित्वा जपित्वा च पठेन्नमशतं पुनः || त्रिसन्ध्ये वार्द्धरात्रे वा प्रदोषे वा पुनः पुनः | शष्यायां यः पठेन्नित्यं प्रभाते सुसमाहितः || तस्य सर्वसुसिद्धिः स्यात् शङ्करस्य मतेन च | भुर्जपत्रे लिखित्वा च गोरोचनादिभिः प्रिये || सर्वसिद्धिः लभेत् तत्र धृत्वा साधकसत्तमः | इति विश्वसारतन्त्रे श्रीमत्रिपुरसुन्दरीस्तोत्रं समाप्तम् || श्री पार्वत्युवाच | देवदेव महादेव सर्वशास्त्रविशारद | कृपां कुरु जगन्नाथ धर्मज्ञोऽसि महामते || महापद्मवनास्तस्थां कारणानन्दविग्रहाम् | सर्वभुतहिता मातरित्याह परमेश्वरि || महात्रिपुरसुन्दर्याः स्मृत्वा वाहनमुद्रया | विद्यायवाह्य शुभङ्गे नमस्कारुणि मुक्तया || पूर्वोक्तया साधकेन्द्रा महात्रिपुरसुन्दरीम् | चक्रमध्ये तु सञ्चित्य ततः पूजां समारभेत् || एवं ध्यात्वा स्वशिरसि पुष्पं दत्त्वा स साधकः | प्रक्षाल्य च करद्वन्द्वं पुनर्ध्यानं समाचरेत् || कृत्वा कच्छपमुद्राञ्च कराभ्यां वागयतः शुचिः | कुङ्कुमैः कुसुमैरगुरुचन्दनैः सुमनोहरैः || मृगनाभिसमायुक्तं पुष्पं कृत्वा विचिन्त्य च | मूलाधारोद्गता देवी कुण्डलीसिद्ध विग्रहा || सर्वतेजोमयी देवी सर्वद्वन्द्वक्षयङ्करी | सर्ववाग्रूपिणी देवी षट्चक्रभेदिनी तथ || श्वासमार्गेण आनीय संस्थाप्य मन्त्रमध्यके | पूर्वोक्तेन विधानेन श्रीमत्रिपुरसुन्दरी || आवाह्य पूजयेद्विद्वान् नानागन्धानुलेपनैः | नानानैवेद्यवर्गैश्च वलिदानं पृथक् पृथक् || आमैः पक्वैश्च विधिना शाकैः सुपैः सुरेश्वरीं | पूजयित्वा लभेत् सिद्धिं शङ्करेण च भाषितम् || श्रीपार्वत्युवाच | यन्त्रं कथय देवेश सुन्दर्यास्त्रिपुरात्मिकाः | श्री ईश्वरौवाच | बिन्दुत्रिकोणवह्यष्टकोणवाह्यादिककोणयुक् परचतुर्द्धशकोणयुक्तम् | वृत्ताष्टषोडशदला न वृत्तलोकभुपुरचतुर्मुखमहं प्रणमामि चक्रम् || एवमेतन्महाचक्रे श्रीमात्रपुरसुन्दरीम् | पूजयित्वा महासिद्धिं लभते नात्र संशयः || तत्रापि पूजयेछुक्ती देवा नव सुशोभनाः | अनङ्गकुसुमानङ्गमेखलामदना तथा || अनङ्गरेखारूपिणी च अनङ्गानङ्गमालिनी | शशिरेखा च संप्रोक्ता सुन्दर्या नव शक्तयः || ततस्तु षोडशी शक्तिः क्रमेणानेन पूजयेत् | सर्वसंक्षोभिणी चैव तथा सर्वातिद्राविणी || सर्वाकर्षणशक्तिश्च सर्वाह्लादकारिणी | सर्वसंक्षोभिणी चैव सर्वसम्मोहिनी तथा || (प्. ६५) सर्वस्तम्भनशक्तिश्च सर्वस्तम्भनकारिणी | सर्वार्थसाधनी देवी सर्वसम्पत्तिदायिनी || सर्वत्र कुशलङ्कारी सर्वसिद्धिविधायिनी | सर्वसम्पत्प्रदा चैव सर्वप्रियङ्करी पुनः || सर्वमङ्गलकारी च सर्वकामप्रदा तथा | सर्वदुःखविमोचनी सर्वमृत्युविनाशिनी || सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी | पूजयित्वा विधानेन ततः सिद्धिं लभेन्नरः || श्रीपार्वत्युवाच | कृपां कुरु जगन्नाथ सर्वज्ञोऽसि महामते | सुन्दरी या पुरा प्रोक्ता लोपामुद्रेति विश्रुता || तस्याः प्रभावं विधिना कथयामास तत्वतः | तस्यास्तद्वचनं श्रुत्वा विहस्य जगदीश्वरः || कथयामास तां विद्यां सर्वविद्यामनुत्तमाम् | श्री ईश्वर उवाच | कथयिष्ये महाविद्यां यदुक्तं ब्रह्मणा पुरा | तत् शृणुष्वत्र विधिना सुगोप्यं भौवनत्रये || तस्याः प्रभावात् सकलं विभाति भुवनत्रयम् | यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति || माता पिता जगन्मान्या जगद्रक्षास्वरूपिणी | सिद्धिदा सिद्धिलोकानां असिधा दुष्टजन्तवः || सर्वभूतहितकरी सर्वभूतस्वरूपिणी | यतीनाञ्च गृहस्थानां भुक्तिमुक्तिप्रदायिनी || सदयतीनां सत्यैषां तस्मान्मुक्तिप्रदायिनी | मन्त्रोद्धरमहं वक्ष्ये शृणुष्व कमलानने || शिवबीजं समुद्धृत्य शक्तिबीजं समुद्धरेत् | कामबीजं धरासंस्थं तदन्ते भुवनेश्वरीम् || रविबीजं चन्द्रबीजं स्वाहाहंसन्ततः परम् | योजयेत् तत्र तां देवीं मायां त्रिभुवनेश्वरीम् || शक्तपरतरामरः शिवबीजसमन्वितः | हृल्लेखा बीजसंयुक्ता विद्या त्रिपुरसुन्दरी || एषा पञ्चदशी विद्या सर्वतन्त्रेषु गोपिता | अस्या विद्या समा नास्ति त्रैलोक्येऽपि च दुर्लभा || ओं लोपामुद्रा शिरः पातु ललाटं सिंहवाहिनी | चक्षुषी पातु मां कृष्णा भारती पातु नासिकाम् || कैलासवासिनी पातु कर्षयुग्मां महोदया | वदनं वासिनी पतु जिह्वाज्ञोत्तरवासिनी || ग्रीवायां ललिता पातु सर्वतः पिङ्गलाक्षी हृदयं मम | धुम्रा पार्श्वद्वयं पातु कट्यां प्रान्तरवासिनी || नितम्बकुसुमा पातु उपस्थं वलदायिनी | गुह्यं मिता सदा पातु जङ्घायां त्वरितावतु || जानुचक्रं महामाया ललिता पातु सर्वतः | पादयुग्मं सदा पातु लोपामुद्रा सुरेश्वरी || सर्वाङ्गे पातु मां देवी लोपामुद्रा सुरेश्वरी | प्राच्यां पातु सदा देवी लोपामुद्रा महोदया || आग्नेययां चैव याम्ये च नैर्-ऋते वरुणे तथा | वायव्यां चैव सौम्यां वै ऐशान्यां पातु सुन्दरी || लोपमुद्रा सदा पातु सुन्दरी शर्मदायिनी | इति ते कवचं दिव्यं कथितं सुखमोक्षदम् || सर्वाऽऽउभकरं साक्षात् महापातकनाशनम् | (अत्र पतितं ||) (प्. ६५ब्) ओं अस्य श्रीलोपामुद्रा त्रिपुरसुन्दर्याः सहस्रनामस्तोत्रस्य भगवान् सदाशिव ऋषिरनुष्टुप्छन्द आद्याशक्तिः भगवती श्रीमत्रिपुरसुन्दरी देवता मम चतुर्वर्गसाधने विनियोगः | ओं अशोकवासिनी आशा आदित्या अनुरूपिणी | आनन्दा अचला आमा आनन्दा अन्नबुद्धिदा || आसुरी अल्पदा शोका अशोका शोकनाशिनी | जयदा जित्वरा याङ्गी सुखदा शुभदा शुभा || मनोहरा मानश्री च सुपाला पालिनी मही || इन्द्रिका दीपिका चैव कृष्णा च शोभना प्रिया | कास्ताववासिनी कृष्णा चन्द्रकास्तिसमप्रभा || कर्पूरागुरुकस्तुरी त्रैलोक्यपावनीमतिः | दिवारात्रिस्तथा सन्ध्या महेज्या चन्द्ररूपिणी || एकानेका महामाया देवी भगवती कुहूः | अरुणा जयिनी जेया जयनी सर्वकामदा || मानदा मानिनी मान्या माननीया महामतिः | महोल्का शुभदा क्षेमा सर्वपर्वतवासिनी || भेरुण्डा कुरुकुन्दा च कालिका विन्ध्यवासिनी | नृमुण्डहन्ता शस्ता च मुण्डमालाविधारिणी || सवासना चितास्तस्था प्रेतनृत्यपरायणा | सुन्दरी भैरवी घोरा पूर्णा च घृणदा घृणा || नर्मदा नन्दिनी स्तुत्या स्तवनीया वलाकला | वाहूदा वाहूना प्रज्ञा प्रज्ञदा कामदायिनी || ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कीर्तिकाकलिः | रोहिणी शुभदा * * श्वेताङ्गी शुभलक्षणा || महाकुलीना सुक्षेमा क्षेमदा क्षेमवर्द्धिनी | मोहिनी पोषिणी क्षान्त्या तोषिणी शोषिणीमतिः || रतिप्रिया रतिहरा रतिदा रतिमालिका | कौलिनी कलिदा कल्की कुन्दनाङ्गप्रियातनुः || वहती जयदा जेत्री जयहा जयलक्षणा | जया जयित्री जयिनी सङ्गोमा सुकुली कुला || मन्त्रज्ञा शोभना सत्या आहारप्रियदायिनी | क्षुत्पिपासा क्षोभकरा सर्वक्षोभविनाशिनी || नलिनी नालिनी नाली वाहिनी रममानसा | मांसप्रिया मांसरुचिर्मद्यपान सदा महा || हेला नीला महाशाली धुर्ज्या सिंहवाहिनी | वायसी पूतना कृत्या त्रैलोक्यभाविनी रतिः || पद्मिनी पद्महस्ता च पद्मस्था पद्मवासिनी | महापद्मा सुपद्मा च स्तम्भिनी शुम्भुनाशिनी || एकाक्षा केकराक्षा च त्रिनेत्रा शुलधारिणी | शुलिनी पिङ्गलाक्षी च कमला कालदायिनी || मानदा माननीया च मानहा कान्दकारिणी | शुक्रस्था शुक्रपुज्या च शुक्रहा शुक्रमोहिनी || शुक्रवक्षा शुक्रकरा शुक्रसेव्यातिशुक्रिणी | शुक्रमोहा शुक्रमना शुक्रक्षालनरूपिणी || महाशुक्रा शुक्रपूर्णा शुक्रसेव्यातिशुक्रिणी | स्वयम्भुकुसुमप्राणा स्वयम्भुकुसुमाकुला || स्वयम्भुपूजकप्रीता स्वयम्भुप्रीतिदायिनी | इडा पिङ्गला सुषुम्ना च नाड्यस्ता च शुभप्रदा || गान्धारी हस्तजिह्वा च पूषा चालम्बुयामता | शङ्खिनी चित्रिणी वानी वलिनी वलहानना वैखरी केकरी केका लनना मार्गवाहिनी | (प्. ६६) मार्गदा मोहिनी नन्दा मन्मथप्रियवादिनी | आनन्दभैरवी कालभैरवी कुलभैरवी || वटुकाभैरवीसंस्था वलस्था वलदेवता | कुलीना कुन्दलकान्ता च कामाख्या कामवन्दिन्ता || विशेषज्ञविवादा च विद्युज्जिह्वा वसुन्धरा | आवालिका च वसुदा विविधा कमलवती || स्वाहा शाला तथा माला आर्या वैपायिनी कृपा | वामाचारवती वामा वामाचारविलासिनी || सुमतिः कुमतिश्चण्डचण्डमुण्डवधोद्यता | निशुम्भशुम्भहरिणी रक्तबीजविनाशिनी चामुण्डा चर्चिका श्रेष्ठा वहूभावनकारिणी | शोभना च शुभाकम्पा कम्पशाखितलस्थिता | युवती केटभी ज्योत्स्ना सुमनाविमना महा || पीडा पीडाक्षयकरी कहोडा यामिनी शुचिः | वारुणी चैव इन्द्राणी सावित्री ब्रह्मरूपिणी || चित्रिणी चित्ररूपा च मयुरपुच्छधारिणी | वायसी भुजगा भोगा कद्रुश्च विनता सता || गुडाप्रेता विशालाक्षी सती साध्वी विरूपिणी | विकद्रुः शोभनी चण्डी प्रचण्डा अतिचण्डिका || कराली च करालाक्षा विकराला करालिका | दैत्यदानवसंहन्त्री पैश्चाची यक्षिणी यतिः || गान्धारी गगणा गम्या सर्वबीजप्रतिष्ठिता | कामदा च त्वरा चित्रा विचित्रचित्ररूपिणी || अभया भयहारा च शुभदा शुभनाशिनी | विद्युता वैद्यामाता च कामकल्पाकविः क्रिया || राधिका रूपिणी सत्या लक्षणा रेवती मघा | सुदन्ता शुभदन्ता च अद्भूता अरूणा उवा || विद्युत्स्फुरस्महाहास्या आनन्दा कल्किरूपिणी | नानामणि कुमद्वाती पद्मिनी पद्ममन्दिरा || विम्बोष्ठी ललिता चोक्षा तीक्ष्णाङ्गी सर्वसिद्धिदा | सर्वाङ्गसुन्दरी पिङ्गा पद्मरूपा मनोगतिः || विशाला विलसत्क्षान्त्या सर्वचत्वरवासिनी | नारसिंही च वाराही अकुली नकुली ध्वनिः || शूलहस्ता विशाला च जित्वरा जयदा जया | मृत्युरूपा मृत्युहरा कालदा कालमालिना || नानास्त्रधारिणी सैत्या सर्वदैत्यावनाशिनी | स्वाहा स्वधा वषटकारा यज्ञदा यज्ञभुक् गुणी || शरमा अमरा आद्या महामायाविनाशिनी | अस्त्रशस्त्रमयी विद्या दुरस्था दुरवासिनी || नदी सिन्धुसर्वमयी सर्वाद्या सर्वदायिनी | उग्रा तारा यशोदा च निला नील सरस्वती || जयिनी यामिनी विद्युच्चञ्चला चाटुकारिणी | लक्ष्मीरूपा महारूपा नानामूर्तिः प्रभातनुः || सुसीमा च महासीमा अमेया खेचरी क्रिया | सूर्यकान्तिश्चन्द्रकान्तिः * * * * प्रियङ्करी || मुण्डमालावहन्ती च सर्वशास्त्रविलासिनी | विद्यावती वसुमती गङ्गा काशी सतीपुरा || नगदा मरदाख्या च राजलक्ष्मीर्मनागपि | विमना सुमन शम्भुः शाम्भवी हंसरूपिणी || माता पिता विपुला च कुञ्जरेश्वरगामिनी | (प्. ६६ब्) लीला माला तथा तथ्या सुभक्ष्या अतिराग्मिता || पुत्रिणी पुत्ररूपा च वत्सा वत्सप्रिया सती | शङ्कटज्ञा विसज्ञा च विकटा कपट तिथिः || सुप्तासुप्तप्रसुप्ता च विमलाक्षी विशातनुः | हुङ्कारी बीजरूपा च द्रीऊंकारी बीजरूपिणी || ह्री/ श्री गाङ्गी च गान्धारी सुगुणा विपुलास्तनी | कमली युवती सत्या स्तवनीया मामदोहृता || शितला च सुशीला च वायुदा वायुरूपिणी | वृषप्रिया वृषारूढा वृषवाहनवाहना || हूतिर्नितिः सुनीतिश्च कैलाशवासिनी कृतिः | कालरूपा कराला च अमिता असिता सिता || चिन्तावती सुचिन्ता च विचिन्ता चिन्तितास्मृतिः | सुनीतिः सुरुचिः कान्तिः कृष्णाकृष्णाकृशाङ्गिका || वज्राङ्गी वज्रहस्ता च गुरुहस्ता सरस्वती | अतसी कुलटा चेष्टा भर्तारानोडिनी भुता || वहूवक्ता वत्सला च सुभक्ता भक्तवत्सला | वत्स्यल्या वहूला वेला कन्या गौरी च रोहिणी || युवती चञ्चलाक्षी च चपलाक्षी शुभा तनुः | दीर्घघोणा दन्तुरा च युगदा युगदन्तुरा || अवजा गोजः क्षत्रिया च विजया जयरूपिणी | शङ्खिनी टिविटित्वा च क्षट्वि घाटी स्वरूपिणी || रूपिणी विविणी कृत्वा अतीता च पतिव्रता | कालाक्षी अवशाक्षी च निसङ्गा सङ्गवर्जिता || चेष्टा शान्ति शाम्भवी च चर्चिका चण्डरूपिणी | कुलटा युवती वन्या सर्वाङ्गसुन्दरी सुधा || केकराक्षी कृशाङ्गी च शशी च तामसी दया | गान्धारी विवशा विश्वा विकटाक्षा कटाक्षिणी || सौम्या सोमवती सा वा ललिता चतुरानना | कार्तिकी कुलजा कुन्ती कुन्तरूपा कुमुद्वती || चन्द्रमण्डलसंसर्गसूर्यकान्तिसमप्रभा | विद्युल्लोला विशालाक्षी सुन्दराक्षी सुलोचना || मृगनेत्रा मृगाक्षी च चञ्चलाक्षी च चञ्चला | प्रचला च महामोहा महामदविनाशिनी || कुलीना कुलवत्यां वा यक्षिणी यक्षरूपिणी | काकिन्येसी भल्लुको च विनष्टा चौजरूपिणी || चिचितुटा विसर्पिण्यो वितानी विपुलानना | हिडम्बा दुर्घटा ज्ञेया वकास्या प्रियवादिनी || कैराती कोणरूपा च कुक्कुट कुलमण्डिता | शान्तश्च शन्तिरूपा च सुमती सुमनप्रिया || पिङ्गलाक्षी त्रिनेत्रा च अरुणा जयदायिनी | विपुला विमला विश्वा किङ्करी वासिना विना || वेताली विपुला मोहा महामोहविवर्जिता | अनन्ता सत्यवादी च नित्या नित्यस्वरूपणी || लिङ्गमाला कण्ठभूया भगमाला विभूषणा | भगाङ्गी भगिनी भोगा भगमोहा भगात्मका || कात्ययनी जगन्माता सुमाता मदनावती | विपाशा च सुकेशा च हेमानिना पुलोपमा || इन्द्राक्षी वारुणी यक्षा योनिमुद्रा धनप्रिया | अनङ्गकुसुमानङ्गमेखला मदनातुरा || अम्बिका ह्रादिनी दुर्गा स्वरूपा हूं स्वरूपिणी | सुषुम्नेडा योगवती भैरवी वटुभैरवी || काली वाली च गाली च सुसमा सामगायिनी | (प्. ६७) गायत्री यमुना यामा ससत्वा वरदायिनी || लक्ष्मणा सत्यभामा च तथा जाम्बुवती सती | सुशीला पुण्यशीला च रूक्मिणी रेवती मघा || विकृतिः कुन्तिमूर्तिन्यौ सेन्दुखण्दा शिखण्डिनी | सुर्यकान्तिः प्रिया क्रिया अमावास्या चतुर्दशी || अष्टमी षष्ठी नवमी स्थिरा धीरा च पञ्चमी | तपस्विनी तपोयुक्ता मातृका गौररूपिणी || शारदेन्दु प्रसन्नास्या अट्टहास्यासिनी सुसु | नलिनी नालिनी नाला मनुकन्या मनावती || पार्वती खर्विणी खर्वा सर्वगर्वविवर्जिता | दर्पहारा सुदर्पा च दर्पतृप्तिमहोहरा || दान्ती च कुम्भहन्ता च अहङ्काराकृतिः स्वयम् | जीवा च परामात्मा च तथा कुण्डलिनी स्मृता || योषिता योषितप्राण योनिकुण्डनिवासिनी | गङ्गा काशी शता शोभा सुशोभा शोभकारिणी || सता सत्या सुसत्या च सभासंक्षोभकारिणी | क्वहोडी कुसुमा कामा कामराजेश्वरी क्रिया || पञ्चकूटा त्रिकुटा च एकाक्षा वर्गरूपिणी | वर्णमाला मन्त्रमाला सर्वमन्त्रमयी शिवा || सर्वालङ्कारसंयुक्ता कलम्ञ्जीररञ्जिनी | पञ्चभूतगतिः प्रेमा महाभुतनिवासिनी || दुराशया दुरासाध्या दुर्गेया दुर्गवासिनी | विभुतिर्विपुला नष्टा विनष्टा विनता सृतिः || निर्माल्यवासिनी देवी शेयिका सुन्दरी तथा | चण्डेश्वरी विजया * उग्रचण्डा प्रचण्डिका || प्रचण्डचण्डिका चण्डी चण्डदेवीति विश्रुता | मातुलानी पिपाठी च राक्षसी योगिनी जवा || कुशला च कुशल्या च कुन्ती च कुमदा कृपा | हंसमुखी शुचिमुखी विनता ललिता त्रिधा || वंक्षुमुद्रा रेवती च कावेरी सवितामृता | गिरिका वानरी वाला भूषणा उषिता तथा || भानुमती चित्रलेखा विशाखा शिखिनर्तकी | मोहिनी तोषिणी स्तुत्या स्तवनीया सुभाविनी || किङ्किनी चङ्किनी चित्रा योगिनी योगदायिनी | उल्लूकवदना देवी नानामूर्तिधरा तथा || सर्वतत्वार्थवेत्ता च सर्वशास्त्रात्मिका तथा | मालावती सर्पहस्ता व्यालयज्ञोपवीतिनी || डकिनी वर्णिनी घोरा वज्रपुष्पा तिलोत्तमा | असिता कुरुकुल्ला च बिन्दुचक्रस्वरूपिणी || उष्मा च उष्मपाना च शब्दब्रह्मस्वरूपिणी | तस्विनी निशारात्रिर्नादशब्दप्रभेदिका || रस्तोरुश्चतुराकारा कुमारी वृषभासुरी | शर्मिष्ठा यादवी यज्ञा सर्वशक्तिस्वरूपिणी || आचार्याथ तथा आर्या अङ्कुशी तोमरी तथा | देवी कुण्डात्मिका कुण्डा यज्ञक्र्त्री यज्ञु (?) प्रिया || ऋक् सामाथर्वनिलया वेदशाखास्वरूपिणी | रम्या कन्या शताक्षी च तथा चैव हृतद्युतिः || धात्री कर्त्री तथा इन्द्री काशीराजसुते शुभे | मज्ञस्थिता योगिनी च आकाशवासिनी वलिः || वेतालि रिपुना श्वेता तथा गुणवती मतिः | प्रफुल्ला फुल्लरूपा च तथा कुलवती कुला || फेत्कारिणी मनुमाता च अनुस्वरनिवासिनी | (प्. ६७ब्) भक्तानन्दकरी स्तुत्या स्तवनीयासुभाविनी || अर्पणा निश्चला लोला विद्या विद्यावतीति च | विभीतिका तथा मृत्युर्मारिणी मृत्युनाशिनी || अमेया तिन्तिडी दक्षा कृशाङ्गी कृशभुः कशा | विक्रमा विरला किन्ना वज्रप्रस्तारिणी सदा || सुन्दराङ्गी सुराङ्गी च कुरङ्गी शरलालिका | नगीश्वरी अकामा च अवशा च ग्रहा अनुः || मोहनामोहनामर्त्या मृण्मयी मद्यरूपिणी | काटनीकाटिनी श्लेषा केशाकृत्य निवासिनी || कूर्चाक्षरी कालरूपा बिन्दुचक्रनिवासिनी | विषणा विषया वैश्या क्षत्रियाणी कृपावती || आनन्दकन्दसंभुता आनन्दा अंशुलोचनी | असत्या आकृति म्लेच्छा भाषाचातिप्रिया श्रुतिः || प्रमोषा च प्रेम्नाप्रेम्ना साधका भक्तिरक्तपा | इदं सहस्रानामेति लोपामुद्रा प्रकीर्तिता || यस्याः प्रसादनात्रेण साक्षान्नारायणो भवेत् | अपुत्रो लभते पुत्रमधनी धनवान् भवेत् || राजा विजयमाप्नोति क्षत्रियाणी सुपुत्रिणी | वैश्यो धनसमृद्धिः स्यात् मूकश्च सुकविर्भवेत् || अरोगी धनवांश्चैव दीर्घरोगैः प्रमुच्यते | रजःस्वलाभ्यां स्पृत्वा च जपेद्विद्यां दिवानिशम् || कुवेर इव वित्ताच्यो जायते यदनोपमः | परदारपरो भूत्वा जपेद्विद्यां दिवानिशम् || अधिकारेण मनसा स एव श्रीसदाशिवः | दुतीयागं सदा कुर्यात् दिवसे दिवसे सुधीः || ऋतुमत्या भगंस्पृष्ट्वा दृष्ट्वा स्तुत्वा च मानवः | जपित्वा च महाविद्यां सर्वसिद्धिर्लभेन्नरः || धर्मार्थकाममोक्षार्थी परयोनौ जपेत् सुधीः | स्वयम्भुकुसुलैर्हस्ते भूषयित्वा जपेत् सदा || पूजयेत् परया भक्त्या देवी शुक्रैर्विशेषतः | स्वयम्भुकुसुमैः शुक्रैः पूजयेज्जगदम्बिकाम् || गोरोचनाकुङ्कुमेन लिखेद् यन्त्रमनन्यधीः | यावकैश्चन्दनैर्गन्धैर्भूर्जपत्रे विशालधीः || शून्यावासे लिखेद् यन्त्रं स्वशक्त्या सर्वभावतः | यजेद् देवीं विधानेन ध्यात्वा तां शम्भुसुन्दरीम् || पुजयित्वा धरेद् यन्त्रं कुमारीं पर्वतात्मजाम् | भौमावास्यां निशातागे बलिं दद्यात्रिपादसुः || कुक्कुटैर्नकुलैमेषैर्महिषैर्मुषिकैर्नरैः | दग्धमीनैर्दग्धद्रव्यैर्मद्यं दद्यात् सुसाधकः || अष्टोत्तरसहस्रञ्च जपेत् तत्र विशालधीः | एहि एहि पदं ब्रूयात् तदा देव्यै निवेदयेत् || योनिक्षालनतोयेन चुलुकं सततं क्षिपेत् | स भवेत् सम्पदामादि कुवेर इव चापरः || मार्कण्डेर इवायुष्मान् ज्वरापलितवर्जितः | वृहस्पतिवाग्व्यये स्यात् सौन्दर्ये मदनोपमः || विना मद्यैर्विना मांसैर्यदि देवीं यजेत् सदा | सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि || सर्वविद्यावतां श्रेष्ठः कूलीनः प्रियदर्शनः | किमन्यद् वहना देवि चतुर्वर्ग लभेन्नरः || इति विश्वसारतन्त्रे त्रिपुरसुन्दरी सहस्रनामस्तोत्रं समाप्तम् || अथ वक्ष्ये महाविद्यां सुन्दरीं षोडशाक्षरीम् | यस्याः कटाक्षमात्रेण साक्षान्नारायणो भवेत् || राज्यं देयं शिवो देयो न देया षोडशाक्षरी | एकैकमात्रा सुन्दर्या भवेद्गङ्गाधरः स्वयम् || किं धनैः किं जनैः किम्वा भुत्यैर्वन्ध्जनैरपि | विद्या विज्ञानमात्रेण भवेद्गङ्गाधरः परः || स वैष्णवः स शाक्तः स एव ब्राह्मणः सदा | सर्वविद्यावतां श्रेष्ठः स योगी सिद्धिवर्द्धकः || अथ वक्ष्ये महेशानि मन्त्रोद्धरं सुशोभनम् | शृणुष्व परया भक्त्या सर्वकामार्थसिद्धये || एषा वहूविधा विद्या कथिता पद्मयोनिना | पाद्मे कल्पे नारदाय इहैव त्वां वदाम्यहम् || श्रीबीजाद्या यदा विद्या लक्ष्मीर्नारयणस्य च | लज्वाद्या वा यदा विद्या स भवेत् सुरपुजितः || संसारं वशमानीय भवेत् शम्भोः प्रियः स्वयम् | रागाद्या वा यदा विद्या भवेत्रिभूवनेश्वरी || ब्रह्माणी सा समाख्याता वेदव्यासेन संयुता | शिवप्रासादसंयुक्ता यदा भवति सुन्दरी || तदा सैव भवेन्नित्या महेशत्वप्रदायिनी | एवं वहूविधा विद्या शिवेनोक्ता कृते युगे || देशभेदे महाविद्या वहूधा परिकीर्तिता | अथ वक्ष्ये महाविद्यां सर्वसिद्धिसमृद्धिदा || यस्याः कटाक्षमात्रेण त्रैलोक्याधिपतिर्भवेत् | मादनं तदहः शक्तिस्तदन्तर्बिन्दुमालिनी || ऐन्द्रबीजस्थमध्यस्था ज्वलनाक्षरसंयुतम् | मायाबिन्द्वीश्वरीयुक्ता सर्वोपरिनियोजिता || अयं स वाग्भवो देवि वागीशत्वप्रदायकः | शिवबीजं त्रिधा कृत्वा सृष्टिस्थितिलयक्रमैः || द्वयमाद्येन रहितमाव्याधो मदनाक्षरम् | पुनः स्थितिशिवाधस्थादिन्द्रबीजं नियोजयेत् || तथा नमः शिवाधोऽपि ज्वलनार्कं महेश्वरि | चतुर्थस्वरसंयुक्तं बिन्दुखण्डेन्द्वलं कृतम् || एवमेतन्महाबीजं कामराजं महोदयम् | मायामीजं महेशानि मादनं शत्रुसंयुतम् || चन्द्रबीजं केवलन्तु विनिर्युज्य वरानने | त्यक्त्वा सृष्टि क्रमं देवि प्राशु(?)द्धारक्रमेण तु || संहारक्रमयोगेन शक्तिबीजं समुद्धरेत् | एषा श्रीः सर्वतन्त्रेषु कथिता पद्मधोनिना || अतः परा महाविद्या त्रैलोक्ये नैव विद्यते | सर्वविद्यास्वरूपा च स्वर्गमुक्ति प्रदायिनी || सर्वकामप्रदा देवी सर्वकामस्वरूपिणी | यथा अनुगताः प्राणाः सर्वेषां षोडशी तथा || सिन्दूरसदृशाकारां नेत्रत्रितयशोभिनीम् | शवरूपमहादेव हृदयोपरिसंस्थिताम् || मुण्डमालाधरां देवीं नागयज्ञोपवीतिनीम् | नानालङ्कारसंयुक्तां सिद्धगन्धर्वसेविताम् || दिगम्बरीं महाघोरां मुक्तकेशीं महोदराम् | सर्वलावण्यवसतीं चिन्तयेत् पार्वतीं सदा (?) || अस्या अङ्गसमुद्भूता ये चान्ये मन्त्र जा(?)दयः | महामहा महाविद्या महामन्त्रा महामहा || अस्या अङ्गसमुसमुद्भूता कथिता पद्मयोनिना | पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते || यथा पारमहंस्येषु श्रीभागवतमुच्यते | अद्वैतभावनायास्तु यथा नारायणो नरः || द्विपदेषु द्विजश्रेष्ठो नक्षत्रेषु च चन्द्रमाः | इन्द्रियेषु च मनःश्रेष्ठं पर्वतेषु हिमालयः || नदीनान्तु यथा गङ्गा ब्राह्मणेषु च वेदवित् | वैष्णवानां यथा शम्भुः शास्त्रेषु चागमः स्वयम् || विद्यासु च महाविद्या तास्वियं श्रीसमीरिता | नात्र सिद्ध्याद्यपेक्षा च न च मित्रादिधूषकम् || नेह भक्ष्यविचारः स्यात् नास्ति स्थानस्य निर्णयः | न चित्तव्ययवाहूल्यं न च ब्रात्यं कथञ्चनः || पूजयेत् परया भक्त्या सुन्दरीं सर्वभाषतः | षट्कोणं नवकोणञ्च त्रिकोणञ्च ततः परम् || अन्योऽन्यं विलिखेद् यन्त्रं योनिमण्डलमण्डितम् | ? (?) जःसत्त्वतमोरेखासाष्टपत्रसमन्वितम् || अनङ्गाद्या महाशक्तीरत्र नध्येषु चिन्तयेत् | त्रिकोणे पुजयेद् देवीं सुन्दरीं श्रीस्वरूपिणीम् | पूर्वोक्तन्यासवर्गैश्च विन्यसेत् सुतनौ सदा || विन्यसेत् परमा देव्याः नवयोन्यात्मकं स्मृतम् | योन्याकारेण संन्यस्य चिन्तयेत् तां महेश्वरीम् || नवयोन्यात्मकं न्यासं विन्यसेत् सुतनौ सदा | विधिनानेन देवेशी नवयोन्यात्मकं स्मृतम् || नाभेराचारणं न्यस्य वाग्भवं बीजमुत्तमम् | हृदयानाभिपर्यन्तं कामबीजं न्यसेत् सदा || शिरसो हृत् प्रदेशान्तं शक्तिबीजं न्यसेत् सदा | आद्यं द्वितीयं करयोर्विन्यसेत् परया यतः || तृतीयमुभयोर्न्नस्यनवयोन्यात्मकं स्मृतम् | मूर्ध्न्याधारे हृदि न्यसेत् भुयो बीजत्रयं क्रमात् || नवयोन्यात्मकं कुर्यात् न्यासञ्च विधिनामुना | त्रिभिर्बीजैः क्रमेणैव विन्यसेत् क्रमयोगतः || कर्णयोश्चिबुके कुर्यात् योन्याकारं त्रिकोणकम् | अंशयोर्वदने कुर्यात् नेत्रयोर्नसिके ततः || अंशयोः पाठके कुर्यात् कुक्षिकूर्परयोस्ततः | जानुनोभुर्जमूले स्यात् पादम्नोर्गुह्यदेशके || पार्श्वयोर्हृदये कुर्यात् ततः कण्ठस्तनद्वये | नवयोन्यात्मकं नयासं महाविद्या प्रमाणकम् || छिन्नायाः कालिकायाश्च सुन्दर्याश्च तथैव च | श्रीविद्यायास्तथा कुर्यात् नवयोन्यात्मकं स्मृतम् || अथ रत्यादिकं न्यासं कुर्याच्च विधिनामुना | मूलाधारे रतिं न्यस्य हृदि प्रीतिं न्यसेत् पुनः || मुलादिधू न्यसेन्मूर्ध्नि प्रतिलोमानुलोमतः | अमृतेशीञ्च योगेशीं विश्वगेशं पुनः पुनः || (प्. ६९) मूर्ध्नि वक्त्रे च हृदये गुह्ये पादद्वये पुनः | क्रमेण विन्यसेदेतान् द्वौ द्वौ कृत्वा विधानतः || स्वस्वमाद्यं बिन्दुयुतं मूलबीजमुदाहृतम् | मनोभवं न्यसेन्मूर्द्ध्नि ईशानेन विधानतः || तत्पुरुषं विन्यसेद्वक्त्रे मकरध्वजसंयुतम् | अघोरं विन्यसेत् पूर्वं कन्दर्पं हृदये पुनः || मन्मथं विन्यसेद् गुह्ये वामे देवादिसंयुतम् | सद्योजातं पादयुगे कामदेवसमन्वितम् || अथात्मानं चिन्तयेच्च पञ्चवक्त्रं यथा शिवम् | ऊर्द्धप्राग्दक्षिणोदिच्यपश्चिमेषु मुखेषु तान् || पूर्वोक्तेन विन्यसेद्बुद्ध्या हृल्लेखादिविधानतः | हृल्लेखान् पुटितान् कृत्वा कामबीजादिकानथ || पञ्चवक्त्रं चिन्तयेच्च वर्णेनानेन देशिकः | मुक्तापीतपयोदञ्च मौक्तिकं यववर्णिकम् || ऊर्द्धदिक्रम्योगेन दक्षिणावर्तयोगतः | भुण्डव्योमाग्निसंयुक्तं दीर्घस्वरसमन्वितम् || इन्दुबिन्दुसमायुक्तं मुखाधिष्ठातृदेवता | अथवा पञ्चह्रस्वाच्यं ओंकारादिसमन्वितम् || प्रतिलोमेन सिञ्चन्त्य विन्यसेच्च पुनः पुनः | पञ्चरूप्यं न्यसेद् देवि मूर्ध्नादिक्रमयोगतः || क्रीमाद्यां द्राविणी मूर्द्ध्नि ह्रीमाद्यां क्षोभिणीं पदे | क्ली/ वशीकरणं वक्त्रे गुह्ये हू/ बीजपूर्विकाम् || आकर्षिणीं हृदि पुनः स्वर्गाद्या भृण्डसंयुताम् | सम्मोहिनी क्रमादेवं वर्णन्यासोऽयमीरितः || भालभ्रूमध्यवदनघटिकाकण्ठकृत्सु च | नाभ्यधिष्ठानयोः पञ्चतारा सुभगादिकाः || कामबीजादिकाः सर्वाः मदविभ्रममन्तराः | सुभगाच्या न्यसेत् सर्वाः सुभगा च तथा भगा || भगसर्पिण्यथ परा भगमालिन्यनन्तरम् | अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला || अनङ्गमदना सर्वामदविभ्रममन्तराः | प्रधानदेवता वर्णा भूषणाद्यैरलङ्कृता || मुण्डमालावराभयौ धारिण्यः शुभदायिकाः | वाग्भवं कामराजञ्च वरुणमिन्द्रसंयुतम् || इन्दुबिन्दुसमारूढं तृतीयं कथितं त्विदम् | षडबीजसमायुक्तां लज्वाबीजमुदाहृतम् || चन्द्रबीजं स्वर्गयुक्तं पञ्चमं कथितं त्वदम् | सुभगाद्या समासेन न्यसेद्बीजानि देशिकः || शिरसि भाले कर्णे च अक्षिणी नासायुगले गण्डयुगले ओष्ठे युगे दन्ते वदने विन्यसेत् स्वरान् | चिबुके ख्याने च कण्ठे च पार्श्वयोः स्तनयुग्मके | दोर्मुलयोः कुर्परयोः पाण्योस्तत् पृष्ठदेशतः || नाभौ गुह्ये पुनश्चोर्वोर्जानुनोर्जङ्घयोस्ततः | स्फिठो च पत्तनरोः पश्चात् चरणाङ्गुलयोर्द्वयोः || ककारास्तान्न्यसेद्वर्णान् स्थानेष्वेतेषु देशिकः | काञ्च्यां ग्रैवयके कण्ठे हृदि गुह्ये न्यसेत् पुनः || कर्णयोर्गण्डयोर्मौलौ वदनं रक्षसान्महौ | विन्यसेद्विधिना वर्णान् कामबीजादिकानथ || मायाद्या पुटितान् कृत्वा प्रतिलोमानुलोमतः | तत्त्वन्यासं ततः कुर्यात् विधिनानेन देशिकः || (प्. ६९ब्) यत्तत्त्वन्न्यासमात्रेण तत्त्वज्ञानं प्रजायते | मादिकास्तं न्यसेद् देहे प्रतिलोमेन देशिकः || यादिक्षान्तं ततः कुर्यात् पश्चाद्वक्ष्यामि तत्त्वतः | प्रणवायं कामाद्यञ्च मायाकूर्चादिकं पुनः || यथास्थाने न्यसेद्वर्णान् विधिनानेन देशिकः | सानुस्वारं नमोऽन्तञ्च यथास्थाने च देशिकः || परं शब्दं चतुर्थ्यन्तं यथास्थाने च देशिकः | (परं शब्दं चतुर्थ्यन्तं) जीवात्मानं मकारञ्च सर्वाङ्गे चिन्तयेत् ततः | प्राणात्मने भकारश्च सर्वाङ्गे चिन्तयेत् स्वयम् | बुद्ध्यात्मने वकारश्च हृदये चिन्तयेत् स्वयम् || अहङ्कारे ककारश्च पकारो मनसि स्थितः | हृदये तु तत्र न्यसेद्विधिनानेन देशिकः || परशब्दार्थशब्दश्च सर्वत्र परिचिन्तयेत् | शब्दात्मने नकारश्च (पादयुग्मे) मस्तके विन्यसेत् सदा || स्पर्शात्मने धकारश्च मुखे न्यासं समुद्धरेत् | रूपात्मने दकारश्च हृदये परिचिन्तयेत् || रसात्मने थकारश्च लिङ्गे च विन्यसेत् ततः | गन्धात्मने तकारश्च पादयुग्मे न्यसेत् ततः || श्रोत्रात्मने णकारश्च विन्यसेत् त्वचि पार्वति | चक्षुरात्मने डकारश्च चक्षुयोः परिचिन्तयेत् || जिह्वात्मने ठाकरश्च जिह्वायां विन्यसेत् पुनः | घ्राणात्मने टकारश्च नासिकायां विचिन्तयेत् || वागात्मने ञकारश्च वाचि न्यासं समुद्धरेत् | पुण्यात्मने ऋकारश्च हस्तयुग्मे न्यसेत् ततः || पद्मात्मने जकारश्च पायुदेशे न्यसेत् क्रमात् | पादात्मने हाकरश्च पत्स्थाने विन्यसेत् ततः || उपस्थात्मने चकारश्च उपस्थे च प्रविन्यसेत् | व्योमात्मने ङकारश्च मूर्द्ध्नि विन्यासमाचरेत् || रागात्मने घकारश्च मथदेशे न्यसेत् क्रमात् | तेजसात्मने गकारश्च हृदिन्यासं समाचरेत् || जलात्मने थकारश्च गुह्यदेशे न्यसेत् क्रमात् | पृथिव्यात्मने काकारश्च पादयोर्विन्यसेत् ततः || यादिक्षान्तं न्यसेत् तद्वत् योगेन विधिनामुना | पुरुषात्मने सङ्कर्षणाय यकारं हृदये न्यसेत् || विश्वात्मने प्रद्युम्नाय रकारं हृदये द्वयम् | निवृत्त्यात्मनेऽनिरुद्धाय लकारं विन्यसेत् * * || सर्वात्मने नारायणाय वकारं हृदये पुनः | सोमण्डलत्रययुक्ताय कला षोडशसंयुतम् || यकारं विन्यसेद् देहे हृदये तन्त्रसम्मतम् | परमेष्ठात्मने वासुदेवाय हृदये न्यसेत् पुनः || शुक्रात्मने सकारश्च विन्यसेद् विधिनामुना | सूर्याय हृदिनिर्दिष्टं हकारं तन्त्रसम्मतः || कोपात्मने नृसिंहाय सर्वाङ्गे त्वचि विन्यसेत् | क्षकारं सर्ववर्णेषु व्यापकः परिकीर्तितः || तत्वन्यासमिदं प्राहुर्न्यासतत्वविदो जनाः | अस्या विन्यासवर्गाणि न सिद्धिः स्यात् कथञ्चन || एवं समुच्चार्य षोढान्यासं ततो दिशेत् | पश्चाद्वक्ष्यामि देवेशि षोढान्यासं ततः परम् || एवं न्यासतनुं कृत्वा यजेद् देवीं सनातनीम् | अनङ्गानङ्गमदना कामेश्वरी ततः परम् || (प्. ७०) भगमालिनी भगा चैव पूजयेत् शक्तयस्थिमाः | अथवा इच्छाद्या एव शक्तीः सर्व्तन्त्रसमन्विताः || रतिरतिप्रिया नन्दा पूजयेद् यः क्रमादिमाः | वरदाभयधारिण्यः प्रधानतनवस्त्रियः || देव्यङ्गे पूजयेत् सर्वा देव्या भूषणभूषिता | कामबीजादिकाः सर्वा नमोन्तात्तन्त्रसंयुताम् || चित्स्वरूपां वदेत् ङेन्तां विद्महे तदनन्तरम् | जालन्धरीं समुच्चार्य धीमहि तदनन्तरम् || तन्नो देवी समुद्धृत्य वदेद् देवि प्रचोदयात् | एषा स्यान्मन्त्रराजन्य गायत्री शिवसम्मता || (कामादिकां जपेद्वापि) मायाद्यां वा जपेद्विद्यां धर्मकामर्थसिद्धये | कूर्चाद्यां वा यजेद्विद्यां वधूबीजादिकापि वा || सर्वेषां मन्त्रविद्यानां गायत्री परिकीर्तित्का | ओङ्काराद्या नमोन्ता व विद्या आसनभेदके || सदाशिवं वदेत् ङेन्तं महाप्रेतपदं ततः | देव्यासनं चतुर्थ्यन्तं तदन्ते हृदयं पुनः || मन्त्रमासनदाने तु कथितं पद्मयोनिना | कामबीजादिकाः पूज्या शक्तयः शुभदायकाः || आसनस्य चतुर्दिक्षु पूजयेद् यो विधानतः | वामकोणे यजेद् यन्त्रे रतिबिन्दुसमप्रभाम् || नतिपाशधरां सौम्यां मदविह्वलविह्वलाम् | प्रीतिं दक्षिणकोणस्थां तप्तकाञ्चनसमप्रभाम् || अङ्कुशं प्रणतिर्दोर्भ्यां धारयन्तीं समर्चयेत् | अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् || इक्षे कार्म्मुकपुष्पेषु धारयन्तीं समर्चयेत् | षट्कोणे पूजयेद् देव्या हृदयाद्यङ्गदेवता || सर्वेषां मन्त्रयन्त्राणां दक्षिणा मूर्तिसंज्ञकः | अथवा सर्वविद्यानां महादेव ऋषिः स्मृतः || एवं संपूज्य विधिवत् स्तवैरुच्चारणैस्तवेत् | मद्यैर्मांसैश्च वटकैः सुपपूपैश्च शाकैर्मयैर्महिषैर्गवयैर्गाभिरुष्ट्रेः शिवाभिः | सोंहैर्व्याघ्रैश्च वेधकैः शकुलिभिव्वनाञ्जनैरश्च शल्यैर्हरणैः | शूकैर्नरपशुपशुभिर्मत्स्यामांसैश्च नित्यम् | यद्यन्नित्यं कथयति सदा मानवाः स्वर्गरूपास्तत्तत्त्वन्यं कथयति स्वाराः शङ्करः शङ्करायाः | तत्तत्सर्वं हरवधुजनैः पूजयेत् पूजयित्वा | विद्यां सिद्धिर्न भवति सदा कीर्तिता नारदाद्यैः || दग्धमीनं भ्रष्टञ्च सिक्यञ्च लेह्ययं पेयम् | मकारपञ्चकैर्देवीं पूजयेद् यः सदा बुधैः || स्वयम्भुकुसुमैः शुक्रैः परशक्तौ विशेषतः | पूजयित्वा जपित्वा च चतुर्वर्गं लभेत् सदा || वर्णलक्षं पुरश्चर्या विधिनानेन यो जपेत् | करस्थाः सिद्धयः सर्वा भविष्यन्ति कलौ युगे || अथ वक्ष्ये महेशानि यन्त्रराजं सुशोभनम् | यं ज्ञात्वा साधकाः सर्वे लभन्ते शिवमुत्तमम् || त्रिकोणं बिन्दुसंयुक्तं विलिखेत् पुरतः सदा | षट्कोणं नवकोणञ्च नवकोणं ततः परम् || प्रतिलोमानुलोमेन योन्याकारं ततः परम् | रजःसत्वतमो रेख साष्टपत्रं सकर्णिकम् || (प्. ७०ब्) भूपूरं गुणरेखच्यं विलिखेद् विधिनामुना | भदन्ते मण्डलं कुर्यात् योन्याकारं सुशोभनम् || तन्मध्ये पूजयेद् देवीं स्वकीयगणसंयुताम् | वलिदानमवश्यं हि प्रक्षिपेत् साधकोत्तमः || वलिदानं विना यस्तु सुन्दरीं परिपूजयेत् | मांसास्थिमज्जा तस्यापि दापयेत् सा सुशोभना || स्वयम्भुकुसुमैः शुक्रैः पूजयेत् परदेवताम् | सुगन्धिकुसुमैः शुक्रैः सुगन्धिकुसुमन्वितैः || पूजयेत् परया भक्त्या गन्धपुष्पान्नवारिभिः | अन्नाभावे यथा रुष्टा गृहिणी गृहपालके || वलिं शक्तिं विना रुष्टा सा भवेद्भवसुन्दरीम् | योनिकुण्डे यजेद् यन्त्रं रक्तपुष्पैर्विशेषतः || युगाचारं न नित्ये तत् कर्तव्यं कथितं मया | निशाभागे श्मशाने च प्रान्तरे शून्यमन्दिरे || स्वशक्त्या प्रजपेद् विद्यां चतुर्वर्गफलाप्तये | कुमारीं पूजयेन्नित्यं कुमारीञ्च स्तवेत् सदा || सिन्दूररक्तवस्त्रैश्च * * * * सुभूषणैः | कुत्सितां वा सुवेशां वा पूजयित्वा विधानतः || देवीबुद्ध्या भोजयित्वा नमस्कृत्य विसर्जयेत् | अथ वक्ष्ये महेशानि कवचं सर्वकामदम् | यस्य विज्ञानमात्रेण देवी दर्शनगोचरा || प्रातःकाले च मध्याह्ने सायाह्नेऽर्द्धरात्रके | गुरुं प्रणम्य विधिना कवचं प्रपठेन्नरः || पुरस्तात् पार्श्वयोः पार्श्वे नमस्कुर्यादुपर्यधः | सहस्रपत्रकमले सुन्दरीं चिन्तयेत् सदा || पाशाङ्कुशौ वराभयौ धारयन्तीं सरां भजे | वर्णानां देवताः स्मृत्वा प्रपठेत् कवचं सुधीः || ककारे पातु मां देवी कामिनी कामदायिनी | एकारे पातु मां देवी शक्तिरूपा महेश्वरी || इकारे पातु मां देवी बिन्दुमाली शुभानना | मकारे पातु मां देवी इन्द्राणी सर्वसिद्धिदा || हकारे पातु मां देवी आकशवासिनी शिवा | रकारे पातु मां देवी सर्वाङ्गे वह्निरूपिणी || इकारे पातु मां देवी माया नित्यास्वरूपिणी | नादबिन्दुयुता पातु देवी विश्वेश्वरी शुभा || एतेर्वर्णैः सदा पातु वाग्भवी वाग्विशुद्धये | आमूर्द्ध्नि कठपयन्तं वाग्भवी पातु मां सदा || हकारे पातु मां देवी शिवा सिद्धिप्रदायिनी | सकारे पातु मां देवी सावित्री शर्मदायिनी || ककारे पातु मां देवी कामिनी कामदायिनी | हकारे पातु मां देवी हरार्द्धाङ्गनिवासिनी || एभिर्वर्णैः सदा पातु कामरूपेश्वरी सदा | आकण्ठाल्लिङ्गपर्यन्तं कामराजेश्वरी वतु || सकाअरे शातु मां देवी सावित्री शर्मदायिनी | ककारे पातु मां देवी कामिनी कामदायिनी || नकारे पातु मां देवी सर्वकर्मफलप्रदा | हकारे पातु मां देवी हरार्द्धाङ्गस्वरूपिणी || (प्. ७१) वकारे पातु मां देवी मायामारी शिवप्रिया | इकारे पातु मां देवी मायासर्वसमृद्धिदा || बिन्द्वीश्वरी सदा पातु नादबिन्दौ विशेषतः | एतैर्वर्णैः सदा पातु शक्तिरूपा सुरेश्वरी || आनाभि पादपर्यान्तं पातु मां शक्तिरूपिणी | वाग्भवी पातु सर्वाङ्गे वाग्भवी रक्षयेत् सदा || कामराजेश्वरी पातु कामेश्वरी सदावतु | शक्तिरूपा सदा पातु शक्तिरूपा सदावतु || शास्त्रे वादे च संग्रामे जने च विमले गिरौ | सर्वत्र पातु मां देवी वाग्भवी शर्मदायिनी || राजस्थाने दुर्गमे च नौकायां शङ्कटेषु च | सुरार्चने शत्रुमध्ये विषवह्निभयादिषु || सर्वत्र पातु मां देवी कामराजेश्वरी शिवा | श्मशाने गिरिदुर्गे च शङ्कटे निगडवन्धने || यत्र यत्र भये प्राप्ते पातु मां शक्तिरूपिणी | शिखायां भूयुगे चाक्ष्नोर्गण्डयोर्नसि कर्णयोः || ओष्ठयोर्दन्तपंक्तौ च जिह्वायां वदने तथा | ग्रीवायां स्तनयुग्मे च हस्तयोः पार्श्वयोः पुनः || पृष्.ठे नाभौ हृदि कुक्षौ लिङ्गे गुह्ये पदद्वये | जिह्वारां जानुचक्रे च सर्वत्र पादसन्धिषु || पूर्वस्यामग्निकोणे च याम्ये च नैर्-ऋते तथा | वारुण्यां वायुदेशे च सौम्यामीशानदेशके || अधः ऊर्द्धक्रमेणैव पातु श्रीः सर्वतोमुखी | पातु देवी महेशानि श्रीविद्या श्रीप्रसिद्धये || इच्छा पातु सदा ज्ञाना क्रिया पातु सदा मम | कामिनी पातु मां देवी पातु मां कामदायिनी || रतिः पातु सदा जङ्घे रतीदेवी रतिप्रिया | योगिन्यः पान्तु सततं खेचर्यः पान्तु सर्वदा || भूचर्यः पान्तु सततं पान्तु पातालगामिनः | चरस्थाः सर्वदा पान्तु पर्वतस्था सदावतु || श्मशानस्थाः सदा पान्तु पातु मां विन्ध्यवासिनी | आकाशवासिनी पातु पातु मां शूलधारिणी || अस्त्रशस्त्रमयी देवी सर्वशक्तिस्वरूपिणी | सर्ववर्णमयी देवी सर्वशक्तिस्वरूपिणी || सर्वाभावे स्वरूपाया सर्वबीजेषु संस्थिता | सर्वत्र पातु मां देवी श्रीविद्या श्रीस्वरूपिणी || सर्वतन्त्रमयी देवी सर्ववेदमयी तथा | सर्वज्ञानमयी पातु सर्वनित्या नगात्मजा || आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका | सर्वत्र पातु मां देवी श्रीविद्या श्रीप्रसिद्धये || इदं कवचमित्युक्तं मन्त्रोद्धारञ्च पार्वति | यः पठेत् प्रयतो भूत्वा त्रिसन्ध्ये नियतः शुचिः || तस्य सर्वार्थसिद्धिः स्यात् यद् यन्मनसि वर्तते | गोरोचनाकुङ्कुमेन यावकै रक्तचन्दनैः || स्वयम्भुकुसुमैः शुक्रैर्भूमिपुत्रे शनैश्चरे | श्मशाने प्रान्तरे वापि शून्यावासे तथालये || सशक्त्या गुरुणा मन्त्रं पूजयित्वा कुमारिकाम् | यद् योनौ पूजयित्वा च गुरुपत्न्या विशेषतः || पूजयित्वा विधृत्वा स्तुत्वा च विधिनामुना | धारयेद् गुरुणा यन्त्रं गुरुपत्नीं प्रतोष्य च || (प्. ७१ब्) देव्यै वलिं निवेद्याथ नरमार्जारमूषकैः | कुक्कुटैर्महिषैर्मेषैः पूजयित्वा विधानतः || धृत्वा सुवर्णमध्यस्थं कण्ठे वा मस्तके भुजे | सुतिथौ शुभनक्षत्रे सुराशेरुदये तथा || धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः | कवचस्य तु माहात्मां नाहं वर्षशतैरपि || शक्नोमि तु महेशानि वक्तुं तस्य फलञ्च यत् | नास्ति चौरभयन्तत्र नास्ति व्याधिभयञ्च यत् || न दुर्भिक्षभयं तत्र न दस्योत्पीडनं तथा | सर्वविघ्नप्रशमनं सर्वशान्तिकरं परम् || सर्वमृत्युप्रशमनं सर्वव्याधिविनाशनम् | सर्वरक्षाकरं जन्तोश्चतुर्वर्गफलप्रदम् || यत्र तत्र न वक्तव्यं न दातव्यं कदाचन | मन्त्रं प्राप्य विधानेन प्रजपेत् सततं सुधीः || तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् | गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् || तत्रापि दुर्लभं दिव्यं दुर्लभं भुवनत्रये | श्लोकं वा पादमेकं वा यः पठेत् प्रयतः शुचिः || तस्य सर्वार्थसिद्धिः स्यात् शङ्करेण च भाषितम् | गुरुर्देवो हरः साक्षात् पत्नी तस्य हरप्रिये || अभेदेन यजेद् यस्तु तस्य सिद्धिरदूरतः | वादी मूकति पोषकस्तरयति क्ष्मावल्लभो दासते गुर्वी खर्वति सर्वविज्जडयति वैश्वानरः शीतति | आचाराष्टकसिद्धिरूपमपरं सिद्धाष्टकं तद् भजे | तां वन्दे भवभीतिनाशनकरीं शम्भुप्रियां सुन्दरीम् || इति श्रीविश्वसारतन्त्रे श्रीमत्रिपुरसुन्दरी श्रीविद्याकवचं समापतम् || ( क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने | यस्य विज्ञानमात्रेण साक्षान्नारायणो भवेत् || ब्राह्मे मुहुर्ते उत्थाय इत्यादि |) अथ वक्ष्ये महाविद्या नाम्ना त्रिपुरपूर्विका | भैरवी सर्वसिद्धाख्या चतुर्वर्गफलप्रदा || आनन्दरूपिणी देवी सर्वविघ्नविनाशिनी | नित्या सा मूलप्रकृतिः सर्वतन्त्रसमन्विता || अस्या विद्या समो नास्ति त्रैलोक्यसुरदुर्लभा | धर्मार्थकामदा विद्या सर्वशत्रुविनाशिनी || देवैर्देवत्वविषये गन्धर्वैर्गन्धमाप्नुयात् | कामिभिर्धनिभिश्चैव स्वमूर्धानञ्च मुक्तिदा || मन्त्रोद्धरमहं वक्ष्ये शृणुष्व कमलानने | शिवबीजं समुद्धृत्य वहिन्चन्द्रसमन्वितम् || द्वादशस्वरसंयुक्तं उद्धरेत् परमेश्वरि | बिन्दुनादसमायुक्तं वाग्भवं परिकीर्तितम् || स्थितिक्रमेण कथितं कामराजञ्च कथ्यते | ककारं चन्द्रबीजाढ्यं शिवबीजं तदुर्द्धकम् || इन्द्रबीजं ककारस्थं वह्निबीजं ततः परम् | रतिबिन्दुसमारूढं कामराजमिदं स्मृतम् || चन्द्रबीजं शिवादिस्थं वह्निबिन्दुविभूषितम् | (प्. ७२) मनुस्वरसमारूढं संसर्ग परिकीर्तितम् || एषा श्रीं सर्वविद्यानां प्रधानं परिकीर्तितम् | नवनीतं यथा दध्नो द्विपादोर्ब्राह्मणो यथा || नदीनाञ्च यथा गङ्गा देवानाञ्च यथा हरिः | वैष्णवानां यथा श्म्भुस्तथेयं परिकीर्तिता || पूर्ववन्न्यासवर्नं स्यात् पूर्ववत् पूजनं स्मृतम् | सुन्दर्या इव पूजा स्यात् कथिता पद्मयोनिना || नवयोन्यात्मके यन्त्रे रत्यादिशक्तिसंयुते | ब्रह्माद्या मातरः पूज्या पत्राणां विवरे पुनः || भूपुरे लोकपालाश्च तदस्त्राणि च तद्वहिः | पूजयेत् परया भक्त्या सुन्दरिवद्वरानने || गुणैर्लक्षञ्च भैरव्याः पुरश्चरणमिरितिम् | लक्षत्रयं जपेन्मन्त्रं पुरश्चरणकर्मणि || रक्तवस्त्रपरीधानां नानालङ्कारभूषितां | पाशाङ्कुशौ वराभयौ धारयन्तीं यजेत् शिवाम् || यथाचारेण त्वां देवीं सुन्दरीवत् प्रपूजयेत् | मुण्डमालां परिधानामरक्तनयनां शिवाम् || सदाशिवमहाप्रेतहृअदयोपरि संस्थिताम् | त्रिभङ्गस्थानसंस्थानां पीनोन्नतपयोधराम् || अनङ्गाद्या महाशक्तिः सेवितां सुमनोहराम् | यथाचारेण तां देवीं सुन्दरीवत् प्रपूजयेत् || वलिदानैर्विना होमैर्विना ब्राह्मणभोजनैः | पूजयेद्भैरवीं देवीं त्रिपुरामपि गोपिताम् || वाग्भवं बिन्दुसंयुक्तं लोहितेन लङेयुतम् | श्रीकण्ठोलोहितन लङेयुतं परिकीर्तयेत् || सदाशिवमहाप्रेत हेसौ ङेयुतं परिकल्पयेत् | ओंकाराद्या नमोऽन्तञ्च हृदेद्देव्यासनन्ततः || स्वयमासदानेन कथितं पद्मयोनिना वाग्भवं त्रिपुरादेवी विद्महेपदमुद्धरेत् | कामेश्वरीं समुद्धृत्या वदेद्धीमहितत् परम् | तन्नः क्लिन्नः समुद्धृत्य तदा ब्रूयत् प्रचोदयात् || गायत्रीयं समाख्याता त्रिपुरा पूजने प्रिये | वाग्भवाद्यां जपेद्वापि कामाद्यां वा जपेत् सदा || चतुर्लक्षं पुरश्चर्यां प्रजपेत् सततं मनुम् | गायत्रीमजपित्वा च यदि विद्यां जपेत् सुधीः || सिद्धिर्न जायते विद्या कल्पकोटि शतैरपि | सर्वासां मन्त्रविद्यानां गायत्री परिकीर्तिता || अथ वक्ष्ये महेशानि कवचं सर्वकामदं | अस्याः प्रसादमात्रेण भवेद् देवो न संशयः || ऋषिः स्याद् दक्षिणा मूर्तिश्छन्दः पंक्तिरुदाहृतम् | गन्धर्वोऽत्र सुरः प्रोक्तः सर्वतन्त्रसमन्वितः || सर्वेषां मन्त्रवर्णानां ऋषिन्यासं पुराकृतम् | श्री ईश्वर उवाच | अथोच्यते महाविद्या भैरवी त्रिपुरान्विता | यष्या विद्या प्रसादाच्च चतुर्वर्गं लभेन्नरः || हकारे पातु मां देवी सर्वत्र हरवल्लभा | चन्द्रबीजस्थिता पातु सावित्री ज्ञानरूपिणी || बुद्धिरूपा सदा पातु मायारेफसमुद्भवा | ऐकारे वाग्भवी पातु देवीवाक्यविशुद्धये || (प्. ७२ब्) बिन्दुनादस्वरूपा मां पातु देवी उमा प्रिया | एभिर्वर्णैर्महादेवी वाग्भवी पातुमस्तके || हकारे व्योमरूपा सा देवी पातु शिवप्रिया | चन्द्रबीजस्वरूपा मां पातु चान्द्रि शिवप्रिया || ककारे पातु मां देवी कामिनी कामदायिनी | लकारे पातु मां देवी इन्द्रानी शत्रुनाशिनी || वह्निरूपा सदा पातु वकारे शत्रुनाशिनी | कलास्वरस्वरूपा मां इकारे पातु सर्वदा || बिन्दुनादस्वरूपा मां पातु त्रिभवमोचनी | एतैर्वलैर्महामाया कामबीजप्रियावतु || औकारे पातु मां देवी मनुवंशविवर्द्धिनी | बिन्दुनादस्वरूपा मां हरदेहसमाश्रया || सर्वान्ते पातु देवेशी सर्वासुरविनाशिनी | एतैर्वर्णैः सदा पातु सर्वाङ्गे हरसुन्दरी || शक्तिरूपा महामाया सर्वशक्तिषु पातु माम् | भैरवीरूपमाश्रित्य पार्श्वयुग्मे सदावतु || दक्षिणामुर्तिर्मां पातु ऋषिः सर्वत्र मस्तके | पंक्तिश्छन्दःस्वरूपा मां पातु देवी शिवप्रिया || सुरागार्धर्वरूपा च पातु त्रिपुरभैरवी | जिह्वायां सर्वदा पातु सर्ववाक्यविशुद्धये || मुलाधारे सदा पातु रतिरूपा महेश्वरी | हृदये पातु मां देवी प्रीतिरूपा भयापहा || भ्रूयोर्मध्ये सदा पातु देवीनाम्ना मनोभवा | कर्णयुग्मे सदापातु अमृतेशी हरप्रिया || कण्ठदेशे महेशानि विश्वगेशी सदावतु | वक्त्रे मां पातु देवेशी कुमारयोगयोगतः || तत्पुरुष-मकरध्वजभ्यां हृदये पातु सर्वदा | सर्वत्र भैरवी पातु देवी विघ्नकुले सदा || कन्दर्पघोररूपाभ्यां महामाया सदावतु | काममन्मथ-युग्माभ्यां गृहे पातु महेश्वरी || पादयुग्मे महेशानि पातु विघ्नविनाशिनी | शत्रु मध्ये सदा पातु देवीवंऽसविवर्द्धिनी || सद्योजातकामदेवाभ्यां सर्वत्र पातु भैरवी | वाणरूपा सदा द्राविणी सर्वशङ्कटे || क्षोभिनी पातु मां देवी सर्वत्र क्षोभनाशिनी | आकर्षिणी सदा पातु माया सर्वभयापहा || संमोहिनी सदा पातु शत्रु मध्ये महेश्वरी | सुभगा पातु भवने देवी सौभाग्यवर्द्धिनी || भगरूपा महामाया भगे मां सर्वदावतु | भगसर्पिणी सदा पातु व्यवहारे महेश्वरी || भगमालिनी सदा पातु राजद्वारे च शङ्कटे | अनङ्गा कुसुमा पातु जलमध्ये भयापहा || अनङ्गा पातु मां देवी दुर्गे दुर्गतिनाशिनी | अनङ्गमेखला देवी पर्वते पातु मां सदा || अनङ्गामादना पातु प्रान्तरे हरवल्लभा | इच्छारूपा सदा पातु सर्वत्र वेदवादके || ज्ञानरूपा महामाया शास्त्रे वादे सदावतु | क्रियारूपा सदा पातु महेशी धर्मकर्मसु || कामिनी पातु मां देवी सर्वकामसमृद्धिदा | मां पातु सर्वकार्येषु देवी कामप्रदायिनी || (प्. ७३) रतिर्मां पातु देवेशि राजद्वारे च शङ्कटे | रतिप्रिया महामाया योषितां सङ्गमेऽवतु || आनन्दा पातु मां देवी सर्वत्र भयनाशिनी | मनोन्मनी सदा पातु व्यवहारे सुरेश्वरी || सदाशिवप्रिया पातु देवी वाग्भवरूपिणी | योगमार्गे सदा ध्येया यागध्येया सदावतु || उन्मत्तरूपा मां पातु श्मशाने विघ्ननाशिनी | कपालिनी पातु मां देवी सर्वत्र भयनाशिनी || भीषणा पातु मां देवी सर्वकर्मषु सर्वदा | संहारिणी सदा पातु विवादे शत्रुमध्यतः || ब्रह्माणी पातु मां देवी स्वर्गे ब्रह्मस्वरूपिणी | महेश्वरी महामाया प्रान्तरे सर्वदावतु || कौमारी पातु मां देवी क्रीडायां शम्भुवल्लभा | जलमध्ये महेशानी वाराही पातु मां सदा || इन्द्राणी पातु मां देवी देवानां भयनाशिनी | चामुण्डा पातु मां देवी अरण्ये भयनाशिनी || अरुणा भैरवी देवी गृहे रक्षतु मां सदा | मुण्डमाला धरा देवी क्षुधायां पातु सर्वदा || चतुर्भुजा महामाया पाताले पातु मां सदा | त्रिनेत्रा मां सदा पातु वह्निमध्ये भयापहा || नानालङ्कारसंयुक्ता पातु सर्वभयापहा | शवरूपमहादेवहृदयस्था सदावतु || सर्वाङ्गं सुन्दरी पातु सर्वाङ्गे त्रिपुरात्मिका | त्रिपुरा सर्वदा पातु भैरवी सर्वदावतु || इति ते कथितं दिव्यं कवचं सर्वकामदम् | भूतिकरं भीतिहरं मृत्युहरं शान्तिकरम् || भवभञ्जनं सिद्धिकरं वृद्धिकरं अर्थकरम् | कवचस्य तु माहात्म्यं नाहं वर्षशतैरपि || शक्नोमि तु महेशानि वक्तुं तस्य फलञ्च यत् | पुजाजपस्तुतिफलं कवचेन लभेन्नरः || शठाय भक्तिहीनाय निन्दकाय महेश्वरी | उनाङ्गे व्यतिरिक्ताङ्गे त्रुरे मिथ्याभिभाषणे || न स्तवं दर्शयेद् दिव्यं सन्दर्शा शिवहा भवेत् | यत्र तत्र न वक्तव्यं कवचं देवरूपिणम् || अशुचौ शुचौ वापि सर्वकालं पठेन्नरः | अणिमादिमहासिद्धि स्तस्य सेवा विधीयते || गोरोचनाकुङ्कुमेनण भूर्यपत्रे महेश्वरि | यावकै रक्तचन्दनैः स्वरम्भु कुसुमैरपि || लिखित्वा स्वर्णशलाकया मस्तके वा भूजेधरे | वर्तुलाकाररूपेण तस्य सिद्धिरचञ्चला || मस्तके वापि सव्ये वा दक्षिणे वा भूजेधरे | स स्नानात् सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः || कवचं यस्य देहीयं तस्य सिद्धिवदुरतः | निऽसायाम् विलिखेद् यस्तु शून्यावासे तथा गृहे || निशाभागे लिखेद् यन्त्रं शुचिर्भूत्वा महेश्वरी | आदितामङ्गलदिने गुरौ शुक्रे महेश्वरी || ध्यायेद् गुरुणा यन्त्रं सर्वसम्पत् करं शुभम् | अष्टम्यां वा नवम्यां वा चतुर्दश्यामथापि वा || निशायाम्तु लिखेद् यन्त्रं तस्य सिद्धिरचञ्चला | दशम्याञ्चापि षष्त्यां वा लिखेद् यत्नेन देशिकः || सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे | (प्. ७३) मीनराशौ गुरगते वृश्चिकस्थे शनिश्चरे || लिखित्वा धारयेद् यन्त्रमुत्तराभिमुखी भवान् | श्मशाने प्रान्तरे वापि शून्यावासे प्रयत्नतः || निशायान्तु लिखेद् यन्त्रं तस्य सिद्धिरचञ्चला | वादी मुकोभवेद् दृष्ट्वा राजाचारः समारभेत् || गर्वी खर्वो भवतोव सर्वबीज्जडतामियात् | वैश्यानरो भवेत् शीतः सर्वत्र जयतामियात् || कवचस्य च माहात्म्यं नहि शक्नोमि वेदितुम् | स्तवपूजा जपफलं कवचे गदितं मया || तस्मात् सर्वं प्रयत्नेत कवचं प्रपठेन्नरः | अचिराद्वाञ्छितं प्राप्य खेचरो भवति ध्रुवम् || पठति य इह मर्त्यो नितामार्द्रास्तरात्मा जपफलमनुमे यं लप्सतेऽसौ विधेयम् | स भवति पदमुच्चैः संपदां पादमाशु क्षितिपदमुकुट लक्ष्मीर्लक्ष्मीवान् स चिरायुः || इति शान्तिकवचं स्तोत्रं शङ्करेण च भाषितम् | नातःपरतरा विद्या नातः परतरो मनुः || नातः परतरा विद्या तीर्थं नातः परं तरम् | यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति || लयमेष्यति तत्सर्वं लयकामे महेश्वरी | नमामि त्रिपुरां देवीं भैरवीं भवमोचनीम् || सर्वसिद्धिकरं साक्षात् महापातकनाशनम् | अस्य श्रीत्रिपुरानामभैरवीसहस्रनामस्तोत्रस्य भगवान् शिव ऋषिः पंक्तिश्चन्द आद्या शक्तिर्भगवती त्रिपुरभैरवी देवता सर्वसमृद्धिसिद्धये विदियोगः | ओं त्रिपुराभैरवीशानी योगसिद्धिनिवासिनी | सर्वमन्त्रमयी देवी सर्वशक्तिफलप्रदा || सर्वाधारमयी देवी सर्वसम्पत् प्रदा शुभा | योगिनी योगमाता च योगसिद्धिप्रवर्तिनी || योगध्येया योगमाता योगायोगविलासिनी | लीला हेला तथा क्रीडा कालरूपप्रवर्तिनी || कालमाता कालरात्रिः काली कमलवासिनी | कमला कान्तिरूपा च कामराजेश्वरी क्रिया || कुहूः कपटरूपा च कपटा कपटाकृतिः | कुमदा चर्चिका कान्ता कालरात्रिः प्रिया सदा || घोररावा घोररूपा रणदा च घृणा कृपा | घर्घरा घोरिणी घुर्णा घोरनादप्रिया सदा || घोराकारा च भावाढ्या भाव्या घर्घप्रदा मतिः | घण्टा घर्घरनादा च घण्टानादप्रिया सदा || सुक्ष्मा सुक्ष्मतरा स्थुला अतिस्थुला महामतिः | क्षामा भावा तथा भीमा भीमनादप्रवर्तिनी || भ्रमरूपा भयहरा भयदा भयनाशिनी | श्मशानवासिनी देवी श्मशानालयवासिनी || शवासना शवाहारा शवदेहा शिवाशिवा | कण्ठदेशे शवाहारा शवकङ्कणमोहिनी || दन्तुरा सुदती सत्याऽसत्या शङ्केतवासिनी | सत्यदेहा सत्यहरा सत्यवादविनाशिनी || सत्याशया सत्यसंज्ञा सङ्गासङ्गविहारिणी | असङ्गासङ्गरहिता सुषुम्ना सङ्गमोहिनी || माया मातर्महामाया महामदविलासिनी | (प्. ७४) मद्यपाना मदारता मद्यनिन्दकनाशिनी || गलद्रुधिरमाला च सुक्कद्वयनिवासिनी | सदा नद्यमांसपाशी महामद्या सुमांसका || मांसहरा मांसधरा मांसाशी मांसभक्षणा | रक्तपाना रक्तरुची रक्तास्या रक्तलोचना || रक्तहरा रक्तप्रिया रक्तनिन्दकनाशिनी | रक्तपाना रक्तरुचि रक्तदेहा सुरक्तका || स्वयम्भुकुसुमा स्वच्छा स्वयम्भुकुसुमात्सुका | स्वयम्भुकुसुमाहारा स्वयम्भुनिन्दनाशिनी || स्वयम्भुपुष्पकप्रीता स्वयम्भुजन्मसम्भवा | स्वयम्भुपुष्पकहरा स्वयम्भुनिन्दकान्तका || रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका | रक्तचन्दनसिक्ताङ्गी रक्तचन्दनवन्दका || मत्स्या मत्स्यप्रिया माला मत्स्यभक्षा महोदया | मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी || किङ्कराक्षी तथा क्रूरा क्रूरासत्यविनाशिनी | क्रूरान्ता कुलिशाङ्गी च वज्राङ्गी वज्रसम्भवा || वज्रदेहा वज्रहा * (?) वज्रकङ्कालवासिनी | निम्ननाभिभी *(?)इहरा भयदा भयहारिणी || भयप्रदा भयाभीमा सुभीमा भीमनादिनी | सुन्दरीशोभना सत्या क्षेमा क्षेमङ्करी तथा || सिन्दूराञ्जितसीमन्ता सिन्दूरसदृशाकृतिः | मुक्तारञ्जितनासा च सुनासा निम्ननासिका || स्वरा लम्बोदरी दीर्घा दीर्घघोणा महोत्कटा | कुटिला (चार्ववा) चण्डी चण्डनाभिचण्डिका || अतिचण्डा प्रचण्डा च महाचण्डा चण्डवेगिनी | चण्डाली चण्डिका चाटुः शब्दरूपा चलाचमु || चम्पा चम्पावती चौक्ष्ना तीक्ष्णप्रिया क्षितिः | जलदा जगदा योगा जगदानन्दकारिणी || जगद्वन्द्या जगन्माता जगती जगतः क्षमा | जयो जया जनित्री च जयनी जयदा तथा || जननी च जगद्धात्री जयाख्या जयरूपिणी | जगन्माता जगन्मान्या जया श्रीजयकारिणी || जयनी जयमाता च जया च विजया जना | ख्ड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी || खड्गरूपा खड्गधरा खड्गाङ्गी खड्गवल्लभा | खड्गदा खड्गमाया च खड्गदेहसमुद्भवा || खड्गा खड्गधरा खेला खड्गिनी खड्गमुण्डली | शङ्खिनी चापिनी देवी वज्रिणी सुषणी मतिः || रागिणी भिन्दिपाला च पाशी च अङ्कुशी शवी | धनुषी टङ्किनी चर्मी दन्ती च कर्पमालिका || मुद्गरी हल्लरूपा च तूणी रणनिवासिनी | तृणालया तृणहरा तृणसम्भवरूपिणी || अतृणा तृणरूपा च तूलाङ्गी तूलवल्लभा | नानास्त्रधारिणी देवी नाना अस्त्रसमुद्भवा || लक्षालक्षहरा लाभा लाभदा लाभवासिनी | लाभहरा लाभकरा लाभिनी लाभरूपिणी || धरित्री धनदा धन्या धन्यरूपा धरा धनुः | धन्विनी धनुःशब्दा च धनुर्मानी धनीधुना || धुरशब्दा धनामान्या धन्याङ्गी धननाशिनी | धनुहा धनलाभश्च धनलभ्या महाधनुः || सुशान्ता शान्तरूपा च श्वासमार्गनिवासिनी | गगणा गणसेव्या च गमनागमवर्द्धिनी || गम्यदा गमनासी च गदहा गदवर्द्धिनी | (प्. ७४ब्) स्थैर्या च स्थैर्यनाशी च स्थैर्यान्तकारिणी कला || दात्री च्छत्री प्रिया प्रेया प्रियदा प्रियवर्णिनी | प्रियहा प्रियभव्या च प्रियप्रेमा प्रियातनुः || प्रियदा प्रियभव्या च प्रियस्य भवने स्थिता | सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्य वर्द्धिनी || चञ्चला चपला चाला चपलाङ्गनिवासिनी | गौरी काली तथा छिन्ना माया मान्या महाप्रभा || सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी | त्रिपुरनाशिनी देवी त्रिपुरप्राणनाशिनी || भैरवी भैरवस्था च भैरवस्य प्रियातनुः | भैरवाङ्गी च भैरवकरी भैरवप्रियवल्लभा || सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी | त्रिपुरनाशिनी देवी त्रिपुरप्राणनाशिनी || भैरवी भैरवस्था च भैरवस्य प्रियातनुः | भैरवाङ्गी च भैरवकरी भैरवप्रियवल्लभा || कालदा कालरात्रिश्च तथा कात्यायनी क्रिया | क्रियहा क्रियदा क्रैव्या क्रियप्राणक्रिया कथा || ह्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः | प्रकृतिः पुरुषश्चैव पुत्राय पुन्नाम पुरुषाकृतिः || पुरुषाङ्गी पूरुषी च तथा प्रकृतिरूपधृक् | परमपुरुषश्चैव रमा नारायणी सतिः || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा || भैरवी चैव माहेशी कृष्णा कात्यायनीति च | राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा || हंसिनी राकिनी भीता गन्धर्वी गन्धवाहना | केकरी कोटराक्षी च निर्मांसा शुष्कमांसिका || ललज्जिह्वा सुजिह्वा च वाणदा वाणदायिनी | चन्द्रा चन्द्रप्रभा चन्द्री चन्द्रकान्तिषु तत्परा || अमृता मानदा पूषा तुष्टिः पुष्टिः रतिर्धृतिः | शशिनी चन्द्रकान्तिर्ज्योत्स्ना श्रीः प्रीतिवर्गदा || पूर्णा पूर्णामृता कल्पलतिका कल्पदाहना | सुकान्त्या कल्पहस्ता च कल्पक्षयकरी तनुः || कल्पाख्या कल्पभव्या च कल्पवन्धकवन्धका | शुचीमूखी प्रेतमुखी उल्कामुखी महामुखी || सूर्या सूर्य प्रभा सूर्यसूर्यमण्डलसंस्थिता | सूर्यकान्तिः * * * * सूर्याख्या सूर्यभावना || तपनी तापिनी धूम्रा मरीचिर्जालिनी रुचिः | सुनन्दा भोगदा विश्वा बोधिनी धारिणी क्षमा || युगाद्या युगहा युग्या योग्यदा योग्यवर्द्धिनी | वह्निमण्डलमध्यस्था वह्निमण्डलवासिनी || वह्निमण्डलरूपा च वह्निमण्डलसंज्ञका | वह्निप्रिया वह्निवर्गा वह्न्याहारा सुवर्तिनी || वह्नितेजो वह्निवाणा वह्निदा वह्निनाशिनी | वह्निक्रिया वह्निभुजा काला वह्नौ स्थिता सदा || धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा || नानातेजस्विनी देवी परं ब्रह्मकुटुम्बिनी | ज्योतिर्ब्रह्ममयी देवी परंब्रह्मस्वरूपिणी || पुरुषाऽन्गी पुरुषी च पुरुषस्य प्रियातनुः | पुन्नान्नी पुण्यमान्या च पुरुषाङ्गविवर्द्धिनी || (प्. ७५) अजन्मा च अपापा च अनना औ *(?)डत्तथा | नक्षत्रप्राणहर्ता च नक्षत्रालक्षवन्दका || लक्षमान्या लक्षहरा लक्षा लक्षस्वरूपिणी | पुरुपाङ्गी पुरुणी च पुरुषस्य कला सदा || सुपुष्पा पुष्पक पाणा पुष्पहा पुष्पवल्लभा | पुष्पप्रिया पुष्पहरा पुष्पवन्धकवन्दका || पुष्पमान्या च पुष्पाणिकनाशिनी | नक्षत्राणी सुनक्षत्री नक्षत्रार्हा महोदया || महामाला महामान्या महती महत्पूजका | महार्हा माननीया च महाकालेश्वरी महा || महास्या वन्दनीया च महालङ्घनिवासिनी | महाशङ्खेश्वरी मीना मत्स्यगन्धा महोदरी || लम्बोदरी च लम्बोष्ठी नम्रनिम्नतनुदरी | बिम्बोष्ठलक्षनासा च लम्बा घोणा सुलम्बका || अतिलम्बा महालम्बा सुलम्बा लम्बवासिनी | लम्बहा च सुलम्बी च लम्बस्था लम्बपूजका || विलम्बा च महालम्बा सुलम्बा च वृहत्तनुः | चण्डघण्टा महाघण्टा घण्टानादप्रिया सदा || वाद्यप्रिया वाद्यरता सुराद्या वाद्यनाशिनी | रमा रमा च रामा च रमणीया सुभाविनी || सुरम्या रम्यदा रम्भा रम्भोरु रामवलाभा | रामप्रिया रामकरा रामाङ्गी रमणीरतिः || रतिप्रिया रतिमती रतिसेव्या रतिप्रिया | सुरतिः कुरतिः शोभा विशोभा शोभनाशिनी || सुशोभा च महाशोभा अतिशोभा सुभागिनी | लोभनीया महालोभा सुलोभा लोभवन्दका || लोभाङ्गी लोभवन्ध्या च लोभहा लोभनाशका | लोभप्रिया महालोभा लोभनिन्दकनिन्दका || लोभाङ्गवासिनी गन्धविगन्धा गन्धनाशिनी | गन्धसङ्गी गन्धपूज्या सुगन्ध्य प्रेमगन्धका || दुर्गन्धा पूतिगन्धा च अतिगन्धा सुगन्धिका | महागन्धा सुगन्धार्हा गन्धनाशकनाशिनी || पद्मा पद्मायती प्रेम्ना पद्मगन्धा सुगन्धिका | पद्मालया पद्मकरा पद्मवाहकवाहना || पद्मस्था पद्मवन्ध्या च पद्मक्रीडा सुपद्मिका | पद्मान्तकापद्मवहा पद्मप्रेमप्रियङ्करी || पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना | रक्तोत्पलधरा देवी रक्तोत्पलप्रिया सदा || रक्तोर्पलसुगन्धा च रक्तोत्पलनिवासिनी | रक्तोत्पलगृहापाला रक्तोत्पलमनोहरा || रक्तौत्पलनेत्रा च रक्तौत्पलरूपधृक् | नारी नारायणीशाना नारायणगृहप्रिया || नारायणस्य देहस्था नारायणमनोरमा | नारायणस्य देहस्था नारायणमनःस्थिता || नारायणाङ्गसम्भुता नारायणप्रियातनुः | वैष्णवी विष्णुपूज्या च वैष्णवांशनिवानिनी || विष्णुपूजकपूज्या च वैष्णवांशस्थितातनुः | हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा || संहारी हरदेहस्था हरपूजनतत्परा | हरदेहा समुद्भूता हराङ्गवासिनी कुहूः || हरपूजकपूज्या च हरवन्दनतत्परा | हरदेहसमुद्भूता हरक्रीडा सदागतिः || सुगङ्गा सङ्गरहिता असङ्गा सङ्गनाशिनी | (प्. ७५ब्) निर्ज *(?) विजना दुर्गा दुर्गादेहविवर्द्धिनी || दुर्गस्था दुर्गरूपा च दुर्गदेहनिवासिनी | वायुक्ता * वायुकरा वायुपूजकपूजका || वायुरूपधरा देवी सुसुम्नामार्गगामिनी | देहस्था देहरूपा च देहध्येया सुदेहका || नाडीरूपा नाडीस्थाना नाडिनी नाडिकानना | इडा च पिङ्गला चैव सुसुम्नान्तरवासिनी || सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् | अमृतेशी महेशानि शृङ्गाराङ्गनिवासिनी || उत्पत्तिस्थितिसंहर्त्री प्रलयापदनाशिनी | महाप्रलययुक्त्या च सृष्टिसंहारकारिणी || स्वधा स्वाहा व्यवहारा हव्याहव्यप्रियः सदा | हव्यस्था हव्यभक्ष्या च हव्यदेहसमुद्भवा || हव्यक्रीडनका धेनुःस्वरूपा रूपसम्भवा | सुरभी नन्दिनी पुण्या यज्ञाङ्गी यज्ञसम्भवा || यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी | अयोनिजा सती सत्या सुमती कुलटा तनुः || अहल्या गौतमी चास्या विदेहा देहनाशिनी | गान्धारी द्रौपदी दूती शिवदूती शिवप्रिया || त्रिपुरेशी पौर्णमासी अमावाश्या चतुर्दशी | पञ्चमी च तथा षष्ठी नवमी चाष्टमी तथा || एकादशी द्वादशी च वाररूपा भयप्रदा | संक्रान्त्या मासरूपा च ऋतुरूपा च ऋतुप्रिया || परमात्मा द्विरूपा च घण्टिका दण्डरूपधृक् | यामरूपा महाकाली सन्ध्या सन्ध्याङ्गनाशिनी || त्रियामा यामरूपा च यमकन्या यमी सदा | मातङ्गी कूलरूपा च कूलीना कुलनाशिनी || कुलकान्ता कृषाकुम्भा कुम्भदेहा विवर्द्धिका | त्वरिता कुलवताम्बा अदूरा अरूणा उषा || नदीः सागरगाः शान्ति शान्तिरूपा सुशान्तिका | आशा तृष्णा क्षुधा क्षोभा क्षोभरूपनिवासिनी || नदी सागरगा शान्ति श्रुतिः स्मृतिर्द्युतिर्मही | दिवारात्रिः पञ्चभुतदेहाश्चैव सुदेहकाः || तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी | वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सकुलिका || प्रत्यङ्गिरा अपराजिता अजिता जयनाशिनी | जया च विजया चैव महिषासुरघातिनी || मधुकैटभहन्त्री च चण्डमुण्दविनाशिनी | निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी || काशी काल्यनिवासी च मथुरा पार्वती परा | अपर्णा चण्डिका देवी मृढनी अम्बिका कला || शुक्लाः कृष्णा रक्तवर्णा शारदेन्दुकलाकृती | रूक्मिणी राधिका चैव भैरव्याः परिकीर्तिताः || अष्टाधिकसहस्रन्तु देव्या नामानुकीर्तिनात् | महापातकयुक्तोऽपि मुच्यते नात्र संशयः || ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | महापातककोटिश्च तथैव चोपपातकः || गालवोक्तेन स्तोत्रेण गर्वं नश्यति तत्क्षणात् | सम्यग्वा श्लोकमेकं वा प्रपठन् वा स्मरन्नपि || पठेद्वा पाठयेद्वापि सद्यो मुच्यते वन्धनात् | राजद्वारे भये दुर्गे शङ्कटे गिरिदुर्गमे || (प्. ७६) प्रान्तरे पर्वते वापि लोकानां वा महेश्वरि | वह्निदुर्गे भयप्राप्ते सिंहव्याघ्रभयाकुले || प्रपठन् वा स्मरन्मर्त्यः सर्वशङ्कटनाशकः | अपुत्रो लभते पुत्रं दरिद्रो धनवान् सुधीः || सर्वशास्त्रपरो विप्रः सर्वयज्ञपलं लभेत् | अग्नि-वायु-जलस्तम्भं गतिस्तम्भं विवस्वतः || मारणद्वेषणञ्चैव तथोच्चाटं महेश्वरि | वशीकरणमत्रैव जायते सर्वसिद्धयः || प्रातःकाले शुचिर्भूत्वा मध्याह्ने च निशामुखे | पठेद्वा पाठरेद्वापि सर्वकामफलं लभेत् || स्त्रिणां वामकरे धार्यं पुंसां दक्षकरे तथा | आदितामङ्गलदिने गुरौ वापि महेश्वरि || शनैश्चरे लिखेद्वापि सर्वसिद्धिफलं लभेत् | प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके || शून्यावासे गृहे चैव लिखेद्यत्नेन देशिकः | संहराशौ गुरुगते कर्कटस्थे दिवाकरे || मीनराशौ गुरु *(?) ते लिखेद् यत्नेन साधकः | रजःस्वला भगं दृष्ट्वा तत्रस्थो वा लिखेत् सदा || स्वयम्भुकुसुमैः शुक्रैः सुगन्धिगन्धचन्दनैः | मृगनाभिमृगमदैर्विलिखेद् यत्नपूर्वकम् || लिखित्वा च पठित्वा च धारयेद्यन्द्रमनन्यधीः | कुमारीं पूजयित्वा च नार्यश्चैव विभूषिताः || पूजयित्वा स्वकुसुमैर्गन्धचन्दनवस्त्रकैः | सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः || अथवा पूजयेद् देवाः कुमर्या दशमावधि | सर्वाभीष्टफलं तत्र लभेत तत्क्षणादपि || नात्रसिद्ध्याद्यापेक्षान्ति न च मित्रारिदूषणम् | न वित्तव्ययवाहूल्यं जपमात्रेण सिद्धिदा || सर्वदा सर्वकालेषु षट्सहस्रप्रणामतः | वलिं दद्याद्विधानेन प्रत्यहं पूजयेत् शिवा || स्वयम्भुकुसुमैः शुक्रैर्वलिदानं दिवानिऽसम् | पूजयेत् पार्वतीं देवीं भैरववीं त्रिपुरान्विताम् || ब्राह्मणान् भोजयेन्नित्यं दशकं द्वादशं तथा | हतराज्यं समासाद्यं तथा ना(?)सचतुष्ठये || दीर्घरोगात् प्रमुच्येत पञ्चमे कविराड भवेत् | सप्तमे खेचरत्वञ्च अष्टमे च वृहस्पतिः || नवमे सर्वसिद्धिञ्च दशमे लोकपूजकः | एकादशे राजवश्यो द्वादशे भूपूरन्दरः || वारमेकं पठेद् यस्तु प्राप्नोति पूजनं फलम् | सम्यक् वा श्लोकमेकं वा यः पठेत् प्रयतः शुचिः || स पूजाफलमाप्नोति भैरवेण च भाषितम् | आयुष्मान् प्रीतियोगे च ब्रह्मेन्द्रे च विशेषतः || सौभाग्यशोभने वापि सिद्धयोगे महेश्वरी | पञ्चम्यां वा तथा षष्ठी यत्र कुत्रापि तिष्ठति || तत्र शङ्का न विद्येत न च नार्यादिदुषणम् | किमत्र वहूना देवी सर्वाभीष्टपह्लं लभेत् || इति श्रीविश्वसारतन्त्रे श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् || (प्. ७६ब्) अथ वक्ष्ये महेशानि विद्यां महिषमर्दिनीम् | पुत्रार्थी लभते पुत्रं राज्यार्थी राज्यमाप्नुयात् || कामानवाप्नुयात् कामी सर्वसिद्धिफलं लभेत् | महिषगवषमेषैः कुकुटैर्गन्धदूपैः शवपशुपुष्पैर्दुग्धदीपैश्च विल्वैः | शाकैः काकैश्च पेचैर्मदनरणविनाचोष्मैर्गुञ्जैर्गुञ्जारिणीभिर्मधुमदमदिरासोदरे रौद्रपुष्पैर्लवङ्गवकुलाकोटैधूस्तैर्वर्वरनाशनैः | अशोकपाटलैः कुन्दैर्नरः कुरुवकैस्तथा | जलजैः स्थलजैः पद्मैस्त्रिमध्वाक्तैर्विशेषतः || आमिषैरुरुमालौश्च ओच्रैः कुरुवकैस्तथा | शल्वकैर्वानरैरश्वैर्मुगनाभिमृगैस्तथा || शूकरैरक्तपुष्पैश्च रक्तशाकैश्च पायसैः | नवनातैर्गुडैश्चैव तथा गुडविकारजैः || प्रत्यहं होमयेद् देवीं कुमारीं पूजयेत् सदा | कुमारीं तोषयेन्नित्यं तेन सर्वं भवेत् सदा || शिवावलिं सदा दद्यात् गोमांसं गोपशुस्तथा | प्रत्यहं पूजयेद् देवीं गोमांसे नष्टासक्थकैः || गन्धैर्द्रष्टैस्तथा सिक्थैः श्मशाने प्रान्तरे सदा | शवोपरि चितास्थो वा चितायां वारुणीमुखे || पूजयेत् सततं देवीं विद्यां महिषमर्दिनीम् | शवोपरि चितास्थो वा शययास्थो मैथुमेऽपि वा || अशुचौ वा शुचौ वापि यथास्थाने च देशिकः | पूर्ववन्न्यासयोगेन यजेद् विद्यामनन्यधीः || स्वयम्भुकुसुमैर्देवीं पूजयेद्भक्तियोगतः | यन्त्रं कृत्वा विशेषेण तत्र तां पूजयेत् शिवाम् || हविषाभुगजपेद्विद्यां भक्त्या च साधकोत्तमः | जलवायवग्निसूर्येन्दुस्तम्भश्च नात्र संशयः || वादिनो निष्प्रभा यान्ति दृष्ट्वा साधकसत्तमम् | विपूणां मारणञ्चैव सप्ताहाज्जायतेऽचिरात् || रोगानि नाशमायान्ति पक्षवासरके प्रिये | वहूना किमिहोक्तेन सर्वाभीष्टफलं लभेत् || अथोच्यते मन्त्रोद्धारं शृणुष्व कमलानने | स्पर्शेषु यद्विंशतिपूर्वं तदा हि देवेशि वदेद्विधिज्ञः || महिषमर्दिनीपदमुद्धृत्य तत्परं स्वाहापदं तत्र नियोजयेत् परे | अष्टाक्षरी समाख्यात विद्या महिषमर्दिनी || प्रणवाद्यां जपेद् विद्यां महामहिषमर्दिनीम् | प्रणवाद्यां जपेद् विद्यां कामाद्यां वा जपेत् सदा || मायाद्यां कूर्चबीजाद्यां * * * * * वा जपेत् सदा | वधुबीजादिकां वापि कवचाद्यां जपेत् सदा || विना बीजैर्महाविद्या निर्बीजा परिकीर्तिता | सर्वत्र सर्वकालेषु कामाद्यां प्रजेपेत् सुधीः || स कामः कामबीजाद्यां जपेन्महिषमर्दिनीम् | वाग्भवाद्यां जपेत् तान्तु देवी वाक्यविशुद्धये || दशाक्षरी सदा जप्या स्तुत्या सेव्या दशाक्षरी | दशाक्षरी समो नास्ति विद्या त्रिभुवनप्रिये || पुटितं बीजयुग्मे तु युग्मे युग्मकदेशके | प्रणवञ्च तथा माया भवेद् विद्या पुनर्दश || एवं वहूविधा विद्या तन्त्रे तन्ते निरूपिता | (प्. ७७) अतः परं महाविद्या त्रैलोक्योऽपि च दुर्लभा || नष्टे सृष्टौ महादेवी नष्टे स्थावररजङ्गमे | एकीभूते च ब्रह्माण्डे पुरा महिषपीडिते || सुन्दर्या देहसम्भूता विद्या महिषमर्दिनी | दानवानां विनाशाय नागानाञ्च महेश्वरी || विनाशाय समुद्भूता ये चापि दुष्टबुद्धयः | रक्षिता सर्वसत्वानां नाम्ना महिषमर्दिनी || अस्या ध्यानं महेशानि कथ्यते शृणु पार्वति | त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् || जटाजूटसमायुक्ता मर्द्धेन्दुकृतशेखराम् | नीलमेघप्रभां श्यामां मणिकुण्डलमण्डिताम् || त्रिनेत्राष्टभुजां देवीं वज्रशङ्खकराम्बुजाम् | कृपाणखेटकं वाणं शूलपाशाङ्कुशं तथा || धनुः शरांश्च दधतीं सिंहस्कन्धनिसेदुषीम् | किञ्चिदूर्द्धं तथा वाममङ्गुष्ठं महिषोपरि || अर्द्धनिष्क्रान्तं तं देहं शूलेन निहतं तथा | कर्पूरशकलोन्मिश्रताम्बूलचर्चिताननाम् || नानालङ्कारसंयुक्तां नागयज्ञोपवीतिनाम् | नागहाररतोपेतां महाशक्तिपराक्रमाम् || कदलीललितस्तम्भयुग्मयुग्मसुशोभनाम् | एवं ध्यात्वा यजेद् देवीं नाम्ना महिषमर्दिनीम् || मन्त्रन्यासं ततः कुर्याद्विधिनानेन देशिकः | महिषहिंसिके हूं हृदयं परिकीर्तितम् || महिषशत्रोर्हूं फट् शिरसि परिकीर्तितम् | महिषहिंसाय द्वन्द्वं शिखायां विन्यसेत् पुनः || हां महिषहनयुग्मञ्च कीर्तितं कवचं नेत्रयुग्ममुदाहृतम् | महिषं छेदयद्वन्द्वं महिषञ्च वदद्वयम् || मारय द्वितयं चोक्त्वा कुट्टयद्वितयं पुनः | हूं फट् शब्दं समुचार्य सर्वाङ्गं विन्यसेत् पुनः || एवं विन्यस्य विधिना कुर्यादासनमन्त्रकम् | प्रणवं कवचद्वन्द्वं मायालज्जाद्वयं पुनः || वज्रनखदंष्ट्रायुधं ङेन्तं सिंहासनं तथा | कवचास्त्रसमायुक्तं हृदयान्ते समर्पयेत् || अस्यक्तोसनमन्तोऽयं कथितं पद्मयोनिना | वलिदानमिदं मन्त्रं शृणुष्व कमलानने || एहि एहि पदद्वन्द्वं गृह्न गृह्न पदद्वयम् | मदीम्नञ्च वलिं देवि लुलापकपदद्वयम् || साधकद्वितयं ब्रूयात् खादयद्वितयं पुनः | सर्वसिद्धिपदं देहि ततः स्वाहा पदं वदेत् || बलिदानमिदं मन्त्रं मर्द्धिन्याः परिकीर्तितम् || अथ यन्त्रं प्रवक्ष्यामि सर्वसम्पत् प्रदं शुभम् | त्रिकोणं विन्यसेत् पूर्वं नवकोणं ततः परम् || रजः सत्त्वतमो रेखा योनिमण्डलमण्डितम् | अष्टपत्रं महापद्मं सकिञ्जल्कसमन्वितम् || मृणालङ्कुलरेखा च भूधरं शूलसंयुतम् | अर्द्धचन्द्रं धनुः स्थानं शरञ्च विधिना क्षिपेत् || नानास्त्रसंयुतं यन्त्रं कुर्याच्च विधिनामुना | अथ पूजाङ्गता देव्यः कथ्यन्ते शृणु पार्वति | दुर्गा आर्या प्रभा चैव कणकख्या च कृत्तिका || अभया च इमाः प्रोक्ताः षट्कोणे पूजयेत् क्रमात् | (प्. ७७ब्) सर्वा श्यामा असिकरा मद्विभ्रमविह्वला || अष्टपत्रे इमाः पूज्याः शृणु देवि हरप्रिये | प्रभा माया जया सुक्ष्मा विशुद्धा नन्दिनी तथा || सुप्रभा विज्ञेया ज्ञेया पूजयेद्विधिनामुना | प्रणवं पूर्वमुच्चार्य जातवेदसे वदेत् पुनः || शूलवामपदं ब्रूयात् सोममराती ततो वदेत् | निदहातिपदं ब्रूयात् वेदं सनपदं पुनः || पविसदतु पदं ब्रूयात् दुर्गानि च पदं पुनः | विश्वानावेव सिन्धुञ्च दुरितात्यग्निस्ततः परम् || वेष्टयेद् भूपुरे यन्त्रं मन्त्रेणानेन देशिकः | चन्द्रलक्षं जपेन्मन्त्रं पुरश्चरणकर्मणि || प्रत्यहं वलिदानेन पूजयेन्मर्द्धिनीं शिवाम् | स भवेत् सम्पदामादि साक्षान्महिषमर्दिनीम् || अथ वक्ष्ये महेशानि कवचं सर्वकामदम् | यस्याः प्रसादमात्रेण भवेत् साक्षात् सदाशिवः || ओङ्कारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये | प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये || ओं महिषमर्दिन्याः कयचस्य भगवान् महा ऋषिरनुष्टुपछन्दः आद्याशक्तिर्भगवती श्रीमहिषमर्दिनी देवता चतुर्वर्गसिद्धये विनियोगः | क्लीं पातु मस्तके देवि कामिनी कामदायिनी | मकारे पातु मां देवी मर्दिनी सुरनायिका || इकारे पातु मां देवी सावित्री कालनाशिनी | निकारे पातु मां देवी हृदये वाहुपार्श्वयोः || नाभौ लिङ्गे गुदे कण्ठे कर्णयोः प्रौष्ठयोस्तथा | शिखायां कवचे पादयुगे जङ्घायुगे तथा || सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता | कामाद्या पातु मां स्वाहा सर्वाङ्गे मर्दिनी शिवः || दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी | मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा || राजस्थाने तथा दुर्गे नौकायां वह्निमध्यतः | मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा || दुर्गा पातु महादेवी आर्या पातु सदा मम | प्रभा पातु महेशानि कनका सर्वदावतु || कृत्तिका पातु सततं सिद्धाः पान्तु सदा मम | प्रभा पातु महामाया माया पातु सदा मम || ज्वरा पातु सदा सुक्ष्मा विशुद्धा पातु सर्वदा | नन्दिनी पातु सततं सुप्रभा सर्वदावतु || विजया पातु सर्वत्र देव्याङ्गे नव शक्तयः | शक्तयः पान्तु सततं मुद्राः पान्तु सदा मम || योगिनः पान्तु सततं खेचर्यः पान्तु सर्वदा | डाकिन्यः पान्तु सततं सिद्धः पान्तु सदा मम || सर्वत्र सर्वदा पातु देवी महिषमर्दिनी | इति ते कथितं दिव्यं कवचं सुदुर्लभम् || यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्नतः | गोपितं सर्वशास्त्रेषु विश्वसारे प्रकाशितम् || सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् | शठाय भक्तिहीनाय निन्दकाय महेश्वरि || उनाङ्गे आतरिक्ताङ्गे क्रूरे मिथ्याभिभाषणे | (प्. ७८) न स्तव्यं दर्शयेद् दिव्यं कवचं सर्वकामदम् || यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् | दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् || मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् | अशुभञ्च भवेत् तस्य तस्माद् यत्नेन गोपयेत् || गोरोचना कुङ्कुमेन भुर्जपत्रे महेश्वरि | लिखित्वा शुभयोगेन ब्रह्मेन्त्रे वै धृतो यथा || आयुष्मान् सिद्धियोगे वा वववालवकौलवे | वणिजे श्रवणायाञ्च रेवत्यां वा पुनर्वसौ || ऊतरा एषयोगेषु तथा पूर्वत्रयेषु च | अश्विन्यां वा च रोहिण्यां तृतीया नवमी तिथौ || अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमी तिथौ | दुर्गां वा पौर्णमास्यां वा निशायां प्रान्तरे तथा || एकलिङ्गे श्मशाने च शून्यावासे तथालये | गुरुणा वैष्णवैर्वापि स्वयम्भुकुसुमैस्तथा || शुक्रैर्वा रक्तकुसुमैश्चन्दनैरक्तसंयुतैः | शवाङ्गारे चितावस्त्रे लिखित्वा यो घरेत् पुनः || तस्य सर्वास्तसिद्धिः स्यात् शङ्करेण च भाषितम् | कुमारीं पूजयित्वा तु देवीसुक्तं निवेद्य च || पठित्वा भोजयेद् विप्रान् धनदारान् वेदपारगान् | आखेटकमुपाख्यानं कुर्याच्चैव दिनत्रयम् || तदा भवेनमहारक्षां कवचं सर्वकामदम् | नाधयो व्याधयस्तस्य दुःखशोकभयं क्वचित् || वादी मुको भवेद् दृष्ट्वा राजा च सेवकायते | मासमेकं पठेद्घस्तु प्रत्यहं नियतं शुचिः || दिवा भवेद्धाविष्याशी रात्रौ शक्तिपरायणः | षट्सहस्रप्रमाणेन प्रत्यहं प्रजपेत् सदा || षण्मासैर्वा त्रिभिर्मासैः खेचरो भवति ध्रुवम् | अपुत्रो लभते पुत्रमधनीधनवान् भवेत् || अरोगी वलवांश्चैव राजानो दोसतामियात् | रजस्वला भगे नित्यं जपेद्विद्यां विधानतः || एवं यह् कुरुते धीमान् स एव श्रीसदाशिवः | इति श्रीविश्वसारतन्त्रे महिषमर्दिनी कवचं समाप्तम् || श्री ईश्वर उवाच || अथ वक्ष्ये महेशानि देव्या नाम सहस्रकम् | यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः || अस्याः ऽस्रीमहिषमर्दिन्याः सहस्रनामस्तोत्रस्य भगवान् श्रीसदाशिव ऋषिरनुष्टुपछन्दाअद्या शक्तिर्भगवतीमहिषमर्दिनी देवता स्वाहा शक्तिः कामबीजं चतुर्वर्गफलप्राप्तये विनियोगः | ओं कीर्तिः कान्तिः स्तुष्टिः पुष्टीधृतिः शान्तिः क्रिया दया | वेधा सहर्षा धात्री च लज्जा लक्ष्मी सरस्वती || प्रीतिरतिके शवाख्या तथा नारायणीति च | माधवश्चैव गोविन्दो विष्णुश्च मधुसुन्दः || त्रिविक्रमो वामनश्च श्रीधरः कमलासनः | हृषीकेशः पद्मनाभो दामोदरस्ततः परम् || वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः | निवृत्तिः संप्रतिष्ठा च विद्या शान्तिश्च इन्दिरा || वापिका रेचिका चैव मोचिका च ततः परा | सूक्ष्मा सूक्ष्मतरा चैव मृडाणी यामिनी तथा || व्यापिनी व्योमरूपा च श्रीकण्ठानस्तमूर्तिका | अतिसूक्ष्मा अतिमूर्तिरमवा अमरेश्वरी || अर्वी शोभा विभृतिश्च तिथिशस्थानको हरः | वाटशो भौतिकः सद्योजातश्चानुग्रहेश्वरः || अक्रूरश्च महासेन ऋद्धिः सृष्टिः समुन्नतिः | स्मृतिर्मेधा तथा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा तिथिः || गतिर्जरायुजा चैव पालिनी शान्तिरीश्वरी | रतिश्च कामिका चैव वसुधा ह्रादिनी पुनः || प्रतिदीर्घा च तीक्ष्ना च रौद्री चैवा भया पुनः | निद्रा तन्त्री क्षुधा क्रोधी क्रियोत्कारी तथा परा || मृत्युश्चैव तथा सीता श्वेता चैवारुणासिता | अनन्ता च तथा क्रोधी चण्.एश पञ्चमन्त्रकः || शिवो रुद्रश्च कूर्मश्च नेत्रासुरवितानना | अजेशः सर्वसोमेशः तथाऽन्गुलि * दारवौ || अर्धानारीश्वरः कामी उमाकान्तः सुरेश्वरी | आष्.आढी कुन्तिका चैव गणश्चण्डः परापरा || हेरुण्डश्च महाकालः कालीशश्च ततः परम् | भुजङ्गकः पिनाकीशः खड्गीशः कुश एव च || अक्षोभश्च अतमश्च श्रीमीनो नन्दिनस्तथा | शिवसम्वर्तकः पूर्णा देवी च विरजा तथा || शाल्मली चैव लोलाक्षी वर्तुलाक्षी ततः परा | दीर्घघोणा सुघोणा च तथा दीर्घमुखी पुनः || शुचिमुखी विद्यामुखी काली चैव सरस्वती | सर्वसिद्धिस्तथा गौरी त्रैलोक्यवासिनी शिवा || त्रैलोक्यविद्या मन्त्राश्च मन्त्रशक्तिपरात्मिका | आत्मशक्तिर्लता माता लम्बोदरी ततः परा || द्राविणी नगरी चैव खेचरी मञ्जरी तथा | रूपिणी विरिणी चैव काकोर्यापि च पूतना || भद्रकाली योगिनी च शङ्खिनी वज्रिणी तथा | कालरात्रिः कुजिनी च कपालापि च वज्रया || जया च विजया चैव सुमुखी ईश्वरी तथा | रेवती माधवी चैव घायसी च विदारिणी || सहजा चैव लक्ष्मी च व्यापिनी च जया तथा | दुर्गा प्रभा तथा सत्या वाणी चण्डा विलासिनी || विजया विजया विश्वा विनन्दा सुनन्दा स्मृतिः | ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्बुद्धिर्मतिः क्षमा || वामा च क्लेदिनी क्लिन्ना वसुधा वसुदापरा | परायणा च सूक्ष्मा च जया सन्ध्या प्रभा निशा || अमोघा विद्युता चैव सर्वशास्त्रमयी तथा | चक्री गदी तथा शाङ्गी खड्गी शङ्घी हली पुनः || मुषली च तथा शुली पाशी च अङ्कुशी पुनः | मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः || स्तुष्णः सदाः साश्चतश्च शौरि शुरो जनार्दनः | भुधरो विश्वमुर्तिश्च वैकुण्ठः पुरुषः शिवः || वली वलानुजो वालौ वृषघ्नश्च वृषीवलः | हंसो वराहो विमलो नृसिंहश्च ततः परः || सर्वशास्त्रमयी देवी सर्वमन्त्रमयी शिवा | सर्ववर्णमयी स्तुत्या नित्यानन्दस्वरूपिणी || वर्णरूपा चिदानन्दा सर्वज्ञानमयी तथा | महाविद्या महामन्त्रा महाभुतिर्मतिः क्रिया || स्थुला सूक्ष्मा महासूक्ष्मा अनुरूपा वृहत्तनुः | ज्योतिर्ब्रह्ममयी देवी शब्दब्रह्ममयी शिवा || ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा | वाराह्यनन्ता रुद्राणी चामुण्डा सप्तमी तथा || महालक्ष्मी च अणिमा लघिमा च ततः परा | वसित्वा चैव गायत्री तथा कामावसायिता || विमलोत्कर्षिणी ज्ञाना क्रिया सत्या महोदया | प्रभवी सत्यानुग्रहा च नवमी सह पूजका || महाकुली कुलीनाख्या शुद्धनारी शिवप्रिया | मेधा प्रज्ञा प्रभा सत्या विद्याधीर्धृतिबुद्धिदा || विश्वेश्वरी सती साध्वी दक्षकन्यादितिः स्मृतिः | श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी || व्यापिनी शालिनी ज्ञेया पावनी क्लेदिनी तथा | धारिणी मालिनी चैव हंसिनी शस्त्रिणीश्वरी || शुभ्रा विलोला लोला च ललना च नितम्बिनी | शूलपाशधरा हस्ता सुहस्ता च त्रिलोचना || विरला भरणा ज्ञेया सर्वज्ञानमयी दया | कालात्मा वर्ग ज (?) नननीधरा वेधमयी वला || क्रियावती वर्णमयी माया चैव कलावती | वेधमयी विमाना च भवाशक्तिस्वरूपिणी || प्रपञ्चरूपा प्रेमा च जगद्धात्री जय जतिः | अम्बिका वाग्भवी दुर्गा धीस्वरूपा महामतिः || कराली विकराली च उष उषा सरस्वती | श्रीदुर्गाशा तथा श्रद्धा मेधा कान्तिर्मतिः सुखी || आर्या खेटकरूपा च विद्या ह्रीः पुष्टया स्मृताः | प्रज्ञासिनी च वाणी च कुहूः कपटरूपिणी || रुद्रवीर्या महावीर्या प्रभा नन्दा क्षुधा कृषा | पोषणी उद्भिद सत्या सभा शुभकरी सहा || कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी | विकृतिः कुन्तिमूर्तिन्यः सेन्दुखण्डा शिखण्डिनी || निशुम्भशुम्भमथिनी महिषासुरघातिनी | इन्द्राणी च तथा रुद्रा शङ्करार्द्ध शरीरिणी || नारी नारायणी चैव त्रिशून्यापि शालिनी | अह्लादिनी अम्बिका च द्वात्रिंशन्मूर्तिरूपिणी || चक्रहस्ता पिशाची च राक्षसी योगिनी जरा | वृद्धमाता वृद्धतल्ला चारुभुषणभूषणा || शिताङ्गी शुक्लवर्णा च रक्ताङ्गी रक्तभूषणा | पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च || श्रद्धा स्वाहा तथा भिक्षा मायासंज्ञा वसुन्धरा | त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी || स्वरूपा वहूरूपा च स्कन्धमाताऽच्युतप्रिया | विमला च मला चैव अरुणी दारुणी तथा || प्रकृतिर्विकृतिः सुतिपुष्टिश्च स्थितिसंहृतिः | सन्ध्या माता सती हंसी मार्गकारी जिनापरा || देवमाता भगवती देवकी कमलालया | त्रिमुखी पञ्चमुख्याश्च सुरासुरविमर्दिनी || लम्बोष्ठी चार्द्धकेशी च वहूशीर्षा वृकोदरी | राधारुच्चार्गयापत्य कुलिरेखा गणात्मिका || (प्. ७९ब्) गगणा गाणरेख च पवनवेगा स्वधा तथा | भुवनपाला गणक्रीडा मदना मदनातुरा || अनङ्गानङ्गमदना मेखलानङ्गरूपिणी | अनङ्गाकुसुमा विल्वरूपिणी चाभयङ्करी || भक्षोभ्या सत्यवादी च वहुरूपा शुचिः स्मृतिः | वरदाख्या च वागीशा चापराणधरा शिवा || ज्वलज्जिह्वा महाजिह्वा सर्वजिह्वा महाप्रभा | धारिणी मालिनी चैव दंस्ट्रिणी ऊर्द्धकेशिनी || रसज्ञा रसिका रम्या मुरा(?)री रसदा रतिः | सिंहिका पूजका कृत्वा स्र्वकृत्वा विनाशिनी || वाग्वादिनी वदन्या च तरुणी करुणालया | शुभ्रकान्तिः सुकान्तिश्च सर्वकान्तिसमन्विता || विभूरुन्नतिः कान्तिश्च सृष्टिः कीर्तिः समुन्नतिः | व्युष्टिरूत्कृष्टि ऋद्धिश्च लक्ष्मीः सर्वसमृद्धिदा || श्रीः सर्वशुभदा चेता चिन्तनीया हरिप्रिया | ब्रहाणी चैव रुद्राणी रुद्रावीर्यसदागतिः || भुवनेश्वरी महाविद्या सर्वविद्यादानुत्तमा | जयाख्या विजया ज्ञेया अजिताख्या पराजिता || नित्या विलासिनी दोग्ध्री सुघोणा वनमालिनी | गणाम्बा गगणाम्बा च शान्त्यतीताम्बिकामनुः || वाग्भवी शम्भुवनिता रमाबीजात्रयान्विता | त्वरिता नवदुर्गा च हृल्लेखा गगणा सदा || रक्ता कराला लोला च घर्घरी घूर्णनाशिनी | कृच्छया च घृणाचान्दाः सुगन्धा गन्धनाकुली || कुण्डली च कुरूपा च विद्युदग्निसमप्रभा | षट्चक्रभेदनकरी परमामृतरञ्जिता || डाकिनी राकिनी चित्वा वाकिनी लाकिनी तथा | काकिनी शाकिनी चैव हाकिनी चक्रदेवता || सहस्रदलपद्मान्तश्चन्द्रमण्डलवासिनी | अमृता मानदा पूष तुष्टिः पुष्टीरतिर्धृतिः || शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्री प्रीतिरङ्गदा | पूर्णा पूर्णामृता कामदायिन्यः सूर्यमण्डला || तपनी तापिनी धुम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा धारिणी बोधिनी क्षमा || सूर्यमण्डलसंस्थात्री सूर्यमण्डलसम्भवा | वह्निमण्डलमध्यस्था वह्निमण्डलवासिनी || धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरुपा कपिला हव्यकव्यवहा तथा || हू/कारी खेचरी चण्डा छेदिनी क्षेपिणी कला | क्षेमकारी विशालाक्षी विकटाक्षा मृगाक्षिका || कृदङ्गा मृगनेत्रा च दीर्घनेत्रा मनोभवा | नानातन्त्रिमयी तन्त्रा नानाशस्त्रमयी शशी || त्रिकण्टकी वृषाङ्गी च सर्वशत्रुविनाशिनी | सर्वाभरणसम्पन्ना सर्वालङ्कारधारिणी || कामिनी सुन्दरी कामा सकामाकामदायिनी | शुचीमुखी कालमुखी एकाक्षा विकटानना || केकराक्षी विपन्ना च विशेषा विमला कला | अनेकविधरूपा च वहूरूपा विरूपका || रतीऽस्वरी रतिप्रीतिर्विप्रीतिः प्रीतिमञ्जरी | चर्मतिः सुमतिः कालः वितुष्टिस्तुस्टिरेव च || वीणा वेणुर्मृदङ्गा च श्रीसल्लोकेश्वरी मयी | (प्. ८०) परमैश्वर्यरूपा च विरूपाकरणी तथा || सर्वानन्दस्वरूपा च सर्वाह्लादनकारिणी | त्रिकूटा पञ्चकुटा च सर्वकूटस्वरीरिणी || षोडशी पञ्चमः पञ्चदशी सप्तदशी पुनः | अष्टादशी शशधरी चन्द्री चन्द्रप्रिया तथा || नित्या निरञ्जना क्लिना क्लेदिनी मदनावती | मदद्रव्या द्राविनी च नीलोत्पलदलप्रभा || हृल्लेखा क्लेदिनी क्लिन्ना सर्वक्षोभविनाशिनी | रागी रागवती रेता मदना मदनावती || मेखला द्राविणी सत्या स्मरणा विस्मृता तथा | लक्ष्मीर्हेमप्रभा तन्वी पद्माक्षी पद्मलोचना || दीर्घजङ्घा सुजङ्घा च महाजङ्घा महातनुः | नीलमेघप्रभा श्यामा कृष्णवर्णा स्वरूपिणी || बीजरूपा जीवरूपा सर्वजीवेषु संस्थिता | सर्वतत्त्वमयी देवी कुलमुद्भावभाविनी || सर्वपीठमयी देवी सर्वधात्वन्तरा कला | अर्द्धपुण्ड्रा महामाया देवी पद्मावती शिवा || नवदुर्गा च दुर्गा च दुर्गासुरविनाशिनी | स्वप्नावती विशालाक्षी चित्रलेखा च शाङ्करी || लोपामुद्रा माननीया मदनामदनार्तिना | प्रभा माया जया दुर्गा विशुद्धा नन्दिनी तथा || सुप्रभा विजया विश्वा विनदा सुनदा त्वरा | सुप्रतिष्ठा प्रतिष्ठा च रसलाभस्वरूपिणी || आर्या भूर्या च महिषी मर्दिनी महिषान्विता | कलव्याख्या काननी च कृत्तिका कालनाशिनी || योगिनी योगमाता च योगयुक्ता युगावती | आयातिर्नियतिः स्तुत्या स्तवनीया मनोरमा || शूलहस्ता च हस्ता च चर्मचापधरा तथा | सौदामिनी सुद्यमा च सर्वरत्नमयी तथा || आर्या दुर्गा च भद्राख्या कालिका च कला तथा | भद्रकाली कपाली च क्षेमाख्या क्षेमवन्धका || वेदगर्भा महागर्भा शुगर्भाङ्गी सुलोचना | कालपावकवन्ध्या च कालपावकसन्निभा || विभीषणा भीषणा च सुभीमा अतिभीषणा | अतिप्रीतिपराख्या च उत्तरा उत्तरप्रिया || नमोत्तरा दिवारात्रिरमृतेशी पुनर्वसुः | योगेशी विश्वयोगेशी विश्वमाता धनप्रदा || महावला वलाख्या च वलदा वलदायिनी | वालिका तरुणी वृद्धा कैशोरी युवती सदा || द्राविणी क्षिभिणी क्षोभा क्षमा क्षोभा क्षमा क्षया | आकर्षिणी मोहिनी च सम्मोहिनी सदागतिः || सुभगा च भगाख्या च भगसर्पिण्यनन्तरा | भगमाली भगाङ्गी च भगमालाविभूषणा || लिङ्गिनी लिङ्गमाला च अनङ्गानङ्गपूजिता | भगमान्या भगाङ्गी च भगप्रीता भगात्मिका || उदाद्तानुसहस्राक्षा उद्यदादि * (?)सङ्कुला | इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशाक्तः क्रियादया || विविधा विविधा वेधा वेधा मन्त्रमयी विधुः | इच्छाज्ञाना क्रियाशक्तिः कामिनी कामदा कुहूः || रतीरतिप्रिया नन्दा नवमी च मनोन्मनी | उन्मादा मदनप्रेम्ना मदामदविलालिता || मत्स्या सत्यप्रिरामांसा महामांससदाशिता | (प्. ८०ब्) मद्यशीला महाप्रेम्ना मांसाशी मांसभक्षणा || सदाशिवप्रिया इच्छा सर्व * (?) तुषु संस्थिता | कुमाराङ्गी कुमारी च सुकुमारी विलम्बिनी || महोत्सूक्ष्मा करालास्या षडङ्गयुवती सती | आकर्षिणी द्राविणी च खेचरी मञ्जरी शुभा || मातङ्गी मुनिपूज्या च मतङ्गभवने स्थिता | द्राविणी शोषणी पुष्टा आकर्षिणी विधायिनी || रौद्री प्रशान्तिः शुद्धाख्या क्रियाकान्ता शुभोदया | मोहिनी प्रमथा चण्डा भाविनी भवमोचनी || विद्युल्लता वलाकाख्या सुन्दरानन्दशोभना | मन्दबुद्धिर्महाबुद्धिश्चिच्छक्तिः शान्तिरूपिणी || श्यामा गायत्री श्यामाङ्गी श्यामा चैव विरोधिका | वर्णिनी वदना वन्ध्या सर्ववादापरायणा || तीब्राख्या ज्वलिनी नन्दा भोगदा कामदायिनी | उग्रा उग्रप्रभा तेजोवती सत्याननाकृतिः || बालिका बालरूपा च सर्वसत्वविभूषणा | चन्द्रिणी चन्द्रकान्तिश्च धनदा धनदायिनी || रञ्जना मञ्जना विन्दी सर्वशान्तिः शुभप्रदा | सुभिक्षकरणी क्षेम्या सुक्षेम्या क्षेमवलाभा || स्वयम्भुकुसुमा प्रीत स्वयम्भुपुष्पपूजका | स्वयम्भुपुष्पयद्धासा सयम्भुकुसुमाकुल || सुषुम्न च योगवती गान्धारी नरवल्लभा | लिङ्गमाला लिङ्गगीतिर्भगमालाविभूषणा || भगलिङ्गा मृता देवी भगलिङ्गा शुभात्मिका | भगलिङ्गामृता प्रीता सुलिङ्गा भगरूपिणी || भगिनी भगमाला च भगस्था भगदा शुभा | शुक्रालया शुक्ररूपा महाशुक्रातिशुक्रिणी || अतिशुक्रा शुक्रसेव्या शिवदेहा समुद्भवा | महाव्याहृतिरूपा च स्वधा स्वाहा सुधा धृतिः || हव्यकव्यवरा प्रीतिर्यजुःकर्त्री यजुःप्रिया | ऋक्सामाथर्वनिलया सर्ववेदेषु पूजिता || वेदवन्ध्या वेदमाता वेदाङ्गी वेदपूजका | वेदविद्याभिवादा च निष्कलङ्का शुभङ्करी || क्षेमदा कुङ्कुमाङ्गी च सुरक्तादशनच्छदा | रक्तमाल्या च रक्ताङ्गी रक्तचन्दनरूपधृक् || मुक्तारञ्जितनासा च सुदती युगदन्तुरा | सुरतिश्च सुगम्भीरा सर्वभावसमन्विता || मुण्डमालाधरा देवी प्रत्यालीढपदे स्थिता | विऽस्वमान्या जगन्मान्या जयित्री जयिनी जयी || सुन्दरी भैरवी विश्वा भैरवी पुरभैरवी | कामिनी पुरुरूपा च लाकिनी पुत्ररूपिणी || राकिणी पुत्ररूपा च शाकिनी पुत्ररूपिणी | अजा च ऋअतजा गोजा अद्रिजा पर्वतात्मजा || वासणी वन्ध्यरूपा च गुह्यकाली महाप्रभा | सुप्रभा विरजा सत्या सदा सत्यवती सदा || गान्धारी नरकाख्या च नरकान्ता नराकृतिः | रुक्मिणी सत्यभामा च राधिका कुमुदा कृषा || कुमुदाऽन्गी कौमदी च पद्मनेत्रा प्रियम्बदा | पूजका पूजकप्रीता टिविट्न्वा सुटीविका || खड्गिनी कुशली कान्ता एकदन्ता गनाजना | कपट कुपटा कृष्णा सर्वपर्वतवासिनी || विन्धस्थावामना विन्ध्या विन्धपर्वतसंश्रया | उर्वशी कालिका कैका विश्वरूपा वसुन्धरा || (प्. ८१) विभीषनेतिभीषणा चण्डी विलासिनी | वेत्रवती विषण्णा च विमला मानदायिनी || जगन्मान्या जगद्धाता जगती जगतः क्षमा | अजेया विह्वला विश्वारूपिणी विश्वमानिता || अचेतना चितान्तस्था सुचेता मदनावती | हंसमुखी सुनेत्रा च त्रिनेत्रा च विलोचना || कुरुकुल्वा सुकुल्वा च असिता अमिता सिता | मुद्रा मुद्रासती हंसी सिंहस्था शशिशेखरा || अशोकवासिनी रेवा सुखस्या सुरनायका | शाम्भवी शाङ्करी माया कालक्षयकरी करा || अनिमा भाविनीन्द्रा च जिनमाता जिनेश्वरी | अजिना कुत्तिवसना व्यालयज्ञोपवितिनी || चर्विका चाटुकारी च सुकुटुम्बा वरानना | वज्रेश्वरी च जननी सर्वबीजक्षयङ्करी || सर्वदुःखविनाशी च निर्द्वन्द्वा द्वन्द्ववर्जिता | दुराशया दुराराध्या दुर्ध्येया दुरतिक्र्मा || दुर्विनीता विनेत्रा च चण्डमुण्डक्षयङ्करी | महिषासुरहन्त्री च मधुकैटभघातिनी || राजराजेश्वरी बीजा सर्वदुष्टक्षयङ्करी | यक्षिणी योगिनी योगध्येया यज्ञा यदागतिः || कूलीना शम्भुपत्नी च शाम्भवी शम्भुवल्लभा | त्रिकोणनिलया नित्या भेरुण्डा कुलसुन्दरी || सर्वसम्भोगनिलया सर्वसम्भोगपूर्वका | पूजनीया महार्हा च महती सत्यभाषिणी || श्मशानवासिनी पुण्या पुण्यदा पुण्यदायिनी | दानवी रीरिणी नेया त्रियागा महती मही || सिंहासनेश्वरी गोत्रा तोतला तुलसीतुला | हालाहलप्रिया हेली लिङ्गस्था स्थानुपूजका || कुण्डस्था कुण्डगोलस्था कुण्डगोलनिवासिनी | कुण्डपुष्पभवप्रीता सुप्रीता प्रीतिदायिनी || चतुरा चतुरप्रेम्ना चतुरस्था च चातुरी | कुमारी पूजकवती कुमारी ब्रह्मचारिणी || कुमारस्था कुमारी च तद्भगस्था भगात्मिका | कौशल्या च कुलीना च सुभगा सुर्भगा तथा || सुमित्रा लक्ष्मणा देवी दमयन्ती दमात्मिका | मदयन्ती द्रौपदी च तथा सुस्था कुशात्मिका || पञ्चचुडा मेनका च मैनाकभगिनी तडित् | पञ्चा नैव त्रिनेत्रा च पञ्चवक्त्रप्रिया स्मृतिः || नागेन्द्रदण्डनिर्माणवलयाञ्चितवाहना | रत्नद्वीपस्थिता नित्या सिंहासनवासिनी || गजचर्मपरिधाना कलमञ्जीररञ्जिता | पट्टवस्त्रपरीधाना गुञ्जाहारलसत्करा || व्याघ्रचर्म परीधाना व्यालयज्ञोपवीतिनी | स्वयम्भुपुष्पतिलका विन्ध्यकैलासवासिनी || विनीता वलिमाता च कुन्ती केका कृपावती | कुमुद्वती कृष्णदेहा शम्बरी उपवीतिनी || विनीता खड्रूपा च पिङ्गलाक्षी प्रियव्रती | ब्रजाङ्गी व्रजदेहा च वज्रहस्ता विवस्त्रका || दिगम्बरी रणस्था च कुमुदा कुमुदप्रिया | साधका साधकप्राणा नरकान्तककारिणी || विद्या विद्या महाविद्या महामन्त्रा महामहा | ओङ्कारी साधका शक्ता साधकाशक्तमानसा || वामाचारवती वामा विमला विनकार्मुका | (प्. ८१) पुष्पवाणधरा साध्वी इक्षुकार्मुकधारिणी || मनोभवामनस्था च मनस्तुत्वा महामनुः | मनुकन्या देवहुतिः स्वर्णदी शुभपूजका || इदं सहस्रनामेति मर्द्धिन्याः शिवभाषितम् | यः पठेत् प्रात्ररुत्थाय शुचिर्भुत्वा दिवानिशम् || निशायामर्द्धरात्रौ च सन्ध्यायाञ्च विशेषतः | कृत्वा मन्त्रकरन्यासौ विधिनानेन देशिकः || आचम्य विधिना भूत्वा कायबीजादिकं मनुम् | अनुलोमविलोमेन मन्त्रवर्णान् न्यसेत् सदा || सप्तवारं न्यसेन्मन्त्रं पश्चिमाभिमुखीभवन् | पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् || श्मशाने प्रान्तरे वापि शून्ये वासे तथालये | पठित्वा कवचं तत्र जपेन्मन्त्रसहस्रषट् || कुक्कुटं मूषिकं मेषं महिषं नरमेव च | रक्तेन स वलिं दत्वा जपेन्मन्त्रमनन्यधीः || गृह्न गृह्न पदद्वन्द्वं खादयद्वितयं तथा | मम शत्रुन् समाभाष्य नाशयद्वितयं पुनः || सिद्धिं देहि पदद्वन्द्वं द्विठान्तं प्रादेत् ततः | तदा मन्त्रं जपेद्धीमान् यावद्भीतिर्न जायते || अनिमादिर्महासिद्धिर्भवेत् तस्य वसेत् तदा | दग्धमीनं दग्धमांसं रक्तसाकं दिवानिशम् || श्मशाने प्रान्तरे दत्वा विधिना प्रजपेन्मनुम् | षण्मासेन भवेद्वाग्मी महेशश्चैव चापरः || स्वयम्भु कुसुमैः शुक्रैः पूजयेन्मर्द्धिनीं सदा | आखेटकमुपाख्यानं सदा कुर्याद् दिनत्रयम् || पुरश्चरणकाले तु पुरा कुर्याद् दिनत्रयम् | तदा तुष्टा भवेद् देवी मर्दिनी सुरपूजिता || सशक्त्या सर्वकाले तु जपेन्मन्त्रं दिवानिशम् | नित्यकर्मसदा कुर्यान्मनुमुखे चर्महान्नितैः || स एव वैष्णवो धन्यः स शाक्तश्चैव एव च | निशायां प्रजपेन्मन्त्रं निशायां वलिमारभेत् || तेषां समानं त्रैलोक्ये नास्ति देवि कथञ्चन | रजस्वलाभ्यां * स्पृष्ट्वा जपेन्मन्त्रं दिवानिशम् || श्मशाने प्रान्तरे शून्यालये मन्त्रं दिवानिशम् | प्रजपेत् पर्या भक्त्या यावत् सिद्धिर्भवेन्मनुः || अपुत्रो लभते पुत्रमधनी धनवान् भवेत् | अरोगी वलवांश्चैव जायते नात्र संशयः || मासमेकं पठेत् स्तोत्रं भ्रष्टराज्यमवाप्नुयात् | मासद्वयं पठेद् यस्तु स भवेद् भुपुरन्द्वरः || सप्तमं पठते धीमान् स भवेत् पुत्रवान् सुखी | गोरोचना कुङ्कुमेन रक्तचन्दनसंयुतैः || धूपदीपरिमहादेवीं पूजयेत् पर्वतात्मजाम् | रक्तचन्दनदूर्वाभिः कुङ्कुमेन विधानतः || दद्यादर्घ्यं महादेव्यै त्रिसन्ध्यं प्रत्यहं सदा | परदारपरो भुत्वा जपेन्मन्त्रमनन्यधीः || षण्मासेन लभेत् सिद्धिं यद् यन् मनसि वर्तते | सर्वशन्न्तिकरं सर्वं सर्वसिद्धिसमन्वितम् || सर्वपापप्रशमनं सर्वदुःखविनाशनम् | सर्वमृत्युप्रशमनं शङ्करेण च भाषितम् || ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | सर्वं भवसि देवेशि स्तवस्यास्य प्रसादतः || स कुलीनः स विद्वान् स बुद्धिः सर्वपूजकः | (प्. ८२) स एव विजयी नित्यं यस्य देवी भवेत् प्रिया || देव्यानन्दे सदा नन्दः सदानन्दो भवेन्नरः | मासि मासि महादेवीं पूजयेद् विधिनामुना || नवम्यां मङ्गलदिने चतुर्दश्यां शनैश्चरे | पशुपक्षादिना देवीं यजेद् भक्तिपरायणः || देवीसुक्तं पठेत् तत्र पूर्ववद् देशिकोत्तमः | कुमारीं पूजयेत् तत्र यावच्च दशमावधिः || वस्तालङ्कारगन्धाद्यैः सिन्दूरचन्दनादिभिः | तदा भवति सन्तुष्टा मर्दिनी महिषान्विता || होमं कुर्याद्विधानेन पूर्वोक्तेन दिवानिशम् | स्वशक्त्या प्रजपेन्मन्त्रं तत्र यावद् दिवानिशम् || कुम्भैः कुम्भैः सुरां दद्यात् वैजयन्तीं विशेषतः | होमतो वशयेत् सर्वराजानपि होमयेत् || आकर्षयेद् देवकन्यां वशयत्यपि केशवम् | ब्रह्मा विष्णुश्च रुद्रश्च देवाः सुरसत्तमाः || तं दृष्ट्वा साधकं देवि प्रशंसन्ति मदान्विताः | कालीवदाचरेद् विद्यां कालीवत् फलमाप्नुयात् || न वैष्णवैर्यजेद् देवीं न तुलस्या प्रपूजयेत् | न शङ्खे अर्घ्यपात्रं स्यात् कथितं पद्मयोनिना || विश्वामित्रस्य पात्रेण मृत्पात्रेण शिवां यजेत् | नित्यं पांशुकमांस दासहितैः शौण्डैः कृतैस्तं गुणैः पूष्पैः पुष्पविकारजैर्नरशिरोमेषैर्महाशूकरैः || गुञ्जैः शक्तिपराक्रमैर्भगवती मेध्यैरमेध्यैश्च यत् चोष्यैश्चर्व्यफलैः सदा भगवतीं तुष्टैश्च सिक्यैः पुनः || तैस्तैर्द्रव्यमुदाहृतं निशि निशि पूजासु पूजापराः तेषां दुःख भयं सदा भुवि तले नैवास्ति किञ्चित् प्रिये | रजःस्वलाभ्यां स्पृष्ट्वा च दृष्ट्वा च परमेश्वरीम् | षण्मासं जपेन्नित्यं कुवेर इव चापरः || पाषण्डश्च कवित्वेन वृहस्पतिरिवापरः | सर्वविद्यावतां श्रेष्ठः सौन्दर्ये मदनोपमः || वायुतुल्यवलो लोके दुर्जयः शत्रुर्मदकः | सर्वशङ्कटमुत्तिर्णः सर्ववल्लभतामियात् || राजसूयराजपेयमश्वमेधफलञ्च यत् | तत्सर्वं लभते देवि मर्दिन्यायाः प्रसादतः || लग्नां परस्त्रियं दृष्ट्वा स्पृष्ट्वा च परपुरुषीम् | कुमार्यः सुतिकामध्ये यो जपेत् प्रत्यहं मनुः || मनुं निर्माय विधिना चन्दनैरक्तचन्दनैः | विधिवत् पूजयेत् तत्र देवीं महिषमर्दिनीम् || जवापुष्पैर्वज्रपुष्पैर्द्रोणपुष्पैर्विशेषतः | मत्स्यमांसबलिं दत्त्वा नकुलं गवयं रुरुम् || शल्यं गोधाञ्च कूर्मञ्च महिषं न मेव च | षट्सहस्रं जपेन्मन्त्रं निशायां वा दिवामुखे || तस्य तुष्टा भगवती भवेद् दुर्गा सदा प्रिये | प्रत्यहं बलिदानेन यो जपेद् तव सुन्दरीम् || स भवेत् पार्वती पुत्रः सर्वसत्त्वेषु पूजकः || इति श्रीविश्वसारतन्त्रे महिषमर्दिनीसहस्रनामाष्टमः पटलः || (प्. ८२ब्) अथ वक्ष्ये परां विद्यां भवानीं भवमोचनीम् | यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः || अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् | राजत्वं लभते देव्याः पादयुग्मप्रसादतः || ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् | वैश्यो भवेद्धनाध्यक्षः सर्वसिद्धिमवाप्नुयात् || मन्त्रोद्धारमहं वक्ष्ये शृणुष्व कमलानने | यस्य विज्ञानमात्रेण भवेद्वागीश्वरः परः || * (?) त स्मिन्नेव काले तु नन्दी नाम महामतिः | कैलाशशिखरे रम्ये देवदेवं महेश्वरम् || ध्यानोपनतमासीनं प्रसन्नमुखपङ्कजम् | सुरासुरशिरोरत्नरञ्जिताङ्घ्रि युगं प्रभुम् || प्रणम्य नन्दिको देवं कृताञ्जलिरभाषत || श्रीनन्द्युवाच | देवदेव जगन्नाथ संशयोऽस्ति महन्मम | रहस्यं किञ्चिदिच्छामि प्रभुत्वं भक्तवत्सल || देवतायास्त्वया कस्याः स्तोत्रमेतद् दिवानिशम् | पठ्यते किं परं नाथ तत्त्वः किमपरः परः || इति पृष्टस्तदा शम्भुर्नन्दिकेन जगद् गुरुः | प्रोवाच भगवानीशो विकशत् पत्रपङ्कजम् || श्री ईश्वर उवाच | साधु साधु गणश्रेष्ठ पृष्टवानसि माञ्च यत् | स्कन्धस्यापि च यद्गोप्यं रहस्यं कथयामि ते || पुर कल्पक्षये लोकान् सृसृक्षुर्गूढचेतना | गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता || समुत्पन्नं तद्वेत्तैर्महदादिभिः | चेतनेति ततः शक्तिं मां काप्यालिङ्गा तिष्ठति || हेतुसङ्कल्पजातस्य ततो धीष्टासिनी शुभा | इच्छेति परमा शक्तिरुन्मीलति ततः परम् || ततो वागिति विख्याता शक्ति शब्दमयी पुनः | प्रादुरासीज्जगन्माता वेदमाता सरस्वती || श्रीर्ब्राह्मी वैष्णवी रौद्री कौमारी पार्वती शिवा | सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी || तस्या अनुग्रहा देवतामेव स्तुतवानहम् | सहस्रैर्नामभिर्देवि त्रैलोक्यप्राणिपूजिता || स्तवेनानेन सम्तुष्टा मामेव प्रविवेश सा | तदारभ्य मया प्राप्तमैश्वर्यपदमुत्तमम् || तप्रसादान्मया सृष्टिं जगदेतच्चराचरम् | ससुरासुरगन्धर्वं यक्षराक्षसपन्नगम् || समानुयं ससमुद्रं सशैलवनकाननम् | सराशिग्रहनक्षत्रं पञ्चभूतगणान्वितम् || नन्दिनामसहस्रेण स्तवेनानेन सर्वदा | परापरां स्तौमि शक्तिं ममानुग्रहकारिणीम् || इत्युक्त्वा परमं देवं चराचरगुरुं प्रभुम् | प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् || भगवन् देवदेवेश लोकनाथ जगद्गुरो | भक्तोऽस्मि तवदासोऽस्मि प्रसादः क्रियतां मयि || देव्यास्तवमिदं पुण्यं दुर्लभञ्च सुरैरपि | श्रोतुमिच्छाम्यहं देवप्रभावमस्यापि यत् || श्री ईश्वर उवाच | शृणु नन्दि महाभाग स्तवराजमिदं शुभम् | सहस्रमामभिर्दिव्यः सिद्धिदं सुखमोक्षदम् || (प्. ८३) शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः | त्रिकालं श्रद्धया युक्तो नातः परतरं स्तवम् || अस्य श्रीभवानीसहस्रनामस्तोत्रस्य भगवान् महादेव ऋषिरनुष्टुपछन्दः आद्या शक्तिस्त्रिबीजा त्रिविधा देवता मम सुकवित्वसुपाण्डित्वसर्वसिद्धिसिद्धये विनियोगः || ओं वाग्भवं शम्भुवनिता रमाबीजत्रयान्विता | एषा विद्या भवान्याश्च कथिता पद्मयोनिना || शिवबीजं चन्द्रसंस्थं वह्निवाग्भवबिन्दुमान् | गगणं चन्द्रसंयुक्तं कामबीजञ्च वह्निमान् || आकाशभृण्डसंयुक्तं (कामबीजञ्च वह्निमान्) मनं वह्निससर्गवान् | इन्दुखण्डं बिन्दुयुतं दक्षिणामूर्तिसंयुतम् || मादनस्तदधः शक्तिस्तदन्तबिन्दुमालिनी | इन्दुमाकाशबीजस्थामधस्ताज्जननाक्षरम् || मायाविन्धेश्वरीयुक्ता सर्वोपरिनियोजिता | अयं स वाग्भवो बीजो वागीशत्वप्रदायकः || शिवबीजं त्रिधा कृत्वा सृष्टिस्थितिलयक्रमैः | द्वयमाद्येन रहितमाद्याधो मदनास्वरम् || पुनस्थितिः शिवाधस्था दिन्द्रबीजं नियोजयेत् | तथालयं शिवाधोऽपि ज्वलनेन महेश्वरि || चतुर्थस्वरसंयुक्तं बिन्दुनादविभूषितम् | एवमेतन्महाबीजं कामराजं महोदयम् || मायाबीजं महेशानि मादनं शत्रुसंयुतम् | चन्द्रबीजं केवलन्तु विनियोज्य वरानने || कृत्वा सृष्टिक्रमं देवि प्राशुद्धरक्रमेण तु | संहारक्रमयोगेन शक्तिबीजं समुद्धरेत् || एषा भवानी विद्याख्या शङ्करेण च भाषिता | पूजयित्वा जपित्वा च पठेत् स्तोत्रमिदं शुभम् || महादेवी जगन्माता महालक्ष्मीः शिवप्रिया | विष्णुमाया शिवा शान्ता सिद्धासिद्धा सरस्वती || क्षमा शान्तिः प्रभा ज्योत्स्ना पार्वती शङ्करप्रिया | त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता || यज्ञविद्या महामाया देवमाता सुराधृतिः | प्रीतिः पृथा प्रसिद्धा च मृडानी विन्ध्यवासिनी || सिद्धविद्या महाविद्या पृथ्वी नारदसेविता | पुरह्नुतप्रिया कान्तिः कामिनी पद्मलोचना || प्रह्लादिनी महाविद्या दुर्गा दुर्गतिनाशिनी | सिद्धविद्या महाविद्या ज्योतिः कुमदहासिनी || दुर्गमा दुर्लभा विद्य सद्गतिः पुरवासिनी | अपर्णा शाम्भवी माया मादरा मृदुभाषिणी || अपर्णा शाम्भवी माया मादरा मृदुभाषिणी | नारायणी महानिद्रा योगनिद्रा प्रभाविनी || प्रज्ञा परमिता प्रह्वा तारा मधुमती सती | मधुकीरार्णवयुता रमिका सिंहवासिनी || राज्यलक्ष्मीर्वषट्कारा सुधाहारा सुधात्मिका | राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती || समुद्भुतिस्तारिणी सिद्धा सद्यातिः सत्परायणा | सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती || गोदावरी विपाशा च कावेरी च शतद्रुमा | सरयुश्चन्द्रभागा च कौशिकी गण्डकी शिवा || नर्मदा कर्मनाशा च चर्मावती च वेदिका | वेत्रवती वितस्था च वरदा नरवाहना || सती पतिव्रता साध्वी सुचक्षुर्दण्डवासिनी | एकचक्षुः सहस्राक्षी सुश्रोणी भगमालिनी || सेनाग्रणी पताका च सुव्यूहा स्वर्गकाङ्क्षिणी | पताकिनी दया रम्भा विपञ्ची पञ्चमप्रिया || परापरकला कान्ता त्रिशक्तिर्ब्रह्मदायिनी | ऐन्द्री माहेश्वरी ब्राह्मी ब्रह्माणी ब्रह्मवादिनी || इच्छा भगवती धेनुः काकधेनुः कृपावती | वज्रधारा वज्रहस्ता चण्डी चण्डपराक्रमा || गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी | एकानेका महेशा च शतवहूर्महान्तजा || भुजार्द्धभूवणा भूषा षट्चक्रक्रमवासिनी | षट्चक्रभेदिनी श्यामा कृष्णा पीता च कुर्वरा || क्षुधा कृष्णा ज्वरा वृद्धा तरुणी वरुणालया | कला काष्ठा मुहुर्ता च निमेषा कालरूपिणी || क्षेमा क्षमावती क्षान्ता अदिती च दितिर्मतिः | स्वरूपा वै सुनासा च चक्षुस्पर्शवती क्रिया || गन्धप्रिया सुगन्धा च सुस्पर्शा सुमनोगतिः | मृगनाभिर्मृगाक्षी च कर्पूरामोदवासिनी || पद्मयोनिः सुकेशी च अलिङ्गा भगरूपिणी | योनिमुद्रा महमुद्रा खेचरी खगगामिनी || मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्गता | मातङ्गी सुपहस्ता च पुष्पवाणेषु चापिणी || रक्तास्वरधरा क्षीरा रक्तपुष्पावतंसिनी | शुक्लास्वरधरा धीरा महाश्वेता वसुप्रिया || सुवेशा शक्तिहस्ता च मुक्ताहारविभूषणा | कर्पूरामोदिनी श्यामा पद्मिनी पद्ममन्दिरा || खड्गिनी चक्रहस्ता च भुषण्डी परिघायुधा | चापिनी पाशहस्ता च त्रिशुलवरधारिणी || सुवामशक्तिहस्ता च मयुरवरवाहना | वरायुधधरा वीरा वीरपानमदोत्कटा || वसुदा वसुधा वाचा जया शाकम्भरी शिवा | विजया च जयन्ती च सुस्तनी शत्रुनाशिनी || अन्तर्वत्नी वेदशक्तिर्वरदा वरधारिणी | शीतला च सुशीला च वालग्रहनिवासिनी || कुमारी च सुपर्वद्या कामाख्या कामवन्दिता | जालन्धरी धरानन्ता कामरूपनिवासिनी || कामबीजवती सत्या सत्यधर्मपरायणा | स्थानुवद् देवता सुक्ष्मा सुक्ष्मा बुद्धिप्रबोधिनी || षट्कोणा च त्रिकोणा च त्रिनेत्रा वृषध्वजा | वृषप्रिया वृषारुढा महिषासुरघातिनी || शुम्भदर्पहरा कृप्ता दीप्तपावकसन्निभा | कपालभुषणा काली कपालमालाधारिणी || कपालकुण्डला दीर्घा शिवदुती घनध्वनिः | सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी || कम्बुग्रिवा वसुमती हत्रच्छाया कृतालया | कुण्डलिनी जगद्गर्भा भुजङ्गाकारशायिनी || प्रोल्वसत्सप्तपद्मा च नाभिनालमृणालिनी | मुलाधारा निराधारा वह्निकुण्डकृतालया || वायुकुण्डमुखी शीला निराधारा निराश्रया | देहपुष्टिर्मनःपुष्टिरात्मपुष्टीरणोद्गता || औषधिवैद्यमाता च द्रव्यशक्तिः प्रभावरी | वैद्यवेद्या चिकित्सा च सुपथ्या रोगनाशिनी || मृगया मृगमांसादा मृगात्वक्मृगलोचना | (प्. ८४) वाग्भवा वहूरूपा च वधरूपा वधोद्गता || वन्दिवृद्धस्तुताकारा कारागारविमोचनी | अम्बिका बालिका चाम्बा स्वच्छा साधुजनार्चिता || कौलिनी कुलरूपा च स्वकुला कुलपूजिता | कालचक्रभ्रमाभ्रान्ता विभ्रमा भ्रमनाशिनी || आनन्दकन्दरूपा च बीजत्रयसुरेश्वरी | वाद्यनी मेघमाला च सुवृष्टिः शस्यवर्द्धिनी || अकारा च इकारा च उकारैकाररूपिणी | ह्री/कारी बीजरूपा च ह्रीङ्कारा स्वरवासिनी || सर्वाक्षरमयी शक्तिरक्षरावर्णमालिनी | सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया || रम्या च रम्यबीजा च लोकवश्यविभाविनी | नृपवश्या नृपैः सेव्या नृपवश्यकरी क्रिया || महिषी नृपमान्या च नृपज्ञा नृपवन्दिनी | नृपधर्ममयी शक्तिश्चतुर्वर्णप्रपूजिता || सर्वधर्ममयी सिद्धिः सर्वतन्त्रेषु गोपिता | ब्राह्मणी क्षत्रिया वैश्या शूद्रा च वरवर्णजा || वेदमार्गरता माया शिववामाङ्गवासिनी | वेदमार्गरत देवी विद्याविश्वविमोहिनी || अस्त्रशस्त्रमयी विद्या सुस्मृतिर्धर्मधारिणी | स्मृतिः श्रुतिर्वरा ज्येष्ठी श्रेष्ठा पातालवासिनी || अमेध्या सत्यमेधा च भद्रकाल्यापराजिता | गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया || त्रिसन्ध्या त्रिपदी धात्री सुपद्मा सामगायिनी | पाञ्चाला बालिका बाला बालक्रिडा सनातनी || गर्भाववाधरा ऽसून्या गर्भाशयविनाशिनी | सुरारिघातिनी कृत्य पूतना च तिलोत्तमा || लज्जाबलवती नित्या भवानी पापनाशिनी | पट्टाम्बधरा गीतिः सुगीतिर्दानगोचरा || सप्तस्वरमयी तन्त्री षडजमध्यमधैवता | मूर्च्छना ग्रामसंस्थाना स्वस्था स्वस्ह्तानवासिनी || अट्टाट्टहासिनी प्रेता प्रेतनृत्यपरायणा | गीतिप्रिया वाद्यरता तुष्टिदा पुष्टिदा क्षमा || निष्ठा यज्ञप्रिया यज्ञा लोकशास्त्रप्रवर्तिनी | विषमज्वालिनी काला विषमो होर्तृनाशिनी || विषारिर्नागदमिनि कुरुकुल्वा मृतोद्भवा | भूताहारा भूतरक्षा भूतवेशा विलाशिनी || रक्षोघ्नी राक्षसी रात्रिर्वीरशाना यदान्विता | चक्रिका चन्द्रिका कान्तिः सुर्यकान्तिर्निशाचरी || डाकिनी शाकिनी सिद्या हाकिनी रुधिरप्रिया | सितासिताश्रया सङ्गा कमलाननदेवता || गुरुरुपधरा गुर्वी मृत्युर्मारी विशारदा | रक्षोघ्नी राक्षसी देवमाता वेदेषु गीयते || चन्द्रमण्डलसङ्काशा चन्द्रमण्डलसंस्थिता | अनिमा लघिमा प्राप्तिः संस्पृहा कामरूपिणी || अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी | अनादिर्निधना तुष्टिश्चतुर्वाहूश्चतुर्मुखी || चतुर्बोधमयी शान्ती चतुर्वर्गफलप्रदा | काशपुष्पप्रतीकाशा शरत्कुङ्कुमलोचना || भूतभव्यभविष्या च शैलजा शैलवासिनी | वाममार्गरता वामा शिववामाङ्गवासिनी || वामाचारप्रिया पुष्टिर्लोपामुद्रा प्रबोधिनी | (प्. ८४ब्) सोमसूर्याग्निनयना ब्रह्मविष्णुशिवार्चिता || कल्याणी कमला काम्या शुभा मङ्गलचण्डिका | पूतात्मा परमात्मा च भूतभावनभावना || मङ्गला च सुशीला च परमार्गप्रबोधिनी | दक्षिणा दक्षिणामूर्तिः सुदक्षा च हरिप्रिया || दाक्षायणी दक्षयज्ञनाशिनी दक्षकन्यका | योगिनी योगयुक्ता च योगाङ्गा ध्याननाशिनी || योगपट्टधरा मूर्तिर्मुक्तानां परमागतिः | नारसिंही सुजन्मा च त्रिवर्गफलदायिनी || धनदा धर्मदा धन्या कामदा सिदाद्युतिः | साक्षिणी क्षणदा सा तु दक्षादक्षस्वरूपिणी || क्रतुः कात्यायनी स्वच्छा शुभगा द्युतिवर्गिणी | सुश्रीः सुकीर्तिर्वसना कालिकाकालनाशिनी || रक्तबीजवधोद् युक्ता सुतन्तु बीजसन्ततिः | जगद्बीजा जगज्जिवा जगत्रयहितैषिणी || क्रतुः कात्यायनी स्वच्छा शुभगा द्युतिवर्गिणी | सुश्रीः सुकीर्तिर्वसना कालिका कालनाशिनी || चान्द्रीकरी चन्द्रकरी लक्षजा षोडशी कला | यत् तत् पदानुरक्ता च यक्षिणी धनदार्चिता || चित्रिणी चित्ररूपा च विचित्रा चित्ररूपिणी | चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता || अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी | अमाकला स हस्ता च पूर्णकुम्भधरा धरा || अभीरुर्भैरवी भीरुर्भीमा त्रिपुरभैरवी | महाचण्डा च रौद्री च महाभैरवपूजिता || नृमुण्डहस्तिनी चण्डा करालदशनानना | करालारि कराला च घोरघर्घरनादिनी || रक्तदन्तोर्द्धकेशी च बन्धूककुसुमारुणा | कादम्बरी विपासा च काश्मीरी कुङ्कुमप्रिया || क्षान्तिर्वहूसुवर्णा च रतिर्वहूसुवर्णदा | मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी || हंसा हंसगतिर्हंसी हंसो ज्वलशिरोरुहा | पूर्णचन्द्रमुखी श्यामा सुस्मिता चक्रकुण्डला || मसी च लेखनी लेख्या सुलेख्या लेखकप्रिया | शङ्खिनी शङ्खहस्ता च जलहस्ता जलदेवता || कुरुक्षेत्रावलिः काशी मथुरा काञ्च्यवन्तिका | अयोध्या द्वारका मायातीर्थतीर्थहलप्रदा || त्रिपुष्करा प्रमेया च स्वरूपा रूपवर्द्धिनी | तेजस्विनी सुतीक्ष्णा च बलदा बलदायिनी || अव्यक्ता व्यक्तरूपा च देवविद्या च शाम्भवी | शम्भुकल्याणिनी कन्या मनुकन्या च सन्ततिः || पृथिव्यथ(?)तेजमाकाशमहत्कालदिगम्बरी | सर्वकालमयी शक्तिः सर्वश्रवणगोचरा || सर्वज्ञानमयी वाञ्छा सर्वतत्त्वार्द्धबोधिनी | जाग्रतिश्च सुषुप्तिश्चस्वप्नावस्था तुरीयका || त्वरा मन्दगतिर्मन्दा मन्दिरामोदमोदिनी | पानभूमिः पानपात्रा पानभोजनकोद्यता || अघुर्णारुणनेत्रा च किञ्चिदव्यक्तभाषिणी | आशापुरी च दीक्षा च दक्षा दीक्षितपूजिता || नागपत्नी नागकन्या भोगिनी भोगवल्लभा | सर्वशास्त्रमयी विद्या सुस्मृतिर्द्धर्मचारिणी || श्रुतिः स्मृतिश्च मेधा च श्रेष्ठा पातालवासिनी | मीमांसका तर्कविद्या च सुभक्तिर्भक्तवत्सला || (प्. ८५) अनाभिजातना जातिर्गम्भीरा भाववर्जिता | नागपाशधरा मूर्तिर्नागधा नागकुण्डला || सुचन्द्रा चन्द्रमध्यस्था चक्रकोणनिवासिनी | सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरापरा || मधुश्रवा श्रवन्ती च भ्रामरी भ्रमरालया | मातृकुण्डलमधस्था मातृमण्डलवासिनी || सर्वमन्त्रमयी विद्या सुमुखी स्वरनासिनी | अतीता विद्यमाना च भवानी प्रीतिमञ्जरी || सर्वसौख्यवती शक्तिराहारपरिनाशिनी | निदानं पुण्यभूतानां भगसागरतारिणी || अक्रूरा च ग्रहवती विग्रहा ग्रहराजता | रोहिणी दुतगर्भा च कालभुः कालवर्तिनी || कलङ्करहिता काली चतुःष्ऽट्यभिधायिनी | जीर्णा च जीर्णवर्णा च नूतना वरवल्लभा || अजा च अतिप्रीता रतिरागविवर्द्धिनी | पञ्चरात्रिर्नागपञ्चापञ्चश्लेषा भयापहा || पञ्चपिण्डवती पंक्तिः पञ्चस्थाननिवासिनी | उदक्या च वृषस्यन्ती वहिः प्रसुरिणी वहिः || रजःशुक्रयतीः शक्तिर्जरायुर्गर्भधारिणी | त्रिकालज्ञा त्रिकाला च त्रिमूर्तिः पुरवासिनी || अरोगा शिवतत्वा च कामतत्वा च रागिणी | प्राच्यप्राची प्रतीची च दिगुदीची विदिक् तथा || अहङ्कृतिरहङ्कारा बलजाया बलप्रिया | कृषका कामधेनी च सुश्रद्धश्रद्धदेवता || मात्रामाता मही तृप्तिः पितुर्माता पितामही | स्नूया (?) दौहित्रिनी पुत्री नप्ता पौत्री शिशुप्रिया || स्तनाच्या स्तनधारा च विश्वयोनिः स्तनन्धयी | शिशृत्सङ्गधरा दोला दोलोत्क्रीडाभिनन्दिनी || उर्वशी कदली केका विशल्या शिखिनर्तिनी | खट्टाङ्गधारिणी खट्टा वाणपुङ्खानुवर्तिनी || वर्तिनी सुपथा चारा परिखा च खनिर्गतिः | प्रकारवलया वेला मर्यादा च महोदधौ || पोषिणी शोषिणी ऽसक्तिर्दीर्घकेशी सुलोचना | ललिता मांसला तन्वी वेदवेदाङ्गधरिणी || नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा | अक्षक्रीडा रतिः सारा शारिका सुखभाषिणी || शाम्भवी गारुडी विद्या वारुणी वरुणार्चिता | वाराही मुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा || भीममूर्तिर्वदान्या च प्रतिमा प्रतिमाश्रया | सुमूर्तिर्निधिरूपा च शालग्रामशिला शुचिः || स्मृतिः संस्काररूपा च सुसंस्कारसंस्कृतिः | प्राकृतिर्देशभाषा च गाथा गीतिः प्रहेलिका || इडा च पिङ्गला चैव सुषुम्ना सूर्यरूपिणी | शशिसूर्या च भानुस्था ह्रादिनी मृतरूपिणी || अनुरूपा वृहद्रूपा लघुरूपा गुरुस्थिता | स्थावरा जङ्गमा देवी कृतकर्मफलप्रदा || विषया क्रान्तदेहस्था निर्विशेषा जितेन्द्रिया | चित्स्वरूपा चिदानन्दा परंब्रह्मस्वरूपिणी || निर्विकारा च निर्वैरा विरतिः सत्यवादिनी | पुरुषज्ञानभिन्ना च ख्यातिः कैवल्यदायिनी || विविक्ता योगिनी प्राज्ञा जन्ता च वहूश्रुता | निरीहा च सम्स्ता च सरलोकैकपूजिता || (प्. ८५) सेवा सेवाप्रिया सेव्या सेवाफलविवर्द्धिनी | सर्वसौख्यावती शक्तिः सर्वमङ्गलमङ्गला || इति सहस्रनामेदं भवान्या भवभाषितम् | यः पठेत् प्रातरुत्थाय शुचिर्भुत्वा समाहितः || यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः | एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितम् || सर्वदुःखविनिर्मुक्तो लोभक्रोधविवर्जितः | यशस्वी कीर्तिमान् धन्यः सुतन्नो लोकपूजितः || रूपवान् गुणसम्पन्नः प्रभावीर्यसमन्वितः | श्रेयां स लभते नित्यं निश्चलाञ्च शुभां प्रियाम् || सर्वपापविनिर्मुक्तो लभते दलवृद्धताम् | नित्यं वन्धुसुकृद्दारा पुत्रपौत्रमहोत्सवः || नन्दितः सेवितो भृत्यैर्वहूभिः शुद्धमानसैः | विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे || वैश्यश्च धनलोभाढ्यः शूद्रश्च सुखमाप्नुयात् | पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् || इच्छाकामन्तु कामार्थी धर्मार्थी धर्ममक्षयम् | कन्यार्थी लभते कन्यां रूपशीलसमन्विताम् || क्षेत्रञ्च वहूशस्यं स्यात् गावश्च वहूदुग्धदाः | नाशुभं नापदस्तस्य न भयं नृपशत्रुतः || जायते नाशुभा बुद्धिर्लभते कुलधूर्यताम् | न बाधन्ते महान्तस्य रक्षांसि मनुचरादयः || न पिशाचा न डाकिन्यो भूतभव्यन्तु जम्भकाः | बालग्रहाभिभूतानां बालानां शान्तिकारकम् || वहूनां प्रीतिभेदे च मैत्रीकरणमुत्तमम् | लौहपाशैर्दृढैर्वद्धो नन्दीवेश्मनि दुर्गमे || तिष्ठन् शृण्वन् पठन् मर्त्यो मुच्यते नात्र संशयः | न दाराणां न पुत्राणा न वधूनाञ्च विप्रियम् || पश्यन्ति न हि ते शोकं नृपपूज्या भवन्ति हि | अन्धस्तु लभते दृष्टिं चक्षुरोगैर्न व्याध्यते || वधिरः श्रुतिमाप्नोति मूको वाचां शुभां नरः | पतद्गर्भा च या नारी स्थिरगर्भा च जायते || श्रावणी वहूभर्भा च स्वयमेव प्रमुच्यते | कुर्ष्ठिनं शीर्णदेहा ये गतकेशनखत्वचः || पठनाच्चास्य मन्त्रस्य दिव्यकाया भवन्ति ते | ये पठन्ति शतावर्तं शुचिमन्तो जितेन्द्रियः || अपुत्राः प्राप्नुयुः पुत्रान् शृणुयान्नत्र संशयः | महाव्याधिपरिग्रस्ता स्तापयेत् द्विविधैर्ज्वरैः || श्रुतिग्रस्थधरो वालो दिव्यवादी करीश्वरः | पठनात् श्रवणाच्चास्य दिव्यकाया भवन्ति ते || अष्टम्याञ्च नवम्याञ्च चतुर्दश्यां विशेषतः | ये पठन्ति सदा मर्त्या न ते वै दुःखभागिनः || नवरात्रं यताहारो दृढभक्तिर्जितेन्द्रियः | चण्डिका यतने विद्वान् शुचिस्तन्मूर्तिसन्निधौ || एकादशी शतावृत्तं पठेद्धीरस्तु निर्भयः | साक्षाद् भगवती तस्मै प्रयच्छेदीप्सितं वरम् || सिद्ध पीठगिरौ रम्ये सिद्धक्षेत्रसुरालये | पठनात् श्रवणाच्चैव सिद्धिर्भवति नान्यथा || शतावृत्तिं पठेद् यस्तु भूमिशायी जितेन्द्रियः | स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति || आवर्तनसहस्रैर्ये पठन्ति पुरुषोत्तमाः | (प्. ८६) कवित्वसंस्कृते तेषां शास्त्राणां व्याकृतौ कृता || शक्तिः प्रोन्मील्यते तेषामनधीतेऽपि पार्वति | नखरागशिरो रत्न द्विगुणीकृतविग्रहः || प्रायश्चित्तश्च तान् सर्वान् सेवन्ते तान् महेश्वराः | रोचनालिखितं भूर्जो कुङ्कुमेन शुभे दिने || धारयेत् यन्त्रिते देवे पूजयित्वा कुमारिकाः | क्षीरखण्डैश्च भोज्यैश्च भोजयित्वा वभुक्षितान् || वध्नन्ति नृपपूज्यास्ते कीर्तिभाजो यशस्विनः | शत्रुतो न भयं तस्य दुर्जनेभ्यो नराधिपः || रतिरागविशुद्धाश्च विकलाः कामपीडिताः | यौवनाक्रान्तदेहस्था श्रूयन्ते वामलोचनाः || लिखित्वा मूद्ध्नि कण्ठे वा धारयेद् यो नरः शुचिः | शतधायुष्यमामन्तं प्रतियोधो न पश्यति || केतौ वा दुन्धुभौ येषां भित्ते विलिखितं रणे | मायासैन्यपरिग्रस्तान् कान्तिशीकान् हतौजसः || विचेतनान् विमुडांश्च शस्त्रकृत्यविवर्जितान् | निर्जित्य शत्रुशङ्कांस्ते लभन्ते विजयं रणे || नाभिचरान् सर्पांश्च रणे विवादिकीलकम् | डाकिनीयातुधानाश्च महामारी च शाकिनी || भूताः प्रेताः पिशाचाश्च रक्षांसि खचरादयः | न विशन्ति गृहे देहे लिखितें यत्र तिष्ठति || न शस्त्राणि न तोयौघात् भयं तस्येह जायते | दुर्वृत्तानाञ्च पापानां वलहानिकरं परम् || मन्दूरके विशालाश्च गवां गोष्ठे समाहितः | यः पठेद् दोषशान्त्यर्थं दुष्टग्रहनिवारणम् || यमदूतान्न पश्यन्ति न ते निरययातनाम् | प्राप्नुवन्तीह ते चान्ते शिवलोकसनातनम् || सर्ववाधासु घोरासु सर्वदुःखनिवारणम् | सर्वमाङ्ग्यकं स्तोत्रं पठितव्यं समाहितैः || पुण्यं सहस्रनामेदमुमाया रुद्रभाषितम् | चतुर्वर्गप्रदं साक्षात् नन्दिकेन प्रकाशितम् || न प्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् | कूलिनाय सुशान्ताय दुर्गाभक्तिपयाय च || अथवा प्रियशिष्याय पुत्राय सुहृदे तथा | दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् || नातः परतरो मन्त्रो नातः परतरः स्तवः | नातः परतरा विद्या तीर्थं नातः परं वरम् || ते धन्याः कृतपुण्यास्ते तत्र न भुवि पूजिताम् | एकवारं समाश्रित्य येऽर्चयन्ति महेश्वरीम् || देवतानां देवतायां ब्रह्माद्यैर्या च पूजिता | भूयात् सा वरदा लोके साधूनां सर्वमङ्गला || इति श्रीविश्वसारतन्त्रे भवानीसहस्रनामस्तोत्रं समाप्तम् || अथ वक्ष्ये महेशानि वागीश्वर्यप्रदायिनीम् | सरस्वतीं महाविद्यां चतुर्वर्गफलप्रदाम् || यस्य विज्ञानमात्रेण भवेत् साक्षात् वृहस्पतिम् | नार्चनं पूजनं तस्य मन्त्रमात्रं जपेत् सदा || विना पुष्पैर्विना गन्धैर्विना होमैर्विना बलिम् | पूजयेत् परमां देवीं वाग् भवीं सुकविर्नरः || षण्मासं यो जपेन्मन्त्री प्रत्यहं वा दिवानिशम् | सर्वदा सर्वकालेषु नियतं प्रजपेत् सदा || वारमेकं जपेद्विद्यां शुचिर्भूत्वा दिवानिशम् | श्रीवर्ण्याः स भवेद्भूमौ साक्षाद्गङ्गाधरः स्वयम् || द्वादशस्वरमुद्धृत्य नादबिन्दुविभूषितम् | भूतिज्ञं भौतिकं विद्या विद्या एकाक्षरी परा || बिन्दुनादसमायुक्तं वह्निबीजं समुद्धरेत् | षष्ठस्वरसमायुक्तं द्वितीयं परिकीर्तितम् || चन्द्रबीजं समुद्धृत्य वर * योजयेत् ततः | चतुर्दशस्वरारूढं नादबिन्दुविभूषितम् || त्र्यक्षरी सा महाविद्या चतुर्वर्गफलप्रदा | एषा विद्या पुरा देवि ब्रह्मणा आदियामले || कथिता सर्वविद्यनां चुडामणिरिति स्मृता | अस्याः समानं देवेशि त्रैलोक्ये नैव विद्यते || वशिष्ठाद्या * * * * ऋषयोऽस्याः परायणाः | ऋषिः स्याद् दक्षिणा मुर्तिश्छन्दोऽनुष्टुबुदाहृता || देवतास्याः समाख्याता वाग्भवी च सरस्वती | अथापरां प्रवक्ष्यामि शृणुष्व कमलानने || ब्रह्मणाया पुरा प्रोक्ता देवी वाग् भवरूपिणी | भौतिकं बिन्दुनादाढ्यं ब्रह्मेन्द्रस्थशशी पुनः || चन्द्रबीजं स्वर्गयुक्तं बिन्दुनादविभूषितम् | चतुर्दशस्वरारूढं भैरवी बालरूपिणी || एषा वाणीति विख्याता चतुर्वर्गप्रदायिनी | शापोद्धारे स्वर्गवन्तं योजितं पद्मयोनिना || उद्यद्भानुसहश्रकान्तिमरुणक्षौमां शिरो मालिकां | रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् || हस्ताजैर्दधतीं त्रिनेत्रविलस्त् रक्ता च बिन्दुश्रयं देवीं वद्धहिमांशुरत्नमुकुटां वन्दे मुकुन्दस्मिताम् || एवं ध्यात्वा यजेद् देवीं बालात्रिपुरभैरवीम् | श्रीमन्त्रे पूजयेद् विद्यां बालिकां तन्त्र संयुताम् || तन्न्यासं तत् फलं सर्वं कथितं पद्मयोनिना | सरस्वती त्र्यक्षरी या तस्याचारविधिं शृणु || हविष्याशी जपेन्मन्त्री मनुलक्षं निरामिषम् | कुर्यात्रिवसनं स्नानं कुर्याद्धोमं दिने दिने || तदा दद्यान्महादेव्यै बलिदानं दिवानिशम् | तदा भवेन्महाप्राज्ञः शुकदेव इवापरः || गदापद्यमयी वाणी सभायां तस्य जायते | शुक्लवर्णा सिताम्जस्थां (?) नानालङ्कारसंयुताम् || मयीञ्च लेखनीञ्चैव ज्ञानमुद्रा भयप्रदाम् | त्रिभङ्गस्थानसंस्थानां सर्वाभरणभूषिताम् || नवयौवनसम्पनां स्मितास्यां शिवसुन्दरीम् | त्रिलक्षं प्रजपेद् विद्यां पुरश्चरणकर्मणि || त्रिकोणं विन्यसेत् पूर्वं षट्कोणं परिमण्डितम् | नवकोणं पुनस्तत्र रेखात्रयसमन्वितम् || योनिमण्डलमध्यस्थं साष्टपत्रं सकर्णिकम् | पुनः ओंस्डशपत्राढ्यं भुपुरत्रितयं पुनः || चतुर्दारवज्रशूलं संयुतं सुमनोहरम् | (प्. ८७) सर्वत्र वर्णमालाभिः परितः सुमनोहरम् || गायत्र्या कोष्ठितं यन्त्रं सर्वसम्पत् प्रदायकम् | तत्रस्थां पूजयेद् देवीं वाग् देवीं शिववल्लभाम् || मातृकावर्णसंबीते पूजयेद् भुवनेश्वरीम् | वदेद्वाग्देवतां ङेन्तां धीमहि तदनन्तरम् || तन्नोपदं समुद्धृत्य वदेद् देवीं प्रचोदयात् | एषा स्यादेव गायत्री कथिता ब्रह्मणा पुरा || कामाद्यां वाग् भवाद्यां वा लक्ष्म्याद्यां वा जपेत् सदा | मायाद्यां वा जपेद् विद्यां लज्जाद्यां वा जपेत् सदा || वधुबीजादिकां वापि क्रूर्चाद्यां वा जपेत् सुधीः | गायत्र्येषामिदं प्रोक्तं प्रणवाद्यां सदा जपेत् || चतुर्लक्षं पुरश्चर्यां जपेद् विद्यामनन्यधीः | सुन्दरीवद् यजेद् देवीमथवा कालीवद्यजेत् || बलिदानं ततो न्यासं आचारं पूर्ववच्चरेत् | आचारं पूर्ववत् कुर्यात् यजेद्विद्यां समाहितः || नात्र सिद्धाद्यपेक्षा च न च मित्रादिदूषणम् | हविष्याञ्च यवादन्यं कथितं पद्मयोनिना || वाग्भवं पूर्वमुच्चार्य लज्जाबीजं ततः परम् | लक्ष्मीबीजं समुच्चार्य कामबीजं ततः परम् || चतुर्वर्गात्मिका विद्या चतुवर्गफलप्रदा | अस्या विद्यासमो नास्ति त्रैलोकोऽपि च दुर्लभा || गौरीं चम्पकदामपुष्पसदृशीं स्मेराननां सुन्दरीं त्रैलोक्य प्रभया जितां त्रिभुवनं हस्ताम्बुजैर्विभ्रतीं पद्मं शङ्खमुदारहारभूषितामभीतिवरं विभ्रतीं नानालङ्कृतिभूषितां वरं भूसेव्यां वै विवन्दिताम् || एवं ध्यात्वा यजेद् देवीं चतुर्वर्गात्मिकां शुभाम् | पूजयेत् परया भक्त्या शाम्भवीं शिववल्लभाम् || स भवेत् पार्वतीपुत्रः शङ्करेण च भाषितम् | मद्यैर्मांसैः सपुपैश्च भ्रष्टैर्दग्धैश्च सर्वतः || सिक्यैर्दग्धैर्मांसदग्धैर्मत्स्यदग्धैर्विशेषतः | स्वयम्भूकुसुमैं शुक्रैर्जरायावकसंयुतैः || सिन्दूरैरक्तकुसुमैस्तथा कुरुवकैरपि | सशक्त्य पूजयेद् देवीं सर्वसम्पत् प्रसिद्धये || वाग्भवीं प्रवदेत् ङेन्तां विद्महे तदनन्तरम् | कामबीजं वदेत् ङेन्तं धीमहि तदनन्तरम् || तन्नो देवी समुद्धृत्य तदा ब्रूयात् प्रचोदयात् | गायत्रीयं समाख्याता चतुर्वर्गफलप्रदा || तथा बीजादिका जप्या कामबीजसमन्विता | चतुर्लक्षं जपेद्विद्यां पूरश्चरणकर्मणि || कर्मान्ते धनधान्याद्यैस्तोषयेत् शम्भुसुन्दरीम् | (प्. ८७ब्) स्वशक्त्या प्रजपेद् विद्यां सर्वकालं दिवानिशम् || पूजयेत् भैरवीं नित्यं यथा त्रिपुरभैरवीम् | त्रिकोणं विन्यसेत् पूर्वं नवकोणञ्च षड्युतम् || त्रिबिम्बं साष्टपत्रं सकिञ्जल्कसमन्वितम् | भूपुरं गुणरेखाढ्यं वज्रशूलसमन्वितम् || नवशक्तियुते पीठे पूजयेत् विष्णुवल्लभाम् | अस्याश्चतुराक्षरी शम्भुवनितायाः कवचस्य घगवान् श्रीसदाशिव ऋषिरनष्टुप्छन्दो वाग्भवीदेवता वाग्भवं बीजं लज्जाशक्ती रमाकीलकं कामराजात्मकं कवचं मम मन्त्रकवित्वपाण्डित्य सर्वसिद्धिसमृद्धये विनियोगः || ओंकारो मस्तके पातु वाग्भवी सर्वसिद्धिदा | ऐ/ पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शङ्करी || विजया पातु भवने जया पातु सदा मम | शिवदूती सदा पातु सुन्दरी पातु सर्वदा || भैरवी पातु सर्वत्र भेरुण्डा पातु सर्वदा | पातु मां कालिका नित्यं कालरात्रिः सदावतु || नवदुर्गा सदा पातु कामाख्या सर्वदावतु | योगिन्यः सर्वदा पान्तु मुद्रा पान्तु सदा मम || मात्रा पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः | सर्वदा सर्वकार्येषु सर्वकर्मसु सर्वदा || पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धये | इति ते कथितं देवि कवचं सर्वकामदम् || यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् | शठाय भक्तिहीनाय निन्दकाय महेश्वरि || उनाङ्गेऽतिरिक्ताङ्गे दर्शयेन्न कदाचन | न स्तवं दर्शयेद् देवि सन्दर्श्य शिवहा भवेत् || कुलीनाय महोत्साय दुर्गाभक्तिपराय च | वैष्णवाय विशुद्धाय दद्यात् कवचमुत्तमम् || निजशिष्याय भक्त्याय शान्ताय धनिने तथा | दद्यात् कवचमित्युक्तं सर्वतन्त्रसमन्वितम् || शनौ मङ्गलवारे च रक्तचन्दनके तथा | यावकेन लिखेद् यन्त्रं सर्वतन्त्रसमन्वितम् || विलिखेत् कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः | स्वशुक्त्रैः परशुक्रैश्च नानागन्धसमन्वितैः || गोरोचना कुङ्कुमेन रक्तचन्दनकेऽपि वा | सुतिथौ शुभयोगे च श्रवणायां रवेर्दिने || अश्विन्यां कृत्तिकायां वा फल्गुण्याञ्च विशेषतः | इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च || कौलवे ववके चैव वनिजे नैव सत्तमः | शून्यावासे श्मशाने चन्द्र (?) विजने च विशेषतः || लिखित्वा च पठित्वा च वशयेदखिलं जगत् | मस्तके वा भुजे वापि धारयेत् विधिनामुना || (प्. ८८) रक्तचन्दनदूर्वाभिः कुङ्कुमेन विशेषतः | सुगन्धिकुसुमैर्गन्धैः पूजयित्वा विधानतः || कुमारीं पूजयित्वा च यजेद् देवीं सनातनीम् | मत्स्यैर्मांसैः काकशूकैः पूजयेत् परदेवताम् || घृताद्यैः सुपकरणैः सुपपूपैर्विशेषतः | ब्राह्मणान् भोजयित्वा च पूजयेत् परमेश्वरीम् || आखेटकमुपाख्यानं तत्र कुर्याद् दिनत्रयम् | तदा भवेन्महारक्षां शङ्करेण च भाषितम् || मारणाद् दूषणादीनि लभन्ते नात्र संशयः | (प्. ८८ब्) स भवेत् पार्वतीपुत्रं सर्वशास्त्रपुरस्ततः || गुरुदेवः शिवः साक्षात् पत्नी तस्य हरप्रिया | अभेदेन यजेद् देवीं तस्य सिद्धिरदूरतः || पठति य इह मर्त्या नित्यमात्रास्तरात्मा जपफलमनुमेयं प्राप्स्यते सौविधेयम् | स भवति पदमुच्चैः सम्पदापदमस्रक्षितिपमुकुटलक्ष्मीर्लक्षणानां चिरायूः || इति श्रीविश्वसारतन्त्रे सरस्वत्याः कवचं समाप्तम् || इति ढाकाविभागेर अन्तःपाती माणिकगञ्ज उपविभागेर अधीन बुतुनीग्रामनिवासी / आनन्दमोहनचट्टोपाध्यायेर पुत्र श्रीरसिकमोहन चट्टोपाध्याय कर्तृक सङ्कलित, सम्पादित ओ प्रकाशित तन्त्रसारादि विविधमूलतन्त्रसंग्रहे विश्वसार नाम महातन्त्र समाप्त || ########### END OF FILE #######