#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00300 Uniform title: yogakuṇḍalyupaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: yogakuṇḍalī upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 6, 2014 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### योगकुण्डल्युपनिषत् सह नाववतु- इति शान्तिः प्रथमोऽध्यायः वायुजयोपायत्रयम् हेतुद्वयं हि चित्तस्य वासना च समीरणः | तयोर्विनिष्ट एकस्मिंस्तद्द्वावपि विनश्यतः || १ || तयोरादौ समीरस्य जयं कुर्यान्नरः सदा | मिताहारश्चासनं च शक्तिचालस्तृतीयकः || २ || विवरणम् योगकुण्डल्युपनिषद्योगसिद्धहृदासनम् | निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं योगकुण्डल्युपनिषत् हठलम्बिकायोगप्रकटनव्यग्रा निर्विशेषब्रह्ममात्रपर्यवसन्ना विजयते | अस्याः संक्षेपतो विवरणमारभ्यते | आदाववान्तरवाक्यरूपेण हठयोगमवतारयति- हेतुद्वयमित्यादिना | वासनाप्राणरोधाभ्यां चित्तचलनाचलने भवतः | एतदन्यतररोधेऽपि द्वयमपि निरुद्धं भवतीत्यर्थः || १ || तदुपायतया मिताहार इत्यादि || २ || प्. ३०८) मिताहारः एतेषां लक्षणं वक्ष्ये शृणु गौतम सादरम् | सुस्निग्धमधुराहारश्चतुर्थांशावशेषकः || ३ || भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते | तत्र सुस्निग्धेति || ३-४ || पद्मवज्रासने आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा || ४ || ऊर्ध्वोरुपरि चेद्धत्ते उभे पादतले यथा | पद्मासनं भेवेदेतत् सर्वपापप्रणाशनम् || ५ || वामाङ्घ्रिमूलं कन्दाधः अन्यं तदुपरि क्षिपेत् | समग्रीवशिरःकायो वज्रासनमितीरितम् || ६ || तत्र पद्मासनलक्षणं तु ऊर्वोरिति || ५-६ || शक्तिचालनं तत्साधनद्वयं च कुण्डल्येव भवेच्छक्तिस्तां तु संचालयेद् बुधः | स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते || ७ || तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् | प्राणरोधमथाभ्यासाद् ऋज्वी कुण्डलिनी भवेत् || ८ || प्. ३०९) किं तच्छक्तिचालनमित्यत्र कुण्डल्येव || ७ || तत्साधनं किमित्यत्र तत्साधने इति || ८-१४ || सरस्वतीचालनम् तयोरादौ सरस्वत्याश्चालनं कथयामि ते | अरुन्धत्यैव कथिता पुराविद्भिः सरस्वती || ९ || यस्याः संचालने नैव स्वयं चलति कुण्डली | इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् || १० || द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् | विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः || ११ || अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद् दृढम् | स्वशक्त्या चालयेद्वामे दक्षिणेन पुनः पुनः || १२ || मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत् सुधीः | ऊर्ध्वमाकर्षयेत् किंचित् सुषुम्नां कुण्डलीगताम् || १३ || तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् | जहाति तस्मात् प्राणोऽयं सुषुम्नां व्रजति स्वतः || १४ || तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचने कृते | सरस्वत्याश्चालनेन वक्षः स्यादूर्ध्वगो मरुत् || १५ || सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने | कण्ठसंकोचनं कृत्वा वक्षः स्यादूर्ध्वगो मरुत् || १६ || प्. ३१०) तस्मात् संचालयेन्नित्यं शब्दगर्भां सरस्वतीम् | यस्याः संचालनेनैव योगी रोगैः प्रमुच्यते || १७ || गुल्मं जलोदरप्लीहो ये चान्ये तुन्दमध्यगाः | सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् || १८ || मूलादिबन्धत्रयपूर्वकं सरस्वतीचालनतः वक्षः वक्षसः उर्ध्वगो मरुत् स्यात् || १५ || उक्तार्थमेतत् || १६ || यस्मादेवं तस्मात् || १७##- प्राणायामभेदाः प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः | प्राणश्च देहगो वायुरायामः कुम्भकः स्मृतः || १९ || स एव द्विविधः प्रोक्तः सहितः केवलस्तथा | यावत् केवलसिद्धिः स्यात् तावत् सहितमभ्यसेत् || २० || सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका | भेदैरेव समं कुम्भो यः स्यात् सहितकुम्भकः || २१ || सूर्यकुम्भकः पवित्रे निर्जने देशे शर्करादिविवर्जिते | धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते || २२ || पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे | बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् || २३ || प्. ३११) दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः | यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः || २४ || कपालशोधने वापि रेचयेत् पवनं शनैः | चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च || २५ || पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् | चतुष्कं चतुर्विधम् || २५-४२ || उज्जायीकुम्भकः मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः || २६ || यथा लगति कण्ठात्तु हृदयावधि सस्वनम् | पूर्ववत् कुम्भयेत् प्राणं रेचयेदिडया ततः || २७ || शीर्षोदितानलहरं गलश्लेष्महरं परम् | सर्वरोगहरं पुण्यं देहानलविवर्धनम् || २८ || नाडीजलोदरं धातुगतदोषविनाशनम् | गच्छतस्तिष्ठतः कार्यमुज्जाययाख्यं तु कुम्भकम् || २९ || शीतलीकुम्भकः जिह्वया वायुमाकृष्य पूर्ववत् कुम्भकादनु | शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः || ३० || गुल्मप्लीहादिकान् दोषान् क्षयं पित्तं ज्वरं तृषाम् | विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च || ३१ || प्. ३१२) भस्त्रकुम्भकः ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः | मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् || ३२ || यथा लगति कण्ठात्तु कपाले सस्वनं ततः | वेगेन पूरयेत् किंचिद्धृत्पद्मावधि मारुतम् || ३३ || पुनर्विरेचयेत् तद्वत् पूरयेच्च पुनः पुनः | यथैव लोहकाराणां भस्त्रावेगेन चाल्यते || ३४ || तथैव स्वशरीरस्थं चालयेत् पवनं शनैः | यथा श्रमो भवेद्देहे तथा सूर्येण रेचयेत् || ३५ || यथोदरं भवेत् पूर्णं पवनेन तथा लघु | धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् || ३६ || कुम्भकं पूर्ववत् कृत्वा रेचयेदिडयानिलम् | कण्ठोत्थितानलहरं शरीराग्निविवर्धनम् || ३७ || कुण्डलीबोधकं पुण्यं पापघ्नं शुभद सुखम् | ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् || ३८ || गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् | विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || ३९ || बन्धत्रयविधिः चतुर्णामपि भेदानां कुम्भके समुपस्थिते | बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः || ४० || प्. ३१३) प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः | जालंधरस्तृतीयस्तु तेषां लक्षणमुच्यते || ४१ || मूलबन्धः अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् | आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते || ४२ || अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले | ततोऽनलशिखा दीर्घा वर्धते वायुना हता || ४३ || ततो यातौ वह्न्यपानौ प्राणमुष्णस्वरूपकम् | तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा || ४४ || तेन कुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते | दण्डाहतभुजङ्गीव निश्वस्य ऋजुतां व्रजेत् || ४५ || बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं ब्रजेत् | तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा || ४६ || हता चलिता || ४३-६२ || उड्डियाणबन्धः कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः | बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः || ४७ || तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः | सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् || ४८ || प्. ३१४) गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् | पश्चिमं ताणमुदरे धारयेद्धृदये गले || ४९ || शनैः शनैर्यदा प्राणस्तुन्दसंधिं निगच्छति | तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः || ५० || जालंधरबन्धः पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः | कण्ठसंकोचरूपोऽसौ वायुमार्गनिरोधकः || ५१ || अधस्तात् कुञ्चनेनाशु कण्ठसंकोचने कृते | मध्ये पश्चिमताणेन स्यात् प्राणो ब्रह्मनाडिगः || ५२ || पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः | चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् || ५३ || अभ्यासकुम्भकसंख्यानियमः प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् | प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिस्तथा || ५४ || विंशत्यलं तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने | कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः || ५५ || योगाभ्यासविघ्नाः, तत्त्यागश्च दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् | बहुसंक्रमणं नित्यं रोधान्मूत्रपुरीषयोः || ५६ || प्. ३१५) विषमासनदोषाश्च प्रयासप्राणचिन्तनात् | शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी || ५७ || योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते | ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नमुच्यते || ५८ || द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता | आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् || ५९ || षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् | विषयं चाष्टमं चैव अनाख्यं नवमं स्मृतम् || ६० || अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः | इत्येतद्विघ्नदशकं विचारेण त्यजेद् बुधः || ६१ || योगाभ्यासेन कुण्डलिनीबोधः प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वास्थया धिया | सुषुम्ना लीयते चित्तं न च वायुः प्रधावति || ६२ || शुष्के मले तु योगी च स्याद् गतिश्चालिता ततः | अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् || ६३ || आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते | अपानश्चोर्ध्वगो भूत्वा वह्निना सह गच्छति || ६४ || प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् | मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः || ६५ || प्. ३१६) तेनाग्निना च संतप्ता पवनेनैव चालिता | प्रसार्य स्वशरीरं तु सुषुम्नावदनान्तरे || ६६ || एवं सत्त्वास्थया प्राणायामं कुर्वतः चित्तादिकं न चलति | न च कदापि वायुः प्रधावति | केवलकुम्भकतो नाडीगतमले शुष्के सत्यथ सुषुम्नायां प्राणगतिः चालिता स्तम्भिता यदि तदा ततोऽयं योगी स्यादित्यर्थः || ६३-६४ || याति यातः || ६५ || चालिता कुण्डलिनी || ६६-६७ || ग्रन्थित्रयभेदेन कुण्डलिन्याः सहस्रारगमनम् ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् | सुषुम्नावदने शीघ्रं विद्युल्लेखेव संस्फुरेत् || ६७ || विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता | ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् || ६८ || भ्रुवोर्मध्यं तु संभिद्य याति शीतांशुमण्डलम् | अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् || ६९ || तत्र शीतांशुसंजातं द्रव शोषयति स्वयम् | चलिते प्राणवेगेन रक्तं पित्तं रविर्ग्रहात् || ७० || यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् | (तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम्) || ७१ || तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते | ऊर्ध्वं प्रवहति क्षुब्धा तदैवं स्रवतेतराम् || ७२ || प्. ३१७) तस्यास्वादवशाच्चित्तं बहिष्ठं विषमेषु यत् | तदेव परमं भुक्त्वा स्वस्थस्यात्मरतो युवा || ७३ || तदुद्भवम् आज्ञाचक्रमूलोद्भवं रुद्रग्रन्थिम् || ६८ || दलैः षोडशभिर्युतम्- प्रधानदलान्यष्टौ, तथा उपदलानि, आहत्य षोडश || ६९ || यदा प्राणो हृदये शीतांशुजं द्रवं शोषयति तदा तत्रत्यरक्तादौ प्राणवेगेन चलिते सति रविः रक्तपित्तादिकं ग्रहात् ग्रसेत् शोषयेदित्यर्थः || ७० || ततः प्राणे यातेन्दुचक्रमिति || ७१ || स्रवतेतरां- अमृतधारेत्यर्थः || ७२ || अस्या अमृतधारायाः आस्वादवशात् यच्चित्तं विषमेषु विषयेषु उदासीनतया बहिष्ठं बहिर्भूतं भवति तद्वानात्मरतो मुनिः तदेव परमम् अमृताख्यं हविर्भुक्त्वा स्वस्थः स्यात् स्वस्थस्यात्मरत इत्यत्र विसर्गतकाराकाराणां लोपः || ७३ || प्राणादिविलयः, विलिनानां बहिःप्रसरश्च प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली | क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते || ७४ || इत्यधोर्ध्वरजःशुक्ले शिवे तदनु मारुतः | प्राणापानौ समौ याति सह जातौ तथैव च || ७५ || भूतेऽल्पे च मनोल्पे वा वाचके त्वतिवर्धते | धावयत्यखिला वाता अग्निमूषाहिरण्यवत् || ७६ || प्. ३१८) ततः किमित्यत आह- प्रकृतीति | भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || इति स्मृत्यनुरोधेन हित्वा स्वात्तप्रकृत्यष्टकरूपम् | सहस्रारस्थानम् | दृङ्मनःप्राणादिकं क्रोडीकृत्य || ७४ || यदा कुण्डलिनी सर्वं क्रोडीकृत्य सहस्रारे विलीयते इत्यथोर्ध्वरजःशुक्ले शिवे इत्यत्र कुण्डलिनीविलयादथोर्ध्वक्षणं सौरं प्राकृतं जीवतत्त्वं रजश्च चान्द्रम् ऐश्वरं शुक्लं च रजःशुक्ले सहस्रारालंकारे स्वातिरिक्ताशिवग्रासे शिवे परमात्मनि विलीयते तदनु तदुत्तरक्षणं मारुतोऽपि विलीयते | सहजप्राणादेः कथं विलय इत्यत्र यथा अहोरात्रे सहजे संध्ययोः समे भवतः तथैव सहजातौ सहजौ तुर्यस्वरूपावस्थानलक्षणनिर्विकल्पकावस्थायां प्राणापानौ समौ ऊर्ध्वाधोगतिविरलौ निर्व्यापारतां याति यातः | अयमेव प्राणादिविलय इत्यर्थः || ७५ || एवं विलीनप्राणमनोवागादिः कथमन्तर्बाह्ये प्रसरतीत्यत्र बाह्ये स्वातिरेकेण घटाद्यत्यल्पं भवतीति भूतमल्पं तस्मिन् भूते अल्पे च स्मृते प्राणः प्रसरति | स्वातिरेकेण अल्पं वा किंचिदस्तीति यन्मनुते तन्मनल्पं मनोल्पं तस्मिन् मनोल्पे संकल्पिते संकल्पविकल्पात्मकं मनः प्रसरति | स्वातिरेकेण वाचके तु स्मृते तदा वाग्वृत्तिः प्रसरति | एवं प्राणमनोवागादिरुत्पन्नः सन् वर्धते | एवं प्राणादिनिष्पत्तौ सत्यां मूषानिषिक्तद्रुतसुवर्णवदापादमस्तकमखिलाः प्राणादिवाता धावयति धावन्ति आपादमस्तकं व्याप्य वर्तन्ते इत्यर्थः || ७६ || समाधौ सर्वस्य चिन्मात्रत्वानुभवः आधिभौतिकदेहं तु आधिदैविकविग्रहे | देहोऽतिविमलं याति चातिवाहिकतामियात् || ७७ || प्. ३१९) जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् | तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् || ७८ || जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः | इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् || ७९ || मृषैवोदेति सकलं मृषैव प्रविलीयते | रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा || ८० || पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि | स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः || ८१ || पुनः समाहितावस्थायां एतत् सर्वं चिन्मात्रपर्यवसन्नं भवतीत्याह- आधिभौतिकेति | स्वाज्ञविकल्पितभौतिकदेहमधिकृत्य भवतीत्याधिभौतिकदेहः तं तु आधिभौतिकदेहम् आत्मानं प्रत्यञ्चं देवमधिकृत्य भवतीत्याधिदैविकविग्रहः तस्मिन् आधिदैविकविग्रहे प्रत्यगभिन्नपरमात्मनि तन्मात्रतया प्रविलापयेत् | ततः पूर्वाधिष्ठितदेहः मलवद्देहादिभावं विहाय विमलब्रह्मभावमेव याति स्वाज्ञविकल्पितप्रपञ्चाधारतया समन्ताद्वहतीत्यातिवाहिकतां ब्रह्मतामियादित्यर्थः || ७७ || यत् स्वातिरिक्तजडशरीरादिकमनुभूतं तत् सर्वं जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् | यत् सर्वेषां देहादीनां अधिष्ठेयानां आरोपापवादाधिष्ठानं मदात्मकम् अस्मत्प्रत्ययालम्बनभूतप्रत्यगभिन्नं ब्रह्म तस्यातिवाहिकत्वमेव मुख्यं वास्तवमित्यर्थः || ७८ || यदि ते पराक्सापेक्षप्रत्यगभिन्ने ब्रह्मणि सविशेषधीः जायते तदा जनित्वा भवतीति तज्जायाभावः सविशेषत्वस्फूर्तिः | तदपह्नवसिद्धिः तद्विनिर्मुक्तिः | एवं सविशेषापह्नवोक्तिरपि कालरूपस्य ब्रह्मणो ज्ञानविभ्रमः सर्वापह्नवसिद्धब्रह्ममात्रस्य निष्प्रतियोगिकत्वेन स्वातिरिक्तमस्ति नास्तीति विभ्रमापह्नवोक्तिरप्यपह्नवतामर्हतीति भावः | प्. ३२०) इत्येवं योऽवशिष्यते तं स्वावशेषधिया विदित्वा वेदनसमकालं या हि स्वस्वरूपावस्थितिः तन्मतिरेव मुक्तिः || ७९ || तदतिरेकेण स्वाज्ञदशायां यद्यदनुभूतं रज्जुभुजङ्गवत्, शुक्तिकायां यथा अनुभूतम् इदं रजतमिति विपरीतभ्रमतः स्त्रीपुंसोः रौप्यबुद्धिवच्च, मृषैवोदेति सकलं मृषैव प्रविलीयते | वस्तुतः स्वाज्ञादिदृष्टिमोहे सत्यसति ब्रह्ममात्रं निष्प्रतियोगिकमवशिष्यत इति फलितोऽर्थः || ८० || कथं पुनः ब्रह्ममात्रमवशिष्यत इत्युक्तम् ? व्यष्टिसमष्टिविभागसिद्धविश्वादि##- भेदं मन्यसे तदा व्यष्टिसमष्टिप्रपञ्चतदारोपापवादाधारविश्वादितुरीयान्तस्य विराडादितुर्यान्तेनैक्यं विचिन्तयेदित्याह- पिण्डेति | ऐक्यं विश्वविराडैक्योफलक्षणार्थम् | भेदसापेक्षतदैक्यगतसविशेषतापाये ब्रह्म निष्प्रतियोगिकस्वमात्रमवशिष्यते इत्यर्थः || ८१ || समाधियोगः शक्तिः कुण्डलिनी नाम विसतन्तुनिभा शुभा | मूलकन्दं फणाग्रेण कमलकन्दवत् || ८२ || मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता | पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः || ८३ || वायुमूर्ध्वगतं कुर्वन् कुम्भकाविष्टमानसः | वायवाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् || ८४ || ज्वलनाघातपवना घातोरुन्निद्रितोऽहिराट् | ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः || ८५ || प्. ३२१) रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् | सहस्रकमले शक्तिः शिवेन सह मोदते || ८६ || सैवावस्था परा ज्ञेया सैव निर्वृतिकारणा || ८७ || इति | इत्थंभूतज्ञानोपायतया समाधियोगमाचष्टे- शक्तिरिति || ८२-८४ || घातेनेत्यत्र घातोरिति छान्दसः || ८५ || षट्चक्रालंकारग्रन्थित्रयभेदनानन्तरम् इयं कुण्डलिनीशक्तिः शिवेन सह सहस्रारे मोदते || ८६ || स्वविकल्पितभेदप्रपञ्चं ग्रसित्वा निर्विशेषब्रह्मविद्यारूपमासाद्य स्वयमपि निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्नेति यावस्थोक्ता सैवावस्था परा विदेहमुक्तिरिति ज्ञेया | सैव निर्वृतिकारणा, तस्याः परमानन्दाविर्भावहेतुत्वात् | इतिशब्दो हठयोगसमाप्त्यर्थः, अध्यायपरिसमाप्त्यर्थश्च || ८७ || इति प्रथमोऽध्यायः द्वितीयोऽध्यायः खेचरीविद्या अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् | यथा विज्ञातवानस्य लोकेऽस्मिन्नजरामरः || १ || मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने | बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् || २ || प्. ३२२) जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले | ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः || ३ || तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् | दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः || ४ || अभ्यासं मेलनं चैव युगपन्नैव सिध्यति | अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् || ५ || अभ्यासं लभते ब्रह्मन् जन्मजन्मान्तरे क्वचित् | मेलनं जन्मनां तत्तु शतान्तेऽपि न लभ्यते || ६ || अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् | मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् || ७ || यदा तु मेलनं योगी लभते गुरुवक्त्रतः | तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसंततौ || ८ || ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा | तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः || ९ || शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नुयुः | तस्मात् सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने || १० || यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः | यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता || ११ || प्. ३२३) न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये | तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् || १२ || तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् | लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् || १३ || तस्मात् सर्वप्रयत्नेन गोपनीयं विजानता | यत्रास्ते च गुरुर्ब्रह्मन् दिव्ययोगप्रदायकः || १४ || तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् | तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः || १५ || अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् | खेचर्या खेचरीं युञ्जन् खेचरीबीजपूरया || १६ || खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् | ज्ञानसहितहठयोगसर्वस्वं प्रतिपाद्य सप्रपञ्चं लम्बिकायोगमाचष्टे- अथेति | यथा यथावत् || १-१२ || मह्यं मत्तः || १३-१५ || ह्रीमित्यादिखेचरीबीजपूरया अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि | मुद्रयं खलु खेचरी भवति सा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्फुरति सा तत्त्वं पदं वैष्णवि || इति श्रुतिसिद्धखेचरीमुद्रया खेचरीयोगं युञ्जन् यः कालं नयति || १६ || स योगी देहान्ते खेचराधिपतिः सूर्यो भूत्वा खेचरेषु खेचरणीयलोकेषु सदा वसेत् || प्. ३२४) खेचरीमन्त्रराजोद्धारः खेचरावसथं वह्निमम्बुमण्डलभूषितम् || १७ || आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति | सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् || १८ || तस्मात् त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् | तस्मादप्यष्टमं वर्णं विलोमेनापरं मुने || १९ || तथा तत्परमं विद्धि तदादिरपि पञ्चमा | इन्दोश्च बहुभिन्नं च कूटोऽयं परिकीर्तितः || २० || मेलनमन्त्रराजमुद्धरति- खेचरेति | खवाचकतया चरतीति खेचरः हकारः आवसथमिति धारणाशक्तिरीकारः रेति वह्निः अम्बुमण्डलमिति बिन्दुः | एतत् सर्वं मिलित्वा भूषितं ह्रीमिति || १७ || खेचरीबीजमाख्यातम् | तेनैव लम्बिकायोगः प्रसिध्यति | शिष्टबीजषट्कमप्यम्बुमण्डलभूषितमिति ज्ञेयम् | सोमांशः सकारः चन्द्रबीजं तत्प्रतिलोमेन तन्नवकं वर्णमुद्धरेत् भमिति || १८ || तस्मात् भकारादनुलोमेन त्र्यंशकं चन्द्रबीजमाख्यातं समिति | तस्मात् सकारात् विलोमेन अपरमष्टमं वर्णमुद्धरेत् ममिति || १९ || तथा मकारात् विलोमेन अपरं पञ्चमवर्णं पमिति विद्धि | पुनरिन्दोश्च बीजं समित्युद्धरेत् | बहुभिः ककारषकारबिन्दुभिः युक्तोऽयं कूटः क्षमिति | आहत्य बीजानि सप्त- ह्रीं, भं, सं, मं, पं, सं, क्षं, इति || २०-२१ || मन्त्रजपात् खेचरीसिद्धिः गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् | यत्तस्य देहजा माया निरुद्धकरणाश्रया || २१ || प्. ३२५) स्वप्नेऽपि न लभेत् तस्य नित्यं द्वादशजप्यतः | य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः || २२ || तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते | नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः || २३ || वलीपलितनाशश्च भविष्यति न संशयः | एवं लब्ध्वा महाविद्यामभ्यासं कारयेत् ततः || २४ || अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे | यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् || २५ || ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् | नान्यथा रहितो ब्रह्मन्न किंचित् सिद्धिभाग् भवेत् || २६ || यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् | ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः || २७ || नित्यं द्वादशवारं यो जपति स मायातीतो भवतीत्यर्थः || २२##- खेचर्यभ्यासक्रमः तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् | स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् || २८ || स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् | समादाय ततस्तेन लोममात्रं समुच्छिनेत् || २९ || प्. ३२६) हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् | पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् || ३० || एवं क्रमेण षाण्मासं नित्योद्युक्तः समाचरेत् | षाण्मासाद्रसनामूलं सिराबन्धं प्रणश्यति || ३१ || अथ वागीश्वरीधामशिरो वस्त्रेण वेष्टयेत् | शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् || ३२ || पुनः षाण्मासमात्रेण नित्यं संघर्षणान्मुने | भ्रूमध्यावधि चाप्येति तिर्यक्कर्णबिलावधि || ३३ || अधश्च चुबुकं मूलं प्रयाति क्रमचारिता | पुनः संवत्सराणां तु तृतीयादेव लीलया || ३४ || केशान्तमूर्ध्वं क्रमति तिर्यक्शाखावधिर्मुने | अधस्तात् कण्ठकूपान्तं पुनर्वर्षत्रयेण तु || ३५ || ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः | तिर्यक् चूलितलं याति अधः कण्ठबिलावधिः || ३६ || शनैः सनैर्मस्तकाच्च महावज्रकवाटभित् | पूर्वं बीजयुता विद्या ह्याख्याता याति दुर्लभाम् || ३७ || तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया | कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे || ३८ || शनैरेवं प्रकर्तव्यमभ्यासं युगपन्न हि | युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् || ३९ || प्. ३२७) तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुंगव | यदा च बाह्यमार्गेण जिह्वा ब्रह्मविलं ब्रजेत् || ४० || तदा ब्रह्मार्गलं ब्रह्मन् दुर्भेद्यं त्रिदशैरपि | अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् || ४१ || एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति | ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् || ४२ || मथनेन विना केचित् साधयन्ति विपश्चितः | खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना || ४३ || जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् | स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् || ४४ || नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना | प्राणान् निरुध्य हृदये सुखमासनमात्मनः || ४५ || शनैः सुमथनं कुर्याद् भ्रूमध्ये न्यस्तचक्षुषि | षाण्मासान्मथनावस्थाभावेनैव प्रजायते || ४६ || यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् | न सदा मथनं शस्तं मासे मासे समाचरेत् || ४७ || सदा रसनया योगी मार्गं न परिसंक्रमेत् | एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा || ४८ || प्. ३२८) शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः | ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली || ४९ || इति || अभ्यासक्रममाह- ताल्विति || २८-२९ || कार्यान्तरं हित्वेति | हरीतकी पथ्याशब्दार्थः || ३०-३१ || वागीश्वरीधामशिरः जिह्वाग्रम् || ३२-३४ || तिर्यक्च्छाखावधिः शिखामूलमित्यर्थः || ३५-३६ || दुर्लभां दुर्लभताम् || ३७ || षट्स्वरभिन्नया ह्रां ह्रीं इत्यादिनेत्यर्थः || ३८-४० || ब्रह्मार्गलम् अन्तर्जिह्वासुषिरम् || ४१-४७ || एवं गुरुमुखात् लम्बिकाविद्याम् अभ्यस्य द्वादशवर्षानुष्ठानात् लम्बिकायोगसिधिः भवति || ४८ || शरीरे सकलं विश्वं पश्यतीत्यनेन विराट्सूत्रबीजतुर्यरूपं क्रमेण प्रतिपद्यते | यत्र सहस्रारे राजदन्तोर्ध्वकुण्डली जिह्वा प्रसरति सोऽयं मार्गः ब्रह्माण्डनिभो भवति, सुपथत्वात् | इतिशब्दः लम्बिकायोगसमाप्त्यर्थः, द्वितीयाध्यायसमाप्त्यर्थश्च भवति || ४९ || इति द्वितीयोऽध्यायः तृतीयोऽध्यायः मेलनमन्त्रः ह्रीं भं सं मं पं सं क्षम् | मेलनमनुं कण्ठतः पठति- ह्रीमिति | प्. ३२९) अमावास्याप्रतिपत्पूर्णिमाभेदेन दृष्टिभेदः पद्मज उवाच- अमावास्या च प्रतिपत् पौर्णमासी च शंकर | अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः || १ || [शिव उवाच-] प्रतिपद्दिनतोऽकाले अमावास्या तथैव च | पौर्णमास्यां स्थिरीकुर्यात् स च पन्था हि नान्यथा || २ || दृष्टित्रयतल्लक्ष्ययाथार्थ्यबुभुत्सया शिवं प्रति ब्रह्मा पृच्छतीत्याह- पद्मज इति || १ || प्रश्नोत्तरं भगवानाह- प्रतिपदिति | बाह्यमध्यान्तर्लक्ष्यदर्शनकरणं मनःसहकृतदृष्टिः | अमादिभेदेन सेयं त्रिधा भिद्यते | तत्र गाढनिमीलनदृष्टिरमा, अर्धोन्मीलनदृष्टिः प्रतिपत्, सर्वोन्मीलनदृष्टिः पूर्णिमा भवति | लक्ष्यदर्शने पूर्णिमादृष्टिः प्रशस्यते | अभ्यासकाले यदि नेत्रश्रमो भवति तदा प्रतिपद्दिनतोऽकाले प्रतिपद्दृष्ट्यावलोकयेत् अमादृष्ट्या वा | यदा जितश्रमो भवति तदा पूर्णिमादृष्टिमेव स्थिरीकुर्यात्, कदाचित् पूर्णिमादृष्ट्या कदाचित् प्रतिपद्दृशा | अमादृष्ट्या कदाचिच्च निर्विघ्नेनावलोकयेत् || इति ब्रह्मप्रणवोक्तेः | प्राणापाना[णायामा]द्यपेक्षया अयमेव पन्था वरीयानित्यर्थः || २ || पूर्णिमादृष्टिविधिः कामेन विषयाकाङ्क्षी विषयात् काममोहितः | द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् || ३ || प्. ३३०) अपरं संत्यजेत् सर्वं यदिच्छेदात्मनो हितम् | शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् || ४ || मनसा मन आलोक्य तत् त्यजेत् परमं पदम् | मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् || ५ || मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् | न च बन्धनमध्यस्थं तद्वै कारणमानसम् || ६ || चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् | ज्ञात्वा सुषुम्नातद्भेदं कृत्वा वायुं च मध्यगम् || ७ || स्थित्वासौ वैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् | वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च || ८ || षट् चक्राणि परिज्ञात्वा प्रविशेत् सुखमण्डलम् | मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् || ९ || अनाहतं विशुद्धिं च आज्ञाचक्रं च षष्ठकम् | आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् || १० || मणिपूरं नाभिदेशे हृदयस्थमनाहतम् | विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् || ११ || विषयविषयिकलनात्यागपूर्वकं पूर्णिमादृष्ट्या ब्रह्माहमिति लक्षयेत् इत्याह- कामेनेति || ३ || किंच- शक्तिमध्ये | कुण्डलिनीशक्तिमध्ये पूर्णिमादृष्टिकलितं मनः कृत्वा पुनः शक्तेश्च मध्यगं मनोऽपि कृत्वा प्. ३३१) ब्रह्माकारपरिणतमनसा मनस्तत्कार्यापवादाधिकरणं ब्रह्मास्मीत्यालोक्य एवमालोकनवृत्तिमपि संत्यजेदिति यत् तदेव हि परमं पदं कैवल्यमित्यर्थः || ४ || किं तन्मनः इत्यत आह- मन इति | मनसः व्यष्टिप्रपञ्चोत्पत्त्यादिकारणत्वात् तदेव बिन्दुरीश्वरः, बिन्दुरीश्वरसंज्ञः इति श्रुतेः || ५ || यद्वा- मनसोत्पद्यते बिन्दुः बिन्द्वादिकल्पनाया मनोहेतुकत्वात् मनःकार्यत्वम्, सेशं मया कल्पितम् इति भगवत्पादाचार्योक्तेः | यथा क्षीरं घृतात्मकं तथा बिन्दुः मन-आत्मकमित्यर्थः | मनोबद्धमीश्वरतत्त्वमित्यत्राह##- बन्धनमध्यस्थं मनसो मृषात्वात् | नापि तद्वै तदेव स्वकारणमानसवत् भवति, मानसापाये बिन्दोः ईश्वरस्य निर्विशेषब्रह्ममात्रत्वात् || ६ || ईश्वरादतिरिक्तमेव बन्धनमित्याह- चन्द्रेति | ब्रह्मरन्ध्रमूलाधारासनचन्द्रार्कमध्यमा शक्तिः कुण्डलिनी यत्र तिष्ठति तत्र बन्धनं मनोऽस्तीति ज्ञात्वा | स्वातिरिक्तकुण्डलीकार्यं मनोबन्धनमिति ज्ञात्वा तदुन्मूलनाय यत् सुषुम्नायां ग्रन्थित्रयं विद्यते तद्भेदं कृत्वा प्राणादिकमपि तत्सुषुम्नामध्यगं कृत्वा || ७ || बैन्दवस्थाने भ्रूमध्यादौ बिन्द्वाख्येश्वरोऽस्मीति स्थित्वा वायुं स्थिरीकृत्य प्राणरन्ध्रे निरोधयेत् केवलकुम्भकमेव कुर्यात् इत्यर्थः | प्राणादीन् ज्ञात्वा योगानन्दं विशेदित्याह- वायुमिति || ८ || कानि षट् चक्राणीत्यत आह- मूलेति || ९-१२ || प्राणाभ्यासात् विराड्रूपापत्तिः षट् चक्राणि परिज्ञात्वा प्रविशेत् सुखमण्डले | प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् || १२ || एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् | वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् || १३ || प्. ३३२) एवं प्राणाभ्यासात् विराड्रूपो भवतीत्यर्थः | चित्तप्राणावेकीकृत्य षट्चक्रेषु बिन्दुध्यानपूर्वकं योगमभ्यसेदित्यर्थः || १२-१३ || अभ्यासयोगेन विना न स्वात्मप्रकाशः समाधिमेकेन समममृतं यान्ति योगिनः | यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना || १४ || विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि | घटमध्यगतो दीपो बाह्ये नैव प्रकाशते || १५ || भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते | स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् || १६ || एकेन निर्विकल्पयोगेन समं सर्वसाम्यं समाधिं ब्रह्म अमृतं योगिनो यान्ति | एवमभ्यासयोगं विना स्वात्मा न प्रकाशते इति सदृष्टान्तमाह- यथेति || १४-१५ || स्वकायो घटस्थानीय इत्युक्तः || १६ || गुरूपदेशात् ब्रह्मज्ञानम् गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् | कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च || १७ || अभ्यासवासनाशक्त्या तरन्ति भवसागरम् | गुरुवाक्यसमाभिन्ने स्वाज्ञानावरणे अथ ब्रह्मज्ञानम् | गुरुं प्राप्य तदुपदिष्टार्थं नौकां कृत्वा || १७ || प्. ३३३) वाग्वृत्त्यधिष्ठानं ब्रह्म परायामङ्कुरीभूय पश्यन्त्यां द्विदलीकृता || १८ || मध्यमायां मुकुलिता वैखर्यां विकसीकृता | पूर्वं यथोदिता या वाग् विलोमेनास्तगा भवेत् || १९ || तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः | सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् || २० || शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते | व्यवहारिकप्रपञ्चदृष्टीनां भवसागरतारणं कथमित्या##- व्यावहारिकप्रपञ्चनिर्वाहकवाग्वृत्तिसंभूतिस्थितिप्रलया##- भवसागरपारब्रह्मपदं यान्तीत्याह- परायामिति | वाग्वृत्तिः चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति || इति श्रुत्यनुरोधेन मूलाधारस्थपरायां अङ्कुरीभूय | अनाहतस्थपश्यन्त्याम् || १८ || विशुद्धिचक्रस्थमध्यमायाम्, आस्यस्थवैखर्याम् || १९-२० || विश्वादिप्रपञ्चाधिष्ठानं ब्रह्म विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः || २१ || विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः | ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् || २२ || प्. ३३४) स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि | अण्डं ज्ञानग्निना तप्तं लीयते कारणैः सह || २३ || परमात्मनि लीनं तत्परं ब्रह्मैव जायते | व्यष्टिसमष्टिप्रपञ्चसापेक्षविश्वविराडादिभेदे सति कथं विद्वान् भवसागरपारब्रह्मतया अवशिष्यते इत्याशङ्क्य यदि ते स्वातिरेकेण साधारव्यावहारिकप्रपञ्चोऽस्तीति भ्रान्तिस्तदा स्वज्ञानतः स्वाज्ञानप्रपञ्चो विलीयते, तद्विलयाधिकरणं स्वातिरिक्तासंभवब्रह्ममात्रज्ञानेन निरधिकरणं सत् निष्प्रतियोगिकस्वमात्रमवशिष्यते इत्याह- विश्वश्चेति || २१-२३ || स्वाज्ञदृष्टिविकल्पितस्वातिरिक्तं स्वज्ञदृष्ट्या विलीनं सत् परमार्थदृष्ट्या ब्रह्मैव भवतीत्यर्थः || निष्प्रतियोगिकं ब्रह्म ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् || २४ || अनाख्यमनभिव्यक्तं सत् किंचिदवशिष्यते | परमार्थदृष्ट्या कथं तद्ब्रह्म भवतीत्यत्राह- तत इति | यतः स्वाज्ञादिदृष्ट्या स्वातिरिक्तप्रपञ्चः तदपवादोऽपि भवति ततो वस्तुयाथार्थ्यदर्शनात् निर्गुणनिरवयवव्योमवत् स्तिमितगम्भीरं भूतभौतिकतेजस्तमःपरिच्छेदासंभवात् न तेजो न तमस्ततम् || २४ || तथा नामरूपासंभवाद् अनाख्यमनभिव्यक्तं स्वाज्ञादिदृष्टिमोहे सत्यसति सत् किंचिदवशिष्यते, ब्रह्ममात्रमसन्न हि इति श्रुतेः || ब्रह्मसिद्ध्युपायभूतं ध्यानम् ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् || २५ || अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् | प्रकाशयन्तमन्तःस्थं ध्यायेत् कूटस्थमव्ययम् || २६ || प्. ३३५) विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः | मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः || २७ || सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति | कोऽहं कथमयं दोषः संसाराख्य उपागतः || २८ || जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम | इति चिन्तापरो भूत्वा स्वभासा च विशेषतः || २९ || अज्ञानात्तु विदाभासो बहिस्तापेन तापितः | दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना || ३० || दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् | विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु || ३१ || मनोमयज्ञानमयान् सम्यग् दग्ध्वा क्रमेण तु | घटस्थदीपवच्छश्वदन्तरेव प्रकाशते || ३२ || एवं निष्प्रतियोगिकब्रह्ममात्रसिद्ध्युपायमाह- ध्यात्वेति || २५-२६ || स्वेन रूपेण विज्ञानात्मा परमात्मापि स्वातिरिक्तात्मात्मीयाभिमानतः संसरति, अनेककोटिजन्मसुकृतपरिपाकवशात् प्रत्यगभिमुखो भवति, ततः स्वाज्ञविकल्पितप्रपञ्चकलनाविरलविदेहमुक्तात्मरूपतया अवशिष्यते इत्याह- विज्ञानात्मेति || २७-३३ || जीवन्मुक्तिविदेहमुक्ती ध्यायन्नास्ते मुनिश्चैवमा सुप्तेरा मृतेस्तु यः | जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् || ३३ || प्. ३३६) जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते | विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव || ३४ || अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् | अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् || ३५ || इत्युपनिषत् || स्वदेहे रूढमूलदेहाभिमाने कालसात्कृते विरूपविलयं गते सत्यथ देहादावात्मात्मीयाभिमानसंभवप्रबोधसमकाल##- स्वमात्रमवशिष्यते इत्यर्थः || ३४ || शब्दादिप्रपञ्चे सति विदेहमुक्तस्य स्वात्ममात्रता कथमित्यत आह- अशब्दमिति | सर्वापह्नवसिद्धविदेहमुक्तस्वरूपं ब्रह्म निष्प्रतियोगिकस्वमात्रमित्यत्र न विवादः | यदि स्वाज्ञदृष्ट्या शब्दादिविकारः स्यात् तदा स्वज्ञदृष्ट्या शब्दादिविलयाधिकरणमशब्दादिविशेषविशिष्टं भवति, तदेव परमार्थदृष्ट्या निष्प्रतियोगिकस्वमात्रम् | अवशिष्यते इत्यर्थः || ३५ || इत्युपनिषच्छब्दः योगकुण्डल्युपनिषत्समाप्त्यर्थः || इति तृतीयोऽध्यायः श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | योगकुण्डल्युपनिषद्व्याख्यानं लिखितं स्फुटम् | कुण्डल्युपनिषद्व्याख्याग्रन्थस्तु द्विशतं स्मृतः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे षडशीतिसंख्यापूरकं योगकुण्डल्युपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######