#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00281 Uniform title: yogapīṭhakramodaya Secondary title: kramodaya Manuscript : NGMCP 4-31 /vi reel number A4319 Description: One of the earliest Kaula works recovered to date. It is influenced by th Kubjikaa tradition. Notes: Revision 0: December 16, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमो महाभैरवाय || कालानलाद् व्योमकलावसानं ग्रस्तं यया संङ्करकालस्रग्रं तस्थों? तदा तेजमयीमवस्थां तां नौमि नित्यं महतीं स्वरूपां | नमस्यामि चतुःपीठपीठ देव्यां कुलेश्वरं | सिद्धः पादासु योगिन्यो गुरुपंक्तिक्रमेन तु || शाकिन्यः सर्वयोगिन्यो क्षयं वद विप्रराट् | पूर्वाधार्याश्च ये केचित् प्रणिपत्यावतारयेत् || कुलं च कुलभद्रं च कुलाचारं कुलक्रमं | युज्यं युजाभिघातञ्च वदिष्यामि यथार्थतः || रूपातीतं च रूपं च पदं पिण्डमनुक्रमात् | सिद्धाम्नायक्रमाज्जातं दिव्यं दिव्यन्नियवितं? || यत् तदाढ्यं परगत्वं? निराभासं निरामयं | उपलब्धिस्वभावन्तु सुपचारेण शीत?यति || तस्येच्छा निर्गता शक्तिश्चिद्रूपा तु कुलालया | तद्धर्मधर्मिणी सा तु अग्राश्चागुणं? चित्परा || तत्वभासास्करन्ती च रिजुरेख च कुण्डली | गिरोरौद्रीमधो ज्येष्ठा मध्ये चैव तु अम्बिका | १ब्) अतो नादं विनिःक्रान्तं निरुद्धं विश्वरूपिणं | पंचबिन्दुकृताटोपं पंचचण्डैरधिष्ठितं || पीताश्वेतं तथा रक्तं कृष्णं वै धूम्रमेव च | पंचवर्णात्मकं देवं पृथिव्यादिषु संस्थितं || तेजोभूतस्य मध्यस्थं काच्छाशक्तिप्रबोधकं | तद्गतं? गतैजा माया ज्ञानाख्या बिन्दुमालिनी || क्रियाख्या मातृका जाता *? दिस्थांत?मनुक्रमात् | बिन्दुद्वयसामयोगादष्टधा संप्रकीर्तिता || कुण्डलाख्या पराशक्तिरवर्णा वर्णातां गतां | सृष्टिरूपा तु सा ज्ञेया सृजन्ती तत्वसंख्यया || स्कणेन जनिता सृष्टिवर्णकोटिरनेकधा | पंचासद्वर्णसंयोगात् सानि परिकीर्तिता || कुर्वन्ती कर्मसंघातामश्वरीन्तनुमाश्रिता |? अवर्गे तु शिरस्तस्य करवर्गा द्विहस्तयोः || * *? पादो समाख्यातो भैरव स महात्मनः | उभौ कुक्षौ पृष्ठवशौ? रात्रो? हृदि यथाक्रमं || त्वचं रक्तं तथा मान्सं स्नायुं चैव यवर्गजं | २अ) अस्थिमेदं च शुक्रञ्च प्राणं शषसहादिकं | क्ष?कारं क्रोधमुद्दिष्टं प्रज्वलन्तं महद्भुतं || अकुलात् कुलमुत्पन्नं सर्वज्ञं सांभवं क्रमं | कुलाष्टकविभागेन अष्टाष्टकमनेकधा || विद्या मन्त्राश्च मुद्राश्च मण्डलाश्च वधा परा | अत्रोत्पनानि सर्वाणि जग स्थावरजंगमं || अघोरः परमोघोरः घोररूपस्तदाननः | भीमो वै भीषणश्चैव वमन पिवनस्तथा || कुलसिद्धास्तु विदुषो सर्वतन्त्रावतारकाः | तैस्त्वंवतारिता ये तु तेषां संख्या न विद्यते || आनन्दश्चावलिश्चैव प्रभुर्योगिस्तथैव च | अतीतश्चैव पादश्च षट् प्रकाराः कुलस्थिताः || संज्ञाभेदेन मन्तव्याः स्वमार्गे चावलिक्रमं | स्थानभेदाश्रमं चैव गोत्रसन्तानमेव च || गुरुपंक्तिक्रमोघं च ज्ञातव्यं सस्फुतं कुले | योगपीठे क्रमोदयो नाम प्रथमः पटलः || देव्यादनन्तरं वक्ष्ये दिव्यादिव्यमनुक्रमात् | ज्ञातव्यं सिद्धिकामैस्तु मा * *? पश्चिमाद्भुतं || या सा शक्ति कुकाराख्या अघोरस्यानुवर्तिनी | तेषावतारितं दिव्यं माम्नायं चतुराश्रयं ||? * * * * * * * * * * * * * * * *? | * * * * * * * * * * * * * * * *? || * * * * * * * * * *? र्गेषु प्रतिष्ठितं | दक्षिणो जालसंज्ञन्तु उत्ति आणन्तु पश्चिमे || दशमे * * * * * * * * * * * * *? * * * * * * * * * * * * * * * *? || * * * * * * * * * * * * * * * *? | विमलं प्रथम? भेदं सर्वज्ञं च द्वितीयकं || तृतीयं योग नामं च सिद्धसंज्ञां चतुर्थकं |? पंचमं समयञ्चैव * * * * * * * *? || * * * * * * * *? विद्यापीठस्य कीर्तितं | भेदोद्भेदाधिकारं च तस्येच्छा?संप्रवतते || विमलं कामयाख्यातं सर्वज्ञं दक्षिणं तथा | * * * * * * * * * * * * *? महेन्द्रके || ३अ) कोंकणे समया चैव अधिकार पदेस्थिता | एवं भेदोपभेदानि गृहसंज्ञावलिस्तथा || युगानुरूप भावेन अधिकार क्रमागतं | शिलाशेखरमध्यस्था कुदांवानामविश्रुता? || गुहावासी? महासिद्धः सिद्धं यस्य कुलात्मकं | मन्थानं कौलिकं भेदं तत्र देव्यां विनिर्गता || सामगानाम चतुष्कं तु कौमारमहतां गता | ज्ञातव्या गुरुवक्त्रान्तु कौमारे तु महाम्बिका || सामगो लोकच्छेदं? च कौमारं च महांविका | कौमार शिखराशीनं देवदेवं जगद्गुरं || तत्र स्थित्वा तु देवेन पंचसिद्धावतारिता | श्रीकंठ शंकरोनन्त सादाख्या विमलो महान् || * * * * * * * * * * * *##? कुलपंचविभागेन आयानं पृथिवी तले || समजखिषु संज्ञेन परात् परतरागतं | षट्प्रकारगतं शुद्धं सिद्धं सिद्धावतारितं || अधिकारगतानान्तु स्थानसंज्ञा भवन्ति हि | गुहाश्च त्रीणि विज्ञेया अष्टौ ते मठिको तु सा || गृहां चत्वारि संज्ञा च सैवाधिकरणे महान् | कौमारे तु गुहा श्रेष्टा नितंचार द्वितीयका || कदम्बानामविख्याता गुहात्रेशाक्यविश्रुता | पंचवर्षसहस्राणि क्रीडानंदेकलालसं || तत्र सिद्धसमुत्पन्नो ओंकारो नामविश्रुतं | ऊर्द्धरेतादुराधर्षः सिद्धयोगेन्द्रपूजितः || आलासमठिकां सुष्क?म् तथा पालासपालके | वलोहके पुनश्चासौ कल्पश्रानंतु? संस्थितः || संखिकामठसंज्ञन्तु चंद्रद्वीप च विश्रुता | उत्तरे कामरूपस्य स्वतमियामाठाश्रमं || महेन्द्रे राजपर्णिस्तु मठिकां राज्यसंज्ञकां | त्रिकुटे चन्द्रपूर्वाञ्च मठिकाश्रममुत्तमं || गृहं चंद्रपुरं प्रोक्तं * *? गिर्या द्वितीयकं | कुलालाख्या तृतीयन्तु उडि? आणं चतुर्थकं || गृहे भेदक्रमाम्नायमाज्ञासिद्धं क्रमोदयं | ४अ) अभिषिक्तास्तु ये तत्र मुक्ता सर्वत्वसंख्यया | दीपदर्पणपुष्पेण तोयेन परिसिञ्चिताः || कवोह्लादेन तृप्तास्तु योजनानां गमैरपि | दर्शनात् स्यनाच्चैव संत्राषाह्लादनादपि || संक्रमेत महाज्ञानं भवबन्धविमोचकं | प्रभुणा भावरूपेण सृष्टं ज्ञानमनेकधा || प्रत्यक्षमत्रनिहितमाज्ञासिद्धं महोदयं | योगिनीसिद्धसंदोहं मन्त्रपीठविनिर्गतं || निर्णयसर्वसंक्षेपादाज्ञासमयगोचरे | योगपीठे क्रमोदयो नाम द्वितीयः पटलः || अथ आज्ञाविभूत्यर्थं मंत्राणां संग्रहं परं | योगपीठस्य मध्यस्थं देव्या प्रश्नं पुरोद्भवान्? || एतत् सर्वविदित्वा तु निर्मलाञ्च व्रवीहि मे | गुप्तमेतत् सदा कार्य कुशलैः कुलदेहिकैः || एकान्ते विजने रम्ये गृहमध्ये गुहातुरे | पुष्पप्रकरसंकीर्णे गन्धधूपानुमादिते || आचार्यप्रमुखं शिष्यः एकचित्ताव्यवस्थितः | ४ब्) उद्धरेत परापानि कालिकीं कुल * * *? | * *? सुतप संश्लिष्टां दीर्घबिन्दुरलंकृतां || योगपीठेमिदं प्रोक्तं हृदयं कौलिकापरं | अस्थिर *? समायुक्तं वामे वाहुं? प्रदीपितं || अर्द्धद्धासुतसंयुक्तं योगदं लक्षणान्वितं | रक्तप्राणं तथा मेड्रं? वामविन्दन्तु लक्षणं || मोक्षदं भोगदं चैव वाग्विधानायकेवलं | वामकुक्षिञ्च रक्तं च द्विजे च हृदयेन तु || खगशी हृदयं प्रोक्तं वाचासिद्धि प्रवर्तकं | प्राणं शुक्र तथा रक्तं अधरोर्द्धं स वा गतं || पञ्चाक्षर मयीं सिद्धां सुरासुर सुदुर्लभं | कर्णात्कर्णगतां देवी आम्नाये सिद्धसंततौ || चतुःपीठसमायुक्ता सिद्ध् वृन्द?समन्वितां | बालकौमारवृद्धस्थां ज्ञातव्यां वरदायिका || १ || वज्र सिद्धेश्वरी नाम विद्यामन्त्रसमुद्धरेत् | प्रेत्यद्भुतां? महारौद्रां विश्वसंहारकारिणी || ५अ) योगपीठसमादौ च वाग्विधानमतः परं | प्राणं विसर्गसंदुद्धं हरकर्णे स बिन्दुकं || खगसं च पुनः कुक्षिं पूर्वोक्ता केवला तु सा | दक्षपादादि संक्रोधं विसर्गेन समन्वितं || वज्रसिद्धेश्वरी नाम सप्ताक्षरसमन्विता | सर्वग्वं सिद्धिसंताने सिद्धामातासुरक्षिता || २ || अथ विश्वा प्रवक्षामि ज्वालामालिनि विश्रुतां | योगिनी हृदयोक्ष?मारक्षितव्या प्रयत्नतः || वाग्विधानं पुरोद्धृत्य शोणितं च चतुर्गुणः | प्राणं वै वामकर्णे तु हृदयेन समन्वितं || कुक्षियात गतं पूर्वं रक्षणीय कुलान्वये | योगिनी सिद्धसद्भावमत्यन्त परमं भवेत् || ३ || प्राणं शुक्रं खगेसं च एकीकृत्वा प्रयत्नतः | कुलाकुल पदं ह्येतत् हृदय योगिनी कुले || परापर विभागं च पीठस्थं पीठसंयुतं | योगदं भोगदं चैव खेचरी पदमुत्तमं || ४ || ओंकारपीठमध्यस्थां एकवक्त्रां चतुर्भुजां | ५ब्) सर्वावयवसंपूर्णां हारकेयूरशोभितां | जटामुकुटशोभाढ्यं? * * * * *? धारिणीं || रक्तवर्णानि तं वाद्या योवनोद् भिन्नलालसां | प्रसन्नवदनां सौम्यंमिद चित्रा? तु लोचनां || नानारत्नविचित्रांगीं कर्णकुण्डलभूषितां | काषद्वसितमानान्तु भग्नपुष्टि महद्भुतां || संखहस्तां महासौम्यां खड्गपाशकपालधृक् | दिव्य क्रमस्य मध्यस्थां योगिनी महती स्थितां || एवं विधान्तु तां देवी महावृन्दसमन्वितां | कुपूर्णा च कुकामा च कुजाला च तृतीयका || शंखरामरहस्ताश्च त्रिनेत्रीं यौवनोद्धतां | एवंत्यं परमां देव्यां शृंगाटपुरमध्यगां || पूजयेत् परया भक्त्या पुष्पगन्धानुलेपनैः | खण्डखाद्यादितः पाशैर्लडुकाशोक वर्तिभिः || मत्स्यमान्सा स वै देव्यैः पूजयेत् परमेश्वरी | जालपीठे पदस्थान्तु नीलमेघांजन प्रभां || षड्भुजा ह्येकवक्त्रां तु शुक्लकेशं दिगम्बरा | ६अ) हारकेयूरशोभाढ्यां वलकुण्डलमण्डितां | नृत्यमानां महाभीमां मदिरानन्दविह्वलां || कांची कलापशोभाढ्यां नूपुरैर्घुर्घुरान्वितां | संवर्तमिव गर्जन्ती ज्वाला चर्चितविग्रहां || असिसूलधरा भीमा पाशकट्टारिकोद्यतां | महामटकहस्तौ द्वौ कण्ठ पादोद् वृतौ महान || चर्चमानां तथा चावा? पिवन्ती शोणितोङ्सरं | एवं विधा महादेवी चक्रग्रीवामधामुखीं || स्वष्टदेवाद्धृतां? सातां क्रीडमाना वलोत्कटां | चर्चा? चैव तु चामुण्डा स्रक्ष्याघोरीनामुखी तथा || रैवती? रेच? पूर्णा च लक्ष्मी काली प्रकीर्तिताः | मुक्तकेसा स्वदिग्वासा पी * * * * * * *? || महासवशिरोग्रस्ता कटारिकोद्यतविग्रहा | * * * * * * * * * * * *##? क्षुरिकशूलपृष्ठे तु पंक्तिभूतां यजेतु तं | सुगन्धि कुसुमैर्दिव्यैः प्रापणैर्विविधैस्तथा || लेह्य चोष्यादिभिर्भक्षैः * *? नानाविधैः शुभैः | पूजयेत् परमां देव्यां गुरुपंक्ति क्रमेण तु || ६ब्) अचिरादुपलम्बेत? पराव्याप्तिरखण्डिता | अनन्तरं पूर्णपीठे वज्रसिद्धेश्वरी मता || रूपक्रमे स्थिता देव्या एकवक्त्रा चतुभुजां | सूर्यकोटिप्रतीकाशा प्रलयानलसंयुता || योगिन्यष्टसमोपेता अष्टपत्रोपरिस्थिता | सूलासिव्यग्रहस्ता तु मटके तु कपालधृक् || नितम्बाम्बाढ्या महानम्रा यौवनोन्मत्तलालसा | हारकेयूरशोभाढ्या मुकुटोज्वलविग्रहा || रत्नकोटिकृताटोपा नेत्रत्रितयशोभिता | क्षयानलप्रतीकाशा ज्योतिरूपा महाद्युति || अखण्डमण्डलाकारा नित्यानन्दैक निर्भरा | मंगला चर्चिका नाम योगश्वर्या तृतीयका || हरसिद्धिसुभट्टार किलकिलार तथापरा | कलारात्री भीषणा च देव्या या वरणे स्थिता || वटुकं गुरुपंक्तिञ्च विघ्नेशं पूजयेत् क्रमात् | नैवेद्यदीपपुष्पैस्तु अलिफल्गु सुगन्धिभिः || पूजयेत् परया भक्त्या पूर्णपीठे स्थिता महान् | ७अ) सिद्धयोगेश्वरी नाम कामरूपे स्थिता महान् | रूपातीताति योगेन स्वरूपेण प्रकाशिता || द्विभुजाचैक वक्त्रे च नेत्र त्रितय शोभिता | सोमार्का कर्णपुरे तु महामुकुटशोभिता || विश्वक्षारविलिप्ताङ्गी दिग्वासा यौवनोद्वहा | हारनूपुरकेयूरै महामेखलमण्डिता || वैदुर्यपादुकारुढा दिव्यसिंहासने स्थिता | आज्ञानन्द * * * *? माविसन्ती जगत्त्रयं || रक्ताकराला चण्डाक्षी महोच्छुक्ष्मा प्रकीर्तिता | दिव्यरूप धराः सर्वास्चतुष्टेवं कुलाकुलं || व्यापि भूतं जयेत् सर्वं सर्वसंवृतवृत्तिना | तत्वग्राममये यन्त्र एकीकृत्वा विलाप एत || गुरुरागो गुरुर्देव्यं गुरुः कर्मम्विनाशयेत् | गुरुरूपेण मन्तव्या पराव्याप्ति सदोदिता || एवं ज्ञात्वा यजेद् देवी गन्धधूपश्रगादिभिः | पूर्वोक्तैर्भक्षमानैश्च प्रणिपत्यक्षमापयेत् || ध्यानं पश्चात् प्रयुंजीत यथाशास्त्र प्रचोदितं | ७ब्) सुद्धस्फटिकसंकासं वज्रद्वार गतो महान् | मण्डपञ्चाति दीप्तञ्च चतुस्तम्भं सुशोभितं || ध्वजापताकरचितं चन्द्रकोटिसमप्रभं | तन्मध्यसंस्थितां देवीं चतुर्भिः परिवारितां || नास्तितावगतात्मा च इदमस्ति विचिन्तयेत् | अब्दार्थे नाब्दमेकेन सिद्धः स्वच्छन्दतां व्रजेत् || योगिनी सिद्धसद्भावं ज्ञात्वा शिष्यै प्रकाशयेत् | योगपीठे क्रमोदयो नाम तृतीयः पटलः || शक्त्यानन्दसमाविष्टा देव्याप्रष्टः सुरेश्वरः | षोढन्यासविधानन्तु प्रवक्ष्ये शृणु भैरवि || पूर्वोक्त स्थान स्तम्भे तु पुष्पप्रकरशोभितं | अलिफल्गु समायुक्तं गन्धधूपसमन्वितं || अलिंनामण्डलं कृत्वा हस्रमात्रप्रमानतः | वामोर्द्धे दक्षिणं हस्तं वामावर्तेन भ्रामयेत् || व्यापकं शब्दमुच्चार्य सद्ये? पुष्पं प्रदापयेत् | मेखला त्रिगुणं कृत्वा मण्डलोपरिमण्डलं || ८अ) आज्ञारूप उच्चार्य अग्रै पुष्पं प्रदापयेत् | समयाम्यस्त देहस्तु षोडान्यासेन यन्त्रितः || अनन्तमण्डलं मध्ये ऊर्द्धमहन्तमण्डलं | यदा व्याप्ति मण्डले दक्षे अग्रे चाखण्डमण्डले || शून्यमण्डलकं वामे पंचैते परिकीर्तिताः | ततोर्द्धे षोडशान्याहु मेखलोपरिपूजयेत् || घटमण्डलके नाम तथा चाक्षयमण्डलं | प्रभामण्डलकं चान्यंत् सूर्यमण्डलमेव च || मण्डलानां चतुष्कदं दक्षादौपंक्तिरूपकं | स्वेतपुष्पैः समभ्यर्च्य एकैकं तु अक्रमात् || सोममण्डलमुच्चार्य अग्निमण्डलमेव च | पंचरत्नति नामेन महावोमेति मण्डलं || चतुष्कदं पुनस्त्वग्रे पीतपुष्पैः प्रपूजयेत् | तृधाकौलिक नामेन पंचतत्वेति मण्डलं || तृशून्यमण्डलं चैव आत्ममण्डलमेव च | पूजयेद् वाममार्गैरक्तपुष्पैः सुशोभनैः || विद्यामण्डलमुच्चार्य तथा विजयमण्डलं | ८ब्) भुवनालोक्यनामेन सिद्धः योगेशिमण्डलं | ऊर्द्धे वै पङ्क्तिभूतास्तु कृष्णपुष्पैस्तु पूजयेत् || अष्टवर्गा न्यसेत् तत्र पूर्वादीशानकावधिं | मध्ये वै गुरवस्तत्र नवात्मानेन लक्षयेत् || वटुकं चैव विघ्नेशं मण्डलद्वानि पूजयेत् | गन्धधूपादि दीपैश्च नैवेद्यादि यथाक्रमं || कृतांजलि पुटो भूत्वा सर्वकर्मं निवेदयेत् | प्रार्थयेच्च ततोनाथं किन्तु देवा * *? दद || त्वदीयपादभक्तोस्मि संसारे विरतात्मनः | दयाकुरु स्वमे नाथा त्वन्यादशरणागत || अधिकार पदस्थोहं तवाज्ञामनुवर्तकः | क्रमं चैव तु शिष्याणां कथिस्यामि तवाज्ञया || प्रवेशयेत् ततशिष्यं सुभक्तदं भवजितं | प्रणामं तत्र कर्तव्यं त्रिविधैनातुरात्मना || उद्धरेत् मन्त्रग्रामन्तु यथाशस्त्र उदाहृतं | यमयरलवशयसफलंक्षः || एते द्वादशवर्णास्तु उष्टार्द्धे? तु भूसिताः | बिन्दुनादयुताव कृत्वा इकारादौ नियोजिता || ९अ) न्यस्तव्या क्रमसो ज्ञात्वा विलोमेनोपदेशतः | गुदमेड्रसनाडिश्च वक्त्रप्राणौ च तथैव च || चक्षुकण्ठ न्यसेप्येवं भ्रूमध्ये तु ललाटयो | न्यस्तव्यास्तु क्रमेणैव संहारणोपदेशतः || सृष्टिमार्गै पुनर्न्यस्त्वा यथोदिष्टावदाम्यहं | षष्ठबिन्दु युता सर्वे या दिक्षा तु मनुक्रमात् || सृष्टिक्रमेण मन्तव्याः स विसर्गे न दायितां | तप्ताद्यालोहपिण्डस्तु हतस्फुलिंगसंकुला || स्थाने स्थाने प्रदीप्यन्ता मन्त्रोच्चारेण संयुताः | न्यस्तव्या क्रमयोगेन संहारं सृष्टिपूर्वकं || सकृन्न्यासे कृते देहे ब्रह्महत्यां व्यपोहति | मोक्षप्रत्ययसंवित्ति आत्मन्यस्य परस्य च || जीवो जाति यथा देहे ऊर्द्धेनोत्क्रमेनं भवेत् | सद्यो निर्वाणमिच्छन्ति विरक्तस्य च आत्मनि || रोगसोकभयत्रस्तो व्याधिदुःखैस्तु पीडितः | तस्य कुर्याद् विधि ह्येषा स न्यस्तं पूर्वमात्मनि || ९ब्) मन्त्रयागं क्रियाकर्मं सुकृतं दुःकृतं त्यजेत् | सर्वभावोपपन्नस्य मोक्षमार्गसमुच्छ्रकः || तस्य भूता विधे ह्येषा अन्यथा पापकृन्मनः | पूजयेत् तादिशं कंतु विलोमेनोपदेशतः || गुरुपूजा क्रमेणैव वीरभोज्यादनन्तरं | न्यस्था षोडशवाराणि आत्मनस्य परस्य वा || संहारसृष्टियोगेन स्वात्म देहे नियोजयेत् | संहारसाध्य देहे तु सृष्टिन्यास परित्यजेत् || मन्त्रोच्चारपदेनैव यथोदिष्टं वदाम्यहं | ओं हंसपरं ब्रह्मणे सदाशिवं व्रजविलय प्रमुच्च त्रिपिण्डपिण्ड त्यज पिण्डपिण्डे त्रिमूर्ति मूर्ति त्यज मूर्ति मूर्ते त्रिकोशकोश त्यज कोश कोश | तृपक्षपक्षत्यज पक्षपक्षम्वास्वतं व्रजनित्यं व्रज महासिद्धयोगेश्वरी सत्येन सर सर निसर निसर प्रणामप्राप्ते तद्यथा घम घम मस्रां? | एवमुच्चारयेद् यावत् कंपते देहपंजरं | १०अ) तृसप्तोच्चारणात् सम्यक् सुद्धिभिघ्याति तत्क्षणात् | जीवोजाति परस्तेषां व्यापकत्वं न संशयः || सुशिवो व्यापको भूत्वा सत्यमेतत् कुलान्वये | आत्मपुष्टिनिमित्यर्थं मृत्युंजयति धावतः || जयेत् सहस्रमेकन्तु ध्यानयुक्तसमाहितः | क्षीरोदार्ण्णव मध्यस्थं सितपद्ममुदाहृतं || तत्रारूढं स्वमात्मानं विशेदकुलसाग निग्रहो तादृशेन तु पद्मेन उपरिष्टेन घट्टितं | प्लावयेत तदात्मानं सिच्यमानन्तु विप्रुषैः | अनेन ध्यानमात्रेण सद्यः कालं व्यपोहति || प्रणवन्तु समुद्धृत्य काष्ट चैव स बिन्दुकं | षष्ठस्वरसमारूढं षांतं तन्तु विसर्गजं || जीवस्य रक्षणार्थन्तु एतत् सर्वं प्रकीर्तितं | अन्यथा कुरुते यस्तु समुत्योपरिभूयते || इति क्रमोदये चतुर्थः पटलः || अथोत्संगगतां देवी समयाख्या कुलेश्वरि | पदबीजसमायुक्तां यथामुक्तावदाम्यहं || मातावीरावलीनां तु पीठेशीं पीठवन्दितां | सर्वमन्त्रात्मिकां देवीं समयाख्यां कुलेश्वरि || नमो भगवत्यै समुच्चार्य षडक्षर पदं भवेत् | खगेशेन सदादार कुब्जिकायै समुद्धरेत् || पञ्चाक्षरं भवदेतत पदं चैव द्वितीयकं | पुनः प्राणं त्रिधा कृत्वा आसमवह्नि दापयेत् || द्विचतुर्थसमायुक्तं चतुर्दशशोपरिस्थितं | बिन्दुसंभिन्नमूर्द्धन्तु त्र्यक्षरन्तु तृतीयकं || पञ्चवर्गन्ति मावर्णाः पञ्चमेकादशे युतं | पञ्चाक्षर पदं ह्येतच्चतुर्थपरिकीर्तितं || अघोरामुखि पंचमेकं पदं पञ्चाक्षरं भवेत् | च्छां च्छीं च पदमुच्चार्य षष्ठं युग्माक्षरं भवेत् || किणि किणीति शब्देन चतुरक्षरसप्तमं | विच्चे त्यष्टमवां? प्रोक्षं पदभेद क्रमेण तु || कौलभाशोदिते यच्च? द्वातृशाक्षरमालिकां | मोषनीया? प्रयत्नेन दष्टानां भक्तिवर्जितां || ११अ) कार्य वापि अकार्ये च उक्तानुक्तेषु वस्तुसु | समयाख्यां जपेद् यस्तु तस्य पापं न विद्यते || यः प * * सुद्धभावात्मा समयाख्यां कुलेश्वरीं | जयन्तस्य न तद्वस्तु यन्न सिध्यति भूतले || एषा राजेश्वरी देवी योनिरूपा महाम्बिका | चतुःपीठेषु सामान्या अत्र सर्वप्रतिष्ठितं || राजेश्वरी परामात्य समयाचारनिर्गता | निराचारपदस्थेन सिद्ध्यन गुरुवक्त्रगा || कमलाख्या महादूती हृदिस्था संप्रवर्तते | कुलदीपाशिरस्तस्या षद्विधाध्वविशोधिका || वर्च्चराख्याशिखा देव्या तृतत्वोर्द्धे व्यवस्थिता | च्छादयन्ती समतान्तु वहुरूपासुवर्मना || वृद्धानाम भवेन् नेत्रं तेजोदेदीप्यवर्चसं | अस्त्रं वै कोङ्कणे सान्या षडश्रं पिङ्गलोचनं || षट्पत्रं स्वासनाशीनं देव्यावृन्दं महावल | उत्तरं षट्कनामेन देव्या संङ्गाः प्रकीर्तिताः || ११ब्) प्रथमपदसमायुक्तं हृदिकमलायै हृदिं न्यसेत् | कुलदीपायी शिरशे खगसादौ समायुतं || सप्तायुमं भवेदस्तं कोंकणेसारसंयुतं | तृतीयं पदमादौ तु चर्चराख्या शिखा भवेत् || चतुःपञ्चसमायुक्तं कवचं तु वहुरूपया | षट्पदन्तु भवेन् नेत्रं वृद्धा नामेन संयुतं || सप्तायुगं? भवेदस्तं कोंकणेशानसंयुतं | एवं निष्पन्न देहस्तु व्यक्तत्वं भजने तु सः || सिद्धक्रमक्रमायातं गुरुवक्त्रा तु संस्थितः | ज्ञातव्यं निश्चितं ह्येतत् पश्चिमाम्नाय सन्ततौ || एतत् कौलिक भासाया मुदितन्तु स प्रत्ययं | सस्फुटगुरुवक्त्रस्थं विकोणस्थं? न सिद्ध्यति || कौलिकोयं? समाख्यातः सिद्धमार्गः सुदुर्लभः | गोपनीयं प्रयत्नेन कर्णाकर्णान्तसंचरेत् || परापरं तु यद्वक्त्रं पदं षष्ठन्तु विन्यसेत् | पंचमन्तु पदं देव्या ऊर्द्धवक्त्रं प्रकीर्तितं || १२अ) चतुष्कं चतुभिर्योज्यं पूर्वादौ पश्चिमावधिं | एषाराज्येश्वरा देवी निसृतासिद्धसन्ततौ || सकलस्था तु सोच्चारा असेसार्थविशोधिका | यान्त्यते नैव देहेन खेचरत्वं तदाग्निता || अक्षराक्षरसंतानं योजयेल्लक्षसंख्यया | वीरेशगुण तुल्या मोहर्ता कर्ता क्रमत्युद्ध? || अथ सामान्य रूपेण तदाभूचरतां व्रजेत् | कुपितः पातये च्छैलां शोषयेज्जलधीश्वरान् || स्थाप्ये च्छैल वृक्षांश्च दारयेद्धरणी तलं | भूचरीणां पतित्वं च क्षड? कर्मोपजीविनां || कुरुते विविधाश्वर्यं पक्षकन्याश्च कर्षयेत् | एकवीराविधानेन तन्नास्तिर्यं न साधयेत् || यत्र तिष्ठत्यशौदेशे तत्र विघ्नः पलायते | देव्या हृदिसमुद्भूतं पंचरत्नं विराजते || योगिनीनां वलं सर्वं सारभूतं विनिर्गतं | ललाटवक्त्रकण्ठे तु गुह्यां घोरत्न पञ्चकं || १२ब्) रक्षणीयं प्रयत्नेन देव्या भण्डारमुत्तमं | शसपथ न समुद्धृत्य पार्थिवेनान्तरी कृतं || षष्ठबिन्दु युता सर्वे दीपितास्तु पृथक् पृथक् | चिन्तामनीति नामेन चिन्तितार्थ फलप्रदा || १ || वागेश्वरेण स दीप्ता अमुतेन तु रोधिता | विज्ञेया भुक्तिमुक्तिस्तु मोक्षलक्ष्मी न संशयः || २ || खगगेन तु ते रुद्धा आदिमध्यानुदीपिताः | समयाख्या भवेद् देवी गुह्यकौलिकमुत्तमं || चतुष्कलेन सुदीप्ता फडन्तेन तु रोदिता | अमरिका नाम विख्याता योगिन्या फट् मेलके || देव्या पदन्तु चतुर्थन्तु उर्द्धतं यदनु नामिकां | तेन युक्तास्तु कर्तव्या रत्नाश्चैव पृथक् पृथक् || साकिणी मेलके सर्वाः फण?नाकर्षयेन् महान् | यस्य यस्य तु या व्याप्ति दर्शयत्यखिलं महत् || रत्नप्रभा च मतुल देव्यातेज समुद्भवं | गोपनीयं प्रयत्नेन अन्यशास्त्ररतेसु च || नवात्मान मयं सर्व क्रमशुद्धि क्रमेण तु | १३अ) एकोच्चारगतं सर्वं लक्षितव्यं गुरो मुखात् | येन येन यथा प्राप्तं मण्डलेसं कुलेश्वरं || तेन तेन तथा पूज्यं नाम पादा तु संयुतं | प्राणं रक्षं तंथा क्रोधं मलम्नायुस्तथैव च || वायुवित्तयुतं षयं? कुलसं संप्रकीर्तितं | नवात्मकोषमुच्चार्य महाभैरव रूपिणे || वीरेश्वरायेति पुनः संज्ञा पादा तु संप्रतं | मण्डलान्तरमध्यस्थं कुलचक्रसमन्वितं || पुज्यं वै तत्र देवेश गुरुरूपमहेश्वरं | सारभूतमिदं तत्र स प्रकास्यं प्रकासितं || यथेष्टचेष्टपाने च वक्तव्यन्तु कदाचन | नाडेरधः स्थितं दिव्यं षडारं चक्रमुत्तमं || तन्मध्यसंस्थितामातां देव्याषट्कसमन्विता | षट्वक्त्रां महातेजां दशधाङ्कां महावलां || कपालमालाभरणं वेर्वरोर्द्ध शिरोरुहां | कपालखट्वाङ्गधरां दशवाहु महायुधां || इषत्कराल वदनांस्तथाक्षी विरलद्विजा | महाप्रेतसमारूढां मदिरानन्दविह्वलां || १३ब्) इन्द्रनीलप्रतीकाशां यौवनोन्मत्तलालसां | नितम्बाढ्यां सुरूपांश्च हारनूपुरशोभितां || पिवन्ती मदिरां दिव्यां कपालकरभूसितं | डमरुं वीरघंटां च शूलखट्वाङ्गधारिणीं || पाशाङ्कुशधरां देवीं अम्बस्तत्र वरप्रदां | देव्यारूपधराः सर्वाः षडते योगमातरः || षट्पत्र आसनासीना कर्णिकोपरिसंस्थितं | देव्योत्संगमतं देवता *? रूपं विभावयेत् || पूजये दिव्य पुष्पैस्तु सुगन्धैर्द्धुप अक्षतैः | नैवेद्यैर्गन्धधूपैश्च भक्षलेह्यसुरासवैः || पूजयेत् परया भक्त्या गुरुपंक्ति क्रमे स्थितां | योगिनी गुह्यसद्भावं स गोप्यं गुह्यमुत्तमं || शोषनीयं प्रयत्नेन यदीच्छेच्चिरजीवितं | अन्यथा यस्तु जन्येत स पशुन्नात्रसंशयः || कुलेस्याङ्ग संपन्नं चण्डासुं चण्डरूपिणं | संवर्तानलसंकाशं सूर्यकोटिसमप्रभं || १४अ) घोरघोरतरं रौद्रं चण्डरूपं भयानकं | देव्याङ्गङ्गसमुत्पन्नं महान्तं सिद्धसंततौ || पूर्वकल्पसमुद्दिष्टं सिद्धयोगीश्वरी मते | अधुनासर्वसंवृत्तं अत्र किञ्चिदुदाहृतं || ऐं ह्रां ह्रीं ह्रौं प्रस्फुर २ घोर घोरतरतनु रूप चट चट प्रचट प्रचट कह हव मव मघातय घातय हूं हूं हूं फट् फट् फट् ठ ठ | पञ्चासाक्षरमुदिष्टं विश्वसंहारकारिकं | महाविघ्नप्रसमनं सदा विजयवर्द्धनं || दीक्षानिर्वानकादीनि स कृत्स्नं स्मरणाद् भवेत् | सप्तोच्चार कृते सम्यक् वर्जन्या स फलं लभेत् || असुद्धं शोधयेत् सर्वं यस्येदं हृदिसंस्थितं | सर्वभावविनिर्मुक्तः सिद्धभावं स गच्छती || सप्तलक्ष कृते जाप्ये तन्नास्ति यन्न साधयेत् | कम्पन्ति भुवनात् सर्वा न त्रैलोक्यासुरडामरं || क्षुम्बन्ति सप्तपाताला अप्सरो दैत्य कन्यकाः | पुस्पं मुञ्चन्ति वै तस्य साधु साधु वदन्ति च || १४ब्) धन्यस्थन्तु महावीर सिद्धिं गृह्नश्च? चोत्तमां | एवं मुक्ता तु ते सर्व करे गृह्नन्ति साधकं || प्रविशन्ति पुरं दिव्यं स्वकं स्थानं मरीचयः | तत्र भक्त्वा महाभागा न लीयते परमं पदं || इति योगपीठे क्रमोदयो नाम पञ्चमः पटलः || मातृणां हृदयानन्दं श्लोक द्वादशकं भवेत् | गुरुवक्त्रोपदेशन ज्ञात्वा सिद्ध्यति नान्यथा || वागीश्वरं पुरोद्धृत्य वर्ण वै योनिजं तथा | प्राणं विसर्गसंरुद्धं द्विधा भूतन्तु कारयेत् || चतुष्कलं खगसं च क्रोधविसर्गसंयुतं | अनेन क्रमयोगेन भिन्ना तु कुल पद्धति || अजा चक्रेश्वरी रेखा द्वितीयाकादितशितगा | यादिसान्ता तृतीया तु निर्वीह क्रमयोजितां || गोपणीयं प्रयत्नेन मातॄणां वचनं यथा | एतस्मिन् पठिते सिद्धिः क्षुन्यन्ते मातरः सदा || आज्ञावेशः प्रजाये तु कविर्भवन्ति नान्यथा |? १५अ) आज्ञा वेधात्मिका सिद्धिः पठितेस्मिन् प्रवर्तते || क्लिद्यन्ति योनयः सर्वा क्षुन्यन्तीति न संशयः | द्वादशानि तु श्लोका?नि कर्णात्कर्णन्तु संचरेत् || अन्यथा विखते यस्तु स महापातकी भवेत् |? गुरुद्रोहं कृतं तेन अचिचीनरकं व्रजेत् || तस्मात् सर्वप्रयत्नेन लेखकेनैव लेखयेत् | षोढाश्लोकास्तथाप्यस्तुं कुलविद्या कुल क्रमात् || दिषट्कं क्रमेणैव ज्ञात्वासिद्ध्यति नान्यथा | तादिषट्कविभागं च वदिष्यामि तयाधुने || येन विज्ञात मात्रेण? निग्रहानुग्रहक्षमः | भरलक सहयोथैतं चक्रं परय चित्त युताग्र सर्वे तद्भाविताः षष्ठकृतासनेन | षडक्षरैः षट्क निवेशनर | एतच्चक्र महाचक्र निग्रहानुग्रहेश्वरं | योगिनीनां पदं सर्वं रक्षणार्थं कुलान्वये || आदिवर्णं द्विधा कृत्वा द्विषष्ठ न नियोजितौ | बिन्दु युक्तास्तुते सर्वे संज्ञाया पदान्त योजितांः || १५ब्) षट्पुत्र आसनासीना पूजिता सिद्धसंततौ | षोडान्यास कृते सम्यक् अन्यथा च विलोमकृत् || स्वादिस्थाने स्थितं दिव्यं चक्रं किंजल्क शोभितं | दाडिमी कुसुमप्रक्षं जवाहिङ्गुलुकोपमं || तादृग्रूपेण तादेव्य षडारे चक्रसंस्थिताः | पिवन्ती रुधिरौ घारि कपालकरभूसितांः || तन्मध्य स्थित?मात्मान भैरवाकाररूपिणं | एवन्ताः परमादेव्यः पूजिता ध्यायितासती || ददन्ति इप्सितान् कामान् कर्मसिद्धिं च स्वाश्वतीं | मूलविद्याविभागं च वदिस्यामि स प्रत्ययं || गुरुवक्त्रोपदेशेन योगिना वक्त्रसस्थितां | साकिनीनान्तु मानैया हिडिम्बामति निर्गतां || गोपितव्या प्रयत्नेन योगिनीनान्तु सम्मता | योगपीठन्तु वागीसं प्राणं पञ्चमबिन्दुकं || खगेशासननिर्मुक्तं मस्तकेन विवर्जितं | उद्धरेत् क्रमयोगेन पतिता दक्षिणा कटिः || १६अ) कूटषट्कं समुद्धृत्य डरलकसहयोथितं | चतुर्थं त्रिगुणं कृत्वा चतुष्कल फडन्वितं || सप्ताक्षरा समादेवी निवृता शाकिनी मतां | तस्मिं भूतेसु विस्तीर्णा अत्र किञ्चिदुदाहृतां || इन्द्रनील निभा देवी छादयन्तीमिवाश्चरां | विश्वव्याप्तमिदं सर्वम्वक्त्यात्म्ना? दारितं नभः || भुजैर्द्वादशकोपेता एकवक्त्रां त्रिलोचनां | वर्वरोर्द्ध सिरोपेतां मुण्डमालाविभूषितां || कपालमालाभरणां अस्थिमेखलशोभितां | महोदयं कृतौ कर्णौ महाप्रेत कृतासरां || पिबन्तीममृतं दिव्यं कपारकलभूषितां | वामाङ्गुल्या तु वक्त्रस्थां दंष्ट्रा कुरु च भास्वरां || सूलखट्वाङ्गधारिण्यां मुण्डकट्टारिकोद्यतां | घंटाडमरु शब्देन क्षोभितं भुवनोदरं || सूर्यम्बामकरे देव्याऽपरेशत फणः फणिः | लेलिहानो परे खड्ग साधके वरदायिनी || षड्योगिनी कुलान्तस्थां नरचर्मावगुण्ठितां | १६ब्) पशुप्राणहरीं देवीं *व? ग्रन्थि निकृन्तनीं | तारणी साधकानन्तु विज्ञानकरणी परां || एवं विधा महादेवी ध्यातव्या साधकैस्सदा | ददाति इप्सिता क्वामान योगिनी संघमेलकं || स्मसाने पर्वते वापि गृहमध्ये गुहान्तरे | यत्र कुत्र स्थिरो वापि कन्दरी घातवर्जिनि || महापल मयी कृत्वा गुटिकां पञ्चभि युतां | मुखे कृत्वा भुजपुष्पा? लक्षमेकं समादितः || क्षुम्बन्ति षट्क योगिन्यो विद्याशब्दविमोहिता | दर्शयेत् स्वात्मिकां व्याप्ति इत्याज्ञा पारमेश्वरीं || निग्रहन्तु विशेषेण वदिस्यामि यथार्थतः | डादिसंज्ञाविलोमेन विलोमेनोपदेशतः || ऐं ह्रीं श्रीं हां हीं हूं कुसुममालिनां ये इदं प्रधान धातुं शुक्रं शुक्र २ देवदत्तस्य आणिमारि सर्वसत्रूणां वसंकरी स्वाहा || १ || ऐं ह्रीं श्रीं यां यीं यूं यक्षिणी ये जंभय जंभय सर्वशत्रूणां देवदतानां अस्थिभंजय २ आणिमारिवसी कुरु २ स्वाहा || २ || १७अ) ऐं ह्रीं श्रीं सां सीं सूं संखिनीये संखग्रहेन स्नायुं * *? २ सर्वशत्रूणां देवदतानां आणिमारिवशी कुरु २ स्वाहा || ३ || ऐं ह्रीं श्रीं कां कीं कूं कारिणीये कायं मान्सं गृह्न २ मेदं शत्रूणां देवदत्तानां आणिमारि वसी कुरु २ स्वाहा || ४ || ऐं ह्रीं शीं लां लीं लूं लाकिनीये सर्वशत्रूणां देवदत्तानां आणिमारिवशी कुरु २ मान्सं भक्ष स्वाहा || ५ || ऐं ह्रीं श्रीं रां रीं रूं राकिणीये आणिमारिवीसी कुरु २ सर्वशत्रूणां देवदत्तानां रक्तधातुं गृह्न २ साधय २ स्वाहा || ६ || ऐं ह्रीं श्रीं डां डीं डुं डाकिणीये सर्वशत्रूणां देवदत्तानां अणिमारि वशी कुरु २ त्वच धातुं गृह्न २ स्वाहा || ७ || शतं शतं जपित्वा तु एकैकायाः समर्पयेत् | गृह्नं त्वेदं मयादत्तं अत्राज्ञा पारमेश्वरी || १७ब्) एषदुष्टादुरात्मा च द्वेष्टारो मम नित्यसः | गृह्नन्तु देवताः क्षिप्रं मयादत्तं महापशुं || आष्टयदि प्रसास्नि प्रमाणं यदि चान्वयं तेन सत्येन गृह्न तु मयादत्तं मरीचयः || ततो गृह्नन्तिता देव्यः शीघ्रसंहारयन्तितं | सप्तमेहनिसंप्राप्ते मयते नात्र संशयः || ब्रह्मणालिप्यमात्मानं सोढान्यासमुपन्तितं | ध्यानं पश्चात् प्रयुञ्जीत भैरवाकाररूपिणं || भैरवोहमिति स्मृत्वा ततः कर्मसमारभेत् | रक्तेन मण्डलं कृत्वा कृष्णेच्छाशाद् भवेन तु || महास्थि चूर्णसंगृह्य आलिखेच्चक्रमुत्तमं | षट्प्रकारं सुसंपूर्णं वक्त्रलांच्छनलांच्छितं || एवं कृत्वा विधिः सम्यक् ततो देव्यः समर्चयेत् | कृष्णवर्णा महारौद्राः दंष्ट्राकुचभासुरा || यौवनोन्मादसंयुक्ता मुक्तकेशादि शम्बराः | एवं ध्यात्वा ददेदर्घं सोणिते गन्धमक्षतैः || १८अ) स्वागतन्तु ततः कृत्वा आसनं तत्र दापयेत् | पश्चाद्विष्टरमादाय पञ्चासुभ? समन्वितं || पुष्पं धूपं तथा गन्धं नैवेद्यादि पवित्रकैः | महातैलेन दीयन्तु कृष्णवर्ति सुशोभितं || ध्यात्वा साध्यं ततस्त्वग्रै उत्तानं प्रेतरूपिणं | पतितं चक्र मध्ये तु मुक्तकेशदिगम्बरं || सप्तसप्तजपित्वा तु एकैकस्य निवेदयेत् | गृह्न गृह्नेति साच्चार्य हस्त चक्रा ग्रहालयेत् || संहरेत् तत्क्षणार्द्धेन इत्याज्ञा पारमेश्वरी | साकिनीनां मते पूर्व कीर्तितं विधिविस्तरं || पाशपीठे तु संवृत्य सारभूतं सुनिश्चितं | गोपनीयं प्रयत्नेन अन्यशास्तरतस्य च || आज्ञाश्रवणशिष्ये तु दातव्यं कृत निश्चये | इति योगपीठे क्रमोदयो नाम षष्ठः पटलः || पूजाव्याप्ति क्रमेणैव क्रमशुद्धि क्रमागतं | षट्प्रकारगतं शुद्धं प्रव्रवीमि यथोदितं || चतुष्कं पंचकं चैव षट्कं चतुष्कपंचकं | १८ब्) चतुष्कं तु पुनस्तत्र षट्प्रकारं प्रकीर्तितं | पिंडं पदं तथा रूपं रूपातीतं चतुष्टयं || पिण्डं कुण्डलिनी शक्तिः नाभिमेढ्रातुरे स्थिता | उड?हेमप्रतीकाशा तप्ताय स समप्रभा || त्रिपर्वा च त्रिमात्रस्था त्रिधाशक्तिस्तु शोज्वला | उडि-आणं तु तं पीठं पीठेसी सहसंयुतं || पूजनीयं प्रयत्नेन मन्त्रोच्चारसमन्वितं | पदस्था परमा शक्तिश्चारस्थाचाररूपिणी || चरते शिव पर्यन्तं शक्तिमार्गा वलम्बिणी | मायाजाल पदस्थं च द्विमात्रा सहसंस्थितं || अष्टपत्रं समान्तस्थं पीठं तज्जालकेश्वं | पीठेसी संस्थिता घोरा मोहयन्ती चराचरं || सूर्यायुतप्रतीकाशा ज्योतिरूपां महाद्युति | पीठं वै पीठ माता च हृत्प्रदेशे व्यवस्थिता || पूजनीया प्रयत्नेन सत्वे विघ्ननिवृत्तये | रूपस्थं पूर्ण्णपीठन्तु सूर्यकोटि समप्रभं || सत रुद्र समाकारमति दीप्तं सुभासुरं | विद्याच्चारसमायुक्तं योगिनी रूपसंस्थितं || १९अ) व्याप्तिभूतं जयेत् सर्वं पीठम्वै पारमेश्वरं | रूपातीतं महाव्याप्तिर्यां पंचार्थ प्रसूयिका || कृत्वोपलब्धि मात्रं तु शांभवीय पदान्तरे | किञ्चिद्धेत्ति नवावेत्ति निमेसोन्मेसस्पन्दनं || इच्छास्वरूपमं नन्दं कामरूपं प्रकीर्तितं | तत् स्वरूपा भवभवं दिच्छा पीठेशी तु महावला || भक्षयन्ती कलासर्वां कामरूपां कलेश्वरीं | एतच्चतुष्कमाख्यातं पंचकं कथयामि ते || नित्यानन्द करं सर्वं भवावन्धविमोचकं | विद्या तत्व समुत्पन्नं पञ्चकं तु विभक्ष्यते || शक्तिरात्मा तथाहंसो वायुष्णैजः? प्रकीर्तितः | एतत् तत् पंचकं प्रोक्तं विमलादि स लक्षणं || सुद्धव्योमायुजाजाता तारका उल्क सन्निभा | विमलाख्यं समुत्पन्नं संगिनी शक्तिरव्यया || तस्येच्छामनुवर्तिन्यो आत्मतत्व व्यवस्थिता | वुभुजे विषयात् सर्वान् स्पन्दने देहमध्यगा || सुखदुःसमंयन्ति भावाभाव विकल्पते | १९ब्) सर्वभूतान्तरस्था तु सर्वज्ञा तु पुलिन्दिका | हन्सहन्सा वदेन् नित्यं देहस्थावरजंगमे || वरते देहमध्ये तु जगत् स्थावरजंगमं | सर्वगासर्वमूर्तिस्था सर्वज्ञं गुणसंयुता || नदते नादरूपेण यागसंज्ञेति सावरी | प्राणोपानसमानस्था उदानव्यानसंयुता || दशनाडी कृता धारा सिद्धसंज्ञेति चम्पका | गोधामुखसमाकारा वडवाभमनीन्द्रियं || तडिद् विद्युत् समाभासं लम्बन्तं वह्नि सन्निभं | द्रावयेत् पाशया * *? पदपिण्डान्तरे स्थिता || समयाचार भेदेन जगद् योनि महाम्बिका | पञ्चकन्तु समाख्यातं दिव्यदिव्यैर्न्न शोधितं || यद् चक्रस्य विभागन्तु वदिस्यामि यथोदितं | आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकं || तृतीयं मतिपूरं तु नादरूपं चतुर्थकं | विशुद्धं पञ्चमं प्रोक्तं आज्ञारूपं तु पञ्चमं || षट्प्रकार क्रमं ज्ञात्वा कोनसिद्ध्यति लीलया | मुलाधारं चतुस्थानं द्रुतहेमसमप्रभं || २०अ) भ्रमन्तं चक्रवेगेन लक्षितव्यं गुरोर्मुखात् | स्वाधिष्ठानं महारत्नं षडारं चक्रमुत्तमं || दाडिमी कुसुमप्रक्षं द्योतयन्तं दिशोदश | दशवायु समोपेतं दशनाडिसमन्वितं || कुन्देन्दु तु हि नाडा संपूरयन्तं महद्भुतं | यथा मठीमनाः सूत्रै एकत्र ग्रथितं महान् || तथा ते सर्व तत्वानि दृश्यते मणिपूरके | द्वादशारं महातेजं द्वादशादित्यवर्चसं || परं ब्रह्मणि शब्दाख्यं हृदिस्थन्तु अनाहतं | पूर्णचन्द्रसमाकारं कलैः षोडशभिर्वृतं || एवन्तु ममृतं दिव्यं विसुद्धं शुद्धतेजसं | शिवस्य परिपूर्णस्य तस्येच्छासंप्रवर्तने || अदृष्टविग्रहात् शातात् तदाज्ञा पारमेश्वरी | षट्प्रकारसमुद्दिष्टं रहस्यं गुह्यमुत्तमं || गोपितव्यं महागुह्यं अकथ्य चान्यशासने | चतुष्कन्तु पुनर्वीक्ष्य मोक्षमार्गसुनिश्चितं || अनेन ज्ञातमात्रेण भवबन्धे प्रमुच्यते | या सा देव्या फलाकारा चक्षुरग्रे व्यवस्थिता || २०ब्) समन्ता सर्वतो भद्रा दृश्यते गगनान्तरे | ब्रह्मरन्ध्र गता व्योम्नि गृहच्छिद्रान्तरश्मिभिः || तद्रूपेण दानेन्यवं? प्रत्यक्षं संप्रवर्तते | सूर्यविम्बनिभाकारं कूटस्थाने व्यवस्थितं || तीव्रोग्रगक्षिवेदेन? वेधितो व्याप्ति दायकं | जले वुद्वुदसंकाशं वज्रद्वारे व्यवस्थितं || क्षीरधारा युतं दृष्ट्वा अचिराद् व्याप्ति दायकं | एतद् देव्या चतुष्कन्तु सामाशानावकीर्तितं || अज्ञात्वा वन्धमुद्दिष्टं ज्ञात्वा मुच्यति मोचति | शब्दस्पर्शरसोपेतं गन्धश्चैव तु पंचमं || पंचतन्मात्रमादेव्यः समजखसुसंज्ञका | पूर्वं चतुष्कं यत्प्रोक्तं पीठेसी पीठसंयुतं || सिद्धपादक्रमेणैव गुरुंपङ्क्त्यावशानगं | एवं विधिविधानेन दिव्योघक्रमसन्ततिः || सस्फुटं गुरु वक्त्रस्थं अन्यथा न कदाचन | गुरुवश्य प्रशादेन प्राप्यते परमं पदं || अन्यथा नैव जानाति सास्त्रकोटि शतैरपि | २१अ) तस्मात् सर्वप्रयत्नेन गोपयेत विचक्षणः | अन्यथा वदते यस्तु स पशु योगिनी कुले || आत्मशिष्येषु भक्तेषु दंतमायाविजिते | लोल्यचापल्य निर्मुक्ते सत्यवादि जितेन्द्रियै || दृढभक्ते तु दातव्यं आज्ञा पालन तत्परे | निश्चिते निस्पृहे गुप्ते निसर्गे कान्त वासिनैः || न दुष्टे च पले देयं न शठिदूषके तथा | कामिने क्रोधिने चैव कपटव्रतधारिणि || न देयं कौलिके सारं यदिच्छेच्चिरजीवितं | देव्यायाः सिद्धसद्भावं कथनान्मरणं भवेत् || भक्षन्ति योगिनी तस्य षडेतस्तु महावलाः | योगपीठे क्रमोदयो नाम सप्तमं पटलः समाप्तः || इति श्रुत्वा परानन्दं देव्याकृष्णमनोच्छका | पतिता दण्डवद्भूमौ शस्तपादान्न संस्थिताः || भगवन्न्यास संस्कारं वक्त्रमहांसि तत्वतः | दीक्षाकर्मविभागन्तु समयांश्च तथा वद || ऊचुस्थेवं पुनः शान्तं कथयामि समासतः | पूरोक्ते स्थानके गुप्ते पंचगव्योपलेपिते || २१ब्) सुधूपधूपितं कृत्वा पुष्पप्रकरसंकुले | वस्तुना गुण्ठयित्वा तु चण्डोदय सुशोभिते || श्रग्दामालम्बयित्वा तु तोरणं चूतपल्लवैः | एवं कृत्वा विधिं सम्यक् ततः कर्मसमारभेत् || शुक्लाम्बर धरा भूत्वा आचार्यसुसमाहितः | पञ्चगव्यं ततः प्रास्य अस्त्रमन्त्रेण मन्त्रवित् || अलिनाद्यस्तु मन्त्रेण प्रोक्षयेद् यागमण्डपं | सर्वविद्यासमुच्चार्य दिशावन्धन्तु कारयेत् || प्रोक्षयेत् सर्वद्रव्याणि यासार्थै आगतानि वै | न्यासं कृत्वा प्रयत्नेन भैरवाकाररूपिणं || षोडाद्वादशकं सर्वं श्लोकद्वादशमेखला | पंचरत्न कृताटोपं तद्गुहा वलिभूषितं || ध्यानं पश्चात् प्रयुञ्जीत प्राणायामसमन्वितं | ज्वलन्तं पावकाकारं भश्मीभूतं विचिन्तयेत् || चन्द्रमण्डलमध्यस्थं कलाषोडशभूषितं | वर्षन्तं मम्तुतो? पञ्चक्षीरधारैः परप्सरैः? || शुद्धस्फटिकसंकाशं कदम्बगोलका कृतिं || ३ || कृत्वा पात्रस्य संस्कारं सेषाल? द्वौमृतेन तु | गण्डसंदक्षिणे नैव पञ्चरत्यैः समालभेत् || गायत्र्या मन्त्रितं कृत्वा स्नानं ते नैव कारयेत् || ३ || २२अ) रुद्रयन्त्र तदात्मानं निःसृतं दिव्यं रूपिणं | सृष्टिरूपं समुत्सृज्य मुद्राबन्धन्तु कारयेत् || समदृक्समकायस्तु मूर्द्ध चक्र व्यवस्थितः | रेच्यवायुं प्रत्नेन पुनराकृष्य धारयेत् || आक्रम्यमूलचक्रन्तु संघट्टे कंदमूर्द्धगं | ऊर्णतन्तु निभा तत्र कन्दाद्भिन्ना विनिर्गता || भिन्दे ग्रन्थि कपाटानि अर्गलायाश्च संस्थिता | बिन्दुमध्या गतादूर्द्धं प्रत्यक्षमुपजायते || विरजा नामविख्याता मुद्रेयं सृष्टिरूपिणी | लग्नैग्रन्थि त्रयेणैव विश्वव्याप्तिरखण्डिता || व्याप्तिभूतं जयेत् सर्वं दिव्योघक्रमवद्धतिं | नान्यथा हृत्प्रदेशे तु ललाटे ब्रह्मरन्ध्रयोः || वाक्पाणिमक्षिणी कर्णौ विभज्य परमे वहि | मध्ये दक्षे तथा वामे अग्रैश्चैव विशुद्धिगं || ओजपूका क्रमेणैव पूजितव्या प्रयत्नतः | माप्तसवहु? क्रमेणैव सम्भुमावरणस्थितं || पूजितव्या यथावस्थ कुलाकुल क्रमेण तु | ज्ञानषट्कं यथावस्थ स्थाने स्थाने व्यवस्थितः || पूजयेन् मनसा सर्वं दक्षादौ व्याप्ति पूर्वकं | २२ब्) आधारं गुदमित्याहु स्वाधिष्ठानन्तु लिङ्गजं || मणिपूरन्तु नाभिस्थं हृदिस्थन्तु अनाहतं | विशुद्धि लम्बिकान्तस्था आज्ञाकुट सुकीर्तिता || ललाटे वक्त्रमध्ये तु भारती शंखिकान्तरे | सामामाना क्रमेनैव पूजितव्या यथोदिता || दिव्या तु पंचके स्थाने समजसिसुपूजयेत् | क्रमि उपचय सिद्धा शृङ्गाटाकृतिमस्तके || गुरुपंक्ति ललाटे तु दक्षादौ वामकावधिं | डरलकसहयन्त्र यच्चक्रं पूर्वमुद्धृतं || पूजितव्यं प्रयत्नेन कर्णये घ्राणवक्त्रयोः | चिबुके कण्ठ देशे तु भ्रामणी नाभि संस्थिता || एतत् क्रम महादिव्यं गुरुवक्त्रान्तु लम्बने | ब्रह्मरंध्रै ललाटे तु भ्रूमध्ये कण्ठ वक्त्रयोः || हृदिनाभौ तथा लिङ्गं यत्तच्चक्रमुदाहृतं | ब्रह्माण्याद्या कुलाषुञ्च पूजितव्या यथाक्रमं || गन्धपुष्पसुगन्धी निम्बात्य? देहं प्रपूजयेत् | ध्यानं पश्चात् प्रयुञ्जीत निश्चले नान्तरात्मना || स्वाधिस्थान पुरान्तस्थं महावृन्दं सदोदितं | २३अ) रक्ताम्वरधराः सर्वे मौक्षिकाभरणोज्वला | द्विरष्टाकृतयः सर्वे पिबन्ति मदिरासवं || द्विभुजा एकवक्त्राश्च हारकुण्डल *? शोभा | शंखपद्मधरा सर्वे त्रिनेत्रा मदिरालसाः || तदावस्था तदात्मानं तेन रूपेण चिन्तयेत् | देहस्थं जननं कृत्वा वहिस्थं वाह्यतः स्थित परं || शोभने योगपीठे तु रक्तवस्त्रेण छादिते | तस्योपरि समादाय निर्मलं दर्पणं शुभं || कर्पूरं मृगनाभिश्च काश्मीरं चन्दनं तथा | रोचनाध्रं सपुष्पं च कुण्डगोलालिमिश्रितं || एकीभूत्वा तु ते सर्व लेपयेद् दर्पणं शुभं | आलिखेद् योगपीठन्तु नादविन्दुकलान्वितं || वर्तुलं तस्य मध्ये तु षट्प्रकारोपरिस्थितं | सिन्दूरं हिङ्गुलं रक्तं रजस्तत्रैव पातयेत् || सुधूपधूपितं कृत्वा आसनं तत्र कल्पयेत् | न्यस्तव्या मात्रिका तत्र आदिक्षान्तमनुक्रमात् || अजारेषा तु या पूर्वा ब्रह्मं तत्राधिदेवता | २३ब्) द्वितीया कादितान्तस्थां हन्त्रिस्थित्रापि संस्थितः | यो दिसा तादृती या च रुद्रस्तत्राधिदैवतं || त्रिप्रकारक्रमं प्रोक्तं त्रिमात्रा त्रियथान्वितं | वन्धयेत् ततो मुद्रां विरजाख्यां सदोदितां || पीठमावाहयेत् तत्र एकतत्वे व्यवस्थितः | महापीठगताः सर्वे कौल भेद क्रमस्तथा || देव्याया पंचकं मध्ये मकारादि प्रपूजयेत् | नादविन्दु कला मूले वह्निस्था वह्निमूलगं || ज्ञानषट्कं प्रपूज्येत अङ्गसट्कसमन्वितं | चतुरस्रे चतुष्कन्तु पूजितव्यं यथाविधिः || ऊर्धरेषा तु या तूर्णा तिर्यगा किञ्चिदुन्नता | समजाख्य? सुनामानि पूजितव्यानि तत्र वै || पीठपीठेश्वरी सिद्धा एकोच्चारेण पूजयेत् | कामाख्यपीठमूले तु गुरुपक्तिं निवेशयेत् || आदि षट्कं क्रमेनैव षट्प्रकारे प्रपूजयेत् | एवविधे विधानेन क्रमपूजामुदाहृतां || कुलाकुलविभागेन कुलाष्टकमिहोच्यते | प्रयागे तु महाक्षेत्रे आ * *? मकुलसंयुतां || २४अ) वैरींदू? आदिमा पूज्या पूर्वभाग व्यवस्थिता || १ || वाराणस्यां महाक्षेत्रे इलावर्व्वरकान्विता | माहेशीकादिना पूज्या आग्नेयी दिशिमाश्रिता || २ || कोल्लगिर्या महाक्षेत्रे ऊहायोगिसमन्वितं | कौमारी चादिना पूज्या? दक्षिणां दिशिमाश्रिता || ३ || अट्टहासमहाक्षेत्रे जशासिद्धि? हरान्विता | ढादिमा वैष्णवी पूज्या नैरित्यां कोणमाश्रिता || ४ || जयन्त्याञ्च महाक्षेत्रे महाभ *? समन्वितां | वाराही तादिना पूज्या वारुण्या दिशिमाश्रिता || ५ || वेदित्रे च महाक्षेत्रे ऐशकिणिकिलान्विता | ऐन्द्री च या दिना पूज्या वायव्यां कोणगां स्थितां || ६ || एकाप्रके महाक्षेत्रे कालरात्री शेधका | चामुण्डा या दिना पूज्या कौवेरी दिशमाश्रिता || ७ || देवीकोटे महाक्षेत्रे अह्लाक्षा भीषणान्विता | लक्ष्मी साद्येन संपूज्य ईशान्यां दिशि भूषणी || २४ब्) मध्यस्थन्तु कुलीशानं नवात्मानेन लम्बने | पूजितव्यं प्रयत्नेन देव्योत्सङ्गगतं प्रभुं || एवं पूजा प्रकर्तव्या देशिकैः साधकैः सदा | तदाग्रे मण्डलं कुर्यात् पूर्वोक्तेन विधानवित् || प्रणामं तत्र * *? ति त्रिविधेणादुरात्मना | स्तोत्रं पश्चात् प्रकुर्वति तच्चरु? प्रवदाम्यहं || क|| ओं नमस्ते तु निरानन्दे निरालम्बे निराकुले | स्वसंवत? करणातीते भावाभावविवर्जिते || * ** * * *? ते चितचिभुयभावके | कलाकले ज * *? विश्विरेवमघापहे ||? ज्योतिरूपे परे सन्ते नादरूपे निरामये | बिन्दुमध्य गतै मू *? वालाग्र सतकल्पिते || भजरूपे परे व्योमि नानाकारव्यवस्थिते | मुक्ताफलसमाकारे कुटिले चार्द्धचन्द्रिके || तुसारकणिकाभासे द्वादशान्ते व्यवस्थिते | चन्द्रबिम्ब निभाकारे कलाषोडशभूसिते || निर्द्धुमाङ्गारसंकासे कूटस्थाने व्यवस्थिते | जलबुद्बुदसंकासे क्षीरधान्य परिप्लुते || २५अ) वज्रज्रानसमारूढे भेदिनी ग्रन्थ मूलगे | शरं गगनसंकासे व्यापिनी ज्योत्स्न?सन्निभ || कदम्बगोलकाकारे कामशक्ति विवोधनी | पद्मसंपुट मध्यस्थे हकारार्द्ध कलान्विते || प्राणापान समानस्थे नाभिसूव्यवस्थिते | चरसचाररूपेण धम्माधिसंपुट द्वये || ऊर्णातन्तु निभाकारे ब्रह्मरन्ध्रा तु गामिनि | षोडशान्ते परावस्थ शततानन्द पूरिते || क्रमभ्रुषान्तु * * * * *? पीठनिवासिनि | वालकौमारवृद्धस्थे कारुण्य कुरुवत्सले || ओंकारपीठमध्यस्थे कुण्डलाकाररूपिणी | महायोगि स्वरूपेण द्वादशादित्य वर्चसे || तडिद्वक्ष्य? लूताकारे द्वादशान्ता वलम्बिनि | जालपीठान्तरावस्थे पाशजालानिकृन्तनि || त्रिरि?न्दुवलयाकार ज्वालाज्वलनसन्निभे | पूर्णेन्दुमथनावस्थे पीठेसी घोररूपिणी || मृगदृष्टांत साकारेक्ष चित् दृश्यमदृश्यत् स | कामाख्या वरणे देवि चिद्व्योममवलंविनि || २५अ) स्थूलसूक्ष्मविभागेन व्यापिनी स चरे | त्वं गतिर्मम देवेशि कारुण्यं कुरु भैरवि || नमस्ते वीरचामुण्डे अपरे पररूपिणि | षट्प्रकारविशुद्धात्मे अचले विमले ध्रुवे || महामन्थानसंभूते विभज्यात्मान पञ्चधा | पञ्चक्रमविभागेन त्वं च देवि विभज्यसे || विमलाख्ये महामङ्गि सर्वज्ञे च पुलन्दिके | यागे च सावरी देवे सिद्धसंज्ञेति चंपके || कुजां? वा समयत्वं हि शडाना वलिपूजिते | आधारस्थे चतुस्थाने तप्त हाटकसन्निभे || हृद्याति परमानन्द सृजसे योनि रूपिणि | गुह्यस्थाने महारक्ते षट्पत्रोपरिसंस्थिते || वेधनी शिरसावस्थे योनिरूपे महाम्बिके | नाडिस्थाने दशावस्थे मर्ममेकैक भेदिनि || भ्रमणी भ्रामणी देवेशि रोत्भूते परापरे | हृदिस्थ द्वादशावस्थे द्वादशादित्यवर्चसे || परशब्दाख्य रूपेण निर्भरानन्दनन्दिते | २६अ) पूर्णचन्द्रनिभाकारे षोडशारे स कर्णिके | च्छादयन्ती जगत्सर्वं ज्योतिरूपे निरामये || शिवस्य परिपूर्णस्य तस्येच्छा मन्त्रवर्तिनी | अदृष्टविग्रहे वंद्ये आयु रूपे तु निष्कले || नादे घंटिकसंघृष्टे महाग्रन्थि विभेदनि | इकाराख्य महामाये संखावर्त्त त्रिनाडिगे || चतुष्कलसमोपेते अथार्थमवलम्बिनि | विससे सूर्यमार्गेण जगद्भासैक लम्पटे || भमरे डमले देविरमूर्तिशाकिनि कुले | प्रबोधकरणे शान्ते योगिनी शाकिनी महान् || डाकिरक्तेत *? णम्बकर्णनादेथ भैरवि | भ्रमणी भ्रामणी देवि कुलषट्कविभूषिते || ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा | वाराही ऐन्द्रि चामुण्डे योगेसी त्व *? भयप्रदे || भैरवि भैरवाशक्ते अष्टाष्टक परिवृते | सिद्धपंक्ति समालब्धे गुरुपंक्ति समन्विते || योगदे भोगदे देवि महाव्याप्ति प्रदायके | महेश्वर्य सुसंपूर्णे वरदे सिद्धमम्बिके || २६ब्) महाभये समुत्पन्ने जलाग्रै व्यालदंष्ट्रिने | मुच्यते सर्वदुःखै प्रकीर्तनो भुवनस्य सः || यः स्मरेत् परया भक्त्या दुःकालं भावितात्मनः | प्राप्नोति कामिकीं सिद्धिं स्त्रीणां भवति वल्लभः || योगपीठे क्रमोदयो नामस्तोत्रं समाप्तं || एवं विधिविधानेन पूजां स्तोस्त्रावसानिकीं? | समयानस्रावये च्छिष्ये यथासास्त्रप्रचोदितान् || समता सर्वशास्त्रेषु लिङ्गिनानान्तु सर्वगः | समता सर्वदेवानां द्रव्यानां तु विशेषतः || न निन्दे देवतां कांश्चित प्राणिनो नैव घातयेत् | दया च सर्वजन्तूनां कामक्रोधन्नकारयेत् || न लंघेत् गुरु वाक्यानि सदा ज्येष्ठाति वादयेत् | एक वृक्षस्मसाने वा चत्वरे मातृ कारयेत् || *? पाच सर्वजन्तूनां कामक्रोध न कारयेत् | वन्सूत्र? चैवे? कुर्व्वित नलज्योतचतुष्टयं || रक्ताम्बरधराणारी दृष्टावन्देत नित्यशः | २७अ) अपराधशते नैव पुष्पेनापि न ताडयेत् | अनिवेद्य न भुंजीतम्भरो? वह्नौ शिवागमे || कुमार्या च सदा पूज्या वेश्यायाश्च तयोधना | रेरेकारं न वक्तव्यं हेहेकारं तथैव च || सर्वत्र मधुरां वाक्य भैरवव्रतधारिणीं | गोधामान्सं तथोलूकं खगरीगृध्रमेव च || वर्जनीयं प्रयत्नेन एषां मान्सं न भक्षयेत् | गौरी शब्द न वक्तव्यं कालिकयेति नाच्चरेत् || श्रीपूर्वञ्च नमस्कारं गुरोन्नामसमुच्चरेत् | खट्वा पादं घरटं च उलूखल्या मुसलं तथा || देहली पेषणी सूर्यं वर्द्धनी चूल्लिकांजनी | एतन न संस्पृशेत् पादो यदीच्छेत प्रियमात्मनि || अधस्पृष्टं प्रसादेन तदामन्त्रमनुस्मरेत् | एवं संस्राव्यसमया न शिष्यै भक्ति परायने || गन्धधूपं ततो दद्यात् मूलमन्त्राभिमन्त्रितं | व्यापकोप समुच्चर्य आज्ञारूपाय वै नमः || गुर्वाज्ञासंस्मरित्वा तु प्रोक्षयेद् गन्धवारिणा | योजयेत् कुलार्थन्तु कृत्वा तु दृढलक्षवित् || २७ब्) तेजोरूपै पराशक्तिरन्तर्लीनां तु भावयेत् | ध्यात्वा विद्युल्लताकारां ज्वालामालिनिमाक्षिपेत् || पतत्येवं न संदेहो काष्णीभूतश्च न जायते | पश्यतेन्दु वनान् सर्वान् क्रमेणैव यथास्थितान् || पश्यते देवता सर्वान् विमाननेक कोटिशः | कायाग्नि शिव पर्यन्तं पश्यते देहमध्यगः || प्रबोधो जायते तस्य गात्रं वै धनते महान् | पश्यंमनेकाश्च रुद्रं रप्नतिमेव च ||? अतीतानागतं चैव पृष्णोसौ कथयिस्यति | शक्तिविज्ञानभेदेन अनाख्ये न तु रंजितः || परदेह परांशक्तिं नादेनाक्रम्यवेधयेत् | धुनते कम्पते चैव मुद्रावद्धत्यनेकधा || नादं प्रमुञ्चने दीर्घ तीव्रवेधेन वेधितः | एवं प्रबोध मानस्य पुष्पं हस्ते प्रदापयेत् || मुंचाप्यमण्डलस्यार्द्ध पुष्पपातन्तु लक्षयेत् | यस्मिन् पत्रे पतेत् पुष्पं तं नामं तस्य कारयेत् || प्रकटं शिवसंज्ञं तु गुप्तमानन्दमुच्यते | २८अ) प्रणामं तत्र कुर्वीत् त्रिविधेनान्तरात्मना | वहिर्वलिं प्रदातव्या क्षेत्रपालादि योगिनी || ओं एहि २ तुरु २ मुरु २ भञ्ज २ गृह्न २ हर २ सर्वविघ्ना न भैरव रूपेण वलिं गृह्न २ ओं हूं हूं हे हे क्षः क्षेत्रपालाय ओं डामराय स्वाहा | क्षेत्रे स वलि निवेदयमन्त्रः ऐं ह्रीं हूं हूं फट् हे हे हेलि २ कह २ हे हे हे ह्रीं सर्वयोगिनीनां वलि गृहं २ स्वाहा || इति योगिनी वलि मन्त्रः || एवं वलि विधानन्तु कर्तव्यं चुम्बकैः सदा | पश्चात् सर्वेषु भूतेषु वलिं सर्वत्र दापयेत् || आचार्यासाधकाश्चैव पुत्रका समयज्ञकाः | पूजयित्वा प्रयत्नेन यथाशक्त्यानुसारतः || पूजयेत् स्वगुरुं तत्र यथाविभवस्तरं | दारककणमुद्रांश्च कण्ठी कुण्डलमेव च || मौक्तिका भरणाद्यैश्च वस्त्रवाहनभूषणैः | आमाङ्जलकहर्माणि शययापट्टादि क्षेत्रकं || २८ब्) स्वपरिच्छदमात्मानं निवेद्यगुरुपादयोः | यथाशक्तानुसारेण वित्तसाठ्यं न कारयेत् || दीपानं संप्रासयेत् पश्चात् सुसन्तान समन्वितः | समयज्ञै चरुं दद्यात् न दद्यात् समयवर्जिने || विसर्जयेत् ततो यज्ञं निर्माल्यं चारि? निक्षिपेत् | वीरक्रीडा प्रकर्तव्या यागार्थे च सुभा विभुः || पश्चिमे गुरवः स्थाप्य उतरे साधकास्तथा | पुत्राः सामायिकाश्चैव पूर्वादि क्रमसः स्थितात् || योगिन्यश्च तथा देवि सुरोद्दक्षिणतस्तथा | ततः पूज्य विधानेन गन्धधूपश्रगादिभिः || मदिरानन्दं कर्तव्यं भक्षभोज्यैरनेकधा | ततः संपूर्णतां यातिमागदीक्षादि सस्फुरं || योगपीठे क्रमोदयो नाम अष्टमः पटलः || अथातः संप्रवक्ष्यामि क्षेत्रपाला यथास्थिताः | पूजिताः पूजयिष्यन्ति ध्वंसयज्ञप्रपूजिताः || पीठद्वीपा तु ये वर्णा लक्षये लिंगमध्यतः | व्यापितं? संस्थिता ये च सक्षेत्रपालको भवेत् || संयोगे संस्थिताये च द्वीपं द्वीपसमाहतं | पीठभिन्नं तदाद्यं च पीठ स्वातन्त्र पूजयेत् ||? स्थानदेव्यस्तथा कोशं लक्ष?यित्वा विशाकुलं | २९अ) यस्मिन् छेत्रे य योनाम स तथैव पूजयेत् | उन्च्लेअर् ३०अ) हीत्वा ब्रह्मपर्यन्तं क्रीडयस्व यथासुखं | अथचेन्मातृवृन्दैस्तु सामान्यो योगिनी कुले || एवं लब्धा वरं तेन साधकेन महात्मना | कुलचक्र क्रमे सिद्धः क्रीडते भुवनोत्तमैः || साधयेद् यदा वीरो वज्रसिद्धेश्वरी महान् | जपेतद्वादशलक्षाणि एकान्ते सुसमाहितः || होमं चैव तु कर्तव्यं पलेननारमाहिये | गत्वापितृवने घोरे एकाकी च दिगम्बरः || सुसन्नद्ध सुचितस्तु जपेन्मंत्रं मुहुर्मुहुः | कंपते च ततो भूमिं उल्का पातश्च जायते || गर्जते च ततस्तीव्रं शिवारावो मुहुर्मुहुः | रक्तविष्टि भवेत् तत्र दिशादाघश्च जायते || एवं दृष्ट्वा तु तान् सर्वान् त्रासं तत्र न कारयेत् | जपेन्मन्त्रमनुद्विस्रामौनीप्यान परायणः || आर्द्धरात्रे तु संप्राप्ते आगच्छेत् खेचरी गणं | वामाङ्गलोहिते नैव पूरयेदंजलिं महान् || जानुभ्यां मवनीस्थित्वा अर्घन्तासां निवेदयेत् | दन्ते अर्घे तु प्रयच्छंति चरुकं सप्तजन्मिकं || तं स्वास्य तत् समः सोहि भैरवाकाररूपिणं || ३ || अथ विद्याप्रशक्तस्तु ज्वाला मालिनि साधने | स्मसाने विजने रम्ये जपेल्लक्षांश्चतुर्दशः || होमं चैव दशासेन क्षौद्राक्षं नाशसंयुतं | होमान्ते पश्यते चक्रं गगनस्थं महद्भुतं || दृष्ट्वाचार्घप्रदातव्यं वामाङ्गा लोहितेन तु | निपतन्ति ततो भूम्यां साधुषुत्र वदन्तिताः || ददन्ति द्वयेप्सितां सिद्धिं साधको यत्समीहते | सिद्धयोगीश्वरी नाम साधयेद् यस्तु साधकः || सप्तलक्षकृते जाप्ये सिध्यते कटहोमनात् | पूर्वसे वाक्यतेप्येव ततः कर्मसमारभेत् || एकान्ते विजने रम्ये गोमयेनोपलेपिते | पुष्पप्रकरसंपूर्णे गन्धधूपसुवासिते || पूर्णमास्यां समारभ्य चन्द्रोदयस्तु निर्मले | भाश्चा?धुलितमात्मानं श्रीकण्ठे नाथ चापुनः || ध्यात्वा देव्यास्वरूपं तु चन्द्रमण्डलमध्यतः | ३१अ) त्रिनेत्रां यौवनोपेतां एकवक्राद्विवाहुकं | चंद्रगर्भगता सुद्धां तदाकृष्य शनैः शनैः || स्ववक्त्रे यावत् संप्राप्तां प्रविसेत् तत्र मध्यतः | प्रविशत्यमरो भूत्वा शिव भुम्या न संशयः || व्रजते खेचरो मार्गो खेचरीणा खगेश्वरः | एवं ते कथितं सर्वं रहस्यं यागसाधनं || गोपितव्यं प्रयत्नेन पश्चिमाम्नायसिद्धिदं | योगपीठे क्रमोदयो नाम नवमः पटलः || एवं श्रुत्वा युताः सर्वे आनन्दभृतयोगिनी | पतिता दण्डवद्भूमौ सिद्धेसी पादमूलतः || ऊचतुः परया भक्त्या देवी सागङ्गं दक्षणा | देवदेवसुरेश्रेष्ट योगिनी कुलनायकः || योगिन षट्कलांन्तस्थां विद्यासप्तादशाक्षरां | तस्यां साधनकर्माणि कथयस्व प्रशादतः || तत्थाप्य व्रजिताः सर्वे प्रहस्यो वाचवीरराट् | कथयाति न सन्देहः कालिके शृणु तत्वतः || ३१ब्) उक्ताया पूर्वगुटिका मुखे कृत्वा तु तां जपेत् | निशायाम्ये पितृवने अयुते कं समादितः || ततो हामं प्रकुर्वीत नृमान्से गोपलेन तु | पूर्वसे वाक्यते प्येवं कर्मयोग्या तदा भवेत् || मारणोच्चाटनादीनि वश्याकर्षणमोहनं | स्तम्भयेत् सर्वसिन्यानि विधिनानेन योजयेत् || पंचारं सप्तपत्रं च षट्पत्रं च तथा लिखेत् | भुंजे कुंकुम वस्ये तु मोहनेन क्रमादिशेत् || रोचना कृष्टिकर्मे तु लिखेत् कर्मानुसारतः | ऐं मोहेलिक्षिप्तं वस्ये ह्रीं चाकर्षण कर्मणि || कर्णिकां साध्यनामन्तु अनेनैव तु संपुटे | ईकारं त्रिगुणे वश्यं प्लुंकारेण तु रोधितं || अग्निमण्डलमध्यस्थं माकर्णाग्नि वेष्टितं | ह्रींकारं मोहने वैष्ण्य अंकुसेन निरोधयेत् || सं चंद्रे चन्दने नैव लिप्तं सित्थक वेष्टितं | ३२अ) मंव्रभाण्डे तु प्रक्षिप्य त्रिदशान्यपि मोहयेत् | राजिकालने नैव त्रिकटुकोपरिवेष्टितं || सित्थके वेष्टितं ताप्य कर्षयेन्मधुना नृतं | कुंकुमं श्रोणितं शुक्रं लेपयेद् यंत्रमुत्तमं || लाक्षलक्तकसंयुक्तं रक्तसूत्रेणवेष्टयेत् | क्षोद्राज्य पयसा मध्ये स्थापयेद् दिनसप्तकं || वस्या भवति त्वं राजा नात्रकार्याविचारणात् | मारणन्तु यदा कुर्या लिखेच्चक्रंनुकर्मणि || स्मसान कर्पटे वापि उर्णचर्मण्यथापि वा | विसेणोन्मत्तकेनैव खरौष्ट्रा रुधिरेण तु || चिताङ्गारसमायुक्तं क्रुद्धरूपेण चालिखेत् | विलोमेनोपदेशेन षट्पत्रं पंचसप्तधा || विलोमे नोर्द्धेद्विद्यां ऊर्द्धमूलं यथा भवेत् | चकारोदरमध्यस्थं साध्यनामन्तु कर्णिके || अथार्द्ध च वकारं च वर्णपार्श्वे समालिखेत् | थकारे च टकारञ्च रेफाश्चैव तृतीयकं || ३२ब्) ईश्वरं बिन्दुसंयुक्तं वेष्टितं यन्त्रमुत्तमं | हूंकारेण निरोधस्तु कुम्भसूत्रेणवेष्टयेत् || विसेन राजिकेनैव निम्बचूर्णेन लेपयेत् | कपालमध्ये प्रक्षिप्य स्मसाने नाधिरोपयेत् || निसामेकां क्षयेत् तत्र मुक्तकोशादिगम्बरं | साध्यनामसमुच्चार्य चोदितव्यं मुहुर्मुहुः || कर वै स्फालयेत् तत्र रुदमानेन संयुतं | भक्षयेच्च तदा किञ्चित् साध्यनामसमन्वितं || एवं वै भवते कालं यदि साक्षात् सचीपतिः | यकारं कर्णिकामध्ये साध्यनामेनसंयुतं || वृत्ताकारां लिखेद् विद्यां त्रिगुणां ध्वज *?ण्ड *? | काकरक्तेनसंलिख्य लेखन्याकाकपक्षया || काककंठे प्रवक्षा तु उच्चाटे तं न संशयः | पूर्ववक्त्रं लिखित्वा तु कंकारं साध्यसंयुतं || निवेश्य कर्णिका मध्ये वज्रलांच्छनलांच्छितं | लकाराष्टकसंरुद्धं प्रणयन निरोधितं || ३३अ) हरिद्रा तालके नैव नीलकर्पटके लिखेत् | मंटुकान्तरमध्ये तु कण्ठकेन तु वेष्टयेत् || स्तम्भयेत् सर्वसैन्यानि नावादींजलमध्यतः | वाचास्तम्भगतिस्तम्भ पाशानो भयपीडिते || एवमन्यानि कर्माणि करोति विविधानि तु | लक्षजाप्ये कृते सम्यक् वाचया कुरुते वहून् || ध्वजारूढा जयेत् मौनी सहस्रैकं समाहितः | उत्तिष्ठति ततः प्रेतं युद्धमानं सुदारुणं || सर्षपान्मन्त्रयित्वा तु ताडयेत् हृदिमध्यतः | कनिष्ठाङ्गुलि संपीड्य?सिद्धासिद्धो वदेति च || मर्यादाञ्च ततः कुर्याद् विद्या साक्षिञ्च कारयेत् | एवं कुर्याद् विधानेअ फठेन ध्वजसाधनि || लक्षत्रयजपे नैव नास्तितद्यन्न साधयेत् | क्षोभयेद् योगिनी सर्वाः या स्थिता भुवनोदरे || स्वकीयां दर्शयेद् व्याप्तिमित्याज्ञा पारमेश्वरी | इति योगपीठे क्रमोदयो नाम दशमः पटलः || ३३ब्) अथान्यं परमं वक्ष्येद् योगिनी कुलनायिकां | येन विज्ञानमात्रेण कुलसामान्यता व्रजेत् || पुरुषेनाधिकारोस्ति तस्मात् तत्सिद्धसंततौ | कर्णात् कर्णान्तरा याता योगिनीनां मुखालया || पानुजं? खरमध्यस्थं विन्दुगे वरभूषितं | दशैकेन समाक्रान्तं सद्योमेलक दायकं || एतद्गुह्यतरं गुह्यं गुह्यं तत्व समुद्भवं | गोपितव्यं प्रयत्नेन इत्याज्ञा पारमेश्वरी || मन्त्रविद्या गणा सर्वे तन्त्रे तन्त्रे ह्यनेकधा | अत्रते पशवः सर्वे कलानार्घन्ति षोडशीं || रावाख्यं परमं बीजं सर्वमन्त्रैक ग्रासकं | कोटिकोटिस्तु मन्त्राणां एकोच्चारेण भक्षयेत् || भि?न्दाद्भिन्नां समुच्चार्या नान्या तु कारयेत् पूजां? नान्यमन्त्रमनुस्मरेत् | भक्षयेच्चरुकं नान्यं निर्माल्यं नैव संस्पृशेत् | आपूर्य ब्रह्मरन्ध्रं भुवनं पातालस्थं निरोधयेत् | कन्दोद्भिन्नां समुच्चार्या यन्त्र्य?लितोर्द्ध गामिनी || ३४अ) ब्रह्मरन्ध्रान्तगोलान्तं रक्तबुद्बुदरूपिणी | ध्वनिरूपा भृताज्योत्स्ना तत्रस्था प्रविलोपयेत् || एकोच्चारकृताप्येनां करन्यासः कृतो भवेत् | देहन्यासन्तरुच्चारैः सकलीकृतविग्रहः || ज्वलान्तो दृश्यते भूमै यथा रुद्रोमखान्त कृत् | भ्रसन्ति सर्वमन्त्राश्च भीतायान्ति पराङ्मुखाः || भ्रासनी सर्वमन्त्राणा पाशजालनिकृन्तनी | दहनी सर्वपापाणां विज्ञान करणी महान् || योगिनीनां प्रशादेन प्राप्यते सिद्धसन्ततौ | ततस्तस्य प्रवर्तन्ते विज्ञानानि अनेकधा || एकान्ते भूगृहे वापि दंसमसकवर्जिते | दिग्वासामुक्तकेसेन गुटिका च मुख कृता || सर्वद्वंद्व विनिर्मुक्ता जपेल्लक्षं समाहितः | होमं चैव दशान्सेन नृमान्समत्समेव च || देव्यास्तु रूपकं ध्यात्वा निश्चलेनान्तरात्मना | नीलोत्पलदलस्यामां तनुरूपा वृकोदरां || सर्वावयवसंपूर्णां सुकुमार कराम्बुजां | ३४ब्) चन्द्रबिम्बनिभाकारं विभातिमुखमण्डलं || सूर्यविम्बप्रतीकासां चलत् कुण्डलशोभितां | दशनै ज्योत्ष्णे? संकाशैरोष्ठौमरक प्रभौ || अक्षौ पद्मदलाकारौ सुचोन्नतसन्निभांसिका | कुवतारस्रवेसाष्ठ्यां कुटिलांजनसन्निभां || ललाटे पट्टिकां वद्धां मौक्तिकोद्दामशोभितां | आनन्तैर्व्विविधाकारैर्ललाटतिलकोज्वलां || नेत्र तृतीयं देव्यास्तु भ्रुवोर्मध्ये विराजते | कङ्कणैङ्कटकैर्वापि रूढकर्माणि शोभिनैः || नानालंकारसोभाढ्यै समुन्नतपयोधरैः | ब्रह्मसूत्रोज्वलं देव्या हारालम्बितशोभितां || नितम्बाढ्यां च सुश्रोणीमेखलाबद्धकिङ्किणी | नूपुरैः कटिसूत्रैश्च घुर्घुरैः पादशोभितां || एवं प्रमुदितां देवीं रुदमाना मधोमुखां | कपाल स टंकं हस्ते त्रैलोक्य ग्रासलं पटां || एवं विधौ महादेवीं ध्यातव्या साधकेन तु | पूजयेद् गन्ध पुष्पैश्च रथ्याक्षेतजयोनिजैः || सत् पुष्पैश्च सदा पूज्या दीपैनाराह्य फल्गुषैः | ३५अ) पानैः सुशौभनैर्वापि अलिमध्वाज्य पायसैः || नैवेद्यैर्विविधाकारैः महापिसितसंस्रुतैः | गीतैर्वाद्यैस्तथा नृत्यैः सर्वसंभारसंभृतैः || पूजयेत् परया भक्त्यान्ततस्तोत्रं समारभेत् | ओं नमोस्तु सर्वगे शान्ते शान्तातीतनिरामये || महाव्योमान्तरावस्थे चिद्व्योममवलम्बिनि | ज्योस्नाशक्ति समावस्थ धामत्रयप्रवाहिनि || ज्योतिरूपे नमस्तुभ्यमकले कलरूपिणि | कालरूपे कलाग्रासे कलिते तु कलोज्झिते? || खेचरीचक्र मध्यस्थे मध्यचक्र प्रसूयिनि || तृविन्दु वलयाकारे नादरूपेसु सूक्ष्मगे | सूर्यविम्बप्रतीकासे ग्रन्थिरूपे महौजसे || सोमसूर्याग्नि मध्यस्थे कूटरूपे परापरे | देवयाने महायाने पितृजान प्रवाहिनि || नादग्रन्थि महादाने विरजेलयमाश्रिते | कदम्बगोलकाकारे द्वादशान्ते समुज्वले || ३५ब्) तारकादुल्कसंकास खद्योत सदृशोपमे | न यो चन्द्रिक भ्रूमध्ये विद्युच्छटालवर्चसे || दाडिमीकुसुमप्रख्ये जवाहिङ्गुलकोपमे | तडिद्विद्युतसमाकारे मयूरकिरणाहते || तृपथान्तरवर्तीन्ये वज्रनाडिविकासिनि | कण्ठकूपनिक्षिप्ते हृद्गुहान्तरवासिनि || पद्मसंपुटमध्यस्थ हिमकुन्देन्दुसन्निभे | चन्द्रासन कृताधारे नाभिपंकजमाश्रिते || षट्प्रकारान्तरावस्थे रक्तकिंजल्क सोभिते | सतरुद्रसमाकारे सूर्यकोटि समप्रभे || भ्रमन्ती चक्र वेगेन मूलचक्रे व्यवस्थिते | च्छेदना सर्वपासानां पशुपाशविमोचनी || विज्ञानकरणी देवी संसाराच्छिन्नकारिणी | जननी सर्वभूतानां नमस्ते शक्तिरग्रिणी || ब्रह्ममाते विष्णुमाते रुद्रमाते सुरेश्वरि | ईशसादाख्यमाते च शिवसा पंचास्मृता || पञ्चाशद्वर्णसंयोगात् त्वया रुद्रो प्रकीर्तिता | मातावीरावलीनां तु कारुण्यं कुरु वत्सले || ३६अ) मातात्वं भैरवानां च योगिन्यां तु महावलां | अघोरे परमे घोरे घोररूपे तदानने || भीमे वै भीषणे देवि वमनी पिवनी तथा | हा हेति मन्त्रमुद्गीते हुं फडन्ते प्रदीपिते || परे तु अपरे देवि तथा चैव परापरे | भिन्नयोनिर्महामाये वरदे लोकपूजिते || रुद्रशक्ति समावेसे तृशक्तिगुणवृंहिते | म एष हरपिण्डस्थे योगिनी हृदिमाश्रिते || कूटमन्त्रपदान्तस्थे महाचण्डपदोद्धृते | योगेश्वरि समायुक्ते फे फेत्कारसमन्विते || ह्रींकारमन्त्रसंदीप्ते पंचफट्कारे माहते | कालाकालान्तके रौद्रे खेचरी कुलमाश्रिते || द्वातृंशाक्षरसंयुक्ते पञ्चप्रणवसंपुटे | ओंकारपीठमध्यस्थे सिद्धयोगिनि सेविते || मन्त्रमाते महादेवि समयस्था भविष्यति | क्रमत्रयान्तरावस्थे परां रूपे मरीचयः || त्वया सर्वमिदं व्याप्तं कारणानलमध्यगं | ३६ब्) कमला च कुलाख्या च वर्वरा वहुरूपिणी || वृद्धाकोंकणनामेन व्याप्तं तैस्तु षडध्वरं | व्योमे चल सुतेजस्थे स्थिरवारि महाम्बिके || विन्दु अर्द्धेन्दु नादाख्ये चण्डक्रमस्य मध्यगे | वीरेसी वीरचामुण्डे उलितृतय भूषणे || जालन्धरे तु सा देवी दक्षिणे कोणसंस्थिते | चर्चा चैव तु चामुण्डा गुह्या घोणामुखी तथा || रैवती रेतपूर्णा च लक्ष्मी काली प्रकीर्तिता | क्रीडसे मातृमध्यस्थे महिम्नावलगर्विते || पूर्णे पूर्णान्तरावस्थे कलाहंससमन्विते | क्लिन्ने कौमारमध्यस्थ तृप्रदे तृपुरान्तगे || कलानादसमायुक्ते द्वातृंशाक्षरभूषिते | कामरूपे महामाये हंसरूपे व्यवस्थिते || षष्ठ द्विपञ्चसंयुक्ते नादार्द्धन्तु विभूसिते | वालक्रमस्य मध्यस्थ नित्यरूपे व्यवस्थिते || शसयमनसमायुक्ते प्राणजीवसमन्विते | पञ्चप्रेतकृताधारे नवात्मोत् सहगामिनि || ३७अ) सूर्यमण्डलमुत्तीर्णे नमस्ते रक्तयोनिजे | बीज योनि सयोनिस्थे एक * * ? रमाश्रिते || कामशक्ति समाधारे सोमबीजपरिप्लुते | * * * *? परे सूक्ष्मे षट्पत्रान्तरवासिनि || नित्यक्लिन्ने समाख्याते यथा चैव मदद्रवे | ब्लुंकारे सहजे देवि गौरि नित्ये नित्यसदोदिते || ह्रींकार शक्ति रुद्दिष्टा पापिनी परमे कले | खगे दिक्करि भूचर्ये डाम्य डामरिका तथा || क्षोभयस्व जगत् सर्वं सदेवासुरमानुष | त्राहि देवि सुराश्रेष्ठससारार्णवविस्तरात् || ज्ञानात्थनो? महादेवि कारुण्यं कुरु भैरवि | त्वं गतिस्त्वं च मे भ्राता त्वत् पाद सरणागतः || रक्षमां परमे सानि संसारा दुःखसागरात् | मायाजालविमूढस्तु मोदयासैः प्रपीडितः || तृष्टा घातभयत्रस्त त्राहि त्राहि भवार्णवात् | परानन्दस्वरूपेण स्तोत्रमेड्रदाहुतं? || सकृदावर्तयेद् यस्तु स भवेन्मुक्तकिल्विषः | मन्त्रच्छिद्र गता ये च समयलोपैः प्रपीडिताः || ३७ब्) पठनात् सुद्धिरेतेषां कीर्तनात् तव नित्यसः | दुर्गमार्गजलाग्निभ्यस्चौरराजकुलादिभिः || न भयं विद्यते तस्य प्रातरुत्थापयः पठेत् | यः पुनः सुद्धभावात् मातृः कालं मण्डले कृते || पठते योगयुक्तस्तु भक्तियुक्तस्तु भावितः | उपसर्गेन वाध्येत? सिद्धिभावं स गच्छति || गगनो योनिसंघैश्च पुत्रवत् परिपाल्यते | समेलापि भवेद् योगी शापानुग्रहदायकः || दीक्षानिर्वाणकादीनि षोडाशक्तिफलं लभेत् | अणिमादीनि सिद्धीनि योगिनी कुलनन्दनः || प्राप्यते तु महावीरः चिदाकाशं परं व्रजेत् | सोचिरेण तु कालेन खेचरीकुलनन्दनः || सामान्यः सर्वसिद्धीनां स्त्रीणां भवति वल्लभः | इति स्तुत्वा तु देवी सा प्रणिपत्य क्षमापयेत् || अर्घदत्वा जपेद् यस्तु निश्चले नान्तरात्मना | ३८अ) लक्षमेकं जपेनैव प्राकाश्यं तस्य जायते? | द्वितीये रक्तपूर्णन्तु अर्घपात्र भविश्यति || तृतीये तु कवित्वन्तु सालंकारं मनोहरं | वसित्वं * * *? लोकेन तु लक्षजपेन तु || पञ्चमेन पुरक्षोभं क्षितित्यागस्तु षष्ठिके | योगिनी मेलकं चैव सप्तमेन ध्रुवं लभेत् || अष्टमे खेचरीणान्तु पतित्व तस्य जायते | नवलक्षकृते जाप्ये रोदिनी मानसंशयः || स्वयं कर्ता स्वयं हर्ता देवी तुल्य वलो भवेत् | क्रुद्धः संभरेते सर्वम्मिच्छरा सृजते पुनः || इयासकलो भुत्वा इच्छया निःकलो भवेत् | सर्वसमरसे भूत्वा इच्छाशक्तिरधिष्ठितः || मन्त्राणां चैव यत्पीठं चर्यायागप्रसाधनं | तत्सर्वलीयते देवि दर्शयेद् व्याप्ति पूर्वकं || चीर्णव्रतकुतक्लेसो जपं होमंश्च तत्परः | न सिद्ध्यन्ति यदा मन्त्रास्तदा निग्रहमारभेत् || आदौ देवी समुच्चार्य मध्येमन्तं समुच्चरेत् | ३८ब्) मारये द्विगुणं कृत्वा द्विधा भक्षय वै तथा || हुङ्कारं त्रिविधं योज्य विधिं मन्त्रस्य मारणे | भक्षमाणस्तदा मन्त्रः सिद्धसिद्धा वदेति च || सिद्धो वाप्यर्थसो मन्त्रो भक्षितो? वाथरोदिनी | द्वात्रिङ्गसूक्ष? जाप्येन यदा सिद्धिर्न जायते || तदा कुर्याद्विधि तृषा गुरुद्रोहां तु चान्यथा | परकर्मा च्छेदयेद् यस्तु क्षुद्रकर्मोपजीविनः || तस्य मन्त्रसमुच्चार्य पश्चात् कर्मणि * * * *? | अमुकस्य मन्त्र यन्त्र मणिविद्या रोष *? न च्छेदय भेदयमां नय भक्षय फट् फट् एवं न परमंत्राणि मारणोच्चाटयन्ति च | परदेहपराशक्तिश्चिन्तयेत् तमरूपिणी | राहु चण्डा यथा *? या तथा साध्यविलक्षयेत् || परविज्ञान हरणं क्षणात् भवति नान्यथा | सर्वसामर्थ्य हरणं विष्णु तुल्यो करोति सः || हतदेयं प्रवुद्धा च पदासुप्त? यमागतः | प्रायश्चित्तं ददेत् तस्य पाणायामुतद्वयं || ३९अ) संक्रामयेत् पुनर्ज्ञानं विधिसंस्कारपूर्वकं | योगपीठे क्रमोदयो नाम एकादशमः पटलः || अथैसांकलने कालं ज्ञात्वा वञ्चति येन वै | तदहं निश्चितार्थाय प्रव्रमीमि यथोदितं || सोमसूर्य क्रमेणैव सृजते संहरेति च | तिथिमासादयो रासी दक्षिणोन्तरमेव च || नन्दादयो यावत् पूर्णामशिने सशिरेव च | यवो चंद्रं तथा सूर्यं लक्षितव्यं गुरो मुखात् || विलोमेन यदा याति शशिनं रविमण्डले | तदा मृत्युं विजानीयान् नात्र कार्यविचारणात् || दुषा? काले परीक्षेत प्रतियतशशिसूर्ययोः | निर्मलौ तु करीक्षाल्य निरीक्षेत् पर्वपर्वणी || कृष्णवर्ण भवेद् यत्र स्वस्तमेत् तत्र तस्य वै | मकरे कर्कटे मार्गे लक्षितव्यं मुहूर्तकं || सम्यक् वह्नि नुहूर्त्ते वा यदा ज्~आतं सुनिश्चितं | वञ्चनन्तु तदा कुर्याद् गुर्वाज्ञामनुवर्तिनः || ३९ब्) भूगृहे निर्जने वापि एकाकी त्वं त्ववर्जितः | क्रमं पूज्य प्रयत्नेन पूर्वसंभारसंभृतं | प्रणम्य शिरसा नाथमाज्ञां शिरसि धारयेत् | मृद्वासन स्थितः पश्चात् एकचित्त व्यवस्थितः || ईषत् प्रसार्य वक्त्रन्तु दन्तै दन्तन्नं? संस्पृशेत् | ललना अचला कृत्वा नासाग्रन्तु निरीक्षयेत् || चिन्तचिन्ता परित्यागं क्षणान्तिष्ठति यावत | तावत् स्वाभाविका व्याप्ति स्वरूपं प्रति पद्यते || नष्टविज्ञानमादं नष्टमानस गोचरं | नष्ट क्रम समाचारं नष्टवर्णविरूपकं || तदा स्फटिकसंकाशं तेजो मूर्द्ध्नि मयं भवेत् | न कालो कलनं तत्र ना कालो कलमेव च || निवेद्य च गुरोराज्ञांत्मापुण्यपापपरिक्षयं | अनिमादीनि सिद्धानि निवेद्य गुरवस्य वौ || मृद्धांसने समारुह्य गृहच्छिद्रान्तरुन्धयेत् | दीपोत्सवं न कर्तव्यं गुर्वाज्ञा दीपकं भवेत् || नैव चिन्ता न चाचिंत्यं स्व?भावं तिष्ठते सदा | ४०अ) पक्षयातविनिर्मुक्तं शिवसंपद्यते तदा | शब्दस्पर्श तदा रूपं चिन्तं विश्राम्य चोपरि || अनेनाभ्यासयोगेन मृत्युंजित सततं भवेत् | ऊर्द्धवक्त्रोत् क्षपेद् वायुंस्तदोर्द्धोच्चार योजयेत् || पृष्टनाडिं गतं लक्षं न मृत्योः परिभूयते | मुण्डाधार स्थितं चित्तं पूर्यमानं मुहुर्मुहुः || हिमं कलोलवं फलमम्वासादक्षये भवेत् | आपूर्य ब्रह्मरन्ध्रन्तु लम्बकान्तं सुशांकरं || सिञ्चयेत् सृष्टिमार्गेण मृत्युजिद्भवति क्षणात् | निःक्रान्ताधारचक्रंत पिडासूत्रं निभा कृतिः || सम्य? नितोच्चार रन्ध्रान्ते समाधि मृत्युनाशनी | द्वौराजदन्तमध्यस्था सुसुम्नानामनाडिका || तदा कृष्यशपर्वाषु द्वादशान्ता वलम्बिनं | अनेनाभ्यासयोगेन न मृत्यो जयते ततः || रसना भानु मूले तु कृत्वा वायुं पिबेत् शनैः | वञ्चयेत् तत् तदा मृत्यु प्रहरकेन भावितः || ४०ब्) हृदिस्थं वमनः कृत्वा तल्लीनो भवते स तु | तावत् समाधि सायाति निर्भरा मृतरूपिणी || एवं विनाशयेत् कालंमकालः कलते तदा | रहस्येदं मया द्रोक्तं? गोपितव्यं प्रयत्नतः || गुरुः प्रधानः सर्वत्र तस्मात् सर्व प्रपद्यते | गुरुपंक्ति क्रमेणैव पारंपर्य क्रमागतं || पिण्डस्थं पुष्पसंकेतं अधिकार क्रमेण तु | ज्ञात्वा षड्भेदभिन्नन्तु येना ज्ञासं प्रवर्तते || त्रिभिः त्रिभिः स्मृतं चोद्यं पंचकञ्च द्वितीयके | चतुष्कं तृतयेद् योज्यं तृतयं च चतुर्थके || अनेन क्रमयोगेन गुरुपंक्ति मिहोच्यते | पुष्पसंकेतमेवं स्यादधिकार पदे स्थितं || ज्ञातव्या पश्चिमे मार्गे स्वसंतान कुलावलिः | अन्यथा नैव जानाति किञ्च ज्ञः? पश्चिमे गृहे || मोचकत्व न युक्तासौ नाडि वाद्यस्तु देसिकैः | दीक्षा ज्येष्ठ क्रम श्रेष्टः सर्वार्थ क्रमपारगः || सद्यस्तु? पश्चिमाम्नाये पूजितव्यो गुरुर्यथा | भ्र *? पुत्रः क्रम *? श्च किञ्चिद्रो गुरु पुत्रकः || ४१अ) अस्कस्थानं प्रकर्तव्यं नाभिवादन मर्हति | अनुज्ञानाभिषिक्तस्तु नाममाला प्रकाशिता || तदासौ मोचकः प्रोक्तः साधिकारा कुलान्वये | स पूज्यो भ्रातृभिश्चान्यै भ्रातरैर्भातृपुत्रकैः || तैस्तु मण्डलकं कुर्यातमाज्ञाशिरसि धारयेत् | गृहस्था याभिसिक्तस्तु अनुज्ञाताप्यपारगः || एकान्ते विहतं सर्वं नमस्कारं यथाक्रमं | तस्मात् तद्गुप्त? लिङ्गी स्यात् गोपनीयं प्रयत्नतः || स्थिति भङ्गो न कर्तव्य स्थिति भङ्गाद्विनस्यति | व्याधिदुःख भवेत् तस्य आज्ञा हानिर्भविस्यति || मन्त्रं तन्त्रं क्रिया योगं निःफल तस्य जायते | तस्मात् सर्वप्रयत्नेन गुप्तलिङ्गी भवेत् सदा || निसा भागेषु कुर्वीत पशु दृष्टि विवर्जिते | सु * * *? ः शुरश्रेष्टाः? स्वमार्ग स्थिति पालकाः || प्राप्नुवन्ति महावीराः पराव्यापिरखण्डिताः | शतकोटि पुमानं तु मतं वै पारमेश्वरं || ४१ब्) तत्र मध्योत्वृतं? सारं चतुर्विंशति सहस्रकं | तस्मान्मतात्मारतरं श्रीमतन्तु क्रमोदयं || सतसप्त प्रमानेन दध्नामृतमिवोद्धृतं | ओंकारे तु महापीठे सिद्धयोगिन्यलंकृते || कदम्बा नामविख्याता गुहा त्रैलोक्य विश्रुता | तत्रागतं महाज्ञानं योगपीठेति संज्ञितं || तेनोक्तं योगपीठन्तु क्रमोदयस्तु निर्मल | गृहीतं चर्यनाथेन आनीतं पीठमध्यतः || कनकमंजरि नामेन योगिनी तु महावला | स्थापितं तद्गृहे ज्ञानं कृत्वा समय पूर्वकं || नाभिवर्ति अहीना च वज्रसंधि कपाटयोः | संकेतान वेत्ति याप्यन्तु तस्यदेयं? कुलागमं || सयोग्य क्रमिको कौले पूजनीयः प्रयत्नतः | रक्षणीयः प्रयत्नेन यदि * * ममोपरि || एवं दा * * समयान अन्तर्द्धान गतः क्षणात् | एकुले नाथाय विद्महे श्रीकुब्जिकायां धीमहे तन्नो मुक्ति प्रचोदयात् || अनेनैव तु गायत्री * * * * * * * *? || ४२अ) उन्च्लेअर् ४२ब्) ओंकारपीठ मध्ये तु मुद्रितं परमे * *? | देव्या देशेन संप्राप्ता शतसप्त प्रमानकं || नन्दन्तु कुलयोगिन्या नन्दन्तु नन्दन्तु श्री कुलो * * * * * * *? कुलदीक्षिताः || समाप्तं श्रीक्रमोदयमिति || श्रीमत्करालग्रहहेतुना प्रकासितं महाज्ञानं सिद्धि मुक्ति फलप्रदं | यस्मिन देशित्वदंशास्त्रं गृहे वा यत्र तिष्ठति | योगपीठन्तु तद्गृहं || श्रीमहादेवेन लिखितमिदं पुस्तकं || सम्वत् ३०७ पौषशुदी शुक्रवारे | शुभम ओं एजलालय * * * * * * * * * * * * * * * * * * * * * * * ? | कटानां? *? त्र व्याघ्राण्डा काची कटीस्तु हास्यन् | विभ्रतण्डुलं च | चक्रं च | ध्वजादानं च दक्षिणे वः | ऐजनीलाजनसम्रप्रक्षाकुब्जिकभ्या महान् | षडवक्त्रा द्वादश भुजा | रत्नखर्यास्थिरं | धरारोद्री | द्रंष्ट्राकरास्य हास्य नीतस्यापित | ज्वलं वक्तुं | उतन स्वाम संनिभं | दक्षने हृष्टवर्णं च | जतसंमुखा * *? वक्त्र *? सस्थं स्फटिकोपम | सहस्र सुर्पसंकाशं मुर्द्धवक्त्रं परार्चितं | सर्वद्रंष्ट्राकरालानि वक्त्रन्युक्ता ########### END OF FILE #######