#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00250 Uniform title: yogajāgama Manuscript : IFP/EFEO transcript T0024 Description: Copied from a manuscript belonging to M.K.S. Bhattar, Madurai Notes: Copied from IFP/EFEO transcript T0024. Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 05, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### हरिः ओम् तेन ता वै शिध्याय ओमी फडश्च नयन प्रर-इ | विनिशिश्चैव भान्तञ्च हश्चन्येताश्चतुश्च ये || ज्ञार्वश्च मश्च पदेदैके क्रमेण पदविन्यसेत् | पिग्रिस्थिश्च ममूयश्च योनिवातञ्च फित् पुनः || पुवश्च सञ्चमुश्चैव वश्च सार्पिश्च सागवः | सश्च नश्च इति ख्याता द्वितीयावरणे न्यसेत् || व्यानासनश्च नश्चैव दश्च मुक्तश्च अश्वरु | अध्यर्ध ऊर्ध्वपद्मन्तु रसांशं ग्रीवमुच्छ्रयम् | कंपन्ती पृच्छसार्धांशं लग्नकण्डञ्च शाङ्करम् || कुमुच्छ्रयं पञ्चभागार्धमेवं स्यूपिरुदाहृतम् | एवमेव प्रकारेण प्रासादं कारयेत्ततः || प्रासादार्ध प्रमाणेन अर्धमण्टपमिष्यते || असमाप्तोऽयं गन्र्थः | प्. १) || हरिः ओम् || || योगजागमः || तेन ता वै शिध्याय ओ मी फडश्च नयन प्रर-इ | निनीशिश्चैव भान्तञ्च हश्चन्येताश्चतुश्चये || १ || ज्ञार्वश्च मश्च पदेदैके क्रमेण पदविन्यसेत् | पिग्रिस्थिश्च ममूयश्च योनिवातञ्च फित् पुनः || २ || पुवश्च सञ्चमुश्चैव वश्च सार्पिश्च सागवः | सश्च नश्च इति ख्याता द्वितीयावरणे न्यसेत् || ३ || व्यानासनश्च नश्चैव दश्च मुक्तश्च अश्वरू | प्. २) वेश्चरूश्च तिदे स्वश्च शिवये भस्मदश्वना || ४ || क्षश्च पश्च वमोश्चैव तृतीयपङ्क्ति संलिखेत् | गुर्वश्च यश्च ओं भूत प्रेतीश्च नाश्च वै ? || ५ || अद्यो नाश्चैव ओं पश्च ते त ऋपुश्च अञ्चसा | गश्च शीरश्च वा तेषाञ्चतुरावरणे स्थितिः || ६ || सयवीरं रजागोश्च ज्योतापित् किञ्च अश्चव | अश्वहापश्वश्चैव शिश्च यश्च सगुश्च व || ७ || रतिविक्षय पञ्चमे | यथागरागवेद्याय ययेर इज्योह्य भुश्च नोत् || ८ || मयिर्वसुश्च वस्थिश्च गसुवाश्चैव षष्ठगे | प्. ३) पानायाहाश्च वा अश्चद्यों ह्योता अश्च अश्चज || ९ || शब्दवाता न वा संख्या क्रमेण परिपठ्यते | द्योन्ताश्च ने भवभ्याह्या गावपिन्तेश्च यूश्च यू || १० || मश्च ते प्रसश्चैव षविमतं शमपदं श | नेनशा यो वृषश्चैव गुंगुं घोराश्च द्याश्च ते || ११ || अयूनिश्च महामद्बहवः मताश्च वश्च रुब्दम | एकादशपदे लाख्या सर्वेषामात्मनः फलम् || १२ || पिश्च ययोर्वश्च रुश्च पञ्चम एव च | व्यश्चश्च पश्चश्च मिथश्च मीनात्मा च न || १३ || सिश्च भश्च ब्रश्च स्तरुशन्नद्वादशे पदे | प्. ४) शुद्यायवद्यं सुपुदेन सुमेद्यो प्रतद्धुर || १४ || प्रवोरव अस्तुनाश्चैव ओं त्रयोदशके पदे | पायूनिय तत्त्मश्च यरमिन् म अनानि च || १५ || पश्चञ्चश्च भकतैश्चैव रुज्ञाश्च चतुर्दश | व्योशियश्च वायश्च नानाद्योश्च यश्चपि || १६ || नाश्च अश्चर्येमुश्च पथ्यैश्च चुनस्त्वश्च स | एवं पञ्चदशे वृत्तं व्योमव्यापिरिति स्मृतम् || १७ || व्योमव्यापिरिति मन्त्राः व्योमरूपिगता कुरु | व्योमव्यापि महामन्त्रमृषिच्छन्दे देवतान् कुरु || १८ || अगस्त्य ऋषितृष्टुप्छन्दं ईश्वरस्तत्र देवताः | प्. ५) अथ सद्यामि मन्त्राणां उद्धारणं वदाम्यहम् || १९ || शिवाङ्गवत्स्थितं चक्रं सप्तमावरणैर्विना | पूर्वकानार्च्यमूलेन प्रणवं दीपकं न्यसेत् || २० || मिकारञ्च ततस्थाप्य संविसर्गोम एव च | वेश्च वश्च विसर्गेण मोक्षश्च वशक एव च || २१ || मोश्च नश्च यकारश्च मनाभ्यश्च विसर्गकः | रश्च तश्च विसर्गेण स्तेदुहानोस्तथैव च || २२ || ईश्च मीश्च तथा ब्रुश्च शिकारं वोश्च इति स्मृतः | द्यानभक् भश्च नद्राश्च मकारसविसर्गयुत् || २३ || नश्चर्मरश्च नादश्चत्मवे सार्वसंयुतम् | सविसर्गो मकारश्च तन्मंतश्चैव एव च || २४ || ओंकारञ्चैव ताकारं नमां शीकरमेव च | पश्च वैश्च यो यश्च रुश्च नयस्तथा || २५ || णथतञ्च मनायोश्च वस्योश्च सश्चन एव च | ओं स्वं ह फश्च यान्या त ब्रह्मताश्च तथैव च || २६ || प्रश्च यश्चैव नाभश्च वामो यश्चारस्तथा | मश्च भूम अनेभ्यो स विसर्गाम एव च || २७ || मश्च दश्च विभूतिश्च क्रमेण परिपठ्यते | तश्च ताश्च तथैवामान्देन लाकारमेव च || २८ || पर्वतश्च तथा मोश्च ओं घोरेर्पश्च एव हि | प्. ७) पेश्च विश्च तथाधी च चोर्वष्ट वस्तु एव च || २९ || जाजाभश्च तया स्वश्च तथैव हि | रकंप फलसञ्चैव नमस्यश्च तु सञ्चरू || ३० || यय प्रसस थीपुश्च षष्ठमे पदविन्यसेत् | एवं सद्यादिमन्त्राणां बिन्द्वतीतं शतं भवेत् || ३१ || द्वाद्यो द्यो यजश्च पाषामविलनश्च | * * * * अरञ्चैव चित्रश्च तथैव च || ३२ || षादवाश्च नीचैव वरणेञ्चैव सप्तमे | सहश्च भश्च भित्रिंशदक्षरं षट् षष्ठिवाममन्त्रकम् || ३३ || अघोरं षट्त्रिंशकैर्युक्तं चतुर्विंशति पुरुषकम् | प्. ८) त्रयस्त्रिंशदीश्वरञ्चैव प्रणवेन समायुतम् || ३४ || ऋषिच्छन्दो दैवतानामधुना संप्रवक्ष्यते | कौशिकं काश्यपञ्चैव भारद्वाजोऽत्रिरेव च || ३५ || पराशरश्च पञ्चैते सद्यादि ऋषिरुच्यते | अनुष्टुप् तृष्टुपश्चैव आर्योवृत्तकमेव च || ३६ || गायत्री चैव पञ्चैते सद्यादि छन्दसं स्मृतः | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ३७ || सद्यादीनान्तु पञ्चानां अवस्थेताः परिकीर्तिताः | ऋग्यजुस्सामाथर्वश्च चतुर्वेदान्तसारकम् || ३८ || सद्यादिमन्त्रमुद्धारं भञ्ज्यमेतदुदाहृतम् | प्. ९) गन्धब्रह्ममिति प्रोक्तं भज्यमङ्गमिति स्मृतम् || ३९ || ब्रह्माङ्गस्थूलरूपस्य सूक्ष्म ओङ्कार पूर्वकम् | सूक्ष्मरूपं शिवं प्रोक्तं स्थूलरूपं सदाशिवम् || ४० || पूर्वाच्चक्रं विन्यस्य चतुरावरणैर्विना | ओङ्कारश्च यवोशि च ते शुयश्च पुनश्च फट् || ४१ || शश्चैव तथाऽथो भूयश्चैव तथा परः | सान्ते च सकसा भूयो वश्चजस्सविसर्गकः || ४२ || हन्ती च ततश्चा च गश्च यश्च तथान्तकम् | वारव्यस्तथैवेह सौ दीर्घाश्च द्वितीयकः || ४३ || पुकारश्च रकारश्च हकारप्रचविस्तरः | प्. १०) ऋकारो पर्वयार्णश्च इकारं प्रणवस्ततः || ४४ || चर्मयान्ते पुनर्नेय रन्ध्यनज्ञ हिकौ तथा | दशप्रश्च तथागश्च हेश्चम्रियोन्त एव च || ४५ || पुकप्रमाविसर्गेण पिङ्गसश्शुक्रम् | मोक्ते षष्ठस्य मार्गस्य कारुशाशवगाकरी || ४६ || कहो चैव तता हा च यक्रमावश्चरा पुनः | लकारस्तुच्छदेकार परुना नमे पथे व्ये || ४७ || रन्ध्रिमा मकरश्चैव हश्च च ततोन्ततः | स सा ह्वूय च तं ह्या च किलिकेशश्च यस्तथा || ४८ || मेघनादद्वितीयञ्चकप्राश्च ममोश्वनि | प्. ११) स्वशौ शियवावाक्षुश्च विपारुचाश्च म एव च || ४९ || कट्ययज्वत्त चा सूर्य रमाश्चैव ततश्च हि | प्रहप्रलिहशिष्या च स त घातश्चतुर्दश || ५० || रावसानिममाघश्च द्विरता नो विरामतः | यभन्ना स्वाज्ञहाज्ञाश्च ज्ञकारं पुनराश्चशी || ५१ || यो कारश्च वनोहाश्चवे धष्ठा चनुस्ततः | खा चा चन्तपुनर्गा च हश्च मो च ततोऽक्षरः || ५२ || मरुतस्तरुतः प्रश्च ययोस्तु शिकमास्ततः | तथा तत्र वकारश्च हश्च यश्च यवो ततः || ५३ || योद्गते एव प्रज्ञाश्च यदे हुदौ पुनस्ततः | प्. १२) गमो स्वात्माश्च वन्दश्च शस्तंगश्च फट् च यत् || ५४ || सञ्च सञ्च तथा हाप कमपिसश्च निभौस्तथा | यश्च तश्च तथोत्कारः पर्वौ प्रणव एव च || ५५ || मगौ बलतथा याश्च गमजुङ्कारमेव च | अनन्ते वासुगो लब्धजुहू प्रभेद ऊष्मणः || ५६ || सर्वात्मा सर्वज्ञहृदयमीक्षणानि तु सप्ततिः | ओङ्कारादि हकारान्तं उद्धरेत्क्रमशः पुनः || ५७ || अष्टाक्षरं शिवं तस्मात् सुशिवाक्य समुद्धरेत् | ज्वनी परतस्तार्व्याच्छिवामेकादशाक्षरम् || ५८ || षंश्युरशितं तस्मादक्षराणान्तु पिङ्गलम् | प्. १३) अघोरास्त्रं ततस्त्रिंशद्वादशाक्षरलक्षितम् || ५९ || चतुर्विंशती च गायत्री मुद्धरेत्क्रमशस्तथा | नेत्रत्र्यक्षरं तस्माद्विन्द्यानामालयं परम् || ६० || * * * * क्तं विज्ञेयमक्षराणां शतद्वयम् | हृदयादि विभागेन कथितं सिद्धिमुक्तिदम् || ६१ || एवं शिवाङ्गमित्युक्तं ब्रह्मलक्षणमुच्यते | पदब्रह्मस्थनामानि पञ्चानां पञ्च व्रिन्यसेत् || ६२ || चतुर्थ्यात्त्रीण्यत्रिहाहाकारांतान्त मध्यमम् | आद्यन्ते कामनिर्देशो विभक्त्यन्ते तु नामानि || ६३ || अष्टषष्ट्यक्षरं शैव तकारात्परतस्ततः | प्. १४) हार्दन्तु पञ्चमस्तस्मा त्रिंशद्दिक्षु च मूर्छितम् || ६४ || ईकारं मूर्छितं शैवं द्वितीयन्तु ततः पुनः | पञ्चाक्षरं चतुर्थ्यन्तं तामावेद्यमतः परम् || ६५ || एकोनविंशतिं वामं एकारान्त मनोन्तथा | शव्य सर्वात्मना युग्म पदमेकं चतुर्थकम् || ६६ || ऐकाराश्चरसद्भिन्नं वकारद्वयकं न्यसेत् | द्विरिश्या सपदादेकमष्टमाच्छैवमक्षरम् || ६७ || आदित्त्रीणि पदाद्यन्ते ब्रह्ममिच्छन्नामतः परम् | पूर्वमेव द्विरभ्यासात्पदमन्याक्षरं विना || ६८ || योगाधिपत पदस्यादीन् पदान्तं परं ततः | प्. १५) अन्नं छिन्दुद्वयं क्षीण न पदादष्टमं पदम् || ६९ || जाक्षरांत् सप्तमं शैवमामूचितमथोक्षरम् | ततो मन्त्रसमाप्त्यर्थं मुञ्च मुञ्च पदात्पदम् || ७० || पञ्चमं विन्यसेद्धीमान् बीजस्य षोडशं हृदि न्यसेत् | वामपादमूर्ध्वपाद स्थूलसूक्ष्मद्वयकम् || ७१ || एकारेण ततो भिन्नं रुद्राण्यां परमाक्षरम् | अनन्तं पिङ्गलं तस्मात् समाप्ते नवमाक्षरम् || ७२ || गङ्गानि यत्कृतं यश्च न्यसेत्सूक्ष्मपदं पुनः | रुद्रनामं चतुर्थ्यन्तं त्रिमूर्तिं त्रिभिरेव च || ७३ || ताभ्याञ्च पैङ्गलं दीर्घं ऌकाराद्व्यक्षरद्वयम् | प्. १६) यनति पूर्ववत्ताभ्यां यथा संस्थन्तु पैङ्गलम् || ७४ || यागक्रियाक्षरं षष्ठं पैङ्गलं पूर्वमक्षरम् | द्वितीयमपरं तस्मात् विद्याङ्गं शिरसोऽक्षरम् || ७५ || अपथ्युत्युषकारस्थं शैवं द्विगुणविन्यसेत् | यनती तु ततस्तस्माद्वामदेवपदानुगे || ७६ || संस्थाप्य विन्यसेद्वर्णं झङ्कारं पिङ्गलात्मकम् | लकारानाद्यमं भूयस्थाप्य तत्र द्वितीयकम् || ७७ || इकाराद्वयसंभिन्नं कुर्या न दात्मवित्तमः | बलकाराक्षराद्वन्येस्व शिवार्गं पैङ्गलं न्यसेत् || ७८ || आद्यन्तस्ततस्ताभ्यां विद्याङ्गास्त्र्यक्षरं द्वयम् | प्. १७) पञ्चाक्षराच्छिवाच्छैषा षष्ठमञ्च तथोक्षरम् || ७९ || सर्वात्मकाद्वितीयञ्च पदं तत्परतो न्यसेत् | ब्रह्मास्वादेस्तृतीयस्य पृष्ठमध्ये पदस्य तु || ८० || विन्यसेदितरस्यापि पदार्थस्यातिमाक्षरम् | तृतीयन्तु ततश्शैवं सप्तविंशकमेव च || ८१ || द्वितीयस्य पदस्यान्तं पदं सूक्ष्मान्तरानुगम् | इदमेव पदं सूक्ष्म * बिन्दुपरिकीर्तितम् || ८२ || गात्रियामाक्षरञ्चैव द्वितीयं विन्यसेद्बुधः | त्रिमूर्त्त्यन्तेन तस्मान्नियमाक्षरद्वयम् || ८३ || न्यसेन्मन्त्र समाप्त्यर्थं पुनर्यदुपवर्णितम् | प्. १८) विद्याङ्गा स्तृतीयन्तु एकारान् परतोऽक्षरम् || ८४ || विन्यस्य तु पदस्तस्माद्घोरारादिति विन्यसेत् | अघोरास्रात्मकाद्वर्ण सप्तमाष्टमघोरतः || ८५ || रेभ्योकारमतो भावं पुनरेवाक्षरद्वयम् | पैङ्गलाघोक्षरं स्थाप्य तच्चत्वारो परिस्थितम् || ८६ || विन्यसेदेकरुद्रान्तं सर्वाकारक्षरद्वयम् | एकादशमघोरास्त्रं तकारं सविसर्गकम् || ८७ || कर्मेन्द्रियं परं तस्मात् मनुर्मुखो व्यश्च ये युतम् | रव्योकारश्च न तस्ताज्ञेयस्तेया शैवमेव च || ८८ || रुद्राकारो ततेरूश्च वेश्यव्यश्च ततः पुनः | प्. १९) चतुर्थस्य तु गायत्र्या षष्ठमाद्याक्षरत्रयम् || ८९ || न्यस्ते दवञ्चतुर्थ्यन्तं महादेवपदे पुनः | पदत्रयोत्तरं तस्मात् गायत्र्यर्णं चतुष्टयम् || ९० || अन्यञ्चान्यं तयोर्मध्ये ना रुद्रास्तु शिवान्तकम् | वामदेहोत्तरे हार्दै षष्ठं गायत्र्यक्षरम् || ९१ || सप्तमस्य तु मेतानि ततो मध्यादि विन्यसेत् | अष्टमं नाक्षरञ्चैव ममनस्कं समन्वितम् || ९२ || पदैशानादि भूयोऽपि विन्यसेत् परतो बुधः | स्पर्शन्तमातृकस्यापि पदस्योर्ध्वमथोत्तरम् || ९३ || सविसर्गे पुनर्हार्दे भूताकाराक्षरद्वयम् | प्. २०) शैववर्गाद्बिन्दुसंयुक्तं ब्रह्माश्चैव मतः परम् || ९४ || यसोदोङ्कारसंभिन्नमेकारं वावदेवतः | धियत्पदे फपोतान्ते अष्टमं शोष्टमक्षरम् || ९५ || ब्रह्म आयक्ततोरेक पूर्ववत्कान्तरं न्यसेत् | अनन्तेशं चतुर्थ्यन्तं वोहाद्यं वै शवमष्टमम् || ९६ || स्तुंकारस्तरतश्शैवमनन्तेशञ्च विन्यसेत् | विन्यसेदेकरुद्रान्तं मूर्छितमनोक्षरम् || ९७ || ततः पञ्चमषष्ठे तु सर्वान्ते तु शिवात्मकौ | अनुष्टुप् छन्दस्समायुक्तं त्रयो मन्त्राः प्रकीर्तिताः || ९८ || यज्ञजुषा वामदेवस्तु गायत्र्येण चतुष्टयम् | प्. २१) इति योगजे प्रतिष्ठातन्त्रे मन्त्राद्धारविधिः पटलः | अथ वक्ष्ये विशेषेण शौचाचमनविधिक्रमम् | प्रातरुत्थापयेन्मन्त्रं शुद्धस्थानगते सती || १ || वल्मीके च शिवस्थाने जलाश्रयो गुरुसन्निधिः | वृक्षसङ्घे च गोकोष्ठे पयि भस्मनि गोमये || २ || देवस्थानसमीपे तु नदी स्थाने विशेषतः | शिलाञ्च पर्वताग्रेषु कुर्यादावश्यकं बुधः || ३ || शिरो वस्त्रोऽवकुण्ठी च उपवीतञ्च कण्ठयोः | कुर्यादावश्यकं कार्यं मौनी भूतशिवद्विजः || ४ || प्. २२) रात्रौ दक्षिणतः कृत्वा रविं दक्षिणतोऽपि वा | एवं कृत्वा तु तन्मन्त्री गच्छेत्प्रतिजलं बुधः || ४ || वामहस्तेन गृह्णीयात् प्रपूजनञ्चैव यत्नतः | मृत्पिण्डं दक्षिणे हस्ते गृह्णीयात्तु जलं बुधः || ५ || अमलीफलमात्रन्तु मृत्पिण्डं सव्यहस्तके | दशधा क्षालयेद्वारं मृत्पिण्डेन पुनः पुनः || ६ || दक्षिणे सप्तमन्त्रीणि न खिलं गन्तु शोधयेत् | गन्धलेपक्षयहरं शौचं कृत्वा शनैश्शनैः || ७ || एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् | त्रिगुणं वानप्रस्थानां यतीनान्तु चतुर्गुणम् || ८ || प्. २३) यावन्मात्रामनश्शुद्धिः तावच्छौचं समाचरेत् | इति योगजे शौचविधिः पटलः | अथ वक्ष्ये विशेषेण आचमनविधिवत्पुनः | उदङ्मुखतप्राङ्मुखो भूत्वा शिखामाबन्धयेद्विधि || १ || * * यज्ञोपवीतञ्च पादं प्रक्षालनं शुचिः | नान्तर्जलेन तिष्ठञ्च न हसन्न ब्रुवन् तथा || २ || ब्रह्मणे दक्षिणकरे पञ्चतीर्था भवन्ति हि | * * * * * * * * रेणैव सर्वमाचरेत् || ३ || स्थले तु दक्षिणं पादं वामपादं जले स्थितम् | प्. २४) ब्रह्माविष्णुश्च रुद्रश्च मघवानिति शैविकम् || ४ || अङ्गुलीनाममेतद्धि पञ्च तीर्था भवन्ति हि | अङ्गुल्यग्रे ऋषितीर्थं अङ्गुलीमध्ये च दैविकम् || ५ || तर्जन्यङ्गुष्ठयोर्मध्ये पैतृकं तीर्थमुच्यते | अङ्गुष्ठांगुलिरेखायां ब्राह्मतीर्थमुदाहृतम् || ६ || गोकर्णवत्करतलं ममाषमग्नाजलं गृहेत् | तृं पिपेदृग्यजुस्समां प्रीणां तद्विपरिमृजेत् || ७ || अथर्ववेदेतिहासाः दुःखमेकन्तु संव्रजेत् | पद्भ्यामभ्युक्षणं कुर्याद्भूमदेव्याः प्रियं भवेत् || ८ || ब्रह्मतीर्थं शिरोऽभ्युक्ष्य क्षततस्त्वङ्गे तु संव्रजेत् | प्. २५) अङ्गुष्ठानामिकाभ्यन्तु चक्षुषो समुपस्पृशेत् || ९ || अङ्गुष्ठतर्जनीभ्यान्तु चक्षुषोस्समुपस्स्पृशेत् | सर्वाङ्गुल्या स्पृशे हृदयं शिरो वै सर्वतोङ्गुलम् || १० || एवं कृत्वा तु मन्त्रज्ञं प्रयङ्गेष्वपि संस्पृशेत् | शिरः पादौ तथाभ्युक्षं ऋषीणां सप्त तृप्तये || ११ || मूर्ध्नि चक्षुस्पृशेनैव शर्वादित्ये तु काष्ठ च | नासौ वै स्पर्शनप्रीतिः अर्चिन्यामधिदेवता || १२ || बाह्यौ नाभिहृदयं मिन्द्रो विष्ण्वशिरेव च | मूर्ध्नि संस्पर्शने चैव सर्वदेवप्रियं भवेत् || १३ || क्षते च कच्छजाते च सद्यमाचमनं कुरु | प्. २६) अङ्गुष्ठेनाऽस्य संस्पृश्य पश्चादाचमनं भवेत् || १४ || एवमाचमनं प्रोक्तं मन्त्रस्नानविधि शृणु | इति योगजे आचमनविधि पटलः | अतः परं प्रवक्ष्यामि स्नानं पापहरं परम् | मृत्पिण्डं गोमयं पुष्पं तिलमामलकं कुशम् || १ || तटाके वाऽपि कूपे च हृदनिम्नजलेऽपि वा | आचम्य विधिवत्पूर्वं पादौ हस्तौ च क्षालयेत् || २ || जलस्नानं पुरा कृत्वा मानसञ्च ततः परम् | सद्योजातेन मन्त्रेण मृत्पिण्डन्तु त्रिधा भवेत् || ३ || प्. २७) पूर्वञ्च दक्षिणञ्चैव उत्तरञ्च प्रकल्पयेत् | पूर्वं तत्पुरुषेणैव अघोरेण तु दक्षिणे || ४ || वामदेवेन मन्त्रेण उत्तरञ्चापि मन्त्रयेत् | अस्त्रेण प्रक्षिपेद्दिक्षु दशस्वपि यथाक्रमम् || ५ || दक्षिणेन मृदञ्चैव मङ्गमालिपि मन्त्रतः | शिरो वक्त्रञ्च हृदय गुह्यं पादौ विभागशः || ६ || हृदये नैव घोरेण सर्वाङ्गमुपलेपयेत् | उत्तरेण मृदञ्चैव शिवतीर्थं प्रकल्पयेत् || ७ || स्नानार्थे चोपचारेण सुगन्धामलकादिभिः | पञ्चब्रह्मशिवाङ्गैश्च अभिषेकं प्रकल्पयेत् || ८ || प्. २८) गोमयेन पुनश्चैव स्नापयेदुपलिप्य च | कलशमुद्रान्तु बद्ध्वा तु प्रासादेनाभिषेचयेत् || ९ || तत्तीर्थन्तु समासाद्य रजन्यालेपनं कुरु | पश्चात्स्नानं समासाद्य आचम्य च यथा विधि || १० || सद्येनैवोदकं प्राश्यमीशानेन तु मार्जयेत् | तत्पुरुषेण मन्त्रेण जपेदष्टशतं पुनः || ११ || सूर्यश्चेति च मन्त्रेण उदकं प्राश्य यत्नतः | पश्चादाचमनं कुर्यादधिक्राविण्णेति प्रोक्षयेत् || १२ || भूर्भुवस्वेति मन्त्रेण पूर्वे पूर्वन्तु निक्षिपेत् | उपस्पृश्य ततो जप्त्वा पञ्चब्रह्मसभाङ्गकैः || १३ || प्. २९) कलामन्त्राणि सर्वाणि व्योमव्यापिं तथैव च | देवान् ऋषीन् पितृंश्चैव तर्पयित्वा यथाक्रमम् || १४ || देवाश्च वामदेवे च अघोरेण ऋषिंस्तथा | पितॄणां सद्यमन्त्रेण एवमेवं क्रमेण तु || १५ || तर्पयित्वा विधानेन आचम्य विधिवत्पुनः | देवी केन तु तीर्थेन देवान् तर्प्योदपुष्पयुक् || १६ || आर्षेण तु तीर्थेन ऋषींस्सर्वांश्च तर्पयेत् | पैतृकेन तु तीर्थेन पितॄन् सर्वांश्च तर्पयेत् || १७ || अपसव्यक्रमेणैव उपवीतत्रयेण च | आचम्य तु विधानेन व्योमव्यापी तथैव च || १८ || प्. ३०) श्रीरुद्रं पुरुषसूक्तं च विष्णुसूक्तं जपेत्ततः | हुङ्कारेण तु मन्त्रेण तीर्थञ्चैव तु संस्मरेत् || १९ || पुष्पेण ऋषिदेवांश्च तिलेन पितृतर्पणम् | कुशपुष्पाणि सर्वाणि सर्वकर्म समाचरेत् || २० || सावित्र्याञ्च जपं तत्र यावच्छक्तिसमाचरेत् | उदित्यञ्चित्रमन्त्रञ्च हंसशुद्धिं ततो जपेत् || २१ || प्रदक्षिणं ततः कृत्वा गुणसंख्या तथैव च | पुष्पहस्तं गृहीत्वा तु आलयं प्रविशेद्बुधः || २२ || इति योगतन्त्रे स्नानविधिः पटलः | प्. ३१) अतः परं प्रवक्ष्यामि भस्मस्नानविधिं परम् | गावश्शिवपुरात्पञ्च क्षितिं प्राप्ताश्शिवेच्छया || १ || पञ्चगावसमुत्पन्ना सर्वा लोकस्य मातरः | नन्दा भद्रा च सुरभि सुशीला सुमनायतः || २ || कपिलं श्वेतकृष्णञ्च धूम्ररक्तं तथैव च | नन्तादि सुमनान्तं स्याद्वर्णमेतत्प्रकीर्तितम् || ३ || सर्वलोकोपकारार्थं देवानां तर्पणाय च | गोमातरस्थिता भूमौ स्नानार्थञ्च शिवाय च || ४ || गोमयं रोचनां मूत्रं क्षीरंदधिघृता गवाम् | षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि || ५ || प्. ३२) गोभिर्यज्ञां प्रवर्तन्ते गोषु देवाः प्रकीर्तिताः | गोभिर्वेदास्समुत्तीक्ष्णास्साङ्गोपाङ्गपदक्रमात् || ६ || शृङ्गमूले भवान्नित्यं ब्रह्माविष्णुश्च संस्थितः | शृङ्गाग्रे सर्वतीर्थानि स्थावराणि वराणि च || ७ || शिरोमध्योग्यहं वत्सभूतैः प्रक्षालनं कुरु | आचम्यं विधिवत्कृत्वा सन्ध्याकर्म समाचरेत् || ८ || नोक्तकार्यञ्च सर्वेषां पूर्ववत्कारयेद्विधिः | माहेन्द्रं स्नानमाख्यातं मारुतं स्नानकं शृणु || ९ || गोवासन्तु समावेश्य गोधूली पञ्चगव्यकम् | गोगन्धेन समाविष्टं मूलमन्त्रं जपेत्ततः || १० || प्. ३३) पश्चादाचमनं कुर्यान्नोक्तं पूर्ववदाचरेत् | मारुतं स्नानमाख्यातं मन्त्रस्नानमतः शृणु || ११ || सपादप्रक्षालनं कृत्वा आचम्य विधिवत्कुरु | ताम्रपात्रे जलं गृह्य आपोहिष्ठेति मन्त्रतः || १२ || हिरण्यं पवमानञ्च कुशाय प्रोक्ष्य बुद्धिमान् | अन्यकर्माणि सर्वाणि पूर्ववत्कारयेत्सुधीः || १३ || वारणं भस्ममाहेन्द्रं मारुतं मन्त्रसंज्ञकम् | एवं पञ्चविधस्नानं सर्वकार्येषु योग्यतम् || १४ || इति शौचाचमनस्नानसन्ध्यावन्दन आलय प्रवेशन कृकवाकोद्घाटनमार्जनालेपनप्रोक्षणं आत्मशुद्धि- प्. ३४) द्रव्यशुद्धि द्विजशुद्धि मन्त्रशुद्धि आसनकल्पनदेवावाहन स्थापन सन्निधासन्निधिकोपेन | अङ्गप्रत्यङ्गोपनकलनगन्धपुष्पधूपदीपनिवेद्यबलिहुततिस्ताम्र-नित्योत्सवनृत्तक्षेत्रं पूजाविधिम् | इति योजगे प्रतिष्ठातन्त्रे आत्मशुद्धिविधि पटलः | अथ वक्ष्ये विशेषेण अर्चनाविधिमुत्तमम् | अर्चनं द्विविधं प्रोक्तं आत्मार्थञ्च परार्थकम् || १ || अन्तरे स्थितिलिङ्गानां जङ्गमंत्विति कीर्तितम् | पीठाद्येन समं बन्धं जङ्गमं लिङ्गमुच्यते || २ || प्. ३५) ब्रह्माविष्णुशिवैर्युक्तं स्थावरं लिङ्गमुच्यते | स्वयंभुरोहणञ्चैव देवमानुषराक्षसम् || ३ || बाणलिङ्गादिलिङ्गानां परार्थमिति कीर्तितम् | एषु नित्यस्थितो देवो व्यक्ताव्यक्तन्तु मानुषम् || ४ || सन्ध्याकाले तु सुव्यक्तमव्यक्तञ्चान्यकालके | ब्रह्मविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवम् || ५ || उत्तरादीनि मूर्त्यन्तं दक्षिणामूर्तिमन्त्रतः | वामं सद्यमघोरञ्च तत्पुरुषमीशाननामकः || ६ || उत्तरादीनि वक्त्राणि क्रमेण परिपठ्यते | सर्वद्वयारोद्भवञ्चैव वामादापसमुद्भवाः || ७ || प्. ३६) अघोरात्तैजसंभूतं पुरुषाद्वायुसमुद्भवम् | ईशादाकाशमुत्पन्न इत्येते भूतसंभवाः || ८ || आसनं मूर्तिमावाह्य ते तु तृतीयमध्वनि | आसनं शुद्धविद्यान्तं मूर्तिशक्त्यन्तगोचरम् || ९ || आवाह्य सशिवं प्रोक्तो मन्त्रमूर्तिस्सदाशिवः | सदाशिवं मन्त्रसंभूतेरष्टत्रिंशत्कलान्वितम् || १० || मन्त्रन्यासशिवं यावत् सदाशिवमिति स्मृतम् | अयं मन्त्रमिति ख्यातश्शिवार्चनमिति स्मृतः || ११ || आकाशात्संभवा रेखा द्वितीयमर्धचन्द्रकम् | तृतीयं कुटिलाकारं चतुर्थं वह्निसंभवम् || १२ || प्. ३७) पञ्चमन्तु ध्वजाकारं * * * * * * * * | शिवमन्त्रमिति प्रोक्तं सर्वयोनि हृदि स्थितम् || १३ || अर्धाक्षरं पदन्यासं शक्तिस्थानन्तु षट्पदम् | एतन्यासं कृतं नित्यं लिङ्गस्य परिणामिके || १४ || विद्याङ्गास्रशिवाङ्गास्र अघोरास्रं पाशुपतास्त्रकम् | क्षीरक्षस्त्रन्तु पञ्चैते शिवमन्त्रसमर्थितम् || १५ || शिवादुत्पद्यते शक्ति शक्तेरुत्पद्यते तथा | तस्यास्सदाशिवोत्पत्तिस्सदाशिवेश्वर स्थितिः || १६ || ईश्वरं रुद्रसंभूतं रुद्राविष्णु समुद्भवम् | विष्णोर्ब्रह्मा समुत्पन्नो ब्रह्मणो विश्वसंभवम् || १७ || प्. ३८) वाच्यध्याचका हितो वाङ्मनातीतगोचरः | शिवं शुद्ध इति प्रोक्तो अरूपी अव्ययीश्वरः || १८ || वाच्यं सदाशिवं मन्त्रं अवाच्यं शिवमन्त्रकम् | गुह्याद्गुह्यतरं गुह्यं स्वानुभूत्यावगम्यते || १९ || लोकरक्षानिमित्ताय सदाशिवसमुद्भवम् | तस्मात्सर्वप्रयत्नेन पूजयेत्तु सदाशिवम् || २० || लोकशान्तिकरं ह्येवं परार्थं पूजयेद्बुधः | आत्मार्थञ्च परार्थञ्च आदिशैवार्हणं भवेत् || २१ || लिङ्गेक्षणो विना मर्त्यं कूर्मभक्षयते सदा | तस्मात्सर्वप्रयत्नेन शिवलिङ्गार्चनं कुरु || २२ || प्. ३९) प्रथमं तनुशुद्धिं स्याद्वितीयस्थानशुद्धिकम् | तृतीयं द्रव्यशुद्धिञ्च चतुर्थं लिङ्गशोधनम् || २३ || पञ्चमं मन्त्रसिद्धि स्यादित्येते पञ्च शुद्धयः | पूर्वोक्तविधिमार्गेण देहशुद्धिं समाचरेत् || २४ || देवन्यासक्रमेणैव देहशुद्धिं समाचरेत् | भूमिं समतलं कृत्वा सुखासीन उदङ्मुखः || २५ || रेचकं पूरकञ्चैव कुंभकं दशमात्रकम् | दश दिक्ष्वस्त्रमन्त्रेण दिग्वरेचनमारभेत् || २६ || शङ्खतोयस्य तन्मध्ये सुरभिमुद्रां प्रदर्शयेत् | शिवमन्त्रं न्यसेद्विद्वान् गन्धपुष्पकुशैर्युतम् || २७ || प्. ४०) तदंभसि शिवे नाम्ना स्वदेहं प्रोक्ष्य मन्त्रवित् | करन्यासं पुरा कृत्वा सृष्टिमार्गेण बुद्धिमान् || २८ || अङ्गुष्ठादिकनिष्ठादि सृष्टिन्यासमिदं स्मृतम् | कनिष्ठाद्यङ्गुष्ठान्तं यत्संहारन्यासमुच्यते || २९ || दक्षिणे मध्यमादि स्यात् वामे ह्यनामिकान्तिकम् | स्थितिन्यासमिदं प्रोक्तं सर्वकर्मस्वयं विधिः || ३० || मूर्धादि सृष्टिरः प्रोक्तं पदादि संहृदि न्यसेत् | ईशादिष्टवष्टविन्यासं सद्या संहृदिं न्यसेत् || ३१ || अघोरादि स्थितिन्यासमित्येवं मन्त्रविन्यसेत् | हृदयं हृदये न्यस्य शिरः शिरसि विन्यसेत् || ३२ || प्. ४१) शिखां शिखायां विन्यस्य कवचस्तनमध्यतः | अस्त्रं हस्तेन विन्यस्य नेत्रं नेत्रेण विन्यसेत् || ३३ || जानोर्नाभिगले चैव ललाटे मूर्ध्नि देशिके | पृथिव्यादीनि बीजानि योजयेत्तु विशेषतः || ३४ || पृथिव्यादीनि बीजानि लवलयहकारकाः | पीतं शुक्लं तथा रक्तं कृष्णं धूम्राभवर्णकम् || ३५ || चतुरग्रार्धचन्द्रञ्च त्रिकोणञ्च षडग्रकम् | सुवृत्तञ्च पृथिव्यादि मण्डलात्तु तथा क्रमात् || ३६ || ततस्सप्तशतं देवं शिवं प्रणवसंस्थितम् | त्रिकोणमग्निदेवञ्च वृत्तञ्चेन्द्रसूर्ययोः || ३७ || प्. ४२) मण्डलाकारमेवोक्तमग्निकार्य शशाङ्कयोः | हृदयञ्च शिरश्चैव शिखाकवचमेव च || ३८ || नेत्रमङ्गषडङ्गानि कीर्तितानि क्रमेण तु | पृथिव्यादीनि पञ्चानि पूजयेत्तु विशेषतः || ३९ || पृथिव्यादीनि गत्यानां ब्रह्माद्याः पञ्चमूर्तयः | पञ्चोद्घातश्चतस्त्रश्च त्रयश्च द्वयमेकशः || ४० || ह्लां ह्रीं ह्वीं ह्रूं हेण रकारञ्च क्रमेणैवोर्ध्वयेत् | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || ४१ || पृथिव्यादीनि भूतानि हुं फट् संयुक्तबुद्धिमान् | जानुनाभिगले चैव ललाटं मूर्ध्निदेशके || ४२ || प्. ४३) हृदयादीनि मन्त्रेण बन्धयेदादिशैवकः | तद्बन्धं पञ्चग्रन्थिं स्यादिति शास्त्रस्य निश्चयः || ४३ || पाशुपतेन शास्त्रेण पञ्चग्रन्थिं स्तु छेदयेत् | ह्लादयादीनि मन्त्रेण पृथिव्यादीनि योजयेत् || ४४ || शिखामग्रे द्वादशाङ्गुले हंहेनात्मनि योजयेत् | संहारमुद्रया चैव शिवतत्वे नियोजयेत् || ४५ || अग्निमण्डलमध्ये तु अग्निबीजं न्यसेद्बुधः | कलेबरं दहेत्पश्चादग्धरज्जुं विचिन्तयेत् || ४६ || आपूर्यं ततो ध्यात्वा आत्मानं मृततेजसा | प्रणवं श्वेतकमलं योगपीठमधोमुखम् || ४७ || प्. ४४) स्रवन्तममृतं ध्यात्वा चन्द्रमा स्थलमध्यमे | तेन आचितपिण्डन्तु शरीरस्थितिकं कुरु || ४८ || आत्मानमानयेन्मन्त्रं कारयेत्पूर्ववत्सुधीः | अकारादिक्षकारान्तं वर्णमन्त्रक्रमं न्यसेत् || ४९ || अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटके | इ ई चक्षुर्द्वये चैव उ ऊ ओष्ठद्वयोरपि || ५० || ऋ ॠ चक्षुर्द्वये चैव ऌ ॡ नाडिद्वये न्यसेत् | ए ऐ श्रोत्रद्वये चैव ओ औ जिह्वागले विदुः || ५१ || अं अः कक्षद्वये चैव अक्षरं विन्यसेत्सुधीः | कवर्गं दक्षिणे पार्श्वे * * * * * * * * || ५२ || प्. ४५) टवर्गं दक्षिणे पादे तवर्गं वामपादके | पवर्गं दक्षिणे हस्ते यवर्गं वामहस्तके || ५३ || लक्षलिङ्गमपाने च वर्णस्थानं विधीयते | कालाशक्तिकलान्यासं क्रमेणैव तु योजयेत् || ५४ || पञ्चब्रह्म शिवाङ्गश्च तत्तद्देशेषु विन्यसेत् | मूर्धादि पादपर्यन्तं दशाक्षराणि विन्यसेत् || ५५ || प्रासादं विन्यसेत्पश्चात् शिवोऽहमिति भावयेत् | करार्चनं ततः कृत्वा पश्चाद्देहार्चनं कुरु || ५६ || पूर्ववद्देहन्यासञ्च यथाक्रमेण योजयेत् | एवं कृत्वा विशेषेण आत्मशुद्धिं समाचरेत् || ५७ || प्. ४६) त्रिकालं चैककालं वा आत्मार्थं संप्रपूजयेत् | नाडीमूलादधः पद्मं तुर्याङ्गुलि प्रमाणतः || ५८ || मूलाधारमिदं प्रोक्तं शतृनाभिध्वनिं विदुः | बिन्दुनादसमायुक्तं शक्तिरित्यभिधीयते || ५९ || अग्निमध्ये रविस्थानं रविमध्ये तु चन्द्रमाः | तस्य मध्ये तु पूर्वज्ञो व्यक्ताव्यक्तमिति स्मृताः || ६० || आत्मानञ्चान्तरात्मानं परमात्मानमुच्यते | क्रमेणैवोर्ध्वतत्सर्वं सात्त्विकादिगुणैर्युतम् || ६१ || भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् | हृदये योजनं कुर्यान्नाभो होमं प्रकल्पयेत् || ६२ || प्. ४७) हृत्पद्मे चार्चयेन्नित्यं त्रिकालं वा द्विकालकम् | अथवा एककालन्तु संयजेन्मानसेन तु || ६३ || अङ्कुरं नाभिमूले तु हृदये सुप्रतिष्ठितः | समनो मन्यास्तु संयोज्य * * * * * * * || ६४ || चतुरष्टद्विरष्टौ च द्वात्रिंशद्विगुणीकृतम् | षडाधारन्तु पद्मं स्यादूर्ध्वाधः क्रमयोगतः || ६५ || त्रिधाधारमधोभागे ऊर्ध्वभागं तथैव च | हंसाधारमिदं प्रोक्तं सर्वस्यापि सदाशिवः || ६६ || घण्टाजिह्वास्थयोगन्तु तदुत्पत्तिरिति कथ्यते | एवमेव प्रकारेण चिन्तयेन्मानसेन तु || ६७ || प्. ४८) आत्मशुद्धिरिदं प्रोक्तं स्थानगूढमतः शृणु | मार्जनालेपनञ्चैव वितानध्वजभूषितम् || ६८ || शोधनीमुद्रया चैव फट्कारेण तु योजयेत् | * * * * * * * * प्रासादाभ्यन्तरे बहिः || ६९ || हस्तमात्रप्रकारेण मण्डलञ्चतुरग्रकम् | आवाहयेत्ततो भूमिं सर्वाभरणसंयुतम् || ७० || द्विनेत्रा द्विभुजा श्यामा शुकहस्तन्तु पिङ्गलाम् | गलपुष्पादिभिः पूज्य स्वनादा देशिकोत्तमः || ७१ || भूमिशुद्धिरियं प्रोक्ता द्रव्यशुद्धिं ततः शृणु | गन्धतैल * * * * * * * * * कं तथा || ७२ || प्. ४९) कषायं गन्धोदकञ्चैव प्रोक्तवस्त्रं तथैव च | पाद्यमाचमनं चार्घ्यं गन्धपुष्पञ्च धूपकम् || ७३ || दीपञ्चैव निवेद्यञ्च पानीयञ्च तथैव च | तांबूलमुखवासञ्च नीराजनञ्च तर्पणम् || ७४ || चामरं तालवृन्तञ्च छत्रं पादुकमेव च | सौवर्णरजतं ताम्रमथवा कांस्यमेव च || ७५ || * * * * * * * * * * * * * * येत् | शङ्खपत्रादिपात्राणां जलद्रोणिञ्च वर्धनम् || ७६ || त्रिपादीनि च सर्वाणि शोधयेन्मूलमन्त्रतः | * * * तत्र द्रव्याणि शोधयेत्तु तथैव च || ७७ || प्. ५०) पूर्वे च पश्चिमे याम्ये सौम्ये चैव क्रमेण तु | यथा क्रमेण विन्यस्य पञ्चवक्त्रक्रमागतः || ७८ || तमातराक्षरानिष्ठा धृतिक्षाणि स्मृतिक्षमा | आघोरस्य कुलानान्तु अष्टौ वै शक्तयः क्रमात् || ७९ || हृदये कण्ठदेशे तु अंसयोरुदरेऽपि च | नाभौ पीठोरसोश्चैव अघोरस्य कला न्यसेत् || ८० || राजा रतिप्पाल्या कामा संयमनीयका | कृष्णा मोहा क्षुधा चिन्ता ग्रामणी भ्रामिणी तथा || ८१ || वामदेवकलानान्तु शक्त्यस्त्रयोदश | गुह्ये गुचे गुर्व्योश्च जान्वोर्जङ्घद्वयोरपि || ८२ || प्. ५१) प्रतिष्ठायां कटी पार्श्वे तु वामदेवकला न्यसेत् | सिद्धिं रिद्धि द्वितीलक्ष्मी मेधाकान्तिस्वधा प्रणाः || ८३ || यद्यमन्त्रकलाष्टौ तु दिव्यदेहे तु कल्पयेत् | पादयोरुद्वयोश्चैव हस्तयोरुभयोस्तथा || ८४ || बाह्यो नास्योश्शिरस्यैव ब्रह्मभागमधस्थितम् | मध्यमे विष्णुभागं स्यात्तदूर्ध्वे शिवभागकम् || ८५ || शिवभागं चतुर्थ्यंशं पदमेकांशमुच्यते | द्वितीयं जंभभागञ्च तृतीयं मरुमेव च || ८६ || चतुर्थं कटिदेशञ्च पञ्चमं घटिरूर्ध्वतः | ईशभागं नाभिदेशञ्च सप्तमं उदरं विदुः || ८७ || प्. ५२) अष्टमं हृदयं प्रोक्तं नवमं स्तनमध्यतः | दशमं कण्ठदेशं स्याच्चिबुकमेकादशं स्मृतम् || ८८ || अधरं उत्तरोष्ठञ्च त्रयोदश इति स्मृतम् | चतुर्दश ललाटं स्यात् पञ्चदशेन मूर्ध्निषु || ८९ || मूर्ध्नादिपदपर्यन्तमष्टत्तृंशत् कलां न्यसेत् | शशिनी ऊर्ध्वमूर्ध्निस्तु अङ्गदं पूर्वमूर्ध्निषु || ९० || इष्टां दक्षिणमूर्तिस्तु मरीची उत्तरमूर्ध्निषु | ज्वालिनीपञ्चमूर्ध्निस्तु प्रणवेनोर्ध्ववक्त्रकम् || ९१ || अव्यक्तकला इति ख्यातमूर्ध्ववक्त्रमिति स्मृतम् | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तु शेषतः || ९२ || प्. ५३) * * * शोधितांश्चैव सादराद्द्रव्यभूपकान् | शिपीकृतेन तोयेन प्रोक्षयेन्मूलविद्यया || ९३ || द्रव्यशुद्धिर्भवेदेवं लिंगं शुद्धमतः शृणु | कनिष्ठानामिकामध्ये पुष्पान् गृह्य विचक्षणः || ९४ || पूर्वसन्ध्यार्चितं पुष्पं अङ्गुष्ठेन विसर्जयेत् | विसर्जने तु तत्काले पुष्पं मूर्ध्नि निधापयेत् || ९५ || देहन्यासं क्रमं कृत्वा मन्त्रदेहं सदाशिवम् | अव्यक्तानान्तु लिंगानां व्यक्तमेतत् सुचिन्तयेत् || ९६ || तस्मिन् लिङ्गे वसेदेवो व्यक्ताव्यक्तस्सदाशिवः | सन्ध्याकाले तु सा व्यक्तमव्यक्तञ्चान्यकालके || ९७ || प्. ५४) आवाहनविसर्गाश्यां सुखो विकलोऽपि च | काष्ठेन मर्दयेत्काष्ठं प्रक्रियामतसंभवम् || ९८ || एष सर्वेश्वरो जातः सर्वव्यापि शिवात्कृतः | स्वभावतः शिवं प्रोक्तं काष्ठमध्ये तु चाग्निवत् || ९९ || उपकाष्ठन्तुमतीत्वा वा सदा शिवस्तु जायते | तावत्सदाशिवं प्रोक्तं शिवलीलाप्रवर्तके || १०० || ज्ञानयोगक्रियाचार्या सदाशिवन्तु बन्धयेत् | तच्छिवं पूजाकाले तु क्रिययोद्धृत्य अग्निवत् || १०१ || स्वाहामव्यक्तकं प्रोक्तं क्रियाकाले तु व्यक्तकम् | कुंमाकृति शिराकारमामलस्याकृतिं वपुः || १०२ || प्. ५५) कूश्माण्डफलवद्रूपं पनसेफलरूपकम् | तालफलवदाकारं आर्षं लिङ्गमुच्यते || १०३ || निंबञ्च नारिकेलञ्च बिल्वञ्चैव कपित्थकम् | चूतञ्च मातुलङ्गञ्च कदंबफलमल्लिका || १०४ || इत्येवं दक्षिणैर्युक्तं मानुषं लिङ्गमुच्यते | स्वयंभुवरुषदेवानां त्रिसूत्रमुकुलैर्विना || १०५ || यथेष्टाकृतिसंयुक्तं स्वाङ्गपिङ्गलमुच्यते | त्रिसूत्रमकुलैर्युक्तं मानुषं लिङ्गमुच्यते || १०६ || लिङ्गायामतिभागैकं गोविजातकला न्यसेत् | गौरीकलास्त्वहं वक्ष्ये गौरीबीजसमुद्भवम् || १०७ || प्. ५६) तारा ईशकला ज्ञेया विद्यावक्त्रकला न्यसेत् | हृदयेन च बाह्येऽत्र स्वशने नाभिदेशके || १०८ || ऊर्वोर्जानुद्वये चैव दत्तपङ्क्तिद्वयोरपि | वामदेवकलाह्येते देवि देहे तु विन्यसेत् || १०९ || अकारादि क्षकारान्तं विन्यसेत्तु विशेषतः | शिरोललाटनेत्रेषु कर्णयोश्च द्विगण्डयोः || ११० || आस्यामोष्ठद्वयोश्चैव दत्तपङ्क्तिद्वयोरपि | जिह्वायां तालुरन्धेषु स्वरान् षोडशकान् न्यसेत् || १११ || कवर्गं दक्षिणे हस्ते ववर्गं वामहस्तके | टवर्गं दक्षिणे पार्श्वे तवर्गं वामपादके || ११२ || प्. ५७) पफौ दक्षिणपार्श्वे च बभौ वै वामपार्श्वके | मकारं कण्ठदेशे तु क्रमेण परिपठ्यते || ११३ || यकारादि सकारान्तं रसास्त्रं मांसदेहकः | अस्थिमज्जा शुक्लञ्च क्रमेणैव तु विन्यसेत् || ११४ || हकारं हृदये न्यस्य लकारं वृषणे न्यसेत् | क्षकारं मेढ्रदेशे तु विन्यसेत्तु विशेषतः || ११५ || षडध्वतुङ्गं पूर्णं दिव्यदेहमिति स्मृतम् | पृथिव्यापस्तथा ज्योति वायुराकाशमेव च || ११६ || श्रोत्रत्वक् चक्षुजिह्वा घ्राणञ्चैव तु पञ्चमम् | वाक्पाणिपादपायुरुपस्थञ्चैव पञ्चमम् || ११७ || प्. ५८) मनोबुद्धिरहंकार प्रकृतिः पुरुषस्तथा | रागमाया च विद्यां च कलानियतिरेव च || ११८ || विग्रहेश्वरसकलं शुद्धविद्या तथैव च | शुद्धविद्याशुद्धमयं शुद्धं शिवमिति स्मृतम् || ११९ || षट्त्रिंशत्तत्वमित्युक्तं तत्वं घ्राणन्तु मुच्यते | कलाध्वात्त्वङ्गमित्युक्तं तत्वाप्राणेन मेव च || १२० || वर्णाध्वैव ध्वजोपेतं मन्त्राध्वा रुधिरान्विता | भुवनाध्वा रोमकूपं पदाध्वासरमेव च || १२१ || ततः सप्तदशं देवं शिवं प्रणवसंस्थितम् | पूर्ववत्सकलं कृत्य शिवमावाहयेत्ततः || १२२ || प्. ५९) कपालीशस्त्वजो बन्धज्ञ देह * नु मर्दनः | विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः || १२३ || इत्येषां पूर्वदिग्भागे दश देवाः प्रकीर्तिताः | अग्निरुद्रो हुताशश्च पिङ्गलश्च घातको हरः || १२४ || ज्वलन्त्यो दहनो बभ्रू भस्मान्तकक्षयान्तकः | इत्येषामग्निदिग्भागे दश देवाः प्रकीर्तिताः || १२५ || याम्योग्नीनो हरो घाता विधाता च तथेश्वरः | कर्ता भोक्ता विधाता चा धर्त्ता धर्मपतिस्तथा || १२६ || इत्येषां क्रमदिग्भागे दश देवाः प्रकीर्तिताः | नृतिर्मरणो हन्ता क्रूरदृष्टिर्भयानकः || १२७ || प्. ६०) ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् | इति नै-ऋतदिग्भागे दश देवाः प्रकीर्तिताः || १२८ || बालो पाशहस्तो महीहाश्चलीश्वेतो एव च |? जयभद्रश्च दिव्यहस्तो जीलाधिपदमेघनादकः || १२९ || सुगादश्च इति ख्यातो वारुणे दिशि देवताः | शीघ्रो लघुर्वायुवेगसूक्ष्मक्षणक्षयान्तकः || १३० || पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः | इति वायव्यदिग्भागे दश देवाः प्रकीर्तिताः || १३१ || निधीशो रूपवान्धन्यो सौम्यदेहे व्यवस्थितः | लक्ष्मीधरो रत्नधरः श्रीधरश्च प्रसादकः || १३२ || प्. ६१) इत्येषामुत्तरे देशे दश देवाः प्रकीर्तिताः | विद्याधिपश्च ईशश्च त्रिदशस्सर्व एव च || १३३ || ज्ञानभुक् वेदपारश्च सुरेशस्सर्व एव च | ज्येष्ठाश्च भूतपालश्च बलप्रियश्च एव च || १३४ || ऐशान्ये देशदिग्भागे दश देवाः प्रकीर्तिताः | ब्रह्मो वृषधरश्चैव अनन्तक्रोध एव च || १३५ || मरुताशनग्रासनश्च उदुंबरीश एव च | फणीन्द्रो वज्रदंष्ट्रीव इत्यधो दिशि देवताः || १३६ || शंभुर्विभुर्गणाध्यक्ष स्त्रियक्ष स्त्रिदिवेश्वरम् | संवाहनश्च विवानश्च नभो विस्मृति लोचनः || १३७ || प्. ६२) इत्यूर्ध्वदिक्षु देवाश्च दश देवाः प्रकीर्तिताः | तदुपरि वीरभद्रं भद्रकालीद्वयं न्यसेत् || १३८ || ब्रह्माविष्णुरुद्रश्च ईश्वरश्चक्रमान् न्यसेत् | इति सप्तशतं देवमावाह्यन्तु विचक्षणः || १३९ || निवृत्तिकला पृथिवी तत्व क्षकारे वर्णमुच्यते | हृदयं सर्वमन्त्रेण कालाग्नि क्रूश्माकौ भागकः || १४० || ब्रह्माविष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः | ब्रह्माण्डमध्ये भुवनानि रुद्रः प्रकीर्तिताः || १४१ || निवृत्तिकलया चैव पृथिवीतत्वमुच्यते | क्षकारे वर्ण इत्येषां भुवनमष्टाधिकशतम् || १४२ || प्. ६३) नमो नमश्शिवाय | ओं सर्वदस्सर्वशिव | सूक्ष्म सूक्ष्म | शब्द | शब्दज्ञान ज्ञान | पिङ्ग पिङ्ग पतङ्ग पतङ्ग | क्रूर क्रूर | साक्षि साक्षि | पूर्वस्थित | पूर्वस्थितः | अर्चित अर्चित | ब्रह्मविष्णुरुद्रपर | सर्वसान्निध्यकर | सर्वभूत सुखप्रद | भवोद्भव | भव भव | शर्व शर्व | प्रथम प्रथम | मुञ्च मुञ्च | योगाधिपतये महातेजाय सद्भावेश्वराय महादेव | इति | सव्योमव्यापि महामन्त्रमष्टाविंशत्पदं भवेत् | निवृत्तिकालाय व्याप्तं षड्विधाध्वमिति स्मृतम् || १४३ || प्रतिष्ठा कलया वक्ष्ये आपाग्निर्वायु व्योमकम् | प्. ६४) गन्तोरसन्तरूपञ्च शब्दतन्मात्रपञ्चकम् || १४४ || वाक्पाणि पायूरुपस्थं कर्मेन्द्रियं मतम् | श्रोत्रत्त्वक् चक्षुजिह्वा च घ्राणबुद्धीन्द्रियं मतम् || १४५ || मनोबुद्धिरहङ्कारमन्तः करणत्रयस्मृतम् | गुणा प्रकृतिरित्युक्ता चतुर्विंशत्त्वमेव च || १४६ || गकारादिहकारान्तं वर्णत्रयोविंशति | शिरस्य वाममन्त्रेण मन्त्रद्वयमिहोच्यते || १४७ || षट्पञ्चाशद्भुवनानां यथा क्रममिति स्मृतम् | अमरेशः प्रभासेनो नौमीशः पुष्करः स्मृतः || १४८ || अत सिद्धि मुण्डी च हारभ्रतिलकुलीश्वरः | प्. ६५) इत्यष्टकतत्वानां पदं तत्त्वमनुस्मृतम् || १४९ || मध्यमेके महाकालो केदारे भैरवेश्वरः | इत्यष्टकसंज्ञायां अग्नितत्वे प्रकीर्तिताः || १५० || गया चैव कुरुक्षेत्रं नागलोचनखस्तथा | विमलेशोष्टभासञ्च महेन्द्रो हि महेश्वरम् || १५१ || इत्येवमष्टभुवनमाकाशतत्वकीर्तिताः | चक्रद्वण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः || १५२ || कालाञ्जनश्शङ्कुकर्ण समूलेश्वर इति स्मृताः | इत्येवमष्टभुवनं अंकारे तु स्थितं भवेत् || १५३ || पैशाचं राक्षसं याक्षं गान्धर्वमैन्द्रमेव च | प्. ६६) सौमं शैलब्रह्मणञ्च इत्यष्टौ बुद्धिके स्थितम् || १५४ || अकृतञ्च कृतञ्चैव भैरवं ब्राह्मवैष्णवम् | कौमार औमकञ्चैव श्रीकण्ठमिति कथ्यते || १५५ || इति योगाष्टकर्तव्यं गुणप्रकृतिरुच्यते | एवं नव सप्तकानि | एकविंशति पदं मध्ये महेश्वरपराक्रमान् || १५६ || शषर्व | शिवनिधनो भव | निधने | अनिधन | ओंभुवः धू धू धू | ना ना ना ना | अनादे | अभस्म | अधूम | अग्निरूप | अरूप अनग्निज्योति | ज्योति तेज | तेजस्तेज प्रथम प्रथम | अरूपिन् महेश्वर | पदादारभ्यरूपी | प्. ६७) अनन्तादि एवं पञ्चविधमध्वानं षष्ठया प्रतिष्ठा कलाव्याप्तं सञ्चिन्तयेदिति षड्विधाध्वा व्याप्तिविद्या कलाया पुनः पुरुषरागविद्या कालाग्नि नियति मायानि तत्वानि सप्त | वर्णा घकारान्ता मन्त्रा अघोरशिवाः | भुवनानि सप्तविंशतिः | वामभीमतूग्रभुव इश एर वीर इति पुरुषं प्रचण्ड उमापतिः | अजः अनन्तश्चैकवीरक इति भुवनपञ्चकम् | रागक्रोधः चण्डेशविद्यायां ज्योतिसंवर्तकालायां सूकारञ्चान्तकोन्ययतम् | एकवीरशिखाकाले महातेजं वा महादेवं भुवश्चोद्भव एकपिङ्गलः एकेक्षण ईशानः | प्. ६८) अङ्गुष्ठमात्र इति मण्डलेश्वराष्टकमाया एवं भुवनानि देवतस्नानानि पदानि विंशतिः | व्यापिन्यव्यापिन् | व्योमिन्यव्योमिन् | अचेतनचेतनापरमेश्वर परायज्योतीरूपाय सर्वयोगाधिकृताय अनिधनाय गोप्त्रे गुह्यातिगुह्याय ओन्नमो नमः | सद्योजातमूर्तये व्योमदेवगुह्याय अघोरहृदयाय तत्पुरुषाय वक्त्राय ईशानमूर्ध्नाय सर्वप्रभवेऽधिपाय ओन्नमः | ध्यानाहाराय इति व्यापिनासिध्यानाहारान्तानि एवं एवं पञ्चविधं अध्वा विद्याकलाव्याप्तं शान्तिकलायां पुनः | शुद्धविद्याचैश्वर सदाशिवशिवाख्ये तत्वत्रयम् | प्. ६९) वर्णास्त्रयो खगकां मन्त्रात्पुरुषकवच प्रभुवनान्यष्टादश | नामा ज्येष्ठा रुअद्री कराली कलविकरणी | बलप्रमथिनी सर्वभूतदमनी मनोन्मनीति | भुवननवकं शुद्धविद्याया | अनन्तेशश्च सूक्ष्मश्च शिवोत्तमश्च एकनेत्रकः | एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिनः || १५७ || भुवनाष्टकमीश्वरतत्वे | सदाख्यं सदाशिवेति भुवनानि पदान्येकादश | नित्ययोगिने योगपीठसंस्थाय ध्रुवाय शिवाय सर्वव्यापिने व्योमाय रूपाय व्योमव्यापिने मित्ययोगिने आदिव्योमव्यापिने एतानि पदानि | प्. ७०) एवं पञ्चविधम् | षड्विधानमषड्विधात्य शान्तिकला व्याप्तसञ्चिन्तयेदिति सड्विधाध्वव्याप्तिः | शान्त्यतीतकलायां पुनश्शिवतत्त्वम् | वर्णाष्षोडश स्वरा विसर्गाद्या अकारान्ताः | शिवेशानामस्त्रम् मन्त्रं भुवनानि पञ्च दश | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च | शान्त्यतीते बिन्दुकला भुवनानि | ईलिका दीपा रोचिका मोचिका ऊर्ध्वगामी | नीतिनादकला भुवनानि विपिनी व्योमरूपाऽनन्त अनाथा अनाश्रितेति शक्तिकलाभुवनानि व्योमव्यापि मन्त्राद्योत कृतपदमित्येवमध्वपञ्चकम् प्. ७१) शान्तिकलाव्याप्ति भावयेदिति षड्विधाऽध्व व्याप्तिः | एवमेव मातृषडध्वव्याप्ति व्याख्याता | तत्र कलापञ्चतत्वानि षट्त्रिंशत् | वार्णाः पञ्चाशत् मन्त्र एकादश | भुवनानि चतुर्विंशत्यधिकशतद्वयम् | पदान्येकाशीतिः | एवं षडध्वा ज्ञानसंपन्नो मुच्यते | पाशबन्धनान्मोचयति | पदाध्वो कुसिरामांस शुक्लं मज्जास्थितत्वगः | सदाशिवषडध्वात्मा तस्य प्राणशिव स्मृतः || १५८ || हृदयाद्यङ्गसंपूर्णो ध्याने सकलरूपधृक् | कुन्देन्दुस्फटिकाभासां जटामकुटमण्डितम् || १५९ || पञ्चमूर्ध्ना पञ्चवक्त्रं नेत्रपञ्चदशैर्युतम् | प्. ७२) सर्वाभरणसंयुक्तं दशदोर्भिस्समन्वितम् || १६० || शूलं परशुखड्गञ्च वज्रञ्चाभयदक्षिणे | पाशं नागाङ्कुशञ्चैव घण्टां वह्निञ्च वामके || १६१ || सद्यन्तु क्षीरसदृशं वामं रक्तनिभं भवेत् | अघोरमञ्जनप्रख्यं पुरुषं कुङ्कुमप्रभम् || १६२ || शुद्धस्फटिकवर्णाभमीशानं मुखमुच्यते | ईशानं कनकं वर्णं वामं मुखमिति स्मृतम् || १६३ || दिव्यांबरधरं देवं दिव्यपुष्पैरलङ्कृतम् | दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम् || १६४ || स्थितमासीन शयन लिङ्गाकृतिवशान्नयेत् | प्. ७३) वर्तमानस्थितं लिङ्गमासीनन्तु शिवाधिकम् || १६५ || त्रैराशिकं शयनं ज्ञेयं समखण्डत्त्रिकं महान् | चतुर्विंशदङ्कृतं * * तुं गमयो ब्रह्मभागं ईशं पुनर्मध्यमे | विष्णुभागं वत्सरञ्च नवांशं शिवांशं भवेद्व्यर्धमाम् | समभागं ब्रह्मविष्णुं शिवभागाधिकं तथा || १६६ || शिवाधिकमिति प्रोक्तं समखण्डसमं भवेत् | एकत्त्रिंशति भागेन दशैव ब्राह्मवैष्णवम् || १६७ || रुद्रारुद्रमिति प्रोक्तं त्रिराशिकमिति स्मृतम् | स्वायंभुवादि लिङ्गानां समाकारं स्थितं भवेत् || १६८ || प्. ७४) स्थूलमूलं कुशाग्रन्तु आसीनन्तु प्रवक्ष्यते | कुशमूलन्तु स्थूलाग्रं शयनन्तूपपद्यते || १६९ || त्रिकर्महान्मध्यस्थूललिङ्गानामाकृतिः स्मृताः | पीठे शक्तिं समावाह्य तत्र रू * * पठ्यते || १७० || उपानं पादमेकं स्यात् जगतीजङ्गमुच्यते | कुमुदं कुक्षिरित्याहुः बाहुभ्यां कंपमेव च || १७१ || कर्णं कर्णमिति प्रोक्तं अधरेऽधर पट्टिका | महापट्टिमुखं ज्ञेयकृतवारीशिरस्तथा || १७२ || मन्त्रोद्धारे स्मरेन्मन्त्री द्विनेत्रा द्विभुजान्विता | रक्तवर्णं स्त्रिभङ्गाङ्गी चित्रवर्णेन वेष्टिताम् || १७३ || प्. ७५) सर्वाभरणसंपूर्णां पीनोरुजघनस्तनम् | नूपुरा पादजाला च उदरबन्धनसंयुतम् || १७४ || सुमुखाङ्गश्च पुष्पाभ्यां कोशालक विभूषिताम् | पद्मोत्पलधरां देवीं वरदाभयपाणिनीम् || १७५ || एवं ध्यात्वा सुपीठे तु गौरी देहं विचिन्तयेत् | षड्विंशति कलाह्येते गौरी देहे तु विन्यसेत् || १७६ || अकारादि क्षकारान्तं पूर्ववद्विन्यसेत्क्रमात् | वृत्तपीठे स्थितो योगी गौरी आसनं भद्रपीठके || १७७ || शयनं भद्रपीठे स्यादन्येषु च वरावरा | एवं ध्यात्वा तु मन्त्रज्ञः सर्वपीठविशेषतः || १७८ || प्. ७६) अग्नौ निर्-ऋतौ वाऽपि स्थित्वा देवं प्रपूजयेत् | हस्ताधिकप्रमाणे तु स्थित्वा देवं प्रपूजयेत् || १७९ || हस्ताधीनन्तु लिङ्गानां सुखाधीनं सुपूजयेत् | आधारस्वमधिष्ठानं म पूर्वं मणार्हकम् || १८० || विशुद्धमाज्ञा स्थितं स्थानमित्युक्ते आधारशक्तयः | आधारं गुदमित्युक्तस्वाधिष्ठानन्तु लिङ्गकम् || १८१ || अर्णपूर्णं व्यन्नाभिमध्यस्तं हृदये अणर्हतं तथा | पुष्पेषु गन्धवत् ज्ञेयं तिलेषु तैलवत्तथा || १८२ || कर्णदेशे विशुद्धन्तु आज्ञामद्विति कीर्तितम् | प्. ७७) आधारमासनं प्रोक्तमाधेयं परमाश्शिवम् || १८३ || नादलिङ्गमिति प्रोक्तं बिन्दुपीठमिति स्मृतम् | न शिवेन विना शक्तिः न हितश्शिवः || १८४ || देहे च प्राणवच्छक्ति तस्माद्युक्तं प्रपूजयेत् | शिवशक्तिस्तु संयोगात् अन्यरूपस्य चोद्भवम् || १८५ || आधारशक्तिर्यथा रूपं तद्रूपञ्च मनोन्मनी | पुष्पेषु गन्धवत् ज्ञेयं तिलेषु तैलवत्तथा || १८६ || मनोन्मनाशिवसंयोगात् सदाशिवगौर्युद्भवम् | सदाशिवगौरिसंयोगात् महेशो महानिचोद्भवम् || १८७ || महेशो नाममित्याहुः नृत्तमूर्तिरिति स्मृतम् | प्. ७८) महेशो भवानिसंयोगादुमारुद्रसमुद्भवम् || १८८ || विष्णुश्री भूमिसंयोगात् ब्रह्माङ्गौ शिवगायत्रिकम् | ब्रह्मासरस्वति संयोगात् दिती अदिति संभवम् || १८९ || ब्रह्मासावित्रिसंयोगात् दिति वेधा समुद्भवम् | अदिती अजसंयोगात् आदित्यादि समुद्भवम् || १९० || द्वादशादित्यसंयोगात् एकादश गुणान्विता | त्रयस्त्रिंशद्देवता ह्येते स्वर्गलोकाधिवासिनः || १९१ || इति धाता श्रुसंयोगाद्दान वा रक्षि चोद्भवम् | आदित्यसंसृता काले उषादेवि समुद्भवम् || १९२ || आदित्या उषसंयोगान्मनुब्रह्मा समुद्भवम् | प्. ७९) दानवा रक्षसंयोगाद्राक्षसो यक्षिसंभवम् || १९३ || मनुब्रह्मादिसंयोगात् स्रष्टा पाशस्तु जन्यते | स्रष्टा पाशस्य संयोगात् पक्षिजातस्तु संस्मृता || १९४ || राक्षसो यक्षिसंयोगात् सर्पा अमृतसंस्मृताः | सर्पो अमृतिसंयोगात् सरीसृपवृक्षसंभवम् || १९५ || सरीसृपवृक्षसंयोगात् वृक्षाणां सुस्मृता स्मृतम् | एवन्नरो मृगञ्चैव पशुपक्षिसरीसृपम् || १९६ || वृक्षाणामेव सर्वेषां यथाक्रमेण संस्मृताः | महादव्यक्तसंज्ञातं व्यक्तादाकाशसंस्मृता || १९७ || आकाशाद्वायुसंज्ञातं वायोरग्निश्च संस्मृता | प्. ८०) अग्नेरापसमुद्भूतं आपः पृथिवी संस्मृता || १९८ || पृथिव्यप्तेजोवायुराकाशसमवायं प्रणतो स्थितम् | तस्य प्राणस्य विहितं घटाकाशमुदीरितम् || १९९ || घटञ्चेदस्य काले तु आकाशवत्प्रणतोस्थितम् | सर्वप्राणिस्तु जननं सर्वप्राणिलयं तथा || २०० || आकाशवल्लिङ्गमित्याहुः वायुना लिङ्गमुच्यते | लिङ्गात् प्रापणोदर्शं गशब्दात् गमनं स्मृतम् || २०१ || सर्वप्राणिस्तु गमनं सर्वप्राणिलयं भवेत् | लिङ्गानामिति प्रोक्तं तल्लिङ्गं पूजयेत्सदा || २०२ || गर्भाकारगृहैर्युक्तं पूजयेत्तु सदाशिवम् | प्. ८१) तत्वानामादितत्त्वन्तु शिवतत्त्वमिति स्मृतम् || २०३ || द्वितीयं शक्तितत्वन्तु तृतीयं सदाशिवं स्मृतम् | चतुर्थमीशतत्त्वन्तु शुद्धविद्यादिपञ्चमम् || २०४ || शुद्धतत्त्वमिदं प्रोक्तं शिवतत्वादि पञ्चकम् | इच्छाज्ञानक्रियाशक्तिः शिवलीला इति स्मृतम् || २०५ || क्रियाख्य शक्त्योनापकर्षोत्कषयोरहपञ्च तत् | सदाशिवमिति ख्यातं इच्छाशक्त्योस्तु जन्यते || २०६ || कल्पज्ञानक्रियाधिक्यमीशतत्वमिति स्मृतम् | अल्पज्ञानं क्रियाहीनं विद्यातत्वमिति स्मृतम् || २०७ || विद्यारुद्रमिति ख्याता शुद्धतत्वन्तु पञ्चधा | प्. ८२) एयाद्यवनिपर्यन्तं तत्वलक्षणमुच्यते || २०८ || मायायां कालसंभूमेः मायायां नियतं स्मृतम् | मायायाः कालसंभूतं शुद्धविद्यामिति स्मृतम् || २०९ || तत्कालवियासंभूति विद्याद्रागविनिर्गतम् | रागादव्यक्तजननं व्यक्तात् गुणसंस्मतम् || २१० || तद्गुणं त्रिविधं प्रोक्तं सात्विकादि महागुणम् | सात्विकं राजसञ्चैव तामसं क्रमता स्मृतम् || २११ || गुणेन बुद्धिसंज्ञातः बुद्ध्याद्धंकारसंस्मृता | चेतसोऽहङ्कारजं न्यस्तं * इत्यभिधीयते || २१२ || ततो वैरिकामहङ्कारात् बुद्धीन्द्रियं प्रसूयते | प्. ८३) भूतादिकमहङ्कारा तन्मात्रपञ्चसंभवम् || २१३ || मन इन्द्रियमात्रान्त महङ्कारेषु जन्यते | यथा जातमिदं सर्वं तथा लयं प्रकीर्तितम् || २१४ || मायाद्यवनिपर्यन्तं तत्तल्लक्षणमीरितम् | सर्वेषामपि तत्त्वानां शिवजन्मं ततो लयम् || २१५ || नादबिन्दुकलालातैः सदाशिवमिहाश्रिता | तदेव वेतनावर्ग सदाशिवसमायुतम् || २१६ || तदेव वर्गमित्युक्तमचेतनमिति स्मृतम् | अनन्तेशादि विद्येशानीशतत्वविनिर्गतम् || २१७ || मन्त्रमर्थमिदं सर्वं विद्यातत्वे तु संभवम् | प्. ८४) एवमेव प्रकारेण तत्वानामुद्भवं स्मृतम् || २१८ || एवमेव गृहीतान्तु शिवलिङ्गार्चनं कुरु | अज्ञानिस्पर्शने लिङ्गं सर्वदोषमिति स्मृतम् || २१९ || तस्मात्सर्वप्रयत्नेन ज्ञानपूजां समाचरेत् | उदितो तेन संस्पृष्टं सर्वसंपत्सुखावहन् || २२० || अस्तमयोदित स्पृष्टं यथा लाभं प्रकीर्तितम् | अस्तमयास्तमनं स्पृष्टं सर्वदोषमिति स्मृतम् || २२१ || उदितास्तमयामन्त्र शिवमन्त्रेण पूजयेत् | अध्यात्मशिवसंस्थानि अध्वामाश्शिवपूजयेत् || २२२ || भगमध्ये स्थितं लिङ्गं लिङ्गमध्ये स्थितं भगम् | प्. ८५) सदाशिवासनं लिङ्गं लिङ्गमासनपिण्डिका || २२३ || पिण्डिकासनभूमिस्थं देशिकध्यानमासनम् | एवं सन्ध्या तु मनसा पराशक्तिस्तु जन्यसे || २२४ || अंबी चैव गुणांबी च गङ्गा गौरी उमांबिका | ईशानस्यांबिका ज्ञेया तत्पुरुषस्य गणांबिका || २२५ || गङ्गां वाममुखा शक्तिः गौरीशक्तिस्तु शक्तिभिः | अघोरे ऊर्मिका ज्ञेया शक्तिरित्यभिधीयते || २२६ || चन्द्रार्कनाशेयजनं सर्वसंपत्सुखावहम् | संक्रान्ते विषुवे पूजा न कर्तव्या कदाचन || २२७ || अर्केन्दुवारिता पूजा निष्फलन्त्विति कीर्तितम् | प्. ८६) निर्माल्यन्तु विसर्जाथ लिङ्गपीठञ्च वारिणा || २२८ || शोधितान् क्षालितांश्चैव पुनः पुष्पन्निधापयेत् | लिङ्गशुद्धिरिदं प्रोक्तं मन्त्रशुद्धिमतः शृणु || २२९ || पञ्चब्रह्मशिवाङ्गञ्च क्षुरिकापाशुपदास्त्रकम् | व्योमव्यापि शिवाख्यञ्च शक्तिमन्त्रञ्च पाणिकम् || २३० || गायत्रीञ्चैव सर्वैषां श्रीसूक्तञ्च तथैव च | विद्येश्वरगणेशञ्च दिक्पालकदशायुधम् || २३१ || दशाक्षरं गूढाक्षरं परिवारद्वारपालकम् | श्रीसूक्तं पवमानञ्च पुरुषसूक्तं त्र्यंबकम् || २३२ || ब्रह्मसूक्तं विष्णुसूक्तं गौरीगायत्रीमन्त्रकम् | प्. ८७) अरिणन्त्वरिणं रुद्रञ्च ज्येष्ठासोमं तथैव च || २३३ || विकर्णं जातवेदञ्च देवस्यत्वेति मन्त्रतः | दुर्गासूक्तमुमासूक्तं परिवार द्वारपालकम् || २३४ || गाणपत्यं स्कन्दमन्त्रं सूर्यमन्त्रं सरस्वती | अन्यत्सर्वेषु देवानां पूजासमुद्धरेत् || २३५ || आलयान्तर्गतं लिङ्गं लिङ्गस्यान्तर्गतं शिवम् | कुंभमध्ये तु संस्थाप्य किं लिङ्गे न्यासयेच्छिवम् || २३६ || यथा कुण्डतलञ्चाग्नि तथा विहरिणा ज्वला | प्राणप्रकृतिसंबन्धं लिङ्गं जङ्गमथान्यसेत् || २३७ || यत्र पूजाहतो मन्त्र तन्त्रमन्त्रं समुच्चरेत् | प्. ८८) उमास्कन्दादिदेवानां तस्य लीलान्तु भावयेत् || २३८ || स्थितञ्च नृत्तमूर्तिञ्च शयनं किं समर्चनम् | आचार्यं मनसा ध्यात्वा आसनं संप्रकल्पयेत् || २३९ || तस्य रूपेण संपूज्य तत्र मन्त्रं समुच्चरेत् | ओङ्कारादि नमोन्ताश्च मन्त्रान् समुद्धरेत् || २४० || पञ्चशुद्धिक्रमं ज्ञात्वा पश्चादेव समुच्चरेत् | मुखमण्डलद्वारेषु द्वारपालान् समर्चयेत् || २४१ || कृताञ्जलिपुटस्तिष्ठन् तत्स्थले नन्दिकेश्वरम् | दक्षिणे तुं महाकालो पूर्वद्वारे प्रकीर्तिताः || २४२ || नन्दिसूचिमुखो हस्तकृताञ्जलिश्च दक्षिणम् | प्. ८९) दण्डधारी नागधारी वामहस्तप्रकीर्तितम् || २४३ || हलपद्माञ्जली चैव दक्षिणे कालहस्तकम् | दण्डाधराञ्च मुद्राञ्च वामहस्तञ्च कालकम् || २४४ || वामपादञ्च दण्डाध्वकुञ्चितं दक्षिणस्थितम् | किञ्चित्त्रिभङ्गिगङ्गायां वामपादस्तु कुञ्जितम् || २४५ || करण्डमकुटोपेतं करालं वक्त्रदंष्ट्रकम् | त्रिणेत्रं चतुर्भुजञ्चैव रुद्रभावसमन्वितम् || २४६ || कटिसूत्रोदरबन्धञ्च यज्ञोपवीति नागभाक् | कुण्डलक्षणसंयुक्तं पद्मपीठोपरि स्थितम् || २४७ || गन्धपुष्पादिभिः पूज्य स्वनामेनैव देशिकः | प्. ९०) नन्दीशं रक्तवर्णं स्यात् कलं वैष्णववर्णकम् || २४८ || सर्वाभरणसंयुक्तं उग्ररूपन्तु ध्याययेत् | अथवाऽन्यप्रकारेण हस्तरूपञ्च वक्ष्यते || २४९ || नन्दीशंश्यामवर्णञ्च द्विहस्तं परसंयुतम् | परशुं वामहस्तन्तु दक्षिणे वेणुदण्डकम् || २५० || नन्दीशः कुङ्कुमाभस्तु परशुं वेणुदण्डयुक् | द्विनेत्रौ त्रिभुजौ चैव नन्दिकालवधो पुनः || २५१ || पूर्वद्वारे स्थितो यत्र नन्दिकालौ महात्मनौ | अनन्तं पशुपतिञ्चैव दक्षिणद्वारपालकौ || २५२ || अनन्तो रक्तवर्णस्तु वज्रायुधसमन्वितम् | प्. ९१) पशुपतिं नीलवर्णस्तुं शक्तिहस्तोग्रलोचनाः || २५३ || पश्चिमद्वारपालौ तु सिण्धिमुण्डिं तथैव च | सिन्धी धुरे वा पाहं खगहस्तोग्रदंष्ट्रकम् || २५४ || मुन्दि कुन्देन्दुवर्णन्तु भिन्धि सालयुतस्तथा | विजयञ्चैव भृङ्गीशा उत्तरद्वारपालकौ || २५५ || विजयश्चेन्द्रगोभागं शूलहस्ते भयङ्करः | भृङ्गीशो भृङ्गवर्णस्तु क्षुरिकायुधहस्तयुक् || २५६ || त्रिभङ्गी कुञ्चिकं पादमुग्रदंष्ट्रसमन्वितम् | प्रासादमण्डपद्वारे द्वारे चैव प्रकीर्तिताम् || २५७ || गोपुरद्वारदेशेषु भूताकाराणि कारयेत् | प्. ९२) संवृत्तञ्च श्रियावृत्तं कुण्डोदरं बृहोदरम् || २५८ || सिंहमुखं गजमुखञ्चैव एकपादस्त्वधोमुखम् | श्वेतश्यामनिभं सर्वं खड्गहस्तसमन्वितम् || २५९ || केचिच्छूलायुधञ्चैव द्वारे द्वारेषु भूतकाः | प्रकारगोपुराह्येव चतुर्द्वारेषु कल्पितम् || २६० || शङ्खवर्णं कालकष्टं मण्टपद्वारकल्पितम् | अभयं शूलहस्तञ्च द्विनेत्रं श्यामवर्णकम् || २६१ || वानरमुखमश्वमुखमुखनृत्तमण्टपभूतकाः | प्राकारगोपुराह्येव चतुर्द्वारेषु कल्पितम् || २६२ || बहिर्गोपुरद्वाराणि भूतमेवं प्रचक्ष्महे प्. ९३) ऊर्ध्वपादं विरूपाक्षं कलङ्कं वक्रपादकम् || २६३ || वामनं गलकञ्चैव दण्डपालमहाबलम् | महागोपुरद्वारेण वेणुदण्डधरा स्मृताः || २६४ || सर्वेषां द्वारपालेन तीर्वादग्ने प्रकल्पयेत् | श्यामं पीतनिभञ्चैव शूलायुधञ्च ताशयुक् || २६५ || द्विनेत्राद्विविधाश्चैव द्वारे द्वारे च भूतकाः | पश्चिमानालयद्वारे सुलभं सुमुखं न्यसेत् || २६६ || श्वेतं पीतनिभञ्चैव वेणुदण्डधरान्विता | सर्वेषां द्वारपाले तु पुंस्त्वन्तु प्रकल्पयेत् || २६७ || स्त्रीद्वारे स्त्रीत्वमेव स्याद्यथा क्रमेण प्रकल्पयेत् | प्. ९४) द्वारस्थान् प्रथमं यष्ट्वा द्वारपाला द्वितीयकम् || २६८ || वृषभादित्तृतीयन्तु इन्द्रादिस्तु चतुर्थकम् | पञ्चमं भद्रपीठन्तु इत्येवं बहिरावृतम् || २६९ || यत्र यत्र मुखद्वारं कवाटाभ्यान्तु देशिकः | तत्र तत्र विशेषेण सप्तदेवान् समर्पयेत् || २७० || ऊर्ध्वाधस्कन्दपट्ट्याञ्च विघ्नेशं पूजयेद्बुधः | गङ्गाञ्च यमुनाञ्चैव श्रीदेवीञ्च सरस्वतीम् || २७१ || दक्षिणे दक्षिणे चैव यथा क्रमं यजेद्बुधः | भुवङ्गञ्च पतङ्गञ्च योगद्वयमिहोच्यते || २७२ || विमलञ्च सुबाहुञ्च पूजयेत्तु कवाटयोः | प्. ९५) विमलं दक्षिणे पूज्य सुबाहुं वामके यजेत् || २७३ || स्वनामात्रेण मन्त्रेण पूजयेत्तु विशेषतः | वृषादिबलिपीठान्तं परिवारं प्रपूजयेत् || २७४ || पूर्वे तु वृषभं पूज्य तीक्ष्ण शृङ्गाय मन्त्रतः | आग्नेययां दुर्गं संपूज्य कात्यायनीति मन्त्रतः || २७५ || दक्षिणे सप्तमात्रश्च वर्णवाहनछिन्नधृक् | स्वनामाद्यक्षरेणैव पूजयेत्तु विशेषतः || २७६ || पूर्वे तु वीरभद्रञ्च विघ्नेशं पश्चिमे न्यसेत् | वीरभद्रञ्च विघ्नेशं सप्तमात्रञ्च पूजयेत् || २७७ || नै-ऋत्यां गणेशं संपूज्य गणानां त्वेति मन्त्रतः | प्. ९६) वारुणे सुकुमारन्तु सुब्रह्मण्याय मन्त्रतः || २७८ || वायव्ये ज्येष्ठ संपूज्य काकध्वजाय मन्त्रतः | सौम्ये विष्णुं समभ्यर्च्य इदं विष्ण्वीति मन्त्रतः || २७९ || ऐशान्ये चण्डमभ्यर्च्य चण्डेश्वराय मन्त्रतः | इन्द्रादिलोकपालांश्च वर्णवाहनचिह्नधृक् || २८० || स्वनामाद्यक्षरेणैव पूर्वादीनि प्रदक्षिणम् | अस्त्रं संपूजयेत्तत्र बालयौवनदेवतान् || २८१ || आमोदञ्च प्रमोदञ्च प्राङ्मुखोदङ्मुखस्तथा | अविघ्नं विघ्नकर्तारौ बलिपीठे तु पूजयेत् || २८२ || भूतपीठस्य चाग्रे तु चन्द्रपीठन्तु कल्पयेत् | प्. ९७) आग्नेयादीशपर्यन्तं स्वस्वस्थाने तु पूजयेत् || २८३ || अतः मण्डलबाह्ये वा भित्यंभ्यन्तरकेऽपि वा | इन्द्रादिलोकपालांश्च पूजयेत्तु विशेषतः || २८४ || द्वारस्योत्तरपार्श्वे तु ब्रह्माणं पूजयेद्बुधः | पितामहोनयोर्मध्ये अस्वरो गण एव च || २८५ || वरुणवायव्ययोर्मध्ये पूजयेत्सप्तरोहिणी | याम्ये नै-ऋतयोर्मध्ये मुनीनां पूजयेद्बुधः || २८६ || वायव्यसोमयोर्मध्ये अष्टवस्त्रं च पूजयेत् | उत्तरैशानयोर्मध्ये रुद्रैकादश पूजयेत् || २८७ || द्विप्रकारेऽथवा यत्र त्रिप्रकारेऽथवा पुनः | प्. ९८) एकप्रकारे स्थानन्तु उक्तस्थाने तु पूजयेत् || २८८ || उक्तस्थाने तु संपूज्य बलिपीठं तथोच्यते | बलिपीठं ततः कृत्वा चतुर्दिक्षु विशेषतः || २८९ || बाह्याभ्यन्तरतः पीठं पूर्वद्वारे तु विन्यसेत् | अभ्यन्तरे मृतपीठं बाह्यपीठं पिशाचकम् || २९० || यक्षाणां दक्षिणे पीठं राक्षसानान्तु पश्चिमे | गन्धर्वाणान्तु सौम्ये तु मध्यमं पूर्वपश्चिमे || २९१ || अधमन्तूग्रमेवन्तु अधिपाभ्यन्तरे बुधः | स्वनामाद्येन मन्त्रेण ओङ्कारादि नमोस्तुते || २९२ || हुङ्कारेण तु मन्त्रेण महाघण्टान्तु ताडयेत् | प्. ९९) अस्त्रमन्त्रं समुच्चार्य पटं तत्राऽपि नीय च || २९३ || गर्भगेहं ततो प्राप्य गर्भद्वारे तु पूजयेत् | दक्षिणे ज्ञानशक्तिं स्यात् क्रियाशक्तिन्तु चोत्तरे || २९४ || द्विभुजश्यामवर्णन्तु स्वनामे नैव पूजयेत् | गर्भंगेहं ततः प्राप्य आसीनो वा स्थितस्तु वा || २९५ || शङ्खतोयस्य तन्मध्ये अमृतसुरभमुद्रया | शिवमन्त्रं न्यसेत्पश्चात् गन्धपुष्पकुशैर्युतम् || २९६ || शक्तिरेवासकं प्रोक्तमाधारागमयोगतः | चतुष्कोणं महासिंहमासनं पादनिर्मितम् || २९७ || चतुरश्रायतं प्रोक्तं स्नाने सिंहासनं भवेत् | प्. १००) योगासनं दशाग्रन्तु चित्रवर्णं सुशोभनम् || २९८ || दशाक्षरेण विन्यस्य पूर्वादीनि प्रदक्षिणम् | चतुष्पादं महावृत्तञ्चतुर्वेदन्तु धारकम् || २९९ || गुणत्रयेण सञ्च्छाद्य चतुर्दिक्षु क्षुलिका न्यसेत् | एवं योगासनं प्रोक्तं आवाहयेत्सदाशिवम् || ३०० || पूर्वोक्तलक्षणैर्युक्त सद्यमन्त्रेण वाहयेत् | आवाहनासनं योगं स्नानं विमलमासने || ३०१ || पादौ पाद्यं हृदा दद्यादाचमनन्तु दापयेत् | सिंहासनं ध्याययेन्मन्त्री अभिषेकं समाचरेत् || ३०२ || जलद्रोणीजलं ग्राह्य गण्डिकामभिषेचयेत् | प्. १०१) आढकं पूरितान् गन्धान् क्रमेण स्नापयेद्बुधः || ३०३ || आमलीफलचूर्णैश्च शिवास्त्रैरभिषेचयेत् | पुष्टचूर्णेन चालिप्य देहं मर्दयेत् पुनः || ३०४ || स्नापयेत्तु शनैश्चैव क्रमेणैव तु पूजयेत् | * * * गन्धपुष्पैश्च अपरेण तु अर्चयेत् || ३०५ || रजन्यालेपनं पश्चात् गन्धोदकैश्च पूजयेत् | त्रिभारमुत्तमं प्रोक्तं द्विभारं मध्यमं स्मृतम् || ३०६ || अष्टद्रोणो धर्मज्ञेयं पूजयेत्तु जलं क्रमात् | उशिरञ्चन्दनञ्चैव एवञ्चैव जयोपितम् || ३०७ || मन्त्रपुष्पञ्च मूर्ध्नेन मन्त्रं हविः प्रदापयेत् | प्. १०२) स्नानान्ते वस्त्रमावेष्ट्य आर्द्रवस्त्रं परित्यजेत् || ३०८ || वेदाध्ययनं चतुर्दिक्षु वाद्यगीतसमायुतम् | पञ्चब्रह्मशिवाङ्गैश्च त्र्यंबकं विष्णुसूक्तकम् || ३०९ || ब्रह्मसूक्तं गौरिसूक्तं श्रीरुद्रं पवमानकम् | षट्सूक्तवरुणञ्चैव त्वरितरुद्रमतः परम् || ३१० || स्वस्तिसूक्तञ्च सर्वेषां जपेत्संपूज्य कालके | दशाक्षरेण मन्त्रेण हृदयेनैव विन्यसेत् || ३११ || पश्चादनन्तासन कल्प्याचार्चयेत्तु विशेषतः | शक्तिबीजाङ्कुरनालं पश्चाद्धर्मादि विन्यसेत् || ३१२ || धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च ततः परम् | प्. १०३) वैराग्यं पीतभूतस्यादैश्वर्यं सितवारिणा || ३१३ || धर्मज्ञानञ्च वैराग्यमैश्वर्यं दिक्षु विन्यसेत् | गुलका चतुर्युगा चैव पुरुषा न नपुंसका || ३१४ || श्वेतं रक्तं तथा पीतं कृष्णं तेषान्तु वर्णकम् | ऐशान्ये तु शिरोयुग्मं पादयुग्मन्तु नै-ऋते || ३१५ || आग्नेययान्तु चतुष्पादं वायव्ये तु चतुष्पदा | तस्योपरि न्यसेदेता नष्टौ विद्येश्वरान् क्रमात् || ३१६ || अनन्तरद्येकनेत्रान्तं पूर्वदिक्षु च विन्यसेत् | ईशानं दिक्षु कोणेषु एकरुद्रादि विन्यसेत् || ३१७ || जपानि पञ्च कुञ्जानं बन्धूका शोककुङ्कुमम् | प्. १०४) पद्मनाभं जनाभञ्च विद्येशानान्तु वर्णकम् || ३१८ || त्रिणेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम् | वरदाभयहस्तञ्च कृष्णं परशुधारिणम् || ३१९ || एवं न्यस्त्वा विधानेनानन्तासनमिहोच्यते | अनन्तासनेर्च्चयेदेवं गन्धपुष्पादिभिः क्रमात् || ३२० || अर्चितं राजितं मूर्ध्वं नालं पद्मं स कर्णितम् | ऊर्ध्वे दलाष्टकोपेत केसरैश्च समायुतम् || ३२१ || ध्याने चैव समालोच्य शक्तिञ्चाष्टदलान्यसेत् | वामाज्येष्ठा च रौद्री च पश्चिमोत्तरदक्षिणे || ३२२ || कालिञ्चैन्द्रे तु विन्यस्य कलविकरणिन्तु पावके | प्. १०५) बलविकरणिन्तु नै-ऋत्यां बलप्रमथिनीञ्च वायवे || ३२३ || सर्वभूतदमनीन्तु मनोन्मनीमीशके दिशि | अतसीकुसमप्रख्या तु द्विनेत्री धारणी तथा || ३२४ || वामी ज्येष्ठी धूम्रवर्णी * * पाशमहाबला | बलविकरणी कृष्णा परशुहस्तत्त्रिणेत्रिणी || ३२५ || बलप्रमथिनी देवी रक्तवर्णयुगायुधा | सर्वभूतदमनी देवी गदाहस्ता सुगांबरी || ३२६ || शुद्धस्फटिकवर्णाभा मनोन्मनी चाक्षमालिनी | एवं ध्यात्वा विधानेन गन्धपुष्पादिनार्चयेत् || ३२७ || सद्यमङ्कुरसंयुक्तं वामदेवस्तु नालकम् | प्. १०६) अघोरं दलसङ्कीर्णं पुरुषं कर्णिका भवेत् || ३२८ || ईशानं चैव पात्राणि पद्मलक्षणमीरितम् | एवं पद्मासनं प्रोक्तं पश्चाद्वामेनाचमनं ददेत् || ३२९ || पवित्र हृदतन्त्रेण कवचेनोपवीतकम् | गन्धं दद्यास्तु वामेन पुष्पमीशानमन्त्रकम् || ३३० || मकुटं कुण्डलञ्चैव कटिसूत्रोदरबन्धनम् | शिखामन्त्रेण दातव्यं हारं हृदयमन्त्रतः || ३३१ || भूषणैर्हेमपुष्पञ्च दापद्धृदयेन तु | स्वर्णतोरण स्वर्णपत्रं पत्रच्छेदफलान्वितम् || ३३२ || कवचेन तु दातव्यं चित्रवस्त्रेण वेष्टयेत् | प्. १०७) दुकूलवर्गदेवाङ्गैः कंबलं पञ्चवर्णकम् || ३३३ || सर्वाभरणसंयुक्तं पुष्पमाल्यैश्च शोभितम् | धूपं दद्याद्यथा न्याययं क्रमेणैव विशेषतः || ३३४ || अगरुञ्चटवञ्चैव निर्यासं गुल्फलं तथा | कर्पूरं कस्तूरिकाञ्चैव मधुसर्पिगुलैर्युतम् || ३३५ || सर्वगन्धसमायुक्तं धूपं दद्याद्यथाक्रमम् | लिङ्गपीठं विशेषेण चन्दना लेपयेद्धृदा || ३३६ || कस्तूरीकर्पूरसंयुक्तं पेष्टयेल्लेपनं तथा | तदूर्ध्वे वस्त्रमाभरणं पश्चाद्धूपं प्रदापयेत् || ३३७ || प्रच्छन्नपटमावर्ज्य महाघण्टान्तु ताडयेत् | प्. १०८) धूपं पूर्वेण दातव्यं घण्टानादसमन्वितम् || ३३८ || हस्तेन घण्टां संगृह्य शिखरं हस्तमायुतम् | दक्षिणे धूपमादाय कपित्थं हस्तसंयुतम् || ३३९ || एवं धूपं प्रदातव्यमायमनन्तु दापयेत् | पुष्पं हस्तेन संगृह्य पदाकावक्रसंयुतम् || ३४० || ऊर्ध्वादौ पञ्चमुखं दत्वा पश्चाज्जलन्तु दापयेत् | दीपं दद्यात्तदन्ते तु घण्टानाद समन्वितम् || ३४१ || जलं दत्वा शङ्खपात्रेण हस्तद्वयसमन्वितम् | पुष्पाञ्जलिः ततः कृत्वा सुरभिमुद्रां प्रदर्शयेत् || ३४२ || लिङ्गमुद्रां ततः प्राप्य नीराजनन्तु दापयेत् | प्. १०९) मुखवासं समायुक्तं भस्मं दद्यात्पञ्चमूलसु || ३४३ || ललाटं हृदयं नाभिं पादञ्चैव यथाक्रमम् | बाहुद्वयौ च कर्णौ च वृषङ्गी वा समायुतम् || ३४४ || अथवाऽन्यप्रकारेण अष्टत्त्रिंशत्कलान्वितम् | भस्मं दत्वा विशेषेण तथा षोडश सन्धि वा || ३४५ || हस्तं प्रक्षाल्य तत्काले तथा गौरी सुपूजयेत् | सकलानन्ततः पश्चात् अनोक्तक्रमेण तु || ३४६ || लिङ्गानामर्चनान्ते तु पञ्चावरणपूजयेत् || ३४६ १/२ || ब्रह्माङ्गकानां प्रथमावरणं स्याद्विद्येश्वराणां च गणेश्वराणाम् | प्. ११०) दिक्पालकानाञ्च दशायुधानामीशस्यपञ्चावरणं क्रमेण || ३४७ || प * * वरणमिति प्रोक्तं तत्तद्देशेषु विन्यसेत् || ३४८ || शुक्लं रक्तं तथा पीतं कृष्णाभं क्षीरसन्निभम् | सद्यादि ब्रह्मवर्णा स्यात्त्रिणेत्रश्च चतुर्भुजा || ३४९ || टङ्कशूलसमायुक्तामभयं वरदान्वितम् | शान्तमीशानमित्युक्तं अन्ये रौद्रा इति स्मृताः || ३५० || हृदयश्शिरश्शिखाकवचमस्त्रनेत्रसंयुतम् | षडङ्गैश्च समभ्यर्च्य ब्रह्माङ्गं पूजयेत्ततः || ३५१ || जपनीलञ्चक्रबन्धुकाशोक कुङ्कुमम् | प्. १११) पद्मनाभं जनाभञ्च विद्येशानाञ्च वर्णकः || ३५२ || त्रिणेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम् | वरदाभयहस्तञ्च कृष्णापरशुधारिणम् || ३५३ || एवं लक्षणसंयुक्तं विद्येशानं सुपूजयेत् | शुद्धकाञ्चनवैडूर्यं पद्मरागसमप्रभम् || ३५४ || मरतकं बिसनीपत्रं शरदामृगसन्निभम् | रजतं रक्तवर्णञ्च गणेशानां तु वर्णकम् || ३५५ || पूर्वोक्तलक्षणैर्युक्त गणेशानान्तु पूजयेत् | श्वेतं रक्तं तथा पीतं कृष्णं शुक्लञ्च धूम्रकम् || ३५६ || रजतं शुक्लनिभञ्चैव अतिबालान्निभं भवेत् | प्. ११२) तत्तदायुधवर्णन्तु तत्तद्रूपसमायुतम् || ३५७ || जङ्गमं माहिषं सिंहमेगं कूर्ममृगं तथा | ऋषभवाहनमेतेषां तत्तद्वाहनमेव च || ३५८ || पञ्चावरणपूजानां गन्धपुष्पसमायुतम् | पञ्चावरणं संपूज्य पश्चाद्धूपं ददेद्बुधः || ३५९ || धूपदीपञ्च पुष्पञ्च तालवृन्तञ्च चामरम् | व्यञ्जरं दर्पणञ्चैव हृदयेन प्रदापयेत् || ३६० || सकलाधारणं पश्चान्मन्त्रगेयसमन्वितम् | सकलार्चनकाले तु पञ्चमावरणं विना || ३६१ || पश्चाद्विमलासनं कल्प्य भोजासनमेव तु | प्. ११३) वृत्तन्तु विमलं प्रोक्तं शुद्धस्फटिकसन्निभम् || ३६२ || गुणांबिका उत्तरेन्यस्य ऐन्द्रञ्चैव महातपम् | ततो गौरी च याद्यायां वारुणे तु प्रदापयेत् || ३६३ || पीतं रक्तं तथा श्वेतं कृष्णं तेषान्तु वर्णकम् | द्विनेत्राञ्चारुवदनां पीनोन्नतपयोधराम् || ३६४ || चतुर्दिक्षु च संस्थाप्य गन्धादीनां समर्चयेत् | विमलासनस्य चोर्ध्वे तु सदाशिवन्तु ध्यानयेत् || ३६५ || नैवेद्यविधिमार्गेण हविर्देवेच्छ दापयेत् | एवं मानसमाख्यातं तत्तत्काले तु कल्पयेत् || ३६६ || आवाहनासनं योगस्नाने सिंहासनं भवेत् | प्. ११४) अर्चने अनन्तपद्मं स्याद्विमलं भोजनासनम् || ३६७ || पञ्चासनमिति प्रोक्तं पञ्चभूतात्मिकास्त्विमे | तत्तत्काले प्रकल्प्याथ आसनन्तु यथाक्रमम् || ३६८ || सिंहासनञ्च चतुरं प्रोक्तं योगासनाग्रकम् | आत्मासनं पद्ममेवं स्यादनन्तं कूर्मवज्ञयम् || ३६९ || * * * विमलं प्रोक्तमासनाकारमेव च | श्वेतं रक्तं तथा पीतं कृष्णञ्चैव विचित्रितम् || ३७० || गुणत्रयेण सञ्च्छाद्यमाद्यपादस्तु केशवः | आसनानान्तु सर्वेषां पट्टमाच्छादयेत्ततः || ३७१ || अग्निसूर्यशशाङ्कैश्च क्रमेणैवाग्नि विन्यसेत् | प्. ११५) रजश्चैव तमश्चैव सत्वञ्चैवोपरि न्यसेत् || ३७२ || आत्मानञ्चान्तरात्मानं परमात्मानञ्च विन्यसेत् | गन्धादिभिस्समभ्यर्च्य हृदयेन स्वबीजयुक् || ३७३ || ध्यात्वा सदाशिवं रूपं पूर्वोक्तैर्लक्षणैर्युतम् | एवं ध्यात्वा च मनसा सदाशिवं पूजयेत्क्रमात् || ३७४ || पूर्वाह्ने ब्रह्मजज्ञानं मध्याह्ने तु त्र्यंबकम् | इदं विष्ण्विति मन्त्रेण सायंकाले सु पूजयेत् || ३७५ || पार्थिवान्धमथ स्कन्दं ना बाह्यान्तमेव च | आकाशान्तं हि पीठं स्यात् पञ्चभूतात्मिकास्त्विमे || ३७६ || एवं मानसकल्प्या तु यथाक्रमेण पूजयेत् | प्. ११६) विमलासनस्य चोर्ध्वे तु हविश्चैव प्रदापयेत् || ३७७ || आसकं वा तदर्धं वा द्रोणद्रोणार्धमेव वा | शालिस्वर्णमयं प्रोक्तं तण्डुलं शुक्लवर्णकम् || ३७८ || तत्समं मुत्सभारञ्च तदर्धं वाऽपि पाचयेत् | गुलखण्डं समासाद्य पयसा दधि समन्वितम् || ३७९ || उपदंशसमायुक्तं नालिकेरन्तु दापयेत् | निवेदयेत्पुरुषेणैव दिक् बलिञ्च समाचरेत् || ३८० || कालादीनान्तु सर्वेषां परिवारं निवेदयेत् | नित्याग्निं कारयेत्पश्चात् अग्निकार्योत्तमा चरेत् || ३८१ || नित्योत्सवं ततः कृत्वा नृत्तगेयसमायुतम् | प्. ११७) हविः काले तु गेयं स्यादूर्ध्व नृत्तन्तु कारयेत् || ३८२ || चुलिकोदन्ततः पश्चात् आगमार्चनमाचरेत् | एवं प्रातस्तु मध्याह्ने सायंकाले समाचरेत् || ३८३ || किञ्चिदत्र विशेषोऽस्ति सायंकाले तु पूजयेत् | रात्रीरादौ ततः प्राप्य नृत्तमण्टपं शोधयेत् || ३८४ || प्रोक्षयेत्पुरुषेणैव पूर्वं पुष्पं व्यपोह्य च | नृत्तमूर्तिरलङ्कृत्य शुद्धनृत्यन्तु ध्याययेत् || ३८५ || गणिकायास्तु सर्वेषामलङ्कृत्य विशेषतः | वाद्यगेयसमायुक्तञ्चतुष्षष्टिकरान्वितम् || ३८६ || वाद्यगान्वाचयेन्नित्यं तदन्ते धूपदीपकम् | प्. ११८) उपसाय रक्षा प्रदातव्यं शास्त्रमार्गेण देशिकः || ३८७ || सायरक्षां प्रदातव्यो भूतपात्रञ्च निक्षिपेत् | लक्षणं कार्पासहस्तञ्च दीपपात्रन्तु पुष्पकम् || ३८८ || पञ्चपात्रं समारोप्य त्रिपादी देवपूर्वके | गन्धपुष्पञ्च धूपञ्च पात्राणाञ्च पृथक् पृथक् || ३८९ || सुरभिमुद्रां प्रदातव्या दिग्बन्धञ्चापि कारिणा | दीपञ्चैव त्रिपञ्चैव सप्तमं नव कल्पयेत् || ३८९ || त्रिःकृत्वा भ्रमणं देवं देवीञ्चैव तु कारयेत् | अक्षणं कार्पासभस्मञ्च त्रिभ्राम्य च विसृज्य च || ३९० || दीपेन सर्वनिक्षिप्य रुद्रकन्या प्रदापयेत् | प्. ११९) पीठाग्रे तु विनिक्षिप्य एवं यं क्रमान्यसेत् || ३९१ || सायरक्षा प्रदातव्यं पश्चात्पूजां समाचरेत् | आहं कालं विना यत्र सायंकाले तु रक्षकम् || ३९२ || नीराजनं सर्वकाले तु भस्मञ्चैव विनिक्षिपेत् | अथवाऽन्यप्रकारेण रात्रिकाले विशेषतः || ३९३ || मकुटं स्वर्णपुष्पञ्च अर्धचन्द्रन्तु गोलकः | यज्ञोपवीत कटकं हेमरत्नसमायुतम् || ३९४ || शिरोमाला रुद्रमाला होतारश्चोत्तरीयकाः | पत्रं छेदविधिं कुर्यात्तद्दृतु चित्रन्तु बिल्वकाः || ३९५ || हेमप्रसादसंयुक्त मृगोरस्य तु तोरणम् | प्. १२०) एवं कृत्वा तु सायाह्ने पूर्ववत्पूजयेत्क्रमात् || ३९६ || काञ्चनं वापि रौप्यं वा सर्वरत्नविचित्रितम् | पुष्पमण्डलमेवं वा यथा शोभं प्रकल्पयेत् || ३९७ || सङ्क्रान्ते वा अ* * * ज्ञे जन्मनि दिनेऽपि च | जयमानं दिने कोऽपि मरणान्तमथाऽपि वा || ३९८ || अन्येषु पुण्यनक्षत्रे सूर्यवारे विधीयते | कृत्वा पञ्चमुखं लिङ्गं सप्तहेममनन्तकम् || ३९९ || लिङ्गाकारं कृताहेमं रौम्यं वा ताम्रमेव वा | एतद्वै गोलकाकारं मुखं पञ्च समन्वितम् || ४०० || तल्लिङ्गं निक्षिपेल्लिङ्गे पूजयेत्पूर्ववत्क्रमात् | प्. १२१) अर्चनं पूजनञ्चैव शान्तिकञ्च त्रिधा भवेत् || ४०१ || दीपान्तमर्चनं प्रोक्तं बाल्यं तं पूजनं भवेत् | उत्सवान्तं शान्तिकं प्रोक्तं त्रिधा कर्म समाचरेत् || ४०२ || अथवाऽन्यप्रकारेण पश्चिमद्वारवेश्मनि | सद्यादि पूजयेद्धीमान् परिवारमथोच्यते || ४०३ || कुमारस्थाने वृषभं वृषस्थाने कुमारकम् | आदित्यवारे पूजान्ते नित्योत्सव समाचरेत् || ४०४ || अष्टदिक्षु स्तु गणिकाऽभ्येषा नृत्तं समाचरेत् | दण्डहस्तेन संगृह्य चारिकान्तु पृथक् पृथक् || ४०५ || एवं कृत्वा विशेषेण पूजयेत्तु सदाशिवम् | प्. १२२) निर्माल्यञ्च विसृज्याऽथ चण्डेशाय प्रदापयेत् || ४०६ || तांबूलमुखवासञ्च पानीयञ्च प्रदापयेत् | पञ्चावरणशक्त्यादि सर्वशान्ति ततः शृणु || ४०७ || अंबी चैव गणांबी च गङ्गा गौरी उमा तथा | पञ्चब्रह्म शक्त्यास्तु षडङ्गसहितं स्मृतम् || ४०८ || ब्रह्मे स्वधा तथा कान्ति गृह पुष्टि श्रुतिस्तथा | कीर्तिं मे तथा चाष्टौ विद्येशानान्तु शक्त्यः || ४०९ || पदया देवनायी च कुन्ती काली च मन्त्रिणी | मालिनी च उमा चैव वज्रिणी गणशान च || ४१० || शशी देवी प्रलोमी च स्वाहा चैव स्वधा तथा | प्. १२३) कालकाली च जातारी नीली च सुकेशिनी || ४११ || लायिनी महिनी चैव लिङ्गिनी महिषी तथा | वृत्तिश्चैव निवृत्तिश्च वसुधा च स्वरूपिणी || ४१२ || सावित्री सरस्वतीत्येते लोकपालाद्विशक्तयः | विलासिनी विरूपी च धारिणी विमुखी तथा || ४१३ || निखी च दमुखी चैव मतिश्री हंसमालिनी | एते दशायुधाश्शक्तिं पञ्चावरणशक्तयः || ४१४ || प्रथमं आसनं कल्प्य द्वितीयमावाहयेत् शिवम् | तृतीयं पाद्यद्रव्यञ्चतुर्थमाचमनीयकम् || ४१५ || पञ्चममर्घ्यदातव्यं धूपं दद्यात्तु षष्ठकम् | प्. १२४) सप्तमं अभिषेकन्तु अष्टमं गन्धपुष्पकम् || ४१६ || नवमं वस्त्राभरणञ्च दशमं धूपदीपकम् | एकादशन्तु मुद्राणां द्वादशन्तु निवेदनम् || ४१७ || त्रयोदशं बलिं दद्यात् नित्याग्नीनां चतुर्दश | नित्योत्सवं पञ्चदश षोडशं नृत्तमेव च || ४१८ || इति पूजाक्रमं प्रोक्तं पञ्चशुद्धिक्रमात्कृतम् | अथ व्युहक्रमं वक्ष्ये विद्याव्यूहादि व्यूहकम् || ४१९ || विद्याव्यूहोऽत्र विज्ञेयो वामदेवादिको महान् | वनपर्वस्थितश्चासौ स्मृतिमार्गोऽवलंबिनः || ४२० || वामादिशक्तयश्चासौ विद्याव्यूह इति स्मृतः | प्. १२५) अघोराद्यष्ट या प्रोक्ता विग्रहेश्वरव्यूहकम् || ४२१ || अघोराश्चातिघोराश्चाघोरासूक्ष्मं शिवस्तथा | सर्वतश्शर्वसर्वेभ्यो उमारूपे इति स्मृतः || ४२२ || विग्रहेश्वरव्यूहानामष्टधा परिकीर्तिता | अंबिका ब्रह्मवेताली त्रिगुणी स्थाणिमन्यपि || ४२३ || रूपिणी च महाज्वाला मालिनी च तथा परा | सुवेताली भवेद्गौरी शक्त्यघोरा च नन्दिनी || ४२४ || एकादशविधौ राज्ञां धूहाव्यूहमहाबलौ | रुद्रव्यूहौ भवेद्रौद्रौ वृतश्च बलिशालिनः || ४२५ || ऊर्ध्वकोग्ययुतं वृत्ता तत्वमैश्वरमास्थितम् | प्. १२६) विद्येश्वराद्य सज्येत मूर्तीशञ्च गणेश्वरः || ४२६ || अनन्तेशादि विद्येशान्व्यूहं व्यूहक्रमान्यसेत् | शर्वपशुपतिश्चोग्रारुद्रश्चैव भवस्तथा || ४२७ || ईशानश्च महादेवो भीमश्च वसवस्तथा | उमयादि गणेशानं व्यूहं व्यूहक्रमाद्यजेत् || ४२८ || ततः सदाशिवं तत्वं परव्याप्तं तथा स्थितम् | तत्र ब्रह्माङ्गमन्त्रैश्च नदौ बिन्दुस्सदाशिवः || ४२९ || शान्त्यतीतेंबिकाशक्तिः दीपिका रोचिका तथा | मोचिका चोर्ध्वगाश्चैव व्यापिका व्योमरूपिणी || ४३० || अनन्ताचानाथा च अनाश्रिता च तथा भवेत् | प्. १२७) मन्त्रयोनिर्महामाया पुनश्शक्तिश्च निष्कला || ४३१ || अतीन्द्रियश्शिवस्तस्य निष्कला निर्गुणोऽक्षरः | चिद्रूपोऽयं समाख्यातः शुद्धत्वे तत्वपञ्चकम् || ४३२ || शब्दादि दशके यस्मात् गुणैर्युक्ताञ्च य समे | अङ्गाङ्गिभावविहितो विशेषमक्षमादितः || ४३३ || अक्षरब्रह्मनात्मानि वर्णब्रह्ममनन्तरम् | भुवनब्रह्ममित्येषा ब्रह्मनामेति कथ्यते || ४३४ || सदाशिवं लिङ्गकुंभं महेशं यागमूर्तिकम् | उत्क्रमं रुद्रदैवत्यं इत्येते अधिदेवताः || ४३५ || आत्मतत्वे न्यसेत्सर्वे विद्यातत्वन्तु सौम्यके | प्. १२८) शिवतत्वा न्यसेन्मध्ये ध्यानकाले सदाशिवम् || ४३६ || एवमेव त्रिसन्ध्यायां वैप्यकयेदादि शैवकम् | निर्माल्यञ्च निवेद्यञ्च भूत्वा चान्द्रायणञ्चरेत् || ४३७ || चण्डदत्तं हि निर्माल्यं भूमौ वह्नौ जलं क्षिपेत् | गवांश्च कर्मदासांश्च दापयेत्तु विचक्षणः || ४३८ || षोडशप्रथमांश्चैव विघ्नेशक्षेत्रपालकम् | परिवारादिभिश्चैव गुरुपुस्तकवह्निना || ४३९ || यक्षनागेन्द्रयोगीनां विष्णुब्रह्मा च दुर्गया | काली च सूर्यदेवांश्च अन्यत्सर्वाश्च देवताः || ४४० || सुगन्धगरुकर्पूरं चन्दनं कस्तूरिकान्वितम् | प्. १२९) लेपयेत्तु च हृन्मन्त्री लिङ्गं पीठञ्च गौरिका || ४४१ || जातीकनककदंबानि द्विकर्णी च त्रिकर्णिका | नन्द्यावर्तं श्रियावर्तं नीलोत्पलञ्च मल्लिका || ४४२ || एवमादिसुगन्धानि पुष्पमाल्यैश्च पूजयेत् | शिवमन्त्रेण देवेशं अर्चयेत्तु विशेषतः || ४४३ || गौरीर्मिमाय मन्त्रेण गौरीं वामेन स्थापयेत् | ध्यायेच्छदाशिवं रूपं देवीरूपं विचिन्तयेत् || ४४४ || धूपं क्रमादघोरेण घण्टारवसमन्वितम् | कर्पूरावर्तितं दीपं कार्पासकुलसंयुतम् || ४४५ || गोव्यतं दीपमुज्वाल्य त्र्यङ्गुलमुत्तमं स्मृतम् | प्. १३०) दीपं दद्याद्विशेषेण प्रशान्तायेति मन्त्रतः || ४४६ || द्रोणखण्डं शिवा * पि गुणखण्डसमायुतम् | मरीची लवणैर्युक्तं नालिकेरञ्च मुद्गकम् || ४४७ || अपूपञ्च प्रदातव्यं वायसान्नं गुलैर्युतम् | कदलीपनसाम्रैश्च त्रिफलञ्च निवेदयेत् || ४४८ || पानीयं दापयेत्तत्र मुखवाससमन्वितम् | तांबूलं तत्र कर्पूरं * * * तैलसंयुतम् || ४४९ || इष्टकाम्यप्रसिध्यर्थं लभते नात्र संशयः | एवं काम्यार्थ्यहं प्रोक्तमधिदेवाः प्रकीर्तिताः || ४५० || अष्टपुष्पं त्रिषुगन्धं सप्तवारि निवेदयेत् | प्. १३१) त्रिपुष्पञ्च त्रिधा धूपं घण्टातसनमष्ट च || ४५१ || प्रच्छन्नाश्च चतुर्णां वै द्वयोर्मुद्रां प्रदापयेत् | आवाहनार्घ्य पात्रेषु स्नाने धूपेऽनुलेपयेत् || ४५२ || निवेज्य च विसृज्याथ अष्टपुष्पं सुयोजयेत् | अर्घ्ये प्रलेपने स्नाने त्रिषु गन्धं सुयोजयेत् || ४५३ || आवाहनार्घ्य पात्रेषु स्नाने आचमने तथा | निवेद्य विसर्जने चैव वारिसप्तं नियोजयेत् || ४५४ || आवाहनेषु पूजान्ते विसर्गान्ते तथैव च | अर्घ्यं दद्यात्तु मन्त्रज्ञा त्रिष्वेवं प्रकल्पयेत् || ४५५ || आसनार्चनकाले तु स्नानान्ते पूजनेऽपि च | प्. १३२) निवेद्य विसर्जने चैव वारि सप्तं नियोजयेत् || ४५६ || आवाहनेषु पूजान्ते विसर्गान्ते तथैव च | अर्घ्यं दद्यात्तु मन्त्रज्ञा त्रिष्वेवं प्रकल्पयेत् || ४५७ || आसनार्चनकाले तु स्नानान्ते पूजनेऽपि च | अथवासनं पूजान्ते महाधूपं प्रशस्यते || ४५८ || स्नानारंभे तदन्ते च धूपादाने विशेषतः | निवेद्यकाले तस्यान्ते उत्सवादौ तदन्तके || ४५९ || नृत्तान्ते प्रवरे धीमान् महाघण्टानि ताडयेत् | निर्माल्यापनये चैव पुष्पालङ्कारकर्मणि || ४६० || निवेद्यकाले सन्ध्यान्ते प्रच्छन्नपटमीरितम् | प्. १३३) आवाहने तु पूजान्ते मुद्रादर्शनमिष्यते || ४६१ || गन्धं दद्यात्तु पुष्पेण पुष्पं गन्धेन योजयेत् | धूपं दद्यात्तु दीपेन दीपं दीपेन योजयेत् || ४६२ || देवानामर्चने काले प्रच्छन्नपटसंयुतम् | पापरोगीव्रतभ्रष्टे नास्तिकैः व्रतदूषकैः || ४६३ || राक्षसैरसुरैश्चैव पिशाचैर्ब्रह्मराक्षसैः | देवनिन्दाकृतार्थञ्च दूरतः परिवर्जयेत् || ४६४ || गच्छेत्प्रकारबाह्ये तु घण्टाघोषैश्च संयुतम् | मूलमन्त्रजपं जप्त्वा देवसान्निध्य चिन्तयेत् || ४६५ || चिन्तयेत्तु नरास्सर्वे शिवमात्मनि भक्तितः | प्. १३४) स्वयमभ्यर्चनं श्रेष्ठं पश्चाद्भोजनमारभेत् || ४६६ || अर्चनायामशक्तश्चेत् स्पर्शनं वाऽपि कारयेत् | स्पर्शने वाऽप्यशक्तश्चेल्लिङ्गदर्शनमुत्तमम् || ४६७ || दिवारात्रिं त्रिसन्ध्यायां प्रविशेत्तु शिवालयम् | बाह्यप्रकारदेशे तु सव्यमार्गप्रदक्षिणम् || ४६८ || सव्यापसव्यमार्गेण अन्तर्भारा प्रदक्षिणम् | प्रदक्षिणं ततः कुर्यात् सोमसूत्रन्तु लङ्घयेत् || ४६९ || सोमसूत्रोपरिष्ठात्तु शक्तिलङ्घनकारयेत् | निर्माल्यलङ्घनं दोषं पतती धरणीतले || ४७० || कीटकण्टपतङ्गाद्यैः जायती धरणीतले | प्. १३५) तस्मात्सर्वप्रयत्नेन सव्यापसव्यकं कुरु || ४७१ || प्रदक्षिणां द्विगुणञ्चैव नमस्कारफलं भवेत् | पञ्चाङ्गञ्चैव अष्टाङ्गं नमस्कृत्वा विचक्षणः || ४७२ || बाह्योः श्रोत्रद्वयोश्चैव मस्तकञ्चैव पञ्चसु | प्रभुनाममिति ख्यातं पञ्चाङ्गमिति कथ्यते || ४७३ || हस्ताभ्यां मूर्ध्नितश्चैव नमस्तुत्वा प्रयत्नतः | दण्डनमस्कारमित्युक्तं दण्डवद्रज्जुसंयुतम् || ४७४ || पादौ जानुद्वयोश्चैव हस्तयोरुभयोरपि | ललाटे कर्णयोश्चैव अनुना धरणीं स्पृशेत् || ४७५ || अष्टाङ्गमिति विख्यात सर्वैश्वर्य सुखप्रदम् | प्. १३६) एवं कृत्वा तु मनसा शिवलोकं स गच्छति || ४७६ || प्रदक्षिणं नमस्कृत्वा आत्मनोऽर्पणमेव च | अथवाऽन्यप्रकारेण भक्तिगम्यं यथा चरेत् || ४७७ || बुचुलुकोदकं तत्पश्चात् कायशुद्ध्यर्थकारणात् | उपचारमहं वक्ष्ये पुरार्थे देवपूजने || ४७८ || दशोपचारदीर्घान्ते भविष्यन्ते तु षोडश | बल्यन्ते पञ्चविंशश्च षट्त्रिंशं ताण्डवान्तके || ४७९ || आवाहनार्घ्यपाद्यानि आचमनन्तु स्नानकम् | गन्धपुष्पञ्च धूपञ्च नैवेद्यन्तु विसर्जनम् || ४८० || दशोपचारविज्ञेयमित्यन्तेन समाचरेत् | प्. १३८) आवाहने तु संस्थाप्य पाद्यमाचमनार्घ्यके || ४८१ || स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् || धूपदीपनिवेद्यञ्च नमस्कारे विसर्जने || ४८२ || षोडशैवोपचारैश्च भविष्यन्ते समाचरेत् | आवाहने तु संस्थाप्य स्वागतञ्चातुमान्यकम् || ४८३ || पाद्यमाचमनार्घ्यञ्च स्नानं वस्त्रोत्तरीयके | भूषणं गन्धपुष्पञ्च धूपदीपं तथार्घ्यकम् || ४८४ || नीराजनमञ्जनञ्चैव चामरञ्चात्र दर्पणम् | दश मुद्रादर्शनञ्चैव पञ्चावरणपूजनम् || ४८५ || नैवेद्यहोमकर्मन्तु बलिदानं जपं तथा | प्. १३९) समाधिस्तोत्रनमस्कारमुत्सवं गीतनृत्तकम् || ४८६ || विसर्जनञ्च षट्त्रिंशदुपचारमिति स्मृतम् | नृत्तान्ते पौष्टिकेप्येवं परार्थे देवपूजनम् || ४८७ || आत्मार्थमुपचारञ्च अहं वक्ष्ये शृणुष्वहम् | आवाहनं स्थापनञ्च स्वागतं सन्निरोधनम् || ४८८ || अङ्गप्रत्यङ्गकल्पञ्च पाद्यमाचमनार्घ्यकम् | गन्धपुष्पञ्च धूपञ्च दीपं स्नानं तथैव च || ४८९ || वस्त्रोपवीतं गन्धञ्च पुष्पं धूपञ्च दर्पणम् | नीराजनं भूषणं गीतं नाट्यनृत्तं तथैव च || ४९० || मुद्रादर्शनमेवोक्तं आवृतार्चनमेव च | प्. १४०) नैवेद्यहोमकर्मञ्च समाधिर्मन्त्रजपं तथा || ४९१ || प्रदक्षिणं नमस्कृत्वा चुलमोदमाचमनीयकम् | चत्वारिंशद्विधानेन आत्मार्थे नैव पूजना || ४९२ || ससन्धाया लक्षणं वक्ष्ये शृणुष्वेकाग्रमानसम् | स्वस्थन्नराक्षन्निमिष्टश्चतुर्भाग तुटिस्मृतम् || ४९३ || तद्वयन्तु लयं प्रोक्तं निमिषं तद्वयं भवेत् | निमिषं पञ्चदशं काष्ठातिथि कलाअ स्मृताः || ४९४ || त्रिंशत्कालमुहूर्तञ्च तदेव घटिकाद्वयम् | भास्करोदयमारभ्य त्रिपादेन त्रिनाडिका || ४९५ || रात्रान्तकमिति प्रोक्तं ज्ञात्वैवं सर्वमाचरेत् | प्. १४१) जलसङ्ग्रहणञ्चैव पुष्पसङ्ग्रहणं तथा || ४९६ || देवता स्थापनं तीर्थं रात्रान्ते वा विशेषतः | तच्छेषमर्चनञ्चैवापरात्रिर्दशनाडिका || ४९७ || उदयाद्यस्तमयाद्यञ्च चतुर्यामं प्रकीर्तितम् | अस्तमयादुदयान्तञ्च चतुर्यामं प्रशस्यते || ४९८ || अष्टयाममिति ख्यात महोरात्रमिति स्मृतम् | अधिवासनानि सर्वाणि मध्यरात्रे तु कारयेत् || ४९९ || उदयादि मध्यानान्तं प्रतिष्ठादिकर्म योग्यतः | अपराह्णं न कर्तव्यं मृगा यत्राक्रमं कुरु || ५०० || उशीरञ्चन्दनञ्चैव दूर्वासिद्ध्यर्थकैर्युतम् | प्. १४२) पाद्यद्रव्यमिति ख्यातं पादौ पाद्यन्तु निक्षिपेत् || ५०१ || एलालवङ्गकर्पूर तन्वपूजादिफलं नरम् | षडङ्गमाचमनं द्रव्यमाचमनन्तु दापयेत् || ५०२ || आपक्षीरकुशाग्राणि यवैस्सिद्धार्थतण्डुलैः | यवदूर्वा च संयुक्तमर्घ्यद्रव्याः प्रकीर्तिताः || ५०३ || अगरुञ्चन्दनञ्चैव कोट्टं कुङ्कुम एव च | तदर्धं पादमेवन्तु कर्पूरेण समायुतम् || ५०४ || गन्धद्रव्यमिदं प्रोक्तमेवञ्च विधिरुच्यते | श्वेतं रक्तं तथा कृष्णं सत्वरजस्तमस स्मृतम् || ५०५ || पीतवर्णन्तु शोणन्तु * * * * उदीरितम् | प्. १४३) श्वेतं सद्येन दातव्यं रक्तं वामेन मन्त्रतः || ५०६ || पीतं पुरुषमन्त्रेण अघोरं कृष्णपुष्पकम् | नानावर्णैश्च पुष्पैश्च पञ्चवक्त्रमुदीरितम् || ५०७ || नीलोत्पलसमं पुष्पं न भूतो न भविष्यति | नन्द्यावर्तं श्रियावर्तं श्वेतार्कमुदये ददेत् || ५०४ || करवीरद्रोणपुष्पं पद्मं मध्यदिने न्यसेत् | मल्लिका चैव दुर्धूरा पट्टचञ्चकमुच्यते || ५०९ || सायाह्ने तु प्रदातव्यमन्यत्सर्वं प्रदापयेत् | जातीकनकदंबानि द्विकर्णिश्चार्धरात्रिके || ५१० || नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिका | प्. १४४) श्वेतार्कमालती चैव पुन्नागं कुरवं तथा || ५११ || एवमादिषु पुष्पाणि सात्विकानि प्रचक्ष्महे | रक्तोत्पलं तथा पद्मं बृहती धूरपाटली || ५१२ || एवमादीनि रक्तानि राजसानीति कथ्यते | कर्णिका धुर्धुरञ्चैव पुष्पिकारश्रयं तथा || ५१३ || एवमादीनि चान्यानि मिश्रकानि इति स्मृतम् | तुलसी चे नृपञ्चैव जंबूको नागनन्दिका || ५१४ || एकपत्रारविन्दञ्च विष्णुक्रान्ती तथैव च | अपामार्गं कुशापूर्वा पञ्चबिल्वं शमीं तथा || ५१५ || एतानि पत्रजातीनां तामसानीति कथ्यते | प्. १४५) पत्रजातिषु सर्वेषु सर्वकालं प्रपूजयेत् || ५१६ || ततो नीलोत्पलादन्यो तामसन्त्विति कीर्तितम् | करञ्जं वकुलञ्चैव केतकं माधवी तथा || ५१७ || लाकुलीन्धूक निर्गण्डी किंशुकञ्चैव वर्जयेत् | अतिपक्वमपक्वञ्च मुकुलञ्चैव वर्जयेत् || ५१८ || कोशकीटोपविद्धञ्च लूतसूत्रावृतानि च | स्वयं पतितपुष्पाणि सञ्चितानि च वस्त्रके || ५१९ || एकाहोषित पुष्पाणि वर्जयेत्तु विशेषतः | शमी बिल्वमपामार्ग कुशादूर्वा महा तथा || ५२० || नागनन्दी रुद्रवल्ली धातकीपत्रमेव च | प्. १४६) भद्री चैव महाभद्री द्रोणरूपं तथैव च || ५२१ || पत्रजातिषु सर्वेषु बिल्वपत्र समञ्चहि | पुष्पजातिषु सर्वेषु नीलोत्पलसमन्नहि || ५२२ || पुष्पलक्षणमाख्यातं धूपलक्षणमुच्यते | अगरुञ्चैव भागं स्यान्निर्यासं निर्गुणं भवेत् || ५२३ || चन्दनं त्रिगुणं प्रोक्तं मध्यमं तिलमुच्यते | वृक्षवीजां भवेत्स्नेहे शिवदीपन्तु वर्जयेत् || ५२४ || धूपद्रव्यमलाभे तु घृतं पुष्पं विनिर्दिशेत् | गोघृतं तदलाभे तु शुद्धतैलेन पूजयेत् || ५२५ || शुद्धतैलमलाभे तु मधूकतैलं च दीपयेत् | प्. १४७) स्नानद्रव्यमलाभे तु शुद्धतोयेन पूजयेत् || ५२६ || गव्यानामलाभे तु घृतञ्चैवभिषेचयेत् | हविषामप्यलाभे तु दीपारोहणमर्चयेत् || ५२७ || वस्त्राणामप्यलाभे तु वर्त्तिणाञ्चैव पूजयेत् | मन्त्राणामप्यलाभे तु पञ्चाक्षरेण पूजयेत् || ५२८ || गन्धानामप्यलाभे तु भस्मालेपनमाचरेत् | हेमद्रव्यमलाभे तु पत्रिणाञ्चैव पूजयेत् || ५२९ || पञ्चामृतमलाभे तु घृतञ्चैव तु पूजयेत् | सर्वं ध्यायेत्तु मनसा सर्वद्रव्यमलाभके || ५३० || त्रिसन्ध्यां बलि दातव्यं दूरादिपीठकान्तरम् | प्. १४८) दिक्देशमस्त्रसंयुक्तं बलिञ्चैव प्रदापयेत् || ५३१ || महाभूतं ददेत्पीठं आमोदापूर्वमादिकम् | आमलीफलमात्रे वा अष्टिं वा बलि दापयेत् || ५३२ || गन्धपुष्पं समभ्यर्च्य वाद्यतालसमन्वितम् | बलिप्रदानमेवोक्तमुदकादीन् क्रमाद्ददेत् || ५३३ | एवं बलिविधानान्ते नित्याग्निं कारयेद्बुधः | आग्नेययान्तु प्रकर्तव्यमग्निकार्योक्तमाचरेत् || ५३४ || समिदाज्यचरुं लाजान् सर्षपांश्च यवान् तिलान् | कदश्च कदलीवाम्रं क्रमेणैव तु होमयेत् || ५३५ || शतमर्धं तदर्धं वा तदर्धं होममाचरेत् | प्. १४९) होमद्रव्यन्तु कूसुंबं समित् षोडशमेव च || ५३६ || कुण्डं वा स्थण्डिलं वाऽपि वृत्तं प्रधानकं कुरु | गार्हपत्यं गृहस्थानां पितॄणां दक्षिणानलम् || ५३७ || आहवनीयञ्च देवानां तत्तद्रूपं वदाम्यहम् | बालयौवनवृद्धाग्निस्त्रिविधं तत्प्रकीर्तितम् || ५३८ || बालानामग्निकर्तव्यं प्रतिष्ठा कालकर्मणि | उत्सवादीनि कर्माणि कारयेद्यौवनाग्निषु || ५३९ || सव्यापसव्यं नित्याग्निं वृद्धाग्निं नित्यहोमकम् | अग्निकार्योक्तमार्गेण शेषकार्यं समाचरेत् || ५४० || एवमग्निं समभ्यर्च्य नित्योत्सवमथाचरेत् | प्. १५०) पूर्वाह्णे पुष्पलिङ्गञ्च मध्याह्ने वान्नलिङ्गकम् || ५४१ || सायाह्ने चार्घ्यलिङ्गन्तु द्वादशाङ्गुलमानतः | सर्वकाले * * * ध वारोहणन्तु * * चेत् || ५४२ || न लिङ्गन्तु पुष्पं निक्षिप्य यत्नतः चन्द्रशेखरम् | * * * * मुक्तिनामुमास्कन्दसंहितन्तु वा ?|| ५४३ || केवलं वा प्रकर्तव्यं सर्वाभरणभूषितम् | गन्धपुष्पादिनाभ्यर्च्य पादुकारोहणंन्त्यजेत् || ५४४ || देवदासी शिवोद्धृत्य क्रमात्कृत्वा प्रदक्षिणम् | स्वर्णं मरतकञ्चैव स्फटिकं रजताम्रकम् || ५४५ || पादुकञ्च प्रकर्तव्यं लिङ्गं स्वर्णञ्च राजकम् | प्. १५१) ताम्रं मरतकञ्चैव स्फटिकञ्चैव कारयेत् || ५४६ || लिङ्गाकारां कौतञ्चैव दृष्टिशैवकरोपरि | सशिबिका गर्जयानं वहयवाहनमेव च || ५४७ || ? नरवाहनमेवं वा सर्वालङ्कारसंयुतम् | उष्णीषण्यून्युत्तरयञ्च पवित्रं हस्तसंयुतम् || ५४८ || शिरौ वहेदात्रिशैनाशनैश्शनैः प्रदक्षिणम् | शुद्धनृत्तसमायुक्तं गीतवाद्यसमायुतम् || ५४९ || मन्त्रपाठकसंयुक्तं स्वस्तिवाचसमायुतम् | वितानस्वजसमायुक्तं छत्रचामरसंयुतम् || ५५० || दण्डनृत्तसमायुक्त यष्टिनृत्त समन्वितम् || प्. १५२) व्यजनस्तालवृन्तैश्च क्रमेणैव समाचरेत् || ५५१ || पिञ्छचामरसंयुक्तं श्वेतचामरसंयुतम् | प्रज्वाल्य दीपसंयुक्तं पुष्पवृष्टिसमायुतम् || ५५२ || दण्डनृत्तसमायुक्त यष्टिनृत्त समन्वितम् | डोलानृत्तसमायुक्तं नित्योत्सवन्तु कारयेत् || ५५३ || प्रथमं प्रदक्षिणं कुर्यादन्तहारे विशेषतः | द्वितीयं प्रदक्षिणं कुर्यान्मध्यहारे विशेषतः || ५५४ || गोपुरे वाद्यहीने तु बलिहीनं प्रदक्षिणम् | अन्तहारे पुनर्गत्वा प्रदक्षिणमथाचरेत् || ५५५ || प्रथमं प्रदक्षिणं कुर्यान्मङ्गणीतालवाद्यकम् | प्. १५३) परिवाराणां द्वितयन्तु प्रदक्षिणमथाचरेत् || ५५६ || वृषस्य वृषतालन्तु होतव्यमङ्गिणी तथा | मातृणां चण्डवाद्यञ्च विघ्नेशस्य तु ठङ्करी || ५५७ || वारुणे चर्चपुटायां ज्येष्ठायां पुन्नितालकम् | तटप्रहारसौम्याया विषमं विघ्नचण्डके || ५५८ || गोपुरे वाद्यनिर्घोषैः शङ्खघोषसमन्वितम् | पुरा स्थितं पङ्क्ति कृत्वा प्रदक्षिणमथाचरेत् || ५५९ || शांबरे बलिपीठस्य प्रविश्याभ्यन्तरं ततः | एकप्रकारयुक्तन्तु कारयेतिं प्रदक्षिणम् || ५६० || त्रिप्रकारयुतं गेहं पीठमेकप्रदक्षिणम् | प्. १५४) गान्धारद्वारदेशे तु आग्नेययां कौशिकं तथा || ५६१ || दक्षिणे कामरश्चैव नै-ऋत्यान्तर्करागकम् | कोल्ली पश्चिमदेशे तु वायव्यां नृपसङ्करम् || ५६२ || सोमेतकेकशिरित्युक्तं रामगिरीशगोचरे | बलिपीठेण्डकीञ्चैव तालं गीतसमायुतम् || ५६३ || मघराजावकञ्चैव देवसन्निधिगीतकम् | इत्येवङ्गी भाषायां प्रदक्षिणमथाचरेत् || ५६४ || एवं प्रदक्षिणं कृत्वा प्रविशेदालयं सुधीः | इति योगजतन्त्रे प्रतिष्ठातन्त्रे अर्चनाविधिः पटलः | प्. १५५) पादुकार्चनकं कार्यं गन्धपुष्पादिभिः क्रमात् | शुद्धनृत्त समायुक्तं स्वस्थाने देवमर्चयेत् || १ || अष्टोत्तरशतं नृत्तं भावयेद्गणिकां ततः | नृत्तस्यान्ते विशेषेण देवदेवं विशेषतः || २ || अभिमुखीकरणं यत्तु तदावाहनमुच्यते | पूजा परिसमाप्ते तु मुखं गत्वा बहिस्थितम् || ३ || सकलार्चनकाले तु पञ्चमावरणं विना | आसनन्तु प्रकर्तव्यं अर्चानोक्तमथापि वा || ४ || गन्धपुष्पादिभिः पूज्य स्वनामेनैव देशिकः | आगमार्चनकं कुर्यात् स्वगृहं प्रविशेद्बुधः || ५ || प्. १५६) नित्योत्सवेन पूजायां तस्यां * * * * * * | * * * कारयेत्तु विशेषेण अन्यथा चेन्नकारयेत् || ६ || बलिनित्यानि श्रीबल्यं त्रिकालस्तु समाचरेत् | अर्धरात्रौ बलिं कुर्यात् काम्यार्थन्तु विशेषतः || ७ || एवं क्रमेण विधिवद्यथा विभवविस्तरः | इति योगजे प्रतिष्ठातन्त्रे पादुकार्चनविधिः पटलः | अथ वक्ष्ये विशेषेण मुद्रालक्षणमुत्तमम् | तनुभ्यां ताडयेत्तालं शोधयेच्छोधनी भवेत् || १ || तर्जनीमूलपर्वस्थामङ्गुष्ठाङ्गे विनिक्षिपेत् | प्. १५७) शङ्खमुद्रा इति ख्याता स्नानकाले प्रदर्शयेत् || २ || मणिबन्धं ततः कुर्यात् अङ्गुष्ठौ तलमध्यगौ | तर्जमूलपर्वस्था मध्या लग्नौ प्रकीर्तितौ || ३ || कनिष्ठाभ्यन्तरं नामी मुद्रैवं सुरभि स्मृताः | संयोज्य हस्तौ द्वौ कर्तौ अन्तरे सुषरं कृतम् || ४ || बिसनीमुकुलाकारं स्नानकाले प्रदर्शयेत् | न्यस्त्वा करतलाङ्गुष्ठौ शेषं श्लष्णोर्ध्वगं क्रमात् || ५ || कृत्वा वाहनमाख्यातं कुर्यादावाहने तथा | मुष्टिं कृत्वा चतुर्हस्ते करपृष्ठे तु योजने || ६ || कनिष्ठौ विसृतौ दीर्घौ निष्पुरासन्निरोधने | प्. १५८) अङ्गुष्ठौ प्रक्षिपेन्मध्ये कनिष्ठविसृतौ युतौ || ७ || बीजमुद्रौ यमाख्याता दर्शयेच्छक्तिकल्पने | द्वौ हस्ततलकौ योज्यौ मध्याङ्गुलाग्रहं युतौ || ८ || तर्जन्यनामिके योज्य अङ्गुष्ठाभ्यां कनिष्ठके | इदं पञ्चमुखीमुद्रा दर्शयेद्वस्त्रकर्मणि || ९ || कराभ्यामञ्जलिं कृत्वा स वक्त्रस्यादनात्मिका | तयोरग्रे तु संलग्नौ शेषाश्च विसृताश्च यः || १० || द्रव्यमुद्रा भवेदेषा द्रव्याभावे प्रदर्शयेत् | उत्तानौ तु करौ पश्चान्मणि बन्धन्तु कारयेत् || ११ || प्रसार्य मध्यमाङ्गुल्यौ सिवाख्यां स्थापनावहम् | प्. १५९) वामाङ्गुलीयप्रसृता अंगुष्ठं मूर्ध्नि संयुतम् || १२ || दक्षिणे दक्षिणे मुष्टिमङ्गुष्ठौर्ध्वगस्थितम् | मुष्टिमूर्ध्वगतं कृत्वा संहारमुद्रया विदुः || १३ || उत्तानौ तु करौ कृत्वा कनिष्ठाङ्गुष्ठसंयुतम् | तर्जनी मध्यमौ युक्तौ अनामिकौर्ध्वं कृतासनम् || १४ || इति श्री योगजे प्रतिष्ठा तन्त्रे मुद्रालक्षणः पटलः | पूर्वोक्तलक्षणोपेतान् पादद्यादक्षुपुरितान् | पूर्वोक्तवस्त्रहोमा स्यात् कूर्चसूत्रलतान् कुरु || १ || सापिधानञ्च सर्वेषां शिवकुंभानितो न्यसेत् | प्. १६०) शिवव्यूहे न्यसेन्मध्ये कुंभं तस्य प्रधानकम् || २ || आसिकद्वयसंपूर्णान् शेषाण्याढकपूरितम् | व्यूहं प्रधानद्रव्याणी वक्ष्यते क्रमयोगतः || ३ || ईकारेन्धु विन्यस्य ऌकारे इक्षुकं न्यसेत् | कदलीफलमेकारे गुलिमेकारके न्यसेत् || ४ || ओकारे तु न्यसेल्लाजे नव ओङ्कारके न्यसेत् | अंकारे तु तिलं प्रोक्तं अंकारे स तुकं न्यसेत् || ५ || सकारे सर्षपं न्यस्य खकारे सितसर्षपम् | गकारे नारिकेलञ्च वेणुबीजं घकारके || ६ || दकारे भस्म विन्यस्य मातुलीगञ्च कारके | प्. १६१) छकारे पनसं न्यस्य आम्रञ्चैव जकारके || ७ || माणिक्कञ्चैव वज्रञ्च पद्मं पद्मप्रवालकम् | पुष्पं स्फटिकवैडूर्यं रत्नोदं स्याण्डकारके || ८ || हैमं रौप्यादकूटैश्च ताम्राकांस्यायसैरपि | पत्रसीसकसंयुक्तं लोहं न्यस्त्वात्र कारयेत् || ९ || सौराष्ट्रे रोचनाश्यामे हैरिकाञ्चनतारकैः | नमश्शिलाञ्जनं न्यस्त्वा टकारेण तु विन्यसेत् || १० || श्यामप्रियङ्गुकाश्यामां तिलषष्ठिकसर्षपैः | यवनी वारको द्रव्यं बीजोदं स्यात्सकोरकैः || ११ || नवनीतञ्च नाभ्यञ्च लघुकर्पूरपत्रके | प्. १६२) त्वगे लवङ्गोषु मुमेस्तीन् चुकुङ्कुमजातिभिः || १२ || लघुकच्चेलयुक्तान्ते गन्धोदं स्याद्डकोरके | सामुद्रं वृषशृङ्गस्थं क्षेत्रपर्वतसंभवैः || १३ || गजदन्तकुशं मूलं कर्कटामृत्कुरु | जलं मृदांभ इत्युक्तं ढकारेण तु विन्यसेत् || १४ || विष्णुक्रान्तीसहं देव्यानी शेलं दीश्वरमोक्षरैः | कृताञ्जलिशिरीषाभ्यां मार्जारो दण्डकारके || १५ || पद्मदूर्वाङ्कुशागौरसर्षपे भद्रसंयुतम् | परिमार्जनमित्युक्तं जलं न्यासान्तकारके || १६ || तुलसीबिल्वमपामार्गं शमीभृङ्गबकारके | प्. १६३) जलं पत्रोदकं प्रोक्तं विन्यसेच्छेदकारके || १७ || पद्मके शूलपत्रासी परशुं कन्धकारके | अञ्जनेनार्ध निष्केण हेमेनैव कृतास्त्रकैः || १८ || उत्तमस्त्रोदकं ह्येतन्नकारे विन्यसेद्बुधः | नारिकेलाम्रपनसैः कदली मातुलङ्गके || १९ || नारङ्गद्वयकञ्चैव जलैर्युक्तं फलोदकम् | पकारे विन्यसेत्तत्र स्थण्डिलोपरि विन्यसेत् || २० || पलाशप्लक्षजंबूक पार्गल्यश्चर्थयोरपि | वर्गो दुंबरयोश्चैव त्वभिर्युक्तन्तु यज्जलम् || २१ || कर्षायोदकमित्युक्तं पकारे विन्यसेत्क्रमात् | प्. १६४) अभ्रकत्रयमुक्तांबुप्रोक्तमाढ्योढकान्वितम् || २२ || जलं कान्तोदकं प्रोक्तं मकारे विन्यसेद्बुधः | श्रीकृष्णे शिरराभ्यञ्च पुष्करेण समायुतम् || २३ || पीवरीभिरिवेराभ्या मूलोदं स्यात्मकारके | गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् || २४ || मयूरशिखया भृङ्गं भृञ्जाञ्जलिसुरोचके | जलकात्युदकं प्रोक्तं विन्यसेद्वैयकारके || २५ || लोध्रद्वयलवङ्काभ्यां भूर्जयुक्तन्तु यज्जलम् | पुष्पोदकमिति प्रोक्तं रकारे विन्यसेद्बुधः || २६ || लकारे चैव गोधूम्नि वारं स्यादुकारके | प्. १६५) शकारे गन्धतैलं स्यात् षकारे चम विन्यसेत् || २७ || वकारे च जनीचूर्णमीषत्कर्पूरसंयुतम् | कन्यसं मृतपत्राच्चमन्यर्धे मनसा युतम् || २८ || सापिधानं भवेदेवं व्यूहेशानं प्रकीर्तितम् | व्यूहं प्रतीशपतितः कलशावरणद्वयम् || २९ || लक्ष्मीदाता कुशामूर्वा अपामार्गञ्च विल्वकम् | शम्यष्टा सर्वव्यूहानां प्रथमावरणस्य च || ३० || चंपकापद्मतुलसी नन्द्यावर्तञ्च मल्लिका | जातिद्रोणञ्च मन्दाराद्विकर्णी करवीरकम् || ३१ || विष्णुक्रान्ती सितार्का च ए * त्राचारविन्दकम् | प्. १६६) वकुलीकुरवञ्चैव रक्तोत्पलं तथैव च || ३२ || सर्वेषाञ्चैव व्यूहानां द्वितीयावरणस्य च | कलशेष्वेव धर्मकूर्च चक्राद्यानपिधाय च || ३३ || व्यूहे चाभिमुखादि स्यात् सर्वेषाञ्च प्रदक्षिणम् | स्थापनं पूजनोद्वाह उत्तमत्रितयस्य च || ३४ || सर्वेषामपि देवानां कलशं शिरसा वहेत् | क्षिप्रपक्वफलालाभे अपक्वफलमाचरेत् || ३५ || वृत्रादिलाभे तु पुष्पं स्यात् पुष्पलाभे तु मूलकम् | द्रव्यलाभे जलं पूर्य इति शास्त्रस्य निश्चयः || ३६ || इति योगजे प्रतिष्ठातन्त्रे स्नपनविधिः पटलः | प्. १६७) अथ वक्ष्ये विशेषेण शीतकुंभविधिक्रमम् | ज्वरापस्मारनाशाय वसूरीरुण्णदाहकम् || १ || सर्वरोगविनाशाय वर्षार्थन्तु प्रकल्पयेत् | द्वात्रिंशत्प्रस्थसंपूर्णबिंब प्रभवसंभवम् || २ || त्रिसूत्रे वेष्टयित्वा तु यवान्तरसमन्वितम् | शिवाग्रे स्थण्डिलं कृत्वां दलाष्टकसमन्वितम् || ३ || स्थण्डिलैश्शोभितं कृत्वा लाजदर्भतिलैस्तथा | वस्त्रपूतेन तोयेन पूरयेत्कुंभमुत्तमम् || ४ || सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् | स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् || ५ || प्. १६८) स्थण्डिले विन्यसेत्कुंभं सर्वमन्त्राणि विन्यसेत् | आचापकरणैर्युक्तो गन्धपुष्पाक्षतादिभिः || ६ || पूर्वेद्युरथवास्य स्याद्रात्रौ जागरमाचरेत् | आचार्यश्शिष्यकुंभन्तु कुस्पृष्टा जपञ्चरेत् || ७ || व्योमव्यापि महामन्त्रं रोगशान्तिस्तु स्पृष्टयेत् | इति होमं प्रतन्तव्यं तस्याग्रे तु विशेषतः || ८ || प्रभाते देवदेवेशं मूर्ध्निमध्ये तु विन्यसेत् | चतुष्पादन्तु विन्यस्य याज्ञिकैः व्रत्वकैश्शुभैः || ९ || लिङ्गोर्ध्वे हस्तमुत्सेधं चतुर्दिक्षु विचष्टरम् | वृत्तं वा चतुरश्रं वा षोडशाङ्गुलविस्तरम् || १० || प्. १६९) एकतालप्रमाणेन मध्ये सुषिरमुच्यते | वस्त्रेणावेष्टि कुंभञ्च पुष्पमाल्यैर्विभूषितम् || ११ || कुंभान्वितस्य तन्मूले सुषिरं कारयेद्बुधः | लोभसूच्याग्रमानेन नालं हेममयं भवेत् || १२ || द्विगुणं क्षीरायामं मधुनी त्रिगुणं तथा | हृदयेन तु मन्त्रेण कुंभमारोप्य यत्नतः || १३ || शिवकुंभन्तु संस्थाप्य स्थण्डिले पूर्ववद्बुधः | सप्ताहे चैव पञ्चाहे त्र्यहे वा विशेषतः || १४ || स्रावस्यं मूध्न्यहोरात्रं सर्वशान्तिकरस्मृतम् | नित्यपूजाविशेषेण काले काले विशेषतः || १५ || प्. १७०) द्विगुणं पूजयेत्तत्र यथा शक्तया तु पूजयेत् | उपकुंभन्तु निक्षिप्य जलं वा क्षीरमेव वा || १६ || कुंभावरोहणं यावत्तावच्छान्तिं समाचरेत् | आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः || १७ || अर्धे कुंभं परित्यज्य अस्त्रमन्त्रेण मन्त्रवित् | स्नपनं तु यथा शक्त्या यथोक्तं कारयेद्बुधः || १८ || प्रभूतहविषं दत्वा पूर्वोक्तविधिना सह | सर्वभक्तजनानाञ्च अन्नपानादि दापयेत् || १९ || इति योगजे प्रतिष्ठातन्त्रे शीतकुंभविधिः पटलः | प्. १७१) अथ वक्ष्ये विशेषेण शिवोत्सवविधिक्रमम् | सर्वदोषनिवृत्यर्थं सर्वलोकसुखावहम् || १ || सर्वदेवप्रियार्थं स्यात् सर्वप्राणिसुखावहम् | राजाविजयवृध्यर्थे सर्वरक्षार्थसाधनम् || २ || उत्सवं नवधा प्रोक्तं पुष्पलं विजयान्वितम् | सव इत्युच्यते सृष्टिस्तं वन्द्याच्छब्दभाषितः || ३ || उत्सवं सृष्टिकारित्वादुत्सवः कथितः क्रमात् | प्रतिष्ठोत्सवविधिञ्चैव मासोत्सवविधिक्रमम् || ४ || अमावास्यां समारभ्य मासोत्सेवनमेव च | वसन्तोत्सवविधिञ्चैव पुष्ये पुष्योत्सवं तथा || ५ || प्. १७२) चैत्रमासे त्रयोदश्यां मासपक्षं हि चन्द्रयोः | वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च || ६ || यजमाने दिने चैव * * * राजने तथा | सर्वमासेषु कर्तव्यं महोत्सवविधिक्रमम् || ७ || प्रातःकाले व्यवज्ञत्वं सर्वकाले समारभेत् | निश्चित्य मासनक्षत्रे कथितं मुरसं तथा || ८ || षोडशस्सर्वरक्षार्थं पैतृकं द्वादशं तथा | सौख्यं नवविधं प्रोक्तसप्ताहं श्रीकरं भवेत् || ९ || पार्थिवं पञ्च निधनञ्चैव त्रियहं सात्विकं तथा | एकाहं शिवमेवोक्तमुत्सवं कारयेद्बुधः || १० || १७३) संपूज्य देवदेवेशं ज्ञापयेदुत्सवं कुरु | सप्तविंशतिनक्षत्र ध्वजारोहणपूर्वकम् || ११ || भेरीमादौ समारभ्य अष्टाविंशद्दिनं भवेत् | अङ्कुरार्पणपूर्वं हि पश्चाद्ध्वजं समर्चयेत् || १२ || तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत् | प्रतिष्ठादिक्रमेणैव मण्टपञ्च प्रकल्पयेत् || १३ || ध्वजपटं लक्षणञ्चैव कार्पाससितमेव च | द्वादशं दशहस्त स्यान्नव हस्तमथापि वा || १४ || ध्वजपटलपञ्चभागं स्यात् शिखरं हस्तमेव च | हस्तार्धं पुच्छमेवोक्तं त्रि * * * * पुच्छकम् || १५ || प्. १७४) तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् | तमूर्ध्वे भस्त्रदेवलमूर्ध्वे च्छत्रचामरम् || १६ || पार्श्वे तु दीप * * * मधमं कुरुमेव च | यूपवर्णमिति प्रोक्तं पूर्णकुंभैरलङ्कृतम् || १७ || श्वेतं रक्तं तथा पुष्पं सर्वालङ्कारमेव च | वृषभं श्वेतवर्णाङ्गं सर्वसिद्धिप्रकारयेत् || १८ || कामार्थरक्तवर्णेन आहिचां कृष्णवर्णकम् | स्थितां वा शयनञ्चैव ऋषभन्तु लिखेद्बुधः || १९ || शृङ्गौ च रक्तवर्णाभां बालपीतेन शोभितम् | नेत्रन्तु कृष्णवर्णञ्च रक्तनीलं तमिश्रमम् || २० || प्. १७५) सर्वाभरणसंयुक्तं सर्वपुष्पैरलङ्कृतम् | शिवाग्रे मण्टपं कुर्यात् गोमयालेपनं तथा || २१ || दर्भमाला समावेष्ट्य मुक्तासृक् दामलंबितम् | तन्मध्ये स्थण्डितं कुर्यान्निद्राकुंभन्तु स्थापयेत् || २२ || अभितोऽष्टौ पदान्यस्त्वा स्थापयेत्पूर्ववत्क्रमात् | तन्मध्ये वृषमावाह्य स्वर्णपुष्पसमन्वितम् || २३ || परितोऽष्टौ पटान्यस्त्वा स्वस्वबीजेन विन्यसेत् | उक्षञ्च गोपतीश्चैव शङ्कुकर्णं तथैव च || २४ || तीक्ष्णशृङ्गं तथा नन्दी वृषाणीञ्च पशुस्तथा | महोदराक्षमञ्चैव स्वस्वनामेति पूजयेत् || २५ || प्. १७६) वृषगायत्रिमन्त्रेण वृषकुंभे न्यसेत्क्रमात् | तदग्रे स्थण्डिलं कुर्यात् सितैस्सिकतमेव च || २६ || चतुरश्रं समं कुर्यात् हस्तमात्रेण देशिकः | प्राक् सूत्रन्तु सूत्रं स्यादुदक् सूत्रं तथैव च || २७ || ब्रह्मजज्ञानमन्त्रेण मध्यरेखा समालिखेत् | नाके सुपर्णमन्त्रेण दक्षिणे तु लिखेद्बुधः || २८ || आप्यायस्वेति मन्त्रेण उत्तरे तु समालिखेत् | यो रुद्र इति मन्त्रेण उदक् सूत्रं तथैव च || २९ || इदं विष्ण्विति मन्त्रेण पूर्वरेखासमन्वितम् | इन्द्रं वोहोति मन्त्रेण मध्यरेखा समालिखेत् || ३० || प्. १७७) शिवां भवो तु संप्रोक्ष्य कू * प्रादेवापूजयेत् | वागीश्वरन्तु वागीशमा * * * * पूजयेत् || ३१ || तन्मध्ये वह्नि संस्थाप्य होमं कृत्वा विचक्षणः | पूर्ववदग्निसंस्कार पूजयेद्वृषभं कुरु || ३२ || ब्राह्मणं दक्षिणेऽभ्यर्च्य उत्तरे विष्णुमेव च | परिस्तरैस्तु दर्भैश्च पूर्वादीनि परिस्तरेत् || ३३ || प्रोक्षणीमूर्ध्वतस्थाप्यथा प्रणीतपत्रकम् | आज्यस्थालीं ततः कुर्यात् चरुस्थालीन्तु स्थापयेत् || ३४ || प्रणीतां प्रोक्षणीञ्चैवाज्यस्थालीं त्वधोमुखम् | सृक् स्रुवमुत्तरे स्थाप्य अधोमुखन्तु साधयेत् || ३५ || प्. १७८) प्रादेशमात्रसमिधा परिधित्रयमेव च | समिधाद्वायुपूर्वे तु विष्टरेण समन्वितम् || ३६ || इन्धनं तत्र कुर्वीत अग्निप्रज्वालयेत्क्रमात् | आहुतित्रितयं कुर्याद्व्याहृतिं जुहुयात्क्रमात् || ३७ || पञ्चब्रह्मषडङ्गेन जुहुयाद्वै क्रमात्सुधीः | वृषगायत्रिमन्त्रेण सर्षपं कवचेन तु || ३८ || आढकं मुद्गमाषञ्च शूलिनं जुहुयात्तथा | शिवमन्त्रेण जुहुयात् प्रत्येकन्तु दशाहुतिः || ३९ || जयादिरभ्यधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् | पूर्णाहुतिञ्च शिरसा अग्निबीजमनुस्मरन् || ४० || प्. १२९) होमान्ते वृषकुंभस्यात् वृषकुंभन्तु मूर्तिनाम् | तदन्ते भेदमेव स्यात् स्थण्डिलोपरि विन्यसेत् || ४१ || ब्रह्माविष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः | गन्धपुष्पञ्च धूपञ्च दीपञ्चैव निवेद्यकम् || ४२ || अर्चयेद्भेरिदेवं स्यादाचार्यं ताडयेत्क्रमात् | ब्रह्मजज्ञानमन्त्रेण प्रथमं ताडयेत्क्रमात् || ४३ || * * * दर्विमन्त्रेण द्वितीयं ताडयेत्क्रमात् | त्र्यंबकेन मन्त्रेण तृतीयं ताडयेत्क्रमात् || ४४ || आहूय वाद्यकं पश्चात् शुद्धपारशवस्तथा | अङ्गपूर्णसमायुक्तं शक्तिं सहितमेव च || ४५ || प्. १८०) शक्तिहीनं विना कुर्याद्वर्जयेत्तु विचक्षणः | नन्दिकेश्वरमावाह्य वाद्यकान् हृदि संपुटम् || ४६ || यजनं धूपदीपं स्यात् पुष्पं हस्ते निधापयेत् | तत्पुष्पं निक्षिपेद्भेरीं नमस्कृत्वा तु पाद्यकम् || ४७ || सप्त तालविधं प्रोक्तमाचार्यश्शिष्यमेव च | अस्त्रदेवं समभ्यर्च्य मध्ये पत्रे तु रुद्रकम् || ४८ || ब्रह्माणं दक्षिणे पत्रे वामपत्रे जनार्दनम् | गौरीं मध्यममूले तु सरस्वतीं दक्षिणं तथा || ४९ || लक्ष्मीञ्च वामपत्रे तु तन्मूले तु यजेद्बुधः | गणेशं पालिकामध्ये स्कन्ददण्डाग्रमेव च || ५० || प्. १८१) अनन्तादि शिखण्ड्यन्तपालिकोपरि विन्यसेत् | क्षेत्रपालं तथैशान्त्या दण्डमध्ये तु शास्तवत् || ५१ || चन्द्रसूर्यान्तनक्षत्रे दण्डेनैव तु पूजयेत् | चण्डेशं दक्षिणे मूले सर्वदेवेन संग्रहेत् || ५२ || सर्वदेवतमावाह्य अस्त्रेणैव समाचरेत् | धूपदीपसमायुक्त सर्वदेवे निवेद्यकम् || ५३ || अस्त्रदेवान्यलिङ्गं बलिपात्रं तथैव च | प्रतिमाचन्द्रधारञ्च वृषध्वजसहैव च || ५४ || ग्रामप्रदक्षिणं कुर्यात्सन्धिभेदान् समर्चयेत् | दिनदेवतमावाह्य पीठाग्रे वा ध्वजाग्रके || ५५ || प्. १८२) प्रथमं विघ्नरात्रं स्यात् पैशाचन्तु द्वितीयकम् | तृतीयं ब्रह्मरात्रं स्यात् गन्धर्वन्तु चतुर्थकम् || ५६ || पञ्चकं भूतरात्रं स्यात् षष्ठमं गुहरात्रकम् | सप्तमं ऋषिरात्रं स्यादष्टकं नागरात्रकम् || ५७ || नवमं चैन्द्ररात्रं स्याद्दशमं विष्णुरात्रकम् | एकादशं रुद्ररात्रं स्यात् द्वादशं शिवरात्रकम् || ५८ || गणरात्रं त्रयोदश्यां चतुर्दशं राक्षसं तथा | पञ्चदश * रात्रं स्यात् शक्तिरात्रन्तु षोडशम् || ५९ || विघ्नादि शिवपर्यन्तं पैतृकोत्सवमेव च | विघ्नादिचैन्द्रपर्यन्तं सौख्य उत्सवमेवं च || ६० || प्. १८३) विघ्नादि ऋषिरात्रान्तं * * * तृतीयं भवेत् | विघ्नादिभूतपर्यन्तं पार्थिवोत्सवमेव च || ६१ || विघ्नादि ब्रह्मपर्यन्तं पार्थिवोत्सवमेव च | विघ्नादिभूतपर्यन्तं सात्विकोत्सवमेव च || ६२ || प्रथमं गणरात्रन्तु अपूपतिलचूर्णकम् | शुद्धान्नन्तु निवेद्यं स्याद्विघ्नरात्रं बलिक्षिपेत् || ६३ || शुद्धान्नं त्रिसरान्नञ्च मासयुक्तं दधिप्लुतम् | द्वितीयेऽहनि दातव्यं पैशं मन्त्रमुच्चरन् || ६४ || शुद्धान्नं ब्रह्मती सर्षं दधिक्षीरन्तु विश्रमम् | तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् || ६५ || प्. १८४) कूसरान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् | चतुर्थेऽहनि दातव्यं गन्धर्वमन्त्रमुच्चरन् || ६६ || मुक्तान्नं गुलसंयुक्तं मधुक्षीरं घृतं तथा | पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् || ६७ || पायसान्नं घृतञ्चैव कदलीं गुलसंयुतम् | षष्ठमेऽहनि दातव्यं स्कन्दं मन्त्रमुदीरितम् || ६८ || शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च | सप्तमेऽहनि दातव्यमृषिमन्त्रमनुस्मरन् || ६९ || शुद्धान्नं मुद्गसंयुक्तं गुलं घृतेन संयुतम् | अष्टमेऽहनि दातव्यं नाममन्त्रमनुस्मरन् || ७० || प्. १८५) शुद्धान्नञ्च घृतं क्षीरं पनसाम्रफलं तथा | नवमेऽहनि दातव्यमिन्द्रमन्त्रमनुस्मरन् || ७१ || शुद्धान्नं दधिसंयुक्तं गुलखण्डसमन्वितम् | कदलीपनसञ्चाम्रं नारिकेलफलान्वितम् || ७२ || दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् | माषान्नघृतसंयुक्तं क्षीरन्तु गुलखण्डकम् || ७३ || एकाद * * * कुर्याद्रुद्रमन्त्रमनुस्मरन् | उद्धान्नविधिसंयुक्तं बृहतीमूलसंयुतम् || ७४ || द्वादशेऽहनि दातव्यं शिवमन्त्रं बलिं क्षिपेत् | कृसरान्नं गुलं सर्पि मधुक्षीरफलं तथा || ७५ || प्. १८६) त्रयोदशेऽहनि दातव्यं गणानां मन्त्रमुच्चरन् | माषान्नं मासमित्युक्तं गुलक्षीरघृतं तथा || ७६ || चतुर्दशेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् | पायसं घृतसंयुक्तं गुलखण्डसमन्वितम् || ७७ || पञ्चदशेऽहनि दातव्यं शास्त्रमन्त्रमनुस्मरन् | दिनदेवतमावाह्य नित्यमेव बलिं क्रमात् || ७८ || ब्रह्मादैशानपर्यन्तं लोकपालबलिं क्षिपेत् | शुद्धान्नं घृतसंयुक्तं दधिक्षीरन्तु मिश्रितम् || ७९ || * * त् स्वनाममन्त्रेण लोकपालबलिं क्षिपेत् | पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिं क्रमात् || ८० || प्. १८७) ब्रह्मादि नि-ऋ-ऋत्यन्तं वरुणादि प्रदक्षिणम् | एतद्बलिक्रमं कुर्यान्नित्यमेव बलिं क्षिपेत् || ८१ || तद्वारे बलि निक्षिप्य वृषभं तत्र पश्चिमम् | ज्येष्ठादिविघ्नपर्यन्तं स्वस्वनाम बलिं क्षिपेत् || ८२ || दिनदैवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् | तद्वारे तु महालक्षीं गोस्थाने तु सरस्वतीम् || ८३ || भूपे चैव महामोदिमन्त्रं मन्त्रन्तु बलिं क्षिपेत् | ईशाने सुन्दरी चैव देविकोष्ठे बलिं क्षिपेत् || ८४ || लिङ्गमेव महापीठं न लिङ्गं विसर्जयेत् | जले तु भृगतं कुर्यात् सर्जयेदन्नलिङ्गकम् || ८५ || प्. १८८) आवाहबलिं कुर्यादुद्वाहनबलिं क्षिपेत् | द्वात्रिंशेन बलिं कुर्यात् षोडशं दिनमेव च || ८६ || चतुर्विंशद्बलिं कुर्याद्वादशं दिनमेव च | अष्टादश बलिं कुर्यात् सौख्यसेवं विधीयते || ८७ || मनुना कौशिकश्चैव एकाहन्तु बलिक्रमम् | बलिसंख्या इति प्रोक्ता उत्सवस्य विधिं शृणु || ८८ || उत्सवं कारयेद्धीमान् पुण्यनक्षत्रमेव च | प्रतिष्ठादुत्सवा हीने यथेष्टं मासि वा नयेत् || ८९ || राजा जन्मनि नक्षत्रे सुखप्रीतिकराय च | यद्वारे तु महापीठं प्रासादञ्चूर्ध्वमेव च || ९० || प्. १८९) व्यापिलिङ्गवती * * यजेदुत्सवमेव च | प्रतिष्ठादिशिखरं हीने उत्सवं वर्जयेद्बुधः || ९१ || अङ्गोपाङ्गप्रत्यङ्गं परिवारसमन्वितम् | प्रासादद्वारपीठानां अङ्गमेवमिहोच्यते || ९२ || हीने तु उत्सवे हीने वर्जयेत्तु विचक्षणः | प्रारब्धमुत्सवे हीने यथेष्टं मासि वा नयेत् || ९३ || आगतं सहसा कृत्वा पश्चादुत्सवमाचरेत् | पूर्वोत्सवविहीने च यथेष्टं मासवान्नयेत् || ९४ || * * तनकाले नष्टे पुनरुत्सवमाचरेत् | प्रायश्चित्तविधिं कुर्याच्छान्तिहोमं समाचरेत् || ९५ || प्. १९०) मासनक्षत्रतीर्थान्तं मार्द्रान्तमुत्सवं परम् | ग्रामनक्षत्रतीर्थान्तं प्रतिष्ठानक्षत्रमेव च || ९६ || राजा जन्मनि नक्षत्रे यजमानवशाद्बुधः | चन्द्रनक्षत्रमित्युक्त सौरसापनतीर्थकम् || ९७ || सर्वमासे प्रकर्तव्यमुत्सवं कारयेत्क्रमात् | नित्यनैमित्तिकं काम्यमुत्सवं त्रिविधं भवेत् || ९८ || नित्यं नित्योत्सवं कुर्यान्नैमित्तिकविशेषतः | यथेष्टकाम्यमित्युक्तमुत्सवं त्रिविधं भवेत् || ९९ || नित्योत्सवं ततः कुर्यान्नैमित्तिकमथोत्सवम् | इष्टमासे तु काम्यार्थमुत्सवं कारयेद्बुधः || १०० || प्. १९१) नित्योत्सवं विना यत्र महोत्सवं विसर्जयेत् | ध्वजं सवाहयित्वा तु वर्जयेत्तु विचक्षणः || १०१ || यजमानेच्छया कुर्याद्यथेष्टं मासि वा नयेत् | ध्वजे ध्वजो न कर्तव्यं कर्तव्यं वृषभध्वजम् || १०२ || उद्यत्सोत्सवकं कुर्याद्विष्ट शैवोत्सवो द्विजा | विष्णुकल्याणमेवोक्तं शिवाङ्गञ्च समाचरेत् || १०३ || शिवाङ्गं तत्र कुर्वीत विष्णुयागं विनाचरेत् | देवानामपि कल्याणे नृपकल्याणं न कारयेत् || १०४ || ग्रामे च नगरे चैव पत्तने राजधानिके | सर्वे देवोत्सवं कुर्यादेकस्मिन् एकवास्तुनि || १०५ || प्. १९२) हरिपृष्टं सुशान्त स्याद्धरपृष्ठन्तु शोभितम् | सर्वदेवोत्सवं कुर्यादेकवास्तुबलक्रमम् || १०६ || उत्सवं कारयेद्धीमान् पुष्यमासे तु पुष्यकम् | माख्यान्तं माघमासे तु फाल्गुन्यामुत्तरान्तकम् || १०७ || शुक्लपक्षे तृतीये तु रोहिण्यां तं विशेषतः | पूर्णे तु मास-ऋक्षे तु समुद्रस्नानमुत्तमम् || १०८ || पूर्वाषा * * * न्न पक्षे तु अश्वा श्व मासके | कार्तिके कृत्तिकान्तं वा आर्द्रान्तं मार्गशीर्षके || १०९ || सर्वमासेषु कर्तव्यमार्द्रान्तमुत्सवं परम् | विफलार्द्रास्त्वमासे तु सौरमासं प्रशस्तकम् || ११० || प्. १९३) सर्वोत्सवेन मे वाऽपि सौरसंख्यानमेव च | आरंभं त्रिविधं तेषां केतुरोहणपूर्वकम् || १११ || गरीताडनपूर्वञ्च अङ्कुरार्पणपूर्वकम् | अङ्गुरं वृषयागन्तु वृषभन्तु प्रतिष्ठितम् || ११२ || उत्सवाङ्कुरं द्वितीयन्तु र्पोमतु माया |? ऋक्षे तु समुद्रस्नानं तीर्थाङ्कुरं तृतीयते || ११३ || यकसर्वेषामुत्तमं अङ्कुरं त्रिविधं भवेत् | नयनं मोक्षणञ्चैव जलाथ वासनं तथा || ११४ || आचार्यः शिल्पहस्तेन नयनोन्मीलनं कुरु | शालितण्डुलतन्मध्ये वृषभं स्थाप्यमेव च || ११५ || प्. १९४) अष्टदिक्कलशे तेषु उक्षां कलशे न्यसेत् | पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः || ११६ || हेमसूपि प्रकारन्तु सुमूहूर्ते विचक्षणः | मधुसर्पिं तथा कुर्यान्नयनाल्पशिलां तथा || ११७ || धूपदीपं तथा कुर्याद्धान्यदर्शनसंभवेत् | दर्पणमभिषेकन्तु मुद्गान्नन्तु निवेदयेत् || ११८ || शिल्पन्नन्त्वविसृज्याथ गोमयालेपनं तथा | मध्ये समतलं कृत्वा मध्ये स्थण्डिलमेव च || ११९ || नलिनं न्यसेत्तत्र मध्यमे वृषकुंभकम् | अभितः कलशानष्टौ उक्षादीनि क्रमान्यसेत् || १२० || प्. १९५) * मेमङ्क * दूर्वाञ्च स्थण्डिलं तत्र कारयेत् | होमान्ते नयनोन्मीलं मजसर्पिलोचनं स्पृशेत् || १२१ || दर्शयेद्द्रव्यसंयुक्तमभिषेकं तर्पणं तथा | दर्पणतलाधि वासञ्च प्रतिष्ठा कारयेद्बुधः || १२२ || शिवाग्रे मण्टपं कुर्यात् गोमयालेपनं तथा | मण्डपे स्थण्डिलं कृत्वा दृष्टद्रोणैश्च शालिभिः || १२३ || तन्मध्ये स्थण्डिलं कृत्वा स्थापयेद्वृषभध्वजम् | कौतुकं बन्धयेद्धीमान् स्वर्णराजससूत्रकम् || १२४ || अथवा कार्पससूत्रं स्यात् बन्धयेद्वृषशृङ्गकौ | पुण्याहं वाचयेत्तर कौतुकं बन्धयेत्क्रमात् || १२५ || प्. १९६) त्रियंबकेन मन्त्रेण दक्षां सूत्रन्तु बन्धयेत् | शयनं स्थण्डिलं कुर्यात्तदग्रे वृषकुंभके || १२६ || अभितः क्रवशानष्टौ इक्ष्वादीनि क्रमान्यसेत् | तदग्रे अग्निसंस्थाप्य होमयेत्पूर्ववत्कुरु || १२७ || तदग्रे भेरिदेवं स्यात् स्थण्डिलं तत्र कारयेत् | पश्चिमे अस्त्रदेवन्तु शालिभि स्थण्डिलं क्रमात् || १२८ || लाजपुष्पैरलङ्कृत्य दर्भमाला समन्वितम् | अग्निकार्योक्तमार्गेण होमयेत्तु विचक्षणः || १२९ || प्रोक्षणं प्रणीतापात्रं आज्यस्थालीन्तु विन्यसेत् | उत्तरे आसनं कल्प्य अधोमुखन्तु साधयेत् || १३० || प्. १९७) प्रोक्षणीपात्रमादाय तोयं कुशाक्षतैर्युतम् | प्रादेशं कूर्चसहितं त्रिभिः स्पर्शतलं तथा || १३१ || आज्यस्थालीं प्रणीताञ्च ऊर्ध्वमुखं पात्रमेव च | प्रोक्षयेत्तु कुशाग्रेण प्रोक्षणीन्तु जलं तथा || १३२ || प्रणीतापात्रं जलं पूर्य कुशपुष्पाक्षतैर्युतम् | जनार्दनन्तु आवाह्य उत्तरे स्थाप्यमेव च || १३३ || दक्षिणे तु यजेद्ब्रह्मा कूर्चं पुष्पाक्षतान्वितम् | प्रादेशा कूर्चसहितं त्रिस्पर्शनं जलं तथा || १३४ || अग्निसंस्कारमेवन्तु आज्यसंस्कारमेव च | आज्यस्थालीं घृतं पूर्य कूर्चप्रादेशमात्रतः || १३५ || प्. १९८) त्रिप्रादेशं स्पर्शनं कुर्याद्विसर्जेदग्निमेव च | दर्भाग्निं प्रदक्षिणं कुर्यादाज्यसंस्कारमेव च || १३६ || समिधाज्यचरुं लाजा माषाशालियवास्तथा | तिलसर्षपदुग्धादि गुलखण्डदशस्मृतः || १३७ || परिस्तरेणां परिधिं विष्टरत्रयमेव च | तदूर्ध्वं समिधा कृत्वा परिषेचनमन्तरे || १३८ || अग्निसंस्कारमेवन्तु आज्यसंस्कारमेव च | समिधा सद्यमन्त्रेण आज्यं वामेन हूयते || १३९ || अघोरेण चरुं हुत्वा लाजां तत्पुरुषेण च | तिलमीशानमन्त्रेण सर्षपं कवचेन तु || १४० || प्. १९९) मुद्गमाषयवाश्चैव शिवमन्त्रेण भूयते | वृषमूलञ्च गायत्रीं शतमष्टोत्तरं शतम् || १४१ || द्रव्यते व्याहुतिं हुत्वा स्विष्टमग्नेति मन्त्रतः | जयादीरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् || १४२ || पूर्णाहुतिञ्च शिरसा अग्निबीजमनुस्मरन् | तांबूलं दापयेत्पश्चात् मूर्तिं वृषभकुंभके || १४३ || मन्त्रन्यासं ततः कुर्याद्वृषमूलेन मन्त्रवित् | भेरीघोषं ततः कुर्यात् आवाहनमथोच्यते || १४४ || आहूय वाद्यकान् पश्चात् शुद्धपारशवस्तथा | दीक्षितानान्तु सर्वेषां आचार्यं ताडयेत्क्रमात् || १४५ || प्. २००) नववस्त्रोत्तरीयञ्च यज्ञोपवीतमेव च | सर्वाभरणसंयुक्तं सर्वपुष्पैरलङ्कृतम् || १४६ || पुष्पाञ्जलिसमायुक्तं गौरीयोषसमन्वितम् | ताडयेन्नव तालं स्यादाचार्यश्शिष्य एव च || १४७ || आन्त्रदेवन्तु संपूज्य देवतावाहनं भवेत् | शिवादिचण्डपर्यन्तं आवाहनविधिं कुरु || १४८ || हविर्न्निवेदयेद्धीमान् सर्वे देवन्निवेदयेत् | बलिपात्रसमायुक्तमन्नलिङ्गास्त्रमेव च || १४९ || ध्वजं चण्डेश्वरञ्चैव ग्रामप्रदक्षिणं तथा | अन्येषकं समादाय ध्वजपटं बन्धयेत्क्रमात् || १५० || प्. २०१) सन्धिदेवतमावाह्य दिनदेवसमन्वितम् | अन्तर्बलिं क्रमं पूर्वं यागान्ते वा बलिं क्षिपेत् || १५१ || सर्वमभ्यर्चयेद्धीमान् पश्चाद्वास्तुबलिं क्षिपेत् | ग्रामप्रदक्षिणं कृत्वा महापीठे बलिं क्षिपेत् || १५२ || ध्वजपटं स्थलिका चैव दण्डमूले सुसंस्थितम् | दण्डलक्षणमेवोक्तं दारुजं वाऽथ कारयेत् || १५३ || असनं खादिरञ्चैव बिल्वं चंपकमेव च | देवदारुकसंयुक्तं क्रमुकं खण्डदण्डकम् || १५४ || मयूकं अर्जुनञ्चैव कृष्णवृक्षसमन्वितम् | मुनिवृक्षसमायुक्तं क्रमुकं वेणुदण्डकम् || १५५ || प्. २०२) वक्रं भिन्नञ्च सुषिरं कृमिकोटरमेव च | अन्तस्सारपुमानञ्च वह्निस्सारंत्ति मेव च || १५६ || सूप्यन्तं वा गुलान्तं वा उक्षस्थलसमन्तु वा | तद्गीवस्य समं वाऽपि गोपुरस्य समन्तु वा || १५७ || त्रयस्त्रिंशस्तमेवोक्तं पञ्चविंशति हस्तकम् | अथवा हस्तमेवोक्तं दण्डयामं विधीयते || १५८ || क्षीरवृक्षन्तु संग्राह्य यष्टिं कृत्वा विचक्षणः | चतुर्हस्तप्रमाणेन त्रितायन्तु समन्वितम् || १५९ || अग्न्यङ्गुलघनं प्रोक्तं तं वषट्कारमेव च | द्वयं सुषिरसंयुक्तं मध्यचन्द्रमथापि वा || १६० || प्. २०३) उपदण्डप्रमाणेन वेणुदण्डं विधीयते | नवतालोत्तमं कुर्यात् सप्ततालन्तु मध्यमम् || १६१ || षट्तालं पञ्चतालं वा कन्यसंमपदण्डकम् | यष्टिबन्धं समायुक्तं दर्भमालासमन्वितम् || १६२ || अयसा वलयं वाऽपि बन्धयेदुपदण्डकम् | कार्पाससूत्ररज्जुं वा वलयद्विगुणमेव च || १६३ || कनिष्ठाङ्गुलिपरिणां दण्डमूला तथाश्रितम् | भूमिसंप्रोक्षणं कुर्यात् खानयेत्पृथिवीं ततः || १६४ || त्रिहस्तन्तु प्रमाणेन द्विहस्तं खानयेत्क्रमात् | दण्डन्तु स्थापितं कुर्याच्छालितण्डुलकूर्मकम् || १६५ || प्. २०४) रत्नजं रजतञ्चैव कूर्मासनन्तु लोहजम् | पञ्चलोहसमायुक्त * * शूले तु योजयेत् || १६६ || पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः | वेदिलक्षणमेवोक्त शिलायामिष्टकावथ || १६७ || अथवा मृत्तु संगृह्य त्रिमेखलसमन्वितम् | हस्तयामन्तु विस्तारमुत्सेधं हस्तमानकम् || १६८ || रत्निमात्रसमुत्सेधं मुष्टिमात्रमथापि वा | विस्तारसमुत्सेधं हस्तमथोत्तमम् || १६९ || चतुर्विंशाङ्गुलिं हस्तं मात्राङ्गुलेन कारयेत् | वेदिकालक्षणं प्रोक्तं दण्डमूले विचक्षणम् || १७० || प्. २०५) शिल्पितं विसर्जयेद्धीमान् गोमयालेपनं तथा | कौतुकं बन्धयेत्तत्र दण्डमध्ये सुबन्धकम् || १७१ || विनायकं पूरयेत्तत्र पुण्याहं वाचयेत्ततः | अथवा सलयं रज्जु द्विगुणं मूलमाश्रितम् || १७२ || दर्भमालासमायुक्तं पुष्पमालाञ्च शोभितम् | ध्वजपटं बन्धयेद्धीमान् किङ्किणी पुष्पशोभितम् || १७३ || वृषकुंभन्तु मूर्ति स्याद्धूपदीपसमन्वितम् | सुमुहूर्ते तु यत्कुर्या ध्वजारोहणमेव च || १७४ || स्तोकस्तोकेन संयुक्तं बन्धयेत्तु दृढं बुधः | विपरीतं परोगेण प्रायश्चित्तं विधीयते || १७५ || प्. २०६) * * * शान्ततः कृत्वा पुनस्सन्धानमेव च | सर्वदेवतमावाह्य दण्डमूले तु योजयेत् || १७६ || लोकपालान् समभ्यर्च्य दिक्तालं बन्धयेत्क्रमात् | नृत्तगीतसमायुक्तं सर्वघोषसमन्वितम् || १७७ || मुद्गान्नन्तु निवेद्यं स्यात्पायसान्नं निवेदयेत् | नव पिण्डं ततः कुर्याद्दिग् दिक्षु च मेव हि || १७८ || गर्भोत्पत्तिसमायुक्तं प्रथमं गर्थदापयेत् | अमङ्गलि कन्यकाचैव अपस्मारदृढं तथा || १७९ || आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः | शिवाग्रे मण्टपं कुर्यात् गोमयेन तु लेपयेत् || १८० || प्. २०७) उमाञ्च देवदेवस्य कौतुकं बन्धयेत्क्रमात् | स्वश्रं रतं वापि अथवा कार्पासमेव च || १८१ || त्र्यंबकेन मन्त्रेण रक्षाबन्धनकर्मणि | स्थलिकां तण्डुले चैव तन्मध्ये तन्तु रक्षकम् || १८२ || परिचारकहस्तेन प्रकारे तु प्रदक्षिणम् | नववस्त्रसमायुक्तं सर्वदोषसमन्वितम् || १८३ || सर्वस्याग्रे स्थितं कुर्यात् पुण्याहं वाचयेत्क्रमात् | गन्धपुष्पादिभिः पूज्यमघोरेण देशिकम् || १८४ || त्र्यंबकेन मन्त्रेण रक्षासूत्रं प्रबन्धयेत् | उमासहितमेवोक्तं चन्द्रशेखरमेव च || १८५ || प्. २०८) एकरूपं द्विबेरं वा त्रिबेरं वा विशेषतः | षोडश प्रतिमायाञ्च कौतुकं बन्धयेत्क्रमात् || १८६ || यागशालां ततः कुर्यात् कूटं वा मण्टपं तथा | ऐन्द्रे च पावके वाऽथ यमो वै राक्षसेऽपि वा || १८७ || वायुसोमस्तथैशान्यां यागमण्टपमेव च | मण्टपे समलं कुर्यात्तन्मध्ये वेदिकां कुरु || १८८ || रत्निमात्रं समुत्सेध दर्पणोदरसन्निभम् | हस्तद्वयन्तु विस्तारमुपवेदिसमायुतम् || १८९ || नवाग्निमुत्तमञ्चैवं मध्याग्निं मध्यमं भवेत् | एकाग्निमधमं प्रोक्तं वृत्तं वा चतुरश्रकम् || १९० || प्. २०९) एकाग्निं वाऽथ कुर्वीत पूर्वपश्चिममेव च | यद्वाराभिमुखं लिङ्गं तद्वारं कुंभपूजयेत् || १९१ || तदग्रे अग्निकुण्डं वा होमयेत्तु विचक्षणः | षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव च || १९२ || चतुस्तंभसमायुक्तं चतुर्द्वारसमन्वितम् | युगतोरणसंयुक्तं दर्भमालासमन्वितम् || १९३ || गात्रवेष्टनसंयुक्तं वितानध्वजसमायुतम् | वेदिकास्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः || १९४ || तदर्धं तण्डुलं प्रोक्तं तदर्धन्तु तिलैरपि | तन्मध्ये नलिनं लिख्य अष्टपत्रं स कर्णिकम् || १९५ || प्. २१०) मध्ये सदाशिवं कुंभं वर्धनीकृतन्तु तथोत्तरे | अष्टविद्येश्वराह्येते पूर्वादिक्रमविन्यसेत् || १९६ || शिवकुंभं ततोद्धृत्य शिवमन्त्रमनुस्मरन् | शिवशक्तिं वर्धनीं पूज्य पराशक्तिसमन्वितम् || १९७ || अष्ट विद्येश्वरा ह्येते तत्तत्स्वनाममन्त्रकैः | द्वारकुंभं समादाय पूर्वादीशान्तमुच्यते || १९८ || प्राग्भूतं कुंभं तदेकाग्निकुंभाक्षिण्यवैदेहं नै-ऋत्यदाग्निम् | वारुण्यषट्कं तथैश्विन्यवायौ सोमे युगस्यात्रिः कुंभमीशे || १९९ || प्. २११) तत्तत्स्थ नाममन्त्रेण द्वारकुंभं समर्चयेत् | सर्वदेवतमावाह्य गन्धपुष्पादिनाऽर्चयेत् || २०० || धूपदीपसमायुक्तं होमं कृत्वा विचक्षणः | पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् || २०१ || कौतुकमग्निकुण्डञ्च प्रति प्रति विशेषतः | कुण्डसंस्कारमेवोक्त निर्मलज्वालमेव च || २०२ || अग्निकार्यविधिं प्रोक्तं प्रतिकुण्डन्तु होमयेत् | आचार्यशिष्यस्तैर्युक्तं होमं कुर्याद्विचक्षणः || २०३ || पालाशोदुंबरञ्चैव अपामार्गोपप्लक्षका | बिल्वञ्च खादिरञ्चैव न्यग्रोधं वह्निमेव च || २०४ || प्. २१२) वैकङ्कतीञ्च काश्मीरं संमित्थ समुदाहृतम् | परिस्तरेण दर्भाणां परिधित्रयमेव च || २०५ || पूर्वे ऊर्ध्व समीधाय द्वयमिष्टरमेव च | ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे तु जनार्दनम् || २०६ || परिषेचनं ततः कुर्यात् प्रोक्षणं पात्रमेव च | प्रणीतापात्रमादाय जनार्दनं पूजयेत्क्रमात् || २०७ || कुण्डञ्च आज्यं संप्रोक्तं स्वाहासहितमेव च | होमान्ते तु बलिं कुर्यात् मेखलोपरि विन्यसेत् || २०८ || तत्तत्स्वनाममन्त्रेण लोकपाल बलिं क्षिपेत् | बहिर्बलिविधिं कुर्यात् अन्तर्बलिमथाचरेत् || २०९ || प्. २१३) कुण्डपार्श्वे पावकञ्च अन्तर्बहिर्बलिं क्षिपेत् | प्रथममष्टनागञ्च द्वितीयं द्वादशादिकम् || २१० || नागादिबलिनिक्षिप्य पूर्णाहुतिमथाचरेत् | अग्निमन्त्रमनुस्मृत्य स्वाहेति इति योजयेत् || २११ || अग्निमूर्तिसमावाह्य कुंभमध्ये सुयोजयेत् | हविर्निवेदयेत्तत्र सर्वदेवनिवेद्यकम् || २१२ || होमान्ते भेरिघोषं स्यान्नवतालविधं भवेत् | आहूय पाद्यकं पश्चात् आचार्यश्शिष्य एव च || २१३ || यागान्ते भेरिघोषं स्यात् वास्तुभूतबलिं क्षिपेत् | प्रथममन्तर्बलिं कुर्यात् द्वितीयं दिनदेवता || २१४ || प्. २१४) ध्वजानि बलिपीठान्तं बलिभोज्यक्रमं शृणु | उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणं तथा || २१५ || रथे वा शिबिके वाऽपि स्थापयेद्देवमेव च | शङ्खघोषसमायुक्तं ब्रह्मघोषसमन्वितम् || २१६ || सर्ववाद्यसमायुक्तं श्रोत्रमङ्गलवाचकैः | छत्रन्तु चामरौ चैव व्यजनं ध्वजमेव च || २१७ || सर्वं दीपसमायुक्तं यत्त्रदीपमनन्तरे | सर्वभक्तजनानान्तु नृपतीन् ब्रह्ममेव च || २१८ || आचार्यो दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके | मध्यमं रुद्रकन्यायां गान्धर्वन्तु शिवाग्रके || २१९ || प्. २१५) ग्रामप्रदक्षिणं कुर्यात् आस्थानमण्डपं तथा | पाद्याचमनं चार्घ्य धूपदीपसमन्वितम् || २२० || आरात्रिकमर्चयेद्धीमान् भस्मानं दापयेद्बुधः | दर्पणञ्चामरञ्चैव व्यजनं छत्रमेव च || २२१ || भस्म सन्तापनं कुर्यात् नृपभक्तजनान्वितम् | नालिकेरसमायुक्तं पनसं कदलीफलम् || २२२ || निवेदयेत्तदा मन्त्री तांबूलन्तु निवेदयेत् | तद्दिनन्तु समारभ्य यज्ञं सप्तदिनं भवेत् || २२३ || तद्दिनात्सप्तदिवसे तैलाभ्यङ्गी न कर्मणि | आस्थानमण्टपं कुर्यात् गोमयालेपने शुभे || २२४ || प्. २१६) स्थण्डिलं तत्र कुर्वीत अष्ट द्रोणैश्च शालिभिः | तन्मध्ये तैलसंस्थाप्य पूर्वाक्षतसमन्वितम् || २२५ || पुण्याहं वाचयित्वा तु तैलं शिरोर्पणं तथा | दूर्वाक्षतसमायुक्तं मूर्ध्नि निक्षेपयेद्बुधः || २२६ || अस्त्रभेर्यादिसंयुक्त तैलाभ्यङ्गनकं तथा | स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः || २२७ || शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् | मुक्ताभरणसंयुक्तं श्वेतचन्दनलेपितम् || २२८ || बहुनैवेद्यसंयुक्तं उपदंशसमन्वितम् | शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् || २२९ || प्. २१७) मुक्ताभरणसंयुक्तं श्वेतचन्दनलेपितम् | बहुनैवेद्यसंयुक्तं उपदंशसमन्वितम् || २३० || तांबूलन्तु निवेद्यस्यात् धूपदीपसमन्वितम् | इत्येवं लक्षणैर्युक्ता नारी पुंसा विवर्जयेत् || २३१ || अङ्गाल्याय समायुक्तं हस्ताल्प्याय समन्वितम् | अभिनिर्याय संयुक्तं तालविन्दालसंयुतम् || २३२ || सर्वालङ्कारसंयुक्तशुद्धनृत्तं स गेयकम् | एतल्लक्षणसंयुक्तं गान्धर्वं समुदाहृतम् || २३३ || न दीक्षितेन यो नृत्तं दोषमेवं प्रकीर्तितम् | तद्दोषसमनार्थाय स्नपनं पञ्चविंशतिः || २३४ || प्. २१८) लिङ्गे वा कौतुके वाऽपि गन्धपुष्पादिनार्चयेत् | शुद्धनृत्तादिना पूर्वं निशायामधिवासयेत् || २३५ || मण्टपस्योत्तरे देशे स्थण्डिलं शालिना कुरु | शयनं कल्पयेत्तत्र अजातीनि च कल्पयेत् || २३६ || तन्मध्ये रुद्रनारीणां ममामेष्याह तव स्मृतम् | शाययेत्कौतुकं बध्वा स्वर्णसूत्रन्तु सूत्रयेत् || २३७ || नर्तको मर्दकश्चैव गायको वंशकस्तथा | मौनको वाद्यकञ्चैव निशायामधिवासयेत् || २३८ || स्थण्डिलं तत्र कुर्वीत चतुर्द्रोणैश्च शालिना | तदर्धे स्थण्डिलैश्चैव तदर्धैश्च तिलैरपि || २३९ || प्. २१९) नवभिः कलशान् स्थाप्य नवशक्तिसमन्वितम् | स कूर्चान् सपिधानांश्च स वस्त्रैःपल्लवैर्युतम् || २४० || गन्धपुष्पादिनाऽभ्यर्च्य धूपदीपसमन्वितम् | प्रातःकाले समुद्धृत्य शौचाचमनपूर्वकम् || २४१ || दन्तशुद्धिसमायुक्तं स्नानं कुर्याद्विशेषतः | नवभिः कलशैस्थाप्य दीक्षामन्त्रमनुस्मरन् || २४२ || गन्धपुष्पादिनाऽभ्यर्च्य वस्त्राभरणं ददेत् | हृदयेन तु मन्त्रेण पुष्पं शिरसि विन्यसेत् || २४३ || हस्ते पुष्पं विनिक्षिप्य पुष्पञ्च पतिते यथा | तन्नामं वाचयेन्नित्यं रुद्रनारी यथाक्रमम् || २४४ || प्. २२०) पश्चात्प्रदक्षिणं कुर्यादालयन्तु प्रवेशयेत् | विघ्नेशञ्च नमस्कृत्वा फलपुष्पहविर्ददेत् || २४५ || गङ्गासरस्वती चैव श्री देवीन्तु समर्चयेत् | गन्धपुष्पहविर्दत्वा तांबूलञ्च प्रदापयेत् || २४६ || मध्याह्ने पायसान्नन्तु रुद्रनार्या सुभोजनम् | ततः प्रकरनारीणां प्रविशेन्मण्टपं प्रति || २४७ || ईशानादि समारभ्य वास्तुदेवान् सुपूजयेत् | सायंकाले बलिं दद्यात् मण्टपस्याधिदेवता || २४८ || मण्टपस्य तु तन्मध्ये स्थण्डिलं वाऽनिलां कुरु | तन्मध्ये मुखं स्थाप्य गन्धपुष्पादिनाऽर्चयेत् || २४९ || प्. २२१) आच्छाद्य हतवस्त्रेण हविष्यन्तु प्रदापयेत् | नन्दिकेश्वरमभ्यर्च्य गन्धपुष्पादिभिः क्रमात् || २५० || प्रथममात्मशुद्धिश्च द्वितीयं करशोधनम् | तृतीयं वंशतालाख्यं ओङ्कारगणमुदाहृतम् || २५१ || चतुर्थं गानशुद्धिश्च पञ्चमं मुखाद्यकम् | षष्ठकं वाद्यकैर्युक्तं सप्तमं पुष्पमोक्षमम् || २५२ || अष्टमं मणिबन्धञ्च नवरंभा च भावयेत् | दशमं नृत्तसंपूर्णं इत्येते नृत्तलक्षणम् || २५३ || देवस्य दक्षिणे भागे देशिकस्सुखमास्थितः | देवस्योत्तरे देशे नृत्तस्य सुखमास्थितौ || २५४ || प्. २२२) देवस्य पश्चिमे भागे परिचारकसुस्थितः | नर्दको मर्दकैश्चैव दक्षिणेन तु संस्थितौ || २५५ || गायको वंशकश्चैव उत्तरेण तु संस्थितौ | * * * * * * * णां परिधित्रयमेव च || २५६ || पूर्वे विष्टरसंकल्प्य समिधाहुतिमाचरेत् | समिधा सद्यमन्त्रेण आज्यं वाऽनेन मन्त्रकैः || २५७ || अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु | तिलमीशानमन्त्रेण सर्षपं कवचेन तु || २५८ || मुद्गमाषञ्च शालीनां नेत्रमन्त्रेण हूयते | पायसं गुलखण्डञ्च शिवमन्त्रेण हूयते || २५९ || प्. २२३) प्रति प्रति तथा कुर्यात् पुनः पुण्याहमाचरेत् | त्र्यंबकेन मन्त्रेण कौतुकन्तु नटेश्वरम् || २६० || शक्तिन्तु वामहस्तेन कौतुकं बन्धयेत्सुधीः | कौतुकं अस्त्रदेवानां मृगं वाद्यन्तु कौतुकम् || २६१ || धूपदीपसमायुक्तं आरात्रिकेनमर्चयेत् | सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा || २६२ || ब्राह्मणान् भोजयेत्तत्र चतुर्वेदसमन्वितान् | नृत्तगीतञ्च वाद्यन्तु पुराणं कथितं क्रमात् || २६३ || अपूपं निवेदयेद्धीमान् बहुनैवेद्यसंयुतम् | निवेदयेत्ततो मन्त्री तांबूलन्तु निवेदयेत् || २६४ || प्. २२४) धूपदीपसमायुक्तमारात्रिकेनचार्चयेत् | छत्रञ्च चामरञ्चैव दर्पणं दर्शयेत्क्रमात् || २६५ || भस्मशेषन्तु नृपति भक्तानां दापयेत्सुधीः | नववस्त्रैरलङ्कृत्य कौतुकं पूर्ववत्क्रमात् || २६६ || सर्वाभरणसंयुक्तं मुक्ताभरणभूषितम् | श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् || २६७ || नीलोत्पलसमं पुष्पं न भूतो न भविष्यति | स्थण्डिलप्रभसंयुक्तं बिंबप्रभसमन्वितम् || २६८ || हर्म्यप्रदक्षिणं कुर्यात् आस्थानमण्टपं स्थितम् | धूपदीपसमायुक्तं नीराजनं विशेषतः || २६९ || प्. २२५) भस्मन्तु दापयेत्कृत्वा छत्रचामरदर्शयेत् | नृपती भक्तजनानान्तु शेषभस्मन्तु दापयेत् || २७० || प्रातःकाले समारभ्य गन्धोत्सवविधिक्रमम् | आचार्यस्नानमेवन्तु प्रतिस्नानं समाचरेत् || २७१ || चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् | देवाग्रे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः || २७२ || तन्मध्ये नलिनं लिख्य त्रिपादीन् तत्र विन्यसेत् | स्थालिका तण्डुलैः पूर्य कृष्णगन्धसमन्वितम् || २७३ || कस्तूरीञ्चैव कर्पूर कृ * गन्धन्तु मिश्रितम् | शङ्खं दुन्दुभिनिर्घोषैः स्तोत्रमङ्गलवाचकैः || २७४ || प्. २२६) ग्रामप्रदक्षिणं कुर्यात् प्रविश्य स्थानमण्डपम् | देवसन्निधिसंप्राप्ते होमं कृत्वा विशेषतः || २७५ || पूर्ववदग्निसंस्थाप्य अग्निकार्योक्तमाचरेत् | पुण्याहं वाचयेद्धीमान् होमं कृत्वा विचक्षणः || २७६ || सर्वगन्धसमायुक्तं कृष्णगन्धप्रधानतः | होमान्ते कृष्णगन्धं स्यात् लेपयेत्तु नटेश्वरम् || २७७ || शक्तिं शिवं नटं प्राप्य सुमुहूर्ते विचक्षणः | ब्राह्मणान् भोजयेत्तत्र स्वस्वसूत्र समन्वितम् || २७८ || अस्त्रदेवश्च भेरि स्यामृदवाद्यं ताडयेत्ततः | मूलबेरसुगन्धं स्यात् परिवारसमन्वितम् || २७९ || प्. २२७) योगेश्वरञ्च देवानां कृष्णगन्धन्तु दापयेत् | चतुर्वेदं जपं कृत्वा भूसुरान् भोजयेत्क्रमात् || २८० || शुद्धनृत्तं विशेषेण गीतवाद्यसमन्वितम् | गेयन्तु दर्शनं प्राप्य कन्यादर्शनकं भवेत् || २८१ || भेरीन्तु ताडयेत्कृत्वा आचार्यं हस्तमेव च | गन्धद्वारेति मन्त्रेण ताडयेत्तु विशेषतः || २८२ || आहूय वाद्यकान् पश्चात् गन्धपुष्पन्तु निक्षिपेत् | पुष्पाञ्जलिं नमस्कृत्वा वाद्यकान् ताडयेत्क्रमात् || २८३ || सप्ततालविधिं प्रोक्तमाचार्यश्शिष्यमेव वा | नन्दिमन्त्रसमुच्चार्य मृदवाद्यन्तु ताडयेत् || २८४ || प्. २२८) आचार्यं ताडयेत्कुर्या वाद्यकान् दाडयेत्क्रमात् | झल्लरीमुखञ्चैव पटहं मर्दलं तथा || २८५ || महानाट्यसमायुक्तं महाघोषसमन्वितम् | एवं सप्तविधं कुर्यात् महानाट्यं तथैव च || २८६ || देवदेवं नमस्कृत्वा पाद्याचमनमेव च | धूपदीपसमायुक्तं नीराजनं विशेषतः || २८७ || भस्मन्तु दापयेत्कुर्याद्दर्पणं दर्शयेत्क्रमात् | छत्रञ्च चामरौ चैव व्यजनन्तु क्रमात्सुधीः || २८८ || शेषागन्धसमायुक्तभूपतिश्च विशेषतः | सर्वभक्तजनानान्तु सर्वेषां गन्धमेव च || २८९ || प्. २२९) सर्वभक्तजनानान्तु सर्वेषां गन्धमेव च | महाहविर्निवेद्यस्यात्तांबूलन्तु निवेदयेत् || २९० || धूपदीपसमायुक्तमारात्त्रिकन्तु मर्चयेत् | सर्वपुष्पैरलङ्कृत्य सर्वयोषसमन्वितम् || २९१ || शङ्खनादसमायुक्तं दुन्दुभिर्मर्दलान्वितम् | पुष्पप्रभसमायुक्तं चित्रप्रभसमन्वितम् || २९२ || रथे वा शिबिकायां वा छत्रदीपसमन्वितम् | सप्तगृहं ततः कुर्यात् प्रविश्यास्थानमण्टपम् || २९३ || पाद्यमाचमनं चार्घ्यं धूपदीपसमन्वितम् | नीराजनं ततः कुर्यात् भस्मन्तु दापयेत्क्रमात् || २९४ || प्. २३०) नलिकेरसमायुक्तं कदलीपनसं तथा | तांबूलं दापयित्वा तु दर्पणं दर्शयेत्क्रमात् || २९५ || छत्रञ्च चामरञ्चैव गीतवाद्यसमन्वितम् | स्नपनं कारयित्वा तु पश्चाच्च पञ्चविंशतिः || २९६ || स्नपनं कारयित्वा तु पूर्ववत्परिकल्पयेत् | तालचूर्णं सकृच्चूर्णं उदकं ग्राह्य बुद्धिमान् || २९७ || अभिषेकं तत्र कुर्वीत स्नपनं कारयेत्क्रमात् | पुण्याहं वाचयेत्तत्र वेदध्वनि समन्वितम् || २९८ || शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् | श्वेतचन्दनसंयुक्तं कर्पूरमेव मिश्रितम् || २९९ || प्. २३१) श्वेतयज्ञोपवीतञ्च श्वेतवस्त्रोत्तरीयकम् | हविर्निवेदयेद्धीमान् तांबूलं तत्र कारयेत् || ३०० || शिविकान्ते ततः कुर्यात् प्रकारे तु प्रदक्षिणम् | शिवाग्रे मण्टपं कुर्यात् विशेदास्थानमण्टपम् || ३०१ || धूपदीपसमायुक्तं आरात्रिकसमन्वितम् | पैशाचनृत्तसंयुक्तं महानाटकसंयुतम् || ३०२ || प्रातःकाले समारभ्य चित्रवस्त्रेण वेष्टितम् | सर्वाभरणसंयुक्तं सर्वमाल्यविभूषितम् || ३०३ || सर्वमङ्गलवाद्यैश्च शङ्खगहलमेव च | ग्रामप्रदक्षिणं कुर्यात् प्रविशेतालकं कुरु? || ३०४ || प्. २३२) आस्थानमण्टपं स्थित्वा धूपदीपसमन्वितम् | आरात्रिकसमायुक्तं भस्मं दत्वा विशेषतः || ३०५ || दर्पणं छत्रचामरं व्यजनं दर्शयेत्क्रमात् | शेषभस्मं ततः कुर्यात् भूपतिश्च विशेषतः || ३०५ || सर्वभक्तजनानाञ्च भस्मं दत्वा तु दापयेत् | नालिकेरसमायुक्तं पनसं कदलीफलम् || ३०६ || स्नानं कृत्वा यथान्यायं महाहविर्निवेदयेत् | मृगयात्रां समारभ्य पूर्वरात्राधिवासयेत् || ३०७ || त्रिपुरघ्नं प्रथमं कुर्यात् कल्याणं सुन्दरं तथा | वाजियज्ञास्तदन्ते तु गच्छ यत्र गजस्तथा || ३०८ || प्. २३३) दारुकैर्न्यदृच्छाया केचित्काले शिवोत्सवे | केचित् खड्गधराश्चैव केचित्परशुद्धरस्तथा || ३०९ || परिधयस्तथा सर्वे बहुधा धनशस्तथा | युद्धारम्भे तथास्सर्वे शीघ्रं गच्छेत्समाकुलम् || ३१० || मृगपक्षिवराहश्च मयूरं कुक्कुटस्तथा | सर्वालङ्कारसंयुक्तं वनयात्रसमन्वितम् || ३११ || हेलालीला स कथितं गच्छेद्भक्तजनैर्युतम् | गौरीचण्डेशनन्दीशो महाकालो वृषस्तथा || ३१२ || ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति | प्रदोषकालसमये तीर्थाधिवासनं तथा || ३१३ || प्. २३४) शिवाग्रे मण्टपं कुर्यात् अष्टद्रोणैश्च शालिभिः | तं मध्ये ललितं कुर्यात् त्रिपादी तत्र विन्यसेत् || ३१४ || स्थण्डिला तण्डुलैः पूर्य तं मध्ये कौतुकं हृदा | उमास्कन्देश्वरश्चैव मन्त्रदेवसमन्वितम् || ३१५ || गौरीदेवं समभ्यर्च्य चण्डेशंप्रतिमं तथा | कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरं तथा || ३१६ || पुण्याहं पूर्ववत्कृत्वा कौतुकं बन्धयेद्धृदा | त्र्यंबकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् || ३१७ || अस्त्रन्तु कौतुकं कुर्यात् भेरिकौतुकबन्धनम् | नदीतटाकमुद्रेण अस्त्रतीर्थसमन्वितम् || ३१८ || प्. २३५) सर्वदेवतमाह्वानं सप्ततीर्थसमन्वितम् | स्थण्डिलं तत्र कुर्वीत स्थापयेन्नवकुंभकान् || ३१९ || पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् | सप्ततालविधं कुर्यादाचार्यश्शिष्यसंयुतम् || ३२० || स्नानं कृत्वाऽस्त्रदेवानां सर्वभक्तजनैस्सह | ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति || ३२१ || तीर्थाधिवासनं कृत्वा महातीर्थं ततः शृणु | प्रातःकाले समारभ्य अवभृथस्नानमुत्तमम् || ३२२ || प्रातः सन्ध्यावसानेषु यागान्ते वा चलिं क्रमात् | ग्रामप्रदक्षिणं कुर्यादुमास्कन्देश्वरं तथा || ३२३ || प्. २३६) आस्थानमण्टपे स्थित्वा धूपदीपसमन्वितम् | चूर्णोत्सवं ततः कुर्यान्मण्टपाग्रविशेषतः || ३२४ || गोमयालेपिते शुद्धे श्वेतचूर्णैरलङ्कृतम् | तन्मध्ये स्थण्डिलं कुर्याल्लूखलं मुसलेन तु || ३२५ || लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् | वस्त्रदूर्वासमायुक्तं दर्भैः पुष्पैः परिस्तरेत् || ३२६ || रजनीद्रोणसंयुक्तं लूखलं चूर्णमेव च | रुद्रकन्यासमायुक्तं स्नानं कृत्वा विशेषतः || ३२७ || त्रिपुण्ड्रभस्मसंयुक्तं श्वेतवस्त्रैरलङ्कृतम् | धूपदीपसमायुक्तं पुष्पहस्ते प्रदापयेत् || ३२८ || प्. २३७) लूखलन्तु नमस्कृत्वा रजनीचूर्णमेव च | शङ्खघोषसमायुक्तं सर्ववाद्यसमन्वितम् || ३२९ || रजनीस्थे लि क पूर्य देवसन्निधिसंयुतम् | तैलदूर्वाक्षतान् पुष्पैः कूर्चमन्त्रैव विन्यसेत् || ३३० || मङ्गलाङ्कुरैरावृत्य सुमुहूर्ते विचक्षणः | पुण्याहं वाचयेत्तत्र घृतशीरोर्पणं तथा || ३३१ || मूलदेवपरीवारतैलाभ्यङ्गनकर्मणि | उमास्कन्देश्वरञ्चैव अस्त्रभेरीन्तु तैलकम् || ३३२ || दुर्वाङ्कुराक्षतैर्मूर्ध्निरर्चयित्वा विशेषतः | धूपदीपसमायुक्तमारात्रिकसमन्वितम् || ३३३ || प्. २३८) हस्तं दत्वा विशेषेण तांबूलं तत्र कारयेत् | दर्पणं दर्शयेत्कृत्वा चामरं व्यजनं तथा || ३३४ || ब्राह्मणान् भोजयेत्तत्र चतुर्वेदसमन्वितान् | प्रतिमामस्त्रदेवानां रजनीचूर्णमस्तकम् || ३३५ || तैलारंभेषु सहसा चूर्णं कृत्वा विचक्षणः | तैललस्त्रं चूर्णपात्रं अस्त्रदेव समन्वितम् || ३३६ || शङ्खघोषसमायुक्तं वास्तुदेव बलिक्रमम् | प्राकारे तु प्रदक्षिण्यां शीघ्रं गच्छेत्समाकुलम् || ३३७ || भूपतीशैश्च संयुक्तं महाजनसमन्वितम् | यकोवाद्यनृत्तं वा गणिकाभिस्समन्वितम् || ३३८ || प्. २३९) तैलारंभसमं कुर्यात् जलक्रीडासमन्वितम् | परिस्तरेण भाजानामर्चयेत्कलशन्नव || ३३९ || सर्वदैवतमावाह्य सर्वतीर्थसमन्वितम् | सप्ततालविधं प्रोक्तं आचार्यश्शिष्य एव वा || ३४० || अस्त्रेण सर्वभक्तानां सह स्नानं विधीयते | ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं ततः || ३४१ || मूलदेवस्य स्नपनं प्रतिमास्नपनं तथा | यागे संपूजयेत्तत्र पूर्णाहुतिमथाचरेत् || ३४२ || शिवकुंभं ततोद्धृत्य आचार्यं परिचारकैः | ग्रामप्रदक्षिणं कुर्याच्छिवाग्रे मण्टपं तथा || २४३ || प्. २४०) पुण्याहं वाचयेत्तत्र अभिषेकञ्च कारयेत् | वागीश्वरस्य देवानामपि बाह्ये प्रदक्षिणम् || ३४४ || स्नपनं तत्र कुर्वीत वस्त्रेण भोजनं कृतम् | उमास्कन्देश्वरञ्चैव स्नपनं तत्र कारयेत् || ३४५ || अष्टोत्तरशतं श्रेष्ठं पञ्चाशत्पञ्चविंशतिः | देवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः || ३४६ || पुण्याहं वाचयेत्तत्र स्नपनस्नापनमाचरेत् | शुद्धवस्त्रपरीधानं श्वेतमालाविभूषितम् || ३४७ || बहुनैवेद्यसंयुक्तं तांबूलं तत्र कारयेत् | धूपदीपौ समारोप्य नीराजनं विशेषतः || ३४८ || प्. २४१) मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणं तथा | लाजपुष्पं गृहीत्वा तु ब्राह्मणां स्वस्तिवाचकैः || ३४९ || आलयन्तु प्रविश्याऽथ आचार्यं पूजयेत्ततः | यागोपचारं सङ्गृह्य वस्त्रहेमाङ्गुलीयकैः || ३५० || ब्राह्मणान् भोजयेत्तत्र भक्तानां परिचारकैः | ध्वजदेवं समभ्यर्च्य मुद्गान्नन्तु निवेदयेत् || ३५१ || अवकाहरणं कुर्यात् शङ्खकाहलमर्दलैः | भेरीघोषसमायुक्तं सर्वालङ्कारमेव च || ३५२ || प्रकारे तु प्रदक्षिण्यां चण्डयागं समाचरेत् | चण्डेशस्थानसंयुक्तं वस्त्रैराभरणैर्युतम् || ३५३ || प्. २४२) चण्ड्याग्रे होमसंयुक्तं अग्निकार्यमथारभेत् | होमान्ते तु निवेद्यं स्यात् तांबूलन्तु निवेदयेत् || ३५४ || धूपदीपसमायुक्तं अर्चयित्वा विशेषतः | अन्नलिङ्गसमायुक्तं बलिपात्रसमन्वितम् || ३५५ || अस्त्रदेवं समादाय मौनं बलिमथाचरेत् | मौनव्रतधरास्सर्वे सन्धिदेवान् विसर्जयेत् || ३५६ || दीपहीनं ततः कुर्यात्प्रहरायान्तु घोषयेत् | ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् || ३५७ || पादप्रक्षालनं कृत्वा प्रविशेदालयं तथा | गौरीयागमहं वक्ष्ये पूर्वरात्राधिवासयेत् || ३५८ || प्. २४३) साये चोत्सवमारभ्य उमास्कन्देश्वरं तथा | ग्रामप्रदक्षिणं कुर्यात् भक्तोत्सवमनन्तरेत् || ३५९ || सर्वलोकहितं पुण्यं सर्वराष्ट्रविवर्द्धनम् | सर्वदारिद्र्यनाश स्यात् राज्ञो विजयवर्द्धनम् || ३६० || भोगमोक्षफलञ्चैव उत्सवः कथितः क्रमात् | इति योगजे प्रतिष्ठातन्त्रे महोत्सवः पटलः | || ओम् || आरंभस्य क्रियाकाले दोष उत्पद्यते यदि | उत्सवस्य विशेषेण प्रायश्चित्तं विधीयते || १ || प्. २४४) छिन्नं भिन्नञ्च पतितं चोरग्रस्तादिसंभवेत् | ध्वजस्य ध्वजदण्डस्य पटस्य तु विशेषतः || २ || कृत्वा तु पूर्ववत्सर्वं पुनरुत्थापनं कुरु | हृदयेन शतं हुत्वा स्नापनं पञ्चगव्यकैः || ३ || यागकालविहीनेन मूलमन्त्रं शतं जपेत् | होमद्रव्यविहीने तु हृदयेन शताहुतिः || ४ || बलिदानविहीने वा न्यूने वा व्यतिरिक्तके | हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्ततः || ५ || शूलास्त्रं पतितं वाऽपि आयुधञ्चाष्टमं गलम् | शूलस्य पतनञ्चैव सर्वेषाञ्च शताहुतिः || ६ || प्. २४५) प्रतिमापतने चैव स्पृष्टे चैवान्यजातिभिः | कृत्वा तु स्नपनं तत्र मूलमन्त्रेण हूयते || ७ || प्रमादाच्छिन्नभिन्नानि सवानां पूर्ववत्क्रमात् | तिथिवारमुहूर्ते च कालापेक्षां न कारयेत् || ८ || अधिवासनानि सर्वाणि सद्य एव तथा भवेत् | प्रतिदिक्कर्म सर्वेषां पूर्ववत्कारयेद्बुधः || ९ || अथवा उत्सवान्ते तु प्रतिष्ठां कारयेद्बुधः | कलहे रुधिरस्रावे अग्निदण्डे तथैव च || १० || यागगृहे मण्टपे चैव तस्करादौ रजस्वला | सूतिकामृतसंस्पर्शे दर्शने तु विशेषतः || ११ || प्. २४६) पूर्वभाण्डं विसृज्याथ नवभाण्डं प्रकल्पयेत् | शान्तिहोमं ततः कृत्वा पञ्चगव्येन प्रोक्षयेत् || १२ || उत्सवादीनि कर्माणि एकाहं सुविहीनके | पूर्ववत्तु ध्वजारोहं पुनरुत्सवमाचरेत् || १३ || रुद्रनारीस्तु दाशीश्च भक्तांश्च वाद्यगायकैः | पतितैर्व्याधिपीड्यांश्च मूलादिरुधिरस्रवम् || १४ || क्रियाकाले संभवञ्चैव पञ्चगव्येन प्रोक्षयेत् | पुण्याहं वाचयेत्तत्र अस्य नारीक्रिया भवेत् || १५ || वाद्यतालक्रियाकाले तत्काले छिन्नभिन्नकम् | पुनर्वाद्यं समारोप्य पवमानं समुच्चरन् || १६ || प्. २४७) इति योगजे प्रतिष्ठातन्त्रे उत्सवप्रायश्चित्तविधिः पटलः | || ओं श्री गुरुभ्यो नमः || अथ वक्ष्ये विशेषेण शक्तिस्थापनमुत्तमम् | सर्वलोकहितार्थाय सर्वप्राणिहितावहम् || १ || स्थापन स्थापनञ्चैव शक्तिस्थापनमेव च | स्वस्थापनप्रतिष्ठा च प्रतिष्ठापञ्चभेदकः || २ || स्थापनं शैलजं प्रोक्तमास्थापनमधातुजम् | सौतं स्थापनसिद्धिञ्च जीर्णोद्धारं सुसंस्थितम् || ३ || प्रतिष्ठामन्त्रसंयोज्यमेवं तत्पञ्चधोच्यते | शैलजं लोहजं वाऽपि सौधजं रत्नजं तथा || ४ || प्. २४८) शिलायान्तु शिलायां गृहमूर्ते विचक्षणः | शिला परीक्षिताञ्चैव सव्यं वै स्त्रीशिला बुधः || ५ || आचार्यः शिल्पिभिः कृत्वा शोतज्योतिषिकं तथा | दिनवारमुहूर्तञ्च कुर्याद्वै शिल्पिभिस्सह || ६ || शङ्खनादसमायुक्तं पूर्णकुंभैश्च शोभितम् रुद्रस्त्रीनवमासञ्च मधुक्षीरन्तु दर्शनम् || ७ || विप्रद्वयसमायुक्तं गौलीदक्षिणसंयुतम् | ऋषिदक्षिणपार्श्वेन मध्याह्ने तु प्रकाशयेत् || ८ || प्रातःकाले तु वामेन पक्षीजाती जनार्दनम् | शङ्खदुन्दुभि निर्घोषैः मुहूर्तन्तु विचक्षणः || ९ || प्. २४९) पर्वताग्रे समायुक्तं होमं कृत्वा विचक्षणः | दिग्विदिक्षु बलिं कुर्यादाचार्यश्शिल्पिभिस्सह || १० || आचार्यं पूर्ववत्कृत्वा पश्चाच्छिल्पी तु ताडयेत् | लोहजे तु मधूच्छिष्टं सङ्ग्रहे तु विचक्षणः || ११ || सौधजे दारुजं ग्राह्यं रत्नजन्तु ग्रहे बुधः | षोडशांशमथैकैकं तत्तद्भागेन चोपरि || १२ || गुणभूताब्धिरन्ध्रांशं रुद्रांशं प्रतिमोदयम् | तथैव मानहीनं वा तन्मानं वा गृहे पुनः || १३ || त्रयस्त्रिंशत्प्रमाणेन गृहे मानमथोच्छ्रयम् | उदयञ्चतुराशीति द्विषष्ठी च तथैव च || १४ || प्. २५०) चतुर्विंशत् षोडशांश भज्येकांशेन योजयेत् | एवमाद्योदयं कुर्यात्तेन मानाङ्गुलेन तु || १५ || त्यजेदलीनां विप्रेण गुणयेत्तु विचक्षणः | गुणेन गुणितं यत्र दुस्वैवे वसुभिः क्रमात् || १६ || शिष्टयोनिरिति ख्यातं वसुभिर्गुणितं पुनः | ह्रस्वैर्द्वे सप्तविंशेन शेषमश्वादिगं भवेत् || १७ || रन्ध्रेन गुणितं तच्च धात्वंशेनैव हारिते | शेषकर्मादि वा स्याद्वै तेनैव वसुभिर्गुणैः || १८ || अर्कांशेन हारित्वादायं शेषांशमेव तु | नवेन गुणितं यत्र तद्दशांशक्रमाद्बुधः || १९ || प्. २५१) शेषं व्ययमिति ख्यातं वेदेनैव गुणैस्ततः | नन्दांशकेन यत्कार्यं शेषांशमंशकं विदुः || २० || आयाधिक्यं धनाधिक्यं व्ययाधिक्यं धनक्षणम् | योनिष्कध्वजसिंहाख्यो गजो वृषेन्द्रगोधनः || २१ || निधनं शेषमाख्यातं वर्जयेत्तु विचक्षणः | वारेषु सितवित्सोम गुरवश्च शुभावहाम् || २२ || अशुभानि तथाऽन्यानि वर्जनीयं प्रयत्नतः | अंशेषु तत्तदीशेन उक्ता शक्तिस्तथैव च || २३ || वित्तनी च नृपतीभ्यासमृद्धिश्च शुभावहः | शेषाश्च शुभमाख्याता एतेषां शुभदं परम् || २४ || प्. २५२) नृपश्च यजमानश्च देशिकश्च तथैव च | ग्रामश्चाशानकूलांश्च संग्रहे तु विचक्षणः || २५ || नृपकर्तृविना वाऽथ दिव्यक्षान्तामथापि वा | जन्मसंपद्विपत्क्षेम प्रत्यरं साधको वधः || २६ || मैत्रं परममैत्रञ्च जन्मादीनि पुनः पुनः | विपत्प्रत्यरनैधञ्च तथा चन्द्राष्टमं भवेत् || २७ || वैनाशिकं तथा चैव वर्जनीयं प्रयत्नतः | अर्थोत्तरन्तु सङ्ग्राह्य अशुभं * * * मतम् || २८ || एवं संवीक्ष्य बिम्बान्तं कल्पयेत्कल्पवित्तमः | मूललिङ्गनिरूपेण प्रोच्यते सकलन्त्विह || २९ || प्. २५३) मानुषं लिङ्गमानेन कृत्वा बेरान्तमानवम् | दैविकं लिङ्गमानेन कृत्वा वै बिंबमाकृतिः || ३० || आर्षेण चैव मानेन कृत्वा वै वावहं भवेत् | अव्यक्तं बिन्दुरूपं हि सर्वेषां शक्तिमारभेत् || ३१ || धात्री सरस्वती देवी महालक्ष्मीस्तथैव च | महामोटीञ्च दुर्गाञ्च सप्तमातृगणास्तथा || ३२ || सर्वशुद्धिसमुद्भूतां बिन्दुरूपेण चोच्यते | एवं लक्षणमाख्यातं शक्तिरूपं विधीयते || ३३ || चतुर्भुजं त्रिणेत्रञ्च करण्डमकुटान्वितम् | पद्मनीलोत्पलं हस्तमभयं वरदान्वितम् || ३४ || प्. २५४) सुस्थितं पादसंयुक्तं चरणांबुजमेव च | एवं देवि समाख्यातं विशेषमधुना शृणु || ३५ || चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम् | कमण्डल्वक्षहस्तेन अभयं वरदान्वितम् || ३६ || स्वस्तिकं दक्षिणं पादं वामपादन्तु कुञ्चितम् | प्रभाहीनं प्रभायुक्तं सर्वाभरणभूषितम् || ३७ || एवं देवी समाख्यातं विशेषमधुना शृणु | चतुर्भुजं त्रिणेत्रञ्च मृगटङ्कसमन्वितम् || ३८ || जटामकुटसंयुक्तमभयं वरदान्वितम् | वामहस्तसमायुक्तं टङ्कं परिधि किङ्किणी || ३९ || प्. २५५) एवं देवी समायुक्तं षड्भुजञ्च ततः शृणु | अभयं वरदं पूर्वं परहस्तसमन्वितम् || ४० || द्विपद्मं टङ्कशूलञ्च कारयेत्तु विशेषतः | परिधाय वाचका ह्येते कामकोष्ठमिति स्मृतम् || ४१ || गौरीरूपमिदं प्रोक्तं स्थापनीयमिदं शृणु | अष्टदिक्ष्वन्तरालन्तु हर्म्याग्रे तु विशेषतः || ४२ || कामक्रोष्ठालयं प्रोक्तं स्थापयेत्तु विशेषतः | वामे वा दक्षिणे वाऽपि स्थापनीयं मनोन्मनी || ४३ || अष्टाष्टस्तंभयं युक्तं कलास्तंभसमन्तु वा | द्वादश स्तंभसंयुक्तं मण्टपन्तु त्रिधा भवेत् || ४४ || प्. २५६) मध्ये नन्द व * * * कल्पयेत्कल्पवित्तमः | रत्नन्यासं तथा पूर्वे द्वितीयं नयनमोक्षणम् || ४५ || तृतीयं बेरशुद्धि स्यात् चतुर्थं ग्रामप्रदक्षिणम् | पञ्चमन्तु जले वासं षष्ठमं मण्टप * * || ४६ || सप्तमं शयनं स्थाप्य होमकर्म तथाष्टकम् | नवमं नार्घ्यविन्यासं दशमं स्थापनं परम् || ४७ || प्रासादस्य पुरे वाऽपि प्रतिष्ठामण्टपं कुरु | ऐशे वा पावके वाऽथ ऐन्द्रे वा सोममेव वा || ४८ || यमे वा राक्षसे वायौ वारुणे वाऽपि कारयेत् | प्रतिष्ठामण्टपं कुर्यात् कारयेत्तु विशेषतः || ४७ || प्. २५७) प्रतिष्ठामण्टपं कुर्यात् कारयेत् विशेषतः | पञ्चविंशतिहस्तैर्वा दशपञ्च करेऽपि वा || ५० || द्वादशैर्दशहस्तैर्वा चाष्टहस्तैरथापि वा | * * * गुलमुत्सेधं तालं तत्रैव कारयेत् || ५१ || द्वितालं वेदिकोत्सेधं दर्पणोदरसन्निभम् | द्विहस्तं वेदिविस्तारं द्विहस्तन्तु चतुष्करम् || ५२ || उपवेदिसमायुक्तकुण्डानि परितः क्रमात् | योनिकुण्डं चतुर्दिक्षुं विदिक्षु पद्मकुण्डकम् || ५३ || इन्द्रमीशानयोर्मध्ये वृत्तकुण्डं प्रधानकम् | नवाग्निं कल्पयेद्धीमान् एकपञ्चाग्निकारयेत् || ५४ || प्. २५८) शास्त्रयुक्तप्रमाणेन पश्चाच्छिल्पि विसर्जयेत् | गोमयेनानुलिप्यात्र मण्टपं कुण्डवेदिका || ५५ || मण्टपस्योत्तरे भागे स्नानमण्टपवेदिका | ब्राह्मणान् भोजयेत्तत्र पुनर्गोमयवारिणा || ५६ || जलेनार्द्रीकृतेनैव लेपयेत्सर्वमेव च | पुनः पुण्याहमारभ्य वास्तुहोमं समारभेत् || ५७ || राक्षसैर्वास्तु गीर्वाणा होमं कृत्वा विशेषतः | स्थापनस्य दिनात्पूर्वे अङ्कुराण्यर्पयेद्बुधः || ५८ || सप्त पञ्च त्रिरात्रं वा एकरात्रमथापि वा | सद्याङ्कुरं तथा चैव सद्याधिवासनं कुरु || ५९ || प्. २५९) निर्दिष्टस्य दिनात्पूर्वे पञ्चाहे त्रयहेऽपि वा | एकाहे वा तथा चैव रत्नन्यासं तथा भवेत् || ६० || मण्डपं मध्यदेशे तु शिवाग्रे वा विशेषतः | गोमयालेपनं कृत्वा स्थण्डिलं विधिना कुरु || ६१ || पीठमध्ये तु विन्यस्य प्रोक्षयेत्कुशवारिणा | पूजयेत्तस्य मध्ये तु ततोऽनन्तासनं तथा || ६२ || रत्नानि विन्यसेत्तत्र मध्यादीशान्तकं क्रमात् | माणिक्कमध्यमं कुर्यात् इन्द्रनीलस्य मेव च || ६३ || वैडूर्यं वह्निदिग्भागे तथा वैरवगोचरत् | नीलं वै याम्यदिग्भागे गोमेतकं निर्-ऋती तथा || ६४ || प्. २६०) स्फटिकं वारुणे भागे पूज्यरायन्तु वायवे | वज्रं तत्सौम्यदिग्भागे प्रवालं शाङ्करे दिशि || ६५ || नवबीजेन विन्यासो स्थितस्थैवस्य नो परि | स्थापयेत्प्रतिमन्त्रस्य स्निग्धं सुदृढं तथा || ६६ || शिल्पिना तीक्षणेनैव नेत्रान्मीलनकर्म च | अर्चयुक्तदिनात्पूर्वं * * परक्रमा विदुः || ६७ || त्रीणि पञ्चमयुक्ता च दग्धकारणनेत्रकम् | तस्मात्तु फणयेत्तत्र नेत्र युग्मदिने कृते || ६८ || स्थण्डिलं शालिना कुर्याद्धटे नाडौ तु विन्यसेत् | तन्मध्ये बेरमादाय स्थापयेद्धृदयेन तु || ६९ || प्. २६१) शिल्पिना दक्षहस्तेन बिंबमस्त्रेण शोधयेत् | हेमप्रभप्रहारेण लेपयेदृष्टिमण्डले || ७० || कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलमध्यमे | वर्तयेत्तत्क्रमेणैव रजतं सप्तमक्रमात् || ७१ || भूरेखा पक्ष्मरेखा च तद्बहिः क्रमशः कुरु | शिल्पिनन्तु विसृज्यात्र पुण्याहं कारयेद्बुधः || ७२ || बेरसिद्धिं ततः कुर्यात् पञ्चगव्येन शुद्ध्यति | मधुघृतं पयश्चैव प्रतिप्रस्थन्तु पात्रके || ७३ || सौवर्णपङ्कजञ्चैव पूर्वाण्यासूत्रपात्रके | स्थण्डिलं पूर्ववत्पूर्वे बेरं तस्योपरि न्यसेत् || ७४ || प्. २६२) घृतमिक्षुघृतन्यासं क्षरमप्यायतेन तु | पूजयेद्गन्धपुष्पाद्यै प्रणवेन तु बुद्धिमान् || ७५ || नखत्रयन्तु स्वर्णेन दीक्षहस्ते करागृहे | न यजेन्नेत्र मन्त्रेण नेत्रमुन्मीलनं कुरु || ७६ || जाग्रत्स्वप्नं सुषुप्तञ्च तुर्यं तुर्यादिपञ्चकम् | तस्माज्जाग्रादिपञ्चैते वर्तते दिव्यजाग्रकम् || ७७ || तत्काले चाक्षिमोक्षञ्च कारयेद्देशिकोत्तमः | पञ्चगव्याभिषेकन्तु श्रीपत्रं कुशाया सह || ७८ || घषयेद्बिल्वपत्रेण चन्दनेनानुलेपयेत् | दर्शयेद्धेनुमुद्राञ्च नेत्रमन्त्रमनुस्मरन् || ७९ || प्. २६३) सूर्यचन्द्राग्नि मात्रेण प्रतिमण्टपमर्चयेत् | स्वर्णपुष्पक्रमेणैव घृतं तत्रैव विन्यसेत् || ८० || वर्मपङ्कजमात्रेण पुष्पावतीतमन्त्रतः | गोधेनु हव्यमन्त्रेण सवत्साङ्गं प्रदर्शयेत् || ८१ || ब्रह्मजज्ञानमन्त्रेण कर्निकायां प्रदर्शयेत् | प्रच्छन्नपटमाज्या ते तद्द्रव्याद्यादिनिभैस्सुरैः || ८२ || इक्षुखण्डसमायुक्तं दधिक्षीरं सुदर्शनम् | धान्यञ्च ब्रीहिसंयुक्तमुद्गमाषकुलं तथा || ८३ || सर्वालङ्कारसंयुक्तं ग्रामं व्रतञ्चरेत्पुनः | जलतीरे तु संस्थाप्य जलेनैवाभिषेचयेत् || ८४ || प्. २६४) प्राक् शिरश्चोर्ध्व वक्त्रं स्याल्लोकपालान् घटान्वितान् | वामादिशक्तयश्चाष्टैर्वर्धनीं विन्यसेद्बुधः || ८५ || अहोरात्रं त्रियामं वा द्वयामं वाधिवासयेत् | रात्रौ यत्यन्तके चैव जननी वा रथे स्थितम् || ८६ || शिबिके वा समारोप्य देशिकः पुत्रकैस्सह | स्नानमण्टपमावेश्य वेदिका तस्य चोपरि || ८७ || वस्त्रं कूर्चान् सहस्तव्यस्नानपूर्वोक्तवद्बुधः | पञ्चमृत्पञ्चगव्यैश्च बिल्वपत्रैश्च वर्षयेत् || ८८ || सुगन्धादि महोल्कानि लेपयेत्तु पुनः पुनः | नम कुंभाभिषेकान्ते वस्त्रेण सेव्यमन्त्रवित् || ८९ || प्. २६५) पुण्याहं कारयेत्तत्र गन्धादीनर्चयेद्बुधः | कौतुकं बन्धयेद्धीमान् ब्रह्मघोषसमाकुले || ९० || ततो मण्टपसंस्थानं कारयेत्तु विचक्षणः | पूर्वोक्तेन विधानेन मण्टपं पूजयेत्क्रमात् || ९१ || दर्भमालासमायुक्तं मुक्तासृक् दामलंबितम् | चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् || ९२ || अष्टमं गलमावृत्य वेदिकोपरि विन्यसेत् | स्थण्डिलं पूर्ववत्कुर्यादष्टद्रोणैश्च शालिभिः || ९३ || तदर्धं तण्डुलं भूष्य तदर्धन्तु तिलैरपि | दारुपञ्चभुजञ्चैव रोमजं पक्षिपिञ्च्छजम् || ९४ || प्. २६६) उपेयुस्तरणयत्ने ते पञ्चधा शयनं भवेत् | दारुजं फलका चैव मुकुलं केवलं तथा || ९५ || अलाभे कार्पासकेनैव वस्त्रेणाच्छाद्यमेव | दारुश्च परिवेषश्च कल्पयेच्छयनं तथा || ९६ || पूजयेच्छयनं मध्ये वामादीनामनुक्रमात् | देवीमासनमारभ्यच्छादयेच्छयनोपरि || ९७ || प्राक् शिरश्चोर्ध्व वक्त्रं स्यात् प्रणवेन तु मन्त्रतः | सद्याधिवासनं तत्र प्रतिमं यानिकं तथा || ९४ || लंबकूर्चाद्विवक्त्रं स्यात् पूजादैश्चैव संयुतम् | पूजयेद्गन्धपुष्पाद्यैः आचार्यं पुत्रकैस्सह || ९९ || प्. २६७) पुण्याहं पूर्ववत्कुर्यात् वस्त्रेण लक्षणं कुरु | गन्धादीनर्चयेत्सर्वान् तत्र देवीं स्वनामतः || १०० || पञ्चभिर्ब्रह्ममन्त्रैस्तु विन्यसेत्प्रतिमोपरि | सुरभिर्दर्शयेद्विद्वान् तथोत्तराभिमुखे स्थितः || १०१ || प्राणायामत्रयं कृत्वा पावकी चतुरो भवेत् | अन्तर्ध्यानेन वेदीशमुद्भिस्तं प्रतिमारभेत् || १०२ || पुष्पैरञ्जलिमापूर्य तत्तन्मूलमतः परम् | प्रणवादि नमोन्ताश्च योजयेत्तदनुक्रमात् || १०३ || आवाह्य द्वारमन्त्रेण प्रधाने तु घटा न्यसेत् | स्थापनं चैव सान्निध्य सन्निरोधं तथैव च || १०४ || प्. २६८) नमस्कारमुद्रया ध्यात्वा दर्शयेत्तु विशेषतः | ब्रह्माङ्गं विन्यसेत्पश्चात् दिग्विदिक्षु क्रमाद्बुधः || १०५ || शान्तिमुद्रां तथा पद्मं मुकुलीशशिकर्णिकाम् | मनोरंभं नमस्कारदर्शयेत्तु विशेषतः || १०६ || पाद्यादि दापयेत्तत्र मूलमूले तु विन्यसेत् | अङ्गैरङ्गानि विन्यस्य पूजयेत्तु यथाविधिः || १०७ || वामादि शक्तयश्चाष्टौ विन्यसेत्तु विचक्षणः | ततो मन्त्रं न्यसेच्चैव गन्धादीनामर्चयेत् || १०८ || वज्रमुद्रं तथा बध्वा नमस्कारविशेषतः | ततो होमं प्रकुर्वीत तस्य तत्क्रममुच्यते || १०९ || प्. २६९) कुण्डानि शोधयेत्तत्र संस्कारं तदनन्तरे | अधिदेवा न्यसेच्चैव पूर्वादीनि प्रदक्षिणम् || ११० || प्रधानेन तथादेशं वामादीनष्टकुण्डलम् | अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् || १११ || पुनश्चाभिमुखं गत्वा परिषेचनमारभेत् | समिधाज्यान्नलाजैश्च सर्षपांश्च यवान् तिलान् || ११२ || अश्वत्थोदुंबराप्लक्ष वटं पूर्वादिभिः क्रमात् | अपामार्गार्कजञ्चैव खदिरं पावकादिषु || ११३ || पलाशञ्चैवादिकुण्डेषु प्रधाने तु तथैव हि | तमुत्पर्यायसर्वेषु अलाभे तु पलाशकैः || ११४ || प्. २७०) समिधाहुतिमूलेन आज्यं वक्त्रेण हूयते | चरुं वै घोरमन्त्रेण लाजं वामेन हूयते || ११५ || सर्षपं सद्यमन्त्रेण हृदयेन यवाहुतिम् | शिरसा च तलं हुत्वा प्रत्येकं विविधाष्टकम् || ११६ || एवं क्रमेण सर्वत्र कुण्डं होमे समाचरेत् | द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शयेद्बेरवर्धनी || ११७ || तद्धोममन्त्रभिस्सार्धं तत्तद्भागेषु संस्पृशेत् | सर्वद्रव्याहुति द्रव्या तत्तत्कुण्डानि मूर्तिनाम् || ११८ || तत्तन्मन्त्रेण जुहुयात् कुलेनैव विचक्षणः | मधुक्षीरशतं शर्करादीन् शतं हुनेत् || ११९ || प्. २७१) चतुर्दिक्षु च कुण्डेषु शनैरध्ययनं कुरु | ऋग्यजुस्सामवेदाश्च अथर्वं वेदाध्ययनं कुरु || १२० || उमासूक्तं जपेच्चैव श्रीसूक्तञ्चैव देशिकः | भवेत्कुर्याद्विशेषेण तांबूलन्तु निवेदयेत् || १२१ || अधिवाससमेवोक्ति रात्रिशेषं व्यपोह्य च | सद्याधिवासनञ्चैव दिक्काले विशेषतः || १२२ || प्रभाते विमले तत्र देशिकः पुत्रकैस्सह | स्नानं कृत्वा विशेषेण नित्यकर्म समाचरेत् || १२३ || शुक्लवस्त्रोत्तरीयञ्च पञ्चाङ्गं भूषणैस्सह | सुमुहूर्ते सुलग्ने च देवीमभ्यर्चयेत्ततः || १२४ || प्. २७२) अग्निं प्रज्वालनं कुर्यात्परिषेचनमारभेत् | सद्द्रव्याहुतिं हुत्वा तत्तन्मूर्त्याहुतिं शतम् || १२५ || सर्वात्मनेति मन्त्रेण एकैकमाहुतिं हुनेत् | जयादिरभ्याधानञ्च राष्ट्रभृच्छक्रमाद्धुनेत् || १२६ || हृदा पूर्णाहुतिं हुत्वा परिषेचनमारभेत् | मूर्तिमान् साधयेत्पश्चात् परिधीञ्च परिस्तरेत् || १२७ || विष्टरांश्चैव सर्वेषां गृहिभ्यश्चरतः क्रमात् | निक्षिपेदग्निमध्ये तु तदोत्थाय तु देशिकः || १२८ || नववस्त्रैरलङ्कृत्य उष्णीषञ्चोत्तरीयकम् | सर्वपत्रकरैर्युक्त शुक्लमाल्यैरलङ्कृतम् || १२९ || प्. २७३) बिंबमुत्थाययेद्विद्वान् हृदयेन विचक्षणः | सवस्त्रकूर्चान् सर्वत्र वर्जयेत्तु विशेषतः || १३० || स्तोत्रमध्ययनं विद्यानृत्तगेयादिना कुले | स्नानमण्टपमध्यन्तु पीढे बिंबं निवेदयेत् || १३१ || पूजयेद्गन्ध पुष्पाद्यैः शुद्धिं कृत्वा तु देशिकः | पञ्चकृत् पञ्चगव्यैश्च ज्ञात्वा देवीस्त्र्यंबकम् || १३२ || गौरीमिमायमन्त्रेण मायामन्त्राणि पूजयेत् | गन्धोदकोदनं स्थानं हरिद्रामलकैस्सह || १३३ || देवीं पीठे दृढं स्थित्वा अभिषेकं समाचरेत् | शिल्पिं विसर्जयेत्तत्र पञ्चगव्याभिषेचयेत् || १३४ || प्. २७४) पुनः पुण्याहमारभ्य वर्धिनीमभिषेचयेत् | शुद्धोदकेन बेरैश्चाभिषेकं तत्र कारयेत् || १३५ || ब्रह्ममात्मन्यसेच्चैव पुनराचमनञ्चरेत् | अर्घ्यं दत्वा विशेषेण पुष्पं मूर्ध्नि च दापयेत् || १३६ || निद्राकुंभं ततोद्धृत्य देशिको मूर्तिपैस्सह | बिंबाग्रे स्थण्डिलं कृत्वा स्थापयेत् पूर्ववत्क्रमात् || १३७ || गन्धपुष्पादिना पूज्य सुमुहूर्ते निरीक्षयेत् | वर्णैर्ब्रह्माङ्गमन्त्रैस्तु विद्यामूर्तिविशेत्पुनः || १३८ || अर्चयित्वा तु वर्धन्यामुद्धृत्य मृदहस्तकम् | ध्यायेदश्चिन्दुमन्त्रस्य हृदि मध्ये समाहितम् || १३९ || प्. २७५) प्राणवृत्तितिरोरोधे न कुंभं कृत्वाऽत्रदेशिकः | घटे घटेस्मितन्मन्त्रं जयप्राणस्तु निर्मितम् || १४० || तस्मात्तु मूलमुच्चार्य हृस्सरोजात उच्यते | उत्तरे वर्धनीतोयं तन्मात्रेण तु देशिकः || १४१ || उद्धृत्य * रे सा मस्त्रीवस्त्रकूर्च गृहे स्थितः | प्रतिमा हृदये न्यस्त्वा ततः कुंभाभिषेचयेत् || १४२ || सहस्राक्षरिमन्त्रेण क्रमेणैवाभिषेचयेत् | संवत्सराक्षरं वाऽपि दक्षिणे पश्चिमेन वा || १४३ || वामादीनाञ्च कुंभेन विन्यसेदासनोपरि | तेन तोयेन देवीं स्यादभिषेकं समाचरेत् || १४४ || प्. २७६) दलमूले न्यसे चैव अङ्गैचाङ्गानि विन्यसेत् | * * * * * * * व प्रणवं मूर्ध्नि विन्यसेत् || १४५ || गौरीगायत्रिमन्त्रेण मातृकां विन्यसेद्बुधः | गन्धादीन् पूजयेत्पश्चाद्विशेषाध्यं ततः पुनः || १४६ || पाद्यमाचनञ्चार्घ्यं गन्धपुष्पञ्च धूपकम् | वस्त्राभरणमाला च धूपदीपं ददेत्पुनः || १४७ || हविर्दत्वाऽथ देवीनां वामादीनान्तु दापयेत् | एवमादीनि सर्वाणि हृदयेन प्रदापयेत् || १४८ || एवं वै शैलजं वाऽपि * * जं वाषि कारयेत् | शैलजं प्रथमं स्थित्वा लोहजञ्च चलाचलम् || १४९ || प्. २७७) लोहजे वा समासेन ततो ग्रामप्रदक्षिणम् | तत्रादौ कौतुकञ्चैव उत्सवं पुनराचरेत् || १५० || अचलन्तु तथा चैव तोयाधिवासनं विना | शयने शयनोक्तेन शेषा सर्वमयं विदुः || १५१ || रत्नादि विन्यसेच्चैव शूलमूलविचक्षणः | शैलजा इति मूलेन विन्यसेन्नवरत्नका || १५२ || चित्रभासे तु वैचित्र्यं ततोक्तानान्तु विन्यसेत् | तोयाधिवासनं तत्र ततोपशयनं विना || १५३ || एवमेव विधिं ज्ञात्वा प्रतिष्ठां कारयेद्बुधः | सौधजं भित्तिचित्रेण पादाग्रे हस्तमात्रकौ || १५४ || प्. २७८) पीठं वा पा प्रभावापि बेरं वापि प्रकल्पयेत् | कर्मार्चरूपमेवोक्तं तत्रैव सर्वमाचरेत् || १५५ || कामक्रोष्ठप्रतिष्ठा च सकलस्थापनं शृणु | श्रीमद्गुरुभ्यो नमः श्री परमेश्वराय नमः | इति योगजे प्रतिष्ठातन्त्रे कामक्रोष्ठप्रतिष्ठा विधिः पटलः | कौतुकं बन्धयेद्देव्या वामहस्ते तु रत्नतः | गौरीमिमाय मन्त्रेण होमकर्मादिकं जपेत् || १ || मूलमन्त्रेण संस्थाप्य होमं पूर्ववदाचरेत् | मुकुलं पद्ममुद्राञ्च बीजमुद्रां प्रदर्शयेत् || २ || प्. २७९) दशास्वाध्ययनं कुर्यात्पूर्वोक्तविधिना सह | गौरीकलाक्षस्त्वहं वक्ष्ये गौरीबीजसमुद्भवा || ३ || तारा ईशकला ज्ञेया विद्यावस्त्रकला स्मृता | मृत्युश्रा * * * * रामेध्वस्वस्तिश्च वर्मणः || ४ || बिलिनी ज्वालिनी चैव मतिमीमामतिव्रजाः | शान्तिभृतिक्रिया क्षान्तिघोरा वामकला न्यसेत् || ५ || दान्तिश्शान्तिर्दयासूतिर्द्वितिस्सन्ध्या तु सद्यजाः | षड्विंशतिकबाह्ये तु गौरीदेहे तु विन्यसेत् || ६ || तारञ्च विन्यसेन्मूर्ध्नि विद्यावक्त्रेषु विन्यसेत् | हृदये च गले बाह्योः जठरे नाभिदेशके || ७ || प्. २८०) अघोरस्य कला ह्येते योनि गुह्यप्रदेशके | ऊर्ध्वोर्जानुद्वयोश्चैव पृष्ठद्वयोश्च पार्श्वके || ८ || वामदेवकलाह्येते देवी देवे तु विन्यसेत् | पादयोरुभयोश्चैव हस्तयोरुभयोरपि || ९ || स्तनयोरुभयोश्चैव सद्योजातकला न्यसेत् | दण्डमूले तु संयोज्य नववस्त्रसमायुतम् || १० || प्रसादे मण्टपे चैव गोपुरे दीपरोहणे | सूर्यास्तमे तु कर्तव्यं कर्तव्यं शङ्खदुन्दुभिः || ११ || अग्निबीजेन मन्त्रेण दीपारोहणमारभेत् | कृत्तिकांभं प्रकर्तव्यं प्रधानं कृत्तिकां भवेत् || १२ || प्. २८१) अग्निनक्षत्रकर्तव्यं तस्मात्कृत्तिकमाचरेत् | दीपयन्त्रविधानेन महादीपं प्रकल्पयेत् || १३ || तदन्ते चोत्सवं कुर्याच्छालितण्डुलकं स्मृतम् * * * * * * * * द्विप्रस्थं बलिपात्रकैः || १४ || उमास्कन्दादि देवानामेकरूपं समर्चयेत् | ग्रामप्रदक्षिणं कृत्वा बलिं पूर्वादिविन्यसेत् || १५ || बलिपीठे चासनान्ते दिक् देवबलिदापयेत् | आचार्यं पूजयेत्तत्र वस्त्रहोमाङ्गुलीयकैः || १६ || अपूपं शालिदर्पं वा निवेदयेत्तु विशेषतः | प्रभूतहविषं दत्वा उपदंशसमन्वितम् || १७ || प्. २८२) तांबूलं दापयेत्तत्र सर्वोपचारसंयुतम् || इति योगजे पीठतन्त्रे कृत्तिका योगदीपविधिः नाम पटलः - अथ वक्ष्ये विशेषेण पवित्रारोहणं कुरु | पवित्रं नाम यत्प्रोक्तं शुद्धमित्यभिधीयते || १ || देवदानवगन्धर्वाः पिशाचा ब्रह्मराक्षसाः | सर्वे ऋषिगणाश्चैव क्षेत्रसमुद्गणाः || २ || सर्वेषान्तु प्रियार्थं वै पवित्रारोहणं कुरु | आषाढे श्रावणे वाऽपि कुर्याद्भाद्रपदेऽपि वा || ३ || आषाढे उत्तमं प्रोक्तं मध्यमं श्रावणे न्यसेत् | प्. २८३) भाद्रपदाधमं ज्ञेयं त्रिभिर्मासैः प्रकीर्तितम् || ४ || एवं मासे तु कर्तव्यं शुक्लाष्टम्यां विशेषतः | अथवा तु त्रयोदश्यां ततो गन्ध पवित्रकम् || ५ || उत्तमं हेमसूत्रन्तु मध्यमं रौप्यमेव च | अधमं ताम्रसूत्रन्तु अलाभे कार्पासमेव च || ६ || कुशाञ्च वल्कलञ्चैव ऋषीणां समुदायुतम् | नेत्रपटोद्भवञ्चैव पद्मसूत्रन्तु चोत्तमम् || ७ || अलाभे कार्पासमित्युक्तं तन्तुना सुदृढं कुरु | ब्राह्मणक्षत्रियो वैश्या शूद्रकन्याय सूत्रवित् || ८ || सूक्ष्म तन्तु तथा कुर्यात् रोमदृष्टन्तु वर्जयेत् | प्. २८४) शोद्धोदकेन संप्रोक्ष्य क्षालयेत्तु यथाविधिः || ९ || मण्डपं समलङ्कृत्य दुकूलैश्च देवाङ्गकैः | पालिकान् पूर्णकुंभञ्च दर्पणञ्च विचित्रयेत् || १० || अङ्कुरार्पणयेत्तत्र पूर्वोक्तविधिना सह | द्वादशं षोडशञ्चैव पञ्चविंशतिरेव वा || ११ || पञ्चादशीतिकञ्चैव अष्टोत्तरशतन्तु वा | स्नपनद्रव्यसहितं स्थापयेद्विधिपूर्वकम् || १२ || सवस्त्राञ्चापिधानञ्च हेमरत्नसमन्वितम् | पूर्वोक्तविधिना चैव कलशस्थापनं चरेत् || १३ || पश्चाद्धोमं प्रकल्प्याथ कुण्डे वा स्थण्डिलेऽपि वा | प्. २८५) समिदाज्यचरुं लाजान् सर्षपाश्चाथवा तिलान् || १४ || होमद्रव्याणि सर्वाणि यथा क्रमेणैव हूयते | समिदाज्यक्रमेणैव आज्यं वामेन हूयते || १५ || अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु | ईशानं सर्वद्रव्याणि आज्यानि हृदयेन तु || १६ || तिलन्तु शिरोमन्त्रेण शिखायां गुलमेव च | कवचेन मयं हुत्वा अपूपैरस्त्रमेव च || १७ || अक्षतैरस्त्रमन्त्रेण क्रमाद्धुत्वा विशेषतः | पूर्णान्तु मूलमन्त्रेण एवं होमप्रकल्पयेत् || १८ || लिङ्गे वा कौतुके वाऽपि शुद्धस्थानेन पूजयेत् | प्. २८६) षोडशप्रतिमञ्चैव गन्धपुष्पादिरर्चयेत् || १९ || स्थाने मण्टपके वाऽपि प्रतिमामर्चयेत्क्रमात् | महानैवेद्यकं पश्चात्तांबूलन्तु निवेदयेत् || २० || स्तोत्रमङ्गलपाठैश्च वेदाध्ययनघोषकैः | शङ्खभेर्यादिघोषैश्च जयशब्दादिमङ्गलैः || २१ || गेयं तत्र तु कर्तव्यं पवित्रमधिवासयेत् | निद्राभङ्गं निशा कुर्यात् समाधिकृत योगतः || २२ || पवित्राधि वासितं कृत्वा पश्चात्तु विधिपूर्वकम् | अष्टोत्तरशतं कुर्यात् पञ्चाशत्पञ्चविंशतिः || २३ || उत्तमं मध्यमञ्चैव कन्यसञ्च प्रकीर्तिताः | प्. २८७) मङ्गलार्थन्तु प्रकर्तव्यं पञ्चविंशत्पवित्रकम् || २४ || व्यङ्गुलेन च मानेनाथवा चाङ्गुलेन वा | बन्धनं तत्र कुर्वीत तन्तुना बन्धयेत्क्रमात् || २५ || कुङ्कुमेन प्रकल्प्या तु कस्तूरी तु हरिद्रया | ग्रन्थिबन्धं ततः कृत्वा शास्त्रदृष्टेन कर्मणा || २६ || उशीरं हरिबेरञ्च तरङ्गं नाम पुष्पकम् | गन्धपत्रन्तु कल्लोलं एषां ग्रन्थिं विधीयते || २७ || ग्रन्थिबन्धं ततः कुर्यात् सूत्रसंख्या तु संख्यया | लिङ्गनाहप्रमाणं यत् तत्प्रमाणेन बन्धयेत् || २८ || गङ्गावतारचोष्णीषमेवं कुर्यात्प्रयत्नतः | प्. २८८) हेमराजतपात्रञ्च ताम्रकांस्यमथापि वा || २९ || सर्वलक्षणसंयुक्तं विशालितसुशोभनम् | तन्मध्ये तु निधातव्यं गन्धपुष्पादिनार्चयेत् || ३० || परिधानन्तु कर्तव्यं नवं सर्वत्र सुवृत | तस्योपरि न्यसेत्कूर्चं स्थापयेन्मण्टपे क्रमात् || ३१ || एवं कृत्वाधिवासन्तु प्रातःकाले समुद्धरेत् | शौचाचमनं स्नानं सन्ध्यावन्दनमेव वा || ३२ || पूर्वेद्युर्विधिना चैव देवन्यासन्तु कारयेत् | ईश्वरारोहणं सूत्रञ्चण्डेशाय निवेदयेत् || ३३ || अभितः कलशान् कृत्वा विशेष्ततः | प्. २८९) पुण्याहं वाचयित्वा तु स्वस्तिमङ्गलवाचकै || ३४ || जयशब्दे गीतनृतायै ब्रह्मघोषादिसंयुतम् | भेरीमृदङ्गपटलैः काहलैः कांस्यघण्टकैः || ३५ || झल्लरी मर्दलैश्चैव कर्तरीतालवंशकैः | शङ्खदुन्दुभिवाद्यैश्च सर्वालङ्कारशोभितम् || ३६ || नववस्त्रपरीधानं शिरोवेष्टनमेव च | स्वर्णपुष्पशिरोयुक्तं स्वर्णयज्ञोपवीतिनम् || ३७ || हेमाङ्गुलीयकटकैः कर्णकुण्डलशोभितम् | सर्वाभरणसंयुक्तं पुष्पमालासुशोभितम् || ३८ || एवमादीनि सर्वाणि आचार्यैस्समलङ्कृतम् | प्. २९०) साधकानामलङ्कृत्य पवित्रमुद्धरेत्क्रमात् || ३९ || सर्वालङ्कारसंयुक्तं आलयन्तु प्रदक्षिणम् | ततो गर्भगृहं गत्वा आरोपयेत्पवित्रकम् || ४० || अर्चयित्वा विशेषेण धूपदीपक्रमाद्गतम् | निर्गतञ्चैव तं गेहमालयं सूत्रवेष्टनम् || ४१ || नैवेद्यन्तु प्रदातव्यं पायसान्नं विशेषतः | आचार्याः पूजयेत्तत्र यया वित्तानुसारतः || ४२ || साधकानान्तु संपूज्य भक्ताश्च पूरयेत्क्रमात् | परिचारकपूजैश्च ब्राह्मणान् भोजयेत्ततः || ४३ || भूसुरान् भोजयेन्नित्यं यथा शक्त्यानुकूलतः | प्. २९१) आगमन्तु समारभ्य शिवधर्मपुराणकैः || ४४ || पुराणवक्त्रान् संपूज्य देवयज्ञ च पूजयेत् | सर्वदेवान् समारोप्य परादीनपवित्रकैः || ४५ || पवित्रारोहणञ्चैव भक्तांश्च परिचारकैः | जनान् सर्वान् प्रदातव्यं कर्णिकान् स पवित्रकम् || ४६ || द्वादशाहञ्च अष्टाहं पञ्चाहं त्र्यहमेव वा | पवित्रारोहणं तत्र सन्ध्याकाले तु पूजयेत् || ४७ || * ने पवित्रकं त्यज्य पूजान्ते तु सुरोपयेत् | स दारोऽहं ततः कुर्यात् सर्वालङ्कारसंयुतम् || ४८ || पूर्वपवित्रमादाय चण्डेशाय निवेदयेत् | प्. २९२) स्नपनं तत्र कुर्वीत गन्धपुष्पादिनार्चयेत् || ४९ || पश्चात्तपस्विनं पूज्य आच्छाद्येनं समाचरेत् | कौपीनमुत्तरं सङ्गं योगिनान्तु प्रदापयेत् || ५० || केशादिवपनं दीक्षा संस्कारञ्च प्रतिग्रहम् | सूचिकर्मादिरात्रिञ्च दिनेष्वेतेषु वर्जयेत् || ५१ || मण्डलं वर्जयेत्पूर्वं लतां लिङ्गोद्भवन्तु वा | पद्ममण्डलमेवं वा अर्धचन्द्रमथापि वा || ५२ || आचार्यस्य मनोभङ्गं पूजयेत्पूर्वरात्रके | मण्डलं पूजयेत्तत्र पूजावसानकालके || ५३ || मण्टपे तु रलङ्कृत्य सर्वद्रव्याणि साधयेत् | प्. २९३) दर्पणञ्चामरञ्चैव तालवृन्तञ्च चित्रका || ५४ || रोमारोपं ततः काष्ठा नखरोमादि छेदनम् | आभरणं पात्रं भस्मधारं कमण्डलुं पवित्रकम् || ५५ || मणिबन्धोदरबन्धञ्च माधारं कौपीनमेव च | अञ्जनैव च पात्रेण अञ्जनन्तु शलाकयोः || ५६ || योगपट्टञ्च दण्डञ्च मौञ्जीकृष्णाजिनन्तु वा | शुक्तिपात्रं पञ्चलोहं अष्टमङ्गलमायुधम् || ५७ || कूर्मासनञ्च सर्वेषां रोपयेन्मण्टपं कुरु | कृष्णमृगञ्च परशुं भिक्षापात्रमधस्कृतम् || ५८ || दिव्यायुधं दिव्यकटकं सूर्यचन्द्रन्तु अग्निकम् | प्. २९४) गङ्गाकेयूरमालाश्च अष्टनागविधैरपि || ५९ || रुद्राक्षमाला शिरोमाला उष्णीषमालया | ललाटमाला कण्टमाला कर्णन्तु नालबन्धकाः || ६० || हृदादिलंबमाला च नाभ्यान्तमालया कुरु | जपमाला बाहुमाला कोर्परैर्हस्तमालया || ६१ || विविधैः पात्रमादाय मण्डलाग्रे तु विन्यसेत् | एवमेव क्रमेणैव द्रव्यप्रति च स्थापयेत् || ६२ || पवित्रारोहणान्तं आदिनोत्सं प्रपूजयेत् | एवं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् || ६३ || पूर्वकृत्यं यथा कार्यं पवित्रारोहशुद्धयेत् | प्. २९५) देवियुक्तं यथा शास्त्रं शास्त्रं पवित्रारोहणम् || ६४ || इति योगजे प्रतिष्ठा तन्त्रे पवित्रारोहणः पटलः | अथ वक्ष्ये विशेषेण मण्डलाकृतिरुच्यते | मण्टपन्तु चतुर्भाग मेकभागन्तु वेदिका || १ || तालमात्रं समुत्सेधं दर्पणोदरसंयुतम् | पञ्चतालप्रमाणेन मध्ये मण्डलमालिखेत् || २ || अष्टाष्टपदमालिख्य मध्यकोष्ठचतुष्टयम् | पद्मपीठे समालिख्य श्वेतरक्तञ्च कृष्णकम् || ३ || पीतं श्यामञ्च सर्वेषां वर्त्ममालिख्य बुद्धिमान् | प्. २९६) पद्मपीठस्य बाह्ये तु श्वेतविधिं प्रकल्पयेत् || ४ || तदन्तरञ्च वीथिश्च रक्तश्यामाञ्च कृष्णकम् | पीतञ्चैव तथा न्यायं चतुर्द्वाराणि कल्पयेत् || ५ || द्वारार्धमारकं कुर्यात् कर्णे कर्णे प उच्यते | कपोलो कपोलकं कुर्यात् ब्रह्मस्थानाद्वहिष्विह || ६ || त्र्या * दलेन वृत्ति स्यत्र्यंङ्गुलमर्धचन्द्रकम् | त्र्यङ्गुलं पद्ममेवं स्यात् त्र्यङ्गुलन्तु स्वस्तिकम् || ७ || त्र्यङ्गुलन्तु श्रीवत्सपादमानञ्चतुरश्रकम् | श्वेतं रक्तं तथा पीतं कृष्णं श्यामं तथा न्यसेत् || ८ || पदं प्रतिविपरीत सर्वतो भद्रमिष्यते | प्. २९७) शालिपिष्टेन श्वेतञ्च सिन्धूरं रक्तधातुकम् || ९ || हारिद्रं पीतचूर्णं स्यात् कृष्णं श्यामञ्च पञ्चकम् | दग्धली * च कृष्णं स्यात् पादं प्रतिकृतं कृति || १० || सर्वेषु मण्डलं लिख्य क्रमाद्विपरीतकम् | एवन्तु सर्वतो भद्रं लतालिङ्गोद्भवं शृणु || ११ || अष्टाष्टपदकृत्वा तु मध्ये पद्म चतुष्पदम् | दलोष्टौ पञ्चवर्णेन लेखयेत्तु विशेषतः || १२ || पद्मं चतुरविस्तारं कौशिकाङ्गेन भोजयेत् | व्योमेन कर्णिकां कुर्यात् पक्षांशेनैव केसरम् || १३ || शेवन्तु दरमारन्तु कर्णिकाङ्कार्धमानतः | प्. २९८) पद्मबाह्यंशकार्धे तु श्वेतवर्णेन वीथिकम् || १४ || वीथीसमं चतुर्द्वारं शोभाद्वारसमाश्रितम् | तत्समाने कपोलन्तु शोभातुल्योपशोभिकाम् || १५ || ईशानादिचतुर्दिक्षु रक्तपिङ्गलश्वेतकम् | कृष्णचूर्णमिति प्रोक्तं कपोलात्तु विशेषतः || १६ || इन्द्रादिसोमपर्यन्तं चतुर्दिक् लिङ्गकल्पितम् | सप्तपदं लिङ्गं कृत्वा चतुष्पदं बाह्यपीठकम् || १७ || ऊर्ध्वेति त्रिपदं लिङ्गं पुरुषादि मुखवर्णकम् | इन्द्रादिसोमपर्यन्तमष्टाविंशत्पदं भवेत् || १८ || लिङ्गार्थं कल्पयेद्धीमान् यथा संख्या पदं भवेत् | प्. २९९) पीतवर्णं तथा कृष्णं श्वेतनीलं प्रकल्पयेत् || १९ || मध्ये रक्तसमायुक्तं पञ्चवर्णं प्रकल्पयेत् | कोणकोणे चतुर्थन्तु विपरीतञ्च पूर्णयेत् || २० || लाता लिङ्गोद्भवं ह्येवमाचार्यं मनसा कुरु | आचार्यमनोभवं वक्ष्ये शृणुष्वेकाग्रमानसः || २१ || भूमिं समतलं कृत्वा दर्पणोदरसन्निभम् | प्रागग्रदेशसूत्रन्तु उदगग्रं तथैव च || २२ || मध्ये नवपदं पद्मं दलाष्टं केसरैर्युतम् | चतुर्दिक्षु नवभागं स्यात् प्रासादं कारयेद्बुधः || २३ || षड्वर्गसहितो युक्तं नासिकाद्यैरलङ्कृतम् | प्. ३००) अष्टभागं समं कृत्वा प्रासादं पूर्ववत्प्रति || २४ || बन्धं वा पादबन्धं वा अतिष्ठाने परिलिङ्गकृतम् | लिङ्गपीठसमायुक्तं पादवर्गात्त्रिभागगम् || २५ || कोणे स्वस्तिकमित्युक्तं नवभागविशेषतः | पञ्चचूर्णं पञ्चमुखं पुरुषादि विशषतः || २६ || तन्मुखाभन्तु प्रासादं क्रमेणैव तु विन्यसेत् | वामादिशक्तयश्चाष्टौ परितः परिविन्यसेत् || २७ || पञ्चावरणमार्गेण पूजयेदर्चनं क्रमात् | षष्ठ्याधिकञ्च त्रिशतैः परितो मण्डलं लिखेत् || २८ || एकैकं विपरीतञ्च पञ्चवर्णेन कल्पयेत् | प्. ३०१) कदलीफलमाम्रफलं पनसं खण्डशः करा || २९ || मण्डलं प्रति विन्यस्य गन्धपुष्पादिनार्चयेत् | निष्कं वाऽपि तदर्धं वा तदर्धार्धमथापि वा || ३० || कुर्यादुत्पलपुष्पन्तु मण्डलं विन्यसेत् | शतनिष्कादि एकान्तं यथालाभे तु पर्वतम् || ३१ || मण्डलात्पूर्वदिग्भागे स्वर्णपर्वतमिष्यते | वाचके रजताद्रिस्तु दक्षिणे ताम्रपर्वतम् || ३२ || राक्षसे रत्नं विन्यस्य शालाद्रिं पश्चिमे न्यसेत् | * * * * * * स्थाप्य वायौ लवणपर्वतम् || ३३ || सोमे तु सर्षपाद्रिस्तु शाङ्करे च तिलाद्रिकम् | प्. ३०२) एवमुक्तानि सर्वाणि प्रत्येकं भारमेव वा || ३४ || यथा लाभं प्रकर्तव्यं पर्वतञ्च प्रकल्पयेत् | पञ्चब्रह्मषडङ्गैश्च जयादीन् होमयेद्बुधः || ३५ || गन्धपुष्पादिभिः पूज्य स्वनामेनैव मन्त्रवित् | मण्डलेचोत्तरे भागे स्थण्डिलं शालिभिः कुरु || ३६ || तन्मध्ये रक्तवस्त्रन्तु शयनं कल्पयेद्बुधः | नेत्रबन्धं ततः कुर्यात् नववस्त्रेण वेष्टयेत् || ३७ || कौतुकं बन्धयेत्तत्र स्त्रीणां द्विनयनं कुरु | रात्रिहोमन्तु कर्तव्यं सर्वदेवान् हविर्ददेत् || ३८ || द्विगुणं देवदेवस्य सर्वोपचारकं कुरु | प्. ३०३) प्रभाते विमले तत्र नेत्रबन्धं विसर्जयेत् || ३९ || स्वर्णपुष्पं समारोप्य तन्नामन्तु प्रदापयेत् | स्नपनं कारयेद्देवं पञ्चाशत्पञ्चविंशतिः || ४० || अष्टोत्तरशतं वापि देवादेवा हविर्ददेत् | स्वर्णमङ्गलसूत्रन्तु नववस्त्रन्तु दापयेत् || ४१ || प्रभूतहविषं दत्वा देवदेवं प्रसादयेत् | सर्वदेवान् समभ्यर्च्य मण्डलं प्रति दर्शयेत् || ४२ || यागोपकरणं सर्वमाचार्याथ प्रदापयेत् | धृतक्षीराभिषेकन्तु नालिकेरन्तु स्नापयेत् || ४३ || उमास्कन्दसहितं देवं प्रभूतहविषं ददेत् | प्. ३०४) तांबूलं दापयेत्तत्र भक्तांश्च परिवारकैः || ४४ || भूसुरा भोजयेत्तत्र यथा शक्त्या तु दापयेत् | आचार्यं पूजयेत्तत्र मरणान्तं व्रतं चरेत् || ४५ || शिवमन्त्रोपदेशञ्च आचार्यं पूजयेत्ततः | आचार्यस्त्वग्रतो गच्छेत् स्वगेहं प्रविशेद्बुधः || ४६ || इति योगजे प्रतिष्ठातन्त्रे मण्डलः पटलः | अथातः संप्रवक्ष्यामि फलपाकविधिक्रमम् | दूरतः शिखरं दृष्ट्वा यो नरः प्रणमश्शिवम् || १ || मुच्यते सर्वपापेभ्यो निर्मोहादिव पन्नगाः | प्. ३०५) मुरुमुरुविक्रमन्तप्रादक्षिण्यशिवालये || २ || तत्क्लेशान्तशिवा माया भवोत्पापविनाशनम् | जनैस्पृष्टा तथायाश्च भूलोके तु सु जीवतु || ३ || उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् | पदे पदे श्वमेधस्य फलं प्राप्नोति मानवः || ४ || यथा कृत्वा नमस्कारं तथा लोके तु पूजयेत् | जलं पुष्पस्थलं पुष्पं देवमुद्दिश्य निक्षिपेत् || ५ || नानापुष्पैरलङ्कृत्य नानाभोगसमश्नुते | आरामं देवदेवस्य यो नरः कृतवान् भुवि || ६ || एवं सधनवान् श्रीमानिह लोके सुपूजितः | प्. ३०६) अतियुतं योग * * श्रोत्रिये वेदपारगे || ७ || गोशृङ्गे नायकं देवं क्षीरं स्नाप्य स् * सं वम? | कपिला पञ्चगव्येन कुशवारियुतेन च || ८ || स्नापयेद्देवदेवेशं कोटिदानफलं समम् | नवधा स्नपनं कुर्वन् यो नरो भक्तिसंयुतः || ९ || नानाभोगानि भुञ्जीत शिवलोके महीयते | नवमार्गे तु यत्कर्म भोगेऽपि नवधा भवेत् || १० || नवधा हविषं कृत्वा फलं तद्गुरुलाघवम् | धूपघण्टा तु यो दद्या * * निर्-ऋति शिष्यते || ११ || वस्त्राण्याभरणादीनि देवदेवस्य दापयेत् | प्. ३०७) नानावस्त्रेण संपूज्य नानाचाभरणैस्तथा || १२ || पूजितस्त्विह लोके तु तच्छक्तिर्निर्विशेषतः | भूमिं गोकर्णमात्रे तु उमापाये चलात्मकम् || १३ || ग्रामाणामधिपस्सोऽपि विशेषात्पूजितस्त्विह | देवदेवस्यमभितः प्रग्निव्यामेकरुद्भवेत् || १४ || दीपन्तु देवदेवस्य सकृत्काले प्रदापयेत् | लोकेषु दीपवत्सोऽपि सर्ववृत्तारुहस्मृतः || १५ || शिवमुद्दिश्यदारंभे प्रयोक्ताः स्वर्गभाक् पुनः | सर्वदानतपोयज्ञं प्राप्यते तत्फलं भवेत् || १६ || तस्मादतिशयस्वर्गे तत्फलं महदाप्नुयात् | प्. ३०८) तत्क्षरक्षते येन सप्तजन्मानुयिष्यति || १७ || इष्टिकाशैललोहैस्वा यत्कुर्वं भवन्नरः | काञ्चनेन विमानेन शिवलोके महीयते || १८ || स सिद्धेन विमाने तु स्थापितं विधमार्गतः | शिवलोकमवाप्नोति पूज्यमानस्स चा नरैः || १९ || शिवलिङ्गे तु ते पश्चात् फलं सामीप्यमाप्नुयात् | यद्रूपं स्थापितं बिंबं तद्रूपोऽथ भविष्यति || २० || शिवयज्ञे समाप्ते तु प्रयुक्तायामथार्चने | एकविंशद्गुरूणाञ्च तथाऽस्य च वंशिनाम् || २१ || दर्शपूर्वं समिच्छन्ति समासनदशा पराक् | प्. ३०९) मातृपक्षे प्रसूतीनां तल्लोके स्थानमिष्यति || २२ || शुश्रूषकाणान्तराणि पुत्रभ्रातृकलत्रकैः | शिवलोके नैव वा स्यात् सर्वदेवपरिव्रति || २३ || ततो हुत्वा तु विपुलान् प्रलये समुपस्थिते | ज्ञानयोगं समासाद्य स तत्रैव मुच्यते || २४ || प्राकारमण्टपान् कुर्वन् यथेष्टं स्वर्गमाप्नुयात् | वापीकूपतटाकञ्च देवतोद्दिश्य यत्नतः || २५ || कुर्वन् बहुधनाड्यस्तु तदन्ते शिवमाप्नुयात् | तत्राऽपि भूयये चैव तस्य स्वर्गं न संशयः || २६ || आसनासन्निसद्भावं ज्ञात्वा संपूजयेच्छिवम् | प्. ३१०) सालोक्यं चैव सामीप्यं सायुज्यञ्चैव येव हि || २७ || सारूप्यं हि चतुर्थं स्यादुत्तमं मध्यमाधमम् | मध्यं स्तंभं चतुष्कोण धर्मज्ञानादिदेवतम् || २८ || बाह्ये द्वादश स्तंभानां द्वादशादित्यदैवतः | बाह्यानां विंशतिस्तंभं वसवो अश्विनौ तथा || २९ || विद्येश्वरञ्च विश्वौ च विश्वस्तंभाय देवताः | दर्भमालाभिरावेष्ट्य पुष्पमाल्यैरलङ्कृतम् || ३० || तदङ्गपटमावेष्ट्य स्तंभनञ्चापि वेष्टितम् | सितानामूर्ध्वमाच्छाद्य नेत्रपटैरलङ्कृतम् || ३१ || नारिकेलफलं पुष्पैर्मुक्तादामैरलङ्कृतम् | प्. ३११) अश्वत्थं रक्तपत्रैश्च अपूपैरुपशोभितम् || ३२ || गन्धपुष्पसमायुक्तं धूपदीपैरलङ्कृतम् | गोमयालेपनं कृत्वा प्रोक्षयेद्भूतलं प्रति || ३३ || अङ्कुरार्पणयेत्पूर्वं पूर्वनृत्तं यथा कृतम् | एवन्तु मण्टपं पूर्वप्रोक्तं नृत्तकालं शृणुष्वहि || ३४ || नित्यस्थाने समानृत्तं अर्चनान्तं तथैव हि | क्षीरस्नाने घृतस्नाने मधुस्नाने जलेऽपि वा || ३५ || अन्यत्पुण्यदिने वाऽपि यत्तन्नृत्तं समाचरेत् | नृत्तस्य प्रथमात्पूर्वे नारीनां दीक्षणं कुरु || ३६ || गान्धर्वप्रथमारंभे दीक्षितस्य तथैव हि || प्. ३१२) नर्दको नर्दकश्चैव गायको वंशकस्तथा || ३७ || मौके वा रुद्रनारीणां शिवदीक्षा करोति हि | सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् || ३८ || एभिस्तु लक्षणैर्युक्तशुद्धनृत्तं समारभेत् | हीनाङ्गे नासिकांश्चैव बालो वृद्धस्तथैव च || ३९ || स रोगी विकटांगश्च क्षयकुष्ठादिवर्जितम् | अपेयपानी पाषण्डी वामा * * * वर्जयेत् || ४० || आरात्रिमर्चयेत्कुर्यात् भस्मानं दापयेद्बुधः | ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति || ४१ || सायंकाले विशेषेण * * होमं विना चरेत् | प्. ३१३) पश्चाद्धोमबलिं कुर्यादस्त्रदेवसमन्वितम् || ४२ || अन्तर्लिङ्गबलिंपात्रं चन्द्रशेखरमेव च | रात्रौ तु वा बलिं कुर्यात् सर्वेषां बलिमाचरेत् || ४३ || ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति | अष्टमे नवमे वापि गन्धोत्सवविधिक्रमम् || ४४ || तद्दिनं त्रितये वापि द्वितीये चाङ्कुरार्पणम् | तद्दिनात्पूर्वरात्रौ तु कौतुके तु नटेश्वरम् || ४५ || भुजङ्गललितञ्चैव भुजङ्गत्रासमेव च | एतन्नृत्तमिदं प्रोक्तं स्नपनं तत्र कारयेत् || ४६ || शिवाग्रे मण्टपं कुर्यात् आस्थानं मण्डपं तथा | प्. ३१४) गोमयालेपने शुद्धे स्थण्डिलं तत्र कारयेत् || ४७ || अष्टद्रोणैश्च शालीनां तदर्धं तण्डुलं तथा | तदर्धं तिलसंयुक्तं देवाग्रे स्थण्डिलं तथा || ४८ || दर्भैः पुष्पैः परिस्तीर्य लाजपुष्पैश्च शोभितम् | तन्मध्ये तु त्रिपाटीनां स्थण्डिक्तान् तण्डुलं भवेत् || ४९ || स्वर्णसूत्रं विशेषेण कार्पासं सूत्रमेव च | तन्मध्ये तन्तुसंयुक्तं भासं चन्दनमेव च || ५० || लंबकूर्च समायुक्तं उपवीतसमन्वितम् | परिचारकमूर्ध्निस्तु प्राकारे तु प्रदक्षिणम् || ५१ || शङ्खदुन्दुभिनिर्घोषैस्तोत्रमङ्गलवाचकैः | प्. ३१५) देवसन्निधिमाप्नोति पुण्याहं वाचयेत्क्रमात् || ५२ || तदरवा अग्निकार्यन्तु स्थण्डिलैस्सिकतैस्तथा | त्रिसूत्रं पूर्वोत्तरेणैव ब्रह्मजज्ञानमन्त्रतः || ५३ || नागे सुवर्णमन्त्रेण दक्षिणे सूत्रमेव च | आप्यायस्वेति मन्त्रेण उत्तरं रेखयेत्क्रमात् || ५४ || यो रुद्रो इति मन्त्रेण पूर्वरेखा समालिखेत् | तन्मध्ये स्थापितं कुर्यात् प्रदक्षिणमथाचरेत् || ५५ || वागेश्वरञ्च वागेशी तन्मन्त्रमर्चयेत्क्रमात् | त्रिदशैः कूर्चसमायुक्तं पुष्पगन्धसमन्वितम् || ५६ || अर्चयित्वा विशेषेण धूपदीपसमन्वितम् | प्. ३१६) अग्निन्तु वामपार्श्वे तु पात्रन्तु साधयेत्क्रमात् || ५७ || उत्तरे आसनं कल्प्य प्रणीतां प्रोक्षणीं तथा | आज्यस्थालीं चरुस्थालीं सृक् स्रुवं साधयेत्क्रमात् || ५८ || समिधा द्रव्यसंयुक्तं परिधित्रयमेव च | प्रोक्षणं पात्रमादाय जलेन पूरितं क्रमात् || ५९ || कुशपुष्पाक्षतैर्युक्तं प्रोक्षणी साधयेत्क्रमात् | प्रणीतापात्रमादाय तोयपुष्पाक्षतैर्युतम् || ६० || उत्तरे चैव सङ्कल्प्य जनार्दनं समर्चयेत् | आज्यस्थालीं घृतं पूर्य त्रिस्पर्शनकूर्चकम् || ६१ || कूर्चग्रन्थिविसृज्याथ अग्निमध्ये स्थितं तथा | प्. ३१७) आज्यसंस्थानदर्भाणामाग्निं दक्षिणकं तथा || ६२ || व्याहतीं जुहुयात्कुर्यात् ब्रह्मजज्ञानमन्त्रकैः | परिस्तरेण दर्भाणां * * * * * * * * || ६३ || उभयोः पार्श्वयोश्चैव * * * * * संस्थिताः | मृदङ्गादिमहाशब्दं पूर्वायां दिशि संस्थितम् || ६४ || अन्ये भक्तजनाश्चैव तद्बाह्येन तु संस्थिताः | नीराजनं पूर्ववत्कृत्वा स्तोत्रमङ्गलवाचकैः || ६५ || आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः | नर्दको मर्दपूज्यञ्च शुद्धहेमन्तु निष्ककम् || ६६ || गायको वंशकश्चैव वस्त्रहेमाङ्गुलीयकैः | प्. ३१८) तमर्दको रवैश्चैव युगं वस्त्रं प्रदापयेत् || ६७ || एतेषामन्यजातीनां तांबूलञ्च निवेदयेत् | गेयो वाद्यसमुत्पत्ति वाद्यं तालसमुद्भवम् || ६८ || तालानृत्तसमुत्पन्नं इत्येते उद्भवं स्मृतम् | रङ्गेन वर्तने नृत्तहस्तानाञ्चैव निर्णयम् || ६९ || चक्षुर्भ्यां भावयेद्भावपादतालसमाश्रयम् | शिरोहस्तं कटिर्वक्षपुटरं पार्श्वसंयुतम् || ७० || अङ्गप्रत्यङ्गसंयुक्तं षडेते नृत्तलक्षणम् | लयनालसमायोगे चारुनृत्तं प्रकल्पयेत् || ७१ || गेयहीने ह्यनावृष्टिः वाद्यहीने धनक्षयम् | प्. ३१९) नृत्तहीने तु दारिद्रं तालहीने भयङ्करम् || ७२ || बिन्दुनादस्वरैर्वर्णैर्वेषितैर्नाभिमूलकम् | हृदयं व्यापितं मुक्तिगलैर्दन्तैश्च जिह्वया || ७३ || शुक्लशोणितयोर्मध्ये बिन्दुनादोद्भवं शिवम् | तस्य मध्ये प्राणस्थिति बिन्दुरूपं परात्परम् || ७४ || मा पा धा नी सा री | सप्तस्वरमिति प्रोक्तं सकले तु विधिक्रमम् || ७५ || षड्ज ऋषभगान्धारामध्यपञ्चमदैवतम् | निषादनिष्कलञ्चैव सस्वरं सकलस्य तु || ७६ || निष्कलस्य तु आधेयमाधारं सकलं भवेत् | प्. ३२०) सकलं शक्तिरूपं स्यान्निष्कलं जीवरूपकम् || ७७ || स्वरस्य प्रणमाधारं प्रणवायुसमं भवेत् | पद्मनालं गतो वायु सूतिकारेण संयुतम् || ७८ || यथाकाशस्तथा वायुस्तत्प्रमाणस्वरं भवेत् | स्वकारं प्राणमित्याहुः अकारञ्चानलं तथा || ७९ || द्वयोरक्षरसंयोगा स्वरस्य उपलभ्यते | इत्येकता गाहिका लोके चतुर्थमर्दलमुच्यते || ८० || सप्तस्वरत्रयोग्रामा एकविंशतिमूर्च्छयोः | अक्षराणां निभं कृत्वा वर्णाङ्गानि गायकाः || ८१ || स्वामिनं श्रुतिकारञ्च सप्तस्वरविभूषितम् | प्. ३२१) सौग्रामे वर्तमानञ्च शुद्धषाडवसंयुतम् || ८२ || एतेषां लक्षणैर्युक्तं वंशकानां विशेषतः | अष्टमेव गुरुं पूर्वं मध्यमे लघुषोडशम् || ८३ || परोपि द्वात्रिंशति बिन्दुकार्या क्षिपतिका बुधः | ध्रुवं का अपरार्पाण्या तिष्यं बन्धापि सर्जनम् || ८४ || इति ख्याता कायपतिता चाष्टमेव च | ? तत्कराङ्गस्य पञ्चम्यां दलामालदेशिकम् || ८५ || गान्धारञ्च मयाकुंभमित्येते रागषड्विधम् | उत्सवानां परीचारमदचारीगचारिका || ८६ || महाचारिक इत्येते चतुर्थानामत स्मृताः | प्. ३२२) ध्रुवाक्षिप्तिलवञ्चैव वर्धमानस्त्रियं तथा || ८७ || मण्डलः कुण्डितञ्चैव विक्षेपोक्षितमेव च | आवेष्टितो वेष्टितञ्च उर्वेष्टिं तन्तुमेव च || ८८ || * स्म पादं दण्डपादञ्च पुष्पाञ्जलिमेव च | भ्रमरीरसचारी च करणञ्चाङ्गहारिका || ८९ || सप्रकारि रसञ्चैव कटकं कुण्डलमेव च | सात्विकं दृष्टिसंयुक्तं शुद्धनृत्तं विधीयते || ९० || भूतप्रेतपिशाचैश्च असुरो गणराक्षासाः | नृत्ताक्षिप्तबहुशब्दं श्रोत्रं गच्छेद्भयावहम् || ९१ || गानश्रोत्रगतञ्चैव सहसा गच्छति बाह्यतः | प्. ३२३) लोकशान्तिकरं ह्येवं राजराष्ट्रविवर्धनम् || ९२ || स्थानवृद्धिञ्च मेवोक्तं धनधान्यविवर्धनम् | अथ वक्रमथनं व प्रभङ्गं पिङ्गलजटामकुटम् || ९३ || पीतं गङ्गाजलार्थनिधनमार्द्रचन्द्रधारः | त्रिदशी देव असुर गणवन्दितचरणम् || ९४ || प्रणदायाङ्कुरणं सर्वलोकशरणार्ति विनाशनम् | वैद्यनाथचरणनृत्ताक्षिप्तं सितवृषगतिम् || ९५ || सितभस्मधरं सितगङ्गाजलकम् | तस्मिन् गात्रलवे सुबालां वै बहुविन्यसेत् || ९६ || पाणिनौक्षासनं कृत्वा पुष्पाञ्जलि सुमुद्रया | प्. ३२४) नोरोगस्स च सहानृत्ते नृत्ताक्षिप्तसमन्वितम् || ९७ || वर्तभ्रमरन् भ्रमरपक्षविपुं प्रमाणैस्सत्वमहोरवरसम् | मन्दञ्जलिरेषरङ्गैस्सिद्धिव्रतञ्चायमेक चतुर्मुखम् || ९८ || कुञ्चितौ मणिबन्धौ च हा वृत्ति परिवर्जितौ | अर्धञ्चोर्द्ध निवाद्यैश्च वर्तनं कमलं भवेत् || ९९ || मधुमत्तभ्रमरीगीतरवे परभृतगलाय सम्यावनेत्र युग्ममनसा | व्रतगन्धवनं पते प्रविशति वनमिव सुकरणीप्रावेशिकैः || १०० || प्. ३२५) लीलाविलासिनि चितया करणीलोलाविलोलनवन्ये बिंबं कमलाकुचरुद्रपवनै सुभोक्तोरपि नं प्रवेशतिमन्दगतेद्धृवैः || मन्दारपुष्प परिपूर्णविचित्रगन्धैः मुक्तालिवृन्दमधुस्वनिगीतियुक्तैः | नानाङ्गहारकरणाञ्चित दृष्टिपातैः पुष्पाञ्जलिं हरतुकं कमलासनस्थः | जय गङ्गाधर जय शशिशेखर जय खड्गाङ्गधर जय त्रिपुरान्तक जय त्रिभुवनवनवन्दितचरण जय सितवरवृषगगमन जय | जयव्याधिविनाशनदेव वैद्यनाथ चरणनैकमाणम् | प्. ३२६) ऋषभगान्धार शुद्धकमलाकरकमलाचयलयनिलये कमलासनसहिते कमलवन्दितसितासितनयने गीतवाद्यनिरते गुणागुणनिलये सुरनिर्मिते तववन्दिततया करणे देवि सरस्वति वरगुणिवरणे जयगणपति सहिते वितगघननिववर्गा न तले नारागणमज्वलितेरभामनेन नलिन तत्र कमले शशिनं भवोल्ललिते प्रावेशिकैः | पवनराशिननिधिलिगिलितते भ्रमरगणमधुरगीतरवे कोत्ररवकोकिलमूविकलिते प्रविशति परमिव सुरकिरणी नृत्ताक्षिप्तिः | मनमुदितमधुरविकुल भ्रमरमुदितकिन्नरगीतरवे विरहामरमन्दागममन्दगते प्रविशति | प्. ३२७) गजपति निलयगिरिशेखरे ध्रुवैः | पुन्नागचन्दनसरोरुहवल्लिजालैर्मत्तालितायोगवकुलोत्पलकर्णिकारैः | नानाविचित्र करणान्वितदृष्टिपातैः पुष्पाञ्जलिं हरतु मे कमलासनस्थः || पुष्पाञ्जलिः- सरस विकुलित द्रुधिरपटनरशिरोमालाकपालधरम् | अर्धकन्दर्पविनाशकरं प्रणमत भैरवरूपम् || नैष्क्रामणम् - पञ्चशुद्धिः - देवं दिव्यकपालकत्रिशूलधरं जकङ्कालमाभरणम् | शशाङ्कशेखरमुपाध्युरूपधरं वासुकिफणिमणिभैरवम् || प्. ३२८) रूपरुद्रमेकाक्षं गुरुवदेवदेवं त्रैल्कोक्य नमोस्तुते | प्रावीशिकै गुरुजमलाञ्जनभस्मकरं विषधनदर्प विनाशकरम् || तदविधिनाशकरं मरणविनाशन धरणीतरं प्रणमत केशव पूरितहरं | नृत्ताक्षिप्तिः- माला सुरेन्द्रमधुदर्पहरं गोवर्धनं क्षिप्ति जनाद्धरणम् | दृष्ट्वा सारस्य सितभस्मकरं त्रैलोक्यनाथमहं शिरसा || धूपैः- तत्पुष्पपङ्कजसरोरुहपङ्कजातैः अन्तर्भ्रमद्भ्रमरकर्णिककृत्तिकारैः | दृष्टियोगपरिमण्डल दृष्टिपातैः प्. ३२९) पुष्पाञ्जलिं हरतु मे कमलासनस्थः | पुष्पाञ्जलिः- मत्स्यकूर्मो वराहश्च नारसिंह भ्रुकुटितमकुटकंसमहासुरदेवविनाशदेवदानवहारि त्रिपुरहतमाक्षिप्तिः | जलभवनहुताशीन दिव्यंशाकरकुक्षिकरम् | अजरं परमानन्दपरमं विष्णुजयं पवनम् || नैष्कामिकरम् - तर्करागम् - अर्धशशाङ्कधराय नमो दिव्यगजेन्द्रपगाय नमो नागकृताभरणाय नमो देवि उमासहिताय नमो प्रवेशिकैः | कुसुमवरनं मितविविधतरुकरभ्रमणमधुरगीतरवेण प्. ३३०) तमन्दमाप्रविशति वरमिव | सुरकरणी वनमुदितमधुरविकुलित पवनशिथिलिततरुणतरुवनते | अलपुलिते करिवरचरणगते गगनगगनमपविशति परकिरणपवते ध्रुवैः - | प्रोत्फुल्लकर्णिकुसुमादिविशेषगन्धैः भृङ्गारवैकुलितेकतति वन्दनाद्यैः | हस्तापि तत्र परिपूर्णदृष्टिपातैः पुष्पाञ्जलिं हरतु मे कमलासनस्थः || पुष्पाञ्जलिः- भुजगेन्द्रभारवकरललितमर्धकृतं धनम् प्. ३३१) वरवृषगमनं यदि प्रियदहनं मृगपतिवसन शशिखण्डमण्डितजटामकुटार्धम् | वासुदेवकृतपतिचरणं पूजामिथुनवरवन्दनदेविगुरु सततम् | नैष्क्रामणम्- कौशुकशुद्धिम्- दिवसकरसंपुरुषो शिशुचिरचिरतपीत जनगंभीरतरसा सहिता विन्दिबेरं पशुपतिपानचरणाहतहरम् | प्रवेशिकैः- मलयसुगन्धारमाणवने भ्रमरदलभियवर्णेना हयये | मदशनशाहति खिन्नरमणो प्रविशति करणीकरवरयै || नृत्ताक्षिप्तिः- प्. ३३२) कमलसुरमणि मकुटार्चितं चरणं कमलयुगे ऋषिमुनि सुरसेविता | चरणं भुवनत्रयमहिते सिद्धान्तमन्दवेदाद्योते वलये | हरवरसंस्कृते योगिनमितयोगिनिमितं नमो ध्रुवैः | चिलादिके कृतसरोरुहपारिजातैः दिव्यालिबृन्दपरिपङ्कजरेतसूक्तम् | हस्ताभियोगपरिवर्तन दृष्टिपातैः पुष्पाञ्जलिर्हरतु मे कमलासनस्थः || पुष्पाञ्जलिः- प्. ३३३) मत्स्यः कूर्मो वराहश्च नारसिंहभृकुटितटमकुटकंसमहासुर-देवविनाशनदानवत्रिपुरहतमाक्षिप्तिः- पुनरुक्ति - जलभवनहुताशी दिव्यशाङ्करकुक्षिरं अजरं परमं नन्दितपरमं विजयं पवनः | नैष्कामिकरम्- तर्करागम् | अनाशशशाङ्क धराय नमो दिव्यगजेन्द्रपगाय नमो नागकृताभरणाय नमो देवि उमासहिताय नमो | प्रवेशिकैः | शिखरपरिशिखरकृतनिलयं गीतमयार्ध विश्रूयते | प्रणमतकेशव दुरितहरदानवगजत्रिपुरहरम् | नृत्ताक्षिप्ति- प्. ३३४) मलयसु पति सुररिव विमले विकसिततरुवरप्रहसित चरणम् | पङ्कजवकुल प्रियमिरहारमर्दनवगते प्रविशति मृगपति वल्लीवटने | ध्रुवैः | सा वारिजाकोत्पलकीर्तिनीलैः विशेषमधुमालितबृन्दशोभैः | आलीलमण्डलसरोरुहदृष्टिपातैः पुष्पाञ्जलिर्हरतु मे कमलासनस्थः पुष्पाञ्जलिः- एकरूपमनेकाकारं पञ्चास्थानमणि श्रोत्रवर्तिकावन्दितचरणमजजस्य | बहुमगकरादिवद्दानदवयच्चित वादशंभो यागमयं प्रणमतोऽस्मि शिवरूपम् | ऋषिकुलसकलकरण्डं चिन्दबेदरवरदम् | नैष्क्रामणम् | प्. ३३५) गन्धारूढं उत्थापनैर्प्रावेशिन्तु आक्षिप्य परिवर्तकेनानन्दितस्य स्रुवायोगम् | रङ्गद्वारि च सौरसम् | चारी च पुष्पमोक्षा महाचारीश शैक्रमणात् || अतःपरं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् | प्रातःकालेऽर्चनान्ते च गेयनृत्तविहीनकैः || १ || मध्याह्ने अर्चना काले द्विगुणं नृत्तमाचरेत् | द्विसन्धिनृत्तहीने तु सायंकालार्चनान्तकम् || २ || नृत्तगेयं समारभ्य नृत्तगेयं समाचरेत् | एकाहनृत्तहीने तु स्नपनं पञ्चविंशतिः || ३ || शान्तिहोमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा | प्. ३३६) प्रभूतहविषं दत्वा तांबूलञ्च प्रदापयेत् || ४ || द्व्यहं त्र्यहं वाऽपि चतुर्थं पञ्चाहमेव तु | षष्ठाहञ्च नचेद्वापि सप्ताष्टनवमं स्मृतम् || ५ || त्रीण्यादीनि शतान्तञ्च यथाविभवविस्तरम् | गुरुहात्वादिशैवानां सगोत्रञ्चरोपरोपयेत् || ६ || तोयभूमिं ददेद्भूमिं स्वर्णं धान्यं ददेत्क्रमात् | तत्संख्या शीलकारोप्य तत्संख्या च तपस्विनम् || ७ || तत्संख्या वाद्यकांश्चैव तत्संख्या गणिका भवेत् | तत्संख्याश्च कुलालाश्च तत्संख्या पुष्परक्षकाः || ८ || तत्संख्या देवदासी च तत्संख्या वस्त्रक्षालिनः | प्. ३३७) तत्संख्या काष्ठकारी च गोपालानां तथैव च || ९ || अन्यत्कर्मोपजीवीनां यथा विभवतां नयेत् | यावद्बलं विभवता तावद्धविः प्रदापयेत् || १० || शक्तिहविषार्द्धञ्च यथाशक्ति अर्चनभोगकम् | दीपानां भोगमेवं तं गन्धार्धं भोगमेव तु || ११ || पुष्पार्धं भोगमेवन्तु स्नपनार्थं भोगमेव च | उत्सवार्यञ्च भोगञ्च पुष्पकानां भोगमेव च || १२ || प्रायश्चित्तार्थभोगञ्च कृत्तिका दीपभोगकम् | आग्रयणार्थञ्च भोगञ्च न्यूनातिरिक्तभोगकम् || १३ || देवयज्ञश्च भोगञ्च शिलालेखान्तु कारयेत् | प्. ३३८) देवञ्च परिचारञ्च देवकर्मिषु सर्व च || १४ || अक्षीण जीवितुं यत्तु यथा विभव निश्चयम् | देवस्य शेषं यन्मर्त्यमन्यकर्म न कारयेत् || १५ || देवालयं गृहं गम्यं परालयं न दृश्यते | सुपुष्टभोगं कृत्वा तु कुर्याद्राजोपकारकम् || १६ || यथा विभवविस्तारं त्रिधा कृत्वा तु भागकम् | एकभागन्तु धर्मार्थं द्विभागं देवशेषकम् || १७ || एवं क्रमेण यः कुर्यात् शिवलोकं स गच्छति | इति योगजे विभवनिश्चयः पटलः || प्. ३३९) अथ वक्ष्ये विशेषेण नैवेद्यविधिमुत्तमम् | हैमशाली महाशाली रत्नशाली तथैव च || १ || सितमाली कृष्णशाली तत्तद्भेदमनेकधा | व्रीही च सर्वभेदानां यवगोधूमकानि च || २ || एते च सर्वयोग्यानां हविश्शेषं विधीयते | शुक्तिश्च त्रिशतं व्रीहि द्विगुण व्यूहमिष्यते || ३ || द्विगुणं कुटुंबमेवोक्तं कुटुंबद्वयवारिषु | वारिद्वयं प्रस्थमित्युक्तं तद्वयञ्चरु आढकम् || ४ || तद्वयहविरुच्यन्ते तद्वयं शिवमीरितम् | शिवद्वयं द्रोणमित्युक्तं तद्वयं खानिरुच्यते || ५ || प्. ३४०) खारित्रयं भारमित्युक्तं यथाक्रममिति स्मृतम् | शतभारमुत्तमं प्रोक्तं पञ्चाशन्मध्यमं भवेत् || ६ || विंशद्भारन्तु अधमं दशभाराधमाधमम् | क्षुद्रन्तु पञ्चभारं स्यान्नीचं भारद्वयं तथा || ७ || कल्पं भारमिति प्रोक्तं नर्तशक्तिवशान्नयेत् | आढकन्तु हविं कुर्यात् तदर्धं चरुरुच्यते || ८ || तदर्धं बलिरित्युक्तं यथाक्रममिति स्मृतम् | गौर्यादि शक्तिनाञ्चैव परिचाराणां तथैव च || ९ || षोडशप्रतिमानाञ्च द्विप्रस्थञ्च निवेदयेत् | हविश्चैव चतुर्भावद्विभागन्तु निवेदयेत् || १० || प्. ३४१) ऐकभागन्तु शेषं स्यात् शेषं बालादिदानकम् | हविरष्टविधं प्रोक्तं मुद्गान्नं पायसान्नगम् || ११ || कृसरान्नं गुलान्नञ्च शीबान्नञ्च यवान्नकम् | माषान्नञ्चैव शुद्धान्नं हविरष्टविधं भवेत् || १२ || तुषञ्च वर्जयेन्मुद्गं नारिकेलफलैर्युतम् | तण्डुलार्धञ्च मुद्गञ्चाल्पं लवणसंयुतम् || १३ || एवमुद्गान्नमित्युक्तं कृसरान्नं तथैव च | कदलीगुलसंयुक्तं जीरकञ्च मरीचिका || १४ || नारिकेलघृतैर्युक्तं पालसार्द्रवसंयुतम् | मुद्गञ्च नारिकेलञ्च पनसफलसमन्वितम् || १५ || प्. ३४२) गुलान्नमिति विख्यातमपूपान्नमथोच्यते | अपूपान्नमिति ख्यातं सर्वकाले तु दापयेत् || १६ || सर्वेषाञ्च विधातव्यमुपदंशगुलैर्युतम् | दधिघृतसमायुक्तं पञ्चवर्णहविर्ददेत् || १७ || तण्डुलप्रस्थमेकन्तु फलैकमुपदंशकम् | तत्समं गुलसंयुक्तं मरीचीलवणसंयुतम् || १८ || जीरकं नारिकेलञ्च युक्तास्सर्वोपदंशकम् | घृतञ्च पेषणं कृत्वा शुद्धोपदंशमुच्यते || १९ || चूतफलं मातुलङ्गञ्च तिन्त्रिणीफलसंयुतम् | अम्लोपदंशमेतेषां मरीचीलवणघृतैर्युतम् || २० || प्. ३४३) जीरकं सर्षपञ्चैव पेषणञ्च सुगन्धिकम् | अतिपक्वमपक्वञ्च वर्जयेत्तु विशेषतः || २१ || सर्षपं पाचयेद्धीमान् त्रिविधं सोपदंशकम् | शुष्कमार्द्रवपक्वञ्चाम्लपक्वं त्रिधा भवेत् || २२ || पनसं कदलीचूतं बृहती कूश्माण्डमेव च | श्वेतहरी फलञ्चैव वल्लीपनसमेव च || २३ || क्षुद्रमिति एको वापि निष्वापद्वयमेव च | शिग्रूमार्जारकालिञ्च तिमिसीमातुलङ्गकम् || २४ || नालिकेरङ्गकायञ्च रक्तागस्त्यफलं भवेत् | वनदेशकारीश्ववली च कण्टा काली च दूलता || २५ ||? प्. ३४४) माष मा * षलती चैव उपदंशफलान्वितम् |? इदमन्यत्र चिद्रव्यं भक्तियुक्तं भवेद्विदुः || २६ || वल्लीमूलमिहामूलं भिन्नमूलन्तु कर्णिका | अन्यमूलन्तु एतेषां मूलवर्गं ददेद्बुधः || २७ || अन्येषां मूलद्रव्याणां भक्तियुक्तं वशान्नयेत् | शक्तिजातिस्तु सर्वेषां वर्जयेत्तु विशेषतः || २८ || रक्तध्रुवासं भक्तानामेककालं निवेदयेत् | मरीचीसर्षपं चूर्णं जीरकं नारिकेलकम् || २९ || सर्वेषामुपदंशानां सममेतत्प्रकल्पयेत् | घृतञ्च मेलयित्वा तु सर्वद्रव्याणि संयुतम् || ३० || प्. ३४५) षड्रसं घृतसंयुक्तं नैवेद्यं दापयेद्बुधः | कृषिकर्मफलं पूर्वं देवदेवं निवेदयेत् || ३१ || तलिका स्थापयेदन्नमङ्कारं तुषयोनकम् |? अतिपक्वमपक्वञ्च वर्जयेत्तु विशेषतः || ३२ || महाहविर्निवेद्यन्तु वस्त्रोर्ध्वे पत्रकं न्यसेत् | कदलपलाशपत्रं वा अन्यक्षीरद्रुमन्तु वा || ३३ || अन्येषां शुद्धपात्राणां महाहविर्निवेदयेत् | हविरूर्ध्वोपदंशैश्च गुलञ्च कदलीफलम् || ३४ || घृतं निक्षिप्य यत्नेन दधि वा दुग्धमेव वा | निवेदयेद्धृदा मन्त्री देवस्यत्वेति मन्त्रतः || ३५ || प्. ३४६) पाटलीञ्च सुगन्धी च उशीरं एलसंयुतम् | पानीयं दापयेत्पश्चात् चण्डेशाय निवेदयेत् || ३६ || निर्माल्यशुद्धिं कृत्वा तांबूलञ्च निवेदयेत् | कर्पूरं जातितकेकालं तैलं क्रमुफलैर्युतम् || ३७ || तांबूलं दापयेत्पश्चात् अल्पचूर्णैस्समायुतम् | चन्दनञ्चैव कर्पूरं कस्तूरीमुखसंयुतम् || ३८ || मन्त्रगेयसमायुक्तं व्यञ्जनं मन्दवायुना | हिमाचलसमायुक्तं रामवत् सुषिरे स्पृशेत् || ३९ || एवं कृते तु मर्त्याश्च ऐश्वर्यं सर्वमाप्नुयुः | शनिवारे बुधवारे च गन्धतैलं क्षितेद्बुधः || ४० || प्. ३४७) इति योगजे नैवेद्यविधिः पटलः || अग्निकार्यमहं वक्ष्ये शृणुष्वेकाग्रमानसः | कुण्डलक्षणमार्गेण कुण्डं कुर्याद्विचक्षणः || १ || अथवाऽन्यत्प्रकारेण स्थण्डिलं सिकतैस्तु वा | कोट्याहुत्यष्टहस्तं स्याल्लक्षहोमन्तु लक्षणम् || २ || दश सहस्रं पञ्चहस्तं वा त्रिहस्तं चतुर्हस्तकम् | द्विहस्तसहस्रं होमं स्याद्धस्तं पञ्चशताधिकम् || ३ || रत्निमात्रा शतान्ता च दृष्टिमात्रं शतार्धकम् | दृष्टिमात्रादधोमानं अष्टहस्तात्परं न हि || ४ || प्. ३४८) द्वित्र्येकमेखलोपेतं कुण्डलक्षणवत्कुरु | स्थण्डिलं हस्तमात्रं स्यात् त्र्यङ्गुलसमन्वितम् || ५ || पद्मञ्च दक्षिणे स्थाप्य उत्तरे योनि कल्पयेत् | त्रिरेखाप्रागुदग्रं परिधी परिस्तरणसमन्वितम् || ६ || पूर्वपश्चिमकुण्डेषु चोत्तराभिमुखस्थिताः | अन्येषु प्राङ्मुखो भूत्वा सृक् स्रुवं कारयेद्बुधः || ७ || परिस्तरणमयो वेदि स्थण्डिलं सूत्रमध्यमे | परिधिं दक्षिणारभ्य प्राक् परिधिविना कृतम् || ८ || कूर्चं स्थाप्य तदूर्ध्वे तु पूर्णाग्रं समिधौ न्यसेत् | पञ्चसप्ताष्टनवभिः दर्भैः प्रागादिकूर्चकम् || ९ || प्. ३४९) कनिष्ठाङ्गुलिप्रमाणेन परिधीनिध्मकं कुरु | आयामद्वादशाङ्गुल्यं समिधा कारयेद्बुधः || १० || ब्रह्मकूर्चं षडङ्गुल्यं विष्णुकूर्चं तथैव च | मध्ये तु रुद्रकूर्चन्तु त्रिमूर्तिं स्थापयेद्बुधः || ११ || त्रिपञ्च सप्तनवकैः कूर्चान् सर्वान् प्रकल्पयेत् | सृक् स्रुवञ्च चतुर्दर्भैः अष्टाङ्गुलन्तु दैर्घ्यकम् || १२ || पालाशाश्वत्थपत्रादी सृक् स्रुवञ्चैव बन्धयेत् | एकद्वित्रीणि दर्भाणां पवित्रं बन्धयेत्क्रमात् || १३ || त्रित्रिद्व्यङ्गुलं तदूर्ध्वं मध्ये बन्धं तदर्धकम् | अग्रं यवप्रमाणेन तत्पाशं विन्यसेद्बुधः || १४ || प्. ३५०) अनामिकामूलसंयुक्तं पवित्रमिदमीरितम् | अग्निं प्रज्वाल्य विहरी परिषेचनमथाचरेत् || १५ || श्रोत्रियाङ्गारजं वाग्निं सूर्यकान्तोद्भवन्तु वा | कनिष्ठानि मर्दनं वाऽपि प्रोक्षयेत्तु शिवांभसा || १६ || सुगन्धकाष्ठं संगृह्यमग्निमुज्वाल्य बुद्धिमान् | परिस्तरपूर्वाग्रमुत्तराग्रं प्रकल्पयेत् || १७ || शिवाग्निं जनयेद्विद्वान् शिवमन्त्रं जपेत्ततः | द्विमुखञ्चैकहृदयं चतुश्श्रोत्रं द्विनासिकम् || १८ || आस्यद्वयञ्च षण्णेत्रं पिङ्गलं सप्तहस्तकम् | त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समासतः || १९ || प्. ३५१) चतुःशृङ्गं वृषारूढं बालादित्यसमप्रभम् | एवं शिवाग्निं संकल्प्य शिवमन्त्रेण देशिकः || २० || वृद्धरूपत्र्यक्षचतुर्भुजमक्षपिङ्गलगोवृषवाहनम् | रक्तवर्णसितोत्तरीयं वरं शक्तिपाणिशिवाग्निस्वरूपकम् || २१ || विद्युत्पुञ्जनिभञ्चतुर्भुजमजारूढं त्रिपादं चतुः सृङ्गवृत्तमुखद्वयं ज्वलितकं जिह्वा सप्तक षट् सुनेत्र परममौञ्जि त्रिरावर्तितम् | सव्यापसव्ये करेऽसृभयं वरद युक् सृक् स्रुवञ्चापरे | ध्यायेत् | गार्हपत्यसंस्थमनलमेवं जगामौलिनं बालादित्यनिभं सृक् न्यते खड्गञ्चाभय सव्यकृतवामं कूर्चं सकेरवं प्. ३५२) परात्परत्रिद्विषं | सुनेत्रमभुजमथार्षकं सर्वालयञ्चोपरि गार्हपत्यं गृहस्थानां पितॄणां दक्षिणानलम् | आहवनीयञ्च देवानां तत्तद्रूपं वदाम्यहम् || २२ || बालयौवनवृद्धाग्नि स्त्रिविधं तत्प्रकीर्तितम् | बालाग्नि स्यात्प्रतिष्ठानां उत्सवे यौवनाग्निना || २३ || वृद्धाग्नौ नित्यहोमं स्यात् सव्यापसव्यमार्गकम् | काली चैव कराली च मनोरमा च सुलोहिता || २४ || धूम्रवर्ण पुलिङ्गञ्च विश्वरूपी विलोहिता | देवीलोलाऽस्य भावास्यादिति शक्ति प्रकीर्तिता || २५ || प्. ३५३) जिह्वाहस्ताय षट्त्र्यङ्गुलं नाहदण्डमूलाग्र पुष्करणोस समाग्ररूपं मध्याद्विपार्श्वबलिकर्म घृतपूर्णं गोपालसन्निदण्डमिदं स्याग्रं वं स्याद्ब्राह्मणं दक्षिणे स्याज्य कूर्चं सुनिकृ वत् |? विष्णुर्वै वाम निक्षिप्य प्रणीतापात्रनिक्षिपेत् | भवश्च पूर्वादिकुण्डेषु आग्नेयमुग्रमेव च || २६ || शर्वं दक्षिणे कुण्डे ग्रामदेवन्तु नैर्-ऋते | रुद्रञ्च वारुणे कुण्डे भीमं वै वायुगोचरे || २७ || पशुपतिञ्चोत्तरे कुण्डे ऐशान्यामीशमेव च | त्रिणेत्रञ्चतुर्भुजञ्चैव मध्यमे होमकर्मणि || २८ || प्. ३५४) सर्वदेवान् समभ्यर्च्य श्रेष्ठहोममिति स्मृतम् | लोकपालास्त्रहीने तु मध्यमे होमकर्मणि || २९ || कुण्डाधिदेवतास्सर्वे विन्यसेत्कुण्डमध्यमे | समिधः सद्यमन्त्रेण आज्यं वामेन हूयते || ३० || अघोरेण चरुं हुत्वा पुरुषेण च लाजकम् | ईशाने सर्वपञ्चैव कवचेन तिलं हुनेत् || ३१ || वयं हुत्वा हृदा मन्त्र सप्तमन्त्रेण हूयते | पलाशखदिरे * * अश्वत्थं वटवृक्षकम् || ३२ || न्यग्रोधं प्लक्षवृक्षं अपामार्गं शमीं तथा | बिल्वं कपित्थकञ्चैव जंबूवकुलमेव च || ३३ || प्. ३५५) एवं समिदिहाख्याता प्रधानस्य पलाशकम् | मस्थण्डिलमुल्लेखनञ्चैव अपोक्षणमग्निसंस्थितम् || ३४ || परिस्तरणद्रव्यपात्रञ्च प्रोक्षणं पुण्याहमेव च | प्रणीता विष्णुमभ्यर्च्य ब्राह्मणञ्चार्च्यकूर्चकम् || ३५ || आद्यं त्रिदर्भमग्निस्थं दर्वीपरिधिरेव च | परिषेचनं ततः कृत्वा आवागादिप्रदक्षिणम् || ३६ || शुद्धञ्चरुघृतञ्चैव सर्वद्रव्याणि स्थापयेत् | अदितेऽन्वादिमन्त्रेण परिषेचनमथाचरेत् || ३७ || युक्तोवाहादि मन्त्रेण अग्निमुखं प्रकल्पयेत् | मूर्त्यादिदेवतानाञ्च स्वस्वमन्त्रैस्तु पूजनम् || ३८ || प्. ३५६) कर्मान्ते चित्ताहुतिं कुर्यात् अग्निभूतादिराष्ट्रभृत् | सर्वकर्माणि सामान्यं पश्चात्स्वकर्म चिन्तयेत् || ३९ || ऋतुसङ्गमादिषोडशमन्यत्कर्म समाचरेत् | पञ्चब्रह्मषडङ्गञ्च शिवसंस्कानि होमयेत् || ४० || इति योगजे अग्निकार्यविधिः पटलः | अथ वक्ष्ये विशेषेण कुण्डलक्षणमुत्तमम् | यागमण्टपमध्ये तु नवभागं प्रकल्पयेत् || १ || मध्यभागे कृतं वेदी मुत्सेधं हस्तमात्रकम् | उपवेदि प्रकर्तव्या द्विस्तारं चतुरङ्गुलम् || २ || प्. ३५७) उत्सेधं तावदेव स्यात् षडङ्गुलमथापि वा | पूर्वे तु चतुरश्रं स्यादाग्नेययां योनिकुण्डकम् || ३ || दक्षिणे चार्धकुण्डञ्च नै-ऋत्याञ्च त्रिकोणकम् | पश्चिमे वृत्तकुण्डन्तु वायव्ये तु षडश्रकम् || ४ || सौम्ये तु पद्मकुण्डञ्च अष्टाग्रमीशगोचरे | इन्द्रमीशानयोर्मध्ये वृत्तं प्राधानकं कुरु || ५ || सर्वेषामपि कुण्डानां हंसं चतुरश्रवत् | अष्ट हस्त्यादिमुष्ट्यन्तं कुण्मानं प्रकीर्तितम् || ६ || सर्वेषामपि कुण्डानां खनमुष्टिप्रमाणकम् | त्रिमेखलसमायुक्तं मेखलमेखलमेव वा || ७ || प्. ३५८) अधोमेखलं समारभ्या द्वित्रीणि चतुरङ्गुलम् | विस्तारसममुत्सेधं षडङ्गुलमेकमेखलम् || ८ || योनौ योनिं न कर्तव्यं पद्मनाभिं न कारयेत् | तालमात्रं घनीकृत्य मध्ये कल्पं प्रकल्पयेत् || ९ || रसाङ्गुलन्तु वा कल्प्य वेदाङ्गुलमथापि वा | एकाङ्गुलन्तु तुङ्गं वां द्व्यङ्गुलमथापि वा || १० || एवं पद्मक्रमं कृत्वा कुण्डं तस्य तु मध्यमे | मेखलोर्ध्वे तु योनिञ्च चतुरङ्गुलमानतः || ११ || अग्रमङ्गुलविस्तारं एकाङ्गुलं तदुन्नतिः | चतुरश्रं पञ्चधा कृत्वा एकांशं पुरतो न्यसेत् || १२ || प्. ३५९) कोणार्धं गृहीत्वा तु बहिश्चैव तु वर्जयेत् | तत्कोणाद्भ्रामयेदन्यं योन्याकारं द्विसूत्रयुक् || १३ || विस्तारं नवधा कृत्वा अंशं न्यस्त्वोर्ध्वधं क्रमात् | सूत्रकं पातयित्वा तु भ्रामयेदर्धचन्द्रकम् || १४ || क्षेत्रवासं तु बुद्धीशं पार्श्वे न्यस्त्वा तु कारयेत् | त्रिसूत्रं प्रासारयेद्विद्वान् त्रिकोणं कुण्डमीरितम् || १५ || चतुरश्रन्तु नवैः कृत्वा अंशं बाह्ये न्यसेद्दिशि | भ्रामयेद्वृत्तकुण्डन्तु सर्वकर्मसुयोग्यकम् || १६ || पूर्वं वृत्तञ्च कृत्वा तु पद्माकारन्तु कारयेत् | कर्णिकाष्टदलोपेतं पद्मोत्सेधं करीयसी || १७ || प्. ३६०) चतुरश्रस्य विस्तारं षट्चतुर्भागमाचरेत् | एकभागन्तु निस्त्वा * * * सूत्रयुक्तं बुधः || १८ || वृत्तकुण्डमिति ख्यातं पङ्क्त्यंशं वाऽथ भ्रामयेत् | कुण्डलक्षणमाख्यातं चतुरश्रस्य नाहवेत् || १९ || कोणस्यार्धं गृहीत्वा तु कोणेनैव तु कारयेत् | एवं स्वश्रकुण्डं स्यात् सर्वकार्येषु पूजितम् || २० || मुष्टिरत्निश्च बाहुश्च अष्टहस्तावसानके | सप्ताश्रञ्च नवाश्रञ्च पद्माश्रं षोडशाश्रकम् || २१ || युक्त्या तु योजयेद्धीमान् सर्वकुण्डं प्रकल्पयेत् | कुण्डानामपि सर्वेषामभ्यन्तरमनमीरितम् || २२ || प्. ३६१) मेखलायां प्रमाणं यत्तत्प्रमाणमिति स्मृतम् | इति योगजे कुण्डलक्षणविधिः पटलः || शान्तिहोममहं वक्ष्ये शृणुष्वेकाग्रमानसः | सदाशिवादिदेवानां परिवाराणां तथैव च || १ || प्राकाराभ्यन्तरे देवा स्वनामाद्यैश्च होमयेत् | द्विगुणं पूजयेत्तत्र अर्चनोक्तं क्रमेण तु || २ || शान्तिहोममिति प्रोक्तं सर्वदेवांश्च होमयेत् | शान्तिहोममिदं प्रोक्तं मूर्तिहोममथ शृणु || ३ || प्. ३६२) प्रासादस्य चतुर्दिक्षु अन्तर्मण्टपके बुधः | चतुरश्रं स्थण्डिलं कृत्वा ईशाने वृत्तस्थण्डिलम् || ४ || अग्निकार्यक्रमेणैव अग्निमुखञ्च कल्पयेत् | ईशाने सदाशिवं मन्त्रं पूर्वे तु ईशमन्त्रकम् || ५ || दक्षिणे रुद्रमन्त्रन्तु पश्चिमे विष्णुमन्त्रकम् | उत्तरे ब्रह्ममन्त्रन्तु यथा शक्त्या तु होमयेत् || ६ || हविर्निवेदयेत्पश्चात् स्नपनं कारयेच्छिवम् | द्विगुणं पूजयेत्तत्र महाहविर्निवेदयेत् || ७ || मूर्तिहोममिति प्रोक्तं दिशाहोमं ततः शृणु | इन्द्राद्यैशानपर्यन्तं अष्टदिक् दिशि देवताः || ८ || प्. ३६३) तण्डिले सिकतं कृत्वा चतुरश्रं समन्ततः | शेषाण्यन्यानि सर्वाणि अग्निकार्योक्तमाचरेत् || ९ || दिग्देवान् पूजयेत्तत्र दिशाहोमन्तु पूजयेत् | दिशाहोममिति प्रोक्तं वास्तुहोममिति शृणु || १० || मण्डपस्य तु मध्ये तु स्थण्डिलं शालिनां कुरु | वास्तुकुंभं समारोप्य वास्तुदेवान् समर्चयेत् || ११ || चतुरश्रं समं कृत्वा हस्तमात्रप्रमाणतः | अष्टाष्टकपदं वाऽपि नवं नवपदमेव वा || १२ || पिष्टसूत्रेण संलिख्यमीशादि देवमर्चयेत् | ब्रह्मादि देवमभ्यर्च्य चस्की प्रभृतिरर्चयेत् || १३ || प्. ३६४) चत्वारिंशच्च पञ्चैते वास्तुदेवान् समर्चयेत् | वास्तुदेवान् समभ्यर्च्य बलिमन्त्रेण दापयेत् || १४ || वास्तुदेवं ततः कृत्वा देवानामाहुतिं क्रमात् | स्वनाद्येनैव मन्त्रेण समिधाञ्चैव होमयेत् || १५ || वास्तुहोमान्तकाले तु पर्यग्निकरणं कुरु | वास्तुपुण्याहमेवन्तु वास्तुकुंभेन तोयकम् || १६ || वास्तुहोममिति प्रोक्तं सर्वकालेषु पूर्वतः | इत्येवं होममाख्यातं स्वस्वैर्मन्त्रैस्तु हूयते || १७ || इति योगजे शान्तिहोमादि वास्तुहोमविधिः पटलः | प्. ३६५) अथ वक्ष्ये विशेषेण दीक्षाणां लक्षणं शृणु | दीयते तु शिवज्ञानं क्षीयते तु मलत्रयम् || १ || दीक्षाशब्दमिदं प्रोक्तं भुक्तिमुक्तिप्रदायकम् | सप्ताशैवमुद्दिष्टमतते तानि गतश्शृणु || २ || अनादिशैवं प्रथममादिशैवं द्वितीयकम् | मन्दाशैवास्तृतीयन्तु चतुर्थाञ्चो तु शैवकम् || ३ || पञ्चमान्तरशैवन्तु षष्ठं प्रवरशैवकम् | सप्तमञ्चान्त्यशैवन्तु शैवभेदाः प्रकीर्तिताः || ४ || शैवास्सप्तविधाः प्रोक्ताः तेषां भेदमथ शृणु | आदि शैवं विप्राणां शिवेन दीक्षित स्मृतः || ५ || प्. ३६६) प्रथमन्तु द्विजानाञ्च पञ्चवक्त्रेषु दीक्षिताः | कौशिकः काश्यपश्चैव भारद्वाजो मैत्रिरेव च || ६ || पराशरश्च पञ्चैते पञ्चवक्त्रेषु दीषिताः | तेषाञ्च ऋषीणां माता चैव शिवद्विजाः || ७ || पुनर्दीक्षां न कुर्यात्तु आदि शैव इति स्मृतः | आदि दीक्षितश्चतुर्वेदि शिवपूजां न कारयेत् || ८ || भ्रान्त्या परममैशानं दीक्षाविरहितो द्विजाः | आदिशैवेन कर्तव्यं विप्रादीनाञ्च दीक्षया || ९ || अदीक्षितश्चतुर्वेदि आत्मार्थं पूजयेत्सदा | * * * * * * * * पुनर्दीक्षां न विद्यते || १० || प्. ३६७) उपनयनी तु काले तु शिवपूजामथाचरेत् | स्नपनं पागशुद्ध्यर्थं कारयेत्तु शिवद्विजः || ११ || महाशैवस्तु विप्राणां शिवदीक्षा समन्विता | अदीक्षितश्चतुर्वेदी परार्थपूजा न कारयेत् || १२ || दीक्षितस्तु विप्राणां षण्मासात्पूजयेत्कुरु | षण्मासात्पतनं यान्ति देवदेव कलास्मृताः || १३ || त्रीणि वर्षाणि भृत्यर्थं स्थिति लिङ्गञ्च दीक्षया | पूजयेद्यदि विप्रस्तु सर्वदेवलको भवेत् || १४ || एतेषां लक्षणैर्युक्तमलकानाञ्च सर्वतः | स्थितिलिङ्गञ्च पूजानां न कुर्वन्ति कदाचन || १५ || प्. ३६८) क्षत्रियश्चैव वैश्याश्च अनु शैवा इति स्मृताः | रुद्रोह्यवान्तरश्चैव क्रमशश्चानुवर्णकम् || १६ || स्वर्णाङ्गुष्ठपारशुं वा कुलालो मध्यर्थ पट्टका | इत्यादि प्रवरशैवानां अन्त्यशैवामथ शृणु || १७ || अन्येषाञ्चैव जातीनां अन्त्यशैवा इति स्मृताः | आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् || १८ || अन्यथा कारयेद्यत्तु निष्फलं तदवाप्नुयात् | वेदवेदान्ततत्त्वज्ञा आदिशैवा इति स्मृताः || १९ || शैवभेदं समाख्यातं दीक्षाविधिमथ शृणु | रोहिणी श्रवणञ्चैव विष्ठा त्रीणि चोत्तरा || २० || प्. ३६९) पुष्ययुक् शतभिषक् चैव दीक्षानक्षत्रमुच्यते | स्थिरराशौ प्रकर्तव्ये उभये च शुभोदये || २१ || दीक्षाकर्म समारभ्य तत्र सोमोदयं विना | अष्टमस्थान् गृहान् सर्वान् परिहारे तु विशेषतः || २२ || रिक्ताष्टनवमी चैव अमावास्याञ्च वर्जयेत् | अङ्कुरार्पणयेत्पूर्व पूर्वोक्तविधिना कुरु || २३ || शिष्यानुपोषितान् स्नातान् कृतशौचजितेन्द्रियान् | पादप्रक्षालनं कृत्वा आचमनं विधिना चरेत् || २४ || शिवाग्रे मण्डलं तत्र पूर्वोक्तलक्षणैर्युतम् | मण्डपं मण्डयेद्धीमान् प्रतिष्ठामण्डपवत्कुरु || २५ || प्. ३७०) मण्डपस्य तु मध्ये तु एकद्वित्रि हस्तं कुरु | वेदिं कुर्याद्यथान्यायं शिवलिङ्गं मण्डलन्तु वा || २६ || आचार्यं मनोभङ्गं सर्वतो भद्रमेव वा | स्वस्तिकञ्चार्धचन्द्रञ्च मण्डलं तत्र च क्रियेत् || २७ || मध्यमे स्थण्डिलं कृत्वा अष्टद्रोणेण शालिना | तदर्धं वा तदर्धं वा अष्टवक्रं स कर्णकम् || २८ || तदर्धैस्तण्डुलैर्हुष्य तदर्धैश्च तिलैरपि | लाजपुष्पैश्च दर्भैश्च विचरेत्तु विशेषतः || २९ || सवस्त्रं हेमसंयुक्तं सरत्नं वा पिधानकम् | नवकुंभं वर्धनीञ्चैव गन्धतोयेन पूरितम् || ३० || प्. ३७१) पल्लवैः सूत्रमाच्छाद्य अर्घ्यपुष्पं विनिक्षिपेत् | शिवकुंभं विद्येशञ्च मनोन्मनी विन्यसेद्बुधः || ३१ || कुण्डं वा स्थण्डिलं वाऽपि एकपञ्चनवस्तथा | अग्न्यादानादिकं सर्वमग्निकार्योक्तमाचरेत् || ३२ || उत्तरस्थण्डिलं कुर्यात् कंबलेन तु वेष्टयेत् | शिष्यदेहन्तु संप्रोक्ष्य कौतुकं पूर्वमन्त्रतः || ३३ || बन्धयेदादिशैवेन अधिवासनमाचरेत् | नृत्तगेयसमायुक्तं विनोदं कारयेद्बुधः || ३४ || ओम् | नमश्शंभो त्रिणेत्राय पिङ्गलाय महात्मने | प्. ३७२) वामरूपाय विश्वाय स्वप्नाधिपतये नमः || ३५ || एवं मन्त्रं जपित्वा तु सदाशिवमनुस्मरेत् | प्रभाते विमले सूर्योदये तु कारयेत् || ३६ || पादप्रक्षालनं कृत्वा आचम्य विधिना बुधः | नेत्रबन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः || ३७ || दुकूले पट्टदेवाङ्गैः कार्पाविकमथापि वा | उत्तमं द्वादशं हस्तं दशहस्तन्तु मध्यमम् || ३८ || अधमं नवहस्तन्तु चतुस्तालप्रमाणतः | नववस्त्रे संवेष्ट्य जीर्णस्फुटित वर्जयेत् || ३९ || सद्योहस्तञ्च वस्त्रेण नेत्रबन्धन्तु कारयेत् | प्. ३७३) वस्त्रं येन समायुक्तं नेत्रमन्त्रन्तु बन्धयेत् || ४० || व्योमव्यापि जपेत्तत्र तत्पुरुषेण समायुतम् | नेत्रं बलं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् || ४१ || उत्तमं दशनिष्कन्तु अष्टनिष्कन्तु मध्यमम् | अधमं पञ्चनिष्कन्तु लक्षणं पद्मपुष्पवत् || ४२ || दरिद्राणाञ्च सर्वेषां यथा लाभन्तु कारयेत् | उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् || ४३ || ईशानेन तु मन्त्रेण पुष्पं हस्ते निधापयेत् | प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः || ४४ || ध्यात्वा परममीशानं शिवमन्त्रेण बुद्धिमान् | प्. ३७४) मण्डले विकिरेत्पुष्पं स्वस्तिमङ्गलवाचकैः || ४५ || यस्मिन् मन्त्रे वसेत्पुष्पान्नामगोत्रां तदात्मिकाम् | तन्मन्त्रं सव्यते तस्मात् कुरुते चाप्यनुग्रहम् || ४६ || ईशानस्य दले व्याधि माग्नेययां शोकजन्तु वा | नै-ऋत्यां श्रीकरं प्रोक्तं मनुष्यन्तु वायवे || ४७ || चतुर्दिक्षु च विप्रेन्द्र तच्छ्रीकृतमिति स्मृतम् | कर्णिके पतिते पुष्पे सुखञ्चैव भवेत्तदा || ४८ || ईशानस्य दले चैव नेत्रानामिहोच्यते | उदकेन समायुक्तं भस्मं शिरसि निक्षिपेत् || ४९ || गन्धादिभिरथाभ्यर्च्य भूयेन तु मन्त्रतः | प्. ३७५) शिवकुंभस्य तोयेन प्रोक्षिपेच्छिवमूर्धनि || ५० || ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदये न्यस्य कवचस्तनमध्यतः || ५१ || अस्त्रं हस्तप्रदेशे तु गुह्यं वामे प्रकल्पयेत् | सद्योजातं न्यसेत्पादौ विन्यसेच्छिष्यदेहिके || ५२ || हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् | शिखायान्तु शिखा न्यस्य कवचस्तनमध्यतः || ५३ || अस्त्रहस्तप्रदेशे तु नेत्रं नेत्रे तु विन्यसेत् | देवस्य दक्षिणे पार्श्वे पलाशपत्रसंयुतम् || ५४ || कूर्चेनैव समायुक्तं मानसं तत्प्रतिस्मृतम् | प्. ३७६) आसनस्थन्तु शिष्यञ्च पूर्वाभिमुखमेव च || ५५ || अग्निबीजेन संयुक्तं त्रिकोणं मण्डले स्थितम् | पादाङ्गुष्ठान् समारभ्य दहेद्यावच्छिरोन्तकम् || ५६ || अग्रतस्थापयेत्तत्र एकचित्तेन वै बुधः | चन्द्रमण्डलसङ्काशं मकारञ्चात्मसंभवम् || ५७ || विद्यातत्वमुकारन्तु शिवतत्वं शकारके | ओमित्येकेन कमलं योगपीठमधोमुखम् || ५८ || चिन्तयेदत्र तं तस्मिन् सुषुम्नाभि न मस्तकम् | तेन प्लावितमात्मानं अपूर्वं तं विचिन्तयेत् || ५९ || इमां योऽभ्यासते नित्यं समाधिर्मृत्युनाशनम् | प्. ३७७) न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः || ६० || षडध्वा विन्यसेत्पश्चात् शिष्यदेहे विशेषतः | मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाध्वकम् || ६१ || वर्णाध्वा च कलाध्वा च विंशत्येवं शिवं पदम् | सत्वरजस्तमश्चैव आत्मानञ्चान्तरात्मकम् || ६२ || परमात्मानमित्येते आत्मवस्तु ध्यानयेत् | अग्निसूलं शशाङ्कञ्च मण्डलत्रयकं न्यसेत् || ६३ || ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः | शक्तयश्चादि विन्यस्य बिन्दुनादशिवा न्यसेत् || ६४ || पञ्चब्रह्मशिवाङ्गैश्च प्रासादन्तु सदाशिवम् | प्. ३७८) शिष्यदेहे न्यसेत्तत्र प्रणवादिनमोन्तकम् || ६५ || तत्तन्मन्त्रमनुस्मृत्य योजयेच्छिष्यदेहके | मध्वाद्या विन्यसेन्मूर्ध्नि वदार्धमुखमेव वा || ६६ || तत्वाध्वा हृदये न्यस्य नाभौ तु भुवनाध्वकम् | स्वर्णाध्वा मे हृद्देशे तु पादयोस्तु तलाध्वकम् || ६७ || कलाध्वन्तु पुनर्योज्य पादाधारा शिरोन्तकम् | सद्यः कलाभिरष्टाभिः वामदेवस्त्रयोदश || ६८ || अघोरस्य कलाचाष्टौ चतुर्भिर्वक्त्रमेव च | ईशानस्य कलाःपञ्च अष्टत्रिंशत्कला न्यसेत् || ६९ || विद्येश्वराणामष्टौ च गणेशानान्तथाष्टकम् | प्. ३७९) दशलोकाधिदैवत्यमस्त्राणां दशमस्मृतः || ७० || एवं पदाध्वा विन्यस्य तत्वाध्वा तु पुनर्न्यसेत् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ७१ || श्रोत्रत्वक् चक्षुजिह्वा च घ्राणञ्चैव तु पञ्चमम् | वाक्पादपाणिपायूपस्थञ्चैव तु पञ्चमम् || ७२ || शब्दस्पर्शरूपरसो गन्धञ्चैव तु पञ्चमम् | मनोबुद्धिरहंकारं प्रकृतिः पुरुषं तथा || ७३ || नागमाया विद्या च कलानियतिरेव च | विग्रहेर सकलं शुद्धमाया तथैव च || ७४ || शुद्धविद्या शुद्धकला सदाशिव शिवं परम् | प्. ३८०) षट्त्रिंशत्तत्वमेवन्तु क्रमेणैव तु विन्यसेत् || ७५ || भुवनाध्वा ततो न्यस्य कलाध्वा दिशिकान्तकम् | भुवनाध्वा न्यसेत्पश्चान्मेढ्रमूलक्रमेण तु || ७६ || अधस्ताद्धृदयादीनि कल्पयेत्कल्पवित्तमः | कलानिश्वान्धकारन्धं नराकनेकविंशतिः || ७७ || रौरवं कुंभिपाकञ्च निलयं तेषु यन्त्रकम् | * * * * * * * * महारौरवमेव च || ७८ || क्षुरा च अतितालञ्च जलञ्च सीतलेन च | उष्णसन्तापनञ्चैव लोहतप्तं तथैव च || ७९ || कृकशल्मलिकूपञ्च निलयन्त्रेषु यन्त्रकम् | प्. ३८१) धनुरग्निरवं वज्रं त्रिशूलनियमेव च || ८० || पाषाणं तत्र पांसुर्वैतरणी तथैव च | तलञ्च वितलञ्चैव निलयञ्च तलातलम् || ८१ || सुतलं तरातलञ्चैव रसातलं ततोपरि | भूलोकञ्च भुवर्लोकं स्वर्गलोकं तथैव च || ८२ || महालोकञ्च विज्ञेयो जनलोकं तथैव च | तपोलोकं सत्यलोकञ्च गान्धर्वं यक्षलोककम् || ८३ || विद्याधराणां लोकञ्च सिद्धचारणलोहकान् | अस्वरसाञ्च लोकञ्च किन्नराणाञ्च लोककम् || ८४ || इन्द्रलोकं चाग्निलोकं यमलोकं नि-ऋतिलोककम् | प्. ३८२) वारुणं वायुलोकञ्च सोमलोकं तथैव च || ८५ || ईशानदेवलोकञ्च ब्रह्मलोकं तथैव च | ब्रह्मलोकोपरिष्ठात्तु विष्णुलोकमतः परम् || ८६ || अनन्तेशस्य लोकन्तु सूक्ष्मलोकमतः परम् | शिवोत्तमस्य लोकन्तु एकनेत्रस्य लोककम् || ८७ || एकरुद्रत्रिमूर्तिश्च श्रीखण्डश्च शिखण्डि च | महेश्वरस्य लोकञ्च सदाशिवस्य लोककम् || ८८ || लोकालोकं शिवालोकं क्रमशः परिकीर्तिताः | श्वलोकोपरिष्ठात्तु अन्यं लोकं न विद्यते || ८९ || नाभिमूलात्समारभ्य यावद्धृदयदेशकम् | प्. ३८३) वर्णाध्वा विन्यसेदेतान् शिरोपादान्तमेव च || ९० || अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटकम् | इकारं दक्षिणे नेत्रे ईकारं वामलोचने || ९१ || उकारं दक्षिणे नासो ऊकारं वामनासिके | रूकारं दक्षिणे श्रोत्रे ऋकारं वामश्रोत्रके || ९२ || ऌकारं दक्षिणे गण्डो ॡकारं वामगण्डके | ए ऐ तालुरन्ध्रेषु ओ औ दन्तद्वयेऽपि च || ९३ || अं अः कर्णयोर्न्यस्य कला षोडश एव च | कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके || ९४ || टवर्गं दक्षिणे पादे तवर्गं वामपादके | प्. ३८४) पफौ दक्षिणपार्श्वे च बाहो वै वामपर्श्वके || ९५ || महकारं हृदये न्यस्य यकारं त्वचि विन्यसेत् | रकारं रत्नमेवन्तु लकारं मांसमेव च || ९६ || चकारं मेधदेशस्यं ञकारञ्चास्थिदेशके | मज्जदेशे षकारन्तु शकारं शुक्लमेव तु || ९७ || हकारं प्राणमित्युक्तं इकारं मेढ्रमेव च | क्षकारं वृषणं प्रोक्तं अक्षराणि क्रमान्यसेत् || ९८ || नवतृंशकला तत्र कादिपादान्त विन्यसेत् | तारासृता रामणिनाथायन्ति च सृतारणिः ? || ९९ || निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च | प्. ३८५) शान्त्यातीतं परं व्योम क्रमाभिर्न्यस्य तत्ववित् || १०० || तमोमोहं क्षुधानिद्रावृत्या माया भया जराः | रजोरक्षारतिर्पाल्य श्यामा कृष्णविधिक्रिया || १०१ || धृतिः कार्यापरात्री च भ्रामणी रोहिणी तथा | सिद्धिभूतिर्धृतिः लक्ष्मीर्मेधाकान्ति स्वधा स्तितिम् || १०२ || नवतृंशत् कलाह्येते शिष्यदेहन्तु विन्यसेत् | हृदये शान्तिविन्यस्य मुखे वायुञ्च विन्यसेत् || १०३ || आकाशमूर्ध्नि देशे तु अप्सुकोटिप्रदेशके | पृथिवीपादविन्यस्य पञ्चभूतकला न्यसेत् || १०४ || सो मन्त्राध्वा सम्यमन्त्रेण वामदेवपदाध्वकम् | प्. ३८६) तत्वाध्वा वै अघोरेण भुवनाध्वापुरुषेण तु || १०५ || ईशानेन तु मन्त्रेण वर्णाध्वा होमयेत्ततः | एवमेव क्रमेणैव शिष्यदेहन्तु विन्यसेत् || १०६ || ईशानमूर्ध्नि विन्यस्य मुखे विष्णुस्तु देवता | प्रासादं वास्तुदेवानां ग्रामं पैशाचके कुरु || १०७ || विघ्नेशक्षेत्रपालाश्च दुर्गालञ्च सर्वतः | कुरु वास्तुयोगस्थानञ्च द्विधं देवालयं स्मृतम् || १०८ || वास्तुकञ्चोक्तस्थानन्तु योगकम्? | ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा || १०९ || सोमे अदितिपादे वा शि * * * * वस्थानम् | प्. ३८७) पश्चिममुखं योगं स्थानं अन्येषाञ्चैव पूर्वमुखम् || ११० || विष्णुमुखं सर्वगृहमष्टदिङ् मध्यमे स्थितम् | भूपरीक्षाविधानान्ते भूमानमिति कथ्यते || १११ || ओजे युग्मपादे वर्गे विवरं योगमेव तु | द्विगुणोत्तरसंवर्गो भवेदिष्टप्रमाणतः || ११२ || कर्णे तु जाचकोटी च समकर्णफलं कृतिः | कण्ठवर्गो भवेत्कोटी भुजावर्गसमासतः || ११३ || शतस्य दशमूलं स्यात् त्वदेव मूलकं भवेत् | सर्ववर्गस्तु भुजाकोट्यास्तदर्धद्विभुजा भवेत् || ११४ || त्रिवर्गं घनमाख्यातं द्वादशाश्रं षडाश्रकम् | प्. ३८८) परिधीवृत्त विष्कंभपादघ्नं फलकुलहतंघनम् || ११५ || धनुषो बाणसंसर्गाद्यावदार्गमुदीरितम् |? मण्टपेन तु सादृश्य षड्भागन्तु षडश्रवत् || ११६ || भुजापिण्डं तलीभूतं चतुर्धा स्थाप्य तत्र तु | बाहुं न्यस्त्वा सुवर्गेण फलवर्गसुवर्गजम् || ११७ || पातरेखातनेनैव क्रमेणैव समानयेत् | इच्छाया फलमाश्रित्य प्रमाणोक्तफलं नयेत् || ११८ || तद्वशात्सर्वमानीय प्रत्युत्पन्नेन वाऽथवा | श्रेपिसङ्के वलादीनि याग्ने याने दशानि च || ११९ || एवं संक्षेपतः प्रोक्तं आत्मानमिति कथ्यते | प्. ३८९) आत्मानमिति विज्ञाय मायादीन् लक्षयेत्क्रमात् || १२० || धनन्नो योनिनक्षत्रो स्वायुंश्चांशको तिथि | वरोऽष्टना च संशोध्य शुभे वास्तुं समारभेत् || १२१ || विस्तारेणाह्यसेदैर्यं तद्राशिवपुस्तथा | विस्तारायामसंयुक्तं राशिर्वाऽथ निरीक्षयेत् || १२२ || वस्तुभिस्तुणितो भानु हुनेदष्टं धनमिति स्मृतम् | सगुणवह्निभिः सूत्रैः भक्तशेषाव्यवस्थया || १२३ || रामघ्नेऽष्ट हृदे योनिरष्टाभिर्वर्धते पुनः | सप्तविंशति भक्तैर्वा वस्वयुस्तत्फलं स्मृतम् || १२४ || शेषं नक्षत्रमाख्यातं द्वयतं प्रसादमुच्यते | प्. ३९०) लिङ्गमानवशाद्गेहं त्रिविधं वक्ष्यते पुनः || १२५ || नागरलिङ्गे नागरं वेसरे वेसरं तथा | द्राविले द्राविलमित्युक्तं त्रिविधं प्रासादमीरितम् || १२६ || सात्विकं राजसञ्चैव तामसञ्च त्रिधा भवेत् | सात्विकं नागरं प्रोक्तं राजसं द्राविलं भवेत् || १२७ || तामसं वेसरं प्रोक्तं पुंस्त्रीनपुंसकं तथा | नागरं पुविमानेन लिङ्गस्य प्रासादकं कुरु || १२८ || शिवाधिकानां लिङ्गानां प्रासादमासनं कुरु | त्रैराशिकेन लिङ्गस्य शयनं प्रासादमुच्यते || १२९ || पादबन्धस्सितं प्रोक्तं प्रतिबन्धञ्चासनं भवेत् | प्. ३९१) पद्मबन्धात्तु शयनं ज्ञेयत्रापि भेदयुक् || १३० || ब्राह्मणः क्षत्रियो वैश्यः शूद्रः प्रासादमुच्यते | नागरं द्विजमित्युक्तं द्राविलं क्षत्रियस्य तु || १३१ || वेसरं वैश्यशूद्राणां जातिभेदमितीरितम् | नागरं द्राविलाख्यञ्च वेसरञ्चाधि देवताम् || १३२ || ईशपितामहश्चैव विष्णुस्तत्राधिदैवताः | एवं प्रासादमेवोक्तं सञ्चिन्दादीनि भेदयुक् || १३३ || सञ्चितासञ्चितञ्चैव उपसञ्चितमन्त्रया | सञ्चिकस्थापनं प्रोक्तं सञ्चितावृत्तसञ्चिकम् || १३४ || उपसञ्चितं क्रीडाभं पादबन्धमिति स्मृतम् | प्. ३९२) प्रतिबन्धत्रयं प्रोक्तं जाग्रत्स्वप्नन्तु योगकृत् || १३५ || पद्मबन्धं त्रिभेदं स्याच्छयने पार्श्वभावयेत् | स्वप्नावस्था ऋजुच्छाया त्रिविधं प्रासादलक्षणम् || १३६ || अधिष्ठा त्रिविधं भूमेः एकैकन्तु विशेषतः | पादबन्धं व प्रबन्धं कं प्रबन्धमिति स्मृतम् || १३७ || प्रतिबन्धनागबन्ध सिंहबन्धमिति त्रिधा | पद्मबन्धं पुष्पबन्धं पुष्कलं पद्मकेसरम् || १३८ || त्रिविधं पद्मबन्धं स्यात् तत्तत्कर्मवशाद्भवेत् | चतुर्दशमधिष्ठानं यथाक्रमेण वक्ष्यते || १३९ || पुंस्त्रीनपुंसकञ्चैव त्रित्रि भेदेन नामभाक् | प्. ३९३) लिङ्गमानवशाद्गेहमेवं प्रोक्तक्रमाद्गतम् || १४० || मानाङ्गुलेन कर्तव्यं स्याद्बाह्ये मानमुच्यते | त्रिहस्तं पञ्चहस्तं वा * * * नवहस्तकम् || १४१ || एकभूमिसमानादि त्रिभूम्यन्तं विधीयते | एकादशादि पञ्चाशद्धस्तसंख्यामिति स्मृतम् || १४२ || द्वादशादिविमानान्तं मानमेवं विधीयते | विस्तारं द्विगुणोत्सेध्ं क्षुद्राणान्तु विधीयते || १४३ || सपादं सार्द्धपादूनं द्विगुणं महतिरुच्यते | क्षुद्राणामपि सर्वेषां द्विगुणादधि हस्तकम् || १४४ || यावत्प्रासादमुत्सेधमष्टभागं विधीयते | प्. ३९४) एकभागमधिष्ठान द्विभागं पादमुच्यते || १४५ || प्रस्तारमेकभागं स्यात् दलमेकेन उच्यते | शिखरञ्च द्विभागं स्या स्तूपिमेकेन कल्पयेत् || १४६ || एकभूमिरिति ख्यातं भागञ्चैव ततः शृणु | अधिष्ठानस्य चोत्सेधं जगत्यादि विधीयते || १४७ || चतुर्विंशतिकोत्सेधं जगतीर्वसुभागकम् | कुमुदं सप्तभागं स्यात् कंपमेकेन कल्पयेत् || १४८ || कर्णं त्रिभागमेवं स्यात् एकभागन्तु कंपकम् | त्रिभागं पट्टिका प्रोक्ता एकभागेन कुंभकम् || १४९ || पादबन्धमधिष्ठान छेदनीयं यथोचितम् | प्. ३९५) प्रतिबन्ध अष्टादशं सप्तभागञ्च पूर्वकम् || १५० || षड्भागं कुमुदं प्रोक्तं एकभागन्तु युक् युतम् | एकभागं त्रियश्रं स्यात् प्रतिमुखद्विभागकम् || १५१ || वाजनेकभागं स्यात् प्रतिबन्धं तदुच्यते | प्रतिस्तंभप्रतिरूर्ध्वे द्वारं कुर्याद्विशेषतः || १५२ || एकोनविंशतिभागं पद्मञ्चैव षडङ्गकम् | कंपमेकांशमित्युक्तमूर्ध्वपद्मं षडङ्गकम् || १५३ || तदूर्ध्वे त्र्यंशकञ्चैव वृत्तध्वं कंपमेककम् | द्व्यंशपट्टमित्युक्तं एकांशं कंपमुच्यते || १५४ || पद्मबन्धमिति प्रोक्तं सर्वकार्येषु पूजितम् | प्. ३९६) यावत्प्रासादविस्तारं पञ्चविंशतिरेव वा || १५५ || चतुर्विंशतिके वाऽपि षड्विंशति क्रममेव वा | एकभागमिदं प्रोक्तं मूलपादस्य विस्तरम् || १५६ || विस्तारमष्टधा भज्य अग्रतारं सप्तांशकम् | अग्रपादद्वयं प्रोक्तं उपानस्योत्सेधमुच्यते || १५७ || निवृत्ततदर्धमित्युक्तमुपानमिति कीर्तितम् | यदुपानस्याधिष्ठानं तद्व्यंशं जगति निर्गमम् || १५८ || तावत्कुमुदनिष्क्रान्तं कण्ठपादसमं भवेत् | कंपमुत्सेधसमं महापट्टित्र्यंशकम् || १५९ || अग्रपादस्य विस्तारं तद्दण्डमिति कथ्यते | प्. ३९७) द्विदण्डेनैव वेदी स्यात् वेद्युत्सेधं नवांशकृत् || १६० || भागाङ्गुलमित्युक्तं द्विभागं पट्टिका भवेत् | * * * * * घंशकं ऊर्ध्वाधः कामयोगतः || १६१ || तावद्वा पादकुंभन्तु वृत्ताकारमिहोच्यते | तस्योत्सेधं रसांशे तु कुर्यादंशेन धृक् भवेत् || १६२ || वेदभ्यागन्तु कुंभं स्यादेकेन कण्ठमुच्यते | आस्यमेकेन कर्तव्यं पद्ममेकेन कारयेत् || १६३ || अर्धांशेन तु नीव्रं स्यादर्धार्धे हीनकद्वयम् | अर्धांशेनैव कर्तव्या आस्यविस्तारमुच्यते || १६४ || द्व्यंशकुंभविस्तारं धृक् कण्ठौ पादविस्मृतौ | प्. ३९८) मध्येन वृद्धिपादं स्यात् चतुर्गुणन्तु विस्मृतौ || १६५ || मध्येन वृद्धिपादं स्यात् चतुर्गुणन्तु विस्मृतम् | दण्डोत्सेधं गुणांशेन भागेनोत्सेधमुच्यते || १६६ || मण्डिका भागमेकन्तु फलकांशेन कारयेत् | वीरकाण्डस्य विस्तारं पादविस्तारमेव वा || १६७ || वेदिका भागमेवं वा उत्सेधं पादहीनकम् | पञ्चांशेनोत्तमा विद्या चतुरे मध्यमं भवेत् || १६८ || तृतीयं वा समं प्रोक्तं पोतिकायाममुच्यते | अंशेन पोतिकोत्सेध उत्तरा स्मृतम् || १६९ || महानासित्रिभागैकं शिखरार्धेन उच्छ्रयम् | प्. ३९९) उत्सेधन्तु त्रिधा कृत्वा एकभागन्तु * * * || १७० || * * * पञ्चभागे तु त्रिभागं फलकविस्तृतम् | पालिके पञ्चभागे तु युगाङ्गं पद्मविस्तृतम् || १७१ || पद्मतारत्रिभागैकं कुंभविस्तारमुच्यते | कुंभतारत्रिभागैकं कुंभस्याधोव लग्नकम् || १७२ || वलग्नस्य त्रिभागैककुंभस्योपरि कन्धरम् | कन्धरं त्रिगुणं पालि तत्त्रिभागैक कुश्मलम् || १७३ || द्वाविंशतिभागेन स्थूपिकोत्सेधमुच्यते | पद्मोच्चं तीर्थ्यंशन्तु स्निग्नग्धञ्चास्यार्धमंशकम् || १७४ || अर्धर्धाधरपद्मन्तु ऋष्यंशन्तु धनोच्चयम् | प्. ४००) अध्यर्ध ऊर्ध्वपद्मन्तु रसांशं ग्रीवमुच्छ्रयम् || १७५ || कंपन्ती पृच्छसार्धांशं लग्नकण्ठञ्च शाङ्करम् | कुमुच्छ्रयं पंचभागार्धमेवं स्थूपिरुदाहृतम् || १७६ || एवमेव प्रकारेण प्रासादं कारयेत्ततः | प्रासादार्धप्रमाणेन अर्धमण्टपमिष्यते || १७७ || ########### END OF FILE #######