#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00121 Uniform title: yogaviṣaya Secondary title: kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha Author : matsyendrānātha Alternate name : matsyendra Alternate name : macchagnapāda Editor : Bagchi, P. C. Description: The source of this e-text is Calcutta Sanskrit Series 3 - kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha - where it is bundled along with kaulajñānanirṇaya kulānandatantra, and jñānakārikā . The printed volume also contains introductory material and summaries in english. Notes: Data-entered by Mike McGee Revision 0: Sept. 17, 2008 Publisher : Metropolitan Printing and Pub. House Publication year : 1934 Publication city : Calcutta Publication country : India #################################################### गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः. अन्योषंच क्रमाज्ज्येष्ठास्तेषां पादौ नमाम्यहम् || १ || यदृशी भावनातितं तं गुरुं प्रणमाम्यहम्. भ्रान्तश्च भ्रमते लोको निर्भ्रान्तः कृतनिश्चयः || २ || तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः. कुलजातिसमायुक्तः सुचरित्रगुणान्वितः || ३ || गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते. आकुलेनादिनाथेन केजापूपीनवासिना || ४ || कृपयैव परं तत्त्वं मीननाथोऽपि बोधतः. मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः || ५ || त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि. नानयोरपि भद्रे.आत्र समसिद्धिः प्रजायते || ६ || उमाषङ्करपुत्रोऽहं मीननाथो मुनीश्वरः. कथयामि परं तत्त्वं कुलाकुलविबोधकम् || ७ || आधारः स्वाधिष्ठानञ्च मणिपूरसनाहतम्. विशुद्धिराज्ञा कौलानि षट् चक्राणि शुभानि च || ८ || आधारश्च गुदे तस्थौ स्वाधिष्ठानञ्च लिङ्गके. मणिपूरं नाभिगतं हृदये चाप्यनाहतम् || ९ || विशुद्धिः कण्ठदेशे च आज्ञाचक्रं भ्रुवोर्मुखम्. चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् || १० || इडा वहति वामे च पिङ्गला वहति दक्शिणे. इदापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी || ११ || आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे. द्वे पत्र षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् हं क्शं तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि || १२ || प्राणोऽपानः समानश्च उदानो व्यान एव च. पञ्चकर्मेन्द्रययुक्तः क्रियाशक्तिसमुद्यताः || १३ || नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः. पञ्चज्ञानेन्द्रियैर्युक्ताः बुद्धिशक्तिसमन्विताः || १४ || पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः. बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् || १५ || अकारो वह्निदेशे च उकारो हृदि संस्थितः. मकारश्चः भ्रुवोर्मध्ये वचनाच्च निबोधयेत् || १६ || ब्रह्मग्रन्थिरधष्कारे विष्नुग्रन्थिर्हृदि स्थितः. रुद्रग्रन्थिर्भ्रुवोर्मध्ये विमुच्यन्ते त्रयस्तथा || १७ || अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते. मकारे च शिवं साक्शाच्छन्तेश्शान्ततरं परम् || १८ || कण्ठसंकोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद्ः दृढम्. रसनापिड्यमानान्तु षोडशश्चोर्ध्वगामिनि || १९ || त्रिकूटं त्रिहठाचैव गोल्हाटं शिखरं तथा. त्रिशिखं वज्रमोङ्कार मूर्ध्वनाखं भ्रुवोर्मुखम् || २० || आकुञ्चयेद्रविञ्चैव पश्चान्नाडी प्रवर्तते. भेदे त्रिहठसंघट्टमुभयोश्शशिदर्शनम् || २१ || प्रणवा गुदनाला च नलिनी सर्पिणी तथा. बङ्कनालि क्शया शौरी कुण्दली कुन्दलाः स्मृताः || २२ || कुण्दलीं चालयेत् प्राणो भेदिते शशिमण्डले. सिध्यन्ति वज्रगुम्भानि नव द्वाराणि बन्धयेत् || २३ || सुमनः पावनारूढः स गाढं निर्गुणस्तथा. ब्रह्मस्थाननिनादेन शंखिन्यामृतवर्षिणी || २४ || षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत्. सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् || २५ || चन्द्रामृतेन चिद्रुपमीश्वरं स्नाप्य भक्तितः. मनःपुष्पं तथा देयमर्चतेत्परमं शिवम् || २६ || आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम्. दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः || २७ || हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः. सम्प्राणापानयोर्ग्रन्थिरूपे || त्यभिधीयते || २८ || सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा. उच्चारपदतो हंसः सोऽहमित्यभिधीयते || २९ || पूर्वभागे मथो लिङ्गं शंखिन्यां चैव पश्चिमम्. ज्योतिर्लिङ्गं भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् || ३० || पूर्वपश्चिमदिग्भागे वज्रद्ण्डे व्यवस्थिते. द्वौ षष्टिभोगिनी स्थानं पशाल्लिङ्गं प्रकाशयेत् || ३१ || शीताशीतं परं स्थानं मेदोमज्जाभिपूरितम्. स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् || ३२ || सर्वव्याधिक्रियाकर्म वातपित्तसमन्वितम्. दशाष्टदोषरहितं मीननाथेन कथ्यते || ३३ || || इति मत्स्येन्द्रनाथविरचितं भक्तिसं सम्पूर्णम् || ########### END OF FILE #######