#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00536 Uniform title: yogacintāmaṇi Author : śivānanda Manuscript : NGMCP 1-1337 reel no: B 39/5 Description: A compilation of citations from works on yoga, on which the author comments. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 15, 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) श्रीगणेशाय नमः | ओं परब्रह्मणे योगगम्याय नमः | श्रीदक्षिणामूर्तये नमः | नमो गुरुभ्यो देवीभ्यो योगिभ्यो हरये नमः | नित्यं सूक्ष्मतरं चिदेकरसकं मुक्तं विशुद्धं शिवं निर्द्धूताखिल कल्पनं श्रुति शिरो गम्यं प्रमाणोझितम् | पूर्णं धामवशी कृतासुमनसः पश्यन्ति यद् योगिनः सान्द्रानन्दमुपास्महे तद निशं स्वात्म प्रकाशं महः || १ || मायागाढ महादुरत्य यतमो मार्तण्ड कोटि प्रभः संसाराख्य युगान्त भास्कर करध्मात प्रपूर्णेन्दुकः | दुःखाम्भोदयुगान्तचण्ड पवनः कारुण्य लावण्य भूर्भूयान्मे निखिलार्थ बोधनकरः श्रीदक्षिणामूर्तिकः || २ || विघ्नौघतूलानलसन्निकाशं चिन्त्यार्थचिन्तामणि चारुमूर्तिम् | ब्रह्माच्युतेशादि समर्चितांघ्रिं नमामि लम्बोदरमुग्रवीर्यम् || ३ || श्रीव्यासं यति शंकरं भवगुरुं श्रीरामचन्द्रं गुरुं सान्द्रानन्द पदाम्बुजं च सकलान्नत्वा हि योगीश्वरान् | नानाग्रंथपयोधिमध्यपतितं श्रीयोगचिंतामणिं निःशेषार्थ समप्रकं यति शिवानन्दः करोति स्फुटं || ४ || योगस्तु निर्विकल्पक समाधिरेव तथा चाह पतञ्जलिः योगश्चित्त वृत्तिनिरोध इति | प्. १ब्) मनोवृत्तिनां वाक्यार्थाभिमुखानां निरोधपूर्वकं चित्तस्य यद्ब्रह्माकारतयावस्थानं स निरोधाख्यो निर्विकल्पक समाधिर्योग इत्युचते व्याकरणे युजसमाधाविति | वासिष्ठेपि || द्वौ क्रमौ चित्तनाशाय योगो ज्ञानं च राघव | योगस्तद् वृत्तिरोधः स्याज्ज्ञानं सम्यक् निरीक्षणम् || इति कूर्मपुराणे ईश्वरोक्तिः || मययेक चित्ततो योगो वृत्यन्तर निरोधतः | शून्यं सर्वं निराभासं स्वरूपं यत्र चिन्त्यते || अभावयोगः संप्रोक्तो येनात्मानं प्रपश्यति | यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् || मामेकं तु परो योगो भाषितः पारमेश्वर | इति आदित्य पूराणेपि || योगात् संजायते ज्ञानं योगो मययेक चित्ततेति योगबीजे || देव्युवाच || योगः क उच्यते देव योगाभ्यासोपि कीदृशः | योगेन वा भवेत् किञ्च तत्सर्वं वद शंकर || ईश्वर उवाच || योपानप्राणयोर्योगः स्वरजोरेतसस्तथा | सूर्यचन्द्रमसोर्योगो जीवात्म परमात्मनोः || एवं तु द्वन्द्व जालस्य संयोगो योग उच्यते | अन्ये तु तदङ्ग भूता एवेति द्रष्टव्यं विस्तरेण वक्ष्यते || प्. २अ) स्कन्दपुराणे || वृत्तिहीनं मनःकृत्वा क्षेत्रज्ञं परमात्मनि | एकीकृत्य विमुच्येत योग युक्तस्स उच्यते || बहिर्मुखानि सर्वाणि कृत्वा खान्यन्तराणि वै | मनसो चेन्द्रिय ग्रामं मनश्चात्म नियोजयेत् || सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् | एतद् ध्यानं च योगश्च शेषोन्यो ग्रन्थ विस्तरः || संयोगश्चात्म मनसोर्योग इत्युच्यते बुधैः | प्राणापान समायोगो योग इत्यपिकैश्चन || विषयेन्द्रिय संयोगो योग इत्यथ पण्डितैरिति | प्राणायामस्य सर्व योग शास्त्रेषु योगाङ्गत्वेन प्रसिद्धत्वान्न योगत्वमत एव इत्यपि कैश्चनेति मतान्तरोपन्यासो स्वरसोद्भावनार्थमेव | विषयेन्द्रिय संयोगेन नादानुसंधान भ्रूघ्राणादि निरीक्षणमभिप्रेतम् | एतैरपि समाधि संभवस्य पतञ्जल्यादि योगिभिरुक्तत्वात् | विस्तरेण च वक्ष्यते | विष्णुपुराणे || योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम | यत्र स्थितो न च्यवते प्राप्त ब्रह्मलयो मुनिः || आत्मप्रयत्न सापेक्षा विशिष्टाया मनोगतिः | तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते || प्. २ब्) एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः | यस्य योगः स वै योगी मुमुक्षुरभिधियते || अयमर्थः | पराक् प्रवण विषयोभि मुख प्रवृत्ति शीलस्यान्तः करणस्य विषयेभ्यो निवर्त्य प्रत्यङ्मुखी करणात्म प्रयत्न सापेक्षा विशिष्टा जीवरूपेण व्यावृत्ता मनसा करण भूतेनोत्पादिताया गतिर्ज्ञान तस्या गतेर्ब्रह्मणि विषये यश्च संयोगो जीवस्य ब्रह्माभेदचिन्तनात् स संप्रज्ञातलक्षणः समाधिरुक्त इति द्वयोरर्थः | तृतीयार्थस्तु एवं भूताभ्यास शालिनो विष्ण्वाख्ये परे ब्रह्मणि मनः प्रलयरूपात्यन्त वैशिष्ट्य युक्तयोग धर्मोपलक्षणश्च यस्य योगिनो योगो भवति स साक्षान्मोक्ष साधन योगाभ्यास शालित्वाच्छास्त्रेषु मुमुक्षुरित्यभिधीयते | अनेनासंप्रज्ञात लक्षणः समाधिरुक्तः || पद्मपुराणे || युजिर्योगेत्वयं धातुर्गतः काष्ठां परां स्थितिम् | सा तस्य युज्यते यस्मात् तस्माद् योगी स उच्यते || परां स्थितिं जीव ब्रह्मणोरद्वैत साक्षात् काराख्यां गतः प्राप्तो धातुर्न तु तयोर्योग मात्रं सा स्थितिस्तस्या द्वैताभ्यास शालिनो युज्यते प्. ३अ) यतः सा स्थितिर्युज्यते इति व्युत्पत्या योग उच्यते | अनेनासंप्रज्ञात समाधिरुक्तः | तथा तत्रैव निरोधो मनसस्संयोगो योगिनां मतः | अनेन निर्विकल्पक उक्तः | याज्ञवल्क्यः || ज्ञानं योगात्मकं विद्धियोगश्चाष्टाङ्ग संयुतः | संयोगो योग इत्युक्तो जीवात्म परमात्मनोरिति || अनेन मनः प्रलया प्रलय लक्षणौ संक्षेपतस्संप्रज्ञाता संप्रज्ञातावुक्तौ स्मृतौ विष्णुधर्मे | परेण ब्रह्मणासार्धमेकत्वं यन्नृपात्मनः | स एव योगो विख्यातः किमन्यद् योग लक्षणम् || स्वदेहारंभकस्यापि कर्मणः संक्षया वहः | यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् || यत् तद् ब्रह्मपरं प्रोक्तं विष्ण्वाख्यं शुधमव्ययम् | चेतसः प्रलयस्तत्र योग इत्यभिधीयते || योगजेनाव बोधेन प्रलीने तत्र चेतसि | पुरुषः कारणाभावाद् भेदं नैवानु पश्यति || परात्मनोर्मनुष्पेन्द्र विभागो ज्ञान कल्पितः | क्षये तस्यात्म परयोर्विभागो भाव एव हि || परमात्मात्मनोर्यो यम विभागः परं तप | स एव तु परो योगस्समासात् कथितस्तव || अत्र परेण ब्रह्मणेत्यादिना संप्रज्ञात लक्षणस्समाधिरुक्तः | प्. ३ब्) देहारम्भकस्येत्यादिनाऽसंप्रज्ञातरूपस्समाधिरुक्तः | ननु यमनियमासनप्राणायाम प्रत्याहार धारणा ध्यान समाधयोष्टाङ्गानि योगस्येत्यादि सर्वयोग शास्त्रेषु समाधेर्योगाङ्गत्वेन गणितत्वाद् योगः कश्चिदन्य एव प्रतीयत इति चेत् सत्यम् | समाधिर्हि द्विविधोस्ति संप्रज्ञाता संप्रज्ञात भेदात् | तत्रा संप्रज्ञात समाधेस्संप्रज्ञात समाधिरङ्गम् | अत्राङ्गाङ्गि व्यवस्था कृता पातङ्जले | धारणादीनां त्रयाणां साक्षादुपकारकत्वेनान्तरङ्गत्व मुक्तम् | यमादीनां तु पञ्चानामपि प्रतिपक्षभूत हिंसादि वितर्कोन्मूलन द्वारेण समाध्युपकारकत्वाद् बहिरङ्गत्वम् | सत्यासन जये प्राणस्थैर्यमित्यादि | तथा धारणाध्यानयोः संप्रज्ञात समाधि निष्पादक तया इतराङ्गापेक्षयान्तरङ्गत्वेप्य संप्रज्ञाताख्य निर्बीज समाधिं प्रतिपारंपर्येणोप कारकत्वाद् बहिरंगत्वम् | त्रय मन्तरङ्गं पूर्वेभ्यः तदपि बहिरङ्गं निर्बीजस्येति सूत्राभ्याम् | प्. ४अ) वसिष्ठयाज्ञवल्क्यौ तु यमादीनां चतुर्णां बहिरङ्गत्वं प्रत्याहारादीनां चतुर्णां बहिरङ्गत्वं प्रत्याहारादीनां चतुर्णामप्यन्तरङ्गत्वमाहतुः | याज्ञवल्क्यः || आदौ चत्वारि भाह्यानि तदन्यान्यान्तराणि वै | उक्तान्येतानि चत्वारि योगाङ्गानि वरानने || वसिष्ठः || प्रत्याहारादि चत्वारि शृणुष्वाभ्यन्तराणि चेति | अत्रेदं ज्ञेयम् | यमादीनि ध्यानान्तानि उत्तरोत्तरोपकारकत्वे संप्रज्ञात समाधि संपादकत्वेन बहिरंगानि निर्बीजसमाधेः संप्रज्ञात समाधिरेवाङ्गमिति | सम्यक् प्रकर्षेण ज्ञायते संत्राय विपर्ययाध्यवसा पराहित्येन भाव्यस्य स्वरूपं येन स संप्रज्ञातस्समाधिर्भावना विशेषः | भावना विशेषोयश्चेति स संप्रज्ञात समाधिरुक्तः स च वितर्कादि भेदाच्चतुर्विधः सवितर्कः सविचारः सानन्दः सास्मितश्चेति | तथा च भगवान् पतञ्जलिः | वितर्क विचारानन्दास्मिता रुपानुगमात् संप्रज्ञात इति | भावना च विषयान्तर परिहारेण भाव्यस्य पुनः पुनर्निवेशनम् | भाव्यं तु द्विविधम् | ईशस्तत्त्वानि च तत्त्वान्यपि प्. ४ब्) द्विविधानि जडानि अजडं च जडानि च प्रकृति महदहं कारैका दशेन्द्रिय पंच तन्मात्र पञ्चभूत भेदाच्चतुर्विंशतिः | संक्षेपतस्तु प्रकृतिरेव या ईश्वर शक्तिरिति मायेति च व्यपदिश्यते | देवात्मशक्तिं स्वगुणैर्निगूढां मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमित्यादि श्रुतिषु | अजडः पुरुषः तडान्यपि द्विविधानि | स्थूलानि सूक्ष्माणि च | तत्र यदा प्रथमं स्थूलानि महाभूतेन्द्रियाणि विषयत्वेनादाय भावना क्रियते | पूर्वापरानुसंधान शब्दोल्लेख संभेदेन तदा स वितर्क संज्ञकस्समाधिर्भवति | पूर्वापरानुसंधान शब्दोल्लेखराहित्येन चेत्तदा निर्वितर्क संज्ञकः | तथा सूक्ष्मान्तः करण विषयमालम्ब्य देशकाल धर्मावछिन्ना भावाना चेत् तदा स वितर्क संज्ञितः | तदनवछिन्नाधर्मि मात्र विषया चेत् तदा निर्विचाराख्यस्समाधिरयं ग्राह्य समापत्तिरित्यभिधीयते | उअदा रजस्तमो लेशानु विद्धमन्तः करणं सत्त्वं भाव्यते तदा गुण भावाच्चिति शक्तेः सुख प्रकाश मय सत्त्वस्योद्रेकात् सानन्दाख्यस्समाधिर्भवति | प्. ५अ) एतन्मात्र धृतयश्च विदेहा इत्युच्यन्ते | अयं च ग्रहण समापत्तिरित्युच्यते | अतः परं रजस्तमो लेशानभि भूतं शुद्धं सत्त्वमालम्बनी कृत्यया प्रवर्त्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाच्चिति शक्ते रुद्रेकात् सत्ता मात्रावशेष त्वेन समाधिस्सास्मित इत्युच्यते | न चाहं कारास्मितयोर भेदः शंकनीयः | तत्रान्तः करणमहमित्युल्लेखेन विषयान्वेदयति सोहंकारो यत्र त्वन्तर्मुखतया प्रतिलोम परिणामेन प्रकृतिलीने चेतसि सत्ता मात्रमवभाति सास्मित इति | एतन्मात्र रतयस्तु प्रकृति लय शब्दवाच्याः | ये तु परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामेयं विवेकख्यातिर्ग्रहीतृ समापत्तिरित्युच्यते | चतुरवस्थेयं संप्रज्ञातसमाधिः | यस्सविकल्प इति स बीज इति निदिध्यासनमित्यादि सब्दैर्व्यपदिश्यते योगशास्त्रेषु | असंप्रज्ञात समाधेर्लक्षणमाह भगवान् पतञ्जलिः | विरामप्रत्ययाभ्यास पूर्वः संस्कार शेषोन्य इति | अस्यार्थः विरम्यते अनेन विरामो वितर्कादि चिन्तात्यागो विरामश्चासौ प्रत्ययश्चेति विराम प्रत्ययस्तस्याभ्यासः पौनः पुन्येन चेतसि निवेशनम् | प्. ५ब्) तत्रया काचिद् वृत्तिरुल्लसति तस्यानेति तस्यानेति नैरन्तर्येण पर्युपासनं तत्पूर्वकः समाधिस्संस्कार विषेषोन्यस्तद्विलक्षणोऽसंप्रज्ञात समाधिरित्यर्थः | न तत्र किञ्चित् संप्रज्ञायते इति असंप्रज्ञात समाधिः | अयं च निर्बीज इति निर्विकल्प इति निरालम्ब इति राजयोग इति चोच्यते | रजयोगे || वामदेव उवाच | भगवन् देवदेवेश परमानन्दसुन्दर | त्वत् प्रसादान् मया लब्धः पूर्वयोगस्सविस्तरः || अपरः कस्तमाख्या हि भवता यदुदीरितः | महादेवः || बहिर्मुद्रान्वितः पूर्वो बहिर्योगश्च तन्मयः | अन्तर्मुद्रान्वितस्त्वन्यो ह्यन्तर्योगस्स एव हि || राजयोगश्च कथितस्स एव मुनिपुंगवैः | राजते सर्वयोगेषु राजयोग इति स्मृतः || राजानंदीप्यमानं तं परब्रह्माणमव्ययम् | देहिनं प्रापयेद् यस्तु राजयोगस्स उच्यते || समाधि द्वय साधारण नामानि हठप्रदीपिकायाम् | राजयोगस्समाधिश्च उन्मनी च मनोन्मनी | अमरौघौघ चान्द्रा च निरालम्बं निरञ्जनम् || अमनस्को लयश्चैव शून्याशून्यं परापरम् | जीवन्मुक्तिस्सहजं चतुर्यं चेत्येक वाचका इति दर्शितं चोदाहृतं | प्. ६अ) पुराणादि वाक्येषु समाधि द्वैविध्यं पूर्वमेव | ननु मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा || योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्व दर्शिभिरिति योगस्य चतुर्विधत्व श्रवणाद् ब्रह्म कृष्णेश्वर सदाशिवादि गीतादिषु कर्मयोगो भक्तियोगो वैराग्य योगस्सांख्ययोग इत्यादिषु योगशब्दप्रयोग दर्शनेन च योगशब्दस्यानैकार्थत्व प्रतीतेः कथं निर्णयो यमेव योग इति चेत् सत्यं | जीवनसाधने लाङ्गल्ले जीवन शब्दप्रयोगवत् साक्षात् परंपरया वा योगसाधनेषु मन्त्रयोगादिषु योगशब्दप्रयोगोपपत्तेः | तथाहि मन्त्रजपहोम पूजादि समाराधितेश्वर प्रसादादेव योगोयोगसिद्धिश्च भवति नान्यथा | आदित्यपुराणे शिववाक्यम् | सर्वज्ञः परिपूर्णश्च जरामरण वर्जितः | मत्प्रसादाद् भवेद् योगी नान्यथा क्रौञ्च सूदन | मानसोल्लासे || गुरुप्रसादाल्लभते योगमष्टाङ्ग लक्षणम् | शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीमिति || शैवे || ब्रह्मविष्णुशिवादीनां मन्त्रजप्य विशारदैः | साध्यते मंत्रयोगस्स वत्सराजादिभिर्यथेति | कूर्मपुराणे || ज्ञानार्थी वापि योगार्थी मोक्षार्थी च विशेषतः | प्. ६ब्) संश्रयेद्धि विरूपाक्षं सर्वकाम फलप्रदमिति || किञ्चेश्वरमन्त्रजपपूजादीनां सर्वयोगशास्त्रेषु योगाङ्गत्वं स्पष्टमेव दृश्यते तथा च वक्ष्यते राजयोगस्तु निर्बीज समाधिरेव | लयः संप्रज्ञातः हठस्तु प्राणायाम एव | तथा च योगबीजे || मन्त्रो हठो लयो राजयोगस्ता भूमिकाः क्रमात् | एक एव चतुर्द्धायं महायोगोभिधीयते || देव्युवाच || कथयेदं महादेव योगतत्त्वं चतुर्विधम् | भूमिकांशानुसारेण यथा भूतं क्रमान्मम || ईश्वर उवाच || सकारेण बहिर्याति हकारेण विशेन्मरुत् | हंस हंसेत्यमुं मंत्रं जीवो जपति सर्वदा || गुरु वाक्यात् सुषुम्णायां विपरीतो भवेज्जपः | सोहं सोहमिति प्राप्ते मन्त्रयोगस्तदोच्यते || प्रतीति मात्र योगाच्च जायते पश्चिमे पथि | हकारेण तु सूर्यो सौठ कारेणेन्दुरुच्यते || सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते | हठेन ग्रस्य तेजाद्यं सर्वदोष समुद्भवम् || क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् | तदैक्ये साधिते देवि चित्तं याति विलीनताम् || पवनः स्थैर्यमायाति लययोगोदये सति | लयात् संप्राप्यते सिद्धिः स्वानन्दं परमं पदम् || प्. ७अ) अणिमादि पदं प्राप्तो राजते राजयोगतः | प्राणापानसमायोगे ज्ञेयं योग चतुष्टयम् || पूर्वं बाह्यो मन्त्रयोगः प्रोक्तोयं त्वान्तर इति विशेषः | सूर्यचन्द्राख्ययोः प्राणापानयोरैक्य लक्षणः | प्राणायामो हठयोग इत्युच्यते | वासिष्ठे || अपानश्चन्द्रमा देहमाप्याय यति बाह्यतः | प्राणः सूर्योथवाप्यग्निः पचत्यन्तरिदं वपुः || मतान्तरे तु विपरीत संज्ञानयोः यथा अमृतसिद्धौ | प्राणश्चन्द्रमयो ज्ञेयो पानस्सूर्य मयस्तथा | उभौ शरीरनेतारौ यातायातं प्रकुर्वतः | अनयोर्यत्नतो योगः सदाभ्यस्यो मुमुक्षुभिः | एतद् द्वारेण धीराणां सर्व सिद्धिः प्रजायते || प्राणापान गतीरुद्धा प्राणायाम परायण इति गीता वचनात् प्राणापान समायोगः प्राणायाम इति याज्ञवल्क्य वचनाच्च प्राणायाम एव हठ शब्देनोच्यते | तस्यां भावनायां परमात्मनि लीनस्य योगिनो ब्रह्मानन्दाविर्भावो जायते सभावना विशेषः संप्रज्ञात लक्षणः समाधिर्लय योग इत्युच्यते | लययोगेपि नवस्वेव चक्रेषु मरुन्मनसोर्लयो लययोग इत्युक्तम् | प्. ७ब्) येनाणिमादि परमैश्वर्य संपन्नो योगी त्रिभुवने राजते सनिर्बीज समाधिरूपो राजयोग इत्युच्यते | स्कन्दपूराणे || प्राणापानवशो जीव ऊर्द्धाधः परिधावति | वामदक्षिणमार्गेण चञ्चलो न स्थितिं लभेत् || गुणबद्धो यथा पक्षी गतोप्याकृष्यते पुनः | गुणैर्बद्धस्तथा जीवः प्राणापानेन कृष्यते || अपानः कर्षति प्राणं प्राणोपानं च कर्षति ऊर्द्ध्वाधः संस्थितावेतौ संयोजयति योगवित् | हकरेण बहिर्याति सकारेण विशेत् पुनः | हंसहंसेत्य मुं मंत्रं जीवो जपति सर्वदा || षट्शतानि दिवारात्रौ सहस्राण्येक विंशतिः २१६०० एतत् संख्यान्वितं मन्त्रं जीवो जपति सर्वदा | अजपानाम गायत्री योगिनां मोक्षदायिनी | अस्याः संकल्पमात्रेण सर्व पापैः प्रमुच्यते || नानया सदृशी विद्या नानया सदृशो जपः | अनया सदृशं ज्ञानं भूतं न भविष्यति || त्रयोपि राजयोगाङ्गमेव | हठप्रदीपिकायाम् || पीठादिकुंभकाश्चित्रा दिव्यानि करणानि च | सर्वे हठलयाभ्यासाद् राजयोगस्य सिद्धये || राजयोगं समारूढः पुरुषः कालवंचक इति | प्. ८अ) आदि पदेन षट्कर्माणि गृह्यन्ते | पीठपदं यमनियमयोरुपलक्ष्णं | तयोस्सर्वयोगशास्त्रेषु योगाङ्गत्वेनोक्त त्वात् || अत्र यद्यपि श्लोके यमनियमादीनां सर्वेषामेव साक्षादेव राजयोगोपकारकत्वं प्रतीयते तथापि पूर्वापरग्रन्थ पर्यालोचनया नैवं सिद्धांतः | यमादीनामष्टाङ्गानां साक्षात्परं | परयासमाध्युपयोगित्वं पूर्वमेवोक्तम् | तत्र षट् कर्म मुद्राणां तु हठाङ्गत्वमेव || षट्कर्ममुद्रा उपरिष्टाद् वक्ष्यन्ते | तत्र षट्कर्मणां श्लेष्मादि दोषनिवारकत्व द्वारा हठोपकारकत्वं दोषाभावे तु नास्त्येव अन्ये तु सत्यपि दोषेनेकोपायसंकुल त्वात् षट्कर्मणामनुष्ठानं नेच्छन्तः प्राणायामेरैव सर्वकार्यसिद्धरेतो हठस्यापि न नियताङ्गत्वमित्याहुः | तथा चात्मारामः | षट्कर्मनिर्गतस्थौल्य कफमेदो गदादिकः | प्राणायामं ततः कुर्याद् अनायासेन सिद्ध्यति || मेदः श्लेष्म निवृत्यर्थं षट् कर्माणि समाचरेत् | अन्यथा नाचरेत् तानि दोषाणां समता यतः || प्राणायामैरेव सर्वैः प्रशुष्यन्ति मलायतः | प्. ८ब्) इति | आचार्याणां तु केषां चिदन्यक्रम न संमतमिति | मुद्राणां तु मूलबन्धजालन्धरोड्डीयान महामुद्रा महावेध महाबन्ध शक्ति चालनानां साक्षादेव हठोपकारकत्वं विपरीत करणी खेचर्योस्तु शरीर सिद्धि द्वारेति विवेकः | वासिष्ठे तु खेचर्या अपि साक्षादेव हठोपयोगित्वमुक्तं | तथा हि तालुमूलं गतां बलाज्जिह्वया क्रम्य घंटिकाम् ऊर्द्धरन्ध्रगते प्राणे प्राण स्पन्दो निरुद्ध्यते इति | मानसोल्लासे | आकुञ्चनमपानस्य प्राणस्य च निरोधनम् | लम्बिकोपरिजिह्वायाः स्थापनं योगसाधनमिति || नन्दिकेश्वर तारावल्याम् | उड्डीनजालन्धरमूलबन्धैरुन्निद्रितायामुरुगाङ्गनामामु- प्रत्यग्विमुञ्चन्प्रविशन् सुषुम्णां गमागमौ मुञ्चति गन्धवाह इति | हठप्रदीपिकायाम् | विविधैरासनैः कुम्भैर्विचित्र करणैरपि | प्रबुद्धायामादि शक्तों प्राणः शून्ये विलीयते || उत्पन्न शक्ति बोधस्य त्यक्त निःशेषकर्मणः योगिनः सहजावस्था स्वयमेव प्रजायते | सुषुम्णा वाहिनि प्राणे शून्ये विशति मारुते तथा समस्त कर्माणि निर्मूलयति योगवित् | वासिष्ठे | प्. ९अ) गुदादि स्थान संकोचात् स्थानकादि क्रिया क्रमैः | आसन भोजनशुद्ध्या साधुशास्त्रार्थ भावनात् || स्वाचारात्तुजना संगात् सर्वत्यागात् सुखासनात् | प्राणायामघनाभ्यासाद्रामकालेन केनचित् || कोपलोभ परित्यागाद् भागत्यागाच्च सुव्रत | त्यागादान निरोधेषु भृशं यान्ति विधेयताम् || प्राणाः प्रभुत्वात्तज्ज्ञस्य पुंसो भृत्या इवाखिला इति | ननु मुद्रा हठयोगादीनां बहु फल श्रवणात् प्राधान्यं किं न स्यादिति चेन्नः | तस्यार्थ वादकत्वात् | तथा च पूर्वमीमांसायाम् | अङ्गेषु फलश्रुतिरर्थवादः फलवत् सन्निधावफलं तदन्तरमिति | कर्मयोगस्त्वीशाराधनमेव | तच्च योगाङ्क भूतनियम मध्ये गणितमस्ति सर्वयोगशास्त्रेषु | तथा च पातञ्जल सूत्रद्वयम् | तपस्स्वाध्यायेश्वर प्रणिधानानि क्रियायोगः | शौच संतोष तपः स्वाध्यायेश्वर प्रणिधानानि नियमा इति | तपः कृछ्र चान्द्रायणादि स्वाध्यायः प्रणवादि जपः | प्. ९ब्) प्रणिधानं परमेश्वरे फलनिरपेक्षतया सर्वकर्मार्पणं | एते क्रियायोगा इत्युच्यन्ते | एतदनुष्ठानेन समाधिर्भवति | तत्र क्रिया योगस्य समाध्युपकारकत्वे द्वारमाहपतञ्जलिः | समाधिभावनार्थ क्लेश तनूकरणार्थश्चेति | क्लेशा अविद्यास्मिता रागद्वेषाभि निवेशाः || तत्राविद्याऽतस्मिंस्तद् बुद्धिरूपा भ्रान्तिः अनित्याशुचि दुःखानात्म सुनित्यशुचि सुखादि रुपास्मितादीनां चतुर्णां क्लेशानां प्रसवभूमिः अस्मिता सत्व पुरुषयोरैक्य विषयो मनो वृत्ति विशेषोहंकारः | रागः सुखमेवमेसदास्त्वितीछारूपः द्वेषो दुःख हेतुषु निन्दा | अभिनिवेशो दुराग्रहः एतेषां पञ्चानां दुःखजनकत्वेन क्लेशशब्दवाच्यानां संसाराख्य महानर्थानुकूलानां समाधि प्रतिबन्धकानां मूलभूतपाप निरासन शिथिलीकरण द्वारेण समाधि हेतुत्वं क्रियायोगस्येति | किञ्च ये स्थूला आरब्ध कार्याः क्लेशास्ते चित्तैकाग्रता लक्षणेन ध्यानेन निवर्तते | सूक्ष्मावासना रूपेण स्थिताः प्रतिलोम परिणामेन निवर्तन्ते | तथा च सूत्र द्वयम् | प्. १०अ) ध्यान हेयास्तद् वृत्तय इति ते प्रति प्रसवे हेयास्सूक्ष्माः | एते च क्लेशा अविद्या मूला एषां च फलं शुभाशुभ लक्षणं कर्मकर्मणश्चोक्त रूपस्य फलं सुखदुःखानुभवः | कर्मानुरूप जात्यायुर्विषयेन्द्रिय प्राप्तिश्च तत्र द्वारं सति मूले तद्विपाको जात्यायुर्भोगादुत्यत्र जात्यायुषोरपि कर्मफलत्वाभिधानं भोगे जनयितव्ये द्वारत्वेन सुखमपि परिणाम विरसत्वादि दर्शनाद् विवेकिनं प्रतिदुःखमेवेति मन्तव्यम् | एते क्लेशाः शुभाशुभ कर्मवासनाख्य कर्माशय जात्यायुर्भोगाख्य विपाकफलाः अविद्यामूला विवेकिना त्याज्या एव तत् त्यागश्च मूलभूता विद्योच्छेदक सम्यक् ज्ञानसाध्यः सम्यग् ज्ञानं च शास्त्रसाध्यम् | शास्त्रं चेदं हेय तत्कारणहान तत्कारणाख्य पर्व चतुष्टयजुष्टतया चतुर्व्यूहाख्यम् | तद्यथा | दुःखबहुलस्संसारो हेयः प्राधान पुरुष संयोगो हेयहेतुस्तस्यापि हेतुर्विद्याप्रधान पुरुष संयोगात्यन्त निवृत्तिर्हीनं तदेव च कैवल्यं तत्र हेतुर्विवेक ख्यातिरिति | तथा च सूत्राणि | हेयं दुःखमनागतं द्रष्टृ दृग्दृश्ययोः संयोगो हेय हेतुस्तस्य हेतुरविद्या तद भावात् संयोगा भावो हानम् | प्. १०ब्) तदृशेः कैवल्यं विवेक ख्यातिरविष्णवाहानोपाय इत्यादीनि द्रष्टृ दृग्दृश्य तत्संयोग पराणि च सूत्राणि द्रष्टा दृशिमात्रः शुद्धोपि प्रत्ययानुदृश्यः | प्रकाशक्रिया स्थिति शीलं भूतेन्द्रियात्मकं | भोगापवर्गार्थं दृश्यं | स्वस्वामि स्वरुपोपलब्धि हेतुस्संयोग इति | एतदर्थस्तु चित्स्वरूपोऽपारणामीसन्निधान मात्रेण विषयो परक्त वृत्तिः पुरुषो द्रष्टा प्रकाशप्रवृत्ति नियमरूपसत्वरजस्तमो गुणात्मकं ग्राह्य रूप पृथिव्यादि तन्मात्रादि लक्षणस्थूलसूक्ष्मपरिणामकं बुद्धीन्द्रिय कर्मेन्द्रिय कर्मेन्द्रियान्तः करणा ञ विधेन्द्रिय परिणामकं भोगापवर्ग प्रयोजकं च दृश्यं स्वशक्ति स्वामिशक्ति शब्दितयोर्दृश्य द्रष्टृ स्वरूपयोर्नित्ययोर्व्यापकयोरसंवेद्य पर्वणि स्थितयोर्यत्स्वरूपोपलब्धि हेतुः ससंयोगो नादिर्भोग्यभोक्तृत्व स्वभावः स एव च द्रष्टृ दृश्य संयोग इति | अत्रेदमालोचनीयम् | द्रष्टादृशिमात्र इत्यत्र मात्र पदं नैययायिकाभिमतधर्म धर्मि भावनिराकरणपरम् | नत्वानन्द स्वरूपता निवारकम् | तथा चैतन्य मात्र परार्थ निजस्वभावमिति सर्वज्ञात्ममुनिभिरुक्तं मत्र पदम् | प्. ११अ) तदेतत्प्रेयः पुत्रादिति श्रुतेर्निरुपाधि प्रेमास्य दत्वेन लिङ्गेन सुखमहमस्वाप्समित्यनुभवेनवात्मन आनन्दरूपत्वस्य सिद्धत्वात् | अत एव अशरीरं वावशगं प्रियाप्रियेन स्पृशते इति | श्रुतिर्वैषयिक सुखदुःखनिषेधपरा | अन्यथा एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति या वै भूमा तत् सुखमिति | कोह्येवान्यात् कः प्राप्याद्यदि ह्येष आकाश आनन्दो न स्यादिति | एष ह्येवानन्दयतीति | आनन्दं ब्रह्मणो विद्वानिति | विज्ञानमानन्दं ब्रह्मेत्याद्यनन्त श्रुति विरोधः स्यात् | न चैता ब्रह्मण आनन्दबोधन परा न जीवस्येति वाच्यम् | तत्वमसि | अयमात्मा ब्रह्म | यत् साक्षादपरोक्षाद् ब्रह्म | य आत्मा सर्वान्तर इत्यादि श्रुतिभिर्ज्जीवब्रह्मणोरैक्य बोधनात् | तस्मान् मात्र पदं नानन्दरूपता व्यवच्छेदकं किन्तु धर्मधर्मिभाव व्यवच्छेदकमित्येव युक्तम् | विवेकख्याति रवि प्लवाहानोपाय इति सूत्रस्यायमर्थः | अन्ये गुणा अन्यः पुरुषः इत्येवं विधस्य विवेकस्य या ख्यातिः प्रज्ञासाहानस्य दृश्यपरित्यागस्योपायः | आगमानुमानाभ्यां प्. ११ब्) जनितविवेकख्याति कस्य पुंसो व्युत्थान तत्संस्कारानुवृत्तेर्नास्या उपायत्व मित्ये तदुक्तमविप्लवेति | मिथ्याज्ञानरहितेत्यर्थः | एतदुक्तं भवति | श्रुति मयेन ज्ञानेन विवेकं गृहीत्वा युक्तिमयेन व्यवस्थाप्य दीर्घकालनैरन्तर्य संस्कार सेवित तया प्रकर्षपर्यन्तमधिगतसाक्षात् कारवती विवेकख्यातिर्निवर्त्तित सवासनमिथ्याज्ञानानिर्विप्लवाहानोपाय इति वाचस्पति मिश्राः | भोजदेव व्याख्या तु | न विद्यते विप्लवो विच्छेदो व्युत्थान रूपो यस्या अन्ये गुणा अन्यः पुरुष इति प्रतिपक्ष भावना बलाद विद्या विलये निवृत्त ज्ञातृत्व कर्त्तृत्वाभिमानाया रजस्तमोमलानभि भूताया बुद्धेरन्तर्मुखाया या चिच्छक्तिस्सा विवेक ख्यातिरित्युच्यते | तस्यांसंत तत्वेन प्रवृत्तायां दृश्यस्याधिकार निवृत्तेर्भवति कैवल्यमिति | इदमत्रालोचनीयम् | प्रकृतिपुरुष विवेकधी मात्रं न हानसाधनी भूत विवेक ख्याति स्वरूपं किन्तु विवेक ख्यातिः प्रथम भूमिः | एतदनन्तरं तु रजस्तमो लेश हीने निर्मले सत्त्वे प्रकाशेन्तः करणे या वृत्तिः सारूप्य लक्षणा तदा इष्ट्.उः स्वरूपे अवस्थानमिति सूत्राभिहिता प्. १२अ) पूर्णचैतन्यैकर स ब्रह्म प्रतिभा स लक्षणाहं ब्रह्मास्मीत्येव रूपा सैव सर्वात्मता रूपब्रह्मस्वरूप प्राप्तिलक्षणस्य कैवल्यस्य हानशब्दाभिधेयस्य परम उपाय इति | अन्ये गुणा अन्यः पुरुष इति ज्ञानमिति विवेकख्याति व्याख्यानं त्वनादि प्रवृत्तसकलानर्थ मूलभूत जडदेहाद्य भेदाद्यभिमान वृत्यसाधारण कारणत्वेन जडाजड विवेक मात्रोपयोगितयाऽत एव अस्मिंल्लये मोक्षोपि हानकैवल्यादि शब्दैरेवोक्तः | यत्तुमोक्ष दशायां प्रकाशमानं निजात्म स्वरुपं य च मोक्ष साधनस्या साधारण विषयावच्छिन्नं स्वरूपं तत्साक्षाद् वृत्यैवत्यक्त मात्मानमिति च प्राधान्येन विशेषतो व्युत्पादितं भगवता पतञ्जलिना | तथा च बृहदारण्ये | ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदाहं ब्रह्मास्मीति तस्मात् तत् सर्वमभवदिति विद्या सूत्रे सर्वात्मभावरूपमोक्षमुद्दिश्य तत् साधनत्वेनाहं ब्रह्मास्मीति ज्ञानं साधनमित्युपक्रान्तमुपसंहृतं च तदिदमप्ये तर्हि यथा सर्वं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवतीति तथान्यथा ज्ञानमविद्येत्येतदपि प्रदर्शितं तत्रैवा विद्यासुत्रे | अथ योन्यां देवतामुपास्ते अन्यो सावन्योहमिति प्. १२ब्) न स देवेत्यादिनेत्यलमति प्रसंगेन | एतदुक्तं भवति | काम्यनिषिद्ध वर्ज्जितेश्वरार्थ कृतसर्वकर्मभिर्नितान्त निर्मल स्वान्तस्य विषय दोष दर्शन संजातवैराग्यस्य तरति शोकमात्म विदिति श्रुति वाक्यावगत समूल सर्वदुःखोच्छेदकात्म ज्ञानार्थि तया सद्गुरु प्रसभ्याश्रवण मननौप बृंहिकं निदिध्यासनाभ्यासेन प्राप्तनिर्बीजसमाधेः पुंसो बुद्धिशुद्धि द्वारैव समाधिरूप कृतकार्याणि कर्माणि स्वत एव निवर्तन्ते | तथा च नैष्कर्म्य सिद्धौ | प्रत्यक् प्रवीणतां बुद्धेस्संपाद्यबुद्धिशुद्धितः कर्माणि विनिवर्त्तन्ते प्रावृडन्ते घना एवेति | राजयोगे | न कर्माणि त्यजेद् योगी कर्मभिस्त्यज्यते ह्यसौ | कर्मणो मूलभूतस्य संकल्पस्यैव नाशनात् || यथा यथा सदाभ्यासात् संकल्प विलयो भवेत् | योगिनो भवति श्रेयान् कर्मत्यागस्तथा तथा || उत्तुंग सहजानन्द सदाभ्यासरतः स्वयम् | सर्वसंकल्प संत्यक्तस्सविद्वान् कर्मसंत्यजेत् || सांसारिक क्रिया युक्तं ब्रह्मज्ञोस्मीति वादिनम् | कर्म ब्रह्मो भय भ्रष्टं तं त्यजेद् अन्त्यजं यथेति || कालिका पुराणे || धर्मः प्रयत्नतः कार्यो योगिनां तु विशेषतः | प्. १३अ) नास्ति धर्मादृते योग इति को *? इति योग विदो विदुः | याज्ञवल्क्य गीतासु | गार्ग्युवाच || योगयुक्तो नरः स्वामिन् सन्ध्यर्योर्वाथ वा निशि | वैधं कर्मकथं कुर्यान् निष्कृतिः कात्व कुर्वतः || याज्ञवल्क्य उवाच || योगयुक्तमनुष्यस्य संन्ध्ययोर्वाथवा निशि | यत् कर्त्तव्यं वरारोहे योगेन खलु तत्कृतम् || स्वात्माग्नि होत्र वह्नौ च प्राणायामैर्विवर्द्धिते | विशुद्धचित्त हविषा विशुद्धं कर्म कुर्वतः || निकृतिस्तस्य कावाले कृतकृत्यस्तथा खलु | वियोगे सति संप्राप्ते जीवात्म परमात्मनोः || विध्युक्तं कर्म कर्त्तव्यं ब्रह्मविद्भिश्च नित्यशः | वियोगकाले योगी च दुःखमित्येव न त्यजेत् || कर्माणि तस्य निलयोनिरयः परिकीर्तितः | न योगिनो यतः शक्यं त्यक्तुं कर्माण्य शेषतः || तस्मादामरणाद्वैधं कर्त्तव्यं योगिना सदा | भगवद्गीतायाम् || आरुरुक्षोर्मुनेर्योगं कर्मकारण मुच्यते | कूर्मपुराणे || तस्मात् सर्व प्रयत्नेन वर्णाश्रम विधौ स्थितः | समाश्रितोन्तिमं भावं मायाशक्तिं तरेद्बुधः || स्वधर्म परमो नित्यमीश्वरार्पित मानसः | प्राप्नोति परमं स्थानं यदुक्तं वेद वादिभिः || प्. १३ब्) ब्राह्मणक्षत्रिय विशांश्त्री शूद्राणां च सत्तमाः | स्वजाति विहितं कर्म रागद्वेष विवर्जितम् || ज्ञानकारण भावं हितदेव प्रति पद्यत इति | योगबीजे || न कर्मणा विना देवि योगसिद्धिः प्रजायते | ज्ञानं वा स्वर्ग भोगौ वा पुण्य हीनैर्न लभ्यते || तस्मात् कार्यं तदेवाशु यद्य स्यास्ति हि साधनम् | ते नैव प्राप्यते सिद्धिर्नान्यथा शिव भाषितमिति || किञ्चेश्वराराधनमेव योगस्य मुख्यो पायोस्ति | तथा च पातञ्जले || योगोपायनिरूपणे ईश्वर प्रणिधानाद्वेति | वा शब्दोत्र एवार्थः कायिक वाचिक मानस भक्ति विशेषादाराधितस्यश्वरस्य प्रसादादेव योगो योग फलं च संभवतीति सूत्रार्थः | वेदान्ते व्यास सूत्रम् | फलमत उपपत्तेरिति | अनेन भक्तियोगस्यापि राजयोगाङ्गत्वं वेदितव्यम् | वैराग्य योगस्यापि राजयोगाङ्गत्वेन पतञ्जलिनोक्तवान्न मुख्यं योगत्वम् | तथा हि | अभ्यास वैराग्यान्त निरोध इति | अस्यार्थः | वक्ष्यमाणोभ्यास वैराग्याभ्यां प्रकाश प्रवृत्ति नियम रूपाणां चित्तवृत्तिनां यत्प्रतिहननं स निरोधः | वृत्तिवृतीनां निवृत्तवाक्याभिनिवेशानामन्तर्मुख तया स्वकारणे चित्ते शक्ति रूपतया अवस्थानम् | प्. १४अ) अत्र विषयदोष दर्शनजेन वैराग्येण तद्वैमुख्य मुत्पाद्यते | अभ्यासेन च सुखजनक शान्त प्रवाह प्रदर्शन द्वारेण दृढस्थैर्यमुत्पाद्यते | अतस्ताभ्यां भवति चित्तवृत्तिनिरोधाख्यस्समाधिः | अभ्यासस्य सामान्य विशेषलक्षण माह सूत्राभ्याम् | तत्र स्थितौ यत्नोभ्यासः | स तु दीर्घकालनैरन्तर्य सत्काल सेवितो दृढभूमिरिति | अस्यार्थः | वृत्तिरहितस्य चित्तस्य स्वरूपनिष्टः परिणामः स्थितिस्तस्यां यत्न उत्साहः पुनः पुनस्तदात्मकत्वेन चेतसि निवेशनमभ्यास इत्युच्यते | स एवाभ्यासो बहुकाल नैरन्तर्येणादराति शयेन च सेव्यमानोदृढभूमिः स्थिरो भवतीत्यर्थः | स्कन्दपुराणे || आत्मज्ञानेन मुक्तिः स्यात् तच्च योगा दृतेन हि | स च योगश्चिरं कालमभ्यासादेव सिद्ध्यति || नारण्य संश्रयाद्योगो न नाना ग्रन्थ चिन्तनात् | न दानैर्न व्रतैर्वापि न तपोभिर्नवामखैः || न च पद्मासनाद्योगो न च घ्राणाग्रवीक्षणात् | न शौचेन नमौनेन न मम्त्राराधनैरपि || अपि योगात् सदाभ्यासात् तत्रैव च विनिश्चयात् | पुनः पुनरनिर्वेदात् सिद्ध्येद् योगो न चान्यथा || प्. १४ब्) आत्मक्रीडस्य सततं सदात्ममिथुनस्य च | आत्मन्येव सुतृप्तस्य योगसिद्धिर्न दूरतः || अत्रात्म व्यतिरेकेण द्वितीयं यो न पश्यति | आत्मारामस्सयोगीन्द्रो ब्रह्मीभूतो भवेद् इह || स्व संवेद्यं हि तद् ब्रह्म कुमारी स्त्री सुखं यथा | अयोगी नैव तद्वेत्ति जात्यन्ध इव वर्णिकम् || नित्याभ्यास न शीलस्य स्वसंवेद्यं हि तद् भवेत् | तत्सूक्ष्मत्वाद निर्द्देश्यं परं ब्रह्म सनातनमिति || आगमे पारमेश्वर तंत्रे || तस्मादभ्यसनं नित्यं कर्त्तव्यं मोक्षकांक्षिभिः | अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्ष माप्नुयात् || संवित्तिं लभते भ्यासाद् योगोभ्यासात् प्रवर्तते | मन्त्राणां सिद्धिरभ्यासादभ्यासाद् वायु साधनम् || कालवं च नमभ्यासात् तथा मृत्यु जयो भवेत् | वाक्सिद्धिः कामचारत्वं भवेदभ्यासतो ध्रुवमिति || हठप्रदीपिकायां || युवाबालोति वृद्धो वा व्याधितो दुर्बलोपि वा | अभ्यासात् सिद्धि माप्नोति सर्वयोगेवतन्द्रितः || अमृतसिद्धौ || मुद्रा प्राणायाम निरुपणानन्तर मुक्तम् | एवं बुधैस्सदाभ्यासः कर्तव्यो मोक्ष कांक्षिभिः || अभ्यासाज्जायते योगो योगात् सर्वं प्रसिद्ध्यति | श्रवणेनाभ्यास योगेन वायुरभ्यसितो भवेत् || वायोरभ्यासतो वह्निः प्रत्यहं वर्द्धते भृशम् | प्. १५अ) वह्नौ विवर्द्धमाने च सुखमन्नं हि पच्यते || अन्नस्य परिपाकेन रसवृद्धिः प्रजायते | रसे वृद्धिं गते नित्यं वर्द्धन्ते धातवस्तदा || धातोस्संवर्द्धनादेव प्रधानो वर्द्धते रसः | प्रधान रस संपत्तौ दृढकायो महाबलः || महाबन्धो महाभ्यासो बलादेव प्रजायते | महाबन्धान् महाभ्यासाद्रसस्य जारणं भवेत् || दोषास्सर्वो पशुष्यन्ति मलमूत्रकषायकाः | दह्यन्ते सर्वपापानि जन्मकोटि कृतानि च || इहैवाभ्यास योगेन तृणानि वह्निना यथा | तपांसि यानि दिव्यानि ह्ययुतान्य युतानि च || कोटि कोटि कुणैस्तानि भवन्त्यभ्यास योगतः | प्रकृतेश्च गुणादोषा व्याधयो विविधास्तनौ || नश्यन्त्यभ्यासयोगेन खेमेघा वायुना यथेति | तथा वैराग्य सामान्य विशेष लक्षण परं सूत्र द्वयम् || दृष्टानु श्रविकविषय वितृष्णस्य वशिकार संज्ञा वैराग्यम् | तत्परं पुरुष ख्यातेर्गुण वैतृष्णमिति || एतदर्थस्तु दृष्टो विषय इहैवोपलभ्य मानः शब्दादिः आनुश्रविको विषयो देवलोकादौ अनुश्रूयते गुरुमुखादित्यनु श्रवो वेदस्तत आगत आनुश्रविकस्तयोर्द्वयोर्विषययोरपि प्. १५ब्) परिणामविरसत्वदर्शनेन विगताकांक्षस्य या वशीकार संज्ञाममैवैते वश्यानाहमेतेषां वश्य इति योयं विमर्शस्तद्वैराग्यमुच्यते | प्रथमं वराग्य विषय विषयं द्वितीयं गुणविषयम् | तत्र गुण विषयं वैराग्यं परमित्युच्यते | उत्पन्न गुण पुरुष विवेक ख्यातेरेवैतद्वैराग्यं भवति | निरोधसमाधेरत्यन्तानुकूलत्वात् | अनेन विवेकख्याति वाच्य सांख्ययोगस्यापि योगोपयोगित्वमुक्तम् | एवं चा द्वितीये वस्तुनि वेदान्त वाक्य तात्पर्यावधारणात्मकस्य श्रवणस्य श्रुत्यार्थस्य युक्तिभिश्चिन्तनात्मकस्य मननस्य च नियमे विजातीय प्रत्यय तिरस्कारेण स जातीय प्रत्यय प्रवाहीकरणात्मक निदिध्यासनस्य ध्याने संप्रज्ञात समाधावन्तर्भावो द्रष्टव्यः तथा च याज्ञवल्क्यो नियम विवरणे | सिद्धान्त श्रवणं प्रोक्तं वेदान्त श्रवणं बुधैः वेदान्त श्रवणं कुर्वन् योगं तस्मिन् समभ्यसेत् इति | तस्मान् नाष्टांग योगाद्बहिर्भूतं किमपि योगशब्दवाच्यमस्तीत्यवधेयम् | ननु वासिष्ठे संसारोत्तरणे शक्तिर्योगशब्देन कथ्यते | आत्मज्ञान प्रकारश्च प्राणानां संयमस्तथा | प्रकारौ द्वावपि प्रोक्तौ योगशब्देन यद्यपि || प्. १६अ) तथापि रूढिमायातः प्राणयुक्तावसौ भृशम् इत्युक्त त्वात् कथं मनोनिरोध एव योग इति चेत् सत्यम् | मनोनिरोधस्य प्राणनिरोधात्मकत्वाशयेनोक्तत्वात् | अत एव प्राणायाम एवाभ्यासक्रमेण प्रत्याहारधारणा ध्यानसमाधि शब्देनोच्यते | तथा च दत्तात्रेयः || प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः | शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः || प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः | धारणेत्युच्यते येयं धार्यते यन्मनीषिणा || प्राणयामादशब्दौ च धारणा परिकीर्तिता | द्वेधारेण स्मृतो योगो योगिभिस्तत्व दर्शिभिः || स्कन्दपुराणे || प्राणायाम द्विषट्केन प्रत्याहार उदाहृतः | प्रत्याहारैर्द्वादशभिर्द्धारणा परिकीर्तिता || भवेदीश्वर संगत्यै ध्यानं द्वादश धारणं | ध्यानद्वादशके नैव समाधिरभिधीयते || समाधेः परतो ज्योतिरनन्तं स्वप्रकाशकम् | तस्मिन् दृष्टे क्रियाकाण्ड यातायातं निवर्तते इति || तथा धारणादि परिमाणं चोक्तम् | धारणा पञ्चनाडिका ध्यानं स्यात् षष्टि नाडिकम् || दिनद्वादशकेन स्यात् समाधिः प्राणसंयमादिति | घटिकामानमाहवसिष्ठः || षष्टिश्वासो भवेत् प्राणः षट्प्राणा घटिका भवेत् | प्. १६ब्) घटिकाः पञ्चराशिस्स्याद्राशिद्वादशकं दिनमिति | एवं च पञ्च घटिका द्वादशांशः सार्द्धप्राण द्वयम् || तावत् कालं धृतो वायुः प्रत्याहार इत्युच्यते | तथा सार्द्ध प्राण द्वयस्य द्वादशांशः सार्द्धद्वादशाः श्वासाः तावत् काल धृतो वायुः प्रथमप्राणायामो भवति | चतुर्विंशतिश्वासान्तो मध्यमः | षट्त्रिंशच्छ्वासान्त उत्तम इति राद्ध्रान्तः | तथा स्कन्दपुराणे | एकश्वास मयी मात्रा प्राणायामो निरुच्यते | इति निद्रावशं गतस्य पुषो यावताकालेनैकः श्वासो गच्छत्यागच्छति तावान् कालः प्राणायामस्य मात्रेच्युते | किञ्च | मनः प्राणयोः स्पन्दोप्येक एवास्ति | वासिष्ठे || यः प्राणपवनस्पन्दश्चित्त स्पन्दस्स एव हि | प्राणस्पन्द जये यत्नः कर्तव्यो धीमतोच्चकैरिति || अत एवो भय प्रलयात्मक एव समाधिस्सर्वयोग शास्त्रेषु प्रसिद्धः स्कन्दपुराणे यदा संक्षीयते प्राणो मानसं च प्रलीयते | तदा समरसत्वं यत्स समाधिरिहोच्यत इति | अत एवो भयनाशे सत्येव ज्ञानं मोक्षश्च भवतीत्यत्र शिववाक्यम् ज्ञानं कुतो मनसि जीवति देवि तावत् प्राणोपि जीवति मनो म्रियते न यावत् प्. १७अ) प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथं चिदन्यः | वासिष्ठे || एकतत्त्व घनाभ्यासः प्राणानां विलयस्तथा | मनो विनिग्रहश्चेति मोक्षशब्दार्थ संग्रह इति || ननु अस्य संसाररोगस्य सर्वोपद्रवकारिणः | उपाय एक एवास्ति मनसस्स्वस्य निग्रहः || चित्तमेव हि संसारः कामकोपादिभिर्युतम् इत्यादि संपूर्ण | वासिष्ठे || मन एव मनुष्याणां कारणं बन्ध मोक्षयोः | बन्धाय विषया सक्तं मोक्षाय निर्विषयं मतमित्यादि || शास्त्रान्तरेष्वपि संसारस्य मनोमूलकस्य श्रवणात् तत्त्व ज्ञानमोक्षयोरपि मनोजयाधीनत्व श्रवणाच्च सर्वानर्थ हेतु सविलासा विद्योन्मूलन पूर्वकमोक्ष रूपयुमर्थस्य मनो निग्रहेणैव संभवात् किं दुस्साध्येनानेन रोगव्याधि दुःखदेन प्राणनिग्रहेणेति चेन्न | प्राणजयं विनाचित्त जयस्या साध्यत्वात् | तथा च स्कन्दपुरणे || चले वाते चलंचित्तं निश्चले निश्चलं तथा | योगीस्थाणुत्व माप्नोति ततो वायुं निरोधयेत् || क्षणमप्येकमुदकं यथा न स्थिरतामियात् | वाताहतं तथा चित्तं तस्मात् तस्मिन् न विश्वसेत् || ततो निलं निरुन्धीत चीतस्य स्थैर्य हेतवे | प्. १७ब्) मरुन्निरोधनार्थाय षडङ्गं योगमभ्यसेत् || यावद् वहेन् मरुद् बद्धस्तावच्चित्तं निरामयम् | यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् काल भयं कुत || इति मार्कण्डेयपुराणे || इति ते कथितं भूप योगं चेमं निबोधमे | यं प्राप्य ब्राह्मणो योगी शाश्वतं नान्यतां व्रजेत् || प्रागेवात्मनाजेयो योगिना सति दुर्जये | कुर्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे || यथा पर्वत धातूनां मला दह्यन्ति धम्यताम् | तथेन्द्रिय कृतादोषा दह्यन्ते प्राणनिग्रहात् || प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्विषं | प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणानिति || हठप्रदीपिकायाम् || विविधैः प्राणसंयामैर्नाडी चक्रे विशोधिते | सुषुम्णा वदनं भित्त्वा मुखाद् विशति मारुतः || मारुते मध्य संचारे मनः स्थैर्यं प्रजायते | यो मनस्सु स्थिरी भावस्सैवावस्था मनोन्मनी || वासिष्ठे || योगिनश्चित्त शान्त्यर्थं कुर्वीत प्राणनिग्रहम् | प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्ति कल्पितैः || विलोपशान्ति फलदं परमं शान्तिकारणम् | सुभगं संविद स्वास्थ्यं प्राणसंरोधनं विदुः || द्वे बीजे चित्तवृक्षस्य प्रवृत्ति व्रतधारिणः | एकं प्राणपरिस्पन्दो द्वितीयं दृढ वासना || प्. १८अ) चित्तं प्राणप्रिस्पन्दमाहुरागम भुषणाः | तस्मिन् संरोधिते नूनमुपशान्तं भवेन् मनः || मनःस्पन्दोपशान्त्याय संसारः प्रविलीयते | सूर्यालोक परिस्पन्द शान्तौ व्यहृतिर्यथा || अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते | मनः प्रशममायाति निर्वाणमवशिष्यते || इति शास्त्रान्तरे || प्राणायामैर्विना योगं साधयेद् यस्तु मन्दधीः | न स सिद्धगतिं याति पङ्गुर्वाजि गतिं यथेति || योगबीजे || चित्तं प्राणेन संवद्धं स च जीवेषु संस्थितः | रज्वायद्वत् समावद्धो वृषस्तद्वदिदं मनः || नानाविधैर्विचारैस्तु न साध्यं जायते मनः | तस्मात् तस्य जयोपायः प्राणस्य जय एव हि || तर्कैर्ज्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्र भैषजैः | नवशो जायते प्राणः सिद्धोपायं विना प्रिये || उपायं तमविज्ञाय योगमार्गे प्रवर्तते | खण्डज्ञानेन तेनैव जायते क्लेशभाङ्नरः || यो जित्वा पवनं मोहाद् योगमिछति योगिकः | सोपक्वं कुंभमारुह्य सागरं तर्तुमिच्छति || यस्य प्राणाः प्रविलीनास्साधके जीविते सति | पिण्डो न पतितस्तस्य चित्तं दोषैः प्रमुच्यते || अर्द्धे चेतसितस्यैव स्वात्मज्ञानं प्रकाशते || प्. १८ब्) तस्माज्ज्ञानं भवेद् योगाज्जन्मनैकेन पार्वति | तस्माद् योगं तमेवादौ साधको नित्यमभ्यसेत् || मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्ष हेतव | इति पतञ्जलिसत्तं च || छर्दन विदारणाभ्यां प्राणस्येति | चित्तनिरोधः स्यादित्यर्थः | एवं मनोजये सत्येव प्राणजयो भवति | तयोः स्वव्यापारे परस्पर सापेक्ष त्वात् || तथा च वासिष्ठे || अविना भाविनी नित्यं जन्तूनां प्राण चेतसी | कुसुमा मोदवन्मिश्रे तिलतैले इति स्थिते || आधाराधेय वच्चैते एकाभावे विनश्यतः | कुरुतः स्वविनाशेन कार्यं मोक्षाख्य मुत्तमम् || राजयोगे || दुग्धाम्बुवत्तौमिलितौ सदैव तुल्यकोष्ठ्यस्य वायो नासापुटाभ्यां प्रपन विशेषाद्वमनं छर्दनं विधारणं प्राणायामः | ताभ्यां मनसः स्थिति संपादयेत् | क्रियामानसमारुतौ च यावन्मनस्तत्र मरुत् प्रवृतिर्यावन्मरुत् तत्र मनः प्रवृत्तिः | तत्रैक नाशाद् परस्य नाश एक प्रवृत्तेरपरप्रवृत्तिः | अध्वस्तयोः स्वेन्द्रिय वर्गवृद्धिर्विध्वस्तयोर्मोक्ष पदस्य सिद्धिः तत्रापि साध्यः पवनस्य नाशः षडङ्गयोगादि निषेवणेन | मनो विनाशस्तु गुरु प्रसादान्निमेष मात्रेण सुसाध्य एव | यथा प्. १९अ) यथा सदाभ्यासान् मनसः स्थिरता भवेत् | वायुकायदृष्टीनां तु स्थिरता हि तथा तथा || तस्मान् मनो नाश विधौ यतेत यन्नाशतो नश्यति वायुरुग्रः | तस्मात् स्वदेहेन्द्रिय बुद्धिनाशा द्वैत बुद्धिः सहजा स्थितैवेति || सुरेश्वराचार्याः || चित्ते निश्चलतां याते प्राणो भवति निश्चलः | चत्तस्य निश्चलत्वाय योगमष्टाङ्गमभ्यसेदिति || हठप्रदीपिकायाम् || मनस्थैर्ये स्थिरो वायुस्ततो बिन्दु स्थिरो भवेत् | बिन्दुस्थैर्यादथापन्नं पिण्डस्थैर्यं प्रजायत || इति अमृतसिद्धौ || मरणं बिन्दुपातेन जीवनं बिन्दु धारणात् | सिद्धे विन्दौ महारसे सर्वसिद्धिः प्रजायते || बिन्दुर्वेधा बिन्दुर्विष्णुर्बिन्दुर्देवस्सदाशिवः | बिन्दुस्सर्व गतो देवो बिन्दुस्त्रैलोक्य दर्पणः || सर्वतत्त्वाधिको देवो भवरूपो निरञ्जनः | अयं च बिन्दुरूपेण वसते सर्वजन्तुषु || स बिन्दुर्द्विविधो ज्ञेयः पौरुषोवनिसंभवः | बीजं च पौरुषं प्रोक्तं रजश्च स्त्रिसमुद्भवम् || अनयोर्बाह्ययोगेन सृष्टि संजायते नृणाम् | यदाभ्यन्तरतो योगस्तदा योगीति गीयते || बिन्दुश्चन्द्र मयः प्रोक्तो रजस्सूर्यमयं तथा | प्. १९ब्) अनयोः संगमादेव प्राप्यते परमं पदम् || स्वर्गदो मोक्षदो बिन्दुर्धमदोधर्मदस्तथा | तम्मध्ये देवतास्सर्वास्तिष्थन्ते सूक्ष्मरूपतः || इदं तत्त्वमिदं बीजं सर्वसारोय मुच्यते | वायुनापतते बिन्दुर्न चान्यद् बिन्दुसाधनम् || यामवस्थां व्रजेद् वायुर्बिन्दुस्तामवगच्छति | यथा हि साध्यते वायुस्तथा बिन्दु प्रसाधनम् || मूर्च्छितो हरते व्याधिं बद्धः खेचरतां नयेत् | सर्वसिद्धिकरोलीनो निश्चलो मुक्ति दायकः || यथावस्था भवेद् बिन्दोश्चित्तावस्था तथा तथा | चलत्येष यदा वायुस्तदा बिन्दुश्चलस्स्मृतः || बिन्दुश्चलतिमस्यांगे चित्तं तस्यैव चञ्चलम् | चले बिन्दौ चले चित्ते चले वायौ च सर्वदा || जायते म्रियते लोकः सत्यं सत्यमिदं वचः | यो वैनादस्सवै बिन्दुस्तद्धि चित्तं प्रकीर्तितम् || नादो बिन्दुश्च चित्तं च त्रयाणामैक्य साधनम् | यद्यप्येक तया बाह्ये शरीरे संव्यवस्थिताः || तथापि साधिते वायौ सर्वे सिध्यंति निश्चितम् | यदासौ म्रियते वायुर्मध्यमो मध्य योगतः || तदा बिन्दुश्च चित्तं च म्रियते वायुना सह | सर्वाणि बिन्दु तत्वानि शरीरे निवसन्ति च || चरन्ति वायु संचारो म्रियन्ते वायु मारणादिति | प्. २०अ) वासिष्ठे || राम उवाच || अनिशं चरतां देह गेहे गहन गामिनाम् | प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम् || वसिष्ठः || शास्त्रसज्जनसंपर्क वैराग्याभ्यास योगतः | अनास्थायां कृतास्थायां पूर्व संसारवृत्तिषु || यथाभिवांछितध्यानाच्चिरमेकतयोदितात् | एकतत्त्वघनाभ्यासात् प्राणस्पन्दो निरुध्यते || पूरकाद्य निलाभ्यासात् प्राणस्पन्दो निरुध्यते | पूरकाद्यनिलायामाद् दृढाभ्यासादखेदजात् || एकान्तध्यान संयोगात् प्राणस्पन्दो निरुध्यते | ओंकारोच्चारण प्रान्तशब्दतत्त्वानु भावनात् || अवासनमनो ध्यानात् प्राणस्पन्दो निरुध्यते | द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे || संविद्दृशोः प्रशाम्यन्त्योः प्राणस्पन्दो निरुध्यते | प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया || आसनाशन योगेन प्राणस्पन्दो निरुध्यते | अभ्यासे च निराबाधमेतास्तायोग युक्तयः || उपायतामुपायान्ति भव्यस्य भवभेदने | अभ्यासा दृढतां यातो वैराग्य परिलांछितः || यथावासनयामायाः प्राणानां सफलः स्मृतः | यतो बाधानिवर्त्तन्ते विकल्पकलनान्विताः || विकल्प संज्ञयाज्जन्तोः पदंतदवशिष्यत इति | सन्त्यन्येपि प्राणजयोपायाविस्तरभियान लिख्यन्ते प्. २०ब्) तस्माद्धठराजयोगौ संचिन्तितावेतावभ्यसनीयौ | हठ प्रदीपिकायाम् | हठं विनाराजयोगो राजयोगं विना हठः | न सिद्ध्यति ततो युग्मं मनीष्येतौ समभ्यसेत् || हठं विनाराजयोगं राजयोगं विना हठम् | ये वै चरन्ति तान्मन्ये प्रयास फल वर्जितानिति || वासिष्ठेपि || यावद्विलीनं न मनो न तावद्धासनाक्षयः | न क्षीणावासनायावच्चित्तं तावन्नशाम्यति || यावन् न तत्त्वविज्ञानं न तावच्चित्त संक्षयः | यावन् न चित्तोपशमो न त तावत् तत्त्व वेदनम् || यावन् न वासना नाशस्तावत् तत्त्वा गमः कुतः | यावन् न तत्व संप्राप्तिर्न तावद् वासनाक्षयः || तत्त्वज्ञानं मनो नाशो वासनाक्षय एव च | मिथः कारणतां गत्त्वादुस्साध्यानि स्थितान्यतः || तस्माद्राद्यव यत्नेन पौरुषेण विवेकतः | भोगास्थां दूरतः कृत्वा त्रयमेतत् समाश्रयेत् || त्रय एते समं यावन् न स्वभ्यस्ता मुहुर्मुहुः | तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समाशतैः || वासनाक्षय विज्ञानमनोनाशा महामते | समकालं समभ्यस्ता भवन्ति फलदा मुनेः || एकैकशो निषेव्यन्ते यद्येते चिरमम्यलम् | तत्र सिद्धिं प्रयछन्ति मन्त्रास्संकीर्तिता इव || त्रिभिरोभिश्चिराभ्यस्तैर्हृदय ग्रन्थयो दृढाः | निश्शंकमेवत्रुट्यन्ति विसच्छेदाद् गुणा इव || प्. २१अ) जन्मान्तर शताभ्यस्तारामसंसारसंस्थितिः | साचिराभ्यासयोगेन विना न क्षीयते क्वचित् || वासना संपरित्याग समं प्राण निरोधनम् | विदुस्तत्त्व विदस्तस्मात् तदप्ये तत् समाहरेत् || वसना संपरित्यागाच्चित्तं गच्छति चित्तताम् | प्राणस्पन्द निरोधाच्च यथेच्छसि तथा कुरु || असंगव्यवहारि त्वाद् भवभावनवर्जनात् | शरीरनाश दर्शित्वाद् वासना न प्रवर्तते || वासनाविभवे नष्टे न चित्तं संप्रवर्तते | द्वे बीजे रामचित्तस्य प्राणस्पन्दन वासने || एकस्मिंश्चित्तयोर्नष्टे क्षिप्रं द्वेपि प्रणश्यत इति | अथ योगोपायनिरूपणम् | तत्र पतञ्जलि प्रोक्ताः केचित् प्रसंगात् पूर्वमेवोक्ताः | अयमिहोपायक्रमः | प्रथममागमानुमानाचार्यो पदेशमधिगत तत्त्व विषयचेतोभिरतिस्तत् साधनभूतयोगश्रद्धां प्रसूते तदनन्तरमुत्साहः सोत्साहस्य पाश्चात्यासु भूमिकासु स्मृतिस्तत् स्मरणादनाकुलं चित्तं यमनियमादिनि विष्टं यद्योगाङ्ग समाधिमद्भवति | ततश्चाखिलयोगाङ्ग संपन्नस्य प्रज्ञा प्रकर्षाद् भवति संप्राज्ञात समाधिः | तदब्यासात् तद्विषयाच्च प्. २१ब्) परवैराग्याद्भवत्य संप्रज्ञात समाधिरिति | स च कैवल्य हेतुस्सत्व पुरुषान्यथाख्याति पूर्वो हि निरोधश्चित्तमखिल कार्यकरणेन चरितार्थं मधिकारादवसादयति | तत्र प्रथमं मैत्र्यादिभिर्योगिना चित्त प्रसाधनं कार्यम् | ईष्यादि युक्तस्य मनसोजेतुमशक्यत्वात् | तथा च गीतायाम् || असंयतात्मनो योगो दुःप्राप इति मे मतिः | वश्यात्मना तु यतता शक्यो लब्धुमुपायत || इति स्कन्दपुराणे || दुर्निवारमनो वृत्तिर्यावत् सान निवर्तते | किं वदन्त्यपि योगस्य तावन्ने दीयसी कुत || इति राजयोगे || यावत् प्रत्नलेशोस्ति यावत् संकल्प कल्पना | यावच्च मनसोत्कायमब्रह्मचारिणाम् || जरामरण संकीर्णं सर्वक्लेशसमाश्रयम् | तथा यावद् विमार्गगो वायुर्निश्चलो नैव मध्यगः || असिद्धं प्राप्तिस्तावत् तत्त्वस्य काकथेति | हठप्रदीपिकायाम् || यावन्नैव प्रविशति चिरं मारुतो मध्यमार्गे यावद् बिंदुर्न भवतिस्तु दृढः प्राणवातः प्रबुद्धः | यावद्धोम्नस्सहज सदृशं ज्ञायते नैव तत्त्वं तावत् सर्वं वदति यदिदं दंभमिथ्या प्रलाप | इति अमृतसिद्धौ || तावद् बध्योथ सिद्धोसौ नरः सांसारिकी मतः | यावद् द्रवति रसेन्द्रोसौ देहगोब्रह्मरूपकः || असिद्धं तद्विजानीयात् तद्विजानीयाद् वायु कर्मगुणान्वितम् | यावत् प्रस्पन्दते चित्तं बाह्याभ्यन्तरवस्तुषुः || असिद्धं तद्विजानीयाच्चित्तं कर्मवशानुगम् | तथा पतञ्जलिसूत्रम् || प्. २२अ) मैत्रीकरुणामुदितो पेक्षाणां सुखदुःख पुण्यापुण्यविषयाणां भावनातश्चित्त प्रसादनमिति | अत्र सुखादि शब्दास्तद्वत्पराः | रागद्वेषकलुषी कृताशयस्य पुंसः सुखिनि दृष्टे ईर्ष्यापुण्यवति द्वेषः दुःखिनि चोपेक्षा | पापिनि चानुमोदनं जायते | योगी सुखिनी मैत्रीं दुःखिनि करुणां पुण्यवति मुदितां पापिन्युपेक्षां भावयन् | सकलखेदमूल रागद्वेषौ समूलमुन्मूलयति | ततश्चित्तं प्रसीदति प्रसन्न चित्तस्य सुलभो योग इति अभिमतार्थ ध्यानादपि चित्तं स्थिरं भवतीत्ये तदुक्तं यथाभिमत ध्यानाद्वेति सूत्रेण | वासिष्ठे || चित्तं कारणमर्थानां तस्मिन् सति जगत् त्रयम् | तस्मिन् क्षीणे जगत् क्षीणं तच्चिकित्स्यं प्रयत्नतः || हस्तं हस्तेन निष्पिष्यदन्तैर्दन्तान्विचूर्ण्य च | अङ्गामङ्गैः समाक्रम्य जयेदादौ स्वकं मनः || विषयान् प्रतिभोः पुत्र सर्वाने बहि सर्वथा | अनास्था परमाह्येषा सायुक्तिर्मनसो जये || एषैवपरमायुक्तिरनयैव महामदः | स्वमनोमत्त मातङ्गो द्रागित्येव विदम्यते || चीत्तस्य भोगैर्द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् | गुरुशुश्रूषया भागमव्युत्पन्नस्य सत् क्रमे || प्. २२ब्) किञ्चिद् व्युत्पत्ति युक्तस्य भागं भोगैः प्रपूरयेत् | गुरुशुश्रूषयाभागौ भागं शास्त्रार्थ चिन्तया || व्युत्पत्तिमनु पातस्य पूरयेच्चेतसोन्वहम् | द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यान गुरु पूजया || प्रज्ञाविचारवश तस्सममेव सदासुत | न शक्यते मनोजेतुं विनायुक्तिमनिन्दिताम् || अंकुशेन विनामत्तो यथादुष्टमतङ्गजः | अध्यात्मविद्याधिगमस्साधु संगम एव च || वासना संपरित्यागः समं प्राणनिरोधनम् | एतास्तायुक्तयः श्रेष्ठाः सन्ति चित्त जये किल || सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये | चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोञ्जनैः || विमूढाः कर्त्तुमुद्युक्ता ये हठाच्चेतसोजयम् | ते विनिघ्नंति नागेन्द्र मुन्मत्तं विसतन्तुभिरिति || अथ सुगमानादानु संधानाद्यायोगोपायानिरुप्यन्ते | हठप्रदीपिकायाम् | इन्द्रियाणां मनो नाथो मनो नाथश्च मारुतः मारुतस्य लयोनाथस्स लयो नादमाश्रितः | अयमेव तु मोक्षाख्यो अस्तु वापि मतान्तरे | मनः प्राणलयो नादो न च कश्चित् प्रभिद्यते || मनोमत्त गजेन्द्रस्य विषयोद्यान चारिणः | नियामन समर्थोयं निनादो निशितांकुशः || प्. २३अ) मकरन्दं पिबन्भृङ्गो गंधान्नापेक्षते यथा | नादासक्तं तथा चित्तं विषयान्नाभि वाञ्छति || काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति | नादे प्रवर्तितं चित्तं नादेन सह लीयते || विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बु वन्नरः | एकीभूयाथ सहसा चिदाकाशे विलीयते || श्री आदिनाथेन सपादकोटि लय प्रकाराः कथिता जयन्ति | नादानुसंधानकमेव कार्यं मन्यामहेनान्यतमं लयानाम् | औदासीन्य परो भूत्वा सदाभ्यासेन संयमी | उन्मनी करणं सद्यो नादमेवावधारयेत् || कीदृशमौदासीन्यम् || नीतेकालेका पटीवा पटीवा पथ्याहारे गोपयो वा पयो वा | भक्ष्ये भिक्षा वृन्दमारण्य कन्दं पाणौ द्रोणीका पराभोज पात्रम् | उन्मन्यवाप्तये शीघ्रं द्वौमार्गौ मम संमतौ | तत्त्वं परमसौख्यं वा नादोपासनमेव वा || सौख्य प्रवृत्त चित्तानां गूढानामपि संमतम् | सद्य आनन्द संधायी जायते नादजोलयः || मुक्तासन स्थितो योगी मुद्रां संधाय शांभवीम् | शृणुयाद् दक्षिणे कर्णे नादमन्तर्गतं सदा || सर्वचिन्तां परित्यज्य सावधानेन चेतसा | नादमेवानु संधत्ते योग साम्राज्यधिष्ठितः || प्. २३ब्) कर्णौपिधाय हस्तेन यः शृणोति ध्वनिं मुनिः | तावच्चित्तं स्थिरं कुर्याद् यावत् स्थिस्पदं व्रजेत् || अभ्यस्य मानो नादोयं बाह्यमावर्त्तयेद्धुनिम् | पश्चाद् विक्षेपमखिलं जित्वायोगी सुखी भवेत् || श्रूयते प्रथमाभ्यासे नादो नाना विधो महान् | वर्तमाने ततोभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः || आदौ जलधि जीमूत भेरीकं भ्रुरसंभवः | मध्ये मर्द्दलशंखोथ घण्टा काहलकास्तथा || अन्ते तु किंकिणी वृन्द वीणा भ्रमर निःस्वनाः | इति नाना विधो नादः श्रूयते देह मध्यगः || महति श्रूयमाणेपि मेघमेर्यादिके ध्वनौ | ततः सूक्ष्मात्सूक्ष्मतरं नादमेवं परामृशेत् || घनमुत्सृज्य वा सूक्ष्मं सूक्ष्मं प्रवृत्य वा घनम् | परं तत्रैव निःक्षिप्य मनोनान्यत्र चालयेत् || यत्र कुत्रापि वा नादे प्रथमं सुस्थितं मनः | तत्रैक सा स्थिरं कुर्यात् तेन सार्द्धं विलीयते || नादोबीजं हठः क्षेत्रमौदासीन्यं जलं स्मृतम् | उन्मनीकल्पलतिका सद्य एवोद् भविष्यति || राजयोगे || यत्र दृष्टि लयस्तत्र भूतेन्द्रिय सनातनी | स्याच्छक्तिः सर्वभूतानां दृष्टिर्लक्ष्येण संगता || प्. २४अ) ऊर्द्ध्वदृष्टिरधो वेध ऊर्द्धवेधस्त्वधोमुखः | आन्ध्ययात्रविधानेन जीवन्मुक्तो भविष्यति || सर्वतो विततादृष्टिः संक्षिप्ता च शनैःशनैः | परतत्त्वमनादर्शं पश्यत्यात्मानमात्मना || प्रथमं निःसृत्यदृष्टिस्संगता यत्र कुत्रचित् | स्थिरीभूता च तत्रैव विनश्यति शनैःशनैः || प्रसह्य संकल्प परंपराणां निषूदने संतत सावधाना | आलम्बनाशादपचीयमाना शनैःशनैः शान्तिमुपैति दृष्टिः | वेदशास्त्रपुराणौघाः सामान्य गणिका इव | एकैव शांभवी मुद्रा गुप्ताकुल वधूरिव || अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष वर्जिता | एषा तु शांभवी मुद्रा सर्वशास्त्रेषु गोपिता || हठ प्रदीपिकायाम् || अन्तर्लक्ष्य विलीन चित्त पवनो योगी यदा वर्तते दृष्ट्या निर्मलता नया बहिरसौ पश्यन्न पश्यत्यपि मुद्रेयं खलु शांभवी भवति | सा युष्मत् प्रसादाद् गुरो शून्याशून्यविवर्जितं स्फूरति यत् तत्त्वं पदं शांभवम् | नादानुसंधान समाधि भाजां योगीश्वराणां हृदये निगूढम् | आनन्दमेकं वचसामवाच्यं जानाति तत्त्वं गुरुनाथ एव | अर्द्धोद्घाटितलोचन स्थिरमना प्. २४ब्) नासाग्रदत्ते क्षणश्चन्द्रार्कावपि लीनतामुपनयेन्निःस्पन्दभावान्तरे | ज्योतीरूपमशेष बाह्यरहितं देदीप्य मानं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् | श्रीशांभव्याः खेचर्याश्च अवस्था चलभेदतः | तारे ज्योतिषि संयोज्य किञ्चिदुच्चालयेद् भ्रुवौ || पूर्वयोगस्य मार्गोयमुन्मनीकरणक्षणात् | केचिदागम जालेन केचिन् नियम संकुलाः || केचित् तर्केर्ण मुह्यन्ति नैव जानन्ति तारकम् | चतुर्विध योगावस्थासुनादभेदः श्रूयते || अवस्थाश्च वक्ष्यन्ते || ब्रह्मग्रन्थिर्भवेद् भिन्न आनन्दः शून्य संभवः | विचित्रे क्षणको देहे नादः संश्रूयते ध्वनिः || विष्णु ग्रन्थिर्यदा भिन्नः परमानन्दसूचकः | अति शून्य विभेदश्च भेरीशब्दस्तदा भवेत् || तृतीयायां ततो भित्त्वा विमायो मर्द्दलध्वनिः | महाशून्यं तथा याति सर्वसिद्धि समाश्रयम् || चित्तानन्दं ततो जित्वा सहसानन्दसंभवः | रुद्रग्रन्थिं ततो भित्त्वा सर्वपीठ गतो निलः || निर्घातो वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् | एकीभूतं तथा चित्तं राजयोगाभिधायकम् || सुरेश्वराचार्याः || प्. २५अ) प्राणो सुषुमणां संप्राप्ते नादोन्तः श्रूयतेष्टधा | घण्टा दुंदुभि शब्दाब्धि वीणावेण्वादि नादवत् || तनूनपात्तत्रितारातारेण तपनोपमः | ब्रह्मनाडी गते प्राणे बिम्बरूपुं प्रकाशयेत् || त्रिपुरासार समुच्चये नादोत्पत्ति विधिः | अथ पार्ष्णि निरुद्धकम्बुनिर्नाध्वजमूलार्पित सव्यपादपार्ष्णिः | र्जुकाय शिरोधरो यतात्मा विषयेभ्यो विनिवर्तितेन्द्रियश्च | काकीवंच्चग्रकृष्टैर्मुहुरुदरदरीं पूरयित्वा समीरैरंगुष्ठाभ्यामुभाभ्यां नररिपु विवरे तर्ज्जनीभ्यां च नेत्रे नासारन्ध्रे निरुध्यस्थिरविमलमतिर्मध्यमाभ्यामथास्यं त्वन्याभिर्नाति गाढं कमलजनिलये स्थापयेन् मानसंस्वं | यथा शक्त्यभ्यासं प्रतिदिवसमेवं विदधतः सुषुम्णांतश्चायं प्रसरति शनैर्देहपवनः | तदा नादोनैजो भवति सहजानन्द जनकः क्रमाद् वीणावादि प्रहतकलवीणा खसमः | आदौ मत्तालि माला जनितरवसमस्तारभूंकार हारीनादोसौ वंशिकस्या निलभरित लसद्वंश निस्वान तुल्यः | घण्टानादानुकारी तदनु च जलधेर्द्ध्वानधीरोगभीरोगर्ज्जत्पर्जन्यघोषः पर इह कुहरे वर्तते ब्रह्मनाडी | विजितो भवती हतेन वायुः सहजो यस्य समुत्थितः प्रणादः | प्. २५ब्) अणिमादि गुणा भवन्ति तस्यामित पुण्यस्य महागुणास्पदस्य | सुरराजतनूं जवैरिरन्ध्रे विनिरुध्य स्वकराङ्गुली द्वयेन | जलधेरिवधीरनादमन्तः प्रसरन्तं सहसा शृणोति मर्त्यः | परिभावयतोपि नादमेनं त्रिदशाधीशतनूजवैरिजातम् | सततं भवती हतस्य जन्तोर्गुणसंप्राप्तिरपेतकल्मषस्य शृङ्गान्यङ्गुलिभिर्निरुध्यविधिवत् को दण्डयोः पण्डितो मध्ये रुद्धमरुन्निरुद्धवृषभ श्रेष्ठं च षष्ठेन्दिर्यम् | साक्षात् तत्क्षणमेव पश्यति शनैस्त्रप्यंतगीतं परंज्योतिस्त्रैपुरमंकमुक्तशशभृल्लक्षावलक्ष प्रभमिति | याज्ञवल्क्यः || एवं वायु जयोपायः प्राणस्य तु वरानने | शक्यमासनमास्थाय समाहितमनास्तथा || करणानि वशीकृत्य विषयेभ्यो बलात् सुधीः | अपान मूर्द्धमाकृष्य प्रणवेन समाहितः || हस्ताभ्यां बन्धयेत् सम्यक् कर्णादि करणानि च | अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां तु चक्षुषी || नासापुटौ तथान्याभ्यां प्रछाद्य करणानि वै | आनन्दानुभवो यावत् तावन्मूर्द्धनि धारयेत् || प्राणः प्रयोज्यते नैव ततस्त्वायुर्विघात कृत् | ब्रह्मरन्ध्रे सुषुम्णायां मृणालान्तर सूत्रवत् || प्. २६अ) नादोत्पत्तिस्त्वने नैव शुद्धस्फटिक सन्निभः | आमूर्द्धावर्तते नादो वीणावाद वदुत्थितः || शंखध्वनि निभस्त्वादौ मध्ये मेघ ध्वनिर्यथा | व्योमवर्त्मगते नादे गिरिप्रस्रवणं यथा || व्योमरन्ध्रगते वायौ चित्ते चात्मनि संस्थिते | सदा नन्दी भवेद् योगी वायुस्तेन जितो भवेदिति || स्कन्दपुराणे || पवने गगने प्राप्ते ध्वनिरुत्पद्यते महान् | घण्टादीनां प्रवाद्यानां ततः सिद्धिरदूरतः || इति हठप्रदीपिकायाम् || श्रवण पुटनयननासापुटरोधनं कार्यं श्रीशुद्धसुषुम्णासरणौ स्फुटममलः श्रूयते नादः काष्ठ गोष्ठी प्रसंगेन नादमन्तर्गतं शृणु | पुरामत्स्येन्द्र बोधाय आदिनाथोदित वचः | मनःपाकमवाप्नोति निरालम्बाख्य घोटनम् || नादोपास्तिरतो नित्यमवधेया हि योगिना | नादश्रवणतश्चित्त मन्तरंग तुरंगमः || विशून्यं सर्वमैकाग्र्यं कुत्र चिन्न हि धावति | नादोन्तरङ्ग सारङ्ग बन्धने वा गुरायते || अन्तरङ्गतुरङ्गस्य बन्धने लीयतेपि च | घण्टानिनाद सक्तस्य शब्दनिष्करणस्य च || अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः | ध्वनेरन्तर्गतं ज्योतिरन्तर्गतं मनः || यन्मनो विलयं याति तद्विष्णोः परमं पदम् | प्. २६ब्) तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते || निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते | यत्किञ्चिन्नाम रूपेण श्रूयते शक्तिरेवसा || यस्तछ्रोता निराकारः स एव परमेश्वरः | नादकोटि सहस्राणि बिन्दुकोटि शतानि च || सर्वे तत्र लयं यान्ति यत्र देवो निरञ्जन | इति राजयोगे || चित्ते चलति संसारोऽचले लयः प्रजायते | तस्माच्चित्तं स्थिरं कुर्याद् औदासीन्य परायणः || सदा भवेदुदासीनस्तदा तत्त्वं प्रकाशते | स्वयं प्राकाशिते तत्त्वे स्वानन्दस्तत् क्षणाद् भवेत् || आनन्देन च संतुष्टस्सदाभ्यासरतो भवेत् | सदाभ्यासे स्थिरी भूतेन विधिर्नैव चक्रनः || न किञ्चिच्चिन्तयेद्योगी ह्यौदासीन्य परो भवेत् | न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते || स्वयं प्रकाशिते तत्त्वे तत्क्षणत् तन्मयो भवेत् | मनो दृश्यमिद सर्वं यत्किंचित् स चराचरम् || मनसस्तून्मनी भावाद्वैता भावं प्रचक्षते | जायमाना मनस्कस्य उदासीनस्य तिष्ठतः || मृदुत्वं च परत्वं च शरीरस्यापि जायते | अमनस्क खनित्रेण समूलोन्मूलिनी कृते || अन्तःकरण चाल्ये तु सुखी संजायते मुनिः | श्वाससूत्र समोपेतमिन्द्रियालय संकुलम् || प्. २७अ) शठयित्वा मनोजालं जायते मीनवत्सुखी | प्रशान्तेन्द्रिय वर्गोयं बुद्धिशक्ति समन्वितः || वायुनालयुतं जित्वा मनःशत्रुं सुखी भवेत् | गुणत्रयमयीं रज्जुं सुदृढात्मात्म बन्धिनीं || अमनस्क क्षुरेणैव छित्वा मोक्षमवाप्नुयात् | यथा संलीयते सर्वमस्तं गच्छति भास्करे || करजालं तथा विश्व ममनस्के विलीयते | इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्मलामृते || अमनस्कद्रुदे स्नातः परमामृतमश्नुते | प्रनष्टाश्वासनिःश्वास विध्वस्त विषयग्रहः || निश्चेष्टो निर्गतारंभो ह्यानन्दयति योगिकः उच्छिन्नसर्वसंकल्पो निर्गता शेष चेष्टकः | स्वावगम्यो लयः कोपि जायते वागगोचरः | एकदण्ड त्रिदण्डादि जटाभस्मादिकं तथा || केशोष्णुं च न नग्नत्वं रक्त वस्त्रस्य धारणम् | उत्पन्नस्वावबोधस्य उदासीनस्य सर्वदा || सदाभ्यासरतस्यै तन्न कुत्राप्युप युज्यते | तदा दृष्टि विशेषाश्च विविधा न्यासनानि च || अन्तःकरण भावाश्च योगिनोनोप योगिनः | सदा जाग्रदवस्थायां सुप्तवद्योवतिष्ठते || निश्वासोच्छासहीनश्च निश्चितं मुक्त एव सः | निद्रादौ जागरस्यान्ते यो भावस्तूप जायते || तं भावं भावयन् योगी निश्चितं मुक्त एव सः | प्. २७ब्) यथा सुप्तोत्थितः कश्चिद् विषयान् प्रति पद्यते || जागर्त्येव ततो योगी योगनिद्रा क्षयात् तथा | औदासीन्यामृतौघेन वर्द्धमानेन योगिना || उन्मूलितमनो मूलो जगद् वृक्षः पतिष्यति | यदा यत्र यथा यस्मात् स्थिरं भवति मानसम् || तदा तत्र तथा तस्मान् न तु चाल्यं कदाचन | यत्र यत्र मनो याति न निवार्यं ततस्ततः || अवारितं मनस्तस्मात् स्वयमेव विलीयते | निवार्यमाणं यत्नेन कर्तव्यं नैव शक्यते || उत्तिष्ठति क्षणेनैव मारुतस्य वशादतः | दुर्निवार्यं मनस्तावद् यावत् तत्त्वं न विन्दति || विदिते तु परे तत्त्वे मनोनौ स्तम्भ काकवत् | यथा तुलां तुलाधारश्चञ्चलां कुरुते स्थिराम् || जाते सौख्ये सदाभ्यासान् मनोवृत्तिस्तथात्मनि | विक्षिप्तेकनेकविहाय कलुषं यद्वद् भवेन् निर्मलं निर्वाते स्थित निस्तरङ्ग मुदकं स्वच्छ स्वभावं परं तद्वत् सर्वमिदं विहाय सहसा देदीप्यते निष्कलं तत्त्वं तत् सहज स्वभाव ममलं जाते मनस्के ध्रुवम् | तस्मात् त्यक्ता सकल विषयं निष्कला ध्यात्म योगा द्वायोर्नाशस्तदनु च मनसस्तद्विनाशश्च मोक्षः | सच्चिद् देवं सह प्. २८अ) जममलं निष्कलं निर्विकारं प्राप्त्यै यत्नं कुरुतकुशलाः पूर्वमेवामनस्कम् | चतुर्विधामनोवस्था विज्ञातव्या मनिषिणा | विश्लिष्टं च गतायातं विकल्प विषय ग्रहम् || सुश्लिष्टं च सुशीलं च विकल्पविषयापहम् | ततोभ्यास नियोगेन निरालम्बं भवेद् यदि || तदा समरसी भूतं परमानन्दमेव तत् | सानन्दं निश्चलं चेतस्ततः सुश्लिष्टमुच्यते || अतीव निश्चली भूतं सानन्दं च सूलीनकम् | अभ्यस्यतो मनः पूर्वं विश्लिष्टं च मुच्यते || ततश्चलाचलं किंचित् सानन्दं च गतागतम् | एवं भूतस्य कर्माणि पुण्यानि संशयानि च || प्रयान्ति नैव लिंपन्ति क्रियमाणानि साधुनेति | योगारूढस्य स्वरूपं वदन्तस्यैव समाध्यभ्यास दशायां ब्रह्मानन्दाविर्भावमाह भगवान् वासुदेवः | तथा हि यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निस्पृहस्सर्व कामेभ्यो युक्त इत्युच्यते सदा || यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यत चित्तस्य युज्जतो योगमात्मनः || यत्रो परमते चित्तं निरुद्धं योग सेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्य मतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः || प्. २८ब्) संलब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | तस्मिंन् स्थितो न दुःखेन गुरुणापि विचाल्यते || तं विद्याद् दुःख संयोग वियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगो निर्विस्म चेतसा || संकल्प प्रभवान् कामान् त्यक्ता सर्वा न शेषतः | मनसैवेन्द्रिय ग्रामं विनियम्य समं ततः || शनैः शनैरुपरमेद्बुद्ध्या धृति गृहीतया | आत्मसंस्थं मनःकृत्वा न किञ्चिदपि चिन्तयेत् || यतो यतो निश्चलति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || प्रशान्त मनसंह्येनं योगिनं सुखमुत्तमम् | उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || युज्जन्नेवं सदात्मानं योगी विगतकल्मषः | सुखेन ब्रह्म संस्पर्शमत्यन्तं सुखमश्नुते || सर्वबूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योग युक्तात्मा सर्वत्र समदर्शन || इति श्रुतिश्च || समाधिनिर्द्धूत मलस्य चेतसो निवेशित स्यात्म नियत् सुखं भवेत् | न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तः करणेन गृह्यत इति | विद्यारण्य श्रीपादाः || यावद् यावदहंकारो मिश्रितोभ्यास योगतः | तावत् तावत् सूक्ष्म दृष्टेर्निजानन्दोनुमीयते || प्. २९अ) यद्यप्यसौ चिरं कालं समाधि दुर्ल्लभो नृणाम् | तथापि क्षणिको ब्रह्मानन्दं निश्चाययत्यसौ || इति पातञ्जलेपि || गुण भेदेन चित्तस्य चतस्रोवस्था उक्ताः | व्युत्थानम् | समाधि प्रारंभः | एकाग्रता निरोधश्चेति एषा तु तत्र प्रक्रिया | त्रिगुणात्मक प्रकृति कार्यत्वाच्चित्तमपि त्रिगुणम् | तत्प्रकृतिः पूर्वमेवोक्ता तत्त्व निरूपणावसरे | गुणास्तु सत्वरजस्तमांसि | तत्र सत्वं प्रकाश प्रसाद धर्मशीलम् | रजः प्रवृत्ति परितापशोकादि धर्मशीलम् | तमस्तु प्रवृत्ति निरोधि स्थित्याख्य धर्मशीलं गौरवावरण दैत्यादि धर्मशीलं च एवं च चित्तस्यैता दृश गुणवत् त्वाद् गुणत्रयस्य च परस्परोपमर्द्योपमर्दकरूप विचित्रपरिणाम भेदेन क्षिप्त मूढविक्षिप्तैकाग्र निरोधाख्या भूमिशब्दिताः पञ्चावस्था भवन्ति | तत्र क्षिप्तं रजसा तेषु बाह्यविषयेषु सुखादिषु प्रेरितमत्यन्तमस्थिरम् | मूड्धं तमसा निद्रा वृत्ति मन्मूर्छाद्युपेतं क्रोधादिभिः कृत्याकृत्यविवेकशून्यं परापकार निरतं | विक्षिप्तं क्षिप्ताद् विशिष्टं वैशिष्ट्य चास्थेम बहुलस्य कादाचित् कः स्थेमा | यद्यप्यत्र सत्वो द्रेकोप्यस्ति तथापि स प्. २९ब्) त्वात् किंचिदूनरजस्तमः स्पृष्टत्वात् ऐश्वर्ये शब्दादि विषयेषु च प्रियं भवति सत्व प्राधान्याच्च तत्त्वं प्रणिधित् सदपि तत्त्वस्य तमसापि हि तत्वादणिमादिकमेवैश्वर्यमन्यमानं प्रणिधित्सति | प्रणिधत्ते च क्षणम् | अथ रजोंशेन क्षिप्यमानं तत्रालब्ध स्थिति तत्र प्रियमात्रं भवति | शब्दादिषु स्वर स वाहित्वेन निरूढ प्रेमत्वमिति | क्षिप्ते कादाचित् कस्य समाधेर्विक्षेपाप सर्जनत्वात् | योगेनुपयोगित्वमिति | सत्यप्यत्र वृत्ति निरोधे पारंपर्येणापि मोक्ष साधनत्वा भावाद्धेयत्वमिति तिस्रोप्येता भूमयो हेया एव | एकाग्रनिरुद्धे तु द्वे भूमी सत्वोत्कर्षाद्यथा क्रमं बहिर्वृत्ति निरोध सर्व संस्कार विलयद्वारेण समाध्युपयोगिन्या वित्युपादेये तत्रैकाग्रमेकतानम् | अत्र हि चित्तं सम्यगाविर्भूत सत्वमय गत तमः पटलमपि रजोमात्रया संस्पृष्टत्वाद्धर्मज्ञानवैराग्यैश्वर्योपगमं भवति यथा संप्राज्ञात समाधि संपन्नयोर्मधु भूमिकयोः प्रज्ञाज्योतिषोर्मध्यमयोगिनश्चित्तसत्त्वम् | निरुद्धं तु सकल वृट्तिकं संस्कारमात्रशेषं यथाति क्रान्तभावनीयस्य योगिनश्चित्त सत्वमवगत रजोलेशमलं स्वरूप प्रतिष्ठम् | अब्यासवैराग्य प्. ३०अ) पुटपाक प्रबंध विधूत रजस्तमसो मलस्य बुद्धि सत्वतपनीयस्य स्वरूप प्रतिष्ठायां विषयेन्द्रिय प्रत्याहृतस्यानवसिताधिकारस्यैक तया च कार्य कारिणो विवेकख्याति परं कार्यमवशिष्यत इति | अत्र भावनीय पदमात्मातिरिक्त वस्तु परमिति | एवं चैकाग्रे बहिर्वृत्तिनिरोधः | निरुद्धे च सर्वासां वृत्तिनां संस्कारसहितानां प्रविलय इत्यनर्योर्भूंम्योर्योगस्यास्ति संभव इति | तत्र क्षिप्त मूढे चित्तभूमी व्युत्थानम् | क्षिप्तभूमिः सत्वोद्रेकात् समाधि प्रारम्भः | एकाग्रता निरोधौ पर्यन्त भूमी | प्रतिपरिणामं च संस्काराः | तत्र व्युत्थान जनितास्संस्कारास्समाधि प्रारंभजैस्संस्कारैर्हन्यन्ते | तज्जाश्चैकाग्र जातैः एकाग्रता जनितानिरोधजैः | निरोधा अपि संस्कारैस्तैरेव हन्यन्ते | यथा सुवर्ण संबलितं धायमानं सीसमात्मानं सुवर्णमलं संनिर्दहति एवमेकाग्रता जनितान् संस्कारान् निरोधजा आत्मानं च निर्दहन्तीति | अथोक्तोपायैः स्थिरचित्तस्य योगिनः क्रमेण सविकल्प समाधि प्रकारा आविर्भवन्ति | ततो संप्रज्ञाताख्यो निर्बीजस्समाधिराविर्भवतीत्ये तत् प्रदर्शन पराणि पतञ्जलि सूत्राणि व्याख्या सहितानि प्रदर्श्यन्ते | प्. ३०ब्) क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ ग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः | उक्तौपायैर्लब्धस्थिति कस्य चित्तस्य स्फटिकमणेरिव स्वभावतः सुस्थस्य रजस्तमोभ्यामनभि भवे महाभूत तन्मात्र स्थूलसूक्ष्म रूपग्राह्यैकाग्रता पुर्विकाग्राह्यमयतारूपाग्राह्य समापत्तिः | ततो रजस्तमो लेशानु विद्धान्तः करणैकाग्रता पूर्विका तन्मयतारूपाग्रहण समापत्तिः | ततो स्मिताख्या शुद्धसत्वान्तः करणैकाग्रता पूर्विका तन्मयता रूपाग्रहीतृ समापत्तिश्च भवति | सूत्रे तत्स्थत्वं तदेकाग्रता तदं जनत्वं तन्मयत्वम् | न्यग्भूते चित्ते विषयस्य भाव्यमानस्य चोत्कर्षः | तथा विधा समापत्तिस्तद्रूप परिणाम इत्यर्थः | सा च समापत्तिः सवितर्क निर्वितर्क सविचार निर्विचार भेदेन चतुर्विधा | तत्र शब्दार्थ ज्ञानविकल्पैः संकीर्णासवितर्कायस्यां समापत्तौ शब्दार्थ ज्ञानविकल्प संभिन्नः स्थूलावभासः सावितर्का समापत्तिः | स्मृति परिशुद्धौ स्वरूप शून्ये वार्थमात्रनिर्भासा निर्वितर्का यदा अर्थ मात्र प्रवणेन चेतसा अर्थ मात्रा विष्टेन तदभ्यासान्नान्तरीयकतानुगता प्. ३१अ) संकेत स्मृतिस्त्यक्ता तद्योगे च श्रुतानुगमानविकल्पौ तन्मूलौत्यक्तौ तदा तच्छून्यायां समाधि प्रज्ञायां स्वरूपमात्रेणैव स्थितोर्थः | तत्स्वरूपमात्रयैवन तु विकल्पितेनाकारणापि विद्यते सास्थूल विषयासती निर्वितर्कासमापत्तिः | एतयैव सविचारानिर्विचारा च सूक्ष्मविषया आख्याता सूक्ष्मतन्मात्रेन्द्रियादिः शब्दार्थ विकल्पसहितत्वेन देशकालधर्माद्य नवच्छिन्नः सूक्ष्मार्थः प्रतिभाति यस्यां सा सविचारसमापत्तिः | सा योगिनामेव परं प्रत्यक्षा असदारोपगन्धस्या भावात् | एतासु च समापत्तिषु सवितर्कां स्थूल विषयामपेक्ष्य निर्वितर्कायाः प्राधान्यं ततोपि सूक्ष्मविषयायाः सविचारायास्ततोपि निर्विकल्परूपायाः प्रधान् पर्यन्त सूक्ष्मविषयाया निर्विचारायास्तस्या अपि निर्विचारायाः प्रकृताभ्यासवशान्नैर्मल्पे चित्तं क्लेशवासना रहितं स्थिति प्रवाह योग्यं भवति | ऋतंभरा तत्र प्रज्ञा | तदा च विपर्यय गन्धेनापि न संस्पृष्टा ऋतंभरा प्रज्ञा जायते | श्रुतानुमान प्रज्ञाभ्यामन्य विषया विशेषार्थत्वाद्या ऋतंभरा प्रज्ञासा शब्दानुमान प्. ३१ब्) ज्ञान विलक्षणा सूक्ष्म व्यवहितान् विषयान् स्फुटेनैव रूपेण भासयति | तथा च भाष्य कृद्भिरुत्तोलितं श्लोकद्वयम् | प्रज्ञाप्रसादमारुह्याशोच्यः शोचयते जनान् | भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोनुपश्यति || आगमेनानुमानेन ध्यानाभ्यास बलेन च | त्रिधा प्रकल्पयन् प्रज्ञां लभते योग मुत्तममिति || तज्जस्संस्कारोन्य संस्कार प्रतिबन्धी | एतज्जनितैश्च संस्कारैर्विक्षेपजास्संस्काराः कार्याक्षमा भवन्ति | त एव सबीजस्समाधिः तदेव मुक्ताश्चतस्रः समापत्तयः सहबीजेनालम्बनेन वर्त्तत इति व्युत्पत्या स बीजस्समाधिरित्युच्यते | यस्सविकल्पकः संप्रज्ञात समाधिरिति पूर्वमुक्तः | तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिः | तस्यापि स बीजस्यापि प्रविलये सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या या संस्कार मात्राद्वृत्तिरुदेति तस्यानेति नेतीति केवलं पर्युदासनान्निर्विकल्पको निर्बीजाख्यो संप्रज्ञात समाधिर्भवति | यस्मिन् सति पुरुषः स्वरूपमात्र ज्योतिः प्रतिष्ठः शुद्धो भवति | अयमेव निर्बीज समाध्याख्यो योगः परमपुरुषार्थ हेतुः नैतद्ध्यतिरेकेन मोक्षस्य संभावनाप्यस्ति | प्. ३२अ) अत्र च श्रुतिस्मृतिपुराणेति हासादि वाक्यं प्रमाणयति | वासिष्ठे || दुस्सहाराम संसार विषवेग विषूचिका | योगगारुड मन्त्रेण पावनेनोप शाम्यति || गरुडपुराणे || तथायते तमति मान्यथास्यान्निर्वृतिः परा | योगेन लभ्यते सा तु न चान्येन तु केनचित् || भवताप प्रतप्तानां योगो हि परमौषधम् | परावर प्रसक्ताधीर्यस्य निर्वेद संभवा || स च योगाग्निनादग्ध समस्तक्लेश संचयः | निर्वाणं परमं सर्वं प्राप्नोत्यपि न संशयः || संप्राप्तयोग सिद्धिस्तु पूर्णोयस्त्वात्मदर्शनात् | न किंचिद् दृश्यते कार्यं ते नैव सकलं कृतम् || आत्मारामः सदापूर्णस्सुखमात्यन्तिकं गतः | अतस्तस्यापि निर्वेदं सदानन्द मयस्य च || तपसा भावितात्मानो योगिनस्संयतेन्द्रियाः | प्रतरन्ति महात्मानो योगेनैव भवार्ण वमिति || याज्ञवल्क्य स्मृतौ || इज्यावारदमाहिंसा दान स्वाध्याय कर्मणां | अयं तु परमो धर्मो यद्योगेनात्म दर्शनमिति || महर्षिमातङ्गः || अग्निष्टोमादिकान्यज्ञान्विहाय द्विजसत्तमः | योगाभ्यासरतः शान्तः परंब्रह्माधि गच्छति || ब्राह्मण क्षत्रिय विशांस्त्री शूद्रस्य च पावनम् | शान्तये कर्मणामन्यद्योगान्नास्ति विमुक्तये || प्. ३२ब्) कूर्मपुराणे शिववाक्यम् || अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् | येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् || योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् | प्रसन्नं जायते ज्ञानं साक्षान्निर्वाण सिद्धिदम् || संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः | तेषां नित्याभियुक्तानां माया तत्वं समुत्थितम् || नाशयामि तमः कृत्स्नं ज्ञानदीपेन माचिरात् | यथा || विधूयमोहकलिलं लब्ध्वा योग मनुत्तमम् | गृहस्थो मुच्यते बन्धान् नात्रकार्या विचारणा || तथा वानप्रस्थ प्रकरणे || योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदेति | संवर्तः | अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् || योगाभ्यासरतो नित्य मात्मविद्यापरायण | इति यति धर्मप्रकरणे मनुः || भूतभावानवेक्षेत योगेन परमात्मनः | देहेषु चैवोपपत्तिमुत्तमेव धमेषु च || इति नरसिंहपुराणे || योगाभ्यासरतस्येह पुंसो नश्यति पातकम् | विद्यातपोभ्यां संपन्नो यः पुमान् योग तत्परः || देह द्वयं विहायाशुमुक्तो भवति बन्धनात् | स्कन्दपुराणे || अत्यल्पोपि यथा दीपः सुमहन्नाशयेत् तमः | योगाभ्यासस्तथाल्पोपि महापापं विनाशयेत् || विष्णुधर्मे || प्. ३३अ) यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम् | अपि कीट पतङ्गेभ्यस्तन्नः श्रेयः परं वदः || इत्युक्तः कपिलः पूर्वं देवैर्देवर्षिभिस्तथा | योग एवपरं श्रेयस्तेषामित्युक्त वान्पुरेति || महाभारते योग मार्गं प्रत्याहव्यासः | अपिवर्णश्व कृष्णस्तु नारी वा धर्म कांक्षिणी || तावप्येतेन मार्गेण गच्छेतां परमांगतिम् | यदि वा सर्वधर्मज्ञो यदि वाप्यकृती पुमान् || यदि वा धार्मिक श्रेष्ठो यदि वा पाप कृत्तमः | यदि वा पुरुष व्याघ्रो यदि वा केश धारकः || तरत्येव महादुःखं जरामरणसागरम् | अपि जिज्ञानसमानोपि शब्दब्रह्मा निवर्तत || इति भगवद्गीतायाम् || यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति || योगयुक्तो विशुद्धात्मा विजितात्माजितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् || युञ्जन्नेव सदात्मानं योगीनियतमानसः | शान्तिं निर्वाण परमां मत्संस्थामधि गच्छति || नेहाभिक्रमनाशोस्ति प्रत्यवायोन विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || प्. ३३ब्) वेदेषु यज्ञेषु तपस्सुचैव दानेषु यत्पुण्य फलं प्रदिष्टम् | अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् | तस्माद् योगाय युज्यस्वयोगः कर्मसुकौशलम् | इति योगशास्त्रे || एतद् विमुक्ति सोपानमेतत् कालस्य वंचनम् | यद् व्यावृत्तं मनो भोगादासक्तं परमात्मनि || योगतत्त्व प्रकाशे दत्तत्रेयः || ब्राह्मणः श्रमणो वापि बौद्धौ वा पतितोपि वा | कापालिको वा चार्वाकः श्रद्धया सहितस्सुधिः || योगाभ्यासरतो नित्यं सर्वसिद्धिमवाप्नुयात् | योगबीजे || देव्युवाच || नमस्ते आदिनाथाय विश्वनाथायते नमः | नमस्ते विश्वरूपाय विश्वातीतायते नमः || उत्पत्ति स्थिति संहार कारिणे क्लेश हारिणे | नमस्ते देव देवेश नमस्ते परमात्मने || नमस्ते परिपूर्णाय जगदानन्द हेतवे | सदाशिव जगन्नाथ करुणामृत वारिधे || सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः | तेषां मुक्तिः कथं देव कृपया वद शंकर || सर्वसिद्धि करो मार्गो मायाजाल निकृन्तकः | जन्ममृत्यु जराव्याधि नाशकः सुखदश्च यः || नानामार्गास्त्वया देव कथितास्तु महेश्वर | अधुनामोक्षदं मार्गं ब्रूहि योग विदाम्बर || ईश्वर उवाच || प्. ३४अ) बद्धायेन विमुच्यन्ते देवि मार्गमतः परम् | तमहं कथयिष्यामि तव प्रीत्या सुरेश्वरि || नानामार्गैस्तु दुःप्रापं कैवल्यं परमं पदम् | सिद्धमार्गेण लभ्येत नान्यथा शिवभाषितम् || अनेकशत संख्याभिस्तर्कव्याकराणादिभिः | पतिताः शास्त्र जालेषु प्रज्ञयाते विमोहिताः || अनिर्वाच्य पदं वक्तुं न शक्येत सुरैरपि | स्वात्मप्रकाश रूपं तत् किं शास्त्रेण प्रकाश्यते || निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् | तदेतज्जिवरूपेण पुण्यपाप फलैर्वृतम् || देव्युवाच || परमात्मपदं नित्यं तत्कथं जीवतां गतम् | तत्त्वातीतं महादेव कथं चित् कथयस्व मे || ईश्वर उवाच || सर्वभाव पदातीतं ज्ञानरूपं निरञ्जनम् | वारिवत् स्फुरितं स्वस्मिंस्तत्राहंकार उत्थितः || पञ्चात्मकमभूत्पिंडं धातुबन्ध गुणात्मकम् | सुखदुःखैस्सदायुक्तं जीवभावनयाकुलम् || तेन जीवाभिधा प्रोक्ता विशुद्धे परमात्मनि | कामः क्रोधो भयं चिंता लोभमोहमदारुजः || जरामृत्युश्च कार्पण्यं शोकतन्द्राक्षुधा तृषाः | द्वेषोलज्जा सुखंदुःखं विषादोहर्ष एव च || जाग्रत् स्वप्नः सुषुप्तिश्च शंकागर्वस्तथैव च | एभिर्दोषैर्विनिर्मुक्तस्सजीवश्शिव एव हि || तस्माद् दोष विनाशार्थमुपायं कथयामि ते | ज्ञानं केचिद् वदन्त्यत्र केवलं तत्त्व सिद्धये || प्. ३४ब्) योगहीनं कथं ज्ञानं मोक्षदं भवतीश्वरि | योगोपि ज्ञानहीनस्तु न क्षमो मोक्ष कर्मणि || देव्युवाच || अज्ञानादेव संसारो ज्ञानादेव विमुच्यते | योगेनैषां तु किं कार्यं मे प्रसन्नगिरा वद || ईश्वर उवाच || सत्य मे तत्त्व योक्तं ते कथयामि सुरेश्वरि | ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानेन साधनम् || अज्ञानं कीदृशं चेति प्रविचार्ये विवेकिना | ज्ञानं येन निजं रूपं कैवल्यं परमं शिवम् || आदौ दोषैर्विमुक्तः किं कामक्रोधभयादिभिः | सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते || देव्युवाच || स्वात्मरूपं यदा ज्ञानं पूर्णं तद्व्यापकं तदा | कामक्रोधादि दोषाणां स्वरूपान्नास्ति भिन्नता || पश्चात् तस्य विधिः को वा निषेधोपि कथं भवेत् | विवेकी सर्वदा मुक्तस्संसारभ्रमवर्जितः || ईश्वर उवाच || यदि पूर्ण स्वरूपं तत्सत्यमेतद् वरानने | सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि || सकलात् स्फूर्ति रूपेण संसार भ्रमतां गतः | निष्कलं निर्मलं साक्षात् स्वरूपं गगनोपमम् || उत्पत्ति स्थिति संहार स्फूर्तिज्ञान विवर्जितम् | एवं रूपं स मायातः स कथं मोह सागरे || निमज्जति वरारोहे त्यक्ता विद्यः पुनः पुनः | सुखदुःकादि मोहेषु यथा संसारिणां स्थितिः || प्. ३५अ) तथा ज्ञानी यथा तिष्ठेद्वासना वासितस्तदा | तयोर्नास्ति विशेषोत्र समासंसारभावना || ज्ञानं चेदि दृशं जातमज्ञानं कीदृशं पुनः | ज्ञाननिष्ठो विरक्तोपि धर्मज्ञो विजितेन्द्रियः || विनायोगेन देवोपि न मोक्षं लभते प्रिये | देव्युवाच || अन्यत् किञ्चित् परिज्ञेयं ज्ञानिनां नास्ति शंकर | विरक्तात्मकनिष्ठानां कथं मोक्षो भवेन् न तु || ईश्वर उवाच || अपक्वाः परिपक्वाश्च द्विविधा देहिनः स्मृताः | अपक्वा योगहीनास्तु पक्वा योगेन देहिनः || पक्वो योगाग्निना देही अजडः शोक वर्जितः | जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् || ध्यानस्थोसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् | तानि गाढं नियन्तापि तथाप्यन्यैः प्रबाध्यते || शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानवैस्तथा | अन्यैर्नाना विधैर्जीवैः शस्त्राग्नि जलमारुतैः || शरीरं पीड्यते तैस्तु चित्तं संक्षोभ्यते ततः | तथा प्राण विपत्तौ तु क्षोभमायाति मारुतैः || ततो दुःखशतैर्व्याप्तं चित्तं क्षुब्धं भवेन् नृणाम् | देहावसान समये चित्ते यद्यद् विभावयेत् || तत्तदेव भवेज्जिव इत्येवं जन्मकारणम् | देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः || तस्माज्ज्ञानं च वैराग्यं जपश्च केवलं श्रमः | पिपीलिका यदा लग्ना देहे ज्ञानाद् विमुच्यते || प्. ३५ब्) असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखम् | तस्मान् मूढा न जानन्ति मिथ्या तर्केण चिष्टिताः || अहंकृतिर्यदा यस्य नष्टा भवति देहतः | स तु भवेन्न नष्टो वै व्याधयस्तस्य किं पुनः || जलाग्नि शस्त्रघातादि वधः कस्य भविष्यति | यथा यथा परिक्षीणा पुष्टाबहिः कृतिर्भवेत् || तन्मानेनास्य नश्यन्ति ये सर्वेपि रुगादयः | कारणेन विनाकार्यं न कदाचन विद्यते || अहंकारं विना तद्वद् देहदुःखं कथं भवेत् | देव्युवाच || योगिनः कथ्यमानास्तु किं ते व्यवहरन्ति च | तत्कथं व्यवहारस्तु क्षीयते वद शंकरं || देहावसानमथवा तेषां भवति कीदृशम् | एतन्मे संशयं देव छेत्तु मर्हसि पावन || ईश्वर उवाच || शरीरेण जितास्सर्वे शरीरं योगिभिर्जितम् | तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् || इन्द्रियादि मनोबुद्धि कामक्रोधादिकंजितम् | तेनैव विजितं सर्वं नासौ केनापि बाध्यते || महाभूतानि तत्त्वानि संहृतानि क्रमेण तु | सप्तधातु मयो देहो दग्धो योगाग्नि नाशनैः || देवैरपि न लक्ष्येत योग देहो महाबलः | छेदबन्धैर्विनिर्मुक्तो नाना शक्तिधरः परः || यथा काशस्तथा देह आकाशादपि निर्मलः | सूक्ष्मात् सूक्ष्मतरो देहः स्थूलात् स्थूलो जडाज्जडः || प्. ३६अ) इच्छारूपो योगि देहः स्वतन्त्रस्त्वजरामरः | क्रीडति त्रिषु लोकेषु लीलया यत्र कुत्रचित् || अचिन्त्य शक्तिमान् योगी नानारूपाणि धारयन् | संहरेच्च पुनस्तानि स्वेछया विजितेन्द्रियः || मरणं तस्य किं देवि पृच्छसीन्दु समानने | नासौ मरण माप्नोति पुनर्योग बलेन च || पुरैवमृत एवासौ मृतस्य मरणं कुतः | मरणं यत्र सर्वेषां तत्रासौ सखि जीवति || यत्र जीवन्ति मूढास्तु तत्रासौ म्रियते सदा | कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते || जीवन्मुक्तस्सदा स्वच्छः सर्वदोष विवर्जितः | विरक्ता ज्ञानिनश्चान्ये देहेन विजितास्सदा || ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः | देव्युवाच || ज्ञानिनश्च मृताये वै तेषां भवति कीदृशी | गतिः कथय देवेश कारुण्यामृत वारिधे || ईश्वर उवाच || देहान्ते ज्ञानिनः पुण्यात् पापान्न फलमाप्यते | यादृशं तु भवेत् तत्र भुक्ता ज्ञानी पुनर्भवेत् || पश्चात् पुण्येन लभते सिद्धेन सहसंगतिम् | ततः सिद्धस्य कृपया योगी भवति नान्यथा || ततो नश्यति संसारो नान्यथा शिव भाषितम् | देव्युवाच || ज्ञानादेव हि मोक्षं च वदन्ति ज्ञानिनस्सदा | न कथं सिद्ध्यति ततो योगः किं मोक्षदो भवेत् || प्. ३६ब्) ईश्वर उवाच || ज्ञानेनैव हि मोक्षो हि वाक्यं तेषां हि नान्यथा | सर्वे वदन्ति खड्गेन जयो भवति तर्हि किम् || विनायुद्धेन वीर्येण कथं जयमवाप्नुयात् | तथा योगेन रह्तं ज्ञानं मोक्षायनो भवेत् || ज्ञानं विनापि मोक्षोपि न सिद्ध्यति कदाचन | तस्मादत्र वरारोहे तयोश्छेदो न विद्यते || जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते | ज्ञानं तु जन्मनैकेन योगादेव प्रजायते || तस्माद् योगात् परतरो नास्ति मार्गस्तु मोक्षदः | देव्युवाच || बहुभिर्जन्मभिर्ज्ञानाद्योगः संप्राप्यते कथं | योगात् तु जन्मनैकेन कथं ज्ञानमवाप्यते || ईश्वर उवाच || प्रविचार्य चिरं ज्ञानान् मुक्तोहमिति मन्यते | किमस्य मननादेव मुक्तिर्भवति तत्क्षणात् || पुमान् जन्मान्तरशतैर्योगा देव विमुच्यते | न तथा भविता योगाज्जन्ममृत्युः पुनः पुनः || प्राणापान समायोगाच्चन्द्रसूर्यैक्यता भवेत् | सप्तधातु मयं देहमग्निना जरयेद् बुधः || व्याधयस्तस्य नश्यन्ति छेद घातादिकास्तथा | तथासौ परमाकार रूपो देह्यवतिष्ठते || किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै | देही च दृश्यते लोके दग्ध कर्पूरवत्स्वयम् || योगात्परतरं पुण्यं योगात्परतरास्थितिः | योगात्परतरं सूक्ष्मं योगमार्गात्परं न हि इति || प्. ३७अ) महाभारते || समीरण गतो वह्निर्दहेत् कृत्स्नां महीमपि | तद्वज्जात बलो योगी दीप्त तेजा महाबलः || अन्तकाल इवादीप्तः कृत्स्नं संशोषयेज्जगत् | विशंति चावशाः पार्थ योगायोग बलान्विताः || प्रजापतीन् ऋषीन् देवान् महाबूतानि चेश्वराः | न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः || ईशते नृपते सर्वे योगस्यामित तेजसः | आत्मनां च सहस्राणि बहूनि भरतर्षभ || योगी कुर्याद् बलं प्राप्यतैश्च सर्वैर्महीं चरेत् | प्राप्नुयाद् विषयं कश्चित् पुनश्चोग्रं तपश्चरेत् || संक्षिपच्च पुनस्तात सूर्यस्तेजो गणानिवेति | मानसोल्लासे || श्रुत्याचार्य प्रसादेन योगाभ्यास वशेन च | ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत् || भुक्तं यथान्नं कुक्षिस्थं स्वात्मत्वे नैव पश्यति | पूर्णा हंताकवलितं विश्वं योगीश्वरस्तथेति || राजयोगे वामदेवं प्रति शिववाक्यम् || राजयोगस्य माहात्म्यं को हि जानाति तत्त्वतः | तज्ज्ञानी वसते यत्र सदेशः पुण्य भाजनम् || दर्शनादर्च्चनात् तस्य त्रिसप्तकुलसंयुताः | अज्ञामुक्ति पदं यान्ति किं पुनस्तत् परायणाः || अन्तर्योगं बहिर्योगं योजानाति विशेषतः | त्वयामयाप्यसौ वन्द्यः शेषैर्वन्द्यस्तु किं पुनरिति || ब्रह्मवैवर्ते कूर्मपुराणे || एककालं द्विकालं वा त्रिकालं नित्यमेव वा | प्. ३७ब्) ये युञ्जते महायोगं विज्ञेयास्ते महेश्वरा || इति गीतायाम् || तपस्विभ्योधिको योगी ज्ञानिभ्योपि मतोधिकः | कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुनेति || ब्रह्माण्डपुराणे || गृहस्थानां सहस्रेण वानप्रस्थ शतेन च | ब्रह्मचारि सहस्रेण योग एव विशिष्यते || इति ब्रह्मवैवर्ते || कृतार्थौ पितरौ तेन धन्यो देशः कुलं च तत् | जायते योगवान्यस्य दत्तमक्षयतां व्रजेत् || दृष्टस्संभाषितः स्पृष्टः पुंप्रकृत्योर्विवेकवान् | नवकोटिशतोपात्तं पुनाति वृजिनं नृणाम् || अयं तु परमो धर्मो यद्योगेनात्म दर्शनम् | इति वासिष्ठे || यस्यानुभवपर्यन्तं तत्त्वे बुद्धिः प्रवर्तते | तद्दृष्टि गोचरास्सर्वे मुच्यन्ते सर्व पातकैः || स्कन्दपुराणे || आसनेनरुजं हन्ति प्राणायामेन पातकम् | विकारं मानसं योगी प्रत्याहारेण मुञ्चति || धारणाभिर्मनोधैर्यं ध्यानादीश्वरदर्शनम् | समाधिनालभेन्मोक्षं त्यक्ता कर्मशुभाशुभम् इति || ननु चित्तवृत्ति निरोधाख्य योगस्य प्रमाण बहिर्भूत त्वात् कथं तज्जन्यज्ञानेनाज्ञान निवृत्तिः | नवाज्ञान निवृत्तिमन्तरामोक्षस्य संभावनाप्यस्ति | तथा च श्रुतिः | तमेव विदित्वाति मृत्युमेति नान्यः पन्था विमुक्तये इति चेन्नहि सत्यं मनसैव तदवाप्तव्यम् | प्. ३८अ) दृश्यते त्वग्न्यया या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरित्यादि श्रुतिबलान्मनः प्रमाणं | तत्त्वमस्यादि वाक्यं तु परोक्षज्ञानजनकमेवेति पक्षो यदा श्रियते तदा योगाभ्यास निरस्त समस्त दोषेण मनसात्म साक्षात्कारोदयो भवेत् | यदा तु यतो वाचो निवर्तन्ते अप्राप्य मनसा सह एतदप्रेमयं ध्रुवमित्यादि श्रुति बलात् प्रमाण सहकारित्वाच्च संस्कारवन्मनो प्रमाणं तत्वमसीत्यादि वाक्यादेवापरोक्ष ज्ञानोदय इति पक्षकस्वीकारस्तदापि समाधि निरस्त समस्त दोषस्य पुंसो महावाक्यादेव साक्षात्कारसंभवः | तथा च विद्यारण्य || ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैक गोचरम् | निर्वात दीपवच्चित्तं समाधिरभिधीयत इति || अमुनावासनाजाले निःशेषे प्रविलोपिते | समूलोन्मूलिते पुण्य पापाख्ये कर्मसंक्षये || बाह्यमप्रतिबद्धं सत्प्राकारोक्षावभासिते | करामलकवद्बोधमपरोक्षं प्रसूयत इति || किं च प्रमाण प्रमेय प्रमातृ निष्ठ त्रिविधा संभावना निवारकस्य सांगयोगानुष्ठानस्य साक्षात्कारोद्देशेन श्रुत्यैव विहित त्वात् | आत्मावारे द्रष्टव्यः श्रोतव्यो मन्तयो निदिध्यासितव्य इति | श्रुतिश्च श्रोतव्यः प्. ३८ब्) श्रुति वाक्येभ्यो मन्तव्यश्चोपपत्तिभिः | मत्वा च सततं ध्येय एते दर्शन हेतव इति श्रवण मनन नियम एवेत्युक्तम् | निदिध्यासनं निर्गुणोपासनरूपध्यानं चासंप्रज्ञात समाधिरूपं वा परिपक्वं स निर्बीज समाधिर्भवति | तथा च विद्यारण्य श्रीपादाः || निर्गुणो पासनं पक्वं समाधिः स्याच्छनैस्ततः | यस्समाधिर्निरोधाख्यस्सोनायासेन लभ्यते || समाधि लाभे पुंसोन्तर संगं वस्तु शिष्यते | पुनः पुनर्वासिते स्मिन् वाक्याज्जायतेत तत्वधीः || योगाभ्यासस्त्वेतदर्थो मृतविन्द्वादिषु श्रुतः | धर्मभेद्यमिमं प्राहुस्समाधिं योगवित्तमाः || वर्षत्येष यतो धर्मामृत धारास्सहस्रशः | अनादाविहसंसारे संचिताः कर्मकोटयः || अनेन विलयं यान्ति शुद्धो धर्मो विवर्द्धते इति | अत्र यद्यपि उदाहृत पुराणादि वाक्येषु प्राणि मात्रस्य योगेधिकारो लभ्यते | तथापि मोक्षरूप फलवति योगे विरक्ताधिकारस्यैवोचितत्वात् | तथा च वायुसंहितायाम् || दृष्टे तथानुश्रविके विरक्तं विषये मनः | यस्य तस्याधिकारोस्मिन् योगेनान्यस्य कस्यचित् || सुरेश्वराचार्याः || इहामुत्रविरक्तस्य संसारं प्रजिहासतः | जिज्ञासोरेव चैकात्म्यं त्रययन्ता ह्यधिकारितेति || प्. ३९अ) अत्रेयं व्यवस्था | चतुर्वर्णेषु ब्राह्मणस्यैव तत्रापि संन्यासिन एव तत्रापि इह जन्मजन्मान्तर विराभ्यस्तयोगेन देहात्म ज्ञानवज्ज्ञानं देहात्मज्ञान बाधकमेतादृशमुत्पन्न तस्य साक्षात्कारस्यैव मोक्षो भवति | गीतायाम् || मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मांवेत्ति तत्वत इति || अन्येषां तु क्षत्रियवैश्यस्त्री शूद्राणां योगाभ्यासेन तत्वनिष्ठानामपि क्रमेण ब्राह्मण जन्मासाद्यैव मोक्षो भवति || तथा च गरुडपुराणे || योगाभ्यासो नृणां येषां नास्ति जन्मान्तरादतः | योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः || स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् | ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् || अनूचानस्ततो यज्वा कर्मन्यासी ततः परम् | ततो ज्ञानित्वमभ्येति योगीमुक्तिं क्रमाल्लभेत् इति || येषां जन्मान्तराभ्यस्त संस्कारो नास्ति तेषां स्त्रीशूद्रवैश्यक्षत्रियाणां योगस्य प्रप्तये मोक्षस्य लाभाय इदानीं तनयोगानुष्ठानेनवा स्ववर्णाश्रमविहित धर्मानुष्ठानेन वा उत्कटसूक्ष्म धर्मान्तरेण वा क्रमेण प्राप्त ब्राह्मण जन्मनां कृत संन्यासानां चिराभ्यस्त योगानां मोक्षो भवतित्ययं क्रमः | प्. ३९ब्) येषां पुनर्जन्मान्तराभ्यस्त संस्कारोनुवर्तते तेषां ते नैव पूर्व संस्कारेण पुनः पुनः प्राप्तयोगानां क्रमेण ब्रह्मजन्मप्राप्ति द्वारा मोक्षो भवतीत्यर्थः | दानधर्मे तु शक्रेण ब्राह्मण्यार्थे तपस्यतेऽयमर्थो मतङ्गाय विस्तरेणोप वर्णितः | कदा मुक्तिर्भवित्रीनो वर्तते नेति चापग | समापृष्टस्तु प्रोवाच ब्राह्मणो भविता यदा || प्रार्थितो मुचुकुन्देन मोक्षार्थमिति केशवः | उक्तवानग्रजो भूत्वा मोक्ष्यसे भव बन्धनात् || भरताख्यो महीपालो धर्मव्याधादयस्तथा | योगाभ्यासरताग्रे ते ब्रह्मज्ञानरता अपि || विप्रजन्मसमासाद्य ते मुक्ता इति श्रूयते | तद्वाक्यानि न लिख्यन्ते ग्रन्थविस्तरभीतितः || एवं च सति जनकादयः क्षत्रियास्तुलाधारादयो वैश्यागार्गी सुलभाद्याः स्त्रियो विदुरपैलवाद्याः शूद्राब्राह्मणजन्मासाद्यैवमुक्ता इति निश्चीयते | ननु निरस्त समस्त शंका कलंक संजात ब्रह्मात्मतत्त्व साक्षात्काराणामपि पुनर्जन्मेत्य संबद्धवद्भासत इति चेत् न सर्वब्रह्मज्ञ चूडामणीनां वसिष्ठादीनामेवानेक जन्मश्रवणात् | तथा च वासिष्ठे वसिष्टं प्रति भुशुंडोक्तिः || मुने ते ब्रह्मपुत्रस्य जन्माष्टममिदं किल | संस्मराम्यष्टमे सर्गे तस्मिन् त्वं मम संगतः || प्. ४०अ) कदाचिज्जायते व्योम्नः कदाचिज्जायते जलात् | कदाचिज्जायते शैलात् कदाचिज्जायते नलात् || राक्षसा हतये विष्णोर्महीमवतरिष्यतः | अधुनैकादशं जन्मरामनाम्रा भविष्यति || वसुदेव गृहे विष्णोर्भुवो भार निवृत्तये | अथुना षोडशं जन्म भविष्यति मुनीश्वर || त्रिणुका जन्मतां यातः षष्ठवारमिदं हरिः | शतं कलियुगानां च हरेर्बुद्धदशाशतमिति संस्मरामित्युत्तरेणान्वयः || गीतायाम् || वहूनिमेव्यतीतानि जन्मानि तव चार्जुन | तानि सर्वाण्यहं वेद न त्वं वेत्थ परं तप || ननु तेषां जगद्रक्षा रूप नियति पालनार्थं जन्मेति चेत् एवं तर्हि प्रकृतेपि ब्राह्मण एव मोक्षाधिकारीति पारमेश्वर नियतेर्विद्यमानत्वात् | ननु जन्ममरणलक्षणसंसाराविवृत्तेस्तत्त्व ज्ञानवैयर्थ्यमिति चेत् न्न | भोगैकनाश्य प्रारब्ध कर्म प्रतिबन्धका पगमे मोक्षस्यावश्यं भावित्वात् | तद्भोगसमयेपि जीवन्मुक्ति करत्वाच्च | तथा च श्रुतिः | तस्य तावदेव चिरं यावन्न विमोक्षेथ संपत्स्ये इत्यादिका | प्रसिद्धश्चायमर्थः श्रुतिस्मृतिपुराणेति हासादिषु | यथा च योगिन एव मुक्तिस्तथात्रापि योगबीजवाक्यान्युदाहरता दर्शितमेव पूर्वम् | ननु काशी प्. ४०ब्) मरणात् प्राणि मात्रस्य मुक्तिः श्रूयते कथं ब्राह्मण एवमोक्षाधिकारीति चेत् | सत्यम् तत्रापि शुभाशुभं कर्म मुक्तवत एव प्राप्त दिव्यशरीरस्यैव विश्वनाथोपदेशाधिकारिणः | श्रुतत्वाद् दिव्यशरीरस्य च ब्राह्मण शरीर समशीलत्वात् व्यक्तश्चायमर्थः | ब्रह्मवैवर्ते || अन्ये तु योगश्रद्धावन्तो योगाभ्यासे सर्वाधिकारश्रवणाद् योगोत्थ तत्त्वज्ञानेन सर्व एव मुच्यन्ते योग हीनानां क्षत्रियादीनां तु क्रममुक्तिरित्याहुः | कूर्मपुराणे ऋषय ऊचुः || भगवन् देवताविघ्न हिरण्याक्ष निषूदन | चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते || कूर्म उवाच || सर्वकर्माणि संन्यस्य समाधिमचलंश्रितः | य आस्ते विश्वतो योगी स संन्यासीन पंचमः || तस्मादेतद्विजातीनामाश्रमाणां चतुष्टयम् | सर्वेषु वेदशास्त्रेषु पंचमोनोप पद्यत इति || यः संप्राप्त निर्बीज समाधिस्स एव संन्यासी ज्ञेयः | सर्वकर्मणां निःशेष तस्त्यक्तत्वात् || साक्षाज्जातमोक्षाधिकारित्वाच्च अत एव योगाभावे संन्यासो दुःसाध्योनर्थाश्च पदे पदे भवन्ति | भगवद्गीतायाम् || यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | नह्य संन्यस्त संकल्पो योगी भवति कश्चन || प्. ४१अ) संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्म न चिरेणाधि गच्छति || ननु बहुकाल साध्ये योगे प्रवृत्तस्य पुरुषस्य दैवान्मध्ये मृतस्य व्यर्थ परिश्रम भयेन प्रचण्ड विघ्नैर्वा विष संसर्ग दोषेण वा योगं परित्यक्तवतो दुरत्यय प्रत्यवाय शंकयावन प्रेक्षावत् प्रवृत्तिरत्र युज्यत इति चेन्न | योगाभ्यास मध्ये मृतस्य योगिनो या गतिः सा वासिष्ठे प्रोक्तायोगसप्तभुमिका विवरणे | भूमिकाश्च वक्ष्यन्ते || श्रीराम उवाच || मूढस्या सत्कुलोत्थस्य प्रवृत्तस्याधमस्य च | अप्राप्तयोग संगस्य कथमुत्तरगं भवेत् || एकामथ द्वितीयां वा तृतीयां चेतरां च वा | आरूढस्य मृतस्याथ कीदृशी भगवन् गतिः || वसिष्ठ उवाच || मूढस्यारूढदोषस्य तावत् संसृतिरातता | यावज्जन्मान्तर शतैर्नोदिता प्रथमात्र भूः || अथवा साधु संगत्या काकतालीय योगतः | संसारस्य परामर्शाद् वैराग्यं समुदेति हि || वैराग्येभ्युदिते जन्तोरवश्यं भूमिकोदयः | ततो नश्यति संसार इति शास्तार्थ संग्रहः || योगभूमिकयोत्क्रान्त जीवितस्य शरीरिणः | भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् || ततः सुरविमानेषु लोकपालपुरेषु च | मेरुपर्वतकुञ्जेषु रमते रमणी सखः || प्. ४१ब्) ततः सुकृत संभारे दुष्कृते च पुराकृते | भोगक्षयात् परिक्षीणे योगी च जायते पुनः || शुचीनां श्रीमतां गेहे गुप्ते गुणवत् तां सताम् | जनित्वा योगमेवैष सेवते योगवासितः || तत्र प्राग्भावनाभ्यस्त योगभूमिक्रमं बुधः | दृष्ट्वा परिपतत्युच्चैरुत्तरं भूमिका क्रमम् || योगबीजे || देव्युवाच || कथयस्व महादेव काकमर्कटयोर्मतम् | महादेव उवाच || अन्य ग्रन्थे मया प्रोक्तं कथयामि सुरेश्वरि | आदिनाथ महामार्ग एक एव हि नान्यथा || द्विधेवसंप्रतीयेत जन्मान्तरविभेदतः | क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा || एके नैव शरीरेण योगाभ्यासाच्छनैः शनैः | चिरात्संप्राप्यते सिद्धिर्मर्कटक्रम एव सः || योगसिद्धीर्विनादेहः प्रमादाद्यदि नश्यति | पूर्ववासनयायुक्तः शरीरं चान्यदाप्नुयात् || ततः पुण्यवशात् सिद्ध्येद् गुरुणा सहसंगतिः | पश्चिमद्वारमार्गेण जायते त्वरितं फलम् || पूर्वजन्मकृताभ्यासात् सत्वरं फलमश्नुते | एतदेव हि विज्ञेयं तत्काकमतमुत्तमम् || तस्मात् काकमतान्नास्ति ह्यभ्यासस्य परं पदमिति | भगवद्गीतायाम् || अर्जुन उवाच || अयति श्रद्धयोपेतो योगाच्चलित मानसः | अप्राप्य योग संसिद्धिं कां गतिं कृष्ण गच्छति || प्. ४२अ) कच्चिन्नो भयविभ्रष्टश्छिन्नाभ्रमिव नश्यति | अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि || एतन् मे संशयं कृष्णछेत्तुमर्हस्य शेषतः | त्वदन्यः संशयस्यास्य छेत्तान ह्युप पद्यते || श्रीभगवानुवाच || पार्थनैवेहनामुत्रविनाशस्तस्य विद्यते | न हि कल्याण कृत्कश्चिद् दुर्गतिं तातगच्छति || प्राप्यपुण्यकां लोकानुषित्वा शाश्वतीस्समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते || बहुकालाभ्यस्तयोगभ्रष्टस्य गतिमाह अथवेति | अथवा योगिनामेव कुले भवति धीमताम् || एतद्धि दुर्ल्लभतरं लोके जन्मयदीदृशम् | तत्र तं बुद्धि संयोगं लभते पौर्वदेहिकम् || यततेपि ततो भूयः संसिद्धौ कुरु नन्दन | पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः || जिज्ञासुरपि योगस्य शब्द ब्रह्माति वर्तते | प्रयत्नाद्यतमानस्तु योगीसंशुद्ध किल्विषः || अनेकजन्मसंसिद्धस्ततो याति परां गतिम् इति | कीदृशोस्ति योगो मयापि ज्ञेय इति श्रद्धया योगं जिज्ञास मानोपि शब्दब्रह्मवेदस्तस्याति वर्तनं चेदं सर्ववेदोक्त सर्व कर्म सर्व फलापेक्षयाधिकं चिरंकालं ब्रह्मादि लोकवास लक्षणं फलं प्राप्नोति यदा योगजिज्ञासा प्. ४२ब्) मात्रेणैतादृशं फलं तदा किमुवक्तव्यं योगाभ्यासेन फलाधिक्यमिति कैमुति कन्याय माह जिज्ञासुरपीत्यादिना | राजयोगे || आदिशक्तिरुमाचैषामत्तो लब्धवती पुरा | अधुना जन्म संस्कारात्त्वमेको लब्धवानसि || अन्य जन्मकृताभ्यासात् स्वयं तत्वं प्रकाशते | सुप्तोत्थितोसौ प्रत्यक्ष ह्युपदेशादिनाविना || इति स्कन्दपुराणे || अमार्गेणापि यो योगं श्रद्दधानस्समभ्यसेत् | सोपि कालेन बहुना ध्रुवं योगमवाप्नुयादिति || जैगीषव्यो यथा विप्रो यथा वैवासितादयः | क्षत्रिया जनकाद्यास्तु तुलाधारादयो विशः || संप्राप्ताः परमां सिद्धिं पूर्वाभ्यस्त स्वयोगतः | धर्मव्याधादयः सप्त शूद्राः पैलवकादयः || मैत्रेयी सुलभागार्गी शाण्डिली च तपस्विनी | एते चान्ये च बहवो नीचयोनि गता अपि || ज्ञाननिष्ठां परां प्राप्ताः पूर्वजन्म समाधितः | किं च पूर्वजन्माभ्यस्त योगाः स्वाभ्यासपुण्यतारतम्येन केचिद् ब्रह्मत्वं केचिद् देवर्षि त्वं केचिद् ब्रह्मपुत्रत्वं केचिद् ब्रह्मर्षि त्वं केचिन्मुक्तित्वं भूपत्वं च प्राप्ताः संतस्तत्रोपदेशं विनैवात्म साक्षात्कारवन्तो वभूवः | यथा हिरण्य गर्भ वसिष्ठनारदसनत्कुमारादि वामदेव शुकादयो जन्म सिद्धा इत्येवं पुराणादिषु श्रूयते || प्. ४३अ) नास्ति राग समं दुखं नास्ति त्याग समं सुखम् | नास्ति शंभु समो देवो नास्ति योग समागतिः || भूमिकास्तु हेय दुःखात्यन्त हानाख्य कैवल्य साधनी भूतं तत्त्वज्ञानं सप्तमप्रज्ञायां निरूपयता भगवता पतंजलिना सप्तप्रोक्ताः | सप्तविधातस्य प्रान्त भूमौ प्रज्ञेति सूत्रेण | तद्व्याख्यानं तु उत्पन्न विवेकख्यातेः पुंसः प्रान्तभूमौ सकलसालम्बन समाधि पर्यन्ते प्रज्ञासप्तविधा भवति | तत्र कार्य विमुक्तिरूपा चतुर्विधा | ज्ञातं मयाज्ञेयं न ज्ञातव्यं किंचिदस्ति | क्षीणाममक्लेशानक्षेतव्यं किंचिदस्ति || अधिगतं मयाहानं प्राप्तामया विवेकख्यातिरिति | प्रत्ययान्तर परिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञाजायते | एषाधीः कार्य विषयनिर्मल ज्ञानरूपत्वात् कार्यविमुक्तिरित्युच्यते | चित्त विमुक्ति स्त्रिधा | चरितार्था मे बुद्धिः | गुणाः कृताधिकारा गिरिशिखर पतिता इवग्रावाणो न पुनः स्थितिं यास्यन्ति | स्वकारणे प्रलयाभिमुखानामेषां मोहाख्य मूलकारणाभावान्निःप्रयोजनवत्त्वाच्च कुतः प्रवाहः | स्वात्मीभूतश्च मे समाधिस्तस्मिन् सति स्वरूपे प्रतिष्ठोह मित्येतादृशी त्रिविधा चित्तविमुक्तिरिति | तदस्याः समस्त प्रज्ञायाः प्. ४३ब्) स्वरूपनिष्ठोहमित्याकारत्वात् स्वरूपस्य च | एतदात्म्यमिदं सर्वं तत्सत्यं स आत्मातत्त्वमसि | किमिहान्यं वा वदिषदिति स एवमेव पुरुषं ब्रह्म ततमपश्यदिति एषत आत्मान्तर्याम्य मृत इति नान्यदतोस्ति द्रष्टेति | अहं त्वमसि त्वं वाहमस्मि सत्वमेव तदित्यादि श्रुतिभि ब्रह्माभेदसिद्धेरहं ब्रह्मास्मीत्याकारो विवेकख्यातौ भवत्येव | अस्या अपि न साक्षान्मोक्षसाधनत्वं किन्त्वे तदनन्तर भाविनिर्विकल्पक द्वारैव तस्यैव सर्ववृत्ति निरोध रूपस्य मुख्ययोगस्य मोक्ष साधनत्वेन पूर्वोपन्यस्तेषु स्मृतिपुराणवाक्येषु निर्द्देशात् | अस्याश्च साधनी भूताया विवेकख्यातेरुत्पत्तौ यमनियमांगानुष्ठानमेव चित्तशुद्धिद्वारानिमित्तमिति वक्ष्यते | एतास्तु वासिष्ठे विस्तरेण प्रोक्ताः | तथाहि वसिष्ठ उवाच || इमां सप्तपदां ज्ञान भूमिमाकर्णया नघ | नानया ज्ञातया भूयो मोहपंके निमज्जति || वदन्ति बहुभेदेन वादिनो योग भूमिकाः | ममत्वभि मतानून मिमा एव सुखप्रदाः || अवबोधं विदुर्ज्ञानं तदिदं सप्तभूमिकम् | मुक्तिस्तु ज्ञेयमित्यास्ते भूमिकाभूमिकान्तरे || प्. ४४अ) ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता | विचारणा द्वितीया तु तृतीया तनु मानसा || सत्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका | पदार्था भाविनी षष्ठी सप्तमी तुर्यगा स्मृता || आसामन्तः स्थितामुक्तिर्यस्यां भूयो न शोचति | एतासां भूमिकानां त्वमिदं निर्वचनं शृणु || किं मूढ इव तिष्ठामि प्रेक्षेहं शास्त्र सज्जनैः | वैराग्य पूर्वमिच्छेति शुभेछेत्युच्यते बुधैः || शास्त्र सज्जन संपर्कैर्वैराग्याभ्यास पूर्वकम् | सदाचार प्रवृत्तिर्वा प्रोच्यते सा विचारणा || विचारणा शुभेच्छाभ्यामिन्द्रियार्थेष्वरक्तता | यत्र सा तनुता भावात् प्रोच्यते तनु मानसा || भूमिकात्रितयाभ्यासाच्चित्तेर्था विरतेर्वशात् | सत्यात्मनि स्थिते शुद्धे सत्वापत्तिरुदाहृता || दशाचतुष्टयाभ्यासादसंसंगफला भृशम् | रूढ सत्व समाचारा प्रोक्ता संसक्तिनामिका || भूमिका पंचकाभ्यासात् स्वात्मारामतया दृढम् | अभ्यन्तराणां बाह्यानां पदार्थानां च भावनात् || परप्रयुक्तेन चिरं प्रयत्नेनाव बोधनम् | पदार्थ भाविनी नाम षष्ठी संजायते गतिः || भूमि षट्कचिरा भ्यासाद् भेदस्यानु पलम्भतः | यत्स्वभावैक निष्ठत्वं साज्ञेया तुर्यगा गतिः || प्. ४४ब्) एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते | विदेहमुक्त विषयं तुर्यातीतमतःपरम् || श्रीराम उवाच || सप्तानां योगभूमी नामभ्यासः क्रियते कथम् | कीदृशानि च चिह्नानि भूमिकां प्रतियोगिनः || वसिष्ठ उवाच || प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान् | स्वर्गापवर्गोन्मुखयोः शृणु लक्षणमेतयोः || किं यत् तन्नाम निर्वाणं वरं संसृतिरेव मे | इति निर्णीय कर्त्ता यः सप्रवृत्त उदाहृतः || चलार्णवयुगच्छिद्र कूर्मग्रीवा प्रवेशवत् | अनेक जन्म नामन्ते विवेकी जायते पुमान् || असारावत संसार व्यवस्थालं ममैतया | किं कर्मभिः पर्युषितैर्दिनं तैरेवनीयते || क्रियातिशय निर्मुक्तं किं स्याद् विश्रमणं परम् | इति निश्चय वान्योक्तः सनिवृत्त इति स्मृतः || कथं विरागवान् भूत्वा संसाराब्धिं तराम्यहम् | एवं विचारणपरो यदा भवति सन्मतिः || विरागमुपयात्यन्तर्वासना स्वनुवासरम् | क्रियासूदाररूपासु क्रमते मोदतेन्वहम् || ग्राम्यासु जड चेष्टासु सततं विचिकित्सति | नोदाहरति कर्माणि पुण्यकर्माणि सेवते || अनन्योद्वेगकारीणि मृदुकर्माणि सेवते | पापाद्विभेति सततं न च भोगमपेक्षते || स्नेह प्रणय गर्भाणि पेशलान्युचितानि च | देशकालोपपन्नानि वचनान्यभि भाषते || यदासौ प्रथमामेकां प्राप्तो भवति भूमिकां | प्. ४५अ) मनसा कर्मणा वाचा सज्जनानुपसेवते | यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते || एवं विचारवान्यस्स्यात् संसारोत्तरणं प्रति | स भूमिका वा नित्युक्तः शेषस्त्वार्य इति स्मृत || विचारनाम्नीमितरामा गतो योगभूमिकाम् | श्रुतिस्मृतिसदाचार धारणाध्यानकर्मणः || मुख्ययाव्याख्ययाख्यातोनुश्रयिष्यति पण्डितान् | पदार्थ प्रविभागज्ञः कार्याकार्य विनिर्णयम् || जानात्यधि गतश्रव्यो गृहं गृहपतिर्यथा | मदाभिमानमात्सर्य दंभमोहातिशायितम् || बहिरण्या स्थितमिव त्यजत्यहिरिवत्वचम् | इत्थं भूतमतिः शास्त्रे गुरु सज्जन सेवया || सुरहस्यमशेषेण यथावदधि गछति | असंसंगाभिधामन्यां तृतीयां योगभूमिकाम् || ततः पतत्यसौ कान्तः पुष्पशययामिवामलाम् | यथावच्छास्त्रवाक्यार्थे मतिमाधायनिश्चलाम् || तापसाश्रमविश्रान्तैरध्यात्म कथन क्रमैः | संसारनिन्दकैस्तद्वद् वैराग्य कथन क्रमैः || शिलाशयासनासीनो जरयत्यायुराततम् | वनावनि विहारेण चित्तोपशमशोभिना || असंगसुखसौख्येन कालं नयति नीतिमान् | अभ्यासात् साधु शास्त्राणां करणात् पुण्यकर्मणाम् || प्. ४५ब्) जन्तोर्यथावदेव देवेयं वस्तु दृष्टिः प्रसीदति | तृतीयां भूमिकां प्राप्य बुधोनु भवति स्वयम् || द्विप्रकारमसं संगं तस्य भेदमिमं शृणु | द्विविधोयमसं संगस्सामान्यः श्रेष्ठ एव च || नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः | इत्यसं जनमर्थेषु सामान्या संगनामकम् || प्राक्कर्मनिर्मितं सर्वंमीश्वराधीनमेव च | सुखं वा यदि वा दुःखं कैर्वात्र मम कर्तृता || भोगाभोग महारोगास्संपदः परमापदः | वियोगायैव संयोगा आधयो व्याधयो धियः || कालः कवलनोद्युक्तः सर्वभावान्विनाशयन् | तिष्ठतीति विचारो यः सामान्यो सावसंगमः || अनेन क्रमयोगेन संयोगेन महात्मनाम् | वियोगेनासतामन्तः प्रयोगेणात्म संविदाम् || पौरुषेण प्रयत्नेन संतताभ्यासयोगतः | करामलकवद्वस्तुन्या गते स्फुटतां दृढम् || नाहं सर्वेश्वरः कर्ता कर्म वा प्राक्तनं मम | कृत्वा दूरतरं नूनमिति शब्दार्थ भावनम् || संसाराम्बु निधेः पारे सारे परमकारणे | यन्मौनमानसं श्रान्तं तछ्रेष्ठा संग उच्यते || यन्नान्तर्न बहिर्नाधो नोर्द्धं नाशासु नाम्बरे | न पदार्थे नापदार्थे न जडे न च चेतने || आसितं भासनं शान्तमभासनमभावनम् | अनाद्यन्तमजं कान्तं तछ्रेष्ठा संग उच्यते || प्. ४६अ) संतोसामोदमधुरस्सकायामलपल्लवः | चित्तनालाग्रसंलीनो विघ्नकंटक संकटः || विवेकपद्मो रूढोन्तर्विवेकार्क प्रकाशितः | फलं फलत्य संसंगां तृतीयां भूमिकामिमाम् || समवायाद्विशुद्धानां संचयात् पुण्यकर्मणाम् | काकतालीष योगेन प्रथमोदेति भूमिका || भूमिः प्रोदितमात्रान्तर मृताङ्कुरिकेव सा | विवेकेनाम्बुसे केनरक्ष्यापाल्या प्रयत्नतः || येनां शेनोल्लसत्येषा विचारेणोदयं न चेत् | तमेवानुदिनं यत्नात् कृषीबल इवां कुरम् || एषा हि परिमृष्टान्तर न्यासां प्रसवैकभूः | द्वितीयां भूमिकां यत्नात् तृतीयां प्राप्नुयात् ततः || श्रेष्ठासंसंगता ह्येषा तृतीया भूमिकात्र हि | भवति प्रोक्तिता शेषसंकल्प कलनः पुमान् || भूमिका त्रितयं ह्येतद् राम जाग्रदिदं स्मृतम् | जाग्रतीवात्रविस्पष्टं भेदबुद्ध्यनुवर्तनात् || उदेति योगयुक्तानामत्रकेवलमार्यता | यां दृष्ट्वा मूढ बुद्धीनामप्युदेति मुमुक्षुता || कर्तव्य माचरन् काममकर्तव्यमनाचरन् | तिष्ठति प्रकृताचारे यस्स आर्य इति स्मृतः || यथाचारं यथा वित्तं यथा शास्त्रं यथा स्थितम् | व्यवहारमुपादत्ते यस्स आर्य इति स्मृतः || प्रथमायामं कुरितं भूमौ विकाशितं ततः | द्वितीयायां तृतीयायां फलत्यार्यत्वम् उत्तमम् || प्. ४६ब्) आर्यतायां मृतो योगी शुद्धः संकल्प संभृतात् | भोगान् भुक्ता चिरं कालं योगवान् जायते पुनः || भूमिकानितयाभ्यासादज्ञाने क्षयमागते | संम्यग् ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे || निर्विभागमनाद्यन्ते योगिनो युक्त चेतसः | समं सर्वं प्रपश्यन्ति चतुर्थीं भूमिकां गताः || अद्वैते स्थैर्य माया ते प्रशममागते | पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः || भुमिका त्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते | चित्तं तु शरदभ्रांशं विलापं प्रविलीयते || सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः | जगद् विकल्पो नोदेति चित्तस्यात्र विलापनात् || पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् | शान्ताशेषविशेषांशस्तिष्ठत्य द्वैतमात्रके || बहिर्गलितनिर्भासो मुदितोन्तः प्रबुद्धवान् | सुषुप्तघन एवास्ते पञ्चमीं भूमिकां गतः || अन्तर्मुखतयातिष्ठन् बहिर्वृत्ति परोपिसन् | परिशान्त तया नित्य निद्रालुखिलक्ष्यते || कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः | षष्ठीं तुर्याभिधामन्यां क्रमात् पतति भूमिकाम् || यत्र नासन्न सद्रूपो नाहं नाप्यननहं कृतिः | केवलं क्षीण मनन आस्ते द्वैतैक्य निर्गतः || निर्ग्रन्थिश्शान्त संदेहो जीवन्मुक्तो विभावनः | अनिर्वाणोपि निर्वाणश्चित्रदीप इव स्थितः || प्. ४७अ) अन्तः शून्यो बहिः शून्यः शून्यः कुंभ इवाम्बरे | अन्तःपूर्णो बहिःपूर्णः पूर्णः कुंभ इवार्णवे || किंचिदेवैष संपन्नस्त्वथवैषन किंचन | षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् || विदेह मुक्तिता तूक्ता सप्तमी योग भूमिका | अगम्या वचसां शान्ता सासीमाभवभूमिषु || कैश्चित् सा शिव इत्युक्ता कैश्चिद् ब्रह्मेत्युदाहृता | कैश्चिद् विष्णुरिति प्रोक्ता कैश्चिच्छून्यमिति स्मृता || अर्थ इत्युदिता कैश्चित् कैश्चित् काल इतीरिता | कैश्चित् प्रकृति पुंभाव विभाग इति भाविता || अन्यैरप्यन्यथा नाना भेदैरात्म विकल्पितैः | नित्यमव्यपदेश्यापि कथंचिद् व्यपदिश्यते || सप्तैता भूमिकाः प्रोक्ता मयातवरघूद्वह | आसामभ्यास योगेन न दुःख मनु भूयत इति || इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीरामचन्द्र सदानन्द सरस्वती शिष्य शिवानन्द विरचित योगचिन्तामणौ प्रथमः परिच्छेदः || १ || अथ योगिनः कृत्याकृत्यनिर्णयः || सम्यगाराधित सद्गुरु प्रसादादासादित स रहस्य सांगोपांगयोगो निरन्तराभ्यसन शीलो यथोक्तं फलं प्राप्नोत्येव | स्कन्दपुराणे || आचार्याद्योगसर्वस्वमवाप्य स्थिरधीस्स्वयम् | यथोक्तं लभते तेन प्राप्नोत्यपि च निर्वृतिमिति || सुरेश्वराचार्याः || प्. ४७ब्) गुरुप्रसादाल्लभते योगमष्टांग संयुतम् | शिवप्रसादाल्लभते योग सिद्धिं च शाश्वतीमिति || श्रुतिश्च || यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || आचार्यवान् पुरुषो वेदेति योगबीजे || मरुज्जयो यस्य सिद्धस्तं सेवेत गुरुं सदा | गुरुवक्त्र प्रसादेन कुर्यात् प्राण जयं बुधः || याज्ञवल्क्यः || गुरवः पंचसर्वेषां तुर्णां श्रुति चोदिताः | मातापिता तथाचार्यो मातुलः श्वशुरस्तथा || एषां मुख्यास्त्रयः प्रोक्ता आचार्यः पितरौ तथा | एषां मुख्य तमस्त्वेक आचार्यः परमात्मवित् || तस्मात् सर्वेषु कालेषु सर्वैर्निश्रेय सार्थिभिः | गुरवः श्रुति संपन्नाः पूज्यावाङ्मानसादिभिरिति || राजयोगे || वेदान्त तर्कोक्तिभिरागमैश्च नाना विधैः शास्त्रकदम्बकैश्च | ध्यानादिभिस्सत्करणैर्नगम्पश्चिन्तामणिं ह्येकगुरुं विहाय | दृष्टिः स्थिरा यस्य विनैव दृश्यं वायुः स्थिरो यस्य विना प्रयत्नं चित्तं स्थिरं यस्य विनावलंबं स एव योगी स गुरुः संसेव्यः | गुरुर्ब्रह्मागुरुर्विष्णुः गुरुर्देवो महेश्वरः | गुरुदेवात् परं नास्ति तस्मात् तं पूजयेत् सदा || गुरुणादर्शिते तत्त्वे तत्क्षणात् तन्मयो भवेत् | मत्वा विमुक्तं चात्मानं मुच्यते नात्रसंशयः || प्. ४८अ) यथा सिद्धरसस्पर्शात् तासं भवति कांचनम् | गुरुपदेश श्रवणाच्छिष्यस्तत्त्वमयस्तथा || न केवलं गुरुपदेशमात्रादेव सिद्धिः | स्वस्यैव परिश्रमादेव सर्वः सर्वमाप्नोति || हठप्रदीपिकायाम् || श्रुति प्रतीतिश्च गुरुप्रतीतिः स्वात्मप्रतीतिश्च मनो निरोधः | एतानि सर्वाणि समुच्चितानि मतानि धीरैरिहसाधनानि || वासिष्ठे || उपदेशक्रमो राम व्यवस्थामात्र पालनम् | ज्ञप्तेस्तु कारणं शुद्धा शिष्य प्रज्ञैव केवलम् || विनिवारित सर्वार्थादपहस्तित बन्धनात् | न स्वधैर्यादृते कश्चिदभ्युद्धरति संकरात् || वैराग्येणाथ शास्त्रेण महत्त्वादि गुणैरपि | यत्नेनापद्विघातार्थं स्वमेवोल्लासयेन्मनः || न तत् त्रिभुवनैश्वर्यान्नकोशाद्धनधारिणः | फलमापद्यते चित्ताद्यन्महत्त्वोप बृंहितात् || राजयोगे || तस्मादुपासीतसम्यक् सहजं प्राप्य सद्गुरोः | अनायासेन सततमात्माभ्यासरतो भवेत् || नित्याभ्यसन शीलस्य स्वयं वेद्यं हि तद् भवेत् | इदं तदिति तद्वक्तुं गुरुणापि न शक्यते || वाङ्मनः कायसंभोगं प्रयत्नेन विवर्ज्जयेत् | ब्रह्माहमस्मीत्यात्मानं सुस्थिरं धारयेत् सदा || हठप्रदीपिकायाम् || वर्ज्जयेद् दुर्ज्जनप्रीतिं वह्निस्त्रीपथ सेचनम् | प्रातःस्नानोपवासादि कायक्लेशादिकं तथा || प्. ४८ब्) अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः | जनसंगं च लौल्यं च षड्भिर्योगः प्रणश्यति || उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाद्विनिश्चयात् | जनसंगपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति || लिंगपुराणे || तप्तांगारसमानारी घृतपिंड समःपुमान् | तस्मान् नारीषु संसर्गं प्रयत्नेन विवर्जयेत् इति || नारीसंगवर्जनवन्महाविघ्नभूतां धूर्त्तगोष्ठिं च प्रयत्नेन विवर्जयेत् | धूर्तस्वरूपं यथायोग तत्व प्रकाशे दत्तात्रेयेणोक्तं | तथाहि | मुदितो दण्डधारी वा काषाय वसनोपि वा | नारायणवचोवादी जटिलो भस्मलेपनः || नमः शिवाय वाक्यो वा स्वाचार परिपूजकः | स्थानद्वादशशुद्धो वा माला बाहुल्य भूषितः || क्रियाहीनो वाक्यशूरः कथं सिद्धिमवाप्नुयात् | न वेषधारण सिद्धेः का कारणं तत् कथा || क्रियैव कारणं सिद्धेः सत्यमेतद्धि सांकृते | शिश्नोदरार्थं योगस्य कथया वेषधारिणः || अनुष्ठानविहीनास्तु वंचयन्त्यखिलान् जनान् | उच्चावचैः प्रलापैस्तेऽकुशलादांभिका नराः || योगिनो वयमित्याहुर्मूढा भोगपरायणाः | शनैः शनैस्तथा विद्वान् योगाभ्यास विवर्ज्जितान् || प्. ४९अ) कृतार्थान्वचनैरेव वर्जयेद् वेषधारिणः | यतस्तेमी विघ्नभूता योगाभ्यासस्य सर्वदा || वर्जयन्ति प्रयत्नेन तादृशान् सुधि यो नरा | इति वासिष्ठे || यस्य स्त्री तस्य भोगेछानिःस्त्रीकस्य क्व भोगभूः | स्त्रियं त्यक्ता जगत् त्यक्तं जगत्त्यक्ता सुखी भवेत् || न विषं विषमित्याहुर्विषया विषमं विषम् | जन्मान्तरघ्ना विषया एकजन्महरं विषम् || यथाशास्त्रं विहरतात्वरा कार्या न सिद्धिषु | चिरकालपरिपक्वा सिद्धिः पृष्ठफला भवेत् || इति मार्कण्डेय पुराणे अलर्कः || भगवन् योगिनश्चर्यां श्रोतुमिछामि तत्वतः | ब्रह्मवर्त्मन्यनुसरन् येन योगीन सीदति || दत्तात्रेयः || संगदोषोद्भवं दुःखं ममत्वा सक्त चेतसाम् | तस्मात् संगं प्रयत्नेन मुमुक्षुस्सन्त्यजेन् नरः || संगाभावान् ममेत्यस्याः ख्यातेर्हानिः प्रजायते | निर्ममत्वं सुखायैव वैराग्याद् दोषदर्शनम् || ज्ञानादेव च वैराग्यं ज्ञानं वैराग्य पूर्वकम् | तद्गृहं यत्र वसति तद्भोज्यं येन जीवति || यन्मुक्तयेतदेवोक्तं ज्ञानमज्ञानमन्यथा | उपभोगेन पुण्यानाम पुण्यानां च पार्थिव || कर्तव्यानां च नित्यानाम कामकरणात्तयोः | असंचयादपूर्वस्य क्षयात् पूर्वार्जितस्य च || कर्मणो बन्धमाप्नोति शरीरं न पुनर्नरः | मानापमानौ या वेतौ प्रीत्यु द्वेग करौ नृणाम् || प्. ४९ब्) तावेव विपरीतार्थौ योगिनस्सिद्धिकारकौ | मानापमानौ यावेतौ तावे बाहुर्विषामृतौ || अपमानो मृतं तत्र मानस्तु विषमं विषम् | चक्षुः पूतं न्यसेत् पादं वस्त्रपूतं पिवेज्जलम् || सत्यपूतां वदेद् वाणीं बुद्धिपूतं विचिन्तयेत् | आतिथ्य श्राद्ध यज्ञेषु देवयात्रोत्सवेषु च || महाजने च सिद्धर्थं न गच्छेद् योगवित् क्वचित् | यथैव अवमन्यन्ते जनाः परिभवन्ति च || तथोद्युक्तश्चरेद् योगी सतां धर्ममदूषयन् | सारभूतमुपासीत ज्ञानं यत्कार्य साधकम् || ज्ञानानां बहुतायेयं योगविघ्नकरी हि सा | इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् || अपि कल्प सहस्रेषु नैवज्ञेयमवाप्नुयात् | वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः || यस्यैते नियता दण्डास्स त्रिदण्डी महामतिः | सर्वमात्मयं यस्य सद सज्जगदी दृशम् || गुणागुणमयं तस्य कः प्रियः को नृपा प्रियः | विशुद्धबुद्धिस्समलोथ कांचनस्समस्तभूतेषु वसन्समाहितः स्थानं परं शाश्वतमव्ययं च परं हि गत्वा न पुनः प्रजायते | समाहितो ब्रह्म परोप्रमादी शुचिस्तथैकान्तरुचिर्जितेन्द्रियः | समाप्नुयाद् योगमिमं माहात्माविमुक्तिमाप्नोति ततश्च योगतः | प्. ५०अ) नाध्मातः क्षुधितः श्रान्तो न च व्याकुल चेतनः | युञ्जीत योगं राजेन्द्र योगीसिद्ध्यर्थमादृतः || रजसा तमसो वृत्तिं सत्वेनरजसस्तथा | संच्छाद्य विमले तत्त्वे स्थितो युञ्जीत योगवित् || एतत् सर्वं समाख्यातं तवालर्क यथार्थवत् | प्राप्स्यसे येन तद्ब्रह्म तत्संक्षेपान् निबोधमे || शशांक रश्मि संयोगाच्चन्द्रकान्तो मणिः पयः | समुत्सृजतिनायुक्तस्सोपमायोगिनस्स्मृता || यथार्क रश्मि संयोगादर्क कान्तो हुताशनम् | आविष्करोतिनैकस्सन्नुपमासापि योगिनः || पिपीलिकाखुनकुलगृहगोधाकपिञ्जलाः | वसन्ति स्वामि वद् गेहे ध्वस्ते यान्ति ततो न्यतः || दुःखं तु स्वामिनो ध्वंसे तस्य तेषां न किंचन | वेश्मनो यत्र राजेन्द्र सोपमायोग सिद्धये || तद्गृहं यत्र वसति तद्भोज्यं येन जीवति | येन संपद्यते स्वार्थस्तत् स्वकं ममतात्रका || अत्यर्पितार्पितैः कार्यं करोति चरणैर्यथा | तथा बुद्ध्यादिभिर्योगी पारक्यैस्साधयेत् परम् || मृद्देहिकाल्पदेहापि मुखाग्रेणात्यणीयसा | करोति मृद्भार च यमुपदेशः स योगिनः || प्. ५०ब्) द्रव्यपूर्णमुपादाय पात्रमरोहतो भुवः | तुङ्गमार्गं विलोक्योच्चैर्विज्ञानं तेन योगिनः || रुरुशावविषाणाग्रमालक्ष्यतिलकाकृतिं | सह तेन विवर्द्धन्ते योगी सिद्धिमवाप्नुयात् || जीवनायालं सर्वस्वे निखाते पुरुषस्य या | चेष्टां तां तत्त्वतो ज्ञात्वा योगिनः कृत कृत्यतेति || स्कन्दपुराणे || नाति तृप्तः क्षुधार्तोन न विण्मूत्र प्रबाधितः | नाध्वखिन्नोन चिन्तार्तो योगं युञ्जीत योगवित् || युक्ताहारविहारश्च युक्तं चेष्टश्च कर्मसु | युक्तस्वप्नावबोधश्च योगी तत्त्वं प्रपश्यति || इति भगवद्गीतायाम् || नात्यश्न तस्तु योगोस्ति न चैकान्त मनश्नतः | न चाति स्वप्न शीलस्य जाग्रतो नैव चार्जुन || युक्ताहार विहारस्य युक्त चेष्टस्य कर्मसु | युक्त स्वप्नावबोधस्य योगो भवति दुःखहा || आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन | सुखं वा यादि वा दुःखं सयोगी परमो मत | इति ब्रह्मपुराणे || रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः | पूर्वाह्ने मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः || योगं युञ्जीतेति संबंधः याज्ञवल्क्यः | प्रातःकाले प्रदोषे च निशीथे च समाहितः | इति लिंगपुराणे || नाजीर्णोनरसोद्गारी न विण्मूत्र प्रबाधितः | प्. ५१अ) नछर्दीनाति सारी च नाति भुक्तः श्रमान्वितः || न चाति कर्मनिरतश्चिन्ता व्याकुलितेन्द्रियः | य युक्तो गुरुकार्ये च न चाति क्षुत्पिपासितः || नाचरेदेह वाधायां दौर्मनस्यादि संभवेद् | इति वायुपुराणे || न व्याध्यार्तः कदाचनेति निषेधानन्तरमुक्तम् | एतान् दोषान् विनिश्चित्य प्रमादाद्योयुनक्ति वै | तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः || जडत्वं बधिरत्वं च मूकत्वं चापि जायते | अन्धत्वं धृतिलोपश्च ज्वरोरोगस्तथैव च || एते दोषाः प्रकुप्यन्ति ह्यज्ञानाद्योयुनक्ति वै | तस्माज्ज्ञानेन शुद्धेन योगी युञ्जन् समाहितः || अप्रमत्तस्सदा चैव न दोषान् प्राप्नुयात् क्वचित् | इति महाभारते || मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप | त्रिकालं नाभियुञ्जीत योगं योगी कदाचन || अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः | युक्तस्सम्यक् तथा योगी मोक्षं प्राप्नोत्य संशयम् || स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् | पुरुषो यत्रत्वारोहेत् सोपानं युक्त मानसः || युक्तस्तथा यथात्मानं युक्तः पार्थिवसत्तम | तद्वदात्म समाधानं युक्तो योगेन तत्त्ववित् || प्. ५१ब्) दुर्गमं स्थानमाप्नोति हित्वादेहमिमं नृप | व्यासः || योगदोषान् समुच्छेद्यान् पंचषान् कवयो विदुः | कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् || क्रोधं शमेन जयति कामं संकल्प वर्जनात् | सत्त्वसंसेवनाद्धीरो निश्चलं | करोत्यमलमात्मानं भास्करोपमदर्शनम् | यथा च नावं कौन्तेय कर्णधारस्समाहितः || महार्णवगतां शीघ्रं नयेत् पार्थिव पार्थिवम् | निद्रामुछेत्तु मर्हति | धृत्याशिश्नोदरं रक्षेत् पाणिपादं च चक्षुषी | चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा || अप्रमादाद् भयं जह्याद् दंभं प्रज्ञोपसेवनात् | एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः || मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः | पूर्वरात्रावरात्रे च धारयेन्मन आत्मनि || कुर्यात् परिचयं योगे त्रैकाल्ये नियतो मुनिः | संनियम्येन्द्रिय ग्रामं क्रोश भांडमना इव || एकाग्रं चिन्तयेन् नित्यं योगान्ने द्विजयेन् मनः | येनो पायेन शक्येत तन्नियन्तुं चलं मनः || तं च युक्तो निषेवेत न चैव विचलेत् ततः | नाभिषज्येतरेवा चाकर्मणामनसापि वा || उपेक्षको यताहारो लब्धालब्धे समो भवेत् | यश्चैनमभिनन्देत यश्चैनमपवादयेत् || समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् | न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् || प्. ५२अ) एवं स्वस्थात्मनस्साधोस्सर्वत्र समदर्शिनः | षण्मासान्नित्य युक्तस्य शब्दब्रह्माति वर्तते || एतस्मिन्निरतो मार्गे विरमेन्न च मोहित इति | देशकालाभावे योगो न सिद्ध्यत्येव ततस्तावेवादौ निरूप्येते | लिंगपुराणे || स्थानं लब्ध्वैव कुर्वीत योगांगानि च वै क्रमात् | अदेश काले योगस्य दर्शनं न च विद्यते || इति मार्कण्डेय पुराणे || सत्त्वस्यानुपपत्तौ च देशकाल विवर्जिते | न सतो दर्शनं योगे तस्मात् तत् परिवर्जयेत् || नातिशीतेन चोष्णे वै द्वन्द्वेनाग्न्य निलात्मके | कालेष्वेतेषु युञ्जीत न योगी ध्यान तत्परः || स शब्देग्न्य निलाभ्यासे जीर्णे गोष्टे चतुष्पथे | शुष्कपत्र च ये नद्यां श्मशाने स सरीसृपे || देशेष्वेतेषु तत्वज्ञो योगाभ्यासं विवर्जयेत् | स्कन्दपुराणे || न तोय वह्नि सामीप्ये जीर्णाख्ये चतुष्पथे | न दंशमशकाकीर्णे न चैत्येन च चत्वरे || केशभस्मतुषांगारकीकसादि प्रदूषिते | नाभ्यसेत् पूति गंधादौ न स्थाने जन संकुल || इति लिंगपुराणादिष्वपि || नाशुभे दुर्जना क्रान्ते मशकादि समन्वित इत्यादि निषेधा द्रष्टव्याः | ब्रह्मपुराणे || प्. ५२ब्) नदंशमशकाकीर्णे योगं युञ्जीत कर्हिचिद् इत्यादि निषेधानन्तरमुक्तम् | दोषानेताननादृत्य मूढत्वाद्योयुनक्ति वै | प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः || बाधिर्यं जडतालोपस्स्मृतेर्मूकत्वमंधता | कासश्च जायते सद्यस्तद्वद ज्ञानयोगिनः || तस्मात् सर्वात्मनाकार्या रक्षायोग विदा सदा | धर्मार्थ काममोक्षाणां शरीरं साधनं यत || इति दत्तात्रेयस्तु || एतद् देशकालनिषेधानन्तरं प्रमादादेवोक्तानेव जडत्वादि दोषानभिधाय तच्चिकित्सा माह | प्रमादाद्योगिनां दोषायद्येतेस्युश्चिकित्सितम् | तेषां नाशाय कर्तव्यं योगिनातन्ति बोध मे || स्निग्धां यवागूमत्युष्णां मुक्ता तत्रैव धारयेत् | वातगुल्म प्रशान्त्यर्थमुदावर्ते तथा दधि || यवागूं वापि पवनं वायुग्रथिं प्रतिक्षिपेत् | तद्वत्कंपे महाशैलं स्थिरं मनसि धारयेत् || विघाते वचसो वापि बाधिर्ये श्रवणेन्द्रिये | तथैवाप्तफलं ध्यायेत् तृष्णार्तो रसनेन्द्रिये || यस्मिन् यस्मिन् रुजो देशे तस्मिंस्तद्रुपकारिणीम् | धारयेद्धारणामुष्णे शीते शीतां विदाहिनीं || कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत् | लुप्त स्मृतेस्स्मृतिस्सद्यो योगिनस्तेन जायते || द्यावापृथिव्यौ वायवग्नी व्यापिनावभिधारयेत् | प्. ५३अ) अमानुषाः सत्त्वजानबाधाश्चैताश्चिकित्सिताः || अमानुषं सत्वमन्तर्योगिनं प्रविशेद् यदि | वायवग्नि धारणाचैतद् देहसंस्थं विनिर्द्दहेत् || एवं सर्वात्मनाकार्यारक्षायोग विदानृप | धर्मार्थ काममोक्षाणां शरीरं साधनं यत || इति अथ विहितानि कथ्यन्ते | तत्र कालः पूर्वमुक्तो वक्ष्यते च | आदित्य पुराणे || एकान्त गिरि दुर्गेषु तीर्थायतनगह्वरे | योगस्याभ्यसनं कार्यमिति तत्त्वविदो विदुरिति || याज्ञवल्क्यः || तपोवनं सुसंप्राप्यफलमूलोदकान्वितम् | तत्र रम्ये शुचौदेशे ब्रह्मघोष समन्विते || स्वधर्मनिरतैः शान्तैर्ब्रह्मविद्भिस्समावृते | वारिभिश्च सुसंपन्ने पुष्पैर्नानाविधैर्युते || फलमूलैः सुसंपन्ने सर्वकामफलप्रदे | देवालये वा नद्यां वा ग्रामे वा नगरेपि च || सुशोभनं मठं कृत्वा सर्वकामसमन्वितम् | तस्मिन्योगं समभ्यसेदित्युत्तरेण संबंधः || योगतत्व प्रकाशे || सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निःप्रभम् | सुलिप्तं गोमयेनैव सुधया वा प्रयत्नतः || मक्षिकामशकैर्दंशैरेतैश्च वर्जितं सदा | दिने दिने च संमृष्टं संमार्जन्याप्रयत्नतः || वासितं च सुगंधेन धूपितं गुग्गुलादिभिरिति | प्. ५३ब्) हठप्रदीपिकायाम् || सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे | एकान्ते मठिका मध्ये स्थातव्यं हठयोगिना || अल्पद्वारमरंध्रगर्तघटितं नात्युच्चनीचापितं सम्यग्गोमयसान्द्रलिप्तमविलं निःशेषजन्तूर्जितम् | बाह्ये मण्डपकूपवेदि रचितं प्राकार संवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः | एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः | गुरुपदिष्टमार्गेण योगमेव सदाभ्यसेत् || इति स्कन्दपुराणे || सर्वबाधा विरहिते सर्वेन्द्रिय सुखावहे | मनः प्रसाद जनने स्रग्धूपामोदमोदिते || इति नन्दिपुराणे || मन्दिरं रम्यविन्यासं मनोज्ञं गन्धवासितम् | धूपामोदाभि सुरभि कुसुमोत्करमण्डितम् || मुनितीर्थ नदीवृक्ष पद्मिनी शैलशोभितम् | चित्रकर्मनिबद्धं च चित्र भेद विचित्रितम् || कुर्याद् योग गृहं धीमान् सुरम्यं शुभवर्त्मना | तथा दृष्ट्वा चित्र गतान् शान्तान् मुनीन्याति मनःशमम् || सिद्धान् दृष्ट्वा चित्र गतान् मतिरभ्युद्यमे भवेत् | मध्ये योग गृहस्याथ लिखेत् संसारमण्डलम् || श्मशानं च महाघोरं नरकाश्च लिखेत् क्वचित् | तान्दृष्ट्वा भीषणा कारान् संसारं सारवर्जितम् || अनवसादो भवति योगी सिद्ध्यभिलाषुकः | पश्यश्च व्याधितान् जन्तून्मृतान्मत्तांश्च लक्षयन् || प्. ५४अ) एवं विधश्च सुद्धात्मा स्थितो योग गृहे शुभे | योगाङ्गान्यभ्यसेति संबंधः लिंगपुराणादिष्वप्येतदेव योगमठलक्षणमुक्तम् | आहारनियमस्य नाडि शुद्धिद्वारा योगेत्यन्तानु कुलत्वादाहार शुद्धौ सत्वशुद्धिरिति श्रुतेश्च नाडी शुद्धेः प्रागाहारो निरूप्यते | तत्र वर्ज्यानि दत्तात्रेयः || अथ वर्ज्यानि वक्ष्यामि योग विघ्न कराणि च | लवणं सर्षपंचाम्लमुष्णं रूक्षं च तीक्ष्णकम् || अतीव भोजनं त्याज्यमतिनिद्राति भाषणम् | इति स्कन्दपुराणे || त्यजेत् कट्वम्ललवणं तीक्ष्णभोजी सदा भवेद् | इति हठप्रदिपिकायाम् || कट्वम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमत्स्यमद्यम् | आजाविमांसदधितक्र कुलत्थकोलपिण्याक हिंगुलम्बुनाद्यमपथ्यमाहुः | भोजनमहितं विद्यात् पुनरुष्णीं कृत्तं तथा | अति लवणसपलं वा प्रसितं शाकोत्कटं वर्ज्यम् || अथादेयानि च | गोधूमशालियवषाष्टिक शोभनान्नं क्षीराज्यमण्डनवनीत सितामधूनि | शुंठीपटोलकफलादिकपञ्चशाकं मुद्गादि चाल्यमुदकं च मुनीन्द्र पथ्यम् | पिष्टं सुमधुरं स्निग्धं गव्यं धातु प्रपोषणम् | मनोभिलषितं योग्यं योगी भोजनमाचरेदिति || प्. ५४ब्) दत्तात्रेयः || आदेयानि च वक्ष्यामि क्षिप्रं योगस्य सिद्धये | क्षीरं घृतं च मिष्टान्नं मिताहारश्च शस्यत इति || केचित् कर्पूरमिछन्ति ताम्बूलं शोभनं तथा | चूर्णेन रहितं शस्तं पवनाभ्यासयोगिनाम् || योगसंग्रहे || भानुनाडी गते प्राणे योगी भोजनमाचरेत् | सोमनाडी गते प्राणे भोजनं नैव शस्यत इति || प्रथमाभ्यासे क्षीरमेवशस्तमित्यात्मारामः | अभ्यासे प्रथमे काले प्रशस्तं क्षीरभोजनम् || ततोभ्यासे दृढी भूतेन तादृङ्नियम ग्रह इति | अत्र ताम्बूल भक्षणं नित्यं ताम्बूल भक्षक गृहस्थ विषयमन्येषां भिक्षूकादीनां निषेधस्योक्त त्वात् | नायमस्ति नियमः क्षीरमेव भोक्तव्यमिति किन्तु देशकालानुसारेण यदा यत् प्राप्यते यच्च स्वरुचि पूर्वकं स्वशरीरे सहते तदेव भुक्ता योगोभ्यसनीय इति ध्येयम् | यच्चोक्तम् | भानुनाडी वाहिन्येव प्राणे योगिना भोजनं कार्यमिति तत् तु यदाकाशगमन सामर्थ्यं योगिनस्स्यात् तदा ज्ञेयम् | तदानीं खलु योगाभ्यासिन उक्तसर्वनियमानुष्ठानस्यानावश्यकत्वस्य वक्ष्यमाणत्वात् प्रथमाभ्यासे तु यदा क्षुधातदैव भोक्तव्यमिति | अन्यथा योगाग्नि निरोधे प्. ५५अ) धातुवैषम्येण नानारोगभस्मकादि संभवेन योग प्रतिबन्धेन तत्वज्ञानानुत्पत्तौ मोक्षासिद्धेः | ननु सायंप्रातर्मनुष्याणामशनं देवनिर्मितम् | अन्तरानाशनं कुर्याद् अग्निहोत्र समो विधिः || यती च ब्रह्मचारी च विधवा च रजःस्वला | पुनर्भोजनताम्बूलं भुक्ता चान्द्रायणं चरेद् इत्यादि धर्मशास्त्रे चतुर्णामपि वर्णाश्रमाणामेकद्विकालभोजनस्य विहित त्वात् कथमनियतं भोजनं नियम्यते | न च योगिनामाश्रमान्तरमस्तिपूर्वोक्तानामेव चतुर्णां वर्णाश्रमाणां योगाभ्यासेधिकारस्योदाहृत पुराणादि वाक्येषु दर्शित त्वादिति चेत् | न तछास्त्रस्यायोगि विषयत्वात् कुतोवगतमिति चेत् | अति तृप्तस्याति क्षुधार्तस्य योगाभ्यास निषेधात् सदा चाभ्यास विधानादवगछामो यदा क्षुधा तदा तदा भोक्तव्यमेवेति | न चैककाल भोजनस्य ज्ञानाङ्गभूतस्यानुरोधेन सर्वापेक्षया प्रधान भूतज्ञानस्य लोपो युक्त इति | मुख्यामुख्ययोस्संपाते मुख्यं बलवदिति न्यायात् | अत एव श्रुत्यन्तरे योगाभ्यासिनां भोजनानियमः श्रुयते | तथाहि एककालं द्विकालं वा चरेत् परमहंसकः | येन केन प्रकारेण ज्ञानाभ्यास परो यतिरिति || प्. ५५ब्) अत्र यति पदं आश्रमत्रयस्याप्युप लक्षणं | अथावश्यं ज्ञातव्यं शरीरे योगिना यत्तन्निरूप्यते || न च तज्ज्ञानं विनायोग सिद्धिरस्ति | तथा च गोरक्षः | षट्चक्रं षोडशाधारं द्विलक्ष्यं व्योमपञ्चकम् | स्वदेहे येन जानन्ति कथं सिद्ध्यन्ति योगिनः || एक स्तंभं नवद्वारं गृहं पञ्चाधि दैवतम् | स्वदेहे येन जानन्ति कथं सिद्ध्यन्ति योगिन इति || षट्चक्रषोडशाधारावक्ष्यन्ते | द्विलक्ष्यं बाह्यमाभ्यन्तरं च | भ्रूघ्राणादिकं मूलाधारादिकं च | व्योमपञ्चकम् | हृत्कण्ठतालु भ्रूब्रह्मरन्ध्रान्तम् | एक स्तंभं सुस्तंभेनेव गृहं मनसेदं शरीरंध्रियते तेन स्तंभरूपं मन एव | मूलाधारस्वाधिष्ठान मणि पुरानाहत विशुद्धान्तेषु यथाक्रमं ब्रह्मविष्णुरुद्रेश सदाशिवा देवताः | याज्ञवल्क्यगीतायाम् | गार्ग्युवाच || भगवन् ब्रूहि मे स्वामिन् नाडीशुद्धिं विधानतः | केनोपायेन शुद्धाः स्युर्नाडयस्सर्वदेहिनाम् || उत्पत्तिं चापि नाडीनां धारणां च यथा विधि | कंदश्च कीदृशः प्रोक्तः कति तिष्ठन्ति वायवः || स्थानानि चैव वायूनां कर्माणि च पृथक् पृथक् | विज्ञातव्यानि यान्यस्मिन् देहे देहभृतांवर || वक्तुमर्हसि तत्सर्वं त्वत्तोवेत्ता न विद्यते | इत्युक्ते भार्यया तत्र सम्यक् तद्गत मानसः || प्. ५६अ) गार्गीतां च समालोक्य तत्सर्वं समभाषत | शरीरं तावदेवेदंषस्मवत्यङ्गुलात्मकम् || विद्ध्ये तत्सर्वजन्तूनां स्वाङ्गुलीभिरिति प्रिये | शरीरादधिकः प्राणो द्वादशाङ्गुलमानतः || चतुर्द्दशाङ्गुलं केचिद् वदन्ति मुनिसत्तमाः | द्वादशाङ्गुलमेवेति वदन्ति ज्ञानिनो नराः || प्राणोपानस्समानश्च उदानोव्यान एव च | नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः || एते नाडीषु सर्वासु चरन्ति दशवायवः | एतेषु वायवः पञ्चमुख्याः प्राणादयस्स्मृताः || तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे | प्राण एवैतयोर्मुख्यस्सर्व प्राणभृतां सदेति || नकुलीशयोगपरायणे || कोष्ट्यो वायुः प्राणनादि कर्मभेदाद् यथा क्रमम् | प्राणापानसमानादि मानान्तरमुपागत इति || अमृतबिन्दौ || असंख्या वायवो देहे सन्ति यद्यप्युदाहृताः | तथापि श्रेष्ठ कर्त्तारौ प्राणापानौ कृतावुभौ || नाडीशुद्धिरुपरिष्टाद्वक्ष्यते | याज्ञवल्क्यः || आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यमे | प्राणालयमिति प्राहुः पादांगुष्ठे च केचन || अधश्चोर्द्धं च कुण्डल्याः परितः प्राणसंज्ञकः | तिष्ठत्ये तेषु चतुर्षु प्रकाशयति दीपवत् || अपाननिलयं केचिद् गुदमेढ्रोरुजानुषु | उदरे चेक्षणे कट्यां जंघेनाभौ वदन्ति हि || प्. ५६ब्) व्यानः श्रोत्राक्षि मध्ये च कृकट्यां गुल्फयोरपि | घ्राणे गले स्फिचो देशे तिष्ठत्यत्र न संशयः || उदानस्सर्व संधिस्थः पादयोर्हस्तयोरपि | समानवायुरेवैकस्साग्निर्व्याप्यव्यवस्थितः || अचर्भिस्सह सर्वत्र सांगोपाङ्गे कलेवरे | नागादि वायवः पंचत्वगस्थ्यादिषु संस्थिताः || तुंदस्थ जलमन्नं च रसादि च समीकृतम् | तुन्दमध्य गतः प्राणःस्तानि कुर्यात् पृथक् पृथक् || उपर्यग्नेर्जलं स्थाप्य त्वन्नादीनि जलोपरि | स्वयं त्व पानं संप्राप्यते नैव सह मारुतः || प्रयाति ज्वलनं तत्र प्राणोमध्यगतः पुनः | वायुना चालितो वह्निरपानेन शनैःशनैः || तदा ज्वलति विप्रेन्द्रे सकले देह मध्यमे | ज्वालाभिर्ज्वलनस्तत्र प्राणेन प्रेरितस्ततः || जलमत्युष्णमकरोत्कोष्ठ मध्ये गतं तदा | अन्नं व्यञ्जनसंयुक्तं जलोपरिसमर्पितम् || ततः सुपक्वमकरोद्वह्निस्संतप्तवारिणा | स्वेदमूत्रे जलं स्यातां रूपवीर्ये रसो भवेत् || पुरीषमन्तं स्याद् गार्गिप्राणः कुर्यान् पृथक् पृथक् | समानवायुना सार्द्धं रसं सर्वासु नाडीषु || व्यापपयन्छ्वास रूपेण देहे चरति मारुतः | व्योमरन्ध्रैश्च नवभिर्विण्मूत्रादि विसर्जनम् || कुर्वन्ति वायवः सर्वे शरीरेषु निरन्तर | प्. ५७अ) निश्वासोच्छ्वासकासाश्च प्राणकर्मेति कीर्तितम् || अपानवायोः कर्मै तद्विण्मूत्रादि विसर्जनम् | हानोपादान चेष्टादि व्यानकर्मापि चेष्यते || उदान कर्म तत्प्रोक्तं देहस्योन्नयनादि यत् | शोषणादि समानस्य शरीरे कर्म कीर्तितम् || उद्गारादि गुणो यस्तु नागकर्मेति चोदितम् | निमीलनादि कूर्मस्य क्षुतं च कृकरस्य च || देवदत्तस्य विप्रेन्द्रे जृंभणं कर्म कीर्तितम् | धनञ्जयस्य शोभादि सर्वकर्म प्रकीर्तितम् || तथा पञ्चानामपि प्राणादीनां स्थानवर्णबीजानि नकुलीश योग परायणे || प्राणोघ्राणाग्र हृन्नाभि पादाङ्गुष्ठांत संस्थितिः | नीलःसोंकाररेफादि बीजेन विनियोजितः || कृष्णोपानः कृकटिस्थः पृष्ठपृष्ठोन्त पार्ष्णिगः | स तारकनकारान्त बीजेन विनियोजितः || शक्रचापनिभो व्यानस्त्वगिन्द्रिय निकेतनः | तारकोपेतयान्तांत बीजतेजो विराजितः || मूर्द्धस्थो मध्यताल्वग्रकण्ठहृत्पत्तलाश्रयः | उदानोह्यरुणछायस्तारकाक्रान्तपीतयुक् || श्चेतस्समानो हृन्नाभि सर्वसन्धि निकेतनः | प्रणवाक्रान्तलान्तेन बीजेनात्यन्तमुज्ज्वलः || रेफस्यादिर्यकारः स चासावोंकारः प्रणवसहितो यकारः प्राणस्य बीजमित्यर्थः | प्. ५७ब्) सतारकः सप्रणवः स चासौ न कारस्यान्तः पकारस्तेन बीजेन रञ्जितोपानः | यान्तान्तोलकारः | सोंकारोलकारोव्यानस्य बीजमित्यर्थः | अत्यरुणोत्यन्त लोहितस्ताल्वग्रंघण्टिका कोटिः | पत्तलं चरण तलम् | यान्तो रेफः सोंकारो रेफ उदानस्य बीजमित्यर्थः | प्रणवेनाक्रान्तश्चासौ लान्तो वकारश्च सोंकाकारो वकारस्समानस्य बीजमित्यर्थः | अत्र सर्वत्र वायूनामरूपाणामपि नीलादि वर्णविशेषो ध्यानार्थमभिहित इति इष्टव्यम् | याज्ञवल्क्यः || देहमध्ये शिखिस्थानं तप्तजाम्बू नद प्रभम् | त्रिकोणं तु मनुष्याणां चतुरस्रं चतुष्पदाम् || मण्डलं तु पतङ्गानां सममेतद् ब्रवीमिते | तन्मध्ये तु शिखातन्वी सदा तिष्ठति पावनी || देहमध्यं च कत्रेति श्रोतुमिच्छसि चेच्छृणु | गुदात्तुद्व्यङ्गुलादूर्द्धं मधोमेढ्रात्तुद्व्यंगुलात् || देहमध्यं तयोर्मध्यं मनुष्याणामितीरितम् | चतुष्पदां तु हृन्मध्ये तिरश्चांतुन्द मध्यमे || द्विजानां तु वरारोहे तुन्दमध्यमितीरितम् | कन्दस्थानं मनुष्याणां देहमध्यान्नवांगुलम् || चतुरङ्गुलविस्तार मायामं च तथा विधम् | अण्डाकृति वदाकारं भाषितं तत्त्व वादिभिः || प्. ५८अ) चतुष्पदां तिरश्चां च द्विजानां तुन्दमध्यमे | तन्मध्येनाभिरित्युक्तं नाभौ चक्र समुद्भवः || द्वादशार युतं तच्च तेन देहः प्रतिष्ठितः | चक्रेस्मिन् भ्रमतो जीवः पुण्यपाप प्रचोदितः || तंतु पञ्जर मध्यस्थो यथा भ्रमति लूतकः | जीवस्य मूलचक्रेस्मिन् नधः प्राणश्चरत्यसौ || प्राणारूढो भवेज्जीवस्सर्वदेहेषु सर्वदा | तस्योर्द्धं कुण्डली स्थानं नाभेस्तिर्यगधोगतम् || अष्टप्रकृतिरूपा सा अष्टधा कुण्डली कृता | यथावद्वायु संचारं जलान्नादीनि नित्यशः || पतितः कन्दपार्श्वेषु निरुद्ध्यैव सदा स्थितः | मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा || योगकाले त्वपानेन प्रबोधं याति वह्निना | स्फुरन्ती हृदयाकाशे नागरूपा महोज्ज्वला || वायुर्वायु सखेनैव ततो याति सुषुम्णाया | कन्दमध्ये स्थिता नारी सुषुम्णेति प्रकीर्तिता || तिष्ठन्ति परितः सर्वाश्चक्रेस्मिन्नाडि संज्ञकाः | नाडीनामपि सर्वासां परागार्गि चतुर्दश || इडा च पिङ्गला चैव सुषुम्णा च सरस्वती | वारुणी चैव पूषा च हस्तिजिह्वा पयस्विनी || विश्वोदरीकुहुश्चैव शंखिनी च यशस्विनी | अलंबुषा च गान्धारी मुख्यास्त्वेताश्चतुर्दश || तासांमुख्यतमास्तिस्रस्तिसृष्वेकोत्तमामता | मुक्तिमार्गेति सा प्रोक्ता सुषुम्णा विश्वधारिणी || प्. ५८ब्) कन्दस्य मध्यमे गार्गि सुषुम्णा सुप्रतिष्ठिता | पृष्ठमध्ये स्थिता नाड्या सहमूर्द्ध्नि स्थिता सदा || मुक्तिमार्गेति सा प्रोक्ता ब्रह्मरन्ध्रेति कीर्तिता | अव्यक्ता सैव विज्ञेया सूक्ष्मा च वैष्णवी स्मृता || हठप्रदीपिकायाम् || सुषुम्णा शून्य पदवी ब्रह्मरन्ध्रं महापथम् | श्मशानी शाम्भवी मध्य मार्गश्चेत्येक वाचकमिति || अत्र सुषुम्णाया मुक्तिमार्गत्वं तयोर्द्धमापतन्नमृतत्वमेतीति वक्ष्यमाणया छान्दोग्य श्रुत्यामुक्तिसाधना द्वा धारणादत एवकाशी वदियमविमुक्तमिति समाख्यायते | तथाचोक्तमविमुक्त त्रैविध्यं काशीमीमांसायाम् | त्रीण्याध्यात्मिकाधिदैविकाधिभौतिकानीति सूत्रे | आध्यात्मिका विमुक्तमियं नाडीति स्कन्दपुराणेपि दर्शितम् | सहो वाचजा बालिरारुणे सिरिडा मता वरुणा पिंगला नाडी तदन्तस्त्व विमुक्तकमिति | तथा सा सुषुम्णा परानाडीत्वियं वाराणसी त्वसाविति कूर्मपुराणेप्यस्या एव तत्तत् प्रदेशविशेषावच्छेदेन मुक्ति प्रदत्वात् तत् तत् प्रदेशानामविमुक्त समाख्यानम् | भ्रूमध्ये नाभिमध्ये च हृदयेपि च मूर्द्धनि | यथा विमुक्तमादित्ये वारणस्यां व्यवस्थितम् || वरणायास्तथा चास्या मध्ये वाराणसी पुरीति च | प्. ५९अ) अत्र चाविमुक्त शब्दः शब्दाचारः | तथा चायमत्रान्वयः | यथा विमुक्तशब्द आधिदैविद्यावापृथिव्योस्संधिरूपे आदित्ये व्यवस्थितः | यथा चाधिभौतिके वाराणसी मध्यवर्तिनि वाराणसी संज्ञके पुरे व्यवस्थितः तथा चाध्यात्मिके भ्रूमध्ये हृदये मूर्द्ध्नि च चक्र विशेषावछिन्न सुषुम्णा प्रदेशे व्यवस्थित इति | याज्ञवल्क्यः || इडा च पिंगला चैव तस्याः सव्ये च दक्षिणे | इडा तस्याः स्थिता सव्ये पिंगला दक्षिणे स्थिता || इडायां पिंगलायां च चरतश्चन्द्र भास्करौ | इडायां चन्द्रमाज्ञेयः पिंगलायां रविः स्मृतः || चन्द्रस्तामस इत्युक्तस्सूर्यो राजस उच्यते | विषभागो रवेर्भागः सोमभागो मृतं स्मृतम् || तावेवधत्तस्सकलं कालंरात्रिं दिवात्मकम् | भोक्त्री सुषुम्णा कालस्य गुह्यमेतदुदाहृतम् || अमृतसिन्धौ | मेरु शृङ्गे स्थितश्चन्द्रो द्विरष्टकलयान्वितः | अहर्निशं तुषारात्मा सुधावर्षत्यधो मुखः || ततोमृतं द्विधाभूतं विज्ञातव्यं विवेकिभिः | इडा मार्गेण पुष्ट्यर्थं वियन्मन्दाकिनी जलम् || पुष्णाति सकलं देहं सूक्ष्मनाडी पथागतम् | एष चन्द्र स्वरूपो हि वाममार्गे व्यवस्थितः || अपरः कुण्डवृन्दाभो हर्षाकर्षितमण्डलः | मध्यमामध्यमार्गेण सृष्ट्यर्थं याति चन्द्रमाः || प्. ५९ब्) मध्यमामूलसंस्थाने तिष्ठते सूर्यमण्डलम् | कला द्वादश संपूर्णो दीप्यमानश्च रश्मिभिः || ऊर्द्धं वहति दक्षेण तीक्ष्णमूर्तिः प्रजापतिः | एषा तूर्य परामूर्तिर्नराणां दक्षिणे पथि || वहंती लग्न योगेन सृष्टि संहारकारक | दक्षेतर गतिं त्यक्ता यदा मेरुसमोदधिः? || विषुवं तद्विजानीयात् पुण्यकालं कलेवरे | ज्ञात्वा च विषुवं देहे साभ्यासा वर्त्म शालिनः || उत्क्रान्तिं कालयोगेन सुखं कुर्वन्ति योगिनः | ऋतुस्संध्या दिशो रात्रिः कलाकाष्ठा क्षणादयः || आदानं च विसर्गश्च सर्वं हि सूर्यतो भवेत् | सूर्यो हि नाभि संबद्धो यदा भवति योगतः || बाह्ये सृष्टिस्तदा ज्ञेया योगोभ्यन्तरतो भवेत् | ग्रहणं तद्विजानीयाद् बाह्याभ्यन्तरतो ध्रुवम् || बाह्ये पुण्यतमः कालो मुक्तिश्चाभ्यन्तरे भवेत् | चन्द्रबिम्बं यदा सूर्यो गृह्णाति चन्द्रमण्डले || अन्योन्यं जायते योगस्तस्माद् योगो हि लभ्यते | सूर्यो वह्निर्यदादैवादूर्द्ध्वं वहति देहिनाम् || अधश्चन्द्रामृतं याति तदा मृत्युर्नृणां भवेत् | सर्वाण्येव हि तत्त्वानि व्रजन्त्यूर्द्ध्वं कलेवरे || एतौविमुक्तिदौख्यातौ सूर्याचन्द्रमसौसदेति | याज्ञवल्क्यः || सरस्वती कुहूश्चैव सुषुम्णापार्श्वयोः स्थिते | गान्धारी हस्ति जिह्वा च इडायाः पृष्ठपूर्वयोः || प्. ६०अ) पूषा यशस्विनी चैव पिंगला प्षृठ पूर्वयोः | कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता || यशस्विन्याः कुहोर्मध्ये वारुणी च प्रतिष्ठिता | पूषायाश्च सरस्वत्याः स्थिता मध्ये यशस्विनी || गान्धार्याश्च सरस्वत्याः स्थितामध्ये च शंखिनी | अलंबुषा च विप्रेन्द्रे कन्दमध्यादधः स्थिता || पूर्वभागे सुषुम्णायास्त्वामेढ्रान्तं कुहूः स्थिता | अधश्चोर्द्धं च विज्ञेया वारुणी सर्वगामिनी || यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते | पिंगलाचोर्द्धगायाम्य नासान्तं विद्धि मे प्रिये || याम्ये पूषा तु नेत्रान्ते पिङ्गलायास्तु पृष्ठतः | यशस्विनी तथा गार्गि याम्ये कर्णान्तमिष्यते || सरस्वती तथा चोर्द्धमाजिह्वायाः प्रतिष्ठिता | आसव्य कर्णाद्विप्रेन्द्रे शंखिनी चोर्द्ध्वगा मता || गान्धारी सव्यनेत्रान्तमिडायाः पृष्ठतः स्थिता | इडा च मध्य नासान्तं सव्यभोगे व्यवस्थिता || हस्तिजिह्वा तथा सव्ये पादाङ्गुष्ठान्तमिष्यते | विश्वोदरी तु या नाडी सव्ये सव्य गता स्मृता || अलंबुषा महाभागे पायुमूलादधो गता | एतास्त्वन्यास्समुत्पन्ना नाडयोन्याश्च तास्वकि? || यथा श्वत्थ दले तद्वदब्ज पत्रेषु चाशिराः | नाडीश्वेतासु सर्वासु विज्ञातव्यातपोधन || इति सांख्ययोगे || प्. ६०ब्) चक्रमध्ये स्थिता नाड्यस्तीस्रस्तिस्रोत्र देवताः | इडा च वैष्णवी नाडी पिङ्गला ब्रह्मदैवता || ऐश्वरी सा सुषुम्णास्यान् मेरुमध्ये व्यवस्थिता | नाडीमध्यगतग्रन्थि त्रय युक्ता त्रिवेणिका || उत्तरे वहते गंगा यमुना दक्षिणे स्मृता | सरस्वती पश्चिमायामासां संगस्सनातन || इति अमृतसिद्धौ || गंगायमुनयोर्मध्ये वहत्येका सरस्वती | आसां तु संगमे स्नात्वा धन्या यान्ति परां गतिम् || इति मानसोल्लासे || गान्धारी हस्ति जिह्वा च नयनान्तं प्रधावतः | नाडीचक्रेण संस्यूते नासिकान्तमुभे गते || नाभिमण्डलमाश्रित्य कुर्कुटान्त्रमिव स्थिते | पूषाचालंबुषानाडी कर्णद्वयमुपाश्रिते || नाडी शुक्ला ह्वया तस्माद् भ्रूमध्यमुपसर्पति | सरस्वत्या ह्वयानाडी जिह्वान्ता वाक्यसारिणी || नाडी विश्वोदरी नाम भुङ्क्तेन्नं सा चतुर्विधा | पीत्वा पयस्विनी तोयं कंठस्था कुरुते क्षुतम् || नाडी चक्रात् समुद्भूता नाड्यस्तिस्रस्त्वधो मुखाः | राकायुक्तंसिनीवाली मूत्रं मुञ्चेत् कुहूर्मलम् || भुक्तान्नरसमादाय शंखिनी धमनी पुनः | कपाल कुहरं गत्वा मूर्द्ध्नि संचिन्तयेत् सुधाम् || शतं चैका तु नाड्यस्स्युस्तासामेका शिरो गता | तयोर्द्धमापन्मुक्तस्स्यादिति वेदान्त शासनम् || प्. ६१अ) अत्र सुषुम्णामुखं मूलाधार एव विज्ञेयम् | तथा च सुरेश्वराचार्यः || देहस्य मध्य संस्थानं मूलाधार इतीर्यते | गुदात्तुद्व्यङ्गुलादूर्द्धं मेढ्रात्तुद्व्यङ्गुलादधः || त्रिकोणाधो मुखाग्रश्च कन्यका योनि सन्निभः | यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता || प्राणाग्नि बिन्दुनादानां सावित्री सा सरस्वती | मुलाधाराग्रकोणस्था सुषुम्णा ब्रह्म रन्ध्रगा || मूलेर्द्धछिन्नवंशा भाषदाधार समन्विता | तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते || नाडीचक्रमिति प्राहुस्तस्मान्नाड्यो विनिर्गताः | षट्चक्र भेदनेन श्रीशंकराचर्यैरपि सुषुम्णा मुखं मूलाधार एवोक्तम् | तथाहि महीं मूलाधारेकमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि मनोपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सहरहसिपत्याविहरसीति | सर्वमन्त्र शास्त्रेष्वपि तत्रैव तन्मुखमुक्तम् | याज्ञवल्क्य वसिष्ठादि मुनीनां गोरक्षादि योगिनां च मतेनाभिस्थ कन्दमध्ये सुषुम्णा मुखं कुण्डलिनी च | ब्रह्मविष्णु ग्रन्थि शब्दितयोर्मूलाधार स्वाधिष्ठान चक्रयोर्भेदानुपपतेर्मतमिदं चिन्त्यम् | योगभास्करे || प्. ६१ब्) दशनाड्यो दशास्थीनि वह्नयो दश वायवः | एतेषामविरोधेन योगाभ्यास परो भवेत् || तत्र नाड्यो वायवः पूर्वमेवोक्ताः | पृष्ठवंशे ललाटास्थि कन्धरं चिबुकं तथा || नासावंश उरोवाहुः पादा ऊरु च जानुनी | एतानि च दशास्थीनि दशवह्नीस्ततः शृणु || भ्राजको रञ्जकश्चैव वातकः श्लेष्मकस्तथा | पाचको रेचकः षष्ठो दाहकः शोषकोष्टमः || पोषको बन्धकश्चेति देहेस्मिन् दश वह्नयः | अमृतसिद्धौ || कलाभिर्दशभिर्युक्तस्सूर्यमण्डलमध्यगः | वसते वस्ति प्रदेशे वह्निरन्न विपाचकः || यावत् सूर्यस्य मध्यस्थः कालानल कलेवरे | तावद् बिन्दु प्रभावो यमविच्छिन्नस्सुधामयः || वह्निर्बलप्रदो लोके वह्निरायुः प्रदायकः | स्वस्थो यावदयं वह्निर्नरस्तावन्निरामयः || अतस्तदविरोधेनैव योगाभ्यासः कर्तव्य इति भावः | अथाधाराः | शिवयोगे || अथ ते षोडशाधारान् कथयामि विशेषतः | तेजो ध्यानं पदांगुष्ठे कुर्ययाद् दृष्टिः स्थिरा भवेत् || पादस्य पार्ष्णिना मूलं द्वितीयाधार संज्ञकम् | संपीड्यस्थापयेदग्नि दीपनं भवति क्षणात् || आकुञ्चयेद् गुदाधारं पादसंकोचनेन तु | अपानमरुतो धैर्यं जायते तत् तृतीयकम् || प्. ६२अ) मेढ्राधारे दण्डसंकोचनेन ब्रह्म ग्रन्थीं स्त्रीन्समुत्पाद्य पश्चात् | चेतो वायोर्ब्रह्मनाड्यां प्रवेशाद् बिन्दु स्तंभः संभवत्येव सद्यः || पञ्चमाधारमोडनं दत्त्वा मुहुर्मुहुः | मलमूत्र कृमीणां च जारणं भवति ध्रुवं || नाभ्याधारं ततस्तत्र प्रणवं योजयेद् बुधः | समाधि नैक चित्तेन तस्य नादोदयो भवेत् || सप्तमं हृदयाधारं तत्र प्राणान्निरोधयेत् | तदा तन्मध्य कमलविकाशो भवति क्षणात् || कण्ठाधारं कण्ठकूपं पीडयेच्चिबुकेन तु | इडापिङ्गलयोर्वायु प्रग्रहः सुस्थिरो भवेत् || नवमं घण्टिकाधारं जिह्वाग्रं तत्र दापयेत् | सुधाकलास्रवत्येषा सातु मत्तृप्तिकारिणी || या लंविका चालन दोहनाभ्यां दीर्घा कृता सा विपरीत | मात् यस्तालुभूलान्तरगर्भ देशे प्रवेशयेत् सोन्मनतां प्रयाति | सेयं खेचरी मुद्रास्याः स्वरूपं प्रभावश्च | मुद्राप्रकरणे वक्ष्यते || जिह्वाघोरसनाधारं कुर्याद् योग धनं यदि | सिद्ध्येत् तस्यामृतस्वादः कविता च स्फुटी भवेत् || द्वादशं दशनाधारं मूर्द्ध्वं तद्राजदन्तकम् | षण्मासाद् दृश्यते ज्योतिस्तत्र जिह्वाग्र घट्टनात् || त्रयोदशं घ्राणमूलं तत्र दृष्टिः स्थिरी कृता | यदि स्यान् मनसा नित्यं वायुस्तत्र स्थिरो भवेत् || चतुर्दशं ललाटाख्यमाधारं यत्र योगवित् | मनसा वायुमारोप्य सर्वसिद्धिमवापुन्यात् || प्. ६२ब्) व्योमाधारं पञ्चदशं तदूर्द्ध्वं चक्षुषा बुधः | पश्येत् स किरणाकारं शीघ्रमेव हि पश्यति || नेत्राधारं षोडशं तु तदूर्द्ध्वं चालयेद् बुधः | ज्योतिः पुञ्जमयांगे तत्पश्यति क्षिप्रमेव हि परमशिव इति || अथ षट्चक्राणि सांख्ययोगे || अतःपरं प्रवक्ष्यामि सट्चक्राणि शृणु प्रिये | मूलाधारमधिष्ठानं मणिपूरमनाहतम् || कण्ठदेशे विशुद्धिः स्याद् आज्ञा भ्रूमध्यसंस्थिता | चतुःकोणमयाधारः स्थितिः षट्कोणरूपिणी || मणिरर्द्धेन्दु संकाशस्त्रिकोणं स्यादनाहतम् | विशुद्धिचक्रं पूर्णेन्दु सदृशं परिकीर्त्तितम् || आज्ञादिव्यशिखाकारा शृणु चातः परं प्रिये | आधारः पीतवर्णस्स्यात् स्वाधिष्ठानं जलात्मकम् || मणिर्नीलाञ्जन प्रख्यो रक्तवर्णं त्वनाहतम् | विशुद्धः स्फटिक प्रख्यस्स्यादाज्ञा सर्ववर्ण भाक् || केचिद् वदन्ति शोणाभं स्वाधिष्ठानारविन्दकम् | तथा ज्ञापंकजं शुक्लं परमात्मप्रकाशनम् || शक्तियोगे || चत्वारि च षडाधारा दशद्वादशषोडश | द्वे च पद्मासनादीनां पत्रसंख्या समीरिता || अत्र द्विरण्डो बाल्याख्यस्तथा चक्र * * * मम् | डाकिनीराकिनी चैव लाकिनी काकिनी तथा || प्. ६३अ) साकिनी हाकिनी चैव क्रमाद् देव्यो भवन्ति च | ज्ञात्वैवं सर्वचक्राणि सर्वसिद्धिकराणि वै || गुरुपदेशविधिनाभिन्द्यात्तानि यथाक्रमम् | चक्र भेदन प्रकारस्त्रिपुरासारसमुच्चये || अथ पूरकयोगजितांतः पृषदश्वोनिजमूलचक्रदेशे | विदधीतबुधस्समाहितोजोपपदग्रन्थि विभेदनप्रयत्नम् | शकृत्समुत्सृज्य शनैर्यथा स्वं संकोचयेत् कंबुनिमार्ग सर्वाः | बुधस्तथाधार नियोजितात्मा संकोचयेत् कंबुनिमार्गमुच्चैः | विदधीतमुहुर्मुहुर्गुरुक्त क्रमतो हूंकृतिमंकलग्नपाणिः | दृढरुद्र गुदध्वजान्तराल स्थित तेजोमय पुष्कराग्रयोनिः | अथ कम्बुनिमारुतं यतात्मा प्रतिलोमेन शनैः प्रवेशयेत् तम् | कमलासन पंकजमूलं स्वगुरुप्रोक्त विधानतो दुरापम् | अमुनाविधिनामुहुः कृतेन क्रमशः कम्बुनि मारुतस्ततोसौ | अजपंकजमूलदेशमार्ग प्रणयि ग्रन्थिविभेदनं करोति | परिहृत्यखगाधिपस्ततोसौ सरणिं चन्द्रमसो नभोमणेश्च | कमलं कमलासनस्य पश्चाद्विदधीतोर्द्ध्वमुखं प्रविश्य सम्यक् | प्रतिभानमथाद्भुतं प्रविष्टे भवनांतः परमेष्ठिनः स्वगेहे | लघुतावपुषो भवत्युदग्राजठरान्तर्दहनस्य चापि दीप्तिः | तडित्कोटिप्रख्यं स्वरुचिजितकालानलरुचिं सहस्रादित्यांशुप्रकरसदृशो द्योतकलताम् | प्. ६३ब्) भ्रमन्तं योन्यन्तः स्फुरदरुणबन्धूक कुसुमप्रभं कामं ध्यायेज्जठरशशभृत्कोटिशिशिरम् | तस्योर्द्धेग्नि शिखाचिरद्युति लतापुञ्जप्रभाभास्वरासूक्ष्माब्रह्मपथान्तरान्तरगता चैतन्यमात्राकला एकीभूतमनन्तरं सहतयाध्यायेद्ध्रिया निश्चलं स्वात्मानं च निवातदीपनि भयाहंस स्वरूपं बुधः | शक्तिः कुण्डलिनीति यानि गदिता आ ई म संज्ञाजगन्निर्माणे सततोद्यता प्रविलसत्सौदामनी सन्निभा शंखावर्तनिभां प्रसुप्तभुजगाकारां जगन्मोहिनीं तन्मध्ये परिभावयेद् विसलतां तन्तूपमेयाकृतिम् | हूंकारेण गुरुपदिष्टविधिना प्रोत्थाय सुप्तान्ततः कृत्वा तां कलया तया परमयाचिद्रूपया संगताम् | माया कुण्डलिनी समाहित मनास्तामुच्चरेत् कौलिकीं शक्तिं ब्रह्ममहापथेन सहितामाधारतः स्वात्मना | भित्त्वालिङ्गत्रयमथबुधो ब्रह्मनाड्योर्द्ध्वमूर्द्ध्वं गच्छन्तीं तां कमलजनिलयात् प्रापयेदात्मशक्तिम् | व्योमाम्भोज प्रणयि परमानन्दकन्दं विसर्गस्थानं चन्द्रोपरि गलद्रक्त पीयूष धाराम् | पीत्वा कुलामृतरसं पुनरेव दिव्यं मध्यं विशेदपघनस्य समाहितात्मा | यायात् कुलादकुलमेव पुनश्च मात्रायोगेन देशिकवरप्रतिपादितेन | प्. ६४अ) सा शक्तिः सकलशरीरजीवभूताप्राणो साविति गदितात्र तंत्र मुख्यैः | उद्घातस्सतु परिपठ्यते मुनीन्द्रैः प्राणस्तं स्पृशति यदा क्रमेणनीतः | अमुंस्वाचारस्थः प्रति दिवसमभ्यास निरतः करोति श्रद्धावान् सततमवधूताखिलमलः | समुक्तो दुःखौघैरपगतजराक्लेशमरणो गुण ग्रामोपेतः सुर इव चिरंजीवति भुवि | चतुर्विधाया कथितेह सृष्टिः प्रवर्तते या सकलापि यस्याम् | प्रलीयते चापि जगत् समग्र कालाग्नि रुद्रादि सदाशिवान्तम् | सेयं मयोक्ता खलु योनि मुद्राबन्धस्तु देवैरपि दुर्लभोस्याः | अनेन बन्धेन न साध्यते यन्नास्त्येव तत् साधकपुंगवस्य | गुरुतल्पनिषेवणं च पानं द्विजहत्यामधुनस्स्वर्णचौर्यम् | अमुनाविलयं प्रयाति सम्यक् सकृदभ्या चरितेन बन्धनेन | स तु मन्त्रिवरः स एवयोगी गुणसिद्धेः परमा स्थितस्स एव | अमुनाचरतीह बन्धनं यः सततं स्वोचितधर्मकर्मनिष्ठः | अमुना भवतीह देहभाजां सतताभ्यास कृतेन बन्धनेन | न जरा पितृ राज वैजयन्ती न च मृत्यु प्रतिपादिता च भीतिः | एतस्यैव हि बन्धनस्य मनुजः प्राप्नोति सम्यक् कृतादभ्यासादणिमादि सिद्धिमतुलां संवित्तिमप्पूर्जिताम् | योगं चाप्रतिमं जयं च मरुतः कालस्य वा वंधनं प्. ६४ब्) तद्विष्णोः परमं पदं परतरं पश्यन्ति यत्सूरय इति | पारमेश्वरतन्त्रे | ईश्वर उवाच || पश्चिमाभिमुखं लिंगं योनिस्थं परिकीर्तितम् | हृद्ग्रन्थि बिन्दु संयुक्तं स्वयंभू वाण वाचकम् || इतरं चान्तरालस्थं विसर्गार्थस्तथापरम् | महापद्मवनं चान्तर्योगपीठं प्रकीर्तितम् || कदम्बगोलकाकारं तत्कामं बिन्दुरूपिणं | ब्रह्मरन्ध्रं तु तत्रैव सुषुम्णाधारमण्डले || पृथिव्यादीनि रन्ध्राणि सूत्राणां वाचकानि च | पूर्णाख्यं चन्दनं तत्त्वं कोदण्ड द्वय मध्यगम् || तदूर्ध्वं नादनामानमुद्र्याणं तु प्रकीर्तितम् | कामरूपे भवेच्छक्तिर्विसर्गमतुलं प्रिये || बन्धं तस्याः प्रवक्ष्यामि संवित्तिं लभते यया | आदौ पूरकयोगेन ज्याधारे योजयेत् पुनः || गुदमेढ्रान्तरे योनिस्तामाकुंच्य प्रबोधयेत् | भ्रमद्योनिगतं ध्यात्वा कामं बन्धूक सन्निभम् || सूर्यकोटि प्रतीकाशं चन्द्रकोटि सुशीतलम् | तस्योर्द्धे तु शिखासूक्ष्माविचित्रापावकी कला || तया सहितमात्मानमेकी भूतं विचिन्तयेत् | गछन्ती ब्रह्ममार्गेण लिंगत्रय क्रमेण तु || अमृतं तद्विसर्गस्थं परमानन्दलक्षणं | द्रुतं रक्तं स्वतेजाढ्यं धारापातैः प्रवर्तितम् || पीत्वा कुलामृतं दिव्यं पुनरेव विशेत् कुलम् | पुनरेवाकुलं गछेन्मात्रायोगेन नान्यथा || प्. ६५अ) सा च प्राणः समाख्याता अस्मिंस्तन्त्रे मयोदितेः | ऊर्द्ध्वे शाब्दगतिः प्राणान् ध्वनिर्यस्मिन् प्रजायते || सा मात्रा जायते भूय उच्चार वशवर्तिना | उद्घातः प्रोच्यते सोपि प्राणस्तं स्पृशते यदा || एवमभ्यस्य मानस्य अहन्य हनिनिश्चयम् | जरामरणदुःखौघैर्मुच्यते भवबन्धनात् || चतुर्विधा तु या सृष्टिर्यस्यां योनौ प्रवर्तते | पुनः प्रलीयते यस्यां कालाग्न्यादि शिवान्तगा || योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः | तस्यास्तु बन्धमात्रेण तन्नास्ति यन्न साधयेत् || छिन्नारुद्धास्तु ये मंत्राः कीलिता स्तंभिताश्च ये | दग्धामत्ताः सिताहीना मलिनास्तु तिरस्कृताः || भेदिता भ्रमसंयुक्ताः शप्तास्संमूर्छिताहताः | मन्दावालास्तथावृद्धाः प्रौढायौवनगर्विताः || अरिपक्षे स्थिता ये च निर्वीर्याः सत्ववर्जिताः | तथा संकेत हीनाश्च खण्डशः शतधा कृताः || विधिनानेनसंयुक्ताः प्रभवन्त्य चिरेण तु | सिद्धिमोक्षप्रदास्सर्वे गुरुणा विनियोजिताः || यद्यदुच्चरते मंत्री मंत्ररूपं शुभाशुभम् | तत् तु सिद्ध्यत्यनायासाद्योनि मुद्रानिबन्धनात् || दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा | ततो मंत्रेधिकारार्थमेषामुद्रा प्रकीर्तिता || ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् | नासौ लिप्यति पापेन योनि मुद्रानिबंधनादिति || प्. ६५ब्) अथ चक्राणि लययोगोपयोगानि | शिवयोगे || मूलाधारे त्रिधावर्तं ब्रह्मचक्रं भगोपमम् | तत्कन्देग्नि निभे ध्यायेदधः शक्तिमभीष्टदाम् || स्वाधिष्ठानं ततश्चक्रं तत्र चातुर्दलाम्बुजम् | तदेवोडियानं ध्यायेत् पश्चिमाभिमुखं शिवम् || पञ्चावर्तं नाभिचक्रं सर्पाकारां तडिन्निभाम् | तत्र कुण्डलिनीं ध्यायेदधःशक्तिं सुसिद्धिदाम् || अधोमुखाष्टपत्राब्जयुक्तं तच्चक्रमिष्टदम् | तन्मध्ये कर्णिकां ध्यायेज्ज्योतिर्लिङ्गा कृतिं त्विमाम् || पञ्चमं कंठचक्रं च तत्राङ्गुल चतुर्थके | इडापिङ्गलयोर्ध्यायेत् सुषुम्णां मध्य संस्थिताम् || षष्ठं च घण्टिका लिंगं मूलं तद्राज दन्तकम् | ध्यायेत् तु दशमद्वारं तत्र शून्यं सुसिद्धये || भ्रूचक्रं सप्तमं त्वेक नालकन्दं स्ववाक्यदम् | ध्यायेद् दिव्य शिखाकारं तन्मध्ये ज्ञानलोचनम् || ब्रह्मरन्ध्रेष्टमं चक्रं निर्वाणाख्यं सुसूक्ष्मदम् | तत्र जालंधरं ध्यायेद्धूम्रं मोक्षप्रदं ततः || आकाशबीजं नवमं प्रशस्तं त्रिकूटकं पूर्णगिरेश्च पृष्ठे | तत्रोर्द्ध्वशक्तिं शुभदां सुशून्यां ध्यायेच्च साष्टार सरोज मध्ये || इति शास्त्रान्तरे || प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति | अपाने मूलकन्दाख्यं कामरूपं च तज्जगुः || तदेव वह्नि कुण्डं स्यात् तत्र कुण्डलिनी स्थिता | तां बीज रूपिणीं ध्यायेज्ज्योतिष्कां मुक्ति हेतवे || प्. ६६अ) स्वाधिष्ठाने द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः | पश्चिमाभिमुखं लिंगं प्रवालांकुरसंनिभम् || तत्रोडियानपीठे तु तद्ध्यात्वा कर्षयेज्जगत् | तृतीयं नाभिचक्रं स्यात् तन्मध्ये भुजगी स्थिता || पञ्चावर्ता मध्यशक्तिश्चिद्रूपा विद्युदाकृतिः | तां ध्यात्वा सर्वसिद्धिनां भाजनं जायते बुधः || चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखं | ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः || तं ध्यायतो जगत्सर्वं वश्यं स्यान्नात्र संशयः | पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत् || दक्षिणे पिंगला ज्ञेयासुषुम्णा मध्यतः स्थिता | तत्र ध्यात्वा शुचिर्ज्योतिस्सिद्धीनां भाजनं भवेत् || षष्ठं च तालुकाचक्रं घण्टिका स्थान मुच्यते | दशमद्वारमार्गं तद्राजदन्तं च तज्जगुः || तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् | भ्रूचक्रं सप्तमं विद्याद् बिन्दुस्थानं च तज्जगुः || भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते | अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाण सूचकम् || तं ध्यात्वा सूचिकाग्रामं धूमाकारं प्रमुच्यते | तच्च नालं परं ज्ञेयं मोक्षदं लीनचेतसाम् || नवमं व्योमचक्रं स्याद् दलैः षोडशभिर्युतम् | संविद्रूपा च तन्मध्ये शक्तिरूर्द्ध्वं स्थिता परा || तत्र पूर्णगिरौ पीठे शक्तिं ध्यात्वा विमुच्यते | ऊर्द्ध्वशक्ति निपातेन अधःशक्तेर्निकुंचनात् || प्. ६६ब्) मध्यशक्ति प्रबोधेन जायते परमं सुखम् इति | एतत् फलं त्रिपुरासारसमुच्चये विस्तरेणोक्तम् || तथाहि || अथाधार पंकेरुंहाण्यत्र वक्ष्ये सुषुम्णांतर स्थानि संक्षेपतोहम् | तदम्भोजपत्रस्थितांश्चापि देवांस्तदंभोजवर्णांस्तदाधार देवीः || अज ग्रन्थिपद्मं पुरायन्मयोक्तं तदाधारमाद्यं वहन्तीह सन्तः | सुवर्णाभ वर्णैश्चतुर्भिस्समेतं दलैर्योगि गम्यं महाश्चर्य भूतम् | चतुर्थब्जपत्रेषु देवी नीरुद्धाजलार्णादि वर्णा न्यसेत् केवलाम्बाः | स बिंदू न बिन्दून् प्रभावान् समृद्धान् स्फुरज्ज्योतिषा डाकिनी देवतात्र | मूलाधारे सततं ध्यानयोगात् स्तंभस्तोभावुल्युतिर्दादुरी च | भूमित्यागः खेचरः त्वं क्रमेण नृणामेते सद्गुणास्संभवन्ति | कान्तिप्रकर्षो वपुषोपि नादव्यक्तिः प्रदीप्तिर्जठरानलस्य लघुत्वमंगस्य निजेन्द्रियाणां पटुत्वमारोग्य मदीनता च | कृत्वामनो निश्चलमत्र मूलचक्रे नराः संततमादरेण | भूतं भयेच्चापि भविष्यदर्थं वदन्ति शास्त्राण्यपि चाश्रुतानि | विहाय च सद्यः कमलासनस्य चक्राम्बुजं प्रीति तरङ्ग संगात् | सदीप चक्राम्बुरुहोदयन्ते सरस्वती नृत्यति दिव्यरूपिणी | अधिगम्य रसेन्द्र मन्त्र सिद्धिरपि कालं प्.६७अ) च विजित्यदुर्निवारम् | अजरामरतामवाप्यचान्ते परमानन्दपदे मुदारमन्ते एकीभूतार्णवाम्भः प्लुतमखिलजगत्पूर्वमासीदपूर्वज्योतिर्मूर्तिस्तदन्तर्महितमहिम- भूर्लिंगरूपीवभूव सत्सिद्धाधिष्ठितात्मा सकल सुरनुतः षड्भिरास्यैरुपेतः षड्भिःकोशैश्च देवोभवभयतिमिरध्वंस हंसो महेशः अंगलिंगवपुर्भृतो भगवतो देवो द्विरंगे भक्ताली पूर्वमुखं शिवस्य तु महालस्तथोर्धाननम् | वक्त्रं दक्षिणमाशुशुक्षणिरसौ देवः पिनाकी पुनः पाश्चात्यं छागलण्ड एष भगवान् वामास्यमस्याभवत् | स्वाधिष्ठान समाह्वयं रसदलैर्मूले ध्वजस्याम्बुजं बालादित्य निभंदलोपरि गतैः पृठादि तर्काक्षरैः | बिन्दूद् भासित मस्तकैर्भगवतो लिंगात्मनः शूलिनः स्थानं योगिवरेण गोचरमिदं चास्याधिपानाकिनी | इह स्वाधिष्ठाने निहित निज चेतो लयवशादमन्दानन्दौघस्तिमित हृदयः साधकवरः | समेताङ्गोनङ्गः क्षितितलगतोसौ मृगदृशां स्मरस्मेरापाङ्गं रमयति गणं कान्ति कलितम् | इह वेत्ति निधायमासनं स्वं विविधं चाश्रुत शास्त्र जालमुच्चैः | अवधूत प्. ६७ब्) जरामयस्समर्त्यस्सुचिरंजीवति वीतमृत्युभीतिः | वपुषो शुचि भाजनस्य शश्वत् परमां शुद्धिमिहातनोति पुंसाम् | शरदम्बुदपेलवस्य देहे दृढ रुद्धोघनतां च शीतरश्मिः | चलितं सहसा माहारसेन्द्रं कमलालोकनतो वियत् सरोजात् | इह ये विनिवारयन्ति सन्तो ननुधीराः पुरुषोत्तमास्त एव | मदधौतकटो महागजेन्द्रो वशतामेति यथाशनैरुपायात् | बलवानिहवै सुधाकरोसौक्रमरुद्धः स्ववशोभवत्यवश्यम् | एतस्मिन् कुलिशाब्जयोगनिरतादादौलयो जायते वागादीन्द्रिय दन्तिनां लयवशात् संवित्तिरप्पूर्जिता | अन्तर्हीन महानस द्रवजुषां नृणां च चेतो लयादाविर्भावमुपैत्यमंद सहजानन्द छलेन्दूदयः | नाभिस्थं मणिपूरकं दशदलैर्नीलाञ्जनाभैर्युतं तत्राद्यैश्च दशाक्षरैर्दलगतैर्बिन्दूल्लसन्मस्तकैः | लाकिन्या समधिष्ठितं च सततं ध्यानान्नराः केवलं वश्याकर्षण निर्विषीकरणपूःक्षोभादिकं कुर्वते | स्थानेस्मिन् निहितात्मनस्सुकृतिनः पातालसिद्धिः पराषड्गस्याप्रतिमस्य साधनमपि स्यादीप्सितं च क्षितौ | रूपं भूमि विवर्जनं परपुरे शक्तिः प्रवेष्टुं जराहानिश्चाखिलदुःखरोग शमनं कालस्य वावञ्चनम् | हृदये स प्. ६८अ) रसेन्द्रगोपसंध्याघनसिन्दूरसुवर्णवर्णमब्जम् | यदनाहतमित्युशन्ति सन्तो रवि संख्यैरुपशोभितंदलैश्च क्रोधीशाद्यैर्भैरवैर्भानुसंख्यैर्दण्डोपेतैर्मण्डितं चण्डवीर्यैः | तत्काकिन्याधिष्ठितं दिव्यशक्त्यादेव्याहंसेनापि देवेन शश्वत् | एतस्मिन् सततं निविष्टमनसः स्थाने विमाने स्थिताः | क्षुभ्यन्त्यद्भुतरूपकान्तिकलिता दिव्यस्त्रियो योगिनः | ज्ञानं चाप्रतिमं त्रिकाल विषयं क्षोभः पुरस्य श्रुतिर्दूरादेव च दर्शनं च सुमति स्याद् योगिनी मेलनम् | विशुद्धाख्यं कण्ठे कमलमथ धूम्रालिरुचिभिर्युतं श्रीकण्ठादि स्वरपरिगतैः षोडशदलैः | इह स्थाने शाकिन्य तुलनिजशक्तिर्भगवती स्थिता नित्यं देवी शरण गभवार्ति प्रशमनी | अभ्यासयोगादिहसन्निविष्टस्वान्तस्य शश्वन्नरपुंगवस्य | समर्थता स्यादनधीतशास्त्रे सर्वोत्तमस्स्याद्वसुधातलेस्मिन् | स्थानेत्रसंसक्तमनामनुष्यस्त्रिकालदर्शि विगताधिरोगः | जित्वाजरामञ्जननीलकेशः क्षितौचिरंजीवति वीतमृत्युः | इह स्थाने चित्तं सततमवधायात्तपवनो यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम् | न च ब्रह्माविष्णुर्न च हरिहयोनापि खमणिस्तदीयं सामर्थ्यं शमयितु प्. ६८ब्) मलं नापि गणपः | आज्ञानामभ्रूयुगमध्ये दलयुग्मोपेतं शारदचन्द्रमयूखाभम् | हाकिन्युक्तात्रापि च देवी दलयुग्मे वर्णवन्तौ बिन्दुयुतौ संस्मरणीयौ | ध्यानयोगनिरतस्य जायते पूर्वजन्मकृत कर्मणां स्मृतिः | अत्र बिन्दुनिलये च दूरतो दर्शन श्रवणयोस्समर्थ्यते | इह सन्निहित स्वचित्रवृत्तिः प्रतिमायाः प्रतिजल्पनं करोति गमनं च नरः पुरे परेषां पुनरुत्थापनमप्यथो मृतस्य | निरालम्बां मुद्रां निज गुरुमुखेनैव विदितामिहस्थाने बध्वास्थिरनिहितधीस्साधकवरः | सदाभ्यासात् पश्यत्यरमनिलयानंतमखिलामुहुःश्रेणिर्विष्णोरपि पदमुडूनामधिपतिम् | ब्रह्माणं सुरवृन्दवन्दित पदद्वन्द्वं मुकुन्दं तथा शंभुं देवनिकायनायकमपि प्रेताधिपं वारिपम् | अह्नां वह्निमपि प्रभुं च पवनं तार्क्ष्यं च पक्षीश्वरं गन्धर्वानपि किन्नरानपि गणैस्सिद्धान् प्रसिद्धानपि यक्षान् राक्षस पुंगवानपि मुनीन्दिव्यांश्च भव्याकृतीनन्तः कान्तिकलाकलापकलितान्विद्याधरान्मातरम् | रंगोत्तुङ्गतरङ्गसंगतजलां स्वर्लोककल्लोलिनीं योगीइ पश्यति दुग्धसागर रुचिं तं चापि हेमाचलम् | उत्तुङ्ग पीवरपयोधर नम्रकम्रदिव्याङ्ग संगजमतङ्गजमब्दयानम् | प्. ६९अ) उल्लासि चिल्लि युगलं चकितैणशावलोलेक्षणं विसरमप्सरसां तथैव | समुत्तुङ्गैः शृङ्गैःस्थगितगगनाभोगललितांल्लसन्नानारत्ना कलितकटकान् भूधरवरान् | कुरङ्गैस्सारंगैरपि च रमणीयां वनभुवं तथा गुर्वीमुर्वीमपि च विविधक्षेत्र सहिताम् | तरङ्गैरुत्तुङ्गैरहिमकरमातङ्गनिकरैः करालानाभीरैरपि जलधरैर्भूधरवरैः | तथा पारावारानमरसरितो वारिभरितान् सहंसालीपालीमपि च सरसांसारसजुषाम् | एतस्मिन् परमाद्भुता व्यय महानन्दैक कन्दे परे स्थाने मानसमात्मनः स्थिरमतिस्संयोजयेन् मुद्रया | योगीतन्मयतामुपैति शनकैश्चेतो निरालम्बया पश्चान्नैजमहासुखं लयवशादाविर्भवत्यान्तरम् | लीने चेतसि तत्र विश्वनिलये वह्नेरिवादौ कणा दृश्यन्ते तदनन्तरं च विलसद्रूपाः प्रदीपाङ्कुराः बालस्येव दिवाकरस्य बहलोघ्वोतस्ततोद्योतते यद्वा भूद्गनान्तरालविलसज्ज्योत्स्ना स यत्नं महः | नित्यानन्द इति श्रियः पतिरिति श्रीवासुदेवः पुमानात्मेत्युच्यत इत्यचिन्त्यमहिमा योगी यतो योगिभिः | स्थानेस्मिन् परमे स एव भगवान्व्यक्तो भवत्यव्ययस्साक्षीराद्गरिवान्तरान्तरगतश्चन्द्रार्कयोर्मण्डले | प्. ६९ब्) विश्वस्यायतनं महद्भगवतः स्थानं तदेतत्पदं यत्रारोप्यसमीरणं सुकृतिनः प्राणप्रयाणे नराः | दिव्यं तं परमं पुराण पुरुषं वेदान्त वेद्यं कविं विश्वाद्यं प्रविशन्ति संतत महानन्दैक कन्दं प्रभुम् | सहस्रारपद्मं विसर्गादधस्तादधो वक्त्रमारक्त किंजल्कपुञ्जम् | कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः स्फुरद्रश्मिजालः सुधांशुस्समास्ते | तदन्तर्गतं ब्रह्मरन्ध्रं सुसूक्ष्मं यदाधारभूतं सुषुम्णाख्यनाड्याः | तदेतत्पदं दिव्यमत्यन्त गुह्यं सुरैरप्यगम्यं सुगोप्यं प्रयत्नात् | एतत् कैलाससंज्ञं परमकुलपदं बिन्दुरूपी खरूपी यत्रास्ते देवदेवो भवभयतिमिरध्वंसहंसो महेशः | भूतानामादि भूतो रसविशरसितां सन्ततामन्तरङ्गे सौधीं धारां विमुञ्चन्नभिमतफलदो योगिनां योगगम्यः | स्थानस्यास्य ज्ञानमात्रेण नृणां संसारेस्मिन् संभवोनैव भूयः भूतग्रामं संतताभ्यास योगात् कर्तुं हर्तुं स्याच्च शक्तिस्समग्रा | स्थाने परे हंसनिवासभूते कैलासनाम्नीहनिधाय चेतः | योगीगतव्याधि वधः कृताधिवाधश्चिरं जीवति मृत्युमुक्तः | स्थानेस्मिन् क्षयवृद्धि भावरहिता नित्योदिताधोमुखी प्. ७०अ) वालादित्यनिभप्रभाशशभृतस्सास्ते कलाषोडशी | बालाग्रस्य विखण्डितस्य शतधाभागेन चैकेन या सूक्ष्म त्वात् सदृशी निरन्तर गलत्पीयूषधाराधरा | एतस्याः परतः स्थिता भगवती भूताधिदेवाधिपा निर्वाणाख्य कलार्द्ध चन्द्रकुटिला सा षोडशान्तर्गता | बालाग्रस्य सहस्रधा विदलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलोकजननी या द्वादशार्क प्रभा | निर्वाणाख्य कलापदोपरिगता निर्वाण शक्तिः पराकोट्यादित्य समप्रभाति गहनाबालाग्र भागस्य या | कोट्यंशेन समासमस्त जननी नित्योदिता निर्मला नित्यानन्दपदच्छलेन्दु निगलद्धारानिरालम्बना | एतस्याः परतः परात्परतरं निर्वाणशक्तेः पदं शैवं शाश्वतमप्रमेयममलं नित्योदितं निष्क्रियम् | तद्विष्णोः पदमित्युशन्ति सुधियः केचित् पदं ब्रह्मणः केचिद्धं सपदं निरञ्जनपदं केचिन्निरालम्बनम् | आरोप्यारोप्यशक्तिं कमलजनिलयादात्मनस्साकमेवस्थानेष्वाज्ञावसानेष्ववहित हृदयश्चिन्तयित्वा क्रमेण | नीत्वानादावसानं खगमकुलमहापद्म पद्मान्तरस्थां ध्यायेच्चैतन्य रूपांमभिलषितफलप्राप्तये शक्तिमाद्याम् | प्. ७०ब्) साक्षाल्लाक्षारसाभंगगनगतमहापद्म सद्मस्थ हंसात् पीत्वा दिव्यामृतौघं पुनरपि च विशेन् मध्य देशं कुलस्य | चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेद् देवतास्ता हाकिन्याद्यास्समस्ताः कमलजनिलयां तर्पयेत् कुण्डलीं ताम् | अथ षट्कर्माणि | हठप्रदीपिकायाम् || धौतीवस्ती तथा नेतीत्राटकं नौलिकं तथा | कपालभाती चैतानि षट्कर्माणि प्रचक्षते || कर्म षट्कमिदं गोप्यं घटशोधनकारकम् | विचित्रगुणसंधायि पूज्यते योगिपुंगवैः || अथ धौती || चतुरङ्गुलविस्तारं सिक्तं वस्त्रं शनैर्ग्रसेत् | पुनः प्रत्याहरेदेतदभ्यासाद्धौत कर्मवित् || कासश्वासप्लीहकुष्टकफरोगाश्च विद्रधिः | धौतीकर्मप्रभावेण प्रयात्येव न संशयः || अथ वस्ती || नाभिदघ्ने जले पायु न्यस्तनालोत्कटासनः | आधाराकुञ्चनं कुर्यादभ्यासाद् वस्ति कर्मवित् || गुल्मोदरं चापि वातप्लीहपित्तकफोद्भवात् | वस्तिकर्मप्राभावेण बाध्यन्ते सकला मयाः || धात्विन्द्रियान्तः करण प्रसादं दद्याच्चकांतिं दहन प्रदाप्तिम् | अशेषदोषोपचयं निहन्यादभ्यस्य मानं जलवस्तिकर्म || अथनेती || सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् | प्. ७१अ) मुखान्निर्गमयेत् साहिनेती सिद्धैर्निगद्यते || कपालशोधनी चैव दिव्य दृष्टि प्रदायिनी | जञूर्द्धजातरोगौघाञ्जरयत्याशुनेतिवित् || अथ त्राटकम् || निरीक्षेन्निश्चल दृशासूक्ष्मलक्ष्यं समाहितः | अश्रु संपात पर्यन्तमार्यैस्तत्त्राटकं मतम् || मोटनं नेत्ररोगाणां तन्द्रादीनां कपाटकम् | एतच्च त्राटकं गोप्यं यथाहाटकपेटकम् || अथनौली || अमन्दावर्तवेगेन तुन्दं सव्यापसव्ययोः | न तांसो भ्रामयेदेषानाउली योगे प्रकथ्यते || मन्दाग्निसंदीपनपाचनाग्नि संधायिकानन्दकरी तथैव | अशेषदोषामयशोषिणी च हठक्रियामौलिरियं हि नौली || अथ कपालभाती || भस्त्रेवलोहकाराणां रेचपूरौ समभ्रमौ | कपालभाती विख्याता कफदोषविशोषणी || अथ मुद्राः || पवनयोगसंग्रहे || महामुद्रा महाबन्धो महावेधश्च खेचरी | शक्तिचालो मूलबन्ध उड्डियानं ततः परम् || जालन्धराभिधो वन्धो विपरीत कृतिस्तथेति | हठप्रदीपिकायाम् || स शैलवनधात्रीणां यथा धारो हि नायकः | सर्वेषां योगतंत्राणां तथा धारो हि कुण्डली || सुप्तागुरुप्रसादेन बोधिता सुखदा भवेत् | तथा सर्वाणि पद्मानि भिद्यते ग्रन्थयोपि च || प्. ७१ब्) प्राणस्य शून्य पदवी तथा राजपथायते | तथा चित्तं निरालम्बं तथा कालस्य वञ्जनम् || तस्मात् सर्व प्रयत्नेन प्रबोधयितुमीश्वरीम् | ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासपरो भवेत् || महामुद्रामहाबंधो महावेधश्च खेचरी | उड्डियाणं मूलबन्धो बन्धो जालं धराभिधः || करणी विपरीताख्या तथा वै शक्ति चालनम् | एतद्धि मुद्रानवकं जरामरणवर्जितम् || आदिनाथोदितं दिव्यमष्टैश्वर्यप्रदायकम् | वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि || गोपनीयं प्रयत्नेन यथा रत्न करण्डकम् | कस्यचिन्नैववक्तव्यं कुलस्त्री सुरतं यथा || अथ महामुद्रा | स्कन्दपुराणे || शोधनं नाडिजालस्य घटनं चन्द्रसूर्ययोः | रसानां शोधनं सम्यक् महामुद्राभिधीयते || ईश्वरप्रोक्ते || महामुद्रां प्रवक्ष्यामि तन्त्रेस्मिन् मम वल्लभाम् | यां प्राप्यसिद्धकाः सिद्धिं कपिलाद्याः पुरागताः || अपसव्येन संपीड्यपादमूलेन सादरम् | गुरूपदेशतो योनिं गुदमेढ्रान्तरालगाम् || समप्रसारितं पादं धृत्वापाणि युगेन तु | नवद्वाराणि संयम्य चिवुकं हृदयोपरि || चित्तं चतुष्पथे दत्त्वा प्रारभेद् वायु धारणम् | महामुद्रा भवत्येषा सर्वतंत्रेषु गोपिता || प्. ७२अ) वामाङ्गेन समभ्यस्य दक्षाङ्गेन सभ्यसेत् पुनः | प्राणायामं समं कृत्वा योगीनियतमानसः || मुद्रामेतां तु संप्राप्य गुरु वक्रात् सुगोपितम् | अनेन विधिना योगीमन्दभाग्योपि सिद्ध्यति || सर्वासामेव नाडीनां चालनं बिन्दुधारणं | जारणं तु कषायस्य पातकानां विनाशनम् || कुण्डली तापनं वायोर्ब्रह्मरन्ध्र प्रवेशनम् | सर्वरोगोपशमनं जठराग्नि विवर्द्धनम् || वपुषः कान्तिकमला जरामृत्यु विनाशनम् | वाञ्छितार्थो बलं सौख्यमिन्द्रिणां च मारणम् || एतान्युक्तानि सर्वाणि मार्गारूढस्य योगिनः | भवेदभ्यासतो वश्यं नात्रकार्या विचारणा || गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिता | यां तु प्राप्यभवाम्भोधेः पारं गच्छन्ति योगिनः || मुद्राकामदुघा ह्येषा साधकानां मयोदिता | गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् || इयं खलु महामुद्रा महासिद्धैः प्रशस्यते | महाक्लेशा यतो दोषा जीर्यन्ते मरणादयः || महामुद्रां च तेनैव वदन्ति विबुधोत्तमा | इति हठप्रदीपिकायाम् || यथा दण्डाहतस्सर्पो दण्डाकारः प्रजायते | ऋज्वी भूता तथा शक्तिः कुण्डली सहजा भवेत् || पादमूलेन वामेन योनिं संपीड्य दक्षिणम् | प्. ७२ब्) पादं प्रसारितं धृत्वा कराभ्यां पूरयेन्मुखम् || कण्ठे बन्धं समारोप्य धारयेद् वायुमूर्द्ध्वतः | तथासौमरणावस्थां हरते द्विपदाश्रयम् || न हि पथ्यमपथ्यं वा रसाः सर्वेपि नीरसाः | अपि भुक्तं विषं घोरं पीयूषमिव जीर्यति || क्षयकुष्टगुदावर्तगुल्मप्लीहपुरोगमाः | तस्य दोषाः क्षयं यान्ति महामुद्रां च यो भ्यसेत् || महाबन्धः || ईश्वर प्रोक्ते || योस्यां प्रसारितः पादो विन्यस्यतमुरूपरि | गुदयोनीसमाकुञ्च्य नीत्वा चापानमूर्द्ध्वगम् || योजयित्वा समानेन कृत्वा प्राणमधोमुखम् | बन्धयेदूर्द्ध्वगत्यर्थमपानप्राणयोस्सुधीः || कथितोयं महाबन्धस्सिद्दिमार्गप्रदायकः | नाडीगलद्रसव्यूहमूर्द्ध्वं नयति योगिनः || उभाभ्यां साधयेत् पद्भ्यामेकैकं सुप्रयत्नतः | मतमत्र तु केषांचित् कण्ठबन्धं विवर्जयेत् || राजदन्तद्वयं तत्र जिह्वयोत्तम्भयेदिति | भवेदभ्यासतो वायुस्सुषुम्णामध्यसंगतः || अनेन वपुषः कांतिर्दृढबन्धोस्थि पञ्जरः | संपूर्ण हृदयो योगी भवन्त्येतानियोगिनः || बन्धेनानेन योगीन्द्रस्साधयेत् सर्वमीप्सितम् | अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेषु वै || हठप्रदीपिकायाम् || पार्ष्णिवामस्य पादस्य योनिस्थाने नियोजयेत् | वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा || प्. ७३अ) पूरयित्वा मुखे वायुं हृदये चिबुकं तथा | निष्पीड्ययोनिमाकुंच्य मनोमध्ये नियोजयेत् || रेचयेच्च शनैरेव महाबन्धोयमुच्यते | अयं खलु महाबन्धो महासिद्धि प्रदायकः || कालपाश महाबन्ध विमोचन विचक्षणः | अयं तु सर्वनाडीनामूर्ध्वं गमनरोधकः || त्रिवेणी संगमं धत्ते केदारं प्रापयेन् मनः | अथ महावधः || रूपलावण्य संपन्ना यथास्त्रीपुरुषं विना | महामुद्रा महाबन्धौ निष्फलौ वेध वर्जितौ || महाबन्धे स्थितो योगी कृत्वा पूरकमेकधा | वायूनां गतिमावृत्यनिभृतं कण्ठमुद्रया || समहस्तयुगो भूमौ स्फिजौ संताडयेच्छनैः | पुटद्वयं समाक्रम्यवायुः स्फुरति मध्यगः || सोमसूर्याग्नि संधानं जायते चामृतायते | मृतावस्था समुत्पन्नं ततो मृत्युभयं कुतः || महावेधो यमभ्यासान् महासिद्धि प्रदायकः | बलीपलितवेपघ्नस्सेव्यते साधकोत्तमैः || एतत्त्रयं महागुह्यं जरामृत्यु विनाशनम् | वह्निवृद्धिकरं चैव अणिमादिगुणप्रदम् || अष्टधा क्रियते चैव यामे यामे दिने दिने | पुण्य संभारसंधायि पापौघभिदुरं सदा || सम्यक् शिक्षावतामेव स्वल्पं प्रथमसाधने | ईश्वर प्रोक्ते || महाबन्ध स्थितो योगी कुक्षिमापूर्य वायुना | प्. ७३ब्) स्फिचौ संताडयेद् विद्वान् वेधोयं कीर्तितो मया || वेधेनानेन संविध्य वायुना योगि पुंगवः | ग्रन्थीन् सुषुम्णामार्गेणब्रह्मरन्ध्रं भिनत्त्यसौ || यः करोति सदाभ्यासं महाबन्धं सुगोपितम् | वायुसिद्धिर्भवेत् तस्य जरामृत्युविनाशनम् || चक्रमध्ये स्थिता देवाः कंपन्ते वायु ताडनात् | कुण्डल्यपि महामाया कैलासांशे विलीयते || तस्माद् योगी प्रयत्नेन करोति त्रितयं क्रमात् | एतत् त्रयं प्रयत्नेन चतुर्वारं करोति यः || षण्मासाभ्यन्तरे मृत्युं जयत्येव न संशयः | एतत् त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः || यज्ज्ञात्वा सिद्धयस्सर्वे सिद्धाख्यां लेभिरे चिरम् | गोपनीयं प्रयत्नेन साधनं सिद्धिमिच्छता || अन्यथा च न सिद्धिस्स्यान् मुद्राणामेषनिर्णय | इति अथ खेचरी || योगबीजे || वितस्ति प्रमितं दीर्घं विस्तारं चतुरङ्गुलम् | मृदुलं धवलं प्रोक्तं वेष्टनाधारलक्षणम् || इति हठप्रदीपिकायाम् || छेदन चालनदोहैर्जिह्वां संवर्द्धयेत् तावत् | यावदियं भ्रूमध्ये स्पृशति तदा खेचरी सिद्धिः || कलां पराङ्मुखीं कृत्वा त्रिपथे परिवर्तयेत् | सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते || रसनामूर्द्ध्वगां कृत्वा क्षणार्द्धं यदि तिष्ठति | प्. ७४अ) विषयैर्मुच्यते योगी व्याधि मृत्युजरादिभिः || खेचर्यामुद्रितं येन विवरं लंबिकोर्द्ध्वतः | तस्य न क्षरते बिन्दु कामिन्या लिङ्गितस्य च || चलितोपि यदा बिन्दुः संप्राप्तश्च हुताशनम् | व्रजत्यूर्द्ध्वं हि गच्छत्यानिरुद्धो योनि मुद्रया || संपातनविधौ विन्दुः पाण्डुरो लोहितस्तथा | पाण्डुरं शुक्लमाख्यातं लोहिताख्यं महारजः || सिन्दूरसंनिभं बीजं रविस्थाने स्थितं रजः | शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् || बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दूरजोरविः | याति विन्दोस्सहैकत्वं भवेद् दिव्यं वपुस्तदा || शुक्रं चन्द्रेण संयुक्तं रजसूर्येण संयुतम् | तयोस्समरसैकत्वं यो जानाति स योगवित् || चित्ता यत्तं नृणां शुक्रं शुक्रायत्तं च जीवितम् | तस्माच्चित्तं च शुक्रं च रक्षणीयं प्रयत्नतः || पाताले यद् वियति शिखरे मेरु मूले तदस्ति तत्त्वं चैतत् प्रवदति सुधीस्सम्मुखे निम्नगानाम् | चन्द्रात् सारं स्रवति वपुषस्तेन मृत्युर्नराणां तं बध्नीयात् स्वकरणमृदानान्यथा काय सिद्धिः || इन्धनानि यथा वह्निस्तैलवर्त्तिश्च दीपकः | नित्यं सोमकलापूर्णं देहीदेहं न मुञ्चति || रसनां वेशयेदूर्द्ध्वं पिबेत् तच्छ्रावितं जलं | गोमांसं भक्षयेन्नित्यं पिबेदमखारुणीम् || कुलीनं तमहं मन्ये नेतरान् कुलघातकान् | गोशब्देनोदिताजिह्वा तत्प्रवेशो हि तालुनिं || प्. ७४ब्) गोमांसभक्षणं तत् तु महापातकनाशनम् | जिह्वा प्रवेशसंभूत वह्निनोत्पादितः खलु || चन्द्रात् स्रवतु यस्सारस्सास्यादमरवारुणी | एकं सृष्टि मयं बीजमेकामुद्रा च खेचरी || एको देशो निरालम्ब एकावस्था मनोन्मनी | नासनं सिद्धसदृशं न कुम्भः केवलोपमः || न खेचरी समामुद्रा न नाद सदृशोलयः | मूर्द्ध्नः षोडशपद्मपत्रगलितं प्राणादवाप्तं हठादूर्ध्वास्योरसनां नियम्य विवरे शक्तिं परां चिन्तयेत् | तत्कल्लोलकलाजलं च विमलं जिह्वा कुलं यः पिबेन्निर्दोषस्समृणालकोमलतनुर्योगी चिरं जीवति | चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वारसस्पन्दिनी सक्षाराकटुकाम्लदुग्धसदृशं मध्वाज्य तुल्यं सदा | व्याधीनां हरणं जरान्त करणं शास्त्रागमोद्धारणं तस्य स्यादिह सिद्धिरष्टगुणिता सिद्धाङ्गना कर्षणं | स्कन्दपुराणे || कपालकुहरे जिह्वा प्रविष्टाविपरीतगा | भ्रुवोरन्तर्गतादृष्टिर्मुद्रा भवति खेचरी || चित्तं चरति खेयस्माज्जिह्वा चरति खेगता | ते नैषा खेचरी नाम मुद्रासिद्धैर्निषेविता || यावद् वद्धा नभो मुद्रा तावद् बिन्दुर्न गच्छति | यावद् बिन्दुः स्थिरो देहे तावत् कालभयं कुतः || प्. ७५अ) पिड्यतेन सरोगेण न च लिप्येत कर्मणा | बाध्यतेन सकालेन यो मुद्रां वेत्तिखेचरीम् || रसनां तालु विवरे निधायोर्द्ध्व मुखे मृतम् | पिबेन्निर्जरतां गच्छेत् षण्मासान्नात्र संशयः || ऊर्द्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः | मासार्द्धेन न संदेहो मृत्युंजयति योगवित् || संपीड्यरसनाग्रेण राजदन्तविलं महत् | ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत् || अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् | ऊर्द्ध्वं प्रवर्तते रेतो ह्यणिमादि गुणोदयम् || नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः | तक्षकेणापि दष्टस्य विषं तन्न च सर्पनीति || दत्तात्रेयः || अन्तःकपालविवरे जिह्वां प्रावृत्यचार्पयेत् | भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी || न रोगो मरणं तस्य न निद्रा न क्षुधातृषा | न च मूर्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् इति || ईश्वर प्रोक्ते || लम्बिकोर्द्ध्वे स्थिते गर्ते रसनां विपरीतगाम् | संयोजयेत् प्रयत्नेन सुधाकूपे विचक्षणः || मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः | निरन्तरकृताभ्यासः पीयूषं प्रत्यहं पिबेत् || तेन विग्रहसिद्धिस्स्यान् मृत्युमातंग खेचरी | मुद्रैषा खेचरी यस्य सुस्थितास्यादतन्द्रिता || शतब्रह्मगतेनापि क्षणार्द्धं मन्यते हि स इति | प्. ७५ब्) अथ मूलबन्धः || पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम् | बलादपानमाकृष्यक्रमादूर्द्ध्वं समभ्यसेत् || कथितोयं मूलबन्धो जरामरणनाशनः | अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः || बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यति | सिद्धायां योनि मुद्रायां किं न सिद्ध्यति भूतले || बन्धस्यास्य प्रसादेन गगने विजितानिलः | पद्मासन स्थितो योगी भुवमुत्सृज्यवर्तते || सुगुप्ते निर्ज्जने देशे बन्धमेनं समभ्यसेत् | संसारसागरं तर्तुं यदी छेद्योगि पुंगव || इति हठप्रदीपिकायाम् || पार्ष्णिघातेन संपीड्ययोनिमाकुञ्चयेद् गुदम् | अपानमूर्द्ध्वमाकृष्य मूलबन्धोयमुच्यते || अधोगतमपानं च तदूर्द्ध्वं कुरुते हठात् | आकुञ्चनेन तं प्राहुर्मूलबन्धं तु योगिन || इति योगबीजे || गुदंपार्ष्ण्या तु संपीड्य वायुमाकुञ्चयेद् बलात् | वारं वारं तथा चोर्द्ध्वं समायाति समीरणः || प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् | गत्वा योगस्य संसिद्धिं गच्छतो नात्र संशयः || अपाने चोर्द्ध्वगे जाते संप्राप्ते वह्निमण्डले | तथा नलशिखादीर्घा वर्धते वायुनाहता || ततो यातौ वह्न्यपानौ प्राणमुक्त स्वरूपकौ | प्. ७६अ) तेनात्यन्त प्रदीप्तस्तु ज्वलनो देहजस्तथा || तेन कुण्डलिनी सुप्ता सततं संप्रबोध्यते | दण्डाहतभुजङ्गीवनिश्चितं ऋजुतां व्रजेत् || विलं प्रविष्टैव तथा ब्रह्म नाड्यन्तरं व्रजेत् | तस्मान् नित्यं मूलबन्धः कर्त्तव्यो योगि पुंगवैः || उड्डियानबन्धः | योगबीजे || बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः | तस्मादुड्डीयानाख्योयं योगिना समुदाहृतः || उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः || उड्डीयानं तदेवस्यान्मूलबन्धोभिधीयते | उदरे पश्चिमंतानं नाभेरुर्द्ध्वसमाचरेत् || उड्डियानो ह्यसौबन्धो मृत्युमातङ्गकेसरी | उड्डियानं तु सहजं गुरुणा कथितं यथा || अभ्यसेत् तदतन्द्रस्तु वृद्धोपि तरुणायते | नाभेरुद्ध्वमधो वापितानं कुर्यात् प्रयत्नतः || षण्मासमभ्यसेन् मृत्युंजयत्येव न संशयः | हठप्रदीपिकायाम् || सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् | गुल्पदेशसमीपे च उदरं तत्प्रपीडयेत् || पश्चिमंतानमुदरं कारयेच्चिवुकं हृदि | शनैश्शनैर्यथा प्राणस्तुन्दसिद्धिं न गच्छति || सर्वेषामेव बंधानां ह्युत्तमो ह्युड्डियानकः | उड्डियाने दृढे बन्धे मूलः स्वाभाविको भवेदिति || ईश्वर प्रोक्ते || नाभेरुर्द्ध्वमधश्चापितानं निर्भरमाचरेत् | प्. ७६ब्) उड्डियानो बन्ध एषसर्व दुःखौघनाशनः || नित्यं यः कुरुते योगी चतुर्वारं दिने दिने | तस्य नाभेर्विशुद्धिस्याद् येन सिद्धो भवेन् मरुत् || षण्मासमभ्यसन्योगी मृत्युंजयति तत्ववित् | तस्योदराग्निर्ज्वलति रसवृद्धिश्च जायते || अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते | रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम् || गुरोर्लब्ध्वा प्रयत्नेन साधयेत् तु विचक्षणः | निर्जने सुस्थिते देशे बन्धं परमदुर्लभमिति || अथ जालन्धरः || बध्वागलशिरोजालं हृदये चिबुकं न्यसेत् | बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः || नाभिस्थ वह्निर्जन्तूनां सहस्रकमलच्युतम् | पिवेत् पीयूषं रसवत् तदर्थं बन्धयेदिमम् || बधेनानेन पीयूषं स्वयं पिबति बुद्धिमान् | अमरत्वं च संप्राप्य मोदते भुवन त्रये || जालंधरो वन्ध एष सिद्धानां सिद्धिदायकः | अभ्यासः क्रियते नित्यं योगिनासिद्धिमिच्छतेति || योगबीजे || कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढमिछया | बन्धोजालन्धराख्यो यममृताव्ययकारक || इति हठप्रदीपिकायाम् || बध्नातीह शिरोजालमधोगामि नभोजलम् | ततो जालंधरः प्रोक्तः कण्ठ दुःखौघनाशनः || प्. ७७अ) जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे | न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति || मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम् | बन्धत्रयमिदं श्रेष्ठं महासिद्धनिषेवितम् || सर्वेषां हठतंत्राणां साधने योगिनामिति || अथ विपरीतकरणी | हठयोगे || नाभिदेशे स्थितो नित्यं भास्करो दहनात्मकः | अमृतात्मा स्थितो नित्यं तालुमध्ये च चन्द्रमाः || वर्षत्यधो मुखश्चन्द्रो ग्रस्त्यूर्द्ध्वमुखो रविः | करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा || विशुद्धे परमे चक्रे रुद्ध्वासोमकलामृतम् | तन्मार्गेण कृतं याति वञ्चयित्वा मुखं रवेः || अमृतं कन्दरे कृत्वा नासान्तं शिखरे क्रमात् | स्वयमुच्चालितं याति वञ्चयित्वा मुखं रवेः || वद्धं सोमकलाजलं च विमलं कण्ठस्थला दूर्द्धतो नासान्तं शिखरेण याति गगनं द्वारं ततस्सर्वतः | ऊर्द्ध्वस्थो भुवि संनिपत्यनितरामुत्तानपादः पिवेदेवं यः कुरुते जितेन्द्रिय च यो नैवास्ति तस्य क्षयः || हठप्रदीपिकायाम् || यत्किंचित् स्रवते चन्द्रादमृतं दिव्यरूपि च | तत्सर्वे ग्रसते सूर्यस्तेन पिण्डं विनाशितम् || तत्रास्तिकरणं दिव्यं सूर्यस्य मुखबन्धनम् | गुरुपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः || प्. ७७ब्) ऊर्द्ध्वं नाभिरधस्तालुरूर्द्ध्वं भानुरधः शशी | करणी विपरीताख्या सर्वव्याधि विनाशिनी || दत्तात्रेयः || ऊर्द्ध्वभानुरधश्चन्द्रस्तद्यथा शृणुसांकृते | अधश्शिरश्चोर्द्ध्वपादः क्षणं स्यात् प्रथमे दिने || क्षणाच्च किञ्चिदधिकमभ्यसेच्च दिने दिने | बलिश्च पलितं चैव षण्मासार्द्धेन दृश्यते || याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित् | नित्यमभ्यास युक्तस्य जठराग्नि विवर्द्धनम् || आहारो बहुलस्तस्य संपाद्यः सांकृते घृतैः | अल्पाहारो यदि भवेदग्निर्दाहं करोति वै || अथ शक्ति चालनम् | ईश्वर प्रोक्ते || आधारकमले सुप्तां चालयेत् कुण्डलीं दृढम् | अपानवायुमाकृष्य बलादाकुञ्च्यबुद्धिमान् || शक्तिचालनमेवं हि प्रत्यहं यः समभ्यसेत् | अग्नि वृद्धिर्भवेत् तस्य रोगाणां च विनाशनम् || विहायनिद्रां भुजगी स्वयमूर्द्ध्वे भवेत् खलु | तस्मादभ्यसनं कार्यं योगिनासिद्धिमिच्छता || यः करोति सदाभ्यासं शक्तिचालनमुत्तमम् | येन विग्रहसिद्धिस्स्यादणिमादिगुण प्रदा || गुरूपदेश विधिना तस्य मृत्यु भयं कुतः | मुहूर्तद्वयपर्यन्तं विधिना शक्ति चालनम् || वज्रासने गतो नित्यं मासार्द्धं तु समभ्यसेत् | प्. ७८अ) वायुना ज्वलितो वह्निः कुण्डलीं दहते निशम् | संतप्तासाग्नि नाडी च शक्तिस्त्रैलोक्य मोहिनी || विशते वज्रतुण्डेन सुषुमणावदनान्तरे | वायुनावह्निनासार्द्धं ब्रह्मग्रन्थिं विभिद्य सा || विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थ्येव तिष्ठति | ततस्तु कुम्भके गाढं पूरयित्वा पुनः पुनः || भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया | तथैव पृष्ठवंशे स्याद् ग्रन्थिभेदस्तु वायुना || पिपीलिका यदा लग्ना कण्डूस्तत्र प्रवर्तते | सुषुम्णायां तथा श्वासात् सततं वायुना भवेत् || रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकमिति | हठयोगे || उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् | कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् || येन द्वारेण गन्तव्यं ब्रह्मस्थानं निरामयम् | मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी || कन्दोर्द्ध्वं कुण्डली शक्तिर्बुध्वा मोक्षाययोगिनाम् | बन्धनाय च मूढानां यस्तो वेत्ति स योगवित् || अंभोधि शैलद्वीपानां माधारः शेषकुण्डली | अशेषयोगतंत्राणामाधारः कुण्डली तथा || कुण्डलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी | कुटिलारुन्धती देवी शब्दाः पर्याय वाचकाः || कुण्डलीकुटिलाकारा सर्पवत् परिकीर्तिता | प्. ७८ब्) सा शक्तिश्चालिता येन समुक्तो नात्र संशयः | गंगायमुनयोर्मध्ये बालरण्डा तपस्विनी || बलात्कारेण गृह्नीयात् तद्विष्णोः परमं पदम् | पुच्छं प्रगृह्य भुजंगी सुप्तामुद्बोधयेदभि || निद्रां विहाय सा ऋज्वी ऊर्द्ध्वमुत्तिष्टते हठात् | परिस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्द्ध मात्रम् | प्रपूर्य सौर्यां परिधानमुक्ता प्रगृह्यनिर्याति विचालिता सा | वज्रासन स्थितो योगी चालयित्वा तु कुण्डलीम् | सूर्यादनन्तरं भस्त्रा कुण्डलीमाशु बोधयेत् || भानोरा कुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः | मृत्युवक्त्र गतस्यापि तस्य मृत्यु भयं कुतः || नासादक्षिणमार्गवाहि पवनोघ्राणेति दीर्घीकृतश्चन्द्राम्भः परिपूरितामृततनुः प्राग्घण्टिकायास्ततः | भिन्दन्कालविशालवह्निवशगानत्रूरन्ध्रनाडीगणास्तं कायं कुरुते पुनर्नवतरं जीर्णद्रुमस्कन्धवत् | कुण्डलीं चालयित्वा तु कुर्याद् भस्त्रांद्विशेषतः | एवमभ्यासतो नित्यं यमिनः शंकते यमः || तदाभ्यसेत् सूर्यभेदमुजायीं चापि शीतलाम् | एवमभ्यास युक्तस्य यमस्तुयमिनः कुतः || मुहूर्तद्वयपर्यन्तं निर्भरं चालनाद्धि वै | ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः || मण्डला दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः | प्. ७९अ) द्विसप्तति सहस्राणां नाडीनां मलशोधनम् || कुतः प्रक्षालनोपायः कुण्डलाभ्यासतो विना | अत्र शक्ति चालने पद्मासनमेव द्रष्टव्यं न वज्रासनम् | अनुभवविरोधात् | तथा च ग्रन्थान्तरे || कृत्वा संपुटितौ करौ दृढतरं बध्वा च पद्मासनं गाढं वक्षसि संनिधाय चिबुकं ध्यानं च तच्चेतसि | वारंवारमपानमूर्द्धव्मनिलं प्रोत्सारयेत् पूरयेत् प्राणं मुञ्चति बोधमेति नियतं शक्तिप्रबोधोदयात् | इति मुद्रानवप्रोक्ता आदिनाथेन शंभुना | एकैकातासुयमिनां महासिद्धि प्रदायिनी || दत्तात्रेयः || अभ्यासभेदतो भेदः फलं तु सममेव हि | अभ्यासक्रमश्चोक्तः पवन संग्रहे || महामुद्रां समभ्यस्य महाबन्धं ततः परम् | महावेधं च नियतं प्रकुर्याच्छक्ति चालनम् || आसनं सुदृढं बध्वामूलबन्धं विधाय च | उड्डियानं तथा बन्धं ततो जालंधराभिधम् || अभ्यसेदिति सम्बन्धः | हठप्रदीपिकायाम् || मूलस्थानं समाकृष्य उड्डियानं तु कारयेत् | इडां च पिंगलां बध्वा वाहयेत् पश्चिमे पथि || अनेनैव विधानेन सेवयेत् पवनालयम् | ततो न जायते मृत्युर्जरारोगादिकं तथा || इति योगबीजे || चतुर्णामपि भेदानां कुंभके समुपस्थिते | प्. ७९ब्) बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयास्फुटं || पूरकान्ते तु कर्तव्यो बन्धोजालन्धराभिधः | कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः || अथस्त्वा कुञ्चनेनाशु कण्ठसंकोचनेन च | मध्ये पश्चिमतानेन स्यात् प्राणो ब्रह्मनाडिगः || अपानमूर्द्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् | योगीजराविमुक्तस्सन्वयसा षोडशो भवेत् उड्डियानस्य साहजिकत्वात् कुम्भकदशायां कर्तव्यम् | अत्र केचित् | यद्यपि कपिलादि सिद्धानामेव महामुद्रादयस्संमता न याज्ञवल्क्यादि मुनीनां तथापि साधारण्येन बोद्धव्या इत्याहुः | तत् तु ग्रन्थार्थावबोधविधुरम् | तथा हि | नादोत्पत्ति प्रकरणे | अपानमूर्द्ध्वमाकृष्य प्रणवेन समाहित इत्यत्रमूलबन्धः कण्ठत एवोक्तः तदुक्त्या च तत्सम्बन्धिनावुड्डियान जालन्धरावपि प्राप्तौ एकसमयावच्छेदेन त्रयाणामनुष्ठानस्य पूर्व दर्शितत्वात् | किं च जिह्वायां वायुमानीय जिह्वामूले निरोधयेत् | यः पिबेदमृतं विद्वान् सकलं भद्रमश्नुते इत्यत्र खेचरीं विना अमृतपानानुपपत्तेः स्पष्टत्वात् | तस्मात् सन्ति याज्ञवल्क्यादी नामपि मुद्रा अभिप्रेताः प्रतिपादनं तु ग्रन्थान्तरे प्रसिद्धत्वाद् विशेषेण न कृतमत्रेत्यवधेयम् | इदानीं तु पूर्वोक्त बाह्याभ्यन्तरसाधनसंपन्नस्याधारधारमुद्रा चक्रादि प्. ८०अ) ज्ञानवतो मुमुक्षोश्चित्तशुद्धिद्वारामोक्षसाधनी- भूततत्त्वज्ञानोपयोगी नियोगाङ्गनि निरूप्यन्ते तथा च पातञ्जले || योगाङ्गानुष्ठानाद शुद्धि क्षये ज्ञानदीप्तिराविवेकख्यातेरिति | वक्ष्यमाणानां योगाङ्गानामनुष्ठानादाविवेकख्यातेरशुद्धिक्षयचित्तसत्त्वस्य प्रकाशावरणक्लेशाख्याया अशुद्धेर्नाशे सति या भवति ज्ञानदीप्तिः सात्विकः परिणामो विवेकख्याति पर्यन्तस्स तस्या विवेकख्यातेर्हेतुरित्यर्थः | योगाङ्गोद्देशपरं च सूत्रम् | यमनियमासन प्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानीति | याज्ञवल्क्यः || वक्ष्याम्यङ्गानि ते सम्यग् यथापूर्वं मयाश्रुतम् | समाहित मनागार्गि ऋषिभिस्सहसंशृणु || यमश्च नियमश्चैव दशधा संप्रकीर्तितः | आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम् || प्राणायामस्त्रिधा प्रोक्तः प्रत्याहारश्च पञ्चधा | धारणा पञ्चधा प्रोक्ता ध्यानं षोढा प्रकीर्तितम् || त्रयं तेषूत्तमं प्रोक्तं समाधिस्त्वेक रूपतः | बहुधा केचिदिच्छन्ति विस्तरेण पृथक् पृथक् || अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् | क्षमाधृतीर्मिताहारः शौचं चेति यमादश || कर्मणामनसा वाचा सर्वभूतेषु सर्वदा | अक्लेशजननं प्रोक्तं अहिंसा सैव योगिभिः || प्. ८०ब्) सत्यं भूतहितं प्रोक्तं न यथार्थावभाषणम् | कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहा || अस्तेयमिति तत्प्रोक्तं ऋषिभिस्तत्त्व दर्शिभिः | कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा || सर्वत्र मैथुन त्यागो ब्रह्मचर्यं प्रचक्षते | ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च || ब्रह्मचर्या तु सैवोक्ता तथैवारण्य वासिनाम् | ऋतावृतौ स्वदारेषु संगतिर्या विधानतः || ब्रह्मचर्या तु सैवोक्ता गृहस्थाश्रमवासिनाम् | राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् || शुश्रुषा च गुरौ नित्यं ब्रह्मचर्यमुदाहृतम् | दया च सर्वभूतेषु सर्वत्रानुग्रहः स्मृतः || विहितेषु तदन्येषु मनोवाक्काय कर्मभिः | प्रवृत्तौ वा निवृत्तौ वा एकरूपत्वमार्जवम् || प्रियाप्रियेषु सर्वेषु समत्वं यच्छरीरिणाम् | क्षमा सैवेति विद्वद्भिर्गदिता वेदवादिभिः || अर्थहानौ च बन्धूनां नियोगेष्वपि संपदि | तयोः प्राप्तौ च सर्वत्र चित्तस्य स्थापनं धृतिः || अष्टौ ग्रासामुनेः प्रोक्ताः षोडशारण्यवासिनाम् | द्वात्रिंशच्च गृहस्य यथेष्टं ब्रह्मचारिणाम् || येषा मयं मिताहारो ह्यन्येषामल्पभोजनम् | शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा || मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिस्तथान्तरम् | प्. ८१अ) मनःशुद्धिश्च विज्ञेया धर्मेणाध्यात्म विद्यया || अध्यात्मविद्याधर्मेण पित्राचार्येण वा नघे | तपस्संतोष आस्तिक्यं दानमीश्वर पूजनम् || सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् | एते तु नियमाः प्रोक्तार्स्तांश्च सर्वान् पृथक् शृणु || विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः | शरीरशोषणं प्रोचुस्तापसास्तप उत्तमम् || इदं तु योगाभ्यासात् प्रागेव द्रष्टव्यम् | अभ्यासकाले कायक्लेशोपवासादीनां निषेधात् || भगवद्गीतोक्तमौनादि लक्षणं युज्यते | तथा हि | देवद्विजगुरुप्राज्ञ पूजनशौचमार्जवम् || ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते | अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् || स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते | मनःप्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः || भावसंशुद्धिरित्ये तत् तपो मानसमुच्यते | याज्ञवल्क्यः || यदृच्छा लाभतो नित्यमलंपुंसो भवेदिति | यामतिस्तामृषयः प्रोचुस्संतोषं सुखलक्षणं || धर्माधर्मेषु विश्वासो यस्तदास्तिक्यमुच्यते | न्यायार्जितं धनं चान्नमन्यद्वायत्प्रदीयते || अर्थिभ्यः श्रद्धयायुक्तं दानमेतदुदाहृतम् | यत्प्रसन्न स्वभावेन विष्णुं वा रुद्रमेव वा || यथाशक्त्यर्चनं भक्त्या ह्येतदीश्वरपूजनम् | प्. ८१ब्) रागादपेतं हृदयं वागदुष्टानृतादिना | हिंसारहित कायश्च एतदीश्वरपूजनम् || सिद्धान्त श्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः | द्विजवत् क्षत्रियस्योक्तं सिद्धान्त श्रवणं बुधैः || विशां च केचिद् इछान्ति शीलवृत्तवतां सताम् | शूद्राणां च स्त्रियां चैव स्वधर्मस्थ तपस्विनाम् || सिद्धान्तश्रवणं प्रोक्तं पुराण श्रवणं बुधैः | वेदलौकिक मार्गे तु कुत्सितं कर्मयद्भवेत् || तस्मिन् भवति या लज्जाह्नीस्तु सैवेति कीर्तिता | विहितेषु च सर्वेषु श्रद्धाया सा मतिर्भवेत् || गुरुणाचोपदिष्टो पिवेदबाह्यविवर्जितः | विधिनोक्तेन मार्गेन मन्त्राभ्यासो जपः स्मृतः || अधीत्य वेद सूत्रं वा पुराणं सेति हासकम् | यदेष्वध्ययनं तच्च सदाभ्यासो जपः स्मृतः || यति विषये दत्तात्रेयो विशेष माह | अस्तेयं ब्रह्मचर्यं च त्यागो लोभस्तथैव च | व्रतानि पञ्चभिक्षूणामहिंसा परमाणि वै || अक्रोधो गुरुशुश्रूषा शौचमहार लाघवम् | नित्यं स्वाध्याय इत्येते नियमाः पञ्चकीर्तिता इति || पातञ्जलेपि || अहिंसासत्यमस्तेयं ब्रह्मचर्यापरिग्रहायमाः | शौचं संतोष तपस्स्वाध्यायेश्वर प्रणिधानानि नियमा || इति गरुडपुराणे || आनृशंस्य मनालस्यं वैराग्यं चार्जवं परम् | अचापलं धृतिः सत्यं ज्ञानं चैव यमं विदुः || अत्रानृशंस्य घातकत्वाभावः | शौचमाहारनियमो निर्ममत्वमसंगता | प्. ८२अ) शमः क्षमादमस्तुष्टिरित्यष्टौनियमाः स्मृताः | अथासनम् | तत्र पतञ्जलिः || स्थिरसुखमासनम् || आस्यतेनेनेत्यासनं पद्मादि तद्यदानिष्कम्पं सुखमनुद्वेजनीयं च भवति तदा तद्योगाङ्गतां भजते | तथास्यैव स्थिरसुखापत्त्यर्थं सूत्रम् | प्रयत्नशैथिल्यसमापत्तिभ्यामिति | तत्रानन्त्येति भाव प्रत्ययान्तः पाठ इति भोजदेवः | प्रयत्नशैथिल्येनानन्त्य समापत्त्या च स्थिरं सुखं च भवतीति सम्बन्धः | यदा यदासनं बध्नामीति प्रयत्न शैथिल्येपि अक्लेशे नैव निष्पद्यते | यदा चाकाश गत आनन्त्ये चेतसस्समापत्तिः क्रियते अवधानेन तादात्म्यमापाद्यते तदा देहाहंकाराभावान्नासनं सुखजनकं भवति | अस्मिंश्चासनजये सति समाध्यन्तरायभूता न प्रभवन्त्यङ्गमे जयत्वादयः | अनन्तसमापत्तिभ्यामिति भाव प्रत्यय रहितस्सुत्रपाठ इति भाष्यसंप्रदायः | अत्र अनन्ते नागनायके स्थिरतरेफणासहस्रविधृतविधृत विश्वंभरामण्डले समापन्नं चितं आसनं निर्वर्तयतीति व्याख्यानमिति वाचस्पति मिश्राः | आसनसामान्य लक्षणं तु करचरणसंस्थान विशेष आसनमिति | विशेषलक्षणं तु धर्मपुत्रिकायाम् | स्थातव्यौ भूतले पादावासनस्थेन योगिना | दक्षिणं वाम भागे तु वामपादं तु दक्षिणे || प्. ८२ब्) अन्योन्याभिमुखं कृत्वा मृगशीर्षकरद्वयम् | योगसंसिद्धिहेतोस्तु मृगस्वस्तिकमुच्यते || तलपादेन वामेन जानुना दक्षिणेन च | स्थित्वा हस्तपुटं कार्यमर्द्धचन्द्रासनं विदुः || भुवि स्थित्वा तु जानुभ्यां तावन् मात्रेण योगिना | हृदिहस्तपुटं कार्यं ज्ञेयमञ्जिलकासनम् || सुखप्रसारितौ पादौ सुश्लिष्टौ भूमिसंस्थितौ | उपविश्यार्द्धकायं तु दण्डासनमिति स्मृतं || आसनस्थेन पादौद्वौ न्यस्यतौ भूतले समौ | जानुद्वये हस्ततलं कृत्वापीठासनं भवेत् || इति मतङ्गः || पर्यंकं योगपट्टेन बध्नीयात् पृष्ठतो गतः | आकुञ्च्य जानुनी सम्यक् पादतलात् तु दक्षिणं || बाह्यतो वामजंघायां वामं सव्यादधो बहिः | किंचिद् विनिर्गतं कृत्वा संतिष्ठेन्नाम्य वै कटिम् || पर्यंकमिति विख्यातमासनं योगसिद्धिदम् || आग्नेय पुराणे || पादौ द्वौ द्विगुणीकृत्य तिर्यगूर्द्ध्वं यथा क्रमम् | न्यसेत् पाणी यथा पट्ट स्थित श्लिष्टाङ्गुलीनखौ || योगपट्टासनं ह्येतत् सर्वेषामभिपूजितम् | इति चन्द्रार्द्धं लेशतः शृणु || तद्वत् पादद्वयं कृत्वा सुतलान्योन्य संस्थितम् | चन्द्रार्द्धमेवं कथितमिति | तद्वत् पद्मासन वद्द्विगुणपादद्वयं कृत्वेत्यर्थः | तद्वत् पाद द्वयं कुर्यात् तन्मुखं तु प्रणामितम् || पृष्ठतोप्युपधानस्थं संप्रसार्य करद्वयम् | प्. ८३अ) प्रसारितासनं ह्येतत् कथितं योगसिद्धिदम् || वसिष्ठः || गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः | कूर्मासनं भवेदेतदिति योगविदो विदुः || कूर्मपुराणे || एकपादमथैकस्मिन् विन्यसोरुणिसंस्थितः | आसीतार्द्धानमिदं योगसाधनमुत्तमम् || याज्ञवल्क्यः || जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे | ऋजुकायस्समासीनः स्वस्तिकं तत्प्रचक्षते || सीवन्यामात्मनः पार्श्वे गुल्फौ निःक्षिप्यपादयोः | सव्ये दक्षिणगुल्फं तु पृछपार्श्वे निवेशयेत् || दक्षिणेपि तथा सव्यं गोमुखं तद्भवेद् यथा | एकं पादमथैकस्मिन् विन्यस्यो रुणि संस्थितः || इतरस्मिंस्तथाचोरुं वीरासनमुदाहृतम् | गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् || दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् | हस्तौजानुपरिस्थाप्य स्वांगुलीस्संप्रसार्य च || व्याप्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः | सिंहासनं भवेदेतत् पूजितं योगिभिस्सदा || गुल्फौ च वृषण स्याधस्सीवन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढं बध्वा सुनिश्चलः || भद्रासनं भवेदेतत् सर्वव्याधि विषापहम् | संपीड्यसीवनीं सूक्ष्मां गुल्फेनैव तु सव्यतः || सव्यं दक्षिणगुल्फेन मुक्तासनमितीरितम् | अवष्टभ्यधरां सम्यक् तलाभ्यां करयोर्द्वयोः || हस्तयोः कूर्परे चापि स्थापयेन्नाभिपार्श्वयोः | प्. ८३ब्) समुन्नतशिरः पादो दण्डवद् व्योम्नि संस्थितः | मयूरासनमेतद्वै सर्वपाप प्रणासानम् || सर्वे चाभ्यन्तरारोगा विनश्यन्ति विषाणि च | हठप्रदीपिकायाम् || वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः | अंगीकृतान्यासनानि वक्ष्यन्ते कानि चिन्मया || हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते | तत्कुर्यादासनस्थैर्यमारोग्यं चाङ्गलाघवम् || पद्मासनं तु संयोज्य जानूर्वोरन्तरे करौ | निवेश्यभूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् || कुक्कुटासनबन्धस्योदोर्भ्यां संबध्यकन्धराम् | भवेत् कूर्मवदुत्तानमेतदुत्तान कूर्मकम् || पादांगुष्ठौ च पाणिभ्यां गृहीत्वा श्रवणावधि | धनुराकर्षणं कृत्वा धनुरासनमुच्यते || वामोरु मूलार्पित दक्षपादं जान्वोर्वहिर्वेष्टित दक्षदोष्णा | प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं स्यात् | मत्स्येन्द्रपीठं जठरप्रवृद्ध प्रचण्डरुङ्मण्डलखण्डनास्त्रम् | अभ्यासतः कुण्डलिनी प्रबोधं दण्डे स्थिरत्वं प्रकरोति पुंसाम् | प्रसार्य पादौ भुविदण्डरूपौ द्वाभ्यां च पादद्वितयं गृहीत्वा | जानुपरिन्यस्त ललाटदेशोभ्यसेदिदं पश्चिमतानमाङ्गः | इति पश्चिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति | उदयं जठरानलस्य कुर्यादुदरे कार्श्यमरोगिता च पुंसाम् | धरामवष्टभ्य पुनः कराभ्यां तत्कूर्परस्थापितनाभिपार्श्वः | तदासने दण्डवदुत्थितः खेमायूरमेतत् प्रवदन्ति सन्तः | हरति सकल रोगानाशु गुल्मोदरादीनभी भवति च दोषानासनं श्रीमधूरम् | बहुकदम्रान भूक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत् काल कूटम् | उत्तानः शववद्भूमौ शवासनमिदं स्मृतम् | शवासनं श्रान्तिहरं चित्त विश्रान्ति साधनम् || प्. ८४अ) भूमौ स्वमस्तकं स्थाप्य हस्तयोः कूर्परे तथा | पादौ खेदण्डवत् कुर्यान् नरकासनमीरितम् || स्कन्दपुराणे || आसनानीहतावन्ति यावत्यो जीवयोनयः | सिद्धानि चैव सर्वाणि तेषु द्वे क्षिप्र सिद्धिदे || गोरक्षः || चतुरशीतिर्लक्षाणामेकैकं समुदाहृतम् | एतेषामखिलान् भेदान् विजानाति महेश्वरः || ततः शिवेन पीठानां षोडशोन शतं कृतम् | आसनेभ्यस्समस्तेभ्यो द्वयमेतदुदाहृतम् || एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् | हठप्रदीपीकायाम् || चतुरशीत्यासनानि शिवेन कथितानि वै | तेभ्यश्चतुष्कमादाय सारभूतं व्रवीम्यहम् || सिद्धं पद्मं तथा भद्रं सिंहं चेति चतुष्टयम् | श्रेष्ठं तत्रापि वै पद्मं तिष्ठेत् सिद्धासनं तदा || भद्रसिंहासने पूर्वमुक्ते | याज्ञवल्क्यः | दक्षिणेतरगुल्फेन सीवनीं पीडयेच्छिराम् | अधस्तादराडयोः सूक्ष्मां सव्योपरि तु दक्षिणम् || जंघोर्वोरुत्तरे गार्गि निश्छिद्रं बन्धयेद् दृढम् || समग्रीव शिरः स्कन्धस्समपृष्ठस्समोदरः | नेत्राभ्यां दक्षिणं गुल्फं लोकयन्नुपरिस्थितं || एतत् सिद्धासनं नाम शीघ्रसिद्धिविधायकम् | तथा || सव्येन गुल्फेन गुदं निपीड्य सव्येतरेणैव निपीड्यसन्धिम् | सव्येकरे न्यस्तकरेतरे स्मिन्शिखां समालोक्वय पावकस्य || आयुर्विघात कृत्प्राणो निरुद्धः स्वासनेन वै | याति गार्गि तदा पानात् कुलं वह्नेः शनैः शनैः || पवनयोगसंग्रहे || योनिस्थानकमब्धिमूलघटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादमथैकमेक हृदयः कृत्वासमं विग्रहं | स्थाणुः संयमितेन्द्रियो चंल दृशापश्येद्भ्रुवोरन्तरं प्. ८४ब्) चैतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते | तथा || मेढ्राडुपरिविन्यस्य सव्यं गुल्फं तथोपरि | गुल्फान्तरं तु विन्यस्य सिद्धासनमिदं भवेत् || एतत्सिद्धासनं प्राहुः पद्मासनमथो विदुः | गुप्तासनं वदन्त्येके प्राहुर्वज्रासनं परे || केचिन्मुक्तासनं प्राहुरिदमासनमुत्तमम् | हठप्रदीपिकायाम् || नियमेषु मिताहारो यथा हिंसायमेष्विव | मुख्यं सर्वासनेष्वेवं सिद्धासनमिदं विदुः || चतुरशीति पीठेषु सिद्धासनं समभ्यसेत् | द्वासप्तति सहस्रेषु सुषुम्णामिव नाडिषु || आत्मध्यायीमिताहारी यावद् द्वादशवत्सरम् | सदा सिद्धासनाभ्यासाद् योगी निष्पत्तिमाप्नुयात् || शमदैर्वहुभिः पीठैः किं स्यात् सिद्धासने सति | प्राणानिले सावधाने वद्धे केवलकुभके || उत्पत्स्यते निरायासात् स्वयमेवोन्मनी यथा | अथैकस्मिन्नेव दृढं बद्धे सिद्धासने सदा || बन्धत्रयमनायासात् स्वयमेवोपजायते | अथ पद्मासनम् | याज्ञवल्क्यः || अंगुष्ठौ च निवद्ध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु | ऊर्वोरुपरि विप्रेन्द्रे कृत्वा पादतले उभे || पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् | भूपृष्ठे तु समेरम्ये विनिवेश्य समाधिना || प्. ८५अ) दक्षिणोरुगतं वामपादं वामोरुसंस्थितम् | दक्षिणं तु समाकृष्य तज्जङ्घे तु परस्परम् || एतद्धि कमलं नाम विधेरासनमुत्तमम् | हठयोगे || वामोरूपरिदक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् | अङ्गुष्ठौ हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते | दत्तात्रेयः || उत्तानौ चणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः | ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ || नासाग्रे विन्यसेद् राजदन्तमूलं तु जिह्वया | उत्तभ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः || यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः | यथाशक्त्यैव पश्चात् तु रेचयेत् पवनं शनैः || इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् | दुर्लभं येन केनापि धीमता लभ्यते भुवि || पत्मासन स्थितो योगी नाडी द्वारेषु पूरयेत् | मारुतं धारयेद् यस्तु समुक्तो नात्रसंशयः || एवमासन बन्धेषु योगीन्द्रो विजितश्रमः | अभ्यसेन् नाडि शुद्धिं च मुद्रया पवन क्रियामिति || इति श्रीपरमहंसपरिव्राजकाचार्य श्रीमद्रामचन्द्रसदानन्दसरस्वती शिष्य शिवानन्दसरस्वती विरचिते योगचिन्तामणौ द्वितीयः परिछेदः || २ || श्रीदक्षिणामूर्तये नमः || प्. ८५ब्) अथोक्त देशे यथोक्त लक्षणविशिष्टे मठे शुभकाले स्वानुकूलशुभतारा चन्द्रबलमुहूर्तयोगयुक्तायां तिथौ विनायकं शिवं शिवां विष्णुं क्षेत्रपालं गुरुं सशिष्यान्योगीन्द्राश्च यथाशक्ति संपूज्य कुशाजिन षोडशगुणित वस्त्रासने यमादि गुणसंपन्नः प्राङ्मुखोदङ्मुखोवोपविश्य शिवादि दैवतान्योगिनो गुरून् प्रणम्य गुरु शास्त्रोक्त मार्गेण प्राणायाम स्यात्यन्तान्तरङ्गं प्रथमं नाडीशोधनं कुर्यात् | गीतायाम् || शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | नात्युच्छ्रितं नातिनीचंचैलाजिन कुशोत्तरमिति || राजयोगे || विविक्ते विजने देशे पवित्रेति मनोहरे | समासने समासीनः पश्चात् किंचित् समाश्रितः || सुसुखस्थित सर्वाङ्गः सुस्थिरात्मा सुनिर्मलः | श्रुतौ | विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरः शरीरः | अत्याश्रमस्थस्सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्येति | कूर्मपुराणे शिववाक्यम् || नमस्कृत्वाथ योगीन्द्रान् सशिष्याश्च विनायकम् | गुरुं चैवाथमां योगी युञ्जीत सुसमाहितः || याज्ञवल्क्यः || कृतविद्योजितक्रोधस्सत्यधर्मपरायणः | गुरुश्रुश्रूषणरतः पितृभक्तिपरायणः || प्. ८६अ) स्वाश्रमस्थस्सदाचारो विद्वद्भिश्च सुशिक्षितः | विनायकं सुसंपूज्य फलमूलोदकादिभिः || इष्टदेवं गुरुं नत्वा तत आरुह्यचासनम् | ज्ञात्वैवं नाडिसंस्थानं वायूनां स्थानमेव च || विधिनोक्तेन मार्गेण नाडी संशोधनं कुरु | वासिष्ठयोगे || विध्युक्तकर्मसंयुक्तस्सर्वकामविवर्जितः | शमादिगुणसंपन्नस्सर्वसंगविवर्जितः || तपोवनं ततो गत्वा फलमूलोदकान्वितम् | तत्र रम्ये शुचौदेशे नद्यां वा काननेपि वा || सुशोभनं मठं कृत्वा सर्वरक्षा समन्वितम् | त्रिकाल स्नान संयुक्तः शुचिर्भूत्वा समाहितः || मंत्रन्यस्ततनुर्द्धीरस्सितभस्मधरस्सदा | मृद्वासनोपरिकुशान्समास्तीर्याथवाजिनम् || विनायकं सुसंपूज्य फलमूलोदकादिभिः | इष्टदेवं गुरुं नत्वा तत आरुह्य चासनम् || प्राङ्मुखोदङ्मुखो वा स्याज्जितासन गतः स्वयम् | समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः || नासाग्रदृक्समासीनस्सव्ये न्यस्येतरं करम् | नासाग्रे शशमृद्विम्बं ज्योत्स्नाजालवितानितम् || सप्तमस्य तु वर्गस्य चतुर्थं बिन्दु संयुतम् | बिम्बमध्यस्थमालोक्य नेत्राभ्यां मनसा सह || इडया पूरयेद् वायुं बाह्यं द्वादशमात्रकम् | ततोग्निं पूर्ववद्ध्यायेत् स्फुरज्ज्वाला बली युतम् || प्. ८६ब्) रेफं च बिन्दु संयुक्तमग्नि मण्डलसंस्थितम् | ध्यायन् विरेचयेत् पश्चान् मन्दं पिंगलया पुनः || ततः पिङ्गलयापूर्य प्राणं दक्षिणतस्सुधीः | तद्वद् विरेचयेद्धिमानिडया तु शनैः शनैः || त्रिचतुर्वत्सरं वाथ त्रिचतुर्मासमेव वा | षट्कृत्व आचरेदेवं त्रिषुकालेषु यत्नतः || नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितम् | शरीरलघुतादीप्तिर्जठराग्नि विवर्द्धनम् || नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धि सूचकम् | यावदेतानिसंपश्येत् तावदेवं समाचरेत् || विध्युक्तकर्मसंयुक्त इति यथायोग्यं वर्णाश्रमविहितकर्मानुष्ठानयुक्तः | यमादीत्यादि शब्देन नियमासनयोर्ग्रहणम् | तेषां यमनियमादीनां ये गुणास्तत्सिद्धिचिह्नवृत्तास्तत्साध्यातिशययवैरत्यागादि स्वांगजुगुप्सादि द्वन्द्वानभिघातादयस्तैः संयुक्त आढ्यः | तपोवनं ततो गत्वेत्यादिनायं नाडीशुद्धौदेशनियमविधिर्वाक्यस्य क्रमपरत्वात् अतोयं प्राणायामादि योगाङ्ग पञ्चाङ्ग तया प्राप्तानां योगदेशानामेक देशस्यानुवादः | कुशान् समास्तीर्याथ वाजिनमित्यत्राथवेति शब्दो न विकल्पपरः किन्त्वनुक्त समुच्चयार्थोव्ययानामनेकार्थत्वात् | तथा चायमर्थः | मृदुकुशोपरिचर्म वस्त्रमपि दत्वेत्यर्थः | प्. ८७अ) तथा च गीतायाम् || नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरमिति | कुशोत्तरमित्यत्रपाठक्रमादर्थक्रमोबलीयानितिन्यायात्पाठक्रमे विपरीत क्रम इति शंकराचार्य चरणैरप्यभिधानात् कुशोपरि हरिणस्य व्याघ्रस्य वा चर्म तदुपरि कोमलं वस्त्रमिति व्याख्येयम् | चैलाजिनयोः कुश उत्तरे धस्ताद्यास्मिन्नासने तच्चैलाजिनकुशोत्तरमिति व्याख्यानेन काप्यनुपपत्तिः | योगसारे | कुशचैलाजिनास्तीर्ण इति | नारदीयपुराणे || कुशैश्च मृदुभिश्छिन्नैः पवित्रेणाथ च मणा | तत्रोपविष्टस्सततं योगाङ्गानि समभ्यसेदिति || याज्ञवल्क्यः || मृद्वासनो परिकुशान् समास्तीर्य ततोजिनमिति | अन्ये तु अथवेतिशब्दः कुशाजिनयोर्विकल्पार्थ इत्याहुः | तदयुक्तम् | सर्वलोकगुरोर्भगद्वासुदेवस्य वाक्यार्थानुसारेणैवान्य वाक्यार्थस्यो चितत्वात् | किं च वसिष्ठगीतायां वस्त्रस्यानुक्तत्वात् कुशाजिनयोर्विकल्पाश्रये केवलकुशनिर्मिते केवलाजिन निर्मिते वासने योगाभ्यासा संभवस्यानुभवसिद्धत्वात् | ननु आसनं तूल संपूर्णं सितवस्त्रावगुंठितम् | कृष्णाजिनोत्तरीयं च विन्यस्तं मृदुकर्मणीत्यगस्त्यसंहितायाम् | सुधैर्य संपन्नस्सततं वस्त्रं वाजिनमेववा | प्. ८७ब्) नात्युछ्रितं नातिनी वमिति दत्तात्रेय वाक्ये च कुशराहित्यस्यापि दर्शनाद्युक्त एव विकल्प इति चेत् | न | तत्रापि सर्वशास्त्राधिकरणन्यायेन त्रिवृतश्रुतौ भूतद्वयोपसंहारवद्वा कुशोपसंहारस्यावश्यकत्वात् | तथा च स्थिरसुखमासनमित्यपि युक्तं भवति | अत्र तूल संपूर्णं सितवस्त्रावगुंठितमासनं यति व्यतिरिक्त विषयं ज्ञेयम् | तस्य धर्मशास्त्रे तूलसितवस्त्रयोर्निषेधात् | तथा हि | व्याख्याशिष्यादिवास्वामपामठपुस्तकसंग्रहः | तूलं तूलपटी चैव यतीनां पतनाय षट् || एतेन यत्रासनादीनि षडङ्गान्येवोक्तानि तत्रापि यमनियमयोरुपसंहारो दर्शितः | तयोस्सकलव्रतसाधारण त्वात् केषु चिदेवग्रन्थेषु निवशेषेण प्रतिपादितावित्यवधेयम् | अयं चासनविधिर्न नाडी शुद्धिमात्र परः किं तु सांगयोगार्थोपि द्रष्टव्यः | तत्रोपविष्टोयोगाङ्गानि समभ्यसेदिति नारदीय वचनात् | नासाग्रे शशभृद्बिम्बमिति अमृतं स्रवदिति द्रष्टव्यम् | सप्तमस्य सषसहेत्यादि वर्गस्य चतुर्थंहं इति बीजम् | पूरयेद् वायुमिति अमृतमिश्रितमिति द्रष्टव्यम् | एतेन नाडीशुद्धिसाधनं पूरको दर्शितः | अत्र केचित् ततोग्निमित्यादिना पिंगलया पुनरित्यन्ते न रेचको दर्शितः | प्. ८८अ) पूर्ववदित्यनेन नासाग्र इत्यस्यापि परामर्षः | तथा च चन्द्राग्नि ध्यानसहितौ पूरक रेचकावेवात्रापि नाडिशुद्धिसाधनत्वेनोपदिष्टौ न तु कुंभकोपि | अत एव आपूर्य रेचयेत् पश्चाद् वर्त्मनाकृष्णवर्त्मन | इति योगसागरे || सोंकारेण द्वितीयेन मध्यगेनोपशोभितम् | त्रिपंचवारान्वा पूर्यमरुतं चन्द्रवर्त्मना || ततो विरेचयेन् नाड्या लेशतो जातवेदस इति | नकुलीशयोगपरायणे च नाडी शुद्धि साधनत्वेन पूरक रेचक मात्रं श्रुतमित्याहुः | तन्न | तथा सति पूरकानन्तर्यस्य ततोग्नि मित्यत्र ततः शब्देनैव लाभात् पश्चान् मन्दं पिङ्गलया पुनरित्यत्र पश्चात् पदं पुनरुक्तं स्यात् | रेचकाङ्ग भूत ध्यानस्य ध्यायन्नित्यनेनैव लाभात् | ध्यायेदिति पुनर्ध्यान श्रवणं च मन्दफलं ध्यायन् विरेचयेदिति लिङैयैवध्यानविशिष्टरेचनविधानाद्ध्यायेदिति लिङाध्यानं सविषया भावना विधीयते | तच्च ध्यानं न चित्तसंतति मात्रं किं तु कुंभक सहितं | पूर्वोत्तर ग्रन्थैक वाक्यता बलात् | तथा हि | नरके इदं ध्यानं संभवति पूरयेदित्यनेन पूरक समाप्तिरुक्ता | सर्वेषामाख्यातानां समाप्तिश्शब्दार्थ इति न्यायात् | तथा प्. ८८ब्) ततोग्निं ध्यायेदित्यनेन पूरकसमाप्त्यनन्तरमेव ध्यानं विहितं नापि रेचक इदं संभवति ध्यायेत् पश्चाद् विरेचयेदिति पूर्वन्यायेन ध्यान समाप्त्यनन्तरमेव रेचक विधानात् तस्माद् रेचकात् पूर्वं पूरकाच्चानन्तरमिति पूर्वोत्तरपरामर्षाद्वाक्य प्रमाण बलेन ध्यायेदित्यनेन कुंभकाख्यनिरोध सहित ध्यानमेव फलसाधनं विधीयते इत्येव वसिष्ठवाक्यार्थः | अतः कुंभक रहितयोः पूरक रेचकयोर्नाडीशुद्धि सामर्थ्यमस्तीत्ययुक्तमुक्तम् | कालिका पुराणे नाडीशुद्धि प्रकरणे सौम्येनाकर्षयेद् वायुंनाभावुत्कृष्य धारयेत् | विधार्यशक्तितो भूय आग्नेये किंचिदुच्छ्वसेत् | एवं संशोधयेद् वायुं पादांगुष्ठादि संस्थितम् || सदा सर्वगताद्वायोर्नाडीशोधनमिष्यते इति | तथान्येष्वपि बहुग्रन्थेषु नाडीशुद्धि प्रकरणे स्पष्ट एव कुम्भक उपदिष्ट इति ग्रन्थान्तर संवाद बलेन पूर्वोत्तर ग्रन्थैक वाक्यतया कुंभक सहित ध्यानमेवात्र विधीयत इत्येवात्र युक्तम् | न चैवं व्याख्याने रेचकाङ्गभूतदेवतादि ध्यानालाभः | ततोग्निमित्यादेस्तु पूर्ववद्ध्यायेदित्यनेन जनितान्वयस्य निराकांक्षत्वादिति वाच्यम् | ध्यायन्विरेचयेदिति साकांक्षपदानुरोधेन अग्नेः सुषुम्णाधिष्ठातृत्वस्य प्. ८९अ) पिंगलायाश्च सूर्यदैव तत्वस्य च सर्वयोगशास्त्रेषु प्रसिद्ध त्वात् सूर्यपदमत्राध्याहरणीयम् | ततश्चाग्निरूपं लोहितं सूर्यं ध्यायन् विरेचयेदिति वाक्यार्थस्संपद्यते | अत एव सूर्यस्याग्नि रूपध्यानविवक्षयैववर्त्मनाकृष्णवर्त्मन इति नाड्यालेशतो जातवेदस इति योगसार न कुलीशयोगपरायणयोः सूर्य एवाग्नि पदस्य प्रयुक्तत्वात् | तथा चामृतबिन्दौ || यो वै वह्निस्सवै सूर्यो यस्सूर्यस्सहुताशनः | एतावेककरौ दृष्टौ सूक्ष्मभेदेन भेदितौ || एवं च मन्दं पिङ्गल्या पुनरित्यत्र पुनः पदमपि सफलम् | पुनर्ध्यायन्नित्येव मन्वयसामञ्जस्यात् || अन्यथा पूर्वं रेकानन्तर्यस्यानुक्तत्वात् | पुनारेचयेदिति पुनः शब्दानन्वयस्स्यात् || इदमत्रालोचनीयम् | नासाग्रे शशभृद्बिम्बमित्यत्र नासाग्रपदं भ्रूमध्यं लक्षयति | भ्रूमध्यस्य चन्द्राधिष्ठानत्वेन सर्वयोगशास्त्रेषु प्रसिद्धत्वात् | अतस्तद्ध्यानस्य तत्रैवोचितत्वात् | पूर्ववद्ध्यायेदित्यत्रद्वादशमात्रापरिमित कालस्यैव परामर्षो न त्वन्यस्य देहमध्य इति तु अध्याहरणीयं | कुंभके तत्रैव वायोर्द्धारणात् | ततश्चायमर्थः | स्रवत्पीयुषधारौघं बीजयुतं चन्द्रमण्डलं प्. ८९ब्) भ्रूमध्ये नेत्राभ्यामालोक्यामृतमिश्रितं वायुं द्वादशमात्रकं पूरयेत् | ततो देहमध्ये बीजयुतं स्फुरज्ज्वाला वलीकलितं त्रिकोणमग्निमण्डलं ध्यायन् द्वादशमात्रकं वायुं सुषुम्णायां धारयेत् | ततो हृदिनाभौ वा वह्निरूपं सूर्यं ध्यायन् द्वादशमात्रकं वायुं पिङ्गलया विरेचयेदिति | पुनर्द्ध्यानादि पूर्वकं पिङ्गलया पूर्य हृदि निरुद्ध्येडया विरेचयेत् | योगभास्करे || इडया पूरयेद् वायुं धारयेत् तु सुषुम्णाया | रेचयेत् पिङ्गलानाड्या प्राणायामक्रमः स्मृतः || एवं च यावन्नाडी शुद्धि संसूचकानि चिह्नानि भवन्ति तावत् प्रातर्मध्याह्नकाले षट्कृत्व आचरेत् | ततः शुद्धनाडी गणो योगी प्राणायामे समर्थस्स्यात् | तदेतदुक्तं यावदेतानि संपश्येत् तावदेवं समाचरेदिति | स्कन्दपुराणे | शुद्धिमेति यदा सर्वं नाडी चक्रं मलाकुलम् | तदैव जायते योगी क्षमः प्राणनिबन्धने || दृढासन्ये यथाशक्ति प्राणं चन्द्रेण पूरयेत् | रेचयेदथ सूर्येण प्राणायामोयमुच्यते || स्रवत्पीयुषधारौघं ध्यायंश्चन्द्रमसंत्विति | प्राणायामेन योगीन्द्रस्सुखमाप्नोति तत्क्षणात् || रविणाप्राणमाकृष्य पूरयेदौदरीं दरीम् | कुम्भयित्वा शनैः पश्चाद् योगी चन्द्रेण रेचयेत् || प्. ९०अ) ज्वलज्जलन पुंजाभं शीलयन्नुष्णगुं हृदि | अनेन याम्या यामेन योगीन्द्रः सुखभाग्भवेत् || इत्थं मासत्रयाभ्यासादुभयायामसेवनात् | शुद्धनाडी गणो योगी सिद्धप्राणोभिधीयते || यथेष्टं धारणं वायोरनलस्य प्रदीपनम् | नादाभिव्यक्तिरारोग्यं भवेन्नाडी विशोधनादिति || हठयोगेपि || प्राणं चेदिडयापि वेन्नियमितो भूयो न्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो वध्वात्यजेद् वामया सूर्याचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां शुद्धानाडि गणाभवन्ति यमिनां मासत्रयादूर्द्ध्वतः | यदानाडी विशुद्धिस्स्यात् तदा चिन्ता निराकृता | कायस्य कृशता कान्तिस्तदा जायेत निश्चितम् || प्रातर्मध्यं दिने सायमर्द्धरात्रे च कुंभकान् | शनैरशीति पर्यन्तं चतुर्वारं समभ्यसेत् || कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे | उत्तिष्ठत्युत्तमे प्राणरोधेपद्मासनस्थितः || जलेन श्रमजातेन गात्रमर्द्दन माचरेत् | दृढतालघुता वापि तेन गात्रस्य जायते || शास्त्रान्तरे || प्राणायामान्नरः षष्टिं कुर्यादेवमहर्मुखे | चत्वारिंशच्च मध्याह्ने संध्यायां विंशतिर्भवेत् || अर्द्धरात्रे विंशतिः स्यादेवं प्राणविनिग्रह | प्. ९०ब्) इति दत्तात्रेयः || तस्मिन्मठे समास्तीर्य ह्यासनं निस्तरङ्गकम् | तत्रोपविश्यमेधावी पद्मासनसमन्वितः || ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् | ततो दक्षिण हस्तस्य अंगुष्ठे नैव पिङ्गलाम् || निरुध्यपूरयेद् वायुमिडया तु शनैः शनैः | यथाशक्त्यानिरोधेन ततः कुर्याच्च कुम्भकम् || ततस्त्यजेत् पिङ्गलया शनैरेव न वेगतः | पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः || धारयित्वा यथाशक्ति रेचयेद् इडया शनैः | ययात्यजेत् तया पूर्य धारयेदविरोधतः || एवं प्रातः प्रकुर्वीत शक्त्याविंशति कुम्भकान् | कुंभकं सहितं नाम सर्वनिग्रह वर्जितः || एवं मध्याह्नसमये कृत्वा विंशति कुंभकान् | ततस्सायं प्रकुर्वीत तथा विंशति कुम्भकान् || एवमेवार्द्धरात्रेपि पुनर्विंशति कुम्भकान् | कुर्याद्रेचक पूराभ्यां सहितं प्रतिवासरम् || सहितो रेचकपूराभ्यां तस्मात् सहित कुम्भकः | कुर्यादेवं चतुर्वारमनालस्या दिने दिने || एवं मासत्रयं कुर्यान् नाडीशुद्धिस्ततो भवेत् | यदा नाडी विशुद्धिस्स्यात् तदा चिह्नानि योगिनः || जायन्ते तानि देहे वै तन्मे निगदतः शृणु | शरीरलघुता दीप्तिर्जठराग्नि विवर्द्धनम् || प्. ९१अ) कृशत्वं च शरीरस्य तदा जायेत निश्चितमिति | योगभास्करे || नासिकारन्ध्रयुग्मेन सूत्रमाकृष्य घर्षणम् | जीराधिकसिताभक्ष्य उत्क्लेदनं जलान्नयोः || नाडीशुद्धौ मुनिप्रोक्ता उपाया एव मादयः | यथोक्त भोजनं वायोर्बन्धश्चैवेति मे मतिः || याज्ञवल्क्यः || न प्राणेनाप्यपानेन वेगैर्वायुं समुत्सृजेत् | येन सक्तून् करस्थाश्च श्वासवेगेन चालयेत् || शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः | न कंपयेच्छरीरं तु स योगी परमो मत || इति स्कन्दपुराणे || अथ वाह्यासने यस्मिन् सुखमस्योपजायते | स्वस्तिकादौ तदध्यस्य योगं युञ्जीत योगवित् || ऊरुस्थोत्तानचरणस्सव्येनास्योत्तरं करम् | उत्तानं किंचिदुन्नम्य वक्त्रं विष्टभ्य चोरसा || निमिलिताक्षः सत्वस्थो दन्तैर्दन्ता न संस्पृशन् | तालुस्था चल जिह्वश्च संवृतास्यः सुनिश्चलः || सुनियम्येन्द्रिय ग्रामं नातिनीचोच्छ्रितासनः | मध्यमं चोत्तमं चाथ प्राणायाममुप क्रमेत् || त्रयाणामपि लघुमध्यमोत्तमानां प्राणायामानां लक्षणं वक्ष्यते | क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति | प्राणायामेन युक्तेन सर्वव्याधिक्षयो भवेत् || प्. ९१ब्) अयुक्ताभ्यास योगेन सर्वव्याधिसमुद्भवः | हिक्काश्वासश्च कासश्च शिरः कर्णाक्षि वेदनाः || भवन्ति विविधारोगाः पवनस्य व्यतिक्रमात् | युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् || युक्तं युक्तं च वध्नीयादित्थं सिद्ध्यति योगवित् | हठान्निरुद्धः प्राणोयं रोमकूपेषु निस्सरेत् || देहं विदारयत्येष कुष्टादि जनयत्यपि | तत्प्रत्यायित व्योमोसौ क्रमेणारण्य हस्तिवत् || वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात् | करोति शास्त्र निर्द्देशं न च तं परिलंघयेत् || तथा प्राणो हृदिस्थोयं योगिना क्रम योगतः | गृहीतस्सेव्यमानस्तु विश्रंभमुप गच्छति || यावद् देहे स्थितः प्राणो जीवितं तावदुच्यते | निर्गते तत्र मरणं ततः प्राणे निरोधयेत् || यावद् बद्धो मरुद् देहे तावच्चित्तं निराश्रयम् | यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् कालभयं कुतः || कालसाध्वसतो ब्रह्मा प्राणायाम परस्सदा | योगिनस्सिद्धिमापन्नास्सम्यक् प्राणनियन्त्रणादिति || वासिष्ठे || राम उवाच || ब्रह्मन्नति चिरं कालं कथं जीवन्ति योगिनः | एनं मे संशयं छिन्धि सर्वब्रह्म विदांवर || वसिष्ठ उवाच | प्राणानां स्पन्दनात् स्पन्दस्तच्छान्तौ तद्दृषत्समाः | यतः स्थिराधारणायां तन्न नश्यन्ति योगिनः || प्. ९२अ) सबाह्याभ्यन्तरस्पन्दश्चित्तजोवातजोथवा | नयस्य विद्यते तस्य दूरस्थौ विकृति क्षयौ || सवाह्याभ्यन्तरे शान्ते स्पन्दे पवन चेतसोः | धातवः संस्थितिं देहेन त्यजन्ति कदाचन || असनं वहति प्राणे नाड्यो यान्ति विसंस्थितिम् | असम्यक् संस्थिते भूपे यथा वर्णाश्रमक्रम || इति मार्कण्डेयपुराणे || शृणुष्व च महीपाल प्राणायामस्य लक्षणम् | युञ्जतश्च सदायोगं यादृग्विहितमासनम् || पद्ममर्द्धासनं वापि तथा स्वस्तिक मासनम् | आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि || समस्समासनो भूत्वा संहृत्य चरणावुभौ | संवृतास्यस्तथैवोरुसम्यग्विष्टभ्य चाग्रतः || पार्ष्णिभ्यां लिङ्गवृषणौ अस्पृशन् प्रयतः स्थितः | किंचिदुन्नामित शिरादन्तैर्दन्तान संस्पृशन् || संपश्यन् नासिकाग्रं स्वंदिशश्चानवलोकयन् | इत्थं योगी यताहारः प्राणायाम परायणः || जीतांजितां शनैर्भूमिमारुहेत यथा गृहम् | दोषान्व्याधिं तथा मोहमक्रान्ताभूमिरेव च || विवर्द्धयति नारोहेत् तस्माद् भूमिमनिर्जिताम् | उपायश्चात्र कथितो योगिभिः परमर्षिभिः || येन व्याध्यादयो दोषान जायन्ते हि योगिनः | प्. ९२ब्) यथातोयार्थिनस्तोयं यन्त्र नालादिभिश्शनैः || आपिवेयुस्तथा वायुं पिवेद् योगी जितश्रमः | मृदुत्वं सेव्यमानास्तु सिंहशार्द्दूलकुञ्जराः || यथायान्ति तथा प्राणो वश्यो भवति योगिनः | विश्वासतां यथेच्छातो नागं नयति हस्तिपः || तथैव योगी स्वच्छन्दं प्राणं नयति साधितम् | यथा हि साधितस्सिंहो मृगान् हन्ति न मानवान् || तद्वन्निरुद्धः पवनः किल्विषं न नृणां तनुम् | तस्माद् युक्तस्सदायोगी प्राणायाम परो भवेत् || इति याज्ञवल्क्यः || तस्मात् त्वं च वरारोहे नित्यं कर्म समाचर | संध्याकालेषु वा नित्यं प्राण संयमनं कुरु || प्राणायामपरास्सर्वे प्राणायाम परायणाः | प्राणायाम विशुद्धाये ते यान्ति परमां गतिम् || प्राणायामादृतेनान्यत् तारकं नरकादिषु | संसारार्णवमग्नानां तारकः प्राण संयम इति || अथ प्राणायाम निरूपणम् || तत्र भगवान् पतञ्जलिः || तस्मिन् श्वासप्रश्वासयोर्गति विच्छेदः प्राणायाम इति तत्र भाष्य कृतः | सत्यासने बाह्यस्य वायोरावमनं श्वासः कौष्टस्य वायोर्निस्सारणं प्रश्वासः तयोर्गति विच्छेद प्. ९३अ) उभया भावः प्राणायाम इति | अत्र वाचस्पति व्याख्या | रेचकपूरककुम्भकेष्वस्तिश्वासप्रश्वासयोर्गति विच्छेद इति | यत्रापि कौष्ट्यो वायुर्विरेच्यते बहिर्द्धार्यते रेचके तत्रास्ति श्वास प्रश्वासयोर्गति विच्छेदः | एवं कुम्भकेप्युभयाभाव इति | भोजदेवस्तु | तस्मिन्नासनस्थैर्ये सति तन्निमित्तक प्राणायाम लक्षणो योगाङ्ग विशेषोनुष्ठेयो भवति | कीदृशः | श्वासप्रश्वासयोस्त्रिधा रेचन पूरणाक्षे पद्वारेण वाह्याभ्यन्तरेषु स्थानेषु नासाग्रे हृदये नाभौ च गतेः प्रवाहस्य विच्छेदाधारणं प्राणायाम | इत्युच्यते स्कन्दपुराणे | षट्त्रिंशदङ्गुलं हंसः प्रमाणं कुरुते वहिः | सव्यापसव्यमार्गेण तेन प्राणोभिधीयते || प्राणो देहगतो वायुरायामस्तन्निबन्धनम् | इति आदित्यपुराणे || अन्तश्चराणां वायूनां वाह्याभ्यन्तर रोधनम् | प्राणायाम इति प्रोक्तो द्विविधस्स च कथ्यते || द्विविधस्सगर्भो निर्गर्भश्चेति याज्ञवल्क्यः | प्राणापानसमायोगः प्राणायाम इतीरितः || प्राणायामस्त्रिधाप्रोक्तः पूरकुंभक रेचकैः पूरकलक्षणं | प्. ९३ब्) वाह्यादापूरणं वायोरुदरे पूरको हि सः | कालिकापुराणे || पूरकः पूरणात् प्रोक्तः | देवलः | निश्वासाध्मानं पूरणमिति | स्कन्दपुराणे || वाह्येन वायुना देहं दृतिवत् परिपूरयेत् | परिपूर्णस्तथा तिष्ठेत् पूरणात् पूरकस्स्मृतः || याज्ञवल्क्यः || वाह्य स्थितं नासपुटेनवायुमाकृष्य तेनैव शनैस्समन्तात् | नाडीश्च सर्वाः परिपूरयेद् यस्स पूरको नाममहानिरोधः | देवलः | तेनैव वर्त्मना तस्य कोष्टस्यान्तः प्रवेशनम् | पूरणात् पूरकः प्रोक्त इति तेन नासापुट मुखब्रह्मरन्ध्र लक्षणेन | वायुसंहितायाम् | नासिकापुटमङ्गुल्या पीड्यैकमपरेण तु | बाह्येन मरुता देहं दृतिवत् परिपूरयेत् || नासापुटेनापरेण पूरणात् पूरकः स्मृतः | कुंभक लक्षणं || याज्ञवल्क्यः || संपूर्य कुम्भवद् वायोर्द्धारणं कुंभकं भवेत् | स्कन्दपुराणे || न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् | आपूर्य कुम्भवत् तिष्टेदचलस्स तु कुम्भकः || योगि याज्ञवल्क्यः | न रेचको नैव च पूरको यं नासाग्रवर्ति स्थित एव वायुः | सुनिश्चलं धारयते क्रमेण कुंभाख्यमेतत्प्रवदन्ति || प्. ९४अ) तज्ज्ञाः | रेचकं पूरकं मुक्ता यत्सुखं वायुधारणम् | प्राणायामोयमित्युक्तस्सवै केवल कुम्भकः || आरेच्या पूर्ययत् कुर्यात् स वै सहित कुंभकः | ये वान्ये कुंभक विशेषास्ते वक्ष्यन्ते | रेचकलक्षणं || याज्ञवल्क्यः || बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः | तथा | निष्क्रम्पना साविवरादशेषं प्राणं वहि शून्यमिवा निलेन | निरुच्छ्वसंस्तिष्ठति चोर्द्ध्ववायुस्स रेचको नाम महानिरोधः || कालिकापुराणे | भानुनाड्येडयामुञ्चेद्वायुं सर्वाङ्गसंयुतम् | व्याहृदि प्रणवाद्ये नयत् तद् रेचक संज्ञितम् || स्कन्दपुराणे || नासापुटमङ्गुल्या तु पीडयित्वा परेण तु | उदराद्रेचयेद्वायुं रेचनाद् रेचकः स्मृतः || देवलः | अजस्र निश्वासो रेचकः | अजस्रो खण्डो निश्वासोनिस्सारणं | यद्वायोर्ब्रह्मरन्ध्रेण नासास्येन बहिर्निस्सारणं औदर्यस्य रेचना स्यात् स रेचकः | जैगीषव्ययोगशास्त्रे || रेचकश्छर्दनाद्वायोः कौष्ठ्यस्य परिकीर्तितः | लघुमध्यमोत्तम भेदेन प्राणायाम त्रैविध्यं कथ्यते || नारदीयपुराणे | मात्राभेदैः कृतैस्तु सः | कनीयान्मध्यमो ज्येष्ठः प्राणायमः प्रकीर्तितः | एतद्द्वित्रिगुणो विप्रमात्रा भेदेन संस्थितः || प्. ९४ब्) मार्कण्डेय पुराणे || लघुद्वादशमात्रस्तु द्विगुणः स तु मध्यमः | त्रिगुणाभिस्तु मात्राभिरुत्तरीय उदाहृतः || प्रथमेन जयेत् स्वेदं मध्यमेन च वेपथुम् | विषादं हि तृतीयेन जयेद्दोषाननु क्रमात् || नन्दिपुराणे || कनीयसस्तु मात्राभिः स्थितो द्वादशभिर्यमः | मध्यमो द्विगुणाभिस्तु मात्राभिः परिकीर्तितः || त्रिगुणाभिः स्मृतो ज्येष्ठो ज्येष्ठस्थैर्यं समानयेत् | देवलः | स पुनरेक द्वित्रिभिरुद्घातैर्मृदुर्मन्दस्तीक्ष्णो भवति || स्कन्दपुराणे || कनीयान् सकृदुद्घाताद्यतो द्वादशमात्रकः | मध्यमस्तु द्विद्घातश्चतुर्विंशति मात्रकः || उत्तमस्तु त्रिरुद्घातः षट्त्रिंशम्मात्रकः स्मृतः | स्वेदकंपाभिघातानां जनकश्चोत्तमो मतः || एभिश्चिह्नैश्चिह्नितव्यः सिद्धः प्राणोत्र योगिना | वायुसंहितायाम् || कन्यसादि क्रम वशात् प्राणापान निरोधनम् | तच्चतुर्द्धोपदिष्टस्यान् मात्रागुणविभागशः || कन्यसः सकृदुद्घातस्स च द्वादशमात्रकः | मध्यमस्तु द्विरुद्घातश्चतुर्विंशति मात्रकः || उत्तरस्तु त्रिरुद्घातः षट्त्रिंशन्मात्रकः स्मृतः | स्वेदकं पादिजनकः प्राणायामस्तदुत्तरः || प्. ९५अ) आनन्दोद्भवरोमाञ्च नेत्रोद्वर्ताङ्गमोटनम् | जल्पभ्रमणमूर्च्छाद्यं जायते चात्र योगिनः || लिंगपुराणे || प्राणायामस्य मानं तु मात्रा द्वादशकं स्मृतम् | नीचो द्वादश मात्रस्तु सकृदुद्घात ईरितः || मध्यमस्तु द्विरुद्घातश्चतुर्विंशति मात्रकः | मुख्यस्तुयस्त्रिरुद्घातः षट्त्रिंशन्मात्र उच्यते || प्रस्वेदकं पनोत्थान जनकश्च यथाक्रमम् | आनन्दो जायते चात्र निद्राघूर्णस्तथैव च || रोमांचो ध्वनिसंवित्तिरङ्गमोटनकंपनम् | भ्रमणस्वेदजल्पाद्य संविन्मूर्छा जयेद् यदा || तदोत्तमोत्तमः प्रोक्तः प्राणायामस्सुशोभनः | घूर्णश्चित्तान्दोलनम् | ध्वनिसंवित्तिरन्तरनादाभिव्यक्तिः || वासिष्ठयोगे || प्रस्वेदं जनयेद् यस्तु प्राणायामेषु सोधमः | मध्यमः कंपनात् प्रोक्त उत्थानाच्चोत्तमो भवेत् || मात्रालक्षणं तु यथा | ब्रह्मवैवर्ते | निमेषोन्मेषणं मात्रा द्विर्बालघ्वक्षरं तथा | नन्दिपुराणे || त्वरितं लघुभिर्वणैर्मात्रा द्वादशभिः स्मृतेति | स्कन्दपुराणे || जातु प्रदक्षिणी कृत्य न द्रुतं न विलंबितं | करोति च्छोटिका यावत् सा मात्रेति च गीयत || इति दत्तात्रेयः || अङ्गुलीर्मोक्षितास्तिस्रो जानोश्च परिमार्जयेत् | प्. ९५ब्) प्रदद्याच्छोटिकामेकां मात्रासंख्यायते तथेति || तथा | द्वादशछोद्यः कनीयान् द्विगुणो मध्यमः स्मृतः | द्विगुणोत्तममात्रस्स्यान्मात्राभेदः प्रकीर्तितः || याज्ञवल्क्यः || अङ्गुलीमोक्षत्रितयं जानूपरिमार्जनं चापि | तालत्रयमपि तज्ज्ञामात्रा संज्ञां प्रशंसंति || गोदोहं वत्स पानं वा इषुक्षेपमथापि वा | घण्टायाः स्तनितं वापि अति मात्रा ह्युदाहृताः || देशकालानुसारेण सदासेव्याः शनैः शनैरिति | उद्घातलक्षणं तु यथा | शास्त्रान्तरे | प्राणेनोत्सार्यमाणेन अपानः पीड्यते यदा | गत्वा चोर्द्धं निवर्त्तेत एतदुद्घातलक्षणं || अथ पूरककुम्भक रेचकेषु ध्यानजपविशेषः प्रदर्श्यते | व्यासः || नाभिपद्मस्थितं ध्यायेत् कं रक्तं पूरकेण तु | नीलोत्पलाभं हृत्पद्मे कुंभकेन जनार्दनम् || ललाटस्थं शिवं श्वेतं रेचकेन विचिन्तयेत् | शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् || बृहस्पतिः || रक्तं प्रजापतिं ध्यायेद् विष्णुं नीलोत्पल प्रभम् | शंकरं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् || याज्ञवल्क्यः || कुंभकेन हृदिस्थाने ध्यायेत् तु कमलासनम् | ब्रह्माणं रक्तगौराङ्गं चतुर्वक्त्रं पितामहम् || प्. ९६अ) नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् | चतुर्भुजं महात्मानं पूरकेण विचिन्तयेत् || रेचकेनेश्वरं विद्याल्ललाटस्थं महेश्वरम् | शुद्धस्फटिकसंकाशं लिर्मलं पापनाशनम् || पूरके विष्णु सायुज्यं कुम्भके ब्रह्मणोन्तिकम् | रेचकेन तृतीयेन प्राप्नुयादैश्वरं पदम् || यदा निरोध संयोगाद् देवतात्रय चिन्तनम् | अग्नेर्वायोरपांयोगात् तदा शुद्ध्येत वै त्रिभिः || निरोधाज्जायते वायुर्वायोरग्निश्च जायते | अग्नेरापोभिजायन्ते ततोन्तः शोध्यते त्रिभिः || प्राणायाम इति प्रोक्तः पूरकुम्भक रेचकैः | वर्णत्रयात्मकाद्यन्ताः पूरकुम्भक रेचकाः || स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः | इडया वायुमारोप्य पूरयित्वोदरं स्थितः || शनैः षोडशमात्राभिरकारं तत्र संस्मरेत् | धारयेत् पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया || उकारमूर्तिमत्रापि संस्मरन् प्रणवं जपेत् | यावद् वा शक्यते तावद् वारणं जप संयुतम् || पूरितं धारयेत् पश्चात् प्राणं बाह्यानिलान्वितम् | शनैः पिङ्गलयागार्गि द्वात्रिंशन् मात्रया पुनः || मकारमूर्तिमत्रापि संस्मरन् सुसमाहितः | प्राणायामो भवेदेष पुनश्चैवं समभ्यसेत् || प्रस्वेदजनको यस्तु प्राणायामेषु सोधमः | कंपनान् मध्यमः प्रोक्त उत्थानाचोत्तमः स्मृतः || प्. ९६ब्) पूर्वं पूर्वं प्रकुर्वीत यावदुत्तम संभवः | संभवत्युत्तमे गार्गि प्राणायामे सुखी भवेत् || प्राणो जयति तेनैव देहस्यान्तस्ततोधिकम् | देहश्चोत्तिष्ठते तेन कृतासन परिग्रहः || निश्वासोच्छ्वासकौ तस्य न विद्येते कदाचन | देहे यद्यपि तौ स्यातां स्वाभाविक गुणावुभौ || तथापि नश्यतस्तौ च प्राणायामोत्तमेन हि | तयोर्नाशे समर्थः स्यात् कर्तुं केवल कुम्भकम् || सहितं केवलं वाथ कुंभकं नित्यमभ्यसेत् | यावत् केवल सिद्धिस्स्यात् तावत् सहितमभ्यसेत् || केवले कुम्भके सिद्धे रेचपूरण वर्जिते | न तस्य दुर्लभं किंचित् त्रिषुलोकेषु विद्यते || मनोजवत्वं लभते पलितादि च नश्यति | मुक्तेरयं महामार्गो मकाराख्योंतरात्मकः || नादंचोत्पादयत्येष कुंभकः प्राण संयमः | प्राणसंयमनं नाम देहे प्राणस्य धारणम् || एषप्रानजयो पायः सर्वमृत्यूपघातकः | हठयोगे || कुंभकात् कुण्डली बोधः कुण्डली बोधतो भवेत् | अन्तर्गतः सुषुम्णातो हठ सिद्धिश्च जायते || वायुसंहितायाम् || रेचकादि त्रयमिदं न द्रुतं न विलंबितम् | उद्घातक्रमयोगेन मन्यसे योगसाधनम् || रेचकादि त्रयाभ्यासो नाडीशोधन पूर्वकम् | स्वेच्छोत् क्रमण पर्यन्तं प्रोक्तो योगानुमार्गणे || प्. ९७अ) सद्विविधः प्राणायामः स गर्भविगर्भ भेदात् | तथा हि | नारदीयपुराणे || सगर्भयोगमातिष्ठेदगर्भं वापि पण्डितः | नन्दिपुराणे || प्राणायामोस्य प्रथमं तस्यादौ युक्तिरुच्यते | अगर्भश्च विगर्भश्च द्विविधस्संप्रकीर्तितः || अस्य प्रानाख्यस्य वायोर्मथनमिवमथनं प्राणायामो नवनीतात्मज्ञानस्थानीयत्वात् | तयोर्लक्षणम् यथा | लिङ्गपुराणे | सगर्भो गर्भ इत्युक्तस्सजपो विजयः क्रमात् | वायुसंहितायाम् | जपध्यानं विनागर्भः सगर्भस्तत्समन्वितः | अगर्भाद्गर्भ संयुक्तः प्राणायामः शताधिकः || जपो मनसा प्रसंख्यानम् | नन्दिपुराणे | जाप्येन तु जपं कुर्यादविलंवितमद्रुतम् | मनसैव प्रसंख्यानं प्राणायाम विधौ सदा || जाप्येन प्रणव गायत्र्यादि मन्त्रेण स्कन्दपुराणे | ध्येयं यदक्षर श्रेण्यां वर्णाद्वर्णं पदात् पदम् | शब्दार्थ चिन्तनाभ्यासः स उक्तो मानसो जपः || नन्दिपुराणे | मात्रांश देवता ध्यानात् स ज्वालः परिकीर्तितः | मन्त्रा वचन विद्धस्तु प्रज्ञान्तः परिकीर्तितः || मंत्र ओंकार इत्युक्तस्सर्व मन्त्र विजित्वरः | सर्वदैवतसंदोह आधारस्सर्वयोगिनाम् || प्. ९७ब्) अस्योदरे मन्त्रजातं सर्वमेव प्रतिष्ठितम् | स एव योगिनां योगश्चिन्तामणि समो हि सः || स तु मात्रा त्रययुतो अ उमा इति ताः स्मृताः | अस्मिन् मात्रा त्रये सर्वं भावाभावं प्रतिष्ठितम् || ब्रह्मविष्णुमहेशानां क्रमान् माशत्रयं स्मृतम् | स्कन्दोमाशंकरश्चोक्ता भूर्भुवः स्वश्च कीर्तिताः || त्रयोग्नयस्तुताः प्रोक्ता मात्राः प्रणवसंभवाः | तस्य मात्रात्रय ध्यानात् प्राणायामः सधूमकः || कलांश देवता ध्यानात् स ज्वालः परिकीर्तितः | मात्रा धूमांशनिर्वस्तु योगनाडी समाश्रयात् || प्रशान्त उक्तः शास्त्रेषु सर्वभावविनिर्गतः | एते भेदास्सगर्भस्य | इह सगर्भस्य प्राणायामस्य त्रयो भेदाः प्रदृश्यन्ते || सधूमकः सज्वालः प्रशान्त इति तत्र मात्रात्रय ध्यानात् स धूमकः | मात्रारूपाणां प्रणवांशकानां तद्देवतानां च ध्यानात् सज्वालः || मन्त्रा वचनः प्रशान्तः | मन्त्रस्यावचनं मनस्यालोचनं तेनाविद्धो युक्तः | अनेनार्थान्मंत्रवाच्यार्थ ध्यानरहितो परित्युक्तं भवति || कलामात्रा धूमांशेत्यादि मात्रातदर्थ ध्यानरहितः प्रशान्तः | अत्रांशशब्देन मात्रा वाच्या देवता गृह्यन्ते | मात्राधूम देवता ज्वाला रूप विनिर्गत वस्तु समाश्रयात् योगनाडी समाश्रयाच्च प्रशान्त इति | प्. ९८अ) योगनाडीसुषुम्णा | तदेवं प्रणवगर्भः प्राणायामो दर्शितः | मार्कण्डेयपुराणे || ओं मित्युच्छारणात् सर्वं गृहीतं सदसद् भवेत् | इत्येतदक्षरं ब्रह्म परमोंकार संज्ञितम् || प्रणवो धनुः शरश्चात्मा ब्राह्मणो ह्यायुधान्वितः | अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् || याज्ञवल्क्यः || सिद्धान्तानां च सर्वेषां वेदवेदान्तयोस्तथा | अन्येषामपि शास्त्राणां निष्ठा ओंकार उच्यते || प्रणवाद्याः श्रुतावेदाः प्रणवे पर्यवस्थिताः | वाङ्मयं प्रणवे सर्वं तस्मात् प्रणवमभ्यसेत् || तथा प्रणवेन युक्ता व्याहृतिभिश्च संयुताः | गायत्रीर्वा जपेत् तिस्रः प्राणसंयमने द्विजः || अनेन गायत्री गर्भः प्राणायामो दर्शितः | अस्य लक्षणमाह मनुः | सव्याहृतयः प्रोक्ताः प्राणायामे तु नित्यशः | भूर्भुवः स्वर्महर्जनस्तपस्सत्यं तथैव चेति योगि याज्ञवल्क्य वचनात् | शिरश्चात्र ओं आपो ज्योतिरित्यादिर्याजुर्वेदो मन्त्रः | तथा च व्यासः | ओं आपो ज्योतिरित्येष भूरादिषु नवस्वपि प्रणवयोगमाह योगियाज्ञवल्क्यः | भूर्भुवः स्वर्महर्जनस्तपस्सत्यं तथैव च | प्रत्योंकार समायुक्तास्ततस्तत्सवितुः परम् || प्. ९८ब्) ओं आपो ज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् | त्रिरावर्तनयोगाद्धि प्राणायामस्तु शब्दित इति || ओंकारोप्यत्रमन्त्रादौ द्रष्टव्यः | तथा च यमः | ओंकार पूर्विकाः सप्त जपेत् तु व्याहृतीस्तथा || शिरसा सहगायत्रीं प्राणायामः परं तपः | जपेदित्यत्र मनसेति द्रष्टव्यम् | तथा च संवर्तः || प्रणवेन तु संयुक्ता व्याहृतीस्सप्त नित्यशः | सावित्रीं शिरसा सार्द्धं मनसा त्रिःपठेद् द्विजः || याज्ञवल्क्यः || ब्राह्मणः श्रुतिसंपन्नः स्वधर्मनिरतस्सदा | स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन || केचिद्भूत हितार्थाय जप्तुमिच्छन्ति वैदिकम् | द्विजवत् क्षत्रियस्योक्तः प्राणसंयमने जपः || वैश्यानां धर्मयुक्तानां स्त्रीशूद्राणां तपस्विनाम् | प्राणसंयमने गार्गि मन्त्रं प्रणववर्जितम् || नमोन्तं शिव मन्त्रं वा वैष्णवं चेष्पते बुधैः | यद्वासमभ्यसेच्छूद्रो लौकिकं विधि पूर्वकम् || न वैदिकं जपेच्छूद्रः स्त्रियश्च न कदाचनेति | तदेवं स गर्भागर्भभेदो निरूपितः || स्कन्दपुराणे || रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा | प्राणागमनसंन्यासः प्राणायामश्चतुर्विधः || तत्र रेचितादयो लक्षिताः केचिद् वक्ष्यन्ते | शून्यलक्षणं कालिका पुराणे || ततस्सर्वं निराभ्यासमध्यात्मानं विचिन्तयेत् | प्. ९९अ) बाह्यस्थं रोधयेद् वायुं शून्यकं तं विनिर्दिशेत् || तत इति भानुदेवतया नाड्या व्याहृति प्रणवाद्येन रेचकं कृत्वेति | जैगीषव्ययोगशास्त्रे | आयामैः पञ्चभिः खिन्नो रेचकाद्यैर्यथा क्रमम् | रेचकः पूरकः कुंभ उत्कर्षो ह्यपकर्षकः || खिन्नो(?) योगी सिद्धिमाप्नोतीति सम्बन्धः | पद्मपुराणे || प्राणाः प्राणमयोवायुर्वायुरात्मा निगद्यते | तस्यायामस्समुद्दिष्टः षट्प्रकारः सुयो ऋभिः || वायोरपि निरोधेन युक्तस्समभिधीयते | षट्प्रकारत्वं च रेचक पूरकौ द्वौ सहितः केवलश्चेति || कुम्भकौ द्वावुत् कर्षापकर्षकौ | देवलः | कुम्भस्सप्तविधो ज्ञेयो रेचितादि प्रभेदतः || रेचितः पूरितः शान्तः प्रत्याहारोत्तरोधरः | समश्चेति विनिर्द्दिष्टः कुम्भकस्सप्तभेदतः || तथा रेचितादेस्सप्तविधस्यापि लक्षणं चाह | रेचितस्य वहिस्तंभो वायोरेचित कुम्भकः || पूरितस्योदरे रोधः प्रोक्तः पूरित कुम्भकः | कायस्यान्तर्बहिर्व्याप्तिर्यासस्याच्छान्तकुम्भकः || स्थानयोरन्तरे रोधः प्रत्याहाराख्य कुंभकः | आपूर्ययत्क्रमादूर्द्ध्वमूर्द्ध्वरोधो हृदादिषु || उत्तरः कुंभकस्सस्यादधोधोमूर्द्धतोधरः | रेचना पूरणेत्यक्ता मनसा मरुतो धृतिः || प्. ९९ब्) यानाभ्यादि प्रदेशेषु समःकुंभः प्रकीर्तितः | कायस्येति रेचक पूरकौ विहाय शरीरस्यान्तर्बहिश्च मनसा वायोर्धारणाद् व्याप्तिरित्यर्थः | स्थानयोरित्यत्र वीप्सा द्रष्टव्या | पादतलगुह्यनाभि हृदुरः कण्ठघण्टिका भ्रूमध्यललाटब्रह्मरन्ध्राणि स्थानानानि एतेषु स्थानेषु द्वयोरन्तरे मध्ये वायोर्द्धारणं प्रत्याहाराख्य कुम्भकः | हृदादिषु स्थानेषु मूर्द्धतो हृदय पर्यन्तं रेचना पूरणे इति स्थान भेदात् समशान्तयोर्भेदः | रेचकादि चतुर्विध प्राणायाम लक्षण माह भवान् पतंजलिः | बाह्याभ्यन्तर स्तंभ वृत्तिर्द्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः | बाह्याभ्यन्तरविषयापेक्षी चतुर्थ इति अस्यार्थः | बाह्यवृत्तिः श्वासो रेचकः | अन्तर्वृत्तिः प्रश्वासः पूरकः | अन्तः स्तम्भवृत्तिः कुम्भकः | रेचनं पूरणं विहाय सकृद्बलवद्विधारकप्रयत्नावरुद्धे तस्मिन् जलमिव निश्चल तया प्राणोवस्थाप्यत इति कुम्भकः | स यथा तप्ते न्यस्तमुपले जलं सर्वतः परिशुष्यत् संकोचद्या पद्यते तथा शरीरे सूक्ष्मः स्तंभ्यत इति स्तम्भ वृत्तिः | त्रिविधोयं प्राणायामो देशेन कालेन संख्यया चोपलक्षितो दीर्घ सूक्ष्मसंज्ञो भवति | देशे नासा द्वादशान्तादौ कालेन संख्ययोपलक्षितः | प्. १००अ) यथा षट्त्रिंशन् मात्रादि प्रमाणकः संख्यया चोपलक्षित एतावद्वारं कृतः एतावद्भिः श्वास प्रश्वासैः प्रथम उद्घातो भवतीत्येतज्ज्ञानाय संख्योपग्रहणमुपात्तम् | उद्घातश्च नाभिमूलात् प्रेरितस्य वायोः शिरस्यभि हननम् | सखल्वयं दिवसपक्षमासादि क्रमेणाभ्यस्तो दीर्घदेशकालव्यापितयैव दीर्घो लक्ष्य तया च सूक्ष्मो दीर्घसूक्ष्मशब्दाभिधेयो भवति | द्वितीयार्थस्तु | बाह्यो विषयो द्वादशान्तादि आभ्यन्तरो विषयो हृदयनाभि चक्रादिः | तौ द्वौ विषया वा क्षिप्यपर्यालोच्ययः स्तंभरूपो गति विच्छेदस्स चतुर्थः प्राणायाम इति तृतीय स्यात् कुम्भकादयमस्य विशेषो बाह्याभ्यन्तरौ विषयौ पर्यालोच्यैव सहसा तप्तोपल पतित जलवद्युगपत् स्तम्भ वृत्या निष्पाद्यते | अयं त्वा लोचन सापेक्षो बहु प्रयत्न पूर्वमभ्यस्य मानस्तां तावदवस्थामापन्नस्तत्तदवस्था विजय क्रमेण भवतीति | चतुर्विधस्यापि प्राणायामस्य फलमाह | भगवान्पतञ्जलिः | ततः क्षीयते प्रकाशावरणं धारणासुयोग्यता च मनस इति | ततस्तस्मात् प्राणायामात् प्रकाशस्य चित्त सत्त्व गत सार्वज्ञं रूपस्य यदावरणं प्. १००ब्) क्लेशरूपं क्षीयते विनश्यति | तथा च मनसो धारणासुवक्ष्यमाण लक्षनसुयोग्यता भवति | प्राणामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरी भवतीति सूत्रार्थः | स्कन्दपुराणे | क्षीराद्युक्ति वशात् सद्भिर्लभ्यते च घृतं यथा | दारुतो वानलोलभ्यो वायुरात्मा तथा व्ययः || प्राणायामोस्य मथनं तस्यादौ युक्तिरुच्यते | तथा | समस्तेन्द्रिय वृत्तिश्च प्राणोवायुः प्रकीर्तितः || तज्जयादिन्द्रियाण्येव निर्जितानि भवन्ति हि | वृत्ति वृत्ति मतोर्यस्मादभेदः परिकीर्तितः || तस्माद् वृत्ति जयादेव वृत्तिमान्निर्जितो भवेत् | ज्ञानवैराग्ययोत्क्राभ्यां प्राणामकषाहतात् || इन्द्रियाण्याशुनिर्जित्य सर्वमेवजितं भवेत् | इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ || निगृहीत विशिष्टानि स्वर्गाय नरकाय च | शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः || सारथिः पुरुषः प्रोक्तः प्राणायामः कषा स्मृतः | ज्ञानवैराग्यरश्मिभ्यामायम्यविधृतं मनः || शनैर्निश्चलतामेति प्राणायामकषाहतम् | हठयोगे || सूर्यभेदनमुज्जायी तथा शीत्कारशीतली | भस्त्रिकाभ्रमरी मूर्छा सहितं चाष्टकुम्भकाः || प्. १०१अ) तत्र सहित लक्षणं पूर्वमेवोक्तम् | भ्रमरी वेगोद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् | योगीन्द्राणां नित्यमभ्यासयोगाच्चित्ते जाताकाचिदानन्दलीला | मूर्छा | पूरकान्ते गाढतरं बन्धो जालन्धरः शनैः | रेचयेन् मूर्छनाख्योयं मनोमूर्छासुख प्रदा || शीत्कारं कुर्यात् तथा वक्रे घ्राणे नैव विसर्ज्जयेत् | एवमभ्यासयोगेन कामदेवो द्वितीयकः || योगिनीचक्रसंसेव्यस्सृष्टिसंहारकारकः | न क्षुधा न तृषा निद्रा तन्द्रालस्यं न जायते || भवेत् स्वछन्द देहस्तु सर्वोपद्रववर्जितः | अनेन विधिना यस्तु योगीन्द्रो भूमि मण्डले || रसना तालुयोगेन यः प्राणं सततं पिबेत् | अब्दार्द्धेन भवेत् तस्य सर्वरोगपरिक्षयः || योगबीजे | सूर्यभेदनम् || आसने सुखदे योगी बद्धवज्रासनस्ततः | दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः || आकेशाग्रं नखाग्रं च शिरोधावधिकुम्भकम् | ततः शनैस्सव्यनाड्या रेचयेत् पवनं सुधीः || कपालशोधनं वा दोषघ्नं कृमि दोषहृत् | पुनः पुनीरदं कुर्यात् सूर्यभेदनमुत्तमम् || उज्जायी || मुखं संयम्य नाडीभ्यामाकृष्य पवनं पुनः | यथा लगति हृत्कण्ठाद्धृदयावधिसस्वनः || प्. १०१ब्) पूर्ववत् कुम्भवत् प्राणं रेचयेदिडया ततः | श्लेष्म दोषहरं कंठे देहानल विवर्द्धनम् || नाडीजलोदरधातु गतदोषविनाशनम् | गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं च कुंभकम् || भस्त्रिका || ऊर्वोरुपरि संस्थाप्य उभे पादतले तथा | पत्मासनं भवेत् सम्यक् सर्वपाप प्रणाशनम् || सम्यक् पद्मासनं बध्वा समग्रीवोदरस्सुधीः | मुखं संयम्य यत्नेन प्राणं प्राणेन रेचयेत् || यथालगति हृत्कण्ठे कपालावधि पूरयेत् | वेगेन पूरयेत् सम्यक् हृत्पद्मावधिमारुतम् || पुनर्विरेचयेत् तद्वत् पूरयित्वा पुनः पुनः | यथैव लोहकाराणां भस्त्रावेगेन चाल्यते || तथैव स्वशरीरस्थश्चाल्यते पवनोधिया | यथाश्रमो भवेद् देहे तथा वेगेन पूरयेत् || यथोदरं भवेत् पूर्णं पवनेन तथा लघु | धारयेन् नासिकां मध्य तर्जनीभ्यां विना दृढम् || कुंभकं पूर्ववत् कृत्वा रेचयेदिडया ततः | वातपित्तश्लेष्महरं शरीराग्नि विवर्द्धनम् || कुण्डलीबोधनं कुर्यात् पापघ्नं सुखदं शुभम् | ब्रह्मनाडी मुखे संस्थ कपालार्गल नाशनम् || सम्यग् गात्र समुद्भूत ग्रन्थित्रय विभेदनम् | प्. १०२अ) विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || शीतली || जिह्वया वायुमाकृष्य पूर्ववत् कुम्भकादनु | शनैस्तु घ्राणारन्ध्राभ्यां रेचयेदनिलं सुद्धीः || गुल्मप्लीहोदरं वापि || बाह्यात्प्राणं समाकृष्य पूरयित्वोदरं स्थितः | नाभि मध्ये च नासाग्रे पादाङ्गुष्ठे च यत्नतः || धारयेन् मनसा प्राणं संध्याकालेषु वा सदा | सर्वरोग विनिर्मुक्तो जीवेद् योगी गत क्लमः || नासाग्रे धारणं गार्गि वायोर्विजय कारणं | सर्वरोगविनाशः स्यान् नाभिमध्ये च धारणात् || शरीरलघुतां याति पादाङ्गुष्ठे च धारणात् | रसनां वायुमारोप्य यः पिबेत् सततं नरः || श्रमदाहौ तस्य नस्तो नश्यन्ति व्याधयस्तथा | संध्ययोर्ब्रह्मकाले वा वायुमाकृष्य यः पिबेत् || त्रिमासात् तस्य कल्याणि जायते वाक्सरस्वती | षण्मासाभ्यासयोगेन महारोगैः प्रमुच्यते || आत्मन्यात्मानमारोप्य कुण्डलिन्यां तु धारयेत् | क्षयरोगादयस्तस्य नश्यन्तीत्य परे विदुः || जिह्वायां वायुमानीय जिह्वामूले निरोपयेत् | यः पिबेदमृतं विद्वान् सकलं भद्रमश्नुते || आत्मन्यात्मानमिडयासमानीयान्तरे भ्रुवो | पिबेद् यस्त्रिदशाहारं व्याधिभिः परिमुच्यते || नाडीभ्यां वायुमारोप्य नाभौ वा तुन्द पार्श्वयोः | घण्टिकां वाहयेद् यस्तु व्याध्भिः सोपिमुच्यते || मासमेकं तु संध्यायां जिह्वयारोप्यमारुतम् | पिबेद्यस्त्रिदशाहारं धारयेत् तुन्दमध्यमे || गुल्मप्लीहाष्ठिलीश्चान्ये त्रिदिषजनितास्तथा | प्. १०२ब्) तुन्दमध्यगतारोगास्सर्वे नश्यन्ति किल्विषाः || ज्वराः सर्वे विनश्यन्ति विषाणि विविधानि च | बहुनोक्तेन किं गार्गि पलितादि च नश्यति || त्रिपुरासारसमुच्चये || राजदन्तयुगलादिमस्पृशन्सन्निधायरसनां तदन्तिके | काकचञ्चुपुटमारुतं पिबेत् प्राणसंयमनमेतदुत्तमम् || द्विकचञ्चु समीरणं शनैर्धयतः संपरिकृष्य समन्ततः | श्रमदाहगलोदरामयज्वरगुल्माः प्रशमं प्रयान्ति हि || उभयोरपि संध्ययोर्मुहूर्तोपिकधातुं धयतस्त्रिमासमात्रम् | स रसं द्विकचञ्चु गन्ध वाहं भुविसारस्वतसिद्धिरुत्तमा स्यात् || विषमुदग्रमुदग्रवीर्यभाजां प्रविनाशं समुपैतिपन्नगनाम् | किमुवृश्चिककीटलूतिकानामिहकाकोलमुखानिलस्य पानात् || द्विकचञ्चु समीरणं नरः पिबती हानिशमेव वीततन्द्रः | भवति ध्रुवमेव तस्य वर्षाच्छ्रवणं दर्शनमप्यतीवदूरात् || बहुधाकथितैर्मुहुः किमेभिर्द्विकचञ्च्वा हृत समीरणस्य पानात् | जरयासहनाशमाशुयाति प्रबलं मृत्युकृतं भयं नराणाम् || जिह्वां कृत्वा नाकुलस्तालुमूले दन्तैर्दन्तान्गाढमापीडयित्वा प्. १०३अ) मन्दं मन्दं यः पिबेद् गन्धवाहं सौधैः पूरैस्साकमन्तः स्रवद्भिः | षड्भिर्मासैरत्ररोगैरशेषैः पापापेतौ मुच्यते सधकेन्द्रः | अब्दादेकाद्विस्रमां मृत्युदूतीं जित्वा भूमौ दीर्घकालं स जीवेत् | वर्षत्रयाभ्यासवशादतीत मनागतं चोत्पलनीलकेशः | विषं न देहे क्रमते तदीये दष्टेपि घोरैरपिपन्नगेन्द्रैः | न कृत्रिमं स्थावरजंगमं वा विषं किमन्यैरपि कालकूटैः | गुणाष्टकं कालवशादुपेत्यमहीतले क्रीडति भैरवोवा यामण्डाधारदण्डान्तरकुहरगताहारनीहारगौरीं सौधीं धारां नभोम्भोरुहकुहर विधोः संस्रवन्ती वहन्ती | तस्या वज्राख्य नाड्याः खगमुदरदरी मध्यगं यो विदध्यात् तस्य ब्रह्माण्ड भाण्ड प्रलयमपघनं स्याद्घनं मृत्युमृत्योः | मूर्छागतो हरति रोगसमूहमद्धाबद्धः करोति गगने गमनं नराणाम् | वातो मृतो वितनुते मरतां समस्तमभ्यासतः सुलभमेव समीरणस्य शास्त्रान्तरे शिववाक्यम् | रसस्य मनसश्चैव चंचलत्वं समांसतः | रसोवद्धो मनोबद्धं किं न सिद्ध्यति भूतले || मूर्छितो हरते व्याधिं मृतोजीवयति स्वयम् | बद्धः खेचरतां धत्ते मनोवायुश्च भैरवि || प्. १०३ब्) केचित् तु एतानेव प्राणायामान्योगिनां प्रमादाज्जातविविधरोगेषु चिकित्सा त्वेनोपवर्णयन्ति तद संगतम् | नव्याध्यार्त्त इति न च व्याकुल चेतन इति न चिन्तार्त इति नाचरेद् देह बाधायां दौर्मनस्यादि संभव इत्यादि बहु वाक्यै रोगदशायां योगाभ्यासस्य निषिद्ध त्वाद् दर्शितं च पूर्वमेव अनुभव विरुद्धत्वाच्च | यच्च रोगनाशात्मकफलश्रवणं तत् तु सर्वाङ्गसाधारणं न द्वित्रिप्राणायाम मात्रस्य | तथाहि | सर्वजन्तुषु पृथिव्यां बीजवत् सूक्ष्मरूपेण सर्वे रोगाव्याधयो ज्वराद्याश्च ये रोगास्तिष्ठन्ति ते केचिदासनैः | केचित् प्राणायामैः केचित् प्रत्याहारैः केचिधारणादिभिर्न्नश्यन्तीति सर्वयोगशास्त्रेषु स्पष्टमेवोपलभ्यते | दर्शितं चास्माभिरपि पूर्वं तत् तत् प्रकरणे | दैवाज्जातव्याधिरोगादि सर्वविघ्नानां निवारकं परमेश्वराराधनमेवेति वक्ष्यते | अन्ये च प्राणजयोपायाः प्रसंगात् प्रथमपरिच्छेद एव निरूपिताः | अपानादि जये विशेषो पायो योग सागरे || रेचकादि क्रमाज्जेयो पानः स्थान वियोगतः | रेचकाभ्यास बाहुल्येनेत्यर्थः || कालिकापुराणे || अपानं कटिदेशे तु पृष्ठभागे विनिर्दिशेत् | प्. १०४अ) सदा तत्रैव संधार्य एष वायु जय क्रमः || समानस्थानसंरोधाद्वश्यतांशनकैरियात् | अत्रापि रेचकपूरकाभ्यां स्थान निरोधः विकल्पनात् || तथा | भानौप्रपूरयेद् वायुं शरीरं व्याप्य धारयेत् | समानं जयते तज्ज्ञः प्रज्वलन्यदि पश्यति || कंपमानस्ततो योगी ज्वलेत् स्वेदपरिप्लुतः | मोहयेद्रोमक्यैस्तु तमेव व्यापकं मुनिः || योगसारे || नासाकर्षणयोगेन हृदयादि क्रमादयम् | उत्कृष्यमाणो वश्यत्वं रुद्धारुद्धा प्रयात्पलम् || मूर्द्ध्नः पादतलं यावद् गत्यागत्य क्रियागतः | उक्तस्थानानुषङ्गेण याति शीघ्रं सवश्यताम् || प्रथमं नासाग्रे संस्थाप्य हृत्कण्ठतालुभ्रूमध्य मूर्द्धसुक्रमाद्रुध्वारुध्वोत्कृष्यमाण इति गत्यागत्य क्रियागत इति | रेचकपूरक कुम्भक विषय इत्यर्थः | कालिकापुराणे || मूर्ध्वान्वितेन चाकर्षन् कुर्वन्नुच्चतरं स्वनम् | धारयेञ्जीयते नूनमुदानं वायु दैवतम् || व्यानजयो योगसागरे || स्वक्षेत्रे कुंभकाभ्यासात् संकोच प्रभृतैः क्रमात् | हृज्जगद्व्याप्ति योगेन जययो व्यान इतीरितः | स्वक्षेत्रं शरीरम् || कालिकापुराणे || प्. १०४ब्) पूरकः कुम्भकश्चैव रेचकश्च निगद्यते | तेजसा चिन्तयेत् सूक्ष्मं योगीव्यानं जयेत् क्रमात् || तत्र प्राणादि वायुजयोपायविशेषाः पूर्वोक्त स्थान वर्णबीजाद्यनुसंधान सहिता एवानुष्ठेयाननिरपेक्षा इति द्रष्टव्यं | अथ युगपत् समस्तवायु जयोपायाः | लक्ष्मीयोगपरायणे || वर्णबीजादि समेतात् स्वस्थानाद्धृदयाम्बुजे | एकीकृत्यनयन् ब्रह्म वह्निं च युगपज्जपेत् || एकीकृत्य हृदयकमले चित्रवर्ण वह्निसहितं सकलवायुगोलकं मनसा विचिन्त्य ततस्तं ब्रह्मरन्ध्रपर्यन्तमवान्तरस्थानानि क्रमेण नीत्वा ब्रह्मरन्ध्रादवान्तरस्थानोल्लङ्घनेन पादाङ्गुष्ठाग्रं यावदावर्तनादभ्यासाद्युगपज्जयेदित्यर्थः | योगसारे || प्राणवृत्तिमपानेन संयोज्योत् कृष्यंत हृदि | व्यानमानीय तत्रैवमुदानेन सहैकताम् || नीत्वानयेदुरोमध्ये मध्यं कण्ठतलं मुखं | नासाग्रनेत्रभ्रूमध्यललाटतलमूर्द्धगम् || कृत्वा कुर्यात् ततस्सर्वं ब्रह्मण्यग्नावथापि वा | इत्युक्तस्सर्ववायुनां शनकैर्युगपज्जये || समानोप्यत्रानुक्तोपि लभ्यते तस्य हृत्प्रतिबन्धनात् | कालिकापुराणे || वायुं नीत्वा च नाभौ तु आग्नेयात् किंचिदुत्सृजेत् | जयेत्सर्वानने नैव वायूनभ्यासतो मुनिः || तथा | धृत्वायद्धारयेद्वायुं धारणानुक्रमेण तु | यत्नेन योग विच्छश्च दृजुस्तन्द्रा विवर्जितः || प्. १०५अ) एवमभ्यासयोगेन सूक्ष्मं ज्योतिः प्रपश्यति | अङ्घ्र्यङ्गुष्ठाग्रतन्मूल पार्ष्णि गुल्फोरुजानुषु || पायूपस्थे तथा वस्तौ नाभिहृत्कण्ठ वक्षसि | जिह्वाघ्राणाक्षिके मुखौ सममूर्द्धनि संस्थितम् || चिन्तयेत् परमं धार्यं स्यान्मुनिस्तेन तन्मयः | याज्ञवल्क्यगीतायाम् || योगिनस्त्व परे ह्यत्र वदन्ति सम चेतसः | प्राणायामपराः पूतारेचपूरकवर्जिताः || दक्षिणेन तु गुल्फेन सीवनीं पीडयेच्छिराम् | अधस्तादण्डयोः सूक्ष्मां सव्योपरि च दक्षिणम् || जङ्घोर्वोरन्तरं गार्गि निश्छिद्रं बन्धयेद् दृढम् | समग्रीव शिरःस्कन्धस्समपृष्ठः समोदरः || नेत्राभ्यां दक्षिणं गुल्फं लोकयन्नुपरिस्थितम् | धारयेन् मनसासार्द्धं व्याहरन् प्रणवाक्षरम् || आसनेनन्यधीरास्ते द्विजो रहसि नित्यशः | क्षत्रियस्य वरारोहे व्याहरन् प्रणवाक्षरम् || आसनेनन्यधीरास्ते रहस्येव जितेन्द्रियः | वैश्याः शूद्राः स्त्रियश्चान्ये योगाभ्यासरतानराः || शैवं वा वैष्णवं वापि व्याहरन्सन्यमेव वा | आसनेनन्यधीरास्ते दीपं हस्ते वलोकयन् || आयुर्विघातकृत्प्राणस्त्वनेनाग्नि कुलं यतः | धूमध्वजजयो यावन् नान्यन्धीरेवमभ्यसेत् || धारणं कुर्वतस्तस्य शक्तिस्थाने प्रभञ्जनम् | देहस्तु लघुतां याति जठराग्नेश्च दीपनम् || प्. १०५ब्) दृष्टचिह्नस्ततस्तस्मिन् मनसारोप्यमारुतम् | मन्त्रमुच्चारयन्दीर्घं नाभिमध्ये निरोधयेत् || यावन्मनोलगत्यस्मिन् नाभौ सवितृमण्डले | तावत् समभ्यसेद् योगी नियतो नियतासनः || एतेन नाभिमध्यस्थ धारणे नैव मारुतः | कुण्डलीं याति वह्निश्च दहत्यत्र न संशयः || संतप्तावह्निना तत्र वायुना चालिता स्वयम् | प्रसार्यफणभृद्भोगं प्रबोधं याति सा तदा || प्रबुद्धे संचरत्यस्मिन् नाभि मूले च चक्रिणि | ब्रह्मरन्ध्रे सुषुम्णायां प्रयाति प्राणसंज्ञकः || संप्राप्ते मारुते तस्मिन् सुषुम्णायां वरानने | मन्त्रमुच्चार्य मनसा हृन्मध्ये धारयेत् सुधीः || हृदयात् कण्ठकूपे च भ्रुवोर्मध्ये च धारयेत् | तस्मादारोप्य मनसा वह्निं प्राणमनन्यधीः || धारयेद् व्योम्नि विप्रेन्द्रे व्याहरन् प्रणवाक्षरम् | वायुनापूरिते व्योम्नि सांगोपाङ्गे कलेवरे || तदात्मा राजते तस्य यथा व्योम्नि विकर्तनः | शरीरं विसिसृक्षुश्चेत्तदेवं सम्यगा चरेत् || एकाक्षरं परं ब्रह्म ध्यायन् प्रणवमीश्वरम् | संभिद्यमनसामूर्द्ध्नि ब्रह्मरन्ध्रे स वायुना || प्राणमुन्मोचयेत् पश्चान् महाप्रणेखमध्यमे | देहातीते जगत्प्राणे शून्ये नित्य ध्रुवे पदे || प्. १०६अ) आकाशे परमानन्दे स्वात्मानं योजयेत् सुद्धीः | ब्रह्मैवासौ भवेद् गार्गि न पुनर्जन्म भाग्भवेत् || तथा | गार्ग्युवाच | भगवन् सर्वशास्त्रज्ञ सर्वभूतहितेरत | योयं मोक्षाय योगीन्द्र भवता भाषितस्तु वै || मया ह्यष्टांग सहितो योगो हि बहु विस्तरः | तदेतद्विस्मृतं सर्वं सर्वज्ञ तव सन्निधौ || योगं ममोपदिश्याद्यसाङ्गं संक्षेप रूपतः | त्रातु मर्हसि सर्वज्ञ जन्मसंसारसागरात् || इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा | आलोक्य कृपयादीनां स्मित पूर्वमथा व्रवीत् || उत्तिष्ठोत्तिष्ठ किं शेषे भूमौ गार्गि वरानने | वक्ष्यामि ते समासेन योगं संप्रतितं शृणु || याज्ञवल्क्यः || सव्येन गुल्फेन गुदं निपीड्यसव्येतरेणैव निपीड्यसन्धिम् | सव्येकरे न्यस्तकरं सदास्मिन् शिखां समालोकय पावकस्य || आयुर्विघातकृत्प्राणो निरुद्धस्त्वासनेन वै | याति गार्गि तदा पानात् कुलं वह्नेः शनैः शनैः || वायुना चालितो वह्निरपानेन शनैः शनैः | ततो ज्वलति सर्वेषां स्वकुले देह मध्यमे || प्रातःकाले प्रदोषे च निशीथे च समाहितः | मुहूर्तमभ्यसेदेवं यावत् पंच दिनद्वयम् || ततः स्वात्मानि विप्रेन्द्रे प्रत्ययाश्च पृथक् पृथक् | संभवन्ति तदा तस्य जितो यस्य समीरणः || प्. १०६ब्) शरीरलघुतादीप्तिर्वह्नेर्जठरवर्तिनः | नादाभिव्यक्तिरित्येतच्चिह्नात्पादौ भवन्ति हि || अल्पमूत्रपुरीषं स्यात् षण्मासे वत्सरे तथा | आसने वाहते पश्चान् न गन्तव्यं त्रिवत्सरात् || ततो निलं वायु सखेन सार्द्धं धियासमारोप्य निरोधयेत् तम् | ध्यायत् सदाचिक्कणमप्रबुद्धं नाभौ सदा कुण्डलिनं प्रविष्टम् || द्वारं समारोप्य मुखेन मध्य मन्याश्च भोगेन शिरास्तथैव | स्वपुच्छमास्येननिंगृह्यसम्यक् यथश्च संयम्यमरुद्गणानाम् || प्रबुद्धनागेन्द्र वदुच्छ्वसन्ती सदा प्रबुद्धा प्रभया ज्वलन्ती | नाभौ सदा तिष्ठति कुण्डली सा तिर्यक्ष देहेषु सदानरेषु || वायुनावितत वह्नि शिखाभिः कन्दमध्यगतनाभिषु संस्थाम् | कुण्डलीं दहति यस्त्व हि रूपां संस्मरन् नरवरस्तु स एव || तं तप्ता वह्निना तत्र वायुना च प्रचालिता | प्रसार्य फणभृद्भोगं प्रबोधं याति सा तदा || बोधं गते चक्रिणी नाभि मध्ये प्राणास्तु संभूयकलेवरेस्मिन् | चरन्ति सर्वे सह वह्नि नैव यथा पटे तन्तु गतिस्तथैव || भित्त्वैव चक्रिणः स्थानं सदाभ्यास परायणः | ततो नयेदपानं तु नाभेरूर्द्ध्वमनुस्मरन् || प्. १०७अ) वायुर्यदावायुसखे न सार्द्धं नाभिं त्वति क्रम्य गतः शरीरे | रोगाः प्रणश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीं भवति प्रकृष्टा || ब्रह्मरन्ध्रमुखमत्रवायवः पावकेन सह यान्ति खमध्ये | केनचिदिह वदामि तवाहं वीक्षणाद्धृदिसुदीपशिखायाः || निरोधितं स्याद्धृदि तेन वायुर्मध्ये यदा वायु सखेन सार्द्धम् | सहस्रपत्रस्य मुखं प्रविश्य कुर्यात् पुनस्तूर्द्ध्व मुखं द्विजेन्द्रे || प्रबुद्धहृदयाम्भोजे गार्ग्यस्मिन् ब्रह्मणः पुरे | बालार्क श्रेणिवद्व्योम्निविरराजसमीरणः || हृन्मध्यात् तु सुषुम्णायां संस्थितोहुतभुक्तदा | सजलाम्बुदमालासु विद्युल्लेखेवराजते || प्रबुद्धहृत्पद्मसुसंस्थितेग्नौ प्राणे च तस्मिन् विनिवेशिते च | छिह्नानि वाह्यानि तथान्तराणि दीपादि दृश्यानि भवन्ति तस्य || वायुमुन्नयतस्तु स वह्निं व्याहरन् प्रणवमन्त्र सबिन्दुम् | बालचन्द्रसदृशं तु ललाटे बालचन्द्रमवलोकयते तु || स वह्नि वायुमारोप्यभ्रुवोर्मध्ये धिया तदा | ध्यायेदनन्यधीः पश्चादन्तरात्मानमात्मनि || मध्यमेपि हृदये च ललाटे स्थाणु वज्ज्वलति लिङ्गमदृश्यम् | अस्ति गार्गी परमार्थमिदंत्वं पश्य पश्य मनसा रुचिरूपम् || प्. १०७ब्) ललाटमध्ये हृदयाम्बुजे वायः पश्यति ज्ञान मयीं प्रभां तु | शक्तिं प्रदीपाग्रवदुज्ज्वलन्तीं संपश्यति ब्रह्म तदेक दृष्ट्या || मनोलयं यथा याति भ्रूमध्ये योगिनां नृणाम् | जिह्वामूले मृतस्रावो भ्रूमध्ये चात्मदर्शनम् || कंपनं च तथा मूर्द्ध्नि मनसैवात्मदर्शनम् | देवोद्यानानि रम्याणि नक्षत्राणि च चन्द्रमाः || ऋषयः सिद्धगन्धर्वाः प्रकाशं यान्ति योगिनाम् | भ्रुवोरन्तरे विष्णुपदे निविष्टं मनोलयं यावदियात् प्रबुद्धे || तावत् समभ्यस्य पुनः खमध्ये तेजस्सदा संस्मरपूर्णरूपम् | समीरणे विष्णुपदे निविष्टे जीवे च तस्मिन् न मृते च संस्थे || तस्मिन् सदायाति मनोलयं चेन्मुक्तेस्समीपं तदिदं ब्रुवन्ति | समीरणे विष्णुपदे निविष्टे विशुद्धबुद्ध्ये तव चात्मनिष्ठे || आनन्दमत्यद्भुतमस्ति सत्यं त्वं गार्गि पश्याद्य विशुद्ध बुद्ध्या | एवं समभ्यस्य सुदीर्घकालं यमादिभिर्युक्त तनुर्मिताशी || आत्मानमासाद्यगुहां प्रविष्टं मुक्तिं व्रजब्रह्मपुरे पुनस्त्वम् | भूतानि यस्मात् प्रभवन्ति सर्गे ये नैव जीवन्ति चराचराणि || जातानि यस्मिन् विलयं प्रयान्ति तद्ब्रह्मविद्धिति वदन्ति सर्वे | हृत्पंकजे व्योम्नि यदेक रूपं सत्यं सदानन्दमयं सुसूक्ष्मम् || तद्ब्रह्मविज्ज्ञायते गुहायामिति श्रुतेश्चापि समानयन्ति | प्. १०८अ) अणोरणीयान् महतो महीयानात्मा गुहायां निहितोस्य जन्तोः || तमक्रतुं पश्यसि शुद्धबुद्ध्याप्रयाण कालेपि विहीन शोका | प्रभञ्जनं मूर्ध्निगतं स वह्निं धिया समासाद्य गुरूपदेशात् || मूर्द्धनिमुद्भिद्य पुनः खमध्ये प्राणं त्यजोंकारमनुस्मरत्वम् | इच्छया यदि शरीर विसर्गं ज्ञातुमिच्छसि सखे तव वक्ष्ये || व्याहरन् प्रणवमुन्नतमूर्द्धोद्भेदनं कुरु सृजात्मनिकायम् | गीतायाम् || सर्वद्वाराणि संयम्य मनोहृदि निरुद्ध्य च | मूर्द्ध्न्याधायात्मनः प्राणमास्थितो योगधारणं || ओमित्येकाक्षरं ब्रह्मव्याहरन्मामनुस्मरन् | यः प्रयाति त्यजन्देहं सयाति परमां गतिमिति || श्रुतौ च || शतं चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतैका | तयोर्द्धमायन्नमृतत्वमेति विष्वद्रुंन्या उत्क्रमणे भवन्ति || जीवन्मुक्ततया चिरकालं स्थातुमिच्छाचेच्छरीरं क्षणीय योगिना | दत्तात्रेयः || जीवन्मुक्तस्सदेहोहं विचरामि जगत्त्रयम् | इति चेज्जायते वाञ्छा योगिनस्तं निबोधमे || शरीरं न त्यजेदेषकालः कस्यापि कुत्रचित् | अतः शरीररक्षार्थं यत्नः कार्यस्तु योगिना || योगिनासततं यत्नादरिष्टानां विचारणा | कर्तव्या येन कालो सावज्ञातो न निहन्तितम् || प्. १०८ब्) अनिष्टानि तु वक्ष्यन्ते || ज्ञात्वा कालं च तं सम्यक् लयस्थानं समाश्रितः | युञ्जीतयोगं कालोस्य यथासौ जायते फलः || बद्धसिद्धासनो देहं पूरयेत् प्राणवायुना | कृत्वा दण्डं स्थिरं बुद्ध्या दशद्वाराणि धारयेत् || बन्धयेत् खेचरीं मुद्रां ग्रीवायां च जलन्धरम् | अपाने मूलबन्धं च उड्डियानं तथोदरे || उत्थाप्यभुजगीं शक्तिं मूलाधाराम्बुजस्थिताम् | सुषुम्णान्तर्गतां पञ्च चक्राणां भेदनीं शिवाम् || जीवं हृदाश्रयं नीत्वा यान्तीं बुद्धि मनोयुताम् | सहस्रदलमध्यस्थे शिवे लीनां सुधामये || ततस्सुधाकरोद्भूतममृतं तेन मूलतः | सिञ्चन्तीं सकलं देहं प्लावयन्तीं विचिन्तयेत् || तया सार्द्धं ततो योगी शिवेनैकात्मतां व्रजेत् | परानन्दमयो भूत्वा चिद्वृत्तिमपि संत्यजेत् || ततो लक्ष्यमनाभासमहं भावविवर्जितम् | सर्वाङ्गकल्पनाहीनं कथं कालो निहन्तितम् || स एव कालस्सशिवस्सर्वं नापि किंचन | कः केन हन्यते तत्र म्रियते नापि कश्चन || ततो व्यतीते समये कालस्य भ्रान्ति रूपिणः | योगीसुप्तोत्थित इव प्रबोधे प्रतिबोधितः || एवं सिद्धो भवेद् योगी वञ्चयित्वा विधानतः | कालंकलितसंसारं पौरुषेणाद् भुतेन हि || ततस्त्रिभुवने योगी विचरत्येक एव सः | प्. १०९अ) पश्यन् संसारवैचित्र्यं स्वेच्छयानिरहं कृतिरिति || अथ प्राणादि वायुजये चिह्नान्युपलक्षयेत् | स्कन्दपुराणे || प्राणे तु निर्जिते सम्यक् तच्चिह्नान्युपलक्षयेत् | विण्मूत्रश्लेष्मदोषाणां स्वल्पभावः प्रजायते || बहुभोजन सामर्थ्यं चिरादुच्छ्वसनं तथा | आरोग्यं दीर्घगामित्वमुत्साहः स्वरसौष्ठवम् || बलं वर्णः प्रसादश्च सर्वरोग क्षयस्तथा | एवमादीनि चिह्नानि सत्वस्थश्चैव जायते || वायुसंहितायाम् || प्राणे तु निर्जिते सम्यक् तच्चिह्नान्युपलक्षयेत् | लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् || सर्वरोगक्षयश्चैव बलं तेजस्सुरूपता | धृतिर्मेधायुवत्वं च स्थिरता च पुमर्थता || दत्तात्रेयः || ततोधिकतराभ्यासाद्वलमुत्पद्यते भृशम् | येन भूचर सिद्धिः स्याद् भूचराणां भयावहा || व्याघ्रो लुलापो वन्यो वा गवयोगज एव वा | सिंहो वा योगिना तेन म्रियन्ते हस्त ताडनात् || नकुलीशयोगपरायणे || प्राणस्य नियमे स्यातां दीर्घश्वासमरुज्जयौ | विण्मूत्रस्याल्पता भावो रूपं शोभान निर्जये || तृड्वुभुक्षाक्षयो वह्नेरौदर्यस्यापि पाटवम् | क्षतभग्नावरोहश्च समानस्य जये मतः || प्. १०९ब्) जयादुदानस्योत्क्रान्ति रुद्गतिश्च जलादितः | ध्यानस्याखिलरुद्नाशः शीतोष्णासंगतिस्त्वचि || समस्तं फलमेवै तन्मन्तव्यं युगपज्जये | रेचकाभ्यासतो शेष कल्पनानीत संक्षयः || इति प्राणादि वायुनां रेचकादेः फलं स्मृतम् | कालिकापुराणेपि वायून् प्रकृत्योक्तम् || एतैर्जितैर्जयेद्धीमांस्तत्वमुर्व्यादि संज्ञितं | सर्वज्ञो जायते नूनं तैर्जितैर्योगविन्मुनिः || कामान् कामीत्व वाप्नोति गुरुत्वं जायते महत् | यदा वायुं जयेद्धीमानल्पविण्मूत्र संभवः || पातालादौ भवेत् प्राप्तिर्लीलया योगिनो ध्रुवम् | क्षयस्यारोहणं साम्यं जठरे च विभावसोः || बहुभोजी भवेन् नूनं भवेत् सत्त्वात्मको मुनिः | सत्वात्मकात् तदेकत्वं तदेकत्वाच्च तन्मयः || शस्त्रेणच्छिद्यते नैव नैवापः क्लेदयन्ति हि | व्याधयोथ विषं नैव क्रमते व्यान शासनात् || योगभास्करे || यावदन्तः स्फुरेन्नादो यावच्चित्तं च लीयते | तावदुत्पन्न योगी स्यात् तत आरूढ योगवान् || आरूढयोगश्च भवेद् दशब्दादश वत्सरात् | तथा नाडी शुद्ध्यनन्तरमुक्तम् || एवमुत्पन्न योगी स्याच्छृणु आरूढ योगिनम् | उत्पन्न योगिनो देहः पुष्टोपि कृशतां व्रजेत् || प्. ११०अ) आरूढयोगिनो देहः क्षीनोपि स्थूलतां व्रजेत् | उत्पन्नयोगिनश्चित्तं बलादेकत्र नीयते || आरूढयोगिनश्चित्तं न कदाचिच्चलं भवेत् | उत्पन्न योगी निर्विण आरुढस्तु सदासुखी || उत्पन्नयोगी मन्दाग्निरारूढस्तु महाशनः | भक्षितान्यस्य जीर्यन्ते फलपुष्पदलान्यपि || स्थानत्रयात्परं प्राप्ते वायौ सिद्ध इतीर्यते | सिद्धस्य त्रीणि चिह्नानि दाता भोक्ताप्यवंचक || इति योगबीजे || गुरुप्रसादान्मरुदेवसाधितस्तेनैव चित्तं पवनेन साधितम् | स एव योगी स जितेन्द्रियस्सुखि मूढा न जानन्ति कुतर्क वादिनः || चित्तं प्रणष्टं यदि भासते वै तत्र प्रतीतो मरुतोपि नाशः | न वा यदि स्यान् न च तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः || जलौकारुधिरं यद्वद्वलादाकर्षति ध्रुवम् | ब्रह्मनाडी तथा धातून् || संतताभ्यासयोगेन नित्यमासन बन्धतः | चित्तं विलीनतामेति बिन्दुर्नोयात्यधस्तथा || रेचकं पूरकं त्यक्त्वा वायुनास्थीयते चिरम् | नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् || नश्यन्ति क्षुत्पिपासाद्या दोषाः सर्वे तथा सति | स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवले || इति मार्कण्डेयपुराणे || प्. ११०ब्) अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभोमूत्रपुषीषमल्यम् | कान्तिः प्रसादः स्वरे सोम्यता च योग प्रवृत्तेः प्रथमे हि चिह्नम् || अनुरागं जनोयाति परोक्ष गुणकीर्तनम् | न वाध्यन्ति च सत्वानि सिद्धेर्लक्षणमुत्तमम् || शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते | न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता || तथा वै योगयुक्तस्य योगिनो नियतात्मनः | सर्वे दोषाः प्रणश्यन्ति सुस्थश्चैवोपजायते || वीक्षते च परंब्रह्म प्राकृतांश्च गुणान् पृथक् | व्योमादि परमाणूंश्च तथात्मानमकल्मषम् || श्रूयतां मुक्ति फलदं तस्यावस्था चतुष्टयम् | ध्वस्तिः प्राप्तिस्तथा संवित् प्रसादश्च महीयते || स्वरूपं शृणु चैतेषां कथ्यमान मनुक्रमात् | कर्मणामिष्टदुष्टानां जायते फल संक्षयः || चेतसोल्पकषायत्वाद् यत्र साध्वस्तिरुच्यते | ऐहिकामुष्मिकान्कामांल्लोभमोहादि कांश्चयान् || निरुध्यास्ते सदायोगी प्राप्तिस्सासार्वकामिकी | अतीता नागतानर्थान् विप्रकृष्ट तिरोहितान् || विजानातीन्दु सूर्यर्क्ष ग्रहाणां ज्ञानसंपदा | तुल्य स्वभावतां राजन् योगी प्राप्नोति चेद्यदा || तदा संविदिति ख्याता प्राणायामस्य सास्थितिः | यान्ति प्रसादं येनास्य मनः पञ्च च वायवः || प्. १११अ) इन्द्रियाणीन्द्रियार्थाश्च सप्रसाद इतीरितः | वसिष्ठः | संध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन वा | प्राणसंयमनं कुर्याद् ब्राह्मणो वेद पारगः || नित्यमेवं प्रकुर्वीत प्राणायामांस्तु षोडश | अधिभ्रूणहनं मासात्पुनन्त्य हरहः कृताः || ऋतुत्रयात् पुनन्त्येव जन्मान्तर कृतादघात् | वत्सराद्ब्रह्मविद्वान् स्यात्तांस्तथा नित्यमभ्यसेत् || योगाभ्यासरतांश्चैवं स्वधर्मनिरताश्च ये | प्राणसंयमने नैव सर्वे मुक्ता भवन्ति हि || स्कन्दपुराणे प्राणायामनिरूपणानन्तर मुक्तम् | ब्रह्मचारी जितक्रोधो जितलोभो विमत्सरी | अब्दमित्थं सदाभ्यासाद् योगी योगी निगद्यते || हठप्रदीपिकायाम् || आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा | अथ नादानुसंधानमभ्यासानुक्रमेण च || ब्रह्मचारी मिताहारी त्यागी योगपरायणः | अब्दादूर्द्ध्वं भवेत् सिद्धो नात्रकार्या विचारणा || वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले | अरोगिता बिन्दु जयोग्नि दीपनं नाडी विशुद्धिर्हठसिद्धिलक्षणं || ईश्वरप्रोक्ते || आरम्भश्च घटश्चैव तथा परिचयोपि च | निष्पत्तिस्सर्वयोगेषु योगावस्था भवन्तिताः || प्. १११ब्) तथा हि | यदा नाडी विशुद्धिस्स्याद् योगिनस्तत्व दर्शिनः | तदा विध्वस्त पापस्य भवेदारम्भ सम्भवः || चिह्नानि योगिनो देहे दृश्यन्ते नाडि शुद्धितः | कथ्यन्ते मम भक्ताय तानि संक्षेपतो मया || समकायस्सुगन्धिश्च सुकान्तिस्सरसाधरः | प्रौढवह्निस्सुभोगी च सुखीसर्वाऽऽग सुन्दरः || संपूर्ण हृदयो योगी सर्वोत्साही वलान्वितः | ततो यथेष्टा शक्तिस्स्याद् योगिनो वायु धारणे || यथेष्टधारणाद् वायोः कुम्भकः सिद्ध्यति ध्रुवम् | केवले कुम्भके सिद्धे किं न स्यादिह योगिनः || स्वेदस्संजायते देहे योगिनः प्रथमोधमः | द्वितीयो जायते कंपोदुर्द्धरो मध्यमो मतः || यदा संजायते स्वेदो मर्द्दनं कारयेत् सुखम् | अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः || ततोधिकतराभ्यासाद् गमने साधकाधिपः | योगीपद्मासनस्थोपि भुवमुत्सृज्य वर्तते || वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी | तावत् कालं तु कुर्वीत योगोक्त नियमग्रहम् || स्वल्पनिद्रापुरीषं च स्तोकं मृज्यं च जायते | अदीनत्वमरोगित्वं योगिनस्तत्त्व दर्शिनः || स्वेदलालाभ्रमिश्चैव सर्वदैव न जायते | कफपित्ता निलाश्चैव साधकस्य कलेवरे || प्. ११२अ) तजपेद्दिर्घं विघ्नानां नाश हेतवे | प्राणायामेन योगीन्द्रस्सर्वैश्वर्याष्टकानि च || पापपुण्योदधिंतीर्त्वा त्रैलोक्येश्वरतां व्रजेत् | अमृतसिद्धौ || वायुस्सिद्धो यदा देहे संवित्तिर्जायते तदा | संवित्तेर्-ऋद्धयस्सर्वास्संभवन्ति च योगिनाम् || यदा तु सिद्ध्यते ऋद्धिस्तदासिद्धिरदूरतः | सिद्धरूपो हि यो वायुर्मध्यमापथसंगतः || तदानन्दमयं चित्तमेकरूपं नभो मयम् | यदानन्दमयं चित्त बाह्यक्लेशविवर्जितम् || भवदुःखानि संधृत्य समाधिर्जायते तदा | सदा समाधि संपन्नं सहजानन्द संभृतम् || चित्तमेतत् तदा सिद्धं सर्वदुःख भयापहम् | यत्करोति यदा योगी सर्वं भवति तत्क्षणात् || योगिनस्सिद्धकायस्य जानीयाल्लक्षणं ध्रुवम् | कायेषू हादिकं यच्च परपुर प्रवेशनम् || ईक्षणं श्रवणं दूरात् तत् सिद्धं वायु लक्षणं | त्रयाणां च यदा सिद्धिः स्यात् काये वायु चेतसाम् || महासिद्धिस्तदाज्ञेया जीवन्मुक्तिफलप्रदा | जीवन्मुक्तिं गतो योगी महामुक्तिपदं व्रजेत् || स्वेच्छासमाधि संपन्नो योगीन्द्रो हि भवेत् तदा | तदा महासमाधिश्च धर्ममेघ समाह्वयः || प्. ११२ब्) तदा नन्दमयो योगी सर्वज्ञस्सर्वदर्शनः | संपूज्यस्सर्वलोकेष्व व्याहताज्ञश्च सर्वदा || अव्याहत गतिः प्राज्ञो व्याहतानन्द संभृतः | सर्वैश्वर्य गुणोपेतस्सर्वसिद्धि समन्वितः || अबन्ध्यस्सर्वभूतानां योगीन्द्रो दोष वर्जितः | तस्मात् सर्वमयो योगी सर्वभूतमयो हि सः || संतुष्टस्तारयेल्लोकान् क्रुद्धस्सर्व विनाशकः | ज्ञातसिद्धिर्यदायोगी तदा नैव भयंकरः || एवं वर्षसहस्राणि लक्षाणि च शतानि च | पर्वताग्रे गुहावासः सा नन्दस्सिद्धयोगिन || इति ईश्वरप्रोक्ते || ततोभ्यासक्रमेणैव घटादि त्रितयं भवेत् | येन स्यात् सकलासिद्धिर्योगिनः प्रेप्सिता ध्रुवम् || वाक्सिद्धिः कामचारित्वं दूरदृष्टिस्तथैव च | दूरश्रुतिः सूक्ष्मदृष्टिः परदेहे प्रवेशनम् || विण्मूत्र लेपने स्वर्णमदृश्यकरणं तथा | भवन्त्येतानि महतां खेचरत्वं च योगिनाम् || यदा भवेद् घटावस्था पवनाभ्यासिनां परा | तदा संसार चक्रेस्मिंस्तन्नास्ति यन्न साधयेत् || दृढासनो भवेद् योगी ज्ञान देव समस्तथा | आसने सुदृढी भूते वायुर्मध्ये विशत्यसौ || किञ्चिद् वायु प्रवेशेन योगिनो ज्ञानसंभवः | संजाते वायु संभारे योगी देव समो भवेत् || दोषदुःखक्षुधानिद्राजरामृत्युविवर्जितः | सृष्टि संहारकर्तासौ योगीश्वर समो भवेत् || प्. ११३अ) अस्तु वामास्तु वा सिद्धिरत्रैवा खण्डितं सुखम् | प्राणापानौ नादबिन्दू जीवात्मपरमात्मानौ || मिलित्वा घटते यस्मात् तस्माद् वै घट उच्यते | याममात्रं यदा धर्तुं समर्थस्स्यादतन्द्रितः || प्रत्याहारस्तदैव स्यान्नान्तरा भवति ध्रुवम् | यद्यज्जानाति योगीन्द्रस्तत्तदात्मनि भावयेत् || यैरिन्द्रियैर्विधानं तु तदिन्द्रिय जयो भवेत् | याममात्रं यदा घूर्णं भवेदभ्यासयोगतः || एकवारं प्रकुर्वीत तदा योगी तु कुंभकम् | दण्डाष्टकं यदा वायुर्योगिनो निश्चलो भवे || स्वसामर्थ्यं ततो गुप्त्वा तिष्ठेद् वा तृणवत् सुधीः | ततः परिचयावस्था योगिनो भ्यासतो भवेत् || यदा वायुश्चन्द्रसूर्यौ त्यक्ता तिष्ठति निश्चलः | वायौ परिचिते वायुस्सुषुम्णा व्योम्नि संचरेत् || क्रियाशक्तिं गृहीत्वा च चक्रान्मित्त्वा तु निश्चितम् | तदा परिचयावस्था भवेदभ्यासयोगतः || त्रिकूटं कर्मणो योगी तदा पश्यति निश्चितम् | ततस्स्वकर्म कूटानि प्रणवेन विनाश्य च || योगीस्वकर्मभोगाय कायव्यूहं समाचरेत् | अस्मिन्काले महायोगी पञ्चधा धारणं चरेत् || येन भूचरसिद्धिः स्यात् तत् तद्भूत भयापहा | आधारे घटिकाः पञ्च नाभिस्थाने तथैव च || प्. ११३ब्) तदूर्द्ध्वं घटिकाः पञ्च नाभि भ्रूमध्यगे तथा | भ्रूमध्योर्द्ध्वे तथा पञ्च घटिका धारयेद् बुधः || तदा भुवादिना नष्टो योगीन्द्रो न भवेत् खलु | मेधावी पञ्चभूतानां धारणं यस्समभ्यसेत् || शतब्रह्मगतेनापि मृत्युस्तस्य न विद्यते | ततोभ्यास क्रमेणैव निष्पत्तिर्योगिनां भवेत् || अनादिकर्म जालानि येनच्छित्वामृतं भवेत् | यदा निष्पत्ति संपन्न समाधिः स्वेच्छया भवेत् || जीवन्मुक्तस्य मासात् तु भवेद्धिरस्य योगिनः | गृहीत्वा चेतना वायुं क्रियाशक्तिं च वेगवान् || सर्वांश्चक्रान्विभिद्याशु ज्ञानशक्तौ विलीयते | त्रिकूटं कर्मण इत्यादेरयमर्थः | कानिचित्कर्माणि केवलस्वर्गोपभोग्यानि कानि चित्पुनरवीच्यादि नरकोप भोग्यानि कानि चिन्मर्त्यलोक भोग्यानि इतीदं कर्मणां त्रिकूटत्वम् | तद्भोगार्थं स्वस्यैश्वर्यानुभवार्थं च योगी कायव्यूहं समाचरेत् | तत्प्रक्रिया यथा पातञ्जले | साक्षात् कृत तत्त्वस्य योगिनो युगपत्कर्मफलोपभोगा पाणिमाद्यैश्वर्यानुभवाय च युगपन्निर्मितेषु चित्तानि मूलकारणा स्मिता मात्रात् प्रभवन्ति | अग्नेरिव विस्फुलिङ्गास्तेषां चित्तानां योगाभ्यासकाली न मूलभूतैक चित्तप्रयोज्य त्वात् तदनुसारित्वम् | तेषां प्. ११४अ) च जन्मादि सिद्धि प्रभवचित्तविलक्षणत्व हेतुं कर्मवासनाराहित्यं चोक्ता योगिनश्च फलत्यागानु संधान कृतत्वादन्य कर्म विलक्षणमशुक्लाकृष्णकर्मोक्ताकर्मणश्च फलत्यागानुसंधानेनानुष्ठानारम्भं सहस्रजन्मान्तरित प्राचीन ज्ञान वासनाया अपि तत् तच्छरीर ग्रहणे आनुभूत त्यादि फलोत्पादने आनन्तर्यं वासनानामनादित्वं अनादित्वेपि क्रमेणानुभवरागाविद्यामूलत्वाज्ज्ञानयोगाभ्यां वा विद्यायाः | कल्पत्वेन निर्मूलत्वात् कर्मणां सुत्यजत्वम् | ननु भोगेनैव कर्मक्षयश्चेत्तदा प्रायश्चित्त प्रतिपादक श्रुतिस्मृतीतिहासपुराणादिकमप्रमाणं स्यादिति चेन्न | कर्म वैचित्र्यात् | तथा हि | संति तावत् सर्वप्राणिनां कर्माणि कानि चित्कृच्छ्र चान्द्रायणादि देहान्त प्रायश्चित्तनाश्यानि कानि चित्पुनर्ज्ञानध्यानयोगादि नाश्यानि कानि चित्तु भोगैकनाश्यानि तद्भोगार्थं योगिनाकायव्यूहः कर्तव्य एव | यच्च नाभुक्तं क्षीयते कर्मेत्यादि वाक्यं तद्भोगैक नाश्य प्रारब्ध कर्म विषयम् | अकृतप्रायश्चित्तानां प्राणिनां न भोगं विना कर्म क्षीयत इत्येतद्विषयम् | अन्यथा प्रायश्चित्त प्रतिपादकानां श्रुतिस्मृतीतिहासपुराणानाम प्. ११४ब्) प्रामाण्यं दुर्वारं स्यादिति दिक् | एताश्चावस्थास्तामसराजससात्विकाख्य मृदुमध्याधिमात्राधिमात्रतराधिकारिभेदेन बहुकालेनाल्पकालेन वा भवन्ति | तथा चामृतसिद्धौ || व्याधितादुर्बलावृद्ध्यनिस्सत्त्वा गृहवासिनः | मन्दोत्साहामन्दवीर्या ज्ञातव्यामृदवो नराः || द्वादशभिर्वर्षैरेषामेकावस्था प्रसिद्ध्यति | नीतिप्रौढास्समाभ्यासास्समवीर्यास्समाशयाः || मध्यस्थायोगमार्गेषु तथा मध्यमयोगतः | मध्योत्साहामध्यरागाज्ञातव्या मध्य विक्रमाः || अष्टाभिस्तु वर्षैरेषामेकावस्था प्रसिद्ध्यति | वीर्यवन्तो दयावन्तः क्षमावन्तो महाशयाः || स्वस्थाने संस्थिताः स्वस्था भवेयुः स्थिरबुद्धयः | साक्षराश्च सदाभ्यासास्सदासत्कारसंयुताः || ज्ञातव्याः पुण्यकर्माणो ह्यधिमात्रा हि योगिनः | एकावस्थाधिमात्राणां षड्भिर्वर्षैः प्रसिद्ध्यति || महाबला महाकाया महावीर्या महागुणाः | महामोहोद्गताः शान्ता महाकारुणिका नराः || सर्वशास्त्रकृताभ्यासास्सर्वलक्षणभूषिताः | सर्वज्ञ सदृशाकारास्सर्वव्याधिविवर्जिताः || वरयौवनसंपन्नानिर्विकारा नरोत्तमाः | निर्मलाश्च निरातङ्का निर्विघ्नाश्च निराकुलाः || प्. ११५अ) जन्मान्तर कृताभ्यासा गोत्रवन्तो महाशयाः | तारयन्ति च सत्त्वानि तरन्ति स्वयमेव च || अधिमात्रतराः सत्वा ज्ञातव्यास्सर्वलक्षणाः | त्रिभिस्संवत्सरैरेषा अवस्थैका प्रसिद्ध्यति || अवस्थाभिश्चतसृभिर्योगस्संपूर्णतां व्रजेत् | योगशास्त्रे || द्वाराणां नवकं निरुध्यमरुतं पीत्वा दृढं धारितं नीत्वाकाशमपान वह्निसहितं शक्त्या समुच्चालितम् आत्मध्यानयुतं त्वनेन विधिना विन्यस्य मूर्ध्नि स्थितं यावत् तिष्ठति तावदेव मरुतां संगेन संभूयते | नाभौ संयम्य चित्तं पवनगतिमधः संनिरुध्य पयत्नादाकुञ्च्यापानमूलंहुतवहस शिखं तन्तुवत्सूक्ष्मरूपम् | तन्नीत्वा हृत्सरोजे तदनु च गलके तालुनि ब्रह्मरन्ध्रे भित्त्वा शून्यातिशुन्यं प्रविशति गगनं यत्र देवो महेशः | वासिष्ठे || पुर्यष्टकापराख्यस्य जीवस्य प्राणिनात्मिकाम् | विद्धिकुण्डलिनीमन्तरामोदस्येवमञ्जरीम् || तां यदा पूरकाभ्यासादापूर्यस्थिर्यते समम् | तदैति भैरवं स्थैर्यं कायस्यपीनता तथा || यदा पूरकपूर्णान्तरायत्तं प्राणमारुतम् | नीयते संविदे चोर्द्धं सोढुं घर्मश्रमक्रमम् || सर्प्पीवत्वरितै वोर्द्धं याति दण्डोपमां गता | नाडीस्सर्वास्समादाय देहबद्धालतोपमा || प्. ११५ब्) तदा समस्तमेवेदमाप्लावयति देहकम् | नीरन्ध्रपवनापूर्णाभस्त्रेवाम्बुगतं नरम् || इत्यभ्यासविलासेन योगेन व्योमगामिताम् | योगिनः प्राप्नुवन्त्युच्चैर्दाना इन्द्र दशामिव || ब्रह्मनाडी प्रवाहेण शक्तिः कुण्डलिनी प्रदा | बहिरूद्ध्वं कपाटस्य द्वादशाङ्गुलमूर्द्धनि || रेचकेन प्रयोगेण नाडीशतनिरोधिता | मुहूर्तस्थितिमाप्नोति तदा व्योमगदर्शनम् || विज्ञानादूरसंस्थेन बुद्धिनेत्रेण राघव | दृश्यन्ते व्योमगास्सिद्धाः स्वप्नवत् स्वार्थदा अपि || मुखाद्बहिर्द्वादशान्ते रेचकाभ्यासयुक्तितः | प्राणे चिरं स्थितिं नीते प्रविशत्य परांपुरीम् || सर्वथात्मनि दृष्टे चेत्त्यक्ता चोर्द्ध्वगमागमौ | तज्जन्तोर्हीयते व्याधिरन्तर्मारुतरोधतः || राजादिमोक्षपर्यन्तास्समस्ता एव संपदः | देहानिलविधेयत्व साध्यास्सर्वस्य राघव || अथ प्रत्याहारनिरूपणम् || तत्र प्रत्याहार स्वरूपं फलं चाहभगवान्पतञ्जलिः | स्वस्वविषय संयोगे चित्तस्वरुपानुकार इन्द्रियाणां प्रत्याहारः || ततः परमावश्यतेन्द्रियाणामिति सूत्राभ्याम् | एतदर्थस्तु | इन्द्रियाणि स्वविषयेभ्यः प्रतीपमाह्रियन्तेस्मिन्निति प्रत्याहारः | स कथं विषयत इत्यतश्चाह चक्षुरादीनामिन्द्रियाणां विषयोरूपादिस्तेन प्रयोगस्तदाभिमुख्येन वर्तनं प्. ११६अ) तदेक भावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेवस्थानं तस्मिन् सति चित्तमात्रानुकारीणि भवन्ति ततश्चित्तमनुवर्तमानानि मधुकरराजमिवमक्षिकास्सर्वाणीन्द्रियाणि प्रयान्त्यतश्चित्त निरोधेन तानि प्रत्याहृतानि भवन्ति | तत एवमभ्यस्यमाने प्रत्याहारे तथा वश्यान्यायत्तानि संपद्यन्ते | यथा बाह्याभिमुखतां नीयमाना अपि नयान्तीत्यर्थः || शिवगीतायाम् || इन्द्रियाणां विचरतां विषयेषु स्वभावतः | निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्स उच्यते || योगशास्त्रे || चन्द्रामृतमयीं धारां प्रत्याहरति भास्करः | यत्प्रत्याहरणं तस्याः प्रत्याहारस्स उच्यते || यथा तृतीयकालस्थो रविः प्रत्याहरेत् प्रभाम् | तृतीयांश स्थितो योगी विकारं मानसं तथा || याज्ञवल्क्यः || इन्द्रियाणां विचरतां विषयेषु स्वभावतः | बलादाहरणं तेषां प्रत्याहारस्स उच्यते || यद्यत् पश्यति तत्सर्वं पश्येदात्मवदात्मनि | प्रत्याहारस्स च प्रोक्तो योगविद्भिर्महात्मभिः || कर्माणि यानि नित्यानि विहितानि शरीरिणाम् | तेषामात्मन्यनुष्ठानं मनसा यद्बहिर्विना || प्रत्याहारो भवेत् सोपि योगसाधनमुत्तमम् | प्रत्याहारे प्रशस्तं तत्सेवितं योगिभिस्सदा || प्. ११६ब्) अष्टादशसु यद्वायोर्मर्मस्थानेषु धारणम् | स्थानात् स्थानात् समाकृष्य प्रत्याहारो निगद्यते || अश्विनौ तु यथा व्रूतां गार्गिदेवभिषग्वरौ | मर्मस्थानानि सिद्ध्यर्थं शरीरे योगमोक्षयोः || तानि सर्वाणि वक्ष्यामि यथावच्छृणुसुव्रते | पादाङ्गुष्ठे च गुल्फे तु जंघामध्ये तथैव च || चितेर्मूले च जान्वोश्च मध्ये चोरुद्वयस्य च | पायुमूलं ततः पश्चान् मध्यदेहं च मेढ्रकम् || नाभिश्च हृदयं गार्गि कण्ठकूपस्तथैव च | तालुमूलं च नासायां मूलं चाक्ष्णोश्च मण्डले || भ्रुवोर्मध्ये ललाटं च मूर्द्धा च मुनिसत्तमे | मर्मस्थानानि चैतानि मानं तेषु पृथक् पृथक् || पादान्मानं तु गुल्फस्य सार्द्धाङ्गुलि चतुष्टयम् | गुल्फाज्जङ्घस्य मध्यं तु विज्ञेयं तु दशाङ्गुलम् || जङ्घामध्याच्चितेर्मूलं यत्तदेकादशाङ्गुलम् | चितिमूलाद्वरारोहे जानुस्स्यादङ्गुलद्वयम् || जान्वोर्नवाङ्गुलं प्राहुरूरुमध्यं मुनीश्वराः | ऊरुमध्यात् तथा गार्गि पायुमूलं नवाङ्गुलम् || देहमध्यं तथा पायोर्मूलस्थादङ्गुलद्वयम् | देहमध्यात् तथा मेढ्रं तद्वत्सार्धाङ्गुलि द्वयम् || मेढ्रान्नाभिश्च विज्ञेया तथा सार्द्धदशाङ्गुला | चतुर्दशाङ्गुलं नाभेर्हृन्मध्यं तु द्विजोत्तमे || षडङ्गुलं तु हृन्मध्यात् कण्ठकूपस्तथैव च | कण्ठकूपात् तु जिह्वाया मूलं स्याच्चतुरङ्गुलम् || प्. ११७अ) नासामूलं तु जिह्वाया मूलात् तु चतुरङ्गुलम् | नेत्र स्थानं तु तन्मूलादर्द्धाङ्गुलमितीष्पते || तस्मादर्धाङ्गुलं चैव भ्रुवोरन्तरमात्मनः | ललाटाख्यं भ्रुवोर्मध्यादूर्द्ध्वं स्यादङ्गुलत्रयम् || ललाटाद्व्योमसंज्ञं तदङ्गुलत्रयमेव च | स्थानेष्वे तेषु मनसा वायुमारोप्यधारयेत् || स्थानात् स्थानात् समाकृष्य प्रत्याहारं प्रकुर्वतः | सर्वे रोगाः प्रणश्यन्ति योगास्सिद्धान्ति तस्य वै || वदन्ति योगिनः केचिद् योगेषु कुशला नराः | प्रत्याहारं वरारोहे शृणुत्वं तं वदाम्यहम् || संपूर्यकुम्भवद्वायुमङ्गुष्ठान्मूर्द्ध्निमध्यतः | धारयत्य निलं बुद्ध्या प्राणायाम प्रचोदितः || व्योमरन्ध्रात् समाकृष्य ललाटे धारयेत् पुनः | ललाटाद्वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् || नेत्रात्प्राणं समाकृष्य नासामूले निरोधयेत् | नासामुलात् तु जिह्वाया मूले प्राणं निरोधयेत् || कण्ठकूपात् तु हृनमध्ये हृन्मध्यान्नाभि मध्यमे | नाभिमध्यात् पुनर्मेढ्रे मेढ्राद् देहालये ततः | देहमध्याद्गुदे गार्गि गुदाद्वै ऊरुमूलके | ऊरुमूलात् तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत् || चितिमूले ततस्तस्माज्जङ्घयोर्मध्यमे तथा | जङ्घात्ततः समाकृष्य वायुं गुल्फे निरोधयेत् || गुल्फादङ्गुलयोर्गार्गि पादयोस्तं निरोधयेत् | स्थानात् स्थानं समाकृष्य यस्त्वेवं धारयेद्धिया || प्. ११७ब्) सर्वपापविशुद्धात्मा जीवेश चन्द्रतारकम् | एतत् तु योगसिद्ध्यर्थमगस्त्येनापि कीर्तितम् || प्रत्याहारेषु सर्वेषु प्रशस्तमिति योगिभिः | नाडीभ्यां वायुमापूर्य कुण्डल्याः पार्श्वयोर्नरः || धारयेद् रोगयुक्तोपि भवरोगैर्विमुच्यते | पूर्ववद्वायुमारोप्य हृदये व्योम्नि धारयेत् || सोपि याति वरारोहे परमात्म पदं पुनः | व्याधयस्तु पुनस्तस्य बाह्याभ्यन्तर वर्तिनः || नासाभ्यां वायुमारोप्य पूरयित्वोदरं स्थितः | भ्रुवोर्मध्याद् दृशोः पश्चात् समारोप्य समाहितः || धारयेत् क्षणमात्रं यस्सोपि याति परां गतिम् | किं पुनर्बहुनोक्तेन नित्यकर्म समाचरन् || आत्मनः प्राणमारोप्य भ्रुवोर्मध्यात्सुषुम्णाया | यावन्मनोलयस्तस्मिंस्तावत् संयमनं कुरु || तत्तात्रेयस्तु || इन्द्रियाणीन्द्रियार्थेभ्यो यः प्रत्याहरति स्फुटम् | योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते || यं यं पश्यति चक्षुर्भ्यान्तन्तमात्मनि भावयेत् | ययं शृणोति कर्णाभ्यां तंतमात्मनि भावयेत् || जिह्वया यद्यद्रसयति तत्तदात्मनि भावयेत् | त्वचायत्स्पृशते योगी तत् तदात्मनि भावयेत् || एवं ज्ञानेन्द्रियाणां यत्सर्वमात्मनि भावयेत् | याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः || तदा विचिन्त्य सामर्थ्यं योगिनो जायते ध्रुवम् | दूरश्रुतिर्दूरदृष्टिः क्षणं दूरगतिस्तथा || प्. ११८अ) वाक्सिद्धिः कामरूपत्वमदृश्यकरणं तथेति | इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीरामचन्द्रसदानन्दसरस्वती शिष्य शिवानन्दसरस्वती विरचिते योगचिंतामणौ तृतीयः परिछेदः || ३ || अथ धारणा निरूप्यते || तत्र लक्षणमाहपतञ्जलिर्देशबन्धश्चित्तस्य धारणेति सूत्रेण | अस्यार्थः | देशे आध्यात्मिके नाभि चक्रहृदयकण्ठमुखभ्रूमध्यमूर्द्ध्यादि स्थाने | बाह्ये नासादौ | चित्तस्य बन्धो विषयान्तरपरिहारेण यच्चित्तस्य स्थापनं साधारणेत्युच्यते | अयं भावः मैत्र्यादि परिवासितान्तः करणेन यमनियमवताजितासनेन परिहृत प्राणविक्षेपेण प्रत्याहृतेन्द्रिय ग्रामेण ऋजुकायेन जितद्वन्द्वेन योगिनानिर्बाधे प्रदेशे संप्रज्ञातसमाधेरभ्यासायनासाग्रादौ चेतः स्थिरी कर्तव्यामिति | यथोक्तं विष्णुपुराणे || प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् | वशीकृत्य ततः कुर्याच्चित्तवृत्तिं शुभाशये || शिवगीतायाम् || हृत्पुण्डरीके नासाग्रे मूर्द्ध्नि सर्वत्र संभवे | एवमादिषु देशेषु धारणा चित्त बन्धनम् || स्कन्दपुराणे || आसनेन समायुक्तः प्राणायामेन संयुतः | प्रत्याहारेण संपन्नो धारणां च समभ्यसेत् || प्. ११८ब्) हृदये पञ्चभूतानां धारणं यत् पृथक् पृथक् | मनसो निश्चलत्वेन धारणा साभिधीयते || हरितालनिभां भूमिं सलकारां स वेधसम् | चतुष्कोणां हृदि ध्यायेदेषास्यात् क्षिति धारणा || कण्ठेम्बु तत्त्वमर्द्धेन्दु निभं विष्णुसमन्वितम् | वकारबीजं कुन्दाभं ध्यायन्नम्बुजयेदिति || तालुस्थमिन्द्रगोपाभं त्रिकोणं रेफसंयुतम् | रुद्रेणाधिष्ठितं सम्यग् ध्यात्वा वह्निं जयेदिति || वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमञ्जन संनिभम् | यबीजमीशदैवत्यं ध्यायन् वायुं जयेदिति || आकाशं च विशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रस्थितं तं नाथेन सदाशिवेन सहितं सान्तं हकाराक्षरम् | प्राणं तत्र विनीयपञ्चघटिकाश्चित्तान्वितं धारयेद् देव्यामोक्षकपाटपाटनपटुः प्रोक्तानभोधारणा | स्तम्भिनी प्लावनी चैव दहनी भ्रामिणी तथा | शमनी च भवन्त्येता भूतानां पञ्चधारणा || इति याज्ञवल्क्यः | यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि | धारणेत्युच्यते सद्भिश्शास्त्रतात्पर्य वेदिभिः || अस्मिन् ब्रह्मपुरे गार्गि यदिदं हृदयाम्बुजम् | तस्मिन्नेवान्तराकाशे यद्वाह्याकाशधारणम् || एषा च धारणेत्युक्ता योगशास्त्रविशारदैः | चिन्तकैर्योगशास्त्रज्ञैर्विद्वद्भिश्च सुशंकितैः || धारणाः पञ्चधा प्रोक्तास्ताश्च सर्वाः पृथक् पृथक् | भूमिरापस्तथा तेजोवायुराकाशमेव च || प्. ११९अ) एतेषु पञ्चदेवानां धारणं पञ्चधेष्यते | पादादि जानुपर्यन्तं पृथिवीस्थानमुच्यते || आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् | आपायोर्हृदयान्तं यद्वह्नि स्थानं तदुच्यते || हृन्मध्यात् तु भ्रुवोर्मध्यं यावद् वायु कुलं स्मृतम् | आभ्रूमध्यात् तु मूर्द्धान्तमाकाशमिति चोच्यते || पृथिव्यां धारयेद् गार्गि ब्रह्माणं परमेष्ठिनम् | विष्णुमप्स्वनले रुद्रमीश्वरं वायुमण्डले || सदाशिवं तथा व्योम्नि धारयेत् सुसमाहितः | पृथिव्यां वायुमास्थाप्य लकारेण समन्वितम् || ध्यायंश्चतुर्मुखाकारं ब्रह्माणं सृष्टिकारणम् | धारयेत् पञ्चघटिकाः पृथिवी जपमाप्नुयात् || वारुणे वायुमारोप्य वकारेण समन्वितम् | स्मरन्नारायणं देवं चतुर्बाहुं शुचि स्मितम् || शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् | धारयेत् पञ्चघटिकाः सर्वरोगैः प्रमुच्यते || वह्नावनिलमारोप्य रेफाक्षरसमन्वितम् | त्र्यक्षं वरप्रदं रुद्रं तरुणादित्य संनिभम् || भस्मोद्धुलित सर्वाङ्गं सुप्रसन्नमनुस्मरन् | धारयेद् घटिकाः पञ्च वह्निनासौ न दह्यते || मारुतं मरुतां स्थाने वर्णदेव समन्विते | धारयेत् पञ्चघटिका वायुवद्व्योमगो भवेत् || आकाशे वायुमारोप्य हकारोपरिशंकरम् | बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् || प्. ११९ब्) शुद्धस्फटिकसंकाशं वालेन्दु धृतशेखरम् | पञ्चवक्त्रयुतं शान्तं दशबाहुं त्रिलोचनम् || सर्वायुधोद्यतकरं सर्वाभरणभूषितम् | उमार्द्धं देहं वरदं सर्वकारण कारणम् || मनसा चिन्तयन्यस्तु मुहूर्तमपि धायेत् | स एवमुक्तस्तां त्रिरथशिक्षितैः || एतदुक्तं भवत्यत्र गार्गि ब्रह्म विदाम्वरम् | ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे || तस्मिन् सदाशिवे प्राणं चित्तं वा निजकारणे | युक्तचित्तस्सदात्मानं युयोज परमेश्वरे || तस्मिन्नर्थे वदन्त्यन्ये योगिनो ब्रह्मविद्वराः | प्रणवेन तु कार्याणि स्वे स्वे संहृत्यकारणे || तस्मिन् सदाशिवे प्राणं चित्तं वा निज कारणे | प्रणवस्य तु नादान्ते परमानन्द विग्रहे || ऋतं सत्यं परंब्रह्म पुरुषं कृष्णपिङ्गलम् | चेतसा संप्रपश्यन्ति सन्तस्संसारभैषजम् || त्वं तस्मात् प्रणवेनैव प्राणायामैस्त्रिभिस्त्रिभिः | ब्रह्मादि कार्य रूपाणि स्वे स्वे संहृत्य कारणे || विशुद्ध चेतसा पश्यनादान्ते परमेश्वरम् | अस्मिन्नर्थे वदन्त्यन्ये योगिनो ब्रह्मविद्वराः || भिषग्वरा वरारोहे योगेषु परिनिष्ठिताः | शरीरं तावदेवं हि पञ्चभूतात्मकं खलु || भवेत् तत्र वरारोहे वातपित्तकफात्मकम् | प्. १२०अ) वातात्मकानां सर्वेषां योगेषु नियतात्मनाम् || प्राणसंयमने नैव शोषं याति कलेवरम् | पित्तात्मकानामचिरान्नशुष्पति कलेवरम् || रक्तात्मकानां कार्यं तु संपूर्णमचिराद् भवेत् | धारणं कुर्वतस्त्वग्नौ सर्वे नश्यन्ति वातजाः || पार्थिवांशे जलांशे च धारणां कुर्वतस्सदा | नश्यन्ति श्लेष्मजारोगावातजाश्चाचिरात् तथा || व्योमांशे मारुतांशे च धारणां कुर्वतस्सदा | त्रिदोषजनितारोगा विनश्यन्ति न संशयः || अस्मिन्नर्थे तथा व्रूतामश्विनौ च भिषग्वरौ | प्राणसंयमने नैव त्रिदोषशमनं नृणाम् || दत्तात्रेयः | भव्यानर्थाननर्थान्वै ज्ञात्वा रहसि यत्नतः | पञ्चधा धारणं कुर्यात् तत् तद्भूतं भयावहम् || नाभेरधो गुदस्योर्द्ध्वं घटिकाः पञ्चधारयेत् | वायुं ततो भवेत् पृथ्वी धारणे चेद्भयावहम् || पृथिवी संभवो मृत्युर्न भवेत् तस्य योगिनः | नाभिस्थाने ततो वायुं धारयेत् पञ्च नाडिकाः || ततो जलाद्भयं नास्ति जले मृत्युर्न योगिनः | नाभ्यूर्द्ध्वमण्डले वायुं धारयेत् पञ्च नाडिकाः || आग्नेयी धारणा चेयं न मृत्युस्तस्य वह्निना | न दह्यते शरीरं च प्रणष्टे चाग्नि संस्तरे || नाभिभ्रूघ्राणमध्ये तु प्रादेशत्रयसंमिते | धारयेत् पञ्चघटिका वायुं सैषा च वायवी || प्. १२०ब्) धारणे नैव वायोस्तु भवं भवति योगिनः | भ्रूमध्यादुपरिस्ठात् तु धारयेत् पञ्चनाडिकाः || वायुं योगी प्रयत्नेन सेयमाकाश धारणा | आकाशधारणां कुर्वन् मृत्युंजयति शाश्वतम् || एवं च धारणाः पञ्च कुर्याद् योगी विचक्षणः | ततो दृढ शरीरस्य मृत्युस्तस्य न विद्यते || एवं पञ्चविधाभूतधारणायस्समभ्यसेत् | ब्रह्मणः प्रलयेनापि तस्य मृत्युर्न विद्यते || मार्कण्डेयपुराणे || योगयुक्तस्सदायोगी लब्ध्वाहारो जितेन्द्रियः | सूक्ष्मास्तु धारणाः सप्त भूराद्याः मूर्द्ध्नि धारयेत् || धरित्रीं धारयन्योगी तत्सौक्ष्म्यं प्रतिपद्यते | आत्मानं मन्यते चोर्वीं तद्गन्धं च जहाति सः || तथैवाप्सरसंसूक्ष्मं तद्वद्रूपं च तेजसि | स्पर्शं वायौ तथा तदद् विभ्रतस्तस्य धारणाम् || व्योम्नः सूक्ष्मां प्रवृत्तिं च शब्दं तद्वज्जहाति च | मनसा सर्व भूतानां मनस्या विशते यदा || मानसीं धारणां विभ्रन्मनः सौक्ष्म्यं च जायते | तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्ययोगवित् || परित्यजति संप्राप्य बुद्धिसौक्ष्म्य मनुत्तमम् | परित्यजति सर्वाणि सप्तत्वेतानि योगवित् || संम्यग्विज्ञाययो लब्धस्तस्या वृत्तिर्न विद्यते | एतासांधाराणानां तु सप्तानां सौक्ष्म्यमात्मवान् || प्. १२१अ) दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्तात्यक्ता परां व्रजेत् | यस्मिन् यस्मिंश्च कुरुते भूतेरागं महीपते || तस्मिंस्तस्मिन् समासक्तिं संप्राप्य सविनश्यति | तस्माद् विदित्वा सूक्ष्माणि संसक्तानि परस्परम् || परित्यजति यो देही सपरं प्राप्नुयात् पदम् | एतान्येव तु संधायसप्तसूत्राणि पार्थिव || भूरादीनां विरागोत्रसद्भावज्ञस्य मुक्तये | गन्धादिषु समासक्तमित्येतदखिलं जगत् || पुनरावृत्तये भूप स ब्रह्मामरमानुषम् | सप्तैता धारणा योगी समतीत्य यदीच्छति || तस्मिंस्तस्मिल्लयं सूक्ष्मे याति भूते नरेश्वर | देवानामसुराणां वा गन्धर्वोरगरक्षसाम् || देहेषुलयमायाति संगं नाप्नोति च क्वचित् | तथा | प्राङ्नाभ्यां हृदये चात्र तृतीया च तथोरसि | कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु || किञ्चित् तस्मात् परस्मिन् साधारणा परमा स्मृता | दशैता धारणाः प्राप्ताप्य प्राप्नोत्यक्षरसाम्यताम् || अथ ध्यानम् || तल्लक्षणमाह पतञ्जलिः | तत्र प्रत्ययैकतानताध्यानमिति | तत्र यद्धारणायामालम्बनीकृतं वस्तु तस्मिन् प्रत्ययैकतानता प्रत्ययस्य चित्तवृत्तेर्विजातीयप्रत्यय तिरस्कारेण सजातीय प्रत्यय प्रवाही करणं यत्तद्ध्यानमित्युच्यते | प्. १२१ब्) शिवगीतायाम् | देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः | वृत्यन्तरैससंस्पृष्टा तद्ध्यानं सूरयो विदुः || विष्णुपुराणे | तद्वृत्ति प्रत्ययैकाग्रसन्ततिर्यान्य निःस्पृहा | तद्ध्यानं प्रथमैः षड्भिरङ्गैर्निष्पाद्यते नृप || स्कन्दपुराणे | ध्यैचिन्तायां स्मृतो धातुश्चिन्ता तत्त्वेसुनिश्चला | यातध्यानमिति प्रोक्तं सगुणं निर्गुणं द्विधा || सगुणं सर्वभेदेन निर्गुणं केवलं मतम् | समन्त्र सगुणं विद्धि निर्गुणं मन्त्र वर्जितम् || शब्दादीनां च तन्मात्रा यावत् कर्णादिषु स्थिताः | तावदेवस्मृतं ध्यानं स्यात् समाधिरतः परम् || नाश्वमेधेन तत्पुण्यं न च वै राजसुयतः | यत्पुण्यमेकध्यानेन लभेद् योगी स्थिरासनः || मार्कण्डेयपुराणे || त्यक्तसंगोजितक्रोधो लघ्वाहारी जितेन्द्रियः | पिधाय बुद्ध्या द्वराणि मनोध्याने निवेशयेत् || शून्ये वाथ प्रकाशेषु गुहासु च वनेषु च | नित्ययुक्तस्सदायोगी ध्यानं सम्यगुपक्रमेत् || वेदाः श्रेष्ठाः सर्वप्रमादी शुचिस्तथैकान्तरतिर्ज्जितेन्द्रियः | स प्राप्नुयाद्योगमिमं महात्मा विमुक्ति माप्नोति ततश्च योगतः || याज्ञवल्क्यः || ध्यानं ततः प्रवक्ष्यामि शृणु गार्गि वरानने | प्. १२२अ) ध्यानमेव हि जन्तूनां कारणं बन्धमोक्षयोः || ध्यानमात्मस्वरूपस्य वेदनं मनसाखलु | सगुणं निर्गुणं तच्च सगुणं बहुशः स्मृतम् || पञ्चोत्तमानितेथाहुर्वैदिकानि द्विजोत्तमाः | त्रीणिमुख्यतमान्येषामेकमेव हि निर्गुणं || मर्मस्थानानि नाडीनां संस्थानं च पृथक् पृथक् | वायूनां स्थानकर्माणि ज्ञात्वा कुर्वात्मवेदनम् || एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवद् दृढम् | अव्यक्तममलं नित्यं ह्यादि मध्यान्त वर्जितम् || स्थूलं सूक्ष्म मनाकाशमसंस्पर्शमचाक्षुषम् | न रसं न च गन्धाढ्यमप्रमेय मनामयम् || आनन्दमजरं नित्यं सदसत्सर्वकारणम् | सर्वाधारं जगद्रूपमूर्त्तमजमव्ययम् || अदृश्यं दृश्यमध्यस्थं बहिस्थं सर्वतोमुखम् | सर्वदृक् सर्वतः पादं सर्वस्पृक् सर्वतः शिरः || ब्रह्मब्रह्म मयोहंस्यामिति तत्त्वस्य वेदनम् | तदेतन्निर्गुणं ध्यानमिति योगविदोविदुः || अथवा परमात्मानं परमानन्दविग्रहम् | गुरूपदेशाद् विज्ञाय पुरुषं कृष्णपिङ्गलम् || ब्रह्मब्रह्मपुरे चास्मिन् दहनामेखमध्यमे | चेतसा संप्रपश्यन्ति सन्तस्संसारभेषजम् || हृत्पद्माष्टदलोपेते कन्दमध्यात् समुत्थिते | द्वादशागुलनालेस्मिंश्चतुरङ्गुलमुन्मुखे || प्. १२२ब्) प्राणायामैर्विकसिते केसरान्वित कर्णिके | इष्टदेवं समालोच्य मनसा सर्व कामदम् || सोहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते | हृत्सरोरुहमध्येस्मिन् प्रकृत्यात्मक कर्णिके || अष्टैश्वर्य दलोपेते विद्याकेसरसंयुते | ज्ञाननाले बृहत्कन्दे प्राणायाम प्रबोधिते || विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतो मुखम् | वैश्वानरं जगद्ध्यातं शिखातन्विनमीश्वरम् || प्रतपन्तं स्वकं देहमापादतलमस्तकम् | निर्वात दीपवत् तस्मिन् दीपितं हव्यवाहनम् || दृष्ट्या तस्य शिखामध्ये परमात्मानमव्ययम् | नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरम् || नीवारशूकवत् सूक्ष्मं दीपाभं सर्वकारणम् | ज्ञात्वा वैश्वानरं देवं सोहमात्मेति या मतिः || सगुणध्यानेषूत्तमं ध्यानं योगविदोविदुः | वैश्वानरत्वं संप्राप्य मुक्तिं तेनैव गच्छति || अथवा मण्डले पश्येदादित्यस्य महाद्युतेः | आत्मानं जगतो हेतुं पुरुषं हेमरूपिणम् || हिरण्यश्मश्रुकेशं च हिरण्मय नखं हरिम् | रूपपेशलवद् वक्त्रं सृष्टि स्थित्यंत कारणम् || पद्मासन स्थितं सौम्यं प्रबुद्धाब्जनिभाननम् | पद्मोदरदलौष्ठाभं सर्वलोक भय प्रदम् || प्. १२३अ) जानन्तं सर्वदा सर्वं नन्दयन्तं च धार्मिकान् | भासयन्तं जगत्सर्वं दृष्ट्या लोकैक साक्षिणम् || सोहमस्मीति या बुद्धिस्सा च ध्याने प्रशस्यते | एष एव तु मोक्षस्य महामार्गस्तपोधने || ध्याने नानेन सौरेण मुक्तिं यास्यन्ति सूरयः | भ्रुवोर्मध्येन्तरात्मानं भारूपं सर्वकारणम् || स्थाणुवन्मूर्द्धपर्यन्तं मध्यदेहात्समुत्थितम् | जगत्कारणमव्यक्तं ज्वलन्तममितौजसम् || मनसा लोक्य सोहं स्यामित्येतद्ध्यानमुत्तमम् | अथवा बद्ध पर्यंकः शिथिलीकृतविग्रहः || शिव एव स्वयं भूत्वा नासाग्रारोपित क्षणः | अथवाष्टदलोपेते सकर्णी केसरान्विते || उन्निद्रहृदयाम्भोजे सोममण्डलमध्यमे | स्वात्मानमर्भकाकारं भोक्तृ रूपिणमक्षयम् || सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतम् | षोडशच्छंदसंयुक्तं शिरः पद्मादधो मुखात् || निर्गतामृतधाराभिस्सहस्राभिस्समन्ततः | प्लावितं पुरुषं तत्र चिन्तयित्वा समाहितः || तेनामृतरसेनैव साङ्गोपाङ्गकलेवरः | अहमेव परंब्रह्म परमात्माहमव्ययः || एवं यद्वेदनं तत्र सगुण ध्यानमुच्यते | एवं ध्यानामृतं सर्वं षण्मासान्मृत्युजिद् भवेत् || प्. १२३ब्) वत्सरान्मुक्त एवस्याज्जीवन्नेव न संशयः | जीवन्मुक्तस्य न क्वापि दुःखा वा कथंचन || किं पुनर्नित्य युक्तस्य मुक्तिरेव हि दुर्लभा | श्रुतिश्च | हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकं अचिन्त्यमव्यक्त मनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् | तथादि मध्यान्त विहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्त साक्षिं तमसः परस्तात् | ततस्तु तं पश्यते निष्कलं ध्यायमानः | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः || मनसैवाप्तव्यमित्यादिका | दत्तात्रेयः || समभ्यसेत् ततो ध्यानं घटिकाः षष्टिमेव च | वायुं निरुद्ध्ययां कांचिद् देवतामिष्टदायिनीम् || सगुणध्यानमेतत् तु ह्यणिमादि गुणप्रदम् | निर्गुणं खमिव ध्यात्वा मोक्षमार्गे प्रपद्यते || योगि याज्ञवल्क्यः || ध्यानेन सदृशं नास्ति शोधनं पापकर्मणाम् | श्वपाकेष्वपि भुञ्जानो ध्यायी नैव तु लिप्यते || ध्यानमेव परं ब्रह्म ध्यानमेव परं तपः | ध्यानमेव परं शौचं तद्ध्यानं परमं पदम् || सर्वपाप प्रसक्तोपि ध्यायन् निमिषमद्भुतम् | प्. १२४अ) तदा तपस्वी भवति पंक्ति पावन पावनः || महाभारते || सर्वाचार विहीनोपि युक्तो वा सर्व पातकैः | सर्वं नुदति तत्पापं भावयञ्छिवमात्मना || शास्त्रान्तरे || पातकेषु च सर्वेषु पातकेषु महत्सु च | प्रविश्य रजनी पादं ब्रह्म ध्यानं समाचरेत् || वासिष्ठे आत्मपूजाप्रकरणे ध्यानस्वरुप कथनानन्तरम् | ईश्वर उवाच || ध्यानोपहार एवात्मा ध्यानं मम महार्चनम् | विना ते नेतरेणायमात्मालभ्येत एव नो || ध्यानेनानेन सुमते निमिषास्तु त्रयोदश | मूढोपि पूजयित्वेशं गो प्रदानफलं लभेत् || पूजयित्वा निमेषाणां शतमेकमिति प्रभुम् | अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः || पूजयित्वा स्वमात्मानं घटिकार्द्धमिति प्रभुम् | अश्वमेध सहस्रस्य फलमाप्नोति मानवः || ध्यानवल्युपहारेण स्वयमात्मानमात्मना | घटिकां पूजयेद् यस्तु राजसूयं लभेत सः || मध्याह्न पूजनादित्थं राजसूयैक लक्षभाक् | दिवसं पूजयित्वैवं परे धाम्नि वसेन्नरः || एषोसौ परमोपाय इयं सा परमा कला | आत्मगीतायाम् || साक्षात् कर्तुमसक्तोपि चिन्तयेन्मामशंकितः | कालेनानु भवारुढो भवेत् सफलितो ध्रुवम् || प्. १२४ब्) यथा गाधनिधेलभिनौपायः खननं विना | मल्लाभेपि तथा स्वात्म चिन्तां मुक्ता न चापरः || देहं ह्ययत्नमाकृत्य विद्धि कुद्दालकात् पुनः | खाल्वामनोभुवं भूयो गृह्णीयान् मां निधिं पुमान् || शास्त्रान्तरे च || अनुभूतेरभावेपि ब्रह्मास्मीत्येव चिन्त्यताम् | अप्यसत् प्राप्यते ध्यानान् नित्यासं ब्रह्म किं पुनः || अनात्मबुद्धिशैथिल्यं फलं ध्यानाद् दिने दिने | पश्यन्नपि न चेद्ध्यायेत् को परोस्मात्पशुर्वद || उपेक्ष्य तत् तीर्थयात्रां जपादीनेव कुर्वताम् | पिण्डं समुत्सृज्य करं लेढीति न्याय आपतेत् || अथ समाधिः | पतञ्जलिः || तदैवार्थ मात्र निर्भासं स्वरूपशून्यमिव समाधिः | यद्ध्यानालम्बनी भूतं वस्तुतदेव पदार्थमात्रनिर्भासं स्वस्वरूपेणैव निस्संदिग्धं सर्वात्मना परिपूर्ण रूपं | अत एव सर्व विषय विहीनत्वात् स्वरूप शून्यामिव यस्यां | भावनायां भासते सभावनाविशेषस्समाधिरित्युच्यते | समाधिद्वयसामान्यलक्षणमेतत् | विशेषलक्षणं प्रथमपरिच्छेद एव विस्तरेणोक्तं द्रष्टव्यम् | अन्ये तु सम्यगाधीयते एकाग्री क्रियते विज्ञेयान् परित्यज्य यत्र मनस्ससमाधिरित्याहुः | प्. १२५अ) याज्ञवल्क्यः || समाधिमधुनावक्ष्ये भव पाश विमोचनम् | भवपाशनिबद्धस्य यथावच्छ्रोतु मर्हसि || समाधिस्तु समावस्था जीवात्मपरमात्मनोः | ब्रह्मण्येवस्थितिर्यासा समाधिः प्रत्यगात्मनेः || ध्यायेद् यथा यथात्मानं तत्समाधिस्तथा तथा | ध्यात्वैवात्मनि संस्थाप्या नान्यथात्मा यतो भवेत् || एवमेव हि सर्वत्र यत्र प्रयत्नस्तु यो नरः | यदात्मा सोपि तत्रैव तदेव हि समाप्नुयात् || सरित्पतौ निविष्टाम्बु यथाभिन्नं लयं व्रजेत् | तथात्मा भिन्न एवात्र ससमाधिं समाप्नुयात् || कूर्मपुराणे || एकाकारस्समाधिस्स्याद् देशालम्बन वर्जितः | प्रत्ययो ह्यर्थ मात्रेण योग साधनमुत्तमम् || विष्णुपुराणे || तस्यैव कल्पना हीनं स्वरूप ग्रहणाय यत् | मनसा ध्यान निष्पाद्यं समाधिस्सोभिधीयते || न च ध्यान संप्रज्ञात समाध्योरभेदः शंकनीयः | बहुप्रयत्नसाध्योपि ध्याने भवत्येव तावत् प्रत्ययान्तर संचारः | संप्रज्ञात समाधौ तु सर्वात्मनानास्त्येव प्रत्ययान्तर संचारावकाश इति तयोर्भेदः | सुरेश्वराचार्याः | प्. १२५ब्) ब्रह्मविष्णुशिवादीनां चिन्ताध्यानं प्रचक्षते | ध्यानादस्पन्दनं बुद्धेस्समाधिरभिधीयते || शैवधर्मे || समाधिस्तु समावस्था जीवात्म परमात्मनोः | निरस्तरङ्ग पद प्राप्तिः परमानन्दरूपिणी || निःश्वासोच्छ्वासयुक्तो वा निःस्पन्दोस्पन्दलोचनः | शिवध्यायी सुलीनश्च ससमाधिस्थ उच्यते || न शृणोति यदा किंचिन्न पश्यति न जिघ्रति | न च स्पर्शं विजानाति स समाधिस्थ उच्यते || इति स्कन्दपुराणे | यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः | स नष्ट सर्व संकल्पस्समाधिरभिधीयते || नात्मानं न परं वेत्ति न शीतं चोष्णमेव च | समाधि युक्तो योगीन्द्रो न सुखं न सुखेतरम् || कल्पते नैव कालेन लिप्यते नैव कर्मणा | भिद्यते नैव शस्त्रास्त्रैर्योगी युक्तस्समाधिना || यथा जले जलं क्षिप्तं जलमेव तु तद् भवेत् | क्षीरे क्षीरं तथा योगी तत्र तन्मयतां व्रजेदिति || दत्तात्रेयः || निर्गुणध्यानसंपन्नः समाधिं च ततोभ्यसेत् | दिनद्वादशके नैव समाधिं ससमाप्नुयात् || वायुं निरुध्यमेधावी जीवन्मुक्तो भवेद्ध्रुवम् | समाधिस्समतावस्था जीवात्म परमात्मनोः || यदि स्वदेहमुत्स्रष्टुमिच्छेच्चेदुत्सृजेत्स्वयम् | परब्रह्मणि लीयेत त्यक्ता कर्म शुभाशुभम् || प्. १२६अ) अथ नोचेत्समुत्स्रष्टुं स्वशरीरं यदि प्रियम् | सर्वलोकेषु विचरेदणिमादिगुणान्वित इति || एवं चोक्तरीत्यासांगयोगमनु तिष्ठतो योगिनस्सात्विक राजसतामसा अन्तराया भवन्ति | सर्वेपि ते तुच्छा इति योगिना हेया एव | तथा च दत्तात्रेयः || प्रथमाभ्यास काले तु विघ्नास्तु विविधा मुने | आलस्यं प्रथमो विघ्नो द्वितीयस्तु प्रकथ्यते || पूर्वोक्त धूर्त गोष्ठी च तृतीयो मन्त्रसाधनम् | चतुर्थो धातु वादस्स्यादिति योगविदो विदुः || कन्दर्पस्य यथारूपं तथा तस्यैव योगिनः | तद्रूपवशगानार्यः कांक्षन्ते तस्य संगमम् || एवं हि बहवो विघ्नामृगतृष्णा समामुने | स्थिरस्यास्य प्रजायन्ते तान् ज्ञात्वा संत्यजेत् सुधीरिति || मार्कण्डेयपुराणे | उपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः | एतांस्ते संप्रवक्ष्यामि समासेन निबोधमे || काम्याः क्रियास्तथा कामान्मानुष्यानपि चेच्छति | स्त्रियो दानफलं विद्यां माया कुप्यं धनं दिवम् || देवत्वममरेशत्वं रसायन वयः क्रियाम् | मेरु प्रपतनं यज्ञं जलाग्न्यावेशनं तथा || श्राद्धानां शक्तिदानानां फलानि नियमांस्तथा | तथोपवासात् पूर्ताच्च दैवतेष्वर्चनादपि || प्. १२६ब्) तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोभि वांछति | चित्तमित्थं प्रवर्तन्तं यत्नाद् योगीनि वर्तयेत् || ब्रह्मसंगिमनः कुर्वन्नुपसर्गैः प्रमुच्यते | उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः || योगिनः संप्रवर्तन्ते सत्वराजसतामसाः | प्राप्तिभः श्रावणो दैवो भ्रमावर्त्तौ तथा परौ || पञ्चैते योगिनां योगा विघ्नाय कटुकोदयाः | वेदार्थाः काव्यशास्त्रार्था विद्या शिल्पान्य शेषतः || प्रतिभान्ति पदस्वेति प्रातिभस्स तु योगिनः | शब्दार्थानखिलान्वेत्ति शब्दं गृह्णाति चैव यत् || योजनानां सहस्रेभ्यः श्रावणस्सोभिधीयते | अष्टौ यदा तु दृश्यन्ते समन्ताद् देवयोनयः || उपसर्गं तमप्याहुर्दैवमुन्मत्त वद्बुधाः | भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः || समस्ताधार विभ्रं शाद्भ्रमस्स परिकीर्तितः | आवर्त इवतो यस्य ज्ञानावर्तो यदा कुलः || चित्तं नाशयते यत्र उपसर्गस्स उच्यते | एतैर्नाशितयोगास्तु सकला देव योनयः || उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः | प्रावर्त्य केवलं शुद्धं योगी तस्मान् मनोमयम् || चिन्तयेत् परमं ब्रह्म कृत्वा तत् प्रवणं मन इति | प्. १२७अ) ये च व्याध्य कर्मण्यता योगफलवत्त्व संशय प्रमादालस्य विषय वै मुख्या भावभ्रान्ति समाधि भूम्यलाभ चित्त्ताप्रतिष्ठादयो विघ्नाश्चित्त विक्षेप शब्दितास्तेपि ब्रह्मानुसंधाने नैव निवर्तन्ते | तदुक्तं पातञ्जले | ईश्वर प्रणिधाना द्वेत्यादिनायोगनिरूपणानन्तरं | तस्य वाचकः प्रणवस्तज्जपस्तदर्थ भावनम् | ततः प्रत्यक् चेतनाधिगमोन्तराया भावश्चेति सूत्रैः | न च तदर्थ भावनस्यापि संयमरूपत्वेन तत्रापि विघ्नावकाशः | सर्वपापतूलानलरूपे भगवद्भजने विघ्नावकाशा भावात् | विष्णुपुराणे | यथाग्निरुद्धतशिखः कक्षं दहति सानिलः | तथा चित्त स्थितो विष्णुर्योगिनां सर्वकिल्विषमिति || तथा प्रागुक्तानां विक्षेपाख्य विघ्नानां सर्वेषामपि विक्षेप सह जन्मनां च दुःखदौर्मनस्याङ्ग कंपश्वास निद्रादीनां निरासाय यथाभिमत ध्यान संतानमेव तनुयादित्ये तदुक्तं | तत्प्रतिषेधार्थमेकतत्त्वाभ्यास इति सूत्रेण | वासिष्ठे | एते कामक्रोधादयः || एते ब्रह्मन् महादोषास्संसारव्याधि हेतवः | मनागपिनलुंपन्ति चित्तमेक समाहितम् || आधिव्याधिसमुत्थानि चलितानि महाभ्रमैः | न हि लुम्पन्ति दुःखानि चित्तमेक समाहितम् || प्. १२७ब्) परिस्फुरति यस्यान्तर्नित्यं सत्यं चमत्कृतिः | स्वब्रह्माण्डमिवाखण्डं दिगीशाः पालयन्तितम् || इति आदित्य पुराणे | सम्यग्दर्शनसंपन्नो नाभि भूयेत कर्मिभः | योगविद्योगयुक्तात्मा परं निर्वाणमृच्छति || श्रुतिश्च | तर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य हन देवाश्च नाभूत्या ईशेत आत्मा ह्येषां स भवतीत्यादिका इति | किं च मोक्षादर्वाग्जायमानास्सिद्धयस्ता अपि विघ्न रूपा एव मन्तव्याः सिद्ध्यासक्तमनसो योगिनो मोक्षो दुर्लभो यतः | तथा च स्कन्दपुराणे | अन्तराया भवन्तीह योगिनो योगहानिदाः | श्रूयते दूरगावार्ता दूरस्थं दृश्यते पुनः || योजनानां शतं यातुं शक्तिस्स्यान्निमिषार्द्धतः | अचिन्तितानि शास्त्राणि कण्ठपाठे भवन्ति हि || धारणाशक्तिरत्युग्रा महान्भारोलघुर्भवेत् | क्षणं कृशः क्षणं स्थूलः क्षणमल्पः क्षणं महान् || परकायं प्रविशति तिरश्चो वेत्ति भाषितम् | दिव्यं गन्धं तनौधत्ते दिव्यां वाणीं प्रवक्ति च || प्रार्थ्यते दिव्य कन्याभिर्द्दिव्यं प्रार्थयते वपुः | इत्यादयोन्तरायास्स्युर्योग संसिद्धि सूचकाः || यद्येभिरन्तरायैर्नक्षिप्यतेस्य हि मानसम् | तदाग्रे तनमाप्नोति पदं ब्रह्मादि दुर्लभम् || प्. १२८अ) न यत्प्राप्य निवर्तेत यत्प्राप्य न च शोचति | तल्लभ्यते षडङ्गेन योगेन कलशोद्भवेति || योगभास्करे || जितेन्द्रियस्य दान्तस्य जितश्वासस्य योगिनः | हरौ धारयतश्चित्तंमुपतिष्ठन्ति सिद्धयः || अणिमादिकावह्न्यस्तु धारणाभिरुपासिताः | त्यजेद्व्यर्थ तयासर्वायतस्ता विघ्नकारिकाः || सिद्ध्यादि वासनावद्धस्तत्तद्भोगेषु संगतः | भ्रश्यते प्रायशः स्थानात् प्रकृतावेव तिष्ठति || सात्विकीं धृति मालम्ब्य त्यागी सत्वेन सुस्थिरः | निर्गुणं मनसा ध्यायन्नुपसर्गैः प्रमुच्यते || एवं योगमुपासीनः शक्रादि पदनिःस्पृहः | सिद्ध्यादि वासना त्यागाज्जीवन्मुक्तो भवेन् मुनिः || विस्तरस्यमियानोक्तास्सन्ति विघ्ना ह्यनेकशः | ध्यानेन हरिहरयोर्वारणीया हि योगिना || इति सर्वशास्त्रसिद्धान्तः | एवं च परमेश्वरानुगृहीतस्य निर्विघ्नं सांगं योगमातिष्ठतो योगिनो विश्वासार्थं परीक्षार्थं च क्रमेण मोक्षाभावान्तरफलसिद्धयो ह्याविर्भवन्ति | पञ्चप्रकारा लोके सिद्धयो भवन्ति | तथा च पतञ्जलिः || जन्मोषधिमन्त्रजपः समाधिजाः सिद्धय इति | यक्षादीनामाकाशगमनादि लक्षणाकपिलादीनां जन्मसमनन्तरमेवोपजायमान ज्ञानादि लक्षणा जन्मसिद्धिः | प्. १२८ब्) पातालादौ रसायनाद्युपयोगलक्षणौषधि सिद्धिः केषांचित् आकाशामनादि फलामन्त्रसिद्धिः | विश्वामित्रादीनां तपः सिद्धिः | याज्ञवल्क्यादि योगिनां समाधि सिद्धिः | तत्र जन्मादि सिद्धीनां सर्वा सामपि | जन्मान्तराभ्यस्तसमाधि सिद्धिरेव हेतुः | मन्त्रादिकं तु निमित्तमात्रमित्यवधेयम् | यथानन्दीश्वरादीनामिहैव जन्मनि ज्ञात्यादि परिणामायः सप्रकृत्यापूरात् | पाश्चात्या एव हि प्रकृतयोस्मिन् जन्मनि स्थूलभूतात्म देहेन्द्रिय लक्षणान्विकारान् जात्यन्तरादि द्वारेण पूरयन्ति | क्रियमानं धर्मादि प्रकृती नामा पूरणेन प्रयोजकम् | किं तु तत आवरणभूताधर्मक्षयो भवति | यथा कृषी बलस्य सेतु भेदमात्रे व्यापारो जलनिस्सरणं तु स्वत एवेत्यतो न पूर्वोक्त जन्मान्तराभ्यस्त समाधिकारण भङ्गप्रसंगः | तथा च पतञ्जलिः | जात्यन्तरपरिणामः प्रकृत्यापूरान्निमित्तमप्रयोजकं प्रकृतीनाम् | आवरणभेदस्तु ततः क्षेत्रिक वदिति सुत्राभ्याम् | योगभास्करे | जन्मौषधितपो मन्त्रैर्यावत्य इह सिद्धयः | योगेनाप्नोति तास्सर्वानान्यैर्योगगतिं व्रजेत् || योगबीजे | प्. १२९अ) अभ्यासस्य फलं देवि कथयामि तवाधुना | आदौरोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् || ततस्समरसी भूत्वा चन्द्रोवर्षत्यनारतम् | धातुरसंग्रहेद् वह्निः पवनेन समन्ततः || नानानादाः प्रवर्तन्ते मार्दवं स्यात् कलेवरे | जित्वा पृथ्व्यादिकं जाड्यं खेचरः प्रसरेन्नरः || सर्वज्ञोसौ भवेत् कामरूपः पवनवेगवान् | क्रीडति त्रिषु लोकेषु जायन्ते सिद्धयोखिलाः || कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते | अहंकार जये तद्वद् देहे कठिनताकुतः || सर्वज्ञस्सर्वकर्ता च स्वतन्त्रो विश्वरूपवान् | जीवन्मुक्तो महायोगी जायते नात्र संशयः || देव्युवाच | यत्किंचित् कल्पनाजालं तन्न मोक्षाय शंकर | सिद्धयः किं करिष्यन्ति निर्विकल्पे चिदात्मनि || एनं मे संशयं नाथच्छेत्तु मर्हसि पावन | ईश्वर उवाच | सत्यमेतत्वयोक्तं ते वदामि शृणु सुन्दरि | द्विविधाः सिद्धयो लोके कल्पिताकल्पिताः शिवे || रसौषधि क्रिया काल मन्त्रयन्त्रादि साधनात् | सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः || अनित्या अल्पवीर्यास्ताः सिद्धयस्साधकोद्भवाः | साधनेन विना ह्येवं जायन्ते स्वत एव हि || स्वात्मयोगैक निष्ठे तु स्वातन्त्र्यादीश्वर त्वतः | प्रसूताः सिद्धयो यास्ताः कल्पना रहिता स्मृताः || प्. १२९ब्) शुद्धानित्यां महावीर्या इच्छारूपाः स्वयोगजाः | चिरकालात्प्रजायन्ते वासना रहितेषु च || तासुभाव्यो महायोगः परमात्म पदे व्यये | विना सूर्यं सदा दीप्तिर्योगसिद्धस्य लक्षणं || यथा काशीं समुद्दिश्य गच्छद्भिः पथिकैः पथि | नानातीर्थानि दृश्यन्ते तथा मोक्षे तु सिद्धयः || स्वयमेव प्रजायन्ते लाभालाभ विवर्जिते | सिद्धिभिर्लक्षयेत् सिद्धिं जीवन्मुक्तिं तथैव च || अलौकिक गुणात् तस्य कदाचिद् दृश्यते ध्रुवः | इत्येतत् कथितं देवि योगसिद्धस्य लक्षणं || सिद्धिभिः परिहीनं तं नरं बद्धं तु लक्षयेत् | अजरामरपिण्डो यो जीवन्मुक्तस्स एव हि || ये श्व कुक्कुटकीटाद्यामृतिं संप्राप्नुवन्ति वै | तेषां किं पिण्डपातेन मुक्तिर्भवति सुन्दरि || न वहिः प्राण आयाति पिंडस्य पतनं कुतः | पिण्डपातेन या मुक्तिस्सा मुक्तिर्न तु कथ्यते || देहो ब्रह्मत्व मायाति जलतां सैन्धवं यथा | अमनस्तां तथा याति तदा मुक्तस्स उच्यते || मानसोल्लासे | चित्ते निश्चलतां याते प्राणमध्ये लयं गते | चिह्नान्येतानि जायन्ते पञ्चभूत जयात् पृथक् || मलमूत्रकफाल्पत्वमारोग्यं लघुता तनोः | सुगन्धः स्वर्णवर्णत्वं प्रथमं योगलक्षणं || प्. १३०अ) कण्ठकाग्रेप्य संगत्वं जलपंकेप्यमज्जनम् | क्षुत्तृषादि सहिष्णुत्वं द्वितीयं योगलक्षणम् || वह्वन्नपान भोक्तृत्वमातपाग्नि सहिष्णुता | दर्शनं श्रवणं दूरात् तृतीयं योगलक्षणम् || मण्डूकप्लवनं भूमौ मर्कटप्लवनं द्रुमे | आकाशगमनं चेति चतुर्थं योगलक्षणं || ज्ञानं त्रिकालविषयमैश्वर्य मणिमादिकम् | अनन्तशक्तिमत्त्वं च पञ्चमं योगलक्षणं || अथाणिमादि लक्षणम् | अणिमा महिमा चैव लघिमा गरिमा तथा | प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः || अत्यन्तमणुषुप्राप्तिः स्वात्मत्वेन प्रवेशनम् | अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः || ब्रह्माण्डादि शिवान्तायाः षट्त्रिंशत्तत्त्व संहतेः | बहिश्च व्याप्य वृत्तित्वमैश्वर्यं महिमा ह्वयम् || महामेरु समाङ्गस्य समुद्धरणकर्मणि | गौरवे मेरु तुल्यत्वं गरिमाणं विदुर्बुद्धाः || पातालवासिनः पुंसो ब्रह्मलोकावलोकनम् | प्राप्तिर्नाममहैश्वर्यं सुदुष्प्रापमयोगिनाम् || आकाशगमनादीनामन्या सांसिद्धि संपदाम् | स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते || स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् | प्राकाम्यमिदमैश्वर्यमिति केचित् प्रचक्षते || प्. १३०ब्) स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्त कर्तृता | सूर्यादीनां नियोक्तृत्वमीशित्वमभिधीयते || सलोकपालास्सर्वेपि लोकाश्च वशवर्तिनः | तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् || सर्वात्मभावसाम्राज्य निरन्तरित तेजसाम् | परिपक्व समाधीनां किं किं नाम न सिद्ध्यति || यस्त्वेवं ब्राह्मणो वित्ति तस्य देवावशे स्थिताः | किं पुनः क्ष्मापति व्याघ्रव्यालस्त्री पुरुषादयः || अर्वाचीने स्पृहांमुञ्चेत् फले स्वर्गादि संभवे | स्वर्गादि राज्यं साम्राज्यं मनुतेन हि पण्डितः || तदेव तस्य साम्राज्यं यत् तु साम्राज्यमात्मनि | पुत्रपौत्रगृहक्षेत्रधनधान्य समृद्धयः || अर्वाचीनाश्च सिद्ध्यन्ति स्वर्गपाताल भूमिषु | पाके प्रवर्त्तमानस्य शीतादि परिहारवत् || प्रासंगिकाश्च सिद्ध्यन्ति योगाभ्यासेन सर्वदा | ऐश्वर्यमीश्वरत्वं च तस्य नास्ति पृथक् स्थितिः || पुरुषे धावमानेपिच्छायातमनुधावति | अनन्तशक्तिरैश्वर्यं निष्पन्दश्चाणिमादयः || स्वस्येश्वरत्वे संसिद्धे सिद्ध्यन्ति स्वयमेव हि | पुष्पमानयतागंधो विनेच्छामनुभूयते || पूर्णाहं भावयुक्तेन परिच्छिन्नाविभूतयः | मदीयैश्वर्य विप्लुद्भिर्ब्रह्मविष्णुशिवादयः || प्. १३१अ) ऐश्वर्यवन्तो भासन्ते स एवात्मा सदाशिवः | सर्वात्म भावनावन्तं सेवन्ते सर्वसिद्धयः || तस्मादात्मनि साम्राज्यं कुर्यान् नियत मानस | इति लयखण्डेपि | समाध्यभ्यासनिरूपणपूर्वकं तदभ्यासक्रमेणैव सिद्धिः क्रमश्चोक्तः | तथाहि | विविक्त देशे सुखसन्निविष्टः समासने किं चिदुपेत्य पश्चात् | बाहु प्रमाणं स्थिर दृक् श्लथाङ्गश्चिन्ता विहीनोभ्यसनं कुरुष्व | सुखासने समासीनस्तत्त्वाभ्यासं समाचरेत् | सदाभ्यासेन तत्कुर्यात् परतत्त्व प्रकाशनम् || ब्रह्माणं पञ्चभूतस्थं पञ्चभूतमयी तनुः | सर्वं भूतमयं चेति त्यक्तानास्तीति भावयेत् || न किञ्चिन् मनसा ध्यायेत् सर्व चिन्ता विवर्ज्जितः | स बाह्याभ्यन्तरे योगी जायते तत्त्व सम्मुखः || तत्त्वस्य सम्मुखे जाते त्वमनस्कं प्रजायते | अमनस्के तु संजाते चित्तादि विलयो भवेत् || चित्तादि विलये जाते पवनस्य लयो भवेत् | मनः पवनयोर्नाशादिंद्रियार्थं विमुञ्चति || इन्द्रियार्थैर्यदा मुक्तो बाह्यज्ञानं न जायते | बाह्यज्ञाने विनष्टे च ततस्सर्व समो भवेत् || यदा सर्वसमो जातो भवेद् व्यापार वर्जितः | परे ब्रह्मणि संबद्धो योगी प्राप्तलयस्तदा || सदाभ्यासरतानां च यः परो जायते लयः | तस्याहं कथयिष्यामि लक्षणं मुक्त चेतसः || प्. १३१ब्) सुखं दुःखं न जानाति शीतोष्णे च न विंदति | विचारं चेन्द्रियार्थानां न वेत्ति हि लयं गतः || न च जीवन् मृतो वापि न पश्यति न मीलति | निर्जीवः काष्ठवत्तिष्ठेल्लयस्थश्चाभिधीयते || निर्वातस्थापितो दीपो भासते निश्चलो यथा | जगद्व्यापार निर्मुक्तस्तथा योगी लयं गतः || यथा वा तैर्विनिर्मुक्तं निश्चलं निर्मलं सरः | शब्दादि विषयैस्त्यक्तो लयस्थो दृश्यते तथा || प्रक्षिप्तं लवणं तोये क्रमाद् यद् वद् विलीयते | मनोप्यभ्यासयोगेन तद्वद्ब्रह्मणिलीते || लवणं तोय संपर्काद् यथा तोयमयं भवेत् | मनोपि ब्रह्म संपर्कात् तथा ब्रह्ममयं भवेत् || यथा क्षाराद यत्नेन प्राप्यते लवणं ध्रुवम् | ब्रह्मज्ञानमयत्नेन निर्वाणं मनसस्तथा || घृतात् पृथग् विरहितं घृतलीनं घृतं यथा | तत्त्वे लीनस्तथा योगी पृथग् भावं न विन्दति || निमेषश्वास पलकैर्नाडिभिः प्रहरैर्दिनैः | मासैस्सम्वत्सरैः कालैर्लयस्थो यत्परं व्रजेत् || श्वासोच्छ्वासात्मकः प्राणः षड्भिः प्राणैः पलं स्मृतम् | पलैः षष्टिभिरेवस्याद् घटिकाकालसंमिता || योगीनिमेषमात्रेण लयेन लभते ध्रुवम् | स्पर्शनं परतत्त्वस्याप्युत्थानं च पुनः पुनः || घर्मशान्तिः प्रजायेत मुहुर्निद्रा च मूर्छना | निमेष षट्कमात्रेण लये नान्तःस्थयोगिनः || प्. १३२अ) श्वासद्वयलयेनापि कूर्मवातादि वायवः | निवर्तन्ते च धातूनां बन्धं कुर्वन्ति धातुगम् || श्वासमात्रलयेनापि तेन प्राणादि वायवः | श्वास प्रवाह संबन्धात् स्वस्वस्थाने वहन्ति ते || चतुःश्वासलयेनापि सप्तधातु गता रसाः | सम्यक् पुष्टिं प्रकुर्वन्ति धातूनां समवायवः || लयेन पलमात्रेण चासनस्थो न खिद्यते | स्वल्पश्वासो भवेद् योगी स्वल्पोन् मेष युतस्तथा || पलद्वयलयेनापि हृन्नाड्याश्चलनं भवेत् | अनाहतस्सविज्ञेयो न तत्रैव न्यसेन् मनः || चतुःपल प्रमाणेन लयेनानुभवो भवेत् | अकस्मान् निपतत्येव शब्दः कर्णे शुभाशुभः || पलाष्टकलयेनापि कामस्तस्य निवर्तते | तथापि नैव जायेत कामिन्या लिङ्गितस्य च || कलापादलयेनापि सुषुम्णामार्गवाहिनी | कलापश्चिममार्गेण तस्याभावेन गछति || घटिकार्द्धलयेनापि शक्तिस्संचलति ध्रुवम् | ऊर्द्ध्वं पश्चिम मार्गेण वातबोधेन जाग्रति || कलामात्रलयेनापि शक्तिस्संचलति ध्रुवम् | कला द्वय लयेनापि शक्तिसंचलनेन च || क्षणादुत्पद्यते तस्य मनसः कंपनं स कृत् | चतुःकलालये नापि निद्रा भावो निवर्तते || प्. १३२ब्) हृदिस्फुलिङ्गवद्योगी तेजो बिम्बं प्रपश्यति | दिनपादलयेनापि स्वल्पाहारो भवेन् नरः || अल्पमूत्रपुरीषत्वं लघुतास्निग्धता तनोः | वासनार्द्धलयेनापि स्वात्मज्योतिः प्रकाशते || सूर्यो गोभिरिवोद्दिप्तो योगीतत्त्वं प्रकाशते | दिनमात्र लयेनापि स्वात्मतत्त्वं प्रकाशते || इन्द्रियज्ञान विस्तारो ब्रह्माण्डेथ प्रवर्तते | अहोरात्रलयेनापि योगी स्वात्मनि संस्थितः || चित्तवृत्तिनिरोधेन गन्धं जानाति दूरतः | अहोरात्र द्वये नापि लयेनान्तश्च योगिनः || दूरदर्शनविज्ञानं स्वभावेनैव वर्तते | अहोरात्र त्रयेणापि लयानन्दः समुत्थितः || दूरादपि रसं वेत्ति योगी संकल्पवर्जितः | अहोरात्र चतुष्केण लयभाव प्रभावतः || स्पर्शं जानाति योगीन्द्रो दुरादपि न संशयः | पञ्चरात्रलयेनापि तस्याप्युत् पद्यते ध्रुवम् || दूरश्रवणविज्ञानं मनस्याश्चर्य कारणम् | एतत् पञ्चेन्द्रिय ज्ञानं महत् स्वानुभवात्मकम् || जानात्यनेन योगीन्द्रस्सकलं विश्ववर्त्तनम् | षड्रात्रविलयेनापि महाबुद्धिः प्ररोहति || ययातर्क्यमतीतं च विश्वज्ञानं प्रवर्तते | सप्तरात्रलयेनापि परेलीनस्य योगिनः || आब्रह्मविश्ववेत्तृत्वं श्रुतिज्ञानं च वर्तते | अष्टरात्रलयेनापि भवेद् योगी निरामयः || क्षुत्पिपासादि भावैश्च सहजस्थो न पीड्यते | यानि कानि सुगुप्तानि महाचित्राणि पश्यति || प्. १३३अ) ततश्चैकादशाहेन लयस्थस्य जवोदयात् | मनसा सहितस्यापि गन्तुमिच्छति विग्रहः || द्वादशाहलयेनापि भूचरत्वं हि सिद्ध्यति | निमेषार्द्ध प्रमाणेन पूर्यस्वेव च भूतलम् || ततस्त्रयोदशाहेन लयेनापि महाद्भुतम् | योगीन्द्रः खेचरी सिद्धिं लभते चिन्तनादपि || चतुर्दशदिनानां च लयस्थो यदि तिष्ठति | अणिमाख्यास्य सिद्धिस्स्यादणुत्वं प्राप्यते यया || आत्मन्येवात्मनालीनो योगी षोडश वासरम् | लभते महिमासिद्धिं समहारूपधृक् यथा || अष्टादशदिनान्तं च लयस्थो यदि तिष्ठति | गरिमाख्यां लभेत् सिद्धिं यया भूमावधृग्भवेत् || विंशतिघस्रान्तोयस्पलयस्तिष्ठति निश्चलः | लघिमाख्या भवेत् सिद्धिर्ययाणुत्वस्य भारधृक् || द्वाविंशतिर्दिनानि स्यात् स्वलक्ष्ये यो लयं गतः | प्राप्तिसिद्धिर्भवेत् तस्य प्रापयेद्याजगत्स्थितम् || परे लयं गतो योगी चतुर्विंशति वासरान् | तस्य प्राकाम्य सिद्धिस्स्यादीप्सितं लभते यया || यस्यैव संगतं चित्तं षड्विंशति दिनानि वै | लभते जगदीशत्वं येन विश्वगुरुर्भवेत् || अष्टाविंशत्यहर्यस्य लयस्तिष्ठेत् स्थिरासने | वशित्व सिद्धि प्राप्तिस्स्याद् यया वै वश्यकृज्जगत् || गन्तुमिच्छन्ति ये केचित् परप्रह्म पदे लयम् | प्. १३३ब्) भवन्ति सिद्धयस्सर्वास्तेषां विध्वंसकारिकाः || मासमेकं लयो यस्य लग्नस्तिष्ठेदखण्डितः | न जागर्ति स योगीन्द्रो यावन्मोक्षं स गच्छति || नवमासलयेनापि पृथ्वी तत्त्वं सगच्छति | पृथ्वी तत्त्वे तु संसिद्धे योगीन्द्रो वज्रसन्निभः || सार्द्धसंवत्सरेणापि लयस्थस्यापि योगिनः | तोयतत्वस्य सिद्धिस्स्यात् तोय तत्त्वमयो भवेत् || संवत्सरत्रयेणापि लयस्थस्यापि योगिनः | तेजस्तत्त्वस्य सिद्धिस्स्यात् तेजस्तस्य निरन्तरम् || व्योमतत्वस्य सिद्धिस्स्याद्व्योमतत्त्वमयो भवेत् | चतुर्विंशतिभिर्वर्षैर्लयस्थस्य निरन्तरम् || शक्तितत्त्वस्य सिद्धिस्स्याच्छक्ति तत्त्वमयो हि सः | ब्रह्माण्डं सकलं पश्येत् पाणिस्थमिव मौक्तिकम् || आत्मकायस्वरूपं च निधायाथ यथा स्थितम् | कायस्थो दृश्यते लोके तत्त्व चर्यां समाचरेत् || तत्त्वचर्यां करोत्येव शक्तितत्त्वे क्षयाय च | इत्थं क्रमविवृद्धेन लयाभ्यासेन योगिनः || भुञ्जते परमानन्दं भुशुण्डादि महात्मवत् | ब्रह्मविष्णुमहेशानां प्रलयेष्वपि योगिनः || भुञ्जते परमानन्दं भुशुण्डादि महात्मवत् | अत्र योगाङ्ग निरूपणानन्तरं सिद्धि क्रममाह भगवान् पतञ्जलिः | वैशेषिकनये द्रव्यगुणकर्मणामर्थ प्. १३४अ) संज्ञावद्धारणाध्यानसमाधीनामेव विषयाणां व्यवहार लाघवाय संयम इति संज्ञां कृत्वा तस्य संयमस्य फलमुपयोगं च सूत्राभ्यां प्रादर्शयत् | तद्यथा | तज्जयात्प्रज्ञालोकः | तस्य भूमिषु विनियोग इति | एतदर्थस्तु तस्य संयमस्य जयादभ्यासेन सात्म्यापादनात् प्रज्ञाया ज्ञातव्य विवेकरूपाया आलोकः प्रसरो भवति | प्रज्ञान्तरानभिभूतत्वे सति निर्मले प्रवाहेवस्था लक्षण आलोको भवतीत्यर्थः | तस्य संयमस्य भूमिषु स्थूलसूक्ष्मालम्बनभेदेन स्थितासुचित्तवृत्तिषु विनियोगः कार्यः | अधरामधरां चित्त * *? जितां कृत्वोत्तरस्यामुत्तरस्यां चित्त भूमौ संयमः कार्यः | नह्यसात्मी कृताधरभूमिरुत्तर भूमौ संयमं कुर्वाणः फलभाग् भवति | यथोक्तस्य संयमस्य विषयपरिशुद्धिं कर्त्तुं परिणामत्रयं सूत्रत्रयेणादर्शयत् | व्युत्थान विरोध संस्कारयोरभिभव प्रादुर्भावौ निरोधलक्षण चित्तान्वयो निरोधपरिणामः | व्युत्थानं क्षिप्तमूढविक्षिप्ताख्य भूमित्रयम् | निरोधः प्रकृष्टसत्त्वस्याङ्गतया चेतसः परिणामः | ताभ्यां व्युत्थान निरोधाभ्यां जनितौ यौ संस्कारौ तयोर्यथा क्रममभि भवोन्यग्भूततया प्. १३४ब्) कार्य करणा सामर्थ्येनावस्थानम् | प्रादुर्भावो वर्तमाने ध्वन्यभिव्यक्त रूपतयावस्थानम् | तत्र निरोधावसरवर्तिनश्चित्तस्य धर्मिणोन्वयो द्वयोर्व्युत्थानाख्ययोरवस्थयोः स्वरूपेणावस्थानं सनिरोधपरिणामः प्रथमः | अयमाशयः यदा व्युत्थानसंस्काररूपो धर्मस्तिरो भवति निरोध संस्काररूपश्चाविर्भवति | धर्मिरूपतया चित्तमुभयान्वयि त्वेनावस्थितं प्रतीयते | स निरोध परिणामशब्देन व्यह्रियते | यद्यपि चलत्वाद्गुणवृत्तस्य चेतसो निश्चलत्वं नास्ति तथाप्येवं भूतता परिणामस्य स्थैर्यमुच्यते | एतत् परिणामफलं तु चित्तस्य परिहृतविक्षेपयासदृशप्रवाह परिणामत्वम् | तथा सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि परिणामः | सर्वार्थता रूपस्य विक्षेपस्यात्यन्ततिरस्कारादनुत्पत्तिरतीते ध्वनि प्रवेशलक्षणः क्षयो न तु न्याग्भावमात्रम् | एकालम्बन विषय सदृशपरिणामत्व लक्षणस्यैकाग्रत्वस्योद्भवोभिव्यक्तिश्चित्तस्योद्रिक्त सत्वस्यान्वयितयावस्थानं वर्तमाने ध्वनि प्रकटत्वमिति यावत् ससमाधिपरिणामो द्वितीयः अस्यैव पराकाष्ठा एकाग्रता परिणामः | स यथा शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः | समाहितस्यैव प्. १३५अ) चित्तस्यैकः प्रत्ययो वृत्ति विशेषः शान्तोतीतमध्वानं प्रविष्टः | अपरोप्युदितो वर्तमाने ध्वनि स्फुरितः | द्वावपि समाहितचित्तत्वेन तुल्यौ एकरूपालम्बनत्वेन सदृशौ प्रत्ययौ | उभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं यत् स समाधिरेकाग्रतापरिणाम इत्युच्यते | एतदेवत्रैविध्यं मन्यत्रापि द्रष्टुं सूत्रम् | एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः | एतेन त्रिविधोक्तेन चित्तपरिणामेन भूतेषुस्थूलसूक्ष्मेषु इन्द्रियेषु बुद्धि कर्मान्तः करणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोवगन्तव्यः | परिणामो नामावस्थितस्य धर्मिणः पूर्व धर्म निवृत्तौ धर्म परापत्तिः | तत्र धर्म परिणामो यथा | मृदादि लक्षणस्य धर्मिणः पिण्डरूपादि धर्मपरित्यागेन घट धर्मान्तर स्वीकारः | तथा तस्यैव घटस्यानागताध्व परित्यागेन वर्तमानाध्व स्वीकारः | तत्परित्यागेन वातीताध्व परिग्रह लक्षण परिणामः अवस्था परिणामो यथा | तस्यैव घटस्य प्रथमद्वितीययोस्सदृशयोः क्षणयोरन्वयि त्वेनावस्थानं | यतश्चलं गुणवृत्तं नामपरिणाममानं क्षणमप्यास्ते | अथ संयमवलोत्पद्यमानास्सिद्धीरुपदर्शयति | परिणाम प्. १३५ब्) त्रयसंयमादतीतानागतज्ञानम् | उक्तस्य धर्मलक्षणावस्थाख्य परिणामत्रयस्यास्मिन्धर्मिणि अयं धर्म इदं लक्षणमियमवस्था अनागताध्वनस्समेत्यवर्तमाने ध्वनि स्वव्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतयासंयमकरणादतीतानागतं सर्वं जानाति | स्वरित्यादि कृतविक्षेप प्रतिबन्धस्य संयमेन नाशे सति चित्तस्य सहज सर्वार्थताग्रहणसामर्थ्याभिव्यक्तेः | तथागत्यर्थ ज्ञानानां भिन्नानामपि इतरेतराध्यासः कः शब्दः कोर्थः किं ज्ञानमिति प्रश्ने गौरित्येवं रूपोत्तर दानात् प्रसिद्ध गो शब्दतदर्थ ज्ञानानां गौरित्येवमेकरूपप्रतिभासः | तेन बुद्ध्यैकरूपतापादनात् संकीर्णानां योगविभागो गौरित्ययं शब्दो वाचकः सास्नादिमान् पिण्डोवाचः | ता तं च तत्प्रकाशकमित्येवं रूपः | तस्य संयमनेन सर्वभूतरुतज्ञानमभिधाय धर्माधर्मलक्षणस्य संस्कारस्य मुखरागादुदितस्य परचित्तस्य कायरूपस्य नास्त्यस्मिन् काये रूपमिति भाव्यमानस्य शीघ्र चिरविपाकलक्षण कर्मणो मैत्र्यादीनां हस्त्यादिववलस्य सूर्यस्य तद्वर्णस्य ध्रुवस्य संयमाद्यथाक्रमं पूर्वजाति ज्ञान परचित्तविषयविशेषनिश्चय ग्राह्यशक्ति स्तंभ प्. १३६अ) पूर्वकान्तर्द्धाननियतदेशकालावच्छिन्नशरीरान्तः करणयोगज्ञानसर्व मित्रत्वादि प्राप्ति बलाविर्भावभुवनज्ञान ताराव्यूहाख्य ज्योतिश्चक्र ज्ञानतारागतिज्ञानानि भवन्तीत्युपवर्णितम् | तथा प्रवृत्तलोकन्यासात् | सूक्ष्मव्यवहित विप्रकृष्टज्ञानमित्यनेन प्रवृत्तौ विषयवती लक्षणायां ज्योतिष्मती लक्षणायां च प्रागुक्तायां यो सावालोकस्सात्विकः प्रसरस्तस्य निश्लेषु विषयेषु संन्यासात् तत् तद् विषयाणां भावनाभिः सान्तःकरणेष्विन्द्रियेषु प्रकृष्टशक्तितामापन्नेषु सूक्ष्मस्य परमाणु वा देव्यवहितभूतलान्तर्गतनिधानादेर्विप्रकृष्टस्य मेरु परपार्श्ववर्तिनो रसायनादेर्ज्ञानं भवतीत्येवं बाह्यास्सिद्धीः प्रदर्श्यान्तर्यश्च नाभि चक्रचिह्नाधस्तात् स्थितगर्त्तकूपकण्ठकूपाख्य देशतदधः स्थित कूर्मनाडी ब्रह्मरन्ध्ररूपमूर्ध्वज्योतिस्संयमेभ्यो यथाक्रमं नाडी संनिवेशात्मककायगतव्यूहज्ञान क्षुत्पिपाशानिवृत्तिस्थैर्यसिद्ध दर्शनलक्षणाख्यास्सिद्धयः प्रतिपादिताः | तथा सत्व पुरुषयोरत्यन्ता संकीर्णयोः प्रत्ययो विशेषो भागः परार्थात् स्वार्थ संयमात् पुरुषज्ञानमित्यनेन सत्त्व पुरुषयोः प्रकाशमुखात्मक भोक्त्रधिष्ठानरूपयोर्जडाजडत्वेनात्यन्तं प्. १३६ब्) भिन्नयोर्यः प्रत्ययसा विशेषो भेदेना प्रतिभासनात् सत्त्वस्यैव कर्तव्यता प्रत्ययेन या सुखदुःखसंवित्साभोगः स च सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थपुरुषार्थस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः | परित्यक्ताहंकारसत्वे या चिच्छाया संक्रान्तिस्तत्र कृतसंयमस्य पुरुषविज्ञानमुत्पद्यते | तत्र ज्ञाने उत्पन्ने तदेवरूपमालम्बन ज्ञानं सत्वनिष्ठपुरुषो जानाति न पुनः पुरुषो ज्ञाताज्ञानस्य विषयभावमापद्यते | जाड्यापत्रैरिति पुरुष साक्षात्कार फलं सिद्ध्यन्तरमुक्ता ततः प्रातिभश्रावण वेदनादर्शास्वादवार्ताज्ञायन्त इत्यनेन सूक्ष्माद्यर्थ फलकं प्रातिभं ज्ञानं दिव्यशब्दज्ञान फलकं श्रावणसंज्ञं दिव्यस्पर्शज्ञानफलकं वेदनासंज्ञं त्वाचं ज्ञानं दिव्यरूपज्ञानफलकं आदर्शसंज्ञकं चाक्षुषज्ञानंदिव्यरसज्ञानफलकमास्वादनफलाख्यं रासज्ञानं दिव्यगन्धज्ञानफलकं | भूतिसंज्ञकं घ्राणेन्द्रियजन्यं ज्ञानमभ्यन्तरवर्त्तिशब्दग्रहणं रूपवर्त्ताख्यज्ञानं रूपमित्युक्ता तेन समाधावुपसर्गो व्युत्थाने सिद्धय इति फलविशेषं विषयविभागं चाभिधायबन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेश इत्यनेन व्यापकी भूतात्म मनसो प्. १३७अ) नियत कर्मवशादेव शरीरान्तर्गतयोरेवसुखं देहो ममाहमस्य भोक्तेत्येवमहमिदं ममेति भोग्यभोक्तृभावेन संवेदनमुपजायते | स च शरीरबन्ध इत्युच्यते | तद्यथा | समाधिवशाद्वन्धे कारणं धर्माधर्माख्यं कर्मशिथिलं भवतितानवमा पद्यते चित्तस्य यो सौ प्रचारो हृदय प्रदेशादिन्द्रिय द्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं इत्थं चित्तवहानाडी अनयाचित्तं वहति इत्थं रसप्राणादि वहाभ्यो नाडीभ्यो विलक्षणेति स्वपरशरीरयोर्यदाशरीरस्य संचारं जानाति तदा परकीयं शरीरं मृतं जीवछरीरं वा चित्तसंचारद्वारेण प्रविशति | चित्तं परशरीरं प्रविशदिन्द्रियाण्यनुवर्तंते मधुकरराजमिव मक्षिकाः ततः परशरीरप्रविष्टो योगी स्वशरीरवत् तेन व्यवहरति | व्यापक चित्त पुरुषभोगसंकोच निमित्तस्य कर्मणस्समाधिना क्षिप्तं त्वात् स्वातन्त्र्यावभोगनिष्पत्तिरितिसिद्धान्तरमभिधाय उदानजयाज्जलपंक कटकाद्य संगं समान जपाद्दीप्तिं देशदेशि भावलक्षण श्रोत्राकाशसंबन्धसंयमात् सूक्ष्मव्यवहित शब्दादि ग्राहक दिव्य श्रोत्रलाभं कायाकाश संबन्ध संयमाल्लघुतूलादि मय भाव लाभं चाकाशममनं प्. १३७ब्) चोपवर्ण्य बहिरकल्पिता वृत्तिर्महाविदेहा | ततः प्रकाशावरणक्षय इत्यनेन शरीराहंकारयोर्या मनोवृत्तिस्साकल्पिताख्या | यदा पुनः शरीराहंकार भावं परित्यज्य स्वातन्त्र्येण मनोवृत्तिस्साकल्पिता महाविदेहाख्या तत्संयमाच्चित्तमलक्षयो भवतीति एवं सिद्ध्यन्तरमुक्तम् | एवं समाध्युपयोगिनीरन्तः करणबहिः करणलक्षणेन्द्रिय भवाः प्राणादि वायुजय भवाश्च सिद्धीर्योगिनश्चित्त दार्ढ्याय समाश्वासोत्पत्तये प्रतिपाद्य सबीजनिर्बीज समाधि सिद्धये विविधो पायाः सूत्रैः प्रदर्शिताः | तानि व्याख्या सहितानि प्रदर्श्यन्ते | यथा | स्थूल स्वरूपजयसूक्ष्मान्वयार्थवत्त्वसंयमोद्भूतजयः | स्थूलभूतानां परिदृश्यमानं विशिष्टाकारवद्रूपम् | पञ्चानां भूतानां यथाक्रमं कार्कश्यस्नेहोष्णता प्रेरणावकाशदान लक्षणं सूक्ष्माणि कारणभूतानि तन्मात्राणि | अन्वयिनो गुणाः प्रकाश प्रवृत्ति स्थितयः | अर्थवत् त्वं च तेष्वेवगुणेषु भोगापवर्गसंपादनाख्या शक्तिरिति पञ्चावस्था विभिन्नभूतेषु प्रत्यव संक्रमेण संयमं कुर्वन्भूतजयी भवति | तद्यथा | प्रथमं स्थूलरूपे संयमं विधाय तदनुसूक्ष्मरूपे इत्येवं प्. १३८अ) क्रमेण कृत संयमस्य संकल्पानु विधायिन्यो वत्सानुसारिण्य इवगावो भूतप्रकृतयो भवन्ति | तस्यैव भूतज यस्य फलमाह | ततोणिमादि प्रादुर्भावः कापदो यत्र धर्मानभिघातश्च || १ || अणिमापरमाणु रूपतापत्तिः ततो वज्रादीनामप्यन्तः प्रविशति || २ || लघिमातूलपिण्डवल्लघुत्व प्राप्तिः || ३ || महिमा महित्व प्राप्तिः || ४ || अङ्गुल्यग्रेण वज्रादि स्पर्शयोग्यता | प्राकाम्यमिच्छानभिघातः शरीरान्तः करणयोः || ईशित्वं सर्वत्र प्रभविष्णुता | वशित्वं सर्वाण्येव भूतानि अनुवाशित्वात् तदुक्तं नातिक्रामन्ति || यत्र कामावसायित्वं यस्मिन् विषये काम इच्छातस्मिन्विषये योगिनो वसायो भवति तं विषयं स्वीकारद्वारेणाभिलाषपर्यन्तं नयतीत्यर्थः | एते समाध्युपयोगिनोणिमादयोष्टौ गुणा महासिद्धय इत्युच्यन्ते | काय संपदश्च लक्षणं सूत्रेणाह | रूपलावण्य वलवज्रसंहननत्वादि कायसंपत् | वज्र संहननं वज्रवत् कठिना संहतिरस्य शरीरे भवति | शेषं स्पष्टम् | तस्य कायस्य धर्मारूपादयस्तेषामग्निवायवादिनानाशो न भवति | अथ भूतजयमभिधाय प्राप्तभूमिकस्येन्द्रिय जयमाह | ग्रहणस्वरूपास्मितान्वयार्थतत्त्वसंयमादिन्द्रियजयः | प्. १३८ब्) ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः | स्वरूपं सामान्येन प्रकाशकत्वम् | स्मिताहंकारानुगमः | अन्वयार्थवत्त्वे पूर्वमुक्ते | एषामिन्द्रियाणामवस्था पञ्चकेन पूर्ववत् संयमं कृत्वा इन्द्रियजयी भवति | तस्य फलमाह | ततो मनोजवित्वं विकरणभावः प्रधानजयश्च | शरीरस्य मनोवदुत्तमो गतिलाभः | काय निरपेक्षाणामिन्द्रियाणां वृत्ति लाभस्सर्ववशित्वं चेति त्रितयं फलम् | एतास्सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति | एताश्च मधुप्रतीकाख्याः | यथा मधु न एकदेशोपि स्वदते मुदं धत्ते एवमेताः प्रत्येकमिति | अथान्तः करणजयमाह सत्त्वपुरुषान्यताख्याति मात्रस्य सर्व भावाधिष्ठातृत्वं सर्वज्ञातृत्वं च | तस्मिन् शुद्धे सात्विके परिणामे कृत संयमनस्य सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमान शिथिली भावरूपा | तन्माहात्म्या तत्रैव स्थितस्य योगिनः सर्वभावाधिष्ठातृ त्वं च समाधेर्भवति | सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वाधिष्ठातृत्वं तेषामेव शान्तोदिता व्यपदेश धर्मत्वेन स्थितानां यथावद् विवेकजज्ञानं सर्वज्ञातृत्वम् | एषाचास्यां वशीकारसंज्ञायां प्. १३९अ) प्राप्तायां विशोकानामसिद्धिरुच्यते | क्रमेणभूमिकान्तरमाह | तद्वैराग्यादपि दोषं बीजक्षये कैवल्यम् | विशोकायामपि वैराग्यं यदोत्पद्यते योगिनस्तदा तस्माद् दोषाणां रागादीनां यद्बीजं अविदिस्तस्य क्षये निर्मूलने कैवल्यं आत्यन्तिकी दुःख निवृत्तिः पुरुषस्य गुणानां अधिकार समाप्तिः स्वरूपप्रतिष्ठत्वम् | अस्मिन्नेव समाधौ स्थित्युपायमाह | स्थान्युपनिमन्त्रणे संगस्मया करणं पुनरनिष्ठ प्रसंगात् | चत्वारि योगिनः स्थानानि भवन्ति | तत्राभ्यासवान् प्रवृत्तमात्रज्योतिः | प्रथमः प्रथम कल्प इति चोच्यते | ऋतंभरप्रज्ञा द्वितीयो मधुमती प्रज्ञस्याभ्यां मधुमती संज्ञिकां भूमिकां साक्षात् कुर्वतः स्थानिनो देवा उपनिमन्त्रयितारो भवन्ति | दिव्यस्त्री रसायनादिकंठौ?कयन्ति तस्मिन्नुपनिमन्त्रणे अनेन संगो न कर्तव्यो नास्मिन्स्मयश्च संगतिकरणे पुनर्विषयभोगे निपततिस्मय करणे कृतकृत्यमिवात्मानं मन्यमानो न समाधिमुत्सहतेऽतस्संगस्मययोस्तेन वर्जनं कर्तव्यं | अस्यामेव फलभूतायां विवेकख्यातौ पूर्वोक्त संयमव्यतिरिक्तमुपायान्तरमाह | क्षणतत्क्रमयोस्संबंध संयमाद्विवेकजं ज्ञानम् | प्. १३९ब्) क्षणस्सर्वाल्पः कालावयवो यस्य कलाः प्रविभक्तुं न शक्यन्ते तथा विधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात्प्रागुक्तं विवेकजंज्ञानमुत्पद्यते | अयमर्थः | अयं कालक्षणोमुष्मात्कालक्षणादुत्तरोयमस्मात्पूर्वे इत्येवं विधे क्रमे कृतसंयमस्यात्यन्त सूक्ष्मेपि क्षणक्रमे यदा भवति साक्षात्कारस्तदान्यदपि सूक्ष्ममहदादि साक्षात्कारो भवतीति विवेकज्ञानोतपत्तिः | अस्यैव संयमस्य विषयविवेकोपायमाह | जातिलक्षणदेशैरन्यतानवच्छेदतुल्ययोस्ततः प्रतिपत्तिः | पदार्थानां भेदहेतवो जाति लक्षणदेशा भवन्ति | यथागौरिति कर्वुरारुणेति जातिलक्षणे भेदके | तुल्यपरिणामयोर्देशो भेदकः | यत्र पुनर्भेदोबधारयितुं न शक्यते तथैकदेश स्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथा विधे विषये कृत संयमस्य यदा भेदेन ज्ञानमुपजायते तदा तस्याभ्यासात् सूक्ष्माण्यपि तत्वानि बुद्ध्यादीनि भेदेन प्रतिपद्यन्ते | उक्तस्य विवेकज्ञानस्य संज्ञां विषयं स्वभावं व्याख्यातुं सूत्रम् | तारकं सर्व विषयं सर्वथा विषयक्रमं प्. १४०अ) चेति विवेकजं ज्ञानम् | उक्तसंयमबलादन्त्यायां भूमिकायां उत्पन्न ज्ञानं तारयत्यगाधं संसारपयोधेर्योगिनमिति तारकं तस्य विषयमाह सर्वाणि तत्त्वानि महदादीनि विषयोस्येति सर्वविषयं | स्वभावश्चास्य सर्वथा विषयत्वम् | सर्वाभिरवस्थाभिः स्थूलसूक्ष्मभेदेन तैस्तैश्च परिणामैस्सर्वेण प्रकारेणावस्थितानि तत्वानि विषयोस्येति सर्वथा विषयं स्वभावान्तरमाह | अक्रमं चेति निःशेष नानावस्था परिणतद्वित्र्येकभावग्रहेनास्य क्रमो विद्यते इत्यक्रमम् | सर्वं करतलामलकवद्युगपत्पश्यतीत्यर्थः | तस्माच्चतारकाख्याद्विवेकज्ञानात् किं भवतीत्याह | सत्त्व पुरुषयोः शुद्धि साम्ये कैवल्यम् | साम्यं सत्वस्य सर्वथा कर्तृत्वाभिमान निवृत्यास्वकारणेनुप्रवेशः शुद्धिः पुरुषस्य शुद्धिरुपचरित भोगाभाव इति द्वयोस्समानायां शुद्धौ मोक्षो भवति | एवं चाभ्यास क्रमेणराज्यादि मोक्षपर्यन्तासु जायमानासुसिद्धिषु योगिना न कापि प्रकाशनीया न च विस्मयोभिमानो वा कर्तयस्तत्करणे सिद्धिर्न भवेत् | तथा च दत्तात्रेयः | प्. १४०ब्) प्रवृत्ति लक्षणाख्यानाद्योगिनो विस्मयात् तथा | विज्ञानं विलयं याति तेन गोप्याः प्रवृत्तयः || एवं कर्मापि न प्रकाशनीयं प्रकाशने फलं भवेत् | तथा हठप्रदीपिकायाम् | हठविद्यापरंगोप्यायोगिनासिद्धिमिच्छता | भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशितेति || अथ सिद्धयोगेनासिद्धयोगे वा कालचिह्नानि सर्वदावश्यं द्रष्टव्यानि यानि तानि लिख्यन्ते | तत्र सिद्धयोगेन जीवन् मुक्तिकामेन कालवञ्चनार्थं | असिद्धयोगेन तु मरणकाले योगसंस्मृतिः पुनर्जन्मान्तरे योग प्राप्तये | तथा च गीतायाम् | यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद् भावभावितः || एषा ब्राह्मी स्थितिः पार्थनैनां प्राप्यविमुह्यति | स्थित्वास्यामन्त कालेपि ब्रह्म निर्वाणमृच्छति || कालवञ्चन विधिस्तु प्रसंगात् पूर्वमेवोक्तः | तच्चिह्नानि यथा | स्कन्दपुराणे | वाम नासापुटे यस्य वायुर्वाति दिवानिशम् | अखण्डमेकं तस्यायुर्नश्यत्यब्द त्रयेण हि || द्व्यहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् | आद्व्येक वर्षं तस्येह जीविता विधिरुच्यते || वहेन्नासापुटयुगे दशाहानि निरन्तरम् | वायुश्चेत् प्रतिसंक्रांति तदा जीवेदृतु त्रयम् || प्. १४१अ) नासावर्त्म द्वयं हित्वा मातरिश्वामुखाद्वमन् | शंसेद्धियातस्मादर्वाक् प्रयाणं तस्यखाध्वनि || सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे | पौष्णस्सकालो नेष्टव्यो यदा याम्ये रविर्वहेत् || अकस्मात् तस्य तत्काले मृत्युस्सन्निहितो भवेत् | चिन्तनीयः प्रयत्नेन सकालो मृत्युभीरुणा || अकस्माद् वीक्षते यस्तु पुरुषं कृष्णपिंगलम् | तस्मिन्नेव क्षणे रूपं संजीवेद् वत्सर द्वयम् || यस्य वीर्यं मलं मूत्रं क्षुतं मूत्रं मलं तु वा | इहैकदापतेत चेद्वर्षं तस्यायुरिष्यते || इन्द्रनीलनिभं व्योम्नि नागवृन्दं य ईक्षते | इतस्ततः प्रचलितं षण्मासं स तु जीवति || अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च | आसन्न मृत्युर्नेक्षेत चतुर्थं मातृमण्डलम् || अरुन्धती भवेज्जिह्वा ध्रुवोनासाग्रमुच्यते | विष्णोः पदानि भ्रूमध्यं नेत्रे ग्लौर्मातृमण्डलम् || वेत्तिनीलादि वर्णस्य कट्वम्लादिरसस्य च | अकस्मादन्यथा भावं षण्मासेन समृत्युभाक् || षण्मासमृत्योर्मत्यस्य कण्ठोष्ठ रसनारदाः | शुष्यन्ति सततं तद्वत् स जिह्वास्तालु पञ्चमाः || रेतः करजनेत्रान्तं नीलिमानं भजन्ति चेत् | तर्हि कीनाशनगरीं सष्ठे मासि व्रजेन् नरः || द्रुतमारुह्यसरटस्त्रिवर्णो यस्य मस्तकम् | प्रयाति याति तस्यायुः षण्मासेन परिक्षयम् || प्. १४१ब्) मुखं तस्यापि यस्याशुहृदयं परिशुष्यति | चरणौ च करौ वापि त्रिमासं तस्य जीवितम् || छायाप्रकंपते यस्य देह बन्धेपि निश्चले | कृतान्तदूतावध्नन्ति चतुर्थे मासितं नरम् || मतिर्भ्रश्येच्चलेद्वाणी धनुरैन्द्रं निरीक्ष्यते | रात्रौ चन्द्र द्वयं चैव दिवा च द्वौ दिवाकरौ || दिवासतारका चन्द्रं रात्रौ व्योमवितारकम् | युगपच्च चतुर्द्दिक्षु शाक्रं कोदण्डमण्डलम् || भूरुहेभूधराग्रे वा गन्धर्वनगरालयम् | दिवा पिशाच नृत्यं च ह्येते पञ्चत्व हेतवः || सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते | तदामासावधिं मृत्युं प्रतीक्षेत न चाधिकम् || प्रोह्यते भक्ष्यते यो हि पिशाचासुर वायसैः | भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः || शरभैः करभैः कीरैः श्येनैरश्वतरैर्वकैः | स्वप्ने स जीवितं त्यक्ता वर्षान्ते यममीक्षते || गन्धपुष्पांशुकैः शोणैः स्वांतनुं भूषितां नरः | यः पश्येत् स्वप्न समये सोष्टौमासांस्तु जीवति || पांशुराशिं च वल्मीकं पूयं दण्डमथापि वा | योधि रोहति वै स्वप्ने स षष्ठे मासि नश्यति || रासभारूढमात्मानं तैलाभ्यक्तं च मुण्डितम् | नीयमानं यमाशायां यः पश्येत् स च पूर्ववत् || प्. १४२अ) स्वमौलौ स्वतनौ वापि यः पश्येत् स्वप्न गो नरः | तृणानि शुक्लकाष्ठानि षष्ठे मासि स नश्यति || लोहदण्डधरं कृष्णं पुरुषं कृष्ण वाससम् | स्वपन्योग्रे स्थितम् पश्येत् सत्रीन्मासान्नलंघयेत् || कालीकुमारी यं स्वप्ने वध्नीयाद् बाहु पाशकैः | समासेन निरीक्षेत नगंरीश मनोषिताम् || नरो यो वानरारूढो यायात् प्राचीं दिशं स्वपन् | दिनैः सपञ्चषैरेव पश्येत् संयमनीं पुरीम् || कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि | प्रकृतेर्विकृतिश्च स्यात् तदा पञ्चत्व मृच्छति || एतानि काल चिह्नानि सन्त्यन्यानि बहून्यपि | ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत् || न कालवञ्चनो पायं मुने ह्यन्यमवैम्यहमिति | मार्कण्डेय पुराणे | अक्षीणकर्मबन्धश्च ज्ञात्वा मृत्युमनिष्टतः | उत्क्रान्ति काले संस्मृत्य पुनर्योगित्व मृच्छति || तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः | ज्ञेयान्यनिष्टानि सदा येनोत्क्रान्तौ न सीदति || अनिष्टानि महाराज शृणु वक्ष्यामि तानि ते | येषामालोकनान् मृत्युं निजं जानाति योगवित् || अरश्मिबिम्बं सूर्यं च वह्निं चैवांशुमालिनम् | दृष्ट्वैकादशमासांस्तु नरोनोर्द्ध्वं वर्षं सजीवति || वमेन्मूत्रं पुरिषं च यः स्वर्णं रजतं तथा | प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम् || प्. १४२ब्) दृष्ट्वा प्रेतपिशाचादीन्गन्धर्वनगराणि च | सुवर्णवर्णवृक्षांश्च नवमासान्स जीवति || स्थूलः कृशः कृशः स्थूलो यो कस्मादेव जायते | प्रकृत्याश्च निवर्तेद्यस्तस्यायुश्चाष्टमासिकम् || खण्डं यस्य पदं पार्ष्ण्यां पादस्याग्रेथवा भवेत् | पांशुकर्दमयोर्मध्ये सप्तमासान् सजीवति || कपोतो गृध्रकाकोलौ वायसो वापि मूर्द्धनि | क्रव्यादो वा खगस्तिष्ठेत् सण्मासायुः प्रदर्शकः || हन्यते काक पंक्तीभिः पांसुवर्षेण वा पुनः | शुष्येच्च वै यस्य मर्मस्नानाद्वामादधस्तनम् || तस्यापि पञ्चभिर्मासैर्विद्यान्मृत्युमुपस्थितम् | स्वांछायामन्यथा दृष्ट्वा चतुर्मासान् स जीवति || अनभ्रे विद्युतं दृष्ट्वा दक्षिणांदिशमास्थिताम् | उदकेन्द्रधनुर्वापि जीवितं द्वित्रिमासिकम् || घृते तैले तथा दर्शे तोये वाप्यात्मनस्तनुं | यः पश्येदशिरस्कां समासादूर्द्ध्वं न जीवति || यस्य वास्त समो गन्धो गात्रे शवसमोपि वा | तस्यार्द्धमासिकं ज्ञेयं योगिनो नृपजीवितम् || यस्य वै स्नात मात्रस्य हृत्पद्ममवशुष्यति | पिवतश्च जलं चोष्ठौ दशाहं सोपि जीवति || संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति | न हृष्यत्यम्बु संस्पर्शात् तस्य मृत्युरुपस्थितः || प्. १४३अ) ऋक्षवानरयानस्थो गायन्यो दक्षिणां दिशम् | स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति || रक्तकृष्णाम्बरधरा गायन्ती हसंती चयम् | दक्षिणाशां नयेन् नारी स्वप्ने सोपि न जीवति || नग्नं क्षपणकं स्वप्ने हसमानं महाबलम् | एवं वा वीक्ष्य बलान्तं विद्यान् मृत्युमुपस्थितम् || आमस्तकतलाद्यस्तु निमग्नं पङ्क सागरे | स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः || केशाङ्गारांस्तथा भस्म भुजङ्गं निर्जलां नदीम् | दृष्ट्वा स्वप्ने दशाहात् तु मृत्युरेकादशेहनि || करालैर्विकटैः कृष्णैः पुरुषैरुद्यता युधैः | पाषाणैस्ताडितस्स्वप्ने सद्यो मृत्युमवाप्नुयात् || सूर्योदये यस्य शिवाक्रोशन्तीयाति संमुखम् | विपरीत्यापरीत्या च ससद्यो मृत्यु मृच्छति || यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा | जायते दन्तघर्षश्च सगतायुरसंशयम् || दीपादिगन्धं नोवेत्ति त्रस्पत्यह्नि तथा निशि | नात्मानं परनेत्रस्थं वीक्षते न स जीवति || शक्रायुधं सार्द्धरात्रे दिनेन्दु ग्रहणं तथा | दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् || नासिकावक्रतामेति कर्णयोर्न मनोन्नती | नेत्रं च वामं स्रवति यस्य तस्यायुन्तगम् || आरक्ततामेति मुखं जिह्वा चाप्यसिता यदा | तदा प्राज्ञो विजानीयान् मृत्युमासन्नमात्मनः || प्. १४३ब्) उष्ट्ररासभ यानेन यः स्वप्ने दक्षिणां दिशम् | प्रयाति तं विजानीयात् सद्यो मृत्युं नरेश्वर || पिधाय कर्णौ निर्घोषं न शृणोत्यात्म संभवम् | नश्यते चक्षुषो ज्योतिर्यस्य सोपि न जीवति || पतितस्य च वै गर्ते स्वप्ने द्वारं विधीयते | न चोत्तिष्ठति यः स्वप्नात् तदन्तं तस्य जीवितम् || ऊर्द्ध्वा च दृष्टिर्न च संप्रतिष्ठिता रक्ता पुनस्संपरिवर्तमाना | मुखस्य चोष्मा शिशिरा च नाभिःशं सन्ति पुसामपरं शरीरम् || स्वप्नेग्निं प्रविशेद् यस्तु न च निष्क्रमते पुनः | जलप्रवेशादपि वा तदन्तं तस्य जीवितम् || यश्चाभि हन्यते दुष्टैर्भूतैरात्रावथो दिवा | स मृत्युं सप्तरात्रान्ते नरः प्राप्नोत्य संशयम् || स्ववस्त्र ममलं शुक्लं रक्तं पश्यत्यथासितम् | यः पुमान्मृत्युमापन्नं तस्यापि हि विनिर्द्दिशेत् || स्वभाव वैपरीत्यं तु प्रकृतेश्च विपर्ययः | कथयन्ति मनुष्याणां समासन्तौ यमान्तकौ || येषां विनीतस्सततं ये च पूज्यतमामताः | तानेव चाव जानाति तानेव च विनिंदति || देवान्नार्चयते वृद्धान्गुरून्विप्रांश्च निन्दति | मातापित्रो रसत्कारंजामातॄणां करोति च || योगिनां ज्ञाति विदुषामन्येषां च महात्मनाम् | प्राप्ते काले तु विदुषस्तद्विज्ञेयं विचक्षणैः || योगिना सततं यत्नादरिष्टान्यवनीपते | संवत्सरान्तानि तेन फलदानि दिवानिशम् || प्. १४४अ) विलोक्यानि सदाचैषां फलयुक्तेनभिरुणा | विज्ञायकार्यो मनसि स च कालो नरेश्वर || ज्ञात्वा कालं च तं सम्यगभयस्थानमाश्रितः | युञ्जीत योगं कालोसौ यथा नास्याफलो भवेत् || दृष्ट्वारिष्टं तथा योगी त्यक्ता मरणजं भयम् | तत्स्वभावं तदालोच्य काले यावत्युपागते || तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् | पूर्वाह्णे चापराह्णे च मध्याह्ने वा दिने दिने || यत्र वारजनी भागे तदारिष्टं निरीक्षितम् | तत्रैव तावद् युञ्जीत यावत् प्राप्तं हि तद्दिनम् || ततस्त्यक्ता भयं सर्वं जित्वा तं कालमात्मवान् | तत्रैवावसथे स्थित्वा यत्र च स्थैर्यमात्मनः || युञ्जीतयोगीनिर्जित्य त्रीन्गुणान्परमात्मनि | तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि संत्यजेत् || ततः परमनिर्वाणमतीन्द्रियमगोचरम् | यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत्समश्नुते || ब्रह्मयामले | आकाशे विगतांतदे निशिशिते पक्षेयुयः प्रत्यहं नाभौ वा हृदये ललाट फलके ह्येकाग्र चित्त स्थिरा | छायायाः प्रथमां ततोथ नयनं पश्येत् ततस्तत्परं सत्यं पश्यति तत्र काल पुरुषं क्षीराब्धि कुन्दोपमम् | तस्य दर्शनमात्रेण सर्व पापैः प्रमुच्यते | संपूर्णं च यदा पश्येत् तदामृत्यु भयं कुतः || प्. १४४ब्) संपूर्ण लक्षणोपेतं यदा पश्यति निर्मलम् | तदा न विद्यते कालो यावत् स वत्सरो ध्रुवम् || शिरो हीनो भवेन् मृत्युः षण्मासान् नात्र संशयः | बाहुहीने भवेद् व्याधिः स्याद् वा सहोदरक्षयः || कृष्णे च धन नाशस्स्याद् योनि छिद्रे मृतिः स्त्रियाः | मध्ये छिद्रे शस्त्रघातो दुर्भिक्षं वा भविष्यति || विकाशे च सुभिक्षं स्याद् ग्रीवाभग्नापदक्षयः | पीतवर्णे भवेत् स्तम्भः कृष्णवर्णेपमृत्युकः || रक्तवर्णे भवेद् राज्यं श्वेताभे चिरजीविताम् | तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते || श्वेतादि वर्णरहितं शब्दरूपविवर्जितम् | ज्ञात्वा यदि परं तत्त्वं मनो वाचामगोचरम् || गोपिते हि हरेन्मृत्युं गुरोरपि न दर्शने | प्रकाशे तु फलं नास्ति गुप्ते पश्यन्ति कालहमिति (अत्र त्रुटिः) इति दिक् || निदिध्यासनमेतत् तु मया साधन संयुतम् | यथाशास्त्रं यथा बोधं संक्षेपेण निरूपितम् || श्रवणं मननं चैव स विशेषं सविस्तरम् | वेदान्तेष्वेव द्रष्टव्यं नोक्तं विस्तरभीतितः || रहस्यं राजयोगस्य हठयोगस्य यत्स्थितम् | प्रकाशितं मयासर्वं प्रीतये योगिनामिह || अर्वाचीनैरसाध्यत्वाल्लिखितो न मया तु सः | उद्दालकभुशुण्डाद्यैर्हठयोगस्तु यः कृतः || कापालिक प्रणीतास्तु इति कर्तव्यतादयः | लिखिता न मया ते तु श्रुतिस्मृति विरोधिनः || प्. १४५अ) येनाराधि महादेवो गौरी ब्रह्माथवा हरिः | लम्बोदरो रविर्वापि तस्य योगः प्रसिद्ध्यति || वासिष्ठे | पूर्वमाराधितो येन भगवानिन्दुशेखरः | हरिर्ब्रह्मारविर्वापि सलभेदिदमद्रुतम् || योगचिन्तामणिर्नित्यं चिन्तनीयो मुमुक्षुभिः | जीवन्मुक्ति महाकामैरजरामृतिकांक्षिभिः || दुःखं गर्भनिवासजं शिशुदशातारुण्यवार्द्धक्यजं जित्वानिष्टवियोग जनितोत्कर्षापकर्षोद् भवम् | देहप्राणवियोगरोगजनितं कुंभीविपाकादिजं तं दुर्व्याधिमहौषधं भजतभोः श्रीयोगचिन्तामणिम् | द्विजसेवितशाखस्य श्रुति कल्पतरोः फलम् | शमनं भवतापस्य योगं भजतसत्तमाः || इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामचन्द्रसदानन्दसरस्वतीशिष्य शिवानन्दसरस्वतीविरचिते योगचिन्तामणौ चतुर्थः परिच्छेदः समाप्तश्चायं योगचिन्तामणिर्ग्रन्थः || शुभमस्तु शके २०१४ || ########### END OF FILE #######