#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00657 Uniform title: yantracintāmaṇi Author : dāmodara son of gaṅgādhara Manuscript : Ragunath Temple, Jammu, JandK manuscript 4919 Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 6, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नं० ४९१९ नाम- यंत्रचिन्तामणिः कर्त्ता- दामोदरः गङ्गाधर पुत्रः पत्रसंख्या-१२ पत्राणि विषय- तन्त्रम् पृ० १अ) ओंश्रीगणेशायनमः ओंनमः शिवायोंनमः सरस्वत्यै ओंनमोगुरवे यांयोगमायाममरार्थविद्यांविशेषपूज्यांभृगुवंशजाताम् त स्यात्मजोभूद्भुविधर्मशीलोनाम्नामहादेवितिप्रसिद्धः १ नैसर्गवैरंप्रजह्नुश्चसत्वायांप्राप्यदुष्टाहितरक्षकाद्याः तस्मादासीत्सुमतिवि कसद्देवदत्तः कलावान्मान्योराज्ञांसदसिविदुषोमाद्यगंगाप्रवाहः उत्कल्लोलीदिशिदिशिजनाःकीर्त्तिपीयूषसिंधुर्यस्यानीरंश्रवणपुट कैःकूजिताक्षाःपिवंति ३ गंगाधरस्तत्तनयोवशीचविवेकगांभीर्यगुणैरुदारः यंप्राप्यलक्ष्मीश्चसरस्वतीचतत्पादयुग्मंस्थिरतांतनूनं दामोदरःसर्वकलाप्रवीणोबभूवतस्माद्गणनाथभक्तः लब्धप्रतिष्टोगुरुदेवभक्तोमान्यः सतांधर्मपरायणोयम् ५ दृष्ट्वानेकशिवा गमांश्चबहुधाचालोक्यसौरागमान्देवीशास्त्रमहागमांश्चविविधानालोक्यविस्तारतः कर्त्तुंवाञ्छतिसंग्रहंसुमतिमान्दामोदरःसस्व यम् लोकानांचहिताययंत्रनिकरंमंत्रेणयुक्तंस्फुटम् ६ प्रेरितश्चंद्रचूडेनस्वप्नेनद्विजपुंगवःचकारकल्पंयंत्राणांचिंतामणिरितिस्फुटम् ७ पुराकै लासशिखरेनानाधातुविचित्रिते नानाद्रुमलताकीर्णेनानापुष्पोपशोभिते ८अप्सरोगणसंकीर्णेसिद्धचारणसेविते शिवभक्तैःसुरैर्दैत्यैःपन्नगैश्चवि राजिते ९ योगध्यानैकनिपुणैस्तत्वविद्भिःसुसेविते आयुधैश्चेतनावद्भिरुदीरितजयस्वनैः १० त्रिनेत्रैश्चद्विनेत्रैश्चह्येकनेत्रैरनेत्रकैः त्रिपादैश्चैवद्विपदैरे कपादैःसहस्रशः ११महाक्रूरैर्महाभीमैःकरालैश्चविराजिते इंद्रा द्यैर्लोकपाद्यैश्चबाणाद्यैरसुरैस्तथा १२ दुर्वासाद्यैश्चमुनिभिःसमंतात्परिसेविते एवंभूतेचकै लासेदेवदेवःस्वयंशिवः १३ ज्योतिर्मयोमृतमयोह्यचिंत्यश्चसदाशिवः अव्यक्तोव्यक्तरूपोसौयत्रास्तेतुसदाशिवः विष्णुनास्तूयमानस्तुसुप्रहृष्टःसदाशिवः १४ कदाचिदुपविष्टोयमेकांतेपरमेश्वरः हृ ष्टस्तुष्टःप्रसन्नात्मासृष्टिसंहारकारकः १५ चिंतामणौकल्पवरेसु पत्रेश्रीचंद्रक्षूडस्यमुखाद्विनिर्गते तस्मिन्समाघट्टितपीठिकेयंकृतात्रदामोदरपंडितेन १६ इतिश्रीयंत्रचिंतामणौनाम्निमहाकल्पेप्रत्यक्षसिद्धिप्रदेउमामहेश्वरसंवादेदामोदरपंडितोद्धृतेप्रथमपीठिकासमाप्ता सपातुदेव्याःकवरी विलासोलास्येल संत्यागिरिराजपुत्र्याः यंपश्यतोभालमृगांकमौलेः क्षणंनसर्वज्ञपदं बभूव १ एकदादेवदेवेशंदृष्टादेवीशुचिस्मिताउपगम्यशनैर्वाक्यंप्रोवाचजगदंबिका२ देव्यु वाच देवदेवजगन्नाथकरुणाकरशंकर वर्णाश्रमाश्चधर्माश्च संदेहाश्चममप्रभो ३ कौतुकानिसकल्पानिपुराणादीनिचप्रभो मंत्राणांविनियोग श्चयंत्राणांनिर्णयस्तथा ४ आचारविरतेलोकेयोगाभ्यासःसुदुर्लभः दुर्लभंपरमंज्ञानंयंत्रकांडःसुदुर्लभः ५ अनेकमंत्रयोगोवैवेदोक्तोपिहिदृ श्यते तथैवागमभेदेषुउदिताहिनसंशयः ६ एवंद्विजाश्चमंत्रज्ञादृश्यंतेक्लेशभागिनः पाषांडिभिःपराभूतानास्तिकैर्वेदनिंदकैः७ विनामंत्रैर्ज पैर्होमैरल्पक्लेशैर्यथाप्रभो तत्क्षणंजायतेसिद्धिःसुसिद्धा सर्वकामदा ८ विवादेव्यवहारेचरणेवैरिजयेतथा एतत्सर्वंयथादेवसिद्ध्यतेसाधकस्यहि ९ विचार्यदेवदेवेशरहस्यंपरमंवदश्रीमहादेवुवाचवेदाचारोमयाप्रोक्तृषीणांतुमहात्मनां शिवधर्मस्तुमुक्तानांवैष्णवानांचवैष्णवः १० सौरंसांख्यं मयाप्रोक्तंबहूनांसिद्धिमिछताम् शाक्तंचबहुधाप्रोक्तंभैरवंबहुधाप्रिये ११ धर्मकामार्थमोक्षाणांज्ञानंचैवप्रकाशितं रहस्यंगोपितंभद्रेसर्वत्रापिनसंशयः १२ रहस्यहीनोमंत्रस्तुध्यानेनापिविशेषतःनसिध्यतिवरारोहेकल्पकोटिशतैरपि १३ श्रीदेव्युवाच प्रसादंकुरुदेवेशसुखोपायंवदस्वमे सरहस्यंसुबोधंचसद्यःप्रत्य यकारकं १४ विनाहोमेनजाप्येनपुरश्चरणसेवया कलौतुसिद्ध्यतेदेवतथोपायंवदस्वनः १५ श्रीशिवुवाच साधुसाधुमहाप्राज्ञेलोकानांहितकारिके इ दमर्थंनकेनापिपृष्टोहंपद्मलोचने १६ शृणुष्वैकाग्रचित्तेनरहस्यंक्षणसिद्धिदंकल्पचिंतामणिर्नामगुह्याद्गुह्यतरंमहत् १७ सर्वागमस्यसारंहिमंत्रा णांसारमुत्तमं अथर्वणस्यवेदस्यसारात्सारतरंमहत् १८ अस्मिन्कल्पेभविष्यंतिचिंतामणिमयेशुभेयंत्राणिबहुधादेविकाम्यकर्मकराणिच १९ एतत्क ल्पंसदायस्यलिखितंविद्यतेगृहे संपूज्यतेप्रतिदिनंप्रभावंतस्यमेशृणु २० अपमृत्युभयंनास्तिनास्तिचौरभयंतथा भूतप्रेतपिशाचानांप्रभावोनैवजायते २१ पृ० १ब) अन्यस्यकपटंनूनंनसिध्यतिकदाचन अविश्वासोनकर्तव्यःसाधकेनवरानने २२ अभिचारंभवेत्कल्पमविश्वासान्नसंशयःसंशयेनकृतंयंत्रंविपरीतंप्रजायते २३ ओंरामों स्नानंकृत्वाशुचिर्भूत्वापूजयेत्कुलदेवतां लेखनीयंप्रयत्नेनचैकांतेयंत्रमुत्तमम् २४यस्यकस्यप्रयोगस्यविधिरेषःप्रकीर्तितः दिनत्रयंप्रकुर्वीतपूजांभोगंविधानतः२५त्रिरात्रंभूमि शायीस्याद्ब्रह्मचर्यरतःशुचिः त्रिदिनाज्जायतेस्वप्नंसाधकस्यशुचिस्मिते २६ सिद्धंसाध्यंचमंत्रंवैसुसिद्धमथवाध्रुवं अवश्यंवदतिस्वप्नेमंत्राधिष्ठानदेवता २७यदानजायतेस्व प्नंतदासाध्यंविनिर्दिशेत् श्रुत्वादेवमुखात्स्वप्नेफलसिद्धिंविधानतः२८ नोचेद्यथाश्रुतंस्वप्नेतत्तथैवविनिर्दिशेत् यथा||आदौनिवारितःस्वप्नेतथान्यद्यंत्रमुत्तमं २९ एवंवि- लिख्ययःकुर्यात्सिद्धिरेवप्रकीर्तिता अवगम्यमयोक्तानियंत्राणिसुबहुनिच ३० येनयंत्रेणमंत्रेणसिद्धिर्येषांप्रजायते तेनतेनहितद्ग्राह्यंनिषिद्धंतुपरित्यजेत्३१ विधिरेषप्रसि द्धोत्रयंत्राणांभूतलेकलौ मंत्रकोष्टेतुपश्यंतिसिद्धसाध्यादिसाधकाः३२नतेषांजायतेसिद्धिःकलिकालेकदाचन नचैवसाधकोलोकेनैवप्रकृतिकोजनः३३नचैकंराशिन- क्षत्रंनचैकाकुलदेवता यंत्रंवीजंतथामंत्रंचतुर्धाभवतिप्रिये सिद्धःसाध्यस्त्वरिश्चेतिसुसिद्धस्तुतथापरःसिद्धःसिध्यतिकालेनसाध्यःसिद्ध्यतिवानवा ३५ अरिर्निकृंततेमू लंसुसिद्धस्तत्क्षणार्थदःतस्मादेवदशाराशिकालस्वप्नग्रहोदयं साधकस्यमनोभावंसर्वंज्ञात्वासमाचरेत् ३६||एतद्रहस्यंपरमंत्वदीरितंमंत्रस्ययंत्रस्यचसिद्धिदायकम् एत द्विदित्वाखिलसिद्धिभाजनंभवंतिसर्वेभुविसाधकाःसदा ३९ इतिश्रीयंत्रचिंतामणौद्वितीयपाठःसमाप्तः २||महामोहनं ||एकोदेवःसजयतिशिवस्सर्वदुष्टांतकारीप्रा दाच्चक्रंनयनकमलेनार्चितोविष्णवेयःयःशृंगारीगिरिशतनयादत्तदेहार्धभागोलोकानांयोऽवधविधिकृतेकालकूटंदधार १ राज्ञांवश्यकराणिदुष्टपुरुषस्त्रीणांजना नांतथातान्युद्धृत्यमहागमांश्चबहुधायंत्राणिवीजानिच अस्मिन्कल्पवरेक्रमेणविविधानांगाधरस्यात्मजोनित्यंसत्यमतिःप्रवक्ष्यतितरांदामोदरःसांप्रतं २ श्रीशि वुवाच राजवश्यंमहायंत्रंशृणुदेविसुशोभनं कांस्यभाजनमानीयशुद्धंभस्मादिभिःकृतं३जातीकाष्टेनविलिखेद्रोचनाचंदनेनच साध्यनाम लिखेन्मध्येवर्तुलंवेष्टयेत्ततः ४ तस्योपरिप्रकुर्वीतपद्मंशोडशकर्णिकं अकारादिस्वरालेख्यादलेप्रत्येककंक्रमात् ५ ततस्तद्वेष्टयेत्सम्यग्रेखा भिस्तिसृभिस्ततः मल्लिकाजातिकुसुमैःसितांभोजैःप्रपूजयेत् ६ अन्यैश्चश्वेतकुसुमैःसुगंधैःश्वेतकैरपि संपूज्ययंत्रराजंतंमहामोहनसंज्ञकं ७ एवंसप्तदिनंकृत्वात्रिलोहैर्वेष्टयेत्ततः योधारयेद्वाशिरसिबाहुमूलेथवापुनः ८योषिद्धापुरुषोवापिकृतनिश्चयसंयुतः किंकराइवतेस र्वेवशीभूताःसदैवहि ९ इतिश्रीयंत्रचिंतामणौवशीकरणाधिकारेतृतीयपीठिकायांमहामोहनंनामप्रथमंयंत्रं १ ओंशिवुवाच|| अथातःसंप्रवक्षामियंत्रंवैवीजसंपुटं राजवश्यकंश्रेष्टंजनवश्यकरंपरं १ एकपंक्तौसमालिख्यह्रींकारंचचतुष्टयं ह्रींकारपुटितंप श्चात्साध्यनामलिखेद्बुधः २ रोचनाकुंकुमेनैवश्रीखंडेनतथैवच अनामिकारक्तमिश्रंलिखेद्यंत्रंसुशोभनं ३ एतद्यंत्रंतदाकुर्याद्यदाक्रु द्धोनराधिपः वीक्षतेनिगडैर्बद्धःसर्वस्वंचापिनाशितुं ४ तदैतद्यंत्रराजंतुसंपूज्यविधिवत्स्वयं नानापुष्पैःसनैवेद्यैर्मांसैश्चविविधैःशुभैः ५ यथाशक्त्यातुसंपूज्याःकुमार्योव्राह्मणास्तथा योगिन्यश्चसुवासिन्योनमस्कृत्यसुनिश्चितम् ६ तद्यंत्रंमुष्टिकावध्यगच्छेद्वैराजमं दिरं तत्कोपंशमयत्पाशुवशीकरणमुत्तमं ७ प्रसादस्तत्क्षणाद्देविजायतेनात्रसंशयः यंत्रचिं०तृ०पी०वशी०धि०राजकोपशम०यंत्रं २ श्रीशिवुवाच ||अतःपरंप्रवक्ष्यामिवश्यंयंत्रंमनोहरं १ इच्छेत्स्वस्वामिनंकर्तुंयावज्जीवंहिमानवः तिर्यग्रेखाद्वयंकुर्याद्दीर्घंचद क्षिणोत्तरे २ अंतेतुकर्णिकांकुर्याद्दक्षिणेचोत्तरेपुनः प्रणवश्चतथाश्रीश्चसाध्यनामतथैवच ३ तदंतेश्रींचप्रणवंलिखेन्मंत्रं चसाधकः उपर्यपिदलांस्त्रींश्चत्वधोभागेत्रयंतथा ४ दक्षिणोत्तरपूर्वेषुदलेषुविलिखेत्क्रमात् क्षकारान्सविसर्गांस्तु पृ० २अ) कोणेश्रींकारबीजकं ५ एवंलिखित्वातद्यंत्रंरोचनाभूर्जपत्रके तमेवसंपुटेक्षिप्त्वापुटयेदग्निनाततः ६ उद्धृत्यस्वांगशीतं तुयंत्रभस्मपिवेन्नरः यावज्जीवंभवेत्तस्यसवश्योनात्रसंशयः ७ तृतीयंचसमाख्यातंस्वामिवश्यकरंपरं इतितृतीयपीठिका यांस्वामिवश्यकरंतृतीयम् श्रीशिवुवाच यस्यकस्यापिकेनापिकार्यंनिर्नाशितंभवेत् तदामहाभियोगेनदिव्यंकोपिप्रका रयेत् १ तन्मोहनार्थायतदाकुर्याद्दिव्यंविचक्षणः रोचनाकुंकुमेनैवषट्कोणंभूर्जपत्रके २ प्रतिकोणंचह्रींकारंमध्यदेशेलिखे न्नरः कोणांतरालेह्रींकारान्विलिखेत्तुषडेवहि३साध्यनामलिखेन्मध्येह्रींकारैःसर्वतःपुटं उपर्यधःपूर्वमंतेह्रींकारांश्चतु रोलिखेत् ४ तमेवसंपुटेक्षिप्त्वापूजयेद्भक्तिभावतःद्वितीयेह्नितदाकृष्ययंत्रराजंसुपूजितं ५ दिव्यकालेशिखायंतुबद्ध्वायंत्रंप्र यत्नतः मौनस्थस्तत्रगच्छेत्तुपुष्पंवेगेनेमानवः ६ नतदादुर्लभंकिंचिद्यंत्रराजप्रसादतः दिव्यस्तंभोभवेन्नूनंसलोकेध्येयतामियात्७ इतिश्रीवशीकरणाधिकारेचतुर्थंयंत्रम् श्रीशिवुवाच यदाकस्योपरिक्रुद्धोराजापीछतिमारितुम् तदातन्मोहनार्थायदुष्टनिग्रह णायच १ रोचनाकुंकुमेनैवलिखेद्यंत्रंचभूर्जके ह्रींसःसाध्यस्यनामांतेपुनःह्रींसस्तथैवच २ पश्चात्तद्वेष्टयेत्सम्यक्चतुःको णगरेखयाउपर्यधोदलत्रीणिकोणेचैकंलिखेद्बुधः३ह्रींकारंसःकारंचसःकारंह्रींकारमेवच एवंदलेषुसंपूज्यप्रतिबीजं चतुष्टयं ४ तमेवसंपुटेक्षिप्त्वापूजयेच्चविधानतः दुष्टानांचमुखस्तंभोवश्योभवतितत्क्षणात् ५ राजकोपहरंनामदुष्टमो हनकंपरं एवंसप्तदिनंकार्यंयावत्कार्यंसुसिध्यति ६ इति श्रीवशीकरणाधिकारेराजमोहनंनामपंचमंयंत्रं श्रीशिवुवाच यदाक्रूद्धःप्रभुर्नूनंघातंकर्तुंहिवांछति तदास्वजीवरक्षार्थंयंत्रंमृत्युंजयंलिखेत् १ आनीयभूर्जपत्राणिलिखेद्यंत्रंद्वयोरिति मध्येना मलिखित्वातुचतुःकोणंतुरेखया २ एवंसप्तचतुःकोणंलिखेल्लोहशलाकया तस्योपरिदलत्रीणिविलिखेच्चचतुर्दिशम् ३ इशानाद्यैर्लिखेल्ललालिलीलुलूचदक्षिणेलेलैलोप्रत्यग्दलेलौलंलःस्यदथोत्तरे ४ एवंद्वादशदलेन्यस्यप्रत्येकंबीजमेककं त्रिशूलंचचतुःकोणेसबिंदुंविलिखेन्नरः ५ एवंयंत्रद्वयेख्यातेसंपुटंकारयेत्ततः निधायभूमौदद्यंत्रंसाधकश्चोत्तरामुखः ६ तस्यो परिक्षिपेन्नूनंसमानीयसमांशिलां पश्चात्तत्संमुखंगच्छेत्कोपस्तस्यप्रशाम्यति ७ मृत्युंजयंमहायंत्रंप्राणरक्षाकरंपरं यदात स्योपरिक्रुद्धःकालोपिहिदुरासदः ८ तथापियंत्रराजोयंरक्षत्येवनसंशयः इतिश्रीवशीकरणाधिकारेतृतीयपीठिकायांदुष्ट वशीकरणंनाममृत्युंजयंषष्टंयंत्रम् श्रीशिवुवाच विवादविजयार्थंचयंत्रंकुर्यान्मनोहरं मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततः १ चतुर्दलंततःकुर्याद्बीजयुक्तंतुमानवःह्रींयंह्रींयंप्रतिदलेरोचनाकुंकुमेनच २ भूर्जपत्रेसमालिख्यदुग्धमध्येक्षिपेत्ततः ततो गच्छेद्विवादार्थंजयेन्नास्त्यत्रसंशयः ३ विवादविजयंनामयंत्रंदेवैःसुपूजितं नदेयंयस्यकस्यापियदीछेत्सिद्धिमात्मनः ४ इतिश्रीवशीकरणाधिकारेविवादविजयंनामसप्तमंयंत्रम् श्रीशिवुवाच यदापिदैवसुत्रण द्रव्यनष्टिः प्रजायते धनिकोयाचतेद्रव्यंनिर्धनंचाधमर्णिकम् १ तस्यदातुंनचेच्छक्तिर्द्रव्यभागंकथं पृ० २ब) चन तदातन्मोहनार्थाययंत्रंमायामयंमहत् २ रोचनाकुंकुमेनैवभूर्जपत्रेसुविस्तृते षट्कोणंचक्रम मध्येतुसाध्यनामप्रतिष्टितम् ३ कोणांतरेबहिर्लेख्याःक्लींकारास्त्रयसंख्यकाः क्लींकारमेकंविलिखेत्कोणोप रिसुसंस्थितम् ४ ततस्तद्वेष्टयेत्सम्यग्वर्तुलंयंत्रमुत्तमम् पंचविंशतिह्रींकारैश्चक्रवत्परिवेष्टयेत् ५ पुन स्तद्वेष्टयेत्सम्यग्वर्तुलंपूर्ववत्प्रिये एतत्सप्तदिनंयंत्रंपूजयेद्विधिवत्ततः ६ प्रत्यहंपूजयेद्देविमहायांविचक्षणः मार्कंडेयपुराणोक्तंदेवीमाहात्म्यमुत्तमम् ७ जपेत्सप्तदिनंयावत्ततोहोमंतुकारयेत् अंतेपूर्णाहुतिंद त्वाभोजयेत्कन्यकात्रयम् ८ प्रतिश्लोकंचजुहुयात्पायसंमधुसर्पिषा वेष्टयित्वात्रिलोहेनबहुमूलेगलेथवा ९ तेनैवधृतमात्रेणधनिकोवश्यतामियात् नयाचतेसतुद्रव्यंवाणिज्यार्थंददातिच १० इतिवशीकरणाधिकारे धनिकवश्यकरणकमष्टमंयंत्रं श्रीशिव उवाच यदायाताराजदुष्टाभवंतिपरिचारिणः यैःशून्यंकार्यजा तंचकुरुतेहर्निशसदा १ तदाकुर्यान्महायंत्रंदुष्टमोहनसंज्ञकम् मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततः २ ततश्चाष्टदलंकृत्वाबीजानिविलिखेत्ततः सकाराःसविसर्गांताःकोणेषुसर्वतोन्यसेत् ३ प्रणवंमुख्यदिग्ले ख्यंचतुर्दिक्षुक्रमेणतु ततस्तद्वेष्टयेत्सर्वंचतुःकोणेद्विरेखया ४ खररक्तेनसंलेख्यंभूर्जपत्रेमनोहरम् ए तद्यंत्रंसुसंपूज्यप्रक्षिपेद्दुग्धमध्यतः ५दुष्टाःसर्वेविनश्यंतिराज्यमानंददात्यपि एकविंशद्दिनंयाव त्तावत्तत्रैवयंत्रकम् ६ इतिश्रीवशीकरणाधिकारेदुष्टमोहनंनामनवमंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिविवादेजयवर्द्धनम् व्यवहारेभयेभंगेह्रीदंयंत्रंप्रशस्यते १ पूर्वपंक्तौसमालेख्यह्रीं कारंस्मांतथैवच तस्याधःसाध्यनामाथचतुःकोणेनवेष्टितं २ कोणेकोणेदलंकुर्यान्मध्यदेशेतथैवचदक्षिणेरोधबीजानिनैरृतेक्षंतथैवच ३ पश्चिमेस्तंभबीजानिवायव्येक्षंतथैवचुत्तरेक्षो भबीजानि ईशानेक्षंतथैवच ४ एवंचाष्टदलेन्यस्यबीजानिद्वादशैवहि तमेवसंपुटेस्थाप्ययंत्रराजंजया वहं ५ अभ्यर्च्यगंधपुष्पाद्यैर्दीपैश्चाष्टभिरेवच लोकपालाः सुसंपूज्याभोजयित्वाकुमारिकाः६ बलिदी पैःप्रपूज्याथचाष्टदिक्षुक्रमेणतु तावत्पूज्यंप्रयत्नेनयावत्कार्यंप्रसिध्यति ७ व्यवहारजयंनामविवादवि जयंतथा राज्येकुलविवादेचजयंनास्त्यत्रसंशयः ८ मानोन्नतिर्भवेत्तस्ययंत्रराजप्रसादतः इतिश्रीवशीकर णाधिकारेविवादविजयंनामदशमंयंत्रंश्रीशिवुवाच यदीछेत्स्ववशंकर्तुंयावज्जीवंवरानने तदायंत्रं प्रकुर्वीतगाणपत्यंसुसिद्धिदम् १ भूर्जपत्रंसमानीयविस्तृतंछिद्रवर्जितम् अनामारक्तसंमिश्रंद्विरदस्य मदंतथा २ यावकं(लाख)चरसंचैवरोचनाचतथैवच एवंचतुष्कंसंयोज्यजातीकाष्टेनवैलिखेत् ३ह्रींकाराःसप्तसं लेख्याः पूर्वपंक्तौवरानने अधःपंक्तौतुसंलेख्यंक्रोंह्रींक्लींगंतथैवच ४ एवंपंक्तौचतुर्थ्यांतुह्रींका पृ० ३अ) राणांचतुष्टयम् एवंसंलिख्यबीजानिद्वाविंशतिसमानके ५ पश्चात्तद्वेष्टयेत्सम्यक्चतुःकोणंतुरेखया गंकाराशसंलेख्यापूर्वपश्चिम उत्तरे ६ कृत्वामूर्तिंगणपतेर्यंत्रंतस्योदरेक्षिपेत् संपूज्यगंधपुष्पाद्यैरिमंमंत्रमुदीरयेत् ७ देवदेवगणाध्यक्षसुरासुरनमस्कृत देवदत्तंचमेवश्यंया वज्जीवंकुरुप्रभो ८ इमंमंत्रंसमुच्चार्यहस्तमात्रंनिखन्यच क्षिप्त्वातत्रगणाध्यक्षंपूरयित्वातुमृत्तिकाम् ९ यावज्जीवंभवेद्वश्योगणनाथप्रसादतः इतिश्रीवशीकरणाधिकारेगाणपत्यंनामैकादशंयंत्रंमेकादशम्श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामियेनवश्यकरंशुभं मध्येनामलिखि त्वातुईकारंविलिखेद्बुधः १ त्रिरावृत्तंतुसंवेष्ट्यभूर्जपत्रेसुविस्तृते चतुर्दलंलिखेत्पश्चात्पूर्वादौदिक्चतुष्टये २ ओंनमोओंनमोलेख्यंपश्चिमेपूर्वके दले ओंअजितेओंअजितेदक्षिणेचोत्तरेलिखेत् ३ जनवश्यकरंनामयंत्रराजंमनोहरं त्रिदिनंपूजयेन्नित्यंव्रह्मचर्यरतोनरः ४ ब्राह्मणंभोजयेच्चैकं चतुर्थेहनिसुब्रतः त्रिलोहवेष्टितंकृत्वाबाहुमध्येचधारयेत् ५ हैमंचरजतंवापिपट्टसूत्रंविशेषतः यंत्रंतुधारयेच्छ्रेष्टंबाहुमूलेगलेथवा ६ सर्वेषां चैवयंत्राणांविधिरेषप्रकीर्तितःसुभगोदर्शनीयश्चस्वजनानांचवल्लभः७यंत्रस्यधारणाद्देविभवेन्नास्त्यत्रसंशयः कर्पूरकुंकुमैर्लेख्यंतथागोरोचनेनच ८ इतिश्रीवशीकरणाधिकारेजनवश्यकरंनामद्वादशंयंत्रं श्रीशिवुवाचजगद्वश्यंमहायंत्रंशृणुदेविसुशोभनंकर्पूरंमृगनाभिश्चचंदनंरोचनातथा १ जातीकाष्टेनसंलेख्यंभूर्जपत्रेविशेषतः प्रणवंचवकारंचअजेह्रींडंचतथैवच २ पूर्वपंक्तौसमालेख्यप्रणवादिबीजपंचकंदेडंह्रींचप्रणवंचिकारचतथैवच ३ द्वितीयपंक्तौसंलेख्यवकारंतदनंतरं डंकारंचजगन्नामवकारंतदनंतरम्४ तदग्रेचलिखेन्नूनंठकारंचचतुर्थकम् दीकारंच ततश्चांतेएवंवैबीजपंचकं ५ एवंबीजानिसंलेख्यचतुष्कोणंतुस्थापयेत् द्विरेखयामहत्कार्यंजगद्वश्यकरंपरं ६ त्रिलोह वेष्टितंकृत्वाधारयेद्बाहुमध्यतः जगद्वश्यंभवेत्तस्ययंत्रंयात्तुतिष्टति ७ संपूज्यनित्यमेवादौयंत्रंदेवार्चनादिषु ८ इति श्रीवशीकरणाधिकारेजगद्वश्यंनामत्रयोदशंयंत्रम् शिव उवाच यदास्वभृत्यःक्रुद्धःसन्मार्गंसर्वंप्रकाशते तदात- न्मोहनार्थायस्वस्यार्थचसिद्धये १नशक्यतेनिराकर्तुंदेशकालबलेनच पिशाचिकाख्यंयंत्रंतुकर्त्तव्यंचविचक्षणैः २ मध्येनाम लिखित्वातुवर्त्तुलंवेष्टयेत्ततः चतुर्दलंप्रयत्नेनबीजयुक्तंमनोहरम् ३ ह्रींकाराश्चतुरोलेख्यादलमध्येचतुर्दिशम् रोचना भूर्जपत्रेचलेखिन्याविलिखेन्नरः ४ ततस्तद्दलमध्येतुक्षिपेद्रुद्रेणभाषितम् ५ इतिश्रीवशीकरणाधिकारेभृत्यवश्यकरंनामपिशाचिका ख्यंनामचतुर्दशंयंत्रम् श्रीशिवुवाच क्रूरप्रकृतिकःस्वामीयदासंसेव्यतेजनैः सेव्यमानोपिहिभृशंनददातिकदाचन १ खलैःपरिवृतोनि त्यंदुराचारोमहीपतिःउत्तमोवाधमोवापिम्लेछोवाप्रभुतांगतः २ यंत्रंकालानलंकुर्यात्तद्वश्येसिद्धिकारकम् साध्यनामाक्ष रालेख्यागर्भह्रींकारगामिनः ३ यावंतश्चाक्षरानाम्नितावंतेवह्रींतथा ईकारश्चांतेसंलेख्यरोचनाभूर्जपत्रके ४ त्रिरावृ त्तचतुष्कोणदीर्घेणफलवत्कृतं राजिकाप्रतिमांकुर्यात्तत्पादस्यचपांसुना ५ प्रक्षिपेत्तस्यतन्मध्येयंत्रंकालानलंमहत् संपूज्यप्रतिमांतांतुधूलीपार्श्वेनिखन्यतु ६ प्रपूजयेत्प्रयत्नेनचतुर्दश्यांमहानिशि एतत्करणमात्रेणसवश्योजायतेध्रुवम्७अजारक्तेनसंमि श्रंभक्तांपूपंतथैवचबलिदानंप्रदातव्यंदिव्यानांप्रीतयेसदा ८ ओंमहाकालिस्वाहेतिजुहुयादष्टोत्तरंशतं तदेवभक्तंसाज्यंचरक्तपुष्पैःसुपूजितम् ९ यंत्रंकालानलंनामत्रिदशैरपिपूजितम् १० इतिश्रीवशीकरणाधिकारेक्रूरवशीकरणंकालानलंनामपंचदशंयंत्रम् श्रीशिवुवाच वाणिज्यस्य पृ० ३ब) तुलाभार्थंगतस्तन्नहिदृश्यते तेषांमध्येयदाकोपिदुष्टभावंकरोतिच १ मार्गदेशेप्रभुर्वापितदायंत्रंप्रकल्पयेत् ह्रींकारोद रमध्येतुसाध्यनामलिखेन्नरः २ उपरिष्टाच्चतुर्दिक्षुस्वाहांतंप्रणवादिकं मध्येआकर्षयलिखेच्चतुर्दिक्षुक्रमेणतु ३ पश्चात्तद्वेष्ट येद्यंत्रंचतुष्कोणंद्विरेखया कोणेकोणेत्रिशूलौद्वौचतुर्दिक्षुप्रकल्पयेत् ४एवंयंत्रवरंकृत्वापूजयित्वाप्रयत्नतः स्वरक्तेनतुसं मिश्रंरोचनाभूर्जपत्रके ५ विलिख्यखड्गवत्तंतुकृत्वातंरहसिक्षिपेत्तत्क्षणाज्जायतेवश्योमहाक्रूरोहिमानवः ६ इतिश्रीवशीकर- णाधिकारेदुष्टवशीकरणोछिष्टपिशाचिकंनामषोडशंयंत्रम् श्रीशिवुवाच यदामहाबलःशत्रुर्वार्तांकर्तुंहि वांछतितदातत्सानुकूल्यार्थंयंत्रंकुर्वीतकंटकम् १ साध्यनामलिखेन्मध्येवर्त्तुलंवेष्टयेत्ततःइकारश्चभ्यकारश्चविसर्गांतश्चतुर्दिशं एकैकाद्यंलिखित्वातुवर्त्तुलंवेष्टयेत्ततःश्मशानभस्मना लेख्यंचार्कपत्रद्वयोपरि २ संपुटंमेल(कार)यित्वातुवेष्टयेत्कंटकैस्ततःनिखन्यपूरयेद्यंत्रंश्मशानेनिशिपूजितं ३ बलिदानंप्रदायाथ(बलिप्रदानंकर्त्तव्यं)भूतेह्निप्रयतोनरः तत्क्षणाज्जायतेशत्रुःसानुकूलोनसंशयः ४ कंटकाख्यंमहायंत्रंदुष्टमोहनकंपरं स्वशक्त्या क्षिणांदद्यात्कालरात्रिःप्रीयतामिति ५ इतिश्रीवशीकरणाधिकारेशत्रुसानुकूलकरणंनामसप्तदशंयंत्रंसमाप्तिमगात् श्रीशिवुवाच सुहृद्वा शत्रुवर्गोवाबंधुर्वाक्रुध्यतेयदितदातत्कोपशांत्यर्थंकुर्याद्यंत्रंविचक्षणः १ मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततःउपर्यधश्चोत्तरेचदक्षिणेचत तथैवच २ बिंदुवर्ज्यंचतुर्दिक्षुवेष्टयित्वालिखेन्नरःहूंकारंतुलिखेद्गर्भेबिंदुमध्येउपर्यधः ३ दक्षिणेचोत्तरेचैवसाध्यनामचपूर्ववत् अंतेहूंकारसंयुक्तमधःपंक्तौप्रसादय ४ एतद्यंत्रंतुसंलिख्यतालपत्रेसुविस्तृते कंटकेनोपसीवेतविलिखेत्सोमवासरे ५ कुलालमृत्ति कामध्येयंत्रंक्षिप्त्वातुगोलके कृत्वापूजांप्रयत्नेनयस्मात्कौपंप्रशाम्यति ६ जामदग्न्यंमहामंत्रंसद्यःकोपहरंपरं अक्रोधनःसत्यवादी जमदग्निर्दृढव्रतःरामस्यजनकः साक्षात्सत्यमूर्तेनमोस्तुते एतन्मंत्रंसमुच्चार्यपूजांतेनित्यमेवहि ८ एवंसप्तदिनंकार्यंक्रोधस्यहरणं परम् भोजनीयोसप्तमेह्निब्राह्मणोवेदपारगः ९ नोचेदन्नंप्रदातव्यमाममाहारपूर्त्तये क्रोधस्तुहृदयाद्यातिप्रसन्नोजायतेक्षणात् १० इतिश्रीवशीकरणाधिकारेक्रोधशमनंनामजामदग्न्यमष्टादशंयंत्रम् श्रीशिवुवाच अतःपरंदेविब्रवीमितानिदौर्भाग्यहंतॄणिच कामिनीनां यंत्राणिसौभाग्यविवर्द्धनानिसंमोहनानिप्रियकामुकानाम् १ एकपंक्तौसमालिख्यह्रींकारत्रितयंशुभे तस्याधस्तात्समाले ख्यंनामवैरमणस्यच२ततःपंक्तौतृतीयायांह्रींकारत्रितयंपुनः ततस्तद्वेष्टयेत्सम्यक्चतुष्कोणंचरेखया ३ ततस्त्वष्टदलंकृत्वाबीजन्यासंप्र कल्पयेत् कोणेकोणेदलेन्यस्यह्रींकारंचविचक्षणः ४ रोचनाकुंकुमेनैवमृगनाभिसुचंदनम् एकीकृत्यलिखेद्यंत्रंभूर्जपतेसुविस्तृते५त्रयो दश्यांसितेपक्षेसाधकश्चोत्तरामुखः तद्यंत्रंपूजयेन्नित्यंरात्रौरात्रौवरानने ६ भोगैर्नानाविधैःपुष्पैर्वस्त्रालंकारभूषणैः एवंसप्तदिनंकृत्वा तदंतेतवतुष्टये ७ स्त्रियःसौभाग्यसंयुक्ताभोजयेत्सप्तसंख्यया शंकरस्यप्रियेदेविललितेप्रीयतामिति ८ रूपंदेहियशोदेहिसौभाग्यंदे हिमेंबिके श्रियंदेहिभगवतिवांछितंप्रियमायुषम् ९ एतन्मंत्रंसमुच्चार्यततश्चार्घ्यंनिवेदयेत् तद्यंत्रंधातुनावेष्ट्यस्वकंठेधारयेत्ततः१० पृ० ४अ) सुभगारूपसंपन्नाह्यतिप्रियतराभवेत् ललिताख्यंमहायंत्रंस्त्रीणां सौभाग्यकारकम् ११ इतिवश्याधिकारेस्त्रीणांसौभाग्यकारकंललि तादैवताकंनामैकोनविंशंयंत्रम् श्रीशिवुवाच शृणुदेविप्रवक्ष्यामियंत्रंभर्तृप्रसादनम् संलिख्यप्रियनामाथशांकारपुटितंशुभं १ उपर्यधस्तथालेख्यंशांकारद्वितयंशुभं ततस्तद्वेष्टयेत्सम्यग्वर्त्तुलंरेखयैकया २ तस्योपरिदलान्यष्टौह्रींकारसहितंलिखेत् रोचनाकुंकु मेनैवभूर्जपत्रेलिखेन्नरः ३ त्रिदिनंपूजयेन्नित्यंरात्रौतुपूर्ववत्प्रिये ततोनक्तेचतुर्थेह्निपूजयेत्सुभगात्रयं ४ अनंगवल्लभेदेवित्वंमेशंप्रीयतामिति एतंप्रियंमहावश्यंकुरुत्वंस्मरवल्लभे ५ एतन्मंत्रंसमुच्चार्यपूजयित्वातुतास्त्रियः तद्यंत्रंधातुसंयुक्तंकृत्वाकंठेतुधारयेत् ६ पतिर्दासोभवे स्यायंत्रराजप्रसादतः सौभाग्यमतुलंतस्याजायतेनात्रसंशयः ७ यासांतासांनदातव्यंयंत्रंसौभाग्यवर्द्धनम् ८ इतिश्रीवशीकरणाधि कारेसौभाग्यकरंनामविंशतिकंयंत्रंसमाप्तिमगात् श्रीमहादेवुवाच योषिद्वश्यंप्रवक्ष्यामिशृणुदेविसुशोभनं रोचनाकुंकुमेनै वश्रीखंडमृगनाभिना १ भूर्जपत्रेचसंलेख्यजातीकाष्टेनयंत्रकम् ऐंह्रींक्लींचततोनामैंह्रींक्लींचततःपुनः २ एवंसंपुटितंकृत्वाचतुष्कोणं तुवेष्टयेत् उपर्यधोलिखेत्पंचबीजानियत्नतःसुधीः३ ऐंह्रींक्लींचततःक्षांचैंतदंतेपुनस्तथा कोणेविन्यस्यबीजानिऐंह्रींक्लींचतथैवच४ दलाकृतिश्चकर्त्तव्याबीजान्यनुपरिक्रमात् एवंचतुर्दलंकृत्वाबीजयुक्तंमनोहरम् ५ राजिकाप्रतिमांकुर्यान्मदनस्यचकाष्टके हृदितस्यसु संपूज्ययंत्रंचस्थापयेत्ततः ६ भोगैश्चविविधैर्गंधैर्धूपैर्दीपैःफलैःशुभैःरात्रौरात्रौदिनांतेचप्रत्यहंपूजयेच्छुभे ७ एवंकृतेतुसानारीदासीनू नंप्रजायते यंत्रंश्रीकामराजाख्यंयोषिद्वश्यकरंपरम् ८ संपूज्योमदनश्चात्रराजिकाप्रतिमानरैः कामोनंगःपंचशरःकंदर्पोमीनकेतनः९ श्रीविष्णुतनयोदेवः प्रसन्नोभवमेप्रभो इतिपूजनमंत्रःस्यादस्यकमललोचने १० एवंनित्यंचकर्त्तव्यंयावत्सावश्यतामियात् संदेहोनात्रकर्त्त व्यितिप्राहजनार्दनः ११ इतिश्रीवशीकरणाधिकारेस्त्रीवशीकरणंनामकामराजाख्यमेकविंशंयंत्रं श्रीशिवुवाच शृणुदेविप्रवक्ष्या मिमानिनीमानमर्दनम् यंत्रंसुदुर्लभंलोकेख्यातंमदनमर्दनम् १ तुरगस्यचरक्तेनरोचनाभूर्जपत्रके प्रणवंचतथाह्रींचसाध्यनामाक्षरंपृथक् २ नामाक्षराणिसर्वाणिह्रींकारपुटितानिच आद्यंतेप्रणवंलेख्यमेकपंक्तौसुबुद्धितः ३ ततस्तद्वेष्टयेत्सम्यक्चतुष्कोणंतुरेखया उपर्यधश्चसंलेख्यपूर्वव द्बीजसंपुटम् ४ कोणेदलाकृतिंकुर्यान्मर्दलाकृतिमध्यतः एतद्यंत्रंसुसंलिख्यमदनप्रतिमांशुभाम् ५ मदनस्यतुकाष्टेनकृत्वाहृदिविनिःक्षिपेत् सरंध्रंहृदयंकुर्याद्यथायंत्रंतुतिष्टति ६ संवेष्ट्यप्रक्षिपेन्नूनंयंत्रंतस्योरसिस्फुटम्रक्तचंदनमाल्यैश्चपूजयेत्प्रत्यहंचतत् ७ इतिश्रीवशीकर- णाधिकारेस्त्रीवशीकरणंनाममदनमर्दनंद्वाबिंशंयंत्रम् श्रीमहादेवुवाच अतःपरंप्रवक्ष्यामिराजस्त्रीवश्यकारकंयथातद्दृष्टिपातेनका मबाणहताइव १ पतंतिसहसादृष्ट्वामानित्योमदविह्वलाः रोचनाकुंकुमेनैवभूर्जपत्रेलिखेन्नरः २ कर्पूरेणसमंयंत्रंजातीकाष्टविधान तः षट्कोणस्यचमध्येतुतस्यानामप्रतिष्टितम् ३ क्रोंकारःसर्वतोलेख्यःकोणोपरितुसर्वतः पूर्वकोणांतरालेतुह्रींकारंपूर्वसंस्थितम् ४ तत्स र्वंवेष्टयेत्पश्चाद्वर्त्तुलंरेखयाशुभम् दक्षिणेत्रिदलंकुर्याद्ध्रींप्रत्येकदलेतथा ५ ह्रींकारंदलमध्येतुक्रमेणप्रतिलेखयेत् एवं संलिख्यत द्यंत्रंपूजयेद्भक्तिभावतः ६ गंधैःपुष्पैःसनैवेद्यैःशुक्लांबरधरःस्वयम् चिंतयेत्तांस्त्रियंरात्रौयंत्रस्यपुरुतःस्थितः७एवं सप्तदिनंकृत्वातदंते ब्राह्मणास्त्रयः संभोज्याविविधैर्भोज्यैःकामाख्यःप्रीयतामिति ८ शक्त्याचदक्षिणांदद्याद्भोजयेत्साधकस्त्रियम् त्रिलोहवेष्टितंकृत्वा बाहुमूलेचधारयेत् ९ तंदृष्टाराजरमणीकंदर्पशरपीडिता स्वयंप्रार्थयेन्नित्यंकाकथेतरयोषिताम् १० इतिश्रीवशीकरणाधिकारेतृतीय यपीठिकायांराजांगनावश्यकरंकामाख्यंत्रयोविंशंयंत्रं श्रीमहादेवुवाच अतःपरंप्रवक्ष्यामिबीजमेकंमहाफलम् तद्योधारयतेनित्यं स्त्रीणांप्रियतरोभवेत् १ स्त्रीचेद्धारयतेभक्त्यासासौभाग्यवतीभवेत् सौभाग्यजननंबीजंनृणांचैवविशेषतः २ तद्धिबीजाक्षरंगोप्यंनदेयंयस्यकस्यचित् उडीशे स्त्रीवशीकरणंश्वेतगुंजांपुष्यनक्षत्रेसंगृह्यगोरोचनयाकुंकुमेनसहादित्यवारेतिलकंकारयेत्तदाकामबाणमोहिताविह्वलाभवति तिलकमनेनमंत्रेणमंत्रितंकुर्यात् ओंऐंह्रांह्रींह्रुंफट्स्वाहा इतिकामबाणतिलकम् पृ० ४ब) सकारंचहकारंचवकारंचतथैवच लकारंचिकारंचीकारांतप्रतिष्ठितम् एवंक्रमेणसंयोज्यषट्कमक्षरसंगतम् ४ ईकारस्वरसंयुक्तंबिंदुनोपरिशो भितम् रोचनानीरयुक्तेनभूर्जपत्रेलिखेन्नरः ५ त्रिदिनंपूजनंकृत्वाततःसंवेष्ट्यहाटकेपुरुषोबाहुमूलेचनारीहृदितथैवच ६ धारयेद्बीजराजंतुस्फुटंदौर्भा ग्यनाशनंमहासौभाग्यजननंश्रीशिवेनप्रतिष्ठितम् ७ इतिश्रीवशीकरणाधिकारेतृतीयपीठिकायांसौभाग्यजननंनामचतुर्विंशंयंत्रम् श्रीमहादेवुवाच अथातः संप्रवक्ष्यामियंत्रंसौभाग्यदायकं स्त्रीणामेवसमुद्दिष्टंयंत्रंकमलसंज्ञकम् १ अस्यैवधारणाद्देविवंध्यागर्भवतीभवेत् मृत्वत्सातुयानारीतस्यास्तद्यंत्रमुत्तमम् २ धार णाज्जायतेदेविजीवत्पुत्रानसंशयःरोचनाकुंकुमेनैवभूर्जपत्रेलिखेन्नरः ३ प्रणवंतुलिखेत्पूर्वंह्रींकारंतदनंतरम् ततोरमणनामापिह्रींकारांतंप्रतिष्ठितम् ४ उप र्यधोपिविलिखेदेकंक्रोंकारमेवच ततस्तद्वेष्टयेत्सर्वंवर्त्तुलंरेखयापुनः ५ तस्योपरिदलान्यष्टौबीजाक्षरयुतानिचह्रंकारंचतुर्दिक्षुदलमध्येतुविन्यसेत् ६ ओं कांचतथाह्रींचजुंकारंचतथैवच ह्रींकारंचपुनर्लेख्यमेवंबीजचतुष्टयम् ७ कोणेकोणेदलंलेख्यंमध्यदेशेतुसाधकः एवंयंत्रंसुसंलेख्यपूजयेच्चदिनत्रयम् ८ भोजयेन्मिथुनंचैकंलोकेशःप्रीयतामिति पश्चात्तुतंतुनावेष्ट्यंसुवर्णेनविशेषतः ९ वर्त्तुलंमणिवत्कृत्वाहारमध्येतुधारयेत् धारणाज्जायतेदेविसौभाग्य मतुलंमहत् १० जीवत्पुत्राभवेन्नूनंवंध्यचप्रणश्यति कमलाख्यंमहायंत्रंसृष्टंतुब्रह्मणापुरा ११ नदेयंयस्यकस्यापिसाधकेनवरानने इतिश्रीयंत्रचिंता मणौमहाकल्पेप्रत्यक्षसिद्धिप्रदेउमामहेश्वरसंवादेवशीकरणाधिकारेदामोदरपंडितोद्धृतेतृतीयपीठिकायांकमलाख्यंपंचविंशतितमंयंत्रंश्रीशिवुवाच इतिवशीकरणाधिकारःसमाप्तः अथाकर्षणाधिकारः जयतिजगदशेषंद्योतयन्दिव्यमासान्विशदकिरणकांतिः प्रस्फुरच्चंद्रमौलिः विषविषमम हाहिप्रोल्लसच्चारुहासःसततममिततेजाज्ञामूर्त्तिर्महेशः १ चिंतामणौकल्पवरेचतुर्थेप्रारभ्यतेसंप्रतिपीठिकेयम् आकृष्टियंत्राणिपरिस्फुटा निविचारयामीतितुपीठिकायाम् २ संलिख्यनामभूर्जपत्रमध्येगोरोचनाकर्षतिचतुरर्णान् सकारबीजान्सविसर्गयुक्तान्तस्योपरिष्ठाहि लिखेच्चयंत्रम् ३ ईंकारमध्येविनिवेश्ययस्माद्विसर्गयुक्तौतुलिखेत्सकारौ क्रोंह्रींतथाक्रोंचविलिख्यपंक्तौवर्णस्यपंक्तिंमहताक्रमेण ४ एवंद्विपंक्तौ चविलिख्यपश्चान्नाम्नस्तुमध्येविलिखेच्चपंक्तिम् ह्रींक्रोंतथाह्रींचतथैवक्रोंचविलिख्यनाम्नस्तुह्यधोविभागे ५ ह्रींक्रोंतथाह्रींचविलिख्यपंक्तौतस्या प्यधोवैविलिखेत्तुबीजकौ दकाररेफौतुविलिख्यपश्चात्संवेष्टयेत्त्रिःपरिवेष्टनेन ६ संपूज्ययंत्रंविधिवच्चपश्चात्सूत्रेणसंवेष्ट्यसुपांडुरेण उद्वर्त्तनेनस्व शरीरजेनविधायमूर्तिंमनुजस्यनूनम् ७ विधायतस्याहृदियंत्रराजंविधायचोद्वर्त्तकेनपश्चात् संतापयेत्तांखदिरस्यवह्निनादिनत्रयंमंत्रवरैःत्रिसंध्यं ८ अथतापमंत्रः देवदत्तंवेगेनाकर्षयमणिभद्रस्वाहा एवंकृतेकर्षतिमाणिभद्रोदेशांतरस्थंमनुजंचनूनम् अत्यंतदूरस्थमपिक्रमेणसमानयेद्यंत्र वरोहिनूनम् ९ एवंसुपूजितःसद्यशोधनानप्याकर्षतिमाणिभद्रः इतिश्रीआकर्षणाधिकारेचतुर्थपीठिकायांमाणिभद्राख्यंआकर्षणंनामप्रथमंयंत्रम् श्रीमहादेवुवाच अतःपरंप्रवक्ष्यामियंत्रंमित्रस्यदर्शनं रक्तचंदनेनानामिकारक्तेनमिश्रंवैभूर्जपत्रके १ मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततःचतुर्दलंत तःकुर्याद्बीजयुक्तंमनोहरं २ हूंकारंदलमध्येतुप्रत्येकंविलिखेत्क्रमात् एवंयंत्रंसुसंपूज्यबलिपुष्पैर्मनोहरैः ३ प्रक्षिपेद्धृतमध्येतुह्याकृष्टिस्त्रिदिनाद्भवेत् एतद्यं त्रंमहागोप्यंरक्षणीयंप्रयत्नतः नदेयंयस्यकस्यापियदीच्छेत्सिद्धिमात्मनः ४ इतिश्रीआकर्षणाधिकारेचतुर्थपीठिकायांमित्रदर्शनंनामद्वितीयं यंत्र श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामियंत्रंत्रैपूरकंमहत् रोचनानीरयुक्तेनभूर्जपत्रेलिखेन्नरः १ मध्येनामलिखित्वातुह्रींकारपुटितंशुभं षट्कोणंतुलिखेत्पश्चान्नामगर्भंमनोहरम्२सौंकारान्विलिखेत्कोणेमध्यतोबिंदुभूषितम् एतद्यंत्रंसुसंपूज्यघृतमध्येविनिःक्षिपेत् ३ प्रत्यहंपूज येन्नित्यंप्रार्थयेत्त्रिपुरांपुनःआकर्षयमहावेगाद्देवदत्तंममप्रियम् ४ ऐंत्रिपुरेदेवेशितुभ्यंदास्यामियाचितम् प्रार्थयन्मंत्रेणानेनत्रिपुरायंत्रंप्रपूजयेत् ५ पृ० ५अ) एवंकृतेसप्तमेह्नि ह्याकृष्टिर्जायतेशुभे ६ इतिश्रीआकर्षणाधिकारेत्रैपुरंनामाकर्षणयंत्रंतृतीयं श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिकामिन्याकर्षणंशुभम् रहस्यंसर्वयंत्राणांतत्क्षणात्सिद्धिदायकम् १ नदेयंयस्यकस्यापियंत्रराजंसुदु ष्करम् स्वानामिकायारक्तेनवामेकरतलेलिखेत् २ प्रणवंचतथाक्लींक्लींह्येकपंक्तौलिखेन्नरः तिस्वाहात्रितयंचैवतस्याधोविलि खेत्क्रमात् ३ तस्याप्यधोलिखेन्नामरमण्याश्चैवसुब्रतेत्रिकोणंवेष्टयेत्पश्चाद्बीजानामुपरिप्रिये ४ एवंकृत्वातुसंपूज्यतत्रैवकुसुमैःशुभैः याममात्रेणसानारीसमायातिनसंशयः ५ यंत्रंश्रीकामराजाख्यंदेवानामपिदुर्लभम् ६ इतिश्रीललनाकृष्टिकामराजाख्यंचतुर्थंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामियंत्रंवैदेवमात्रिकम् कर्षणंनरनारीणांशृणुदेविमहत्फलम् १ लाक्षारसंहरिद्राचमंजिष्टं भूर्जपत्रकेलेखनीयंप्रयत्नेनैकाकिनायंत्रमुत्तमम् २ मध्येनामलिखित्वातुत्रिकोणंवेष्टयेत्ततः तच्चापिवेष्टयेत्पश्चाद्वर्तुलंयत्नतःप्रिये ३ तस्योपरिस्वरालेख्याकाराद्यास्तुषोडशततस्तद्वेष्टयेत्सर्वंरेखयानेत्रसंख्यया ४ तस्यैवपादधूल्याथप्रकुर्याच्छालभञ्जिकाम् तस्या यौनौतुसंलिख्ययंत्रराजंप्रपूजितम् ५ एवंकृतेतुसाकृष्टासमायातिनसंशयः बहुनात्रकिमुक्तेनपत्यैवसहचानयेत् ६ यंत्रराजोमहागोप्यो देवमातृकसंज्ञकः ७ इतिश्रीआकर्षणाधिकारेमानिनीआकर्षणंदेवमात्रिकसंज्ञंपंचमंयंत्रंसमाप्ताकर्षणाधिकारः चिंतामणौकल्पवरसुयं त्रेश्रीचंद्रचूडस्यमुखाद्विनिर्गते तस्मिंश्चतुर्थीकिलपीठिकामिमांचकारदामोदरविप्रवर्यः १ आकर्षणंनाममहाधिकारंपूर्णंतृ तीयंहिमहाप्रभावम् पंचैवयंत्राणिमहाप्रभावरहस्यभूतानितुकीर्तितानि २ नारायणीमितिगदंतिसदैवलोकायांविश्वमातरमि तिप्रवदंतिकेचित् गंधर्वसिद्धसुरयक्षगणैस्तुतांतांविश्वेश्वरीमभयदांत्रिगुणांनमामि ३ संस्तंभनंनाममहाधिकारंविचार यामोत्रतुपीठिकायाम् यंत्राणिबीजानिशृणुष्वदेविसंस्तंभनानिक्षणसिद्धिदानि ४ श्रीशिवुवाच शृणुदेविमहायंत्रंस्तंभ नंसर्ववैरिणाम् विवादेव्यवहाराणांमुखस्तंभोभवेद्ध्रुवम् १ यदाकालवशाद्देविकलहःसंप्रजायते तदाकुर्यान्महायंत्रंजिह्वावे धनकंपरम् २ रोचनाभूर्जपत्रेणसंलेख्यंसुविचक्षणैः षट्कोणाष्टकंप्रकुर्वीतरेखाद्वितयकेनतु कोष्टमध्येलिखेद्बीजंप्रत्येकमे कमेककम् हकारंचमकारंचलकारंतदनंतरम् ४ वकारंचृकारंचयकारांतंप्रतिष्ठितम् ऊकारस्वरसंयुक्तंमस्तकेरेफभूषितम्५ बिंदुमात्रार्द्धसंयुक्तंकोष्टकेवर्णषट्ककम् स्वरद्वितयसंयुक्तंबिंदुनोपरिभूषितम् ६ एवंसंजायतेबीजंमुखस्तंभनमुत्तमम् कोष्टेकोष्टेतुसंलेख्यमेकैकंबीजमुत्तमम् ७ एवंबीजानिलेख्यानिरेखाद्वितयकेनतु बीजोपरिगताःकृत्वाकोणदेशाश्चतुर्दिशम् ८ बाह्यरेखोर्द्धाधोलेख्यास्त्रिशूलामस्तकोपरि सर्वत्ररेखयाचांतेत्रिशूलानिलिखेत्क्रमात् ९ ठंकारबीजानिषडैवचोर्ध्वमधोपि तावंतिलिखेच्चनूनम् दिग्दक्षिणस्यांचतथात्रिबीजंयावंतिसंख्यानितथैवचोत्तरे १० श्रीसूर्यसंज्ञानिविलिख्यपश्चात्संपू ज्ययंत्रंविधिवत्प्रयत्नात् जपेच्चमंत्रंमनसासुनिश्चलतथात्रिसंध्यंत्रिदिनंप्रयत्नतः ११ अथमंत्रः हर्ल्लूलस्तंभयस्तंभय अमुकस्यमुखंस्तंभयस्तंभयस्वाहा अष्टोत्तरशतंजप्तव्यम् संपूजयेद्यंत्रवरंत्रिसंध्यंपीतैःसुपुष्पैःकनकावदातैः एवंकृतेशत्रुग तिंमतिंचसंस्तभयेद्यंत्रवरोहिनूनम् १२ मूढोमहामूकिवप्रजायतेग्रस्तोग्रहेणेवरिपुर्महोग्रः १३ इतिस्तंभनेशत्रुमुखस्तंभनंप्रथमंयंत्रम् पृ० ५ब) श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामियत्रंस्तंभनमुत्तमम् शिलापुटेसुसंलेख्यपीतद्रव्येणशोभनम् १ रोचनाहरितालंचहरिद्रा चमनःशिला कुंकुमेनसमायुक्तंपीतद्रव्यंप्रचक्षते २ कुंभेमोहेचबीजानिचैकपंक्तौलिखेन्नरः तस्याप्यधोलिखेन्ना ममोहेचांतेप्रतिष्ठितम् ३ ततस्तद्वेष्टयेत्सम्यक्चतुष्कोणंरेखया कोणेकोणेत्रिशूलंचमध्येमध्येतथैवच ४ एवमष्टत्रिशूला निकृत्वायंत्रोपरिप्रिये संपूज्यपीत(कर्णिकारंकुरंठंचचंपकंस्वर्णकेतकी धत्तूरंपीतवर्णंचनागकेसरमेवच ग्राह्याण्येतानिपुष्पाणियथालाभंवरानने अन्यानि पीतवर्णानिनग्राह्याणिकदाचन)कुसुमैर्यंत्रराजंसुशोभनम् ५ धूपैर्दीपश्चनैवेद्यैर्नानाभक्षसमन्वितैः एवंसंपूज्यत द्यंत्रंभूमिमध्येक्षिपेन्ततः६ मृदापूर्यसमेदेशेयंत्रस्योपरियत्नतः गमनंस्तंभयेन्नूनंनात्रकार्याविचारणा ७ यद्यारोपितभां डोपिनयात्येवप्रियेसदा ८ इतिश्रीस्तंभनाधिकारेयात्रास्तंभनंनामद्वितीयंयंत्रम् श्रीमहादेवुवाच अतःपरंप्र वक्ष्यामिवाणीस्तंभनमुत्तमम् प्रतिवादिमुखस्तंभयंत्रंख्यातंतुभूतले १ पीतद्रव्येणसंलेख्यंशिलासंपुटमध्यतः मध्येनामलिखित्वातुत्रिकोणंवेष्टयेत्ततः २ ततस्तद्वेष्टयेत्सम्यग्वर्त्तुलंरेखयापुनः तस्योपरिदलान्यष्टौप्रकुर्वीत ततःपरम् ३ दलमध्येतुसंलेख्यंलकारंबिंदुभूषितम् एवंचाष्टदलंलेख्यंपूजयेत्कुसुमैःशुभैः ४ पीतवर्णैसुपु- ष्पैश्चदीपैर्नैवेद्यकोत्तमैः ब्राह्मणंभोजयेच्चैकंपायसेनगुडेनतु ५ ततोनिखन्याद्भूमौतुस्थापयेत्पूर्ववत्प्रिये विवादेव्य वहारेचचर्चायांशास्त्रकस्यच ६ प्रतिवादिमुखस्तंभोजायतेनात्रसंशयः एतद्यंत्रंमहादेविसुगोप्यंकथितंत्वयि ७ इति पंचमपीठिकायांतृतीयाधिकारेप्रतिवादिमुखस्तंभोनामतृतीयंयंत्रंसमाप्तिमगमत् श्रीमहादेवुवाच || अथातःसंप्रवक्ष्यामिशत्रुवक्त्रस्यमुद्रणं यदासंजायतेवादःशत्रुणासहसुब्रते १ तदायंत्रंप्रकुर्वीतसुगमंक्षण सिद्धिदम् खटिकयातुसंलेख्यंस्वभित्तौवेगतःप्रिये २ मध्येनामलिखित्वातुशत्रोस्तुविधिवत्ततः तस्योपरिस्थितारेखा वसुसंख्याष्टदिक्क्रमात् ३ रेखांतेचत्रिशूलानिलिखेद्देविदिगष्टके तत्रैवचसुसंपूज्यश्वेतपुष्पैःफलैःशुभैः ४ अन्यै श्चश्वेतगंधैश्चश्वेतवस्त्रैर्मनोहरैः ब्राह्मणंभोजयेच्चैकंश्रीशिवःप्रीयतामिति ५ विवादेवित्सभायांचमुखस्तंभंकरो त्ययम् ६ इतिश्रीपंचमपीठिकायांस्तंभनाधिकारेप्रतिवादिमुखस्तभंनामचतुर्थंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिवह्निस्तंभंमनोहरम् दिव्यकालेप्रकुर्वीतयंत्रराजसुशोभनम् १ पीतद्रव्येणसंलेख्यंभूर्जपत्रेसुशोभने साध्यनामलिखेन्मध्येक्रोंम्लांमध्यंचसंपुटम् २ उपर्यधोपिविलिखेत्क्रोंकारंसुमनोहरम्ततस्तद्वेष्टयेद्देविचतुष्कोणंतुरेखया ३ तस्योपरिचतुःकोणंप्रकुर्वीतद्विरेखया कोणांतरालेसंलेख्यंलकाराणांचबीजकम् ४ कोणांतेतुपृथग्लेख्यौत्रिशूलौसर्व तःप्रिये एवमष्टत्रिशूलानिविलिख्याथप्रपूजयेत् ५ संपूज्यब्राह्मणोभोज्योयंत्रंभूमौविनिःक्षिपेत् वहमानोदकेमार्गेमध्येयंत्रंनिधायच६ यावद्यातितदुपरिउदकंवरवर्णिनितावदग्नेर्महास्तंभोजायतेनात्रसंशयः ७ दिव्यसंस्तभनंनामयंत्रंदेवैःसुपूजितम् न देयंयस्यकस्यापि यदीछेत्सिद्धिमात्मनः ८ इतिश्रीपंचमपीठिकायांदिव्याग्निस्तंभनंनामपंचमंयंत्रं श्रीमहादेवुवाच शृणुदेविप्रवक्ष्या पृ० ६अ) मियंत्रंवह्निनिवारणम् यस्मिन्गृहेस्तितद्यंत्रंनतदाग्निभयंक्वचित् १ यस्यगृहेसदातिष्टेद्यंत्रराजोमनोहरः स्वप्नेप्यग्निभयंत स्यकदाचिन्नोपजायते २बलात्कारेणकर्तव्यमग्निग्रहणकंप्रिये विद्यमानेतथायंत्रेप्यौषधेवाबलाधिके ३ पादस्पृष्टोयथासर्पोदशत्येव नसंशयः तथास्तंभोपिदेवेशिबलात्कारेणवाजनैः ४ अपमृत्युंयथादेविविहरेद्वैद्यकोरसः तथायंत्रोपिदेवेशिस्तंभतेनात्रसंशयः ५ श्री खंडरोचननिशाख्यसुकुंकुमेनसुभूर्जपत्रेविधिवत्सुविस्तृते नामस्वकीयंतुविलिख्यमध्येसुवेष्टयेद्वर्त्तुलरेखयातथा ६ चतुर्दलंरेख- याचअभितःपरिलेखयेत् वकारंबिंदुसंयुक्तंपूर्वापरोदग्दक्षिणे७अथवागृहमध्येतुक्षीरमध्येथवापुनः संपूज्य नित्यमेवेदंदेवदेवंतुयंत्रकं ८ अग्नेःसकाशाद्याभीतिःसदातस्यनजायते ब्राह्मणंभोजयेच्चैकंयंत्रराजस्यतुष्टये ९ इतिश्रीपंचमपीठिकायांस्तंभनाधिकारेग्निस्तंभनंनामषष्ठंयंत्रं श्रीशिवुवाच अथातःसंप्रवक्ष्यामिप्रियसंस्तंभनंपरं यदाकोपंवरोयातिवारितोपिवरानने १ तदातत्स्तंभनार्थाययंत्रंकुर्यात्सुविस्तरम् पीतद्रव्येणसंलेख्यंफलकेकाष्टसंभवे २ || स्फाटिकंवाभवेद्यंत्रंफलकेस्फटिकोद्भवे लकारगर्भमध्येतुसाध्यनामप्रतिष्ठितम् ३ ततस्तद्वेष्टयेसम्यक्चतुष्कोणंतुरेखया तस्यो परिचतुष्कोणंद्वितीयंतुलिखेद्बुधः४कोणेदलाकृतिंकुर्यान्मध्यदेशेपृथक्पृथक् दलमध्येलकारंतुबिंदुयुक्तंलिखेत्प्रिये ५ एवं विलिख्यसंपूज्यविधिवद्यंत्रमुत्तमम् अधोमुखंनिधायाथफलकंगृहमध्यतः ६ तावत्स्तंभोभवेद्देविनात्रकार्याविचारणा तथापिगछतस्तस्यगत्वाचापिनिवर्तते ७ इतिश्रीपंचमपीठिकायांस्तंभनाधिकारेप्रिययात्रास्तंभनंनामषष्टंयंत्रम् श्रीशिवुवाच अथातःसंप्रवक्ष्यामिवैरिवाक्स्तंभनंपरम् खटिकयासुसंलेख्यंशिलासंपुटमध्यगं १ह्रींकारगर्भमध्येतुसाध्यनामप्रतिष्ठितम् ततस्तद्वेष्टयेत्सम्यक्चतुष्कोणंत्रिरेखया २ तस्योपरिचतुष्कोणंलिखित्वायंत्रकंपरम् अंत्यकोणेत्रिशूलानिचतुर्दिक्षुचतुश्चतुः३ विलिख्यपूजयेद्यंत्रंविधिवत्कुसुमैःशुभैःसंपुटेलेखयित्वातुस्थापयेद्यंत्रकंशुभम्४तत्क्षणाज्जायतेशत्रोर्मुखस्तंभं नसंशयःब्राह्मणंभोजयेच्चैकंशिवोमेप्रीयतामिति५ इतिश्रीस्तंभनाधिकारेशत्रुमुखस्तंभनंनामसप्तमंयंत्रम् श्रीशिवुवाच अथातःसंप्रवक्ष्यामियंत्रंपिशुनमुद्रणम् यदानिजकुलेदेविपिशुनःकोपिवाभवेत् १ तदायंत्रंप्र वक्ष्यामिशुभंपिशुनमुद्रणम् शत्रोस्तंभयतेवाचंगतिंबुद्धिंवरानने २ रोचनाभूर्जपत्रेणलिखेद्यंत्रंसुशोभनं क्रों कारपुटितंकुर्यादक्षरंनामसंभवम् ३ ह्रींकारपुटितंपश्चाद्द्वितीयमक्षरंपुनः नामाक्षराणियावंतितावत्संपुटितानिच ४ ततस्तद्वेष्टयेत्सम्यक्चतुःकोणंतुरेखया कोणेकोणेदलंकुर्याद्दीर्घबीजेनसंयुतम् ५ यकारंचमकारंचरकारंचतथैव च वकारंचिकारंचयकारंतदनंतरम् एवंक्रमेणसंयोज्यअक्षराणांचषट्ककम् उकारेणसुसंयुक्तंमस्तकेरेफभूषितम् ७ बिंदुनाचसमायुक्तंविलिखेद्दलमध्यतः एवंचतुर्दलंलिख्यबीजंवैसुरपूजितम् ८ दलांतरालेसंलिख्यक्रोंक्षश्चैवचतुर्दिशम् एवंसंलिख्ययंत्रंचपूजयेद्रक्तचंदनैः ९ रक्तपुष्पैस्तथावस्त्रैःस्वरक्तेनचसुंदरि यथाशक्त्याप्रदातव्यादक्षिणाताम्रसंभवा १० पृ० ७अ) श्मशानकर्पटेलेख्यंलेखिन्याकाकपिंछया १ मेषस्यरुधिरेणैवदृष्ट्वांगारंश्मशानजम् साध्यनामलिखित्वातुत्रिकोणंवेष्टयेत्ततः २ अधोपरिचरौद्वौद्वौसंलिखेद्भूतरात्रिषुततस्तद्वेष्टयेत्सम्यक्चतुःकोणंतुरेखया ३ कोणेकोणेत्रिशूलानिसंलेख्यानिचतुर्दिशम् चतुर्दि क्षुसन्मुखंचचतुर्दलोपरिस्थितम् ४ एवंसंलिख्ययंत्रंतुपूजयेद्विधिवत्पुनःसप्तांगुलंनिखन्याथपूरयेद्भूमिमध्यतः ५ यात्रास्थितोवा मार्गस्थोयंत्रंचाक्षिप्यतेततःपरस्परंमहाद्वेषोबंधूनांजायतेप्रिये ६ लिखेद्वापादपेपत्रेसोपिदौर्भाग्यभाजनः जायतेनात्रसंदेहो यंत्रराजप्रसादतः ७ इतिश्रीविद्वेषणाधिकारेबंधुविद्वेषणंनामतृतीयंयंत्रं श्रीशिवुवाच अथातःसंप्रवक्ष्यामिविद्वेषंस्वामिभृत्ययोः विद्वेषिरक्तमिश्रेणलेखिन्याकाकपिंछया १ श्मशानकर्पटेलेख्यंचतुर्दश्यांमहानिशि साध्यनामलिखेन्मध्येवर्तुलंवेष्टयेत्ततः २त स्योपरिह्यधोभागेरकारत्रितयंपुनः यःकारसंपुटेलेख्यंतिर्यग्भागैत्रिपूजकम् ३ मकारंचयकारंचविसर्गांतंप्रतिष्ठितम् एवंसंलि ख्ययंत्रंतुवर्त्तुलंवेष्टयेत्पुनः ४ एवंयंत्रंसुसंलिख्यतेषांमार्गेनिखन्यच संजायतेमहाद्वेषोस्वामिसेवकयोःसदा ५ यावद्यंत्रंतुभू मिस्थंतावद्द्वेषःप्रवर्त्तते इतिकृत्वाभवेद्वैरंस्वामिसेवकयोर्भृशम्६ इतिश्रीविद्वेषणाधिकारेस्वामिभृत्यविद्वेषणंनामचतुर्थंयंत्रम् || श्रीशिवुवाच शृणुदेविप्रवक्ष्यामिजगद्द्वेषकरंपरम् यंत्रंभयानकंनामदौर्भाग्यस्यचवर्द्धनम् १काकोल्लूकस्यरक्तेननरर क्तेनवापुनः ऋतुरक्तेनवापुनःदौर्भाग्यंललनायाश्चलेखिन्याकाकपिंछया २ विलिखेद्भूर्जपत्रेषुसाध्यनामनिशिप्रिये || कृष्णाष्टम्यांचतुर्दश्यांलिखेद्यंत्रंमनोहरम् ३ साध्यनामलिखेद्मध्येठकारपरिवेष्टितम् ठकारा णांनसंख्यास्तिविषमैर्वेष्टयेत्सदा ४ ततस्तुवर्त्तुलंवेष्ट्यंदुर्भगोभववेष्टयेत् एतद्यंत्रंसुसंस्थाप्यत द्गृहेतृणमध्यतः ५ यावद्गृहस्थंतद्यंत्रंसोपितद्गृहगस्तदातावद्द्वेषोप्यस्यशत्रोर्जायतेनात्रसंशयः६ पूजाक्रमश्चपूर्वोक्तःसोयंदेवितृणंसदा ७ इतिश्रीषष्टपीठिकायांजगद्द्वेषणंनामपंचमंयंत्रं श्रीशिवुवाच इतिश्रीयंत्रचिंतामणौषष्टीपीठिकासमाप्ता अतःपरंप्रवक्ष्यामियंत्रंशत्रोस्तुमा रणम् एतद्यंत्रंतुसंलेख्यंकपालेचनरस्यच १ श्मशानेचैवसंलेख्यंचतुर्दश्यांमहानिशि एकाकिनावि वस्त्रेणलेख्यंनिःशंकिनातथा २ मध्येनामलिखित्वातन्म्लिम्लितथोपरि अधोपिम्लिम्लिबीजेतुवि लेख्यौसाधनेनतु ३ त्रिकोणंवेष्टयेत्पश्चाद्रेखाद्वितयशोभितम् ऊर्ध्वरेखास्तुकर्त्तव्याःसर्वत्रापिव रानने ४ शरावसंपुटेक्षिप्त्वायंत्रंतत्रप्रपूजयेत् बलिमांसोमांसोपहारैश्चस्वरक्तेनविशेषतः ५ एतद्यंत्रंतु तत्रैवनिखन्याथप्रपूजयेत् एकंचाजबलिंदद्यादुद्धृतेतुपुनःसुखी ६ नोचेद्यमपुरींयातिनात्रका नात्रकार्याविचारणा इतिश्रीशत्रुमारणंप्रथमंयंत्रम् शिवुवाच पृ० ७ब) अथातःसंप्रवक्ष्यामियंत्रंप्राणविनाशनं मारणंप्रबलस्यापिशत्रोर्मृत्युर्नचान्यथा हरितालेनभूर्जपत्रेविशेषे णलिखेन्नरः साध्यनामलिखित्वातुलेखिन्याकाकपिंछया ह्रींकारगर्भमध्येतुसाध्यनामप्रतिष्ठितम् ततस्तद्वेष्टयेत्सम्यक्त्रि कोणंपूर्ववत्पुनः कोणेकोणेत्रिशूलंतुविलिख्याथप्रपूजयेत् पूजाविधिस्तुपूर्वोक्तःसर्वत्रापिचमारणे ४ नरांघ्रिनलिकामध्ये क्षिपेद्यंत्रंसुपूजितम् खात्वाश्मशानभूमौतुनलिकाचसुयंत्रिका ५ अकस्मान्मरणंतस्यजायतेनात्रसंशयः पूर्वोक्तोदुर्भगोबीजः सर्वत्रापिचमारणे इतिश्रीसप्तमपीठिकायांशत्रुमारणंद्वितीयंयंत्रम् शिवुवाच अथातःसंप्रवक्ष्यामिमारणंदूरदेशजम् श्मशानांगारकंघृष्यमजारक्तंतथैवच १ विषंचैवतुसंघृष्यलि खेन्नरकपालके संपुटंचैवसंलेख्य लेखिन्याकापिंछया २ साध्यनामलिखेन्मध्येहुंकारपुटितंशुभम् त तश्चाष्टदलंकृत्वातन्मध्येपितथैवच ३ चतुर्दिशितुसंलेख्यंहुंफट्चदलमध्यतः ततस्तद्वेष्टयेत्स म्यग्वर्त्तुलंतुद्विरेखया ४ हुंकारंवेष्टयेत्पश्चाद्विषमैःसर्वतःप्रिये ततस्तत्संपुटंखात्वाश्मशानेपूर्ववच्छुभे ५ अग्नावुपरिसंस्थाप्यपूजयित्वायथोदितं देशांतरगतस्यापिशत्रोःसंजायतेज्वरः ६ प्रत्यहंज्वालनीयतु स्तोकंस्तोकंचसुंदरि यस्मिन्दिनेसर्वदेशयग्निःप्रज्वाल्यतेनिशि ७ तस्मिन्नेवक्षणेशत्रोर्मारणंजायते प्रिये ८ इतियंत्रचिंतामणौमारणाधिकारेदूरस्थशत्रोर्मारणंनामतृतीयंयंत्रं श्रीशिवुवाचअथातःसंप्र वक्ष्यामिमारणंसर्वदेहिनां रुधिरेणमनुष्यस्यश्मशानांगारघर्षणं १ विशेषेणतथालेख्यंकर्पटेवैश्मशा नजे साध्यनामलिखित्वातुहुंफट्संपुटितंतथा २ एवंत्रिवारंसंलेख्यंत्रिपंक्तौतुवरानने ततस्तद्वेष्टयेत्सम्यग्वर्त्तु लंतुत्रिरेखया ३ राजिकींप्रतिमांकुर्याच्छत्रोश्चरणपांसुना तद्धृद्मध्येयंत्रकंतुक्षिप्त्वाताप्यंशनैःशनैः ४ क्र मेणानेनवैशत्रोर्दाहःशोकश्चजायते शिरोरुक्चैवमहतीतृतीयेह्निप्रजायते ५ हस्तपादांगदाहश्चमरणंसप्त मेहनि जायतेनात्रसंदेहोविधिःपूर्वोनसंशयः ६ इतिश्रीसर्वजनमारणंनामचतुर्थंयंत्रं श्रीशिवुवाच अथातःसंप्रवक्ष्यामियंत्रंस्त्रीनरमारणं विभीतकस्यपत्रेतुघृष्टांगारंश्मशानजं१ ऋतुरक्तेनसंलेख्यंलेखिन्याका कपिंछया साध्यनामलिखेन्मध्येस्तंभस्तंभेतिसंमुखम् २ ततस्त्रिकोणंसंलिख्यपंचकोणंततोपरि मनुष्यन लिकामध्येक्षिप्त्वासंपूर्यमृत्स्नया ३ तन्मूत्रसिक्तयादेविततस्तत्पूज्यपूरयेत् भुवोमध्येनिखन्याथश्मशानेप्रयतोनरः ४ पृ० ८अ) ततःसंजायतेदाहोमृत्युश्चैवक्षणाद्भवेत् मृयतेसप्तरात्रेणमोक्षःपूर्वोक्तेवहि ५ इतिमारणाधिकारेनरनारीमारणंनामपंचमंयंत्रं श्रीशिवुवाच अथुच्चाटनाधिकारः अथातःसंप्रवक्ष्यामिशत्रोरुच्चाटनंपरं अनामिकायारक्तेनसंलेख्यंभूर्जपत्रके१ गाणपत्या निबीजानिलिखेच्चप्रणवादिकम् एकपंक्तौतुसंलेख्यंहुंगंनामतथैवच२ पंक्तौद्वितीयेसंलेख्यंतृतीयेविलिखेत्ततः हुंगंधःस्वाहेतिच लिखित्वाक्रमशोनरः ३ ततस्तद्वेष्टयेत्सम्यक्चतुःकोणंद्विरेखया रक्तांबरधरोदेविरक्तगंधानुलेपनः४ चतुर्दश्यांसाधकस्तुमहारा त्रौलिखेत्क्रमात् पूजनंरक्तकुसुमैरक्तगंधैःफलैःशुभैः ५ कुमारीभोजनंरात्रौयथाशक्त्याचदक्षिणा ध्यानंतुदेवदेवस्यगणनाथस्यसुं दरि ६ नीलांजनाभंगजतुंडवर्यंशत्रुंगृहीत्वानिपुष्करेण उत्थापयंतंगगनेविचित्रंध्यायेत्तुनित्यंविधिवन्मनुष्यः ७ उच्चाटयत्येव नसंशयोत्रदिनेतथैकादशविंशकेन अयंक्रमोलेखनपूजनेतुसर्वत्रतूच्चाटकृताधिकारे ८ खंडंकृत्वाथतद्यंत्रमुच्छिष्टोदनमिश्रितं दीयतेभक्षणार्थंचवायसेभ्योदिनेदिने ९ इतिश्रीयंत्रचिंतामणौ उच्चाटनाधिकारेप्रथमंउच्चाटनयंत्रं श्रीशिवुवाच अथातः संप्रवक्ष्यामिह्यूच्चाटंसर्वदेहिनाम् काकोल्लूकस्यरक्तेनभूर्जपत्रेलिखेन्नरः १ मध्येनामलिखित्वातुवर्त्तुलं वेष्टयेत्ततःचतुर्दलंततःकुर्याद्रेखाद्वितयशोभितम् २ दलमध्येयकारंतुविसर्गांतंप्रतिष्ठितम् पूजाक्रमस्तुपूर्वोक्तोध्या नंचैवविवर्जितम् ३ पूर्ववद्भक्षणार्थंचवायसस्याष्टमेदिने देशंसंत्यज्ययात्येवग्रामस्यैवतुकाकथा४ इतिश्रीयंत्रचिं तामणौउच्चाटनाधिकारेसर्वोच्चाटनंनामद्वितीयंत्रम् शिवुवाच अथातःसंप्रवक्ष्यामिसद्योच्चाटनकंपरम् विषेणताल केनैवलिखेत्काकंतुकर्पटे१श्मशानेचैवपूर्वोक्तोयंत्रस्यतुविधिःस्मृतःअधोमुखंतुतंकाकंलंबमानंतुदक्षिणे २ विभीत कस्यवृक्षेतुबंधयेत्प्रयतोनिशि एवंकृतेतृतीयेह्निस्थानादुच्चाटनंभवेत् ३ यावद्यंत्रंतुतत्रस्थमुद्विग्नस्तावदेवहि नरो चतेगृहंतस्मैसुखंनलभतेक्वचित् ४ विदेशगमनेतस्यसंशयोपिचजीवने इतिश्रीसद्योच्चाटनंनामतृतीयंयंत्रंशिवुवा च अतःपरंप्रवक्ष्यामिशत्रोरुच्चाटनंपरम् निंबपंचरसैर्लेख्यंलेखिन्याकाकपिंछया १ भूर्जपत्रोपरितथाविधिःपूर्वोक्तमेव हि मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततः २ चतुर्दलंततःकुर्याद्बीजयुक्तंमनोहरम् रवौहितिबीजानिदलमध्येपृथक् पृथक् ३ पूज्याथपूर्ववत्पश्चान्निखन्याथप्रपूजयेत् अधोमुखंतुतद्यंत्रंपूर्वोक्तविधिनाततः ४ एवंकृतेसप्तमेह्निमूच्चाट यतिनान्यथा भ्रमतेदेशदेशंचतृणवत्परिभूयते ५ इतिश्रीउच्चाटनाधिकारेशत्रोरुच्चाटनंनामचतुर्थंयंत्रं शिवुवाच शृणुदेविप्रवक्ष्यामियंत्रमुच्चाटनंस्त्रियः गर्दभस्यतुरक्तेनलेखिन्याकाकपिंछया १ फलकेतुलिखित्वातुवर्त्तुलंवेष्टयेत्त तः ततश्चाष्टदलंकुर्याद्बीजयुक्तंमनोहरम् २ खकारंसविसर्गान्तंह्रींकारंतदनंतरं एवंयंत्रंतुसंलेख्यपूजयित्वाविधा पृ० ८ब) ततः निखन्यभूमिंसंपूर्यपूर्ववच्चाप्यधोमुखं एवंकृतेतृतीयेह्निशत्रोरुच्चाटनंभवेत् ४ उच्चाटयति स्थानाच्चवायुस्तुतृणपुंजवत् इतिश्रीयंत्रचिंतामणौउच्चाटनाधिकारेनारीउच्चाटनंनामपंचमंयंत्रं शिवुवा च अतःपरंप्रवक्ष्यामित्रैलोक्योच्चाटनंपरंकृष्णकुक्कुटरक्तेनभूर्जपत्रेलिखेन्नरः १ साध्यनामलिखित्वातुत्रिको णंवेष्टयेत्ततःपुनस्त्रिकोणंसंलेख्यद्वितीयंतुवरानने २ तस्योपरित्रिभागेतुह्रींकाराणांचतुष्टयम् एवंत्रिभागेलेख्या निबीजानिरविसंख्यया ३ ततोपिवर्त्तुलंलेख्येपूजयेत्पूर्ववत्पुनः एवंकृत्वातुतद्यंत्रंबध्नीयाच्छ्वानकेगले ४ यथाश्वा भ्रमतेनित्यंतथासोपिवरानने ४ इतिश्रीयंत्रचिंतामणौत्र्यैलोक्योच्चाटनंनामषष्ठंयंत्रम् श्रीमहादेवुवाचअ थातःसंप्रवक्ष्यामियंत्रमुच्चाटनंपरम् निशाचरै(हरिद्रातरुसंभूतोगुप्तनामानिशाचरः तन्मूलपत्रस्यरसैर्लेख्यंतस्यैवकंटकैः)रसैःकृत्वाबीजयुक्तंमनोहरम् १ ततश्चलेख्यंफडितिप्रत्येकंदल मध्यतः संपूज्यविधिवत्पश्चाद्यंत्रंसंपूजयेत्ततः खानेपानेप्रदातव्यमुच्चाटोजायतेध्रुवम्३ उच्चाटनंनामसप्तमंयं त्रंश्रीशिवुवाच इतिश्रीयंत्रचिंतामणावुच्चाटनाधिकारःसमाप्तःअथरक्षाधिकारःमहादेवुवाच शृ णुदेविप्रवक्ष्यामियंत्रंरत्नाकराभिधम् बालस्त्रीपुरुषाणांचमहारक्षाकरंपरम् १ कांस्यपात्रेचसंलेख्यंसुति थौशोभनेदिने रोचनाकुंकुमेनैवकर्पूरेणविशेषतः २ मृगनाभिसुसंयुक्तं जातीकाष्टेलिखेन्नरःऊर्ध्वेष्टरे खाःसंलिख्यतिर्यगष्टौतथैवच ३ जायंतेकोष्टकाःसम्यगेकोनपंचाशसंख्यया अकारादिस्वरालेख्यास्तिर्यगुप रिवैतथा ४ व्यंजनाःक्रमशोलेख्यास्तेनैवक्रमतःप्रिये एवंसंलिख्यबीजानित्रिशूलानिलिखेत्ततः५प्रतिरेखो र्ध्वतोनूनंचतुर्दिक्षुक्रमाल्लिखेत् क्रोंकाराःषट्सुसंलेख्याः पूर्वेचैवतुपश्चिमे ६ एवंसंपूज्यतद्यंत्रंपूजयेद्भक्तियोगतःपुंडरी कैस्तथांभोजैःशतपत्रैर्मनोहरैः ७ मालतीभिश्चजातीभिर्मल्लिकाकेतकैस्तथा बकुलैश्चयथालाभःफलैःकालोद्भवैः शुभैः ८ निर्गंधंरक्तवर्णंचपुष्पंयत्नेनवर्जयेत् सकर्पूरैश्चतांबूलैर्धूपैर्गंधैःसितांबरैः ९ एवंदिनत्रयंपूज्यंनैवेद्यैर्वि विधैःप्रिये जपेत्सप्तशतींनित्यंब्राह्मणांस्तुदिनत्रयम् १० संभोज्यपायसेनैवयथेष्टेनघृतेनच त्रिदिनंभूमिशायी स्याद्भोजयेद्बांधवान्प्रिये ११ उद्धृत्यगुटिकांकृत्वात्रिलोहैर्वेष्टयेत्ततः तदुच्छेषंतुपानीयंपानीयेनवरानने १२ गुटिकांकारयेद्देविबाहुमूलेगलेथवा धारणात्तस्ययंत्रस्यह्युपसर्गःप्रशाम्यति १२ अलक्ष्मीकलहश्चैवदौर्भा ग्यंचविशेषतः यत्परेणकृतंकिंचित्तत्सर्वंचप्रणश्यति १४ शांतिकंपौष्टिकंनामदेवानामपिदुर्लभम् प्रथमंयं पृ० ९अ) त्रराजाख्यंसद्यःप्रत्ययकारकम् १५ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेबालरक्षाकरंनामप्रथमंयंत्रं श्रीमहादेवुवाच शृणुदे विप्रवक्ष्यामियंत्रंचोरनिवारणं सर्पव्याघ्रभयंनास्तियंत्रेकरतलेस्थिते १ लेखनंपूर्वविधिनाद्रव्यंपूर्वो क्तमेवच सर्वत्रशांतिविविदेधिकोह्यन्योनविद्यते २ पूजनंचैवपूर्वोक्तंनियमश्चापितादृशःभूर्जपत्रेतुसं लेख्यंद्वितीयंयंत्रमुत्तमम् ३ ह्रींकारगर्भमध्येतुसाध्यनामप्रतिष्टितं तत्पादेतुसुसंयोज्यमकारस्तदनं तरं ४ लकारंचवकारंचयकारांतंप्रतिष्ठितम् ईकारस्वरसंयुक्तंशांतिबीजंमनोहरम् ५ ततस्तद्वेष्टये- त्सम्यक्चतुःकोणंद्विरेखया त्रिलोहवेष्टितंकृत्वाबाहुमूलेतुधारयेत् ६ सर्पव्याघ्रभयंहंतिम हाचोरभयंतथा विविधोपद्रवान्हंतिनात्रकार्याविचारणा ७ इतिश्रीयंत्रचिंतामणौसर्पव्याघ्रचो रनिवारणंनामद्वितीयंत्रम् शिवुवाच अथातःसंप्रवक्ष्यामियंत्रंदौर्भाग्यनाशनं नारीणांचवि शेषेणनराणांचैवसर्वदा १ लेखनंतुयथाप्रोक्तंविधिःपूर्वोक्तमेवहि लेखनीपूर्वनिर्दिष्टाभूर्जप त्रेलिखेन्नरः २ साध्यनामलिखित्वातुत्रिकोणंतुद्विरेखया तस्योपरिचतुष्कोणंरेखाद्वितयशोभितं३ कोणेकोणेत्रिशूलानिपूर्वोक्तविधिनाततः त्रिलोहवेष्टितंकृत्वाबाहुमूलेगलेथवा ४ धारयेद्विधिपू र्वंतुनारीवापुरुषोथवा विविधोपद्रवान्हंतिवंध्यागर्भंचधारयेत् ५ सौभाग्यमतुलंप्राप्यदेववन्मो दतेसदा ६ इतिश्रीशांत्यधिकारेसौभाग्यवर्द्धनंनामतृतीयंयंत्रम् श्रीमहादेवुवाच अ थातःसंप्रवक्ष्यामिज्वरनिर्नाशनंपरं भूतजंतुज्वरंयत्तुवैद्यकेभाषितंमहत् १ यत्नेनचसदाकार्यंयंत्रं वैज्वरनाशने उन्मत्तस्यरसैर्लेख्यंकर्पटेवैश्मशानजे २ कृष्णाष्टम्यांचतुर्दश्यांसंपूज्यनिखनेत्ततः श्मशानेतुदिवैवस्यान्निरहारश्चमानवः ३ तुर्योपरिचतुष्कोणंयथाचाष्टदलंभवेत् मध्येनाम लिखित्वातुरकारकृतसंपुटं ४ दलमध्येतुसंलेख्यारकाराबिंदुभूषिताः यावत्यस्तत्ररेखाश्चस र्वंतत्रक्रमेणतु ५ संपूज्यभूमिंसंपूर्यबलिपुष्पैर्मनोहरैः तत्क्षणाद्यातितद्भूतज्वरंचैवसुदारुणं६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेज्वरनाशनंनामचतुर्थंयंत्रं शिवुवाच अतःपरंप्रव क्ष्यामिबालानांशांतिकारकं यंत्रंरक्षाकरंश्रेष्टंसर्वोपद्रवनाशनम् १ पूर्वोक्तविधिनालेख्यं द्रव्यैःपूर्वोदितैःक्रमात् भूर्जपत्रोपरिलिखेत्पूर्वोक्तविधिनार्चनम् २ मध्येनामलिखित्वातु पृ० ९ब) वर्तुलंवेष्टयेत्ततः ततश्चाष्टदलंकार्यंबीजयुक्तंमनोहरं २ सकाराः सविसर्गांतादलेप्रत्येकशोन्यसेत् संपूज्यविधिवत्पश्चाद्बाहुमू लेगलेथवा ३ धारयेद्यंत्रराजंतुत्रिलोहपरिवेष्टितम् शाकिन्योवाथडाकिन्योकूष्मांडाद्यास्तथापरे ४ गछंतिबालकंत्यक्त्वा यंत्रराजस्यधारणात् ५ इतियंत्रचिंतामणौशांत्यधिकारेबालरक्षाकरंपंचमंयंत्रम् श्रीमहादेवुवाच अथातः संप्रवक्ष्यामितृती यज्वरनाशनम् द्रव्यैःपूर्वोदितैर्लेख्यंभूर्जपत्रेसुशोभने १ मध्येनामलिखित्वातुयकारस्यचसंपुटे त्रिकोणंवेष्टयित्वातुबीजानिविलिखेत्ततः२ तस्याधःस्वस्तिकःकार्यस्तत्सर्वंवेष्टयेत्पुनः चतुष्कोणंशिखाकारंतस्योपरिलिखेद्बुधः३ यकारान्सविसर्गांतान्विषमांस्तत्रसंन्यसेत् संपूज्यतस्यवेलायांबध्नीयाद्दक्षिणेकरे ४ वेलाज्वरस्यशांत्यर्थंबल्यर्थंदधिभक्तकम् बालोवाप्यथवावृद्धोज्वरान्मुच्येततत्क्षणात् ५ ज्वरोयातिनसंदेहोभूतजस्तुतृतीयकः रोगजोनैवयात्येषनयोज्यस्तत्रजानता ६ इतिश्रीयंत्रचिंतामणौतृतीयज्वरनाशनंषष्टंयंत्रम् श्री महादेवुवाच अथातःसंप्रवक्ष्यामिवेलाज्वरविनाशनं पूर्वोक्तविधिनालेख्यंद्रव्यैःपूर्वोदितैक्रमात् १ भूर्जपत्रेतुसंलेख्यंपूजयित्वाविधानतः मध्येनामलिखित्वातुवर्त्तुलंवेष्टयेत्ततः २ ऊर्ध्वोधस्तुतथापृष्टेचकारस्यतुसंपुटम् ततश्चाष्टदलंकार्यंबीजयुक्तं चसर्वतः ३ प्रत्येकंदलमध्येतुनकारंबिंदुभूषितं दलांतरेतुह्रींकारानष्टौसर्वत्रविन्यसेत् ४ एवंसंलिख्यसंपूज्यशी ततोयेविनिःक्षिपेत् मुच्यतेत्रिदिनाद्रोगीज्वरदाहीनसंशयः५ उष्णोदकेतुसंक्षिप्तंज्वरःशीतोविनश्यति हस्त मूलेतुतद्बद्धंज्वरोवेलासमुद्भवः ६ नश्यतेनात्रसंदेहस्तत्क्षणात्सुरसुंदरि ७ इतिश्रीयंत्रचिंतामणौशांत्यधिका रेवेलाज्वरनाशनंनामसप्तमंयंत्रं शिवुवाच अथातःसंप्रवक्ष्या मिबालानांरक्षणंसदा यंत्रंज्वलनरक्षार्थंवायुव र्द्धनकंसदा १ पूर्वोक्तविधिनालेख्यंसाध्यंनामतुसाधकः ततस्तद्वेष्टयेत्सम्यक्चतुष्कोणंद्विरेखया २ तस्योपरिचतुष्कोणंत्रिशू लान्कोणतोलिखेत् कोणांतेतुलिखेद्बीजंठकारंबिंदुभूषितम् ३ उपर्यधोप्यंतरालेह्रींकारान्विलिखेद्बुधः एवंसंलिख्य तद्यंत्रंपूजयित्वाविधानतः ४ त्रिलोहवेष्टितंकृत्वाबध्नीयात्कंठमध्यतःनचोपसर्गिकाःकेचिद्रोगाःशारीरमानसाः ५ ईर्ष्या कोपंतथारोगांदंतानांसंभवःकुतः नबाधतेबालकस्यस्तन्यदोषःकदाचन ६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेबालक ज्वलनरक्षाख्यंनामाष्टमंयंत्रम् श्रीशिवुवाच अथातःसंप्रवक्ष्यामिभूतापस्मारनाशनम् शाकिनीभूतवेतालैर्गृ हीतोवापिदारुणैः १ तदातन्मोचनार्थाययंत्रंकुर्यान्मनोहरम् स्वस्थस्तुचेत्प्रकुर्वीतसतुदोषैर्नगृह्यते २ द्रव्यैःपूर्वोदि तैर्लेख्यंपूर्वोक्तविधिनापुनः मध्येनामलिखित्वातुभूर्जपत्रेवरानने ३ वर्त्तुलंवेष्टयेत्सम्यक्तस्योपरिदलाष्टकम् ह्रींका रंदलमध्येतुप्रत्येकंविलिखेत्पुनः ४ एवंसंलिख्यतद्यंत्रंलोहत्रितयवेष्टितम् सुवर्णंरजतंताम्रंत्रिलोहंपरिचक्षते ५बा लानांचगलेधार्यंयंत्रंत्रिपुरभैरवम् मुच्यतेबालकोरोगैरपस्मारादिभिःशुभे ६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेअ पस्मारनिवारणंनामनवमंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिसर्पसंरक्षणंपरम् सर्पादिभिर्य पृ० १०अ) दाबालःप्रौढोवापिशेषतः १ नदृश्यतेयदादेविप्रमादात्फणिनांपतिः पूर्वोक्तविधिनालेख्यंपूजयित्वाविधानतः २ मध्येनामलिखित्वातु वर्त्तुलंचद्विरेखया संवेष्ट्यचदलान्यष्टौहंसःबीजयुतान्यपि ३ त्रिलोहवेष्टितंकृत्वाबाहुमूलेचधारयेत् नश्यंतिदर्श नात्तस्यदंदशूकाश्चतुर्दिशम् ४ प्रमादात्पतितेपादेस्तंभयेन्नात्रसंशयः अथदष्टंप्रमादेनविषंनैवाधिरोहति ५ सर्पाणां स्तंभनार्थाययंत्रंगरुडभाषितम्६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेसर्पस्तंभनंनामदशमंयंत्रं शिवुवाच अतःपरंप्रवक्ष्यामिडाकिनीत्रासनंपरम् भूतप्रेतपिशाचाद्यैःशाकिनीब्रह्मराक्षसैः१ यदाग्रस्तोनरःकोपिनारीवाबा लकोपिवा तदायंत्रंप्रकुर्वीतत्रासार्थंभूतरक्षसां २ खटिकयासुसंलेख्यंकर्पटेनतुभूतले चतस्रस्तिर्यग्रेखाश्चपं चह्यूर्ध्वगतालिखेत् ३ एवंतितेकोष्टाद्वादशैववरानने द्रींकारंप्रतिकोष्टंवैविलिख्याथप्रपूजयेत् ४ बलिपुष्पोपहारै श्चतत्रदीपं(तदुपरि)प्रज्वालयेत् संस्थाप्यचाग्नावुपरिज्वालयेत्वदिरानले ५ रुद्यमानोमहाभूतोवेपमानश्चगच्छति || तत्क्षणाद्बालकंमुक्त्वादेशंत्यक्त्वासगच्छति ६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेभूतत्रासनंनामैकादशंयंत्रम् ईश्वरुवाच अथातःसंप्रवक्ष्यामिज्वरनिर्नाशनंपरम् तांबूलपत्रेसंलेख्यंकौणपस्यतुकंटकैः १ साध्यनामलि खित्वातुक्रोंकारपुटितंशुभम् षट्कोणस्यतुमध्येतुप्रत्येकंप्रणवंलिखेत् २ कोणोपरिचद्रींकारंसर्वतोविलि खेत्क्रमात् तांबूलभक्षणार्थंचपूजयित्वाप्रदीयते ३ यंत्रस्यभक्षणाद्देविज्वरोयातिनसंशयः एकांतभक्ष णेनैवनात्रकार्याविचारणा ४ इतिश्रीयंत्रचिंतामणौशांत्यधित्यधिकारेएकांतरज्वरनाशनंद्वादशंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिगर्भरक्षाकरंपरम् गजमदेनसंलेख्यंभूर्जपत्रेवरानने १ गजस्य तुमदाभावेकुंकुमेनप्रलेखयेत् मध्येनामलिखित्वातुचतुष्कौणंद्विरेखया २ संवेष्ट्यकर्णिकाकार्यावर्त्तुला तुचतुर्दिशम् यकारंचरकारंचविसर्गांतंपृथक्पृथक् ३ कर्णिकामध्यतोलेख्यंपूर्ववत्पूजयेत्ततः लोहकेनतुसं वेष्ट्यगर्भिण्याःकंठतोन्यसेत् ४ सुखप्रसूतिश्चभवेच्छूलछिद्रंविनश्यति ५ इतिश्रीयंत्रचिंतामणौशांत्य धिकारेगर्भरक्षाकरंत्रयोदशंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिह्यंतर्वत्नीसुरक्षणम् यंत्रं योनिव्यथायाश्चवारणंसूतिरक्षणम् १ पूर्वोक्तविधिनालेख्यंद्रव्यैःपूर्वोदितैःक्रमात् भूर्जपत्रेविधानेनमध्य देशेविचक्षणः २ प्रणवंचतथाद्रींचाद्यंतेनामतोलिखेत् पटवच्चचतुष्कोणंदीर्घंसंवेष्ट्यरेखया ३ उपर्य धोपित्रिदलंकोणैकैकंप्रतिष्टितम् द्रींक्षूंचतथाद्रींचकोणेदलगतंलिखेत् ४ क्रोंकारंतथाश्रींचदलशेषु वैलिखेत् एवंविलिख्यसंपूज्यलोहत्रितयवेष्टितम् ५ गर्भिण्याःकंठदेशेतुधार्यंयंत्रंनसंशयः योनिशूलं पृ० १०ब) शिरःशूलंभूतदोषंप्रणश्यति ६ सुखप्रसूतिर्भवतिव्यथावर्जंनसंशयः यंत्रराजःसमाख्यातोरहस्यःशिवभा षितः ७ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेगर्भिणीसुखप्रसूतिकरंचतुर्दशंयंत्रम् शिवुवाच अथातःसंप्र वक्ष्यामिसर्वरक्षाकरंपरम् छलछिद्रहरंनामसर्वतोभद्रमंडलम् १ ऊर्ध्वरेखाःपंचपंचतिर्यग्रेखाःसुसंलिखेत् कोष्टा न्शोडशसंख्याकाञ्जानीयाच्चैववैबुधः २ अकारपूर्वान्क्रमशोविलिख्यसर्वत्रकोष्टान्निशिभूतजेह्नि भूर्जस्यपत्रेमृगना भिचंदनंहिमेनसंमेल्यलिखेत्क्रमेण ३ संपूज्यपुष्पैर्विविधैश्चगंधैधूपैर्मनोज्ञैर्विविधोपचारैः संपूज्य विप्रान्वसनैर्धनैश्च यंत्रंचतद्भक्तियुतःसमर्चयेत् ४ संवेष्ट्यलोहत्रितयेनयश्चसंहृष्टचेताविधिवन्मनुष्यः तंधारयेद्दक्षिणबाहुमूले नारीगलेयंत्रवरंप्रयत्नात् ५ तद्धारणात्प्राप्तमनप्रसादःसर्वप्रियोभाग्ययुतसुपूर्णः संजायतेसर्वभयेनहीनोलोके तथाप्राप्तमहाष्टसिद्धिः ६ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेसर्वरक्षाकरंसौभाग्यवर्धनंनामशोडशंयंत्रंसमाप्ति मगात् श्रीशिवुवाच अथातःसंप्रवक्ष्यामियंत्रंद्यूतजयावहम् सर्वद्यूतेजयःप्रोक्तोधारणाद्यंत्रकस्यच १ वाजि नाक्रमतालेख्यंचतुष्षष्टिश्चकोष्टकम् धारणाज्जायतेदेविजयःसर्वत्रनिश्चितम् २भूर्जपत्रेतुसंलेख्यंलेखिन्याका कपिंछयाकज्जलस्यमषींकृत्वालिखेद्रात्रौशुचिस्मिते ३ तिर्यगूर्ध्वास्तुसंलेख्यानवरेखाःसुविस्तृताःएवंभवंतिको ष्टाश्चचतुःषष्टिवरानने ४ मध्येबीजानिलेख्यान्यनुलोमप्रतिलोमतः पुनर्लेख्यानितान्येवमनोबुद्धिक्रमेणतु ५ दामोदरकवींद्रेणचित्रंवाचःक्रमःकृतः मखेरक्तंदयेतुष्टाकजिनंतंदनीविनः छंदादोयंमंत्रजेषहेष्टिवामोक्तिणांयात्र ६ एतान्येवतुबीजानिद्वात्रिंशद्विलि खेत्क्रमात् दामोदरकवींद्रेणत्रिधावाजिक्रमःकृतः ७ स्वेछयानीयतेयेनचतुष्षष्टिपदंजनैः प्रसंगात्तन्मया चोक्तोयंत्रराजोमनोहरः ८ सर्वद्यूतजयःप्रोक्तोधारणाज्जायतेध्रुवम् ९ इतिश्रीयंत्रचिंतामणौशांत्यधिका रेद्यूतजयनामकंसप्तदशकंयंत्रं श्रीशिवुवाच अथातःसंप्रवक्ष्यामिबंधमोक्षंमनोहरं बद्धोरुद्धःक्षणेनैवमुच्यतेयत्प्रसादतः १ यदाकेनापिसंरुद्धोनविंदेन्मुक्तिमात्मनः तदायं त्रंप्रकुर्वीततत्क्षणान्मुक्तिदायकम् २ कर्पूरकुंकुमेनैवभूर्जपत्रेशुचिस्मिते लेखनीयंप्रयत्ने नचैकांतेयंत्रमुत्तमम् ३ मध्येनामलिखित्वातुहृल्लेखातदनंतरम् ततस्तद्वेष्टयेत्सम्यग्वर्त्तुलं तुद्विरेखया ४ मांमोचयेतिसर्वत्रचतुर्दिक्षुप्रवेष्टयेत् चतुष्कोणंतुसंवेष्ट्यरेखात्रितयकेन तु ५ पूजनीयंप्रयत्नेनगंधैःपुष्पैःफलैःशुभैः त्रिलोहवेष्टितंकृत्वाबाहुमूलेगलेथवा ६ पृ० ११) धारणात्तत्क्षणान्मुक्तःसंसारादिवनिर्ममः स्वस्थताधारणान्नित्यमवरोधःकदापिन ७ जायतेनात्रसंदेहःस्वप्नेपिहिकदाचन इतिश्रीयंत्रचिंतामणौशांत्यधिकारेबंधमोक्षणंनामाष्टादशंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामिबवबंधवि नाशनम् निर्वाणपदयोग्यंहिनिर्वेदपददायकम् १ षट्कोणस्यतुमध्येतुसाध्यनामप्रतिष्टितम् निःसारपु टितंकृत्वाभूर्जपत्रेसुविस्तृते २ निःसारंतुलिखेत्कोणेरोचनाकुंकुमेन(चंदनेन)च संपूज्यविधिवद्यंत्रंसद्भक्तिप्रयतो नरः ३ लोहमध्यगतंकृत्वाधारयेछिरसासदा तद्धारणात्क्रमेणैवविरक्तःसंप्रजायते ४ ज्ञानयोगंसमासाद्यमु च्यतेनात्रसंशयः पुत्रमित्रकलत्रेषुनिर्मोहःसंप्रजायते ५ निर्जनेभवनेरण्येदुर्गेवापत्तनेगिरौ जायतेनात्रसंदे होयोगीसर्वत्रपूजितः ६ इतियंत्रचिंतामणौशांत्यधिकारेभवमोचनंनामैकोनविंशंयंत्रम् शिवुवाच अथा तःसंप्रवक्ष्यामिदुष्टसत्वात्प्रमोचनम् यदारण्येसरिद्दुर्गेदुष्टसत्वैश्चबाधितः १ तदायंत्रंप्रकुर्वीतवामहस्ततलोपरि निष्ठीवनेनद्रींकारंमनसापूजयेत्तदा २ अनामोद्भवरक्तेनचतुर्दिक्षुप्रसिंचयेत् तत्क्षणान्मुच्यतेजंतुर्यावद्द्वीपिमहो रगैः ३ रुद्धोवृकैश्चकरिभिरन्यैर्दुष्टैर्नसंशयः४ इतिश्रीयंत्रचिंतामणौशांत्यधिकारेदुष्टसत्वप्रमोचनंनामविंशति तमंयंत्रम् समाप्तश्चायंशांत्यधिकारःअथबंधमोक्षाधिकारः आपादमस्तकनिबद्धजनाःक्षणेनमोक्षंप्रयांति निगडैश्चसुवेष्टितांगाःयस्याज्ञयाजगतिदेवमनुष्यसिद्धास्तांभक्तिनम्रमनसाप्रणतोस्मिवंदीम् १ अधिकारंमहद्वक्ष्ये वंदीमोक्षकरंनृणाम् विश्वासात्तत्क्षणाद्देविसर्वकार्यप्रसाधनम् २ श्रीमहादेवुवाच अथातःसंप्रवक्ष्या मिवंदीमोक्षप्रसाधनम् यत्प्रसादात्क्षणेनैवबंधमोक्षःप्रजायते १ साध्यनामलिखित्वातुद्रींकारांश्चतुरोलिखेत् ततस्तद्वेष्टयेत्सम्य ग्वर्त्तुलंरेखयैकया २ अपूपोपरिसंलेख्यंघृतेनैवतुयंत्रकम् तत्रैवविविधैःपुष्पैर्नैवेद्यैःपूजयेच्चतत्३ भक्षणार्थंप्रदातव्यमपूपंसुर सुंदरि त्रिदिनान्मुच्यतेजंतुर्दृढबद्धोपिमुच्यते ४ इतिश्रीयंत्रचिंतामणौमोक्षणाधिकारेबद्धमोचनंप्रथमंयंत्रम् शिवुवाचैं द्रींद्रींद्रींश्रींश्रींवंदीदेव्यैअमुकस्यबंधमोक्षंकुरुकुरुमातर्नमःस्वाहा अनेनमंत्रेणनामगृहीत्वाप्रतिमंत्रंगुग्गुलुंचंडिकांप्रतिहोमये त्सप्तविंशतिदिनानि आहुतिः १०८ प्रतिदिनंवारंवारंमंत्राहुतिंदत्वासप्तविंशतिदिनपर्यंतंमोक्षोभवतिनान्यथाएकमेवयंत्रंविहितंसि द्धंचेद्धोमयेत् इतिश्रीयंत्रचिंतामणौमोक्षाधिकारेबंधादिमोक्षकरंनामद्वितीयंयंत्रम् श्रीमहादेवुवाच अथातःसंप्रवक्ष्यामियंत्रंनिगडमोचनम् हस्तपादगलेबद्धोमुच्यतेयत्प्रसादतः १ कांस्यपात्रोपरिलेख्यंरोचनाचंदनेनच कर्पूरकुं कुमाभ्यांचमृगनाभियुतेनच २ द्रींकारंमध्यदेशेतुवर्त्तुलंवेष्टयेत्ततः ततस्तुशोडषदलमकारादिस्वरान्वितम् ३ ततस्तद्वेष्टयेसम्य पृ० १२) ग्वर्त्तुलंरेखयापुनः तस्योपरिप्रकर्त्तव्यंद्वात्रिंशद्दलसंयुतम् ४ ककारादिसकारांतव्यंजनानिलिखेत्क्रमात् प्रतिष्ठाप्यमहापू जांगंधपुष्पैःफलैःशुभैः ५ नैवेद्यैर्बलिहोमैश्चदीपदानैर्मनोहरैः ओंनमश्चंडिकायैस्वाहेतिशतमष्टोत्तरंहुनेत् ६ पा यसैर्मधुखाद्यैश्चगुग्गुलैश्चविशेषतः प्रत्यहंतुप्रकर्त्तव्यंसप्तमेहनिपूर्यते ७ उद्धृत्यपयसःसर्वंभाजनाद्गंधरोच नाम् पानार्थमथदातव्यंगुटिकार्द्धंनकल्पयेत् ८ तद्धारणात्प्रमुच्येतचिरबद्धोपिमानवः ९ इतिश्रीयंत्रचिंतामणौबं धमोक्षाधिकारेनिगडमोक्षणंनामद्वितीयंयंत्रम् श्रीशिवुवाच अथातःसंप्रवक्ष्यामियंत्रंवैबंधमोचनम् विवरेचापि संरुद्धोमुच्यतेयत्प्रसादतः १ द्रींकारंमध्यदेशेतुसाध्यनाम्नस्तुसंलिखेत् लिखित्वाभूर्जपत्रेतुरोचनाकुंकुमेनच २ तद्यंत्रंपूजयित्वातुवहमानांभसिक्षिपेत् तदंभःपक्वेनान्नेनभोजनंतस्यकारयेत् ३ एवंकृतेतृतीयेह्निमुच्यतेनात्रसंशयः विवरस्थोवरुद्धोयोगूढस्थोपिविमुच्यते ४ इतिश्रीयंत्रचिंतामणौमोक्षाधिकारेसप्तमपीठिकायांगूढमोचनंनामतृतीयं यंत्रम् समाप्तश्चायंमोक्षाधिकारः यंत्रचिंतामणिंनामकल्पंश्रीशिवभाषितम् धर्मार्थकामफलदंवैरिपक्षविनाशनम् १ यस्तुपूजयतेनित्यंधारयेद्वापिमानवः अधृष्यःसर्वलोकानांजायतेनात्रसंशयः २ शृणोतियस्तुधर्मात्मावाच्यमानंनरःस दा सोपिपूज्यश्चमान्यश्चजायतेनात्रसंशयः ३ यंत्रचिंतामणिंश्रुत्वायस्यश्रद्धानजायते सदंडःपापकृद्द्वेषीदुर्भगोभुविनिश्चि तम् ४ यस्तुश्रद्धाभियुक्तःसन्यंत्रचिंतामणिंश्रयेत् तेनसार्द्धंतुकःकुर्याद्विरोधंवैजिजीविषुः ५ अतःपरंकिंबहुनोदितेनक ल्पप्रभावेणशिवोदितेन सुभद्ररूपीजगःतःप्रशास्तातत्तेजसाभातिसुशोभमानः ६ पुण्यंपवित्रंपरमंरहस्यंसुसारभूतंपरिकी र्त्तितंमया चिंतामणिंचिंतितकार्यसाधनंप्रत्यक्षकार्यादिफलप्रसाधनम् ७ वश्याधिकारंप्रथमंद्वितीयमाकर्षणंस्तंभकरं तृतीयंविद्वेषणंमारणकंचपंचमम् उच्चाटनंशांतिकरंचसप्तमंवंदीप्रसादंप्रवदंतिचाष्टमम्ष्टाधिकारंकथयंतिकल्पचिं तामणिंदेववरैःसुपूजितम् ८ इतिश्रीदामोदरेणशिवाज्ञाकरेणपंडितराजेनविरचितोयंत्रचिंतामणिःसमाप्तः शुभमस्तु ########### END OF FILE #######