#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00302 Uniform title: yogatattvopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: yogatattva upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Jan 6, 2014 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### योगतत्त्वोपनिषत् सह नाववतु- इति शान्तिः अष्टाङ्गयोगजिज्ञासा योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया | यच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते || १ || विष्णुर्नाम महायोगी महाभूतो महातपाः | तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः || २ || तमाराध्य जगन्नाथं प्रणिपत्य पितामहः | पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् || ३ || विवरणम् योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः | तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं योगतत्त्वोपनिषत् मन्त्रलयराजयोगविशिष्टारम्भघटपरिचयनिष्पत्तिचैत्यावस्थोपेतय##- ब्रह्ममात्रपर्यवसन्ना विराजते | अस्याः उपनिषदः संक्षेपतो विवरणमारभ्यते | सृष्टिस्थितिकर्तृब्रह्मविष्ण्वाख्यायिका तु विद्यास्तुत्यर्था | आदौ तावत् वक्ष्यमाणयोगतत्त्वोपनिषच्छ्रवणपठनफलं प्. ३६४) प्रकटयति- योगतत्त्वमिति | प्रत्यक्परयोः योगः तत्त्वं प्रत्यक्परविभागैक्यासहं निष्प्रतियोगिकब्रह्ममात्रं यस्यामुपनिषदि प्रतिपाद्यते सेयं योगतत्त्वोपनिषत् | केवलं तच्छ्रवणपठनतः सर्वपापनिवृत्तिर्भवतीत्यर्थः || १ || एतद्विद्याचार्यस्वरूपं विशदयति- विष्णुरिति | तत्त्वज्ञानयोगमार्गे योगिभिः यथा दीपः तथा पुरुषोत्तमो विष्णुः दृश्यते साक्षात्क्रियत इत्यर्थः || २ || तं ब्रह्मा पृच्छतीत्याह- तमिति || ३ || योगतत्त्वस्य दुर्लभत्वम् तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः | सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः || ४ || तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् | जन्ममृत्युजराव्याधिनाशनं मुक्तितारकम् || ५ || नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् | पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः || ६ || अनिर्वाच्यपदं वक्तुं न शक्यं तैः सुरैरपि | स्वात्मप्रकाशरूपं तत् किं शास्त्रेण प्रकाश्यते || ७ || एवं पृष्टो भगवान् प्रश्नोत्तरमाह- तमिति | स्ववक्तव्यरहस्यार्थस्य नानामार्गालंकारनानाशास्त्रतत्प्रवर्तकैरपि दुष्प्रापतामाह- सर्व इति | मायाजालेन वेष्टिताः मायातत्कार्यपटैः आवृताः इत्यर्थः || ४-५ || कैवल्यमार्गस्य ज्ञानेतरसाधनेन दुष्प्रापत्वे नान्यः पन्था अयनाय विद्यते इति श्रुतेः | शास्त्रजालमोहितैः यन्मयोच्यमानं तद्वक्तुं न शक्यमित्याह- पतिता इति | तेन स्वाज्ञानेन च मोहिताः || ६ || सूर्यादिघटान्ताः येन प्रकाश्यन्ते प्. ३६५) येन वेदशास्त्राण्यर्थवन्ति तत् कदापि शास्त्रप्रकाश्यं न भवति, ब्रह्मणः स्वप्रकाशमात्रत्वेन व्याविद्धपदवाक्यार्थत्वात् || ७ || परस्यैव जीवत्वम् निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् | तदेव जीवरूपेण पुण्यपापफलैर्वृतम् || ८ || परमात्मपदं नित्यं तत् कथं जीवतां गतम् | सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् || ९ || वारिवत् स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता | पञ्चात्मकमभूत् पिण्डं धातुबद्धं गुणात्मकम् || १० || सुखदुःखैः समायुक्तं जीवभावनया कुरु | तेन जीवाभिधा प्रोक्ता विशुद्धे परमात्मनि || ११ || जीवः परस्मात् भिद्यत इत्याशङ्क्य यन्निर्विशेषं तदेव जीवतां गच्छतीव भातीत्याह- निष्कलमिति || ८ || तत् कथं जीवतामर्हति इत्याक्षिपति- परमात्मेति | प्रश्नोत्तरमाह- सर्वेति | वस्तुतो ब्रह्म सर्वभावपदातीतम् | स्वातिरिक्तभावः शशविषाणवत् नास्त्येव | यदि स्वाज्ञदृष्ट्या स्यात्तदा स्वज्ञदृष्ट्या सर्वभावपदातीतं ज्ञानरूपं ज्ञप्तिमात्रत्वात्, निरञ्जनं सर्वत्रासङ्गमित्यर्थः || ९ || यत् स्वमात्रम् अवशिष्टं तत्र स्वाज्ञः स्वातिरिक्तम् अध्यस्थतीत्याह##- मन्दवातेरितवारिवत् स्फुरितं तत्र गुणासाम्यात्मिका मूलप्रकृतिवाच्या अहंकृतिरुत्थिता | ततः पञ्चतन्मात्राणि, ततः पञ्चीकृतपञ्चमहाभूतानि, ततः सप्तधातुबद्धं त्रिगुणात्मकं पञ्चात्मकं पिण्डमभूत् || १० || तत्र सुखदुःखसमायुक्तं यच्चैतन्यं तत् प्. ३६६) जीवभावनया कुरु | सर्वभावातीतविशुद्धे परमात्मनि तेन प्राकृतगुणयोगेन निर्विशेषब्रह्मण एव जीवाभिधा प्रोक्ता || ११ || प्राकृतगुणवियुक्तस्य जीवस्य परमात्मत्वम् कामक्रोधभयं चापि मोहलोभमदो रजः | जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा || १२ || तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च | एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः || १३ || यदा प्राकृतगुणवियुक्तो भवति तदा जीव एव केवलपरमात्मा भवतीत्याह- कामेति | अत्र वचनलिङ्गव्यत्ययः छान्दसः || १२##- ज्ञानयोगयोः युगपदभ्यासः तस्माद्दोषविनाशार्थमुपायं कथयामि ते | योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् || १४ || योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि | तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् || १५ || यस्मादेवं तस्मात् | केवलनिर्विशेषज्ञानस्य मोक्षदत्वेऽपि सविशेषज्ञानस्य तदभावात् योगाकाङ्क्षा भवेदिति ज्ञानयोगौ युगपदभ्यसेदित्याह- योगहीनमिति || १४ || यस्मादेवं तस्मात् || १५ || ज्ञानस्वरूपम् अज्ञानादेव संसारो ज्ञानादेव विमुच्यते | ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् || १६ || प्. ३६७) ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् | निष्कलं निर्मलं साक्षात् सच्चिदानन्दरूपकम् || १७ || उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् | एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते || १८ || बन्धमोक्षहेतू स्वाज्ञानस्वज्ञाने इत्याह- अज्ञानादिति | तत्र ज्ञानं कीदृशम् इत्याह- ज्ञानेति || १६-१७ || स्वातिरेकेण इदमुत्पन्नं स्थितं उपसंहृतं इति या स्फूर्तिः तज्ज्ञानविवर्जितं तदेव निर्विशेषज्ञानमिति प्रोक्तम् | नहि तत् स्वफलाप्तौ योगादिसाधनमपेक्षते | यद्यपरब्रह्मगोचरं सविशेषज्ञानं स्वगतविशेषताशान्तये तदेव योगमपेक्षते | यत् सविशेषज्ञानेन समुच्चिचीषितं तत् ब्रवीमीत्याह- अथेति | अथ सविशेषज्ञानोत्पत्त्यनन्तरं तन्निर्विशेषताहेतुयोगं शृण्वित्यर्थः || १८ || मन्त्रयोगादिः चतुर्विधो योगः योगो हि बहुधा ब्रह्मन् भिद्यते व्यवहारतः | मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगकः || १९ || सोऽयं योगः कीदृश इत्याकाङ्क्षायां पारमार्थिकयोग एकोऽपि साधनवैचित्र्यात् बहुधा भिद्यते इत्याह- योगो हीति | तत् कथमित्यत्र मन्त्रेति | इति प्रधानयोगाः चत्वारः || १९ || आरम्भादयो योगावस्थाः आरम्भश्च घटश्चैव तथा परिचयः स्मृतः | निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता || २० || अङ्गयोगास्तु- आरम्भश्चेति || २० || प्. ३६८) मन्त्रयोगलक्षणम् एतेषां लक्षणं ब्रह्मन् वक्ष्ये शृणु समासतः | मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् || २१ || क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् | अल्पबुद्धिरिमं योगं सेवते साधकाधमः || २२ || इति सूत्रवाक्यानि, एतेषाम् | तत्रादौ मन्दानुकम्पया मन्त्रयोगमाह- मातृकेति || २१-२२ || लययोगलक्षणम् लययोगश्चित्तलयः कोटिशः परिकीर्तितः | गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायेन्निष्कलमीश्वरम् || २३ || स एव लययोगः स्याद्घठयोगमतः शृणु | लययोगप्रकारमाह- लयेति | तत्रायं सारतरो गच्छन्निति || २३ || हठयोगाङ्गानि यमश्च नियमश्चैव ह्यासनं प्राणसंयमः || २४ || प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् | समाधिः समतावस्था साष्टाङ्गो योग उच्यते || २५ || महामुद्रा महाबन्धो महावेधश्च खेचरी | जालंधरोड्डियाणश्च मूलबन्धस्तथैव च || २६ || प्. २६९) दीर्घप्रणवसंधानं सिद्धान्तश्रवणं तथा | वज्रोली चामरोली च सहजोली त्रिधा मता || २७ || अष्टाङ्गविशिष्टहठयोगमाह- हठेति || २४-२५ || पुनः द्वादशाङ्गयोगमाचष्टे- महामुद्रेति || २६-२७ || यमनियमासनेषु प्रधानाङ्गानि एतेषां लक्षणं ब्रह्मन् प्रत्येकं शृणु तत्त्वतः | लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः || २८ || अहिंसा नियमेष्वेका मुख्या वै चतुरानन | सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् || २९ || आहत्य अयं योगो विंशत्यङ्गविशिष्टः | एतेषामङ्गानां पृथग्लक्षणमाह- एतेषामिति | दशयमेषु प्रधानसाधनमाह- लघ्विति || २८ || तथा दशनियमेषु मुख्यसाधनमाह अहिंसेति | आसनानि अनन्तानि | तेषु अशीत्यासनानि मुख्यानि | तेष्वपि सिद्धाद्यासनचतुष्टयं मुख्यम् इत्याह- सिद्धमिति || २९ || योगाभ्यासविघ्नत्यागः प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन | आलस्यं कत्थनं धूर्तगोष्ठी मन्त्रादिसाधनम् || ३० || धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै | ज्ञात्वा सुधीस्त्यजेत् सर्वान् विघ्नान् पुण्यप्रभावतः || ३१ || योगाभ्यासकालप्रादुर्भूतविघ्नजालं त्यजेदित्याह- प्रथमेति || ३०-३१ || प्. ३७०) प्राणायामोचितमठासनयोः स्वरूपम् प्राणायामं ततः कुर्यात् पद्मासनगतः स्वयम् | सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निर्व्रणम् || ३२ || सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः | मत्कुणैर्मशकैर्लूकैर्वर्जितं च प्रयत्नतः || ३३ || दिने दिने च संमृष्टं संमार्जन्या विशेषतः | वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः || ३४ || नात्युछ्रितं नातिनीचं चेलाजिनकुशोत्तरम् | तत्रोपविश्य मेधावी पद्मासनसमन्वितः || ३५ || ततः किमित्यत आह- प्राणायाममिति | प्राणायामोचितमठलक्षणमाह- सुशोभनमिति || ३२-३४ || योगिनो लक्षणमाह- तत्रेति || ३५ || प्राणायामारम्भप्रकारः ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् | ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् || ३६ || निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः | यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् || ३७ || पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः | पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः || ३८ || प्. ३७१) धारयित्वा यथाशक्ति रेचयेदिडया शनैः | यया त्यजेत् तयापूर्य धारयेदविरोधतः || ३९ || योगारम्भसमये प्रणमेत् | ततः किमित्यत्र प्राणायामानुष्ठानक्रममाह- तत इति || ३६-३९ || मात्रानियमपूर्वकः प्राणायामः जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् | अङ्गुलिस्फोटनं कुर्यात् सा मात्रा परिगीयते || ४० || इडया वायुमापूर्य शनैः षोडशमात्रया | कुम्भयेत् पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया || ४१ || रेचयेत् पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः | पुनः पिङ्गलयापूर्य पूर्ववत् सुसमाहितः || ४२ || प्रातर्माध्यंदिने सायमर्धरात्रे च कुम्भकान् | शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् || ४३ || सामान्यप्राणायामलक्षणमुक्त्वा अथ मात्राकालप्रदर्शनपूर्वकं विशेषप्राणायामलक्षणमाह- जान्विति || ४०-४२ || प्रत्यहं प्राणायामकालसंख्येयत्तामाह- प्रातरिति || ४३ || आन्तरालिकफलं नाडीशुद्धिः तच्चिह्नानि च एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् | यदा तु नाडीशुद्धिः स्यात् तदा चिह्नानि बाह्यतः || ४४ || प्. ३७२) जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः | शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् || ४५ || कृशत्वं च शरीरस्य तदा जायेत निश्चितम् | एवमभ्यासान्तरालिकफलमाह- एवमिति | नाडीशुद्धिचिह्नानि कानीत्यत आह- यदेति || ४४-४८ || योगाभ्यासकाले आहारादिनियमः योगविघ्नकराहारं वर्जयेद्योगवित्तमः || ४६ || लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् | शाकजातं रामठादि बह्निस्त्रीपथिसेवनम् || ४७ || प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् | अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् || ४८ || गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः | केवलकुम्भकसिद्धिः ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे || ४९ || यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकः | केवले कुम्भके सिद्धे रेचपूरविवर्जिते || ५० || न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते | ततः किमित्यत्र आह- तत इति || ४९ || तेन किं स्यादित्यत आह- यथेष्टेति || ५० || प्. ३७३) प्रस्वेदादिसिद्धयः प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् || ५१ || ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः | कम्पो भवति देहस्य आसनस्थस्य देहिनः || ५२ || ततोऽधिकतराभ्यासात् दर्दरी स्वेन जायते | यदा च दर्दरो भाव उत्प्लुत्योत्प्लुत्य गच्छति || ५३ || पद्मासनस्थितो योगी तथा गच्छति भूतले | ततोऽधिकतराभ्यासाद्भूमित्यागश्च जायते || ५४ || पद्मासनस्थ एवासौ भूमिमुत्सृज्य गच्छति | अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् || ५५ || न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् | स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा || ५६ || अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते | कीलवो दूषिका लाला स्वेददुर्गन्धतानने || ५७ || एतानि सर्वथा तस्य न जायन्ते ततः परम् | ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु || ५८ || येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः | व्याघ्रो वा शरभो वापि गजो गवय एव वा || ५९ || प्. ३७४) सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः | कंदर्पस्य यथा रूपं तथा स्यादपि योगिनः || ६० || तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य संगमम् | यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् || ६१ || वर्जयित्वा स्त्रियां सङ्गं कुर्यादभ्यासमादरात् | योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् || ६२ || पादार्धत्रिपादपूर्णाभ्यासतः प्रस्वेदाद्यतिमानुषचेष्टान्त##- पादप्राणायामतः प्रस्वेदः || ५१-५५ || दुःखं प्राप्यापि || ५६ || एवमभ्यासं कुर्वतो योगिनो मानुषविकारराहित्यपूर्वकं महाबलं सौन्दर्यं स्त्र्यादिपराङ्मुखत्वं स्वाङ्गदिव्यसुगन्धश्च जायत इत्याह- अल्पेति | स्वदेहजकीलं संधिबन्धमुद्बध्नन्तीति कीलवो वायुबन्धाः | शरीरं दूषयति कार्श्यभावं करोतीति दूषिका क्षयादि, नेत्रमलं वा | शिष्टं स्पष्टम् || ५७ || किंच- तत इति || ५८ || तत् कथम् ? व्याघ्र इति || ५९-६२ || योगप्रतिबन्धनाशाय प्रणवजपः आरम्भावस्था ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया | जपेत् पूर्वार्जितानां तु पापानां नाशहेतवे || ६३ || सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा | एवमभ्यासयोगेन सिद्धिरारम्भसंभवा || ६४ || प्. ३७५) यदि प्रतिबन्धकवशात् योगो न सिध्यति तदा तच्छान्त्यै प्रणवजपः कार्यः इत्याह- तत इति || ६३ || प्रस्वेदादिसुगन्धश्च जायते इत्यन्तसिद्धेरारब्धत्वादयमारम्भः इत्याह- एवमिति || ६४ || घटावस्था ततो भवेद्घटावस्था पवनाभ्यासतत्परा | प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः || ६५ || अन्योन्यस्याविरोधेन एकतां घटते यदा | घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् || ६६ || पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् | दिवा वा यदि वा सायमेककालं समभ्यसेत् || ६७ || एकवारं प्रतिदिनं कुर्यात् केवलकुम्भकम् | घटयोगमाह- तत इति || ६५-६७ || प्रत्याहारलक्षणम् इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् || ६८ || योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते | प्रत्याहारस्वरूपमाह- इन्द्रियाणीति || ६८ || धारणास्वरूपम् यद्यत् पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् || ६९ || यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् | लभते नासया यद्यत् तत्तदात्मेति भावयेत् || ७० || प्. ३७६) जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् | त्वचा यद्यत् स्पृशेद्योगी तत्तदात्मेति भावयेत् || ७१ || एवं ज्ञानेन्द्रियाणां तु तत्तदात्मनि धारयेत् | धारणालक्षणमाह- यद्यदिति || ६९-७१ || चक्षुरादीन्द्रियेन्द्रियार्थजातं स्वाज्ञदशायामब्रह्मतया विकल्पितं स्वज्ञदशायां तत् ब्रह्मेति प्रतीचि धारयेदित्यर्थः || धारणासिद्धयः तद्गोपनविधिश्च याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः || ७२ || यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् | दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरागमस्तथा || ७३ || वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा | मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् || ७४ || खे गतिस्तस्य जायेत संतताभ्यासयोगतः | सदा बुद्धिमता भाव्यं योगिना योगसिद्धये || ७५ || एते विघ्ना महासिद्धेर्न रमेत् तेषु बुद्धिमान् | न दर्शयेत् स्वसामर्थ्यं यस्य कस्यापि योगिराट् || ७६ || यथा मूढो यथा मूर्खो यथा बधिर एव वा | तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये || ७७ || प्. ३७७) शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः | तत्तत्कर्मकरव्यग्रः स्वाभ्यासे विस्मृतो भवेत् || ७८ || सर्वव्यापारमुत्सृज्य योगनिष्ठो भवेद्यतिः | अविस्मृत्य गुरोर्वाक्यमभ्यसेत् तदहर्निशम् || ७९ || एवं भवेत् घटावस्था संतताभ्यासयोगतः | अनभ्यासवतश्चैव वृथागोष्ठ्या न सिध्यति || ८० || तस्मात् सर्वप्रयत्नेन योगमेव सदाभ्यसेत् | ततः किं जायते इत्यत आह- याममात्रमिति || ७२ || किं तत् ? दूरश्रुतिरिति || ७३-७५ || यतः स्वात्तसिद्धिप्रकटनाद्योगान्तरायो भवति तस्मात् सिद्धिजालोपेक्षापूर्वकं स्वसामर्थ्यं गोपयन् योगमेवाभ्यसेत् इत्याह- एत इति || ७६-७७ || तत्तत्कर्मकरव्यग्रः तत्तत्कर्मकरणे व्यग्रचित्तो भवति | ततः स्वाभ्यासे || ७८-७९ || अभ्यासत एव इयं घटावस्था सिध्यति नान्यथेत्याह- एवमिति || ८० || परिचयावस्था ततः परिचयावस्था जायतेऽभ्यासयोगतः || ८१ || वायुः परिचितो यत्नादग्निना सह कुण्डलीम् | भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः || ८२ || वायुना सह चित्तं च प्रविशेच्च महापथम् | यस्य चित्तं स्वपवनः सुषुम्नां प्रविशेदिह || ८३ || परिचयस्वरूपमाह- तत इति || ८१ || तत् कथम् ? वायुरिति || ८२ || महापथं सुषुम्नाद्वारमित्यर्थः | तथा सेयं परिचयावस्थेत्युच्यते || ८३ || प्. ३७८) पञ्चभूतमण्डलेषु पञ्चब्रह्मधारणानि भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः | येषु पञ्चसु देवानां धारणा पञ्चधोच्यते || ८४ || पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते | पृथिवी चतुरश्रं च पीतवर्णं लवर्णकम् || ८५ || पार्थिवे वायुमारोप्य लकारेण समन्वितम् | ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् || ८६ || धारयेत् पञ्च घटिकाः पृथ्वीजयमाप्नुयात् | पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः || ८७ || आ जानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् | अपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् || ८८ || वारुणे वायुमारोप्य वकारेण समन्वितम् | स्मरन् नारायणं देवं चतुर्बाहुं किरीटिनम् || ८९ || शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् | धारयेत् पञ्च घटिकाः सर्वपापैः प्रमुच्यते || ९० || ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते | आ पायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् || ९१ || वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् | वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् || ९२ || प्. ३७९) त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् | भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् || ९३ || धारयेत् पञ्च घटिका वह्निनासौ न दह्यते | न दह्यते शरीरं च प्रविष्टस्याग्निकुण्डके || ९४ || आ हृदयाद् भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् | वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् || ९५ || मारुतं मरुतां स्थाने यकाराक्षरभासुरम् | धारयेत् तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् || ९६ || धारयेत् पञ्च घठिका वायुवद्व्योमगो भवेत् | मरणं न तु वायोस्तु भयं भवति योगिनः || ९७ || आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते | व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् || ९८ || आकाशे वायुमारोप्य हकारोपरि शंकरम् | बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् || ९९ || शुद्धस्फटिकसंकाशं धृतबालेन्दुमौलिनम् | पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् || १०० || सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् | उमार्धदेहं वरदं सर्वकारणकारणम् || १०१ || आकाशधारणात् तस्य खेचरत्वं भवेद् ध्रुवम् | यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते || १०२ || प्. ३८०) एवं धारणाः पञ्च कुर्याद्योगी विचक्षणः | ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते || १०३ || ब्रह्मणः प्रलयेनापि न सीदति महामतिः | ततः स्वावयवप्रविभक्तपञ्चभूतमण्डले पञ्चब्रह्मधारणमाह- भूमिरिति | देवानां ब्रह्मादिसदाशिवान्तानाम् || ८४ || तत्रादौ पादादीति | पृथिवीशब्देन पार्थिवमण्डलमुच्यते || ८५ || ततः पार्थिवे || ८६-८७ || अस्मण्डले विष्णुध्यानं तत्फलं चाह- आ जानोरिति || ८८-९० || वह्निमण्डले रुद्रध्यानं तत्फलं चाह- आ पायोरिति || ९१-९४ || वायुमण्डले ईश्वरध्यानं तत्फलं चाह- आ हृदयादिति || ९५-९७ || आकाशमण्डले सदाशिवध्यानं तत्फलं चाह- आ भ्रूमध्यादिति || ९८-१०३ || सगुणध्यानम् समभ्यसेत् तथा ध्यानं घटिकाषष्टिमेव च || १०४ || वायुं निरुध्य चाकाशे देवतामिष्टदामिति | सगुणध्यानमेतत् स्यादणिमादिगुणप्रदम् | सगुणनिर्गुणभेदेन द्विप्रकारं ध्यानमाह- समभ्यसेदिति || १०४ || निर्गुणध्यानतः समाधिसिद्धिः निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् || १०५ || दिनद्वादशकेनैव समाधिं समवाप्नुयात् | वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् || १०६ || समाधिः समतावस्था जीवात्मपरमात्मनोः | प्. ३८१) ब्रह्मातिरिक्तं न किंचिदस्तीति तत्स्वरूपेणावस्थानं समाधिरित्यर्थः || १०५ || तथाविधं दिनद्वादकेनैव || १०६ || समाधिशब्दं व्युत्पादयति- समाधिरिति | जीवात्मपरमात्मनोः वाच्यार्थवैषम्यत्यागपूर्वकं तयोः लक्ष्यरूपेण समतावस्थैव समाधिरित्यर्थः || सिद्धयोगस्य स्वेच्छया देहत्यागात्यागौ यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत् स्वयम् || १०७ || परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते | अथ नो चेत् समुत्स्रष्टुं स्वशरीरं प्रियं यदि || १०८ || सर्वलोकेषु विहरन्नणिमादिगुणान्वितः | कदाचित् स्वेच्छया देवो भूत्वा स्वर्गे महीयते || १०९ || मनुष्यो वापि यक्षो वा स्वेच्छयापि क्षणाद्भवेत् | सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् || ११० || यथेष्टमेव वर्तेत योगी यद्वा महेश्वरः | अभ्यासभेदतो भेदः फलं तु सममेव हि || १११ || यः स्वातिरेकेणाभासतोऽपि शरीरत्रयमस्तीति मन्यते सोऽयं योगी तत् त्यक्त्वा परब्रह्मणि लीयते | यद्येवं नहि त्यक्तुमिच्छति विचित्रशक्तिं प्रकटयन् आभूतसंप्लवम् अस्मिन् लोके विहरेदित्याह- यदीति || १०७##- मुख्यफलं कैवल्यं सममेवेत्यर्थः || १११ || प्. ३८२) महाबन्धलक्षणम् पार्ष्णि वामस्य पादस्य योनिस्थाने नियोजयेत् | प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद् दृढम् || ११२ || चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः | कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् || ११३ || वामाङ्गेन समभ्यस्य दक्षाङ्गेन समभ्यसेत् | प्रसारितस्तु यः पादस्तमुरूपरि मानयेत् || ११४ || अयमेव महाबन्ध उभयत्रैवमभ्यसेत् | महामुद्रालक्षणं अन्यत्राम्नायते- वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन् प्रसरितं पादं तथा दक्षिणम् | आपूर्य श्वसनेन कुक्षियुगलं मूर्ध्नि स्थितं धारये- देषा पातकनाशनी ननु महामुद्रा नृणां प्रोच्यते || इति | महाबन्धलक्षणमाह- पार्ष्णिमिति || ११२-११३ || मानयेत् समर्पयेत् आरोपयेदित्यर्थः || ११४ || अभ्यसेत् वामाङ्गवत् दक्षाङ्गेऽपीत्यर्थः | महावेधलक्षणम् महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः || ११५ || वायूनां गतिमावृत्य निभृतं कण्ठमुद्रया | पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् || ११६ || अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् | प्. ३८३) वेधस्वरूपमाह- महाबन्धेति || ११५ || उच्छ्वासनिश्वासरेचकपूरकवायूनां गतिम् आवृत्य आच्छाद्य कण्ठमुद्रया जालंधरबन्धेन निरुध्य ततः प्राणवायुः इडापिङ्गलापुटद्वयं सम्यगाक्रम्य अतिक्रम्य सत्वरं सुषुम्नायां स्फुरतीति यत् अयमेव || ११६ || खेचरीस्वरूपम् अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् || ११७ || भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी | खेचरीस्वरूपमाह- अन्तरिति || ११७ || बन्धत्रयस्वरूपं तत्फलं च कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढया धिया || ११८ || बन्धो जालंधराख्योऽयं मृत्युमातङ्गकेसरी | बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः || ११९ || उड्याणाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः | पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् दृढम् || १२० || अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते | प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् || १२१ || गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः | बन्धत्रयस्वरूपं तत्फलं चाह- कण्ठमिति || ११८-१२१ || प्. ३८४) विपरीतकरणीलक्षणं तत्फलं च करणी विपरीताख्या सर्वाधिव्याधिनाशिनी || १२२ || नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी | आहारा बहवस्तस्य संपाद्याः साधकस्य च || १२३ || अल्पाहारा यदि भवेदग्निर्देहं हरेत् क्षणात् | अधःशिरश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने || १२४ || क्षणात्तु किंचिदधिकमभ्यसेत्तु दिने दिने | वली च पलितं चैव षण्मासार्धान्न दृश्यते || १२५ || याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित् | विपरीतकरणीं तत्फलं चाह- करणीति || १२२-१२३ || स्वस्थितिविपरीतं क्रियत इति विपरीतकरणी | तदेव प्रपञ्चयति- अध इति || १२४-१२५ || वज्रोलीस्वरूपम् वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् || १२६ || लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता | अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् || १२७ || वज्रोल्यादिस्वरूपं तत्फलं चाह- वज्रोलीमिति | किं नाम वज्रोली ? कांस्यपात्रे गोक्षीरं निक्षिप्य वज्रोलीतुल्यलिङ्गनालेन ग्रसित्वा पुनर्विरेच्य प्. ३८५) पुनर्ग्रसनादिकमभ्यस्याथ स्त्रीयोनिमण्डले रेतो विसृज्य तच्छोणितेन साकं ग्रसेदिति यत् सैव वज्रोलीत्युच्यते | यस्तामभ्यस्यति स तु सिद्धो भवतीत्याह- लभ्यत इति | सोऽयं योगी अतीतानागतं वेत्ति | तस्यैव खेचरी || १२६-१२७ || अमरोलीस्वरूपम् अमरीं यः पिबेन्नित्यं नस्यं कुर्वन् दिने दिने | वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते || १२८ || अमरोलीस्वरूपमाह- अमरीमिति | अमरीशब्देन मूत्रमुच्यते | तत्र प्रथमान्त्यधारे विहाय मध्यधारां हस्ते पात्रे वा गृहीत्वा योऽयं योगी तत्त्रिभागं दिने दिने पिबन् नासापुटयोः नस्यं कुर्वन् नित्यं वज्रोलीमभ्यसेत् इति यत् सैव अमरोलीति कथ्यते | तथा च हठयोगतन्त्रे अभिहितम्- पित्तोल्बणात्वात् प्रथमां च धारां विहाय निःसारतयान्त्यधाराम् | निषेव्यते शीतलमध्यधारा वज्रोलिसिद्धैरमरोलिसिद्ध्यै || इति | एवममरोलीसिद्धस्यामरीपाननस्यं विना या सिद्धिरुदेति सैव सहजोलीत्युच्यते || १२८ || राजयोगनिष्पत्तिः ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् | यदा तु राजयोगेन निष्पन्ना योगिभिः क्रियाः || १२९ || तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् | विष्णुर्नाम महायोगी महाभूतो महातपाः || १३० || तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः | प्. ३८६) राजयोगस्वरूपमाह- तत इति | न हि विंशत्यवयवहठाभ्यासमन्तरा राजयोगो भवतीत्यर्थः || १२९ || हठयोगसिद्धोऽयं राजयोगः योगराजत्वात् | तत्रैव हि भगवान् दृश्यते इत्याह- विष्णुरिति | क्षराक्षरकलनाविरलपुरुषोत्तमतत्त्वस्य सोऽहमस्मीति राजयोगेनैव लक्षितत्वात् || १३० || वैराग्यहेतुनिरूपणम् यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते || १३१ || यस्माज्जातो भगात् पूर्वं तस्मिन्नेव भगे रमन् | या माता सा पुनर्भार्या या भार्या मातरेव हि || १३२ || यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता | एवं संसारचक्रेण कूपचक्रे धटा इव || १३३ || भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान् समश्नुते | पुरुषोत्तमत्वातिरिक्तदारादिबाह्यवैराग्यहेतवे इदमाम्नायते- यः स्तन इति | तं तादृशमित्यर्थः || १३१ || तस्मिन्नेव तथाविधे भगे रमन् रममाणो मुदमश्नुते | अस्मिन् जन्मनि या माता सा पुनः भवान्तरे भार्या भवति, या भार्या सा भवान्तरे मातैव भवतीत्याह- या मातेति | मातरेव मातैवेत्यर्थः || १३२ || एवं पुरुषोत्तमतत्त्वातिरिक्तं किंचिदप्यस्तीति पश्यन्तः कूपचक्रे धटा इव##- परिभ्रमन्तो नानायोनिषु जन्ममृती भजन्ते | यतः एवं अतः ब्रह्मैव सर्वम् ब्रह्मातिरिक्तं न किंचिदस्ति इति श्रुत्याचार्यमुखतः श्रुत्वा मुमुक्षुरुत्तमलोकान् ब्रह्माद्यावासभूतान् समश्नुते | यावद्ब्रह्मोपाधि तावदुषित्वा तेन साकं कैवल्यं लभन्ते || प्. ३८७) हृत्पद्मे प्रणवोपासनम् त्रयो लोकास्त्रयो वेदास्तिस्रः संध्यास्त्रयः स्वराः || १३४ || त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे | त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् || १३५ || तेन सर्वमिदं प्रोतं तत् सत्यं तत् परं पदम् | पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् || १३६ || तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् | हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् || १३७ || ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः | अकारे रेचितं पद्ममुकारेणैव भिद्यते || १३८ || मकारे लभते नादमर्धमात्रा तु निश्चला | शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् || १३९ || लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् | तदुपायत्वेन परापरब्रह्मगोचराकारादिमात्राचतुष्टय##- प्रणवावयवाकारादित्र्यक्षरे क्रमेण भूरादयः त्रयो लोकाः, ऋगादयः त्रयो वेदाः, प्रातःसंध्यादिसंध्याः तिस्रः, अकारोकारमकारभेदेन त्रयः स्वराः || १३४ || गार्हपत्यादिभेदेन अग्नयः त्रयः, सत्त्वादित्रिगुणाश्च सर्वे स्थिताः प्रतिष्ठिता इत्यर्थः | अकारादित्रयाणामक्षराणां तदारोपाधिकरणविश्वविराडोत्रादि##- श्रुत्याचार्यमुखतो जानाति || १३५ || तेन तुर्यभावमापन्नेन प्. ३८८) योगिना सर्वमिदं प्रपञ्चजातं प्रोतम् अहमेवेदं सर्वमिति व्याप्तम् | यद्व्याप्यसापेक्षव्यापकतापह्नवसिद्धं तत् सत्यम् | यत् सत्तामात्रं तदेव परं निरतिशयं स्वावशेषतया पद्यत इति पदं ब्रह्ममात्रमवशिष्यत इत्यर्थः | कथं पुनः तुर्यस्य सर्वप्रोतत्वमित्यत्र दृष्टान्तचतुष्टयमाचष्टे- पुष्पेति || १३६ || यथा हेमनिमिल[बिड]शिलायां निर्विशेषतया काञ्चनं तत् सर्वं व्याप्य वर्तते तथा इत्यर्थः | यदेवं व्यापकचैतन्यं तदुपलब्धिस्थाननिर्देशपूर्वकं तत्स्वरूपं तज्ज्ञानफलं च विशदयति- हृदिस्थान इति | हृदिस्थाने उरोभागे कदलीपुष्पवदूर्ध्व-नालं अधोवक्त्रं हृत्पद्मं स्थितं भवति || १३७ || तदधोभागे बिन्द्वव्याकृताकाशं विद्यते | तस्य मध्ये मन##- तद्वृत्तिसहस्रभावाभावप्रकाशकतया प्रत्यक्चैतन्यं स्थित भवति | तदूर्ध्वनयनार्थं विकसनार्थं तद्गतचैतन्यसाक्षात्कारार्थं चोपायमाह- अकार इति | अकारे विश्वविराडोतृचैतन्ये साक्षात्कृते सति हृत्पद्ममूर्ध्वमुखतया रेचितम् उत्थितं भवति | उकारतदध्यक्षतैजससूत्रानुज्ञातृचैतन्य-साक्षात्कारेण तत् पद्मं भिद्यते विकासमेति || १३८ || मकारतदध्यक्षप्राज्ञबीजानुज्ञैकरसचैतन्ये साक्षात्कृते सति नादमीश्वरतत्त्वं तदात्मकप्रणवनादो विजृम्भते | अकारादिमात्रात्रयप्रपञ्चपर्यवसानार्धमात्रा तु द्वितुर्याविकल्पाधिष्ठिता निश्चला भवति | तत्र यदुपलभ्यते यदनुसंधानतः पुण्यपापजालं नश्यति तत् शुद्धस्फटिकसंकाशं पापनाशनं वस्तुतो निष्प्रतियोगिकनिष्कलं यत् स्वमात्रमवशिष्यते || १३९ || यथोक्तयोगयुक्तात्मा पुरुषः तत् परं पदं लभते कृतकृत्यो भवतीत्यर्थः || सर्वकरणव्यापारोपरतिः आत्मावगत्युपायः कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् || १४० || एवं द्वारेषु सर्वेषु वायुपूरितरेचितः | निषिद्धे तु नवद्वारे ऊर्ध्वं प्राङ् निःश्वासस्तथा || १४१ || प्. ३८९) घटमध्ये यथा दीपो निवातं कुम्भकं विदुः | निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे || १४२ || निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवया || इत्युपनिषत् || तदवगत्युपायस्तु सर्वकरणव्यापृत्युपरतिरेवेत्याह- कूर्म इति | यथा कूर्मः स्वाङ्गान्युपसंहृत्य शिलावत् वर्तते || १४० || एवं योगी नवद्वारेषु सर्वेषु नाडीद्वारेषु च वायुपूरितरेचितः पूरकरेचकावस्थायां वायुना पूरितरेचितनाडीसुषिरावच्छिन्ननिर्##- सुषुम्नामार्गेण ऊर्ध्वनिःश्वासो भवेदित्याह- निषिद्ध इति | नवद्वारे निषिद्धे निरुद्धे सत्यथ सुषुम्नायाः प्राक् पूर्वद्वारं मूलाधारस्थं भित्त्वा अथोर्ध्वं निःश्वासः निर्गतश्वासव्यापारो भवेत्, केवलकुम्भकेन तिष्ठेदित्यर्थः || १४१ || कुम्भकलक्षणमाह घटमध्य इति | एवं केवलकुम्भकयोगेन आत्मतत्त्वमवगम्य कृतार्थो भवेदित्युपसंहरति- निषिद्धैरिति | स्वस्वव्यापृतिनिषिद्धैः निरुद्धैः नवद्वारैः विशिष्टदेहो योगी निर्जने निरुपद्रवे प्रदेशे सिद्धाद्यासनमास्थाय || १४२ || निर्विकल्पकयोगसेवया कैवल्यनाडीं भित्त्वा तत्र आत्ममात्रेणावशिष्टमिति तत्त्वज्ञानेन निश्चितं विकलेबरकैवल्यं भजेदिति शेषः | तुशब्दोऽवधारणार्थः | इत्युपनिषच्छब्दौ योगतत्त्वोपनिषत्समाप्त्यर्थौ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं योगतत्त्वस्य सुस्फुटम् || योगतत्त्वविवरणं षष्ट्युत्तरशतद्वयम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकचत्वारिंशत्संख्यापूरकं योगतत्त्वोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######