#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00059 Uniform title: vyomavyāpistava Main title: vyomavyāpistava with the commentary laghuṭīkā Author : bhaṭṭarāmakaṇṭha Commentator : vedajñāna Manuscript : IFP transcript T0128 which itself is copied from a paper manuscript of vyomavyaapistavam belonging to tiruvavaduthurai adheenam. tiruvavaduthurai Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0 February 13, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### व्योमव्यापिस्तवः ३७) व्योमव्यापिस्तवम् || श्रीभट्टारक प्रणीतं व्योमव्यापिस्तवम् || || श्रीवेदज्ञान रचित लघुटिप्पणीयुतम् || कपोल स्यन्दि दानौघ लोलाकेलि समाकुलम् | चिराचलमुदं वन्दे चिराचलगजाननम् || १ || आदौ दर्शितमाशुमुक्तिदतया हस्तेन चालम्बिना विश्वासंत्विह साभयेन गमितं सत्यावतं साग्निना || इन्द्रं भड्डमरू स्वनेन महता संघेन तं यत्पुनस्त- त्सौवर्ण सभापते खतुनश्श्रीमत्पदांभोरुहम् || २ || गुरुणा रामकण्ठेन कृतस्य शिशु बोधिनीम् | व्योमव्यापिस्तवस्यैकां लघुटीकां समारभे || ३ || अत्र हि एतत्स्तोत्रपदानि विदुषां सम्मतिवचनप्रदर्शनमात्रेण स्पष्टा भवन्ति | तादृश वचनानि सर्वाणि प्रत्यार्यादशकं एकयाहेलया प्. २) तत्तद्घटकान्तेषु बृहट्टीकायां क्रमेण सम्मतिं दर्शयिष्यामः | इदानीन्तु शिशु बोधाय अन्वयमात्र प्रदर्शन मात्रतया दिङ्मात्रमेव तानि स्तोत्र पदानि व्याख्यायन्ते | तथा हि इहतावदनवरत विघृत शिवागम स्वर्ण दाम कण्ठः रामकण्ठो नाम देशिकं पुंगवः रुरुगीत नव नाभमण्डलवर्तिषु मध्यादीशान्तेषु नव पद समाहारात्मकेषु नवकमल पीठेषु सकलपाश जाल हनन करणभूतस्य अचिन्त्य महिमाकारस्य साष्टषष्टित्रिशत वर्णात्मक व्योमव्यापिमन्त्र राजस्य अवयवभूतानां एकाशीति संख्यकानां पदानां पूजनाय परेषामपि तदुपासकानां तादृश पूजा सिद्धये परमशिव वाचकत्व स्फोरकतया प्रतिपदं एकैकया आर्यया व्योमव्यापिस्तव नामकं स्तुति बन्धमारचयति ओंकारवाच्यमित्यादिन नवतिसंख्याभिः आर्याभिः | अत्रेदं बोद्धव्यम् | रुरुवर्णितं नवनाभमेकं मण्डलं तन्मध्ये मध्यकर्णिकं अष्टदलयुक्तं कमलं एकपीठं तत्पूर्वादीशानान्ता सुदिक्षु तादृशं कमलं एकमेकं एवं नवकमलपीठानि भवन्ति | तत्र कमलपीठे कर्णिकादीशान दलान्तेषु नवपदेषु मन्त्रराजस्य ओंकारादीनि नव पदानि क्रमेण पूजनीयानीति | तत्पूजायां आर्यानवकस्य क्रमेण विनियोगः एवं पूर्वादीशान्तकमलपीठेष्वपि प्रतिपीठं एकैकमार्यादशकं विनियोज्यम् | एवं नवति संख्यानां आर्याणां उपयोगः | एवं नवनाभमण्डलस्वरूपं कलोत्तरादौ वर्णितम् | तद्यथा अथाचार्याभिषेकार्थं नवनाभं विवर्तयेत् | काम्यानामपि सर्वेषां नवनाभं फलप्रदम् || ४ || मतंगे अन्यद्गुह्यतमं वक्ष्ये क्रमादश्रं समं शुभम् | विभज्य सप्तभिर्भागैर्मध्ये पद्मं प्रकल्पयेत् || ५ || द्वात्रिंशदङ्गुलसमं सुविभक्तन्तु पूर्ववत् | प्. ४) भागमेकं परित्यज्य दिक्ष्वष्टसु यथाक्रमम् || ६ || मध्यांबुज प्रमाणानि पदान्यष्टौ समालिखेत् | चतुर्दिक्षुद्वयं भागं अष्टद्वारमथोदितैः || ७ || रजोभिः पूरयेत् सम्यग्यथाभवति शोभनम् | एकाशीतिपदं देवं नव पर्वोक्तिदर्शनात् || ८ || पूजयेत्तन्त्रमन्त्रज्ञश्शिव वक्तोक्ति वर्त्मना | ३९) तत्स्वरूपं कालोत्तरे स्पष्टमुक्तम् | मध्ये तु कमलं शुक्लं पीतन्तत्पूर्वगोचरे || ९ || आग्नेर्यां रक्तवर्णन्तु नीलब्जं दक्षिणेस्थितम् | नैऋत्यां पीतवर्णन्तु शुक्लं वरुणदिक्स्थितम् || १० || आधूम्रं वायुकोणे तु रक्तपीतं तथोत्तरे | ईशाने मौक्तिकप्रख्यं शुक्लं वा दिक् स्थितं नव || ११ || प्. ५) पद्मरागमथोवापि रक्तगौरमथापि वा | व्योमव्यापि शिवस्यैव नवाध्वरविधौहितम् || १२ || नवनाभं समाख्यातं प्रासादाख्य शिवस्य तु | मध्यपद्मे शिवः पूज्यः लोकेशाश्च परेषु च || १३ || अस्त्राणि बाह्य वीधौ तु भक्त्या संपूजयेत्ततः | नासौ लिंपति पावेन पद्मपत्रमिवांभसा || १४ || नित्ये नैमित्तिके काम्ये कर्तव्यं भुक्तिमुक्तये | तथा त्रिलोचन शिवाचार्यैरप्युक्तम् क्षेत्रे सप्तपदीकृते शशिपदं विधीस्समन्ताप्तदैः (वीथी-) दिक्ष्वाष्टसु च पंकजानि परितो वीथीन्दुभागेन च | द्वाराण्यष्ट कजान्तर स्थितपदैरन्तस्थितो गात्रकं पद्मं स्यान्नवनाभमण्डलमिदं श्रीमन्मतंगोदितम् || १५ || प्. ६) ननु साष्टषष्टि त्रिशताक्षराधिक सहस्राक्षर कयुताक्षरादि मन्त्रेषु व्योमव्यापिपदस्तुति बन्धः किमर्थमाचार्येण कृतमिति चेन्मैवम् | सप्तकोटि महामन्त्रेष्वपि व्योमव्यापि पदमन्त्रेस्यैवमन्त्र राजतया आगमेषु महामहिम वर्णनात् | तथैव कालोत्तरे मन्त्राध्व पटले मन्त्र राजत्वं अस्यैव वर्णितम् | तद्यथा मन्त्राध्वानमहं वक्ष्ये सांप्रतं शृणु षण्मुख || सप्तकोटि सहस्राणि कोटिलक्षं तथैव च | अयुतानि च षट्त्रिंशत्सद्योजाताद्विनिर्गताः || १७ || विंशत्कोटि सहस्राणि कोटिलक्षन्तथैव च | नियुतानि चतुष्षष्टिः वामदेवाद्विनिष्कृताः || १८ || चत्वारिंशत्ककोटिस्तु सहस्राणि तथैव च | त्रिकोटि लक्षं वै वत्स अघोराच्च विनिर्गताः || १९ || प्. ७) अशीतिकोटि साहस्रं चतस्रं कोटि लक्षकम् | तत्पुरुषाद्विनिष्क्रान्तं मन्त्रभेदं षडानन || २० || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | ईशानस्य मुखाज्जातं अनन्तं मन्त्रजालकम् || २१ || ईशानमुखनिष्क्रान्तं मन्त्रजातं सुदुर्लभम् | एकाशीति पदंह्येतत्तन्त्रराजंत्वनुत्तमम् || २२ || त्रिशतं पिष्ट्यधिकाक्षरं व्योमव्यापीति संज्ञितम् | ईशान मूर्ध्नि संजातं व्योमव्यापिपदं महत् || २३ || ४०) एकाशीति पदम्मन्त्रं सर्वमन्त्रोत्तमोत्तमम् | अक्षराणां शतत्रयं षष्ट्यधिकमनुत्तमम् || २४ || अर्चने होमकाले च स्नानकाले जपेद्गुह | प्रतिष्ठा प्रोक्षणेकाले दीक्षाकाले तु वै जपेत् || २५ || प्. ८) वसोर्धारे भूमिदाहे तथाचोद्भुत शान्तिके | अनावृष्टौ भूमिकंपे सर्वोत्पातौ तु वै जपेत् || २६ || दुःस्वप्ने दुर्जन स्पर्शे सकृज्जप्त्वाप्रमुच्यति | ईशानमन्त्रो वैवत्स व्योमव्यापि विनिर्गतः || २७ || ईशानमूर्धमन्त्रैस्तु मकुटादींश्च पूजयेत् | तत्पुरुषवक्त्रज सहस्राक्षरमन्त्रज तत्पुरुषमन्त्रस्य नैवेद्यधूपदीपादौ उपयोगः | अघोरवक्त्रज अयुताक्षर अघोरमन्त्रस्य कटक केयूरादौ उपयोगः | इत्थमीशानमुख जातत्वात् व्योमव्यापि पदात्मकत्वात् मन्त्रराजत्वात् मकुटादि पूजोपयोगि ईशान मन्त्रजनकत्वाच्च अघोरमुख जन्मवद्भ्यः अंगपूजोपयोगि मन्त्र जनकेभ्यः सहस्राक्षर अयुताक्षर अर्बुदाक्षरमन्त्रेभ्यस्सकाशात् साष्टषष्टि त्रिशताक्षर व्योमव्यापिमन्त्रस्य सर्वमन्त्रोत्तमोत्तम वर्णनात् प्. ९) तत्पदस्तुतौ रामकण्ठाचार्य प्रवृत्तिरिति | अस्य च स्तवराजस्य रौरवानुसारेण कृतत्वात् तत्पाठापेक्षयास्तव कर्त्रा उत्तरत्र अष्टषष्ट्यधिक त्रिशताक्षरात्मकत्वेन मन्त्रस्य वर्णितम् | अतः कलोत्तरादि पाठसिद्ध संख्यया विरोधः | तदुक्तं रौरवे अथ संख्या शिवस्योक्ता अक्षराणां शतत्रयम् || २८ || अष्टषष्ट्यधिकं शंभोर्गुह्यमन्त्रं विनिर्गतम् | मतंगे एकत्रैव समस्तानि एकाशीतिपदानि तु || अष्टषष्ट्यधिकं शंभोर्वामानान्तु शतत्रयम् | इत्युपोद्घातनिर्णयः || इत्थं भूतस्य व्योमव्यापिमन्त्रराजस्य प्रथमपदस्तवप्रकारं प्रथमं स्तौति ओंकारेति ओंकारवाच्यमाद्यं शिवमनवच्छिन्न दृक्क्रियोपेतम् | प्. १०) पञ्च महाप्रणव तनुं श्रेयोदंनौमि सर्वलोकस्य || २९ || टिप्पणी ओंकारवाच्यं आद्यं शिवं नौमि इत्यन्वयः | अनवच्छिन्नाभ्यां असंकुचिताभ्यां दृक्क्रियाभ्यां ज्ञानक्रियात्मक ऐश्वर्याभ्यां उपेतं युक्तम् | पञ्चमहाप्रणवाः पञ्चब्रह्ममन्त्राः ता एव तनुः यस्य तं सर्वलोकस्य निखिल जगतः श्रेयोदं भुक्तिमुक्तिरूपस्य श्रेयसः पुरुषार्थस्य साधकं शिवं आद्यपदेन (४१) मुक्तपदस्य निरासः | अस्य शिवस्य ओंकारवाच्यत्वं प्रसिद्धमेव तं नौमि स्तौतीत्यर्थः | अत्र वाच्यभूत शिवस्तुत्या वाचकभूतं ओंकार पदमेव स्तूयते वाच्य वाचकयोरभेदात् | एवमुत्तरत्र सर्वत्रापि वाच्यस्तुत्या वाचक पदानामेव स्तुतिखगन्तव्या | द्वितीय पदस्तवमाह व्योमव्यापकमिति व्योमव्यापकममितं माया पाशुपाशनाशिनाथं यत् | प्. ११) व्याप्नोति शक्तिभिर्यस्तद्वोमव्यामव्यापिने नमस्तस्मै || २ || माया पशुपाश राशिनाथं अमितं व्यापकं यद्व्योम तत् यः शक्तिभिः व्याप्नोति तस्मै व्योमव्यापिने नम इत्यन्वयः | मायया पशुना पाशराशिना च नाथं सहितं अमितं इयत्तारहितं व्यापकं विभुयद्व्योम आकाशं भूतपञ्चमं दृश्यमान सर्ववस्तूनामपि आकाशान्तर्हितत्वात् अस्यपावकत्वं स्फटम् | तत् आकाशमपि यः शिवः शक्तिभिः व्याप्नोति व्याप्य तिष्ठति तस्मै तस्याप्याकाशस्य व्यापकाय तस्मै व्योमव्यापिने नमः इति व्योमव्याप्नोतीति व्युत्पत्या व्योमव्यापि पद वाच्याय नमः नमस्कार इत्यर्थः || तृतीयपदस्तवमाह तद्वदिति तद्वद्व्यापकममलं व्योमपरं यस्य निष्कलं रूपम् | प्. १२) सर्वज्ञतादि तस्मै नमोऽस्तु ते व्योमरूपाय || ३ || यस्य परं व्योम निष्कलं सर्वज्ञतादि रूपं तद्वत् व्यापकं अमलं तस्मै व्योमरूपाय नमः अस्तु इत्यन्वयः | यस्य शिवस्य व्योम परं व्योम्नः शकाशात् परं बृहत् निष्कलं कलारहितं सर्वज्ञतादि सर्वकर्तृता नित्यतृप्ति बोधादि स्वभावं रूपं वपुः | तद्वत् आकाशव्यापकं विभुकमलं निर्मलं तस्मै शिवाय व्योमरूपाय व्योमवत् रूपं यस्य इति व्युत्पत्या व्योमरूप ते तुभ्यं नमः अस्त्वित्यर्थः || चतुर्थपदस्तवमाह व्योमेनेति व्योमेनान्यत्सर्वं यद्वदथस्तत्वभावभुवनानि | परपरयचुत्तयाख्यं तत्सर्व व्यापिनेपि नमः || ४ || हे परपर व्योमेन सह अन्यत्सर्वं त्वदधः यत् तत्त्व भावभुवनानि शक्त्याख्यं यत्तत् सर्वव्यापिने नमः इत्यन्वयः | प्. ३) परपर परस्मादपि परः परात्पर इत्यर्थः | शिवसंबोधनमेतत् व्योमेन अकारान्त व्योम शब्दोप्यस्तीति अनेन नैवाऽवगम्यते | सहार्थे तृतीयेयं आकाशेन सह अन्यत्सर्वं इतरद्विश्वंत्वदथः त्वद्व्याप्यमित्यर्थः | यत् यस्मात्कारणात् तत्वभावभुवनानि तत्वानि षट्त्रिंशत् भावाः पञ्चाशद्भुवनानि चतुर्विंशत्यधिकाद्विशतं (४२) एतानि शक्त्याख्यं त्वच्छक्तिरूपं यत्कारणात् तत् तस्मात् सर्वव्यापिने सर्वं व्याप्नोतीति व्युत्पत्या सर्वव्यापि पदवाच्याय तुभ्यं नम इत्यर्थः || पञ्चमपदस्तवमाह रागादिति रागादि दोषयोगाऽसंभवतो अनादिकालसंसिद्धात् | यस्य सदा शान्तत्वाच्छिवता तस्मै नमश्शिवायापि || ५ || प्. १४) यस्य रागादि दोष योगा संभवतः अनादि काल संसिद्धात् सदा शान्तत्वात् शिवता तस्मै शिवाय नम इत्यन्वयः | यस्य शिवस्य रागादि दोष रहितः अनादिकाल संसिद्धात् भावप्रधानो निर्देशः सिद्धत्वात् अनादित्वादेवेत्यर्थः सदा शान्तत्वात् सौम्यत्वाच्च शिवता शुद्धता तस्मै शिवाय नमः शिवपदवाच्याय नमः इत्यर्थः || षष्ठपदस्तवमाह अन्तरिति अन्तः पूर्वाकोटिः प्राथम्यादत्र जन्म कथितोयः | यस्य कदाचिन्नासौ शिवस्य तस्मै नमोस्त्वनन्ताय || ६ || यस्य शिवस्य योऽन्तः यो पूर्वा कोटिः यो जन्मा कथितः असौ प्राथम्यात् कदाचित् न तस्मै अनन्ताय नमः अस्तु इत्यन्वयः | अन्तः प्रध्वंसः पूर्वा कोटिः प्रागभावः जन्म कथितः उद्भवः | प्. १५) आदिमध्यान्त वर्जित इति यावत् | कुतः प्राथम्यात् सर्वकार्येभ्यः पूर्ववर्तित्वादित्यर्थः | आदिमध्यान्तवतः तादृश पूर्ववर्तित्वं नाऽवगम्यत इति भावः | अनन्ताय अनन्तशब्दस्तु आदिमध्ययोरपि उपलक्षुकः | न विद्यते यस्य इति व्युत्पत्या अनन्तपदवाच्याय नम इत्यर्थः || सप्तमपदस्तवमाह नाथ-इति नाथस्स्वामीमित्रं बन्दुद्योक्तस्सनास्तियस्येव | नित्यात्सर्वैश्वर्यात्कथितात्तस्मै नमो स्त्वनाथाय || ७ || स्वामी मित्रं बन्दुश्च नाथ उक्तः सः यस्य नास्त्येव नित्यात्कथितात् सर्वैस्वर्यात् हेतोः तस्मै अनाथाय नमोस्तु इत्यन्वयः | शिवस्य शिवागम कथित सार्वकालीन सर्वेश्वरत्वगुणसत्वात् असौ स्वाम्यादिमान्नभवतीत्यर्थः | नाथाः स्वाम्यादयः यस्य न विद्यन्ते इति व्युत्पत्या अनाथपदवाच्याय नमोऽस्तु इत्यर्थः || प्. १६) अष्टमपदस्तवमाह सृष्ट्यादीति सृष्ट्यादि कार्य करणे नान्यो येनाश्रितो हि सहकारी | मुक्तश्शिवादिमोच्या नमोऽस्तु तस्मैत्वनाश्रितायापि || ८ || येन सृष्ट्यादि कार्यकरणे मुक्तः शिवादिमोच्यः सहकारी अन्यो हि न आश्रितः तस्मै अनाश्रिताय नमः अस्तु इत्यन्वयः | येन शिवेन सृष्ट्यादि पञ्चकृत्यकरणे स्वान्यः क्वचिन्मुक्तः पुरुषो वा सहकारी नाऽश्रितः तस्मै अनाश्रितपद वाच्याय नम इत्यर्थः || ९४३) नवमपद स्तवमाह अध्रुवमिति अध्रुवमेतत्प्रायो वस्तु पुमर्थप्रदं ध्रुवस्तेन | शंभुः कथितो योत्र तु तस्मै नमो ध्रुवायास्तु || ९ || पुमर्थप्रदं एतद्वस्तु प्रायः अध्रुवं तेन यः शंभुः नित्यः ध्रुवः कथितः तस्मै ध्रुवाय नमः अस्तु इत्यन्वयः | प्. १७) पुरुषार्थप्रदं एतत्परिदृश्यमानं कामिन्यादिकं वस्तु प्रायः निश्चयतः अध्रुवं नश्वरमेव तेन कारणेन यः शंभुः सुखकरः शिवताकरः नित्यः नाशरहितः शिवागम कथितः तस्मै ध्रुवपदवाच्याय नम इत्यर्थः || अथ नवानां पदानां पूजाप्रकारमाह पदनवकमिति पदनवकन्नवनाभे पञ्चत्रिंशार्णमेतदथ पूज्यम् | मध्यस्थ पीठमध्य प्रागादीशान्त दिग्दल निविष्टम् || १० || पञ्चत्रिंशार्णपदनवकं एतत् नवनाभे पूज्यं इत्यन्वयः | मध्यकमलपीठ नवपदेषु कर्णिकादीशान्त दलेषु ओंकारादि नवपदानि पूज्यानीत्यर्थः || अथ पूर्वपीठपदनवकस्तुवमाह योऽसावित्यादिना दशभिः आर्याभिः | प्. १८) तत्र प्रथम पदस्तवमाह योऽसाविति योऽसौ सदाप्तशास्त्रो हितादि शास्ताह्यनामयत्वेन | भवति नराणां दयया पराय तस्मै तु शाश्वताय नमः || ११ || सदाप्त शास्त्रः यः असौ अनामयत्वेन दयया नराणां हितादि शास्ता भवति तस्मै पराय शश्वताय नम इत्यन्वयः | सार्वकालं शास्त्रेषु व्याप्तः यथार्थ वादीत्यर्थः | आमयो रागादिः तद्रहितत्वेन हितादि इत्यादि शब्देन अहितं गृह्यते | हिताऽहितोपदेष्टा इत्यर्थः | शस्त अनुशिष्टौ इति धातोर्व्युत्पत्या शाश्वत पदवाच्याय नम इत्यर्थः || द्वितीय पद स्तवमाह योग-इति योगस्सदाशिव वपु शक्तिस्तस्थः करोति सर्वं यत् | तेन यस्य पीठं तस्मै तप्तीठ संस्थिताय नमः || १२ || प्. १९) सदाशिव वपुः शक्तिः योगः तत्स्थः सर्वं करोति इति यत् तत् अस्य पीठं तत्पीठ संस्थिताय तस्मै नमः इत्यन्वयः | सदाशिवस्य शरीरभूता शक्तिः योगशक्ति वाच्या भवति तत्र स्थित्वा शिवः सर्वं कृत्यं करोतीति तच्छरीरं पीठमित्युच्यते | तेन योगरूपे पीठे स्थितः इति व्युत्पत्या योगपीठ संस्थित शब्द वाच्याय नम इत्यर्थः || तृतीय पदस्तवमाह नित्यमिति नित्यं सदैव योगः प्रोक्तं वपुरस्ति यस्य नो नाशः | शक्तीनामपि तस्मै ते नित्यं योगिनेऽपि नमः || १३ || यस्य प्रोक्तं वपुः योगः नित्यं सदैव अस्ति यस्य शक्तीनां नोनाशः (४४) नित्यं योगिने तस्मै नम इत्यन्वयः | नित्यं योगः शक्तिरस्य अस्तीति व्युत्पत्या नित्यं योगिपद वाच्याय नम इत्यर्थः || प्. २०) चतुर्थपदस्तवमाह ध्यानमिति ध्यानञ्चित्तेच्छा तन्मात्रेणाऽहरणमेव भावानाम् | इति तत्रप्त्यै यस्य ध्यान हाराय तुभ्यमपि नमः || १४ || यस्य ध्यानं चित्तेच्छा तन्मात्रेणैव यस्य भावानां आहरणं इति यस्य तत्तृप्त्यै तस्मै ध्यान हाराय तुभ्यं नम इत्यन्वयः | चित्तेच्छाः संकल्पभावाः सर्वकार्याणि आहरणं संपादनं तृप्तिः परमानन्दः ध्यानेनैव परमानन्दो यस्येति व्युत्पत्या ध्यानहाराय पदवाच्याय नम इत्यर्थः || पञ्चमपदस्तवमाह मन्त्रेति मन्त्रपदानाम्मध्यात्फलार्थिभिर्यस्स्मर्यते पदेनैव | सर्वक्रियासु पूर्वं यत्तस्मैत्वोन्नमश्शिवायेति || १५ || मन्त्रपदानां मध्यात् ओन्नमश्शिवायेति पदेनैव सर्वक्रियासु प्. २१) पूर्वं फलार्थिभिः यः स्मर्यते तस्मै नम इत्यन्वयः | कर्मारम्भ कालेषु पुरुषैः फलसिध्यर्थं पूर्वं ओन्नमश्शिवाय पद स्मर्यमाणाय नम इत्यर्थः | स्मार्य शिवस्तुत्या स्मारक स्तुतिरवगन्तव्या || षष्ठपदस्तवमाह कृत्वाऽपीति कृत्वापि सर्वभावान्सनायकां स्तव भुवनान्यः | तेषां प्रभुत्वयुक्तस्सर्व प्रभवे नमोस्तु तुभ्यमपि || १६ || तत्व पूर्वभुवनान् स नायकान् सर्वभावानपि कृत्वा यः तेषां प्रभुत्वयुक्तः तस्मै सर्वप्रभवे तुभ्यं नमोऽस्तु इत्यन्वयः | तत्वभुवनाधिपयुक्तस्य स्वकृतप्रपञ्चस्य प्रभुतया सर्वप्रभुशब्दवाच्याय नम इत्यर्थः || सप्तम पदस्तवमाह प्रोक्तैरिति प्. २२) प्रोक्तैर्गुणैरभिन्नः कलितो यो तेन शिवपदेनात्र | सगुणस्सशक्तिमूर्तिर्मान्त्रस्तस्मै नमोस्त्वथ शिवाय || १७ || प्रोक्तैः गुणैः अभिन्नः सगुणः सशक्तिमूर्तिः मान्त्रः यः शिवपदेन कलितः तस्मै शिवाय नमोऽस्त्वित्यन्वयः | सुगुणस्य निर्गुणस्य शक्तिविग्रहस्य मन्त्र विग्रहस्य वा सर्वस्य शिव स्वरूपस्य वाचक पद शिवपदवाच्याय नम इत्यर्थः || अष्टमपदस्तवमाह ईष्टे इति ईष्टे सव्यस्येशोन तु धर्मेण सोऽतं ईशानः | मूर्धन्यादौ यस्य तु नमोस्त्वशेशानमूर्ध्नेते || १८ || ईशः येन तु धर्मेण सर्वस्य ईष्टे अतः ईशानः सः यस्य मूर्धनि (४५) आदौ तस्मै ईशानमूर्ध्ने ते नमोस्तु इत्यन्वयः | ईश्वरस्य सर्वेश्वर हेत्वीशान धर्मो मूर्ध्नि यस्य इति व्यत्पत्या ईशानपदवाच्याय नम इत्यर्थः || प्. २३) नवमपदस्तवमाह तस्मिन्निति तस्मिन्शैवे ज्ञाने परमात्पुरुष एव वाच्येत | वक्त्रमिव यस्य शक्तिर्नमोस्तु तत्पुरुष वक्त्राय || १९ || तस्मिन् शैवे ज्ञाने परम एव तत्पुरुषो वाच्येत तद्रूपाशक्तिः यस्य वक्त्रमिव तस्मै तत्पुरुषवक्त्राय नमोस्तु इत्यन्वयः | तच्छब्देन शैवज्ञानविवक्षायां पुरुषशब्देन परमविवक्षायां तत्पुरुष शब्दशक्तिधर्मो वक्त्रं यस्येति व्युत्पत्या तत्पुरुषवक्त्रपदवाच्याय नम इत्यर्थः || अथ शाश्वतादि तत्पुरुषान्त नव पदानां एषां पूजाप्रकारमाह एतदिति एतत्तत्पुरुषान्तं पदनवकं पूर्व पीठ पदनिविष्टम् | अष्टाचत्वारिंशत्संख्यैर्वर्णैरूपेतमथ पूज्यम् || २० || प्. २४) पूर्वपीठ पदनिविष्टं अष्टाचत्वारिंशत्संख्यैः वर्णैः उपेतं तत्पुरुषान्तं एतत्पदनवकं पूज्यमित्यन्वयः | पूर्वकमलपीठ नवपदेषु कर्णिकादीशान्तदलेषु शाश्वतादीनि पूजनीयानीत्यर्थः || अथ आग्नेयपीठ पदनवकस्तुतिमाह दोषेत्यादिभिः दशभिः आर्याभिः | तत्र प्रथमपद स्तवमाह दोष इति दोषहीनमघोरं दोषक्षयकृच्चयच्च भक्तानाम् | हृदयन्तत्सद्भावो नमोऽस्तु तस्मैत्वघोरहृदयाय || २१ || दोषविहीनं भक्तानां दोषक्षयकृच्च अघोरं यस्य तत्सद्भावो हृदयं तस्मै अघोर हृदयाय नमोस्तु इत्यन्वयः | स्व दोषरहितं भक्तानां दोषनाशकः अघोरमन्त्रः यस्य सद्भावरूपहृदयमिति व्युत्पत्या अघोरहृदयपदवाच्याय नम इत्यर्थः || वामो विलक्षणो यः क्रीडावान्देव एष गुह्योपि | प्. २५) प्रसवानुमतस्तस्मै नमोऽस्तुते वामदेव गुह्याय || २२ || यः एषः वामः विलक्षणः य एष देवः क्रीडावान् यः एषः गुह्यः प्रसवानुमतः तस्मै वामदेव गुह्याय नमोऽस्तु इत्यन्वयः | क्रीडार्थक दिविधातोः निष्पन्नो देवशब्दः वामश्चासौ देवश्च गुह्यश्चेति व्यत्पत्या वामदेव गुह्यपदवाच्याय नम इत्यर्थः || तृतीयपद स्तवमाह सद्य इति सद्यो झटित्यजाता हत जन्माद्या नृत्तमूर्तयोयस्मात् | मुक्ताभवन्ति तस्मै ते सद्योजात मूर्तये नमः || २३ || यस्मात्सद्यः झटिति, अजाता हतजन्माद्याः नृत्तमूर्तयः मुक्ताः भवन्ति तस्मै सद्योजात मूर्तये नम इत्यन्वयः | (४६) सद्य इत्यस्य व्याख्या झटिति, अजाता इत्यस्यव्याख्या हतजन्माद्या इति | मूर्तिपदव्याख्या नृमूर्तय इति | तथा च सद्यः अजाता मूर्तयो यस्मादिति व्युत्पत्या सद्योजातमूर्तिपदवाच्याय नम इत्यर्थः || प्. २६) चतुर्थपदस्तवमाह ओमिति ओमित्यत्र पुरस्ताद्वास्तवमैक्यं हि लक्षयति वाच्ये | सकल शिवोयमभिन्नो यो निष्कलतोऽप्यथो || २४ || अत्र ओमिति पुरस्तात् वाच्ये वास्तवं ऐ ---- नमस्तुभ्यम् || क्यं लक्षयति हि योऽयं सकल शिवः सनिष्कलतः अभिन्नः इत्यनुषंगः | अथाऽपि ओं तुभ्यं नम इत्यन्वयः | अत्र अस्मिन् शिवशासने ओमिति पदं पुरस्तात् प्रथमं ऐक्यं लक्षयतीति वाच्य वाचकयोरुभयोरपि ओमित्येवकारयो यस्मात् तस्मात् सकल निष्कलयोरभिन्न एव ओं इत्याकारो यस्मात् अथापि तस्मादपि इत्यर्थः | हेतु द्वयेनापि संबोधनमेतत् हे ओंकार रूप इत्यर्थः तुभ्यन्नम इत्यर्थः || प्. २७) पञ्चमपद स्तवमाह गुह्या इति गुह्याः परैरदृष्टेरर्थागोप्याश्च पशुषुमायाद्याः | तेभ्यो गुह्येभ्योऽप्यति गुह्याय नमोऽस्तु रहसि लभ्याय || २५ || पशुषुमायाद्याः अर्थाश्च परैः अदृष्टैः गुह्याः गोप्याः | तेभ्ये गुह्येभ्योऽपि अति गुह्याय रहसि लभ्याय नमोस्तु इत्यन्वयः | गुह्यपद व्याख्या गोप्या इति परैरदर्शनः गोप्यत्वहेतुः | अतिगुह्यपदव्याख्या रहसि लभ्याय इति ध्यनै अगम्याय इत्यर्थः | तथाच गुह्येभ्योऽपि अतिगुह्य इति पञ्चमी समासेन गुह्यातिगुह्यपदवाच्याय नम इत्यर्थः || षष्ठपद स्तवमाह एकेति एक नृमूर्तिनिमित्तं यो मायां सर्वथाऽपि विहन्त्यपि तु | अन्येषां भवसिध्यै तद्गोप्तायो नमोस्तु गोप्त्रेपि || २६ || प्. २८) यः एक नृमूर्तिनिमित्तं मायां सर्वथा नो विहन्ति | अपि तु अन्येषां भवसिध्यै तद्गोप्ता तस्मै गोप्त्रे नमः अस्त्वित्यन्वयः | भवः संसारं एकस्य मुक्तावपि, अन्यसंसाराय मायायाः गोप्तेति कल्पनया गोप्तृ पदवाच्याय नम इत्यर्थः || सप्तम पदस्तवमाह मुक्तिमिति मुक्तिं कुर्वन्पुंसः तत्संसारस्य कार्य करणादेः | निधनं करोति योऽसौ तस्मै निधनाय तुभ्यमपि नमः || २७ || (४७) पुंसः मुक्तिं कुर्वन् कार्य करणादेः तत्संसारस्य योऽसौ निधनं करोति तस्मै निधनाय तुभ्यं नम इत्यन्वयः | मोहार्थं संसाररूप कार्य करणादि निधनत्वात् निधनकर एव निधन कल्पनया निधन शब्द वाच्याय नम इत्यर्थः || अष्टमपदस्तवमाह सर्वेति प्. २९) सर्वा विद्यामन्त्राः कोट्यस्सप्ताधिपास्त्वनन्ताद्याः | यस्माद्भवन्ति तस्मै तु सर्व विद्याधिपाय नमः || २८ || सप्तकोट्यः मन्त्राः सर्वाः विद्याः अनन्ताद्याः अधिपाः यस्माद्भवन्ति तस्मै सर्व विद्याधिपाय नम इत्यन्वयः | सर्वविद्याः अधिपाश्च यस्मादिति व्युत्पत्या सर्वविद्याधिप पद वाच्याय नम इत्यर्थः || नवमपद स्तवमाह ज्योतिरिति ज्योतिस्सकलं यत्प्राक् पुंसां रूपयति तत्तु मुक्तोयः | सर्वार्थ चित्क्रियाभ्यां ज्योतीरूपाय तुभ्यमपि नमः || २९ || पुंसां प्राक् यत् सकलं ज्यातिः तन्मुक्तौ तु सर्वार्थ चित्क्रियाभ्यां यः रूपयति तस्मै ज्योतीरूपाय तुभ्यं नम इत्यन्वयः | ज्योतिः रूपयति व्यंजयति इति व्युत्पत्या ज्योतिरूपपदवाच्याय तुभ्यं नम इत्यर्थः || प्. ३०) अथेषां नवपदानां पूजाविधिमाह पदनवकमिति पदनवकमेतदाहुः क्रमतस्वाग्नेय पीठनिविष्टम् | अष्टाचत्वारिंशद्वर्णयुतं पूर्ववत्तु संपूज्यम् || ३० || आग्नेय पीठ निविष्टं अष्टाचत्वारिंशद्वर्णयुतं एतत्पदनवकं क्रमतः पूर्ववत्पूज्यं इत्यन्वयः | अत्र पीठे अघोरहृदयादीनि नवानि पदानि पूजनीयानीत्यर्थः || अथप्रथमपदस्तवमाह प्रमेशा इति परमेशा विद्येशाः पूर्वोद्दिष्टाः परस्तु तेषां यः | स्व समत्व कृतेस्तस्मै ते परमेश्वर पराय नमः || ३१ || पूर्वोद्दिष्टाः विद्येशाः स्व समत्वकृतेः परमेशाः तेषां तु यः परः तस्मै परमेश्वर पराय ते नम इत्यन्वयः | परमेश्वरेभ्योऽनन्तादीभ्यः पर इति व्युत्पत्या परमेश्वर परपदवाच्याय नमः इत्यर्थः || प्. ३१) द्वितीयपदस्तवमाह पशुवदिति पशुवन्नोयस्यास्ति द्वेषादियुता तु चेतना बौद्धी | मुक्तश्शिववच्चेतना नासीदचेतना चेतन नमस्ते || ३२ || हे अचेतनाचेतन यस्य पशुवत् द्वेषादियुता बौद्धी चेतना तु नो अस्ति मुक्त शिववच्च चेतना नासीत् तस्मै ते नम इत्यन्वयः | पशु चेतना यस्य नविद्यते सः अचेतनः | (४८) मुक्त चेतना यस्य नविद्यते सोप्यचेतनः इति व्युत्पत्या अचेतनाचेतन पदवाच्याय नम इत्यर्थः || तृतीयपद स्तवमाह निष्कलेति निष्कल वत्सकलाख्या तन्मूर्त्तिव्योम यस्य रूपेण | व्याप्त्यादि नैव नियता व्योमास्तु ते नमस्तस्मै || ३३ || हे व्योमव्योम यस्य तव सकलाख्या मूर्त्तिः निष्कलवत् व्याप्तादिना रूपेणैव व्योमनियता निश्चयार्थः द्विरुत्तया तस्मै ते नम इत्यन्वयः | प्. ३२) व्योम शब्दस्य नित्य नपुंसकत्वात् मूर्ति शब्देन स्त्रीलिंगेन सामानाधिकरण्यं नाऽनुपपन्नम् | व्योमेदं व्योमेदमिति द्विरूक्त्या व्योमव्योमपदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह तद्वदिति तद्वच्चयस्य मूर्तिस्सकलार्थव्यापिकैव नाव्याप्तिः | प्राङ्मुक्तवत्तु तस्मै व्यापिन्यापिन्नमोऽस्तु तुभ्यमपि || यस्य च मूर्तिस्तद्वत् सकलार्थ व्यापिकैव मुक्तवत् प्रागव्याप्तिः न तस्मै तुभ्यं हे व्यापिन्यापिन् नमोऽस्तु तद्वत् व्योमवत् इत्यर्थः | अत्र व्यापिकैव नाव्याप्तिरिति नियमात् व्याप्तिन्यापिन्पदवाच्याय नम इत्यर्थः || पञ्चमपदस्तवमाह वर्णेति प्. ३३) वर्णरचने हि रूपं पशुमूर्तौ तद्रसादिसहितञ्च | मूर्तौ न विद्यते यस्य तु तस्मैत्वरूप्य रूपिन्नमः || ३५ || पशुमूर्तौ वर्ण रचनेहि रूपं तद्रसादि सहितं च यस्य ते मूर्तौ तत् न विद्यते तस्मै ते नम इत्यन्वयः | वर्णः ब्राह्मणत्वादिः रचना अवयव विन्यास विशेषः रसादिः मधुर गन्धादिः वर्णात्मकञ्च रूपं रचनात्मकञ्च रूपं उभयं नास्ति | कल्पनया अरूप्यरूपि पदवाच्याय नम इत्यर्थः | षष्ठपद स्तवमाह प्रथमेति प्रथमा च प्रथमान द्वितीयादि युतैव मूर्तिर्यत् | मूर्तिर्यस्या प्रेर्या प्रथम प्रथमास्तु ते नमस्तस्मै || ३६ || हे प्रथम प्रथम सर्वमूर्ति प्रथमा च प्रथमाना भूत्वा द्वितीयादि युतैव इति यत् तस्माद्धेतोः सा प्रथम प्रथमानेत्यध्याहारः यस्य तवमूर्तिः प्रथमा अप्रेर्या सती प्रथमान द्वितीयादि सहिता तस्मै ते नमोस्त्वित्यन्वयः प्रथम द्वितीयावस्था भेदः शिव मूर्तिर्नित्यत्वात् नावस्था भेद इति भावः || प्. ३४) सप्तमपदस्तवमाह सर्वेति सर्वज्ञतैव तेजस्तन्मूर्तौ यस्य रूपमथनान्यत् | पूर्वनिषेधात्तस्मै तेजस्तेजो नमोऽस्तु तुभ्यमपि || ३७ || (४९) यस्य तन्मूर्तौ सर्वज्ञता तेज एव रूपं अथान्यन्न कुतः पूर्वनिषेधात् तस्मै तुभ्यं हे तेजस्तेजः नमोऽस्त्वित्यन्वयः | अरूपीत्यत्र रूपनिषेधः पूर्व निषेधः तेज एव रूपमिति नियमात् द्विरूत्तया तेजस्तेजः पद वाच्याय नम इत्यर्थः || अष्टम पदस्तवमाह ज्योतिरिति ज्योतिस्तु सर्वकृत्यं रूपदाहादि कर्तृ लक्षणया | तदपि च मूर्तौ यस्य ज्यातिर्ज्योतिर्नमोस्तु तस्मै ते || ३८ || प्. ३५) दाहादि कर्तृलक्षणया सर्व कृत्यन्तु ज्योतीरूपं तदपि यस्य मूर्तौ तस्मै ते नमोऽस्त्वित्यन्वयः | अत्र ज्योतिस्त्विति शब्दस्य एवकारार्थ तया नियमस्फुरणात् द्विरूक्त्या ज्योतिर्जोतिः पदवाच्याय नम इत्यर्थः || नवमपदस्तवमाह तदिति तच्चार्कसोमशिखिमणि तेजोरूपं न किञ्चन हि भाव्यम् | सदैव तव विमलं यस्य तु तस्मैत्वरूपतेऽस्तु नमः || ३९ || अर्क सोम शिखिमणि तेजोरूपं किञ्चन सदा भाव्यं नहि यस्य तव विमलं रूपं सदैव भाव्यं तद्धेतोः हे अरूप तस्मै ते नमोऽस्त्वित्यन्वयः | शिखी वह्निः वीर्यादितेजसां रूपं सदानभासते मलिनस्त्वसम्भवात् शिवतेजस्तु मलिनत्वाऽसंभवात् भासते | तस्मात् मलिन रूप रहिततया अरूप पद वाच्याय नम इत्यर्थः || प्. ३६) अथेषां नवानां पदानां पूजाप्रकारमाह रुरुगीतेति रुरुगीता रूपान्त्यं दक्षिणपीठस्थमेतदथ पूज्यम् | पदनवकं पञ्चाधिकचत्वारिंशत्प्रमाणवर्णयुतम् || ४० || रुरुगीता रूपान्त्यं दक्षिणपीठस्थं पञ्चाधिक चत्वारिंशद्वर्णयुतं एतत्पद नवकं अथ पूज्यमित्यन्वयः | अस्मिन्पीठे परमेश्वर परादीनि नव पदानि पूजनीयानीत्यर्थः || नैऋत पीठ पदस्तवमाह अग्नेरित्यादिना नवभिरार्याभिः | तत्र प्रथम पदस्त्वमाह अग्नेरैन्धनठेवद्युतकालानल लक्षणादिदञ्चान्यत् | सकल मल दहन हेतुर्ज्योतिर्यस्य तु नमोस्त्वनग्ने ते || ऐन्धन वैद्युत कालानल लक्षणात् अग्नेः अन्यत् सकलमल दहन हेतुः ज्योतिः यस्य तु भवति तस्मै ते हे अनग्ने नमोऽस्त्वित्यन्वयः | स्वज्योति रूपात् अन्योऽग्नि नविद्यते यस्येति व्युत्पत्या अनग्निपद वाच्याय नम इत्यर्थः || द्वितीयपदस्तवमाह तदिति तज्ज्योतिषस्सधूमाद्रागद्वेषादि चित्प्रकंपयुजः | पुद्गलकादप्यन्यज्ज्योतिर्यस्यत्वधूमतेऽस्तु नमः || ४२ || (५०) यस्य ज्योतिः सधूमात् तज्ज्योतिषः रागद्वेषादि चित्प्रकंपयुजः पुद्गलकादपि ज्योतिषः अन्यत् तस्मै ते हे अधूम ते नमोऽस्तु इत्यन्वयः | न विद्यते ज्योतिः यस्येति व्युत्पत्या अधूमपदवाच्याय नम इत्यर्थः | तृतीयपदस्तवमाह तद्वदिति तद्वच्च भस्मयुक्तात्तदसारज्योतिषो नृकर्तृकत्वात् | सर्वार्थमन्यदुक्तं ज्योतिर्यस्य तु नमोस्त्वभस्म तव || ४३ || यस्य तव अन्यत् उक्तं सर्वार्थं ज्योतिः तद्वत् भस्मयुक्तात् तदसार नृकर्तृकत्वात् ज्योतिषो अन्यत् तस्मै ते हे अभस्म नमोऽस्त्वित्यन्वयः | प्. ३८) न विद्यते ज्योतिः भस्म यस्येतिव्युत्पत्या अभस्मपदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह तदिति तज्ज्योतिरूपासौ मूर्तिस्सैषा स्वभावतो विमला | सकलश्रेयो हेतुर्यस्यानादि नमोऽस्त्वनादेते || ४४ || यस्य असौ मूर्तिः तज्ज्योतिरूपा स्वभावतो विमला सैषा सकलश्रेयोहेतुः अनादिः तस्मै ते हे अनदे नमोऽस्त्वित्यन्वयः | शिवमूर्तेस्नादित्वात् शिवस्यापि अनादित्वात् अनादिपदवाच्याय नम इत्यर्थः || पञ्चमपदस्तवमाह नापुरुष इति नापुरुषत्रितयं हरहरिकमलोद्भवं हि पोषयति | ना ना ना त्वक्तोक्त स्त्रियात्मा यो नमस्तस्मै || ४५ || प्. ३९) नापुरुष त्रितयं हरहरि कमलोद्भवं पोषयति हि ततः अत्र शासने यः त्रितयात्मासन् ना ना ना उक्तः तस्मै नम इत्यन्वयः | हरहरिब्रह्मणां नॄणां त्रयाणां वाचकतया ना ना ना पदवाच्याय नम इत्यर्थः || षष्ठपदस्तवमाह संहारेति संहारेस्वत्रितयं कंपयति येन तेन गुणवृत्या | धूकारत्रय वाच्यो योत्र तु तस्मै नमोऽस्तु तुभ्यमपि || ४६ || स्व त्रितयं संहारे वर्तते येन कारणेन तेन हेतुना धूकंपन इत्यर्थमवलंभ्य कंपयतीति गुणवृत्या यः धूकारत्रयवाच्यः तस्मै तुभ्यं नमोऽस्त्वित्यन्वयः | प्रलयेषु कंपन संभवात् कंपन शब्दस्य संहार लक्षकत्वे सति सुसाध्य प्रलयत्रय वाचक धू धू धू पद वाच्याय नम इत्यर्थः || सप्तम पदस्तवमाह स्तुतिरिति प्. ४०) स्तुतिरूपमसत्यमर्थं मनुजातन्नैतदिति य आलिङ्ग्य | ओंभूरिति सत्यार्थै मन्त्रपदैरुच्यते नमोस्त्वोंभूः || ४७ || एतत् मनुजातं लोकपठ्यमान मन्त्रजालं स्तुतिरूपं असत्यार्थं (५१) नेति ओंभूः इत्यालिङ्ग्य वाच्यः यः शिवः सत्यार्थैः मन्त्रपदैः उच्यते तस्मै तुभ्यं ओंभूः नमोऽस्त्वित्यन्वयः | अयं भावः ओं शब्देन शिव उच्यते भूः लोकः ओं भूरित्यनेन लोकेशयोरभेदः स्फुरति ततश्च वेदान्तिभिः लोकानामसत्य वर्णनात् तत्प्रतिपादकमन्त्राणां असत्यार्थ शंकानिरस्ता | लोकस्य सत्यभूत शिवाभेद वर्णनया सत्वसंभवात् | अत एव सत्यार्था एव सर्वे मन्त्राः इति प्रतीति फलक ओंभूःपद वाच्याय नम इत्यर्थः || अष्टमपदस्तवमाह ओमिति ओमिति चेशस्सभुवो भुवनसमेतस्य तत्वभावादेः | प्. ४१) सकलोपि योऽत्र कथितस्त्वोंभुव इति नमोऽस्तु तस्मै च || ४८ || ओमिति अस्मिन् शासने ओमिति यः ईशः कथितः स एव भुवन समेतस्य तत्व भावादेः सकलोऽपिभुवः स एव कथितः ओंभुव इति कथितः तस्मै नमोंऽस्त्वित्यन्वयः | ईश भुवर्लोकाऽभेद बोधक ओंभुवः पदवाच्याय नम इत्यर्थः || नवम पदस्त्वमाह ओमिति परमा प्रीति स्वरिति परमसुखात्मिकैव यस्योक्तम् | रूपं मुख्यं कृतकं ह्मों स्वरितीत्थं नमोऽस्तु तस्मै ते || ४९ || ओमिति परमा प्रीतिः स्वरिति परमसुखात्मिकैव इत्थं कृतकं रूपं परम प्रीतिः परम सुखाकारं रूपं यस्य ओं स्वः इत्युक्तं तस्मै ते नमोऽस्त्वित्यन्वयः | परम प्रेमास्पद परमानन्दबोधक ओं स्वः पद वाच्याय नम इत्यर्थः || प्. ४२) एषां पदानां पूजाप्रकारमाह पदनवकमिति पदनवकमेतदित्थं रुरुगीतं सर्वदैव नवनाभे | नैऋत पीठे पूज्यं युक्तं वर्णैस्तु पंचविंशत्या || ५० || इत्थं रुरुगीतं पञ्चविंशत्या वर्णैस्तु युक्तं एतत्पदनवकं नवनाभे नैऋतपीठे सर्वदैव पूज्यमित्यन्वयः | नैऋतपीठे अनग्ने इत्यादि नवपदानि पूज्यानीत्यर्थः | पश्चिमपीठ पदनवकस्तवमाह शम्भुरित्यादिभिः नवभिरार्याभिः | तत्र प्रथमपदस्तवमाह शम्भुरिति शम्भुरनिधनो गीतो मायाचक्र प्रवाहतः किन्तु | कूटस्थ तया योसौ नमोऽस्तु तेप्यनिधना निधनतस्मै || ५१ || योऽसौ शंभुः मायाचक्रप्रवाहतः माया च कृस्य प्रपञ्चस्य अनादितया प्रवाहात् हेतोः तत्कर्ता अनिधनः निधनं नाशः तद्रहितः अनाशः कर्तुरभावे प्रवाहानुपपत्तेः | प्. ४३) किञ्च कूटस्थतया च अनिधनः कूटस्थस्याऽविकारित्व लक्षणत्वात् नाशरहितः (५२) तस्मै ते हे अनिधनाऽनिधन नमोऽस्त्वित्यन्वयः | उभयथापि नाशरहितत्वात् अनिधनानिधनपदवाच्याय नम इत्यर्थः || द्वितीयपदस्तवमाह निधनेति निधनोद्भवादि यस्माद् भवति शिवाद् वीरभद्रमुख्यानाम् | मायागर्भेशानान्निधनोद्भवते नमोऽस्तु तस्मै च || ५२ || यस्मात् शिवात् वीरभद्रमुख्यानां मायागर्भेशानां निधनोद्भवादि भवति संहार सृष्ट्यादि भवन्तीत्यर्थः तस्मै ते हे निधनोद्भव नमोऽस्तु इत्यन्वयः | वीरभद्रादीनां निधनोद्भवकर्तृत्वात् निधनोद्भवपदवाच्याय नम इत्यर्थः || तृतीयपदस्तवमाह अशिव इति प्. ४४) अशिवो शिवपदत्वाच्छिवोन यो भवति कर्मरूपं यत् | गुरुवत्केवलमशुभं व्यनक्तियस्तेन नमोऽस्तु शिव तस्मै || ५३ || यः शिवः न भवति सः अशिवः अशिव प्रदत्वात् केवलं अशुभं व्यनक्ति तद्ववतिरेकेण तु यः अशिवः न सः शिवः शिव प्रदत्वात् शक्तिरूपं केवलं शुभं व्यनक्तीति यत् तत्कारणात् हे शिव तस्मै नमोऽस्त्वित्यन्वयः | अशिव हरतया शिव प्रदतया च शिव पदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह सर्वस्येति सर्वस्य सर्वदा तत्सर्वं सर्वत्र कर्महेतुफलम् | जनयन् सर्वः कथितः योऽतु तस्मै नमोऽसर्वापि || ५४ || सर्वस्य सर्वजनस्य सर्वदा सर्वकालं सर्वत्र सर्वदेशे सर्वं सकलं कर्महेतु कर्मकारणकं कर्मजमित्यर्थः | फलं जनयन् यत् तत्कारणात् अत्र शिवशासने यः सर्वः कथितः हे सर्व तस्मै नम इत्यन्वयः | प्. ४५) सर्वफलप्रदतया सर्वपदवाच्याय नम इत्यर्थः || पञ्चमपदस्तवमाह परम इति परमश्चासावात्मा कारणमुक्तस्तु कारणानां यः | चिदचिद्विभेदभाजां सर्वेषान्ते नमोऽस्तु परमात्मन् || ५५ || योऽसौ परमश्चासौ आत्मा च चिदचिद्विभेदभाजां कारणानां कारणं उक्तः तस्मै ते हे परमात्मन् नमोस्त्वित्यन्वयः | उत्कृष्टात्मवाचक परमात्मपद वाच्याय नम इत्यर्थः || षष्ठपदस्तवमाह पूज्यानामिति पूज्यानामपि पूज्यो विद्येशानामनन्त मुख्यानाम् | मुक्त्यै महेश्वरत्वाद्यस्तु तस्मै महेश्वर नमस्ते || ५६ || यस्तु महेश्वरत्वात् पूज्यानां अनन्तमुख्यानां विद्येशानामपि मुक्त्यै मोक्ष फलाय पूज्यः तस्मै ते हे महेश्वर नम इत्यन्वयः | महतामनन्तादीनामपि ईश्वर इति व्युत्पत्या महेश्वर पद वाच्याय नम इत्यर्थः || सप्तमपदस्तवमाह मुक्त इति मुक्तश्शिवेभ्योपि महान् देवश्शान्तत्वतो हि यस्साक्षात् | तेप्यर्चितायदर्चा तस्य तु तस्मै नमो महादेव || ५७ || (५३) यश्शिवः साक्षात् परानपेक्षया शान्तत्वतः रागद्वेष रागद्वेषरहितत्वतः स्वतस्सिद्ध रागादि राहित्यवत्वादित्यर्थः मुक्तः शिवेभ्योऽपि महान् देवः तेऽपि मुक्ताः शिवाऽपीत्यर्थः यदर्चायच्छिवविषया अर्चा येषां ते तथोक्तास्सन्तः तस्य अर्चिता भवन्ति | हे महादेव तस्मै ते नस्मोऽस्त्वित्यन्वयः | महान् चाऽसौ देवश्चेति व्यत्पत्या महादेव पदवाच्याय नम इत्यर्थः | प्. ४७) अष्टमपदस्तवमाह पश्विति? पशुद्रक्षूत्ताः प्रान्तैः पशुपाशास्त्वीश्वरस्स्वतन्त्रेतः | सद्भावेन यदुक्तः सद्भावेश्वर नमोऽस्तु तस्मै ते || ५८ || पशुपाशाः पशुद्रक्षु पशुदर्शनेषु पशु शास्त्रेष्वित्यर्थः प्रान्तै प्रदेश्यैः उक्ताः ये ईश्वरस्तु स्वतन्त्रे शिवशास्त्रे सद्भावेन सम्यक्त्वेन उक्तः तस्मै तुभ्यं हे सद्भावेश्वर नम इत्यन्वयः | शिवशास्त्रे सद्भावेन उक्तः ईश्वरः सद्भावेश्वर इति मध्यमपदलोपि समासेन सद्भावेश्वर पदवाच्याय नम इत्यर्थः || नवमपदस्तवमाह सर्वेति सर्वार्थ कृन्महत्तत्तेजस्सादाशिवं वपुर्यस्य | प्रागुक्तमप्रधृष्यं सदैव तस्मै नमो महातेजः || ५९ || सर्वार्थकृत् सादाशिवं वपुः सदैवाप्रधृष्यं प्रागुक्तं महत् तेजः यस्य तस्मै ते हे महातेजः तुभ्यं नम इत्यन्वयः | प्. ४८) महत् तेजः यस्य सः महातेजा इति व्युत्पत्या महातेज शब्द वाच्याय नम इत्यर्थः || अथेषां नवानां पदानां पूजाप्रकारमाह पश्चिमेति पश्चिमपीठे पूज्यं पदनवकञ्चेतदुक्त परिपाट्या | सप्तत्रिंशत्संख्यैर्युक्तं वर्णैस्सदैवनवनाभे || ६० || सप्तत्रिंशद्वर्णैः युक्तं एतत्पदनवकं उक्त परिपाट्या नवनाभे पश्चिमपीठे सदैव पूज्यमित्यन्वयः | पश्चिम पीठे अनिधनानिधन पदादीनि नवपदानि पूजनीयानीत्यर्थः || वायव्यपीठपदनवकस्तुतिमाह येगा इति नवभिरार्याभिः | तत्र प्रथमपदस्तवमाह योगा इति योगा विमुक्तदेहाः प्रोक्तास्सादाशिवाश्शिवस्तेषाम् | प्. ४९) अधिपः पितृवज्जनको यो योगाधिप नमोऽस्तु तस्मै ते || ६१ || मुक्तदेहाः सदाशिवाः सदाशिव एव सदाशिवाः पशु सदाशिवा इत्यर्थः | स्वर्थेऽण् प्रत्ययः पशु सदाशिवानां विज्ञान कलरूपाणां सकलबन्धविमुक्ततया विमुक्त देहत्वमित्यर्थः योगाः इति प्रोक्ताः यश्शिवः तेषां अधिपाः पितृवज्जनकः अधिपः समर्थः | तस्मै ते हे योगाधिप नमोऽस्त्वित्यन्वयः | योगानामधिपः योगाधिप इति व्युत्पत्या योगाधिप पदवाच्याय नम इत्यर्थः || द्वितीयपदस्तवमाह गुरुभिरिति गुरुभिर्मण्डलवेषो दीक्षायामर्थ्यते भियादिनान् | (५४) भक्तान्वा सच्छिष्यांस्तु मुञ्च मुञ्चेति यो नमस्तस्मै || ६२ || मण्डलवेषोयः शिष्यपः गुरुभिः दीक्षायां भिया सस्मारभयेन दीनान् भक्तान् सच्छिष्यान् मुञ्चमुञ्च इति कथ्यते प्रार्थ्यते | प्. ५०) तस्मै ते नमोस्त्वित्यन्वयः | संसारमोक्ष प्रतिपादक मुञ्चमुञ्चपदसंबोध्याय नम इत्यर्थः || तृतीयपदस्तवमाह मध्नातीति मध्नातीतः पाशादीन् दीक्षाभिर्योगुरूनधिष्ठाय | पक्वमलानां पुंसां प्रथम प्रथमास्तु ते नमस्तस्मै || ६३ || इतः प्रार्थनानन्तरं गुरूनधिष्ठाय पक्वमलानां पुंसां दीक्षाभिः यः मध्नाति तस्मै ते हे प्रथम प्रथम नमोऽस्त्वित्यन्वयः | नियमेन पाशमथनात् द्विरूक्त्या प्रथम प्रथम पदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह पुंस इति पुंसो बन्धनभयतश्शरणं प्राप्तान्वृणोति गुरुसंस्थः | दीक्षाभ्युपगमतो यस्तु शर्वशर्वाऽस्तुते नमस्तस्मै || ६४ || बन्धनभयतः शरणं प्राप्तवान् पुंसः गुरुसंस्थो भूत्वा दीक्षाभ्युपगमेन यस्तु वृणोति तस्मै ते हे शर्वशर्वनमोऽस्त्वित्यन्वयः | प्. ५१) शरशब्दः शरणद्योतकः | वशब्दो वरणद्योतकः | नियमतः शरणप्राप्तपुरुषवरणकद्योतकतया द्विरूक्त्या शर्वशर्वपदद्योत्याय नम इत्यर्थः || पञ्चमपदस्तवमाह अण्विति अणुशक्तिपातमादौ गुर्वाद्यभिगमनतो भवतिपुंसाम् | शिवशक्तिभावकतया यस्ते भव भव नमोऽस्तु तस्मै च || ६५ || येषामित्यध्याहारः | येषां पुंसां गुर्वाद्यभिगमनतो आदौ अणुशक्तिपातं भवति | अणुशब्दो भावप्रधानः अणुत्वशक्तेः आणवमलशक्तेः पातः क्षयः लिङ्गव्यत्यासः चिन्त्यः तेषां पुंसां यः शिवशक्तिभावकतया शिवत्वव्यञ्जकतया भवति तस्मै ते हे भवभव नमोऽस्त्वित्यन्वयः | आणवक्षयभवनशिवत्वव्यक्तिभवनहेतुतया भवभवपदवाच्याय नम इत्यर्थः || प्. ५२) षष्ठपदस्तवमाह पूर्वमिति पूर्वं प्रमथितपाशाभवन्ति ये दीक्षया भवास्तेषाम् | शिवता तदूर्ध्वभवनं भवति यतस्तद्भवोद्भव नमस्तस्मै || ६६ || दीक्षया पूर्वं प्रमथित पाशाः ये भवन्ति ते भवाः तेषां भवानां तदूर्ध्वभवनं तस्यैव विवरणतया यतोभवति तस्मै ते तत्कारणात् हे भवोद्भव नम इत्यन्वयः | भवानां उद्भवनं यस्मादिति व्युत्पत्या भवोद्भव पद वाच्याय नम इत्यर्थः || सप्तमपदस्तवमाह जातीति जातिनियमेनैतान् मुक्तिसुखं पूर्णतान्ददात्यपि तु | सर्वेभ्योभूतेभ्यस्सुखप्रदोयो नमोऽस्तु तस्मै ते || ६७ || यः जातिनियमेन ब्राह्मणत्वादिजाति नियमेन एतन्मुक्तिसुखं करोति तत् प्. ५३) प्रसिद्धं मुक्तिसुखं पूर्णतां मुक्तिसुखस्य परिपूर्णं तु अणोः ददाति अपितु सर्वेभ्यो भूतेभ्यः सुखप्रद तस्मै ते नमोऽस्त्वित्यन्वयः | सर्वभूतानां सुखं प्रदातीति सर्वभूतसुखप्रद वाच्याय नम इत्यर्थः || अष्टमपदस्तवमाह सर्वत्रेति सर्वत्र सन्निधानं करोति यो नोत्तरायणादि वशः | मुक्त्यर्थन्दीक्षादौ सर्वसान्निध्यकर नमोऽस्तु || ६८ || यस्तु दीक्षादौ मुक्त्यर्थं सर्वत्र सर्वदेशे सान्निध्यं करोति उत्तरायणादिकालवशो न भवति तस्मै ते सर्वसान्निध्यकर नमोऽस्त्वित्यन्वयः | सर्वदेशे सर्वकाले च सान्निध्यकरः सर्वसान्निध्यकर इति व्युत्पत्या सर्वसान्निध्यकरपदवाच्याय नम इत्यर्थः || नवमपदस्तवमाह विद्येति प्. ५४) विद्येश प्रेरणया ब्रह्मादीनान्तु सांजनानां यः | सृष्ट्यादि कृत्परस्मिन् नमोऽस्तु ते ब्रह्मविष्णुरुद्रपर || ६९ || विद्येशप्रेरणया साञ्जनानां साणवानां ब्रह्मादीनां ब्रह्मविष्णुरुद्राणाञ्च सृष्टिकृत् यः त्वं परः तस्मै ते हे ब्रह्मविष्णुरुद्रपर नमोऽस्त्वित्यन्वयः | यः ब्रह्मादिभ्यः परतया ब्रह्मविष्णुरुद्रपरपदवाच्याय नम इत्यर्थः || एषां नवपदानां पूजाप्रकारमाह वायव्यमिति वायव्यपीठ एतत्पदनवकं पूर्ववत्तु संपूज्यम् | एकोनैः पञ्चाशत्संख्यैर्वर्णैरूपेतमथपरमम् || ७० || अथ पश्चिमपीठपूजानन्तरं एकोनपञ्चाशद्वर्णयुतं परं एतत्पदनवकं पूर्ववत्पूज्यमित्यन्वयः | वायव्य कमलपीठे योगाधिपादीनि नव पदानि पूजनीयानीत्यर्थः || प्. ५५) सौम्यपीठपदनवकस्तुतिमाह पश्वित्यादिभिः नवभिरार्याभिः | तत्र प्रथमपदस्तवमाह पशुदृष्ट्यदृष्टितोयोह्यनर्चितः पशुभिरेव नत्वन्यैः | श्रेयो हेतुश्शैवैरनर्चिताऽनर्चितत्वथ नमस्ते || ७१ || श्रेयो हेतुः यो हि पशुदृष्ट्यदृष्टितः पशुदृष्टीनामदर्शनतः पशुभिरेव अनर्चितः नत्वन्यैश्शैवैरनर्चितः तस्मै ते हे अनर्चितानर्चित नमोस्त्वित्यन्वयः पशुभिरेवेति नियमाद्विरुक्तया अनर्चितानचित पदवाच्याय नम इत्यर्थः || द्वितीयपदस्तवमाह तद्वदिति तद्वच्च न स्तुतोयः पशुभिरपशुभिस्तु तस्तु मन्त्रपदैः | स्वविरचितैर्वास्तोत्रैरसंस्तुताऽसंस्तुतापि च नमस्ते || तद्वच्च अनर्चितवच्च पशुभिः यः न स्तुतः अपशुभिः स्तुतिमन्त्रैः पदैर्वा स्वविरचितैः स्तोत्रपदैर्वास्तुतः तस्मैः ते हे असंस्तुताऽसंस्तुत नम इत्यन्वयः | प्. ५६) असंस्तुतासंस्तुतपदवाच्याय नम इत्यर्थः || तृतीयपदस्तवमाह पूर्वेति पूर्वस्थित पूर्वस्थित सर्वत्रावाहनादि यस्योक्तम् | सन्निधिविशेषचिन्त्यं फलाय नित्यं नमोऽस्तु तस्मै ते || ७३ || हे पूर्वस्थित पूर्वस्थित सन्निधिविशेषचिन्त्यं आवाहनादि (५६) सर्वत्र यस्य तव फलाय उक्तं तस्मै ते नित्यं नमोऽस्त्वित्यन्वयः | सर्वदेश सर्वकालवर्तमानस्य शिवस्य आवाहनं सन्निधि विशेषाय भवतीति | तथा च नियमेन द्विरुक्त्या पूर्वस्थित पूर्वस्थितपदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह साक्षादिति प्. ५७) साक्षात्पश्यति सर्वं सर्वज्ञत्वात्तुनाऽनुमानादेः | साक्षव्यपेक्षपातात्साक्षिन्नमोस्तु तस्मै च || ७४ || यस्तु सर्वज्ञत्वात् सर्वं साक्षात् प्रत्यक्षं पश्यति साक्षव्यपेक्षपातात् अक्षस्य प्रत्यक्षस्य व्यपेक्षात् अपेक्षतया सहितं साक्षव्यपेक्षः पातोयस्य तत् तथोक्तानुमानादेः न पश्यति तस्मै ते हे साक्षिन् साक्षिन् तुभ्यं नमोऽस्त्वित्यन्वयः | पश्यति पश्यतीति द्विरुक्त्या साक्षिन्पद वाच्याय नम इत्यर्थः || पञ्चमपदस्तवमाह सद्य इति सद्योमुक्तौ साधनमतुलन्दीक्षाख्यमेव यस्त्वरितम् | रचयन्नमोस्तुमुक्तस्तुरुतुर्वित्थं नमोऽस्तु तस्मै ते || ७५ || सद्योमुक्तौ अतुलं दीक्षाख्यमेव साधनं रचयन् यस्त्वं भक्तेः इति शेषः नमस्तुरुतुरु इत्थमुत्तः तस्मै ते नमोऽस्त्वित्यन्वयः | प्. ५८) दीक्षाख्यमेवेति नियमाद्विरुक्त्या अव्ययप्रतिरूपक शैघ्रप्रतिपादक तुरुतुरुपदबोध्याय नम इत्यर्थः || षष्ठपदस्तवमाह प्रतीति प्रतिभुवनमर्कवद्योनिपतन्मायान्धकारतः पुंसः | हरति पतंगच दीक्षा संयोजनेन नमस्तस्मै || ७६ || अर्कवत् प्रतिभुवनम् निपतन् यः पुंसः मायान्धकारतः सार्वविभक्तिकस्त सिलिति वचनात् मायारूपं अन्धकारं दीक्षासंयोजनेन हरति च तस्मै ते हे पतंग पतंग नमोऽस्त्वित्यन्वयः | हरति च इति चकारस्य एवकारार्थतया नियमस्फुरणात् पतन् गमयति तमः उत्सारयतीति कल्पनया द्विरुक्त्या पतंग पतंग पदवाच्याय नम इत्यर्थः || सप्तमपदस्तवमाह पिंगल इति प्. ५९) पिङ्गोवह्निःस्तद्वद्यः पाशान्दहति सर्वथा कांश्चित् | कांश्चित्व सर्वथाऽपि च नमोऽस्तु ते पिंगपिंगतस्मै च || ७७ || पिंगः वह्निः पिंगपदवाच्यो वह्निः तद्वत् वह्निवत् यः शिवः कांश्चित् पाशान् सर्वथा दहति | कांश्चित्वसर्वथापि च दहति | मलस्य ईषत्पाकाधिक पाकाभ्यां सर्वासर्वदाहकत्वं उपपद्यते तद्वदिति भावः हे पिंगपिंग नमोऽस्त्वित्यन्वयः | सर्वासर्वदाहद्वयवर्णणेन द्विरुक्त्या वह्निवाचक पिंगपिगपदलक्ष्याय नम इत्यर्थः || अष्टमपदस्तवमाह तदिति तत्सक्त्यनुग्रहात्स्वात्मनि बद्धाद्य गोचरे पुंसाम् | जनयत्यमितेज्ञेपि ज्ञानज्ञानास्तुते नमस्तस्मै || ७८ || (५७) यः शक्त्यनुग्रहात् हेतोः बद्धाद्यगोचरे अमिते अप्रमेयेज्ञे स्व प्रकाशे स्वात्मनि विषय सप्तमीयं पुंसां अनुग्रह युक्त पुंसां तत् ज्ञानं जनयति अपि एवकारार्थः तस्मै ते हे ज्ञानज्ञान नमोऽस्त्वित्यन्वयः | अत्रापि नियमात् ज्ञानज्ञानपदवाच्याय नम इत्यर्थः || नवमपदस्तवमाह विक्षोभ्य इति विक्षोभ्य नादशक्तिं रचयतिबिन्दुक्रमेण यश्शब्दान् | पुंवक्त्रेणप्रथमं नमोऽस्तु ते शब्द शब्द तस्मै च || ७९ || नादशक्तिं कुण्डलिनी रूपां विक्षोभ्य बिन्दुक्रमेण नाद बिन्द्वादि क्रमेण इत्यर्थः | यः शब्दान् सूक्ष्मा पश्यन्ती मध्यमा वैखरी रूपान् पुमर्थं पुरुषस्य प्रयोजनाय पुंवक्त्रेण पुरुष वक्त्रेण रचयति | तस्मै ते हे शब्दशब्द नमोऽस्त्वित्यन्वयः | शब्दोत्पादकतया शब्दशब्दपदवाच्याय नम इत्यर्थः || एषां नवपदानां पूजाविधानमाह एतदिति प्. ६१) एतदुत्तरपीठे पदनवकं यद्रूक्तपाठेन | अष्टाचत्वारिंशत्संख्यैर्वर्णैरूपेतमथ पूज्यम् || ८० || रुरूक्तपाठेन अष्टाचत्वारिंशत्संख्यैः वर्णैः उपेतं यत् पदनवकं तत्तु उत्तरपीठे पूज्यमित्यर्थः | अत्र अनर्चितानर्चितादीनि नव पदानि क्रमेण पूज्यानीत्यर्थः || ईशानपीठ पदनवकस्तुतिमाह कुर्वन्नित्यादिभिर्दर्शभिरार्याभिः | तत्र प्र्थमपदस्तवमाह कुर्वन्निति कुर्वन्नुपाधिनिष्ठं सर्वं यो नोपलभ्यते पशुभिः | अतिसूक्ष्मत्वान्नित्यं नमोऽस्तु ते सूक्ष्म सूक्ष्म तस्मै च || ८१ || उपाधिनिष्ठं सर्वं कुर्वन् अन्तर्यामितयेति भावः | यः पशुभिः नोऽपलभ्यते तत्र हेतुः अति सूक्ष्मत्वात् नित्यं तस्मै ते हे सूक्ष्म सूक्ष्म नमोऽस्त्वित्यन्वयः | नियमात् द्विरुक्त्या अतिसौक्ष्म्य वाचक सूक्ष्म सूक्ष्मपदवाच्याय नम इत्यर्थः || प्. ६२) द्वितीयपदस्तवमाह मन्त्रेति मन्त्रार्थतया नियतः कथितो योऽनेन शिव पदेनाऽत्र | प्रोक्तैस्सदैवधर्मैर्युत्तस्मै नमोऽस्तु शिव शिव ते || ८२ || प्रोक्तैः धर्मैः सदा उपयुक्तः यः मन्त्रार्थ तया शिवपदेन अत्र शिवशासने नियतः कथितः तस्मै ते हे शिव शिव नमोऽस्त्वित्यन्वयः | नियमात् द्विरुक्त्या शिव शिव पदवाच्याय नम इत्यर्थः || तृतीयपदस्तवमाह आनन्त्य इति आनन्त्यतः फलानां विस्तारान्नोक्तमपि तु संक्षेपात् | सर्वन्ददात्यभीष्टं परापरं यो नमोऽस्तु सर्वदते || ८३ || फलानां आनन्त्यतः विस्तारात् नोक्तं अपि तु संक्षेपात् उक्तं परापरं सर्वं अभीष्टं यो ददाति तस्मै ते हे सर्वदा नमोऽस्त्वित्यन्वयः | प्. ६३) सर्वं ददातीति सर्वदपदवाच्याय नम इत्यर्थः || चतुर्थपदस्तवमाह इष्वेति (५८) इष्वेत्थमर्थनीयः प्रणवस्तो यः त्रिभिर्नमस्कारैः | बन्ध त्रयतस्त्र्यात्मक कार्यध्वं सायते नमस्तस्मै || ८४ || इष्वा इति यजनं कृत्वा अन्ते बन्धत्रयतः आणवादि समुत्पन्नस्य त्र्यात्मक कार्यस्य ध्वंसाय यः प्रणवस्थः त्रिभिः नमस्कारैः अर्धनीयः तस्मै नम इत्यन्वयः | बन्धत्रयमोचनाय प्रयुक्त ओं नमो नमो नमः पद स्मार्याय नम इत्यर्थः || पञ्चमपदस्तवमाह मन्त्रार्थ इति मन्त्रार्थ यो द्वयोरप्युपसंहारः पदैश्शिवायेति | यदधिष्ठान मन्त्रोपि शिवस्तस्मै शिवाय ते स्तु नमः || शिवायेति पदे मन्त्रार्थयोर्द्वयोरप्युपसंहारेण त्वं यदधिष्ठानमन्त्रोपि शिवः यदधिष्ठानात् सदा श्रेयानित्यर्थः | प्. ६४) तस्मै ते शिवाय नमोऽस्त्वित्यन्वयः | मन्त्रार्थस्फोरक शिवाय पदबोध्याय नम इत्यर्थः | षष्ठपदस्तवमाह कार्येति कार्यत्वे निवृत्तावपि पदे ये नोजन्वन्ति कारणत्वं यत् | आज्ञां विना तदर्धं प्रणवे योऽन्त्यं पुनर्नमस्तस्मै || ८६ || कार्यत्वे निवृत्तावपि कारणत्वं आज्ञांविना नोजन्यन्तीति यत्तदुनार्थं पुनः प्रणवे स्वरूपे ये न योज्यन्ते तस्मै नमोऽस्त्वित्यन्वयः | योजन विषय प्रणवाकारतया ओं पद वाच्याय नम इत्यर्थः || सप्तमपदस्तवमाह तदिति तच्चापिकारणत्वं तेषां त्रिविधं त्रिभिर्नमस्कारैः | बन्ध त्रयाधिकारात् नमाऽस्तु ते हन्ति यो नमस्तस्मै || ८७ || तेषां पतीनां त्रिविधमपि तत्कारणत्वञ्च बन्धत्रयाधिकारांश्च तृभिः नमस्कारैः नमस्कृतो यो हन्ति तस्मै ते नमोऽस्त्वित्यन्वयः | प्. ६५) अधिकार त्रयमोचक प्रयुक्त नमो नमो नमः पदवाच्याय नमः इत्यर्थः || अष्टमपदस्तवमाह तदन्विति तदनु शिवत्वव्यक्तिस्तद्वृद्धिवर्धते द्वयं यस्मात् | द्वाभ्यान्नमस्कृतिभ्यां शिवस्तस्मै द्विर्नमोऽस्तु तस्मै ते || ८८ || तदनु बन्ध त्रयनिवृत्यनन्तरं शिवत्वव्यक्तिर्भवति तच्छिवत्वं द्वाभ्यां नमस्कृतिभ्यां यस्मात् शिवात् निमित्तात् बुद्ध्या द्वयं वर्धते तद्विगुणं शिवत्वं भवतीति यावत् शिवत्वं प्राप्यपुनः पशुत्वं न भवतीत्यर्थः || नवमपदस्तवमाह प्रान्त इति प्रान्त प्रणवशिवो योऽभिध्यातः प्रार्थित फलं त्वेतत् | अविनश्वरं शिवत्वं ददाति पुंसो नमोऽस्तु तस्मै ते || ८९ || प्. ६६) यः प्रान्तप्रणवशिवः मन्त्रान्त प्रणवाकार शिव इत्यर्थः | अभिध्यातः प्रार्थितस्सन् पुंसः अविनश्वरं शिवत्वं एतत्फलन्तु ददाति तस्मै प्रणवाय ते नमोऽस्त्वित्यन्वयः | फलस्वरूप ओं पद वाच्याय नम इत्यर्थः || अथेषां नवपदानां पूजाप्रकारं वर्णसंख्याञ्च आह ईश इति ईशानकोणपीठे पदनवकं त्वेतदेव पूज्यम् | त्र्यधिकत्रिंशत्संख्यैर्वर्णैव्यक्तं रुरूक्त पाठेन || ८० || रुरूक्त पाठेन पठित त्र्यधिक त्रिंशद्वर्णयुतं एतत्पदनवकं ईशानपीठ कोणे संपूज्यं इत्यन्वयः | अस्मिन्पीठे सूक्ष्मसूक्ष्मपदानि नव पदानि पूज्यानीत्यर्थः || एवं व्योमव्यापिमन्त्र राजस्य एकाशीति पदस्तवं विधायस्तवकर्त्रा स्वनामप्रकटयन् स्तवस्यापि खेटपाल कृतमन्त्रराजव्याख्यानार्थानुसारिताञ्च अष्टषष्ट्यधिकवर्णशतत्रयाकार मन्त्रस्य स्वश्रेयः प्रदत्वं प्रार्थयते | प्. ६७) इत्थं वर्णशतत्रयं सह पुनः षष्ट्याष्टसंयुक्तया मन्त्रो रौरव भाष्य वार्तिक गिरा श्रीखेटपालेन यत् | व्याख्यातोर्थदिशा तयास्तुतिमिमां तां रामकण्ठेन यत् कृत्वा नाम शुभान्वितं भवतुनः श्रेयः प्रदं सर्वदा || ९१ || रौरवभाष्यवार्तिक कृता श्रीखेटपाल नाम्ना व्याख्यातः मन्त्रः अष्टसंयुक्त्या षष्ट्या पुनस्सहवर्णशतत्रयं तया अर्थदिशा इत्थं तामिमांस्तुतिं कृत्वा नाथ शुभा क्विपिचेति शुभिधातोः क्विप्प्रत्यये सति नाथवच्चोभते इति व्युत्पत्या नाथवच्चोभमानेन रामकण्ठेन यत् अञ्चितं पूजितं सर्वदा श्रेयः प्रदं भवत्विति अन्वयः | प्. ६८) इत्थं उक्तप्रकारेण नवकमल पीठेषु उक्तस्तुतिक्रमेण व्योमव्यापि पदमन्त्र पूजावतां सर्वश्रेयः प्राप्तिः करतलस्था भवतीतिभावः | इत्थमेतत्स्तोत्र प्रदर्शितानां एकाशीति पदनिर्वचनानां सम्मतवचनानि तु कालोत्तरे स्पष्टमुक्तानि | ग्रन्थविस्तारभीत्या नात्रलिखितम् | एतत्स्वरूप प्रदर्शक वचनानि बृहट्टीकायां दर्शितं तत्र अवधार्यताम् | श्रीमदभ्रसभेशस्य दिश्याग्नेययां सदावसन् | देवज्ञान रिषीद्रेति (ऋषीन्द्रेति) विशृतोभुवनत्रये || तन्नामधारिणा चैव इयं व्याख्या समीरिता | इति व्योमव्यापिस्तवं लघुटीकासहितं समाप्तम् || श्रीगुरुभ्यो नमः || शुभं भवतु || ########### END OF FILE #######