#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00503 Uniform title: yogasārasamuccaya Secondary title: akulāgamatantra Manuscript : NGMCP manuscript no. 1-9 Reel No. B 115/6 Description: Wrongly catalogued as the akulāgamatantra is in fact called the yogasārasamuccaya . Deals with Yoga. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dycskowski. Revison 0: August 14 2021 Internet publisher : Muktabodha Indological Research InstituteInternet published by Muktabodha Indological Research Instit Publication year : 2021 Publication city : Publication country : United States #################################################### श्रीब्रह्मणे नमः || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || १ || यस्तु आदौ त्वया नाथ मुनिशिष्यैःरनेकधा | अनेकशास्त्र मायादौ कथिता परमेश्वर || २ || प्रशन्नो देवदेवश भवदुःखविनाशन | अनेकशास्त्रश्रवणादस्माकं भ्रामितं मनः || ३ || केन मे कारणं कर्म किं योगः प्रोच्यते स तु | योगस्तु षड्विधः प्रोक्ता नानात्वं तस्य दृश्यते || ४ || अन्ततर्भेदभिन्नस्य मनेकाशास्त्रचोदिता | शास्त्रस्य संगतिर्नास्ति शंसयं कथय प्रभो || ५ || न त केन मार्गेण गर्भवासस्तु दारुणाः | देवानां परमां भक्तिं श्रुत्वा तु परमं मुनिः || ६ || १ब्) प्रोवाच भगवान् विष्णुः सर्वेषां चैव संमतं | त्वया हि कथितं यत् तद् रहस्यं गुह्यमुत्तमं || ७ || श्रीनारायणौवाच || अकुलागमकल्पोयं श्रुणुष्वं कथयाम्यहं | वेदशास्त्रस्य मध्ये तु स्वाश्रयोगः प्रसस्यते || ८ || येनैवानेकभेदेन तेन सर्वे विमोहिता | मुनयः सर्वशास्त्रेषु योगसाम्यं निरोपितं || ९ || तच्छास्त्रं शंभुना प्रोक्तं कुत्र कस्य जनार्दन | हिमाद्रिशिखरे रम्ये नानाधातुविचित्रिते || १० || अनेकद्रुमसंकीर्णे पुष्पप्राकारशोभिते | गंगादिसरितस्तत्र सर्वतीर्थनिषेविते ||११|| पुण्यदेशे महासौम्ये मंगले निरुपद्रवे | एकान्ते विजने गोप्ये चित्तस्याह्लादकारके || १२ || तस्मिन् मध्ये महादेवो देवानां दैवतं परं | सिद्धासने समो भूत्वा योगेषु परिनिष्टितः || १३ || ध्यानस्थश्चिन्तयामास स शिवः परमेश्वरः | निरंजनं निराकारं निर्विकल्पं निरूपमं || १४ || परिपूर्णं परं ब्रह्म तस्मिन् लीनो महेश्वरः | क्वचित् काले महामाया शाम्भवी तत्र मागता || १५ || समाधिस्थं हरं दृष्ट्वा स्तुतिं च ब्रुहि पार्वति || श्रीदेव्युवाच || नमस्ते आदिनाथाय विश्वनाथाय ते नमः || १६ || नमस्ते विश्वरूपाय विश्वातीताय ते नमः | नमस्ते विश्वकन्दाय विश्वबीजाय ते नमः || १७ || सबाह्याभ्यंतरस्थाय नमस्ते विश्वधारिणे | सृष्टिस्थितिं विनाशानां त्वं हेतुः परमेश्वरः || १८ || त्वमेदोपि त्रिधाभिन्नो ब्रह्माविष्णुशिवाकृतिः | नमो रजस्वरूपाय सत्वरूपाय ते नमः || १९ || तमोरूप नमस्तेस्तु निर्गुणाय नमो नमः | अध्यात्मविद्या विद्यानां सा विद्या त्वं सुरेश्वर || २० || स पातु विद्यया सिद्धाः प्राप्नुवन्ति परं सुखं | चन्द्रादिभ्य स्वरूपाय नमस्ते जातवेदसे || २१ || प्राणापानस्वरूपाय शब्दब्रह्मात्मने नमः | त्रयी विद्या सोमपाय फलदाय गुणात्मक || २२ || अविद्या विद्यमानाय महादेवाय ते नमः | गायत्री चैव सावित्री महामाया सरस्वती || २३ || त्रिसंध्याय त्रिकालाय सर्वदेव्या त्रयी वपुः | त्रिशून्याय नमस्तुभ्यं पञ्चप्राणाय ते नमः || २४ || भूतभावनभूतेश नमस्ते भूतवासिने | अहर्निशात्मको भूत्वा मायाचक्र व्यवस्थिताः || २५ || सर्वेषां चैव भूतानां मायुष्यगणनाय च | नमस्ते नादरूपाय बिन्दुरूपाय ते नमः || २६ || कालरूप नमस्तुभ्यं महाप्राण नमोस्तु ते | ३अ) स्थुलसूक्ष्मप्रभेदेन सर्वत्रैव व्यवस्थिता || २७ || ज्ञानगम्योशि देवेसि मुनिनां भावितात्मनां | अकाराय नमस्तुभ्यं उकाराय नमो नमः || २८ || मकाराय नमस्तुभ्यं प्रणवत्रयरूपिणे | ज्ञानविज्ञान गुह्यात्मा कूटस्थः कूटवर्जितः || २९ || द्वैताद्वैतविनिर्मुक्तो भावगम्यो महेश्वरः | ऋग्यजुः सामरूपाय नमस्ते मन्त्ररूपिणे || ३० || मन्त्रानां बीजरूपाय हकाराय नमो नमः | साकारोसिनिराकारो देहस्थः प्रकृतेः परः || ३१ || स्वयं ज्योति परमात्मा एकोपि बहुधा स्थितः || ३२ || नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायिने | सर्वज्ञान नमस्तेस्तु नमस्ते सर्वगाय च || ३३ || चतुर्विंशति तत्वन्ते पुरुषः पंचविंशति | सजीवस्त्वं गुणाधीनो मायया ह्यंत्रवाहकः || ३४ || ३ब्) नमस्ते हंसरूपाय परहंसाय ते नमः | सर्वतत्वांतरस्थाय चैतन्याय नमस्तुते || ३५ || सखात्वं सर्वभूतानां जीवानां जीवनं परं | त्वया विनानकोप्यस्ति फलदो कर्मकारिणं || ३६ || नमस्तेक्षर रूपाय मृत्यवे पानसंज्ञके | अक्षराय नमस्तुभ्यं मपमृत्युविनासिने || ३७ || तीर्थानां परमं तीर्थं व्रतानां च महाव्रतं | सर्वेषां चैव यज्ञानां त्वं च देव महामलः || ३८ || त्वं मन प्राणरूपस्त्वं क्षेत्रज्ञस्त्वं हृदि स्थितः | अकर्तात्वमुदासीनो साधनोधर्मरक्षकः || ३९ || नमस्ते शब्दरूपाय स्पर्शरूपाय ते नमः | रसरूप स्वरूपाय नमस्ते गन्धरूपिणे || ४० || देहांतरे क्षरत्वं हि वाह्येपि त्वक्षरात्मकः | उत्तमः पुरुषः त्वन्य परमात्मा जगत्पतिः || ४१ || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | ४अ) पञ्चभूतात्मने शम्भो नमस्ते तत्व विग्रहः || ४२ || एकपादो द्विपादश्च त्रिपादो वै चतुष्पदः | युगे युगे च यो धर्मो नमस्तस्मै कपर्दिने || ४३ || नमः प्रकृति रूपाय पुरुष रूपाय ते नमः | द्वैताद्वैतस्वरूपाय नमस्ते भेदवर्जिते || ४४ || अमूर्तोसि अनन्तोसि मूर्तोसि त्वं स्वमायया | कर्ता हर्ता प्रभुः साक्षी भर्ताभोक्ता महेश्वरः || ४५ || विरूप्यक्ष नमस्तेस्तु नीलग्रीवाय ते नमः | गंगाधर नमस्तुभ्यं नमस्ते चन्द्रमौलिने || ४६ || इन्द्राद्यालोकपालाश्च यक्षगन्धर्व किन्नरा | सिद्धविद्याधराश्चान्ये त्वदीशाः सर्वदेवताः || ४७ || नमस्ते बोधरूपाय बोधबोध्याय ते नमः | नमो विश्वप्रबोधाय ज्ञानबोधाय ते नमः || ४८ || स्थावरं जंगमं चेदं विऽस्वमेतच्चराचरं | कर्मसंवलितं तस्य त्रातात्वं परमेश्वर || ४९ || ४ब्) त्वं गुरुः सर्वसत्वानां उपदेष्टा हृदिस्थितः | योगान्मुक्ति प्रदो देव भवकर्मोपदेशतः || ५० || अतर्क्यासि महेशान अप्रमेयोव्ययःकिल | सर्वाधारो निराधारो जगतां सूत्रधारकः || ५१ || शरंण्योसिशरण्यानां पापहाकरुणाकर | भवोर्मि व्याकुलं देव रक्तमांसरणागतां || ५२ || कृपाकरत्वमीशान भक्तानाम भयंकर | आर्तानामार्तिहंतात्वं कृपादृष्ट्वावलोकय || ५३ || जानेत्वामीशं विश्वस्य जगतो यानि बीजयो | शक्तेः शिवस्य च परं यस्त्वं ब्रह्म निरंतरं || ५४ || एवन्नाना प्रकारेण पार्वत्या प्रार्थितः शिवः | ध्यानादुपरतचित्त स्तुत्या जातो महेश्वर || ५५ || तस्मिनवसरे देवी साह्लादा शांभवी कला | महादेवं नमस्कृत्य तयाप्रश्न अयंकृतः || ५६ || अथ धार्यतां सुरश्रेष्ठमद्वाक्यं कृपया शिव | ५अ) शास्त्रे त्वनन्तः पंथानः कर्मभिनाः श्रुता मया || ५७ || मे मति भ्रामिता तैस्तु किं सत्यं न स्मराम्यहं | तस्मात् कथय सर्वज्ञ कारणं वेदशास्त्रयोः || ५८ || सर्वेषां चैव शास्त्राणां भेदः किं चैक वाक्यता | षट् दर्शने विवादश्च वितर्को मनसि स्थितः || ५९ || कर्मणा लभते मोक्ष किं योगः साधनेन च | योगश्चैकः सर्वसास्त्रे प्रोच्यते किमनेकधा || ६० || योगस्य च षडंगानि कानि तानि तपोधन | कथयस्व महादेव प्रश्नमन्यं यथार्थतः || ६१ || कोजीवः सर्वभूतस्थः का च शक्ति गुणात्मिका | परमात्मा च निर्गुणः जीव साक्षी तु कः प्रभो || ६२ || पापपुण्य निवद्धस्य पतितस्य भवार्णवे | जीवस्य ब्रह्मसंयोगः केनोपायेन जायते || ६३ || वलीपलीतको देहो ज्ञानकश्च रता नरा | ५ब्) तयोस्तंभो भवेत् केन उपायेन सुराधिपः || ६४ || इदृशं वाक्यमाकर्ण्य कैलासाधिपतिः शिवः | कृपया लोक्य नेत्राभ्यां पार्वतीं समुवाचह || ६५ || श्री ईश्वर उवाच || ऋग्यजुःसामवेदैस्तु सर्वशास्त्रैरनेकधा | सृष्ट्यर्थं कल्पितो भेदो न भेदः परमार्थतः || ६६ || कर्ममार्गेण संसारो वेदनिश्चित मार्गतः | योगमार्गेण मोक्षोस्ति स योग शिवजीवयोः || ६७ || अध्यात्मशास्त्रमध्ये तु दृश्यते चैक वाक्यता | नानात्वं नास्ति योगस्य नाम्ना भेदः प्रकल्पयेत् || ६८ || एकस्य बहुनामानि भेदभिन्नान्यनेकधा | तैरेभिधानैर्योगस्य त्वत्तसर्वे ब्रुवन्ति हि || ६९ || यद्यप्यधीत निगमाः षडंग सहिता प्रिये | आगमाद्यानि शास्त्राणि ज्ञानं नास्ति गुरुं विना || ७० || ६अ) तस्माद्गुरुं समालोच्य भजते यः पुमान् शिवे | योगज्ञानं स्फुटं तस्मै ब्रुवते नात्रसंसयः || ७१ || तारकं कोपि संसारे प्राणीनां सद्गुरोर्विना | दैवेन दर्शनं तस्य जायन्ते ज्ञानतोधिकान् || ७२ || योगस्यांगानि वक्षामि यैस्तु सिध्यन्तु साधकाः | संविभाव्यात्म योगस्य द्वादशाद्धानि सुन्दरी || ७३ || आसनं प्राणसंरोधः प्रत्याहारोथ धारणा | ध्यानं समाधिरेतानि योगांगानि महातपे || ७४ || प्रथमं चासनं दिव्यं सध्यं सर्वं रुजापहं | तत्प्रवेशे स्मृतं भद्रे त्वक्षरे देह पूरके || ७५ || योगस्यांगं द्वितीयं तु प्राणायाममुदाहृतं | निश्चलं नाभि देशी च सर्वपापप्रनाशनं || ७६ || तृतीयं चोर्द्धगं विद्धि प्रत्याहारात्मकं हृदि | ग्रंत्थि भेदादिके नाथ मनोविषयनाशनं || ७७ || चतुर्थ्यं धारणं नाम स्वरचक्रे व्यवस्थितं | सुधामयं महासौम्यं कवित्वं येन जायते || ७८ || ६ब्) पंचमं भ्रुविलांतस्थं ध्यानं तद्वेदसूचितं | अष्टसिद्धि प्रदं पुंसां योगस्यांग प्रकीर्तितं || ७९ || षष्टं वै व्योम मध्यस्थमंगं परमदुर्लभं | समाधीरिति विख्यातं सर्वज्ञानावभासकं || ८० || तेन योगी महादेवी प्रोच्यते परमेश्वरः | यथाब्रह्म यथायोगो दुर्लक्षस्त्रिदशैरपि || ८१ || षडंगानि च योगस्य कथितानि इमानि वै | वहवो योगिनः सिद्धा अंगैरेतैर्वरानने || ८२ || आसनं ब्रह्मणो भावः प्राणायामस्तु वैष्णवः | प्रत्याहारो रुद्रभावो धारणा चेश्वरे मता || ८३ || ध्यानं सदाशिवो भावः समाधिः पुरुषस्य च | भावाने तान् समभ्यस्य योगी ब्रह्मण्यवस्थित || ८४ || ईदृशानि षडंगानि वदत्य ध्यात्म वित्तमाः | प्राणस्यार्द्ध प्रचारेण सर्वेषां चैव संमतां || ८५ || ७अ) अन्यं जीवस्वरूपं तु रूपं शक्तेर्महातपे | श्रुणुत्वं व्यापकं ब्रह्म दत्तचित्तावधानतः || ८६ || नाडि त्रयांतरस्थासौ गुणत्रयविभागतः | स जीवः प्रोच्यते सद्भि क्रियायुक्तो हृदिस्थितः ||८७ || क्रिया कुंडलिनी शक्तिः सा च माया गुणात्मिका | विनिर्मितं तया सर्वं जगत्स्थावरजंगमं || ८८ || ब्रह्माविष्णुस्वरूपाय ब्रह्माविष्णु स्वरूपाय रुद्ररुपधरा च या | चन्द्रसूर्याग्नि मध्यस्था सा च जीव स्वरूपिनी || ८९ || यो जीवः स शिवः साक्षात् प्रोच्यते शास्त्र मध्यते | पाशवद्धो यदा जीवः पाशमुक्तः शदाशिवः || ९० || मायापाशगुणैर्वद्धा सोपि क्षेत्रज्ञ उच्यते | असंसति फले युक्तः सर्वभूतव्यवस्थितः || ९१ || अष्टांगयोगमार्गेण पाणमुक्तो भवेत् ततः | तदा संज्ञां परित्यक्त्वा स्वयं ब्रह्मं भवेदिति || ९२ || स्वब्रह्मवेदविख्यातं वृत्तिद्वयविवर्जितं | ७ब्) निश्चलं शुद्धसत्वं च तस्य ज्ञानाद्विमुच्यते || ९३ || पाशच्छेदो भवेत् नूनं मनप्राणसमागमात् | मनःप्राणसमायोगः प्रणवेन विना न हि || ९४ || प्रणवाभ्यासतो योगी मया तुल्यो वरानने | प्रणवः प्रोच्यते सद्भिः प्राणायामत्रयात्मकः || ९५ || अधमो मध्यमः प्रोक्तो उत्तमः कीर्तितः शिव | आसनादि क्रमेनैव शनैर्योगी समभ्यसेत् || ९६ || त्यक्तनिद्रो मिताहारो जितस्वासो जितेस्वन्द्रियः | योगाभ्यासरतो नित्यं योगी ब्रह्मसमो भवेत् || ९७ || जीवस्य शिवसायुज्यं योगाभ्यासेन पार्वति | वामदक्षिणकं त्यक्ता प्राणमूले समभ्यसेत् || ९८ || अभ्यासाद्धृदयं ग्रन्थिर्भिद्यते च शनैः शनैः | अन्तर्नाडी प्रचारेण जीवः शिवमयो भवेत् || ९९ || स गुणोपि गुणातीतः पाशच्छेदी प्रकीर्त्यते | ८अ) पाशच्छेदः प्रकर्तव्यः प्राणायामैक योगतः || १०० || प्राणापानः समायोगो नाडी शुद्धा च लभ्यते | ज्ञात्वा योगविधिं सम्यक् द्वयोरैक्यं समभ्यसेत् || १०१ || तेनाभ्यासेन युक्तोसौ भवतः साधकः प्रिये | न भवेन् मरणं तस्य जरापलितवर्जितः || १०२ || वली प्रकृति विख्याता पलितं पुरुष स्मृतः | स्थुलसूक्ष्मादिभिर्भावै द्वातौवे समवस्थितौ || १०३ || रजोरतस्तयोर्नाम सूर्यचन्द्रमसौ प्रिये | सामरस्य यदाशून्ये तदा स्तंभन उच्यते || १०४ || वलीपलितयो ज्ञानं स्तंभनं च निगद्यते | नूतनत्वं शरीरस्य शताब्दादूर्द्धमुच्यते || १०५ || सर्वलक्षणसंपूर्णो जायते योगविन्नरः | तावच्छरीरवार्द्धक्यं दृश्यते विनिवर्तते || १०६ || पुनः पुनर्न संदेहो यावच्छत समावधी | शतसंवत्सराभ्यासाद्वार्द्धक्यं त्यज्यते पुनः || १०७ || ८ब्) मृत्युंजित्वा तदा योगी निःशंकोविचरेत् क्षितौ | तावद्वपुक्षयो दृष्टस्त्वभ्यासो नैव योगिनः || १०६ || यावन्निरंजनः स्वात्मा न स्थिरो जीवसंज्ञकः | वहुकालसमाभ्यासा स्थिरो भवति सुव्रत || १०९ || सिद्धिः सर्वगुणोपेत नानाचिह्नैरुपस्थितः | पश्चान्नास्ति रुजादेहो वार्द्धिक्यं नैव विद्यते || ११० || सुतनुर्वितनुः क्वापि प्राणीनां प्रतिभासते | अतर्क्य महिमा यस्मात् तस्मात्वं नावमानयेत् || १११ || अश्रद्दधानो पापात्मा नास्तिको भिन्नसंसयः | हेतुको वकवृत्तिश्च तेषां ज्ञानी न गोचरः || ११२ || तस्य लीलां न जानन्ति निन्दां कुर्वन्ति ये धमाः | योगीश्वरस्य पापिष्टा पतन्ति नरके ध्रुवं || ११३ || कस्यापि योगिनो देहे वितर्कं नैव कारयेत् | क्रीडंति त्रिषु लोकेषु यथा वै प्रकृतो परा || ११४ || ९अ) योगेश्वरस्य जोगस्य योगशास्त्रस्य पार्वति | निन्दां च ये प्रकुर्वन्ति राक्षसास्तेन राक्षितौ || ११५ || पाखंडिनः पापरता स्वधर्म विमुखास्तुते | यैर्वानमानितो योगी तेषां त्राता न भूतले || ११६ || आयुः कान्तिर्यशः पुण्यः नश्यन्ते तस्य सुव्रते | यस्य योगे मतिर्द्रष्टा जायते मोहरूपिनी || ११७ || प्रतिकूलो यस्य धर्मो योगस्तस्य न रोपते | सोपि गर्भोद्भवं दुःखं भुंक्ते चैव निरंतरं || ११८ || यस्य यस्य यथाकर्म तस्य तस्य तथामतिः | पापपुण्याश्रितो भावो जायते प्राणिणां प्रिये || ११९ || वायुप्रकृति संयोगात् भूतं भव्यं व्यवस्थितां | मनःप्राणस्य योगेन नामवेदे प्रगीयते || १२० || सांख्ययोगाविमौदेहे मनःप्राणौ नगात्मने | द्वयोरैक्यं न जानन्ति संभवन्ति पुनः पुनः || १२१ || ९ब्) यावन्मनस्तत्र मरुत्प्रवृत्तिर्यावन्मरुच्चापि मनप्रवृत्तिः | तत्रैकनाशादपरस्य नाशमेकप्रवृत्तेरपरप्रवृत्तिः || १२२ || शुद्धास्ति यस्येन्द्रिय वर्ग वृत्तेर्विध्वंसते मोक्ष पदस्य सिद्धिः | तथापि साध्यः पवनस्य नासः षडंग योगाद्विनिवेषिनेन || १२३ || यद्वै मनः सव्वै प्राणो यः प्राणस्तन्मनः स्मृतं | क्षराक्षर स्वरूपेण वर्तते सर्वजंतुषु || १२४ || मनप्राणसमत्वेन मोक्षो भवति नान्यथा | एतद्गुह्य तमं प्रोक्तं न देयं यस्य कस्यचित् || १२५ || इति श्री अकुलागममहातन्त्रे योगसारसमुच्चये प्रथमः पटलः || १ || श्रीदेव्युवाच || अद्य मे सफलं जन्म अद्य मे सफलं तपः | अद्य मे सफलं ज्ञानं त्वत्प्रसादा भवान्तक || १ || कर्माकर्मद्वयं प्रोक्तं सर्वशास्त्रे महेश्वरः | निद्धारं न च वै तस्य संसयो वर्तते मम || २ || १०अ) विकर्म कीदृशं ज्ञेयं कन्दमूलं शूभाशुभं | मनोवस्थाचतुष्कं च धर्माधर्मविचारणं || ३ || संसारबन्धनं देव कीदृशं मुक्तिलक्षणं | कीदृशं मरणं चैव भावाभावौ तथैव च || ४ || लयो हठो मन्त्रयोगो राजयोगस्तु शङ्कर | सहजं च यथाज्ञानं कथयामि सुरेश्वर || ५ || श्री ईश्वर उवाच || वेदसारं त्वया देवी कृतं प्रश्नसमुच्चयं | क्रमेण कथयिष्यामि शृत्वात्वं हृदि धारय || ६ || किं कर्म किमकर्मेति कवयोप्यत्र मोहिता | तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्षसेऽशुभात् || ७ || कर्मणो ह्यपि बोद्धव्यं वद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहणाकर्मणो गतिः || ८ || कर्मक्षरं विजानीयादकर्माक्षरसंज्ञकं | क्षराक्षरविनिर्मुक्तं विकर्म प्रतिपद्यते || ९ || विकर्मसत्वसंसिद्धं समानं वह्निलिंगकं | १०ब्) कर्मसीतांशुनिर्दिष्टं प्राणो चैव प्रतिष्ठितं || १० || अकर्मसूर्यरूपेण अपानो संस्थितं सदा | एते भेदाः समाख्याता कर्माकर्मविकर्मजाः || ११ || कर्मण्य कर्मयः पश्यदकर्मणि च कर्मयः | स बुद्धिमान्मनुष्येषु सयुक्तः कृत्स्न कर्मकृत् || १२ || बिन्दुनादस्वरूपाय कर्माकर्म द्विधास्थितं | अथ कन्दं प्रवक्ष्यामि मूलं वै सर्वकारणं || १३ || समत्वं योभ्यसेद् योगी सयुक्तः कृत्स्नः कर्मकृत् | कर्माकर्मविचारोयं गुह्य एव उदाहृताः || १४ || नाभिमध्ये महादेवी स्थितं कन्दं शिवात्मकं | सोमसूर्य हविस्तत्र शक्तिः स्वाहेति मन्त्रितं || १५ || कालानलसमाकारं प्रस्फुरंतं शिवालयं | दशधातु समोपेतं पंचतन्मात्रवर्जितं || १६ || तं जीवं जीवलोकस्य प्रकृत्याधिष्ठितं स्वयं | विनायेन मृतं मन्ये तं कन्दं देहसंस्थितं || १७ || ११अ) वातावर्तो भवेत् सोपि मन्त्रपीठन्निगद्यते | विद्यापीठं भवेत् तस्य मुद्रामण्डलमेव च || १८ || तन्मूलं सर्व चक्राणां ग्रहाणाञ्च रविर्यथा | कन्दमूलमिदं भद्रे शुभाशुभमथश्रुणु || १९ || शुभं शिवमतं प्रोक्तमशुभं प्रकृतेर्मतं | शुभाशुभतरं विद्धि साश्वतं ब्रह्मणो मतं || २० || चतस्रौ मनसोवस्थास्ता विज्ञेयाः कलेवरे | जाग्रस्वप्नसुषुप्तिश्च तुर्यावस्थान भेदतः || २१ || हृदये प्रथमावस्था द्वितीया षोडशान्तगा | तालुमध्ये तृतीया तु चतुर्था व्योमरन्ध्रके || २२ || ज्ञातव्या प्रणवे नैव सुषुम्नां तर्जता प्रिये | देहेष्ववस्थिताः सर्वाः वृत्तिभेदान्मनोमयाः || २३ || मनोवस्थाचतुष्कं तु द्विविधं कथितं मया | प्रथमे संप्रवक्ष्यामि धर्माधर्मस्य लक्षणं || २४ || धर्माधर्मवुभावेतौ ममांशौ तु शरीरिणौ | अग्निषोमात्मकौ विद्धि अहोरात्रि स्वरूपकौ || २५ || ११ब्) सत्यानृतसमाख्यातौ शुक्लकृष्णौ तु कीर्तितौ | सूर्यचन्द्रमसौ ज्ञेयौ स्थिरास्थिरपरापरौ || २६ || द्याव्यापृथ्वीति विख्यातौ सदसंतौक्षराक्षरौ | द्वासुपर्णी विमौजीवौ पठ्यते वेदशास्त्रयोः || २७ || भेदाभेदौ मोक्षवन्धौ चित्ताचित्तौ च वण्यते | इडानं पिंगलनामाख्यौ जाह्नवी यमुनेतिचौ || २८ || किं पुनर्वहुनोक्तेन विद्याविद्यात्मकौ प्रिये | नानाविधानसंज्ञातौ धर्माधर्मप्रतिस्थितौ || २९ || ऊर्ध्वसंज्ञे भवेद्धर्मो अधश्चाधर्मसंज्ञकः | असंज्ञं तु परं ब्रह्म संज्ञाजीवश्वरूपिनीं || ३० || बिन्दुनादपथौ द्वौ तु रजस्तमः स्वरूपकौ | हरिहरावन द्वौ द्वौ सर्वदेहे व्यवस्थितौ || ३१ || धर्माधर्मा सकौवेतौ मध्ये मिश्रौ क्रियात्मकौ | १२अ) रागादि मालीने काये येनात्मानं प्रपत्स्यते || ३२ || यस्तु यस्यति चात्मानं नित्यानन्दं निरंजनं | प्रेक्षिण साक्षिणं नित्यं भाषते परमश्व सः || ३३ || भावाभावद्वयोर्योगो ह्यस्मिन् शास्त्रे व्यवस्थितः | अथान्यं परमं वक्ष्ये शृणु भेदं तृतीयकं || ३४ || व्ययं तु त्रिगुणः पिंडो ज्ञातव्यो लिंगसंज्ञकः | स्त्रीपुंनपुंसकं ज्ञेयस्तमः सत्वोथ राजसः || ३५ || प्रथमो मूर्तिमां नित्यः कर्मत्वं च कलात्मकं | स एव जीव उद्दिशः संसारी चेतनो मतः || ३६ || क्षत्रज्ञः कर्म नामेति कालचात्मनि गृह्यते | एकोपि बहुधा भिन्नस्तत्वे तत्व व्यवस्थितः || ३७ || अनेकाक्षर रूपो हि फले सक्तो निबध्यते | धर्माधर्मात्मको वन्धो जीवस्य परिकीर्तितः || ३८ || ते नैव संसृतीस्तस्य पुनः पुनर्भवान्तरे | एवं संसारबन्धोसौ कालचक्रे प्रतिस्थितः || ३९ || अथातः संप्रवक्ष्यामि मुक्तिभेदं सुदुर्लभं | धर्माधर्मविनिर्मुक्तं यदि चित्तं निराश्रयं || ४० || तदा निर्वाणरूपाय मुक्तिर्भवति योगिनां | चित्तं जीवितमाख्यातमचित्ते मरणं ध्रुवं || ४१ || चित्ताचित्तसमोभूत्वा जीवन्मुक्तिरिहोच्यते | जीवितं मरणं चैव संक्षेपात् कथितं मया || ४२ || अथातः संप्रवक्ष्यामि भावाभावौ हृदिस्थिते | भवः प्रवेशमात्रेण निर्गमो भावसंज्ञकः || ४३ || भावाभावविनिर्मुक्तः स्वभावो ब्रह्मसंज्ञकः | भावः प्राणसमाख्यातं अभयोयन शब्दितः || ४४ || प्राणोपानसमायोगो यान्ति ब्रह्मपथं प्रिये | शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्यते || ४५ || अभावयोगः संप्रोक्तं चतुर्थं योगलक्षणं | लययोगो हठश्चैव मन्त्रयोगस्तृतीयकः || ४६ || १३अ) चतुर्थो राजयोगश्च एक एव हि केवलं | क्षेत्रज्ञः परमात्मा च द्वयोरैक्यं कथं भवेत् || ४७ || लययोगमिदं भद्रे हठयोगमिदं श्रुणु | हकारं सूर्यसंज्ञं तु ठकारं चन्द्ररूपिणं || ४८ || चन्द्रसूर्यसमीभूते हठयोगो निगद्यते | मकारेण मनः प्रोक्तं त्रकारं प्राण उच्यते || ४९ || मनःप्राणसमायोगो योगो वै मन्त्रसंज्ञकः | अपानवृत्तिमाकृष्य प्राणोगच्छति मध्यमे || ५० || राजते गगनांभोजे राजयोगोस्तुतेन सः | इन्द्रः सकारं संज्ञो यो हकारः कथ्यते रविः || ५१ || तयोर्यातं निराकारं सहजं तं विदुः प्रिये | नाम्नामतान्तरे भेदो न भेदः परमार्थतः || ५२ || गुरोः पादप्रसादेन एक एव प्रकास्यते | सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् || ५३ || एतत् ज्ञानं च ध्यानं च शेषोन्योग्रंथविस्तरः || ५३ || १३ब्) इति श्री अकुलागमे महातंत्रे योगसारसमुच्चये ईश्वरपार्वतिसम्वादो नाम द्वितीयः पटलः || २ || श्रीदेव्यूवाच || नानापथजुषां पुंसामेको गम्यस्तु कथ्यते | योगगम्यं परं ब्रह्म इत्यलीकवच प्रभो || १ || नेति नेति श्रुति व्रुते निर्धारं किं निषेधतः | तत्वार्थं वदते नाथ यथावेद प्रतिस्थितं || २ || यद्दृष्टं नष्टसंज्ञं तु अदृष्टं भाववर्जितं | केनोपायेन तत्प्राप्य यत्पदं परिकीर्तितं || ३ || अदृश्य भावना नास्ति दृश्यमानं विनश्यति | अवर्णमस्वरं ब्रह्म कथं ध्यानं नियोगिनः || ४ || अत्रार्थो शंसयो देव महान्मनसि वर्तते | श्रुत्यर्थः कीदृशः शंभो स्फुटी कुरु जटाधरः || ५ || किं मद्यं मैथुनं मांसं सत्यानृतमनुत्तमं | बिन्दुपातं च तत्सर्वं ग्रसाः के चतुराश्रमे || ६ || १४अ) श्री ईश्वर उवाच || नानापथविचारोयं श्रुत्यर्थं वाचधारय | अमूर्ति भावना यातु यथार्थं प्रवदाम्यहं || ७ || मद्यमैथुनमांसं च सत्यानृतमनुत्तमं | बिन्दुपातं च ग्रासाश्च शृणुच्छिन्धि यथाक्रमं || ८ || इडापिंगलनामाख्यौ पथौ द्वा सुविभूषितौ | नानापथसमाख्यातौ सेव्यते योगिभिः सदा || ९ || तयोरभ्यासयोगेन ऊर्द्धमार्गं प्रवर्तते | येन मार्गेन गन्तव्यं ब्रह्मस्थानं निरामयं || १० || नानापथजुषां देवि योगो वेदे प्रशस्यते | न गच्छत् पुनरावृत्तिं तरते भवसागरं || ११ || नानामार्गप्रकारेण मोक्षो नास्ति इति ब्रुवन् | तेन सर्वे दुराचारा शास्त्रनिर्द्धारवर्जितः || १२ || शास्त्रस्य हृदयं चान्यत् प्रलापं चान्यथा प्रिये | किं कारणं महादेवी विष्णुमाया विमोहिताः || १३ || १४ब्) विचित्रकर्मसंबंधाद्बुद्धि भेदः प्रजायते | न स्मरंति परं तत्व सनान् संगविवर्जयेत् || १४ || अथ शृत्यादिभिर्वाक्यै नेति तेनीति संस्मृतं | प्रथमे शक्ति निर्धारं न कारं स द्वितीयके || १५ || शिव शक्त्यात्मकं ब्रह्म प्रणवेसंव्यवस्थिते | न जानन्ति परं भावं देवस्य परमेश्वरी || १६ || नानाक्षरं तृतीयन्तु तयोरैक्यं निराकरं | इदं तु परमं तत्वं प्रत्यक्षं ज्ञानचक्षुषा || १७ || अमूर्तो भावनाविद्धि प्राणायामेन नान्यथा | तस्मात् सर्वप्रयत्नेन प्राणायामं समभ्यसेत् || १८ || एवं भावय देवेशि समयोगं परं ध्रुवं | आधारसंस्थितं तावत् यावद् ब्रह्म लयंगतः || १९ || मद्यमैथुनमान्सानि ये द्विषंति महेश्वरी | ते पतंति महाघोरे रौरवे नात्रसंसयः || २० || रक्तं मद्यं विजानीयात् शुक्लं मांसं सुरेश्वरी | १५अ) या सुरात्वं महेशानि यद्वीजं तदहं प्रिये || २१ || हस्ते पद्मं विजानीयात् पात्रं प्रेतं तु कारयेत् | तन्मध्य चिन्तयेद् देवं मनसानन्दरूपिणं || २२ || अविद्यमदिरा ज्ञेया भ्रामिकाविश्वरंजिका | विद्यामांससमुद्दिष्टं मोचकं वार्द्धगामि च || २३ || विद्याविद्यात्मकं बिन्दुं तृतीयं समरूपकं | मैथुनं तत्परं देवी ज्ञातव्यं मोक्षसंभवं || २४ || अविद्यापानसंस्था तु सुविद्याप्राणमाश्रिता | मैथुनामैथुनं प्रोक्तं त्रिसंज्ञं विद्धि सुव्रते || २५ || बाह्यमद्यरतो यस्तु मैथुनं मांसभक्षणे | ते सर्वे नरकं यान्ति इति सत्यं वचो मम || २६ || बिन्दुना कृष्यते नादो मद्यपानं तु तत्स्मृतं | कलयाक्षक्षते बिन्दुस्तेन वै मांसभक्षणं || २७ || अन्यथा ते दुराचारा पापिष्टाः ज्ञानवर्जिताः | १५ब्) प्रवर्तन्ते कुमार्गेण सर्वे ते अधमास्मृतः || २८ || अभक्षं भक्षते योगि अपेयं पिबते सदा | अगम्यागमनं नित्यं स योगीनात्रसंसयः || २९ || अभक्षं कालमित्याहुरपेया परमा कला | अगम्यं परमं स्थानं योजानाति स तत्ववित् || ३० || इत्थं सर्वं महादेवी ज्ञातव्यं योगसाधने | मद्यमैथुनमांसं च संक्षेपात् त्रिगुणात्मकं || ३१ || चन्द्रसूर्याग्नि संयोगश्चिन्तनीयो मुमुक्षुभिः | इदं गुह्यं मयाख्यातं गोपनीयं प्रयत्नतः || ३२ || रहस्य परमं बीजमिदं ज्ञानमनुत्तमं | यथान्यसंप्रवख्यामि सत्यानृतविचारणं || ३३ || अदिति प्राणसत्वेन स चन्द्रः सरविःस्मृतः | ओंकारं बिन्दुशक्तिन्तु साक्षिणं पुरुषं हरीं || ३४ || एवन्तु त्रिवितं सत्यं ब्रह्माविष्णुशिवात्मकं | १६अ) त्रिपादं च त्रिवेदं च सत्यं च त्रिगुणं स्मृतं || ३५ || अधमे मध्यमे लीनं मध्यमं चोत्तमे स्थितं | उत्तमं चोर्द्धगं विद्धि ब्रह्मसत्यं प्रचक्षते || ३६ || सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमव्ययं | सत्यं च नानृतं ब्रूयात् एषधर्म सनातन || ३७ || ओंमित्येकाक्षरं ब्रह्म सत्यमात्मनि कीर्तितं | असत्यं चान्यथा प्रोक्तं क्षरे भावे प्रतिष्ठितं || ३८ || प्राणः सत्यमिति ख्यातमसत्यं तद्विपर्ययः | सत्यानृतमिदं वाक्यं प्राणे चैव प्रतिष्ठितं || ३९ || धर्मवृद्धिद्भवेत् सत्या असत्याद्धर्मसंक्षयः | तस्मात् सत्यं प्रवक्तव्यमसत्यं परिवर्जयेत् || ४० || बुद्धिसंज्ञा तु या वाचा पश्यन्ति प्रणवे स्थितः | तयोरुच्चारतच्चोर्द्धं प्राणो वै मध्यमे पथि || ४१ || एतत् सत्यं विजानीयादसत्यं शृणु शांप्रतं | द्वितीयाधूमरूपाय वाणी वै वैखरी स्मृत || ४२ || १६ब्) तस्यादुच्चरतो देवी प्राणोगच्छत्यधो मुखः | अमृतं तत्समाख्यातं ततोरूपं हृदिस्थितं || ४३ || शब्दापशब्दभेदेन सत्यासत्यं प्रकीर्तितं | चंचलंत्यानृते त्यक्त्या निश्चलं सत्यमुच्यते || ४४ || सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितं | तत्सत्यं रेचकं प्रोक्तं शिवाख्यां द्वादशान्तगं || ४५ || बिन्दुपातं त्वया पृष्टं त्वया देवी शुभानने | तथा तस्य स्वरूपं हि प्रवदाम्यखिलान्तुते || ४६ || बिन्दुर्बुद्धिः शिवो बिन्दुः बिन्दुर्विष्णुः प्रजापति | बिन्दुः सर्वगतो देवो बिन्दुस्त्रैलोक्य दीपनं || ४७ || एकोपि स्त्रिभिभावैव वर्तते सर्वतन्तुषु | निवृत्या जीव्यते विश्व प्रवृत्यासंहरेत् तु सः || ४८ || यथा बिन्दुश्चलो भूत्वा गुणलिंगो प्रवर्तते | तदा वै संसृतिस्तस्य गर्भवासः पुनः पुनः || ४९ || कालेनाकलितं पिण्डं पिण्डः कालस्य भोजनं | १७अ) स बिन्दुकालरूपेण ग्रसते स चराचरं || ५० || नान्यः कालोस्ति भूतानां नान्यो भवति रक्षकः | जीविते मरणे चैव बिन्दुरेकः प्रसस्यते || ५१ || अधोमार्गस्थितो बिन्दु प्रवृत्तिस्तेन कथ्यते | निवृत्याक्षोभते बिन्दुरूर्द्धमार्गव्यवस्थितः || ५२ || प्रवृत्तिश्च निवृर्त्तिश्च जीवितं मरण ध्रुवं | बिन्दुश्चरति तत्सर्वंमभेद्यं त्रिदशैरपि || ५३ || वह्निस्थानं परित्यज्य सूर्यस्थानं समाश्रितः | यदा बिन्दुस्तदा देहः पतते नात्रसंसयः || ५४ || शरीररक्षनार्थाय बिन्दुरेक प्रशस्यते | ऊर्द्धं गच्छत्यधो भागात् तदा काले लयं गतः || ५५ || बिन्दुपातेन वृद्धत्वं मृत्युर्भवति देहिनां | स एवरेचको वायु ध्यायते योगिभिः सदा || ५६ || वायुना साध्यते बिन्दुर्न चान्यद्विन्दु साधनं | १७ब्) सिद्धे बिन्दु महारत्ने सर्वसिद्धि प्रजायते || ५७ || १७ब्) एष बिन्दु समाख्यातो गुणत्रयविभागतः | उत्पत्ति स्थिति संहारे बिन्दुरेको हि कारणं || ५८ || नान्यो बिन्दु शरीरेस्मिन् चैतन्यं बिन्दुरुच्यते | अन्नात्संजायते बिन्दुः स बिन्दु धातु संज्ञकः || ५९ || एवं ज्ञानी विजानाति तं शिवं बिन्दुरूपिणं | तस्याभ्यास प्रयोगेन मृत्युन्तरति योगवित् || ६० || मरणं बिन्दुपातेन जीवनं बिन्दु चारणात् | तस्मात् सर्वप्रयत्नेन बिन्दु वैरधरेत् स्वयं || ६१ || आयुष्यं वर्धते नित्यं यदि बिन्दुः स्थिरो भवेत् | चंचलत्वे क्षयं यान्ति मृत्युर्भवति देहिनां || ६२ || चंचले चंचलं सर्वं निश्चलैः निश्चलं भवेत् | चंचलत्वं परित्यक्त्या एवं निश्चलमाश्रयात् || ६३ || तदासौ निश्चलोभूत्वा रक्षते देहपिंजरं | १८अ) कालोप्यकालतो याति इति वेद विदो विदुः || ६४ || ब्रह्मरुपो भवेद् देहो अभ्यासात् पवनस्य च | अमूर्तध्यनयोगेन अदृश्यो जायते स्वयं || ६५ || जीवन्मुक्तिरिति ख्यातो नान्यथा मुक्तिरुच्यते | देहे गते च या मुक्ति सा मुक्तिर्भावसंज्ञको || ६६ || एतत् सर्वं समाख्यातं बिन्दुनिर्धारणं स्वयं | चतुर्थग्रसपर्यायं श्रुणुस्वायतलोचने || ६७ || अष्टौ ग्रासाः पुन प्रोक्ताः षोडशारण्य वासिनः | द्वात्रिंशत् तु ग्रहस्थान्य यथेष्टं ब्रह्मचारिणां || ६८ || अनेनैव प्रकारेण कथितं योगमुत्तमं | यत्र यत्र च संदेहो वर्तते हृदये तव || तत्र तत्र कुरु प्रश्नं शास्त्रमध्ये स्वशक्तितः || ६९ || इति श्री अकुलागमे महातंत्रे योगशास्त्रसमुच्चये मूर्तभावनानाम तृतीय पटलः || ३ || श्रीदेव्यूवाच || पुनः पुनर्न पृच्छामि पृच्छामि च पुनः पुनः | १८ब्) अन्यथा निश्चये नास्ति करुणां कुरुने प्रभो || १ || संसारभयभीताहं रक्ष रक्ष महेश्वर | कृपां कुरुष्व मे नाथ संशय छेदकारकः || २ || सूचित्तः सूत्रमार्गेण वेदमध्ये जगत्पते | अग्निधूमात्मकः पंथा उत्तरं दक्षिणायनं || ३ || का गर्ति वह्निमार्गेण धूममार्गेण का गतिः | अग्निधूमस्वरूपं तु व्यक्तं कुरु महेश्वर || ४ || चन्द्रसूर्यस्य संसारो प्राणाग्नि हवनं तथा | विषुवं सूर्यरूपं च मध्यस्थः भवमोचकं || ५ || हंसाख्यं प्रणवं देव येन व्याप्तं जगत्त्रयं | अन्यच्च गुह्यसंकेतं यद्यस्ति कथयस्व मे || ६ || श्री ईश्वर उवाच || साधु साधु त्वया पृष्टं लोकसद्गुरुणापरं | आध्यात्मिकं स्वभवस्थं गीतशास्त्रेषु संस्मृतं || ७ || अग्निर्ज्योतिरहः शुक्र षण्मास उत्तरायणं | १९अ) तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदोजनः || ८ || धूमो रात्रिस्तथा कृष्ण षण्मासादक्षिणायणं | यत्र चान्द्रसमं ह्योतिर्योगी प्राप्य निवर्तते || ९ || गीता सास्त्रस्य भावार्थं न जानन्ति यथार्थतः | प्रलयं * त्युना युक्ता भ्रामिता विष्णु मायया || १० || अग्निधूमात्मकौ मार्गौ वामदक्षिणसंज्ञकौ | ईडापिंगलनामाख्यौ प्राणापानप्रवाहकौ || ११ || ईडायां संस्थितः प्राण अपानः पिंगलाश्रितः | प्राणो वह्नि समुद्दिष्टो पानोधूमः प्रकीर्तितः || १२ | वर्तते सह योगेन परस्परविलक्षणौ | एकस्य आश्रयं ब्रह्म द्वितीयस्य प्रभाश्रयः || १३ || गमागम प्रयोगेन उत्तरे दक्षिणे स्थितौ | अन्योन्य गति संचारात् संक्रान्ती सवीधियते || १४ || वामनाडी स्थितो जीव नामाभिः स प्रसस्यते | १९ब्) अग्निर्ज्योतिरहःशुक्लः षण्मासादक्षिणायनं || १५ || तच्च चान्द्रमसं ज्योतिः सूर्यो मध्यव्यवस्थित | योगतस्तेन मार्गेण पतंति भवसागरे || १६ || शुक्लकृष्णगति ह्येते जगतः शाश्वते मते | एकयायात्पनावृत्तिमन्ययावर्तते पुनः || १७ || उत्तरं त्वयनं प्राणो ह्यपानो दक्षिणायनं | सत्ये च याम्य दिग्भागे ज्ञातव्यमयन द्वयं || १८ || तथोर्द्धं चान्यसंज्ञो वै उत्तरं दक्षिणायनं | दुल्लभं तत्र संसारमविद्या कृष्ण चेतसां || १९ || प्राणे त्वपानसंचारमपाणे प्राणसंस्थितः | एकश्वासौ द्विधाभूत छायावृक्ष इवस्थितः || २० || वृक्षेण रहिता छाया न छाया रहितोद्रुमः | प्राणापाणौ तथा भद्रे देहमध्ये व्यवस्थितौ || २१ || अनन्तवायवो देहे सह्ये तु दा * * हृताः | तथापि शृणु कर्तारौ प्राणापाणौ स्मृता वुभौ || २२ || २०अ) प्राणचन्द्रमयो ज्ञेयो पानः सूर्यमयस्तथा | उभाभ्यां पिण्डनिष्पत्ति जायते स्थिति संहृदि || २३ || चन्द्रसूर्यद्वयोर्ग्रंन्थि भिद्यते प्राणसंयमात् | परब्रह्मणजीवोयं सायुज्यं प्राप्यते ध्रुवं || २४ || श्रीचन्द्रसूर्यमध्यस्थमुत्तमं दक्षिणायणं | अग्निधूमात्मकः पंथा कथितः सोपपत्तिकः || २५ || प्राणाग्नि होत्रं प्रथमं शृणुत्वं देहमध्यतः | अपुनर्भवदं पुण्यं सुगोप्यं कथयाम्यहं || २६ || अपाने जुह्वति प्राणं प्राणोपानं तथापरे | प्राणापानगतिरुर्द्धा प्राणापानपरायनः || २७ || अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति | सर्वेप्यते यज्ञविदो यज्ञ क्षपिति कल्मशा || २८ || समानादु स्थितो वह्निस्तत्र मध्य असुद्वयं | स्वाहोच्चारित मन्त्रेण हुत्वा यज्ञः प्रकीर्तितः || २९ || २०ब्) प्राणाग्निहोत्रं परमं पवित्रं ये नैव कालो विजितश्च सद्यः | देह स्थिते रोगजरापहारं मोक्षस्य सारं मुनयो वदन्ती || ३० || पक्षद्वयविनिर्मुक्तं चित्तं मध्यगतं भवेत् | विषुवन्तं विजानीयाद् भावाभावविवर्जितं || ३१ || स्वभावश्चोत्तरं पक्षं अभावो दक्षिणः स्मृताः | हंसस्य परमेशस्य पक्षै व्याप्तं चराचरं || ३२ || सितासितावौभौ पक्षौ कथ्यते चन्द्रसूर्यकौ | द्वे पक्षे गतिसंसस्य अधोर्द्ध वामदक्षिणे || ३३ || एकपक्षौ भवेत् सृष्टिरेको संहरते स्वयं | सृष्टिसंहारको हंसो येन विश्वं प्रगोपितं || ३४ || तं हंसं परमानन्द शिवमद्वयमक्षयं | गुरोः पादप्रसादेन ज्ञातव्यं तु विचारणे || ३५ || हंस एवमतः कालो जीवोयं सर्वदेहिनां | अथ प्रमाणयोगेन ब्रुते सर्वं शुभाशुभं || ३६ || २१अ) चंचलत्वं भवेत् तस्य अधोवायु समाश्रयात् | वातद्वयसमाहाराद्धंसो निश्चलतां गतः || ३७ || निश्चलत्वे भवेत् सर्वमणिमादि गुणाष्टकं | देहमुक्तिमवाप्नोति खेचरो जायते नरः || ३८ || स्थिरत्वं नैव हंसस्य विषुवेन विना भवेत् | विषुवं साधयेत् तस्माद् वैराग्येन परेन तु || ३९ || अग्नि धूमात्मके मार्गे मध्ये ज्योतिः प्रसस्यते | विषुवन्तं विजानीयात् आयुष्यं फलदायकं || ४० || अहः प्राणश्च विज्ञेयो अपानो रात्रिमेव च | साधनं विषुवं साध्यं वर्द्धनं पुण्यकर्मणां || ४१ || अहोरात्रि द्वयोर्मध्ये ब्राह्मीसंचारिणी कला | सा सन्ध्या कुलनिष्टानां विषुवं परिकीर्तितं || ४२ || ज्ञानरूपापरा सन्ध्या उपास्य मुनिपुंगव | विषुवेन विना नास्ति तस्माद्विषुमवाश्रयेत् || ४३ || २१ब्) सर्वकामाप्ति विषुवं निर्वाणफलदायकं | धर्मार्थकाममोक्ष्याणां विषुवं सुप्रसिद्धिदं || ४४ || नाडीत्रयं त्रिशून्यं च शक्तित्रयमुदाहृतं | प्राणत्रयं चक्षुत्रयं तथा वै मनसत्रयं || ४५ || मार्गत्रयं त्रिपादं च व्याहृति त्रयमुच्यते | लोकत्रयं त्रिकालं च त्रिवेदमक्षरत्रयं || ४६ || अग्नित्रयं तथाचान्यं गंगादि सरितात्रयं | वेदत्रयं त्रिभास्तु गुणत्रयमुदाहृतं || ४७ || संध्यात्रयं त्रिवर्गं च त्रिचक्रं चासनं त्रयं | बिन्दुत्रयं त्रिवक्त्रं च त्रिकूटं शिखरत्रयं || ४८ || त्रयीमयं जगत्सर्वं त्रिधाभूतं व्यवस्थितं | अवस्था त्रितयं स्थानं तंतेवीषुवमुच्यते || ४९ || शिवशक्तिसमायोगं विषुवं वेदसंमितं | पुण्यने लभते ज्ञानं नान्यप्यादर्शनं भवेत् || ५० || यज्ञदादिरकं पुण्यं तत्पुण्यं सर्वसाधणं | प्राणसंयमने पुण्यं निर्गुणं मोक्षकारणं || ५१ || २२अ) इदं ते ज्ञानसर्वस्वं कथितं सर्वतो मुखं | विषुवं प्रणवज्ञानं स्मरत्वं देहमध्यतं || ५२ || प्रणवं तारकं ब्रह्म नित्यं ध्यायंति योगिनः | तत् ज्ञाने तत्क्षणात् सिद्धि जायते नात्रसंसयः || ५३ || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ये केचिद् देवताश्चान्ये इन्द्राद्या ऋषयस्तथा || ५४ || यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः | सिद्धिविद्या धराश्चैव स्वेदजा उद्विजास्तथा || ५५ || स्थूलसूक्ष्मं जगत्सर्वं प्रणवे संस्थितं सदा | प्रणवं च परित्यक्त्वा योन्यमंत्रमुपासते || ५६ || न सिद्धिर्जायते तेषां कल्पकोटि शतैरपि | २२ब्) क्रिया नास्ति कर्मयोगो नास्ति मन्त्रान् चिन्तनं || ५७ || प्रणवेण विनालोके तस्मात् प्रणवमभ्यसेत् | अनन्तनामपर्यायैस्तारकं परिकीर्तितं || ५८ || हंसनादं परं ब्रह्म प्रणवः सर्वतो मुखं | एतत्सर्वं मयाख्यातं हृदये परिभावय || ५९ || इति स्तुतोरव्यक्तव्यमित्याज्ञा परमेश्वरः || इति श्री अकुलागमे महातन्त्रे योगसारसमुच्चये ईश्वरपार्वति सम्वादे चतुर्थः पटलः || ४ || श्री ईश्वर उवाच || श्रूयतान्धर्म सर्वस्वं सृत्वा चैवा वधार्यतां | आत्मनः प्रतिकूलानि परेषां न समाचरेत् || १ || आत्मनः प्रतिकूलानि कर्माणि विविधानि च | परेषु च ति सर्वानि परे चेन्द्रादय स्मृतः || २ || तेपि वै इह मध्यस्था गुणाः प्रकृतिसंभवाः | तामसा राजसाश्चैव सात्विका त्रिविधा स्मृतः || ३ || २३अ) गुणैस्तु कीर्तितो जीवो मायासंवलितः प्रभुः | देहाद् देहान्तरं गत्वा अज्ञानावृतचेतसः || ४ || तस्माद् गुणेषु चावृत्तिः त्याज्य योगः वलेन तु | हृदि क्लेशाः क्षयं यान्ति स एव जायते शिवः || ५ || गुणत्रयविनिर्मुक्तो यदा योगी शिवे स्थितः | जन्ममृत्युजराशोक भयदुःखं तदा न हि || ६ || आत्मनः प्रतिकूलानि नस्यंति तत्क्षणेन तु | स चोद्देशः गुणा प्रोक्तो गुणकर्मानि भावयेत् || ७ || गुणभावविनिर्मुक्तो जीवो गच्छत्यनामयं | गुणप्रवाहे भवबन्धनं स्यात् अगुण प्रवाहे || ८ || बन्धस्य मोक्षस्य गुणेषु कार्यं संतापे भेदेन अधोर्द्धवृर्त्ति || ९ || गुणसंवलितो जीवो अधोमार्गे प्रवर्तते | तदा वन्धस्य विज्ञेयः कर्मलक्षणसंज्ञकः || १० || गुणसंहरते जीवश्चोर्द्धमार्ग प्रवर्तते | २३ब्) तदा मुक्तिर्न संदेह पिण्डस्य पतनं न हि || ११ || एतद्धर्मस्य सर्वस्वं शृत्वा चैवावधारय | माया आनवकर्माख्य गुणब्रह्मणि संस्थितः || १२ || इमं शास्त्रस्य संकेतं केचिज्जानंति भूतले | गुरोः पादप्रसादेन तेषां सिद्धिरदूरतः || १३ || ब्रह्मविद्यात्मकं सर्वं ज्ञानं परमदुर्लभं | त्वत् प्रश्नं कथितं देवी परमार्थ फलप्रदं || १४ || आगमे मन्त्रशास्त्रेषु नानार्थः प्रतिपादितः | सर्वेषां चैव वाक्यानां ब्रह्मणैव समन्वयः || १५ || महाबोधकरं सास्त्रं निर्गूधवेदसंमतं | ज्ञानात्मकं सर्वहरं योगेनानन्ददायकं || १६ || २४अ) अस्मिन् मध्ये महादेवी वर्णितं अक्षरं मया | एकं च ब्रह्मभेदेन प्रकारै नामयोगतः || १७ || निर्गुणं निर्विकारं च निराभासं सदोदितं | आनन्दममृतं ब्रह्म चिन्तयस्व सुनिश्चलं || १८ || इति श्री अकुलागमे महातंत्रे योगसारसमुच्चये ईश्वरपार्वतिसम्वादे पंचमः पटलः || ५ || श्री ईश्वर उवाच || ब्रह्मार्पणं ब्रह्महवि ब्रह्माग्नौ ब्रह्मणाहुतं | ब्रह्मवते न गन्तव्यं ब्रह्मकर्मसमाधिना || १ || ब्रह्मणस्त्रिविधा देहे स्थूलसूक्ष्मं परं यतः | स्थूलं सगुणमाख्यातं सूक्ष्मं सगुणनिर्गुणं || २ || गुणातीतं परं ब्रह्म निर्विकारं सदोदितं | तद्वशीहविहुत्वा कुरु ब्रह्मार्पणं प्रिये || ३ || स्थूलं ब्रह्मस्वकर्माख्यं हविनिर्दिश्यते कला | गृहीत्वा तु परेणैव सूक्ष्मं तद्ब्रह्मणाहुतं || ४ || २४ब्) ब्रह्माग्नि निश्चलं चैव कर्मनिर्हरणं चरेत् | ब्रह्मवते न गन्तव्यं ब्रह्मकर्मसमाधिना || ५ || तदिदं वा सुदेवेश गीतासास्त्रे निगद्यते | अर्जुनस्य प्रबोधाय द्वापरान्ते महाहवे || ६ || ब्रह्मार्पनेन वै ज्ञानं ध्यानं ब्रह्मार्पनेन तु | भक्तियोगक्रियादानं सर्वं ब्रह्मार्पणे स्थितं || ७ || ब्रह्मन्यादायकर्माणि संगं मुक्त्वा सुरेश्वरी | ब्रह्मकर्मसमायोगा दर्पणस्यान्न चान्यथा || ८ || ब्रह्मर्पणमिदं पुण्यं भवक्लेशविनासकं | पापक्षयकरं भद्रे कैवल्यं फलदायकं || ९ || मनुष्यानां सहस्रेषु केचिद्ब्रह्मार्पण स्थितः | कर्मग्रस्ता न जानन्ति कर्मकालात्मकं मनः || १० || तस्मान् मनोमयं कर्म नाश्रयेत् तत्वमुत्तमैः | आश्रयेद् योग सत्कर्म मनोभावविवर्जितं || ११ || २५अ) इदं ब्रह्मार्पणं विद्धि ब्रह्मयज्ञस्तदैव च | ब्रह्मविद्यात्मकं ज्ञानं ब्रह्मध्यानमिति स्मृतं || १२ || ये किचिच्छास्त्र मध्यस्था ब्रह्मपर्यायवाचका | ते सर्वे ब्रह्मसंभूता तस्माद् ब्रह्म विचिन्तयेत् || १३ || केचिद्ब्रह्मवदत्येवत्स्वभावमपरे प्रिये | एककालं परं दैवं केचित् काममुता परे || १४ || चराचरेपि चिद्रूप स्थि * त्प्रत्यत्ययात्मकः | उदासीनश्च इध्यक्षो वायुरात्मनि देहिनां || १५ || एष भूतानि भूतात्मा भूतेशो भूतभावनः | सृजत्पत्ति पुनः पाति स्वशक्त्या मयया युतः || १६ || अविद्या भ्रामिता सर्वे न स्मरन्ति परं हरिं | चेष्टते येन विश्वं च येनेदं रक्षितं सदा || १७ || आत्मा देवानां भुवनस्य भर्गो यथा वशं चरन्ति देव एषाः | घोषा इदस्य शृणि वरेन रूपं तस्मै वाताय हविषा विधेमा || १८ || २५ब्) इति श्रुतिः || ऋग्वेदादि यजुर्वेदो गीयते परमेश्वरः | प्रत्यक्षः सर्वभूतानां दृश्यते न च लभ्यते || १९ || प्रत्यक्षोपि परोक्षोसौ जायते मन्द भाग्यतः | येन ब्रह्मादयो देवाः पालिता स्वात्म मायया || २० || तं हरिं व्यापकं शान्त देहस्थं प्रत्ययात्मकं | प्राप्नुयाद्योग मार्गेण शास्त्रेण तस्माद्योगं समभ्यसेत् || २१ || योगेन रहितं किंचिन्न शास्त्रे प्रतिपादितं | वह्वाचाय प्रवादैस्तु शास्त्रभेदः प्रदृश्यते || २२ || अनुष्टे यः सर्वधर्मो योगः परमदुर्लभः | स योगः कीर्तितो वेदे प्राणापानसमागमात् || २३ || अपानप्राणयोरैक्यं स्मृतयोगमनुत्तमं | एतच्छास्त्रस्य सद्भावं नान्यथा मोक्षसाधनं || २४ || अभूत्कालभयाद्ब्रह्मा प्राणायामपरायणः | २६अ) योगिनो मुनयश्चैव ततः प्राण नियन्त्रयेत् || २५ || प्राणायामपरो योगी शिवतुल्योभिजायते | प्राणायामं विनाभद्र योगिनां हि विटंभना || २६ || प्राणसंयमनं कार्यं देहप्राणादि धारणं | अन्तनाडी प्रचारेण ब्रह्मार्पण भवेदिति || २७ || संश्लाघ्यः पुण्यकर्मा च प्राणायामरतो मुनिः | जीवन्मुक्तो भवेद् योगी खेचरो जायते स्वयं || २८ || यस्य षट्चक्र भेदोस्ति तस्य ब्रह्मार्पणं भवेत् | षट्चक्र भेदनाद् देवी कोनसिद्ध्यति भूतले || २९ || इति श्री अकुलागमे महातन्त्रे योगसारसमुच्चये ईश्वरपार्वतीसंवादे षष्टमः पटलः || ६ || श्रीदेव्यूवाच || देव देव जगन्नाथ संसारार्णव तारक | अधुनोक्तं त्वया देव षट्चक्रं ते किमात्मकं || १ || २६ब्) षट्विधं केन रचितं को चैतद् भेदनः क्रमः | केनोपायेन देवेश वक्तुमर्हस्य शेषतः || २ || श्री ईश्वर उवाच || उपायश्चैव भेदस्य आधारः प्रथमो भवेत् | आधारश्च स विज्ञेय स्वकर्मणि * संस्थितः || ३ || आचार हीनस्य कथं मतिर्योगे भविष्यति | अर्णाश्रमोचितं कर्म तस्मात् तं तत्यजेत् क्वचित् || ४ || हतं ज्ञान क्रियाहीनं हताचाज्ञानतः क्रिया | कृत्वा हंता परित्यागं ज्ञात्वा कर्म समाचरेत् || ५ || आदौ शौच प्रकर्तव्यं द्वियीयं श्रुति चोदितं | पादप्रक्षालनं चैव कृत्वा चम्य विधानतः || ६ || मलप्रक्ष्यालनं स्नानं यथाविधि पुरःसरं | कृत्वा तद्धारयेद् वस्त्रं तौतं मलविवर्जितं || ७ || तिलकं द्वादशांगेषु हस्तयोर्दर्भधारणं | २७अ) कुर्यात् सूर्योदये संध्या कालं नैव च लंघयेत् || ८ || अष्टोत्तरशतं जाप्यं गायत्र्या न्यास पूर्वकं | कालोचितं प्रकुर्वीत कार्यकारणसंज्ञकं || ९ || कर्मधर्मस्य संसिद्धि कर्मब्रह्मानु चिन्तनं | ब्रह्मज्ञानं च धर्मं च तदेवमोक्षसाधकः || १० || कर्मत्यागेन यो योगमत्यसेद् भ्रमितो नरः | तस्य विघ्नसहश्राणि संभवन्ति न संसयः || ११ || विघ्नास्तु कुश्चिते ज्ञाने बुद्धि तस्य प्रजायते | तया बुद्ध्यादुराचारा पतते निरये ध्रुवं || १२ || कर्मकाण्डरताशान्ता मोहमासर्यवर्जिताः | योगीस्वरस्तुते विज्ञे अन्ये तेन मधारकाः || १३ || तत्कर्मसाधनं योगे वेदान्तश्रवणं तथा | एकादशीव्रतं दान शक्त्या च शिवपूजनं || १४ || अस्तिक्यं सर्वधर्मेषु भूतमैत्री क्षमादया | तीर्थसेवा निर्मलत्वमस्तेयम प्रतीग्रहः || १५ || २७ब्) ब्रह्मचर्यमिताहारु मानं शंकरवर्जितं | निद्रालस्य परित्यागं कामं क्रोधं च वर्जयेत् || १६ || अहिंसा सत्यमद्वेषो मातापित्रोः प्रपूजनं | गुरुसुश्रूषणं चैव सौजन्यं गुरुवान्धवै || १७ || अलोलुप्तं कृयाभूतैः सतां संगतिरेव च | इन्द्रयार्थेषु वैराग्यमेतद्योगस्य साधनं || १८ || सतामाचारमार्गेण वैराग्यमुपजायते | वैराग्य न मतिर्योगे भवते भववर्जिते || १९ || पश्चात् सद्गुरु संप्राप्ति पुण्येन भवते ध्रुवं | यस्य प्रसादात् परं योग ज्ञानं च लभ्यते || २० || कर्म त्यागो न कर्तव्यः कर्तव्यो धर्मसंग्रहः | कर्मणा जायते योगः कथं कर्म परित्यजेत् || २१ || आरुरुक्षोर्मुनिर्योगं कर्मकारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते || २२ || २८अ) यमैश्च नियमैश्चैव सत्कर्मामादनैस्तथा | योगाभ्यासः प्रकर्तव्यः स्थाने च निरुपद्रवे || २३ || एकान्ते विजने रम्ये देसेमाशंकवर्जिते | गुहाया पुण्यदेशे तु देवतायतनेपि वा || २४ || सिद्धक्षेत्रे महातीर्थे पुराण पुरुषा श्रमे | कल्पना कल्पिते पुण्ये ध्यानसिद्धिः प्रजायते || २५ || गृहे वा शुद्धभूमौ वामठं कुर्यात् प्रयत्नतः | सुधूप धूपितं कृत्वा तत्र योगं समभ्यसेत् || २६ || गणेश पूजने चादौ दुर्गाविष्णु प्रपूजयेत् | गुरुपादाम्बुजं नत्वा मां च ध्यात्वा सदाशिवं || २७ || स्थापनेन् मठमध्ये तु आसनं सुमनोहरं | निषेधवर्जितं सौम्यं चित्तस्या ह्लादकारकं || २८ || नात्युध्रितं नातिनीतं चैजिनस कुशोत्ततं | तत्र सिद्धासनं वद्ध्वा रजुकायं च धारयेत् || २९ || २८ब्) शरीरं निश्चलं कृत्वा दृष्टिं भ्रूमध्यसंस्थितं | गुरूपदिष्टमार्गेण प्राणायामं समभ्यसेत् || ३० || पूरयेद् वै वामनाड्या स्वशक्त्या धारयेत् पुनः | रेचयेद् वै दक्षिणयातयापि संप्रपूरयेत् || ३१ || पूर्ववत् कुम्भकं कृत्वा रेचयेदिडयाशनैः | एवमभ्यासयोगेन नाडी शुद्धि प्रजायते || ३२ || वह्निप्रबोधमारोग्यं ध्वनिः कान्ति लघु त्वय | यथेष्टधारणं वायोर्नाडी शुद्धा च लभ्यते || ३३ || वृथा क्लेशो भवेत् तस्य नाडी शुद्धिमकुर्वतः | तस्मात् सर्व प्रयत्नेन कर्तव्यं नाडि शोधनं || ३४ || चन्द्रांगे प्राणमभ्यस्य सूर्यांगे पानमभ्यसेत् | चन्द्रसूर्यद्वयोर्मध्ये चिन्तयेत् परमेश्वरं || ३५ || आधाराद्य कुलान्तस्थं निश्चलं शब्दवर्जितं | सुषुम्नान्तर्गतं देवं भावगम्यं सदाशिवं || ३६ || भावयेत् परमानन्दं भावद्वयविवर्जितं | २९अ) षट्चक्र भेदनात् सम्यक् नान्यथा भावगोचरं || ३७ || अपानचक्रमाधारं प्राणाधिस्थानमुच्यते | समानो मणिपूरं च उदानो नाहतं स्मृतं || ३८ || व्यानो वै पञ्चमं प्रोक्तं विशुद्धं चक्रमुत्तमं | षष्टमम्बुजसंस्थं च व्योमरूपमुदाहृतं || ३९ || मायात्र वर्णरूपा च मातृकानामविशृता | तया सर्वाणि चक्राणि भाव्यंते देहमध्यतः || ४० || द्विपत्रं षोडसारं च द्वाडशारं दशारकं | षट्दलं चतुरं चैव षट्चक्रं मातृकोद्भवं || ४१ || अपानचक्रमध्यस्थं वर्णावासान्तिका स्मृतः | प्राणचक्रे वलां सानि अक्षराणि शुशोभने || ४२ || डादि फान्तास्तु ये वर्णा समानचक्रमाश्रितः | कठान्ता द्वादशा प्रोक्ता उदानचक्रमाश्रिताः || ४३ || षोडशस्वरसंज्ञा ये व्यानचक्रे व्यवस्थिताः | व्योमचक्रे स्थितौ द्वौ तु हंसप्राणस्वरूपकौ || ४४ || हकारः प्राणविज्ञेयः सकारोपान उच्यते | २९ब्) प्राणापान द्वयोर्ग्रंथिः प्रवेशे निर्गमे स्थितः || ४५ || तच्चक्रं सर्वदेहेषु जीवरूपं व्यवस्थितं | षट्चक्रं कीर्तितं देवी येन वंधः प्रजायते || ४६ || अपानसंस्थितं चक्रमाधारं सूर्यसंज्ञकं | भिद्यते प्राणचक्रेण प्राणचक्रं शिवात्मकं || ४७ || यावत् षट्चक्रसंबंधस्तावत् संसार उच्यते | तस्मात् षट्चक्र भेदेन योगी ब्रह्म पदं व्रजेत् || ४८ || प्राणसर्वगतो ब्रह्म तत्र विजृम्भण क्षणः | अपानसंस्थितं चक्रमाधारं सूर्यसंज्ञकं || ४९ || स्वाधिस्थानं प्रोच्यते सद्भिस्तच्चक्रं भिद्यते शनैः | समाने तु तृतीयेन समानोजातवेदसे || ५० || मणिना तन्तुना यत्र वायुना पूर्यते वपुः | तं नाभि मंडले चक्रे प्रोच्यते मणि पूरकं || ५१ || भिद्यते ग्रंत्थी भेदेन उदानेन समानजं | अनाहत भुदानाख्यं चक्रं चान्तरसंस्थितं || ५२ || ३०अ) विशुद्धे नैव तद्भेद्यं विशुद्धं व्यानजं स्मृतं | आज्ञाचक्रं तु षष्टं वै व्योमरूपमुदाहृतं || ५३ || विशुद्धं तेन चक्रेण भित्वा चाज्ञांभिनत्यसौ | षट्चक्रभेदतः प्राणो नान्योस्ति चक्र भेदकः || ५४ || आधारं तु चतुःपत्रं स्वाधिस्थानं तु षट् दलं | दशारं मणिपूरं च द्वादशारमनाहतं || ५५ || विशुद्धं षोडशप्रोक्तं आज्ञाचक्रं द्विपत्रकं | षट्चक्रं प्राणमुद्दिश्यं प्राणोपानेन भिद्यते || ५६ || एवं वै चक्रसंभेद्य प्राणायामेन जायते | प्राणचक्रस्वरूपो हि स्वयुंभेत्ताभवेत् तु सः || ५७ || एकोपि पवणः कर्ता दशमूर्त्या निलेश्वरः | सर्वसंसारिकं चक्रं प्राणादेव प्रजायते || ५८ || तस्मात् तत् प्राणयमनं कर्तव्यं सात्विकैर्नरैः | प्राणः सर्वगतं ब्रह्म सर्वं प्राणे प्रतिष्ठितं || ५९ || तं प्राणं निश्चलं विद्धि निराकारं निरंजनं | ३०ब्) कैवल्यं शास्वतं ब्रह्म इति वेदविदो व्रुवन् || ६० || वेदसास्त्रस्य हृदयं गुह्यमेतदुदाहृतं | ब्रह्मज्ञानपरं देवी समूढरक्षितं मया || ६१ || अस्य ज्ञानान्न देहो स्यादज्ञाना देहसंभवः | तावत् कर्म प्रभावोयं यावदात्मान विद्यते || ६२ || आत्मज्ञानं मयातेद्य कथितं निर्विकल्पकं | देवानां दुर्लभं तत्व मयोप्येषु न दापयेत् || ६३ || पाखण्डिनः पापरताः नास्तिकाभेदबुद्धयः | स्त्रीलंपटा दुराचारा कृतघ्ना वकवृत्तयः || ६४ || कर्मभ्रष्टाक्त मानष्टा निन्दातर्कानुवादिनः | क्रोधिनो हिंसकाश्चैव दांभिकाः पिशुनास्तथा || ६५ || कुसंगिनो जडोन्मत्ताः परसंतापकारिणः | द्रव्यलुब्धाः शठामूर्ताः कर्कशाः कलहप्रिया || ६६ || आत्मप्रसंगकार्या च वेदमार्गविभंजकाः | हेतुका वादिनश्चैव तेषां ज्ञानं प्रगोपयेत् || ६७ || ३१अ) कंन्या चार्थं ममत्वेन मन्यतोयनराधमाः | पापिष्टं तद्वियानीयात् दूरतः परिवर्जयेत् || ६८ || अन्यथा कर्मकुर्वाणो मानरूढो न बुध्यते | गुणप्रवाहे पतितो नष्टप्रज्ञो व्रजत्यधः || ६९ || शिवनिन्दा योगनिन्दा शास्त्रनिन्दा करोति यः | एतेषु ज्ञानसर्वस्वं न देयं परमार्थतः || ७० || मौनं चैव प्रकर्तव्यं तत्वज्ञै शास्त्रकोविदैः | शिष्यस्य लक्षणं ज्ञात्वा आत्मज्ञानं प्रदापयेत् || ७१ || कुशिष्यस्य न दातव्यमिति मे निश्चितं मतं | पुरासत्य युगे देवी विशुद्ध तमयोखिलाः || ७२ || प्रकाशितं मयाज्ञानं सर्वेषां मोक्षहेतवे | आत्मज्ञानप्रभावेण वेदाभ्यासरतो नरः || ७३ || अभ्यासाद् देहसहितो निर्विकल्पे लयं गतः | तस्मिन् कालो जगत्प्राणो मम प्रत्यक्षतां गताः || ७४ || ३१ब्) निराकारस्वरूपेण उवाचक्षणयागिरा | स्वागमैः कल्पितैस्त्वं च जनन्मद्विमुखां कुरु || ७५ || मां च गोपय येन स्यात् सृष्टिरेषोत्तरोत्तरा | इत्याह परमात्मा सा वदृशो जायते स्वयं || ७६ || शिवज्ञानमिदं भद्रे मया तेन प्रगोपितं | भूतवृद्दिस्तथा जाता स्वात्मज्ञानं विना प्रिये || ७७ || ज्ञानं तत्परमं सूक्ष्मं लब्ध देवि त्वयाधुना | यस्य ज्ञानमिदं लोके स शिवो नररूपधृक् || ७८ || आचार्यस्तु स विज्ञेयो गुरुशिष्येन दृश्यते | यस्य नास्ति परं ज्ञानं स वै पापाधिकोधमः || ७९ || आत्मनिर्द्धारणं यस्य स गुरुः पाशहा भवेत् | अयमात्मा परोनन्तः प्रत्यक्षो व्योमविग्रहः || ८० || इति वेद स विद्धाव्यो यो विद्वांस गुरुर्हरिः | न हि ज्ञानेन सदृशं पवित्रमिह विद्यते || ८१ || ३२अ) रक्ततव्यं प्रयत्नेन गोप्यं कुरु नगात्मजे | वेदार्थसारसर्वस्वं सर्वशास्त्रैक वाक्यतः || ८२ || कथितं तत्व सद्भावं ब्रह्मज्ञानं सुगोपितं || इति श्री अकुलागमे महातन्त्रे योगसारसमुच्चये ईश्वरपार्वतीसम्वादे सप्तमः पटलः || ७ || श्रीदेव्यूवाच || वेदार्थसारसर्वस्वं सर्वशास्त्रैक वाक्यतः | कथितं तत्व सद्भावं ब्रह्मज्ञानं सुगोपितं || १ || श्री ईश्वर उवाच || इदं सर्वमयादत्तं ज्ञानमध्यात्मिक परं | अग्निसोमगतिर्भङ्ग्यच्छिवदीक्षारतापव || २ || निशम्य वचनं शंभो माहामायामुदान्विता | उवाच शाश्वतं रुद्रं विस्मिता भाललोचना || ३ || श्रीदेव्यूवाच || अपूर्वं तु मयादेव श्रुतं षट्चक्रभेदनं | या दीक्षा योगमध्यस्था न जानाति महेश्वरः || ४ || त्वं गुरुः सर्वदेवानां लोकानामभयंकरः | ३२ब्) प्रसन्नो भवदेवेश दीक्षां कथय शंकरः || ५ || श्री ईश्वर उवाच || दीयते ज्ञानसर्वस्वं क्षाल्यते कर्मकर्दमः | दानक्षालनसंयोगाद् दीक्षेत्यात्मा प्रचक्षते || ६ || दीक्षा च त्रिविधा ज्ञेया आणवी वेधसंज्ञका | तृतीया शाम्भवी ज्ञेया भेद एव त्रिधोदितः || ७ || आनवी प्रथमा दीक्षा एकमन्त्र द्विराक्षरा | ह्रस्व ब्रह्मनि विख्याता मन्त्रेणैव प्रतिस्थिता || ८ || द्वितीया दीर्घसंज्ञा च नाम्ना वेधवती स्मृता | द्विमात्रा त्रयसंयुक्ता त्रिमात्राचतुरंन्वितां || ९ || प्लुता चैवमृता गुह्या ज्ञानगम्याव्यपामृता | स्थूलसूक्ष्मपरेणैव प्रणवेन सुनिर्मितं || १० || दीक्षा त्रयं स्वदेहस्थं संप्रदायागमात्मकं | ऊर्द्धेन बोधितं तत्वं अधः संज्ञं शिवात्मकं || ११ || सा दीक्षा आणवी प्रोक्ता प्रथमप्रणवान्सके | ३३अ) कुण्डलीयरभंतस्वं? ऊर्द्धं तेन सुवेधितं || १२ || वेधसंज्ञा तु सा दीक्षा द्वितीये प्रणवान्सके | तस्योर्द्धं व्यापकत्वं च ऊर्द्धं तेन सुवेधितं || १३ || शांभवीति च विख्याता तृतीये प्रणवात्मके | प्रथमे संस्थिते ब्रह्मा द्वितीये विष्णुरेव च || १४ || शिवरूपं तृतीयन्तु ज्ञातव्यं तु विचक्षणैः | एकं चैव त्रिधा भूतं सृष्टिः स्थित्यन्तकारकं || १५ || प्रत्यक्षं सर्वभूतानां न जानन्ति कुबुद्धयः | रेचकं शांभवी बोधा कुंभकं शक्तिसंयुतं || १६ || आणवी पूरकी ज्ञेया मनःप्राणसमाश्रिता | मन्त्रवेधं शक्तिवेधं शांभवी वेधमुच्यते || १७ || त्रिवेधा कथिता दीक्षा लक्षणं सृणुसांप्रतं | पश्चिमाभिमुखं लिंगं मनःसूक्ष्मं प्रजायते || १८ || सा दीक्षामन्त्रसूपाच आणवीति निगद्यते | मनसं वंधितं तेन लिंगेन वह्निमण्डिते || १९ || ३३ब्) तदा वेधवती नाम वेधात् संजायते ध्रुवं | गुणत्रयविनिर्मुक्तं मनश्चोर्द्ध गतं भवेत् || २० || अन्तन्नाडी प्रचारेण व्योमलिंगे लयं व्रजेत् | तदा सा शांभवी दीक्षा तां विद्याज्जालकृंतिनी || २१ || वेधन्ति मुनयः सर्वे प्राणायामप्रभेदतः | एवं दीक्षा मयाख्याता त्रिःस्वरूपा स्वभावजा || २२ || ये जानन्ति हिते धन्या आचार्यस्ते महीतले | अन्ये प्रतारकाविद्धि शिश्नोदर परायणाः || २३ || योगदीक्षां न मन्यन्ते तत्सर्वे कर्मणो वहिः | अविद्याविष्ट चित्तानां तादृशी वाध्यते मतिः || २४ || अतत्वे तत्व सद्भावं प्रवदन्ति परस्परं | गुरोर्विलोकनाद् देवि सिष्ये वेधः प्रजायते || २५ || मूर्च्छितः पतितो भूमौ सा दीक्षा वंधमोचिका | इति मत्वा क्रियाशक्त्या वर्तते कपि चेष्टया || २६ || ३४अ) ज्ञानं दूरतरं तेषां ब्रह्मदीक्षा कुतः प्रिये | यज्ञमन्त्रेषु या दीक्षा सा दीक्षा नैवमोक्षदा || २७ || प्रणवात् तु भवेद् दीक्षा तयाकष्टं व्यपोहति | मन्त्र यन्त्राः शक्तिपादो सा दीक्षानोपपद्यते || २८ || अज्ञानाद्भ्रामितो लोको मिथ्याचारेण वर्तते | का दीक्षा शाम्भवी वेधा न विन्दंत्याणवी तथा || २९ || ते वृथाचारगर्वेण योगदीक्षा प्रतिष्ठिता | आत्मानं डंभितं तैस्तु दंभयन्ति पुनः पुनः || ३० || आचार्याः सहशिष्यैस्तु अधोयान्ति न संसयः | न बुध्यंत्य कुलं कौलाः करणं कारणं तथा || ३१ || वन्दन्ति चान्यथा दीक्षामात्मज्ञानविवर्जिताः | देहमात्मेति मन्यन्ते विषयाहृष्टचेतसा || ३२ || ३४ब्) उन्मत्ता इव जल्पन्ति न स्मरन्ति सदाशिवं | प्रत्यक्षेपि न जानन्ति मोहिता मम मायया || ३३ || मामेव ये प्रपद्यन्ते मायामेतान्तरन्तिते | दीक्षाज्ञानं भवेत् तेषां सत्संगेनह्यकौलिकं || ३४ || येन संसारजंदुःखं महाघोरं विनश्यति | प्राप्तव्या गुरुकारुण्यात् दीक्षा ह्याध्यात्मिकी परा || ३५ || स्वस्वभावस्थिता या तु परमानन्दसंमता | नास्ति दीक्षा समं पुण्यं नास्ति दीक्षा समं तपः || ३६ || नास्ति दीक्षा समं ध्यानं तस्माद् दीक्षा समाश्रयेत् | यो वै योगस्तु सा दीक्षा या दीक्षा कथिता मया || ३७ || प्रोक्तं चाकुलनाथेन याकुलं कुलवर्जितं || इति श्री अकुलागमे महातन्त्रे योगसारसमुच्चये ईश्वरपार्वतीसम्वादे दीक्षाकथनं नाम अष्टमः पटलः || ८ || ओं ब्रह्मणे नमः || श्रीदेव्यौवाच || चत्वारमाश्रमाः पूर्वं वायव्याश्रमिणांहर | अनुक्रामां क्रमो नास्ति प्रत्ययो दृश्यते प्रभो || १ || ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतीस्तथा | आश्रमादाश्रमप्राप्तिः कथयस्व शुरेश्वर || २ || तेषां निष्टामहादेव भाविता तेन कर्मणा | तत्कर्मयोगमध्ये तु किं वाह्यं वद शंकर || ३ || अद्याश्रमं निरूढाना ब्रह्मचर्यं किमात्मकं | द्वितीयं चैव गर्हस्थं वनवास तृतीयकं || ४ || चतुर्थश्चाश्रमं शम्भो संन्यासः परिकीर्तितः | को हंसः परमोहंसः त्रिडंडीकश्च दंडधृक् || ५ || संन्यासधर्ममध्यस्थः महावाक्यं किमात्मकं | विचारः कीदृशस्तस्य येन मोक्षः प्रजायते || ६ || चतुर्भिराश्रमैर्धर्मैर्विफला कीदृशी गतिः | ३५ब्) तत्वतो ब्रूहि मे नाथ कृपां कुरु महेश्वर || ७ || मूर्तादमूर्तसंप्राप्तिस्तयोः पूजा किमात्मिका | स्वरूपं स गुणं चात्र निर्गुणं च सदाशिव || ८ || शिवेन कथितं शास्त्रं प्राणलिंगं तु कीदृशं | तथा ब्रह्ममयं देव किं चान्यत् परिकीर्तितं || ९ || लोकप्रसिद्धः शब्दोयं प्राणलिंगं तु धारयेत् | कीदृशी धारणा सा तु प्रोच्यते वृषभध्वजः || १० || कुत्र स्थानेषु कैः पुष्पै प्राणलिंगं समर्चयेत् | कोधिकारी वर्णमध्ये को मन्त्रः कस्य पूजनं || ११ || एतेषां चैव प्रश्नानां महादेव जगत्पते | उत्तरं देहि सर्वज्ञं सत्यमज्ञान मोचकं || १२ || शरंण्योसि जगन्नाथ मनो मल विशोधनं | अज्ञानतमसोहंता ज्ञानदीप नमस्तुते || १३ || पाहि शंकरभूतेश पतितोहं भवार्णवे | गर्भवास भवं दुःखं असह्यं छेत्तु मर्हसि || १४ || अनन्तशास्त्रसंवादैः सर्वदा भ्रामितं मनः | निश्चयं कुरु मे नाथ कथयं व मोचनं || १५ || श्री ईश्वर उवाच || चातुर्वण्यं मया सृष्टं गुणकर्मविभागसः | तस्य कर्तारमपि मां विद्ध्य कर्तारमव्ययं || १६ || चातुर्वर्णस्य मध्य तु त्रयो वर्णा द्विजातयः | चत्वारो वेदवर्णाश्च आश्रमाश्चस्तथैव च || १७ || ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतीस्तथा | आश्रमादाश्रमं गच्छे देषधर्मसनातना || १८ || इति मत्वा श्रमे संस्था प्राप्नुवन्ति सुरेश्वरी | न जानन्ति परं धर्मं येन मोक्ष प्रजायते || १९ || लौकिका श्रमसंप्राप्तो ह्याश्रमी भवसंमतः | गुणाश्रमे स्थितो देवी कथं निर्गुणतां व्रजेत् || २० || वाह्याश्रमैः स्वर्गफलं यथावद्विधिचोदितं | ३६ब्) यद्याश्रमे क्रिया लुप्तो आश्रमी नरकं व्रजेत् || २१ || बहिर्मुख जगत्सर्वं बहिर्भावैः प्रवर्तते | अत चेतत्व बुद्धिर्या तया सर्वे विमोहिता || २२ || बाह्या श्रमः पृथक् धर्मै मोक्षं मन्यन्ति ये प्रिये | आत्मानं वंचयेत्येते कर्मवासनया ध्रुवं || २३ || चतुर्थाश्रमसंभेदा योगेषु परिनिष्ठिता | अन्तरंगाः श्रमा देवी कथ्यन्ते शास्त्रमध्यतः || २४ || श्रूयतामाश्रमाः पुण्या दिव्यास्त्व ध्यात्मसंज्ञका | तारकस्य च मध्यस्था प्रोच्यन्ते तृप्ति संस्थिता || २५ || प्रथमं मणिपूरं च द्वितीयं तदनाहतं | निरंजनं तृतीयं तु चतुर्थं तु निरालयं || २६ || मणिस्थो ब्रह्मचारी च द्वितीये चाश्रमे गृही | बाणप्रस्थस्तृतीयन्तु चतुर्थं यतिरुच्यते || २७ || सर्वाश्रमे स्थितोहं सस्त्रिदण्डी चैव दण्डधृक् | आश्रमी वाह्य वेषैस्तु मिथ्याहंकारमाश्रिता || २८ || ३७अ) वाग्दंडी ब्रह्मचारी च मनोदण्डी च दिक्षिताः | वानप्रस्थ कर्मदण्डी ज्ञानदण्डी यतिर्भवेत् || २९ || वाग्दण्डोथ मनोदण्ड कर्मदण्डश्च ते त्रयः | येनैते नियता दंडा सस्त्रिदण्डी व्यवस्थितः || ३० || शिखायज्ञोपवीतादिः स कषायस्त्रिदण्डधृक् | यद्वाह्य विहितं कर्म नैष्कर्मणि समाचरेत् || ३१ || शिखायज्ञोपवीतादि त्रिदण्डी च परित्यजेत् | स कषायो ज्ञानदण्डी नैष्कर्म्यं केवलं चरेत् || ३२ || त्रिदण्डी च परो दण्डो ज्ञानदण्डो सदोदितः | तेन दण्डेन संन्यासी एकदण्डीति गीयते || ३३ || अग्नेरिव शिखानान्या यस्य ज्ञानमयी शिखा | स शिखीमुच्यते विद्वान् इतरे कोश धारिणः || ३४ || ब्रह्मभावमिदं सूत्रं धारणा यस्य चेतना | धारणात् तस्य सूत्रस्य नोच्छिष्टोनोशुचिर्भवेत् || ३५ || ३७ब्) नोसूत्रं सूत्रमित्याहुः सूत्रं नामपरंपरं | तेन सर्वमिदं प्रोक्तं सूत्रेमणि गणा इव || ३६ || आनन्द ब्रह्मणो रूपं यस्य देहे व्यवस्थिता | चरति ब्रह्मभावेण ब्रह्मचारी स उच्यते || ३७ || अव्यक्तोपि प्रणवो संतोषसमिधा घृतं | इन्द्रियाणि पशून् हत्वा यो यजेत् स च दीक्षिता || ३८ || त्रिकोण ज्वलनाकारं मध्ये वह्नि शिखाज्वलं | कन्दर्प्य वनमध्यस्थो वानप्रस्थ स उच्यते || ३९ || तुर्याश्रमं च संप्राप्य त्रिदण्डी चैक दण्डधृक् | हंस एकः समाख्यातः परहंसः सवैश्रुतः || ४० || सर्वोपाधिविनिर्मुक्तश्चैतन्यं च निरंजनं | तद्ब्रह्माहमिति ध्यात्वा कथं वर्णाश्रमी भवेत् || ४१ || वर्णाश्रमस्थितोहंसः परहंसेति गीयते | परहंसः दृढज्ञानः स्वच्छन्दो विगतज्वलः || ४२ || ३८अ) षोडशांगुलहंसश्च प्रमाणं कुरुते वहिः | वामदक्षिणमार्गेण चंचलत्व न विश्रमेत् || ४३ || हंस एव सदाध्यक्षो मनोरुर्ध्वा सुनिश्चलः | परहंसः स्थितो द्वैतस्तदासौ तन्मयो भवेत् || ४४ || अन्यथा रूपभेदाद् वा वर्णाश्रमविभेदतः | तेषां हंसः पराद्धंसो न दृष्टः शास्त्रमध्यतः || ४५ || त्रिगुणै रहितो हंसः परहंस इति क्रमः | हंसस्य दर्शनं नास्ति परहंसः कथ भवेत् || ४६ || संन्यासः मोक्षदः प्रोक्तो महावाक्यविचारतः | महायोगान् महावाक्यात् प्रोच्यते तत्व चिन्तकैः || ४७ || येन वाक्यविचारेण संन्यासी परिपठ्यते | तद् वाक्यं हंसरूपं हि सर्वभूतव्यवस्थितं || ४८ || शास्त्रपाठान् महावाक्य विचारस्तु कथं भवेत् | महावाक्य विचारस्य नामार्थं प्रवदाम्यहं || ४९ || ३८ब्) महावाक्यमनुच्चार्यं यस्त्विमं परिकीर्तितं | सर्वसंज्ञं विसंज्ञं च नानावाक्यंतरस्थितं || ५० || विशब्देन स्थितोहंसश्चारस्तस्य निरंजनं | महावाक्यविचारोयं ऋग्यजुसाममध्यतः || ५१ || यैस्तु ज्ञानं महावाक्यं गुरोश्चरणसेवया | ते वै संन्यासिनः प्रोक्तोः इतरे नामधारकाः || ५२ || इदं सुगदितं देवी हरिणाचार्जुनस्य च | संन्यासलक्षण सर्वं विधिवद्देहसंमतं || ५३ || काम्यानां कर्मणा न्यासं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः || ५४ || त्याज्यं दोषवद्दित्येके कर्म प्राहुर्मनीषिणः | यज्ञदानतपः कर्म न त्याज्यमिति चापरे || ५५ || इत्याह भगवान् विष्णुर्धनंजयमुदारधीः | एतेषां संमतं चैकं भेदो नाम्ना तु दृस्यते || ५६ || अन्ये विकल्प वाहुल्यं नानामतविकल्पितं | ३९अ) वेदेषु सर्वसास्त्रेषु नास्ति भद्रे पृथक् मतं || ५७ || तत्सर्वं श्रुणु कल्याणि यच्च ते भवते हितं | संन्यास लक्षणं धर्मं यथावत् कथयामिते || ५८ || काम्यानां कर्मणा न्यासं संन्यासं कवयो विदुः | काम्यकर्माणिता न्याहु यैस्तु देहोपलभ्यते || ५९ || रजःसत्वतमश्चैव गुणाः प्रकृति संभवा | उत्पत्ति स्थिति संहारे कारणास्ते महेश्वरी || ६० || तेषां न्यसंमहाभागे कर्मणा न्यास उच्यते | संन्यासः परमो ह्येष अन्येषां च मतं श्रुणु || ६१ || सर्वकर्म फलत्यागं प्राहुत्याग विचक्षणः | तत्कर्ममानसं प्रोक्तं राजसं तामसं च यत् || ६२ || रजस्तमात्मकं सत्वं फलरूपमुदाहृतं | तत्फलं ब्रह्ममार्गेण त्यक्त्वा त्याग प्रकीर्तितं || ६३ || ३९ब्) त्याज्यं दोष वदित्येके कर्मप्राहुर्मणीषिणः | इदं सुनिश्चितं देवी हरिणाचार्जुनस्य च || ६४ || त्रिविधं मानसं कर्म न त्याज्यं दोषवत् प्रिये | यज्ञदानतपः कर्म न त्याज्यमिति चापरे || ६५ || तेषां मनोगतं सर्व कथयामि यथार्थतः | यज्ञकर्मप्रवेसे तु कुंभके दानकर्म च || ६६ || तपः कर्म तृतीये वै विसर्वां विद्ध्यनाहते | एतत् सर्वं मयाख्यातं काम्यकर्मादिकं प्रिये || ६७ || सर्वेषामाश्रमाणां च शुद्धदेहे प्रसस्यते | ब्रह्मचारी सूददोहा सूददोहाश्च दीक्षिताः || ६८ || वानप्रस्थः सूददोहा सूददोहायति भवेत् | दशारे ब्रह्मचारी च द्वादशारे गृही तथा || ६९ || वानप्रस्थषोडशारे द्विदले यतिरुच्यते | शरीरस्याश्रमो नास्ति सूददोहाश्रमी भवेत् || ७० || ४०अ) तस्माद्दण्डकषायश्च वाह्याश्रमनिरर्थकः | सर्वाश्रमस्थितः सोपि स्वक्रियोचित्तकर्मणां || ७१ || यत्र यत्र यथाकर्म तत्र तत्र तथा चरेत् | सूददोहाः प्रसिद्धोयं ऋग्वेदे विद्धि पार्वति || ७२ || चेतश्चित मतः स्वातं हृदयं मानसं मतं | विज्ञातः पुरुषोहंसः क्षेत्रज्ञो देहधारकः || ७३ || प्रोच्यते सर्वशास्त्रेषु ह्यन्तर्यामी महानसौः | सूददोहापरं ब्रह्म परमात्म स्वयं हरिः || ७४ || अन्तर्ज्योतिः स्वसिद्धोसौ णिर्गुणो यंत्रवाहकः | सोपि माया स्वरूपेण नानायोनि गत प्रभुः || ७५ || ऊर्द्ध्वाधो संज्ञया देहि संसारीत्यभिधीयते | निर्गुणोपि गुणाधीनो मायया शृष्टि हेतुकः || ७६ || जीवसंज्ञा भवेत् तस्य स्वयं देहेषु वर्तते | सगुणोपि गुणातीतस्त्वभ्यासाद् भवते तु सः || ७७ || ४०ब्) स्वयं वेद्य परब्रह्म आश्रमै किं प्रयोजनं | नियतस्य तु संन्यासः कर्मणः संप्रपद्यते || ७८ || मोहात् तस्य परित्यागस्तामसः परिकीर्तितः | तस्मादाधारयोगेन सूददोहाः प्रशस्यते || ७९ || अभ्यासादाश्रमफलसर्वं भवति नान्यथा | केचिज्जानन्ति तत्वज्ञाः संन्यासधर्ममाश्रिता || ८० || योगधारणया सम्यक् संकेतं स्वात्मसंस्थितं | हृदये ग्रन्थि भेदेन गुणातीतो यदा भवेत् || ८१ || तदाहंसः परोहंसः त्रिदण्डी चैक दण्डधृक् | कषाय वसनश्चैव संन्यासी दण्डधारणात् || ८२ || नैव हंसः परोहंसौ नामधारण गीयते | वाह्यलिंगो न मोक्षस्ति वान्तरंमुक्तिदं स्मृतं || ८३ || वाह्य लिंगार्चने लिंगी त्रिदण्डी चैक दण्डधृक् | वाग्मनः कर्मदण्डश्च त्रिदण्डी पुरुषो भवेत् || ८४ || ४१अ) त्रिदण्डं धारयेद् योगी शरीरेण न वैष्णवं | जीवनार्थं च तद्वैणं शरीरे मुक्ति साधनं || ८५ || तस्मात्यक्त्वा त्रिदण्डी च सर्वं तत्कर्मसाधनं | अव्यक्त लिंगो विचरेद् योगा ह्यासपरोयतिः || ८६ || सत्कार मान पूजार्थं वैष्णवं धारयेत् सदा | स संन्यासी न वक्तव्यः संन्यासी योगतत्परः || ८९ || यदा च दर्शन प्राप्तिस्तदाहंसो न संसयः | सदाशिव परोहंसो ज्ञानज्ञेयति विस्मृताः || ८८ || आत्मयोगाद्विना देवी ब्रह्मचारी कथं भवेत् | ग्रहस्थोवानप्रस्थो वा यतिर्योगाद्विना न हि || ८९ || कर्माभिमानिनां पुंसां किमस्ति ह्याश्रमं फलं | आश्रमस्य फलं मुक्तिः कर्मणानोपपद्यते || ९० || कर्मणा लभ्यते मुक्तिः सर्वशास्त्रेषु कथ्यते | ४१ब्) तत्कर्मस्वात्मरूपं हि योगिनपर्युपासते || ९१ || संसारबंधनं कर्म यज्ञदानादिकं च येत् | यद्यपि स्यान्निराक्षेपं तद्व्यापि फलदं भवेत् || ९२ || मन्यन्ते नानृतं मिथ्या पशवो ज्ञानवर्जितः | कर्मणा फल भोक्तव्यं ब्रह्मादीनां कृतं स्फुटं || ९३ || अवस्यं फलदं कर्म स्वात्मयोगविनासनं | संसारतरुशाखास्तु वर्द्धते तेन कर्मणाः || ९४ || वर्णाश्रमो चितं कर्म फलत्यागसमन्वितं | मन्यन्ते मन्दसतयः प्रवर्तन्तेव भक्तिभिः || ९५ || कर्माभिमनिनः केचित् केचिद् भक्त्याभि मानिनः | शास्त्राभिमानिनः केचित् केचित् तीर्थाभमानिनः || ९६ || यत्राभिमानिनः केचित् केचित् क्षेत्रामानिनः | भूताभिमानिनः केचित् केचिन्नामाभिमानिनः || ९७ || मन्त्राभिमानिनः केचित् केचिद्ध्यानाभिमानिनः | तपोभिमानिनः केचित् केचिद्दानाभिमानिनः || ९८ || अभिमानेन ग्रसिताः संस्थिताः कर्मवर्त्मनि | योगमार्गं न जानन्ति येन सिद्धाः शिवं गताः || ९९ || वेदस्य पूर्वभागे तु कर्मकाण्डमुदाहृतं | प्रवृत्या च निवृत्या च द्वैतन्तद्गुणवद्धितं || १०० || गुणवृत्या भवेद् देहो देहे दुःख महत्तरं | तस्माद्दुःखं सर्वनिदं कर्मत्याज्यं मतं बुधैः || १०१ || संसारेस्मिन् महाघोरे पापादि प्राकृतैर्गुणैः | न स्मरंति परं तत्वमविद्याशवलीयसी || १०२ || विचित्र कर्मघटनादुर्जया त्रिदशैरपि | योगं त्यक्त्वान्य धर्मेषु प्रवृत्तिर्जायते नृणां || १०३ || सुखार्थं कर्मकुर्वन्ति न सुखं कर्मणा प्रिये | दैव हीनास्तुते मर्त्याः सुखोपायं न विन्दती || १०४ || ४२ब्) उत्पत्तिस्थितिसंहार कर्मणा जायते नघ | उत्पत्तिस्थितिसंहारा नस्यन्ते ज्ञानयोगतः || १०५ || जानन्ति योगिनः सर्वे स्वात्मयोगं सुखालयं | यस्मिन् ब्रह्मणि संलीनं अनायासेन वै ध्रुवं || १०६ || अवज्ञां कुरुते यस्तु नरो योगस्य दुर्मतिः | दुराचाराः स पापिष्टो दान्ते नरकं व्रजेत् || १०७ || पापिष्टस्य मतिर्योगे यस्य द्वैवात् प्रवर्तते | धर्मात्मा पुण्यकीर्तिश्च स नरोदेव पूजितः || १०८ || को विजानाति योगस्थ महिमानं नगात्मजे | सिद्धियोनससायुज्यमसिद्धेन सुरालयं || १०९ || अत्रार्थे संमती विद्धि गीताशास्त्रस्य मंगले | श्रूयतां श्रद्धया देवी समासेन वदाम्यहं || ११० || प्राप्यपुण्य कृतान् लोकान् पित्वा शाश्वतीः समाः | सुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते || १११ || ४३अ) अथवा योगिनामेव कुले भवति धीमतां | एतद्धि दुर्लभररं लोके जन्मयदीदृशं || ११२ || तत्र तं बुद्धि संयोगं लभते णैव देहिकं | यतते च ततो भूयः संसिद्धौ कुरुनन्दन || ११३ || इति कृष्णवच श्रुत्वा वीभत्सं पाण्डु नन्दन | स्तुत्वा नारायणं देवं योगे दृढमतिस्तदा || ११४ || भावनाद्यस्यगस्य निर्विकल्पः प्रजायते | तस्य मुक्ति न संदेहः सायुज्यं लभते प्रिये || ११५ || साधन्या देवमाचर्य विज्ञातव्या महेश्वरी | ययासन्धारितो योगी स्वकुक्षौ ज्ञानवर्द्धनः || ११६ || वलिष्टादुर्जया लोके संसारे कर्मवासना | येन सा विजिता लोके स धन्यः पुरुषो मतः || ११७ || दुर्लभं मानुषं जन्म लब्ध्वा यदि न बुध्यते | ज्ञानं परम णिर्वाणं स नरः स्वात्म भावयेत् || ११८ || किं चात्र बहुनोक्तेन श्रुणुष्वायत लोचने | ४३ब्) सर्वाश्रमफलं तस्य योगस्य हृदिसंस्थितः || ११९ || स श्लाघ्यः सगुणी धन्यः सकुलानः स बुद्धिमान् | धर्मात्मोपि विज्ञेयो योगाभ्यासरतो मुनिः || १२० || षट्कर्म निरता विप्रा धर्मिष्टा गृहमेधिनः | तेपि मुक्तिं प्राप्नुवन्ति प्रोच्यते श्रुति मध्यतः || १२१ || तत्कर्म षट्प्रकारेण कथितं तत्ववित्तमः | यजनं याजनं पुण्यं पुराणाध्ययनं तथा || १२२ || अध्यापनं च दानं च पुण्यरूप प्रतिग्रहं | षट्कर्म साधनं मुक्तिः सत्यं तत्कथयामिते || १२३ || आधारे यजनं प्रोक्तं स्वाधिस्थाने तु याजनं | मणिपूरे चाध्ययनं मध्यापनमनाहते || १२४ || दानं विशुद्धचक्रे तु आज्ञाचक्रे प्रतिगृहं | इदं तु निश्चितं देवि कर्ममोक्षाय यत्प्रिये || १२५ || मोक्षस्य कारणं बन्ध वेदशास्त्रेन दृश्यते | ४४अ) बुद्धिनाशो मानुषाणां जायते तेन कर्मणाः || १२६ || एतत्कर्म प्रपंचाख्यं त्यक्त्वा योगं समभ्यसेत् | ब्राह्मणः क्षत्रिया वैश्याः शूद्रैः चान्ये स्त्रियादिभिः || १२७ || नास्ति वर्णविशेषोत्र योगधर्मः सवातनः | वर्णानामाश्रमानां च सेव्यं ब्रह्मसनातनं || १२८ || तत्संगाध्यात्मश्रवणाद्योगेषु बुद्धि प्रजायते | प्रथमं साधनं चात्र सतांसंगः प्रकथ्यते || १२९ || योगस्य प्राप्यते पुण्यात् सतांसंगतिरेव च | संसारं पतितानां च सत्संगो ह्युप कृन्नृणां || १३० || संगात् संजायते योगो मायाजालनिकृन्तनः | तस्मात् संगः प्रकर्तव्यः सात्विकै मोक्षकांक्षिभिः || १३१ || आत्मयोगात् परं धर्मं त्यक्त्वान्यं धर्ममाश्रयेत् | कस्थममृतं त्यक्त्वा भिक्षामटसिदुर्मतिः || १३२ || ब्रह्मज्ञानं विना नास्ति लोके सुखमखण्डितं | ४४ब्) ब्रह्मज्ञानं गुरोरास्यां प्राप्यते यन्निवर्तकं || १३३ || इत्थं सुनिश्चितं देवि मयाते प्रकटीकृतं | गोपितं सर्वतन्त्रेषु कर्मविस्तार हेतवे || १३४ || महायोगरथारूढा गच्छन्ति ब्रह्मणः पथं | ये च कर्म रथारूढास्ते गच्छन्ति भवार्णवे || १३५ || पूर्वामिमांसया कर्म सगुणं स्वर्गदं स्मृतं | यदि तद्विगुणं कर्म भवते नरकाय च || १३६ || योगेन विपरितं हि सिद्धानां न पुनर्भवं | यदि भ्रष्टो भवेद् योगाद् ब्रह्मादीनां पदं लभेत् || १३७ || कर्मणा चरणं लोके दुर्घटं जन्मदुःखदं | योगस्याचरणं नूनं सुलभं सुखदं प्रिये || १३८ || ज्ञातव्या मन्दभाग्यस्ते योगस्य विमुखा नराः | अप्रसन्ना महामाया कुण्डली या हरेस्तनू || १३९ || सधन्यः सर्वलोकानां योगे यस्य मतिर्भवेत् | ४५अ) जघन्यः सोपि विज्ञेयो यो वै योग निराकृतः || १४० || योगमार्गस्य देवेशि निन्दां कुर्वन्ति ये धमाः | दुराचाराश्च ते मर्त्याः सदाचारेपि संस्थिता || १४१ || आचारः प्रथमो धर्मो धर्मस्य प्रभुरच्युतः | सोच्युतः प्राप्यते देवि योगाभ्यासेन नान्यथा || १४२ || अथातः संप्रवक्ष्यामि किं फलं कीदृशी गतिः | फलमाश्रमिणां योगो मुक्तिस्तेषां गति स्मृताः || १४३ || मूर्तादमूर्तसंप्राप्तिमानित्वा चाभिज्यति ये | योगप्राप्ति कुतस्तेषामज्ञानावृतचेतसां || १४४ || यो मां सर्वेषु भूतेषु संतमात्मानमीश्वरं | हित्वार्चां भजते मोख्याद् भस्मन्येव जुहोति सः || १४५ || अहं सर्वेषु भूतात्मा भूतेषु वस्थितः सदा | तमवज्ञाय मां मर्त्य कुरुते च विडंवतां || १४६ || अहं वै सर्वभूतानां भूतात्मा भूतभावनः | ४५ब्) शब्दब्रह्म परं ब्रह्म मम भो शाश्वती तनुः || १४७ || लोके विततमात्मानं लोकं चात्मनि संस्थितं | उभयं च मयाव्याप्तं मयि चैवो भयं स्थितं || १४८ || अमूर्ते प्राप्यते येन तन्मूर्तं देहसंस्थितं | सर्वेन्द्रिय गुणाभासं चलते येन विग्रहं || १४९ || सवाह्यागुणसंयोगः शब्दं ब्रह्मेति गीयते | तन्मूर्तयः सुनिष्णान परब्रह्मादि गच्छति || १५० || अर्च्चायां यजनं विद्धि संसारेस्मिन् फलं प्रदं | न हि मोक्षफलन्तेन जन्मकोटि शतैरपि || १५१ || अन्यथा कर्मकुवन्ति फलमिच्छन्ति चान्यथा | शृष्टिकर्मणि किं मोक्ष भवते वीरवन्दिते || १५२ || चूतवृक्षफलार्थाय पिचुमन्दस्तु वापितः | मन्दबुद्धि सविज्ञेयो विफला तस्य वासना || १५३ || तथार्चां भजते नैव फलमिच्छन्ति शास्वतं | ४६अ) सारात्सारं न जानन्ति मायया भ्रमितास्तुते || १५४ || भावपुष्पैः पूजनीयो मूर्तदेहे सदाशिवः | स एव पुरुषो ह्यात्मा प्रकृतीस्थ स्वरूप धृक् || १५५ || स्वयं च संस्थितो देवो भूतग्राम चतुर्विध | सर्वभावस्थितोनन्तः सगुणः सोपि कीर्तितः || १५६ || सर्वं पुरुष एवेदं भूदंभव्यं भवच्च यत् | तेनेदमावृतं विश्वं वितस्तिमधि तिष्टति || १५७ || स्वाधिष्ठात् प्रपतत्प्राणो वहिश्च प्रतपत्यसौ | एवं विराजः प्रतिपत्य तत्यंत व्रीहिः पुमान् || १५८ || सर्वे विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् | विभजन्नात्मनात्मानां एकधा दशधा त्रिधा || १५९ || एको ह्यशेषसत्वानां आत्मांशः परमात्मनः | अद्योवतारो ये नासौ भूतग्रामौ विभाव्यते || १६० || साध्यात्मा साधि देवश्च साधि भूत इति त्रिधा | विराट सविधः प्राण एकधा हृदयेन तु || १६१ || सोपि मूर्तः स्मृतोदावाविज्ञातव्यो मुमुक्षुभिः | तस्य पूजा प्रकर्तव्या प्राणापानेन निश्चला || १६२ || त्रिविधं मानुषं पुष्पं श्रीशिवे च समर्चयेत् | एतत् ते कथितं सर्वं सगुणाराधनं प्रिये || १६३ || ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च वान्य जातिषु | कांक्षिभिः परमं तत्वं कर्तव्यं शिवपूजनं || १६४ || सा पूजा देवदेवस्य गुणसात्म्यं य या भवेत् | तथा मोक्षफलं दिव्यं लभते नात्रसंसयः || १६५ || वाह्यपूजा न कर्तव्या मोक्षविघ्नकरा प्रिये | तस्मात् परात् परोनन्तः पूजनीयो गुणत्रिभिः || १६६ || सा पूजा परमेशस्य निरालम्बा च कथ्यते | प्राणायामेन कर्तव्या कुलेशं योग लक्षणात् || १६७ || ४७अ) अर्चायां षोडशः पूजामुपचारैस्तु या स्मृता | तया मोक्षफलं नास्ति ज्ञातव्यं मोक्षकांक्षिभिः || १६८ || निश्चितं शाश्वतं बाह्यं प्रतिमानं च पूजनं | शाश्वतं मानितं येन स मूर्खो गजवन्नरः || १६९ || एतत् ते कथितं सम्यक् प्राणलिंगमथ श्रुणु | चिन्तयेत् प्राणलिंगन्तु सोमरूपमुदाहृतं || १७० || नामार्थं न विजानन्ति मूढाः पण्डितदिमानिनः | कृत्रिमं नश्वरं लिंगं प्राणलिंगं कथं भवेत् || १७१ || प्राणलिंगं वरं नाथमन्यते वश्ममध्यतः | ज्ञानलिंगं तु कुतस्तेषामज्ञानावृतचेतसां || १७२ || प्राणलिंगं निराकारं व्यापकं सर्वतोमुखं | प्रत्यक्षं सर्वगं शुद्धं दृश्यते न च लक्ष्यते || १७३ || शैवे निरूपिते शास्त्रे प्राणलिंगांकितात्मकं | धारणा कीदृशी सा तु प्रोच्यते वृषभध्वजः || १७४ || ४७अ) अहर्निशान्तरे ज्ञेयं प्राणलिंगं लयात्मकं | धारणात् तस्य विज्ञेया द्वादशान्ते ध्वनिस्थिता || १७५ || प्रथमं धारयेन्नाभौ भावपुष्पैः प्रपूजयेत् | हृदये च तथा कंठे भ्रुवोर्मध्ये वरानने || १७६ || तदूर्द्ध्वं धारयेद् देवि निश्चलं सत्वमव्ययं | द्वादशान्ते प्राणलिंगं जीवपुष्पेण पूजयेत् || १७७ || प्राणलिंगार्चने नैव ह्यघोरः परिकीर्तितः | सतसाहस्र लक्षैकं जपं कृत्वा समर्चयेत् || १७८ || शतं वै ब्रह्मणो रूपं सहस्रं वैष्णवं तथा | लक्षं चैवान्तरे प्रोक्तं शिवं सर्वे स्वरात्मकं || १७९ || अनेनैव प्रकारेण शतसाहस्रको जपः | कथते ध्यात्म शास्त्रेषु मुक्तये लक्षसंज्ञकं || १८० || ह्रस्वदीर्घप्लुतं भेदो द्वित्रिकोणसमानसः | एकमात्रो द्विमात्रश्च त्रिमात्रौ वै जपः स्मृतः || १८१ || ४८अ) उत्तरोत्तर वै शेष्यं विज्ञातव्यमणीषिभिः | पूजके शतसंख्या च सहस्रं कुंभके तथा || १८२ || रेचके लक्षसंख्या च त्रिगुणोच्चारणेन तु | एवं जपः स्मृतो देहे पापपुण्यक्षयंकरः || १८३ || अयं तु प्रणवाभ्यासो यतीनामुच्यते ध्रुवं | एषजाप्यविधिर्योगे अघोरः कथितो मया || १८४ || प्राणलिंगार्चने नूनं नान्यो मन्त्र प्रकीर्तितः | यो वै ब्रह्मविदो लोके जानंति परमं शिवं || १८५ || तेषामाराधने नैव प्रत्यक्षं भवते स्फुटं | कृत त्रेताद्वापरेषु वहवो ध्यात्व चित्तमा || १८६ || शिष्टाचाररताश्चान्ये कलौ ब्रह्मविदः सकृत् | ब्रह्मविद्दुर्लभं लोके गुप्तरूपेणसंस्थिताः || १८७ || दैवेण दर्शनं तस्य जायते पुण्य कर्मणां | लब्धमां मानुशीं योनीं ज्ञानविज्ञानसंभवां || १८८ || ४८ब्) आत्मनं यो न मध्येत न क्वचित् क्षेममाप्नुयात् | आत्मा तु येन विज्ञातो देशिकः सोत्र कीर्तितः || १८९ || आत्मज्ञानं विनाभद्रे गुरुत्वे संस्थितः कथं | योन्वेष्य पिण्डमध्ये तु स्वात्मलिंगं सदोदितं || १९० || महेश्वरः स सिद्धात्मा यतीयोगी स वैष्णवः | ब्रह्मचारी दीक्षतश्च वानप्रस्थ सतापसः || १९१ || धर्मात्मा सापि विज्ञेयो योगाभ्यासरता मुनिः | वर्णाश्रमानां यो धर्मः सधर्मः कथितो मया || १९२ || नान्यो धर्मो भवेन्मोक्षो प्राणायामाद्विना स्मृता | भक्तिः प्रिया तपोदानं दीक्षाश्वास निवर्तनं || १९३ || सर्वं प्राणमवध्ये तु प्रणवो योगमुच्यते | प्राणायाम परोयोगी सोपि विष्णुर्महेश्वरः || १९४ || सर्वदेवमयो योगी तस्मावज्ञां न कारयेत् | अवज्ञा योगयुक्तस्य आयुः पुण्यक्षयंकरी || १९५ || भजनं तस्य चार्वंगी सर्वकामफलप्रदं | अनन्तमहिमा योगी योगाभ्यासेन जायते || १९६ || स योगोमृतरूषो हि प्राणीनां किन्नरुच्यते | साकारोपि निराकारो देही चाभ्यास योगतः || १९७ || अभ्यासात् परमो ह्येष स योगः शिव जीवयोः | नानाचार्यं मतै योग स योगः शिव जीवयोः || १९८ || अध्यात्मशास्त्रमध्ये तु भेदो नास्ति वरानने | ग्रन्थविस्तारणार्थाय प्रोच्यतेनेकधा प्रिये || १९९ || तेन नानाविधं योगः प्राणीनां परिकल्पिते | रहस्यं सर्वयोगस्य नानादर्शनसंमतं || २०० || योगनिर्धारणं सर्वं भवन्ति ह्यकुलागमे | अस्मिन् शास्त्रे महागोप्यं मया ते कथितं प्रिये || २०१ || कर्मन्यनेक पन्थानो नास्ति योगस्य निश्चितं | नानात्वं दृश्यते योगे मायारूपेण कर्मणा | तत्कर्मच्छेदने ज्ञानं प्राधान्य स्वात्मनः परं || २०२ || आत्मज्ञानं विनाशास्त्रे भेदः सर्वैः प्रकल्प्यते | ये कोमार्गः प्रसिद्धोयं निर्धारः प्राणसंयमः || २०३ || सत्यं सत्यं पुनः सत्यं सत्यमेवन्मयोदितं | नान्यः पंथास्तु योगस्य मारुतेन विनानघे || २०४ || ब्रह्मज्ञानं परं गुह्यमस्मिन् शास्त्रे निरूपितं | वेदशास्त्रस्य साम्यं च लोकस्योद्धारणाय च || २०५ || यो देवो ह्यकुलोनाथ समात्मा सा?सवाहुकः? | अकुलागमनामेदं शास्त्रं तेन न निर्मितं || २०६ || आराधितो मया पूर्वं प्राणायामेन सोच्युतः | आदिकल्पमहाविष्णुः मम प्रत्यक्षतां गतः || २०७ || तदा काले महाशास्त्रं सूचितं वेदगह्वरं | मया सर्वं शृतं देवि परब्रह्म प्रसादतः || २०८ || ५०अ) पश्चाद्ला?प्यं कृतं तेन सृष्ट्यर्थं च स्वमायया | तच्छास्त्रमधुना प्रोक्तं गुप्तं कुरु महेश्वरी || २०९ || दुर्जनायदुराचाराः प्रपंच सहिता नराः | तेषां ज्ञानं तदातव्यं ममाज्ञां संस्मरेत् प्रिये || २१० || श्रीदेव्यूवाच || चत्वारिंशच्छताब्दानि चतुःशतं तथैव च | भविष्यति कलोसंख्या तस्मिन् काले महेस्वरः || २११ || कलौयुगे महाघोरे असत्ये दुःखपूरिते | प्राणीनां कृपया देव ज्ञानं विस्तारयं प्रभो || २१२ || विंध्यस्य दक्षिणे भागे गंगायां दक्षिणे तटे | तत्राहं द्विजरूपेण कथयाम्य कुलागमं || २१३ || सत्यमुद्धरणार्थाय असतां मोहनाय च | अनेक स्वात्मनो ज्ञानं भविष्यति कलौ युगे || २१४ || भविष्यमेतत् कथितं मयद्यते महातपे | ५०ब्) ज्ञानस्य महिमा वेदे अप्रमेयो ह्यगोचरः || २१५ || योजानाति सविश्वेशं बिन्दुनादस्य मध्यगं | नाभि हृत्कण्ठदेवेश भ्रूविलान्ते कुलेस्थितं || २१६ || नाडी शुद्धि क्रमेणैव प्राणायामेन साधकः | सोपि योगी समाख्यातो जीवन्मुक्तेति विश्रुताः || २१७ || देहपाते तु या मुक्तिर्न मुक्तिः सत्यतः प्रिये | प्राणायामं विनाभद्रे देहपातो भविष्यति || २१८ || तस्मात् प्राणस्य यमनं कर्तव्यं मोक्षकांक्षिभिः | अन्योमार्गो न तस्यास्ति सर्वशास्त्रस्य संमतः || २१९ || एष पन्थागमे विद्धि कथितः सोपपत्तिकः | अकुलागमसर्वस्वमेतत् त्वं हृदये कुरु || २२० || पुनः पुनर्महादेवी मम वाक्यं स्फुटं स्मरा | अन्तर्नियममार्गेण मध्यमेन कुलं वसेत् || २२१ || ५१अ) यस्तु ज्ञानं वरं भद्रे अकुलागममध्यतः | प्रोक्तं चाकुलनाथेन सोकुलः कुलवर्जितः || २२२ || सर्वत्र विश्व देहेषु व्यापिते व्योमवत् प्रभुः | तेनेदं रचितं शास्त्रं वंधविच्छेदकारकं || २२३ || अप्रकास्यं सुगोप्यं च पापोपहृतचेतसां | कस्यापि हि न वक्तव्यं वक्तव्यं धर्मशालिनां || २२४ || आध्यात्मिका स्युनिष्टाः स्युनिर्लेपात् काचनं यथा | शुद्धानां शोधनं नास्ति निर्लेपाद्ब्रह्मवित्तमा || २२५ || नास्ति योगात् परोधर्मो नास्ति योगात् परं तपः | नास्ति योग परं ध्यानं नास्ति योगात् परं सुखं || २२६ || स धन्यः पुरुषो योगे यस्य बुद्धिर्वरानने | भवनाशः स विज्ञेय मारुतस्य कुले गतिः || २२७ || आसनादि क्रमे नैव प्राणायामं समभ्यसेत् | अभ्यासाच्च स्वयं प्राणो गच्छते व्योममण्डलं || २२६ || ५१ब्) अयं योगः सर्वशास्त्रे विज्ञातव्यो वरानने | गुरुप्रसादात् ज्ञातव्यं रहस्यं ह्यकुलागमे || २२९ || इति श्री अकुलागमे महातन्त्रे योगसारसमुच्चये ईश्वरपार्वतीसम्वादे चतुराश्रमादिकथनं नाम नवमः पटलः || ९ || शुभं || शुभं भवतु कल्याणं आरोग्यं शुखसंपदा | मम शत्रु विनासाय अकुलाय नमोस्तुते || १ || यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया | यदि शुद्धमसुद्धम्बा मम दोषो न दीयते || सम्वत ७९१ वैशाखे कृष्णपक्षे च नवमी रविवासरे || शुभं || वावुहोवपाविधि भवाणापाके रक्षापरे वासरजनुरजडार कस्तुरगोरचन्दन भूजपत्र श्वतेवासरनतापरसतपावकोषासे तपः भयनासजुयु || ########### END OF FILE #######