#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00614 Uniform title: viśeṣārthaprakāśikā Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Publisher : Publication year : 1906 Publication city : Solapur Publication country : India #################################################### ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ २३ वा | विशेषार्थप्रकाशिका वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८२८ सन् १९०६ संस्कृतशुद्धाशुद्धपत्रिका पान ओल अशुद्ध शुद्ध ३ ७ पूर्वकान्||षट पूर्वकान्षट् ५ ६ धूम धूप ५ ११ तालवृतं तालवृंतं ७ १० निऋज निज १५ ५ तत्कि तत्किं १५ ७ सद्गुरो सद्गुरो १६ १४ सद्गुरो सद्गुरो २९ २ वज्रतीति व्रजतीति ४५ १२ त्रिपुंड्रं त्त्रिपुंड्रं ४७ ८ मूर्ध्व मूर्ध ५० ६ संरभः संरंभः ५६ ३ समपर्णम् समर्पणम् ५९ १३ एतद्वयं एतद्द्वयं ६० १२ निंषेंधार्थ निंषेधार्थे पृ० १)|| श्रीशिवाय नमः || || विशेषार्थप्रकाशिका || प्रथमाधिकरणे ब्रह्मोपदेशविधिः श्रीशिवाय नमः || श्रीमदैपुरसोमेशलिंगायालिंगरूपिणे || लिंगांगैक्यस्वलिंगाय नमस्ते लिंगमूर्तये || १ || नमः शब्द उमा साक्षाच्छिवशब्दः शिवः स्वयम् || अयशब्दस्तयोर्योगः सोमं तं समुपास्महे || २ || शिवो लिंगमुमैवांगमनया सहितस्त्वयम् || सोमः संबंध इत्येवं पदत्रयमुपास्महे || ३ || इतःपरं प्रवक्ष्यामि विशेषार्थप्रकाशकम् || शिवसिद्धान्ततंत्रोक्तं संवादं गुरुशिष्ययोः || ४ || तत्रादौ षट्स्थलब्रह्मोपदेशविधिरुच्यते || द्वितीये कथ्यते सम्यक् शिवलिंगार्चनक्रमः || ५ || श्रीमत्प्रसादसद्भावस्तृतीये परिगीयते || चतुर्थे षट्स्थलब्रह्मपुरश्चरणमिष्यते(मुच्यते) || ६ || अवसानविधानं यत्पंचमे तु प्रकीर्त्यते || एवं पंचाधिकरणं विशेषार्थप्रकाशकम् || ७ || पृ० २) शिवानुभवसूत्रोत्थं क्रमादेतन्निरूप्यते || शिवानुभविनस्सन्तः शृत्वा नंदन्तु सन्ततम् || ८ || || गुरुनिरूपणम् || गुरुः || अथातः षट्स्थलब्रह्माख्योपदेशविधिं परम् || प्रवक्ष्यामि विशेषेण शिवसिद्धान्ततंत्रजम् || ९ || पुरा यथोपदिश्योक्तं षट्स्थलब्रह्मशंभुना || षण्मुखायोपदिष्टार्थं तथैवेहाधुनोच्यते || १०|| (षडध्वशुद्धिर्यत्रोक्ता) षडध्वशुद्धये प्रोक्तं षट्स्थलब्रह्म शांभवम् || उपदेशः षडध्वानो मंत्राध्वाद्याश्च वै क्रमात् || ११ || मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः || भुवनाध्वा च तत्वाध्वा कलाध्वा चेति ते स्मृताः || १२ || कृत्वा सर्वं यथाकालं यथाशक्ति यथाविधि || यथोचितं विधातव्यं तत्र भक्त्या समीहितः || १३ || पंचमुद्रां समुद्धृत्य पंचकोणसमन्विताम् || कलाभिः पंचभिर्व्याप्तां पंचशक्तिमयीं तथा || पंचवर्णैरवर्णैर्वा तण्डुलैर्मण्डलं बहिः || १४ || तद्बहिश्चतुरस्रं तु परिस्तरणरूपतः || तदन्तःकर्णिकायुक्तं पद्मं वलयितं शुभम् || १५ || पृ० ३) तन्मध्ये प्रणवं साक्षात्पंचब्रह्मात्मकं शिवम् || प्रत्येकं पंचकोणेषु पंचाक्षरमनुक्रमात् || १६ || नकारादियकारान्तं सद्योजातादिपंचकम् || मुद्रितानि यया पंच पंचतत्वान्यशेषतः || १७ || मुद्रया सा समाख्याता पंचमुद्रेति शांभवी || एषा पंचमहामुद्रा शिवयंत्रमितीरिता || १८ || समंत्रे विधिवत्तत्र पूतान् पूर्णान् सुशोभनान् || आचारलिंगभक्तांगपूर्वकान् षट्स्थलात्मकान् || १९ || कलशान् षट् समादाय पंचकोणेषु पंच वै || एकं मध्ये प्रतिष्ठाप्य क्रमेण विधिना ततः || २० || सूत्रैः पवित्रैरावृत्य कलशान्प्रणवादिकान् || तत्तन्मुखे सन्निधाय कुशदूर्वाम्रपल्लवान् || २१ || अर्चयित्वा विधानेन समंत्रेण यथाक्रमम् || ततः स्तुत्वा च नत्वा च षडेताननुपूर्वशः || २२ || उदऽऽन्मुखो गुरुः प्रत्यऽऽन्मुखं शिष्यं नियम्य च || अभिषेकं ततः कृत्वा कलशस्थांबुभिः शिवैः || २३ || शक्तिपातं विधायाथ सम्यग्ज्ञानाभिवृद्धये || येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये || २४ || पृ० ४) तेषां तल्लिंगमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ || २५ || श्रीमत्पंचाक्षरीमंत्रं सतारं तु षडक्षरम् || षडंगलिंगसंयुक्तं षट्स्थलब्रह्मवर्चसम् || २६ || सार्थं समुपदिश्याथ शिवसिद्धान्ततंत्रके || शिवानुभवसूत्रेऽस्मिन् यदुक्तं तत्समादिशेत् || २७ || द्रव्यमंत्रक्रियायोगो यत्र यत्र यथा यथा || तथा तथा तत्र तत्र सर्वमच्छिद्रमाचरेत् || २८ || इत्येवं षट्स्थलब्रह्मोपदेशविधिरुत्तरः || सारात्सारतरः प्रोक्तः संक्षिप्य महदर्थतः || २९ || शिष्यः || नमः शिवाय सोमाय सताराय षडात्मने || स्वयंज्योतिःप्रकाशाय स्वतंत्राय नमो नमः || ३० || य एतदाचरत्येवं स आचार्यवरो विभुः || परानुभवसूत्रोक्तं परमार्थं परं पदम् || ३१ || इति श्रीशिवसिद्धान्ततंत्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे षट्स्थलब्रह्मोपदेशविधिर्नाम प्रथमाधिकरणं संपूर्णम् || पृ० ५) || श्रीनंदिकेश्वराय नमः || || द्वितीयाधिकरणे षट्स्थलब्रह्मपूजा || अथ वक्ष्ये विशेषेण शिवलिंगार्चनक्रमम् || पूजोपचारविधिना षट्त्रिंशद्भेदभेदितम् || १ || पूजा द्वादशधा प्रोक्ता शिवसिद्धान्ततत्परैः || उपचारास्तथा चैव चतुर्विंशद्विधाः स्मृताः || २ || विभूत्यभ्युक्षणं लिंगे करणं स्नपनं तथा || अंगारतापनं चैव धूपसंवीजनं तथा || ३ || धूमप्रसारणं चैव ततो गंधावतंसनम् || अक्षतारोपणं चैव पुष्पोपहरणं तथा || ४ || दीपप्रकाशनं चैव नैवेद्यस्य समर्पणम् || तांबूलस्य प्रदानं च वस्त्रप्रावरणं तथा || एवं द्वादशधा प्रोक्ता शिवलिंगार्चनक्रिया || ५ || आसनाह्वानमर्घ्यं च पाद्यमाचमनं तथा || यज्ञोपवीतमाल्यानुलेपनाभरणानि च || ६ || छत्रं च चामरं चैव तालवृंतं च दर्पणम् || घंटा शंखं च गीतं च वाद्यं नृत्यं प्रदक्षिणम् || ७ || नमस्कारः स्तुतिर्याच्ना विज्ञप्तिस्तु विसर्जनम् || इत्येवमुपचाराश्च चतुर्विंशद्विधाः स्मृताः || ८ || समर्चनोपचाराणां योगः षट्त्रिंशदीरितः || षट्त्रिंशत्तत्वमययेषा शैवी स्थितिरिति शृतिः || ९ || पृ० ६) अथार्चनोपचाराणां योगक्रम उदीर्यते || भस्मस्नानादिभिः शुद्धीकरणं विधिवत्ततः || १० || श्रीमत्पंचाक्षरीमंत्रानुष्ठानं तत आसनम् || कराब्जपीठरूपेण तत आवाहनं परम् || ११ || आनीयांगस्थलिंगोपवेशनं तत्र चासने || विभूत्यभ्युक्षणं पूर्वं समंत्रकमनंतरम् || १२ || अर्घ्याद्याचमनांतं वै ततः स्नपनकर्म च || अंगारतापनादीनि दश चोक्तानि पूर्ववत् || १३ || ततो यज्ञोपवीतादिविज्ञप्त्यंतं यथा तथा || विसर्जनं करस्थस्य लिंगस्यांगे निवेशनम् || १४ || एवं लिंगार्चनं यस्तु कुरुते भक्तिपूर्वकम् || सोपचारविधानेन स शिवार्पणविद्भवेत् || १५ || अर्चनार्पणयोर्भेदो नात्यन्तमुपपद्यते || क्रियाविशेषतो भेदस्तयोरीषत्प्रकीर्त्यते || १६ || अर्चनार्पणसापेक्षा वर्तते द्रव्यशुद्धये || अर्पणाद्द्रव्यशुद्धिः स्यात्प्रसादस्तदनंतरम् || १७ || विभूत्यभ्युक्षणाल्लिंगे पृथिवी परिशुध्यति || आपश्च स्नपनात्तद्वद्वह्निरंगारतापनात् || १८ || वायुस्तथा शिवोद्दिष्टधूपव्यजनकर्मणा || धूपधूमेन चाकाशश्चंद्रो गंधावतंसनात् || १९ || पृ० ७) ज्योत्स्ना कर्पूरदीपेन नक्षत्राण्यक्षतैः शुभैः || सूर्यः पुष्पोपहारेण घृतदीपेन चातपः || २० || छाया पश्चात्पुरस्ताश्च पार्श्वतो दीपचारणात् || शीतोष्णादीनि पूर्वोक्ततत्तदंशोद्भवानि हि || २१ || आत्मा नैवेद्यरूपेण तांबूलेन गुणत्रयं || वस्त्रप्रावरणादेव विशुध्यन्ति दिशो दश || २२ || एवमर्पणसापेक्षैरर्चनैः शिवमर्चयेत् द्रव्यशुद्धिं परां लब्ध्वा प्रसादसुखमश्नुते || तत्प्रसादसुखेनैव परमो भवति धृवम्|| २३ || वृत्तम् || शांतिर्वारि सुखं शमःसुमनसः श्रीखंडपिंडोऽक्षता ज्ञानं केसरमात्मनैव कुसुमं धूपो भवेत्सौरभम् || दीपः कांतिरथार्चनारतिमहानैवेद्यरूपं ततस्तांबूलं निजभक्तिरागरस एवेत्यष्टधा पूजनम् || २४ || इतःपरं विशेषेण वीरशैवार्चनक्रमम् || षट्स्थलात्मकरूपेण प्रवक्ष्यामि समासतः || २५ || भक्तस्थले सुखासीनो भूतिरुद्राक्षधारणम् || कृत्वा भक्त्या सुपूतात्मा ततो माहेश्वरस्थले || २६ || पृ० ८) षडक्षरं परं मंत्रमनुष्ठायात्मनिष्ठया || प्रसादिस्थलमादाय लिंगं हस्तेऽवधानतः || २७ || प्राणलिंगिस्थले पूजां विधाय स्वानुभूतितः || ततः शिवार्पणं कृत्वा स्वानंदाच्छरणस्थले || २८ || ऐक्यस्थले प्रसादोपभोगतृप्तिमवाप्य च || एवं समरसीभावात्षडंगस्थलयोगतः || क्रियते सर्वदा सोऽयं वीरशैवार्चनक्रमः || २९ || वीरशैवनिरुक्तिर्या द्वयमेवाधुनोच्यते || विशब्दोऽत्र विकल्पार्थो रशब्दो रहितार्थकः || विकल्परहितं शैवं वीरशैवमिति स्मृतम् || ३० || एकमेवाद्वितीयं यदविकल्पं परं पदम् || तद्वीरशैवमित्युक्तं नेतरं सविकल्पकम् || ३१ || एवं समासतः प्रोक्तः शिवलिंगार्चनक्रमः || शिवानुभवसूत्रेऽस्मिंश्छिवसिद्धान्तवर्त्मनि || ३२ || शिष्य उवाच || नमस्ते षट्स्थलब्रह्ममूर्तये शुभकीर्तये || स्वसंवेद्याय त्दृद्याय विद्यारूपाय शंभवे || ३३ || नमो लिंगांगसंबंधषडात्मैकस्वरूपिणे || षट्स्थलब्रह्मणे भक्तिज्ञानयोगाप्तवस्तुने || ३४ || प्रकाशश्च मुखं नाममूर्तिरानंद आत्मनः || पृ० ९) प्रसन्नतेति ते शंभो लक्षणं षड्विधं भवेत् || ३५ || वृत्तम् || भूतिस्ते परमप्रकाश उत रुद्राक्षं त्वदीयं मुखं श्रीपंचाक्षरमंत्र एव भवदीयं दिव्यनाम स्फुटम् || लिंगं मूर्तिरुमापते तव परानंदामृतं पादुदं प्रासन्नं त्वदभूत्प्रसाद इति मे भक्तिर्भजत्यास्तिकी || ३६ || अयमयमिति भक्तः पश्यति त्वामसर्वं पुरहर निजभक्तिज्ञानयोगेन कश्चित् || तदिदमपि समस्तं मायिकज्ञानयोगाच्छिव इति परिपश्यत्यात्ममोहात्ततोऽन्यः || ३७ || मायायोगज्ञानात्सर्वमिदं दृश्यते शिवः कोऽपि || शिव एव शिवो नान्यः प्रदृश्यते भक्तियोगजज्ञानात् || ३८ || अन्यचिन्ता भवेत्काष्ठं शिवचिंता हविर्भवेत् || न काष्ठमन्तरा वह्निर्ज्ञानाग्निस्तद्वदीरितः || ३९ || वृत्तम् || मानसवाचिककायिककर्माणीध्मानि पुण्यपापानि || शैवानि हवींषि मया ज्ञानाग्नौ हूयते सदा होमः || ४० || नाग्निः काष्ठं विनास्ति क्वचिदपि न समुद्बध्यते सैव कोऽपि स्वाहाकारैर्हविर्भिर्न च परिणमते नैति तृप्तिं तथैव || ज्ञानाग्नौ शुष्क- पृ० १०) मेतत्त्रिकरणकृतमुद्यत्समिद्दर्भपूर्वं पुण्यं निक्षिप्य शैवं पुरहर निजभक्त्या हविर्हूयते वै || ४१ || यच्चौर्यहिंसापरतादि कर्म तत्पापमेतद्विपरीतमन्यत् || भक्तिक्रियाचारविशिष्टमार्गं निःशृंखलं यत्तदितीह शैवम् || ४२ || नित्यं समर्पणकलानिपुणं प्रसन्नं यद्भक्तिरूपमचलं निजभावसिद्धम् || निर्लेपभोगरसिकं निरहं ममत्वं तत्कर्म शैवमुभयातिगमाहुरार्याः || ४३ || अधस्ताच्चोर्ध्वतः कृत्वा पुण्यपापेंधनद्वयम् || निर्मथ्योत्थश्च चिद्वह्निः पुनस्तेनैव निर्दहेत् || ४४ || यथा काष्ठोद्भवो वह्निः काष्ठमेव विनिर्दहेत् || तथा कर्मोद्भवं ज्ञानं कर्मैव प्रविनाशयेत् || ४५ || वृत्तम् || नैवाहं पुरुषो गृही न च वनी न ब्रह्मचारी यतिर्नात्याश्रम्यपि किं पुनः कृतकमेतत् सर्वमामन्यते || श्रीमच्छांभवसत्यधर्मसुलभः प्रत्यक्चिदानंददृग्भास्वत्स्वात्मपरानुभूतिरतिलीलालोलशीलोऽस्म्यहम् || ४६ || निजनिजेषु पदेषु पतंत्विमाः करणवृत्तय उल्लसिता मम || पृ० ११) शिवलिंगार्चनक्रमः क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसः || ४७ || वचने चलने विलोकने भवदर्चादिषु सर्वकर्मसु || अलसत्वमलं विभूषणं भगवन् भक्तिमतोऽनुजीविनः || ४८ || आत्मा त्वं गिरिजा मतिः परिचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः|| संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् || ४९ || (आत्मेशैक्यविभावशीलिनि) आत्मेशैक्यविभागशीलिनि परे भक्त्यांगके त्वामहं याचे कं चिदिमं वरं तव न चाशक्यं किमप्यस्ति हि || यद्देहेंद्रियगोचरैः सहचरैः सार्द्धं मया क्रीडितं तात त्वं निजपुत्रशैशवरसस्नेहेन संप्रीयताम् || ५० || प्रभुः स्वतंत्रोऽप्रभुरस्वतंत्रः प्रभुर्यदेवेच्छति तत्करोमि || पुण्यं च पापं च निजेच्छया हि द्वयोर्न कर्ताऽप्रभुरस्वतंत्रः || ५१ || इच्छाज्ञानक्रियाशक्तित्रयं यस्यास्ति स प्रभुः || पृ० १२) स्वतंत्र त्वदधीनोऽयमस्वतंत्रोऽहमप्रभुः || ५२ || वृत्तम् || इच्छति जानातीदं करोति सकलं शुभाशुभं कर्म || इच्छाज्ञानक्रियया शक्त्या शिव एव नाहमिति सत्यम् || ५३ || शक्तिमानेव शक्तः स्यादशक्तः स्यादशक्तिमान् || शक्तः करोति सकलमशक्तः किं करिष्यति || ५४ || वृत्तम् || इच्छाशक्त्या त्वमीशो भवसि सकलमेवेच्छसि ज्ञानशक्त्या ज्ञातं जानासि शंभो निखिलमपि करोषि क्रियाशक्तियुक्तः || कर्ता सर्वं च कर्माशुभशुभविहितं तत्फलं चासि भोक्ता स्वातंत्र्याच्च प्रभुत्वाद्धससि पुनरलेपस्सलेपश्च नाहम् || ५५ || त्वत्प्रेरितः सकलकर्म करोमि कर्ता नाहं न तस्य फलभुक् परतंत्रभावात् || भृत्यापराध इह यद्वदुमेश दण्डः स्यात्स्वामिनस्तव मया कृतमेव तद्वत् || ५६ || स्वतंत्रश्चेदहं शंभो मम भीतिर्न कापि हि || करोमि पुण्यपापानि संहराम्यात्मलीलया || ५७ || अतो ज्ञात्वा पारतंत्र्यात्स्वातंत्र्यादपि मे प्रभो || पुण्यपापादिकं किंचिदपि नास्तीति सूनृतम् || ५८ || तस्मात्पुण्यं च पापं च स्वर्गश्चापि च दुर्गतिः || पृ० १३) बंधश्चापि विमोक्षश्च तवैव न मम प्रभो || ५९ || इदं पुण्यमिदं पापमिति यः कृतवान्पुरा || अभावे तद्द्वयोः कर्ता स एवाहं क उच्यताम् || ६० || अहोरात्रिविवेकस्तु जात्यंधस्य यथा न हि || पुण्यपापविवेकोऽपि जात्यज्ञस्य न मे तथा || ६१ || पारतंत्र्यमिदं भक्त्या मया गुरुपदेऽर्पितम् || तत्प्रसादप्रभावेन न कोऽप्यहमिति स्थितिः || ६२ || वृत्तम् || जानाति सोमेश्वर एव नाहं मदीयमामुष्मिकमैहिकं च || सर्वं च जानामि किमप्यनेन ज्ञातृत्वमीशस्य न मेऽस्ति नैजम् || ६३ || य एतदाचरत्येवं स आचार्यवरो विभुः || परानुभवसूत्रोक्तं परमार्थं परं पदम् || ६४ || इति श्रीशिवसिद्धान्ततंत्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे शिवलिंगार्चनक्रमो नाम द्वितीयाधिकरणं समाप्तम् || पृ० १४) || श्रीगुरुबसवलिंगाय नमः || तृतीयाधिकरणे प्रसादसद्भावः अथानुभवसूत्रेऽस्मिन् पुरा शिवमुखोदितम् || श्रीमत्प्रसादसद्भावनिरूपणमहं ब्रुवे || १ || जगज्जीवेश्वराणां तु त्रयाणां तत्वनिर्णयः || उच्छिष्टान्नप्रसादेषु त्रिषु निर्णीयते क्रमात् || २ || शरीरादिजगद्रूपमुच्छिष्टं भ्रांतिलक्षणम् || अन्नं तदभिमानी स्याज्जीवः संसारलक्षणः || ३ || प्रसाद ईश्वरः साक्षात्सच्चिदानन्दलक्षणः || स्वरूपमेवमुक्त्वाथ विशेषः पुनरुच्यते || ४ || स पश्यति शरीरं तच्छरीरं तं न पश्यति || तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः || ५ || इत्येवमधिकृत्यार्थं स बाह्याभ्यन्तरं परम् || ज्ञानक्रियोभयोरैक्यं वर्तते भक्तिरैश्वरी || ६ || शिष्य उवाच || अवाच्यात्मस्वरूपाय शिवभावप्रदायिने || नमः सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये || ७ || वृत्तम् || गुरुं महा कारुणिकं प्रसन्नं स्वषट्स्थलब्रह्मपदेषु संस्थम् || प्रणम्य भक्त्या परयाथ शिष्यः कृतांजलिः संयतवागपृच्छत् || ८ || पृ० १५) गुरो शिवज्ञाननिधे शिवात्मन् त्वयेरिते षट्स्थलनिर्णये ते || कृपाबलात्सर्वमवेदि किंचिद्वितर्क्यते तत्र मया प्रसादः || ९ || भाण्डस्थमन्नं प्रवदन्ति यत्पुनः केचित्प्रसादं विनिवेदितं शिवे || उच्छिष्टमेवेति तदात्मसेवितं तत्किं यथार्थं कथयस्व मे प्रभो || १० || आदावोदनमेतत्कथं भवेन्मध्यतः प्रसादस्तु || उच्छिष्टं कथमंते वदस्व मम सद्गुरोऽस्य परमार्थम् || ११ || एकमेव कथं वस्तु भिद्यते तत्त्रिधा विभो || तेषु त्रिषु किमादेयं किं तत्र वद कारणम् || १२ || वृत्तम् || इति परिपृष्टस्तूष्णीं निरतिशयानन्दवैभवोऽतिष्ठत् || चिरमवलोक्यात्मानं स्वयंप्रभं शिष्यमाह गुरुनाथः || १३ || गुरुः || पृष्टं त्वया वत्स किमेतदद्भुतं पृष्टं न केनापि पुरा परात्परम् || वक्ष्ये प्रसादस्य पदार्थतां क्षणं नोच्छिष्टतामस्य समाहितः शृणु || १४ || पृ० १६) प्रसाद आद्यन्तविवर्जितः स्वयं ह्यखण्डरूपः परिशेषलक्षणः || विकल्पहीनः सुविशुद्धवस्त्विति प्रभाव एषोऽस्य निजस्वभावजः || १५ || शिष्य उवाच || वृत्तम् || प्रभो किमुक्तं भवता पुरा मे निरूपितं लिंगमनाद्यमन्तम् || विकल्पहीनं परिशेषितं चेत्यखण्डरूपं सुविशुद्धमेतत् || १६ || गुरुः || शृणुष्व हे वत्स कृतार्थबुद्धे विभाति साक्षेपवचः सदर्थम् || वदामि ते संग्रहणेन लिंगप्रसादयोर्नैव विभिन्नभावः || १७ || लीयते द्रव्यमन्नादि यत्र यद्गम्यते यतः || प्रसादत्वेन तल्लिंगं प्रसादस्त्वत एव सः || १८ || अर्चनद्वारतो लिंगमर्पणद्वारतः स्वयम् || प्रसाद इति भक्त्याऽयमेक एवोपचर्यते || १९ || शिष्यः || ज्ञातः प्रसादसद्भाव उक्तलक्षणतो मया || पदार्थरूपमिति किं कृपया वद सद्गुरो || २० || गुरुः || वृत्तम् || भावः प्रसादं कुरुते पदार्थं भूयः प्रसादं विनियोगकाले || पृ० १७) आद्यन्तयोरप्रमितं प्रसादं मध्ये पदार्थं क्षणमातनोति || २१ || शिष्यः|| पदार्थरूपं किमितीह पृष्टे त्वया किमेतत्कथितं प्रभो मे || प्रसाद एव क्रियते पदार्थमिति प्रसादस्य विपत्तिरुक्ता || २२ || गुरुः || श्रूयतां सुमते वत्स परमार्थं ब्रवीमि ते || अविपत्तिं प्रसादस्य विपत्तिं कल्पितस्य च || २३ || वृत्तम् || यथा सुवर्णं रुचकाय कल्पितं विलुप्यते नैव सुवर्णभावतः || तथा पदार्थाय हि कल्पितोऽप्यसौ प्रसाद इत्यात्मधियाऽवधारय || २४ || रोचते रुचकत्वेन रुचये रुक्मरूपकम् || यथा तथा प्रसादोऽयं पदार्थत्वेन रूपितः|| २५ || वृत्तम् || प्रसादसत्ताप्रतिबोधनार्थं क्रियाकलापैर्विविधोपचारैः || समर्पको भाव इति प्रसादं पदार्थमप्यातनुते सलीलम् || २६ || शिष्यः || वृत्तम् || ज्ञातं पदार्थस्य च कल्पितत्वं विपत्तिरस्यापि च कल्पितत्वात् || पृ० १८) को भाव उक्तो विनियोग एष क इत्यतो मे कृपया वदस्व || २७ || गुरुः || सम्यक्पृष्टः प्रसादस्य सद्भावोऽयं महात्मना || प्रवक्ष्यामि समासेन समाहितमनाः शृणु || २८ || भावो भक्तिरिहैवोक्तः शिवैकविषयः स्वयम् || विनियोगः क्रियारूपः शिवपूजादिलक्षणः || २९ || शिष्यः || इदं किमाचार्यवर त्वयोक्तं स्वभावमेनं विनियोगमत्र || अपृच्छमेवाहमिमां च भक्तिं क्रियां भवानात्थ निरूप्यतां मे || ३० || श्रीगुरुः || वरं महाभाग्यवतो विवेकस्तवोत्तरार्थस्य च सूचको हि || क्रियात्मिका भक्तिरिहैव भावः स एव भक्तिर्विनियोगयुक्तः || ३१ || शिष्यः || मया क्रियात्मिका भक्तिर्विज्ञाता त्वत्प्रसादतः || क्रिया किमात्मिका स्वामिन् वद तत्वविदां वर || ३२ || पृ० १९) गुरुः || सबाह्याभ्यंतरा या सा मनोवाक्कायजा क्रिया || आदानार्पणसंपूजाजपध्यानात्मिका मता || ३३ || शिष्यः || क्रिया किमात्मिकेत्यत्र मया पृष्टे गुरूत्तम || भवान् किमुक्तवानादानार्पणादि तदुच्यताम् || ३४ || श्रीगुरुः || शिवप्रसादग्रहणमादानं चेति गीयते || निवेदनं पदार्थस्य शिवायैतत्समर्पणम् || ३५ || शिवार्चनं भवेत्पूजा शिवमंत्रस्मृतिर्जपः || शिवस्वरूपचिन्तैव ध्यानमित्यभिधीयते || ३६ || शिष्यः|| वृत्तम || क्रियास्वरूपं विदितं मया ते निरूपणव्याजकृपाकटाक्षात् || विभो त्वयैतत्परिभाषितं प्राग्वद स्वरूपं स्फुटमाद्यभक्तेः || ३७ || श्रीगुरुः || वृत्तम् || भक्तिस्वरूपं शृणु वत्स किंचिद्वक्तुं शिवेनापि न च प्रभूतम् || शक्यं किमाश्चर्यमितीह शंभुर्भक्तेर्विधेर्योऽयमशक्त आसीत् || ३८ || भक्तिः स्वतंत्रा स्ववशीकृतेश्वरा स्वाभाविकी स्वानुभवैकवैभवा || पृ० २०) स्वायंभुवी स्वागममार्गवर्तिनी स्वच्छन्दवृत्तिः स्वरुचिर्विराजते || ३९ || भक्तिर्विशिष्टा विविधा क्रियापरा विद्यात्मिका विश्वविमोहहारिणी || विश्वासिनी विश्रुतवीरशांभवी विश्रामभूमिर्विमला विराजते || ४० || भक्तिर्निरीहा नियतिर्निरुत्तरा निर्मायिका निष्कलनिष्क्रियाश्रया || निःसंशया निश्चलिता निरंकुशा निस्सूतका निश्चयधीर्विराजते || ४१ || भक्तिर्निगूढा निजभावरूपिणी निःश्रेयसानंदनिवासदायिनी || निर्देहिनी निर्विषया निरिंद्रिया निःकेवला नित्यपदा विराजते || ४२ || भक्तिर्दुराचारदुरिष्टदुर्लभा दूरीकृताशेषदुरुक्तिदूषणा || दुःखापहा दुर्घटकारिणी शुभा दुर्ज्ञेयदुष्पारगुणा विराजते || ४३ || भक्तिस्सदाचारवती सदोदिता सद्वासना सत्यसुखात्मविग्रहा || पृ० २१) सत्तास्फुरल्लक्षणलक्षिता सती सच्चिन्मयी सच्चरिता विराजते || ४४ || भक्तिः प्रसन्ना प्रतिमानवर्जिता प्रत्यक्षदृक्प्रत्ययदर्शनप्रदा || प्रक्षीणदोषा प्रकृतिप्रबोधिता प्रत्यक्स्थितिः प्राथमिका विराजते || ४५ || भक्तिः षडाधारगता षडध्वगा षट्धा स्थिता षट्स्थलिनी षडक्षरी || षड्वर्गषट्भ्रांतिषडूर्मिदुर्गमा षट्त्रिंशतत्वातिशया विराजते || ४६ || भक्तिप्रशंसाष्टकमेतदुत्तमं भक्त्यर्थिचेताः(भक्त्यात्तचेताः) पठति स्वयं यः || भक्त्या सदा भक्तिमतां वरः पुमान्भक्तिं परामव्यभिचारिणीमियात् || ४७ || भक्तिस्वरूपं कथितं मया ते यत्ज्ञानतः सिद्धिरिहैव तस्याः || यत्सिद्धितः सिद्ध्यति तत्प्रसादः सिद्धप्रसादः स्वयमेव मुक्तः || ४८ || मुक्तस्यैव भवेद्भक्तिर्बद्धस्य न कदाचन || भक्तस्यैव हि मुक्तिः स्यान्नाभक्तस्य कदाचन || ४९ || प्रसादभक्तिमुक्तीनामेकदेशसमन्वयः || अपि मुक्तिर्भवेज्जन्या शेषौ द्वौ जनकौ मतौ || ५० || पृ० २२) प्रसादो जनकः प्रोक्तो जननी भक्तिरीरिता || अनयोरैक्यभावेन जनिता मुक्तिकन्यका || ५१ || प्रकारोऽयं प्रसादः स्यात्साकारो भक्तिरुच्यते || प्रसादपूर्विका भक्तिर्मुक्तिदेति दकारतः || ५२ || प्रसादः शिव एव स्याद्भक्तिः शक्तिर्न संशयः || एतत्साधर्म्यमेतेषां वैधर्म्यं नास्ति किंचन || ५३ || अधिष्ठाने प्रसादेऽस्मिन्नधिष्ठात्री स्वलीलया || चरत्यनर्गला भक्तिर्यथेष्टं स्वयमीश्वरि || ५४ || शिष्यः || वृत्तं || उक्तं भवता भक्तिस्वरूपमतिशोभनं महास्वामिन् || पदार्थकरणं यत्तत्समर्पणं ग्रहणमत्र कथयस्व || ५५ || गुरुः || अन्नं पदार्थरूपं तत्करणं कल्पना समाख्याता || अर्पणमन्नविलोपो ह्यादानं ग्रहणमित्यतो विद्धि || ५६ || कारणं भक्तिरेवात्र पदार्थकरणे सदा || भांडेषु बहुधा नामगुणरूपादिभेदतः || ५७ || प्रसाददायिनी या सा पदार्थकरणक्षमा (प्रसादकरणक्षमा) || पृ० २३) समर्पणकलादक्षा भक्तिरव्यभिचारिणी || ५८ || वृत्तम् || भांडं पदार्थकरणाय समर्पणाय यद्भाजनं वितनुते बहुधा विभिन्नम् || लीलापरा परमकारणरूपिणी या भक्तिः किमत्र कथयामि महत्वमस्याः || ५९ || शिष्यः || पदार्थस्य पदार्थत्वं प्रसादस्य प्रसादता || उभयोरुभयोर्भावः स्वभावो न विपर्ययः || ६० || पदार्थस्य प्रसादत्वं नास्ति केनापि कर्मणा || प्रसादस्य पदार्थत्वं दोषाय भवति ध्रुवम् || ६१ || गुरुः || वृत्तम् || पदार्थ इत्यत्र न कश्चिदस्ति द्विधा कृतश्चेति न संमतोऽत्र || समर्पिका भक्तिरथोपचारप्रियः सदा शंभुरिति प्रतेने || ६२ || भक्तिर्भजते भागं विभागमपि विभजते विभक्ततया || एकं विषयं द्रव्यं प्रसादरूपेण दान आदाने || ६३ || अन्नादियत्कल्पितवस्तु तस्य नास्ति प्रसादत्वमितीह सिद्धम् || भक्त्या प्रसादस्य पदार्थभावो दोषाय नायं न गुणाय नैजम् || ६४ || पृ० २४) शिष्यः || ज्ञातं पदार्थकरणं गुरुनाथ युष्मत्कारुण्यतो वद समर्पणमत्र सत्यम् || गुरुः || वक्ष्यामि ते शृणु समर्पणमत्यपूर्वं सूक्ष्मं पदं (परं) सुलभमद्वयभक्तिभाजाम् || ६५ || यद्भाजनस्थं विनिवेद्यमानमन्नादिकं भांडगतं तदंशम् || लिंगार्पितं भाजनसंस्थितं चेद्भांडस्थितं चैव समर्पितं स्यात् || ६६ || शिष्यः || कथं प्रभो चित्रमिदं समर्पणं समर्पितं भाजनसंस्थितं यदि || समर्पितं भाण्डगतं तदंशकं पदार्थरूपं पृथगाहितं भवेत् || ६७ || श्रीगुरुः || पृथक्त्वमेकस्य न चास्ति वस्तुनः स्वरूपनामार्थगुणादिसाम्यतः || विभक्तमप्येतदथोक्तलक्षणाद्विचारिते सत्यविभक्तमेव हि || ६८ || पृ० २५) शिष्यः || यद्दृश्यमान पुरतः प्रतीतमन्नादिरूपं शिवभाजनस्थम् || शिवार्पितं चेद्विपरीतमन्यत्तदंशरूपं कथमर्पितं स्यात् || ६९ || गुरुः || अदृश्यरूपं यदिभाण्डसंस्थमदृश्यमप्येव हि भाजनस्थम् || तिरोहितत्वादुपरिस्थितेन पदार्थरूपेण तदंतरस्थम् || ७० || अनर्पितं भाण्डगतांशमेव चेत्समर्पितं चापि न चार्पितं स्यात् || द्वयोरनुस्यूतनिरंतरस्थितः प्रसादभावानुपपत्तिकारणात् || ७१ || शिवार्पिताशेषपदार्थजातौ विलक्षणं यत्तदनर्पितं स्यात् || न भांडसंस्थं न समागतं च न चान्यदित्याचरते हि भक्तिः || ७२ || शिष्यः || गुरो शिवार्पितद्रव्यविलक्षणमितीह किं || कृपया वद मे स्वामिन् शिवार्पणविदां वर || ७३ || गुरुः || वृत्तम् || शिवाश्रमाचारबहिष्कृतं यच्छिवार्पितद्रव्यविलक्षणं तत् || पृ० २६) तदंतरेणार्पितमेव सर्वं शिवस्य भक्तेः परमप्रभावात् || ७४ || शिष्यः || वृत्तम् || पुरा प्रसादात्मतया स्थितस्य पदार्थरूपस्य समर्पणेन || अनेन का सिद्धिरथोपदिष्टाद्वद प्रभो लिंगमुखे यथार्थम् || ७५ || श्रीगुरुः || घृतात्मकं यन्नवनीतमाद्यं प्रतापितं वह्निमुखे निजं स्यात् || यथा तथा लिंगमुखार्पितं यद्भवेत्प्रसादात्मकमन्नमाद्यम् || ७६ || रौप्ये यथाऽऽलोकय शुक्तिकायां लुप्ते स्वयं शिष्यत एव या सा || तद्वत्प्रसादस्य पदार्थभावे लुप्ते स्वयं शिष्यत एव वस्तु || ७७ || पदार्थस्य प्रसादत्वं भाव्यपि प्रागभावतः || न सिध्यति हि यत्प्राच्यं तदेवोपरि सिध्यति || ७८ || वृत्तम् || प्रसादभावानुपपत्तिदृष्टमनर्पितं द्रव्यमितीह सिद्धम् || समर्पितं द्रव्यविलोपशिष्टं प्रसादरूपं भज (भजते तदेव) एतदेव || ७९ || शिष्यः || शिवार्पणं चात्र पदार्थभावविलोप एवेति निरूपितं मे || पृ० २७) अजानवान् व्यक्तमहं महात्मन् वद प्रसादग्रहणं यदेतत् || ८० || श्रीगुरुः || वृत्तम् || वक्ष्ये प्रसादग्रहणं सुदुर्लभं भक्त्या शृणुष्वैतदतीवशोभनम् || उच्छिष्टभावानुपपत्तिरेव या तद्धि प्रसादग्रहणं निरंतरम् || ८१ || शिष्यः || उच्छिष्टशब्देन किमुच्यतेऽत्र सत्यार्थमेतस्य वद प्रभो मे || श्रीगुरुः || भुक्त्वाऽवशिष्टं शृणु यन्निषिद्धमुच्छिष्टमित्येष हि (इत्येव हि) लोकवादः || ८२ || शिष्यः || तर्हि त्वयास्यानुपपत्तिरुक्ता निषिद्धभूतस्य विभो किमेतत् || आदानमित्येव शिवोपभुक्तप्रसादरूपस्य वदस्व सत्यम् || ८३ || श्रीगुरुः || नोच्छिष्टभावो न निषिद्धभावः साक्षात्प्रसादे परमे पवित्रे || भोगे प्रसादस्य ऋतं शृणु त्वं भुक्ते च तस्मिन्न हि संभवोऽस्ति || ८४ || प्रसाद उच्छिष्टनिषिद्धभावो घटेत चेन्नैव भवेत्प्रसादः || अभावतश्चास्य न चास्ति लिंगं गुरुर्नचास्ति क्रमतो निपातः || ८५ || पृ० २८) शिष्यः || मैवं निरूपय विभो न निषिद्धमाहुर्भुक्तं शिवेन परमं यमिमं प्रसादम् || नोच्छिष्टमप्यथ निषिद्धधियाऽऽत्मभुक्तं यद्यस्ति तस्य कतिचित् घटयंति दोषम् || ८६ || गुरुः || वृत्तम् || प्रागात्मदोषमपनीय शिवप्रसादं पश्चान्न भोक्तुमयमर्हति चेति वेदः || रोगी स्वरोगमपनीय पुरा न पश्चाद्भैषज्यमत्तुमयमर्हति चेति तद्वत् || ८७ || रोगार्थमौषधं सेव्यं दोषार्थं चात्मनस्तथा || सेव्यः शिवप्रसादोऽयमिति शैवी परा स्थितिः || ८८ || वृत्तम् || आत्मोपभोगात्प्रथमं प्रसादरूपं यदि स्यात्तमपि प्रशस्तम् || लिंगार्पितं प्राथमिकं स्वभोगान्नोचेत्स्वभुक्तं विनिषिद्धमेव || ८९ || शिष्यः || वृत्तम् || नेत्थं प्रभो केचन लिंगभुक्तमप्यात्मजिह्वेंद्रियदूषितं चेत् || पृ० २९) उच्छिष्टभावं वज्रतीति लोके तस्य प्रसादस्य निषेधमाहुः || ९० || गुरुः || वृत्तं || पंचभिरिंद्रयकरणैर्भुक्तानां स्वात्मभोगविषयाणाम् || एकं तत्रोच्छिष्टं शेषं नोच्छिष्टमित्यसद्वादः || ९१ || उच्छिष्टं चेत्सर्वं चोच्छिष्टं भुक्तमिंद्रियैः सकलैः || नोच्छिष्टं चेत्सर्वं नोच्छिष्टं भुक्तमिंद्रियैः सकलैः || ९२ || वृत्तम् || असंस्कृतात्मेंद्रियभूतकायैरलिंगिभिः स्वार्थपरैः सकामैः || दृष्टं श्रुतं स्पृष्टमथोपभुक्तं घ्राताद्यमुच्छिष्टमिति प्रसिद्धम् || ९३ || अतींद्रियैरविषयैरकामैः षट्स्थलात्मभिः || यद्भुक्तं तद्धि नोच्छिष्टं न निषिद्धं न दूषितम् || ९४ || पृ० ३०) शिष्यः || वृत्तम् || अतींद्रियत्वादिगुणैरुपेतास्ते के मम ब्रूहि दयापयोधे || गुरुः || कृतार्थ वक्ष्ये परमं रहस्यं कस्याप्यनुक्तं तव भक्तिभाजः || ९५ || अतींद्रियत्वादिगुणोपपन्ना भक्तादयः षट्स्थलवर्तिनः स्युः || समर्पितात्मेंद्रियगोचरत्वादाचारलिंगादिषु कामवर्ज्याः || ९६ || शिष्यः || देह आत्मा विभो प्राण इंद्रियं विषयस्ततः || तृप्तिश्चेति षडेतैर्हि मूर्तं कथमतींद्रियम् || ९७ || श्रीगुरुः || वृत्तम् || आचारोऽयं देह आत्मा गुरुस्तत्प्राणो लिंगं स्याच्चरश्चेंद्रियं हि || प्रासादोऽसौ गोचरो यन्महत्स्यात्तृप्तिः साक्षात्षट्स्थलब्रह्ममूर्तिः || ९८ || आचाराह्वयलिंगमस्य वपुरात्मा गौरवं लिंगकं प्राणः स्याच्छिवलिंगमिंद्रियसमूहस्तद्वदेव स्वयम् || प्रोक्तं यच्चरलिंगमेष विषयप्रासादलिंगं तथा तृप्तिः षट्स्थलरूपिणस्तव किमाचक्षे महालिंगकम् || ९९ || पृ० ३१) शिष्यः || उक्तमाचारलिंगादि षड्विधं भवता पुरा || स्वात्मानुष्ठेयरूपत्वाद्वद कारुणिकोत्तम || १०० || गुरुः || भूतिः स्नानं त्रिपुंड्रांकं रुद्राक्षाणां तु धारणम् || आचारलिंगमाचार्यैः प्रोक्तमाचारतः सदा || १०१ || मूलपंचाक्षरी विद्या प्रणवेन षडक्षरी || आज्ञासिद्धो महामंत्रो गुरुलिंगमिहोच्यते || १०२ || स्वांगस्थमिष्टमचलं करपीठे समाहितम् || मूलमंत्रार्थविषयं शिवलिंगमुदीर्यते || १०३ || अर्चनार्पणसद्भावकियारूपं त्रिसाधनम् || उपचारैरुपेतं यच्चरलिंगं तदुच्यते || १०४ || क्रियाकलापविस्तारपरिणामोदितं फलम् || यद्वस्तु तत्प्रसादाख्यं लिंगमित्यभिधीयते || १०५ || आदानसेवनावाप्ततृप्तिरूपं निरंतरम् || सुखं निरुपमं नित्यं तन्महालिंगमिष्यते || १०६ || शिष्यः || स्वात्मानुष्ठेयरूपत्वात्प्रोक्तं षट्स्थलमादितः || निरुक्तिरुच्यतामत्र षण्णामेषां स्वरूपतः || १०७ || पृ० ३२) गुरुः || अनात्मात्मेत्युभे तत्वे वेदितव्ये विवेकतः || अनात्मरूपो देहादिरात्मा तद्व्यतिरिच्यते || १०८ || अनात्माचारो नाचार (स्तमनाचारमन्तरा) ईरितः समलः सुखम् || देहादिधर्मो ह्यज्ञानलक्षणो लौकिको जडः|| अनात्माचारतत्वज्ञैरनाचारः प्रकीर्तितः || १०९ || आत्माचारो ह्यदेहादिधर्मः सुज्ञानलक्षणः || अलौकिकः स्यादजडः सद्भिराचार आदृतः || ११० || भूतिः परानुभूतिर्हि स्नानं तत्रावगाहनम् || त्रिपुंड्रं त्रिगुणाभावो ह्यलिंगं लिंगमेव तत् || १११ || मनोमुखानि चाक्षाणि रुद्राक्षाणि विधाय वै || चतुर्दश क्रमाद्धार्याण्येतद्रुद्राक्षधारणम् || ११२ || पंच षड्विधतत्वानि (क्षीयंत च)नाक्षरन्ते समासतः || यस्यां पंचाक्षरी सा चेत्स्वयमेव षडक्षरी || ११३ || अंगमात्मा शिवो लिंगमिष्टमादृतमात्मनः || समाधिः करणानां तत्करपीठमुदाहृतं || ११४ || समाहितत्रिकरणक्रियायां या व्यवस्थिता || सा सा समर्चना नित्यं समर्पणमपि स्वयम् || ११५ || पृ० ३३) अर्चनार्पणयोगेऽस्मिन्सुखैकघनलक्षणा || या वृत्तिर्विमला भाति सैव शैवी प्रसन्नता || ११६ || प्रसन्नतावकाशोऽयमादत्तः(मानंदः) प्राणिनः परः || महत्येष पदे स्वीये स्वयमेव महीयते || ११७ || शिष्यः || निरुक्तं युक्तियुक्तं यदुक्तं व्यक्तं त्वया विभो || विज्ञातवानहं तेषामनुबन्धं वदस्व मे || ११८ || गुरुः || धारणं भूतिरुद्राक्षाणां तथाचारलिंगकम् || आचारलिंगसंबंधि गुरुलिंगमिति स्मृतम् || ११९ || गुरुलिंगेन यद्दृष्टं शिवलिंगमितीरितम् || शिवलिंगमुखं यत्तच्चरलिंगमुदाहृतम् || १२० || चरलिंगोपलब्धं यत्तत्प्रसादाख्यलिंगकम् || प्रसादग्राहकं साक्षान्महालिंगमिहोच्यते || १२१ || शिष्यः || लिंगषट्स्थलमाख्यातं स्वानुबंधं त्वया विभो || अंगषट्स्थलमेतेषां भक्तादिकमिहोच्यताम् || १२२|| पृ० ३४) गुरुः || वृत्तम् || भक्तो ह्यात्मविभेदतः पृथगसावात्मा महेशाश्रयान्माहेशः स्वधिया(सुधियः) प्रसादत उतायं स प्रसादी ततः || प्राणो लिंगमितः प्रतिष्ठितमतिः स्यात्प्राणलिंगी स्वतः स्वप्राणार्पणकौशलेन शरणस्त्वैक्यो ह्यभेदे पदे || १२३ || भक्तो देहादिहानाद्भवति तदचलश्चेत्स माहेश्वरोऽयं नैश्चल्याच्चित्तशुद्धिर्यदि भवति स एष प्रसादी ततोऽसौ || जीवात्माभावबुद्धिर्भवति यदि स हि प्राणलिंगी शिवत्वं सत्यं चेत्सोऽयमात्मा शरण उभयभावो न च स्याच्छिवैक्यः || १२४ || भक्तश्चेदिह लोकधर्मरहितो माहेश्वरो यद्यपि त्यक्तान्याश्रयकाम्यचारविषयः(काम्यकर्मविषयः) प्रायः प्रसादी तथा || व्याधिक्लेशविवर्जितो मरणदूरप्राणलिंगी पृ० ३५) परो न स्याच्चेच्छरणः परं यदि न च श्रीमच्छिवैक्यो भवेत् || १२५ || पृथ्व्यंगं चेद्भयं पार्थिवमिह न पयोंऽगं तदीयं न चाग्निर्नाग्नेयं वायुरंगं यदि न भवति वायव्यमंगं नभश्चेत् || नाकाशाद्भीतिरात्मा यदि भयमपरं नात्म्यमेवं षडंगं भक्ताद्यैक्यं तमेतेष्वहरहरनुतिष्ठ त्वमत्रैव निष्ठः || १२६ || नमः शिवाय सोमाय षट्स्थलब्रह्ममूर्तये || सच्चिदानंदरूपाय स्वानुभूतिकलात्मने || १२७ || श्रीमद्विभूतिरुद्राक्षधारणारूपिणे सदा || नमोऽस्त्वाचारलिंगाय भक्त्या भक्तस्थलांगिने || १२८ || धृतश्रीमत्सदाचारमूर्तये स्वात्मनिष्ठया || माहेश्वरांगिने साक्षाद्गुरुलिंगाय ते नमः || १२९ || गुरुप्रसन्नताद्वारदृष्टमंत्रार्थरूपिणे || सावधानप्रसाद्यंगिशिवलिंगाय ते नमः || १३० || शिवार्चनार्पणाकारक्रियानुभवरूपिणे || नमस्ते चरलिंगाय प्राणलिंगिस्थलांगिने || १३१ || चरमाकाशभूताय क्रियायाः फलरूपिणे || प्रसादानंदलिंगाय नमस्ते शरणांगिने || १३२ || प्रसादभोग(संप्राप्त)संतृप्तिसामरस्यस्वरूपिणे || ऐक्यस्थलांगिने साक्षान्महालिंगाय ते नमः || १३३ || पृ० ३६) नमस्त्वाचारलिंगाय सद्योजाताय भूमये || विभूत्येकप्रकाशाय नकारमनुमूर्तये || १३४ || नमः सद्गुरुलिंगाय वामदेवाय चांभसे || भसिताप्तप्रकाशाय मकारमनुमूर्तये || १३५ || नमस्ते शिवलिंगायाघोररूपाय वह्नये || भस्मदिग्धप्रकाशाय शिकारमनुमूर्तये || १३६ || नमस्ते चरलिंगाय तत्पुरुषाय च वायवे || क्षाराभ्यक्तप्रकाशाय वाकारमनुमूर्तये || १३७ || नमः प्रसादलिंगाय ईशान्याकाशरूपिणे || रक्षालिप्तप्रकाशाय यकारमनुमूर्तये || १३८ || महालिंगाय ते पंचब्रह्मणे नम आत्मने || परभूतिप्रकाशाय ओंकारमनुमूर्तये || १३९ || नमोऽस्त्वाचारलिंगाय नमोऽस्त्वाचारलिंगिने || नमस्ते गुरुलिंगाय नमस्ते गुरुलिंगिने || १४० || नमस्ते शिवलिंगाय नमस्ते शिवलिंगिने || नमस्ते चरलिंगाय नमस्ते चरलिंगिने || १४१ || नमः प्रसादलिंगाय नमः प्रासादलिंगिने || पृ० ३७) नमो महात्मलिंगाय नमो माहात्म्यलिंगिने || १४२ || नमो भक्तांगरूपाय नमो भक्तांगरूपिणे || नमो माहेश्वरांगाय नमो माहेश्वरांगिने || १४३ || प्रसाद्यंगस्वरूपाय प्रसाद्यंगस्वरूपिणे || प्राणलिंग्यंगरूपाय प्राणलिंग्यंगरूपिणे || १४४ || नमस्ते शरणांगाय नमस्ते शरणांगिने || नम ऐक्यांगरूपाय नम ऐक्यांगरूपिणे || १४५ || नमः शिवाय लिंगाय (सोमाय) लिंगांगपदरूपिणे || ज्योतिःकर्पूरसंयोगपरनिर्वाणहेतवे || १४६ || श्रीगुरुः || वृत्तम् || आचारलिंगादिभिरेव षड्भिः षडंगयुक्तैर्विगतांगसंगैः || तैर्भुक्तमन्नादिसमस्तवस्तु प्रसादरूपं स्वत एव सिद्धम् || १४७ || अथ प्रसादं उच्छिष्टमिति भ्रांन्तिमती मतिः || लौकिकानामभक्तानां जायते सुदृढा भुवि || १४८ || मुसलोलूखलचुल्लीघटेक्षुतिलयंत्रमुखसमुद्भूतं || न किमपि दूष्यति लोके दूष्यति गुरुलिंगजंगममुखोत्थं || १४९ || पृ० ३८) प्रसादभोगसंप्राप्तावन्तरायो महानयम् || भवेत्प्रसादभोक्तृर्णां सूतकद्वयसंगमः || १५० || वृत्तं || ओदनसूतकमादावन्ते चोच्छिष्टसूतकद्वितयम् || हित्वा शिवप्रसादं भुनक्ति यस्स प्रसादवान्भवति || १५१ || सूतकं पातकं प्रोक्तं पातकं किल्बिषं महत् || तस्मात्सूतकमाद्यन्तं हित्वा भोगं समाचरेत् || १५२ || उच्छिष्टं चेत्प्रसादो न प्रसादश्चेद्विचारतः || नचान्यं भवतीत्येवं ज्ञात्वा भोगं समाचरेत् || १५३ || अन्नमेव प्रसादः स्यात्प्रसादः सोपभोगतः || उच्छिष्टं भवतीत्येतन्न श्रोतव्यमसद्वचः || १५४ || अन्नोच्छिष्टप्रसादानां विवेकरहितक्रिया || सा तु त्रयाणामेतेषां भवत्यंधपरंपरा || १५५ || शिष्यः || वृत्तम् || प्रसादभोगो विदितो मया ते प्रसादतः श्रीगुरुलिंगमूर्ते || प्रसादरूपाधिगमाय भूयः प्रसादमाहात्म्यमुदीरयस्व || १५६ || गुरुः || महत्वं ते प्रसादस्य प्रवक्ष्यामि समासतः || प्रसादावाप्तये वत्स समाहितमनाः श्रुणु || १५७ || प्रसादोऽयमनाद्यन्तोऽविकल्पोऽखंडसंस्थितः(संज्ञकः) || पृ० ३९) विशुद्धः शेष इत्येषा प्रसादस्य महत्वता || १५८ || आद्यन्नमन्तमुच्छिष्टमेताभ्यां रहितत्वतः || प्रसादोऽयमनाद्यंतमित्यस्य महिमा खलु || १५९ || विकल्परूपमन्नादि कल्पितं तदभावतः || अविकल्पप्रसादोऽयमित्यस्य महिमा खलु || १६० || खंडस्सूतकभावो यस्तस्यैवानुपपत्तितः || अखंडस्स्यात्प्रसादोऽयमित्यस्य महिमा खलु || १६१ || उच्छिष्टत्वमशुद्धिर्या तया विरहितत्वतः || विशुद्धः स्वयमेवायमित्यस्य महिमा खलु || १६२ || ओदनोच्छिष्टयोर्नाशे शेषितत्वात्स्वभावतः || प्रसादशेष एव स्यादित्यस्य महिमा खलु || १६३ || आत्मभुक्तं न चोच्छिष्टं भाजनस्थं न चार्पितं || न भाण्डसंस्थितं चान्नमित्यस्य महिमा खलु || १६४ || भाण्डे च भाजने चैव भोजने च निरंतरं || प्रसादोऽयमनुस्यूतमित्यस्य महिमा सलु || १६५ || भक्त्या परमया स्वेच्छाक्रियया सोपचारया || पृ० ४०) पदार्थभाव इत्येष इत्यस्य महिमा खलु || १६६ || प्रसादाष्टकमेतद्यः प्रसादपरया धिया || पठत्यनुदिनं स स्यात्प्रसादज्ञानवान्पुमान् || १६७ || इति प्रसादमाहात्म्यं कथितं ते मयाऽनघ || षट्स्थलात्मकरूपेण प्रसादं तं सदा भज || १६८ || वृत्तं || आचारेण च गुरुणा शिवेन चरमूर्तिना प्रसादेन || महताऽऽघ्रातं पीतं दृष्टं स्पृष्टं श्रुतं स्मृतं च भज || १६९ || भोक्तरि भोगे च तथा भोजयितरि भोगसाधके (भोगसाधने) करणे || एतस्मिन्नपि सकले भज प्रसादं सदात्मरूपेण || १७० || भाण्डे च बहुधा भिन्ने भाजने च तथैव च || अभेदप्रतिपत्त्यैव प्रसादं भज सर्वदा || १७१ || एक एव भवेच्छेषो भाण्डभाजनयोरपि || इति शेषप्रसादं त्वं भज भावपुरःसरं || १७२ || वृत्तम् || भाण्डो देहो भाजनं चेंद्रियाणि जीवात्मायं द्रव्यरूपं यदन्नं || भक्त्या लिंगायार्पयित्वा परस्मै शेषीभूतं तं प्रसादं भजस्व || १७३ || शरीरादिपदार्थांश्च दत्वा दानं समर्पणं || समर्प्य सोऽहमस्मीति दासोऽहंभाव उच्यते || १७४ || पृ० ४१) नाहमनात्मा पश्चात्सोऽहं सोऽहं पदस्थ आत्मा साक्षी || तत्पतिशिवदासोऽहं दासोऽहमिति चरेदुपरि पदे || १७५ || शब्दब्रह्मज्ञानं निःशब्दब्रह्मसत्क्रिया निष्ठा || शब्दब्रह्म यदुक्तं निःशब्दब्रह्म तच्चरति तूष्णीम् || १७६ || भक्तिर्भूतित्रिपुंड्रांकरुद्राक्षाणां (रुद्राक्षाणां तु धारणम्) निषेवणम् || ज्ञानं षडक्षरो मंत्रो योगो लिंगांगसंगमः || १७७ || यो भक्तिज्ञानयोगार्थः स तत्वमसिनिर्णयः || यो निर्णयः स लिंगांगसंबंधार्थो न संशयः || १७८ || मार्गो दर्शयिता द्रष्टा दृक् च दर्शनमप्यतः || द्रष्टव्यो गतिरित्येभिराचारादुपदिश्यते || १७९ || मार्ग एव सदाचारो गुरुर्दर्शयिता यतः || दृष्टाऽऽत्मा दृक् भवेल्लिंगं दर्शनं तु चरं स्मृतम् || १८० || दृष्टव्योऽयं प्रसादः स्यात्प्राप्तिर्महदिहोच्यते || एवं षडंगलिंगैक्यस्थलमद्वैतमुत्तमम् || आश्रित्य षट्स्थलब्रह्मपदे नित्यसुखी भवेत् || १८१ || पृ० ४२) नेति नेतीति नेतीति शेषितं यत्परं पदम् || निराकर्तुमशक्यत्वात्तदस्मीति सुखी भवेत् || १८२ || वृत्तम् || एवं महाकारुणिकः प्रसन्नो गुरुप्रसादस्य महत्वमुक्त्वा || नातः परं चेति बभूव तूष्णीं परानुभूत्येकसुखस्वरूपः || १८३ || इत्यादिष्टोऽथ गुरुणा निःशेषच्छिन्नसंशयः || शिष्यो नत्वा गुरुपदं भक्त्याऽऽप परमं सुखम् || १८४ || इति प्रसादसद्भावनिरूपणमकारि यत् || गुरूक्तं मायिदेवार्यप्रभुणा स्वानुभूतितः || १८५ || जयति परमशैवः स्वात्मविद्याधिदैवः कुहकमतविभेदी षट्स्थलब्रह्मवादी || गुरुपदनिजभक्तः केवलानादिमुक्तः सुचरितशिववर्त्मा मायिदेवो महात्मा || १८६ || जय गुरुपदसिद्धे योगिनि प्रेमभूमे गुणगणमणिभूषे निर्गुणे निर्विकारे || (पद्यमिदमार्षं)निरतिशयनिजानंदप्रसादांगलिंगानुभवघनसमाधिप् राप्तिके मययुमे त्वम् || १८७ || उमायै सशिवायै ते सोमाय सशिवाय ते || युवाभ्यां चैपुरेशाभ्यां नमो भूयो नमो नमः || १८८ || पृ० ४३) उमामहेश्वराकारायांगलिंगस्वरूपिणे || षट्स्थलब्रह्मणे तुभ्यं सोमेशाय नमो नमः || १८९ || य एतदाचरत्येवं स आचार्यवरो विभुः || परानुभवसूत्रोक्तं परमार्थं परं पदम् || १९० || इति शिवसिद्धान्ततन्त्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे प्रसादसद्भावनिरूपणं नाम तृतीयाधिकरणं संपूर्णम् || पृ० ४४) श्रीगुरुबसवलिंगाय नमः || चतुर्थाधिकरणे पट्स्थलब्रह्मपुरश्चणम् || श्रीगुरुबसवलिंगाय नमः || अथ षट्स्थलब्रह्मपुरश्चरणम् || अथातः षट्स्थलब्रह्मपुरश्चरणमादरात् || प्रवक्ष्यामि विशेषेण शिवसिद्धान्ततंत्रजम् || १ || यत्र क्वापि सुखे स्थाने विशुद्धे निरुपद्रवे || नित्यकृत्यं समाप्याथ परिकल्प्य सुखासनम् || २ || समंत्रकं तदुपरि चोपविश्य यथासुखम् || भक्त्या परमया युक्तः सुखासीनः सुनिश्चलः || ३ || ध्यात्वा गुरुपदं सम्यग्भूतिमागृह्य (मादाय) शांभवीम् || समाहितमना भूत्वा हित्वाऽन्यां वाचमात्मनः || ४ || षट्प्राणायामकं कृत्वा बध्वा चांजलिमुद्रिकाम् || अभिमंत्र्य सतारेण श्रीमत्पंचाक्षरेण च || ५ || भस्मज्योतिःस्वरूपाय शिवाय परमात्मने || षट्त्रिंशत्तत्वबीजाय नमः शांताय तेजसे || ६ || इति संचिंत्य तद्भस्म गृहीत्वा चाभिमंत्रितम् || आचारलिंगाय नम इत्याद्यैः षड्भिरात्मनः || ७ || पादयोर्नाभिदेशे च हृदये चानने तथा || पृ० ४५) मस्तके च शिखायां च समभ्युक्ष्य ततः पुनः || ८ || शिखादिपादपर्यन्तेष्वेषु स्थानेष्वनुक्रमात् || महालिंगाय नम इत्याद्यैरभ्युक्ष्य पूर्ववत् || ९ || तत उद्धूलनं कुर्याद्विधिवन्मंत्रपूर्वकम् || हृदयादिचतुःस्थानेष्वथ नाभौ च पादयोः || १० || उद्धूलनमन्त्रः || नमस्ते शिवलिंगाय घोररूपाय वह्नये || भस्मदिग्धप्रकाशाय शिकारमनुमूर्तये || ११ || इत्यादिभिश्चतुर्भिस्तु हृदयादिष्वनंतरम् || नमस्सद्गुरुलिंगायेत्यादिभिर्नाभिपादयोः || समुद्धूल्य ततः स्नानं प्रकुर्वीत समंत्रकम् || १२ || भूतिः परानुभूतिश्चेत्याद्यैः स्नात्वा च भस्मना || त्रिपुंड्रधारणं कुर्याद्भस्मना सजलेन च || १३ || जलेन मिश्रिता भूतिरग्निष्टोमात्मिका शुभा || शिवशक्तिमयी धार्या त्रिपुंड्रेण त्रिधाऽऽत्मना || १४ || कृत्वेवं जलमिश्रं तु समुद्धृत्य षडक्षरीम् || धारयेत्तत्रिपुंड्रं तु मंत्रेणानेन मंत्रितम् || १५ || त्रिपुंड्रं त्रिगुणं त्र्यात्मा त्रितत्वं त्रितनु त्रिदृक् || त्रिकालश्च त्रिमूर्तिश्च त्रिमात्रा च त्रिधा त्रिधा || १६ || पृ० ४६) इति धृत्वा त्रिपुंड्रं तु रुद्राक्षान् धारयेत्ततः || मनोमुखानि चाक्षाणीत्यादिपूर्वोदितैः क्रमात् || १७ || रुद्राक्षं धारयित्वाऽथ लिंगांगात्मवपुः स्मरेत् || भूतिस्नानं त्रिपुंड्रांकं रुद्राक्षाणां तु धारणम् || १८ || इत्यादिभिस्तु पूर्वोक्तैर्लिंगांगस्थलबोधिभिः || आदौ स्थलद्वयं स्मृत्वा द्वितीयेऽथ जपेन्मनुम् || अस्य श्रीषट्स्थलब्रह्मषडक्षरमहामनोः || १९ || परब्रह्म ऋषिः शैवी गायत्रीच्छंद उच्यते || देवतास्य शिवः साक्षाच्छक्तिर्माहेश्वरी मता || २० || बीजं मायासबिंदूक्तं शिवाग्निद्वयसंयुतम् || कीलकं शिववह्निभ्यां चतुर्दशकलान्वितम् || २१ || सबिंदुकं समाख्यातं विनियोगोऽथ कथ्यते || ममाहं सति देहे तु षडूर्म्यादिनिवृत्तये || २२ || षट्स्थलब्रह्मनिर्वाणसुखसंपदवाप्तये || षडक्षरमनोर्जाप्यं करिष्ये शिवयाजिकम् || २३ || वृत्तं || षट्शतसहस्रसंख्याजपरूपोऽयं षडक्षरो मंत्रः || षट्स्थलब्रह्मस्वरूपः शिव एव सोऽहमिति निष्ठा || २४ || षट्स्थलरूपिणि परमे ब्रह्मणि रुद्रानले जुहोमि सदा || आहुतिमेनां भक्त्या षडक्षरीं षट्सहस्रजपसंख्याम् || २५ || पृ० ४७) वृत्तम् || प्रभाववृद्ध्यर्थमिमां महाहुतिं षडक्षराख्यां तव रुद्रवह्नौ || षडक्षरब्रह्मपरस्वरूपिणि ताभिः प्रसन्नोभव जुह्वतो मे || २६ || एवं विज्ञापनं कृत्वा नत्वा गुरुपरंपराम् || शिवाद्यात्मान्तसंशुद्धां शिवविद्यार्थपारगाम् || २७ || गुरुं षडक्षरीविद्यारूपिणं षट्स्थलात्मकम् || स्वीयं गुरुपदं सिद्धं नत्वा न्यासं समाचरेत् || २८ || अंगुष्ठादिकनिष्ठान्तं करयोः पंचशाखिनोः || मध्यतः प्रणवं चाथ विन्यसेदक्षरं क्रमात् || २९ || शिखामूर्ध्वललाटेषु त्दृदि नाभौ पदद्वये || पुनः षडक्षरेणैव षडंगं विन्यसेत्क्रमात् || ३० || नमः स्वाहावषड्वौषट् हुंफडंतं हृदादिकम् || चतुर्थीसंयुतं भूय ओंकारायेति पूर्वकम् || ३१ || विन्यस्यात्मार्पणायैव विनियुज्य पुनस्ततः || नमः शिवाग्निबीजाय हराय परमात्मने || ३२ || ओंकारमंत्ररूपाय मूलपंचाक्षरात्मने || ओंकारवदना देवी नमःकारभुजद्वया || ३३ || शिकारमध्यमा (चैव) देहा वायकारपदद्वया || पृ० ४८) पंचाक्षरी परा विद्या सतारा लिंगरूपिणी || शिवमंत्राभिधा शैवी ममांगेऽधिष्ठिता सदा || ३४ || षट्स्थलब्रह्मरूपिणि षडक्षरि मंत्रदेवते जननि || षट्स्थलभक्तिप्रसादपरमसुखैकप्रदे नमस्तुभ्यम् || ३५ || इत्यनुज्ञां तया लब्ध्वा जपेत्पंचाक्षरीं शिवाम् || सतारां षट्स्थलब्रह्मरूपिणीं श्रीषडक्षरीम् || ३६ || विद्या चतुर्विधा शैवी परा पश्यंती मध्यमा || वैखरी चेत्यर्थवर्णपदवाक्यप्रभेदतः || ३७ || ओमर्थोनादियान्तः स्याद्वर्णस्तत्र द्वयं त्रयम् || पदं भवेत्तत्समष्टिर्वाक्यमित्यभिधीयते || ३८ || अर्थरूपा परा विद्या पश्यन्ती वर्णरूपिणी || मध्यमा पदरूपा स्याद्वैखरी वाक्यरूपिणी || ३९ || अर्थो मनोभवो वर्णो दृग्भवो वाग्भवं पदम् || वाक्यं वपुर्भवन्तेषु मनोदृग्वाग्वपुष्वतः || ४० || लक्षणं क्रमशो ज्ञेयं मनो मननलक्षणम् || दृग्विलोकनचिह्नं स्याद्वाग्वचोमात्रलक्षणम् || ४१ || ताल्वोष्ठरसनायोगलक्षणं वपुरुच्यते || मानसी चाक्षुषी जात्या वाचिकी वापुषी परा || ४२ || पृ० ४९) पश्यन्ती मध्यमाचेति वैखरीत्युच्यते क्रमात् || ४३ || वृत्तम् || प्राणायामसुगंधिगंधवह एषोऽन्तः समाधिस्थितः प्राणो घ्राणहृषीकतो बहिरनात्माचारमर्थं विना || जाप्ये कर्मणि शांभवे परमया भक्त्या स्वभक्तिस्थले नित्यं वर्तत आत्मचारचरिताचाराख्यलिंगं भजन् || ४४ || सरसषडक्षरमंत्रस्वरूपगुरुलिंगभजननिष्ठात्मा || निरुतं निजजिह्वायां चरति हि माहेश्वरस्थले जाप्यम् || ४५ || अनिमिषचक्षुर्भूत्वा शिवलिंगं स्वेष्टरूपमवधानात् || विलोकयन् जपति सदा स्वयं प्रसादिस्थले भजनशीलः || ४६ || त्वगिंद्रियद्वारविराजमानं लिंगं चरं स्पर्शनजाप्ययोगात् || भजन् सदा स्वानुभवैकवेद्यं स प्राणलिंगिस्थल एष आस्ते || ४७ || मंत्रोच्चारणशब्दामृतमयजाप्यप्रसादघनलिंगम् || श्रोत्रेंद्रियमुखशरणस्थलवर्ती भजति (जपति) परिणतानंदः || ४८ || मंत्रार्थरूपमहदाह्वयलिंगसेवां कुर्वन्मनस्यहरहर्मननप्रबोधात् || पृ० ५०) (अन्यं न किंचिदपि वेत्ति हि सामरस्यादैक्यस्थले जपसमाधिरिति स्थितोऽयम्) ऐक्यस्थले महितसंभृतसामरस्ये जाप्यं जपत्वनुपमं महनीयमंत्रम् || ४९ || यत्र मरुत्तत्र मनो यत्र मनस्तत्र च मरुदुपयोगः || अत्र षडक्षरपवनं कृत्वा प्रीत्यैव षट्स्थली जपति || ५० || चित्कान्ताधरसेवनं जपविधावालिंगनं गाढता बन्धः पाणिहतक्षतं गणनरेखैर्वाक्यविक्षेपणम् || संरभः सुरतक्रिया समुचिता शयया हि पद्मासनं सल्लापः शनकैरुदीरितमनः पंचाक्षरीसंगमे || ५१ || रमते मामहोरात्रं परा विद्या परांगना || नावकाशो मया रंतुं तव माये परांगने || ५२ || एवं जपरतिक्रीडासमाधौ परया सह || विद्यायां रमते नित्यं मायां हेयां श्ववद्रहेत् || ५३ || इत्यनेन निरुक्तेन वीरमाहेश्वरं मतम् || जपं षट्शतसाहस्रं ततः षष्ठिसहस्रकम् || ५४ || तर्पयित्वा षट्सहस्रं हुत्वा चाग्नौ शिवात्मके || षट्शतं भोजयित्वा तु शैवानां षट्स्थलात्मनाम् || ५५ || षष्टिं वा शक्तितः षड् वा महान्तं चैकमेव वा || पृ० ५१) षडंगलिंगसंयुक्तं षट्स्थलब्रह्मरूपिणम् || ५६ || पूजयेत्स्वर्णवस्त्रालंकारमुख्यानुलेपनैः || बहुनोक्तेन किं भक्त्या परया स्थिरया सह || ५७ || जपे च तर्पणे होमे भोजने पूजनेऽपि च || यथाकालं यथाशक्ति यथाप्रीति यथाविधि || ५८ || यथोचितं कृतं यत्तत्संपूर्णं सफलं शिवे || अतो जपविधेरूर्ध्वं सिद्धिं संचिंतयेन्मनोः || ५९ || सिद्धसुदिव्यषडक्षरमंत्रोऽहं गुरुकृपाबलादस्मि || तत्सर्वमनुष्ठानं कृताकृतं गुरुपदार्पितं चास्तु || ६० || षट् षट् संख्याका ये षडूर्मिषड्भावषडरिवर्गाद्याः || षट्स्थलरूपषडक्षररुद्राग्नौ भस्मसात्कृताः संतु || ६१ || अयं षट्कोशिको देहः षट्स्थलब्रह्मतेजसि || षडक्षरप्रभावेण विलीनोऽस्तु मम प्रभो || ६२ || वृत्तम् || पंचाक्षरामृतरसायनकल्पसेवां पंचानन त्वदुपदेशविधानलब्धाम् || पंचत्वजन्ममरणादिनिवारणाय पंचार्थसिद्धिघटनाय ममेह कुर्वे || ६३ || नमः शिवायेति शिवं प्रपद्ये शिव प्रसीदेति शिवं प्रपद्ये || शिवात्परं नेति शिवं प्रपद्ये शिवोऽहमस्मीति शिवं प्रपद्ये || ६४ || पृ० ५२) एवं समाप्य विधिवज्जपयज्ञमतः परम् || स्थलद्वयाच्च पूर्वोक्ताच्छेषं सर्वं समाचरेत् || ६५ || इत्येतत्षट्स्थलब्रह्मपुरश्चरणमुत्तमम् || समासादेव कथितं शिवसिद्धान्ततंत्रजम् || ६६ || शिष्यः || गुणातीतरुचिव्याप्तपरमानंदद प्रभो || गुरो गुरुपदार्थैकस्वसंवेद्य नमोऽस्तु ते || ६७ || य एतदाचरत्येवं स आचार्यवरो विभुः || परानुभवसूत्रोक्तं परमार्थं परं पदम् || ६८ || इति श्रीशिवसिद्धान्ततंत्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे षट्स्थलब्रह्मपुरश्चरणं नाम चतुर्थाधिकरणं समाप्तम् || पृ० ५३) || पंचमाधिकरणे देहावसानम् || अथातः षट्स्थलब्रह्मवर्चसां शिवयोगिनाम् || देहावसानं तत्कृत्यं प्रवक्ष्यामि विशेषतः || १ || षडंगलिंगसंयुक्तषट्स्थलब्रह्मरूपिणाम् || नैवावसानो देहस्य प्राकृतानामिवात्मनाम् || २ || पंचाक्षरं पंचभूतं भूतात्मा प्रणवः पुमान् || भूतभूतात्मभावेन स्थूलदेहः प्रतीयते || ३ || शिष्यः || सूक्ष्मदेहः स्वयं लिंगं योगिनां षट्स्थलात्मनाम् || आचाराद्यात्मको देहो न पृथ्व्याद्यात्मको मतः || कथमस्यावसानं स्याद्भौतिकस्येव देहिनः || ४ || गुरुः || आचारः स्यात्पृथ्वी गुरुरापः शिव उदीर्यते तेजः || चर एव स्याद्वायुः प्रसाद आकाश इत्युदाह्रियते || ५ || जीवो महानसौ स्याद्भूतात्मा षट्स्थलात्मनामेषाम् || भक्तादीनां पृथ्व्याद्यंगानामुच्यतेऽत्र तत्वार्थः || ६ || वृत्तम् || आधारश्चरतां सतां क्षितिरथाचारः पयः पृ० ५४) स्याद्गुरुर्बोधो दिव्यसुधारसः परतरं ज्योतिः शिवः पावकः || बाह्याभ्यंतरगश्चरो मरुदथाकाशः प्रसादः स्वयं शुद्धः कायविवर्जितः खलु महान् जीवः षडंगांगिनाम् || ७ || शिवाद्वैतपरस्यास्य न नाशो नैव जन्म च || नैव चान्या गतिर्नान्यद्बंधनं न विमोचनम् || ८ || अत्रैव लीयते सम्यक्सर्वमात्मतया सतः || घृतकाठिण्यवत्स्वप्नप्रपंचमतिभासवत् || ९ || प्रत्यंगरूपः पृथ्व्याद्यैरुपलक्षणमात्रतः || कल्पितो हि बहिर्देहः सोऽयमेवावशिष्यते || १० || तस्यावसानकाले तु शिवक्षेत्रं समाश्रयेत् || प्रशस्तं प्राहुराचार्याश्चतुराश्रमिणामपि || ११ || ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा || यस्तु लिंगांगसंयुक्तः शिवक्षेत्रं समाश्रयेत् || १२ || लिंगं शिवो भवेत्क्षेत्रमंगं संयोग आश्रयः|| तस्माल्लिंगांगसंयुक्तो योऽपि सोऽत्याश्रमी भवेत् || १३ || अत्याश्रमस्थः कालज्ञः स्वतो धीरमनाः स्वकम् || देहं विनैव रोगाद्यैः स्वयमन्ते परित्यजेत् || १४ || प्रथमः खननोपायो द्वितीयो दहनात्मकः || तृतीयोऽदर्शनोपायः स्वदेहं त्यक्तुमिच्छताम् || १५ || पृ० ५५) पृथ्व्यंभोऽग्निवायवम्बरात्मनां भावतः क्रमात् || खननं दहनं प्रोक्तमदर्शनमतः परम् || १६ || स्यादात्माकाशयोर्भावो दर्शनं दहनंततः || वायुपावकयोर्भावः खननं भूमिवारिणोः || १७ || क्षितौ ब्रह्मा जले विष्णुस्तथा रुद्रो हुताशने || ईश्वरः पवने तद्वदाकाशे तु सदाशिवः || जीवे परशिवः साक्षादिति तत्वार्थनिर्णयः || १८ || आत्माकाशमयस्तद्वद्वायुः प्राणमयो भवेत् || तेजोमयस्त्वहंकारस्तथा जलमयं मनः || १९ || पृथ्वीमयं शरीरं स्यादित्याहुस्तत्वचिन्तकाः || २० || धेनुः पृथ्वी जलं क्षीरं तेजो दधि समीरणः || नवनीतं घृतं व्योम चात्मा परिमलः स्मृतः || २१ || अदर्शनमतिश्रेष्ठमवियोगोंऽगलिंगयोः || तथैव दहनं श्रेष्ठं शिखिकर्पूरयोगवत् || तयोरभावे खननं श्रेष्ठमित्याहुरागमाः || २२ || क्षेत्रे तीर्थे तथा होमे जपध्यानसमाधिषु || यत्र यत्र स्थितो भावः पदे षट्स्थलवर्त्मनाम् || २३ || तत्र तत्र त्यजेद्देहमाचारादिपदं प्रति || पृ० ५६) आचारार्थं च गुर्वर्थं शिवार्थं च चरार्थकम् || २४ || प्रसादार्थं तनुत्यागो न त्यागस्तत्समपर्णम् || क्षेत्रमाचारलिंगं स्याद्भक्तांगं क्षितिलक्षणम् || २५ || तीर्थं हि गुरुलिंगं स्यान्माहेशांगांबुलक्षणम् || होमस्तु शिवलिंगं स्यात्प्रसाद्यंगाग्निलक्षणम् || २६ || जपश्चराख्यलिंगं स्यात्प्राणलिंगांगमारुतम् || ध्यानं प्रसादलिंगं स्याच्छरणांगं खलक्षणम् || २७ || समाधिः स्यान्महालिंगमैक्यांगं जीवलक्षणम् || २८ || वृत्तम् || खननावगाहहवनानशनादिभिरात्मघातको नैव || शिवशास्त्रोक्तोपायैः स्वयमेव तनुं त्यजेच्छिवे वसति (शिवो भवति) || २९ || एतेषूपायेषु श्रेष्ठतमोऽयं हि सुखमुखोपायः || उन्मन्युत्तरयोगे निवृत्तिमार्गे स्वयं तनुत्यागः || ३० || अथ रोगादिभिर्वापि प्राणलिंगांगयोगभाक् || देहं परित्यजत्यन्तेन स शिवे वसति (शिवो भवति) ध्रुवम् || ३१ || पृ० ५७) बाह्यस्योपाधिमात्रस्य देहस्यैव हि रुग्णता || नान्तर्देहस्य चिन्मात्रस्येति तत्वविदां स्थितिः || ३२ || कालज्ञोऽप्ययमात्मीयदेहपातं विलोकयन् || प्रारब्धपरिपाकान्तं स्थित्वा हित्वा शिवो भवेत् || ३३ || स्वयमेव परित्यागाद्वरं प्रारब्धपाकतः || स्वदेहपतनं पक्कफलवद्वृंतमोचनात् || ३४ || रोगारोगाद्युपायेन येन केनापि हेतुना || षडध्वशुद्धियुक्तस्य प्राणलिंगांगसंगिनः || देहावसानं यद्यासीत्तस्य नैवान्यथा क्रिया || ३५ || खनेद्वा भुवि तद्देहं क्षिपेद्वाऽप्सु शिवास्वपि || दहेद्वा रुद्रवह्नौ तु त्यजेद्वायौ च लोष्टवत् || ३६ || एतेष्वपि विधानेषु खननं तूत्तमं मतम् || अदर्शनविधानेन सदृशं व्यवधानतः || ३७ || देहं प्राणं विनिक्षिप्य लिंगे लिंगं तदेतयोः || आदौ दीक्षा कृता शैवी यथा चान्ते तथैव हि || ३८ || कायलिंगोभयोर्योगः प्राणमंत्रोभयोस्तथा || प्राणमंत्रोभयेऽतीते कायलिंगोभयं खनेत् || ३९ || पृ० ५८) भूमौ प्रतिष्ठितं लिंगं यथा नोत्पाट्यते पुनः || देहे प्रतिष्ठितं लिंगमन्ते नोत्पाट्यते तथा || ४० || लिंगे प्राणे विनिक्षिप्ते लिंगिनं तं विनिक्षिपेत् || वियुक्ते प्रत्यवायः स्याज्जीवमाने यथा तथा || ४१ || यः प्राणलिंगसंलग्नो लिंगप्राणी स उच्यते || तद्देहदहनादेव प्रत्यवायो महान् भवेत् || ४२ || दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा || शिवज्ञानाग्निदग्धस्य पुनर्दाहो न विद्यते || ४३ || शरीरं पार्थिवं बाह्यं लिंगं यत्तद्धि पार्थिवम् || उभयं पार्थिवं तस्माद्गोप्यं रन्ध्रे तु पार्थिवे || ४४ || पृथ्वी शीर्णा जले मग्ना जलं ग्रस्तं महाग्निना || वायौ चास्तमितं तेजो व्योम्नि वातो विलीयते || व्योम चात्मनि चात्माऽसौ स्वीये परशिवे पदे || ४५ || पार्थिवं पार्थिवे गोप्यमाप्यमाप्ये तु तैजसम् || तैजसे तत्तदीयं च तत्तदीये स्वभावतः || ४६ || दहनं चापि रुद्राग्नौ वरं लिंगांगसंगिनाम् || पृ० ५९) तयोर्विविक्तभावेन यदि किंचिन्न शिष्यते || शिष्यते चेद्वरं भूमौ खननं चांगलिंगयोः || ४७ || अंगं शरीरमाख्यातं लिंगं स्यात्पार्थिवादि यत् || ययोः पूर्वोक्तयोरेतदुभयं चोपलक्षणम् || ४८ || अंगशेषो भवेत्कश्चिल्लिंगशेषोऽपि कश्चन || शेषो न दृश्यते यत्र तद्विधानमनुत्तमम् || ४९ || वृत्तम् || दग्धेऽपि देहे पुनरंगशेषो निक्षिप्यतेऽन्ते भुवि वा जले वा || तस्माद्विनिक्षेपविधिर्बलीयान् निःशेषभावादपुनर्विधानात् || ५० || पुनरन्यं प्रवक्ष्यामि पूर्वाचार्यैर्मतैरपि || अथ कश्चिद्विशेषोऽस्ति निक्षेपादिषु कर्मसु || प्राणलिंगांगसंयोगपराणां मतभेदतः || ५१ || प्राणप्रयाणकाले तु लिंगभोगोपभोगिनः || अर्पितः सावधानेन स्वलिंगे प्राण आहितः || ५२ || संयोगे च वियोगे च योऽणुमात्रसमर्पणम् || प्रकुर्यात्स्वेष्टलिंगे तु स सायुज्यपदे स्थितः || ५३ || अभावे भावमासाद्य ह्यस्थाने स्थानमाचरन् || एतद्वयं विजानाति स सायुज्यपदे स्थितः || ५४ || यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् || पृ० ६०) तं तमेवैति तत्वज्ञः सदा तद्भावभावितः || ५५ || अन्त्यकाले प्रबुद्धो यः सुहृदा बोधितोऽपि वा || शिवमेकमनुध्यायन् स याति परमं पदम् || ५६ || यदा शिवात्मकं रूपं ध्यायन् प्राणैर्विमुच्यते || तदाऽसौ शिवतां याति नान्यां गतिमिति श्रुतिः || ५७ || न प्राणलिंगिनः कालो न लिंगप्राणिनस्तथा || कर्मापि व्यवहारेण काले कर्म प्रसज्यते || ५८ || कालोचितं विधातव्यं यत्तत्कर्मेति कीर्तितम् || कालकर्मविपाकेन विना नास्त्यपि किंचन || ५९ || यदा प्राणो वियुक्तः स्यादन्तकालेशरीरतः || तदा तयोर्वियोगो हि सत्यं बाह्यांगलिंगयोः || ६० || वियोगे को विभेदोऽत्र ययोर्ज्ञानविवर्जिते || विज्ञाते सति संयोगे वियोगस्तद्विपर्यये || ६१ || वियोगयोगविज्ञाता प्राणात्मा गतवान् यतः || लिंगांगयोर्निर्षेधार्थे विध्यर्थेऽपि विचारतः || ६२ || न लिंगमादौ देहस्य नावसानेऽपि तत्वतः || मध्ये समागतं भूयो गतं किं चित्रमुच्यताम् || ६३ || आदौ शस्तं विधानेन यच्छिखासूत्रधारणम् || तच्छिखासूत्रजहनमन्ते शस्तं यथा तथा || ६४ || पृ० ६१) अतो लिंगांगयोरन्ते वियोगो न विरुध्यते || न च दोषाय कर्तव्येषूत्तरेष्वपि कर्मसु || ६५ || देहं त्यक्त्वावसानेऽसौ प्राणात्मा प्रविवेश हि || स्वेष्टलिंगे स्वयं तस्माल्लिंगदेहाद्वियुज्यते || ६६ || स्वयं समर्पितप्राणः स्वेष्टलिंगे समाहितः || सुगुप्तः संस्थितस्तस्माल्लिंगदेहाद्वियुज्यते || ६७ || देह एव हि संस्कारयोग्यो ह्यन्ते यथाविधि || न योग्यं लिंगमेतस्माल्लिंगमादाय पूजयेत् || ६८ || लिंगस्थितं शिवात्मानं लिंगेन सह शुद्धधीः || समादाय स्वयं पीठे संस्थाप्याहरहर्यजेत् || ६९ || धारयेद्वा सदा लिंगं गुरुणा सह संस्थितम् || निक्षिप्तस्य न निक्षेपः शिवलिंगे शिवात्मनः || ७० || न दाहोऽपि स्वयंज्योतिर्लिंगलीनस्य किं पुनः || यथा देहस्थमात्मानं गोप्तुं दग्धुं न शक्यते || पृ० ६२) तथा लिंगस्थमात्मानमिति तत्वविदां स्थितिः || ७१ || अगोप्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च || नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः || ७२ || विसृष्टस्यैव देहस्य गोपनं दहनं न च || तस्माल्लिंगमुपादेयं हेयो देहः स्वभावतः || देहं त्यक्त्वैव सायुज्यं शैवमेतीति हि श्रुतिः || ७३ || वर्तिश्च दीपमूलं च दीपाग्रं चेति तत्वतः || दृष्टान्तो दृश्यते लोके जीवेशैक्यपदं प्रति || ७४ || वर्तिः कायो दीपमूलं जीवो दीपाग्र ईश्वरः || राजसस्तामसः प्रोक्तः सात्विकः क्रमशस्त्रयः || ७५ || कायो जडो हि जीवः स्यात् जडाजडसमाह्वयः || अजडः परमेशानस्तयोरैक्यं जडं विना || ७६ || न भेदो वर्तिसंत्यागे दीपमूलाग्रयोर्यथा || न जीवेश्वरयोर्भेदो देहत्यागे तथैव हि || ७७ || लिंगं न निक्षिपेद्भूमौ देहेन सह भक्तिमान् || निक्षिपेद्यदि मोहेन दोषाय भवति ध्रुवम् || ७८ || तथापि युक्तं युक्तेषु वियुक्तं कर्म कर्मसु || पृ० ६३) अतो लिंगांगयुक्तस्य षट्स्थलब्रह्मवर्चसः || ७९ || पशूनामिव तस्येह न कुर्यादौर्ध्वदेहिकम् || नास्ति शावं यतस्तस्य सज्यन्ते सूतकादयः || ८० || नैवाशौचं प्रसज्येत तत्पुत्रादेर्विशेषतः || अशुद्धिः क्षणमात्रा चेत्सोऽपि स्नानात्पलायते || ८१ || न च श्राद्धादिकं कर्म न पिण्डं नोदकक्रिया || न कुर्यात्पार्वणादीनि शिवभूताय योगिने || ८२ || अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् || कल्याणमेव कुर्वीत शिवभक्तांश्च तर्पयेत् || ८३ || प्रत्यब्दं च तमुद्दिश्य शिवभक्तांश्च भोजयेत् || भक्तेभ्यो दत्तमन्नं यद्दत्तमेव शिवाय हि || गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तयेत् || ८४ || शिष्यः || वृत्तम् || गुरुपदषट्स्थलानुभवसूत्रकलापरिपूर्णभक्तिभाग्गुरुपदसत्यचिद्घनप रात्मसुखातिशयप्रसन्नसद्गुरुपदशांभवप्रहितनामविशिष्टगुणोपपन्न विद्गुरुपदचिंतनस्मृतितिरोहितमस्तु वपुः समारुतम् || ८५ || लिंगं साक्षात्करस्थं हिमकरशिखिवद्वीक्षितुं वीक्षितुं पृ० ६४) यन्मंदं मंदं समंताद्घनतरनिजतेजःप्रभावं प्रकुर्वन् || ज्योतिःस्तंभाकृतिः सन् वपुरिदमवगृह्णातु शंभो मदीयं प्रारब्धस्यावसाने कृपय सुकृप याचे वरोऽयं ममैवम् || ८६ || शंभो शरीरेण सहाहमस्मिन् लिंगे त्वदीये परमप्रकाशे || लीनो यथा स्यां कृपया तथैव प्रायोऽन्त्यकाले कुरु मे वरोऽयम् || ८७ || स्वयंप्रकाशे परमात्मलिंगे करस्थलस्थे मम देह एषः || तिरोहितः स्यादिह चित्रहेतौ कृपीटयोनाविव हैमखण्डः || ८८ || कायः करस्थलं प्रोक्तो जीवः स्यान्नयनस्थलं || कायजीवद्वयोस्सन्धिर्लिंगमित्यभिधीयते || ८९ || कर्पूरनिर्मलसुगंधिशिवांगमस्मिन् विन्यस्तशस्तसहजप्रभदीपरूपम् || लिंगं ममैतदुभयं निजभक्तियोगादन्ते महागुरुपदे प्रविलीनमस्तु || ९० || भक्तप्रसादिशरणस्थलवर्तमानेष्वेतेषु च त्रिषु वृषांकपुरःसरेषु || पृथ्व्यंगपावककलांगनभोंगचिह्नेष्वाशास्महे घनतरं करुणाप्रसादम् || ९१ || भक्तस्थलपरिणामो महेश्वरस्थलमुभेस्थले तद्वत् || पृ० ६५) प्रसादिशरणस्थलयोः परिणामः प्राणलिंगैक्यः || ९२ || आचारलिंगपरिणामपदं गुरुः स्याच्छैवाख्यलिंगपरिणामपदं चरःस्यात् || प्रासादलिंगपरिणामपदं महत्स्यादेवं स्थलानि षडिमानि जगाद वेदः || ९३ || आचारलिंगशिवलिंगमहाप्रसादलिंगत्रये त्रिविधमंग इमे निवेद्य || लिंगांगिनः परतरां पदवीमवापुरेतं वृणोमि परमं करुणाप्रसादम् || ९४ || पार्थिवकायो वृषभस्तैजसकायस्तु चन्नवृषराजः || वैययतकायोऽल्लमविभुरित्येषां कायभेद उपदिष्टः || ९५ || भूम्यंब्वग्निमरुद्वियत्सु गुणभेदस्तारतम्यक्रमात्प्रोक्तो मूर्तिविशेषतो बहिरथान्तर्लिंगमूर्तिः परा || सूत्रात्मा गुणभेदवर्जिततयाश्ते निर्विकल्पः स्वयमेतेषु क्रमतारतम्यरहितो मूर्तावकाशद्वयः || ९६ || मृत्पिंडमेघोपलविस्फुलिंगवर्तैंद्रचापास्तनवः क्रमेण || स्युः पार्थिवायामलतैजसाख्या (वयव्य वै व्योमविभेदभिन्नाः)वायवन्तरिक्षाह्वयभेदभिन्नाः || ९७ || पृ० ६६) एवं लिंगशरीरं स्यात्परनिर्वाणलक्षणम || तद्भावभावितं साक्षात्तच्चरित्रं पवित्रकम् || ९८ || गुरुचरशिवमूर्तीनां त्रयाणाममीषां निरतिशयकृपावाप्तप्रसादानुभूत्या || वरपरमरहस्यं श्रीमदाचार्यशिष्योत्तरघनतरसंवादार्थयुक्तं मयोक्तम || ९९ || गुरुचरणं भयहरणं शरणहृदाभरणमात्मसुखकरणम् || मरणभयादुत्तरणं तरुणारुणकिरणवरणमहमीडे || १०० || भक्तिमेव परां देहि त्वत्पदे निश्चलां मम || सोमेश्वर कृपामूर्ते नान्यदिच्छाम्यतःपरम् || १०१ || यद्वदज्ञातमज्ञातं सर्वं च ज्ञातमन्तरा || तद्वत्त्वदन्यत्सकलमज्ञातं स्यादुमेश मे || १०२ || हिताहितं न जानामि यत्किंचिदपि भो प्रभो || त्वमेव वेत्सि तत्सर्वं यद्धितं तत्कुरुष्व मे || १०३ || एष एव वरोऽस्माकमेतदेव वृणीमहे || एतदेवादिश स्वामिन्सोमेश्वर निरंतरम् || १०४ || कृपालय कृपाराम कृपाकर कृपानिधे || कृपासिंधो कृपावेधो कृपाभरण पाहि माम् || १०४ || पृ० ६७) संसारबंधविच्छेदकर ज्ञानास्वद प्रभो || श्रीमदैपुरसोमेश नमस्ते षट्स्थलात्मने || १०५ || इति पूर्वोत्तरभागद्वयसमुचितमेतदभिहितं विहितम् | शिवसिद्धान्तं तंत्रं शिवानुभवसूत्रमत्र संपूर्णम् || १०६ || य एतदाचरत्येवं स आचार्यवरो विभुः || परानुभवसूत्रोक्तं परमार्थं परं पदम् || १०७ || इति श्रीमायिदेवविरचिते शिवसिद्धान्ततंत्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे देहावसानं नाम पंचमाधिकरणं संपूर्णम् || ########### END OF FILE #######