#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00213 Uniform title: yogasārasaṃgraha Commentator : vaktraśambhu Manuscript : IFP T0859 copied from D 4373 belonging to the GOML, Madras Description: IFP transcript T0859 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 5, 2010 Internet publisher : Muktabodha Indological Research InstituteWeb Publisher: Muktabodha Publication year : 2010 Publication city : Publication country : United States #################################################### || योगसारसंग्रहः || प्रणमामि गणेशानं प्रणवार्तिप्रभञ्जनम् | प्रसन्नं भजतामिष्ट प्रदातारं भवच्छिदम् || सुधांशुकोटिद्युतिमप्रमेयं सुधाकरस्मरे मुखारविन्दम् | योराजयोगामृतदान दक्षं श्रीदक्षिणामूर्ति गुरुं नमामि || श्रीशङ्करं पराशक्तिं गणेशं षण्मुखंहरिम् | ब्रह्माणं नन्दिकेशं च दत्तात्रेयं पतञ्जलिम् || नवयोगीन्द्रवृन्दांश्च व्यासं व्यासात्मजं भजे | आधारपद्मवन लोलन राजहंसी मन्तर्महागगनवासव चापरेखाम् | आनन्द विद्युतमनङ्गरिपोः पुरन्ध्रीमा ब्रह्मविष्णुजननीमभिवादयामि || मूलाधारमुखप्रसूनसुलभ ज्वाला समालिङ्गितां बालादित्य सहस्रकोटिरुचिमत्तन्तूपमामुन्मनीम् | तत्वातीतसदाशिवेन सततं संयोग वाञ्छापरां तत्वानामुपयाय कान्तिजननीं श्रीकुण्डलीं भावये || आपार पद्म शिखिहंसविमुक्तनिद्रा मक्षान्त वर्णमणि भूषण दिव्य गाजाम् | अर्कानिलेन्दु नयनामखिलैक बीजा- मम्बां भजे परसुधा परिषिक्त मूर्तिः || सिन्दूर सन्दोह निभां शुभाङ्गीं शिवस्यवामाङ्क विहारलोलाम् | तेनैव संलालितमन्दहासां भजामि गौरीं भवतारणाय || अष्टाङ्गादि समस्त योगकमल श्रीकुण्डलिन्याः परः ब्रह्मद्वारकवाट पाटन पटोमार्गस्य यल्लक्षणम् | तत्वातीत सदाशिवस्य निलयस्यात्म स्वरूपं च य त्तत्सर्वं प्रकटी करोमि च पुरा योगेषु यद्वर्णितम् || योगशास्त्राणि सर्वाणि सम्यगालोच्य सङ्ग्रहात् | योगसारमहंवक्ष्ये साधकानु जिघृक्षया || गुरूपदिष्टमार्गेण योगशास्त्रानु वर्तिना | वैराग्यशीलयुक्तानामिदं शास्त्रं प्रगीयते || तदुक्तं योगशांकरे - ज्ञानखड्गं दृढं कृत्वावैराग्यमय चर्म च | प्. २) दुर्लभे योगसंग्रामे शूरः कोटौ विराजते || गीतायाम् - अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते || इति | योगे नैव विमुच्यन्ते देहिनोभव बन्धनात् | नान्यथा मुक्तिरेतेषां जन्मकोटि शतैरपि || तदुक्तं योगशांकरे - नास्ति योगं विनामुक्तिः या मुक्तिर्योगदर्शिता | योगयुक्तश्चजानाति समुक्तो भवसागरात् || इति | निरोध एव चित्तस्य योग इत्यभिधीयते | योगाभ्यास वशेनैव परमात्मा प्रकाशते || तदुक्तं श्वेताश्वतरे - तावन्मनोनिरोद्धव्यं हृदि यावत् क्षयं गतम् | एतज्ज्ञानञ्च ध्यानञ्च शेषाश्च ग्रन्थविस्तराः || पतञ्जलिश्च योगश्चित्त वृत्तिनिरोध इति | विध्यन्तःकरणं बुद्धिर्मनस्तद्वृत्तिरुच्यते || अगमन्मे मनोऽन्यत्रेत्युक्त्वाक्त्या तद् ज्ञातुमर्हसि || द्विविधाचित्तवृत्तिः स्या च्छुद्धा शुद्धेति चोच्यते | अशुद्धा जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी || तदुक्तममृतबिन्दूपनिषदि - मनोहिद्विविधं प्रोक्तं शुद्धञ्चाशुद्धमेव च | अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् || मन एव मनुष्याणां कारणंबन्धमोक्षयोः | बन्धाय विषयासक्तं मुक्तं निर्विषयं गतम् || इति | द्वाभ्यामेव निरोधःस्या स्यात् सूर्येन्दुभ्यां यथा तमः | अन्यथा चित्त चलनं कदाचिन्ननिवार्यते || तदुक्तं पतञ्जलिना - उभयाधीनश्चित्त वृत्तिनिरोध इति | व्यासभाष्ये - अभ्यास वैराग्याभ्यां तन्निरोध इति || योगसाधनमभ्यासो विरागश्च निरीहता | द्वाभ्यामेव भवेद्योगो मन्त्रादिर्नैव संशयम् || मन्त्रो हठो लयोराजेत्येको योगश्चतुर्विधः | योगानामर्थ विज्ञानान्मुक्तो भवति नन्यथा || प्रत्याहारस्तथा ध्यानं प्राणायामोऽयधारणा | तर्कश्चैव समाधिश्च षडङ्गोयोग उच्यते || अयञ्च पूर्वपक्षः आदौ योगां गान्यष्टौ निरुप्यपश्चान्मन्त्रादि योगानां स्वरूपन्निरूप्यते | सूतसंहितायाम् - प्. ३) यमश्च नियमश्चैव तथैवासनमेव च | प्राणायामस्तथा विप्र प्रत्याहारस्तथा परम् || धारणा च तथा ध्यानं समाधिश्चाष्टमो मुने | अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् | क्षमा धृतिर्मिताहारः शौचञ्चैते यमादश || वेदोक्तेन प्रकारेण विनान्यत्र तपोधन | कायेन मनसावाचा हिंसाहिंसा न चान्यथा || आत्मा सर्वगतोऽच्छेद्यो नादह्य इति या मतिः | सा चा हिंसा पराप्रोक्ता मुने वेदान्त वेदिभिः || यत्र दृष्टेन्द्रियैर्दृष्टं श्रुतं वेदविदांवर | तस्यैवोक्तिर्भवेत् सत्याविप्रसा नान्यथा भवेत् || सर्वं सत्यं परं ब्रह्म नामान्यदिति या मतिः | तत्सर्वं परमं प्रोक्तं वेदान्त ज्ञानभावितैः || अन्यदीयेदृणेरत्ने काञ्चने मौक्तिकेऽपिवा | मनसापि निवृत्तिः स्यात्तदस्तेयं विदुर्बुधाः || आत्मनो नामभावेन व्यवहार विवर्जनम् | एतदस्तेयमित्युक्तमात्म विद्भिर्महात्मभिः || कायेन मनसा वाचा नारीणां परिवर्जनम् | ऋतुकालं विनास्वस्यां ब्रह्मचर्यं तदुच्यते || ब्रह्मचर्याश्रम स्थानां यतीनांनैष्ठिकस्य च | ब्रह्मचर्यं तथैवोक्तं तथैवारण्यवासिनाम् || ऋतावृत्तौ स्वदारेषु संगतिर्या विधानतः | ब्रह्मचर्यं तथैवोक्तं गृहस्थाश्रमवासिनाम् || राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् | विशोवृत्तवतां चैव केचिदिच्छन्ति पण्डिताः || शुश्रूवैव तु शूद्रस्य ब्रह्मचर्यं प्रकीर्तितम् | ब्रह्म भावेमनश्चारं ब्रह्मचर्यंपरं तथा || इति || स्वात्मवत्सर्वभूतेषु कायेनमनसागिरा | अनुज्ञायादयासैव प्रोक्ता योगांगवेदिभिः | मित्रे पुत्रे कलत्रे च रिपौस्वात्मनि सन्ततम् || एक रूपं मुने यत्तदार्जवं प्रोच्यते बुधैः | कायेन मनसावाचा शत्रुभिः पीडिता च सा || प्. ४) बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव | वेदादेव मुनेर्मोक्षः संसारस्य न चान्यथा || इति विज्ञान निष्पत्तिः धृतिः प्रोक्ता च वैदिकैः | अहमात्मान चान्योऽस्मीत्येवं या प्रस्थिरामतिः || सा प्रोक्ता विधृतिश्श्रेष्ठा मुनिभिर्वेदपारगैः वादिभिः | अल्पमृष्टाशनाभ्यान्तु नास्तियोगः कथञ्चन || तस्माद्योगानुगुण्येन भोजनं मितभोजनम् | विश्वेश्वरः - हितं मितञ्चयश्चान्नंयच्चान्नं नैव जीर्यते || धातुः प्रकुप्यते तस्मात् तदन्नं परिवर्जयेत् | योगसारमञ्जर्याम् - आहाराच्छिद्यते योगी कृष्णपक्षे तु चन्द्रमाः | शुक्लपक्षे यथा चन्द्रोमिताहारः प्रवर्तते || गीतायाम् - नात्यश्नत्श्च? योगोऽस्ति न चैकान्तमनश्नतः || इति | सूतसंहितायाम् - स्वदेह मलनिर्मोक्षं मृज्जलाभ्यां महामुने | युक्तशौचं भवेद्वाह्यं मानसं मननं विदुः || अहंशुद्ध इति ज्ञानं शौचं वाञ्छन्तिपण्डिताः | ज्ञान शौचं परित्यज्य बाह्ययोरमते नरः || समूढः काञ्चनं त्यक्त्वा लोहं गृह्णाति सुव्रत | ज्ञानाम्भसैव शुद्धस्य कृतकृत्यस्य योगिनः || कर्तव्यं नास्तिलोकेऽस्मिन्नस्ति चेन्न सतत्त्ववित् | अथ नियमः - याज्ञवल्क्यः - तपस्सन्तोषमास्तिक्यं दानमीश्वरपूजनम् | सिद्धान्त श्रवणं चैव ह्रीमतिश्च जपा व्रतम् || एते च नियमाः प्रोक्ताः योगविद्भिर्महात्मभिः | ता नहं क्रमशो वक्ष्ये शृणु श्रद्धापुरस्सरम् || वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः | शरीरशोषणं यत्तत् तप इत्युच्यते बुधैः || यदृच्छा लाभतोनित्यमलं पुंसां भवेदिह | या वीस्तामृषयः प्राहुस्सन्तोषस्य च लक्षणम् || धर्माधर्मेषु विश्वासो यस्तदास्तिक्यमुच्यते | न्यायार्जित धनं चान्नं शुद्धया वैदिके द्विजे || अन्यद्वायत् प्रदीयन्ते तद्दानं प्रोच्यते मया || प्. ४) वैदिकाय च विप्राय यद्दत्तं वस्तु शोभते | नोपकारायदत्तं स्याद्भस्मनीव हुतंहविः || आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् | यथा शक्त्यर्चनं भक्त्या यत्तदीश्वर पूजनम् || इति | सूतसंहितायाम् - रागाद्यपेतं हृदयं वागदृष्टानृतादिना | हिंसादिरहितः कायः एतच्चेश्वरपूजनम् || सत्यं ज्ञानमनन्तञ्च परानन्दं परं ध्रुवम् | प्रत्यगित्यवगन्तव्यं वेदान्त श्रवणं बुधैः || सिद्धान्त श्रवणं प्रोक्तं पुराणश्रवणं बुधैः | वेदवैदिकमार्गेषु कुत्सितं कर्म यद्भवेत् || तस्मिन् भवति या लज्जा हीश्च सैवेति कीर्तिता | वैदिकेषु च सर्वेषु श्रद्धयामतिर्भवेत् | गुरुणा चोपदिष्टोऽपि तत्र संबंध वर्जितः || वेदोक्ते नैव मार्गेण मन्त्राभ्यासो जपः स्मृतः | कल्पसूत्रे तथा वेदशास्त्र पुराणके | इतिहासे प्रवृत्तिर्या सा जपः प्रोच्यते मया || या वेद बाह्यास्मृतयो याश्चकाश्च कुदृष्टयः | सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हितास्स्मृताः || गीतासु - श्रेयान् स्वधर्मोविगुणः परधमात्स्वनुष्टितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः || इति | तस्मात् सर्वं प्रयत्नेन वेदमन्तं सदा जपेत् | जकारो जन्मनाशः स्यात् पकारात्पापनाशनम् | जन्मपापविनाशित्वाज्जप त्युच्यते बुधैः || जपश्च त्रिविधः प्रोक्तः वाचिकोपांशु मानसः | मानसो मनसाप्रोक्तो ह्युपांशुर्जिह्वया स्मृतः || उच्चैर्जपो वाचिकः स्यात् इति वेदविदांवरः | मानसं तु सहस्रं स्यादुपांशुश्शतमुच्यते || वाचिकस्त्वेक एकः स्यात् जप लक्षणमीरितम् | विश्वामित्रः - यदुच्चनी च स्वरितैः शब्दैः स्पष्टं पदाक्षरैः || मन्त्रमुच्चारयेद्विप्रो जपयज्ञस्सवाचिकः || स्वरवर्णपदैर्वाक्यं शुद्धमावर्तयेज्जपन् | प्. ६) न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रपीडयेत् | नीचैश्श्रुतो भवेद्भार्गीण्यश्रुतं सफलं भवेत् || ऋषिश्छन्दो देवताश्च ध्यायन् मन्त्रं च सर्वदा | यस्तु मन्त्रं जपेद्भार्गीं तदेव हि फल प्रदम् || प्रसन्न गुरूणापूर्वमुपदिष्टत्त्वनुज्ञया | धर्मार्थ कामसिद्ध्यर्थं यत्तु तद्वत मुच्यते || इति | अथासन क्रमः - अथासन क्रमं वक्ष्ये साधकानां हिताय वै | यदभ्यास क्रमेणैव स्थिरत्वं सुकरं भवेत् || योगसारमञ्जर्याम् - वीरं कूर्मञ्च सुदृढं स्वस्तिकं कुक्कुटासनम् | मयूरं विजयं चैव पद्मं व्यासासनं तथा || दृढासनं च वृषभं गारूडं गजमेव च | सिद्धं सिंहासनं चैव प्रवक्ष्यामि यथा विधि || समाधाय शुचौ देशे हृद्य वस्त्रोत्तरच्छदे | जङ्घां च दक्षिणां न्यस्य सम्यग्वामो रूमूर्धनि || समग्रीवशिरो वक्षोहस्तौ विन्यस्य चोपरि | आकुञ्च्य गुदमेकाग्रो वीरासनमिदं परम् || अनेनाभ्यासयोगेन योगारूढः प्रसिद्ध्यति | न चाभ्यासविधौ चैतश्शष्यते शीघ्रसिद्धये || तस्यैव दक्षिणे जंघां न्यसेद्वामोरु मूर्धनि | कूर्मासनं तु विज्ञेयं सर्वेन्द्रिय वशंकरम् || दक्षपादं च वामोरुमूले विन्यस्यतत्पदम् | दक्षोरु मूलपीठार्थं कल्पयेत् सुदृढासनम् || बाहुयुग्मं समुत्सृज्य स्वस्तिकासनमीरितम् | सर्वसिद्धिप्रदं देवि सर्वरोगविनाशनम् || वामगुल्फमधः कृत्वा कृत्वोपरि च दक्षिणम् | गुदे ना पीड्यवैजान्वोः युगलं परिपात्य च || वामहस्तांगुली मूलेष्वत्वाष्टभ्य यथा तलम् | दक्षहस्तांगुलीमूले परिवर्त्य च तत्तले || ऊरुमूलद्वयं पीड्यघ्राणाघ्रे स्थापयेद्दृशौ | कुक्कुटासनमेतद्वै मनसः स्थैर्यकारणम् | ऊरुमूल द्वयेस्थाप्य पाद युग्मं निधाय च || प्. ७) तयोर्मध्ये स्थिर गुदः पृष्टमुन्नम्य निश्चलः | तथा करतलद्वन्द्वं समासीनः परस्परम् | ऊर्वोरु परिविन्यस्य नासिकामवलोकयेत् | मयूरासनमेतद्वै सर्वव्याधिविनाशनम् | एतस्य बाहु युगलं कारयेद्दण्ड युग्मवत् || करद्वय तलं भूमौ पुटाकारेणधारयेत् | किञ्चिदानम्रित तनुः निश्चलास्थिरमानसः || पादौ निलोकयेद्रम्यं समासीनः समाहितः | व्यासासनमिदं सद्यो व्याधिघ्नं योगसिद्धिदम् || वामपादमथोत्तानं कृत्वादक्षोरुमण्डले | दक्षपादं च वामोरौ दक्षपादं च वामोरौ तथा भूतं निधापयेत् | ऊरुभ्यामुपरिस्थाप्य बाहुं त्यज्य यथा यतः | कर पृष्ठं च दक्षाख्यं व्यसेद्वामतलान्तरे || ऋजुग्रीव शिरोभूत्वा नासिकामवलोकयेत् | न निमीलन्नचोन्मीलन् कुर्यादाकुंच्य वै गुदम् || समदेह स्थिरमतिः पद्मासनमिदं परम् | सर्वयोग प्रसिद्ध्यर्थमभ्यसेद्भवभित्तये || वामजङ्घोपरिस्थाप्य दक्षजंघांजितेन्द्रियः | दक्ष जंघोदरेमूले गुल्फपार्श्वेन्निधापयेत् || हस्तादिमति पर्यन्तं पद्मासनवदाचरेत् | विजयासनमेतद्धि सर्वसिद्धिकरं परम् || ऊरुभ्यामुपरिस्थाप्य पादयुग्मं प्रयत्नतः | दक्षिणं सव्यदेशे च सव्यं दक्षिण देशके || करद्वयं पृष्ठदेशे परिवर्त्य प्रयत्नतः | पादांगुष्ठ द्वयंसम्यक् कराभ्यांसंनिगृह्य च || किञ्चिदुत्तान हृदयो नासिकामवलोकयेत् | दृढासनमिदं प्रोक्तं सद्योरोगविनाशनम् || वाम गुल्फक पृष्ठे तु दक्षगुल्फं निधापयेत् | पातयित्वा महेशानि जानु युग्मं महीतले || ऊर्वोः कूर्परमाधारं कृताञ्जलि पुटौ करौ | कुञ्चच्चिबुकसंयोगं नासिकाग्रंविलोकयेत् || गरुडासन मेतद्वै सर्वसिद्धिकरं परम् | गुदेन पीड्यधरणीं पादाभ्यामपि संस्फुटम् || प्. ८) जान्वोरूर्ध्वकरौ स्थाप्य स्थिरदेहो भवेद्दृढम् | एतद्गजासनं सर्वविघ्न विच्छेदकारकम् || ऊरूयुङ्मूलपीठार्थं जंघे चा श्लिष्यपार्वति | पादयुक् पश्चिमं न्यस्य पर्यङ्कोनदृढं तनुम् || गुल्फेन गुदमा पीड्य सव्यं गुह्योपरिक्षिपेत् | समदेहः स्थिरोभूत्वा शुद्धासनमिदं परम् || सर्वसिद्धि प्रदं देवी सर्वव्याधिविनाशनम् | जंघाभ्यामूरु युग्मं च समाश्लिष्यनिपात्य च || कूर्परौ स्तम्भवत् कृत्वा पार्श्वेनैकेन संश्रयेत् | एतत् प्रोक्तं मया देवि वृषभासन मुत्तमम् || सर्वरोगविधातार्थे प्रोक्तमेतन्महात्मभिः || इति | आदिनाथेन निर्णीत मासनं वक्ष्यतेऽधुना | तत्कुर्यादासनं स्थैर्य मारोग्यं चांगपादवम् || जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे | ऋजुकायः समासीनः स्वस्तिकं परिचक्षते || सव्ये दक्षिणगुल्फं तु पृष्ठ पार्श्वे निवेशयेत् | दक्षिणेऽपि तथा सव्य गोमुखं गोमुखं यथा || गुदं निष्पीड्य गुल्फाभ्यां व्युत्क्रमेणसमाहितः | कूर्मासनं भवेदेतदिति वेदविदां मतम् | पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ || निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् | कुक्कटासन बंधस्थोदोर्भ्यां संगृह्य कंधरम् || शेते कूर्मवदुत्तानंमेतदुत्तान कूर्मकम् | पादांगुष्ठौ तु पाणिभ्यां गृहीत्वाश्रवणावधि || धनुराकर्षका कृष्टन्धनुरासनमीरितम् | वामोरुमूलार्पित दक्षपादं जान्वोर्बहिर्वेष्टित वामदोष्णान् | प्रगृह्य तिष्ठन् परिवर्तितां गोमत्स्येन्द्र नाथोदितमासनं न्यसेत् || मत्स्येन्द्र पीठं जठर प्रवृद्धं पचण्डरुङ्मण्डल खण्डनास्त्रम् | अभ्यासतः कुण्डलिनी प्रबोधं शुद्धस्वरूपं च ददाति पुंसाम् || प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितयं गृहीत्वा | जानू परिन्यस्त ललाट देशो भवेदिदं पश्चिमताणमाहुः || यदि पश्चिमताणमासनाग्र्यं पवनं पश्चिमवाहनं करोति | उदरे जठरानलो ज्वलस्स्यात् उदरे कार्श्यमरोगता च पुंसाम् || धरामवष्टभ्यकरस्थलाभ्यां तत्कूर्परस्थापित नाभिपार्श्वम् | प्. ९) उच्चासनोदण्ड वदुत्थितः खे मयूरमेतत् प्रवदन्ति पीठम् || उत्तानशववद्भूमौ शयानन्तं शवासनम् | सर्वासनश्रान्तिहरं चित्तविश्रान्ति साधनम् || मुख्यं सर्वासनेष्वेवं सिद्धासिद्धासनं विदुः | ऊरुयुङ्मूलपीठार्थं जंघे चाकुंच्य पार्वति | पादयुक् पश्चिमे न्यस्य पर्यङ्के सदृढन्तनुम् || गुल्फेन गुदमापीड्य सव्य गुह्यो परिक्षिपेत् || समदेह स्थिरो भूत्वा सिद्धासनमिदं परम् | सर्वसिद्धिप्रदं देवि सर्वव्याधि विनाशनम् || चतुराशीतपीठेषु सिद्धमेवसमभ्यसेत् | द्विसप्ततिसहस्रेषु सुषुम्नामिवनाडिषु || आत्मध्यायोमिताहारी यावद्द्वादशवत्सरम् | सदा सिद्धासनाभ्यासा द्योगनिष्पत्तिमाप्नुयात् || श्रमदैर्बहुभिः पीठैरलं सिद्धासने सति | प्राणानिलं सावधानं बद्धे केवलाकुम्भके || उत्पद्यते विनायासात् स्वयमे वोन्मनी च सा | तथैकस्मिन्नेव बद्धे सिद्धासने सदा | ग्रन्थित्रयमनायासात् स्वयमेवोपभिद्यते | आसनं सिद्धि सदृशं न कुम्भः केवलो जपः | न खेचरे समामुद्रा न नाद सदृशो लयः || गुल्फौ च वृषण स्याथ स्वीविन्याः पार्श्वयोः क्षिपेत् | दक्षिणे सव्यगुल्फं तु वामे दक्षिण गुल्फकम् || हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीस्संप्रसार्य च | व्याप्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः | सिंहासनं भवेदेतत् पूजितं योगिभिः सदा || गुल्फौ च वृषणस्यायस्वीविन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादे च पाणिभ्यां दृढं बध्वासु निश्चलः || भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् | गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः || आसनं त्रिविधं प्रोक्तमेकत्रा वासमेव च | कुशाद्यासनमेकं च सिद्धाद्यासनमेव च || यावत्संकल्पितः कालस्तावदेकत्र संवसेत् | क्रोशान्नपर्यटे दूर्ध्वमचलं प्रोच्यते बुधैः || प्. १०) शुचौ देशे प्रतिष्ठाप्य स्थिरमात्मन आसनम् | नात्युच्छ्रितं नाति नीचं चेलाजि न कुशोत्तरम् || तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्यात् योगमात्मविशुद्धये || बधिप्रदेशे मरुभूमिमण्डले सदामरुद्घोषित कीकटस्थले | वल्मीकयुक्ते बहुजीवसङ्कुले किरातभूयिष्ठकुराजमण्डले || योगसारमञ्जर्याम् - नदंशमशका कीर्णेन च श्वापद सेविते | नदी समुद्रतीरेवा न जलाशय सन्निधौ || श्मशाने चैत्यवृक्षे वा न महाजनसन्निधौ | अराजके देशसन्धौ वल्मीकादि समाकुले || इति | शुचौ देशे मनोरम्ये निश्शठे जनवर्जिते | शोधिते घटिते स्निग्धे निम्नोन्नतविवर्जिते || हठयोगे - तत्र रम्येमठं कुर्यात् सूक्ष्मद्वारञ्च निर्व्रणम् | प्राकार चेष्टितं शुद्धं बहिजाला समन्वितम् || सुगन्ध कुसुमाकीर्णे वितानाशोप शोभिते | तत्रोपधान शययाद्यैरासनाद्यैः समाकुलम् || सुधूप वासितं नित्यं गोमयेनोपलेपितम् | समित्पुष्पदलोपेतं कन्दमूल फलान्वितम् | समग्र भस्म रुद्राक्ष कुशोदकविभूषितम् | शुद्धान्न व्यञ्जनैः पूर्णं सर्वौषधि समाश्रयम् || इति | हठयोगे - शैवे - अल्पद्वारमरन्ध्रगर्त पिटकंनात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निश्शेषबाधोज्झितम् | बाह्ये मण्टपवेदिकूपरुचिरं प्राकार संवेष्टितं प्रोक्तं योगिमठस्य लक्षणमिदं सिद्धेर्हठाभ्यासिभिः || इति श्रीदत्तात्रेयविरचिते योगसंग्रहे यमनियमासन स्थान निर्णयोनाम प्रथमोऽध्यायः || नाडी | नाडीस्थानं च तद्वर्णं प्राण कर्म च विस्तरात् | ज्ञात्वा योगीशनैर्नाडी शुद्धिं सम्यक् समारभेत् || तत्र शिवः | सुषुम्नादशमद्वाराहर दाराश्चमध्यमा | नागश्चन्द्र स्वर्गमुखी मशकामध्यनाडिका || पम्पालिनी मराकारी बालशक्ति तपस्विनी | शंखिनी नलिनी गौरी शिखिनी व्यापिनी गुहा || प्. ११) मासोपवासी त्रिपुरात्रिवेणी मन्दाकिनी सर्वरुजापहती | सा कोकिलाभ्राजपदा च सिद्धा वज्राख्यदन्तामरशून्यनावी || अनाकार मुखीकन्द संहारातिग्मसूचिका | शंखिनीशिव जालंध्र वियद्गङ्गोर्ध्व वाहिनी || पश्चिमोर्ध्व सरित्कारी मुखा कपिलपीलिका | आकुला सिद्धमुनिवन्दिनी ततो मणिकुलं हरिविरिञ्चिगोचरा | विषमसन्धिरपि वायुसूत्रकं तदनुघटति यद्वासरश्रियम् || मरुरिन्द्रमणिमोक्षसाधनी संगमात्र तदेह नायकी | पद्मिनीत्रिदशवल्लभा वियद्ग्रन्थिवंशमणिमार्ग इत्यपि || योगसारमञ्जर्याम् -नारदीये च - ब्रह्मद्वारे त्रयोग्रन्थिर्वामीक पालिनी तथा | त्रिगन्धिर्मत्य सर्वा च मण्डनी स्याद् मूलिकम् || मृणालतन्त्रत्रिलिंगा तथा सर्व रसोऽपि च || आदिनाथः | कन्दमध्ये स्थितानाडी सुषुम्नेति प्रकीर्तिता | चक्रेऽस्मिन्परितोनाड्यस्तिष्ठन्त्या पादमस्तके | नारायणे - सन्ततं सिराभिश्चलम्पत्या कोशसन्निभम् | तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् || इति | मुक्तिदेव्यागमेत्युक्ता सुखदा विश्वधारिणी | स्वतः प्रतिष्ठिता पूर्वा सुमनाशुद्धनिर्मला || पृष्ठमध्ये स्थितानाडी सदा मूर्ध्निव्यवस्थिता | सूक्ष्मा श्रीवैष्णवी शुभ्रा विजया व्यक्तसंज्ञिका || जिह्वादारा निलचाराचोर्ध्वाध्वाचाति गुप्तका || भैरवः - सुधाख्या मध्यगाचैव ब्रह्ममार्गा सरस्वती | त्रिमूर्ति निलया लोक धामा श्रीसर्वसंभवा || योगिगम्या खगाकारा मंगलामातृरूपिणी || इति | दत्तात्रेयः | द्यौस्सन्तिश्चैव सङ्क्रान्तिः कारण विश्वधारिणी | प्रज्ञान निलया नित्या साध्या केदार संज्ञिका || कैलासश्चैव वैकुण्ठं कालमासाब्दमेव च | विष्ण्वाद्यनेक नामानि योगशास्त्रेषु निश्चितम् || इति | शिवयोगे - ब्रह्मेन्द्र सात्विकमदातुर सृष्टिवाणी- न्वारिद्विलक्ष शशिशीतल चन्द्रगङ्गा | स्याद्वारुणी च खदिरा च कलङ्कवामा संहार एव शिववर्य निजाभिधास्युः || पिङ्गलाम्भोजिनी सूर्या यमुनाग्निरहस्मृतः | इडा च वाम निश्वासा पिंगलादक्षिणा स्मृतः || प्. १२) गङ्गा च यमुना चैव चन्द्रसूर्यौ निशादिवौ | सूतकं प्रेतकं चैव पक्षद्वय मुदाहृतम् || धर्माधर्मौ तमो रक्तावयष्द्वयमुच्यते | सितासिते वारणासि हंसद्वयपदं विदुः || शिवशक्ति पदं चैव सुषुम्नापाश्वयोः स्थितः || कलाकाष्ठौ मुहूर्तश्च कारणं विश्वदेहिनौ | पञ्चभूत स्वरूपेते पञ्चब्रह्ममये स्फुटे || गन्धद्वारे कलाचारे प्रवाहौ जन्महेतुकौ | अतिधूमयमाकीर्णौ योगिवश्यौ सनातनौ || मानसेन समायुक्ता विन्द्रियाणां प्रवर्तकौ | प्राणापान स्वरूपौ तौ जगत्कर्म प्रवर्तकौ | वर्णद्वयात्मकौ शुद्धौ नानावर्णप्रभेदकौ | पञ्चस्थलसमाविष्टौ त्रिपञ्चप्राणरूपकौ || सर्वेषां प्राणिनामेव देहकाल प्रवर्तकौ | प्राणवायुरयं नित्यं कालनिर्णयकारणात् || इडायां पिङ्गलायाञ्च श्वासरूपेण वर्तते | एतद् द्वयं विना जीवो न तिष्ठति न संशयः || सुषुम्नाग्नि कलाप्रोक्ता तिसृभिः सर्वदा भवेत् | सुषुम्ना वाहनं तत्र नैव जानन्ति मानवाः | तया विदन्ति सुज्ञानं देवाः परमयोगिनः || इति | प्रणवचिन्तामणौ - शरीरादधिकः श्वासो निर्गमो द्वादशांगुलः | प्रवेशेऽष्टांगुलोमध्ये विनष्टश्चतुरंगलः || शारीरे - षष्ट्युत्तरैश्च त्रिशतैः श्वासैरेका तु नाडिका | पञ्चभिर्नाडिकाभिश्च राशिरेकः प्रकीर्तितः || दिनं जानाति मेषान्तैरेवं द्वादश राशिभिः | चर स्थिरो भयात्मानो भवेयुश्श्वास संयुतः || चरात्मकास्तु चत्वारो वामभागे व्यवस्थिताः | स्थिरात्मकाश्च याम्येस्युरुभयत्रो भयात्मकः | मेष कर्कटकश्चैव मकरश्चतुला तथा || चत्वारो राशयस्त्वेते वामभागे व्यवस्थिताः | वृश्चिकश्च वृषः सिंहः कुम्भोदक्षिणभागतः || कन्यामीनौ धनुर्युग्ममुभयत्र व्यवस्थिताः | भूतं भव्यं भविष्यं च शुभाशुभफलं तथा || प्. १३) राशिष्वेतेषु भूतेषु विज्ञातव्यं ग्रहोदयात् | एकैकस्मिन् भवन्त्यत्र राशौ भूतानि पञ्च च || वायुर्वह्निस्तथा भूमिरापः खमिति पञ्चवै | सर्वेषामपि राशीनां वायव्याद्यातु नाडिका || द्वितीया नाडिका ज्ञेयी तृतीया पार्थिवामता | चतुर्थी वारुणी ज्ञेया व्योमाख्या पञ्चमी स्मृता || नासे पार्श्वे वहेद्वायु वायंव्यां शेषुराशिषु | आग्नेयांशे चरत्यूर्ध्वे पार्थिवेस्तम्बपार्श्वतः || नासिकाया ह्यधो वायुर्वारणांशे भवेत्तदा | नासा मध्ये भवेद्वायुर्व्योमांशे वहति स्फुटम् || गुरुराणूश्च वायव्ये चरतोग्नौ भृगुः कुजः | भूम्यां बुधर वीज्ञेयौ जले चन्द्रशनैश्चरौ || आकाशे विग्रहं विद्यादेवं सर्वेषु राशिषु | पूर्वोदिताश्च सर्वत्र सौम्याः पापास्त्वनन्तराः || राहुः कुजौ रविस्सौरिरेते दक्षिणतः शुभाः | गुरुर्भृगुर्बुधश्चन्द्रस्सव्ये सौम्याः शुभावहाः || पापाश्च शुभदास्सव्ये सौम्याः पापफला इमेः | प्रवेशे शुभदाः सव्ये निर्गमे चा शुभावहाः || एवं राशिस्यभूतेषु ग्रहोदयवशाद्बुधः | शुभाशुभं सदा ज्ञात्वा पृष्टः सर्वं वदेत् ततः || यत्र वायुः स्थितस्तत्र पृष्टश्चेत् सुखमेव तत् | यस्मिन् भागे मरुन्नास्ति तत्रस्थश्चेद्वृथा भवेत् || अग्रस्थो यदि चेत्पृष्ठस्तस्य दक्षिणवत्फलम् | पृष्ठ स्थितस्य तस्यापि सव्यं तत्फलमुच्यते | भोजनं मैथुनं युद्धं फलसंग्रहणे तथा | कुर्यादेतानि कर्माणि वायौदक्षिणतः स्थिते | वामे च वायुवह्नौ च न कुर्याद्गमनं बुधः | गच्छेद्यदि तदा मोहाद्ब्रह्मा पिननिवर्तते || पार्थिवे वारुणांशे च गमनं सुखसाधनम् | व्योमांशेऽपि न गन्तव्यं कदाचिदपि यत्नतः || यदि सव्यादि राशौ तु वायूदय विपर्यये | चित्तक्षोभो भवेत् तेन कार्यहानिश्च जायते || द्वितीये चैव राशौ तु यात्रा दुःखं भविष्यति | चतुर्थे बहुनाशं स्यात् पञ्चमे दिशिविग्रहः || प्. १४) षष्ठे च प्रत्यवायं स्यात् सप्तमे रोगसंभवः | अष्टमे मरणं विद्यान्नवमे बुद्धिनाशनम् || दशमे देहसन्तापः परस्मिन् मित्रनाशनम् | दिवसस्यान्तराशौ च सर्वतो दुरितं भवेत् || राशिष्वेतेषु भूतानां स्थानेष्वपि विपर्यये | सर्वभूतभयं विद्यात् राज्ञो च रुचिरं भवेत् || वायुचार वशादेव शुभाशुभ परीक्षणम् | कुर्याद्दिने दिने विद्वानेवं सर्वेषु राशिषु | अयुते च सहस्रं च षट्शतानि तथैव च || श्वासं प्रयान्ति निर्यान्ति जन्तूनां तु दिने दिने | दिनानां पञ्चदशतः पक्षः पूर्वापराह्वयः | ताभ्यामेको भवेन्मासो मासौद्वौ तु ऋतुर्भवेत् || ऋतुभिश्च त्रिभिर्विद्यात् अयनं तद्द्वयं समाः | आयुरब्दशतं प्रोक्तं तन्न्यूनं श्वासविप्लवात् || यावत्कालं तु यस्या युस्तत्तच्छ्वास प्रमाणकम् | श्वास काल बलादेव मृत्युकालः परीक्षताम् | वत्सरस्यादि काले तु राञ्जाने चोत्तरायणे | अनन्तरं बहिर्वायुर्दक्षिणे पञ्चनाडिकाः || ततः सव्ये तथा पञ्चशतायुश्चेदयं भवेत् | घटिका षड्वसेद्यस्य तस्माशीतिरितीरितम् || घटिका सप्तयस्यस्युर्द्विषष्ट्यायुस्स विन्दति | घटिकाष्टौ यदि चरेत् पञ्चाशत्तस्य निर्दिशेत् | घटिकानां नव चरेत् त्रयस्त्रिंशत्समावधि || नाडिकानां दशवहेत् अष्टाविंशत्समाः स्मृताः | दिवसार्धं वहेद्वामे पञ्चविंशत् वत्सराः || दिवायस्य चरेद्वायुः द्वादशाब्दंस जीवति | अहोरात्रं वहेद्वायुर्दशाब्दं तस्य जीवितम् || दिनद्वयं वहेद्वायु रष्टवर्षाणि जीवति | दिन त्रयं वहेद्वायुः पञ्चवर्षाणि जीवति | चतुर्दिनं तु यस्य स्यात् चतुरब्दंस जीवति | पञ्चरात्रं वहेद्वायुस्तस्या युर्वत्सरत्रयम् || दशरात्राद्विवर्षं स्यात् पक्षादायुश्च वत्सरम् | विंशद्दिनं वहेद्यस्य षाण्मासं तस्य जीवितम् | पञ्चविंशद्दिनादायुः त्रिमासं तस्य जीवितम् || प्. १५) षड्विंशति दिनान्मासद्वयमायुः प्रकीर्तितम् | सप्तविंशद्दिनं वामे मासमेकं सजीवति || अष्टाविंशतिरेतस्मिन् मासार्धं तस्य जीवितम् | एको न विंशदस्मिंश्चेद्दशाहतं तस्य जीवितम् || त्रिंशद्दिनं वहेद्वामे पञ्चरात्रं स जीवति | द्वात्रिंशद्दिनस्ना?देकान्दिनमायुः प्रकीर्तितम् || त्रयस्त्रिंशद्दिना त्रिंशद् घटिकाजीवनं भवेत् | आरभ्य चायनं वायोश्चरादूर्ध्वं फलंत्विदम् | आरभ्यायनकालान्तं भाग एव तु दक्षिणे || यथोक्त सर्व संक्रान्तिमारभ्य दिनपञ्चकम् | वायुर्यस्य वहेद्याम्ये त्रिवर्षं तस्य जीवितम् || चैत्रमासस्य संक्रान्तिमारभ्य दिनपञ्चकम् | वायुर्यस्य वहेद्याम्ये सोऽष्टादश समावधि || एवमेव वहेद्यस्य सव्यभागे तु मारुतः | नानाविध भयं तस्य मृत्योरन्यत्र विद्यते || यस्य कस्य च मासस्य शुक्लपक्षस्य चादितः | परीक्षेत तदा मृत्युं वायुचारवशाद् बुधः || याम्ये यदि वहेद्वायुरेका होरात्रमेव च | वर्षत्रयाद्भवेन्मृत्युः द्विदिने मृत्यु द्वयम् || त्रिदिने वत्सरामृत्युर्द्दशा हे मासतो मृतिः | मासं त्वेकदिने मृत्युरेवं सौम्ये वहेद्यदि || रोगश्च धननाशश्च मनस्संप्ताप विग्रहौ | एवं चोभयतश्चारे यावत्तत्फलमुच्यते | स्थिरे सप्तमराशौ तु सविता यदि चन्द्रमाः | जन्मराशि स्थितस्तत्र सावित्रोयोग उच्यते | अस्मिन् काले वहेद्वायुरेकत्रार्धदिनं यदि || चतुर्दशाब्द पर्याप्तं तस्य मृत्युर्भविष्यति | सावित्रं योगमारभ्य दिनमेकं वहेद्यदि | द्वादशाब्दं च पर्याप्तं मृत्युं तस्य विनिर्दिशेत् | स याति नाशमुद्ध्वान्ते अहोरात्रे दशाब्दकम् | एवं दिनद्वयं यस्य तस्या युस्त्वष्टमाब्दकम् || एवं दिनद्वयं यस्य षड्वर्षं तस्य जीवितम् | एवं चतुर्दिनं यस्य तस्यायुश्चतुराब्दिकम् || एवं पञ्चदिनं यस्य त्रिवर्षं तस्य जीवितम् | एवं योगं समारभ्य वहे दष्ठदिनं तथा || प्. १६) षट्त्रिं शदधिकं सार्धं द्विवर्षं तस्य जीवितम् | योगमेवं समारभ्य द्वादशाहं भवेद्यदि || द्विसप्तत्रिदिनन्यून द्विवर्षं तस्य जीवितम् | योगमेवं समारब्यय चतुर्दशदिनं भवेत् | चतुर्थीसात्मकं सार्धं वत्सरं तस्य जीवितम् || एवं पञ्चदिनाहं चेत् वत्सरान्ते मृतिर्भवेत् | योगमेवं समारभ्यषोडशाहं वहेद्यदि | तमारभ्य वहेत्सप्तदशाहांत्वेक पार्श्वतः || षट्त्रिंशद्दिनहीनाब्दे यमास्यं यातिनिश्चितम् | एकोन विशतिश्चेत् स्यात् अष्टमासान्मृतिर्भवेत् || विंशद्दिनं वहेद्यस्य षण्मासान्मरणं भवेत् | स्यादेकविंशतिर्यस्य द्विमासान्मरणं भवेत् || एकोनत्रिंशददह्नाश्चेत् दशाहं तस्य जीवितम् | त्रिंशद्दिनं वहेद्यस्य पञ्चाहान्मरणं भवेत् | एकत्रिंशद्दिनं यस्य त्रिरात्रान्मरणं भवेत् || द्वात्रिंशद्दिनमेकं त्रिद्व्यत्र्यहान्मृत्यु रुदाहृतः | त्रयस्त्रिंशद्दिनं स्याच्चेदेकाहान्मरणं भवेत् || सव्ये यदि वहेदेव मुक्त काले हि मारुतः | पुत्रमित्रकलत्रार्थ वृत्तिबंधुविनाशनम् || अन्यैर्वापि नरश्चिह्नैर्बाह्यैरपि तथैव च | कालाकाल परिज्ञानं कर्तव्यं तु विचक्षणैः || इति गोक्षः || काशीखण्डे - सन्ध्ययोरूपविष्टोयः पयेद्धूम्रं स्वमूर्धजम् | पञ्चाह्नां वै भवेत्तस्य मरणं वत्सर त्रयात् | चतुर्दिनं यदि भवेत् मरणं वत्सरद्वयम् || त्रिदिनं च भवेद्यस्य मरणं चैक वत्सरम् | श्रोत्रद्वयेऽपि हस्ताभ्यां पिहिते वै ध्वनिःश्रुतः || वह्नेरन्तः स्थितस्यापि नास्ति चेद्वत्सरान्मृतिः | गतेरुभययोर्भागे युगपन्निर्गमेयदि | ब्रह्मसूत्र विनाशो वा नाशस्तस्यापि वत्सरात् || स्थौलं चा कस्मिकं यस्य कार्यं चा कस्मिकं भवेत् | अतिक्रोधोऽति रोगो वा नाशस्त स्थापि वत्सरात् | विण्मूत्रं च क्षयं चैव युगपत्संभवन्ति चेत् || तन्मासे तत्तिथौ वर्षे मृत्युस्तस्योपविद्यते | गन्धर्वनगरं पश्येत् वृक्षाग्रे यदि कुत्रचित् || तस्यापि वत्सरा दर्वाक् मृत्युना परिबाध्यते || यदि वा कस्मिकं वापि स्वदेहं कृष्णपिंगलम् | प्. १७) वसेद्वर्षात्परं तस्य मरणं परिकीर्तितम् || गृध्रैश्च काक गोमायुखरोष्ट्रैस्सैरिभैस्तथा | शरीरं भक्षितं यस्य मरणं तस्य वत्सरात् || स्वप्ने वापिभवेदेतैर्भक्षितोदेह आतुरः | अन्यैर्वावत्सरान्मृत्यु भविष्यति न संशयः || आकाशात्पतितं भानुमिन्दुं भानुविवर्जितम् | यः पश्येन्मृत्युरेवस्या दर्वागब्दार्धवत्सरात् || नक्षत्रमञ्जनाभं स्याच्छुष्के यस्योष्ठतालुके | तस्याप्यब्दार्ध भाविस्यान्मृत्युरस्य न संशयः || अंगुलद्वयमध्येन यत्र दृश्येत चन्द्रमाः | तयांगुलत्रयं पश्येद्यस्योप्यब्दार्धजीवनम् || वक्रीभूतं स्वमात्मानं छिद्रंवाथ सहस्रशः | तेषु चादृश्यमानेषु षण्मासान्मरणं भवेत् || काकं गृध्रं विलीनाङ्गौ रक्तगन्धानुलेपनः | तैलात्यक्ताति भीतश्चानुष्णीषोमुक्त वस्त्रभाक् || तस्य मृत्युर्भवेदर्वाक् अर्धाब्दान्नात्र संशयः | पङ्के वा पांसुलेवाथ यस्य खण्ड पदं भवेत् || गच्छन्तं गगनं पश्येत् कृकलासंत्रिरूपिणम् | खद्योतं च न पश्येत मंगुल्या पीड्यमानयोः || नेत्रयोस्तस्य वा मृत्युरर्धाब्दान्नात्र संशयः | लोहदण्डधरं कृष्णं ह्रस्वं कृष्ण परिच्छदम् || स्वप्ने वा पश्यतस्तस्य त्रिमासान्मरणं ध्रुवम् | इन्द्रियाणि न गृह्णन्ति स्वकीय विषयाण्यदि | मासान्तं मरणं तस्य भविष्यति न संशयः || स्वलं नं चानिरोधेन प्रलापं ज्वलितं शिरः | रात्राविन्द्रधनुर्विद्युदमेघेऽपि च दर्पणे || छाया शिरोदर्शनं च पावकं नीलवर्णकम् | मयूरवच्चयः पश्येन्मैथुनं काकहंसयोः || अतिशीतोष्णयो रल्पनेतेर्स्युर्मास जीविनः | स्नातस्य हृत्प्रदेशेषु छिद्रं भूमौ रवौ विधौ || स्वच्छायायां तु मासार्धं जीवितं प्रवदन्तिते || सूर्याच्छीतं हिमात्तापं तौवाकान्ति विवर्जितौ | अम्बरं पीतवर्णं वा पक्षान्मृत्युर्न संशयः | यस्य चाकस्मिकीज्वाला ज्वलन्ती जायते तले || ऋक्षान् सप्तऋषींश्चैव स्वाग्रेयस्तु न पश्यति | उष्टं यस्य शरीरार्धं शीतलं मण्डलं च दृक् || प्. १८) विवर्णोवक्र वासोवा सप्तरात्रात् प्रणश्यति | अकस्माच्छव गंधं च स्वदेहे वा विवाससीम् || स्वप्ने स्त्रियं वा स्वं वापि दक्षिणेन प्रदक्षिणौ | स्वान्नं परेण भुक्तं वां खेवावृषभवाहनम् || अन्यं वा दण्डिनं पश्येत्त्रिरात्रान्मरणं भवेत् || प्रकीर्णकेशां नग्नां वा स्त्रियं वा पाशधारिणम् | पश्येद् भोजनकाले यः सोऽपि सद्यो मरिष्यति || भुज्यमानं तदात्मानं गृहे(ले)ण भुज्यते | यस्य तस्यापि मृत्युः स्यात् सद्य एव न संशयः || रागाभिभूतमर्त्यानामौषधं यस्य रक्तवत् | दृश्यते मृत्युरेव स्यात् सद्य एव न संशयः || इति काल गतिं ज्ञात्वा बाह्याभ्यन्तर लक्षणैः | कुर्यु निश्रेयसे यत्नं तावदेव परीक्ष्य वै || एवं सु बुद्धिमाञ्ज्ञात्वा वञ्चयेत् कालमागतम् | प्राणायामविधानोऽसौ योगाभ्यासेन साधकः || || इति योग शास्त्रसंग्रहे द्वितीयोऽध्यायः || अथ नाड्यः पञ्चदश दश वायुक्रमं ब्रुवे | सुषुम्ना भोगदाहस्ति जिह्वावृषा यशस्विनी || विश्वोदरापिङ्गलैला वारुणीञ्च पयस्विनी | अलंबुसा कुहुश्चैवश्चाथ गान्धारी च पयस्विनी | शङ्खिनीत्युदिता मुख्या सिराः पञ्चदशप्रिये || इति योगसारमञ्जर्याम् | भावोपनिषदि | अलंबुसा कुहुर्विश्वोदरी वारुणाहस्तिनी हास्तिजिह्वा यशोवती गान्धारी पूषाशंखिनी सरस्वती इला पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः इति | तारचिन्तामणौ चैव नाड्यः पञ्चदश स्मृताः || याज्ञवल्क्येन संप्रोक्ता नाड्यश्च चतुर्दश | चन्द्रज्ञानेन संप्रोक्ता नाड्यः षोडश स्मृताः || राशिमान प्रकारेऽपि याज्ञ वल्क्येन चोदिताः | सर्वसारोपनिषदि योगसारमञ्जर्यां च - प्राणापान समानाश्च व्यानश्चोदान एव च | नाग कूर्मौ च कृकरो देवदत्तो धनञ्जयः || वैरंभो मुक्तदायश्च प्रभंजन समीरणौ | अन्तर्यामी महाप्राणाश्चोक्ता पञ्चदशानिलाः | प्. १९) भावोपनिषदि - पाणोपान व्यानोदान समान कूर्मनाग कृकलदेवदत्त धनञ्जया इति || प्रणवचिन्तामणौ - द्विसप्ततिसहस्राख्याः सिरास्सन्ति जगत्प्रिये | शरीरे पवना यामात् सम्यक् शुद्धा भवन्तिताः || दुरिकोपनिषदि च - द्विसप्तति सहस्राणि नाड्यः स्युर्वायुगोचराः || इति | ईश्वरः - द्विसप्तति सहस्राणि नाडिभिर्देह उच्यते | संवृता रज्जुभिश्शिक्यमिव देहं समाश्रिताः || योगसारमञ्जर्याम् - शिभाकन्दादधोर्ध्वास्याद्द्व्यष्टान्ताश्चोर्ध्व गामिनः | काश्चिद्दीर्घाश्च ह्रस्वाश्च तद्ध्रस्वास्सर्व तस्तताः | स्वाधिष्ठाने सहस्राणि नाड्यःसु समुत्थिताः || मणिपूरे द्विसहस्राणि नाड्यः सन्ति संवृताः | अनाहते द्विसहस्राणि नाड्यः सम्यगुद्भवाः || विशुद्धिदेशे साहस्र नाड्यः संवृताः स्मृताः | दशसाहस्रमाज्ञाब्ज संभूता नाडि सन्ततिः || शिरोदेशे समुद्भूता दशसाहस्र नाड्यः | द्व्यष्टान्ताश्चोर्ध्वगामिन्यः सिराः कन्दोद्भवा यथा || अप्रधानाः समावृत्य पश्चाद्भागं समाश्रिताः | द्विसप्तति सहस्राश्च नाडीनां मध्यमे तनोः || द्विचतुष्षष्टि नाड्यस्ताः प्रधानाः सर्वदेहिनाम् | तासां मध्ये मुख्यतराः सिराः पञ्चदश स्मृताः || ईश्वरः - काश्चिन्नाडी बहिर्व्याप्ता काचिद्धृदय मध्यगा | यया तत्पुष्टिमाप्नोति केदार इव कुल्यगा | मथुरा रसजैर्धातुभिः पुष्ट्यते क्रमात् || गान्धारी नामया जिह्वा पिङ्गला पार्श्ववर्तिनी | उन्मुखी ब्रह्मरन्ध्रान्तं बहुशाखासमुद्गता || छुरिकोपनिषदि - इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु | इडायाः पार्श्वगानाडी संप्रोक्ता हस्ति जिह्विका || बहुशाखा बहुस्कन्धा मूलाग्रान्तमधोमुखी || सपूषालंबुसाचोभे पार्श्वयोरूर्ध्वगा स्मृताः | कराग्रांगुली पर्यन्तं बहुशाखास्समुद्भवाः || यशस्विनी च दक्षस्य पादांगुष्ठाभमिष्यति | बहुशाखा भवेदेषा मूलाधारादधोमुखी | शंखिनी या महानाडी सा वामे चोन्मुखा स्मृता || शाखोपशाखाभेदेन पादंगुल्यन्तमिष्यते | कुहूरिति च या नाडी साधश्चोर्ध्वां च सुस्थिता || प्. २०) बहुशाखा विभेदेन देहं व्याप्य व्यवस्थिता | सरस्वती समूलोत्था जिह्वाग्रान्तं व्यवस्थिता || जया च विजया चोभे नाभिमूल समुद्भवे | भ्रूयुग्मनेत्र कर्णान्तं कपोलौ व्याप्यसंस्थिते || सुषुम्ना पार्श्वयोर्जातात्विडा चैव तु पिङ्गला | वामदक्षिण नासान्तः शरीरेऽस्मिन् व्यवस्थिते || तयोर्मध्ये परं स्थानं यस्तं वेद स वेदवित् || देहेऽस्मिन् द्व्यंगुलाधारे समुद्यन्ति समीरणा || द्विसप्तति सहस्रेषु विचरन्ति हि सर्वदा || याज्ञवल्क्यः - देहमध्ये शिखिस्थानं तप्त जाम्बूनद प्रभम् | त्रिकोणमनुजानी हि चतुरश्रं चतुष्पदम् || मण्डलान्तपतंगानां स्थानं विद्धिसुशोभने | पतंगानां प्राणादि वायूनामिति | उत्तर गीतायाम् | द्विसप्तति सहस्राणि नाड्यः स्युर्वायु गोचराः || इति | योगसारमंजर्याम् | नाडीभ्यामथ सभ्येति प्राणतो द्विषडंगुले | अहोरात्रा विनेतृभ्यामूर्ध्वाधोवृत्तिरुच्यते || वामदक्षिणनाडीभ्यां स्यादुग्रहनामकम् | याश्च नाड्यश्शरीरेऽस्मिन् समावृत्यव्यवस्थिताः || तासु सर्वासु देवेशि विचरन्तिस्मवायवः | तेषां मुख्यतरः प्राणः कन्दस्याधः प्रतिष्ठितः || आस्य नासिकायोर्मध्ये हृदये जानुमण्डले | पादांगुष्ठेषु च प्राणः एतेष्वपि च तिष्ठति || जंघोदरे कटिर्देशेष्वपानस्थानमीरितम् | घ्रोणाश्रोत्राक्षिमध्यस्या भ्रूकुटयंगुलयोर्द्वयोः || उदानः संधिदेशस्यः पादयोर्हस्ति योरपि | सर्वदेहं समानेन व्याप्य तिष्ठति सर्वदा || नागादि वायवः पञ्चत्वगस्थ्यादिषु संस्थिताः | इन्द्रनील प्रतीकाशं प्राणरूपं प्रकीर्तितम् || नित्यमापूरयत्येषां प्राणानामुरसिस्थिताः || निश्वासोच्छ्वासपूर्णस्तु प्राणोजीवसमावृतः | प्रयाणे कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः || आस्य नासिकयोर्मध्ये भूमध्येनाभिमण्डले | प्राणालयमिति प्राहुः पादांगुष्ठे नखेऽपि च || तुन्दस्थं जलमन्तं च रसं चैव समीकृतं | तुन्द मध्यगतः प्राणःस्तन्न कुर्यात् पृथक् पृथक् || प्. २१) आदिनाथः - पुनरग्नौ जलं स्थाप्य चान्नादी(द्)नि जलोपरि | स्वयं त्वपानं संप्राप्य तेनैव सह वेगवान् || प्रयाति ज्वलनं तत्र देहे मध्यगतः पुनः | तत्तेजो ज्वलते तुन्दस्सकले देह मध्यमे || ज्वालाभिर्ज्वलनस्तत्र प्रेरितः प्राणवायुना | जलमत्युष्णमकरोत् कोष्ठमध्यगतं तथा || अन्नं व्यंजनसंयुक्तं जलोपरिसमर्पितम् | ततः सपक्वमकरोत् वह्नि सन्तप्तवारिणा || स्वेदमूत्रे जलस्यातां वीर्यंरूपं रसं भवेत् | अन्नंपुरीषं स्यादेवं प्राणः कुर्यात् पृथक् पृथक् || अपान्नयत्यपानोऽयमाहारञ्चमलायितम् | शुक्लं मूत्रं तथोत्सर्गं अपानस्तेन मारुतः || इन्द्रकोपप्रतीकाशः सवैजलदसन्निभः | स च मेढ्रौ च पायौचोरुमक्षण जानुषु || जंघोदरे च कट्यां च नाभिमूले च तिष्ठति | व्यानोऽपि व्यान इत्यंगानुदानोपिप्रकोपनः || महाजाम्बूनदप्रख्यो व्यापारोदानकारणम् | संचापिकण्ठयोर्मध्ये कट्यां गुल्फद्वयोरपि || घ्राणे चापिस्फिचोर्देशे तिष्ठत्यत्र निरंकुशः | स्पन्दयत्यधरं वक्त्रं गोत्रनेत्र प्रकोपनम् || उद्वे जयन्ति कर्माणि ह्युदानो नाम मारुतः | विद्युत्पावक वर्णा स्यात् उदानासनकारकः | पादयोर्हस्तयोश्चापि स च सन्धिषु वर्तते || पीतं भक्षितमाघ्रातं रक्तपित्तकफात्मकम् | समानयति गात्राणि समानो नाम मारुतः || गोक्षीरधवलाकारः सर्वदेहे व्यवस्थितः | उद्गारो नाग इत्युक्तो नील जीमूत सन्निभः | कृकरः क्षुधितश्चैव जपाकुसुमसन्निभः | धनंजयः स्थितः पोषे महाराजतवर्णकः || इति | प्रणवचिन्तामणौ | प्राण नागौ द्वयोर्वर्णो राजावर्तसमप्रभः | अपानकूर्मौ सदृशौ इन्द्रनील समप्रभौ || समानकृकरौ व्योम सदृशौ विश्वमंगलौ | शुद्ध स्फटिकसंकाशौ समौ व्यानदनंजयौ | उदान देवदत्तौ तु पद्मकिञ्जल्कसन्निभौ | नागान्तर्यामिणौ शुद्ध विद्युद्वर्णौ समीरितौ | एतौ मुख्यौ महाप्राणौ तौ वैरंभः प्रभञ्जनौ || प्. २२) श्यामलेन्द्र मणिप्रख्यौ वायवाकाराः प्रकीर्तिताः | इत्वा प्राणौ समारुह्य शरीरे व्याप्यसञ्चरेत् || समान वायुमारुह्य वाश्रणी देह दार्ढ्यकृत् | अन्तर्यामिणमारुह्य तनुमाप्नोत्यलंबुषा || पिङ्गलानाम पवनं पूषाकूर्मसमीरणौ | हस्ति जिह्वा देवदत्तौ कृकरं च समीरणौ || यशस्विनी धनंजयौ सुषुम्नाथ प्रभंजनौ | वैरंभ शंखिनी चाथ मुक्तिवायुं सरस्वती || विश्वोदरा महाप्राणं समारुह्य प्रवर्तते | प्राणादि वायवः पञ्चपुरुषाः परिकीर्तिताः | नागादि वायवः पञ्चस्त्रीरूपाः परिकीर्तिताः || धनञ्जथादिकाः पञ्चवायवस्तु नपुंसकाः | गुदे त्वपान वायुश्च मलमूत्रविसर्जकः || नाभौ समानवायुश्च क्षुत्पिपासादि कारकः | उदानः कण्ठदेशे तु मनोग्रसनकारकः || व्यानवायुश्च सर्वांगं बलस्वरकरः परम् | हिक्कोद्गारकरोनागः कूर्मो मीलनकारकः || कुत्कारः कृकरो देवदत्तो जृम्भणकारकः | धनञ्जयस्थाल्यकरो वैरंभः क्रोधकारकः || करोति मुक्तिपवनः पाञ्चभौतिकविग्रहः | अन्तर्यामि शरीरस्य प्रपञ्च ज्ञानकारकः || ज्ञानवैराग्यविज्ञानं महाप्राणः करोत्यलम् | देहत्यागकरश्शीघ्रं प्रभञ्जनसमीरणः | एवं प्राणस्वरूपाणि याज्ञा योगं समभ्यसेत् || इति योगशास्त्रे प्राणनाडी निरूपणं नाम तृतीयोध्यायः || प्राणायामः || अगस्त्यः - प्राणायामविशुद्धात्मा यद्यत्कर्म करोति हि | तत्तत्फलत्यसन्देहस्स्त्व प्रयत्नेन वा कृतम् | प्राणायामं विनायस्य जपहोमार्चनादिकम् || न फलत्येव तत्सर्वं प्रयत्नेनाप्यनुष्ठितम् | प्राणायामैर्विनायद्यत् कृतं कर्मनिरर्थकम् || अतो यत्नेन कर्तव्यं प्राणायामश्शुभार्थिभिः || अमृतबिन्दूपनिषदि - यथापर्वतयात्रानां दण्यते यमनीबलान् | तथेन्द्रियकृतान् दोषान् दह्यते प्राणनिग्रहात् || योगसारमंजर्याम् नाजीर्णेम्ल रसोद्गारे न च विण्मूत्र धारणे | प्. २३) न छर्द्यां नेतिसारे च नातिभूतसमन्विते | योग्ये गुरु प्रकार्ये वा न चापिक्षुत्पिपासितः || प्राणायामं न कुर्वीत कुर्याच्चेद्व्याधि भाग्भवेत् || गोरक्षः - यथा तोयार्थिनस्तोयं यन्त्रानान्वादिभिश्शनैः | न पिवेयुस्तदा वायुं क्रमाद्योगीजिजश्रमः || ध्याननादबिन्दूपनिषदि-यथैवोत्पलनान्वेन तोयमाकर्षयेन्नरः | तथैवे षत्कर्षयेद्वायुं योगी योगपदे स्थितः || योगसारमञ्जर्याम् - मात्रामात्रार्धकंचापि वृद्धिं कुर्याद्दिने दिने | यद्यत्सुकरतामेति तत्तथ्यक्त्वोपरि व्रजेत् || वासिष्ठे - यथारण्ये गजेन्द्रस्तु पुरुषैरप्रयोगतः | नाशयेद्धार्यमाणस्तु तथावायुरबुद्धितः | स चैव तु यथाहस्ती प्रयोगाद्दम्यते शनैः || निर्दोषश्च भवेत्कालाद् नश्यः सौम्यश्च जायते | शनैश्शनैस्तथाप्राणः प्रयोगाद् नश्यतां गतः || स्वेच्छया धार्यते देहे न तु दोषं करोति यः | यथा प्रचोदितो हस्ती परसैन्यं विनाशयेत् | रक्षते च प्रयोक्तारं मारूढस्तु बलेन सः || तथा शरीरे संरूढः प्राणस्सम्यक् प्रचोदितः | नाशयेत् सर्वपापानि तच्छरीरं च रक्षति || इति | सूत संहितायाम्- सर्वं सम्यग्विदित्वाथ विषुसंक्रान्ति पूर्वकम् | दक्षिणायनमभ्यस्य ग्रहणं चोत्तरायणम् | पुरस्कृत्य तथाच्छर्दि विच?दारणविवर्जितम् | प्रेतकत्वं सूतकत्वं संश्रयन् शुद्धमन्वहम् || ज्ञात्वा समभ्यसेन्नित्यं कुम्भकं पूर्णकुम्भवत् | सन्ध्यायामुच्चरेत् प्राज्ञः सूतकं प्रेतकं विना | नैवोच्चरेदहोरात्रं सन्ध्याकालेषु षट्स्वपि || समुच्चरेत् प्रयत्नेन कुम्भकं पूर्णकं भवेत् | सूतक प्रेतके भूते जप्त्वा निष्फलतां व्रजेत् || तस्मात् सर्व प्रयत्नेन पूतकेषु समभ्यसेत् || इडायां पिङ्गलस्थानं यथा प्राणस्समांगतः | सोमग्रहणमित्युक्तं तदा तत्व विदांवरैः || यदा पिङ्गलया प्राणः कुण्डली स्थानमागतः | सूर्यग्रहणमित्युक्तं तदातत्व विदांवरैः || पिङ्गलायामिडायां तु द्वयोः संक्रमणं तु यत् | तदुत्तरायणं प्रोक्तं पिङ्गलायामिति श्रुतिः || इडायां पिङ्गलायां तु वायोऽसंक्रमणं तु यत् | प्. २४) दक्षिणायनमित्युक्तं मुनिभिर्वेदपारगैः | इडा पिङ्गलयोस्संधिं यदाप्राणः समागतः || संवत्सरं तदा प्रोक्तं देहे देह विदांवर || मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम | तदाद्यं विषुमं प्रोक्तं तापसैस्तापसोत्तमैः || प्राणसंज्ञं मुनिश्रेष्ठमूर्धानं प्रविशेद्यदा | तदन्यं विषुवं प्रोक्तं धार्मिकैर्वस्तु चिन्तकैः || निश्वासो च्छ्वसनं सर्वं मासानां संक्रमो भवेत् || इति | दत्तात्रेयः | किञ्चिद्विरेच्यं संकुञ्च्य पुनस्तद्वत्पुनस्तथा || एतच्छर्दिरिति प्रोक्तं पूर्वमभ्यास सूरिभिः | प्रेतकत्वं सूतकत्वं वामदक्षिणयोर्विदुः || षट्सन्धिः | पृथिव्यप्तेजो वायवाकाशादि पञ्चसन्धिः | रेचकान्तं पूरकादौमिलित्वा षट् | तेषां स्वरूपाणिपूर्वमुक्तम् | पराशरः | संकुञ्च्य मध्य तर्जन्यावंगुष्ठानामिकादिभिः | सम्यङ्नासाग्रबध्यविपश्चिन्नियमेदसून् | अमृतबिन्दूषनिषदि- नासिकापुटमंगुल्या पिधायैकेन मारुतम् | पिबेन्मन्दं यथैवोक्तं योगसिद्ध्यर्थमात्मवान् | कनिष्ठानामिकांगुष्ठैर्यन्नासा पुटबन्धनम् || प्राणायामः स विज्ञेयस्तर्जनीभ्यां विना दृढम् || शिवः - व्यासश्च | पञ्चांगुलीभिर्नासाग्रं पीडनं प्रणवैर्युतम् | मुद्रेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः | नासिकापुटमंगुल्या पीड्यैकामपरेण च || औदरं रेचयेद्वायुं रेचकस्समुदाहृतः | वाह्येन वायुना देहं धृतिवत् पूरये च्छुभे || पूरणात् पूरकं प्रोक्तं कुम्भकं च तथा विदुः || मार्कण्डेयः - प्राणानामुपसंरोद्यः प्राणायाम इति स्मृतः || पतञ्जलिः | व्यासप्रश्वासयोर्गतिविच्छेदः प्राणायामः || व्यासः | बाह्यस्य वायो राचमनं श्वासः | कोष्ठस्य वायोर्निस्सरणः प्रश्वासः || तयोर्गतिविच्छेदः प्राणायाम इति | संवर्तकः | सधूमं च विधूमं च सगर्भं च विगर्भकम् || स लक्ष्यञ्च विलक्ष्यञ्च प्राणायामस्तु षड्विधः | केवलश्वासेन प्राणायामः सधूमः | हंसवर्णद्वयेन प्रणवेन वा विधूमः || प्. २५) हंसस्वरूपानुसंधानेन प्रणवस्वरूपानुसंधानेन वापि गर्भः | मन्त्रदेवता ध्यानपूर्वकं सगर्भः | केवलकुम्भके सुषुम्नायां प्राणसंयमनमेव सलक्ष्यः | सुषुम्नाजिगिमिषामात्रमेव विलक्ष्यः | इति | आदित्यपुराणे - रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा | एवं चतुर्विधः प्रोक्तः प्राणायामोऽत्रसूरिभिः || अमृतनादबिन्दूपनिषदि - उत्क्षिप्यवायुमाकाशे शून्यं कृत्वा निरात्मकः | शून्यभावेन युञ्जीयाद् रेचकस्येति लक्षणम् | श्रीदक्षिणामूर्तिः | नासिकावामरन्ध्रेण पूर्वमापूरयेद्बुधः | तत्रैकादशकृत्वस्तु मन्त्रं ध्यायेदतः परम् || तेनैव विसृजेत् पश्चाद् दशवारं विभोस्तवम् || नववारं जपेन्मन्त्रं मित्थमेव च साधयेत् || इति | औदरं रेचयेद् वायुं चतुर्भिश्च शनैः शनैः | तदर्धमिडया मन्दं मन्दं संपूरयेद्बुधः || पुनर्विरेचयेदेवं पुनरापूरयेद्बुधः || इति | योगसारमंजर्याम् - आपूर्य वा मया नाड्या मुञ्चेद्दक्षिणया बहिः | पुनर्दक्षिणया पूर्य बहुशो वा मया त्यजेत् | एवं विशुद्धनाडीनां कुम्भकानां शतंशतम् || कुर्याद्बर्हिषु हंसेन सहजेनान्तर स्थितः || इति | दत्तात्रेयः | पूरकात् द्विगुणं सम्यक् रेचकस्य विधीयते || रेचकाद् द्विगुणं कालं कुम्भकस्य प्रशस्यते || इति | पाराशरः- इडां षोडशभिः पूर्य चतुष्षष्ट्या च पूरयेत् | द्वात्रिंशाद्रेचयेत् सूर्यात् प्रणवेन समभ्यसेत् || योगसारमंजर्याम् - लघुद्वादशमात्रस्तु मध्यमो द्विगुणः स्मृतः | त्रिगुणं चोत्तमं प्रोक्तं षट्त्रिंशत्तालमात्रकम् || इति | विश्वामित्रः - पूरके त्रयमुच्चार्य कुम्भके न चतुष्टयम् | रेचके त्रयमुच्चार्य प्राणायामो विधीयते || प्रणवचिन्तामणौ - अकारंपूरके न्यस्य चोकारं कुम्भके न्यसेत् | मकारं रेचके तद्वत् नादो ध्यानेन शस्यते || इति | हंसंहंसेति संपूर्य सोऽहं बीजेन कुम्भयेत् | रेचयेद्धंसमन्त्रेण प्राणायामस्य लक्षणम् || याज्ञवल्क्यः - सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह | त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते || भारद्वाजः - सप्तव्याहृति पूर्वान्तामाद्यन्ते प्रणवां हृदा | जपेद् द्वादश गायत्रीमेकोयं प्राणसंयमः || प्. २६) अशक्तस्यायमुदितः प्राणायामो द्विजन्मनः || बालस्य चेतरेषां तु प्रशस्तः प्रथमोदितः || विश्वामित्रः | आसने सम्यगासीनो वामेनापूर्यचोदरम् | कुम्भकेन त्रिरावृत्य दक्षिणेन तु रेचयेत् || याज्ञवल्क्यः | पूरणो द्वादशोंकारः कुम्भके षोडशं ध्रुवम् | रेचके दश चोंकारः प्राणायामः स उच्यते || उत्तमं नवधा प्रोक्तं मध्यमृतु संख्यया || अधमं त्रयमित्याहुः प्राणायामेविधीयते | आदौ कुम्भकमाश्रित्य रेचपूरकवर्जितः | व्याहृत्यादि शिरोन्तं च प्राणायामस्तु कुम्भकः || भरद्वाजः- सव्याहृतिः सप्रणवः प्राणायामस्तु षोडश | अपि भ्रूणहणंमासात् पुनात्यंहरहः कृतम् || बृहस्पतिः | संवर्तश्च- मानसं वाचिकं पापं कायकर्मादिभिः कृतम् | तत्सर्वं नश्यते क्षिप्रं प्राणायाम त्रये कृते | पूरके विष्णु सायुज्यं कुम्भके ब्रह्मणोन्तिकम् || रेचकेन तृतीयेन प्राप्नुयादैश्वरं पदम् || योगसारमंजर्याम् - पूरकं च भवेद्ब्रह्मा कुम्भको विष्णुरुच्यते | रेचकस्तु तथा रुद्रो त्राटकञ्च निरञ्जनः || ह्रस्वदीर्घप्लुतैर्युक्तं रेचकपूरक कुंभकैः | आवर्तयेद् यथैवोक्तं प्राणायामस्स उच्यते || अकारादि त्रिवर्णेन हंसमन्त्रेण वा यतिः | प्राणायामं प्रकुर्वीत प्रणवेन प्रयत्नतः || बृहस्पतिः - बद्धासनो नियम्यासून स्मृत्वा चर्षादिकं पुनः | न निमीलित दृङ्मौनी प्राणायामं समभ्यसेत् || योगसारमंजर्याम् - बिन्दुजीवजलाक्रान्तं वर्तुलं चन्द्रमण्डलम् | बिन्दुप्राणा निलाक्रान्तं त्रिकोणं वह्निमण्डलम् | बिन्दु | प्रणवः | जीवः | सकारः | जलं वकारः | तैः समाक्रान्तं वर्तुलं चन्द्रमण्डलमिडानाडीति ज्ञेयम् | बिन्दु प्रणवः प्राणः यकारः अनलः रेफः तैः क्रान्तं त्रिकोणं वह्नि मण्डलं पिङ्गला नाडीति ज्ञेयम् | बिन्दु चैतन्यसंयुक्तं वर्तुलं सूर्यमण्डलम् | बिन्दुना प्रणवेन चैतन्येन ह्रींकारेण संयुक्तं वतुलं सूर्यमण्डलं सुषुम्ना नाडीति ज्ञेया || एवं नाडीनां स्वरूपं ज्ञात्वा पूरकादिकमारभेत् | प्. २७) अयं भावः - ओं सं वं इति पूरयेत् | ओं सं ह्रीं इति कुम्भयेत् | ओं यं रमिति रेचयेदिति | आपूर्य वामनाड्यामुञ्चेद्दक्षिण्या बहिः | पुनर्दक्षिणयापूर्य बहुशो वामया त्यजेत् || एवं विशुद्धनाडीनां कुम्भकानां शतम् शतम् || कुर्याद्बर्हिष्ठहंसेन सहजेनान्तर स्थितः | स पश्यति जगत्कीर्णं तेजसां परमाणुभिः || प्रणव चिन्तामणौ - सव्यापसव्यमार्गाभ्यामभ्यसेत् पवनं क्रमात् || प्रत्यहं नियमेनैव सम्यक्काल चतुष्टयम् || त्रिचतुर्वत्सरं चाथ त्रिचतुर्मासमेव वा || षड्वर्षं वाथ षण्मासमभ्यसेद्यदि योगिराट् | नाडी शुद्धिमवाप्नोति पृथक् चिह्वोपलक्षितम् || इति | योगसारमंजर्याम् - लघुत्वमारोग्यमलोलुपत्वं तंनु प्रसन्नत्वमुदग्रकान्तिम् | हृद्वह्नि वृद्धिञ्च कृशत्यमार्ये नादस्फुटत्वं च तनोत्यवश्यम् || हठयोगे - पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः | कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः || सूर्यभेदी मनुझ्झायी तथा चीत्कार शीतली | भस्त्रिका भ्रमरी मूर्छा कुम्भकं चाष्टभेदतः || कुम्भके न सुषुम्नान्तर्गत सूर्यमण्डल भेदात् सूर्यभेदिनी | कुम्भकेनाधस्तात् प्रणवरूपं मनुं जनयतीति मनुज्जननी || अपाने सन्निरुध्यासून् कण्ठे बन्धं समाचरेत् | येन तारान् प्रसूयन्ते जननी तेन कुम्भकम् || वर्णान् वमति तारोऽयं चीत्कारी तेन कुम्भकः | येन चन्द्रात् सुधावृष्टिः स्राव्यते सर्वनादिषु || शीतली नाम तेनैव दुःखधर्मविनाशिनी | भस्त्रिकापवनो यद्वत् धातूनां मलदाहकः | तद्वत्पापविदाहित्वात् भस्त्रिकेति प्रचक्षते || भस्त्रिकावत् प्राणधारकत्वात् भस्त्रिकेति वा | भ्रमणादि भ्रामरी प्रोक्तं तत्तत्स्थानानुसारतः || कुम्भको नाम मुनिभिः सर्वसिद्धिफलप्रदः | येन मूर्छा भवेद् वायोस्तेन मूर्छेति गीयते || कुम्भकं नाम योगीन्द्रैः पूर्वमभ्यस्तसूरिभिः | रेचकं पूरकं मुक्त्वा यस्मिन्वा वायुधारणम् || प्. २८) प्राणायामोऽयमित्युक्त्वा स वै केवलकुम्भकः | विरेच्या पूर्ययः कुर्यात् स वै संहित कुम्भकः || केवलं संहितं वाथ कुम्भकं सम्यगभ्यसेत् | कण्ठेन पूरयेद्वायुं रेचयेत् कण्ठनालतः || भुजंगी करणं चैतत् कुम्भको नवधा स्मृतः | अन्तःस्थितस्य वायोर्यत् बहिर्निस्सरणं तदा || तत्रैव संनिरोधस्तु बाह्यकुम्भक ईरितः | बाह्यवायुर्यदाकुक्षौ प्रविष्टः संनिरुध्यते || तदनन्तरमिति प्रोक्तं कुम्भकं योगवित्तमैः | यदा प्रश्वासमुक्तेन गतिर्नासान्त मण्डले | लयं वायोस्तदा तज्ज्ञैः प्रोक्तस्तद्बाह्य कुम्भकः || पतंजलिः - व्यासभाष्ये च श्वास पूर्वोगत्यभावः स बाह्य प्राणायामः | यत्र प्रश्वासपूर्वको गत्यभावः स आभ्यन्तरः | तृतीयस्स्तम्ब वृत्तिः | नासा पुटयोर्मध्यस्थलस्य नामस्तंबमिति | स्तंत्रे स्थितं स्तम्ब वृत्तिः | यत्रो मयां भावः सकृत् प्रयत्नेनोद्भवति | प्रश्वासं च विना श्वासं नासाग्रं लीयते निलः | तदाज्ञेय स्तम्ब वृत्तिः कुम्भकस्तु तृतीयकः || तृतीयकुम्भके यथातप्त शिलान्यस्त जलं सर्वतः संकोच मापद्यते | तदा द्वयोर्युगपत् गत्यभाव इति || प्राणसंयमनं प्रोक्तं त्रिविधं काल भेदतः | उत्तमं मध्यमं चैव त्वधमं योग वित्तमैः || षट्शतं च त्रिसाहस्रं मात्राणां कुम्भकं गुरुः | तदर्धं मध्यमं प्रोक्तं तदर्ध मधमं स्मृतम् || पक्ष मासाब्द भेदेन तेषां नामानि योगिभिः | दीर्घसूक्ष्माति सूक्ष्मेति प्रोच्यन्ते सिद्धलक्षणे || योगवाचस्पत्ये - सखल्वयं प्रत्ययाभ्यस्ता वर्षमासपक्षादि क्रमेण देशकाल संख्यादि स्वजानुमण्डलः पाणिनापरिमृश्या स्फुटका विच्छिन्नकाल मात्राभिः त्रिसहस्र षट्च्छत मात्रापरिमितः प्रथम उद्घातो मन्दः | एवं द्विगुणी कृतो द्वितीयो मध्यमः || एवं त्रिगुणी कृतस्तृतीयस्तीव्र इति || कृत्वारेचक पूरकं दृढतरं बध्वा समीरं भृशं ब्रह्मद्वारमुखे निरुध्यनियतो बाह्याभ्यन्तरस्मारकः | प्. २९) प्राणायामपरायणः प्रतिदिनं कालत्रयेऽप्यभ्यसेच्छुद्धं कुम्भक मार्यसे वितमिदं योगीन्द्रगुप्तं धनम् || समीरमार्गेण निरुध्य नाडिकामूले निरुध्याग्निसुखासुखस्थितिः | ततोत्तमांगे हृदया पितेक्षणः स कुम्भको नाम स नादबोधकः || त्यजेद् यथा पिङ्गलया शनैः शनैः गृहीतवायुर्यतिरप्रमत्तधीः | अत्यन्तसूक्ष्मव्रणमृद्घटाम्बुवत् स रेचको नाम पृथक् समभ्यसेत् || दत्तात्रेयः - हृदये च शिरः स्थाने भ्रूमध्ये नाभिमण्डले | मृत्युः प्राणगतो यत्र तन्निरोध परोभव || आदिनाथः - यावन्मरञ्तत्र मनःप्रवृत्तिः यावन्मनश्चापि मरुत्प्रवृत्तिः | तत्रैक नाशादपरस्थनारा एक प्रवृत्तेरपरप्रवृत्तिः || अध्वस्तयोश्चेन्द्रिय वर्गवृत्तिर्विश्वस्तयोर्मार्गपदस्य सिद्धिः | तत्राप्यसाध्यः पवनस्य नाशः षडङ्ग योगादि निषेवणेन || मनोविनाशस्तु गुरोः प्रसादान्निमेषमात्रेण सुसाध्य एव | तस्मान्मनो नाशयताम्मनस्काद्यन्नश्यतो नाश्यति वायुरग्रे || अत्र श्रुतिः - यथाशकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयते | प्राण बन्धनं हि सोम्यमनः इति मन एव जीवः | योगवासिष्ठे - मनो हि जीवनाज्जीव इति | ज्ञानसारे - नासाग्रं जीवनाभिश्च हृदयं च तृतीयकम् | स्थानान्येतानि जीवस्य कल्पितानि शिवेन तु || अत्र श्रुतिः - तेत्रस्थं जागरं विद्यात् कण्ठे स्वप्नं समादिशेत् | सुषुप्तं हृदयस्थं तु तुर्यं मूर्धनिसंस्थितम् || इति | ज्ञात्वैवं वायुजीवौ द्वौ सन्निरुध्य मनो हृदि | प्राणसंयमनं कुर्यात् मृत्युमातंगकेसरी || नादस्वरूपं लय योगे लिख्यते || इति योगशास्त्रसंग्रहे प्राणायामस्वरूपं नाम चतुर्थोऽध्यायः || अथ प्रत्याहारः || शिवयोगे- चित्तस्यान्तर्मुखेनप्रतिहत बहुचैतन्य कल्लोल जलस्योत्पन्नस्यास्य नाना विपुलमितिविकारस्य संवृत्तिरेव | तत्तन्नानाविकाराग्रसनमिति | तथा कथ्यते योगविद्भिः || प्रत्याहारः स एवा विचलित सुमनाःस्तंसदाहं भजामि || सूतसंहितायाम्- अथातत् प्रवक्ष्यामि प्रत्याहारं महामुने || प्. ३०) इन्द्रियाणं विचरतां हृदयेषु स्वभावतः || बलादाहरणं तेषां प्रत्याहारः स उच्यते | यद्यत्पश्यति तत्सर्वं ब्रह्म पश्येत् समाहितः || प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः | यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् || तत्सर्वं ब्रह्मणे कुर्यात् प्रत्याहारोऽयमुच्यते || अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः | काम्यानि च तथा कुर्यात् प्रत्याहारः स उच्यते || अथवा वायुमाकृष्य स्थाने स्थाने निरोधयेत् | दन्तमूले तथा कर्णे कण्ठादुरसिमारुतः | उरो देशात्समाकृष्य नाभिकन्दे निरोधयेत् || नाभिकन्दात्समाकृष्य कुण्डल्यां तु निरोधयेत् | कुण्डली देशतो विद्वान् मूलाधारे निरोधयेत् || तथापाने कटिद्वन्द्वे तथोरुद्वय मध्यके | तस्माज्जानु द्वये जंघे पादांगुष्ठे निरोधयेत् || प्रत्याहारोऽयमुक्तः स्यात् प्रत्याहारपरैः सदा | एवमभ्यास युक्तस्य पुरुषस्य महात्मनः || सर्वपापानि नश्यन्ति भवरोगं च सुव्रत | अथवा तव वक्ष्यामि प्रत्याहारान्तरं मुने || नाडीभ्यां वायुमाकृष्य निश्चल स्वस्तिकासनः | पूरयेदनिलं विद्वानापादतलमस्तकम् || पश्चात् पादद्वये तद्वन्मूलाधारे तथैव च | नाभिकन्दे च हृन्मध्ये कण्ठे मूले च तालुके || भ्रूवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् | अकारोकारमाश्चैव शैव पञ्चाक्षरं स्मरन् || ऐं प्रजपेत् स्तंभितः प्राणः प्रत्याहारस्त एव हि | अथवा मुनिशार्दूल प्रत्याहारं वदामिते | देहादात्म मतिं विद्वान् समाकृष्यसमाहितः || आत्मानात्मनिर्द्वंन्दे निर्विकल्पे निरोधयेत् | प्रत्याहारः समाख्यातः साक्षाद्वेदान्त वेदिभिः || ब्रह्मरन्ध्रादानखाग्रं वायुनिरोधस्य मर्मज्ञानपूर्वकत्वात् मत्स्थानान्युच्यत्ने | श्रीदत्तः - शारीरे च - द्विर्द्वादशांगुलं विद्धि मध्यमं जानुपादयोः | प्. ३१) जान्वादि नाभिपर्यन्तं तद्वदेव विनिर्दिशेत् | नाभ्यादि हृदयान्तं तु विद्धिद्विर्द्वादशांगुलम् | हृदयाद्ब्रह्मरन्ध्रान्तं तद्वद्द्विर्द्वादशांगुलम् || ज्ञात्वैवंधारयेत् प्राणमेकैकांगुलमानतः | नवद्वाराणि कण्ठान्तं हृन्मध्यं नाभिमध्यमम् || करयोर्मूलमध्याग्रं ब्रह्मरन्ध्रबिलं ततः || जानुद्वयं च जान्वग्रमूरुमूलद्वयं क्रमात् | उक्ताश्चैते गिरिसुते पञ्चविंशति सन्धयः || योगसारमंजर्याम् - करद्वन्द्वं भुजद्वन्द्वं पादद्वन्द्वमतः परम् | ऊरुद्वन्द्वं च फालंचाथांगुष्ठौ जानुयुग्मकम् || सीविनीकण्ठ कूर्पञ्च कण्ठमूला च व्यञ्जनौ | लम्बिकाग्रं ततोघ्राणं भ्रूमध्यं चूलिमेव च || ललाटाग्रं सुषुम्नाग्रं द्वादशान्तमतः परम् | द्वादशान्तान्तमुक्तेषु चाष्टाविंशति मर्मसु || दिने दिने षण्णवतिस्स्थानेषु विधिवत्पुमान् | प्राणमारोप्य घटिकां प्रापयन् पुनराहरन् | षण्मासमभ्यसेदेवं पञ्चविंशतिसन्धिषु || प्राणं मुहूर्तमेकैकमारोप्य पुनराहरन् | ऋतु त्रयं समभ्यस्य ततोऽष्टांगेषु योगवित् || षण्मासमभ्यसेद्यत्नात् पञ्चभूत स्थलेष्वपि | पृथक् पृथक् पञ्चघटीः प्राणमारोप्य चाहरन् | षण्मासमभ्यसेद् यत्नात् द्वादशान्त स्थलेष्वपि || द्विषट्स्थलेष्वपि तथा ततोऽन्तर्द्व्यष्टनाडिषु प्राणं मुहूर्तमेकैकं माहरन् पुनराहरन् | तत्रत्य देवताध्यान पुरस्सरमनन्यधीः || एवं षट्धारणाद्योगी प्रत्याहारेति वत्सरम् | समभ्यसेत् प्रयत्नेन कुम्भकेन शनैश्शनैः || योगसिद्धिमवाप्याथ सर्वतत्वात्मको भवेत् | किञ्चाणुत्वं महत्वं च दूरश्रवणमेव च | कामरूपं मनो वेगं परकाय प्रवेशनम् || स्वच्छन्दमरणं देवैः सह क्रीडनदर्शनम् | इष्ट संकल्प सिद्धिं च सदा प्रतिहतागतिः || त्रिकालज्ञत्वमन्द्वन्द्वं परचिन्ताद्यभिज्ञता | अर्कानिला नलांबूनां पदस्तम्भनमेव च || प्. ३२) एतानि लक्षणान्येवं लब्धुं शक्यं वरानने || इति | प्रणवचिन्तामणौ - मर्मस्थानानिसर्वाणि शरीरे योगमोक्षयोः || वच्म्यहं तानि सर्वाणि यथा विज्ञायते तथा | पादांगुष्ठौ च गुल्फौ च मध्ये चोरुद्वयस्य च || पायुश्च गिरिजे पश्चात् मध्ये देहस्य मेढ्रकम् | नाभिश्च हृदयं चैव कण्ठकूपमनुत्तमम् || तालुमूलं च नासायां मूलमक्ष्णोश्च मण्डले | भ्रुवोर्मध्यं ललाटं च मूर्धा सर्वसुरार्चिते || मर्म स्थानानि सर्वाणि मानं तेषां पृथक् शृणु | पादमानञ्च गुल्फं च सार्धांगुल चतुष्टयम् || पादांगुलं च विज्ञेयं मध्यमं गुल्फ जंघयोः | जंघा मध्यं चितेर्मूलं यत्तदेकादशांगुलम् || चितेर्मूलादध शिवे जानुन्यादंगुलद्वयम् | चित्ताग्रादूरुमूलान्तात् सार्धांगुल चतुष्टयम् | जान्वोर्दशांगुलं प्रोक्तमूरुमूलं जगत्प्रिये || ऊरु मध्याद्योगमात्रात् पायुमूलं नवांगुलम् | देहे मध्यं तथा प्रोक्तं पायोर्मूलं स्यादंगुल द्वयम् || चतुर्दशांगुलं नाभेर्भ्रूमध्यं पङ्कजानने | षडंगुलं तु हृन्मध्यात् कण्ठकूप मतः परम् || कण्ठकूपाच्च जिह्वायां मूलंस्थाच्चतुरंगुलम् | नेत्रस्थानान्ततन्मूलात् सार्धांगुल चतुष्टयम् || तस्मादर्धांगुलं विद्धिभ्रुवोरन्तरमात्मनः | ललाटाख्यं भ्रुवोर्मध्यादूर्ध्वं स्यादङ्गुलत्रयम् || ललाटाद्व्योमरन्ध्रं स्यादङ्गुलत्रयमात्मनः | स्थानेष्वेत्रेषुमनसा वायुमारोप्यधारयेत् || एवमग्रेभ्यसेन्नित्यं पञ्चविंशतिसंधिषु | मर्मस्थानेष्वपि सुधीः प्रत्यहं योगसिद्धये || स्थानात् स्थानं समाकृष्य प्राणायामंप्रकुर्वतः | सर्वे रागाः प्रणश्यन्ति तस्य योगः प्रसिद्ध्यति || प्रणवचिन्तामणौ - प्रत्याहारविशेषोऽस्ति स्थानेष्वेतेषु पार्वति | प्रत्याहारं प्रवक्ष्यामि सृष्टिक्रम विधानतः | स्थानात् स्थानं समाकृष्य स्थानवित्पवनं सुधीः || प्रतिलोमानुलोमाभ्यां यस्त्वेवं धारयेद् द्विधा || सर्वव्याधि विनिर्मुक्तो जीवेदा चन्द्र तारकम् | योगसारमंजर्याम् - संपूर्णकुम्भनित् वायुमंगुष्ठामूर्ध्नि मध्यतः || प्. ३३) धारयेत् पवनं बुद्ध्या प्राणायामं प्रचोदयेत् || व्योमरंध्रात्समाकृष्य ललाटे धारयेत् पुनः | ललाटाद्वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् || भ्रुवोर्मूलात्समाकृष्य नेत्रमध्ये निरोधयेत् | नेत्रात् प्राणं समाकृष्य नालामूलं निरोधयेत् || नासामूलात्समाकृष्य जिह्वामूले निरोधयेत् | जिह्वामूलात्समाकृष्य कण्ठकूपे निरोधयेत् || कण्ठकूपात्तु हृन्मध्ये हृन्मध्यान्नाभिमध्यमे | नाभिमध्यात् पुनर्मेढ्रे मेढ्रादाधारमण्डले | देहमध्याद् गुदे गौरि गुदाद्वाशेफमूलके || ऊरुमूलात्तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत् | जानुमूलात्तु चित्योस्तु तन्मूले तु निरोधयेत् || चितिमूलात्पुनस्तस्मात् जंघायोर्मध्यमे तथा | जंघामूलात्समाकृष्यपादगुल्फे निरोधयेत् || गुल्फाभ्यां सम्यगाकृष्य चांगुष्ठाग्रे निरोधयेत् | इति स्थानात् समाकृष्य योगवित्पवनं सुधीः | प्रतिलोमानु लोमेन यस्त्वेवं धारयेद्धिया || सर्वव्याधिविनिर्मुक्तो जीवेदा चन्द्रतारकम् | नाडीभ्यां वायुमाकृष्य कुण्डल्या पाश्वयोः सुधीः || धारयेद्युगपत्सोऽयं गिरिजे योगसिद्धिभाक् | पूर्ववद्वायुमारोप्य हृन्मध्ये व्योम्निधारयेत् || सोऽचिराद्योगमाप्नोति परमात्मा पदं व्रजेत् | नासाभ्यां वायुमाकृष्य पूरयेत् स्वोदरंचिरम् || भ्रुवोर्मध्ये दृशोः पश्चात् समारोप्यसमाहितः | धारयेत् क्षण मात्रं वा स याति परमां गतिम् || पृथक् पृथक् पञ्च घटीः पञ्चभूतेषु धारयेत् | तत्तद्भूत जयस्तस्य भविष्यति न संशयः | तत्तन्मात्राणि तद्वच्च धारयेत् सिद्धि कारणम् || ब्रह्मपञ्चकमेवं हि धारयेद् योग वित्तमः || शरीरं तावदेवं तु पञ्चभूतात्मकं स्वतः | तदेवन्तु सदोक्तं ते वातपित्तकफात्मकम् || वातात्मकानां सर्वेषां योगेष्वासक्त चेतसाम् | प्राणसंयमनेनैव शरीरं शुष्यति ध्रुवम् || पितात्मकत्वे त्वचिरात् न शुष्यति कलेवरम् | कफात्मकानां कायस्तु संपूर्णमचिराद्भवेत् | प्. ३४) तत्पृथ्वी मण्डले क्षीणे पलितं याति देहिनाम् | तोये क्षीणे तृणानीव चिकुराः पाण्डराः क्रमात् || तेजः क्षयेक्षुधाकान्तिर्नश्यतो मारुतस्तथा | वायुक्षये भवेन्नित्यं आकाशेनैव जीवति || इत्थं तत्तत्क्षये मृत्युर्जीवनं भूतधारणम् | पञ्चवर्ष शते लक्षे नान्यथा मरणं भवेत् || इति | अमृतनादबिन्दूपनिषदि - मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् | धारयित्वा तथात्मानं धारणा परिकीर्तिता || सूतसंहितायाम् - अथ तत्प्रवक्ष्यामि धारणापञ्चसुव्रत | देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् || प्राणे बाह्यानिलं तद्वत् ज्वलने चाग्निमौदरे | तोयं तोयांशके भूमिं भूमि भागे महामुने || हयरावलकाराख्यं मन्त्रमुच्चारयन् मुने | अयं भावः - आत्मन आकाशः संभूतः | आकाशाद्वायुः | वायोरग्निः अग्नेरापः | अद्भ्यः पृथिवी | इति | क्रमेण ब्रह्मरंध्रादिभ्रूमध्यपर्यन्तं भ्रूमध्यादि हृदयपर्यन्तं हृदयादि नाभिपर्यन्तं नाभ्यादि जानुपर्यन्तं जान्वादि पादपर्यन्तं तत्तद्वीजानि न्यसेत् | धारणैषा मया प्रोक्ता सर्वपाप विशोधिनी || जान्वन्तः पृथिवी भागात् दपां पायवन्तमुच्यते || पायुतो हृदयान्तं च वह्णिमण्डलमुच्यते | हृदयादि भ्रुवोरन्तं वायुमण्डलमुच्यते || आकाशांशस्तथा प्राज्ञमूर्धान्तं परिकीर्तितम् | ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा || अग्न्यंशे तद्वदीशानमीश्वरञ्चानिलांशके | आकाशांशे महाप्राज्ञं धारयेत् तु सदाशिवम् || अथवा तव वक्ष्यामि धारणं मुनिपुंगव || मनसीन्दुं दिशि श्रोत्रे बुद्धौ विष्ण्वंबरे हरम् | अहंकारे चतुर्वक्त्रं हस्तयोर्देवनायकम् | वाचाग्नी मृत्युमुत्सर्वे तथोपस्ये प्रजापतिम् || त्वचि वायुं तथानेत्रे सूर्य मूर्तिं तथैव च | जिह्वायां वरुणं घ्राणे भूमि देवीं तथैव च || पुरुषे सर्वशास्त्रान्त बोधानन्दमयं शिवम् | धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये || यथैषा धारणा प्रोक्ता सर्वशास्त्रवेदिभिः | ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्यकारणे || प्. ३५) सर्वकारणमव्यक्तंमनिरूप्यमचेतनम् | साक्षादात्मनि संपूर्णे धारयेत् प्रणवं नरः || धारणैषा परा प्रोक्ता धार्मिकैर्वेदपारगैः | इन्द्रियाणि समाहृत्य मनसात्मनिधारयेत् || किञ्चित्कालं महाप्राज्ञ धारणैषा च पूजिता | वेदादेव धृता देवा वेदादेव सदानराः | वेदादेव सदालोका वेदादेव महेश्वरः || इति चित्तं व्यवस्थाय धारणा सापि कीर्तिता | ब्रह्मैवाहं न गन्धर्वो देवो यक्षो नरोऽथवा || न देहेन्द्रिय बुद्ध्यादि न माया नान्य देवताः | इति बुद्ध्या व्यवस्थाय धारणा चेति कीर्तिता || इति सर्वं समाख्यातं सर्वशास्त्रविशारद || || इति योगसंग्रहे प्रत्याहारधारणानिरूपणं नाम पञ्चमोऽध्यायः || ध्यानम् || योगसारमञ्जर्याम्- अथातः संप्रवक्ष्यामि ध्यानयोगमनुत्तमम् | अकृताभ्यासशीलानां योगिनां शीलमिच्छताम् || अकलङ्कोज्ज्वलच्छीत किरणाभोदरस्थितम् | शरीरं चिन्तयेन्मासात् वलीपलितनाशनम् || हृदम्बुजे समासीनं बालसूर्यसमप्रभम् | देव्याश्लिष्टतनुं देवं सुवर्णसमवर्णया || भस्मोद्धूलित सर्वाङ्गं दधानं मृगचर्म च | पद्मासने स्थितं शान्तं त्रिणेत्रं चन्द्रशेखरम् || स्वफालस्थल बालेन्दुस्रुतदिव्यसुधाप्लुतम् | वराभयमहाटङ्क मृगमुद्राधरंशिवम् || अक्षस्रक्पुस्तकधरं प्रसन्नं परमेश्वरम् | जटामण्डलसंबद्ध महाफणिफणान्वितम् || यवयौवनसम्पन्नं ग्रस्त काल भयादिकम् | सुमुखं चारु सर्वाङ्गं गुप्तविज्ञानगोचरम् || पशुपाशौघदलनं तारकं भव वारिधेः | सर्वज्ञत्वादि सामर्थ्यदायकं सर्वसिद्धिदम् || एवं ध्यायेन्महादेवं सर्वविघ्नोपशान्तये | अथवैवं शिवंध्याये द्विशुद्धे हृदयाम्बुजे || शुद्धस्फटिकसंकाशे शरच्चन्द्रायुतप्रभम् | अक्षमालाधरं शान्तं प्रसन्नं वरदं शुभम् || सर्वमृत्युप्रशमनं वलीपलितनाशनम् | दिव्यामृतमहावर्षैर्वर्षयन्तं समन्ततः || प्. ३६) तत्सुधा वर्षपातेन सहसा शीतलात्मना | दुःखघर्द गदैर्मुक्तं भावयेदात्मननुम् || अनेनध्यानयोगेनमुच्यते देहबंधनात् | हृत्पद्मकर्णिकामध्ये सुधा दीपशिखाकृति || समुद्भुतं महज्ज्योतिर्वतिर्यादमृतांशुभिः | त्रिलोकमखिलं योगी व्याप्यमानं विचिन्तयेत् || अनेन ध्यानयोगेन योगी स्यादीश्वरः स्वयम् | स्वदेहं भावयेद् योगी कोटि सूर्यसमप्रभम् | सम्यगात्माविभेदेन सोऽचिराद्योगमाप्नुयात् || आत्मानं चिन्तयेद्योगी सम्यगीश्वरविग्रहम् | तद्भावनावशाच्छुद्धां सिद्धिं श्रीशाम्भवीं लभेत् || शिवोऽहमप्रमेयोऽयमहमचिन्त्योऽहमहं महत् | एवं ध्यानविधौध्यायेदात्मानं सर्वरूपिणम् || प्रणवचिन्तामणौ - आनन्दशीतकिरणोदयपूर्णिताशश्चित्सारफेन परिरञ्जित दिव्यतोयः | नानाविधप्रमथदैवतमत्स्यजुष्ट श्रीमत्सुधाब्धिरहमस्मि विधूतपात्मा || श्रीमद्गुरोः पदसरोरुहरेणुवज्रसंभिन्नपापभयभूभृतिदेहगेहे | कोटीन्दुभास्करनिभं परमाणुकल्पं आविस्मरामि परमं महदात्मरूपम् || विद्युत्सहस्ररुचिरं त्रसरेणु कल्प- मानन्दसान्द्र परिमोदित भावगम्यम् | पीयूषवारिनिधिसाधनमप्रमेय माविस्मरामि हृदये सुमत्प्रबोधम् || षट्पद्मकोटीरकवाट विपाटनेन या ज्योतिरूर्ध्वमुपयाति तटिल्लतेव | पीयूषरूपघनस्रारसहस्रवृष्टि मेघंभजामि हृदये परमात्मदीपम् || संवित्स्वभाव परिबृंहित वीचिजाल स्वानन्द शीकरसमुच्चय सिक्तदेहम् | सद्भावगम्य विमलोत्तमचित्तवृत्ति सेवासमुत्सुक कलामृतसिन्धुरस्मि || भूर्व्योमवायुशिखिनी रविभेदभिन्न मेकंयतोऽस्य जगतो विभवायतत्वम् | तत्सर्वकारणमनन्तमचिन्त्यमाद्यं ज्योतिर्मनोवचनदूरगमस्मिसंवित् || प्. ३७) यद्ब्रह्मकन्दमखिलागमपत्रनालं- मानन्द पिङ्गल सुधाजल दिव्यसारम् | सिध्यष्टक प्रकटपत्र विराजमानं तद्योगि भावकमल भ्रमरोऽहमस्मि || अनेनध्यानयोगेन जीवन्मुक्तिमवाप्नुयात् | ध्यानेन लभते योगं ध्यानात् सिद्धिं च दुर्लभाम् | ध्यानेन तु तरेन्मृत्युं ममवाक्यं मृषा न तु || इति सूतसंहितायाम् - अथातः संप्रवक्ष्यामि ध्यानयोगमनुत्तमम् | आकाशे निर्मलं शुक्लं भासमानं सुशीतलम् || सोममण्डलमापूर्णमचरं दृष्टिगोचरम् | ध्यात्वा मध्ये महादेवं परमानन्दविग्रहम् || उमादेहार्धवरदमुत्पत्ति स्थितिवर्जितम् | शुद्धस्फटिकसङ्काशं चन्द्ररेखावतंसकम् | त्रिलोचनं चतुर्बाहुं नीलग्रीवंपरात् परम् | ध्यायेन्नित्यंसदासोऽहमिति ब्रह्मविदांवर || अथवाकाशमध्यस्थे भ्राजमाने सुशोभने | आदित्यमण्डले पूर्णे लक्षयोजनविस्तृते || सर्वलोक विधातारमीश्वरं हेमरूपिणम् | हिरण्यश्मश्रुकेशं च हिरण्मय नखं तथा || जपाकुसुमवक्त्रं च नीलग्रीवंविलोहितम् | आगोपाल प्रसिद्ध्यन्तमम्बिकार्धशरीरिणम् || सोऽहमित्यनिशंध्यायेत् संध्याकालेषु वा नरः | अथवाहं हरिः साक्षात् सर्वज्ञः पुरुषोत्तमः || सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्रपात् | विश्वं नारायणं देवमक्षरं परमंपदम् | अथवासच्चिदानन्दमनन्तं ब्रह्मसुव्रत || अहमस्मीत्यभिप्रायो भावयेद विमुक्तये | य इदं हृदिदेवेशमपिध्यायेन्मनागपि || ब्रह्मणः साक्षिरूपत्वान्नेदं यदिति हि श्रुतिः || इति | सारगीतासु | हृदयकमलमध्ये दीपमद्वैतसारं प्रणवमयमतर्क्यं योगिभिर्योगमृग्यम् | हरिगुरुशिवयोगं सर्वभूतस्थमेकं सकृदपि मन्सा मां ध्यायतेयः स मुक्तः || इति | योगसारमंजर्याम् - शुद्धेन्दु बिम्बं हृन्मध्ये स्रवन्तममृतं स्मरेत् | अमृतेन स्वकं देहमापादतलमस्तकम् || प्लाव्यमानं स्मरेदङ्गं तर्पयेत्सुधयातया || ऋतु त्रयेण दार्ढ्यञ्च सौकुमार्यं गदक्षयम् | प्. ३८) वलीपलितनाशं च भविष्यति सुरार्चिते || कंजासनादयो(धो)देशे खरन्ध्रादूर्ध्वमेव च | पूर्वोक्तमण्डलेशीत सुधावृष्टिसमन्विते || मूलबीजाद् दलाच्छीतसुधावृष्टिविनिर्गमैः | सुधासागरसल्लीन न बहिरन्तर्विभावयेत् || अन्तरङ्गमशेषं तु ब्रह्मरन्ध्रेन्दु निर्गतैः | परामृतैर्ब्रह्मरन्ध्र नाडीविलनिवेशकैः || तर्पयेदात्मनो जीवं देवताश्च शिवेधिया | अन्तरङ्गमशेषं तु तत्सुधा वृष्टि पूरितम् | परिभाष्यस्वरोमाख्य मार्गकोटिविनिर्गतम् | सुधावृष्टिभिरभ्यक्तं बाह्यमाभ्यन्तरं स्मरेत् || तत्र मध्ये समुल्लीनमात्मदेहं तदात्मकम् | तर्पयेदात्मसुधया ब्रह्माण्डमखिलं शिवे || तत्सुधा तृप्ति सन्तृप्तं परमानन्दधीमयम् | ब्रह्माण्डमखिलं चेदमात्मदेहं विचिन्तयेत् || वेष्टयेत् सुधया स्वस्य सिरयास्निग्धशीतया | अनेन देवि योगेन षण्मासादजरामरः | लोहितन्नवमं वर्णं स बिन्दुममृतात्मकम् || नेत्रयोः परिसञ्चिन्त्य तत्सुधावृष्टि रश्मिभिः | ब्रह्माण्डमखिलं ध्यायेदात्मदेहं समर्पितम् || त्रिवर्षध्यानयोगेन निर्विकल्पेन चेतसा | सप्त सप्तान्त लोकश्च सप्तजन्म च दृश्यते || रोहितं रेफः | नवम वर्णः सकारः ह्रीं सूर्यमण्डलाय नमः इति दक्षनेत्रो संसोममण्डलय नमः इति वाम नेत्रो इति च | पयः पयमयां भोधौ नीलमात्मकलेवरम् | नित्यं चिन्तयतो वर्षात् वलीपालीतनाशनम् | ब्रह्मरंध्रामृतधारात् स्रवत्परसुधारसैः || प्लुतदेहस्तु षाण्मासात् वली पलितनाशकृत् | स्वदेहं चन्द्रसङ्काशमकुलंकसुधामयम् || ध्यायन् वर्षार्धतो योगी वलीपलिताहा भवेत् | तप्त चन्द्रमसोबिंबा न कलंकामृताप्लुतान् || मूलादिब्रह्मरंध्रान्तं सप्तपद्मेषु भावयेत् | वेदषड्दशसूर्येन्दुकलापक्षादि संख्यया || पत्रैरक्षरसंलीनैरमृतप्लावितं स्मरेत् | ऐक्यं सञ्चिन्तयेदेषां मण्डलानामनुक्रमात् || अविच्छिन्नादाधाराद्ब्रह्माण्डा वधिपार्वति | प्. ३९) प्रज्वलत्कोटि चन्द्राभमात्मदेहं तदात्मकम् | चिन्तयेदमृतासिक्तं योगीयोग प्रसिद्धये || वलीपलितनाशञ्च षण्मासाल्लभते प्रिये | वाञ्छा लाभहताधात्री दुःखान्मुच्येत वैविषात् | अब्दात् सर्वज्ञता प्राप्तिस्त्र्यब्दादीश्वरसन्निभम् || खेचरत्वं भवेद्दिष्य मणिमादिभिरर्चितम् || इति | शिवगौरीसंवादे || कमुकद्वयमध्यस्थंमैहिरं मण्डलं प्रिये || ध्यायेन्मासावधिनरो रोगराशिक्षयो भवेत् || षण्मासादिन्द्रसायुम्यत्वमब्दाद्विष्णुसमो भवेत् || षडब्दाद्रुत्वसाम्यं स्याद्द्वादशाब्दमतिप्रभः | ध्यायते नियतात्मा चेत् सत्यं कुर्यात् तु भावना || रक्ताण्डमध्यगं देवि रक्तामृतपरिप्लुतम् | ध्यायन्वर्षार्धमात्रेण जायते ह्यजरामरः || मूलाधारं स्मरेद् देविज्वलन्तं रविमण्डलम् | तत्प्रभापटल व्याप्त शरीरं परिचिन्तयेत् || तथैव ब्रह्मरंध्रेय हृदब्जे च पृथक् पृथक् | मूलबिंबं च हृदिबिंबं च हृदि बिंबं ब्रह्मरंध्रागतं तथा | अन्योन्य प्रभयाश्लिष्टं स्वशरीरं ध्रुवं स्मरेत् | तन्मयं चिन्तयेद् देहं व्योमान्तं तु दिने दिने || षण्मासादणिमादीनामाधिपत्यमवाप्नुयात् | सर्वज्ञत्वं च लभते त्रिवर्षात् सूर्यसन्निभः || तद्बिम्बान्तं स्मरेज्जीवं ज्वलद्दीपशिखाकृतिम् | मासाद्वलीपलिञ्चैव मृत्युं व्याधि भयंहरेत् || वर्षात् सर्वज्ञतां प्राप्य वसेद्व्योमांकणोर्ध्वके | चिन्तयेदात्मनो जीवं ज्योतिर्लिङ्गपदा स्थितम् || तेनाण्डं पूरितं सर्वं ममृतापूरितं स्मरेत् | तत्र मध्यगतो योगी गंधाख्यगुणपूरितम् || सर्वाधारमशेषं तु धरातत्वं न विस्मरेत् | वाण्यारस गुणाधारं जलातत्वमशेषकम् || तथारूप गुणाधारं तेजस्तत्वमशेषकम् | नेत्रत्रयेषु देवेशि चिन्तयेद् योगवित्तमः || वायुतत्वमशेषं तु श्वासमात्रे स्मरेच्छिवे | शब्दाख्यगुणसंजुष्टं व्योमतत्वमशेषकम् || श्रुतिस्थाने स्मरेद् देवि रसैः संहृत्यबाह्यकान् | ज्वालाण्डमध्यसंलीनं देहं विश्वमयं स्मरेत् || स्वदेह मध्यसंलीनं ब्रह्माण्डमिदमव्ययम् | लवादिप्रलयान्तं च ग्रसेत् कालस्य लीलया || प्. ४०) लवादि पृथिव्यादि | एकीभावेन सुदृढं बध्वापद्मासनं स्मरेत् | चिन्तयेत् काल कलुषैर्मुक्तिं देहं निरामयम् || यदा तदण्डमीशानि स्मरेत् सुषिरवर्जितम् | तदाकालभयं त्यक्त्वा शिववत् स्वेच्छया वसेत् || अनेन देवि योगेन वञ्चयेत् कालमागतम् | पृथिव्यादीनि तत्वानि स्वीकृत्यास्ते निरामयम् || ध्यानस्यास्य समानेन फलं तु शृणु पार्वति | स्फोटये च्छैलवृक्षादीन् शोषयेज्जलाधीश्वरान् || करोति घोरकालाग्नि ज्वालानलनिवारणम् | शब्दतत्वं जयेद्योगी जरामरणवर्जितम् || त्रिकालाज्ञः स्वयं कर्ता सर्वव्यापित्वमाप्नुयात् || इति | गोरक्षंः || नेत्रे निमीलीते नित्यं किञ्चिदुन्मीलिते तथा | योमनश्चक्षुषां ब्रह्म पश्यतीति स योगिराट् || शशी भास्करयोर्मध्ये तारयोः स्थित तेजसा | बिन्दुद्वयंन्तु संयोज्य ब्रह्मतारकमभ्यसेत् || बाह्यान्त मध्यलक्ष्येषु ब्रह्मदर्शनतत्परः | दृष्टादृष्टस्वरूपाणि ननुतानि विलोकया || मूलकन्दाद्दण्डलग्नाद्ब्रह्मनाडी शशिप्रभा | तस्या मध्ये तटित्कोटि निभांतामूर्ध्व गामिनीम् || मनसालक्षयेन्मूर्तिं सदृशं बिसतन्तुना | आ ब्रह्मरन्ध्रपर्यन्तं गतां सिद्धिप्रदां स्मरेत् || ललाटोर्ध्वे तथा लक्ष्ये योगी कोल्लाटमण्डले | विस्फुरत्तारकाकारं मनसा लक्षयेत् सदा | अथवा कर्णयोर्द्वारे तर्जनीभ्यां निरोधयेत् | श्रीमद्देहान्तरे नादं घूंघूंकारं शृणोति च || चक्षुर्मध्ये तथा नीलस्याति रूपं विलक्षयेत् | अन्तर्लक्ष्यामितिज्ञेयं बहिर्लक्ष्य मतः शृणु || नासाग्रदेशाच्च चतुष्क षष्ठ तथा दशद्वादशसंख्ययांगुलिः | बहिःस्मरेन्नीलसुधूम्ररक्त तरङ्ग पीताभसुतत्वपञ्चकम् || कथं वा संमुखाकाशं स्थिरदृष्ट्या विलक्षयेत् | ज्योतिर्मयूखा दृष्यन्ते योगिभिधीरमानसैः || दृष्ट्यग्रे वाप्यपांगे वा तप्तकाञ्चनसन्निभम् | भूमिं संलक्षयेद् दृष्टिः स्थिराभवति योगिनः || अथवाशरसश्चोर्ध्वद्वादशांगुलसंमिते | ज्योतिःपुञ्छनिभाकारं लक्षयेन्मुक्तिदं भवेत् || यत्रयत्राथवा योगी तत्र तत्र विलक्षयेत् | आकाशमेवयस्तस्य चित्तं भवति तादृशम् || इत्यनेकविधाकारं बहिर्लभ्यमुदीरितम् | प्. ४१) शृणुष्व मध्य लक्ष्यञ्च कथितं पूर्व सूरिभिः || श्वेतादि वर्णानथ चण्डचन्द्रसौदामिनी वह्निशिखेनबिम्बान् | ज्वलन्नभो वा स्थलहीनमेकं विलक्षयेत् तत् खलु मध्यलक्ष्यम् || निराकारं पश्येत् गुणरहितमाकाशमथवा तनोरूपंगाडस्फुरदुरुपराकाशमथवा | महाकालं कालानिलनिभमवात्यन्त रुचिमत् परं तत्वाकारां रविशशिनिभं मध्यखमिति || व्योमपञ्चकमेतद्धि तद्बाह्याभ्यन्तर स्थितिः | यः पश्यति नरो लक्ष्ये स व्योम सदृशो भवेत् || इति | योगसारमंजर्याम् - इत्थं संहृत सर्वचित्तविषयस्या शेषविश्वात्मनः संविद्भावसुधैककारण महायोगे चिरं तिष्ठतः || मेरौ स्वर्ण वदर्णवे चुलुकवत् खद्योतवद्भास्करे ब्रह्माण्डे च पिपीलिकाण्डवदहो निष्कातुका योगिनः || वासिष्ठे - सोऽहं चिन्मात्रमेवेहिति चिन्तनं ध्यानमुच्यते | ध्यानस्या विस्मृतिः सम्यक् समाधिरभिधीयते || इति योगसारसंग्रहे ध्यानलक्ष्यस्वरूपं नामषष्ठोध्यायः || उत्तरगीतायाम् | प्रमाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् | सर्वशून्यं निराकारं समाधिस्तस्य लक्षणम् || आकाशे मानसं कृत्वा मनःकृत्वा निरास्पदम् | निष्कलं तं विजानीयात् समाधिस्थस्य लक्षणम् || दृग्दृश्यविवेके - उपक्ष्य नामरूपे द्वे सच्चिदानन्द लक्षणः | समाधिं सर्वदा कुर्यात् हृदये वाथवा बहिः || सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि | दृश्य शब्दानु विद्धेन सविकल्पः पुनद्विधा || कामाद्याश्चित्तजादृश्यास्तत्साक्षित्वेन चेतनम् | ध्यायेद् दृश्यानु विद्धोऽयं समाधिः सविकल्पकः || असंगः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः | अस्तीति शब्दविद्धोऽयं समाधिः सविकल्पकः || स्वानुभूति रसावेशात् दृश्यशब्दा न पेक्षतः | निर्विकल्पस्समाधिः स्यात् निवात स्थित दीपवत् || रात्रिंदिवा बाह्यदेशे यस्मिन् कस्मिंश्च वस्तुनि | समाधिराद्यस्तन्मात्रान्नामरूपं पृथक् पृथक् || अखण्डैक रसं वस्तु सच्चिदानन्दमव्ययम् | इत्यवच्छिन्न चिन्तेयं समाधिर्मध्यमो भवेत् || स्तम्भीभावरसाश्चोक्तास्तृतीयः पूर्ववन्मतः | एतैः समाधिभिष्षड्भिर्नयेत्काले निरन्तरम् || प्. ४२) शिवयोगे - यदासंक्षीयते प्राणो मानसं च प्रलीयते | यदा समरसत्वन्तत् समाधिरभिधीयते || पतञ्जलिः - मनसो वृत्तिशून्यं च ब्रह्माकारतयास्थितिः | असंप्रज्ञातनामासौ समाधिरभिधीयते || हठयोगे - यस्समत्वं द्वयोरैक्यं जीवात्मपरमात्मनोः | समस्तनष्टसङ्कल्पः समाधिरगिधीयते || भगवद्गीतायाम् - यथा दीपोनिवातस्यो नेङ्गते सोपमा स्मृता | योगिनो यत चित्तस्य युञ्जते योगमात्मनः || वासिष्ठे - तत्वावबोध एवैक सर्वाशा तृणपावकः | प्रोक्तः समाधिशब्देन न तु तूष्णीमवस्थितिः || इमं गुणसमाहारमनात्मत्वेन पश्यति | अन्तश्शीतलता यासौ समाधिरिति कथ्यते || यस्त्वात्मरतिरेकान्तः कुर्वन् सर्वेन्द्रिय क्रिया | न परोहर्षशोकाभ्यां स समाहित उच्यते | समाहिता नित्यतृप्ता यथा भूतार्थदर्शिनी || सा यो समाधि शब्देन पराप्रज्ञोच्यते बुधैः | अक्षुब्धा निरहंकारा द्वन्द्वेष्पननु पालनी | सायो समाधिशब्देन परा स्थितरतास्थितिः || निश्चिताभिमताभीष्ट हेयो पादेयवर्जिता | सा यो समाधिशब्देन परिपूर्णस्तदुच्यते || सूतसंहितायाम् - अथातः संप्रवक्ष्यामि समाधिं गणनाशनम् | समाधिः संविदुत्पत्तिः परं जीवैकतां प्रति | नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च || न मनोऽहं न बुद्धिश्च नैवचित्तमहंकृतिः | नाहं न पृथ्वी न सलिलं न च वह्निस्तथा निलः || न चाकाशो न शब्दश्च न च स्पर्शस्तया रसः | न च गन्धो न रूपं च न मायाहं न संस्मृतिः || सदा साक्षात् स्वरूपत्वात् शिव एवास्मि केवलः | इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते || न हं ब्रह्मा न संसारी न मत्तोऽन्यत् कदाचन | इति विद्यात् स्वमात्मानं सा समाधिः प्रकीर्तिता || अथवा योगिनां श्रेष्ठ प्रणवात्मानमीश्वरम् | वर्णत्रयात्मिकं विद्यादकारादि त्रयेण तु || उच्यते प्रणवचिन्तामणौ - हकारश्शंभुरित्युक्तस्सकाशश्शक्तिरुच्यते | शक्तिरूपो स्थितश्चन्द्रो वामनाडी प्रवाहकः || प्. ४३) शम्भुरूपी दिनकरो दक्षनाडीप्रवाहकः || ब्रह्मस्वरूपमुभयोर्मध्यमंतारकंबलः || तापनीये - अकारः पुरुषस्तत्रमकारः प्रकृतिरुच्यते | तथाप्रणव ओङ्कारः बीजात्मापुरुषस्स्मृतः || मकारः शक्तिरूपत्वात् प्रकृतिश्चार्यरूपिणी | पुंस्त्रीप्रकृतिरूपेण तस्माद् रू(द्धु?)मध्यगा सदा || इति | द्व्यक्षरेण समुद्भूतं तारमेकाक्षरं स्फुटम् | ततः पञ्चाक्षरं जातं पञ्चाशद्वर्णसंहितम् || कलासंहितायाम् - आद्यस्वरः पञ्चमश्च पवर्गान्तं ततः परम् | बिन्दुनादौ च पञ्चाणुः प्रोक्तो वै प्रणवसंज्ञकः || इति | शारदातिलके - नादजाष्षोडशकला अवर्णाद्दश च स्मृता | उवर्णाद्दशसंभूतामवर्णाद्दश चापरे || तयोरपि परेजाताः कलावर्ण क्रमेण तु | आदौ सूक्ष्मसृष्टि स्वरूपेण प्रणवमाविर्भवति तद्रूपेण ब्रंह्यते || प्रणवचिन्तामणौ - मात्रा षोडशभिः क्लिष्टमवतातैःस्तथैव च | निष्पन्नं ब्रह्मतत्सर्वमभ्यसेद्योगवित्तमः | एकोन द्व्यष्टमात्रात्वं द्व्यष्टमात्रात्वमप्युमे || चन्द्रस्यैवोपपन्नत्वात् द्व्यष्टमात्रात्वमुत्तमम् | अकारश्च तयोकारो मकारस्तदनन्तरम् || अर्धम्मात्रास्ततो नादस्ततो बिन्दुस्ततः कलाः | शक्तिश्शान्तिश्च समता चोन्मना च मनोन्मनी || वैखरी मध्यमा चाथ पश्यन्ती च परा ततः | मात्रास्तु षोडश प्रोक्तास्ताभिर्युक्तस्तु तारकः || द्व्यष्ट मात्रात्मकः शुद्धः प्रणवः परिकीर्तितः | अकारस्तु चतुर्विंशत् तत्वात्मकमुदाहृतम् || उकारञ्चाषि षड्विंशत्तत्वात्मकमितिस्फुटम् | अष्टात्रिंशत्तत्वयुक्तो मकारः परिकीर्तितः | षडशीत्यात्मिकात्वर्धमात्रातत्वागमोदिताः || सप्ततत्वात्मको नादो बिन्दु द्वात्रिंशदात्मकः | कलाष्टादशतत्वोक्ताः शक्तिष्षड्विंशदात्मिका || त्रिंशत्तत्वात्मिकाशान्तिस्सर्वोत्कृष्टाजयावहा | पञ्चविंशति तत्वात्मिकेत्युक्ता समाना ततः || उन्मना च चतुष्षष्टितत्ववक्ता जगत्स्थिता | मनोन्मनी चतुर्विंशत्तत्वविख्यात गोचरा | पञ्चाशत्तत्वविस्तारा वैखरी विश्वमोहिनी || प्. ४४) अष्टाविंशतितत्वात्मा मध्यमा सर्वधामता | पश्यन्ती चतुरष्टैकं तत्वाकारासमीरिता || परात्वानन्दतत्वस्था सोक्ता चोपनिषत्क्रमात् | विशेषाणापि विदितासाशेषोपनिषत्क्रमात् || एवं षोडशसंख्याभिस्तस्मात्तत्वादिनिर्णयः || एकोनद्व्यष्टमात्रात्मकोंकारस्तारकोर्णवः | द्व्यष्टमात्रात्मकश्शंभुरोंकारस्तारको ध्रवः || वर्णवः प्रणवस्तारस्तारको योगपोध्रुवः | तार्तीयोंकार इत्येते प्रणवाः परिकीर्तिताः || द्व्यष्टावरणसंक्रान्तं तारकं ध्रुवमव्ययम् | योजानाति स एवाहं वर्णतत्वागमात्मकम् || ओंकारः प्रणवस्तारस्तार्तीयस्तारको ध्रुवः | रुद्रेशानोक्षरस्सर्वव्याप्यन्तोऽथवैद्युतः || शुक्लः सूक्ष्मः परंब्रह्म भगवानिति शङ्करी | द्व्यष्टावताराः संप्रोक्ता प्रणवोपनिषत्क्रमात् || शैवतंत्रे - षोडशकलाभेदः - अकारश्चोकारश्च मकारस्तदनन्तरम् | प्रणवस्त्वर्धमात्रा च नादबिन्दुकलास्तथा | शक्तिश्शान्तिश्च समनाचोन्मता वैखरी ततः | मध्यमा चाथ पश्यन्ती परा चेति स्वभावतः || षोडशी द्व्यष्टमात्राभिर्मिलिता योगिनो विदुः || इति | प्रणवचिन्तामणौ - अकारस्त्वं पदं विद्यात् उकारस्तत्पदं विदुः | असीत्येकं मकारस्य इत्येष प्रणवो भवेत् | त्वं पदं तु महावाक्यं प्रणवस्तत्पदं प्रिये || अर्धमात्राद्यसीत्यैक्यात्परं प्रणवमीरितम् | तद्वत्सोऽहं पदे नासीज्जीवात्मपरमात्मनोः || प्रणवेनैक्यमासाद्य स्वरूपं यतिराप्नुयात् | बिन्दुस्त्वं पदं प्रोक्तमर्धमात्रात् तु तत्पदम् || असीत्यैक्य पदो नादस्तस्मान्नादपरो भवेत् | कण्ठादकारः स्फुरति लघुपदान्नाभिरन्ध्रादुकारो मध्यस्था नान्मकारो विशति करणतः कण्ठतो भवेत् | नादो मध्याच्च शक्तिश्शिरसि च पदन्तश्शान्तिमाद्वादशान्ता मोंकारध्यानरूपी रविखतुजगन्नायको विश्वमूर्तिः || नरसिंहतापनीययोः - वेदादि मूलं सकलं स्वराणां त्रयोदशस्थं शशिबिन्दुरूपम् | प्. ४५) वेदान्वितं सुप्तभुजङ्गरूपं त्रिरत्नमूलं प्रणवं नमामि || योगसारमञ्जर्याम् - मूलाधारे स्मरेत्तारमचञ्चलतटित्प्रभम् | चित्प्रभां कुरितां देवीं शक्तिमाद्यो मनोन्मनीम् || बालार्ककोटिरुचिरां मन्त्र चैतन्यरूपिणीम् | प्रज्वलद्व्यक्तिचैतन्यादुद्भूतां वर्णपद्धतिम् || स्मरेद्देवीं दीप्यमानां ताराकारां सुवर्चसम् | तज्जीवांकुरितां देवीं हुताशकणिकाकृतिम् || उच्चरेच्च ततो मन्त्रं शब्दरूपं हृदि प्रिये || जीव चैतन्ययुक्तस्य मन्त्रस्य ज्योतिरूपिणः | ब्रह्मशीर्षसमुद्भूतं जीवशक्तिध्रुवादिकम् || पूर्ववत्प्रचयाद्देवि जीवचैतन्यमाहरेत् | आदितत्वात्मकं देवं शक्तिचैतन्यभासकम् || वर्णमालाकृताशेषं मन्त्रराजं महाप्रभम् || अतिलोमार्णमु........ महोरस्कं महाक्षमम् | ऊर्ध्वतारशिरस्त्राणं तद्बिन्दुकृतशेखरम् || अनन्तशक्तिसम्पन्नं महाज्वालं महाक्षमम् | शिवशक्तिमशेषं तु कबलीकृत्य तत्क्षणात् || सुस्थिरं चात्मनो देहे प्रज्वलन्तं ततोऽधिकम् | स्वदेह मध्यसंलीनं श्वासमोक्षावधि स्मरेत् || इति | परमेश्वरस्य प्रभयाकुण्डल्या मुखात् परात् परेण यथा जलगतमण्डुकस्य मुखात् बुद्बुदान्युत्पद्यन्ते तथोद्भूत पञ्चाशद्वर्णान् | वैखरीरूपेण प्रणवाद्युच्चार्य शिवशक्त्यात्मकतया मूलाधारे कुण्डली स्वरूपं यथा आनन्दकारमनलं विदुः | जातप्राणाग्निसंयोगात्तेन नादोऽभिधीयते || प्रणवचिन्तामणौ - आहतोऽनाहतश्चेति द्विदानादेनभियते | निर्गुणो नाहतो नादस्त्वाहतस्सगुणः स्मृतः || राजतो निर्गुणो नादः सर्वजीवहृदंबुजे | राजते प्रेरितोत्यर्थं मोक्षमात्रैकसाधनम् || ब्रह्मनादः परोहृद्य परमानन्दसागरः | द्वितीयः सगुणोनादवाचिकोपांशुमानसः || सर्वार्थमुख्यहेतुः सन् सर्वलोकैकरञ्जकः | गानसङ्गीत भरतशास्त्रेषु प्रतिपादितः || बहुरूपेण सर्वत्र प्रेरितः सन् विराजते | नादमात्रस्तु सर्वत्र वाचिकोपांशुमानसः || प्. ४६) ब्रह्मनादो मानसिको वाचिको गानमुच्यते | वितानातानसंवीत विवृतोदीर्णकुम्भकः || प्लुतानन्दा प्लुतानन्दा नवनादाः प्रकीर्तिताः | नृसिंहस्याभि मुख्यार्थं प्रह्लादेन प्रदर्शिताः | उदात्ते नानुदात्तेन स्वरितप्रचयेन च | गीत्वाथसाधकास्तत्तत्फलमप्याप्नुवन्तिते || इति नारदः | पाषाणद्रावणं मेधा कर्षणञ्च प्रवर्षणम् | शिलायां देवता वेशं क्षीरप्रस्रवणं गवाम् || भूरुहाणामकालेऽपि पुष्पोद्वेगकरं परम् | मोहकं सर्वलोकानां पश्वादि मृगपक्षिणाम् || साधकानां क्षणादेव तद्ध्यानात्संभन्त्यमी || इति | ज्ञात्वैवं साधकश्शान्तो गुरुशिक्षापुरस्सरम् | अभ्यसेन्नादसिद्ध्यर्थं विविक्ते शान्तमानसः || रन्ध्रे सकृन्मारुतपूर्णवेणुर्मनोहरं जन्मजराति नाशनम् | नदत्यजस्रं हृदि सर्वदेहिना तद्ब्रह्मनादं प्रवदन्ति योगिनः || तदुक्तं ध्यान नाद बिन्दूपनिषदि - अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् | तत्परं विन्दते वस्तु स योगी छिन्नसंशयः || इति | असाध्यदुर्जयो पाय षडन्तर्वर्तिनो रिपून् | विजित्य ज्ञनवैराग्य संपत्त्याश्रद्धयान्वितः || एकान्त दुर्गमाक्रम्य परमानन्दबन्धुरः | स्वास्तिकासनमारूढो धात्री शुद्धिपुरस्सरम् || गुर्वादि वन्दनं कृत्वा प्राणायाम परायणः | ह्रस्वदीर्घप्लुतैः सम्यग् रेचपूरक कुम्भकैः || त्रिधैकवारमुत्सृज्य तत्त्रिवारं पुनः पुनः | त्रिधैकवारमुच्चार्य षट्प्राणायामपूर्वकम् || चिन्तयेत् प्रणवाकारं स्वशरीरं समाहितः | ज्योतिर्मयं विभाव्याथ तत्त्ववित्तारवित्पुनः || प्राणायामत्रयं कृत्वा पृथगात्मनि चिन्तयेत् || श्रीकृष्णः - अधोमुखन्तु हृत्पद्ममुद्धृत्य प्रणवेन तु | गत्वा तु पद्मकोशान्तं विकसेद्व्याहृतिः पुनः || इति | तस्य मध्य गतोवह्निर्वह्निमध्य गतो रविः | रविमध्यगतश्चन्द्रश्चन्द्रमध्यगता प्रभा || ध्याननादबिन्दूपनिषदि - तत्राग्निरविचन्द्राणामुपर्युपरि चिन्तयेत् || इति | प्. ४७) प्रभामध्यगतो बिन्दुर्नादस्तन्मध्यगस्वरः || ध्याननादे - बीजाक्षरपरं बिन्दुर्नादं तस्य परः स्मृतः || इति | प्रणवचिन्तामणौ - प्रणवावृतिकालेषु निरुद्धोद्धूत वायुना || अन्यत्रगमनाभावात् ताडिते चाप्य नाहते | बिन्दुर्भिद्यति नादेन स नादःखेनभिद्यति || उत्तरगीतायाम् - अनाहतस्य शब्दस्य तस्य शब्दस्य च ध्वनिः | ध्वनिरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः || तन्मनो विलयं याति तद्विष्णोः परमं पदम् | ओंकारध्वनि नादेन वायुसंहरणान्तिकम् || निरालंबं समुद्धृत्य तत्र नादोलयं गतः || इति | अमनस्कं यथाध्यायेन्नाभि हृन्मूर्ध्नि मध्यमे | तन्मध्ये ब्रह्म इत्यार्यैर्मन्यन्ते योगवित्तमैः || बहुधा बहुरूपेण सर्वान्तर्लीन रूपवत् | न्यूनं नादं परंब्रह्म विद्धित्वमसुरार्दिनि || अकारान्तर्गतं विद्धि उकारं तस्य मध्यगम् | मकारं लीनमित्युक्तं मूर्तित्रयसमन्वितम् | तन्मध्ये बिन्दुरित्युक्तं ध्वनिस्तन्मध्यसंभवः || ध्वनेरन्तर्गतं तेजस्तेजसोन्तर्गतं रविः | रविमध्यगतः स्थाणुः स्थाणोर्मध्य गतंमनः || तन्मनो विलयं याति तन्नाद ब्रह्म इत्यते | ध्वनिना वेष्टितं सर्वं जगदेतच्चराचरम् || प्रणवचिन्तामणौ - स्थावरेष्वपि सर्वेषु जङ्गमेष्वप्यहर्निशम् | पिपीलिकादि ब्रह्मान्त जन्तुजालेष्वपि प्रिये || अन्तर्बहिः समावृत्य नादस्तिष्ठति केवलम् || इति | असाध्यः साधकानां तु करस्य इवमात्ययम् | निस्सन्देहास्सम्यगानन्द सिद्धैर्द्व्यष्टा वस्थास्सन्ति तत्तद्विशेषैः | एकैकेन व्यस्तरूपास्समस्तास्स्वस्थावस्थास्सिद्धिमुत्पादयन्ति || प्लुताप्लुतेन प्रणवं समभ्यसेत् तद्वत्तदग्रेणतदर्धमात्रकम् | रङ्गप्लुतेनेव हि नादमग्रतस्स्तदङ्गमात्रेणससिद्धिमाप्नुयात् || नादाक्रान्तार्धमात्रप्रणववमभीमुखी कृत्य नित्यं निशान्ते स्वाधाराद्व्यष्ट पद्मेष्वनुपमपवनाभ्यासयुक्त्यावकॢप्तः | ध्यातव्यस्साधकेन्द्रैः स्वहृदयदहराकाशविद्योतमान स्वान्तांभोजात मित्रो विनिहत धृतिकृत्सावधानः परित्राट् || इति | प्. ४८) आज्ञादि षोडशान्तेषु स्थलेष्वपि पृथक् पृथक् | अकारादि क्षकारान्तान् व्यक्ताव्यक्तानु कारिणः || स्वारान् ज्ञात्वा नरः सम्यक् निरुध्यानिलमन्वहम् | तदुक्तव्यवधानेन मन्द्रमध्यम तारकैः | उदात्तैरनुदात्तैश्च स्वरित प्रचयैरपि || हृदि दीपप्लुतैर्युक्तैस्तत्तदुक्तक्रमैर्यतिः | स्वरमेकैकमाद्यन्तं द्व्यष्टावस्थावशेषितम् || कृत्वा पञ्चप्लुतोदात्तारं मप्लुतपरिस्फुतम् | नादामृतमनुप्राप्य विस्मृत्यैवाखिलं जगत् || प्राप्नोति मोक्षमव्याजं पुनर्जन्मापहारकम् | एकैकमाद्यन्तमनन्य बुद्ध्या चतुर्गुणी कृत्यदश स्वरेस || ह्रस्वादिपूर्वोक्तपरान्तमेवमार्वर्तयेन्नादसमाधि योगी || त्यक्त्वा रेचकपूरकं गुरुपदांभोजस्थले पूर्णयुक् दृष्टिः केवलकुम्भकान्तरनदत् शृ(भृ)ङ्ग प्लुताप्लावितः | विस्मृत्याखिलमात्मविद् गगतवन्निश्चेष्टितो निर्ममः स्वान्तानन्दसुधान्तरं गलहरी क्रीडापरो नादवित् || इति | नादसंग्रहे - शुद्धप्लुतं पञ्चविधं विदित्वा रङ्गप्लुतं पञ्चविधं विभज्य | चतुर्गुणी कृत्य दशस्वरेभ्य समभ्यसेदुक्त दशप्लुतानि || विवृतेन प्रणवस्य क्रमाद्रंगप्लुते न दीर्घेण | व्यञ्जनेकार्धमात्रादि संज्ञां ज्ञात्वा समभ्यसेत् || इति | वेदलक्षणे च - एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते | त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम् || ह्रस्वार्धं व्यंजनं प्रोक्तं तदर्धमनुनासिकः | नादमूलं तदेवस्यादर्धमात्रेति गीयते || इति शिवः | चतुर्मात्रात्मकः तारप्लुतः प्लुतसमाहृतः | पञ्चमात्रात्मको रंगप्लुत इत्यभिधीयते || व्यञ्जनं चार्धमात्रादि चैवं ज्ञात्वासमभ्यसेत् | सानुनासिकया दीर्घ प्लुतरंगप्लुतं विदुः || ह्रस्वप्लुतदीर्घप्लुत रङ्गप्लुतश्च विज्ञेयः | व्यञ्जनप्लुत इत्येवं रङ्गप्लुतस्तु पञ्चार्धे || योगसारमंजर्याम् - अकारश्चैक मात्रःस्यादाकारस्तु द्वितीयकः | आदिनाथेन सम्प्रोक्तं तालमात्रस्य लक्षणम् || चाषस्तु शब्दे मात्रं द्विमात्रं वायसोऽब्रवीत् | प्. ४९) शिखीरौतित्रिमात्रं हि चैतन्मात्रस्य लक्षणम् || प्रणवचिन्तामणौ - वेदलक्षणे च - विलम्बत्वरितं त्यक्त्वा मध्यमस्सतु निश्चलः | वेष्टयित्वा त्रिधाजानु मण्डलं छोटकां स्मृतम् || कुर्यादेषा भवेन्मात्रा कनिष्ठा कालमानतः | मध्यमा द्विगुणासैव त्रिगुणादुत्तमोत्तमा || भवेद्द्वादशमात्राभिः कनिष्ठाभिः कनिष्ठिका | मध्यमा मध्य उद्गीत उत्तमाभिरथोत्तमः || एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते | त्रिमात्रस्तु प्लुतो ज्ञेयः चतुर्मात्रः प्लुतप्लुतः || रङ्गप्लुतः पञ्चमात्र षण्मात्रस्तु शिखिप्लुतः | समाप्लुतस्सप्तमात्रः गान्धर्वोऽष्टप्लुतः स्मृतः || प्लुतः पञ्चविधः प्रोक्तः केचिन्नाद विदोविदुः || अकारश्च उकारश्च मकारश्च प्रणवःस्तथा | उदात्तैरनुदात्तैश्च स्वरितप्रचयेन च || त्रिरावृत्तेन विदितः स्वरभेदानु भेदतः | ह्रस्वदीर्घप्लुतैरेकः प्रणवो नवधाभवेत् || केचिद्वदन्ति चान्येन चतुर्विंशतिधा पुनः | प्लुते नैवत्रिमात्रेण तच्छिकेति प्रकीर्तिता || ह्रस्वदीर्घप्लुतैरेकः प्रणवः पर्युपास्यते | सोदात्तादि त्रिभेदेन प्रणवो नवधा भवेत् || ह्रस्वदीर्घप्लुतैर्व्यक्तः प्रणवप्लुतभेदतः || उदात्ते नानुदात्तेन स्वरितेन तथा पुनः | द्वाभ्यामैक्यं त्रिधोच्चार्य ज्ञातव्यं नवधा पुनः || नवैतद्द्विविधासानु नासिकेन विपश्चितः | ज्ञातव्यमेवनिरनु नासिकेन स्वरः स्फुटः || उक्ताः स्युरन्याद्विनवभेदश्च प्रणवश्च वै | विनाप्लुतेन प्रणवं नोच्चरेत् क्वचिदप्युमे || इति प्रणवचिन्तामणौ || नवप्लुतविभेदेन संशोध्यप्रणवं पुनः | प्लुतनं वा भ्यसेद्यत्नान्मोक्षमार्गप्रवर्तकः || अकारादिपरान्तानामुक्ताः स्युष्षोडश स्वराः | प्लुतष्षोडशिका विद्धिं प्रणवं तत्प्रबोधकम् || प्. ५०) अर्धमात्राप्लुतशिखानादो रंगप्लुतं विदुः || नादंकुर प्लुतशिखाजलदान्तरस्थ विद्युल्लतेव हृदयान्तर कर्णिकादौ | आमाति दीपकालिकोपम दीपितार्धमात्रा ध्रुवोपनिषदि प्रतिपादितेयम् || प्लुतःप्लुतानुवर्तिस्यादर्धमात्रा स्वतस्तथा | समभ्यसेदर्धमात्रांश्वरूपामभवो भवेत् || नादोरंगप्लुतेनैव लभ्यते नेतरेण तु | ध्रुवप्लुताप्लुतेनैव सिध्यत्येननान्यथा || सम्यक् प्लुतशिखाज्ञेयार्धमात्रेति कीर्तिते | अर्धमात्रस्वरूपं तु ज्ञातुं वक्तुं प्रदर्शितुम् || न शक्ता सर्वदा देवि हरिब्रह्मादि योगिनः | कालस्या गमनिर्गमात् परिमितः कालो भवेदत्र सा मात्राश्वासमयी दशाक्षरमितोच्चारेणरङ्गप्लुतः | मात्राद्वादशसम्मितो यदिमरुत् देवं स्थितस्स्यात्तदा प्राणायामपदंपुमान् नधिगतः पद्मासने संस्थितः || मात्रास्वरूपमेवादो ज्ञात्वैवं प्रणवेन च | दशप्लुत क्रमज्ञश्च नादाविर्भावमाप्नुयात् || दशप्लुतानां सर्वेषां नाममेकं विनिर्दिशेत् | तारकान्त्यप्लुतान्त्यस्थं नादं तस्योपरि स्थितम् || नादब्रह्म इति ज्ञेयं गीर्वाणं परमं पदम् | अन्तश्शारदचन्द्रिका विलसितागंभीरनादांकिता व्यक्ताव्यक्ततरस्वभावविभवा योगैक रम्या परा | स्वान्तस्वानुभवैक वेद्यमहिमासद्ब्रह्मनादाह्वया ब्रह्मानन्दमयी रहस्य जननी सैवार्धमात्रा ह्वया || एवमभ्यास शीलोयः प्राणायाम परो हि सः | नादं सिद्धिमवाप्नोति नोचेद्व्यर्थाब्धि वृष्टिवत् || पूर्वोक्तप्लुतमध्ये तु पञ्चैते सुप्रतिष्ठिताः | पदान्तस्थ प्लुतो वर्णो नासिक्योरंगसंज्ञकः || पदान्ते ष्वपि सर्वत्रसरंग प्लुतसंज्ञिकः | सुश्लोकाञ्च सुमंगलां च तथा- सूक्तैः स्पष्टतया प्रपञ्चितमिदं शुद्धप्लुतं सर्वदा | बिद्वादित्याक्षरदीर्घमात्रमहितो ज्ञेयः प्लुतः प्रायशः || प्लुत स्वरूपज्ञानेन नादसिद्धिर्भविष्यति | नादानुभवविद्योगी प्रपञ्च व्यक्तलक्षणः || प्. ५१) एवमभ्यासशीलस्य सिद्धिलक्षणमुच्यते | योगसारमञ्जर्याम् - पूर्वं पूर्वं प्रकुर्वीत यावदुत्तरसंभवम् | सम्भवन्त्युत्तरे सिद्धिः प्राणायामेषु सुखी भवेत् || प्रथमश्चिञ्चिणी नादो द्वितीयः किङ्किणी स्वः | तृतीयो वेणुनादाख्यो घण्टानादश्चतुर्थकः || पञ्चमस्तालनादाख्यो भृङ्गनादस्तु षष्ठकः | सप्तमो दुन्दुभेर्नादो भेरी नादोऽप्यथाष्टकः || नवमो मेघनादश्च दशमः सागरस्वनः || छिरिकोपनिषदि - छिन्निति प्रथमः चिनिचिनीति द्वितीयः | घण्टानादस्तृतीयः | चतुर्थः शङ्खनादः || पञ्चमस्तन्त्रिनादः | षष्ठस्तालनादः || सप्तमो वेणुनादः | अष्टमो भेरी नादः || नवमो मृदङ्गनादः | दशमो मेघनादः || नवमं परित्यज्य दशममेवाभ्यसेत् || इति | स्वेदस्तु प्रथमः प्रोक्तः द्वितीयः कम्प उच्यते | तृतीयोऽद्भुत कम्पश्च चतुर्थः पिङ्गलोपमः || शरीरस्योर्ध्वगामित्वं पञ्चमं परिकीर्तितम् | षष्ठञ्च दूरश्रवणं सप्तमं दूरदर्शनम् | दिव्याहोरोऽष्टमं देवि नवमं खेचरी गतिः || जीवन्मोक्षं च दशमं त्रिकालज्ञानमेव च | चिह्नान्येतानि दृश्यन्ते निर्विघ्नस्सतु योगिनः || आसनं सिद्ध सदृशं न कुम्भः केवलोपमः | न खेचरी समामुद्रा न नाद सदृशो लयः || नादकोशार्ध मात्र स्यात् तत्कोशः प्रणवः स्मृतः | सहस्रवायवस्तस्य कोशभूतस्तपोधने || न वेदैर्नैव वेदान्तैर्नैवोपनिषदादिभिः | अर्धमात्रापरिज्ञानान्मुक्तिरेव न संशयः || कीर्तनैर्वेदपठनैर्मन्त्रैर्यज्ञैर्व्रतैर्जपैः | अर्धमात्रापरिज्ञानं विनामुक्तिं न विन्दति || अर्धमात्रापरिज्ञानाद्यतेरन्यत्र किं फलम् | अर्धमात्रापरिज्ञानाद्नेदान्त श्रवणेन किम् || अर्धमात्रास्वरूपं तु योगमार्गेण योगिनः | जानन्ति नान्ये गिरिजे किं वक्तव्यं पुनः पुनः || इति | लययोगश्चित्तलयः संकेतस्तु प्रजापते | आदिनाथेन संकेतः साधकाः परिकीर्तिताः || प्. ५२) प्रज्ञास्यात् हृदये चाथ तृतीया च तथोरसि | कण्ठे मुखे नासिकाग्रे नेत्रे भ्रूमध्यमूर्धनि || श्रीदत्तः | लयोलय इति प्राहुरीदृशं लक्षणं स्फुटम् | तत्र सर्वसमाधाने लयो विषय विस्मृतिः || पतञ्जलिः - नाभिचक्रे हृदये मूर्धनि ज्योतिषि नासिकाग्रे जिह्वाग्रे तालु नीत्येवमादि पदेषु | बाह्ये वा विषयेवृत्तिमात्रेण बन्ध इति | पूर्वयोगिभिः मूलाधारादिषु प्राणलये चोक्तेऽपि प्राज्ञानाभ्यामिति उक्तवाक्यस्यैवमभिप्रायः | आदिनाथे नादिपरमेश्वरेणा नाभेस्स्वाधिष्ठानत्वेनोक्तत्वात् | प्राज्ञानाभ्यामिति | प्रथमनिर्दिष्टम् | तदुक्तं योगसारमञ्जर्याम् नाभिचक्रं महेशानि स्वाधिष्ठानमितीरितम् | इति सौन्दर्यलहर्याम् | तव स्वाधिष्ठाने हुतवहमिति | तवश्यामं मेघं कमपि मणिपूरमिति | उत्तरत्र वक्ष्यमाण प्रकारेण नाभिचक्रं विचिन्त्य तन्मध्ये स्थित देवस्यपञ्चोपचारपूजानन्तरं तद्देवन्तेजोरूपमिति विचिन्त्य तत्तेजोऽहमिति विभाव्य तत्तेजोरूप परिणाम चित्तं यावत् तावत् नित्यमभ्यसेत् | तत्तेजः स्वात्मनि अभेदेन यदा स्फुरति तदालययोगमिति संज्ञा भवति | एवमादि नाभ्यादि स्थानेषू हनीयम् | लक्ष्यरूपं स्वयं भूत्वा ह्यनन्यविषयं स्मृतिः | लय योगस्स इत्युक्तः पूर्वमभ्यस्य सूरिभिः || वासिष्ठे - या शक्तिरूदिता शीघ्रं याति तन्मयतामजः | य एवर्तु स्थिति याति तन्मयो भवतिद्रुमः || भाविताशक्तिरात्मानमात्मतां नयति क्षणात् || इति | लययोगस्य विज्ञातुरुच्यते पतञ्जलि भगवद्भिः | नाभिचक्रे संयमं कृत्वा कायव्यूहं जानीयात् || अस्यार्थः - नाभिचक्रे संयमः चित्तलयं काय व्यूहं जानीयात् || अस्यार्थः - नाभिचक्रे संयमः चित्तलयं काय व्यूहं जानीयात् | वातपित्तश्लेष्मेषुस्थितसप्तधातूनां व्यूहः | तेषां स्वरूपं जानाति | एवमभ्यासशीलस्य वातादि जन्यदोषाः नश्यन्ति | युगपदनेकशरीरोत्पादक सामर्थ्यं काय व्यूहः | समानजयाज्वलनं नाभिचक्रे समाने चित्तलयात् अग्निप्रकाशः | हृदये चित्तसंवित् अस्मात् ज्ञानदर्शनं भवति | उरसि चित्तलयाद्धैर्यं भवति | कण्ठकूपे चित्तलयात् क्षुत्पिपासा निवृत्तिः | उदानलयाज्जल प्. ५३) कण्टकादिष्वननुषङ्गः | उदाने चित्तलयात् जलकण्ठक बाधा निवृत्तिर्भवति | शरीराद्वहिर्गमनागमन प्रवृत्तिश्च भवति | कूर्मनाड्यात् स्थैर्यम् कण्ठकूपादयः कूर्माकारनाडीस्तस्याश्चित्तलयात् स्थिरपदं लभते | दत्तः- प्राणजयात्सर्वप्राणिनां प्राक्स्वरूपलाभः | मुखे चित्तलयात् वाक्सिद्धिर्भवति | श्रीदक्षिणामूर्तिः - जिह्वाग्रे सरस्वत्याश्चित्तलयात् सर्वविद्याविशारदो भवति | नासाग्रे चित्तलयात् हंससिद्धिः | दत्तः | नेत्रे चित्तलयात् सर्वरूपदर्शनम् | (सूर्ये चन्द्रे आकाशे पवने अग्नौ जले पृथिव्यां शब्दस्पर्शरूपरसगंधादिषु वैनतेयसिंहे चित्तलयात् तत्तद्रूपयोगो भवति |) भ्रूमध्ये चित्तलयात् सायुज्यम् || पतञ्जलिः | मूर्ध्नि ज्योतिषि सिद्धिदर्शनं सूर्ये चन्द्रे आकाशे पवने अग्नौ जले पृथिव्यां शब्दस्पर्शरूपरसगन्धादिषु वैनतेये सिंहे चित्तलयात् तत्तद्रूपयोगो भवति || दत्तः | यस्मिल्लीनं यस्य चित्तं तत्तद्रूपं भवेद् ध्रुवम् | सोऽहं भाव वशान्नूनं यथा भ्रमरकीटवत् || तदुक्तं गीतायाम् - यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || इति | स्वदेहभावं त्यक्त्वा लक्ष्यरूपसिद्धिकालमेव कालः | खेचरी मेलनं चैव लययोगश्च योगिनः | हठयोगं विनासिद्धिर्जायते न कदाचन || इति | || इति योगसारसंग्रहे नादस्वरूपस्य लययोगस्य च निरूपणं नाम नवमोऽध्यायः || अध्यायः || नरप्रयत्नेन सरित्प्रवाहः निबन्धने नैव तटाकगोयथा | मरुत्प्रवाहश्च तथैव देहे निरूढमानो हठयोग उच्यते || तदुक्तं शिवयोगे - भवेदष्टांग योगेन मुद्राकरण बंधनैः | तथा केवलकुंभीव हठयोग वशानिलः || इति | मनो वायु भरे देहे स्थिते निश्चलतस्तथा | चन्द्रसूर्यौ समौयातौ हठयोगस्य लक्षणम् || संसारतापतप्तानां समाश्रयहठोहठः | अशेष योगजगतामाधारकमठोहठः || सारविद्यापरं गोप्यं योगिनां सिद्धिमिच्छताम् | प्. ५४) भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता || सुराज्ये धार्मिके देशे सुभिक्षे निरूपद्रवे | एकान्ते मठिकामध्ये स्थातव्यं हठयोगिनः (भिः) || अध्याहार प्रयासश्च प्रजलयो नियमग्रहः | जनसंघं च लौल्यञ्च षड्भिर्योगो विनश्यति || उत्साहान्निश्चयाद्धैर्यात्तत्वज्ञानार्थदर्शनात् | जनसंघपरित्यागात् षड्भिर्योगः प्रसिध्यति || सदादि नाथाय नमोऽस्तु तुभ्यं येनोपदिष्टा हठयोगविद्या | विराजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव || धौतिर्वस्तिर्नतिश्चैव त्राटकं लौलिकं तथा | कपालधाति चैतानि षट्कर्मादि प्रचक्षते || कर्मषट्कमिदं प्रोक्तं घटशोधनकारणम् | विचित्रगुणसंधायी पूज्यते योगपुंगवैः || चतुरंगुलविस्तारं सिक्तं वस्त्रं शनैः शनैः ग्रसेत् || ततः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् | कासश्वासप्लीह कुष्ठकफरोगाश्च विंशतिः || धौतिकर्मप्रभावेण धावन्त्येव न संशयः || उदर गतपदार्थमुद्वमन्ती पवनमपानमुदीर्य कण्ठनालम् | क्रमपरिचित वायुवेश्यवर्गो गजकरिणीति निगद्यते हठज्ञैः || नाभिदघ्नं जले पायु न्यस्त तालोत्कटासनः | आधाराकुञ्जनं कुर्यात् प्रक्षालं वस्ति कर्मतत् || गुल्मप्लीहोदरे वापि वातपित्तकफोद्भवाः | वस्तिकर्मप्रभावेण वार्यन्ते सकलामयाः || यात्वीन्द्रियान्तः करणप्रसादं दद्याच्चकान्तिं दहनप्रदीप्तिम् | अशेषदोषापचयं निहन्यादभ्यासमानं जलवस्तिकर्म || सूत्रं वितस्तिसुस्निग्धं नासानालैः प्रवेशयेत् | मुखान्निर्गम एतैषां ततिसिद्धिर्निगद्यते || कपालशोधिनी सैव दिव्यसिद्धिप्रसाधिनी | कण्ठोर्ध्वजाठरोगघ्नी जायते सुकरी नतिः || निरीक्ष्य निश्चल दृशा सूक्ष्मलक्ष्यं समाहितः | अश्रुसंपातपर्यन्तमाचार्यैस्तकस्स्मृतः || घोटकं नेत्ररोगाणामिन्द्रियाणां कवाटकम् | यत्नात्तु घोटकं गोप्य यथा हातकवत्तथा || अमन्दावर्त वेगेन तुन्दं सव्याजसव्यतः | नतांसो भ्रामयेत् तेषां लौलि गौढैः प्रशस्यते || मन्दाग्नि सन्दीपन पाचनादि संदायि सानन्दकरी सदैव | प्. ५५) अशेषदोषामय शोषणी च हठक्रियामौलिरियं हिलौलि || भस्त्रीव लोहकारस्य रेचपूरौ च संभ्रमौ | कपालभातिर्विख्याता कफदोषविशोषणी || षट्कर्मभिर्गतस्थौलय कफदोषमलादिकः | प्राणायामं ततः कुर्यात् अनायासेन सिध्यति || हठयोगे प्रतिपादित सूर्यभेदिताकुम्भकानां स्वरूपं पूर्वमेव प्राणायाम प्रकरणे प्रतिपादितम् | महामुद्रामहाबन्धो महावेगश्च खेचरी | ओड्याण पीठबन्धश्च ततो जालंधराभिधा || करणी विपरीतादि वज्रोली शक्ति चापलम् | अन्ते सा खेचरी मुद्रा दशमुद्राः प्रकीर्तिताः || आदि नाथोदितामुद्राः अष्टैश्वर्यप्रदायकाः | दुर्लभा सर्वसिद्धानां दुर्लभा त्रिदशैरपि || एकैका तासु मुख्या स्यात् महासिद्धिप्रदायिनी | महामुद्रांप्रवच्छ्यामि वसिष्ठेनोक्तमादरात् || पादमूलेन वामेन योनिं संपीड्यदक्षिणम् | पादं प्रसारितं कृत्वा कराभ्यां धारयेन्मुखे | कण्ठे बंधं समारोप्यपूरयेद्वायुमूर्ध्वतः || यथादण्डाहतः सर्पो दण्डाकारः प्रजायते | ऋज्वीभूता तदाशक्तिः कुण्डली सहसा भवेत् | तथाष्टौ मणि रणावस्था जायन्ते द्विपुटा स्थिताः || न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः | अपि भुक्तं विषंघोरं पीयूषमिवजीर्यते || क्षयकुष्ठगुदावर्त गुल्मप्लीह पुरोगमाः | तस्य दोषां शमं (क्षयं) यान्ति महामुद्रां तु योऽभ्यसेत् || कथितेयं महामुद्रा जरामृत्युविनाशिनी || गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् || पार्ष्णी पादस्य वामस्य योनि स्थाने नियोजयेत् | वामोरूपरिसंस्थाप्य दक्षिणं चरणं तथा || पूरयेन्मुखतो वायुं हृदये चिबुकं दृढम् | निभृत्य योनिमाकुञ्च्य मनोमध्ये नियोजयेत् || रेचयेच्च शनैरेवं महाबन्धोऽयमुच्यते | अमुंयोनि महाबन्धं सर्वसिद्धि प्रदायकम् || सव्याङ्गे च समभ्यस्य दक्षिणे च समभ्यसेत् | अयं च सर्वनाडीनामूर्ध्वंगति विबोधकः || त्रिवेणी संगमद्वारा केदारं प्रापयेन्मनः | रूपलावण्यसम्पन्ना यथास्त्री पुरुषं विना || प्. ५६) महामुद्रो महाबन्धो महावेधं विना तथा | महावेधं प्रवक्ष्यामि यथा तौ सिध्यतस्ततः || महाबन्धस्थितो योगी धृत्वापूरकमेवधीः | वायुनागतिमाहृत्य निभृतं कण्ठ मुद्रया || समहस्त युगो भूमौ स्फिजासन्ताऽयेच्छनैः | घटि द्वयं समाक्रम्य वायुः स्फुरति सत्वरः || सोमसूर्याग्नि संबन्धो जायते चामृतं च वै || मृतावस्था समुत्पत्तौ ततो वायुं विरेचयेत् | महद्वेधोऽयमभ्यस्तो महासिद्धि प्रदायकः || वलीपलितवेगघ्नः सेव्यते साधकोत्तमैः | महामुद्रा त्रयं गुह्यं जरामृत्यु निवारणम् || वह्नि वृद्धिकरं चैव ह्यणिमादि गुणप्रदम् | अष्टधादीर्यचैतद्यां यामं यामं दिने दिने || पुण्य चञ्चार सन्दायी पापौघ बिदुरं सदा || साम्यक्छिक्षावतामेव प्रथमं स्वल्पसाधने | वह्निस्त्रीपथसेवानामादौवर्जनमाचरेत् || च्छेदन दोहन चालैः कण्ठकाल क्रमेण वर्धयेत् तावत् | भ्रूमध्यं स्पृशति तदा नित्याभ्यासेन खेचरी सिद्धिः || कपाल कुहरे सिद्धिजिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || कलां पराङ्मुखी कृत्वा त्रिपथे परियोजयेत् | सा भवेत्खेचरीमुद्रा व्योमचक्रं तदुच्यते || रसनामूर्ध्वगां कृत्वा क्षणं वा यदि तिष्ठति | क्षणेन मुच्यते योगी व्याधि मृत्यु जरादिभिः || न रोग मरणं तस्य न निद्रा न क्षुधा तृषा | बध्यते न स कालेन लिप्यते न स कर्मणा || बाध्यते न स केनापि यस्य मुद्रास्ति खेचरी | चित्तं चरति वै यस्मात् जिह्वा चरति खे गता || तेनैर्वा खेचरी नाम मुनिसिद्धैर्नमस्कृता | खेचर्या मुद्रितं येन विवरंलम्बकोर्ध्वतः || तस्य नक्षरते बिन्दुः कामिन्या श्लेषितस्य च | चलितोऽपि यथाबिन्दुः संप्राप्तो योनिमण्डलम् || वज्रत्यूर्ध्वं यथाशक्ति निबद्धो योनिमुद्रया || ऊर्ध्वजिह्वा स्थिरो भूत्वा सोमपानं करोति यः | मासार्धेन न सन्देहो मृत्युं जयति योगवित् || प्. ५७) नित्यं सोमकलापूर्णं देही देहं न मुञ्चति | गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् || कुलीनं तमहं मन्ये इतरे कुलघातकाः | गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुके || गोमांसभक्षणं तत्तु महापातक नाशनम् | जिह्वा प्रवेशसंभूता वह्निनोत्तापिताखलु || चन्द्राति स्रवति यः सारस्सस्वेदोमरवारुणी | बन्धो येन सुषुम्नायां प्राणस्तुड्ढीयते यतः || तस्या दुड्याणनामायं योगिभिः समुदाहृतः | उड्याणं कुरुते यस्मात् अविश्रान्तो महाखगः || उड्याणं च तदेव स्यात् तत्र बन्धो निगद्यते | उदरे पश्चिमं ताणं नाभेरूर्ध्वं च कारयेत् || उड्डियाणमिदं बन्धो मृत्युमातङ्ग केसरी | उड्डियान्तु सहजा गुरुणा कथितं सदा || अभ्यसेदुड्डियाणं तु वृद्धोऽपि तरुणो भवेत् | नाभेरूर्ध्वमधश्चापि ताणं कुर्यात् प्रयत्नतः | षण्मासमभ्यसेन्नित्यं जयत्येव न संशयः || सति पद्मासने पद्मौ कराभ्यां धारयेद् दृढम् | गुल्फ देशे समीपेऽथ गुदं तत्र प्रपीडयेत् || पश्चिमे ताणमुदरे काययेद् हृदये गले | शनैश्शनैस्तदा प्राणस्तुन्दस्संधिन्न गच्छति || सर्वेषामेव बन्धानां उमेसा उड्डियाण नामकः | उड्डीयाणकृते बन्धे मुक्तिः स्वाभाविकी भवेत् || पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् गुदम् | अपानमूर्ध्वमाकृष्यमूलबन्धोऽयमुच्यते | अधो गतिरपानं वैह्यूर्ध्वगं कुरुते बलात् || आकुञ्चनेन तं प्राहुर्मूलबन्धं च योगिनः | गुदं पार्ष्ण्या तु संपीड्य वायुमाकुंचयेद् बलात् || वारं वारं यथा चोर्ध्वं समायाति समीरणः | प्राणापानौ नादबिन्दूमूलबंधो न चैकतः || गत्वा योगस्य संसिद्धिं गच्छतो नात्रसंशयः | आपन प्राणयोरैक्यात् क्षयान्मूत्र पुरीषयोः || युवा भवति वृद्धोऽपि सततं मूलबंधनात् | अपाने चोर्ध्वगे जाते प्रयाते वह्निमण्डले || प्. ५८) तदानल शिखाशीघ्रं वर्धते वायुना सह || ततो यावद्वह्नपानौ प्राणमूर्ध्वस्वरूपकम् || तेनात्यन्तं प्रदीप्तस्य ज्वलनो देहिनस्तथा | तेन कुण्डलिनीसुप्ता सन्तप्ता संप्रबुध्यते | दण्डाहत भुजंगीष निश्वस्य ऋजुतां व्रजेत् || बिलप्रविष्टेव ततो ब्रह्म नाड्यन्तरं व्रजेत् || तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा || पाताले यद्वियति सुषिरं मेरुमूले तदस्मिन् तत्तच्चैतत् प्रवदति सुधीः संमुखं निम्नगानाम् | चन्द्राधारा स्रवति वपुषस्तेन मृत्युर्नराणां संबध्नीयात् सुकरणमृदा नान्यथा काय सिद्धिः || कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढमिच्छया | बन्धो जालंधराख्योऽयममृताप्याय कारकः || बध्नाति हि सिरो जालमधोगामी नभोजलम् | ततो जालंधरो बन्धः कण्ठदुःखौघनाशनः || जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे | न पीयूषः पतत्यग्नौ न च वायुः प्रवाति हि || कण्ठसंकोचने नैव द्विनाड्यो स्तम्भयेद् दृढम् | अयं बन्धो मया प्रोक्तः षोडशाधार बन्धनम् || बन्धत्रयमिदं श्रेष्ठं महासिद्ध निषेवितम् | सर्वेषां हठ तन्त्राणां साधनं योगिनो विदुः || अधस्यात् कुञ्चने नाशुकण्ठसंकोचने कृते | मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः || मूल स्थानं समाकुञ्च्य चोड्डियाणं तु कारयेत् | इडां च पिङ्गलां बध्वा वाहयेत् पश्चिमं पदम् || अनेनैव विधानेन प्रयाति पवनो लयम् | ततो न जायते मृत्युर्जरा रोगादिकं तथा || ऊर्ध्वनाभेरधस्तालुरूर्ध्वं भानुरधश्शशी | करिणी विपरीताख्या गुरुवाक्येन लभ्यते || करिणी विपरीताख्या सर्वव्याधिविनाशिनी | नित्यमभ्यासयुक्तस्य जठराग्नि विवर्धिनी | आहारो बहुलस्तस्य संपाद्यः साधकस्य तु || अल्पाहारो यदि भवेदग्निर्देहं दहेत् क्रमात् | अधः शिराश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने || प्. ५९) वलिश्चपलितश्चैव षण्मासार्ध्वेन दृश्यते || याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित् | स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना || वज्रोलिं यो विजानाति स योगी सिद्धि भाजनम् | पुच्छं प्रगृह्य भुजगीं सुप्तामुद्बोधयेत् सुधीः || निद्रां विहाय सा ऋज्वी ऊर्ध्वमुत्तिष्ठते हठात् | वितस्ति प्रमितं दीर्घं विस्तारं चतुरंगुलम् || मृदुलं धवलं दिव्यं प्रोक्तं वेष्टनाम्बरलक्षणम् | भानोराकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः || मृत्यु वक्त्रगतस्यापि तस्य मृत्युभयं कुतः | नासादक्षिणमार्गवाहि पवनात् प्राणोऽतिदीर्घाकृतिः चन्द्राम्भः परिपूरिता मृत तनुः प्राद्घण्टिकायां सदा | विद्यात्कान्ति विशालवह्नि वशगान् भ्रूरंध्रनाडीगणान् तंकायं कुरुते सुवर्णरुचिरं पूर्णद्रुमस्कन्धवत् || कुण्डलीं चालयित्वाथ कुर्याद् भस्रां विशेषतः | एवमभ्यासतो नित्यं यमिनः शक्यते यमः || तदाभ्यसेत् सूर्यभेदमुज्जीयां शीतलीं तथा | एवमभ्यास युक्तस्य दिव्यकायं भवेद्ध्रुवम् || मुहूर्तद्वयपर्यन्तं निर्भयाच्चालनादसौ | ऊर्ध्वमाकुंचते किंचित् सुषुम्नां कुण्डलीं गताम् || तेन कुण्डलिनी शक्तिः सुषुम्नायाः समुद्धृताः | जठाति तस्मात् प्राणोऽयं सुषुम्ना व्रजति स्वतः || तस्मात् संचालयेन्नित्यं शंभुगर्भामरुंधतीम् | यस्याः सञ्चालनेनाशु योगीरोगैः प्रमुच्यते || येन संचालिताशक्तिः स योगी सिद्धचालनम् | किमत्र बहुनोक्तेन कालं जयति लीलया | वज्रोल्यादि त्रयं पूर्वं निन्दन्तं तत्ववादिभिः || कापालिकमतत्वेन योगसारेण लेखितम् | इति मुद्रा दशप्रोक्ता चादिनाथेन शम्भुना | करणे सर्वसिद्धिः स्यान्नच्चैकापि क्षयो भवेत् || इति | || इति योगसारसंग्रहे हठयोग स्वरूपनिरूपणं नाम दशमोध्यायः || राजयोगं विना पृथ्वी राजयोगं विनानिशि | राजयोगं विना मुद्रा विचित्रापि न राजते || प्. ६०) न भेदः शिवयोगस्य राजयोगस्य तत्वतः | बहिर्मुद्रांकितं पूर्वं बहिर्योगं च तन्मतम् || अन्तर्मुखाख्यमपरमन्तर्योगः स एव हि | राजयोगः स कथितस्स एव मुनिपुङ्गव || इति || नन्दिकेश्वरतारावलयाम्- बहिर्मुद्रापरिज्ञानाद्योगस्तारक उच्यते || अन्तर्मुद्रापरिज्ञानादमनस्क इतीरितः || बहिर्मुद्रापुरा प्रोक्ता चादिनाथेन शम्भुना | अन्तर्मुद्रां प्रवक्ष्यामि योगशांकरवर्तिनीम् || राजयोगः समाधिश्चोन्मनी च मनोन्मनी | शिवयोगो लयस्तत्वं शून्याशून्यं निरञ्जनम् | अमनस्कं यथा चैतन्निरालम्बं निरञ्जनम् | जीवन्मुक्तिश्च सहजमित्यदिर्ह्येक वाचकम् || राजानन्दीप्यमानन्तं परब्रह्माणमव्ययम् | देहिनं प्रापयेद्यस्तु राजयोगस्स उच्यते || यदा संक्षीयते प्राणः मानसञ्च प्रलीयते | यदा समरसत्वं तत् समाधिरभिधीयते || दृग् दृश्य विवेके - मनसो वृत्ति शून्यस्य ब्रह्माकारतयास्थितिः | असंप्रज्ञातनामासौ समाधिरभिधीयते || इति | व्यासभाष्ये - विरामप्रत्ययाभ्यास पूर्वकसंस्कारशेषोऽन्यस्सर्ववृत्ति प्रत्यस्तमये निरोध चित्तस्य समाधिरसं प्रज्ञातः || उत्तरगीतायाम् - प्रमाशून्यं मनः शून्यं बुद्धिशून्यमनामयम् | सर्वशून्यं निराकारं समाधिस्थस्य लक्षणम् || दत्तः - नेत्र त्रयोन्मेषनिमेष शून्यैर्वायुर्यमावर्जितरेचकपूरैः | मनश्च सङ्कल्पविकल्पशून्यैर्मनोन्मनीमग्नधियो भवन्ति || उन्मन्यवस्थाधिगमाय विद्वन्नुपायमेकं तव निर्दिशामः | पश्यन्नुदासीनदृशाप्रपञ्च सङ्कल्पमुन्मूलय सावधानः || नन्दिकेश्वरतारावल्याम् - अन्तर्लक्ष्यंबहिर्दृष्टिर्निमेषोन्मेषवर्जितः | एषासाशांभवीमुद्रा सर्वतन्त्रेषु गोपिता || शिवयोगे - लक्ष्यलीनमनसा निलेन यो वर्तते चलित तारको भवेत् | खेचरीगमय शैवशांभवी मुद्रया सततयाजगद्गुरुः || आदिनाथः - विच्छिन्नसर्वसङ्कल्पो निश्शेषाशेषवर्जितः | स्वावगम्यो लयः कोऽपि जायते वागचोरः || योगशांकरे - अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते दृष्टया निश्चलतारया बहिरयः पश्यन्न पश्यन्नपि | मुद्रेयं खलु शांभवी भवति सा युष्मत् प्रसादाद्गुरो शून्याशून्यविवर्जितं स्मरति यत्तत्वं पदं शाम्भवम् || प्. ६१) गोरक्षः - सुषिरोज्ञानजनकः पञ्चस्रोतस्समन्वितः | तिष्ठेत खेचरी मुद्रा तस्माच्छून्ये निरञ्जने || सोमसूर्यद्वयोर्मध्ये निरालम्बन्तले पुनः | संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी || प्रणवचिन्तामणौ - सा मया विदिता या माया साक्षाच्छिववल्लभा | पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे || पुरस्ताच्चैवपूर्येत निश्चितं खेचरी भवेत् | निरालम्बे मनश्शून्ये व्योमचक्रे व्यवस्थिते || निरालम्बं मनः कृत्वा न किञ्चिदपि चिन्तयेत् | कर्पूरमनले यद्वत् सैन्धवं सलिले यथा | सदा संदीयमानञ्च मनस्तत्वं विलीयते || लयोलय इति प्राहुरीदृशं विद्धि लक्षणम् | अपुनर्वासनोत्थानं लयमित्युच्यते बुधैः || परमेश्वरेण कुण्डल्या सहराजयोगं कुण्डलिनी प्रकरणे उच्यते || || इति योगसारसंग्रहे राजयोगस्वरूपनिरूपणं नाम एकादशोध्यायः || एवमभ्यास शीलस्य विघ्नाः प्रादुर्भवन्ति हि | वातपित्तादि रोगैश्च भूताद्यैर्विविधानि च || तदुक्तं योगशांकरे - प्रथमाभ्यास काले तु विघ्नास्युर्विविधा मुने | आलस्यं प्रथमो विघ्नः दुस्सङ्गश्च द्वितीयकः | मन्त्राणां साधनं ज्ञेयं तृतीयो विघ्नसंभवः || चतुर्थो धातुवादः स्यात् पञ्चमं काव्यकल्पना | उपसर्गाः प्रवर्तन्ते दृष्टस्यात्मनि योगिनः || काम्यक्रियास्तथा कामान् मानुषानभिवाञ्छति | स्त्रियोदानफलं मायां विद्यारूपं धनं दिवः || देवत्वममरेशत्वं रसायनवधः क्रियाः | मरुत्प्रपतनं यज्ञो जलाग्न्यो रुपसेचनम् || श्राद्धान्नादी निदानानि फलानि नियमास्तथा || ततोपवास पूर्वञ्च देवताभ्यर्थनानि च | तेभ्यस्तेभ्यस्स्वकर्मभ्यः उपतृष्णाभि वाञ्छितम् | चित्तमित्थं प्रवृत्तं तु यत्नाद्योगी निवर्तयेत् | ब्रह्मसङ्गिमनः कुर्वन् उपसर्गाद्विमुच्यते || इति | मार्कण्डेये - उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः | योगिनः संप्रवर्तन्ते सत्वराजसतामसाः || प्. ६२) प्रतिभाश्रवणो दैवो भ्रमावर्तौ तथापरौ | पञ्चैते योगिनो योगविघ्नाय कटुकोदयः || देवार्थवाक्यशास्त्रार्थ विद्याशिल्पाद्यशेषतः | प्रतिभाति यदन्यच्च प्रतिपः स तु योगिनः | शब्दार्था नखिलान् वेत्ति शब्दं गृह्णाति यच्चवै || यो जन्मानां सहस्रेभ्यः श्रवणस्याभि धीयते | मासान्ताद्वीक्षते चाक्ष्णा देवयोनि गणादयः || उपसर्गं तमप्याहुर्देवमुन्मत्तवद्बुधः | भ्राम्यते यन्निरालंबं मनो दोषेण योगिनः || समस्ताधारविभ्रंशो भ्रमरसपरिकीर्तितः | आवर्तयुवतो यस्य ज्ञानावर्तो यदाकुलः || चित्तनाशकृतावत्त उपसर्गस्स उच्यते | ततोऽभ्यास परित्यागं प्रथमं विघ्न उच्यते | ततोऽभ्यास परित्यागं प्रथमं विघ्न उच्यते || द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता | आलस्यं च चतुर्थं स्यात् निद्राकोपं च पञ्चमम् || षष्ठं च विरतिर्भ्रान्ति दर्शनं सप्तमं स्मृतम् | विशेषं चाष्टमं चैव ह्यनाख्यं नवमं स्मृतम् || अलब्धभूमिर्दशमं गोरक्षेण प्रकीर्तितम् | सर्वत्रानुपपत्तौ च देशकाल विवर्जिते || असतां दर्शने योगं तस्मात् तु परिवर्जयेत् || इति || दत्तः | न वेष्टधारिणं किञ्चित् कारणं न च तत्कथा | क्रियैव कारणं सिद्धिः सत्वमेतत्तु सांकृते || शिश्नोदरार्थ योगस्य कथेयं वेष्टधारिणः | अनुष्ठानविहीनास्तु पञ्चयन्ति जनानिह || उच्चावचैर्विप्रलोभैर्विन्दन्ति कुशलान्वितैः | योगिनो वयमित्येवं मूढाः कामपरायणाः | शनैः शनैस्तान् यो ज्ञात्वा योगाभ्यासविवर्जितान् || कृत्वार्थवञ्चनैरेवं वञ्चयेद्वेषधारिणः | यतस्ते विघ्नभूतास्तु योगाभ्यासस्य सर्वदा || वर्जयेत्तान् प्रयत्नेन चेदृशी सिद्धिजाप्रयान् || योगसारमञ्जर्याम् - भटभेदाश्च चत्वारो नदभेदास्तथैव च | अंगशोषः क्षुधालस्यं कण्डूर्देह विवर्णता | भटस्य प्रत्ययास्त्वेते तेषां शृणु च भेषजम् || प्. ६३) मनो निर्विषयं कृत्वा त्रिमासममरीरसम् | देहमुद्वर्त्तयेत् तस्य देहवृद्धिः प्रजायते || त्रिरुद्वर्तनं कुर्यात् दिवारात्रं तथैव च | रसनामूर्ध्वमायोज्य वज्रकन्दपरोन्मुखीम् || तत्सुधांन्निहतस्सत्यं क्षुधालस्यं च नश्यति || तत्सुधाममरीं देवि गृहीत्वा चांगमर्दनात् | तच्छरीरविवर्णत्वं कण्डूत्वं च विनश्यति || नट भेदाश्च चत्वारो बहुधा संस्थिताः प्रिये | नेत्र रोगाङ्ग रोगञ्च दाहो भ्रान्तिस्तथैव च || भेदमेकं मया प्रोक्तं द्वितीयमधुना शृणु | तदन्तरुक्चाल्प सत्वं देहलाघवनाशनम् | तृतीय भेदञ्च तथा शृणु देवि महाज्वरः || शिरोरुक्चोष्णभेदश्च जिह्वाभ्रान्तिस्तथैव च | वमनं कासदोषञ्च नेत्रान्धत्वं तथैव च || दुर्जया च तथा निद्रा तेषां शृणु च भेषजम् | स्वमूलोच्छ्वाससम्पन्नामूर्ध्वं कुण्डलिनां न्यसेत् | निश्चलामूर्ध्वगां जिह्वां कृत्वा कुम्भकमाश्रयेत् || शक्तिक्षोभान्महादेवि ज्वलनादि प्रभेदतः | यदाशृणोति तन्नादं तदामुक्तस्स उच्यते || इति चिन्तये मृतासक्तं स्वदेहं परमेश्वरि | अनेन देवि योगेन सर्वरोगैः प्रमुच्यते || अनेनैव विधानेन द्विमासान्तं यदा चरेत् | तदा शृणोति कर्णान्तं महागजरवध्वनिः || पूर्ववच्चिन्तयेद्देहं द्वितीयैर्मुच्यते गदैः | त्रिमासान्ते सिंहनादं शृणोति परमेश्वरी || तृतीयदोषभेदाश्च मुच्यते नात्र संशयः | मेघनादमघोराख्यं चतुर्थे मासि पर्यये || श्रुत्वा पूर्ववदभ्यस्य तुर्यदोषैः प्रमुच्यते | एवं स्थिरमतिर्ध्यानमभ्यसेच्च द्विकालकम् || साधयेत् त्र्यब्दतस्सिद्धिर्जायते नात्र संशयः || इति | दत्तः | स्निग्धां यवागूमत्युष्णां पीत्वा तत्रैव धारयेत् || विघाते वचसो वाचां बाधिर्ये श्रवणेन्द्रिये | तथैवां पुफलं ध्यायेत् तृषार्तो रसनेन्द्रिये || यस्मिन् यस्मिन् ऋजोदेशे तस्मिंस्तु कृषहारिणी || धारयेद्धारणामुष्णोशीतांशीते विदाहिनी | कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन धारयेत् || प्. ६४) वायुः काष्ठम् | कीलं कला | शनैः शनैः प्राणै धारणेनैव शान्तिः | लुप्त स्मृत स्मृतिः सद्यो योगिनस्तेन जायते | द्यावापृथिव्यो वायवाग्नि व्यापिनावसुधाधरा || अमानुषा सत्वजाता बाधास्त्वेति च कीर्तिताः || अमानुषां सत्वमन्तः योगिनं प्रविशेद्यदा | वायवग्निधारणाच्चैनं देहसंस्था विनिर्दहेत् || एवं सर्वात्मना कार्यारक्षायोगनृपोविदः | धर्मार्थकाममोक्षाणां शरीरं साधनं यतः || प्रवृत्ति लक्षणाख्याता योगिनो विस्मयात् तदा | विज्ञानलयमाप्नोति तस्माद्गोप्य प्रवर्तयः || इति मार्कण्डेय पुराणे गोरक्षः || प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् | ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः || कम्पो भवति देहस्य चासनस्थस्य योगिनः | ततोधिकतराभ्यासात् दर्दुरी जायते भृशम् || ध्रुवम् || यथा च दर्दुरो गच्छेदुत्प्लुत्योत्प्लुत्यभूतले | पद्मासनस्थितो योगी तथा गच्छति भूतले || ततोऽधिकतराभ्यासात् भूमित्यागश्च जायते | पद्मासनस्थ एवासौ भूमिमस्पृश्य वर्तते || निराहारो विचित्रं हि तथा सामर्थ्यमुद्भवेत् | अल्पं बाहुबलं भुक्त्वा योगीनव्यथते तथा || अल्पमूत्रपुरीषः स्यादल्पनिद्रा च जायते | कीटो वा मूषिका लूता स्वेददुर्गन्धता नने || एतानि सर्वदा तस्य न जायन्ते ततः पुनः || ततोऽधिकतराभ्यासात् बलमुत्पद्यते भृशम् | येन भूचर सिद्धस्य भूचराणां गजक्षमः | व्याघ्रो लुलायोऽप्यश्वोवा गवयो गज एव वा || सिंहो वायोगिना तेन म्रियते हस्तताडिता | कन्दर्पस्य यथारूपं तथा तस्यापि योगिनः | तस्मिन् काले महाविघ्नो योगिनः स्यात् प्रसादतः | तद्रूपविवशानार्यः कांक्षन्तेऽस्यसमागमम् || यदिसङ्गं करोत्येवं बिन्दुस्तस्य विनश्यति | आयुः क्षयो बिन्दुहानिरसामर्थ्यं च जायते || तस्मात् स्त्रीणां सङ्गवर्जं कुर्यादभ्यासमादरात् | योगिनोंगेषुगंधः स्यात् सततं बिन्दुधारणात् || तस्मात् सर्वप्रयत्नेन बिन्दू रक्ष्यो हि योगिनाम् || प्. ६५) प्रणवचिन्तामणौ - तथा च व्याधिभिस्त्यक्तस्तथा प्राणेजिते तथा | स्वेच्छया वर्तते देह आसनोदुच्चलिस्यति || यावदासनमुत्सृज्य देहो व्योम न चाश्रयेत् | यावद्रोगाश्च विघ्नाश्च संभविष्यन्त्यनेकथा || नागाः सुरेन्द्रकन्याश्च यक्षिण्यो सिद्धकन्यकाः | प्रार्थयिष्यन्ति ते देविहृच्छ्रयेण भृशातुराः || शृणोति दिव्यवार्तां च दिव्यदर्शनमेव च | रसायनाद्यौषधं च स्वयमेव प्रवर्तते || नृपाश्च पृथिवी दानैः बहुमानैश्च पुष्कलाः | योगिनः संप्रवर्तन्ते विघ्नार्थमितरेऽपि च || यस्याज्ञा वर्तते देवि देवतिर्यङ्नरादिषु | एवं प्राप्तान् महाभोगान् देवासुरमहीभुजः || तृणवत्तांस्त्यजन्योगी स परां सिद्धिमाप्नुयात् || इति | धारणायां च सिद्धायां योगिनो यत तेजसः | विघ्नार्थमभिवर्तन्ते गुह्यका बलिकामुकाः || योगसारमञ्जर्याम् - अन्यथा वर्तमानस्य विघ्नं कुर्वन्ति दारुणाः | रोगैर्बहुविधैर्देवि श्रमजैर्निद्रया तथा || प्रतिबन्धैश्च विविधैरविश्वासैश्च जृंभणैः | तस्मात् तेषां बलिं दद्यात् यथावन्नियत्तात्मवान् || एककालं द्विकालं वा त्रिकालं वा बलिं क्षिपेत् | अर्धरात्रे विशेषेण तद्यथा शृणुपार्वति || एकान्ते विजने देशे कृत्वा मण्दलमुत्तमम् | ऐं व्यापकमण्डलाय ऐं | इति सकृद्दद्यात् || चतुरश्रं महेशानि मण्डलं कुसुमाक्षतैः | तत्र मण्डलमाधाय साधारं पत्रमुत्तमम् || अर्धान्नं पूर्णसलिलं सपुष्पं साक्षतं गुहे | बलिं दद्याच्च मन्त्रेण तर्जन्यासंप्रतर्पयेत् || सर्वभूतेभ्य इत्यन्ते हुंकारं सम्यगुच्चरेत् | स्वाहान्तोऽयं महामन्त्रस्तारपञ्चकसंपुटः || सर्वविघ्नविधातार्थमीरितः प्रथमं प्रिये | पूर्वस्यां दिशिभूतांश्च भूतनाथं च तर्पयेत् || दक्षिणे सकलान् यक्षान् यक्ष कन्याश्च तर्पयेत् | पश्चिमे राक्षसान् बाले तथा राक्षस योषितः || उत्तरे क्षेत्रपालं च तत्कन्याश्च प्रतर्पयेत् | ऊर्ध्वायां दिशि देवांश्च देवकन्याश्च तर्पयेत् || प्. ६६) मध्ये चराचरगुरुमीश्वरं भुवनैः सह | तत्र त्यान्योगिनी क्षेत्रनाथान् गुणकानपि || तर्पयेत् पञ्चभूताद्यैर्भावयेत् परिवेष्टितम् | तत्परामृतसन्तृप्तं भावयेत् स चराचरम् || अनेन बलिनातृप्ता योगिनः सिद्धिमुत्तमाम् | दिशन्ति भूतनाथास्ते चान्यथा विघ्नयन्ति च || तस्मात् सर्वप्रयत्नेन बलिं दद्याद्विचक्षणः | ततो यत्नं प्रकुर्वीत मन्त्रयोगस्य योगवित् || इति | प्राणायामेन योगशान्ति प्रकार उच्यते || प्रणवचिन्तामणौ - जिह्वया वायुमाकृष्य यः पिबेत् सततं नरः | श्रमदाह विनिर्मुक्तो भवेन्नीरोग भाक् क्रमात् || जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् | पिबेदमृतमव्यग्रं सकलं भद्रमश्नुते || इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् | यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते नरः || नाडिभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् | नेत्ररोगा विनश्यन्ति तथाश्रोत्रे निरोधयेत् || श्रोत्ररोगाविनश्यन्ति प्राणायाम बलेन तु | तथा वायुं समाकृष्य धारये च्छिरसिस्फुटम् || शिरो रोगा विनश्यन्ति सत्यमुक्तं बृहस्पते || इति सूतसंहितायाम् - कुलार्णवे च - ब्राह्मे मुहूर्ते अथवा संध्याकलेषु वा पुमान् | जिह्वया वायुमाकृष्य यः पिबेन्मन्त्रपूर्वकम् | त्रिमासात् तस्य कल्याणि वाक्सिद्धिर्जायते ततः || काकचञ्चुपुटेवाथ पिकचञ्चु पुटेन वा | यः पिबेत् पवनं योगी सर्वरोगैः प्रमुच्यते || षण्मासाभ्यासयोगेन सर्वरोगैः प्रमुच्यते | आत्मन्यात्मानमिलया कुण्डल्या यस्तु धारयेत् | क्षयरोगादयश्चापि नश्यन्ति त्रिदशार्चिते || नासाभ्यां वायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः | यो वहे देक घटिकां व्याधिभिः सोऽपि मुच्यते || मासमेकं त्रिसन्ध्यासु जिह्वयारोप्यमारुतम् | यः पिबेत् त्रिदशाहारं धारयेत्तुन्द मध्यमे || गुल्म प्लीहोदरस्लिष्ट त्रिदोषजनितान्यपि | तुन्दमध्यगतारोगाः सर्वे नश्यन्ति योगिनः || प्. ६७) ज्वराः सर्वे विनश्यन्ति श्लेष्माणि विविधान्यपि | शिवै किं बहुनोक्तेन वलीपलितनाशनम् || एवं वा विजयोपायं प्राणस्य तु वरानने || इति रोगशन्ति मन्त्रमुपासनाक्रमश्चोच्यते- योगसारमञ्जर्याम् - आग्नेययां धारणाद्योगे रोमेवारुणधारणा | मूर्छायामभिघाते वा भूते प्रेताद्युपद्रवे | प्रजपेद् वैद्यनाथार्णं विषदोषे च दारुणे || सर्वरोग प्रपीडासु सद्यो योगी सुखी भवेत् | पिनाकी पीठगोमेदस्तथापावकमारुतौ || सार्पी स बिन्दुमद्बीजं मुच्चरेद्रोग नाशनम् | जायन्ते वैद्यशब्दं च मेषो दण्डी च दण्डिनौ || व्योमसूर्याग्नि जायन्ते तारयोगान्महामनुः | षड्दीर्घस्वरयुक्तेन बीजन्यासं स मुच्यते || प्रदृश्यामृतमुद्रां च मन्त्रेण व्यापयेत् तनुम् | कुन्देन्दु स्फटिका मलं त्रिणयनं दिव्यामृताच्छं घटं बिभ्रद्दक्षकरे तथेतर करे सर्वौषधीनां रसैः | पूर्णं पात्रवरं दधत्स्व शिरसि श्रीवैद्यनाथं प्रभुं ध्यायन् व्याधिगणैः क्षणेन मनुजो मुक्तश्चिरं जीवति || एवं ध्यात्वा जपेन्मन्त्रं सप्तसाहस्रमादरात् | मुच्यते सर्वरोगैश्च तथा भूताद्युपद्रवैः || मन्त्र - लं वं रं यं ऊं स्वाहा - वैद्यनाथाय नं हं घ्रीं स्वाहा ओं || इति | अथवान्य प्रकारेण देवं धन्वन्तरिं स्मरेत् | प्रजपेत् तन्मनुं सर्व व्याधि पीडा विनाशनम् || शुण्डिकाषायं पीत्वा सुस्निग्धं तद्धारणा बलात् | पूर्वोक्तमन्त्र स्मरणात् मुच्यते व्याधिभिश्शनैः || सर्वोपसर्गशान्त्यर्थं वेदमृत्युञ्जयं जपेत् | पञ्चस्वरासनगतो देवि(वी)शिवरासनः || बिन्दुमत्कादि सहितो भृगुस्तारादिरीरितः | मन्त्रो मृत्युंजयो देवि महामृत्यु विनाशनः || त्र्यक्षरास्सर्वमन्त्राणां सुमहावीरहानलः | मन्त्रान्ते साध्य नामोक्त्वा प्रतिलोमेन चोच्चरेत् || पुटितः पञ्चतारेण सम्यग् बुद्धिः करस्थिता | दण्डिना भृगुणा कुर्यात् षडंगं विधिपूर्वकम् || दश शत दल पद्मं कोटिचन्द्रावदातं करधृत वरमुद्रा पाशवेदाक्षसूत्रम् | प्. ६८) धृतशशधरखण्डोद्गीर्ण पीयूषवर्ष प्लुतमिति परिभाष्य प्रोश्श्यते रोगजालैः || हृदय कमलमध्ये चन्द्रिकापूरमुक्ता रजत कुमुदभासा सूक्ष्ममीशानमाद्यम् | स्मरति यदि स रोगैर्विघ्न जालोपसर्गैः प्रजनित कुभयाद्यैर्मुच्यते देवि योगी || गगन जलदभासा शूलखट्वाङ्ग घण्टा कुलिशवरकपाला भीतिहस्तारविन्दम् | सकलदुरित भूतप्रेत कूश्माण्ड वर्ग ग्रसन निरतमीशंध्यायतः स्यादभीतिः || प्रजपेदष्टसाहस्रं ध्यात्वैवं परमेश्वरम् | सर्वोपसर्गविघ्नाद्यै मुच्यते व्याधिभिः सह || इति | मन्त्रस्तु मृत्युञ्जय त्र्यक्षरी | जपेद्द्वादश लक्षन्तु य इदं मन्त्रमादरात् | वलीपलित निर्मुक्तो ह्यजरा मरतां व्रजेत् || पूर्वोक्तासनमभ्यस्य समासीनो जितेन्द्रियः | ध्यायेत् परतरं तत्वं निश्चले नान्तरात्मना || सर्वविघ्न निवृत्त्यर्थं पूर्वं ध्यायेन् महावपुः | पाताल तल पादं च भुकटि व्योम देहकम् | स्वर्गादिलोकशीर्षं च दिग्बाहुं देवतामयम् || आदित्य चन्द्रनयनं क्षेत्रस्रग्विभूषणम् | समुद्रवसनं व्याप्तं ब्रह्माण्डपदमद्भुतम् || ब्रह्मादि तृणपर्यन्तं जगदेतच्चराचरम् | स्वरोमकूपकं ध्यायेत् स्वदेहञ्च जगम्मयम् | एवं ध्यायेन्महारूपं देविचित्त स्थिराप्तये || इति प्रध्यायतस्सम्यक् योगिनश्चित्तवृत्तयः | शनैर्निश्चलतामेति दिव्यज्ञान विचिन्तनात् || एवं चित्तं स्थिरीकृत्य तच्चध्यानमुपक्रमेत् | ध्यायेत् स्वहृदये पद्मं शिवशक्त्यात्मकं परम् || तारकं शक्तिनालं प्रासाद मनुकर्णिकम् | अग्निमण्डल पत्राढ्यं सूर्यमण्डलकेसरम् || सोममण्डल किंजल्कं पराप्रासादकर्णिकम् | शिवशक्तिसमायुक्तं चिन्तयेच्चिरमात्मवित् || तन्मध्ये परमेशानं ध्यायेदात्मविशुद्धये | नीलजीमूतसंकाशं जटाबद्धमहोरगम् || बालेन्दुशेखरं भीमं हुंकारव्याप्तदिङ्मुखम् | प्. ६९) खड्गशूलाभयधरं नागपाशधरं विभुम् | कपालघण्टासि महितं बिभ्राणं वरदं तथा || रक्ताम्बरधरं रक्तमाल्यं गन्धविभूषितम् || नागाष्टकमहाहारं गर्जन्तं भयनाशनम् | व्याघ्रचर्मपरीधानं सिंहचर्मोत्तरच्छदम् || नूपुरच्छन्नहारादि भूषणैः परिभूषितम् | सोमसूर्याग्नि नयनं दंष्ट्रा निष्टयूतपावकम् || ग्रसन्तमखिलं दोषविघ्नकोटि विभेदकम् | सर्वशत्रुक्षयकरं महामृत्युविनाशनम् || वलीपलित दौर्भाग्य जरारोगविनाशनम् | सर्वसिद्धिकरं देवं भैरवं भक्तरक्षकम् || माध्वीरससमापूर्ण नयनत्रयमण्डनम् | परमाह्लाद चेतस्कं सर्वलोक गुरुं हरम् || ध्यायेदेकाग्रया बुद्ध्या सर्वविघ्नोपशान्तये | तद्वामरं स्थलगतां चण्डिकां दुःखनाशिनीम् || कालाभ्राञ्जनसंकाशां बर्बरोर्ध्वशिरोरुहाम् | मुण्डस्रङ्मण्डितां कृष्णां सर्पकुण्डलमण्डिताम् || रक्तगंधप्रसूनाद्यैर्भूषितां भूषणैरपि | षड्वक्त्रां द्वादशभुजां प्रतिवक्त्ररदच्छदाम् || वज्रांकुशवरांचक्रखड्गखेटकत्रिशूलिनीम् | कार्तिकोद्दण्डमुसल वरदाभयधारिणीम् || भद्रां त्रिणेत्रां भक्तार्तिभञ्जनीं चन्द्रशेखराम् | भक्ततापत्रयहरां कालग्रसनरूपिणीम् || माध्वी पूर्णकपालाढ्यां नवयौवनगोचराम् | योगिनीगणसंजुष्टां भैरवीं भयहारिणीम् || सर्वेप्सित फलप्राप्ति कारणां कारणत्रयीम् | एवं ध्यायेच्चिरं देवीं योगीयोग फलाप्तये || सर्वोपद्रवशान्त्यर्थं सर्वाभीष्टफलाप्तये | अनेन ध्यान योगेन कालमृत्यु भयादपि || मुच्यते परमेशानि न मयोक्तं मृषा भवेत् | असीत्ये तन् महाध्यानं त्यक्तोपद्रवसंशयः || पुनर्ध्यायेन्महादेवं सर्वोपद्रवशान्तये | हृदम्बुजे महादेवं बालसूर्यसमप्रभम् || देव्याश्लिष्ट तनुं देवं सुवर्ण समवर्णया | भस्मोद्धूलित सर्वांगं दधानं व्याघ्र चर्म च || प्. ७०) पद्मासनस्थितं शान्तं त्रिणेत्रं चन्द्रशेखरम् | स्वफालस्थलबालेन्दु स्यूत दिव्य सुधाप्लुतम् || वरावभयमहाटंक मृगमुद्राधरं शिवम् | अक्षस्रक् पुस्तकधरं प्रसन्नं परमेश्वरम् || जटामण्डलसंबंध महामणिफलान्वितम् | नवयौवनसम्पन्नं ग्रस्तलोकभयादिकम् || सुमुखं चारुसर्वांगं गुप्तविज्ञानगोचरम् | पशुपाशुघ दलनं तारकं भववारिधेः || सर्वज्ञगुणसामर्थ्य दायकं सर्वसिद्धिदम् | एवं ध्यायेन् महादेवं सर्वविघ्नोपशान्तये || सर्वज्ञत्वप्रलब्ध्यै च सर्व सिद्ध्यैक हेतवे | अथवान्य प्रकारेण ध्यायेद्दुःखोपशान्तये || शुद्धस्फटिकसंकाशं शरच्चन्द्रायुतप्रभम् | अक्षमालाधरं शान्तं प्रसन्नवदनं शुभम् || त्रिशिखाभयसंयुक्तं रजतादि समप्रभम् | सर्वमृत्यूपशमनं वलीपलितनाशनम् || दिव्यामृतमहावर्षैर्वर्षयन्तं समन्ततः | तत्सुधावर्षपातेन सहसा शीतलात्मना || दुःखधर्मविनिर्मुक्तं भावयेदात्मनस्तनुम् | अनेन ध्यान योगेन मुच्यते दुःखबन्धनात् || व्याधिभिश्चोपसर्गैश्च तथा गुह्यकभूपतेः | यदा समुत्थितं विघ्नं योगी पश्यति पार्वति || तदाभूत बलि दद्यात् पूर्वोक्तविधिना सुधीः | पूर्वोक्तैर्जपहोमैश्च वक्ष्यमाणैश्च भेषजैः || दानैर्होमैस्तथा ध्यानैश्शमयेद् विघ्नमुत्थितम् || || इति योगसारसंग्रहे विघ्नशान्तिर्नामद्वादशोध्यायः || आधारष्षण्णवत्युक्ता सर्वदेहेषु योगिभिः | तेषु संगृह्य वक्ष्यामि षडाधारान् यथाक्रमम् || आधारं मणिपूरञ्च स्वाधिष्ठानमनावृतम् | विशुद्धिराज्ञाषट्चक्रे माधारणीतिकीर्तितम् || रुद्ररहस्ये- सर्वाधारा मही यस्मात् मूलाधारतया स्थिता | यदभावेन देहस्य पातः स्यादुद्गम स्थितेः || याज्ञवल्क्ये - गुदात्तुद्व्यंगुलादूर्ध्वं मेढ्रात्तुद्व्यंगुलादधः | मूलाधारं तयोर्मध्यं मनुष्याणामितीरितम् || प्. ७१) चतुष्पदां तु हृन्मध्यं तिरश्चां तुन्दमध्यमम् | योगसारमञ्जर्याम् - यल्लिङ्गाधारमध्यस्थं मध्ये शक्त्यं कुरान्वितम् | यवमात्र प्रमाणं तु त्रिकोणाकारमुत्तमम् || निष्कलं तत्पदं तेजः परस्मात् परसंज्ञिकम् || प्रणवचिन्तामणौ - देहमध्ये शिखिस्थाने तप्तजाम्बूनदप्रभम् | त्रिकोणद्विपदानाञ्च चतुरश्रं चतुष्पदाम् || वृत्तविहङ्गमानाञ्च षडश्रं सर्प जन्मनाम् | अष्टाश्रं स्वेदजानां तु तस्मिन् दीपवदुज्ज्वलम् || ज्ञानविद्यायाम् - त्रिकोणरूपिणीं शक्तिर्बिन्दुरूपश्शिवः स्मृतः | अविनाभावसंबन्धस्तस्माद्बिन्दु त्रिकोणयोः || योगार्णवं च - महीपद्मस्य मध्ये तु स्मरेत् पावकमण्डलम् | रजोगुणसमायुक्तं तन्मध्ये परमेष्ठिनम् || इति बिम्बमहालिङ्ग शिवशक्ति निकेतनम् | शिवस्य जीवरूपस्य स्थानं तद्धिप्रकाशकम् || यत्र कुण्डलिनी नाम्ना पराशक्तिः प्रतिष्ठिता | तस्माद् उत्पद्यते वायुस्तस्मादग्निः प्रजायते || तस्माद् उत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते | यस्माद् उत्पद्यते सूर्यस्तस्मादुत्पद्यते मनः || तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् || इति | मूलाधारं त्रिधावृत्तं ब्रह्मचक्रं महीरुहम् | कन्दादधः स्थिताशक्तिर्बालसूर्यसमप्रभा || चतुर्दलं चतुर्वर्णं तप्तजाम्बूनदप्रभम् || चतुष्पदं परानन्दञ्चतुराम्नाय भूषितम् | षट्पञ्चाशत्कलाकीर्णं गन्धमात्रासमावृतम् || महीचक्रस्य विस्तारमुक्तमेवं पुरातनैः | मणिभिः पूरितत्वेन मणिपूरकमिति स्मृतम् || मणिभिः पूरितः सिन्धुस्तेनैव मणिपूरकः | वारुणं मण्डलं सत्वविष्ण्वधिष्ठानदैवतम् || श्वेतध्वजसमायुक्तं बीजपूरसुधाप्लुतम् | इत्यागमेष्वद्भुतशुद्धिप्रकरणेषूक्तम् || इति | दत्तः | अप्तत्वं विष्णुमाया विमलगुणमयं षड्ररं षड्दलाब्जं स्वच्छच्छाया षडर्णं शिवधनसहितं शक्तिभिः सेव्यमानम् | बीजस्थं बीजपूरं रतिपति निलयं चन्द्रखण्डस्वरूपं स्थानं जीवागमानां दिनमणि मणिभिः पूरितं चक्रमेतत् || प्. ७२) द्विसमधिकपञ्चशत्कलाकीर्णमिति लहर्याम् || योगदीपिकायाम् कुण्डलीं ग्रन्थिं कृत्वा स्वमधिष्ठाय स्थित त्वात् स्वाधिष्ठानमिति | तदुक्तं योगयात्कल्क्ये - कन्दस्थानं मनुष्याणां देहमध्ये नवाङ्गुले | चतुरङ्गुलमुत्सेधमायामं चापि तत्समम् || अण्डाकृतिसमाकारमग्निमण्डलमण्डितम् | द्वादशारयुतं चक्रं तेन देहप्रतिष्ठितम् || चक्रेऽस्मिन् भ्रमते जीवः पुण्यपापप्रचोदितः | तन्तुपञ्जरमध्यस्थो यथा भ्रमति लूतिका || जीवस्य मूलचक्रेऽस्मिन् अधःप्राणाश्चरन्त्यसौ | प्राणारूढो भवेज्जीवः सर्वभूतेषु सर्वदा || इति गोरक्षः | भारते च - समान व्यानयोर्मध्ये प्राणापानौ विचेरतुः | तस्मिन् सुप्ते प्रलीयेत समानो व्यान एव च || अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति | तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः || इति | तस्मात् स्वपन्तं पुरुषं प्राणा न जहन्तीति श्रुतेः | सौन्दर्यलहर्याम् - महीमूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदिमरुतमाकाशमुपरि || इति | मूलाधार स्वाधिष्ठानक्रमं ग्रद्रग्रन्थ्यादि विषयम् || राशिचक्रप्रकरणे नाभिचक्रं द्वादशारमिति याज्ञवल्क्ये | संहारचक्रे भेदेन चक्रयुग्मस्य मध्यमे | सर्वेषां प्राणिनां देहे रुद्रमूर्तिः स्वयं स्थितः || तदुक्तं योगशांकरे - ब्रह्माण्डव्यापिनीं पृथ्वीं तोयमध्ये विनिक्षिपन् | अग्नौ रसं च निक्षिप्य वायुमध्ये जलंक्षिपेत् || आकाशे वायुमाकृष्य पुनरुत्सृज्यते शिव || इति | मूलाधारस्वाधिष्ठानं रुद्रग्रन्थिरितीरितम् | मणिपूरानाहताख्यं विष्णुग्रन्थिरिति स्फुटम् || विशुद्ध्याज्ञा ब्रह्मसंज्ञं ग्रन्थित्रयमुदाहृतम् || इति | स्वाधिष्ठानं दशाराध्यं दशशक्तिसमन्वितम् | अग्निमण्डलमारक्तं रुद्राधिष्ठानदैवतम् || त्रिकोण स्वस्तिकैर्युक्तं रंबीजं त्रिगुणान्वितम् | द्विषष्टिकरणैर्युक्तं स्वाधिष्ठानस्य मण्डलम् || एतद् विलोमं यः कुर्यात् स योगी न विनश्यति | सृष्टि स्थित्यन्त कर्तासौ भवत्येव न संशयः || प्. ७३) आहतं न भवतीति अनाहतम् | आहत स्थूलमखिलं नाहतं येन हेतुना | तन्नाहतमिति प्रोक्तं हृदयं मुनिभिः पुरा || शिवः - कन्दादुपरिभोगाग्रं सर्वेषां देहमध्यमे | विद्यान्नालं स्वयं भूत्वा हृत्पद्मस्य व्यवस्थिताम् || तदुक्तं योगयाज्ञवल्क्येन - कन्दोर्ध्वे कुण्डली स्थानं नाभेस्तिर्यगधोर्ध्वगः || इति | नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा | नीवारशूकत्तन्वी पीता भास्वत्यनूपमा || तस्याश्शिखाया वह्निमध्ये परमात्मा व्यवस्थितः || योगसारमञ्जर्याम् - तारकन्दं शक्तिनालं हृत्पद्मस्य व्यवस्थितम् | अग्निमण्डलपत्राढ्यं सूर्यमण्डलकेसरम् || सोममण्डल किञ्जलकं पराप्रासादकर्णिकम् || आदिनाथः - ब्रह्मकन्दसमुद्भूतं ज्ञाननालं सुधीशोभनम् | एश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् || अष्टभूत्यनुजाकारं घृणिचन्द्रानलैर्युतम् | पीठं कृत्वा पदाब्जस्य मूर्तित्रयसुसेवितम् || इति | अधोभागे चतुष्पत्रमष्टपत्रं तथोपरि | अष्टारं ध्यानयोगस्य भानुवत्रन्तुमातृके || षट्कोणवायुमाधूम्रं स्पर्शमात्रं समन्वितम् || चतुःपञ्चाशत् किरणैः मण्डितं चेश्वरालयम् | विशेषेणैव शुद्धत्वात् सर्वभूतेषु सर्वदा || विशुद्धं तेन विख्यातं शुद्धविज्ञानगोचरम् | विशुद्धं षोडशाराब्जं षोडशस्वरमण्डितम् | लम्बिकामूलमाश्रित्य घण्टिकायां व्यवस्थितम् || आकारमण्डलं तत्र सदाशिवनिकेतनम् | पूर्णं कलाभिर्द्व्यष्टाभिर्द्व्यष्टाभिश्शक्तिभिस्तथा || नीलजीमूतसंकाशमुदानेन निषेवितम् | वैखरी नाम वाग्देवी ततो जाता च विस्तृता || अनुग्रहमिदं चक्रं दिग्देवैस्सेवितं सदा | तैजसस्वप्नवास्तत्र ब्रह्मोपनिषदीरितम् || यज्ज्ञानात् जायते सर्वं तज्ज्ञानस्थानहेतुतः | आज्ञाचक्रमितिप्रोक्तं भ्रूमध्ये सर्वदेहिनाम् || कण्ठे किञ्चिद्विजानन्ति हृदये तु निकिञ्चन | प्. ७४) भ्रूमध्याज्ज्ञायते सर्वं तस्मादाज्ञेति गीयते | तदुक्तमाश्वलायनोपनिषदि च | नेत्रस्यं जागरितं विद्यात् कण्ठे स्वप्नं समादिशेत् || इति | आज्ञाचक्रं भ्रुवोर्मध्ये द्विदलं द्व्यक्षरान्वितम् || शक्तिद्वयसमायुक्तं ब्रह्मग्रन्थि समन्वितम् | कोलाटमण्डलं तत्र चन्द्रकोटिसमप्रभम् || राजसादि गुणाविष्टं नानावर्णप्रकाशकम् | स विश्वनाम्ना विश्वेशस्तत्र जागर्ति देहिषु || तदुक्तं जाबालोपनिषदि - भ्रुवोर्घ्राणस्य च यः सन्धिस्स एव द्यौर्लोकस्य संधिर्भवत्येत द्वै संधिं संध्यां ब्रह्मविद उपासत इति | सोऽविमुक्ते प्रतिष्ठित इति || योगसारमञ्जर्याम् - ललाटे परमेशानि दिव्या वाराणसी पुरी | आचार्यैः | तवाज्ञाचक्रैस्थन्तपनशशिकोटि द्युतिधरमिति || आकाशादीनि भूतानि आधाराद्यङ्ग भेदतः | शब्दादि गुणभेदाश्च परिणामं प्रपेदिरे || तदुक्तं वासिष्ठे - सर्वत्र पञ्चभूतानि षष्ठं किञ्चिन्न विद्यते || इति | एवं ज्ञात्वा षडाधार द्वाराण्युद्द्याटयेत्ततः || सहस्रारं स्वरूपं कुण्डलिनी प्रकरणे उच्यते || || इति योगसारसंग्रहे षडाधारनिरूपणं नाम त्रयोदशोध्यायः || कुण्डलिनीस्वरूपमाह - पिण्डाण्डान्तर चक्रमध्य सुषिराक्रान्ताब्ज तन्तूपमा विद्युद्व्यक्तलतेव भाति तनुभृत् गर्भान्तरालैः सदा | मूलाधारगता त्रिमूर्ति जननी सर्वापर ब्रह्मणः शक्तिः कुण्डलिनी त्रिलोक जननी वान्तामृतास्वादिनी || कुण्डली सुफणी नागी चक्रीषप्ती सरस्वती | ललनारसनाक्षेत्रा ललाटा शक्तिचालिनी || राजीभुजंगी शेषा च कुजाह्वा सर्पिणी फणी | आधारशक्तिः कुटिला करलाप्राण वाहिनी || अष्टवक्रा षडाधारा व्यापिनी कलनाधरा || चिद्रूपा कुञ्चिका बाला दुर्विज्ञेया सुरासुरैः | दिक्कालाद्यनवच्छिन्ना सर्ववेदार्थगा शुभा || परापराविभागेन परशक्तिरियं स्मृता | योगिनां हृदयां भोजे नृत्यन्ती नृत्तलालसा || आधारसर्वभूतानां स्फुरन्ती विद्युदाकृतिः | शंखावर्तक्रमाद्देवि सर्वमन्त्रमयी शुभा || प्. ७५) सर्वतत्वमयी साक्षात् सूक्ष्मात् सूक्ष्ममयी विभुः | त्रियामा जननी देवी शब्दब्रह्मस्वरूपिणी || चतुर्विंशत् सदर्णात्मा पञ्चाशद्वर्णरूपिणी | गुणितासर्वगात्रेषु कुण्डली परदेवता || विश्वानना प्रबुद्धात्मा सूत्रे मणिमिमं जंगम् | एकधा गुणिताशक्तिस्सर्वविश्वप्रवर्तका || सर्वमन्त्रप्रसूस्तच्छ्रीः सर्वतन्त्रस्वरूपिणी | इच्छाज्ञानक्रियात्मास्य तेजोरूपा गुणात्मिका || पञ्चाशद्वारगुणिता पञ्चाशद्वर्णमालिका | अग्नीषोमात्मिका शुद्धा सोमसूर्याग्नि रूपिणी || इति | कुण्डली नामानि | अथ तत्संप्रवक्ष्यामि कुण्डल्युत्थापन क्रमम् | दुर्लभं सर्वदुष्टानां साध्यानं स जपक्रमम् || वामकेश्वर महातन्त्रे - भुजंगाकाररूपेण मूलाधारं समाश्रिता | शक्तिः कुण्डलिनी प्रोक्ता विसतन्तु निभाशुभा || मूलकन्दं फणाग्रेण दष्ट्वा कमलवन्दवत् | मुखेन पुच्छं संगृह्य ब्रह्मरंध्रसमन्विता || योगयाज्ञवल्क्ये - द्वादशारयुतं चक्रं नाभिदेशे प्रतिष्ठितम् | तस्योर्ध्वे कुण्डली स्थानं नाभेस्तिर्यगधोर्ध्वगम् || अष्टप्रकृतिरूपासा त्वष्टधा कुण्डली कृता | यथावद्वायुसंचारं ज्वलनादीनि नित्यशः || परितः कन्दपार्श्वेषु निरुध्येनं सदा स्थिता | मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा || योगकाले त्वपानेन प्रबोधं या जलाग्निना | स्वनन्ती हृदयाकाशे नागरूपा महोज्ज्वला || वायुर्वायुसखे नैव ततो याति सुषुम्नया || प्रणवचिन्तामणौ - तत्रानलं वायुसखेन सार्धं धिया समारोप्य निरोधयेत् ततः | ध्यायन् सदा चक्रणमप्रबुद्धं नाभौ सदा कुण्डलिनं निविष्टम् || नालं समावेष्ट्यमुखेन मध्यामन्यांश्च भोगेन सिरास्तथैव | स्वपुच्छमास्येन निगृह्य सम्यक् पदं च संयम्यमरुद्गणानाम् || प्रबुद्ध नागेन्द्रवदुच्छ्वसन्ती सदाप्रबुद्धा प्रभया ज्वलन्ती | नाभौ सदा तिष्ठति कुण्डली सा तिर्यङ्मनुष्येषु तथेतरेषु || उत्पत्ति नाश स्थिति हेतु भूतमाधारपद्मासन रन्ध्रपूर्णम् | योगेष्टसिद्धिप्रदमादिमूलं जानीहितं कुण्डलिनं निविष्टम् || वायुना विवृतवह्नि शिखाभिः कन्दमध्यगतनाडिषु संस्थात् | कुण्डलीं दहति यत्स्वभिरूपं संस्मरन्नपरवस्तु न एव || प्. ७६) सन्तप्त वायुना तत्र वह्निना च प्रतापिता | प्रसार्य फणभृद्भोगी प्रबोधं याति सत्वरा || बोधंगते चक्रिणि नाभिमध्ये प्राणान् सुसंभूय कलेबरेऽस्मिन् | चरन्ति सर्वे सह वह्नि नैव यथा पटेतन्तु गतिस्तथैव || जित्वैवं चक्रिणी स्थानं तथाध्यानपरायणः | ततो नयेदपानन्तु नाभेरूर्ध्वमनुस्मरन् || योगसारमञ्जर्याम् - वायुयदावायुसखेन सार्धं नाभिं त्वतिक्रम्यगतः शरीरम् | रोगाश्च नश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीं भवन्ति प्रबुद्धा || ब्रह्मरन्ध्रमुखं मन्त्रवायवः पावकेन सहयान्ति समूह्याः | केन चित्विह वदामि तवाहं वीक्षितं हृदि च दीपशिवावत् || निरोधितः स्याद्धृदि तेन वायुनामध्ये तदा वायुसखेन सार्धम् | सहस्रपद्मस्य मुखं प्रविश्य कुर्यात्पुनस्त्वूर्ध्वमुखं द्विजेन्द्रे || प्रबुद्ध हृदयाम्भोजे गौर्यस्मिन् ब्रह्मणः पुरे | बालात् श्रेणिवद्व्योम्नि विरराजसमीरणः || आहुर्मध्ये सुषुम्नायाः संस्थितो हुतभुक्तदा | स जलाम्बुदमालासु विद्युल्लेखे वराजते || निरुध्यनाडी द्वितयं सोमसूर्यात्मकं प्रिये | संप्राप्यकुम्भकावस्थां स्थिरचेता दृढासनः || संरुध्य च मनः स्वान्ते मूलाधारधराधरे | हृत्कोणपुरमध्यस्थ वाहिसूर्येन्दुमण्डले || सुषुप्तभुजगाकारं सर्वमन्त्रमयीं पराम् | इलापिङ्गलयो ग्रन्थि भेदत्रयविभेदिनीम् || षडम्बुजदरीमार्ग कवाटोद्घाटनक्षमाम् | शनैरुन्नीयतां मूलादाज्ञायां सन्निवेशयेत् | ततो रसनया भित्वा शिव द्वारार्गलं महत् || ब्रह्मरंध्रे दृगाधाय स्थिरं कृत्वा मनो हृदि | तत्रापि मण्डलं देवी शृंगाटं सुमहोज्ज्वलम् || त्रिकोणं तु विजानीयात् वह्निसूर्येन्दुगर्भकम् | तत्रेन्दु मण्डले देवी परमात्मा सदाशिवः || यावन्नशक्त्या संयोगं प्राप्नोति परमेश्वरः | तावद् भ्रमयते विश्वं यन्त्रारूढं तु मायया || शिवः - मूलाधारात् समुद्यन्ती शक्तिः कुण्डलिनी परा | स्वमन्त्रोच्चारणा देव सम्यगूर्ध्वमुखी तदा || षड्ढुंकार स्वरोद्भिन्न षडंभुजकवाटिका | प्. ७७) भित्वा ब्रह्मार्गलं दिव्यं स्वपते स्थानमेयुषी | वह्न्यर्कमण्डलं भित्वा द्रवन्ति चन्द्रमण्डलम् || तदुद्भवामृता स्वादा परमानन्दनन्दिनी || कुलयोषित् कुलंत्यक्त्वा परंपुरुषमेयुषी | निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम् || तत्र स्वच्छन्दरूपा तु परिरभ्य स्वकंपतिम् | विश्राम्य च चिरं कालं तद्भोगाह्लाद नन्दिता || परमावृष्टिभिर्नित्यं सिञ्चन्ती योगिनस्तनुम् | यथा गतेनमार्गेण पुनरेति स्वकं पतिम् || अनेन देवि योगेन मासाद्योगीश्वरो भवेत् | षण्मासादणिमादीनां सिद्धीनामधिपो भवेत् || वत्सरात् पिबते नित्यं समुद्रमपि लीलया | अर्कानिल नलादीनां जलानां स्तम्भनं क्रमात् || करोति लीलया योगी रुद्रशक्ति प्रभावतः | त्र्यब्दात्सर्वज्ञको भूत्वा वलीपलितवर्जितः || महाबलो वज्रकायो जीवेदा चन्द्रतारकम् | शक्तिमन्त्रमहायोगः कथितस्तवसुव्रते || वाञ्छाकल्पद्रुमाः सत्यं सत्यं यत्खेचरी पदे || श्रीशिवः - स्थिरमासनमासीनः सकलीकृतविग्रहः | जितश्वासो जितमताः जितकर्मा जितेन्द्रियः || नियोज्यघटिका यन्त्रे रसनां निश्चलात्मिकाम् | अधस्ताच्चिन्तयेच्चक्रमाक्रान्ताधारमण्डलम् || तत्र मध्ये समुद्दीप्तां मूलशक्तिं विभावयेत् | प्राणान्निरुध्योर्ध्वमुखीन्नयेद् भित्वाषडंबुजम् || एकीभूता हि नादाख्य चक्रभेदक्षमेण च | तटिद्वलयसंकाशां स्फुरत्किरणरूपिणीम् || चिद्रूपां च निरालम्बे शून्य तेजो मये परे | ब्रह्मद्वारस्य गर्भान्ते विसर्गाख्ये विलीयते || ततो रसनयोद्भिद्य प्रविशेद् ब्रह्मणः पदम् | तस्मिन् कुलामृतं दिव्यं पीत्वाभूयो विशेत्कुलम् || तेन प्राशितमात्रेण परां सिद्धिमवाप्नुयात् || इति | अथातः संप्रवक्ष्यामि मुद्रांखेचरिसंज्ञिकाम् || यथा विज्ञातया मर्त्यो लोकेस्मिन्न जरामरः | मृत्युव्याधिजराग्रस्तं दृष्ट्वा लोकमिमं प्रिये || बुद्धिं दृढतरं कृत्वा खेचरीं तु समभ्यसेत् || प्. ७८) प्रकटेन मयाप्रोक्तंमिदानीं खेचरीं शृणु || यत्रास्ते च गुरुर्देव दिव्ययोगप्रसादकः | तत्र गत्वा च तेनोक्तां विद्यां संगृह्य खेचरीम् | न तया रहितो योगी खेचरी सिद्धि भाग्भवेत् || खेचर्य खेचरीं युञ्जन् खेचरी बीज पूर्वया | खचराधिपतिर्भूत्वा खेचरीषु सदा चरेत् | खेचरावसथो वह्निरग्निमण्डलभूषितम् || व्याख्यातं खेचरी बीजं तेन योगः प्रसिध्यति | मस्तकाख्यं महाचण्ड शिखी वह्निखवज्रभृत् || पूर्वबीजयुताविद्या व्याख्याता ह्यतिदुर्लभा | षडंगविद्यां वक्ष्यामि तथाषट्स्वरभिन्नया || कुर्याद्देवी यथा न्यायं सर्वविद्याप्ति हेतवे | सोमेशा नवमं वर्णं प्रतिलोमेन चोच्चरेत् || तस्यात्रिंशकमाख्यातमक्षरं च स रूपकम् | तस्मादप्यष्टकं वर्णं विलोमेनावलं प्रिये || ततस्तत्पञ्चमं देवि तदादिरविपञ्चमम् | इन्दोर्ह्रीं बिन्दुसंभिन्नं कूटोऽयं परिकीर्तितः || गुरूपदेशलभ्यं च सर्वरोगप्रसिद्धिदम् | एतस्य देवजा माया विरूपकरणाश्रया || स्वप्नेऽपि न भवेत् तस्य नित्यं द्वादश जप्यकः | यड्मरुपञ्चलक्षाणि जपेदपि सुयन्त्रितः || तस्य श्रीखेचरी सिद्धिः स्वयमेव प्रवर्तते || इति | आदिनाथः - एवं यस्य प्रबुद्धा सा तस्य सिद्धिर्भवेद्ध्रुवम् | सर्वशास्तार्थ वेत्तृत्वं सौभाग्यं परमन्ततः || काव्यं च सर्वभाषाभिस्सालङ्कारपदोज्ज्वलम् | करोति लीलया योगी रुद्रशक्ति प्रबोधनात् || अनेनैव प्रकारेण सर्वमन्त्राः स्फुरन्ति हि | रुद्रग्रन्थिं ततो भित्वा मणिपूरे समानयेत् | मणिपूरे यदा विष्टा शान्ति श्रीपुष्टि तुष्टयः || आकर्षणं परक्षोभं भवन्त्येता हि सिद्धयः | मणीपूरात् समानायय स्वाधिष्ठाने प्रवेशयेत् || योगंगते स्वात्मनि नाभिमध्ये प्राणान् सुंसंभूय कलेवरेऽस्मिन् | स चरन्ति सर्वे सह वह्निनैव यथा पटे तन्तु गतिस्तथैव || योगग्रन्थिं च भित्वाथ मण्डलं च भिनत्यथ | योगसारमञ्जर्याम् - अनाहतं तु संलीनो योगग्रन्थिविभेदनात् || प्. ७९) गिरीणां पातनं चैव देवि कुर्यान्मृत्योश्च वञ्छनम् || प्रणवचिन्तामणौ - यदा विशुद्धमानीतं सामृतप्राशनं तदा | योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः || तदूर्ध्वे लम्बिकां भित्वानासाग्रं तु समानयेत् | नासाग्रे श्वाससंभिन्न भ्रूमध्ये सन्निवेशयेत् || आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा || योगसारमंजर्याम् - श्वासेनसहितं जीवं तेजोरूपं ललाटके | गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम् || कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम् | उद्घाटयेत् ततो द्वारं शिवद्वारार्गलं महत् || बिन्दुं द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि | ब्रह्माण्डोदरमित्युक्तं योगिनीसिद्धिसेवितम् || तदेतंगुलोत्सेधं कपाले संव्यवस्थितम् | शक्तिचक्रप्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम् || आदिनाथः - अपानवृत्तिमाकृष्य प्राणो गच्छतिमध्यमे | राजते गगनां भोजे राजयोगस्तु तेन वै || एतत् साधनमार्गस्य लक्षणं वक्ष्यतेऽधुना | प्राकाराणि शरीरस्य षडुत्तानत्वगादिभिः || षडब्जैष्षट्क वाटैस्तद्रक्षितं पञ्चवायुभिः | तन्मध्ये सुषिरं सूक्ष्मं तत्र लिङ्गं शिवालयम् || तस्यशक्तिः स्थिताबाह्ये प्राकारद्वारमण्टपे | तटिद्वलयसंकाशां सुप्तांपतिविलोलुपाम् || प्राकारपालकेनैव कवाटानां प्रभेदनम् | कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना || पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे | शनैः संबोधये च्छक्तिं कुण्डली मनुनैवताम् || पवनेनसमाकृष्य योजयेत् पतिना सह || इति | शक्तिध्यानं विनायोगी शक्तिहीनः प्रजायते || शक्तिध्यानप्रयोगेण शक्तियुक्तो भवेद् ध्रुवम् || अथ मन्त्रोद्धारः - कुण्डलीश प्लदं देवि कुण्डलीशसमन्वितम् | कुण्डली कुण्डला बिन्दु नादमध्यस्थ लांछिताम् || एतच्छक्ति मयं बीजं रहस्यं सुप्रकाशितम् | पञ्चलक्षं जपेदाशुसिद्धिर्भवति योगिनः || ओं कुण्डलीं कुण्डलीश कुण्डली कुण्डला ओं || इति || बिन्दुः प्रणवः | नादं दीर्घस्वरः | तदुक्तं नादबिन्दुपनिषदि प्. ८०) बीजाक्षरं परं बिन्दु नादं तस्योपरिस्थितम् || इति | नारसिंहतापनीये - वेदादि मूलं सकलं स्वराणां त्रयोदशस्थं शशिबिन्दुरूपम् | वेदान्वितं सुप्तभुजंगरूपं यो वेत्ति विद्वान् स विमुक्तिमेति || इति | योगिनीहृदये च - या मूलाद्दूरगाशक्तिः स्वाधारे बिन्दुरूपिणी | तस्यामुत्पद्यते नादः सूक्ष्मरूपो दिवाकरः || स्थूलसूक्ष्मभेदेन बिन्दुनाथास्त्री विधः | तदुक्तं शिवयोगे - स्थूलसूक्ष्मपरश्चेति त्रिविधो बिन्दुरद्रिजे | स्थूलश्शुक्रात्मको बिन्दुः सूक्ष्मः पञ्चाग्नि रूपकः || सोमात्मकः परः प्रोक्तः स तु नित्यस्सदा शिवः || तदुक्तं शूलिनीकल्पे - शुक्रं प्रवृत्तमिति | सूक्ष्मपञ्चाग्नि रूपकः | पञ्चमात्रः प्रणवः | सोमात्मकः परः | षोडशमात्रायुक्तः प्रणवः || अनयारहितो योगी न क्वचित्फलमाप्नुयात् | बीजेन हि विनावृक्षः कथं संजायते भुवि || तदेवाक्षरमध्यस्थं प्ररोहति कथं पुनः | सर्वयोगद्रुमस्यायं बीज भूतो महामनुः || तदुक्तं कठवल्क्योपनिषदि - सर्वे देवायत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमि त्येतत् || अतः | स्थूलसूक्ष्मभेदेन बिन्दुशब्दः प्रणवस्यैव || गोरक्षः | धूमोमरीचिः खद्योतः दीप ज्वालेन्दु भास्वरः | अमीकला महाबिन्दो बिन्दुविश्वविभासकः || इति | आदिनाथः - एवं यस्य प्रबुद्धा सा तस्यसिद्धिः करस्थिता | सर्वशास्त्रार्थ वेत्तृत्वं सौभाग्यं परमन्ततः || काव्यं च सर्वभाषाभिः सालंकार पदोज्ज्वलम् | करोति लीलया योगी रुद्रशक्ति प्रबोधनात् || अनेनैव प्रकारेण सर्वमात्रान् स्फुरन्ति हि | रुद्रग्रन्थिं ततो भित्वा विष्णुग्रन्थिंभिनत्यतः || ब्रह्मग्रन्थिं ततो भित्वा कमलानिभिनत्ति षट् | सहस्रकमलेशक्तिश्शिवेन परिमोदते || मणिपूरे यदा विष्ठा शान्तिश्श्री तुष्टि पुष्टयः | आकर्षणं परक्षोभो भवन्त्येव हि सिद्धयः || मणिपूरात्समानीय स्वाधिष्ठाने प्रवेशयेत् | स्वाधिष्ठानात् समानीय चानाहत पदं नयेत् || योगसारमञ्जर्याम् - अनाहते तु संलीने योगग्रन्थिविभेदनात् | प्. ८१) गिरीणां पातनं देवि कुर्यान्मृत्योश्च वञ्छनम् || यदा विशुद्धमानीतः सा मृतप्राशनं तदा | योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः || तदूर्ध्वं लाम्भिकां भित्वा नासाग्रं तु समानयेत् | नासाग्रे श्वाससंभिन्नं भ्रूमध्ये संनिवेशयेत् || आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा | योगसारमंजर्याम् - श्वासेन सहितं जीवं तेजोरूपं ललाटिके || गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम् | कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम् || उद्घाटयेत् ततो योगी द्वारं शिवद्वारार्गलं महत् | बिन्दु द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि || ब्रह्माण्डोदरमित्युक्तं योगिनी सिद्धि सेवितम् | तदेतदंगुलोत्सेधं कपाले स व्यवस्थितम् || शक्तिचक्र प्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम् || आदिनाथः - अपानवृत्तिमाकृष्य प्राणो गच्छति मध्यमे | राजते गगनाम्भोजे राजयोगस्तु तेन वै | एतत् साधनमार्गस्य लक्षणं वक्ष्यतेऽधुना || प्राकाराणि शरीरस्य षडुक्तानि त्वगादिभिः | तन्मध्ये सुषिरं सूक्ष्मं तत्रलिङ्गं शिवालयम् || तस्य शक्ति स्थिता बाह्ये प्राकारद्वारमण्टपे | तटिद्वलयसंकाशां सुप्तांपति विलोलुपाम् || प्राकारपालके नैव कवाटानां प्रभेदनम् | हुंकारं च षडिति पूर्वमेवोक्तम् | कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना || पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे | शनैः संबोधयेच्छक्तिं कुण्डली मनुनैवताम् || पवनेन समाकृष्य योजयेत् पतिना सह || इति | शक्तिध्यानं विनाशक्त्या हीनो योगी प्रजायते | शक्ति ध्यानप्रयोगेण शक्तियुक्तो भवेद्ध्रुवम् || इति | यदा तु योगिनो बुद्धिस्त्यक्तुं देहमिमं भवेत् | तदा स्थिरासनो भूत्वा मूलाच्छक्तिं समुज्ज्वलाम् | कोटि सूर्यप्रतीकाशां भावयेच्चिरमात्मवित् || आपादमस्त(मस्त)पर्यन्तं प्रसृतं जीवमात्मनः | संहृत्य क्रमयोगेन मूलाधारात्पदं नयेत् || प्. ८२) तत्र कुण्डलिनी शक्तिं संवर्तानिलसन्निभाम् | जिह्वानलं चेन्द्रियाणि ग्रसन्तीं चिन्तयेद्धिया || संप्राप्य कुम्भकावस्थां तटिद्वलयभासुराम् | मूलादुन्नीय देवेशि स्वाधिष्ठान पदं नयेत् | तत्रस्थं जीवमखिलं ग्रसन्तं चिन्तयेच्चताम् || तटित्कोटिप्रतीकाशां तस्मादुन्नीयसत्वरम् | मणिपूरपदं प्राप्य तत्र पूर्ववदाचरेत् || समुन्नीयपुनः स्थानात् अनाहतपदं नयेत् | तत्रस्थित्वा क्षणं देवि पूर्ववद् ग्रथितं स्मरेत् || तत्रापि चिन्तयेद् देवि पूर्ववद् योगमात्मवित् | तस्मादुन्नीयभ्रूमध्यं नीत्वा जीवं ग्रसन् स्मरेत् || परामृत महाम्भोधौ विश्रामं सम्यगाचरेत् | तत्रस्थं परमं देवं शिवं परमकारणम् | शक्त्या सहसमायोज्य तयोरैक्यं विभावयेत् || यदि वञ्चि तु मुद्युक्तः कालंकालविभागवित् | यावद्वजति तं कालं तावत् तत्र सुखं वसेत् || ब्रह्मद्वारार्गलस्याधो देहे कालप्रयोजनम् | यदा देव्यात्मकः कालमति क्रान्तः प्रविश्यति || तदा ब्रह्मार्गलं भित्वा शक्तिं मूलपदं नयेत् | शक्ति देहान् प्रसूयन्ति स्वजीवं चेन्द्रियैः सह || तत्तत्कर्माणि संयोज्य स्वस्था देहे सुखं भवेत् | अनेन देवि योगेन वञ्चयेत् कालमागतम् | यदा मानुष्यकं देहं त्यक्तुमिच्छा प्रवर्तते || ततः परमसन्तुष्टः ब्रह्मस्थानगतं शिवम् | शक्त्या संयोज्यनिर्भिद्य व्योमब्रह्मशिलं व्रजेत् || व्योमतत्वं महाव्योम्नि वायुतत्वमथानिले | तेजस्तत्वं तथा तेजस्यप्तत्वं जलमण्डले || धरा तत्वं धराभागे निरालंबे मनः परे | व्योमादि गुणतत्वेषु स्वेन्द्रियाणि निवेदयेत् || एवं सांसारिकं त्यक्त्वा परतत्वा वलं काः | अदृष्टः परतत्वाद्यैर्भित्वा सूर्यस्यमण्डलम् || परतत्वे परेशानि शिवे लीनः शिवायते | न कल्पकोटि साहस्रैः पुनरावर्तनं भवेत् || अनुग्रहायलोकानां यदि देहं न सन्त्यजेत् | प्रलयान्ते तनुं त्यक्त्वा स्वात्मन्ये वाति वर्तते || प्. ८३) इत्येषा खेचरीमुद्रा खेचराधिपतिर्भवेत् | जन्ममृत्युजरारोगवलीपलितनाशिनी || अनया सदृशी विद्या क्वचिच्छास्त्रान्तरे न हि || खेचरी मेलनं देवि सुगुप्तं न प्रकाशयेत् || इति | योगसारमञ्जर्याम् - चुबुकं योजयेज्जिह्वां षोडशस्वरमण्डले | भ्रूमध्ये चक्षुषी न्यस्य जिह्वामूर्ध्वं प्रसारयेत् || संप्राप्य कुम्भकावस्थामिडापिङ्गलरोधनात् | मूलशक्तिं समाबोध्यभित्वाषट्सरसी रूहान् || तटित्सहस्रसङ्काशां ब्रह्माण्डोदर मध्यगाम् | धमनि शिवामृताम्भोधौ सन्निवेश्य चिरं वसेत् || यथाब्रह्ममये धात्रि योगी वसति लीलया | तथा तज्जीववद् देहं भाति स्फुरति तत्पदम् || अनेन देवि योगेन दिनसप्तकमाचरेत् | यथा तथा स भवति जरामरणवर्जितः || मासमात्रप्रयोगेण जीवेदाचन्द्रतारकम् | यदा ब्रह्मपुरं भित्वा योगी व्रजति लीलया || तदा शिवत्वमाप्नोति त्यक्त्वा देहमिमं प्रिये | न पुनः पीयते मातुः स्तनं यद्भव हेतुकम् || इदं गुह्यतमं शास्त्रं सर्वेषां न प्रकाशयेत् | अपरीक्षितवृत्तस्य स शीघ्रं नश्यति प्रिये || डम्भाहं कारहीनाय धार्मिकाय दृढाय च | समक् शुश्रूषशीलाय दातव्यं मन्त्रपुष्पकम् || अविज्ञाय च यः कुर्यात् गुरुवाक्यामृतं विना | भक्ष्यते सोऽथिराद्देवि योगिनीभिर्नसंशयः || य इदं परमं शास्त्रं ग्रन्थतश्चार्यतश्च हा | गुरुवक्त्रात् तु लभ्येत स परां सिद्धिमाप्नुयात् || य इदं परमं गुह्यं खेचरी मेलनं वदेत् | स एव हि गुरुर्देवि नान्योऽस्ति परमेश्वरि || बहुधा क्लिश्यमानाय भक्तायानन्य चेतसे | एकान्ते विजने स्थाने प्रवक्तव्यं विपश्चिता || व्याख्यानकाले कर्तव्यः पूजाविधिरशाम्यतः | भक्ष्यभोज्यादिभिर्युक्तं कस्तूरी चन्दनादिभिः | पूजयेच्छास्त्रविधिना विद्यापुस्तकमादरात् || अथवा यद्यशक्तस्तु मानसेत घनामृतैः | सन्तर्प्यपूज्यविधिना व्याख्यानं गुप्तमाचरेत् | यस्य हस्ते स्थितं दिव्यं विद्यापुस्तकमीश्वरि || प्. ८४) तस्य मूर्तिगतं देवि सकलज्ञानसागरम् | यथार्थग्रन्थतश्चेदमर्थतश्च विदिष्यति || अशेषेण जगद्धात्रि स एव परमेश्वरः | सर्वज्ञेन शिवेनोक्तमिदं जन्मार्बुदैरपि || दुलभं शास्त्रसारं तु विद्याज्ज्ञानप्रकाशकम् | द्वावेव पुरुषौ लोके सिद्धः साधक एव च | अभ्यासे नैव सततं यस्यमुत्परिवर्तते || अचिरान्मनसस्सिद्धिं स योगीसाधकः स्मृतः | सम्यगभ्यस्य विज्ञाय यः समं मेलनं चरेत् || सर्वसाधारणत्वेन विकल्प कुटिलोज्झितः | कर्ताभर्ता च संहर्ता नित्यतृप्तो निरामयः || पश्यत्यात्माविभेदेन जगदेतच्चराचरम् | स योगी सर्वविच्छ्रीमान् सिद्ध इत्युच्यते बुधैः | सहस्रारे महापद्मे स्थित्वा योगी विराजते || तस्मात् सर्वप्रयत्नेन खेचरी मेलनं चरेत् || इति | अयं भावः - द्वादशान्तादि मूलाधारान्तं विभाव्य पराशक्तिः स्वयं कुण्डलिन्यादि रूपं भूत्वा सर्वाधारेषु सर्ववर्णेषु सूत्ररूपेण स्थिता | तदुक्तं शारदातिलके - शंखावर्तक्रमाद्देवी सर्वमावृत्य तिष्ठति || इति | दक्षिणामूर्ति कल्पे - सूत्रेमणिमयं जगत् || इति | सूत्ररूपेण मणिरूपेण स्थिता भवति | इति | अनन्त व्रतसूत्रग्रंथि रूपेण सूत्ररूपेण यथा तथा कमलानि कलाश्च निर्मितवती | तदुक्तं योगयाज्ञवल्क्ये - अष्टप्रकृतिरूपा सा ह्यष्टधा कुण्डलाकृतिः || इति | भगवद्गीतासु - भूमिरापो नलो वायुः खं मनोबुद्धिरेव च | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || इति | अत एवाधाराद्यष्ट पद्मेषु अष्टवक्रेण स्थिता | पृथिव्यादयः पञ्चमनो बुद्धिरहंकारा अष्टप्रकृतयः | भिन्नरूपत्वात् अष्टधाकुटिलीकृता | द्वादशान्ते गुरुपादुका युग्मस्य पीठरूपे स्थित पद्मस्य नालरूपेण कर्णिकारूपेण स्थितवती | एतदर्थं गुरुपादुका स्मरणा वसरे उच्यते | सहस्रारे सूक्ष्मसृष्ट्यर्थं जगत्पावनार्थं बुद्धिरूपेणपत्यासह स्थिता | तदुक्तं - सहस्रारे पद्मे सह रहसि पत्या विहरसे || इति | आज्ञाचक्रेण प्रज्ञायुक्तमनोरूपेण शंभुना सह स्थिता | तदुक्तं - तवाज्ञा चक्रस्थं तपन शशिकोटिद्युतिधरम् || इति | प्. ८५) विशुद्धे आज्ञाकाशरूपेण अमृतकुण्डलिरूपेण स्थिता | तदुक्तं - शशिकिरणसारूप्य सरणीति | अनाहते वायुरूपेण हृदयकमलस्य नालरूपेण स्थिता | सर्वकारणरूपेण स्वाधिष्ठाने स्थिता | स्वाधिष्ठानेदुग्धामृतवर्षेण जगत्प्लावनार्थं मणिपूरे स्थिता | (तदुक्तं याज्ञवल्क्ये - द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः | चक्रेऽस्मिन् भ्रमते जीवः पुण्यः पापः प्रचोदितः || सा शक्ति पुण्यपाप रूपत्वात्) स्थूलसृष्ट्यर्थं पत्यासह क्रीडयित्वा मूलाधारे स्थिता | तदुक्तं याज्ञवल्क्ये - द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः | चक्रेऽस्मिन् भ्रमते जीवः पुण्यपापप्रचोदितः || सा शक्तिः पुण्यपापरूपत्वात् सर्वकारणम् | अमृतवर्षेण स्वाधिष्ठाने दग्ध जगत्प्लावनार्थं मणिपूरे मेघरूपेण स्थिता | मणिपूराद्धृदये उड्डीयवर्षन्ती | तदुक्तं तव श्यामं मेघं कमपि मणिपूरेकशरणमिति | स्थूलसृष्ट्यर्थं पत्यासहक्रीडयित्वा मूलाधारे स्थिता | तदुक्तं तवाधारे मूले सह समय चेति || एवं प्रवृत्तिः कुण्डलिन्याः इति | || इति योगसारसंग्रहे कुण्डलिनी स्वरूपक्रियानिरूपणं नाम चतुर्दशोध्यायः || ब्रह्मचक्रे सुषुम्नाग्रे श्रीचक्रे चन्द्रमण्डले | महापद्मवने यत्तद् योगपीठं प्रकीर्तितम् || तदुक्तं योगसारमञ्जर्याम् - पद्मेदशशताराढ्ये ब्रह्मचक्रे शिवात्मके | श्रीचक्रं राजं बालार्ककोटि दीप्तं विभावयेत् || इति | शिवः - महापद्मवनं यत्तत् योगपीठं प्रकीर्तितम् | कदम्बगोलकाकारं चक्रं तं बिन्दुरूपिणम् || ब्रह्मरूपन्तु तत्रैव सुषुम्ना धारमण्डले || इति | बीजे यथांकुरोद् भेदः तथा तारार्णमण्डलम् || कदम्बगोलरूपेण सहस्रारे व्यवस्थितः || परितश्च सुषुम्नाया अधश्चोर्ध्वं च सर्वशः | यद्यत् स्थितं च तत् सर्वं संक्षेपेण प्रकाश्यते || सहस्राद्वितस्त्यन्तं द्वादशान्तमितीरितम् | तदेव श्रीगुरुस्थानं षोडशान्तमितीरितम् || नृसिंह तापनीये - ओंकारं सर्वेश्वरं द्वादशान्ते षोडशान्ते इति | तन्त्रधारे च - ततः परममात्रास्तु तत्वातीतः परः शिवः | निष्कलो निर्मलो नित्यः शरद्वारि समप्रभः || प्. ८६) गम्योनैक क्रमेणैव स्वानुभूत्यैमहात्मभिः | ऊर्ध्वाम्नाये - ब्रह्मरंध्रसरसी रुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डली कनककाण्डशोभितं द्वादशान्त सरसीरुहं भजे || तस्य कन्दलितकर्णिका पुटे कॢप्तरेखमकथादि संख्यया | कोणलक्षितहलर्क्षमण्डलं भावलक्ष्यमनलालयं भजे || तत्पुटे घनतटित्कटादिमत्स्पर्धमानपाणे पाटलप्रभम् | भावयामि हृदि चिन्मयं सदाबिन्दुनादमणिपीठमण्डलम् || ऊर्ध्वमध्यहुतभुक्शिखास्पदं चिद्विलासपरब्रह्मणास्पदम् | विश्वखस्मरमहायशोत्कटं भावयामि युगमादि हंसयोः || द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् | पादुकापरशिवात्मनो गुरोः पापनाशिनि पटीयसी मम || मूर्ध्निशीतकरनिस्सरत्सुधा सिक्तमूर्तिरनिशं विराजते || इति | योगसारमञ्जर्याम् - गुदात्तद्व्यष्टभागेषु वीणादण्डाख्य देहभृत् | दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मनाडीति कथ्यते || तस्थान्ते सुषिरं सूक्ष्मं ब्रह्मनाडी सूरया | इडापिंगलयोर्मध्ये सुषुम्नासूर्यमण्डले || सर्वं प्रतिष्ठितं तस्मिन् सर्वं विश्वतो मुखम् | तद्गतास्सूर्यसोमोग्नि देवताः परमेश्वरः || भूतालोकादिशः क्षेत्रसमुद्राः पर्वतास्तथा | द्वयोश्च निम्नगा वेद शास्त्रविद्या कलाक्षराः || स्वरामन्त्रपुराणाश्च गुणाञ्चैतस्य सर्वशः | निजं जीवात्मना तेषां क्षेत्रज्ञः प्राणवाहनः || सुषुम्नान्तर्गतं विश्वं तस्मिन् सर्वं प्रतिष्ठितम् || इति | चिन्तातिमिर भास्करे - शरीरान्तर्गतोमेरुमाश्रित्यमणिदण्डवत् | सुषुम्ना वर्तते देहे बिसं निभा शुभा || आब्रह्मस्तम्बपर्यन्तं तन्मध्ये वर्तते चिति | तावाद्यन्तप्रभास्यन्तश्चित्तमित्यभिधीयते || तच्छिद्रघटमध्यस्थं दीपज्वालेव दीप्यसि | एवं जीवस्वरूपान्तं व्याप्तमुक्तं हि पुत्रके || इति | याज्ञवल्क्ये - मूलाधाराग्रकोणस्य सुषुम्नाद्वादशान्तगा | मूलोर्ध्वच्छिन्नवंशाभाब्रह्मनाडीति कथ्यते | तस्यास्तु सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् || मस्तकान्ते चतुःस्थानात् ऊर्ध्वंवाङ्मानसोऽधिकम् | द्वादशान्तमितिख्यातं परमात्मा व्यवस्थितम् || प्. ८७) तस्मादधः स्थिता शक्तिः उन्मनी चतुरंगुले | समनानामया शक्तिः सा शक्तिस्तत्र सु स्थिता || त्रियंगुलादधो लक्षभानु कान्तिप्रकाशिनी | शिरोग्रेह्यं गुलीस्थाने शक्तिः सैव च सुप्रभा || इति | तन्त्रसारे - तच्छिवात्तपराशक्तिः सहस्रांशेन जायते | शान्त्यादि बहुनोक्तेन सा शक्तिर्व्यपदिश्यते || तदुक्तं मृगेन्द्रे - सा च कुण्डलिनी शंभोः शक्तिः शुद्धा इडात्मिका || न तदात्मे स्थिता सैव वर्तमाना परिग्रहे | उपादानत्वते देहे तोः कुलाले मृत्तिका यथा इति || सहस्रारे द्व्यंगुलाग्रे मणिभादण्डवत्स्थिता | पार्श्वद्वयोर्बिन्दुयुक्ता शक्तीस्तिष्ठति सर्वदा || दण्डादधस्त्र्यंगुलाग्रे बिन्दुमध्येर्ध चन्द्रभा | निरोधिनीति विख्याता शक्तिस्तिष्ठति सर्वदा || इति | अन्तसारे - अंगुलत्रितयेनन्तो ललाटे पादमात्रकम् | दिव्यलिङ्गस्समाकारो ह्यर्धचन्द्रसमप्रभः || तदुक्तं योगसारमञ्जर्याम् - ललाटे परमेशानि दिव्यावाराणसी पुरी | अवर्णमन्त्रेनन्ताख्यो विरजा च सरस्वती | भ्रूमध्ये द्व्यंगुलावृत्ते दीपाकारसमप्रभा || सितासितासरित्संगः स्थितस्सोमेश्वरः शिवः | तथा च श्रुतिः - यत्र गंगा च यमुना यत्र प्राची सरस्वती | यत्र सोमेश्वरो देवस्तत्रात्मा ह्यमृता कृतिः || ततोंगुलिकाकोशे द्विमात्रेर्क शशिप्रभा | माया तत्वविषोरुद्रः कण्ठदेशे व्यवस्थितः || दक्षिणामूर्तिकल्पे - नाभेरूर्ध्वे वितस्त्यन्ते हृदयं चतुरंगुलम् | तदन्ते संस्थिता मेधास्वरूपाग्निसमप्रभा || नाभिमण्डलमध्ये तु इच्छाविद्या प्रतिष्ठिता || इति | तदधो मणिपूराग्रे रत्यारतिपतिः स्थितः | मूलाधारे स्थिता शक्तिः कुण्डली परदेवता || योगसारमंजर्याम् - अथ ब्रह्मार्गलद्वारं दुर्विज्ञेयं महेश्वरि | कलञ्चतुष्.कं तत्रस्थं चतुर्वर्गात्मकं परम् || पूर्वभागेऽमृतानाम गुप्तं दक्षिणगोचरा | शिवापश्चिमदिग्बागे परापर शिवोत्तरे || तद्वारं रसनाग्रेण भित्वापूर्वकलामृतम् | यदापिबति वै योगी मासादर्धेश्वरो भवेत् || प्. ८८) यथा गुप्तामृतं दक्षे योगी रसनया लिहेत् | मासा देव न संदेहः साक्षादेवार्धेश्वरो भवेत् || तत्पश्चिमे कलापानात् तद्वत्कामेश्वरो भवेत् | उत्तरस्थ कलापानात् परमेष्ठित्वमाप्नुयात् | तदूर्ध्वे मण्डले लीनं ब्रह्मरंध्रे परामृतम् || तत्सुधापानमात्रेण जीवान्मुक्तः शिवो भवेत् | तत्र चूलितलं प्रोक्तं केदारं प्राहुरोश्वरी || तत्र सोमकलाश्चाष्टौ विख्याता वीरवन्दिते | अमृतामानदापूषा तुष्टिः पुष्टी रतिर्धृतिः || शशिन्यादि कलापानात् खेचरत्वं प्रजायते | भ्रूमध्यन्नमयेत् प्रोक्तं तत्प्रोक्तं सोममण्डलम् | चन्द्रिकादि कलाप्रोक्तं परामृतनिकेतनम् | जिह्वया यस्य तत्पानं तस्य वज्रसमं वपुः || तदूर्ध्वं वज्रकन्दाख्यं शिलाखेचरिमध्यगम् | ललाटं तं विजानीयात् तत्र देविकलाश्रयम् | तत्प्रादिकलापानात् अस्त्रशस्त्रैर्न भिद्यते | आचिन्त्यः सर्वविज्ञानैः विरूपा विषयान्वितैः || भैरवा भोगवेत् सत्यं वज्रकन्दप्रभावतः | नासिकाधो धरोष्ठोर्ध्वे राजदन्तमहापथे || तत्रपूर्णामृताकामदायिनी च कला द्वयम् | संप्राप्य कुंभकावस्थां रसनाग्रेण संस्पृशेत् || द्विमासं तत्सुधापानात् सर्वरोगो विनश्यति | गुदलिंगान्तरस्थानंमाधारपरिकल्पितम् || तत्रपञ्चकलाः प्रोक्ताः प्रागुप्तपरमामृतः | सुधा सुधामयी प्राज्ञा कालघ्नी ज्ञानदायिनी | कलाः पञ्चसुधाधाराः कीर्तिताः सर्वसिद्धिदाः || तत्रस्था परमाशक्तिर्मायाकुण्डलिनी शिवे | तत्राकुंचनयोगेन कुम्भकेन सुरार्चिते || मूलशक्त्या समास्वाद्य तत्रगंशीतला मृतम् | सुषुम्नाया समुन्नीय स्वाधिष्ठानादि पंकजात् | तत्सुधावृष्टिसंसिक्तं स्मरेद् ब्रह्माण्डकावधि || तत्रस्थममृतं गृह्यशक्तिः श्रीकुण्डली परा | सुषुम्नामार्गमासाद्य ब्रह्मधामान्तमेयुषी || पञ्चमासप्रयोगेण पञ्चभूतजयं भवेत् | शिवसाम्यो भवेत् सत्यं त्रिकालाभ्यासयोगतः || प्. ८९) नाभिस्थानं हि मया देवी स्वाधिष्ठानं तदुच्यते | तत्र दिव्यामृतमयं कलात्रयमुदीरितम् || सुषुम्ना परमाह्लादा विद्याचेति प्रकीर्तिता | पूर्ववत्कुम्भकावस्थां प्राप्यशक्तिं प्रबोध्य च || तत्सुधापानमात्रेण पूर्वोक्तफलमश्नुते | गुदमेढ्रान्तरं यद्वै वेणुदण्डं तदुच्यते || कलाचतुष्कं तत्रोक्तं परामृतरसायनम् | सुशीता च महावृष्टिः पलितघ्नी वलीक्षया || तत्रशक्तिं समुद्बोध्यपूर्ववत्प्लावयेत् तनुम् | चतुर्मासप्रयोगेण पूर्वोक्त फलमश्नुते || इति | योगशांकरे - अतः परं प्रवक्ष्यामि परामृतमहापथम् | वज्रकन्दे ललाटे तु प्रज्वलच्चन्द्रसन्निभम् || यं गर्भञ्चतुरश्रं च तत्र देवः परश्शिवः | देवतास्तमुपासन्ते योगिन्यश्शक्तिसंयुतम् || चूलीतले महादेवि लक्षसूर्यसमप्रभम् | त्रिकोणमण्डले मध्यदेवं लिङ्गात्मकं शिवम् | रं गर्भमध्यगं देवि स्वशक्त्यालिङ्गितं परम् || देवतागणसंजुष्टं भावये परमेश्वरीम् | दक्षजङ्घे महाभागे षड्बिन्दुर्वलयान्वितम् || यं गर्भं धूम्रवर्णञ्च तत्रदेवं महेश्वरम् | लिङ्गाकारं स्मरेद् देवि शक्तियुक्तं गणावृतम् || वामशंखेन्द्र चन्द्राभं स पद्मं मण्डलं शिवे | यं गर्भं ठं पदं मध्ये तत्रलिङ्गं सुधामयम् || गोक्षीरधवलाकारं शरच्चन्द्रायुतप्रभम् | स्वशक्त्यालिङ्गितं सर्वे देवतागण सेवितम् || एवं देवी चतुर्दिक्षु स्थानान्युक्तानि वै मया | तेषां मध्ये महावृतं हं गर्भं तत्र पार्वति | खगोश्वरः परश्शब्दः स्वशक्त्या लिङ्गितस्थितः || लिङ्गाकारो गणयुतः सूर्यकोटिसमप्रभः | पृथिव्य(धि)पतिर्बालः पश्चिमे सूर्यनायकः || दक्षशंखे निलवति वामे जलपतिश्शिवः | मध्ये व्योमाधि पतिश्शम्भुः स्थानाः पञ्चमथोदिताः || योगसारमञ्जर्याम् - व्योमाधिपस्य देवस्य शिरोर्ध्वे चतुरंगुलम् | ज्योतिर्मण्डलमध्यस्थं कोटिचन्द्रसमप्रभम् || दिव्यामृतमयं भाण्डं मूलबंधकवाटकम् | ऊर्ध्वरुद्धमहाशैलमभेद्यममृतास्पदम् || शीतलावृतमध्ये तु विलीनं लिङ्गमीश्वरम् | त्रयरेणुप्रतीकाशं कोटिचन्द्रसमप्रभम् || हेयोपादेयरहितंमज्ञानतिमिरापहम् | प्. ९०) अतीत्यपञ्चस्थानानि परतत्वोपलब्धये | परामृतघटाधारकवाटं कुम्भकान्वितम् || मनसा सहवागीशीमूर्ध्ववक्त्रां प्रसारयेत् | स यद्यत् प्राणसञ्चारो योगीरसनया गलम् || लीलयोद्घाटयेत् सत्यं सम्प्राप्य सहसामृतम् | शीतलेक्षुरसास्वादु तत्र क्षीरामृतं हि मम् || योगपानं पिबेन्मध्यं दुर्लभं विबुधैरपि | तत्सुधावृष्टि सन्तृप्तो परावस्थामुपेत्य च || उन्मन्या तत्र संयोगंक्तभ्यं ब्रह्माण्डकान्तरे | नादबिन्दुमयं मांसं योगीयोगेन बृंहयेत् || एतद्रहस्यं देवेशि दुर्लभं परमेश्वरि | जिह्वाग्रे कोटिचन्द्राभां वागीशीं परिभावयेत् || परामृतकलातृप्तः कवित्वं लभते क्षणात् | जिह्वाग्रे संस्थितां लक्ष्मीं परामृतविमोदिताम् || ध्यायन् योगी महेशानि योगसाम्राज्यमाप्नुयात् | सहजाः पञ्चविख्याताः पिण्डेऽस्मिन् परमात्मके || यदा संजायते देहं मातृहे पितृक्षयात् | तत्रसार्धं भवन्तिस्म देहवृद्धिमुपेयुषी || आद्याकुण्डलिनी शक्तिः प्रथमा सहजा स्थिता | द्वितीया च सुषुम्नाख्या जिह्वा चैव तृतीयका || तालुस्थानं चतुर्थञ्च ब्रह्मस्थानं च पञ्चमम् | उन्मन्या सहजा माया द्वितीयां सहजां विशेत् || तृतीयां सहजामूर्ध्वं चतुर्थीं सहजां विशेत् | चतुर्थीं सहजां भित्वा सहजां पञ्चमीं विशेत् || एवं भेदो मया प्रोक्तो दुर्विज्ञेयं कुलेश्वरि | मूलात् कुण्डलिनी शक्तिः सुषुम्नामार्गमागता || कुलैकतन्तु प्रतिमा कोटिसूर्यसमप्रभा | प्रविशेद् घण्टिकामार्गं शिवद्वारार्गलं विशेत् || एवं भेदो मया प्रोक्तो दुर्विज्ञेयो महेश्वरि | प्रविशेत् कोटि सूर्याभं धामस्वायंभुवं प्रिये || तत्रामृत महाम्भोधौ शीतकल्लोलमालिनी | पीत्वाविश्राम्य च सुधां परमानन्दपूर्णया | बुद्ध्या तत्सुधया तृप्तमात्मदेहं प्रभावयेत् || अनेन देवि योगेन जायते दिव्यदर्शनम् | खेचरित्वं भवेत् सद्यः सर्वदुःखक्षयो भवेत् || वञ्चनं कालमृत्यूनां त्रैलोक्यैकमणिस्तथा | अणिमादि गुणोपेतः स सिद्धो जायते ध्रुवम् || प्. ९१) योगीन्द्रत्वमवाप्नोति मतिख्या हता भवेत् | न च नागसहस्राणा बलेन सहितः स्वयम् || जायते शिववद्योगी सत्यं सत्यं मयोदितः || शिवः - मूलाधारात् समुद्भूता षट् कवाट विभेदिनी | भित्वाब्रह्मार्गलं दिव्यं स्वपते स्थानमेयूषी || वह्न्यर्कमण्डलं भित्वा द्रवन्ती चन्द्रमण्डलम् | तदुद्भवामृतास्वादा परमानन्दनन्दिता | कुलयोषित्कुलं त्यक्त्वा परं पुरुषमेयुषी || निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम् | तत्र स्वच्छन्दरूपा तु परिरभ्यस्वकं पतिम् || विश्राम्य च चिरं कालं तद्भोगा ह्लाद नन्दिता | परमा वृष्टिभिर्नित्यं सिञ्चन्ती योगिनस्तनुम् || यथा गतेन मार्गेण पुनरेति स्वकं पदम् || || इति योगसारसंग्रहे सुषुम्ना कलानां स्वरूपनिरूपणं नामपञ्चदशोध्यायः || अथ शरीरे जीवस्थानानि जीवात्मस्वरूपं चोच्यते - शिवयोगे - आधारे हृदये चैव शिरः स्थाने व्यवस्थितः | देहसङ्गस्स इत्युक्तश्शिवेन परमात्मना || ब्रह्मोपनिषदि - नेत्रस्थं जागरितं विद्यात् कण्ठे स्वप्नं समादिशेत् | सुषुप्तं हृदयस्थं तु तुर्यं स्यान्मूर्ध्निसंस्थितम् || इति | दत्तः - वायुस्तेजस्तथाकाशो त्रिविधो जीवसंज्ञकः | स जीवः प्राण इत्युक्तः वालाग्रशतकल्पितः || इति | याज्ञवल्क्ये - न्यग्रोधबीजं शतधा विभज्य तदेकभागस्य शतांशतुल्यम् | तस्यांशभागं मुनयो वदन्ति तथैव जीवाख्यमितिप्रसिद्धम् || मुण्डकोपनिषदि - एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधासंविवेश | प्राणैश्चित्तं सर्वमेतं प्रजानां यस्मिन् विशुद्धो भवत्येष आत्मा || मनस्तेजो रूपस्तन्निरोधात् स्वरूपलाभाः उक्तस्थाने नियम्यासून् तत्र संयोजयेन् मनः || मुहूर्तमभ्यसेन्नित्यं मृत्युमातङ्ग केसरी | प्राणसन्निरोधात् स्वरूप ज्ञानं सिध्यति || ब्रह्मोपनिषदि - अतो निर्विषयस्यास्यमनसो मुक्तिरिष्यत इति || उत्तरगीतासु - यथा जलंजलेक्षिप्तं क्षीरे क्षीरं घृते घृतम् | प्. ९२) अविशेषं भवेत् तद्वत् जीवात्मपरमात्मनोः || तथा च श्रुतिः - घटसंवृतमाकाशन्नीयमने घटो यथा | घटीनीयेतनाकाशं तद्वज्जीवो न भोषमः | कठवल्याम् - नायमात्मा प्रवचनेन लभ्यो न मेघया न बहुना श्रुतेन | यमेवैष वृणुते तेन लभ्यस्तथैवात्मा वृणुते तनूंस्वाम् || तापनीये - ओमित्येकाक्षरमिदं सर्वं तस्योपव्याख्यानं भूतम् | भूतं भव्यं भविष्यदिति | सर्वमोंकारमेवयच्चान्यत्र कालोतीतम् | तदप्योंकार एव | सर्वं ह्येतद्ब्रह्म | अथमात्मा ब्रह्मासोऽयमात्मा चतुष्णात् जागरित स्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशति मुखः स्थूल भुग्वैश्वानरः प्रथमः पादः | स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः चतुरात्मा प्राज्ञ ईश्वरः तृतीयः पादः | एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येषयोनिः सर्वस्य प्रभवाप्ययो हि भूतानां बहिः प्रज्ञम् ना प्रज्ञम् न प्रज्ञानघमदृष्टम् | अव्यवहार्यमग्राह्यमलक्षणम् | अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः | य आत्मा शुद्धचैतन्यस्वरूपः शाश्वतो विभुः निर्विकारः स्वयं ज्योतिः स्वभावोर्कः प्रकाशयेत् | वासिष्ठः - य आत्मा चिन्मयः स्वच्छः प्रवृत्त्युपचयोऽच्युतः | हेयग्राह्योज्झितो देशकालजात्याद्यसंगतिः || अस्यां तुर्यावस्थायां स्थितिं प्राप्यविनाशिनी | आनन्दैकात्मलीनत्वा महानन्दपदं गतः | आद्यन्तरहितः सत्यं चिद्रूपो निर्विकल्पकः | आत्मासंपूरिताकाशो जीवः स्याद्यः परात्परः || आत्मानमितरं चापि दृष्ट्या नित्याविभिन्नया | सर्वं च ज्योतिरेवेति यः पश्यति स पश्यति || अवधूतगीतासु - एवं ज्ञात्वात्विमं मार्गं योगिनां(न्ते)वकल्पितम् | विकल्पवर्जितात्वेषा स्वयं सिद्धिः प्रजायते || नाडीप्रकारोऽपि न यत्र किञ्चित् नमीशमात्मानमुपे हि शाश्वतम् | न संयमी वा यदि वा न संयमी निष्कर्मको वा यदि वा स कर्मकः || आत्मप्रबोधात् स विमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् | मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्र भूतादि न भूतपञ्चकम् | प्. ९३) अहं कृतिश्चापि न येत् स्वरूपकं तमेक मात्मानमुपैति शाश्वतम् || तीर्थे वाप्यथ गेहे वा यत्र कुत्र मृतोऽपि वा | योगी न पश्यते गर्भं परब्रह्मणि लीयते || तीर्थे वा श्वपच गृहे नष्टस्मृति परित्यजन् देहम् | ज्ञानसमकाल मुक्तः कैवल्यं याति हतशोकः || कुलीपवित्रं जननी कृतार्था विश्वंभरा पुष्यवती च पृथ्वी | अपारसच्चित्सुखसागरेऽस्मिन् लीनं परेब्रह्मणि यस्य चेतः || योगशास्त्रस्य सर्वेषां श्रद्धाभक्ति पुरस्सरम् | शतकृच्छ्र फलं नित्यं भवति श्रवणेन तु || दिने दिने योगशास्त्रं यः पठेद् भक्ति संयुतः | तत्र श्रीः विपुला सद्यः अन्ते मुक्तिर्न संशयः || || इति श्रीमद्योगसारसंग्रहे आत्मस्वरूपनिरूपणं नामषोडशोध्यायः || यमादि षोडशपरैः कृत्यैरात्मस्थिति क्रमः | संप्रोक्तः षोडशाध्यायैः बहुसम्मतिभिर्दृढम् || इति || योगसारसंग्रहः सम्पूर्णः || ########### END OF FILE #######