#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00115 Uniform title: yoginīhṛdaya Main title: yoginīhṛdaya with the dīpikā by amṛtānanda Commentator : amṛtānanda Editor : gopīnātha kavirāja Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: October 15, 2007 Publisher : sarasvatībhavana sanskrit series, Queen’s College, Publication year : 1923 Publication city : Benares Publication country : India #################################################### चक्रसंकेतः प्रथमः जगद्वन्द्यावेतौ गणपबटुकौ विश्वविनुतौ जगद्रक्षाशीलौ जपनिरतसामिप्यफलदौ | रथाङ्गे सन्नद्धौ रविशशिकृशानूज्ज्वलदृशौ मयि स्यातां रक्षापरवशधियौ सद्गुणमयौ || १/१ || तन्नित्यं ज्योतिषां ज्योतिर्जयत्येकमनुत्तरम् | न यद् भासयते सूर्यो न शशाङ्को न पावकः || १/२ || विमर्शरूपिणी शक्तिरस्य विश्वगुरोः परा | परिस्फुरति सैकापि नानानामार्थरूपिणी || १/३ || पश्यन्त्यादिक्रमादेतौ जातौ प्रश्नोत्तरात्मना | तन्त्रावतारं तन्वाते सर्वत्रानुजिघृक्षया || १/४ || तद्वामकेश्वरे तन्त्रे सूचितार्थान् परापरान् | व्यक्तीकर्तुं प्रयतते योगिनीहृदयेऽधुना || १/५ || मानुषीहृदयं मर्त्यो वेत्ति नैकोऽपि तत्त्वतः | योगिनीहृदयं ज्ञातुं कः समर्थः शिवं विना || १/६ || अनन्योद्घाटितं दिव्यागमकोषगृहान्तरम् | उद्घाट्यते मयेदानीं महार्थो गृह्यतां बुधैः || १/७ || तदनेकार्थसन्दर्भनानासंकेतसंकुलम् | विवृणोम्यमृतानन्दः शिवयोरेव शासनात् || १/८ || अन्यथाऽनादिसंसारे किं नेदं व्याकृतं पुरा | तदा न सन्ति सन्तः किं किं वा नात्र प्रयोजनम् || १/९ || शिवादिगुरुपर्यन्तं पारम्पर्यक्रमागतम् | एतज्ज्ञानं मया लब्धमक्रमाणामगोचरम् || १/१० || इह खलु भगवान् प्रकाशमूर्तिः परमशिवः स्वात्मानं विमर्शांशेन विभज्य पश्यन्त्यादिक्रमात् पृच्छति- श्रीदेव्युवाच इति | शिव एवाहं वैखरीपर्यन्तं व्यापृत्य विमर्शांशेन पृष्टवानिति यावत् | उवाचेति लिडुत्तमपुरुषैकवचनम् | भूतत्वं च वक्तव्यस्य सदातनत्वात् | अनद्यतनत्वमकालकलितत्वात् | परोक्षत्वमनिन्द्रियगोचरत्वात् | अनेन श्रीभैरव उवाच इत्येतदपि व्याख्यातम् | प्रकाशात्मकः परमशिवोऽहमेव विश्वानुग्रहपरः परा- पश्यन्ती-मध्यमा-वैखरीक्रमेण व्यापृत्य विमर्शांशेन प्रष्टा भूत्वा प्रकाशांशेन प्रतिवचनदाताऽपि सन् तन्त्रं समवतारयामीत्यर्थः | तदुक्तं श्रीमहास्वच्छन्दे- गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् || १/(स्व. त. ८/ ३१) इति | देवदेव महादेव परिपूर्णप्रथामय | वामकेश्वरतन्त्रेऽस्मिन्नज्ञातार्थास्त्वनेकशः || १/१ || तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव | विश्वस्य भरणाद् रमणाद् वमनात् सृष्टिस्थितिसंहारकारी भैरवः परमशिवः | देवदेव देवा द्योतनात्मानो रव्यादयस्तेषां देवः प्रकाशकः | महादेवो महाप्रकाशात्मा | अयमर्थः तव महाप्रकाशात्मकत्वात् त्वमेव विश्वं भासयसि, न त्वां कोऽपि भासयितुमलमिति | तत्र श्रुतिः न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || १/इति | (क. उ. ५/१५) परिपूर्णप्रथामय प्रथा ज्ञानम्, परिपूर्णप्रथा विश्वविषयिणी ज्ञप्तिः, तन्मय तद्रूप | तत्र सर्वज्ञत्वात् त्वमेव सर्वान् बोधयितुमर्हसि, न त्वां कोऽपि बोधयितुमलमिति | अतो वामकेश्वरतन्त्रे चतुश्शतीशास्त्रे, अज्ञातार्था अविदितार्थाः, अनेकशो बहवः सन्ति | तांस्तानर्थानशेषेण साकल्येन, वक्तुं व्यक्तीकर्तुम्, अर्हसि मम विमर्शपदवीं प्रापयितुमर्हसीत्यर्थः || १/१ || प्रकाशांशेन प्रतिवदति - श्रीभैरव उवाच शृणु देवि महागुह्यं योगिनीहृदयं परम् || १/२ || त्वत्प्रीत्या कथयाम्यद्य गोपितव्यं विशेषतः | हे देवि ! विश्वसर्जनादि व्यवहारक्रीडापरे विमर्शविग्रहे | महागुह्यं लोके गोपनीयम् | यद्वस्तु यावत् तत्र न मनः प्रवर्तते तत् तावत्कालमतीन्द्रियगोचरं भवति, अस्य तु सर्वदा मनोवागिन्द्रियातीतत्वान्महागुह्यत्वम् | योगिनीहृदयं योगिन्याः स्वसंविदो हृदयमिवाविर्भावभूमित्वाद् हृदयम् | अत्र तु योगो नाम समस्तवस्तुसमवायसम्बन्धः, तेन भासत इति योगिनी | तदुक्तमभियुक्तैः - देशकालपदार्थात्म यद्यद् वस्तु यथा तथा | तत्तद्रूपेण या भाति तां श्रये सांविदीं कलाम् || १/इति | (सौ. हृ. ४) परम् उत्कृष्टम्, सर्वज्ञानोत्तरत्वात् | अत एव वक्ष्यति - एतज्ज्ञात्वा वरारोहे सद्यः खेचरतां व्रजेत् (१/५) इति | एतत् शृणु विमर्शपदवीं प्रापय || १/२ || त्वत्प्रीत्या त्वदेकसामरस्यहेतोः कथयामि | अद्य पुरा न कस्यचिदाख्यातमतिरहस्यत्वात्, अतो हेतोर्विशेषतो गोपितव्यम् | आत्माहंभावभावनया भावयितव्यमित्यर्थः | अत्यन्तगोपनीयतामेव द्रढयितुमाह - कर्णात् कर्णोपदेशेन सम्प्राप्तमवनीतलम् || १/३ || कर्णात्, कर्मणि ल्यब्लोपे पञ्चमी, कर्णं प्राप्य पुनः कर्ण एवोपदेशक्रमेणैव पारम्पर्यक्रमेण सम्प्राप्तम् | आदिकर्मणि क्तः | अवनीतलशब्देन तत्रस्था मनुष्या लक्ष्यन्ते, यथा मञ्चाः क्रोशन्तीति | तेनायमर्थः सम्पद्यते - दिव्यसिद्धमानव - क्रमेणातिरहस्यत्वात् कर्णपरम्परामात्रगम्यमेवेदमिति | अत्र मानवग्रहणं दिव्यसिद्धयोरुपलक्षणार्थम् || १/३ || अनर्हेभ्यो न देयमित्याह - न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि | न शुश्रूषालसानां च नैवानर्थप्रदायिनाम् || १/४ || परशिष्या एव के योभ्यो न देयम् ? ये विद्यान्तरेषु पारम्पर्यक्रमेणाधिगता - शेषरहस्यपरमार्थाः प्राप्तपूर्णाभिषेकाश्च ते परशिष्याः | तेभ्यो न देयम् | लब्ध्वा कुलगुरुं सम्यङ् न गुर्वन्तरमाश्रयेत् (कुला० १३/१३०) इत्यादिवचनात् तैरपि न ग्राह्यम् | ये विद्यान्तरेषु पारम्पर्यकमेणानधिगताशेषरहस्य परमार्था अप्राप्तपूर्णाभिषेकाश्च तेभ्यो देयम्, तैरपि ग्राह्यम् | मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || १/(कुला. १३/१३२) इति वचनान्न ते परशिष्याः, पूर्णाभिषेककर्ता यो गुरुस्तस्यैव पादुका (कुला. १३/१२९) इति वचनाच्च | नास्तिकेभ्यः | नास्ति परलोक इति ये मन्वते ते नास्तिकाः श्रद्धाविहीनाः | धनधान्याद्यपेक्षया तेषां रुचिमुत्पाद्य न देयमित्यर्थः | तदुक्तं भगवद्गीतासु न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् || १/(३/२६) इति | न शुश्रूषालसानां च | ये शुश्रूषालसास्तेभ्यो न देयम्, येऽनर्थप्रदायिनस्तेभ्योऽपि | शुश्रूषालसा अपि ये धनं वितरन्ति तेभ्यो देयम्, ये च शुश्रूषालसाश्च धनमपि न वितरन्ति तेभ्यो न देयमित्यर्थः | तदुक्तम् - गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा | अथवा विद्यया विद्या चतुर्थो नैव विद्यते || १/४ || परीक्ष्याऽर्हाय देयमित्याह - परीक्षिताय दातव्यं वत्सरार्धोषिताय च | परशिष्यत्वादिदोषपरीक्षणं वात्सरार्धेन सहवासेन कर्तुं शक्यते, गुरोर्विवेकित्वात् | उक्तार्थमेव द्रढयन् शिष्यप्रवृत्तये फलमाह - एतज्ज्ञात्वा वरारोहे सद्यः खेचरतां व्रजेत् || १/५ || अस्य तु महार्थत्वात् परीक्षितायैव देयम् | एतस्य परिज्ञानेनैव शिष्यः खेचरतां खे परमव्योम्नि चरतीति खेचरः शिवः | तदुक्तं चिद्गगनचन्द्रिकायाम् - दृक्क्रियात्मशशिभानुमध्यगं खे चरत्यनलदृष्टिधाम यत् | यत्तदूर्ध्वशिखरं परं नभस्तत्र दर्शय शिवं त्वमम्बिके | (श्लो. ३२) इति | सद्यस्तत्त्वं व्रजेत्, जीवन्मुक्तो भवेदित्यर्थः | तदुक्तं वेदरहस्ये - तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन (इ. उ. २०) इति || १/५ || शास्त्रमारभते - चक्रसंकेतको मन्त्रपूजासंकेतकौ तथा | त्रिविधस्त्रिपुरादेव्याः संकेतः परमेश्वरि || १/६ || संकेतवत् संकेतकः | संकेतः समयः | यथा कृतसमयौ कामिनीकामुकौ यत्र क्वापि निवसतः, एवमस्मिन् शिवाविति | चक्रसंकेतकः, मन्त्रसंकेतकः, पूजासंकेतकः - एवं त्रिविधः संकेतः | त्रिपुरादेव्या धाम - तत्त्व - पीठ - लिङ्ग - मातृकादिभ्यस्त्रिभ्योऽपि पूरा या विद्यते सा त्रिपुरा देवी प्रकाशविमर्शसामरस्यरूपिणी परा | अस्यास्त्रिविधः संकेतः | परमेश्वरि परममुत्कृष्टमिन्द्रादिभिरपि परिपाल्यमानमैश्वर्यमाज्ञा यस्याः | तदुक्तं वेदरहस्ये - भीषाऽस्माद् वातः पवते भीषोदेति सूर्यः | भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः || १/ (तै. उ. २/८) इति || १/६ || एतज्ज्ञानविहीनस्य फलवैपरीत्यमाह - यावदेतन्न जानाति संकेतत्रयमुत्तमम् | न तावत् त्रिपुराचक्रे परमाज्ञाधरो भवेत् || १/७ || यावत् एतद् वक्ष्यमाणं संकेतत्रयं यो न जानाति स तावत् त्रिपुरायाः परायाः स्वसंविदश्चक्रे मातृमानमेयलक्षणे तत्त्वसमूहे परमाज्ञाधरो न भवेत् | आज्ञा नाम निग्रहानुग्रहसामर्थ्यम् | तद्राज्ञामपि लोकेऽस्ति | तदुच्यते - परमेति | परमा सर्वलोकेष्वप्रतिहता आज्ञा परमेश्वरस्यैव | परमाज्ञाधरः परमेश्वरो भवेत् | य एतद् विजानाति स सद्यः खेचरतां व्रजेत्, यो नैतद् विजानाति स न तद्भावं व्रजेदित्यन्वयव्यतिरेक सिद्धमित्यर्थः | अत्रैतत्प्रयोजनकीर्तनमधिकारिविषयसंबन्धानामप्युपलक्षणम् | मुमुक्षुरधिकारी, स्वसंविद्देवता विषयः, मोक्षः प्रयोजनम्, प्रतिपाद्यप्रतिपादकभावः संबन्धः || १/७ || तत्रादौ चक्रसंकेतं वक्तुमुपक्रम्ते - तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् | पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसंभवः || १/८ || तच्चक्रं सृष्ट्या सृष्टिरूपेण शक्तिपञ्चकम्, स्वाभिमुखाग्रत्रिकोणं शक्तिरुच्यते, तादृशं शक्तिपञ्चकं | लयेनाग्निचतुष्टयं लयेन संहाररूपेण अग्निः, पराङ्मुखाग्रत्रिकोणमग्निरुच्यते, तच्चतुष्टयम् | एवं पञ्चशक्तीनां चतुर्वह्नीनां च संयोगात्, सम्यग् योगः संयोगः, शक्त्या शक्तिं विनिर्भिद्य (१/२९) इत्यादिचतुश्शतीशास्त्रोक्तरीत्या ग्रन्थिभेदक्रमेण समत्रिकोणशक्त्यग्रं समरेखं यथा भवति तथा लेखनं संयोगः, तस्मात् | चक्रस्य संभवो भवति || १/८ || सामान्यतश्चक्रसमुदायमुत्पाद्य इदानीमवयवशश्चक्रसंभवं प्रतिजानीते - एतच्चक्रावतारं तु कथयामि तवानघे | एतस्य श्रीमहात्रिपुरसुन्दर्याश्चक्रस्य पूजाचक्रस्यावतारम्, अवतारो नाम लोके सौधाद्युन्नतप्रदेशान्निम्नप्रदेशप्राप्तिः, अत्र तु विश्वोत्तरात् प्रकाशात्मनः परमशिवात् तत्त्वक्रमेण प्रसरः, तादृशं चक्रावतारम् | अनघे परशिष्यत्वादिदोषरहिते | तव प्रकाशात्मनो ममांशभूताया विमर्शशक्तेः | कथयामि हृदयङ्गमतां नयामीत्यर्थः | ननु कथमक्रियात् परमशिवात् तत्त्वमयं चक्रं संभवतीत्यत आह - यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी || १/९ || स्फुरत्तामात्मनः पश्येत् तदा चक्रस्य संभवः | यदा यस्मिन् काले प्राणिनामदृष्टवशात् स्वान्तःसंहृतविश्व-सिसृक्षया सैव परा शक्तिर्विमर्शरूपिणी स्वेच्छया विश्वरूपिणी विश्वं सृजति, शिवस्तटस्थ उदासीन इत्यर्थः | अत्र श्रुतिः - न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते | पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च || १/इति | (श्वे. उ. ६/८) आज्ञावतारेऽप्युक्तम् - स्वेच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपि इति | विश्वसर्जनमेव पराशक्तेः स्फुरत्ता, तस्याः सृष्टिरूपत्वात् | तदा षट्त्रिंशत्तत्त्वात्मकविश्वसृष्टिकाले चक्रस्य विश्वमयस्य परदेवताचक्रस्य संभवः | एतदेवाह - शून्याकाराद् विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः || १/१० || शून्यश्चासावकारश्चेति शून्याकारः | शून्यत्वं पुनरत्र निरस्तनिखिलप्रपञ्चत्वात् | अत एव परमशिवः | तदुक्तं संकेतपद्धत्याम् - अकारः सर्व वर्णाग्र्यः प्रकाशः परमः शिवः इति | अत्र श्रुतिः - अ इति ब्रह्म (ऐ. आ. २/३/८) इति | विसर्गान्ताद् विसर्गोऽन्ते यस्य, तस्माद् विसर्गान्तात् | बिन्दोः प्रस्पन्दसंविदः | बिन्दुरग्नीषोमात्मकः कामाख्यो रविः शिवशक्तिसामरस्यात्मा जातः | तदुक्तं चिद्गगनचन्द्रिकायाम् - भोग्यभोक्तृमयभाविमर्शगा (गां) देवि मां चिदुदधेर्दृढां दशाम् | अर्पयन्ननलसोममिश्रणस्तद्विवक्ष इह भानुजृम्भणः || १/(श्लो. २१२) इति | शिवशक्तिसामरस्यरूपकामाख्यस्य बिन्दोः संस्कारः प्रस्पन्दो दहनेन्दुरूपसितशोणबिन्दुद्वयात्मकः | अकारहकारसामरस्यबिन्दोः प्रस्पन्दात् सितशोणबिन्दुयुगलात् संविच्चिन्मयी दहनेन्दुरूपा चित्कला जायत इत्यर्थः || १/१० || प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् | प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् || १/११ || बैन्दवं चक्रम् प्रकाशविमर्शवह्निसम्पर्काद् घृतस्येव धारा विमर्शशक्तेः स्रावो जायते, अत एव प्रकाशस्य परमार्थत्वम् | स्फुरत्तालहरीयुतात् स्फुरत्ताया विमर्शशक्तेर्लहरी बिन्दुद्वयान्तरालनिःसृता हार्धकलारूपा, तथा युक्तादेवंभूतात् कामकलाक्षरात् | प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकं बैन्दवं चक्रम् | विश्वलहरीस्थानम्, विश्वलहर्यो वीचयः षट्त्रिंशत्तत्त्वरूपास्तासां स्थानम्, उत्पत्तिहेतुत्वात् | मातृत्रयात्मकं पश्यन्ती - मध्यमा - वैखरीरूपम् | एवं तत्समष्टिरूपपरमात्मात्मक-सदाशिवाख्यतुरीयबिन्दोरुत्पन्नत्वाद् बैन्दवं चक्रं मध्यत्रिकोणं प्रसृतम् | एतदत्रैव वक्ष्यति - आत्मनः स्फुरणं पश्येत् (१/३६) इत्यादि, वैखरी विश्वविग्रहा (१/४०) इत्यन्तेन, चक्रं कामकलारूपं प्रसारपरमार्थतः (१/२४) इति च | एतत् कामकलाविलासेऽप्यस्मद्गुरुभिः प्रपञ्चितम् - स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणी परा शक्तिः | अणुतररूपानुत्तरविमर्शलिपिलक्ष्यविग्रहा भाति || परशिवरविकरनिकरे प्रतिफलति विमर्शदर्पणे विशदे | प्रतिरुचिरुचिरे कुड्ये चित्तमये नविशते महाबिन्दुः || चित्तमयोऽहङ्कारः सुव्यक्ताहार्णसमरसाकारः | शिवशक्तिमिथुनपिण्डः कवलीकृतभुवनमण्डलो जयति || सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्प्रसरम् | वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् || बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः | कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू || इति कामकला विद्या देवी चक्रक्रमात्मिका सेयम् | विदिता येन स मुक्तो भवति महात्रिपुरसुन्दरीरूपः || १/(का. वि. श्लो. ३-८) इत्यादि || १/११ || एतस्य त्रिरूपत्वं पुनर्भवेत् एतस्य त्रिकोणात्मनश्चक्रस्य पुनस्त्रिरूपत्वं भवेत् | पुनः शब्देन पूर्वोक्तस्यैव गुणान्तरकथनं गम्यते | इदमेव त्रिकोणात्मकं भूयोऽपि शक्तितत्वं सृष्ट्या वह्नित्वं च संहारात्मना प्रतिपद्य तत् त्रिधाऽभूदित्यर्थः | एवं कृते सवासनं नवयोनिचक्रं निष्पद्यत इत्याह - धर्माधर्मौ तथात्मनौ मातृमेयौ तथा प्रमा || १/१२ || नवयोन्यात्मकमिदं चिदानन्दघनं महत् | धर्माधर्मौ पुण्यापापे | आत्मानः आत्मा, अन्तरात्मा, परमात्मा, ज्ञानात्मा चेति चत्वारः | मातृमेयौ माता जीवः, मेयो ग्राह्यवर्गः | प्रमा ज्ञप्तिः || १/१२ || एवमेतन्नवमयं नवयोन्यात्मकं चक्रं चिदानन्दघनम् | चित् चैतन्यकला, आनन्दो विश्वाहन्तापरिणामः, ताभ्यां घनं बहिरन्तर्निबिडम् | यथा लवणं घनम् | महद् देशकालाकारैरनाकलितम्, चिन्मयत्वात् | प्रथमं त्रिकोणस्य पश्यन्त्यादित्रितयहेतुत्वात् तन्मयतां प्रतिपाद्य इदानीं बाह्यचक्रस्य वैखरीमयतां तदुत्थितां तत्त्वस्वरूपतां च कथयति चक्रमित्यादिना वामारूपभ्रमित्रयमित्यन्तेन (श्लो. १३-१९) - चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् || १/१३ || इदं चक्रं त्रिकोणत्रयरूपेण नवात्मकं त्रैलोक्यमोहनादि-नवचक्रात्मना परिणतं नवधा भिन्नमन्त्रकं वक्ष्यमाणकर- शुद्ध्यादिनवचक्रेश्वरीमन्त्रनवकभेदवत् || १/१३ || बैन्दवासनसंरूढसंवर्तानलचित्कलम् | अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् || १/१४ || बैन्दवासनं महाबिन्द्वात्मकसदाशिवासनम् | अत्रैव वक्ष्यति - सदाशिवासनं देवि महाबिन्दुमयं परम् (२/५६) इति | शिवशक्त्योः सदाशिवतत्त्वोपरि स्थितत्वाद् बैन्दवासनसंरूढत्वम् | संवर्तानलो लयानलः, यत्र क्षित्यादिशिवपर्यन्तं लीयते तदनलरूपं सकलवर्णाद्यभूतमनुत्तरं प्रकाशात्मकं संवर्तानलः | चिदेव कला चित्कला विमर्शात्मिका सर्व वर्णान्त्यभूतहार्धकलारूपा | तदुक्तं संकेतपद्धत्याम् - अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः | हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः || १/इति | बैन्दवासनसंरूढे संवर्तानलचित्कले यस्मिन् तत्, तथैवं त्रिकोणं शिवशक्तिसामरस्यरूपमहाबिन्दुमयमध्यचक्रोत्पन्नत्वाद्-अम्बिकारूपम् | अष्टारस्थं त्रिकोणस्पन्दत्रयसमुत्पन्नत्वादष्टकोणस्य तत इदं त्रिकोणमष्टारस्थम् | स्वरावृतम् अकारादिबिन्द्वन्तपञ्चदशस्वरैस्-त्रिधा विभक्तैराकलितरेखात्रयम्, अःस्वराक्रान्तमध्यम् | तदुक्तमभियुक्तैः - विभाव्य च महात्र्यस्रं समरेखं स्वरोदरम् (सु. ४१) इति | अयमर्थः - इदमेव त्रिकोणचक्रं नवचक्रात्मना परिणतं त्रिपुरादिनवचक्रेश्वरी करशुद्ध्यादितत्तन्मन्त्रनवककलितम्-अष्टकोणमध्यगतं षोडशस्वरावृतम् अम्बिकाशान्तासामरस्यरूप- महाबिन्दुमयसदाशिवासनारूढप्रकाशविमर्शात्मककामेश्वरकामेश्वर्यधिष्ठितमि ति || १/१४ || १/ उपरितनचक्रं सवासनमुत्पादयति - नवत्रिकोणस्फुरितप्रभारूपदशारकम् | शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् || १/१५ || भूततन्मात्रदशकप्रकाशालम्बनत्वतः | नव च त्रिकोणं च नवत्रिकोणानि | त्रिकोणशब्देन त्रिकोणमध्यगतं बैन्दवं लक्ष्यते | नवत्रिकोणानां बैन्दवस्य च परितः स्फुरिताः प्रतीयमानाः प्रभा दश, तद्रूपं दशारं यत्र | यद् यथा परिणमते तत् तथाविधम् | शक्तिः रेफः | तदुक्तमुद्धारोर्ध्वतन्त्रे रमाशक्तिबीजोद्धारे - चन्द्रः शक्तिर्महाशक्तिर्ब्रह्माणी कालिकादिकम् इति | शक्ते रेफस्यादिर्यकारः, शक्त्यादियकारमारभ्य नवानां वर्णानां पर्यन्तगः क्षकारः, तेषां दशानां स्फूर्तिकारकम् | स्फूर्तिर्विमर्शः | यकारादिक्षकारान्तदशवर्णविमर्शकमित्यर्थः || १/१५ || भूतानि पृथिव्यप्तेजोवायवाकाशाः, तन्मात्राः पञ्च गन्धरसरूपस्पर्शशब्दाः, तेषां दशानां प्रकाशा दश, तेषामालम्बनत्वात् | शिवात्मकत्वात् पृथिव्याद्यर्थानाम्, शक्त्यात्मकत्वाद् यकारादिवर्णानाम् | तदुभयप्रकाशविमर्शमयदशकोणावृतमिदं चक्रमित्यर्थः | पृथिव्यादिक्षकारान्तवर्णदशकमयताकथनेन प्रथमदशारादिचक्रत्रयस्य स्थितिरूपता द्योत्यते | द्वितीयदशारमाह - द्विदशारस्फुरद्रूपं क्रोधीशादिदशार्णकम् || १/१६ || द्वितीयदशारं द्विदशारम् | रूप्यन्त इति रूपा इन्द्रियार्था दश, शब्दादयो वचनादयश्च, द्वितीयदशारतया स्फुरन्तो रूपा यस्य तत् तथाविधम् | क्रिधीशः ककारः | ककारादिदशवर्णवत् | कोऽर्थः ? बैन्दवत्रिकोणाष्टकाणचक्रेषु मध्यस्थितप्रकाशविमर्शमय-दीपद्वयदीपितेषु तद्दशकप्रभाच्छायादशकद्वयमययकारिदि- पृथिव्यादिककरादिशब्दादिदशकद्वयात्मकं दशार (चक्रद्वयं जातमित्यर्थः | तदुक्तं कामकलाविलासे - नवकोणमध्यमञ्चास्मिंश्चिद्दीपदीपिते दशके | तच्छायाद्वितयमिदं) चक्रद्वयात्मना दृष्टम् || १/(श्लो. २९ - ३०) इति | ननु-भूततन्मात्रदशकप्रकाशालम्बनत्वतः (१/१६) इत्यत्रैव शब्दादीनामुक्तत्वात् पुनः द्विदशारस्फुरद्रूपम् (१/१६) इत्यत्रापि रूपशब्देनापि कथं गृह्यन्ते ? मैवम्, तन्मात्रपदेन भूतसूक्ष्माणामनिन्द्रियगोचराणां ग्रहणम्, रूपशब्देन तु भूतगुणाः शब्दादयः श्रोत्रादिग्राह्या गृह्यन्ते, अतो न विरोधः || १/१६ || चतुर्दशारमाह - चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः | चतुर्दशाररूपेण संवित्तिकरणात्मना || १/१७ || खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् | चत्वारि चक्राणि बैन्दवत्रिकोणाष्टकोणप्रथमदशाररूपाणि, तेषां प्रभाश्चतस्रः | विप्रकृष्टत्वात् प्रभामात्रमेव गम्यते | यथा बहवो वृक्षा वनमिति नावयवभेदः, तथा | तच्चक्रप्रभाचतुष्टयसंयुक्तस्य द्वितीयदशारस्य सन्निकृष्टत्वादवयवप्रतीतिस्तत्प्रभाचतुष्टयसमवेत- द्वितीयदशारावयवदशकपरिणामत्वात् | चतुर्दशाररूपेण संवित्तिंकरणात्मना | संवित्तिः ज्ञानम् | संवित्तिशब्देन क्रियापि लक्ष्यते | करणानि इन्द्रियदशकं श्रोत्रादिकं वागादिकं च, मनोबुद्ध्यहङ्कारचित्तानि चतुर्दश, तदात्मना || १/१७ || खेचरी टकारः, जया भकारः, टकारादिभकारान्ताश्चतुर्दश वर्णाः, तेषां परमार्थप्रथा कारणभूता प्रथा विमर्शस्तन्मयम् | कोऽर्थः ? मध्यचक्रमेव त्रिकोणाष्टकोणद्विदशकोणक्रमेण श्रोत्रादिज्ञानेन्द्रियवागादिकर्मेन्द्रियमनोबुद्ध्यहङ्कारचित्तात्मककरण-चतुर्दशक् - टकारादिभकारान्तवर्णचतुर्दशकप्रकाशविमर्शमय-चतुर्दशाररूपेण परिणतमित्यर्थः | त्रिकोणचक्रस्य - अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् (१/१४) इत्यत्राम्बिकारूपतामुक्त्वेदानीमष्टारादिचतुर्दशारपर्यन्तस्य श्रीचक्रस्य रौद्रीरूपतामाह - एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् || १/१८ || एवमुक्तप्रकारेण शक्त्यनलाकारेण पञ्चशक्तिचतुर्वह्निरूपेण स्फुरच्चक्रं द्विचत्वारिंशद्योन्यात्मकं रौद्रीप्रभामयं रौद्रीशक्तिविस्फारविजृम्भितमित्यर्थः || १/१८ || शिष्टं चक्रमाह - ज्येष्ठारूपचतुष्कोणं वामारूपभ्रमित्रयम् | ज्येष्ठाशक्तिरूपाणि चतुष्कोणानि चतुरस्राणि त्रीणि यस्य तज्ज्येष्ठारूपचतुष्कोणम् | वामाशक्तिरूपं भ्रमित्रयं वृत्तत्रयं यस्य तत् | भ्रमित्रयशब्देन तदन्तरालस्थितपद्मद्वयमपि लक्ष्यते | अत्र वक्ष्यति - पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च (१/७४) इति | अत्र वामारूपभ्रमित्रयं ज्येष्ठारूपचतुष्कोणमिति पाठे युक्तेऽप्यम्बिकादिशक्तिपाठक्रमाज्ज्येष्ठारूपचतुष्कोणं वामारूपभ्रमित्रयमित्युक्तं देवेन | पुनरस्यैव चक्रस्य वासनान्तरमाह् - चिदंशान्तस्त्रिकोणं च शान्त्यतीताष्टकोणकम् || १/१९ || शान्त्यंशद्विदशारं च तथैव भुवनारकम् | विद्याकलाप्रभारूपदलाष्टकसमावृतम् || १/२० || प्रतिष्ठावपुषा स्पष्टस्फुरद्द्व्यष्टदलाम्बुजम् | निवृत्त्याकारविलसच्चतुष्कोणविराजितम् || १/२१ || चिदंशः चित्कला, तन्मयमन्तस्त्रिकोणम् | शान्त्यतीता - शान्ति - विद्या - प्रतिष्ठा निवृत्तयो गगनादिपञ्चभूतकलाः | तन्मयमेतच्चक्रमित्यर्थः | अवयवार्थस्तु स्पष्ट एव || १/१९-२१ || अस्यैव चक्रस्य संहारक्रमेण वासनान्तरमाह त्रैलोक्यमोहनाद्ये तु इत्यादि क्रिया शेषम् इत्यन्तेन (श्लो. २२-२४) त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि | नादो बिन्दुः कला ज्येष्ठा रौद्री वामा तथा पुनः || १/२२ || विषघ्नी दूतरी चैव सर्वानन्दा क्रमात् स्थिताः | अत्र तुशब्दः पूर्वोक्तकामकलारूपत्वप्रतिपादनप्रसङ्गपरि-समाप्तौ | त्रैलोक्यमोहनाद्ये तु इत्यत्र आद्यशब्देन सर्वाशापरिपूरकादि-चक्राण्युच्यन्ते | तेषां नामान्युत्तरत्र वक्ष्यति | त्रैलोक्यमोहनाद्ये नवचक्रे, जातावेकवचनम्, त्रैलोक्यमोहनाद्येषु नवचक्रेष्वित्यर्थः | नादादिसर्वानन्दान्ता नव शक्तयस्त्रैलोक्यमोहनादिबैन्दवान्तनवचक्रेषु क्रमेणाधिवसन्तीत्यर्थः | पदार्थः स्पष्ट एव || १/२२ - २३ || पूर्वम् अम्बिकारूपमेवेदम् (१/१४) इत्यादिना प्रकाशांशा-नामम्बिकादीनां चतुर्णां त्रिकोणादिचतुरस्रान्तवासनामयता-मुक्त्वेदानीं विमर्शांशानां शान्तादीनां चतुर्णां चतुरस्रादिबैन्दवान्तचक्रमयतावासनामाह - निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् || १/२३ || ज्येष्ठा ज्ञानं क्रिया शेषम् निरंशा शान्ता शक्तिः, शान्ताया निरंशत्वं चिद्रूपत्वात् | तेन निरंशौ नादबिन्दू द्वावपि शान्ताशक्तिमयौ | नादबिन्दुरूपं चतुरस्रषोडशदलात्मकम् चक्रद्वयं शान्ताशक्तिमयमित्यर्थः | कला चेच्छास्वरूपकम् इच्छायाः स्वरूपं कलारूपम्, अष्टदलपद्ममिच्छाशक्तिमयमित्यर्थः | ज्येष्ठा ज्ञानं ज्ञानशक्तिरेव ज्येष्ठारूपम्, चतुर्दशारं ज्ञानशक्तिमयमित्यर्थः | क्रिया शेषं रौद्री-वामा-विषघ्नी-दूतरी-सर्वानन्दाख्यशक्तिपञ्चकरूपं द्विदशाराष्टकोणत्रिकोणबैन्दवाख्यचक्रपञ्चकं क्रियाशक्तिमयमित्यर्थः || २३ || पूर्वं चक्रस्य शून्याकारात् (१/१०) इत्यारभ्य कामकलारूपतां प्रतिपाद्येदानीमुपसंहरति- इत्येवं त्रितयात्मकम् | चक्रं कामकलारूपं प्रसारपरमार्थतः || २४ || एवम् उक्तप्रकारेण त्रितयात्मकं वामादिमातृशक्तित्रयमयं चक्रं बिन्दुत्रितयमयं कामकलाक्षररूपम् | प्रसारपरमार्थतः | यद् यस्मात् प्रसृतं तत् तस्य परमार्थस्तद्रूपं च तत् | यदा मृद् घटस्य मृद्रूपश्च घटः, तन्तवः पटस्य तन्तुरूपश्च पटः | एवं कामकलाक्षरात् पसृतस्य श्रीचक्रस्य कामकलाक्षरं परमार्थः, तद्रूपं बैन्दवं चक्रमित्यर्थः || २४ || पुनरस्यैव चक्रस्य प्रकारान्तरेण वासनान्तरमाह अकुले विषुसंज्ञे च इत्यादिना परानन्दविघूर्णितम् इत्यन्तेन (श्लो० २५-३५)- अकुले विषुसंज्ञे च शाक्ते वह्नौ तथा पुनः | नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे || २५ || इन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च | शक्तौ पुनर्व्यापिकायां समनोन्मनिगोचरे || २६ || महाबिन्दौ अकुले, कुलादन्यदकुलम्, सुषुम्नामूलसंस्थितारुणसहस्रदलकमलमकुलं नाम | तदुपर्यष्टदलपद्मोर्ध्वस्थितं षड्दलं कुलपद्मम् | तदुक्तं स्वछन्दसंग्रहे- अधश्चोर्ध्वं सुषुम्नायाः सहस्रदलसंयुतम् | रक्तं श्वेतं च साहस्रदलस्थं शक्तिभिर्युतम् || ऊर्ध्वाधोमुखमीशानि कर्णिकाकेसरान्वितम् | शक्तिरूपं महादेवि कुलाकुलमयं शुभम् || पङ्कजद्वयमीशानि स्थितं शाश्वतमव्ययम् | तयोर्मध्ये सुषुम्नान्तस्त्रिंशदाधारपङ्कजम् || शक्तिरूपं शिवाकारं शर्वाण्याः सन्निजालयम् | तेषां रूपं क्रियां चैव क्रमाद् वक्ष्येऽधुना शृणु || गुदमेढ्रान्तरं देवि पञ्चाङ्गुलसमुच्छ्रितम् | कन्दमेकाङ्गुलं मध्ये द्वयाङ्गुलविसारणम् || तस्य मध्ये महायोनिस्त्रिकोणाकाररूपिणी | सुषुम्ना योनिमध्यस्था तस्या मूले महेश्वरि || अधःपद्मं सहस्रारं कर्णिकाकेसरान्वितम् | तैजसं रत्नसंदीप्तं तद्दलस्थितशक्तिभिः || प्रतिकिञ्जल्कसंस्थाभिः शक्तिभिः संवृतं प्रिये | कर्णिकामध्यतो देवि कुलदेवी च संस्थिता || तत्पद्मोर्ध्वं सुषुम्नाया मध्ये त्वेकाङ्गुलोपरि | पद्ममष्टदलैर्युक्तमष्टग्रन्थिसमन्वितम् || रक्तं सुकर्णिकोपेतं रक्तकिञ्जल्कशोभितम् | ग्रन्थ्यग्रस्थत्रिशृङ्गं च ब्रह्माण्याद्यष्टभैरवैः || अष्टपत्रस्थितग्रन्थिस्थितवामादिशक्तिभिः | तदन्यशक्तिभिश्चैव शृङ्गस्थाभिः समावृतम् || तन्मध्ये कौलशक्त्या तु सेवितं च स्मरेत् ततः | एकाङ्गुलप्रमाणोर्ध्वं षड्दलं कुलपङ्कजम् || इति | ननु कुलादन्यदकुलमिति चेदर्थस्तर्हि तदन्तरालस्थिताष्टदलपद्मस्याप्यकुलत्वं किं न स्यादित्यत आह विषुसंज्ञे चेति | विषॢ व्याप्तौ (१०९५ जु०) | यत् सुषुम्नां तदन्तर्गतत्रिंशत्पङ्कजानि च व्याप्नोति, तत्सहस्रदलकमलं विषुवम्, तस्य सर्वाधारत्वात् | ततो नाष्टदलकमलमकुलमित्यर्थः | शाक्ते वह्नाविति | अत्र वह्नौ शाक्त इति व्यत्ययेन पठितव्यम् | वह्निर्मूलाधारः, वह्निबिम्बाधारत्वात् | तदुक्तं स्वच्छन्दसंग्रहे- आधारपङ्कजं पीतं चतुष्पत्रं सुकेसरम् | अधोमुखं च तन्मध्ये कुण्डली परमेश्वरी || स्वयम्भुमध्यगा चिन्त्या वरदादिभिरावृता | पार्थिवं पङ्कजं ह्येतत् तस्योर्ध्वं पङ्कजं परम् || तैजसं परमेशानि तन्मध्यस्थितशक्तयः | निष्कलाः परमेशानि विद्युत्पुञ्जनिभाः स्मरेत् || तदूर्ध्वे कर्णिकामध्ये वह्निबिम्बं तदूर्ध्वगम् | पूर्णपीठं च तन्मध्ये शाकिनी संस्थिता शिवे || इति | शाक्ते, शक्तिः हृल्लेखा, तदुर्ध्वस्थितत्वाच्छाक्तं स्वाधिष्ठानं षडस्रकमलम् | तदुक्तं स्वच्छन्दसंग्रहे- आधारपङ्कजस्योर्ध्वे सार्द्धद्व्यङ्गुलकोपरि | तैजसं साष्टपत्रं च पीतकर्णिकया युतम् || हृल्लेखाकर्णिकामध्ये स्थितानङ्गादिसेविते | एतस्माद् द्व्व्यङ्गुलादूर्ध्वे स्वाधिष्ठानं षडस्रकम् || आप्यं च बन्दिनीशक्तिपूर्वाभिः शक्तिभिर्वृताम् | काकिनीमभिसंचिन्त्य - - - - - - - - - - - - - - - - - - - - - - || इति | नाभौ दशदलकमले मणिपूरके | तदुक्तं तत्रैव- नाभिस्त्र्यर्धाङ्गुलोपरि | तत्पद्मं मणिपूरं च दशपत्रं सुशोभनम् || लाकिनीमध्यगं तच्च डामर्यादिभिरावृतम् | इति | अनाहते हृदयस्थाने द्वादशदलकमले | तदुक्तं तत्रैव चतुर्दशाङ्गुलादुर्ध्वे मणिपूराख्यपङ्कजात् | पङ्कजं राकिनीमध्यं द्वादशारमनाहतम् || तत्रस्थकालरात्र्यादिशक्तिभिश्च समावृतम् | तत्रस्थसूर्यबिम्बं तु नादोड्यानाख्यपीठकम् || इति | शुद्धे कण्ठस्थितषोडशदलकमले | तदुक्तं तत्रैव तस्मादेकाङ्गुलादूर्ध्वे विशुद्धं षोडशारकम् | मध्यगा डाकिनो बाह्यपुत्रेषु परमेश्वरि || अमृताद्यक्षरान्तस्थाश्चन्द्रबिम्बं तदूर्ध्वतः | इति | लम्बिकाग्रे अष्टदलकमले | तदुक्तं तत्रैव कण्ठोर्ध्वे परमेशानि लम्बिका चतुरङ्गुले | तस्यामष्टदलं पद्मं वशिन्यादिभिरावृतम् || इति | भ्रुवोऽन्तरे आज्ञायां द्विदलकमले | तदुक्तं तत्रैव आज्ञाधारं द्विपत्राब्जं हक्षद्विदलसंयुतम् | हंसवतीक्षमापार्श्वं तयोर्मध्ये तु हाकिनी || इति | भ्रुव इत्येकवचनं भ्रूद्वयोपलक्षणम् | भ्रुवोरन्तर इत्यर्थः | इन्दौ बिन्दौ | बिन्दुतदर्धरोधिनीनाद- नादान्तशक्तिव्यापिकासमनोन्मनीनामुपर्युपरि रूपाण्युच्चारणकालं च वक्ष्यति | महाबिन्दौ परमादाख्ये देशकालरूपवर्जिते | बिन्द्वाद्युन्मन्यन्ता भागाः सूक्ष्माः सूक्ष्मतराः स्वदेहचक्रविद्यानां साधारणाः | कोऽर्थः ? अत्र त्रैलोक्यमोहनादिबिन्द्वन्तान् स्थूलसूक्ष्मसूक्ष्मतरान् चक्रभागानकुलाद्युन्मन्यन्तेषु स्थूलसूक्ष्मसूक्ष्मतरेषु भागेषु महाबिन्दौ च विभावयेदित्यर्थः || २५-२६ || पुनरपि त्रैविध्यमाह- पुनश्चैवं त्रिधा चक्रं तु भावयेत् | एवमुक्तप्रकारेण विभावितं चक्रं पुनस्त्रिधा भावयेत् | त्रैविध्यमाह- आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् || २७ || उन्मन्यन्तं परे स्थाने निष्कलं च त्रिधा स्थितम् | आज्ञान्तम् अकुलाद्याज्ञापर्यन्तं चतुरस्रादित्रिकोणान्तं चक्राष्टकं स्थूलं भावयेत् | तद्भावनं सकलम् | ततो बिन्दुमारभ्य उन्मन्यन्तं चक्रसूक्ष्मसूक्ष्मतरभागान् भावयेत् | तद्भावनं सकलनिष्कलम् | परे स्थाने महाबिन्दौ शुद्धशून्यसंविदं भावयेत् | तद्भावनं निष्कलम् | एवं त्रिधा स्थितम् | अकुलाद्याज्ञान्तास्तन्त्रान्तरेषु विस्तरेणोक्ताः, अतो नात्रोक्ताः || २७ || बैन्दवाद्युन्मन्यन्तानां स्वरूपमुच्चारणकालं स्थानं चाह दीपाकारः इत्यादिना मनोन्मनी इत्यन्तेन (श्लो० २८-३४)- दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते || २८ || दीपाकारः, दीपस्य यादृशं भासनं तादृशमस्येत्यर्थः | अर्धमात्रः | ह्रस्वस्योच्चारणकालो मात्रोत्युच्यते | मात्राया अर्धमुच्चारणकालो यस्य सोऽर्धमात्रः | ललाटे वृत्त इष्यते | वर्तुलसंनिवेशो ललाटे भ्रुवोरुपरिभागे | दीपाकारोऽर्धमात्रोच्चारणकालो वृत्तसंनिवेशो बिन्दुरित्यर्थः | बिन्द्वादीनां तु विस्तारः स्वच्छन्दसंग्रहे प्रपञ्चितः | तत्र बिन्दोर्यथा बिन्द्वावरणमूर्ध्वतः | सूर्यकोटिप्रतीकाशमतिदीप्तं महद्गुणम् || तन्मध्ये दशकोटीनां संख्यायोजनपङ्कजम् | तत्कर्णिकायामासीनः शान्त्यतीतेश्वरः प्रभुः || पञ्चवक्त्रो दशभुजो विद्युत्पुञ्जनिभाकृतिः | निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरनुक्रमात् || परिवार्य स्थिताश्चैताः शान्त्यतीतस्य सुन्दरि | वामभागे समासीना शान्त्यतीता मनोन्मनी || पञ्चवक्त्रधराः सर्वा दशबाह्विन्दुभूषणाः | बिन्दुतत्त्वं समाख्यातं कोट्यर्बुदशतैर्वृतम् || इति || २८ || अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके | ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा || २९ || अर्धचन्द्रः बिन्दोरर्धभागः, तथाकारः दीपाकार एव | पादमात्रः मात्राकालस्य चतुर्थभागोच्चारणकाल इत्यर्थः | तदूर्ध्वके बिन्दोरूर्ध्वभागे | बिन्दूपरिदेशे पादमात्रोच्चारणकालो दीपाकारोऽर्धचन्द्र इत्यर्थः | ज्योत्स्नाकारा चन्द्रिकासमकान्तिः, तदष्टांशा मात्राष्टांशोच्चारणकाला, त्र्यस्रविग्रहा त्रिकोणाकारा रोधिनी | द्वयोरपि स्वच्छन्दसंग्रहे प्रपञ्चो यथा अर्धचन्द्रस्तदूर्ध्वे तु रोधिनी तस्य चोपरि | ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमलापि च || अर्धचन्द्र स्थिता ह्येताः कलाः पञ्च प्रकीर्तिताः | रुन्धिनी रोधिनी रोधा ज्ञानरोधा तमोपहा || निरोधिकाकलाः पञ्च कथितास्तव सुन्दरि | ब्रह्मादिपरमेशानां परप्राप्तिनिरोधननात् || निरोधिकेति सा प्रोक्ता तस्या भेदाद् वरानने | परसादाख्यसम्प्राप्तिः -- - - - - - - - - - - - - - || इति || २९ || बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः | कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः || ३० || हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते | बिन्दुद्वयमध्यगत ऋजुरेखाकारः शेवरूपः, मुष्कद्वयमध्यगता शिरा शेव इत्युच्यते, तत्तुल्यरूपः | मणिप्रभः पद्मरागसवर्णवर्णः | कलांशः, कलाः षोडशमात्राः, षोडशांशोच्चारणकाल इत्यर्थः | स पुनः कलांशो नादस्तन्त्रेणोच्यते | कलो नादस्तु गम्भीरे ध्वनौ तु मधुरास्फुटे इत्यमरः | मधुरास्फुटो ध्वनिर्नादः | नादप्रपञ्चः स्वच्छन्दसंग्रहे यथा रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः | पद्मकिञ्जल्कसंकाशः कोटिसूर्यसमप्रभः || पुरैः परिवृतोऽसंख्यैर्मध्ये पञ्चकलावृतः | इन्धिका दीपिका चैव रोचिका मोचिका तथा || ऊध्वर्गा मध्यगा तासां पञ्चमो परमा कला | चन्द्रकोटिसमप्रख्यं तन्मध्येऽर्बुदयोजनम् || पद्ममध्ये समासीनमीश्वरं चोर्ध्वगामिनम् | चन्द्रायुतप्रतीकाशं पञ्चवक्त्रं त्रिलोचनम् || इन्धिकाद्यैर्वृतं देवं शूलपाणिं जटाधरम् | तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् || ध्यायेत् - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - || इति | विद्युदुज्ज्वलः तडित्सदृशकान्तिः | हलाकारः लाङ्गलसदृशरूपः | सव्यस्थबिन्दुयुक्तः बिन्दुद्वयमध्ये दक्षिणभागस्थितबिन्दुयुक्तः | द्विगुणांशश्च पूर्वोक्तषोडशांशानां द्विगुणांशो द्वात्रिंशत्तमो भागः | कुऽर्थः ? मात्राद्वात्रिंशत्तमांशोच्चारणकालो हलाकारादिविशेषणविशेषितो नादान्त इत्यर्थः | नादस्यान्तो लयो भवति | यत्र ब्रह्मरन्ध्रे, तस्य प्रपञ्चः स्वच्छन्दसंग्रहे यथा हलाकारस्तु नादान्तो भित्वा सर्वमिदं जगत् | अधःशक्त्या विनिर्भिद्य ऊर्ध्वशक्त्यवसानकः || नाड्यां ब्रह्मबिले लीनस्त्वव्यक्तध्वनिलक्षणः | अतो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदैर्युतम् || तत्र ब्रह्मशिवो ज्ञेयः शशाङ्कशतसन्निभः | दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः || ब्रह्माणी त्वपरा शक्तिर्ब्रह्मणोत्सङ्गगामिनी | द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिता || इति || ३० || शक्तिर्वामस्थबिन्दूद्यत्स्थिराकारा तथा पुनः || ३१ || व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता | पुनःशब्देन पूर्वेभ्यो विशेषो द्योत्यते | पूर्वेषां बिन्द्वाद्यंशानां स्वरूपवर्णमात्राकालांशा अभिकल्पिताः | शक्तिमारभ्य समनान्तानामंशानां स्वरूपवर्णमात्राकालाः पश्चाद् वक्ष्यन्त इत्यर्थः | शक्तिर्बिन्दुद्वयमध्ये वामभागस्थबिन्दूद्यत्स्थिराकारा | शक्तिप्रपञ्चः स्वच्छन्दसंग्रहे यथा शक्तितत्त्वं समाख्यातं भुवनैरावृतं महत् | आधारं भुवनानां च प्रवक्ष्यामि समासतः || सूक्ष्मा चैव सुसूक्ष्मा च तथा चैवामृता मृता | चतुर्दिक्षु स्थितास्तासां मध्यस्था व्यापिनी स्मृता || पञ्चवक्त्रा त्रिनेत्रा च सुतेजस्का च पञ्चमी | शक्तितत्त्वं समाख्यातं ध्यानान्मुक्तिफलप्रदम् || इति | व्यापिका बिन्दोर्विलासाद् वामादित्रिशक्तिमया त्रिकोणरूपतां गतेत्यर्थः | इयं तु शक्तितत्त्वकथनेनैव कथिता स्वच्छन्दसंग्रहे यथा-सूक्ष्मा चैव इत्यादि स्थिताः इत्यन्तं पूर्वोक्तम् || ३१ || बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः || ३२ || समना बिन्दुविलसदृजुरेखा तथोन्मना | स्पष्टम् | समनायाः प्रपञ्चः स्वच्छन्दसंग्रहे चिदानन्दस्वरूपा तु पराशक्तिस्तदूर्ध्वतः | समना नाम सा शक्तिः सर्वकारणकारणम् || सर्वाण्डानि बिभर्तीयं शिवेन समधिष्ठिता | अत्रारूढः स भगवान् शिवः परमकारणम् || सृष्टिं स्थितिं च संहारं तिरोभावमनुग्रहम् | शिवः करोति सततं सर्वकारणकारणम् || शिवः सर्वस्य कर्तेयं शक्तिः कारणमिष्यते | एकस्मादेव बिन्दोर्विलसदृजुरेखारूपा उन्मना | उन्मनायाः प्रपञ्चः स्वच्छन्दसंग्रहे यथा - या शक्तिः कारणत्वेन तदूर्ध्वे उन्मना स्मृता | मनः संक्रमते यत्र तेन सा उन्मना स्मृता || नात्र कालकलाभानं न तत्त्वं न च देवता | सुनिर्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते || शिवशक्तिरिति ख्यातं निर्विकल्पं निरञ्जनम् | इति || १/३२ || शक्त्यादीनां समनान्तानां वर्णं मात्रांशकालं चाह - शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसंनिभम् || १/३३ || चतुष्षष्टिस्तदूर्ध्वं तु द्विगुणं द्विगुणं ततः | शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी || १/३४ || मनोन्मन्या मनोन्मनीपर्यन्तम् | मनोन्मनी नाम समना, मनःसहितत्वात्, तद्रहितत्वादुन्मनीत्युच्यते | शक्त्यादीनां मनोन्मनीपर्यन्तानामंशानां वपुः स्वरूपं स्फूर्जद्द्वादशादित्यसंनिभम् | एकत्र हेलयोदितद्वादशादित्यसवर्णवर्णम् | मात्रांशश्चतुष्षष्टिः मात्रांशकालश्चतुष्षष्टितमोंऽश इत्यर्थः | तदूर्ध्वं तु व्यापिकाया मात्रांशोच्चारणं द्विगुणं व्यापिकोच्चारणमात्रावयवकालोऽष्टाविंशत्युत्तरशततमो भाग इत्यर्थः | ततः समानोच्चारणमात्रावयवकालः षडधिकपञ्चाशदुत्तरद्विशततमो भाग इत्यर्थः | उन्मनी यथेदानीं कथितविशेषणा तथा निराकारा निरुच्चारा, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै. उ. २/४) इत्युपनिषदुक्तरीत्या वाङ्मनोऽतीतगोचरत्वादुन्मनीत्युच्यते | महाबिन्दौ चाकाररूपवर्णोच्चारकाला न विद्यन्ते | अतो नात्रोच्यन्ते, तस्य विश्वोत्तीर्णत्वात् | तदुक्तं स्वच्छन्दसंग्रहे - तत्त्वातीतं वरारोहे वाङ्मनोऽतीतगोचरम् || अनिष्कलं चासकलं नीरूपं निर्विकल्पकम् | निर्द्वन्द्वं परमं तत्त्वं शिवाख्यं परमं पदम् || १/इति | हकारादिबिन्द्वन्तानां स्थूलवर्णानामुच्चारणकालो मात्रा, बिन्द्वादिसमनान्तानामर्धमात्रा | तदर्धादिक्रमेण लवपर्यन्तमुच्चारणकालः | लवो नाम नलिनीपत्रसंहत्यां सूक्ष्मसूच्यभिवेधने | दले दले तु यः कालः स कालो लववाचकः || १/(प्र. सा. १/२९) इति वचनात् | तदूर्ध्वं शून्य एव, तदधिकसूक्ष्मतरकालाभावात् | एवंविधभावनया शिव एव भूयादित्यर्थः | तदुक्तं विज्ञानभैरवभट्टारकैः - पिण्डरूपस्य मन्त्रस्य स्थूलवर्णक्रमेण तु | अर्धेन्दुबिन्दुनादान्तशून्योच्चाराद् भवेच्छिवः || १/इति | (वि. भै. , श्लो. ४२) अत्र बिन्द्वर्धेन्दु इति वक्तव्ये वृत्तानुरोधेन व्यत्यासः | बिन्द्वर्धेन्दुनादान्तशून्योच्चाराद् भवेच्छिव इति प्रत्याहाररीत्या ग्रहणम् | अर्धेन्दोरुपरि रोधिनीनादयोर्नादान्तस्य चोपरि शक्तिव्यापिकासमनानां च विद्यमानत्वात् | शून्यशब्देनोन्मना उच्यते | अतोऽर्धेन्दुबिन्दुनादान्तशून्योच्चाराद् भवेच्छिव इति पिण्डरूपस्य मन्त्रस्य संग्रहेणोक्तिः || १/३३- ३४ || देशकालानवच्छिन्नं तदूर्ध्वे परमं महत् | निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् || १/३५ || तदूर्ध्वे हकारादिमहाबिन्द्वन्तानां सकल-सकलनिष्कल-केवलनिष्कलानां त्रयाणामप्यूर्ध्वे | परमं महत् | महत्वं घटादीनामप्यस्ति न्यूनपरिमाणापेक्षया, अत उक्तं परममिति | यतः परं महत्त्वं नास्ति तत् परमं महत् | अत एव देशकालानवच्छिन्नम् | देशकालाकरैरनवच्छिन्नमेव परमं महदित्युच्यते | तेन निसर्गसुन्दरम् | लोकेऽसुन्दरमपि वस्तु वस्त्राद्यलङ्कारैरारोपितैः सुन्दरमिव प्रतीयते | इदं तु स्वभावसुन्दरम्, सर्वैः स्वस्वात्मतया स्पृहणीयत्वात् | परानन्दविघूर्णितम् | आनन्दः शब्दादिविषयानुभवेऽप्यस्ति क्षणिकः, तत उच्यते परानन्दविघूर्णितमिति | कोऽर्थः ? त्रित्रिरूप समवस्थितवस्तुभ्यः पुरातनी देशकालानवच्छिन्ना परममहद्रूपा स्वभावसुन्दरी परप्रकाशात्मकपरशिवसामरस्यपरिपूर्णपरानन्दशालिनी विमर्शशक्तिः श्रीमहात्रिपुरसुन्दरीत्यर्थः || १/३५ || प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् (१/११) इत्यत्र सूचितां मातृकामयवासनामिदानीं विवृणोति - आत्मनः स्फुरणं पश्येद् यदा सा परमा कला | अम्बिकारूपमापन्ना परा वाक् समुदीरिता || १/३६ || सा परमा सर्ववर्णाद्यभूतविमर्शरूपा, कला विमर्शशक्तिः, आत्मनः परशिवस्य, स्फुरणं पश्यन्त्यादिक्रमेण वैखरीपर्यन्तं विमर्शनम्, पश्येद् द्रष्टुमिच्छेत्, तदा परमा शान्तात्मिका भूत्वा, अम्बिकारूपमापन्ना प्रकाशांशभूताया अम्बिकायाः सामरस्यमापन्ना, परा वाक् समुदीरिता परा मातृकोच्यते | तदुक्तं संकेतपद्धत्याम् - अनयोः सामरस्यं यत् परस्मिन् महसि स्फुटम् इति || १/३६ || बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी | वामा विश्वस्य वमनादङ्कुशाकारतां गता || १/३७ || इच्छाशक्तिस्तदा सेयं पश्यन्तोवपुषा स्थिता | बीजभावस्थितं विश्वम् | यथा बीजे वृक्षस्तथा षट्त्रिंशत्तत्त्वात्मकं विश्वं परायां कारणतावन्मात्रतामास्थितम्, स्फुटीकर्तुं यदोन्मुखी स्फुटीकर्तुमुत्पादयितुमुन्मुखी | अत्रोत्पादनं नाम कारणे सत एव कार्यस्य स्फुटीकरणम् | अत एव कार्यस्य स्फुटीकरणाद् वामा, विश्वस्य वमनात् कारणे सत उत्पादनात् | वमनं नामोदरस्थस्य आहारादेर्बहिर्निर्यासनम् | उत्पादनमप्येवमेव | अत एव गर्भभावेनात्मोदरगतस्य विश्वस्य बहिर्वमनाद् वामा | अङ्कुशाकारतां गता वक्रत्वाच्च वामा शृङ्गाटस्य वामरेखा सृष्टिरूपाऽभूदित्यर्थः | त (था ? दा) इच्छाशक्तिर्वामाशक्तिसामरस्यमापन्ना पश्यन्तीरूपेण स्थितेत्यर्थः || १/३७ || ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता || १/३८ || ॠजुरेखामयी विश्वस्थितौ प्रथितविग्रहा | तथा ज्येष्ठाशक्तिर्ज्ञानशक्तिः, तथा वामाशक्तिरिच्छाशक्तिसामरस्यमापन्ना सृष्ट्यात्मकशृङ्गाटवामारेखासीत् तथा ज्येष्ठाशक्तिरपि ज्ञानशक्तिसामरस्यमापन्ना | विश्वस्थितौ प्रथितविग्रहा, सृष्टविश्वस्थितौ हेतुभूतत्वात् | ॠजुरेखामयी | अत्र शृङ्गाटाग्ररेखाकारा | मध्यमा वागुदीरिता मध्यमामातृकात्वमापन्ना || १/३८ || तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता || १/३९ || प्रत्यावृत्तिक्रमेणैवं शृङ्गाटवपुरुज्ज्वला | क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा || १/४० || सृष्टस्य स्थितस्य विश्वस्य संहारकाले, बैन्दवं रूपमास्थिता अम्बिका शान्तासामरस्यरूपा स्थिता, मध्यबिन्दोराविर्भूय सृष्टिं स्थितिं च सम्पाद्य तत्संहारोन्मुखी पुनर्बिन्दुमेव प्रविष्टेत्यर्थः | एवं प्रत्यावृत्तिक्रमेण, इयं रौद्री क्रियाशक्तिसामरस्यात्, सैव शृङ्गाटवपुः शृङ्गाटस्य दक्षिणरेखा भूत्वा, उज्ज्वला शृङ्गाटरूपेण भासमाना | शृङ्गाटं नाम त्रिकोणम् | वैखरी विश्वविग्रहा वाग्रूपप्रपञ्चमय-वैखरीरूपा जातेत्यर्थः || १/३९ - ४० || प्रकाशविमर्शांशरूपाणामम्बिकादीनां शान्तादीनां चतसृणां शक्तीनां शृङ्गाटरूपतामुक्त्वा पुनरिदानीं त्रिकोणान्तर्गतपीठाकारवर्णलिङ्गावस्थाचतुष्टयमयतावासनामाह भासनाद्विश्वरूपस्य इत्यादिना तुर्यरूपाण्यमूनि च (१/४९) इत्यन्तेन - भासनाद् विश्वरूपस्य स्वरूपे बाह्यतोऽपि च | एताश्चतस्रः शक्त्यस्तु का पू जा ओ इति क्रमात् || १/४१ || उत्तरार्धवक्ष्यमाणचतुष्टये हेतुमाह - भासनादिति | विश्वं शिवादिभूम्यन्तं नामरूपात्मकम्, तद्रूपस्य स्वरूपे बीजभावेन, बाह्यतः सृष्ट्यात्मना भासनात्, एताश्चतस्रः शक्त्यस्तु शकॢ व्याप्तौ (१२६२ स्वा.) इत्यस्माद् धातोः शक्तिशब्दव्युत्पत्तिः | चतस्रः अम्बिकाद्याः शान्ताद्याश्चतस्रः | क्रमेण परस्परं सामरस्यमापन्नाः का पू जा ओ इति क्रमादासन् | का कामरूपपीठम्, पू पूर्णागिरिपीठम्, जा जालन्धरपीठम्, ओ ओड्याणपीठम् | प्रकाशविमर्शात्मतया समरसीभूताः पूर्वोक्ताश्चतस्रः शक्तयः कामरूपपूर्णगिरिजालन्धरौड्याणपीठरूपेण परिणता इत्यर्थः || १/४१ || पीठचतुष्टयस्य पिण्डादिमयतावासनामाह - पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थितः | कन्दं नाम सुषुम्नामूलम् | कन्दशब्देन तत्रस्था पिण्डाख्या कुण्डली लक्ष्यते | तदुक्तं स्वच्छन्दसंग्रहे - नयित्वा तं सुषुम्नाऽधः कन्दस्थाने च मारुतम् | इच्छाज्ञानक्रियारूपां कुण्डलीं परमेश्वरीम् || प्रसुप्तभुजगाकारां मातृकारूपिणीं शिवाम् | इति | पदं नाम हंसः | रूपं नाम बिन्दुः | रूपातीतं नाम निरञ्जनं तत्त्वम् | तदुक्तं स्वच्छन्दसंग्रहे - पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्तितः | रूपं बिन्दुरिति ख्यातं रूपातीतं तु चिन्मयम् | इति | पीठाश्चत्वारः | पिण्डपदरूपरूपातीतशब्देन तत्तत्स्थानान्याधारहृदयभ्रूमध्यब्रह्मरन्ध्राणि लक्ष्यन्ते | तेन क्रमात् तेषु स्थानेषु स्थितास्तत्तन्मया इत्यर्थः | तेषां पृथिवीवायुसलिलतेजोरूपतां सूचयन् तत्त्वरूपभेदमाह - चतुरस्रं तथा बिन्दुषट्कयुक्तं च वृत्तकम् || १/४२ || अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु | चतुरस्रं चतुरस्ररूपः कामरूपपीठः | भूतत्त्वमित्यर्थः, भूमण्डलस्य चतुरस्ररूपत्वात् | बिन्दुषट्कयुक्तं च वृत्तकम् | पूर्णगिरिपीठः षड्बिन्दुयुक्तवृत्तरूपः | वायुतत्त्वमित्यर्थः, वायुमण्डलस्य षडावर्तवद्वृत्तरूपत्वात् | अर्धचन्द्रं जालन्धरपीठोऽर्धचन्द्ररूपः, अप्तत्त्वमयः, अम्मण्डलस्यार्धचन्द्ररूपत्वात् | त्रिकोणम् ओड्याणपीठस्त्रिकोणरूपः, तेजस्तत्त्वमयः, अग्निमण्डलस्य त्रिकोणरूपत्वात् | क्रमेण कामरूपादीनां पीठानामेतानि रूपाणीत्यर्थः | अत्र गगनतत्त्वस्यारूपत्वान्निरवयवत्वाच्-चानुक्तिः || १/४२ || पीठानामेव क्रमेण वर्णानाह - पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् || १/४३ || पृथिवीवायुसलिलतेजसां क्रमेण पीतधूम्रश्वेतरक्तवर्णत्वात् पीठानामपि त एव वर्णा इत्यर्थः | अवयवार्थः स्पष्टः | अत्र भूतानामक्रमः पीठानुसारेण | पीठानां त्वाम्नायभेदेन क्रमस्य नियमात् || १/४३ || पीठेषु लिङ्गान्याह - स्वयम्भूर्बाणलिङ्गं च इतरं च परं पुनः | पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने || १/४४ || लीनं बाह्येन्द्रियागोचरं चिद्रूपमर्थं गमयन्तीति लिङ्गानि | मनोऽहङ्कारबुद्धिचित्तात्मकानि कामरूपादीनि चित्स्फुरत्ताधारत्वात् पीठानि | एतेष्वन्तःकरणचतुष्टयरूपेषु तत्तद्वृत्तिचतुष्टयमयानि लिङ्गानि स्वयम्भ्वादीनि वसन्तीत्यर्थः | एतत्सर्वं सौभाग्यसुधोदये प्रपञ्चितम् | यथा - पुनरेव कामपीठे तदग्रकोणस्थिते मनोरूपे | प्रतिफलितं तज्ज्योतिः स्वयम्भुलिङ्गं समीरितं सद्भिः || १/५/६ || दक्षिणकोणेऽहङ्कृतिरूपे जालन्धरे तु संक्रान्तम् | परधाम बाणलिङ्गं जातं संक्रान्त्युपाधिभेदवशात् || १/५/४ || मध्यत्रिकोणकोणे वामे श्रीपूर्णपीठमेतस्मिन् | बुद्धिमये परतेजः प्रतिफलितं त्वितरलिङ्गतां यातम् || १/५/२ || चित्तमये श्रीपीठे ज्योतिर्बिन्दौ यदस्य संक्रान्तम् | प्रतिफलितं परधाम्नः परलिङ्गं तत् प्रकीर्त्यते प्राज्ञैः || १/४/१ || १/इति || १/४४ || लिङ्गानां स्वरूपं पीतादिवर्णान् वैखरीवर्णांश्च विभज्याह - हेमबन्धूककुसुमशरच्चन्द्रनिभानि तु | स्वरावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् || १/४५ || कादितान्ताक्षरवृतं बाणलिङ्गं त्रिकोणकम् | कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् || १/४६ || सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् | बिन्दुरूपं परानन्दकन्दं नित्यपदोदितम् || १/४७ || हेमनिभं पीतवर्णम्, त्रिकूटं बिन्दुत्रयकूटरूपम्, स्वरावृतम् अकारादिषोडशस्वरावृतं स्वयम्भुलिङ्गम् | बन्धूककुसुमनिभं रक्तवर्णं त्रिकोणरूपं कादितान्ताक्षरवृतं बाणलिङ्गम् | शरच्चन्द्रनिभं श्वेतवर्णं कदम्बगोलकाकारं कदम्बकुसुमगोलकरूपं थादिसान्ताक्षरावृतम् इतरलिङ्गम् | परलिङ्गस्य परतेजोरूपत्वादवर्णत्वम् | अतः सूक्ष्मरूपमनिन्द्रियगोचरम् | अत एव बिन्दुरूपं समस्तार्णवृतम् आदिक्षान्तपञ्चाशदक्षरवृतं परलिङ्गं परानन्दकन्दं पराया अक्षररूपायाः पश्यन्त्यादिशाखावत्या लताया आनन्दमयं कन्दं नित्यपदोदितम्, नित्यत्वं च मातृकाया उत्पत्तिविनाशरहितत्वात् | पदाद् विश्वमुमुक्षुमनःप्राप्यात्, उदितं प्रथमस्पन्दरूपतया || १/४५ - ४७ || एतानि सर्वाण्यपि बीजत्रितययुक्तायास्तुरीयविद्याया वाच्यरूपाणीत्याह - बीजत्रितययुक्तस्य सकलस्य मनोः पुनः | एतानि वाच्यरूपाणि कुलकौलमयानि तु || १/४८ || एतानि शक्तिचतुष्टयं मातृकाचतुष्टयं मध्यकोणचतुष्टयं पीठचतुष्टयं लिङ्गचतुष्टयं चेत्येतानि सर्वाणि बीजत्रितययुक्तस्य सकलस्य मनोर्वाग्भवकामराजशक्तिबीजसमेतायास्तत्समष्टिरूपायास्-तुरीयविद्याया वाच्यरूपाणि | विद्या वाचिका, एतानि सर्वाणि वाच्यानि | अत एव तच्चतुष्टयरूपिणीयं विद्येत्यर्थः, वाच्यवाचकयोरभेदात् | कुलं मेयमानमातृलक्षणम्, कौलं तत्समष्टिः | तन्मयानीत्यर्थः || १/४८ || अमूनि पूर्वोक्तानि सर्वाणि चतुरात्मकानि जाग्रदादिमयानीत्याह - जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु | जाग्रद् जागरितं देहेन्द्रियव्यापारः, अन्तःकरणमात्रव्यवहारः स्वप्नः, सर्वेन्द्रियोपरतिः सुखतावन्मात्रपरामर्शः सुषुप्तिः, तुरीयं चैतन्यमात्रवृत्तिः | अत्रैव वक्ष्यति - वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः (३/१७७) इत्यादिना | पूर्वं चक्रस्य चतुरात्मतामुक्त्वा तन्मध्ये बैन्दवनिवासिन्याः स्वसंविदस्तदतीतरूपतामाह - अतीतं तु परं तेजः स्वसंविदुदयात्मकम् || १/४९ || अतीतं जागरितादिदशाचतुष्टयातीतम् | अत एव परं विश्वोत्तीर्णम्, विश्वोत्तरत्त्वात् | किञ्च, परमनुत्तरं प्रकाशरूपम् | अत्र श्रुतिः - तदेव ज्योतिषां ज्योतिः (मु. उ. २/२/९) इति | स्वसंविदुदयात्मकं सर्वप्राणिष्वात्मतया स्थितम् | तदुक्तं नवशतीशास्त्रे - अनन्तं परमं ज्योतिः सर्वप्राणिहृदि स्थितम् इति || १/४९ || चक्रस्य पुनर्वासनान्तरकथनाय विश्वातीतं वस्तु कथयित्वा वक्तव्यां वासनामाह - स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् | विश्वमयोल्लेखः, विश्वं षट्त्रिंशत्तत्त्वात्मकम्, तन्मयः उल्लेखः, उल्लिख्यत इति उल्लेखः चित्रम्, तेन स्वेच्छाविश्वमयोल्लेखेन खचितं व्याप्तं स्वेच्छातूलिकयाऽऽत्मभित्तौ [मायाचित्रमुल्लिखतीत्यर्थः | तदुक्तमीश्वरप्रत्यभिज्ञायाम् - स्वेच्छया स्वभित्तौ] विश्वमुन्मीलयति (प्र. हृ. २) इति | अत्र प्रमाणवचनं च - जगच्चित्रं समालिख्य स्वेच्छातूलिकयाऽऽत्मनि | स्वयमेव समालोक्य प्रीणाति भगवान् शिवः || १/इति | विश्वरूपकम् | अत एव शिवादिक्षित्यन्तरूपेण परिणतमित्यर्थः | यथा क्षीरं दध्याकारेण परिणमते, तथा चिच्छक्तिरेव विश्वाकारेण परिणमते | तदुक्तं श्रीप्रत्यभिज्ञाहृदये - चितिः स्वतन्त्रा विश्वसिद्धिहेतुः (सू. १) इति | तेन किमायातं परमशिवस्येत्यत आह - चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् || १/५० || चैतन्यं चिद्विमर्शशक्तिः, आत्मनः प्रकाशात्मनः परशिवस्य, रूपं निसर्गानन्दसुन्दरं तत्सामरस्येन सहजानन्दोल्लासादखिलस्य स्पृहणीयम् | विमर्शशक्तिः प्रकाशात्मना परशिवेन सामरस्याद् विश्वं सृजति, न तु केवला | यथा न केवलेन तुषेणाङ्कुरो जायते, नापि तण्डुलेन, किन्तूभाभ्यामयुतसिद्धसंबन्धशालिभ्याम् | तदुक्तं स्वच्छन्दसंग्रहे - शिवाऽभिन्ना पराशक्तिः सर्वक्रमशरीरिणी इति || १/५० || तदेवाह - मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् | शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् || १/५१ || मेयं प्रमेयम् | प्रमाविषयः सम्यगनुभवः प्रमा | तद्वान् प्रमाता | प्रमाकरणं प्रमाणम् | तदुक्तं तन्त्रान्तरे - मितिः सम्यक्परिच्छित्तिस्तद्वत्ता च प्रमातृता | तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते || १/(कु. का. ४/५) इति | निर्विकल्परूपायाः स्वसंविदो मातृमेयप्रमाणप्रमारूपेण विकल्पात्मना प्रसर एव संकोचः | शिवस्य प्रकाशात्मनो दीपस्य शक्तिर्विमर्शाख्यैव प्रभा | सा निर्विकल्पात्मना विश्वाकारा मेयमातृप्रमाप्रमाणभेदैः संकुचद्रूपा, तदा शिवोऽपि संकुचद्रूपः | एतदुभयमिच्छाज्ञानक्रियात्मकम् इच्छादिवामादिशक्त्यंशभेदभिन्नं शृङ्गाटरूपमपन्नं त्रिकोणरूपेण परिणतम् || १/५१ || पूर्वं बीजत्रितययुक्तस्य सकलस्य मनोः पुनः (१/४८) इत्यत्र कामकलादिकाया विद्यायाः श्रीचक्रहेतुभूतत्रिकोणमयपीठादि-चतुर्मयतामुक्त्वेदानीं देवताया अपि तन्मयताभावनामुक्तवानिति भावः | तदेव विवृणोति विश्वाकारप्रथाधार इत्यादि, तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् इत्यन्तेन (श्लो. ५२-५५)- विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् | कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् || १/५२ || विश्वाकारप्रथा षट्त्रिंशत्तत्त्वात्मना परिणता विमर्शशक्तिः, तस्या आधारः, निजं रूपं तात्त्विकं रूपम्, शिवः प्रकाशात्मकः, स एवाश्रय आधारो यस्य तद्विश्वाकारप्रथाधारनिजरूपशिवाश्रयं परं तेजः | कामेश्वराङ्कपर्यङ्कनिविष्टम् | कामेश्वरः प्रकाशात्मकः शिवः, तस्याङ्कपर्यङ्क निविष्टं विमर्शशक्तिरूपं | अतिसुन्दरम् अत्यन्तसुभगम्, सर्वैः स्वस्वात्मतया स्पृहणीयत्वात् || १/५२ || इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम् | क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् || १/५३ || इच्छाशक्तिरेव पाशः, बन्धहेतुत्वात् | ज्ञानशक्तिरेव अङ्कुशः, मनोमयगजस्य नियामकत्वात् | क्रियाशक्तिमये बाणधनुषी, शब्दस्पर्शादयो बाणा मनस्तस्याभवद्धनुः इति वचनात् शब्दादिबाणानां मनसा धनुषा सह संयोजनं क्रियाशक्तेरेव व्यापारः | अत्र इच्छाशक्तिमयं पाशम्, ज्ञानशक्तिमयमङ्कुशम्, क्रियाशक्तिमये बाणधनुषी - एवमायुधचतुष्टयं स्वेच्छागृहीतकामकलामयविग्रहबाहुचतुष्टयेन दधदुज्ज्वलम्, चिदात्मकत्वात् || १/५३ || आश्रयाश्रयिभेदेन अष्टधाभिन्नहेतिमत् | आश्रयः कामेश्वरः, आश्रयि कामेश्वर्याख्यं परं तेजः | एवमाश्रयाश्रयिभेदेन अष्टधाभिन्नहेतिमत् | हेतिरायुधम्, आश्रयस्य चत्वार्यायुधानि आश्रयिणश्चत्वारि चेत्यष्टधाभिन्नहेतिमत् | कोऽर्थः ? परशिव एव प्रकाशविमर्शात्मना निजावंशौ विभज्य कामेश्वरः कामेश्वरीति भूत्वा पाशाङ्कुशधनुश्शरान् पुंस्त्रीभेदेनाष्टौ धृत्वाऽऽश्रयाश्रयिभावेन स्वरमयमध्यत्रिकोणमध्यगतसदा-शिवाख्यबैन्दवचक्रे तुरीयबिन्दुमये परलिङ्गे निवसतीत्यर्थः | इदमेव मिथुनं नवधा विभज्यात्मानं नवचक्रेषु स्थितमित्याह - अष्टारचक्रसंरूढं नवचक्रासनस्थितम् || १/५४ || पूर्वोक्तक्रमेण तदेव वामादीच्छादिशक्तिमयं त्रिकोणमेव त्रिधा विभिन्नं द्विशक्त्येकवह्निभेदेनाष्टारचक्रमभूत् | पुनस्तदेव त्रिपदं वह्निशक्तिरूपं च भूत्वा नवचक्रमभूत | एवंरूपं श्रीचक्रं स्वयमेवाष्टारचक्रम्, चितिश्चित्तं च चैतन्यं चेतनाद्वयकर्म च | जीवः कला शरीरं च सूक्ष्मं पुर्यष्टकं मतम् || इति स्वच्छन्दसंग्रहोक्तरीत्या निजं सूक्ष्मं पुर्यष्टकं विभज्याष्टारचक्रं वशिन्यादिक्रमेण संरुढमित्यर्थः | नवचक्रासनस्थितम् एवंरूपं मिथुनमेव निजाधारनवकं नवचक्रत्वेन विभज्य निजनादशक्तिनवकं नवचक्रेश्वरीरूपेण संपाद्य, इच्छादिशक्तित्रितयं पशोः सत्त्वादिसंज्ञकम् | महत्त्र्यस्रं चिन्तयामि गुरुवक्त्रादनुत्तरात् || १/१८ || अष्टारांशप्रदेशोऽयं चिन्निर्याणेषु सादिकम् | सूक्ष्मं पुर्यष्टकं देव्या मतिरेषा हि गौरवी || १/१७ || अन्तर्दशारवसुधा ज्ञानकर्मेन्द्रियावलिः | महात्रिपुरसुन्दर्या इति संचिन्तयाम्यहम् || १/१६ || बाह्यो दशारभागोऽयं बुद्धिकर्माक्षगोचरः || १/१५ || चतुर्दशारवसुधा करणानि चतुर्दश || १/४ || वसुच्छदनपद्माङ्कदेशो यश्चक्रगो विभुः | अव्यक्ताद्याः प्रकृतयो भूतान्ता निश्चिनोम्यहम् || १/१३ || षोडशच्छदपद्माङ्कदेशो भूताक्षमानसम् | विकारात्मकतापन्नं देव्या संभावयाम्यहम् || १/१२ || इति सुभगोदयवासनोक्तरीत्या बैन्दवादिचतुरस्रान्तेषु नवचक्रेष्वासनभूतेष्विन्द्रियादिरूपेण स्थितमित्यर्थः || १/५४ || एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् | एवंरूपम् उक्तप्रकारेण विभक्तनिजेच्छादिषोडशविकारान्तावयव- मयत्रिकोणादिचतुरस्रान्त श्रीचक्रवपुषा स्थितमित्यर्थः | इत्थं तस्मिन् मिथुने श्रीचक्रवपुषा परिणते सति तदीयावयवशक्तय एवावरणदेवतारूपेण स्थिता इत्याह - तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् || १/५५ || तयोः कामेश्वरकामेश्वर्योरेवावयवास्तदीयावयवाः, तेषां शक्तयः, तासां निकराः समूहाः, ते च स्फुरन्त एवोर्मयस्तरङ्गाः, तैः समावृतम् | कोऽर्थः ? प्रकाशविमर्शमयकामेश्वरकामेश्वरी-स्वेच्छागृहीतविग्रहावयवेषु चक्रावयवतामुपगतेषु तदवयवशक्तयोऽपि कामेश्वरी - वज्रेश्वरी - भगमालिन्याद्यावरणदेवतारूपेण परिवार्य तिष्ठन्तीत्यर्थः | ऊर्मिशब्देनेदं द्योत्यते - प्रकाशात्मकः परमेश्वरः समुद्रः, विमर्शरूपिणी कामेश्वरी सलिलम्, तदीयावयवाः शक्तिनिकरा ऊर्मयः | यथा कल्लोलाः समुद्रे जायन्ते तत्रैव लीयन्ते, एवं षट्त्रिंशत्तत्त्वमयं सशक्तिकं चक्रं तत्रैवोदेत्यस्तमेति चेति तात्पर्यम् | तत्राभियुक्तवचनम् - मूलोद्भवं शक्तिचक्रं यतस्तन्मयतां गतम् | तस्मिन्नेवाव्यये तत्त्वे विलीनं परिभावयेत् || मूलं स्वात्मनि चिद्रूपे यजेद् यत्तत् तदेव हि | इति || १/५५ || १/(सु. ६७-६८) सर्वचक्रवासनामुक्त्वा तेषु सवासनं मद्राभेदमाह चिदात्मभितौ इत्यादिना एवं चक्रमयम् इत्यन्तेन (श्लो. ५६-७१) - चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा | करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता || १/५६ || क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात् तथा | मुद्राख्या चिद् विमर्शशक्तिः | आत्मभित्तौ आत्मैव भित्तिरात्मभित्तिस्तस्याम्, स्वस्वरूपमेव भित्तिरित्यर्थः | विश्वस्य शिवादेर्भूम्यन्तस्य | प्रकाशामर्शने | अस्फुटस्य स्फुटीकारः प्रकाशः, इदन्तया हृदयङ्गमीभावो विमर्श एवामर्शनम् | एवंविधे प्रकाशामर्शने, यदा सृष्टिकाले, पूर्णविचिकीर्षासमन्विता, विशेषेण कर्तुमिच्छा विचिकीर्षा | विकारः क्षीरादीनामप्यस्ति, आतञ्चनादिना | अत एवाह - पूर्णविचिकीर्षासमन्वितेति | तत्र तु क्षीरादेर्दध्यादिमात्रमेव विकारः, अत्र तु शिवादिक्षित्यन्तं तत्त्वाकारेण विकारः | अत एव पूर्णविचिकिर्षासमन्विता | क्रियाशक्तिस्तु क्रियाशक्तिरेव भूत्वा(??) | तुरवधारणे | एवंविधस्य विश्वस्य मोदनाद् द्रावणाच्च | अत्र त्वनुकूलक्रियैव मोदनम् | द्रावणं नाम तदेकरसीभावः | संविद् मुद्राख्यां लभते | अयमर्थः - यदा विमर्शशक्तिर्विश्वरूपेण विहर्तुमिच्छति, तदा क्रियाशक्तिर्भूत्वा स्वविकारभूतस्य विश्वस्य परचिदानन्दलक्षणेन मोदनेन तदैकरस्यलक्षणेन द्रावणेन च मुद्राख्यामापन्नेत्यर्थः || १/५६ - ५७ || १/ तत्रादौ व्यापिकां त्रिखण्डामुद्रामाह - सा यदा संविदम्बिका त्रिकलामयी || १/५७ || त्रिखण्डारूपमापन्ना सदा संनिधिकारिणी | सर्वस्य चक्रराजस्य व्यापिका परिकीर्तिता || १/५८ || सा विमर्शरूपिणी संवित्, त्रिकलामयी वामाज्येष्ठारौद्रीरूप- कलात्रयसमष्टिरूपा अम्बिका भूत्वा, अम्बिकाग्रहणं शान्ताया अप्युपलक्षणम् | इच्छाज्ञानक्रियाशक्तिरूपकलात्रयसमष्टिरूपा शान्तात्मिकाऽपि भूत्वेत्यर्थः | त्रिखण्डारूपमापन्ना | दक्षिणाङ्गुलयो वामाद्याः प्रकाशांशाः वामाङ्गुलय इच्छाद्या विमर्शांशाः | तदुभयसंयोगरूपबन्धनात्मकखण्डत्रयवती त्रिखण्डा मुद्रा जातेत्यर्थः | सदा संनिधिकारिणी | अत एवेयं संविद्देवतायास्- त्रिपुरायाः संनिधिकारिणी सांनिध्यकारिणी | सर्वस्य चक्रराजस्य सर्वेषां चक्राणां पूजायन्त्राणां श्रेष्ठत्वाच्चक्रराजस्य व्यापिका, नवचक्रस्थितनवमुद्राणां समष्टिभूतत्वात् || १/५७-५८ || सर्वसंक्षोभिणीमुद्रामाह - योनिप्राचुर्यतः सैषा सर्वसंक्षोभिणी पुनः | वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् || १/५९ || सैषा त्रिखण्डा खण्डत्रयमुन्मुच्य योनिप्राचुर्यतः | मध्यमाद्वयसंयोगादेका अनामिकाद्वयसंयोगादन्या, कनिष्ठिकाद्वयसंयोगादपरा, एवं योनि प्राचुर्यात् सर्वसंक्षोभिणी परानन्दप्रवणत्वकारिणी | वामाशक्तिप्रधानेयं सर्वसंक्षोभिणी मुद्रा वामाशक्तिप्रधानत्वात् सृष्टिः | सृष्टिरेव क्षोभः | द्वारचक्रे चतुरस्रत्रयरूपे चतुर्द्वारवति त्रैलोक्यमोहने चक्रे स्थिता || १/५९ || द्राविणीमुद्रामाह - क्षुब्धविश्वस्तितिकरी ज्येष्ठाप्राचुर्यमाश्रिता | स्थूलनादकलारूपा सर्वानुग्रहकारिणी || १/६० || सर्वाशापूरणाख्ये तु सैषा स्फुरितविग्रहा | क्षुब्धस्य विश्वस्य स्थितिकरी स्वसंविन्मात्रस्थितिकारिणी | अतो ज्येष्ठाप्राचुर्यमाश्रिता, ज्येष्ठाशक्तेः स्थितिहेतुत्वात् | स्थूलनादकला-रूपा | स्थूलनादः, श्रुतिगोचरत्वात् | नादज्जाताः कला नादकलाः षोडशस्वराः | अत्राभियुक्तवचनम् - कलाः कला नादभवा वदन्त्यतः (प्र. सा. ७/१८) इत्यादि | तद्रूपा, कामाकर्षिण्यादिनिवाससर्वाशापरिपूरक-चक्रपूरकत्वात्, सर्वाशापूरणाख्ये कामाकर्षिणीकलाधारत्वात् | अत एव सर्वानुग्रहकारिणी | कामाकर्षणमेव सर्वानुग्रहः | सैषेति तच्छब्देन चतुःशतीशास्त्रोक्ता (३/६-७) सर्वविद्राविणी मुद्रा परामृश्यते | स्फुरितविग्रहा संविद्रूपत्वात् | कोऽर्थः ? ज्येष्ठाप्राचुर्याधारत्वात् स्थितिरूपिणी, अत एव ॠजुरूपमध्यमातर्जन्योः कनिष्ठिकानामिकयोश्च संयोगरूपिणी, कामाकर्षिण्यादिरूपत्वात् सर्वानुग्रहकारिणी, तदाधारत्वात् सर्वाशापरिपूरणाख्ये चक्रे संविद्रूपत्वात् स्फुरितविग्रहा चतुःशतीशास्त्रे प्रतिपादिता सैषा सर्वविद्राविणी मुद्रा स्थितेत्यर्थः || १/६० -६१ || सर्वाकर्षिणीमुद्रामाह - ज्येष्ठावामासमत्वेन सृष्टेः प्राधान्यमाश्रिता || १/६१ || आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता | ज्येष्ठावामासमत्वेन ज्येष्ठावामाशक्तिद्वयसामरस्यरूपत्वात् | सृष्टेः प्राधान्यमाश्रिता | सृष्टिरूपा वामा, स्थितिरूपा ज्येष्ठा | उभयसाम्यात् सृष्टिस्थितिसाधारणीयं वामांशेन चक्रतर्जनीमध्यमा-द्वयरूपा, ज्येष्ठांशेन ॠजुसंयुक्तानामिकाकनिष्ठाद्वयरूपेत्यर्थः | अत एव वक्राङ्गुलिद्वयरूपत्वाद् आकर्षिणीयं मुद्रा सर्वसंक्षोभिणि सर्वसंक्षोभकारिणि चक्रे स्मृता | स्मृतिः पूर्वानुभवसंस्कारजन्यं ज्ञानम् | पूर्वं चतुःशतीशास्त्रे (३/७-८) अनुभूता मुद्रा इदानीं स्मृता, सवासना कथितेत्यर्थः || १/६१-६२ || सर्वावेशकरीमुद्रामाह - व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि || १/६२ || शिवशक्त्याख्यसंश्लेषाद् दिव्यावेशकरी स्मृता | चतुर्दशारचक्रस्था संविदानन्दविग्रहा || १/६३ || आधाराद्याज्ञान्तषट्चक्रान्तरालानि पञ्च व्योमानि | तेषां द्वयोर्द्वयोर्मध्ये एकैको बिन्दुरिति पञ्च बिन्दवः पञ्चभूतमयाः | तदुक्तमभियुक्तैः - पञ्चबिन्दुमयं भेदं पञ्चप्रणवपञ्जरम् इति | तद्रूपा व्योमद्वयान्तरालस्थबिन्दुरूपा | शिवशक्त्यात्मसंश्लेषात् | शिवात्मानो दक्षकराङ्गुलयः, शक्त्यात्मानो वामकराङ्गुलयः | शिवशक्त्यात्मना परिवृत्त्येतरेतराङ्गुल्यन्तरालप्रवेशितानां सर्वेषामन्योन्यगाढपरिपीडनादेवंभूता दिव्यावेशकरी मुद्रा दिव्यस्य प्रकाशात्मकशिवस्य, आवेशकरी सामरस्यकरी, चतुर्दशारचक्रस्था चतुर्दशारचक्रे सर्वसौभाग्यदायकनामधेये स्थिता, संविच्छक्तिः, आनन्दविग्रहा परमशिवसामरस्यरूपिणी | कोऽर्थः ? उभयकराङ्गुल्यन्तरालगतैकैकाङ्गुलिरूपपञ्चबिन्दुमयशिवशक्ति- द्वयसामरस्यनिरूपणलक्षणबन्धनात्मिकेय मुद्रा संविदैकरस्यानन्दमयी चतुर्दशारचक्रे स्थितेत्यर्थः || १/६२ - ६३ || उन्मादिनीमुद्रामाह - बिन्द्वन्तरालविलसत्सूक्ष्मरूपशिखामयी | ज्येष्ठाशक्तिप्रधाना तु सर्वोन्मादनकारिणी || १/६४ || दशारचक्रमास्थाय संस्थिता वीरवन्दिते | बिन्द्वन्तरालाद् आधारादिब्रह्मरन्ध्रान्तर्गतयोनिमहाबिन्द्वोः स्वयम्भुपराख्ययोर्लिङ्गयोरन्तरालाद् विलसत्सूक्ष्मरूपशिखामयी विलसन्त्यौ सूक्ष्मरूपे बिसतन्तुनिभाकृती शिखेव शिखावत् शिखे अम्बिकाशान्तयोस्तन्मयी तदैकरस्यरूपा | ज्येष्ठाशक्तिप्रधाना ज्येष्ठाशक्तिप्रचुरा | सर्वोन्मादनकारिणी | उन्मादश्चित्तविभ्रमः (अ. को. १/७/२६) | सर्वानुन्मत्तवत् सर्वव्यापारपराङ्मुखान् शिवशक्तिसामरस्यानुसन्धानपरान् करोतीत्यर्थः | दशारचक्रमास्थाय दशारचक्रं बहिर्दशारचक्रम् | वीरवन्दिते | इदन्तारिपोरहमि समराङ्गणे प्रलयप्रतिपादनपरा वीराः, तैर्वन्दिते आत्माहम्भावनया भाविते | तदुक्तं परापञ्चाशिकायाम् - अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् || १/(श्लो. ५०) इति | कोऽर्थः ? अन्तः कुलाकुलबिन्दुद्वयान्तरालविलसदम्बिका- शान्ताख्यवह्न्यमृतकुण्डलिनीरूपशिखाद्वयसदृशा शक्तिशिवाख्यकरद्वयमध्यमाङ्गुष्ठद्वयसंयोगबिन्दुद्वयाकार- वर्तुलद्वयान्तर्गतकनिष्ठिकाद्वयमयी ज्येष्ठाशक्तिप्रधानत्वाद् ऋज्वाकृत्यनामातर्जनीद्वयाग्रसंयोगरूपा शिवशक्तिसामरस्या- नुसन्धानलक्षणबन्धनरूपा सर्वोन्मादिन्याख्या मुद्रा बहिर्दशारचक्रमास्थाय स्थितेत्यर्थः || १/६४ - ६५ || महाङ्कुशमुद्रामाह - वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः || १/६५ || तद्वद् विश्वं वमन्ती सा द्वितीये तु दशारके | संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता || १/६६ || बिन्द्वन्तरालविलसत्सूक्ष्मरूपशिखामयी ऋज्वाकृतितर्जन्यनामिका-संयोगरूपा ज्येष्ठाशक्तिप्रधाना पूर्वं भवति | इदानीं वामाशक्तिप्रधाना, वामा विश्वस्य वमनादङ्कुशाकारतां गता (१/३७) इति पूर्वोक्तरीत्या वामाशक्तिप्रधानत्वाद् वक्राकारतर्जनीबन्धनरूपा विश्वं वमन्ती, सृष्टिरूपत्वात् | तद्वत् परमशिववत् | द्वितीये तु दशारके अन्तर्दशारे | मोदनपरा परशिवसामरस्यलक्षणपरानुसन्धानमयी, अत एव मुद्रारूपत्वमास्थिता | अयमर्थः - पूर्वोक्तमुद्रालक्षणविमर्शमय-चिच्छक्तिरेव वामाशक्तिभूततर्जनीद्वयमयपरशिवसामरस्य-परानन्दप्रवणरूपा महाङ्कुशमुद्राऽन्तर्दशारे स्थितेति || १/६५ - ६६ || खेचरीमुद्रामाह - धर्माधर्मस्य संघट्टादुत्थिता वित्तिरूपिणी | विकल्पोत्थक्रियालोपरूपदोषविघातिनी || १/६७ || विकल्परूपरोगाणां हारिणी खेचरी परा | सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता || १/६८ || धर्माधर्मस्य संघट्टात् | धर्मः शक्तिः, सृष्ट्यादिसकल-धर्मपरत्वात् | अधर्मः शिवः, तत्तत्सकलधर्मरहितत्वात् | तयोः संघट्टः सामरस्यम्, तस्मादुत्थिता | वित्तिरूपिणो | वित्तिः संवित्तिः | विकल्पोत्थक्रियालोप-रूपदोषविघातिनी | विकल्पः कोटिद्वयावलम्बनम् एवं वा न वेति संशयज्ञानम्, विकल्पोत्थाः क्रिया नित्यनैमित्तिककाम्यरूपाः, तल्लोपेन प्रत्यवायः प्रायो जायते, तस्य विघातिनी | विकल्परूपरोगाणां हारिणी | परिपूर्णभावस्य शिवस्य मयैवमेतत्कर्तव्यं न वेति विकल्परूपा रोगा आधय एव व्याधयः, तदुक्तमभियुक्तैः - अपूर्णम्मन्यता व्याधिः कार्पण्यैकनिदानभूः | क्लेशावहोऽतिकष्टश्च इति तेषां हारिणी खेचरी - खे निरस्तसकलक्रियाक्रमे या चितिश्चरति शाश्वतोदया | सा शिवत्वसमवाप्तिकारिणी खेचरी सकलखेदहारिणी || १/(चि. ३८) इति मदुक्तरीत्या निर्विकल्पबोधभूमिसंचारिणी चितिः चिच्छक्तिः परमशिवसामरस्यरूपा तदधिष्ठितत्वात् सर्वरोगहराख्ये चक्रे संविन्मयी स्थिता | कोऽर्थः ? शिवशक्तिमयदक्षवामबाहुद्वयपरिवर्तन- रूपतर्जनीद्वयावलम्बितव्यत्यस्तकरद्वयकनिष्ठानामिकाद्वन्द्वतदुपरि- स्थितमध्यमाद्वयाग्रसंयुक्ताङ्गुष्ठद्वयाग्रसंयोजनलक्षणबन्धन-रूपा शिवशक्तिद्वयसंघट्टादुत्थिता परा निर्विकल्पबोधभूमिसंचारिणी, अत एव विकल्पजनितनित्यनैमित्तिककाम्यकर्मलोपरूपदोषविघातिनी, अत एव च विकल्परूपरोगाणामपूर्णम्मन्यतालक्षणानां हारिणी सर्वरोगहराख्ये चक्रे खेचरी मुद्रा स्थितेत्यर्थः || १/६७ - ६८ || बीजमुद्रामाह - शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः | प्रकाशयन्ती विश्वं सा सूक्ष्मरूपस्थितं सदा || १/६९ || बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता | शिवशक्त्योः समाश्लेषः सामरस्यं तन्मध्ये स्फुरद्व्योमान्तरे प्रकाशविमर्शरूपसूक्ष्मतरगगनान्तराले | सूक्ष्मरूपस्थितं कारणतावन्मात्रतया स्थितम् | विश्वं सदा सर्वदा प्रकाशयन्ती, अत एव बीजरूपा महामुद्रा, तस्या भाविचराचररूपविश्वोत्पत्तिहेतुत्वात् | सर्वसिद्धिमये विश्वोत्पत्तिहेतुभूतबीजमुद्राधारत्वात् सर्वस्य शिवादेर्भूम्यन्तस्य सिद्धिरुत्पत्तिः, तदुक्तं श्रीप्रत्यभिज्ञाहृदये - चितिः स्वतन्त्रा विश्वसिद्धिहेतुः (सू. १) इति, तन्मये चक्रे स्थिता | कोऽर्थः ? शिवशक्तिसंज्ञितोभयकरव्यत्यस्तकनिष्ठिकाद्वयाग्रावलम्बनवक्रोभया- नामिकोभयपार्श्वप्रसृतसंयुक्ताग्रमध्यमाद्वयोपरिस्थितवक्राकार- तर्जन्यङ्गुष्ठयुगलाग्रसमाश्लेषान्तरालप्रतीयमानगगनान्तराले कारणतावन्मात्रतया स्थितं विश्वं प्रकाशयन्ती बीजमुद्रा सर्वसिद्धिमयाभिधे चक्रे स्थितेत्यर्थः || १/६९ - ७० || योनिमुद्रामाह - सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः || १/७० || योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता | सम्पूर्णस्य प्रकाशस्य प्रकाशात्मनः परशिवस्य | लाभाभूमिः प्राप्तिस्थानम् | अत एव इयं योनिमुद्रा, योनिरूपा मुद्रा योनिमुद्रा, योनिस्त्रिकोणम् | वामादीच्छादिशक्तित्रितयसामरस्यरूपान्तस्त्रिकोणान्तराल-रूपिणी | कलारूपा हार्द्धकलात्मकविमर्शशक्तिरूपा | अत एव सर्वानन्द-मये शिवशक्तिसामरस्यसमुदितपरानन्दलक्षणपरमबिन्दुरूपसर्वानन्द-मयनाम्नि चक्रे स्थिता | कोऽर्थः ? वामेच्छारूपवक्रतर्जनीद्वयाग्र- गृहीतव्यत्यस्तानामिकाद्वयाग्रपरिगतज्येष्ठाज्ञानमयऋजुसंयुक्ताग्र- मध्यमाद्वयमध्यगतरौद्रीक्रियात्मककनिष्ठिकाग्रयोजितसम्पूर्ण- प्रकाशरूपाङ्गुष्ठद्वयाग्ररूपा विमर्शकलारूपमयी योनिमुद्रा प्रकाशविमर्शसामरस्यलक्षणपरबिन्दुमयसर्वानन्दमये चक्रे स्थितेत्यर्थः || १/७० - ७१ || उपसंहरति - क्रियाचैतन्यरूपत्वादेवं चक्रमयं स्थितम् || १/७१ || क्रिया, क्रियाशक्तिस्तु विश्वस्य मोदनाद्द्रावणात् तथा (१/५७) इत्युपक्रान्ता क्रियाशक्तिरेव भेदेन विरचनामयी वामादिशक्तिप्राधान्य-भेदात् संक्षोभिण्यादियोन्यन्ततत्तन्मुद्रारूपेण, चैतन्यरूपत्वात् चक्रमयं त्रैलोक्यमोहनादिसर्वानन्दमयान्तनवचक्रमयं स्थितमित्यर्थः || १/७१ || ननु यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी (१/९) इत्युपक्रान्तम्, कथं पुनः क्रियाचैतन्यरूपत्वादेवं चक्रमयं स्थितम् (१/७१) इत्युपसंह्रियते ? इत्याशङ्क्य तर्हि महान् प्रकृतोपसंहारस्त्वयमित्याह - इच्छारूपं परं तेजः सर्वदा भावयेद् बुधः | परं तेजः शिवशक्तिसामरस्यरूपपरामयं ज्योतिः | इच्छारूपं स्वेच्छागृहीतनानानामरूपप्रपञ्चमयम् | सर्वदा कालत्रयेऽपि | भावयेद् बुधः साक्षात् पर शिवरूपनिजगुरुकटाक्षपातेन | घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी | कुलं शीलं च जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः || इत्यभियुक्तवचनोक्तपरिपाटितपाशाष्टकतया परिस्फुरत्परशिवाहं-भावः स्वेच्छाकल्पितनानानामरूपप्रपञ्चमयं श्रीचक्ररूपेण परिणतं परामयं तेजः सर्वदा भावयेदित्यर्थः | पुनरस्यैव चक्रस्य प्रकारान्तरेण वासनान्तरमाह - त्रिधा च नवधा चैव चक्रसंकेतकः पुनः || १/७२ || स्पष्टम् || १/७२ || तत्रादौ त्रिधात्ववासनामाह - वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽपरः पुनः | तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च || १/७३ || पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च | पञ्चशक्तिचतुर्वह्निपद्मद्वयमहीत्रयम् || १/७४ || परिपूर्णं महाचक्रं एकेन वह्निना द्वाभ्यां शक्तिभ्यामेकः प्रकारः | तैश्च एकवह्निशक्तिद्वयरूपैस्त्रिकोणत्रयैः पुनर्वह्नित्रयेण शक्तीनां त्रितयेन चापरः प्रकारः | अयमर्थः - त्रिकोणानामेवोपरि विस्तारक्रमेण पुनर्वह्नित्रयेण शक्तित्रयेण च जायतेऽयमेकः प्रकारः | पद्मद्वितयेन भूगृहत्रितयेन चान्यः प्रकारः | पद्मद्वय (यं) वृत्तत्रयान्तरालयोर्-अष्टदलं षोडशदलं चेति भूगृहत्रितयं चतुरस्रत्रयम् | एवं कृते सति पञ्च शक्तयश्चत्वारो वह्नयः पद्मद्वयं महीत्रयं चेति परिपूर्णं महाचक्रं समष्टिरूपम् || १/७३ - ७५ || तत्प्रकारत्रयमेव विविच्य विवृणोति - तत्प्रकारः प्रदर्श्यते | तत्राद्यं नवयोनि स्यात् तेन द्विदशसंयुतम् || १/७५ || मनुयोनि परं विन्द्यात् तृतीयं तदनन्तरम् | अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् || १/७६ || जातावेकवचनम् | तत्प्रकाराः प्रदर्शन्त इत्यर्थः | तत्र तेषु प्रकारेषु | आद्यं नवयोनि | वह्निनैकेन शक्तिभ्यां द्वाभ्यामित्यस्य विवरणम् | एकस्य वह्नेर्द्वयोः शक्त्योश्च संयोगे सति बैन्दवत्रिकोणाष्टकोणैर्नवयोनिचक्रं भवतीत्यर्थः | तेन द्विदशसंयुतं मनुयोनि परं विन्द्यात् | तेन नवयोनि-चक्रेण | द्विदशसंयुतं दशारद्वयसंयुतम् | मनुयोनि चतुर्दशकोणम् | परं द्वितीयं जानीयात् | तेन वह्नित्रये शक्तित्रये च कृते सति दशारचक्र-द्वयं चतुर्दशारचक्रं च चक्रत्रितयं द्वितीयं चक्रं भवतीत्यर्थः | तदनन्तरमष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् | तेन चक्रद्वये-नानन्तरमव्यवधानेन स्थितमत्यन्तसंनिहितम् | अष्टदलकमलेन षोडशदलकमलेन चोपेतं चतुरस्रत्रयात्मकं तृतीयं चक्रमित्यर्थः || १/७५ - ७६ || ननु त्रयाणां चक्राणामेकैकप्रकारत्वं कथमिति ? उच्यते - प्रत्येकमंशभेदेन सर्गस्थितिलयक्रमात् इति संकेतपद्धत्युक्तरीत्या एकैकचक्रावयवत्रितयस्य सृष्टिस्थितिसंहारभेदात् क्रोडीकारः | तद्यथा - चतुरस्रत्रयं सृष्टिसृष्टिः, षोडशदलपद्मं सृष्टिस्थितिः, अष्टदलपद्मं सृष्टिसंहारः | एवं चक्रत्रयमयं सृष्टिमयत्वादेकम् | एवं चतुर्दशारं स्थितिसृष्टिः बाह्यदशारं स्थिति - स्थितिः, अन्तर्दशारं स्थितिसंहारः | एवं चक्रत्रयं स्थितिमयत्वादेकम् | एवमष्टकोणं संहारसृष्टिः, त्रिकोणं संहारस्थितिः, बैन्दवं संहारसंहारः | एवं चक्रत्रयं संहारमयत्वादेकम् | इत्येतत् सर्वं मनसि निधायाह - चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि | स्पष्टम् | ननु चक्रस्य त्रैविध्यमुक्तं यदि तर्हीदं चक्रं मध्यचक्रमारभ्य किमुत्पादयितुं न शक्यत इत्यत आह - सृष्टिः स्यान्नवयोन्यादिपृथ्व्यन्तं संहृतिः पुनः || १/७७ || पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः | अत्र नवयोनिशब्देन नवयोन्यन्तर्गतं बैन्दवं चक्रं लक्ष्यते | तद् बैन्दवं चक्रमारभ्य चतुरस्रान्तोद्धारः सृष्टिः | संहृतिः पुनः पृथ्व्यादिनवयोन्यन्तमिति | तथा च चतुरस्रत्रयमारभ्य बैन्दवान्तमुद्धारः संहार इत्यर्थरः | इति चतुःशतीशास्त्रस्य निर्णयः | अतो न मध्यमादिचक्रमुद्धारयतीति तात्पर्यम् | यथा देवदत्तविष्णुमित्रयज्ञदत्तेषु प्रस्तुतेषु देवदत्तयज्ञदत्तयोः फलानि देयानीत्युक्ते विष्णुमित्रस्य न देया नीति गम्यते, तद्वत् || १/७७-७८ || पूर्वं श्रीचक्रमवयवशो विभज्य वासनामुक्त्वेदानीं समष्टिचक्रस्य वासनामाह - एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते || १/७८ || एतत्समष्टिरूपं सृष्ट्यादित्रितयं समष्टिर्नाम | अवयवी तु तथा न भवति, सृष्टिपदेन स्थितिपदेन संहारपदेनापि च नाभिधीयते, किन्तु त्रिपुराचक्रमुच्यते | त्रिपुरायाः सृष्ट्यादिभ्यः पुरा विद्यमानत्वात् तत्पदाभिधेयाया अनाद्यन्तरूपायाः स्वसंविदश्चक्रमाविर्भावभूमिरित्युच्यते | तदुक्तं संकेतपद्धत्याम् - वशिन्योऽष्टौ सान्तरालम् इत्यादिना अनाख्या सर्वगा ततः इत्यन्तेन || १/७८ || ननु स्वसंविद्रूपा त्रिपुरैव सा ज्ञायताम्, किमेतेन चक्रवासनालक्षणेन बकबन्धनप्रयासेनेत्यत आह - यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् | यस्य विज्ञानमात्रेण यस्मिन् विज्ञात एव, त्रिपुराचक्रज्ञान-मात्रेण त्रिपुराज्ञानवान् ज्ञाता भवेत् | कोऽर्थः ? शुद्धाया निराकारमूर्तेस्त्रिपुराया ज्ञानमशक्यम् | अत एवोक्तरीत्यैव एतच्चक्रवासनया तन्मध्ये बैन्दवचक्रे क्रोडीकृता सा ज्ञातुं शक्येत्यर्थः | तदुक्तमभियुक्तैः - घृतकाठिन्यवच्चक्रमहायोनौ चिदम्बरम् | द्रुतहेमघनीभावमिव मूर्तीकरोम्यहम् || १/(सु. वा. ३६) इति | चक्रस्य पूर्वमुद्दिष्टं नवधात्वमिदानीं वक्तुं प्रतिजानीते - चक्रस्य नवधात्वं च कथयामि तव प्रिये || १/७९ || यतः प्रियतमाऽसि त्वम्, अतो रहस्यमपि कथयामीत्यर्थः || १/७९ || इदानीं नवधात्वमेवाह - आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् | अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् || १/८० || पञ्चमं दशकोणं स्यात् षष्ठं चापि दशारकम् | सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् || १/८१ || नवमं त्र्यस्रमध्यं स्यात् भूत्रयेण चतुरस्रत्रयेण | मनुकोणं चतुर्दशारम् | वसुकोणम् अष्टकोणम् | स्पष्टमन्यत् || १/८० -८२ || उक्तानां नवचक्राणां नामान्याह - तेषां नामान्यतः शृणु | त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् || १/८२ || सर्वसंक्षोभणं गौरि सर्वसौभाग्यदायकम् | सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् || १/८३ || सर्वरोगहरं देवि सर्वसिद्धिमयं तथा | सर्वानन्दमयं चापि नवमं शृणु सुन्दरि || १/८४ || त्रैलोक्यमोहनम् | लोक्यत इति लोकः, लोक्यतेऽनेनेति लोकः, लोकयतीति लोक इति कर्मकरणकर्तृव्युत्पत्त्या मेयमानमातृलक्षणं त्रैलोक्यम्, तस्य मोहनं तिरोधायकमद्वैतप्रतीत्युत्पादनेन | सर्वाशापरिपूरकम् | आशा नाम अतृप्तस्य पदार्थान्तरेषु स्पृहा, तस्याः सर्वस्याः स्पृहायाः परिपूरकं नित्यपरिपूर्ण- तृप्तिलक्षणपरमशिवसामरस्यप्रतिपादनेन | सर्वसंक्षोभणम् | सर्वस्य क्षित्यादेः शिवान्तस्योपर्युपरि तत्त्वक्रमेण संक्षोभः, तस्य संहारलक्षणस्य कारकम्, भेदप्रपञ्चलयरूपत्वात् | सर्वसौभाग्यदायकम् | सर्वसौभाग्यं सर्वस्पृहणीयता, तस्या दायकम्, सर्वस्पृहणीयपरप्रेमास्पदपरशिवैक्यप्रतिपादनेन | सर्वार्थसाधकम् | सर्वेषां वैदिकानां तान्त्रिकाणां क्रियाणामर्थः प्रयोजनं परशिवप्राप्तिः, तदुक्तं महाकविभिः - बहुधा ह्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः | त्वययेव निपतन्त्योघा जाह्नवीया इवार्णवे || १/(रघु. १०/२६) इति | तत्साधयति | सर्वरक्षाकरम् | रक्षा नाम प्रतिकूलपदार्थादुपहतिपरिहारः | षट्त्रिंशत्तत्त्वात्मकं सर्वमेव प्रतिकूलपदार्थः, तस्मात् सर्वस्माद् रक्षां शिवाहम्भावभावनालक्षणां करोति | तदुक्तं परापञ्चाशिकायाम् - अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् || १/(श्लो. ५०) इति | सर्वरोगहरम् | भेदलक्षणं षट्त्रिंशत्तत्वात्मकं सर्वमेव रोगः, तस्य हरम्, अभेदप्रतीतिहेतुत्वात् | अत्रैवोक्तम् - विकल्परूपरोगाणां हारिणी खेचरी परा (१/८६) इति | सर्वसिद्धिमयम् | सर्वस्य सिद्धिरुत्पत्तिः स्थितिः संहारश्च, तन्मयम्, त्रिकोणस्य सर्वसृष्टिस्थितिसंहारहेतुत्वात् | तदुक्तं श्रीप्रत्यभिज्ञाहृदये - चितिः स्वतन्त्रा विश्वसिद्धिहेतुः (सू. १) इति | सर्वानन्दमयम् | शिवशक्तिलक्षणप्रकाशविमर्शसामरस्यरूपत्वात् | अत्र सर्वत्र प्रवृत्तिनिमित्तभेदादद्वैतविश्रान्तिरेव परमार्थः || १/८२ - ८४ || पूर्वोक्तवासनाचक्रस्य प्रयोजनमाह - अत्र पूज्या महादेवी महात्रिपुरसुन्दरी | महादेवी | महती देशकालाकारैरनाकलितत्वात्, द्योतनादिति देवी, देवीपदाभिधेया विमर्शरूपा | अत्र त्रिधा च नवधा च (१/७२) इति पूर्वोक्तवासनाचक्रे | महात्रिपुरसुन्दरी | महती अनावरणा चिद्रूपिणी, त्रिपुरा तुर्यरूपत्वात्, सुन्दरी स्वस्वात्मतया सर्वस्य स्पृहणीयत्वात् | एवं विद्या स्वसंविद्देवता पूज्या वक्ष्यमाण (३/२-४) परादित्रिविधरूपया पूजया भावनीया | त्रैलोक्यमोहनादिनवचक्राणां स्वस्वनामानुरूपार्थ- वासनालक्षणफलान्युक्त्वेदानीं समष्टिचक्रस्य फलमाह - परिपूर्णं महाचक्रमजरामरकारकम् || १/८५ || परिपूर्णं नवचक्रसमष्टिरूपं महायोनिमध्यमहा- बिन्दुचक्रस्फुरत्प्रकाशविमर्शसामरस्यरूपपराप्रभापटलमयसर्वानन्दमयं सर्वावरणसमग्रं च महाचक्रम् | विश्वमय-विश्वोत्तीर्णपरामयत्वाद् अजरामरकारकम् | अजरः कालत्रया-तीतत्वात्, अत एवामर उत्पत्तिविनाशरहितत्वात्, अजरामरः परमशिवः | कारकं स्वपूजकस्य कालत्रयातीतोत्पत्तिविनाशरहितनित्यपरशिवत्व-प्राप्तिलक्षणं मोक्षं करोतीत्यर्थः || १/८५ || चक्रसंकेतमुपसंहरति - एवमेष महाचक्रसंकेतः परमेश्वरि | कथितास्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः || १/८६ || एवम् उक्तप्रकारेण | त्रिपुरादेव्याः पूर्वोक्त (१/६) लक्षणायाः | महाचक्रसंकेतः षट्- त्रिंशत्तत्त्वचक्ररूपत्वान्-महाचक्रम् | जीवतो मुक्तिः जीवन्मुक्तिः | मुक्तिर्हि बन्धनादुद्बन्धनं घृणादिपाशाष्टकेन | कोऽर्थः ? परशिवादिस्वगुरुपरदेवताधिगतपरमार्थश्चक्रसंकेतकः स्वपरामर्शकस्य हठादेव सकलपाशविनाशनेन शिवाहम्भावभावनां प्रवर्तयतीत्यर्थः || १/८६ || इति श्रीपरमयोगीन्द्रपरमहंसपुण्यानन्दशिष्यपरमहंसा- मृतानन्दयोगिप्रवरविरचितायां योगिनीहृदयदीपिकायां चक्रसंकेतः प्रथमः || मन्त्रसंकेतो द्वितीयः अथ द्वितीयं मन्त्रसंकेतकं श्रोतृजनप्रवृत्तये फलप्रतिपादनपूर्वकं वक्तुं प्रतिजानीते - मन्त्रसंकेतकं दिव्यमधुना कथयामि ते | यद्वेत्ता त्रिपुराकारो वीरचक्रेश्वरो भवेत् || २/१ || दिव्यं प्रकाशविमर्शरूपपरशिवपराशक्तिप्रतिपादन-परत्वात् | मन्त्रसंकेतकम् | मननात् त्रायन्ते साधकमिति मन्त्राश्चिन्मरीचयः | तद्वाचकत्वाद् वैखरीवर्णविलास-भूतानां सौभाग्यविद्यादीनां मननत्राणता | तदुक्तं संकेतपद्धत्याम् - मननात् त्राणधर्माऽसौ मन्त्रोऽयं परिकीर्तितः इति | संकेतकं पूर्वोक्त (१/६) लक्षणम् | अधुना कथयामीति | प्रकाशात्मकोऽहं ते विमर्शरूपिण्याः कथयामि, हृदयङ्गमतां नयामीत्यर्थः | यद्वेत्ता यस्य मन्त्रसंकेतकस्य वेत्ता ज्ञाता | त्रिपुराकारो वेदनसपरिस्फुरत्परशिवभट्टारकः | वीरचक्रेश्वरो भवेत् | वीराः पूर्वोक्त (१/६५) लक्षणाः, तेषां चक्रं समूहः, तस्येश्वरः परशिवः | कोऽर्थः ? एतन्मन्त्र- संकेतप्रतिपादितश्रीविद्यादिमन्त्ररहस्यभूतपरभावना-प्रणाशितमायाजालः परशिव एव भवेदित्यर्थः || २/१ || पूर्वोक्तत्रैलोक्यमोहनादिनवचक्रेश्वरीमन्त्रानेवोपक्रम्य मन्त्रसंकेतमारभते - करशुद्धिकरी त्वाद्या द्वितीया चात्मरक्षिका | आत्मासनगता देवी तृतीया तदनन्तरम् || २/२ || चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता | साध्यसिद्धासना षष्ठी मायालक्ष्मीमयी परा || २/३ || मूर्तिविद्या च सा देवी सप्तमी परिकीर्तिता | अष्टम्यावाहिनी विद्या नवमी भैरवी परा || २/४ || करशुद्धिकरी - आत्मतत्त्वगतयोरशुधयोरत्र कर्मकरणात्मनोर्द्वयोः | शुद्धतत्त्वलयभावनामयी शुद्धिरात्मकरयोः परा मता (चि. ११) इत्यस्मदुक्तरीत्या कर्मेन्द्रियान्तःपातिनोः करयोरशुद्धतत्त्वान्तर्गतयोरशुद्धयोः शुद्धतत्त्वलयभावना शुद्धिः, तत्करीयं विद्या, पराहन्ताप्रतिपादनपरत्वात् | अत्रैव वक्ष्यति - कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता (३/१२५) इति | आद्या त्रैलोक्यमोहनचक्रेश्वरी विद्येत्यर्थः | नन्वत्र करशुद्ध्यादिमन्त्राणां संख्यामेव करोति, किमिति नोद्धरति ? उच्यते, वामकेश्वरशास्त्र एवासामुद्धारः, अत्र त्वज्ञातार्थप्रतिपादनपरत्वादस्य शास्त्रस्येति न मन्त्रोद्धारः क्रियत इति | द्वितीया चात्मरक्षिका | भेदलक्षणविपक्ष- संकटोत्तारणं परमिहात्मरक्षणम् (चि. ७) इत्यस्मदुक्तरीत्या भेदप्रपञ्चलक्षणप्रतिपक्षपराभवरूपसंकटाद्रक्षाम-भेदप्रतीतिरूपां पराहन्ताप्रतिपादनेनात्मनः करोतीत्यात्मरक्षिका द्वितीया सर्वाशापरिपूरकाख्यद्वितीयचक्रेश्वरी विद्येत्यर्थः | आत्मासनगता देवी तृतीया | आत्मचक्रमनुदेवतात्मनामासनं शिवमयत्वभासनम् (चि. ४५) इत्यस्मदुक्तरीत्या साधकचक्रमन्त्र-देवतानां स्वसंविद्रूपतयाऽनुसन्धानलक्षणासनचतुष्टय- विद्यानामादिभूताऽऽत्मासनगता विद्या तृतीया सर्वसंक्षोभकरलक्षण- तृतीयचक्रेश्वरी विद्येत्यर्थः | तदनन्तरं चक्रासनगता | तदनन्तरोक्त-चक्रासनगता चतुर्थी विद्या सर्वसौभाग्यदायकलक्षणचतुर्थचक्रेश्वरी विद्येत्यर्थः | पश्चात् सर्वमन्त्रासनस्थिता | अनन्तरोक्तवासनापुर्वोक्त (२/१) लक्षणमननत्राणलक्षणचिन्मरीचिप्रसरणाखिलावरणदेवतामन्त्रासन-स्थिता पञ्चमी विद्या, सर्वार्थसाधकाभिधानलक्षणपञ्चम-चक्रेश्वरी विद्येत्यर्थः | साध्यसिद्धासना षष्ठी | सर्वपीठनिवासिन्यः सर्वगाश्चिन्मरीचयः | भैरव्यो भरिताकारा रक्षन्तु कुलमातरः || इति प्रमाणिकवचनोक्तरीत्या चिन्मरीचिमयपरिणतावरणदेवताः साध्याः सृष्टिस्थाः सप्तसंख्याकत्रिकोणादिषोडशदलान्तचक्रपद- गताश्चतुरस्रत्रयपदगताश्च देवताः सृष्टिक्रमरूपत्वात् साध्याः | तदुक्तमत्रैव - सृष्टिः स्यान्नवयोन्यादिपृथ्व्यन्तम् (१/७७) इति | साध्यास्ता एव संहृतिकाले सिद्धाश्चतुरस्रादिबैन्दवान्तक्रमेणोपसंहृताः | तदुक्तमत्रैव - संहृतिः पुनः पृथ्व्यादिनवयोन्यन्तम् (१/७७-७८) इति | अत्र सिद्धिः संहारः | तदुक्तं श्रीप्रत्यभिज्ञाहृदये - चितिः स्वतन्त्रा विश्वसिद्धिहेतुः (सू. १) इति | एवं सृष्टिसंहारक्रमेणानुसन्धीय-मानानां साध्यसिद्धानामावरणदेवतानामासने स्थिता विद्या साध्यसिद्धासना षष्ठी, सर्वरक्षाकरनामधेयषष्ठचक्रेश्वरी विद्येत्यर्थः | मायालक्ष्मीमयी परा मूर्तिविद्या च सा देवी सप्तमी परिकीर्तितेति | अस्या विद्यायाश्चतुःशतीशास्त्रेऽनुद्धृतत्वादत्रोद्धारः क्रियते | माया भुवनेश्वरीबीजम्, लक्ष्मीः श्रीबीजम्, तन्मयी तत्प्रचुरा | तयोर्-ऊर्ध्वगता परा - चतुर्दशयतुं भद्रे तिथीशान्तसमन्वितम् | तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || (श्लो. ९) इति श्रीपरात्रिंशिकोक्तबीजं परा, परावाचकत्वात् | तद्वीजत्रयात्मिका [ब्रह्मविष्णुरुद्रात्मकत्वाच्च सा विद्या श्रीमहात्रिपुरसुन्दरीमूर्ति-कल्पनायां विनियुक्ता] सप्तमी सर्वरोगहराभिधानसप्तमचक्रेश्वरी विद्येत्यर्थः | अष्टम्यावाहिनी विद्या | आन्तरस्य निजसंविदात्मनो मातुरक्षकरणाध्वना बहिः | मेयसंविदि समर्पणं तदावाहनं समरसत्वलक्षणम् || (चि. २०) इत्यस्मदुक्तरीत्या स्वहृदयकमलकर्णिकामध्ये स्फुरन्त्याः संवित्-कलायाः आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन (न्या. भा. १/१/४) इति तन्त्रान्तरोक्तपरिपाट्या बहिरर्थप्रसरणलक्षणावाहिनी विद्या सर्वसिद्धिप्रदाऽष्टमचक्रेश्वरी विद्येत्यर्थः | नवमी भैरवी परा | भैरवी विश्वस्य भरणात् स्थितिहेतुतया, रक्षणात् परचिन्मात्रपर्यवसानलक्षण-संहारकारणतया, वमनात् सृष्टिहेतुतया च || २/२-४ || ननु भैरवी चतुःशतीशास्त्रे नोक्ता, किमित्यत्र नोद्धृता, सप्तम-चक्रेश्वरी विद्या चोद्धृतेत्यत आह - मूलविद्या तथा प्रोक्ता त्रैलोक्यवशकारिणी | मूलं विश्वस्य शिवादेर्भूम्यन्तस्य षट्त्रिंशत्तत्त्वात्मनः प्रकाशविमर्शसामरस्यरूपं परं तेजो वेदयतीति मूलविद्या तथा प्रोक्ता भैरवी कथिता नान्या | अस्यास्तत्रैवोद्धृतत्वान्नात्रोद्धारः | अन्यथा सप्तमचक्रेश्वरीवदत्रोद्धरेत् | वक्ष्यति - मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि (२/७) इति | त्रैलोक्यमुक्त (१/८२) लक्षणं वशीकरोति सर्जने संहारे च स्वायत्तं करोत्तीति || २/५ || वक्ष्यमाणपूजासंकेते वक्तुं योग्यमपि न्यासं नवचक्रेश्वरीविद्यानां प्रसङ्गान्मण्डूकप्लुतिन्यायेनाह - एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः || २/५ || एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि | एवमुक्तप्रकारेण | नवप्रकारा एताश्चक्रेश्वरीवियाः | साधकेन एतद्विद्योपासकेन मोक्षमात्मनः साधयितुमिच्छता | कुलेश्वरी | कुलं मेयमानमातृरूपम् | तदुक्तं चिद्गगनचन्द्रिकायाम् - मेयमातृमितिलक्षणं कुलं प्रान्ततो व्रजति यत्र विश्रमम् (श्लो. ७२) इति | तस्य सर्जने संहारे च ईश्वरि | अत्र श्रुतिः -यथोर्णनाभिः सृजते गृह्णते च (मु. उ. १/१/७) इति | आज्ञावतारेऽप्युक्तम् - स्वेच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपि इति | पूजाकाले वक्ष्यमाणसंकेतोक्तसपर्यासमये | प्रयत्नतः प्रयत्नस्तदवाप्तौ तु व्यापारोऽतित्वरान्वितः (द. रू. १/२०) इति तन्त्रान्तरोक्तरीत्या श्रद्धावेशितया क्रमेण न्यस्तव्याः || २/५-६ || तत्स्थानान्याह - पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च || २/६ || स्पष्टम् || २/६ || आधारे विन्यसेन्मूर्ति तस्यामावाहिनीं न्यसेत् | मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि || २/७ || आधारे विन्यसेन्मूर्तिम् | पादाग्रादीनां बाह्यत्वेन प्रसिद्धत्वात् पृथक्करणमाधारमूर्त्योरान्तरत्वद्योतनार्थम् | आधारे पूर्वोक्ते (१/२५) चतुर्दले कमले | मूर्ति मूर्तिविद्यां सप्तमीं न्यसेत् | तस्यां मूर्तावेवा-वाहिनीं न्यसेत् | मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि | मूलेन नवमचक्रेश्वरीविद्यया, सौभाग्यविद्ययेति यावत् | स्पष्टमन्यत् || २/७ || नवचक्रेश्वरीविद्यानां न्यासमुक्त्वा तदाधारभूतनव-चक्राणामपि चिन्ता लक्षणमान्तरन्यासमाह - अकुलादिषु पूर्वोक्तस्थानेषु परिचिन्तयेत् | चक्रेश्वरीसमायुक्तं नवचक्रं पुरोदितम् || २/८ || अकुलादिषु अकुले विषुसंज्ञे च (१/२५) इत्यत्र पूर्वोक्तस्थानेषु | आदिशब्देनाष्टौ वह्नि-शाक्त-नाभि-अनाहत-विशुद्ध-लम्बिकाग्रभ्रुवोरन्तर-इन्दवो गृह्यन्ते | पुरोदितं चक्रसंकेतोदितं नवचक्रं चक्रेश्वरीसमायुक्तं नवचक्रेश्वर्यधिष्ठितं परिचिन्तयेत् | कोऽर्थः ? अकुले सुषुम्नामूलारुणसहस्रदलकमले त्रिपुराधिष्ठितं त्रैलोक्यमोहनचक्रम्, वह्नावाधारे चतुर्दलकमले त्रिपुरेश्यधिष्ठितं सर्वाशापरिपूरणं चक्रम्, शाक्ते स्वाधिठानस्थितषड्दलकमले त्रिपुरसुन्दर्यधिष्ठितं सर्वसंक्षोभणं चक्रम्, नाभौ दशदलकमले त्रिपुरवासिन्यधिष्ठितं सर्वसौभाग्यदायक चक्रम्, अनाहते हृदि द्वादशदलकमले त्रिपुराश्रीसमधिष्ठितं सर्वार्थसाधकं चक्रम्, विशुद्धे षोडशदलकमले त्रिपुरमालिन्यधिष्ठितं सर्वरक्षाकरं चक्रम्, लम्बिकाग्रे तालुमूलेऽष्टदलकमले त्रिपुरासिद्ध्यधिष्ठितं सर्वरोगहरं चक्रम्, भ्रुवोरन्तरे द्विदलकमले त्रिपुराम्बिकाधिष्ठितं सर्वसिद्धिप्रदं चक्रम्, इन्दौ ललाटे बिन्दौ महात्रिपुरसुन्दर्यधिष्ठितं सर्वानन्दमयं चक्रं भावयेदित्यर्थः || २/८ || पूर्वोक्तविद्यानां नवचक्रेश्वरीणां नामान्याह - तासां नामानि वक्ष्यामि यथानुक्रमयोगतः | तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी || २/९ || तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी | चतुर्थी च महादेवि देवी त्रिपुरवासिनी || २/१० || पञ्चमी त्रिपुराश्रीः स्यात् षष्ठी त्रिपुरमालिणी | सप्तमी त्रिपुरासिद्धिरष्टमी त्रिपुराम्बिका || २/११ || नवमी तु महादेवी महात्रिपुरसुन्दरी | स्पष्टम् || २/९ - १२ || नन्वेताश्च विद्या नवचक्रेश्वर्यः पादाग्रादिष्वकुलादिस्थानेषु च भावनारूपेण क्रमेण न्यस्तव्या एव किम् ? नेत्याह - पूजयेच्च क्रमादेता नवचक्रे पुरोदिते || २/१२ || एताः पुरोदितास्त्रिपुराद्या विद्या नवचक्रेश्वर्यः | पुरोदिते त्रलोक्यमोहनं चक्रम् (१/८२-८४) इत्यादिपूर्वोक्ते | नवचक्रे इत्येकवचनमन्योन्याविश्लेषकथनार्थम् | अकुलादिनवस्थानेष्वन्योन्य-संयुक्ततयैव विभावितेषु नवचक्रेष्वित्यर्थः | क्रमात् पूजयेच्च त्रैलोक्यमोहनं चक्रमारभ्य प्रतिचक्रमेकैकां क्रमेण पूजयेदित्यर्थः || २/१२ || ननु किमासां नवधात्वं स्वाभाविकम् ? नेत्याह - एवं नवप्रकाराद्या पूजाकाले तु पार्वति | एकाकारा ह्याद्यशक्तिरजरामरकारिणी || २/१३ || आद्या शिवादिक्षित्यन्तस्य जगतो निदानत्वात् | आद्या शक्तिराद्यशक्तिः | आद्यस्य सकलवर्णादिभूतस्य प्रकाशात्मनः परशिवस्य शक्तिर्विमर्शरूपिणी | एकाकारा परापूजाकाले तेन निरन्तरं सामरस्यमापन्ना | अपरापूजाकाले तु तथा न भवति | एवमुक्तप्रकारेण | नवप्रकारा नवविधा भिन्ना | एवंविधपूजकस्य अजरामरकारिणी | अजमरामर उक्तलक्षणः (१/८५) शिवः, तत्त्वमस्य करोति | अत्रैव वक्ष्यति - तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता (३/२) इति || २/१३ || प्रासङ्गिकमुपसंहृत्य प्रकृतमेव प्रधानं मन्त्रसंकेतमुद्दिशति - मन्त्रसंकेतकस्तस्या नानाकारो व्यवस्थितः | नानामन्त्रक्रमेणैव पारम्पर्येण लभ्यते || २/१४ || तस्याः परशिवसामरस्यरूपायाः पराया यो मन्त्रः सौभाग्यविद्यारूपः, तस्य संकेतो गूढार्थप्रदर्शनम् | नानाकारः अनन्तरवक्ष्यमाणषड्विधरूपः | नानामन्त्रक्रमेणैव अनन्तरपूर्वोक्तकरशुद्ध्यादिनानाप्रपञ्चपरिपाट्यैव | पारम्पर्येण लभ्यते सोपानावरोहरीत्या शिवादिस्वगुरुपर्यन्तपरम्परोपदेशक्रमेण लभ्यते, नान्यथा | पारम्पर्यविहीनानामसम्प्रदायवतां चुम्बकवृत्त्या चौर्यावगताक्षरपाठमात्रपर्यवसितानामनर्थायैव केवलमित्यर्थः | अत्रैव वक्ष्यति - पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः | तेषां समयलोपेन विकुर्वन्ति मरीचयः || (२/८१) इति || २/१४ || उद्दिष्टस्य मन्त्रसंकेतस्य विभागं प्रतिजानीते - षड्विधस्तं तु देवेशि कथयामि तवानघे | षड्विधः अनन्तरवक्ष्यमाणभावार्थादिप्रकारेण षड्विधः | अनघे परशिष्यत्वादिदोषरहिते | तव मदंशभूताया विमर्शशक्तेः | प्रकाशात्मकोऽहं तं तु षड्विधं कथयामि || तद्विभागमाह - भावार्थः सम्प्रदायार्थो निगर्भार्थश्च कौलिकः || २/१५ || तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च | वक्ष्यमाणलक्षणत्वात् स्पष्टोऽर्थः || २/१५ -१६ || षोढा प्रकारेण लक्षणानि कथयिष्यन्नादौ भावार्थमाह - अक्षरार्थो हि भावार्थः केवलः परमेश्वरि || २/१६ || न क्षरन्तीत्यक्षराणि नित्यपरशिववाचकत्वात् | किञ्च, ताल्वोष्ठव्यापारोऽभिव्यञ्जकस्तेषाम् | अत एवाक्षराण्येवाक्षराणि | तेषामर्थोऽभिधेयः | श्रीसौभाग्यविद्याऽवयवपञ्च-दशाक्षराणामर्थो भावार्थः || २/१६ || अक्षरार्थमेवाह - योगिनीभिस्तथा वीरैर्वीरेन्द्रैः सर्वदा प्रिये | शिवशक्तिसमायोगाज्जनितो मन्त्रराजकः || २/१७ || योगिन्यः, योगः शिवसंबन्धो नित्यं विद्यते आसामिति योगिन्यो विमर्शशक्त्यंशभूतेच्छाज्ञानक्रियात्मकभारतीपृथ्वीरूद्राण्यः | वीरा उक्तार्थाः (१/६५), तद्योगिनीनित्यसंबन्धभूताः प्रकाशांशभूता वामाज्येष्ठारौद्र्यात्मकब्रह्मविष्णुरुद्राः सृष्टिस्थितिसंहारकर्तारः | वीरेन्द्राः सृष्टिस्थितिसंहारपदातीताऽनाख्याधिकारिणस्ते शान्ताऽम्बिकात्मानः शिवशक्तिमिथुनत्रयसमष्टिरूपास्त्रिबीजशिखरवर्ति-कामकलात्रयाभिधेयाः | एतैर्विद्याक्षराभिधेयमयैर्मिथुनचतुष्टयैः | शिवशक्तिसमायोगात् शिवशक्त्योः समायोगः सम्पर्कस्तस्मात् | मन्त्रराजकः सौभाग्यविद्यारूपः, सकलमन्त्रोत्तमत्वात् | जनितः जातः | आदिकर्मणि क्तः, जातो भावित इति यावत्, तस्यार्थस्य नित्यत्वात् | अयमेवार्थो मया सौभाग्य-सुधोदये प्रपञ्चितः | यथा - सैव महाविद्यात्मा माता चतुरन्वयैकविश्रान्तिः | चतुराननादिजननी जाता चतुरात्मवर्गफलदात्री || अस्वरविमर्शरूपौ स्वांशौ हित्वा चतुष्कलौ सैव | वामादीच्छादिमयान्यकरोद् द्वन्द्वान्यमूनि चत्वारि | वामांशो ब्रह्मा स्यादिच्छैव तस्य भारती शक्तिः | अनयोरेतन्मिथुनं सृस्टिः प्रागन्वयात्म वाग्बीजम् || ज्येष्ठांशो विष्णुः स्याज्ज्ञाना विश्वम्भरा तयोर्मिथुनम् | इदमेव दक्षिणान्वयरूपं श्रीकामराजमध्यास्ते || रौद्र्यात्मकस्तु रुद्रः क्रियामयी शक्तिरस्य रुद्राणी | युगलमिदं तार्तीयं बीजं पालयति पश्चिमाम्न्यायम् || स्यादम्बिकास्वरूपः शम्भुः शान्तात्मिकाऽस्य शक्तिः स्यात् | मिथुनमिदं शिवशक्त्योरुत्तरसमयात्म तुर्यमधितिष्ठेत् || एवमनुत्तरशक्त्योश्चतुरंशद्वन्द्वरूपिणी परा जाता | चतुरन्वयात्मिकेयं पश्यन्ती मातृकामयी विद्या || सृष्टिः पूर्वाम्नायो बाग्भवबीजं तदात्मकं त्रिविधम् | सृष्टिस्थितिसंहारैर्भिन्ना सृष्टिस्त्रिमूर्तिमूर्तिः स्यात् || ब्रह्माऽत्र सृष्टिसृष्टावधिपतिरेतस्य भारती शक्तिः | सोऽयं हस्यार्थः स्यात् स एव शिव शक्तिवाचकश्चापि || हस्यार्थः स्यादत्र स्वशक्तिमयरूपसार्णसंयोगात् | सृष्टिस्थितौ तु विष्णुः कर्ता विश्वम्भराऽस्य शक्तिः स्यात् || विष्णुः कलिपेरर्थो ललिपेरेतस्य शक्तिरर्थः स्यात् | रुद्रोऽधिपतिः शक्ती रौद्री स्यात् तत्र सृष्टिसंहारे || हरवर्णयुगलमनयोर्वाचकमर्थोऽत्र रस्य रुद्रः स्यात् | रुद्राक्षरसम्पर्काद् रौद्री तच्छक्तिरत्र हस्यार्थः || अत्र तु शक्त्यर्णस्य प्राथम्यं शक्तिबीजभूतत्वात् | अधिवसतः शिवशक्ती संज्ञानाख्या तयोस्तु त्रित्वमयी || कामकला कलयित्री तुर्यमयी रक्तशुक्लमिश्रतनुः | रक्तो बिन्दुः शक्तिः शुक्लः शम्भुः परस्तदैकात्म्यम् || एवं द्वितीयबीजं स्थितिरूपं दक्षिणान्वयात्म स्यात् | स्थिति सृष्ट्यादिविभेदाद् वसन्ति ता एव देवतास्तत्र || अत्र कलवर्णमध्यस्थितो हकारः स्थितिस्वरूपत्वम् | अस्य द्योतयति परं स्थितिरूपं संविदम्बिकाकारः || संहारात्मकपश्चिमसमयमये तद्वदेव तार्तीये | संहृतिसृष्ट्यादिवशाद् वसन्ति ता एव देवतास्तत्र || सृष्टौ शक्तेर्नियतप्रधान्यादस्य शक्तिबीजत्वात् | स्वात्मनि संहृतिसृष्टौ शिवमन्तर्भाव्य भासते शक्तिः || त्रिमये तुरीयबीजेऽनाख्यारूपोत्तरान्वयात्मनि तौ | शक्तिशिवावधिवसतो निरन्तरं सामरस्यमापन्नौ || सृष्ट्यादिभेदभिन्नश्रीविद्यावर्णयुगलनवकात्मा | नवनादवर्गरूपा माता सा मध्याऽभिधा वितता || शब्दस्पर्शौ रूपं रसगन्धौ चेति भूतसूक्ष्माणि | व्याप्यव्यापकभावात् पञ्चदश स्युः क्रमेण तत्संख्याः || तिथयश्च कला नित्यास्तदात्मिकाः स्युस्तथैव तत्संख्यैः | वर्णैः समष्टिरेषा विद्या व्याप्नोति तानि सर्वाणि || सर्गादि समष्टिरूपैः स्वांशैरेभिस्तदात्मना विततैः | सर्गेण कादिवर्णैरपि षट्त्रिंशद्भिरात्मनोऽवयवैः || पुनरज्व्यञ्जनबिन्दुप्रभेदभिन्नांस्तदक्षरावयवान् | षट्त्रिंशत्संख्याकांस्तत्त्वमयानश्नुते हि सा माता || व्यष्टिसमष्टिविभेदैश्चतुरात्मा तत्त्वबीजपीठमयी | चतुरन्वयात्मनाऽपि च माताऽष्टकमातृकामयी विद्या || इति || २/१७ || (२/१-२५) तुरीयमन्त्रस्यार्थमाह - तन्मयीं परमानन्दनन्दतां स्पन्दरूपिणीम् | निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते || २/१८ || तन्मयीं भारत्यादिब्रह्मादिमिथुनत्रयवाचकबीजत्रयसमष्टि-रूपां तुरीयमन्त्रवाच्याम् | परमानन्दनन्दितां परमशिवसामरस्य- परिस्फुरत्परमानन्दनिर्भराम् | स्पन्दरूपिणीं शिवादिक्षित्यन्तषट्त्रिंशत्- तत्त्वस्पन्दरूपेण व्यक्तनिजविभवाम् | निसर्गसुन्दरीं सर्वप्राणिष्वात्मतया परप्रेमास्पदीभूताम् | देवीं महात्रिपुरसुन्दरीं प्रकाशविमर्श-सामरस्यरूपिणीं पराम् | ज्ञात्वा स्वात्मतया | स्वैरमुपासते स्वातन्त्र्येण विहरन्ति, स्वैराचारपरा भवन्तीत्यर्थः | अत्रैव वक्ष्यति - स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः समा (३/१६४) इति || २/१८ || मन्त्रशब्दार्थमाह - शिवशक्त्याख्यसंघट्टरूपे ब्रह्मणि शाश्वते | तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते || २/१९ || ज्ञातृज्ञानमयाकारमननान्मन्त्ररूपिणी | शिवशक्त्यात्मसंघट्टरूपे शिवशक्त्यात्मनोः प्रकाशविमर्शयोः संघट्टः सामरस्यम्, तद्रूपे ब्रह्मणि, बृह वृद्धौ (७३५ भ्वा.) इत्यस्माद् धातोर्बृहणत्वादात्मैव ब्रह्मेति वैयाकरणोक्तरीत्या सर्वप्राणिष्वात्मनि | शास्वते भूतभविष्यत्कालशालिनि | तत्प्रथाप्रसराश्लेषभुवि | तच्छब्देन प्रकाशात्मा परामृश्यते | श्रीभगवद्गीतायाम् - ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः (१७/२३) इति | तस्य शिवस्य प्रकाशमयस्य प्रथा विमर्शशक्तिः, यथा दीपस्य प्रभा तद्वत्, तस्याः प्रसरः षट्त्रिंशत्तत्त्वात्मना परिणामः, तस्याश्लेषः शिवे तावन्मात्रतया पर्यवसानम्, तस्य भुवि विश्रान्तिस्थाने | अत्र श्रुतिः - सर्वं खल्विदं ब्रह्मतज्जलानिति शान्त उपासीत (छा. उ. ३/१४/१) इति | ऐन्द्रोपलक्षिते, इदि परमैश्वर्ये (६३ भ्वा.), परमैश्वर्यवानिन्द्रः | अत्र श्रुतिः - इन्द्रो मायाभिः पुरुरूप ईयते (ऋ. ४/७/३३) इति | तत्संबन्धि ऐन्द्रं कर्म, तेनोपलक्षिते | काकवद् देवदत्तगृहमितिवद् विश्वसर्जनादिव्यवहारोऽष्योपलक्षणम्, न तु स्वरूपधर्म इति यावत् | प्रकाशविमर्शसामरस्यरूपे नित्ये विश्वसृष्टिस्थितिसंहारकारिणी साक्षिणि तत्प्रकृत्यात्मक महदैश्वर्यपरामृष्टे परमात्मनि विषये ज्ञातृज्ञानमया कारमननाद् ज्ञातुरादरनैरन्तर्यपाटवाभ्याससद्भावतत्प्रकर्ष-लक्षणमननात् तन्मयाकारभावनालक्षणत्राणान्मन्त्ररूपिणी | कोऽर्थः ? उक्तविशेषणविशिष्टपरप्रकाशविषयमननात् स्वसाधकं तन्मयरूपताप्रतिपादनेन त्रायत इति निरुक्त्या तुरीयलक्षणमहामन्त्ररूपिणीयमित्यर्थः || २/१९-२० || ननूक्तविशेषणविशेषिता तुरीयमन्त्ररूपिणीयं किंलक्षणेत्यत आह - तेषां समष्टिरूपेण पराशक्तिस्तु मातृका || २/२० || तन्मयीम् (२/१८) इति पूर्वोक्तमेव | तेषां ब्रह्मादीनां भारत्यादीनां च सृष्ट्यादिसमष्टिरूपलक्षणेन लक्षिता पराशक्तिः | तुरवधारणे | पराशक्तिरेव, न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते | पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च || (श्वे. उ. ६/८) इतिश्रुतिप्रतिपादिता परैव मातृका, अखिलमनाहतमूर्तिर्मात्युत्तीर्णस्वरूपिणी तरति | कायति नानानामप्रपञ्चरूपेण मातृका देवी || (सौ. सु. १/६) इत्यस्मदुक्तरीत्या परा मातृका पश्यन्ती - मध्यमा - वैखरीरूपेण व्यापृता | अत्र श्रूतिः - चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति || इति | (ऋ. १/१६४/४५) अयमर्थः - ब्रह्मादिभारत्यादिसमष्टिरूपतालक्षणा पश्यन्ती - मध्यमा - वैखरी - विस्तारप्रकाशविमर्शसाम स्यरूपा तुरीयमन्त्रवाच्येति || २/२० || नन्वियमकारहकारसामरस्यरूपा परैव तुरीयमन्त्रविशेषण-विशेषिता तुरीयपदवाच्येत्युक्तम्, तद्वर्णद्वयं मन्त्रे कुत्र निवसतीति (चेत्), एतन्मन्त्रस्य तद्वर्णद्वयवाच्यायाः परायाश्च कः संबन्ध इत्यत आह - मध्यबिन्दुविसर्गान्तः समास्थानमये परे | कुटिलारूपके तस्याः प्रतिरूपे वियत्कले || २/२१ || तस्याः परायाः | मध्यबिन्दुविसर्गान्तःसमास्थानमये | मध्यबिन्दुरूर्ध्वबिन्दुरकारहकारसामरस्यरूपः कामाख्यः | तदुक्तं कामकलाविलासे - बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः | कामः कमनीयतया (श्लो. ७) इति | विसर्गस्तन्निरासरूपो बिन्दुद्वयात्मकः अःकारः षोडशस्वरः | तदुक्तं तत्रैव कला च दहनेन्दुविग्रहौ बिन्दू (श्लो. ७) इति | तयोरन्तः कामस्य कलायाश्च द्वयोरपि मध्ये समास्थानमये निवासरूपे | परे अहाक्षरे | वर्णानामाद्यन्तत्वादन्त्यापेक्षयाऽऽदेरकारस्य परत्वम्, आद्यापेक्षयाऽन्त्यस्य हकारस्य परत्वम् | तेन परे अक्षरे वर्णानामाद्यन्ते अकारहकाररूपे अक्षरे कथ्येते | कुटिलारूपके कुटिले अकुलकुलकुण्डलिन्यौ, कुटिलरूपत्वात् | एते एव रूपे ययोस्तयोः प्रतिबिम्बरूपे वियत्कले | वियच्छब्देन शून्यं लक्ष्यते | तेन वियद् बिन्दुः कला बिन्दुद्वयमात्रावती हकारलिपिः | कोऽर्थः ? अकारः शिवशक्तिसामरस्यरूपाकारः तद्वासरूपकलाक्षरावयवरूपबिन्दुद्वयान्तर्गतमात्रारूपे निवसति | अहौ एव द्वे अप्यक्षरे अकुलकुलकुण्डलिनीरूपे पराया रूपे, तदवयत्वात्, तयोः परारूपयोः प्रतिबिम्बरूपे अहकाराक्षरेऽकारहकारयोः स्फुरितत्वात् || २/२१ || मन्त्रनिदानभूतकामकलायामकारहकारयोः स्थितिं व्युत्पाद्येदानीं मन्त्रे तद्वर्णद्वयस्य स्थितिमाह - मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः | मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः || २/२२ || राहुकूटाद्वयस्फूर्जत् मध्यमे मन्त्रपिण्डे वाग्भवशक्तिबीजयोर्मध्यगते कामराजबीजाख्ये षडक्षरपिण्डे | मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः | मध्यप्राणः कामकलाधोगतबिन्दुद्वयमध्यगतप्राणो हकारः, तस्य प्रथा पृथुत्वेन प्रतीतिः, श्रुतिगोचरत्वात्, तद्रूपं स्पन्दव्योम हकारः, तस्मिन् व्योम्निपुनः स्थिता, हकारस्य विमर्शशक्तिस्फूर्तिमयत्वात् | तदुक्तं संकेतपद्धत्याम् - हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः इति | तृतीये पिण्डके शक्तिबीजाख्ये चतुरक्षरपिण्डे | पुनस्त्वर्थे द्वितीयबीजवत् स्फुटीभावेन न स्फुरति, किन्तु राहुकूटाद्वयस्फूर्जत् | राहुकूटः शषसहानां वर्णानां वर्गकूटो वर्णसमूहः | यथा पञ्चकूटः षट्कूट इति | राहुकूटेऽद्वयो वर्णो द्वितीयादन्यस्तृतीयः सकारः, तद्वर्गतृतीयवर्णत्वात् | षोढान्यासे शषसहा राहुवर्गः | अत्रैव वक्ष्यति - वक्त्रे शादिचतुर्वर्णैः सहितं राहुमेव च (३/२५) इति | पुना राहुकूटाद्वयस्फूर्जदिति | राहुकूटे तृतीयसकारोपरि अविभागेन स्फूर्जत् प्रकाशमानं सकलवर्णाद्यमनुत्तरमक्षरम् | तदुक्तं संकेतपद्धत्याम् - अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः इति | कोऽर्थः ? परावयवभूतावकारहकारावेव कामकलोर्ध्वबिन्दौ मात्रायां च स्थित्वा पुनः स्थूलभावमासाद्य पृथग्भूतौ कामराजबीजान्तर्गतककारलकारमध्यगतहकारे शक्तिबीजादिगतसकारादूर्धवगताकारे चाधिवसत इत्यर्थः || २/२२ - २३ || ननु प्रथमपिण्डे विद्यमानेऽपि मध्यपिण्डे तृतीयपिण्डे च परावयवभूतयोरकारहकारयोः कथमवस्थानमुक्तम् ? प्रथमबीजे किमिति नोक्तम् ? उच्यते - दक्षिणस्रोतःपक्षपातिन्याः सौभाग्यदेवतायाः परायाः परापरशक्तिप्रधानत्वात् स्थितेश्च परापरशक्त्यधिष्ठितत्वान्मध्यबीजस्य स्थितिरूपत्वात् तत्र विमर्शशक्तेरवस्थानमुक्तम् | शिवस्य संहाररूपत्वाच्छक्तिबीजस्य च संहारात्मकत्वात् प्रकाशस्य तत्रावस्थानमुक्तं विशेषेण | सामान्यतस्तु वाग्भवे | अत एव तदक्षरद्वयसंबन्धात् तद्विश्वमयत्वं परायाः कथितमित्याह - चलत्तासंस्थितस्य तु | धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च || २/२३ || वाचकाक्षरसंयुक्तेः कथिता विश्वरूपिणी | तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् || २/२४ || कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणीम् | आद्यां शक्तिं भावयन्तो भावार्थ इति मन्वते || २/२५ || चलतो भावश्चलत्ता, तस्यां संस्थितस्य | चलत्वं नामात्र नश्वरत्वम् | अत्र विशिष्टक्रियाविद्याचक्रतत्त्वादिसकलप्रपञ्चस्थितस्य धर्माधर्मस्य पूर्वोक्त (१/६७) निर्वचनधर्माधर्मपदवाच्यस्य शिवशक्तिद्वयस्य | विषामृतमयस्य च | विषं संसारः, मोहहेतुत्वात् | अमृतं मृतं मरणं तद्रहितत्वान्मुक्तिः | अत्र श्रुतिः - तमेवं विद्वानमृत इह भवति (तै. आ. ३/१/३) इति | तन्मयस्य, तदुभयहेतुत्वात् | तयोर्वाच्यस्याभिधेयस्य वाचकाक्षरसंयुक्तेस्तदुभयात्मकशिवशक्ति- मयवाच्यवाचकाकारहकारसंयोगाद् विश्वरूपिणी विद्याचक्रतत्त्वादिमयरूपिणी | अत एव च तेषां सर्वेषां समष्टिरूपेण त्रित्रिमयेन सर्वेण पराशक्तिं विश्वोत्तीर्णस्य परशिवस्य मातृकामुक्त (२/२०) निर्वचनाम् | कूटत्रयात्मिकां वाग्भवकामराजशक्तिबीजात्मिकाम् | देवीं प्रकाशविमर्शसामरस्यरूपाम् | अत एव समष्टिव्यष्टिरूपिणीं सामरस्याकारेण समष्टिरूपिणीं कूटत्रयात्मना व्यष्टिरूपिणीमिति | आद्यां शक्तिं सकलजगदादितयेति पूर्वोक्त (२/१३) क्रमेण भावयन्तो योगिनो भावार्थं मन्वते || २/२३- २५ || भावार्थमुक्त्वेदानीं संप्रदायार्थमाह - सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः | विश्वाकारप्रथायास्तु महत्वं च यदाश्रयम् || २/२६ || सम्यग् याथार्थ्येन कर्णे शिष्यस्य प्रदीयत इति सम्प्रदायः | महाबोधरूपः महतो देशकालाकारैरनवच्छिन्नस्य प्रकाशस्य बोधः परिज्ञानं रूपं यस्य तादृशः | गुरुमुखे स्थितः गृणीते तत्त्वमात्मीयमात्मीकृतजगत्त्रयम् | उपायोपेयरूपाय शिवाय गुरुवे नमः || इत्यभियुक्तवचनोक्तरीत्या स्वात्मपरमार्थप्रकटनपरो गुरुः, तस्यैव मुखे स्थितः, नान्यस्यानाकलितागमशास्त्रस्यानधिगताखिल- वेदवेदाङ्गस्यानवधारितपरमार्थस्य परप्रतारणपरस्य मुखे स्थितः | अत्र प्रमाणवचनम् - सर्वज्ञो हि शिवो वेत्ति सदसच्चेष्टितं नृणाम् | तेनासौ नानुगृह्णाति किञ्चिज्ज्ञस्य गुरोर्गिरा || इति | अत्र गुरोरिति गुरुमानितः, किञ्चिज्ज्ञस्य गुरुत्वाभावात् | विश्वाकारप्रथायाः | विश्वं शिवादिक्षित्यन्तं षट्त्रिंशत्तत्त्वात्मकम्, तदाकारप्रथा चिच्छक्तिः, अत्र श्रुतिः - स ईक्षत लोकान्नु सृजा इति ( ऐ. उ. १/१) इति, तस्या, महत्वं तदाकारकारित्वम्, यदाश्रयम् | कोऽर्थः ? परशिवसामरस्यरूपाया बीजत्रयरूपेण परिणताया विश्वमयतावासना गुरुमुखेनैव लभ्यत इत्यर्थः || २/२६ || विश्वाकारप्रथायास्तु महत्त्वं च यदाश्रयमित्यस्यैवार्थ विवृण्वन् वक्तव्यार्थस्य महत्त्वादत्यन्तसावधानतया त्वया श्रोतव्यमित्याह - शिवशक्त्याद्यया मूलविद्यया परमेश्वरि | जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये || २/२७ || शिवः अकारः, शक्तिर्हकारः, तावाद्यौ हेतुभूतौ यस्याः सा, तथाविधया पूर्वोक्तरीत्या प्रथाभूतया मूलविद्यया कृत्स्नं जगदुक्तरूपं व्याप्तम् | शृणुष्वावहिता अत्यन्तसावधाना शृणुष्व || २/२७ || विद्यायां विश्वव्याप्तिमेव प्रतिजानीते - पञ्चभूतमयं विश्वं तन्मयी सा सदाऽनघे | तन्मयी मूलविद्या च तत्तथा कथयामि ते || २/२८ || पञ्चभूतमयं विश्वं भूतानि पृठिव्यप्तेजोवायवाकाशास्तन्मयं विश्वम् उक्त (१/४१) लक्षणम् | सा परा सौभाग्यदेवता तन्मयी पञ्चभूतात्मिका | मूलविद्याऽपि तन्मयी तद्वाचिका देवतावाचिका पञ्चभूतवाचिका च | अत एव तदुभयमयी | तत्प्रकारं कथयामीत्यर्थः | तस्माद्वा एतस्मादात्मन आकाशः संभूतः | आकाशाद् वायुः | वायोरग्निः | अग्नेरापः | अद्भ्यः पृथिवी (तै. उ. २/१/१) इत्युपनिषदुक्तरीत्या प्रकाशात्मकात् परमशिवात् पञ्चभूतानामुत्पत्तिः, विमर्शात्मिकायाः शक्तेस्तद्वाचकानां विद्यावर्णानामुत्पत्तिरिति हि स्थितिः || २/२८ || एवं स्थितेऽस्याः किं वाच्यं किं वाचकमिति शङ्कां परिहरन् वर्णभूतसृष्टिप्रतिपादनपुरःसरं विश्वमयतामेवाह - हकाराद् व्योम संभूतं ककारात्तु प्रभञ्जनः | रेफादग्निः सकाराच्च जलतत्त्वस्य संभवः || २/२९ || लकारात् पृथिवी जाता तस्माद् विश्वमयी च सा | हकाराद् व्योम संभूतं प्रथमं विमर्शशक्तेराकाशवाचको हकारो जातः, हकारानन्तरं तद्वाच्यं व्योम प्रकाशात्मनः परशिवात् संभूतम् | पश्चाद् वायुवाचकः ककारो जातः ककारानन्तरं ककारवाच्यः प्रभञ्जनः संजातः | तत्पश्चादग्निवाचको रेफः संजातः, तदनन्तरं रेफवाच्योऽग्निः संजातः | ततो जलतत्त्ववाचकः सकारः संजातः, तदनन्तरं तद्वाच्यजलतत्त्वस्य संभवः | तदनन्तरं पृथिवीवाचको लकारो जातः, तदनन्तरं तद्वाच्या पृथिवी जातेत्यर्थः | तस्मात् शिवशक्तिसामरस्यरूपपरावयवप्रकाशविमर्शाभ्यां पञ्चमहाभूतानि तद्वाचकान्यक्षराणि च यस्माज्जातानि, तस्मात्तदुभयसामरस्यरूपा सा परा स्वावयवभूतवर्णमयी विश्वमयीत्यर्थः | तदुक्तं कामकलाविलासे - स्फुरितादरुणाद् बिन्दोर्नादब्रह्माङ्कुरो रवो व्यक्तः | तस्माद् गगनसमीरणदहनोदकभूमिवर्णसंभूतिः || २/९ || अथ विशदादपि बिन्दोर्गगनानिलवह्निवारिभूमिजनिः | एतत्पञ्चकविकृतिर्जगदिदमण्वाद्यजाण्डपर्यन्तम् || २/१० || माता मानं मेयं बिन्दुत्रयभिन्नबीजरूपाणि | धामत्रयपीठत्रयशक्तित्रयभेदभावितान्यपि च || २/१३ || तेषु क्रमेण लिङ्गत्रितयं तद्वच्च मातृकात्रितयम् | इत्थं त्रितयमयी सा तुरीयपीठादिभेदिनी विद्या || २/१४ || इति || २/२९ -३० नन्वेवंविधक्रमेण विद्यायां वर्णाः किमिति न स्थिताः ? उच्यते - सत्यमेवं विधक्रमो न भवति, तथापि पूर्वोक्तसृष्टिस्थितिसंहारानाख्या- वभासनार्थं विद्यायामक्रमेण वर्णाः पठ्यन्ते | तेन भूतवर्णक्रमो वर्णवासनाक्रमं बाधितुं नोत्सहते, वासनार्थत्वाद् वर्णानाम् | ननु तर्हि भूतसंख्याकान्यक्षराणि किमिति न भवन्ति, अन्यान्यपि बहूनि श्रूयन्त एवेत्यत आह - गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शिवा || २/३० || भूतानां पञ्चानां व्याप्यव्यापकभावेन पञ्चदश गुणाः स्युः | अतस्तन्मयी तदात्मिका तत्संख्यावर्णवतीयं विद्या, शिवा शोकमोह- मयसंसाररूपाऽमङ्गलपरिपन्थिपरमाद्वैतप्रथापरमार्थरूपा, परममङ्गलात्मकत्वात् || २/३० || ननु विद्याक्षरस.ख्यया यावन्तः परिगणिताः पदार्थाः, किं तन्मयतावासना वक्तु शक्यते ? इत्यत आह - यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता | सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः || २/३१ || लोके यस्य यस्य पदार्थस्य यत्किञ्चित्करणसामर्थ्यलक्षणा या या शक्तिर्विद्यते, सा सा शक्तिः सर्वेश्वरी देवी सर्वस्य शिवादिक्षित्यन्तस्येश्वरी नियामिका देवी परा, स स सर्वः पदार्थो महेश्वरो विश्वजगन्नियामकः परमशिवः | लोके यद्यद्वस्तु यत्किञ्चित्करणसामर्थ्यशालि तत्सामर्थ्यरूपेण परैव परिणता, तत्तत्सामर्थ्यवद्वस्तुरूपेण परमशिवः परिणत इति वक्तुं शक्यते | किं वक्तव्यमेतदुभयमयविद्यावर्णसमानसंख्यावत्पदार्थरूपेण तावेव परिणतावित्यर्थः | तदुक्तमभियुक्तैः - त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बलं त्वम् | त्वं स्वादुताऽसि सलिले शिखिनि त्वमूष्मा निःसारमम्ब निखिलं त्वदृते यदि स्यात् || इति || २/३१ || (अ. स्त. २०) ननु भूतगुणमयी शिवेत्युक्तम्, शिवायां तत्संख्या कुत इत्यत आह - व्याप्त्या पञ्चदशार्णैः सा विद्या भूतगुणात्मिका | पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः || २/३२ || सा शिवा परैव विद्या, वाच्यवाचकयोरभेदात् | पञ्चभिरक्षरैर्- वाग्भवबीजस्यावयवैः, षड्भिरक्षरै कामराजबीजस्यावयवैः, चतुर्भिरक्षरैः शक्तिबीजस्यावयवैः | न क्षरन्तीक्षरणानि, तेषां नित्यत्वात् | स्वांशैर्नाशरहितैः पञ्चदशार्णैर्व्याप्ता, अत एव भूतगुणात्मिका || २/३२ || बीजत्रयमक्षरशो विभज्य भूतगुणात्मकतावासनामुक्त्वेदानीम्- अक्षराण्यवयवशो विभज्य षट्त्रिंशत्तत्त्वात्मकतावासनामाह - स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी | सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी || २/३३ || तत्त्वातीतस्वभावा च विद्यैषा भाव्यते सदा | स्वरव्यञ्जनभेदेन प्रथमबीजेऽकारचतुष्टयमीकारश्चेति पञ्च स्वराः, शिष्टानि षड्व्यञ्जनानि, एवमेकादश | द्वितीयबीजेऽकारपञ्चकमीकारश्चेति षट्स्वराः, शिष्टानि व्यञ्जनानि सप्त एवं त्रयोदश | तृतीयबीजेऽकारत्रयमीकारश्चेति चत्वारः स्वराः, शिष्टानि व्यञ्जनानि पञ्च, एवं नव | इत्येवं विभागेनाक्षरावयवास्त्रयस्त्रिंशत् | बीजत्रयान्ते बिन्दवस्त्रय इति षट्त्रिंशत् | तत्समष्टिरेका | एवं सप्तत्रिंशत्प्रभेदिनी विद्या समष्टिरूपा एवं सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी तत्त्वातीतस्वभावा च विद्यैषा | व्यष्टिसमष्टिभेदेन षट्त्रिंशत्तत्त्वात्मिका तदतीता (च) इयम् | षट्त्रिंशत्तत्त्वान्यवयवभूतानि, तेषां रूपवती, सप्तत्रिंशत्प्रभेदेन तत्त्वातीतस्वभावा च | स्वस्य भावः स्वभावः, शिवस्य यादृशो भावस्तादृशोऽस्या इति भावयितव्यमित्यर्थः | तत्त्वानां लक्षणानि मयैव सौभाग्यसुधोदये निरूपितानि | यथा - यदयमनुत्तरमूर्तिर्निजेच्छया निखिलमपि जगत् स्रष्टुम् | पस्पन्दे स स्पन्दः प्रथमं शिवतत्त्वमुच्यते तज्ज्ञैः || इच्छा सैव स्वच्छा सन्ततसमवायिनी सती शक्तिः | सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य || स्वेच्छाशक्त्युद्गीर्णं जगदात्माहन्तया समाच्छाद्य | निवसन् स एव निखिलानुग्रहनिरतः सदाशिवोऽभिमतः || विश्वं स एव पश्यन्निदन्तया निखिलमीश्वरो जातः | सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः || माया विभेदबुद्धिर्निजांशभूतेषु निखिलभूतेषु | नित्यं तस्य निरङ्कुशविभवं वेलेव वारिधिं रुन्धे || स तया परिमितमूर्तिः संकुचितसमस्तशक्तिरेष पुमान् | रविरिव सन्ध्यारक्तः संहृतरश्मिः स्वभासनेऽप्यपटुः || सम्पूर्णकर्तृताद्या या बह्व्यः सन्ति शक्तयस्तस्य | संकोचात् संकुचिताः कलादिरूपेण रुषयन्त्येनम् || तत्सर्वकर्तृता सा संकुचिता कतिपयार्थमातृपरा | किञ्चित्कर्तारममुं कलयन्ती कीर्त्यते कलानाम्ना || सर्वज्ञताऽस्य शक्तिः परिमिततनुरल्पवेद्यमातृपरा | ज्ञानमुपपादयन्ती विद्येति निगद्यते बुधैराद्यैः || नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परिमिता तु सती | भोगेषु रञ्जयन्ती सततममुं रागतत्त्वतां याता || या नित्यताऽस्य शक्तिर्निकृष्य निधनोदयप्रदानेन | नियतपरिच्छेदकरी कॢप्ता स्यात् कालतत्त्वरूपेण || याऽस्य स्वतन्त्राख्या शक्तिः संकोचशालिनी सैव | कृत्याकृत्येष्ववशं नियतममुं नियमयन्त्यभून्नियतिः || इच्छादित्रिसमष्टिः शक्तिः शान्ताऽस्य संकुचद्रूपा | संकुचितेच्छाद्यात्मकसत्त्वादिसाम्यरूपिणी तु सती || बुद्ध्यादिसामरस्यरूपा चित्तात्मिका मता प्रकृतिः | इच्छाऽस्य रजोरूपाऽहङ्कृतिरासीदहंप्रतीतिकरी || ज्ञानाऽस्य सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः | तस्य क्रिया तमोमयमूर्तिर्मन इत्युच्यते विकल्पकरी || वामादिपञ्चभेदः स एव संकुचितविग्रहो देवः | ज्ञानक्रियोपरागप्राधान्याद् विविधविषयरूपोऽभूत् || श्रोत्रं चक्षुः स्पर्शनजिह्वाघ्राणानि बोधकरणानि | वाक्पाणिपादपायुपस्थाख्याकानि कर्मकरणानि || शब्दस्पर्शौ रूपं रसगन्धौ चेति भूतसूक्ष्माणि | अयमेवातिनिकृष्टो जातो भूतात्मनाऽपि भूतेशः || गगनमनिलश्च तेजः सलिलं भूमिश्च पञ्चभूतानि | श्रोत्रादिकरणवेद्याः शब्दाद्यास्तानि वेदकान्येषाम् || वचनकरी वागासीत् पाणिः स्यात् करणभूतमादाने | गमनविसर्गानन्दत्रितये पादादिकत्रिकं करणम् || गन्धवती भूमिः स्यादापः सांसिद्धिकद्रवास्तेजः | उष्ण्स्पर्शमरूपस्पर्शो वायुरम्बरं शब्दः || इति ३३-३४ || (सौ. सु. १/२८-४८) पुनरपि सिंहावलोकनन्यायेन भूतगुणानां पञ्चदशतां विद्यायाश्च तन्मयरूपतां विवृणोति - पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् || २/३४ || भूतं त्वधस्तनं व्याप्यं पृथिव्यादिषु | आदिशब्देनाप्तेजोवायवाकाशा गृह्यन्ते | तेषूत्तरोत्तरं व्यापकमधिकवृत्ति | अधस्तनं भूतं व्याप्यं न्यूनवृत्ति | कोऽर्थः ? आकाशमधस्तनानां भूतानां व्यापकम्, अधिकवृत्तित्वात् | अन्यान्यपि चत्वारि भूतानि व्याप्यानि, न्यूनवृत्तित्वात् | एवं वायुरग्न्यादीनां त्रयाणां व्यापकः, तानि त्रीणि व्याप्यानि | एवं तेजोऽप्यधस्तनयोर्व्यापकम्, ते द्वे व्याप्ये | एवमापः पृथिव्या व्यापिकाः, पृथ्वी व्याप्येत्यर्थः || २/३४ - ३५ || तेन व्यापकगुणा व्याप्ये स्थिता इत्याह - तद्गुणा व्यापकाश्रयाः | व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः || २/३५ || व्यापकाश्रयास्तद्गुणा व्यापकगुणाः, व्याप्येष्ववस्थिताः स्थूलसूक्ष्मविभेदतः | स्थूलमधिकवृत्ति व्यापकम्, सूक्ष्ममल्पवृत्ति व्याप्यम् | व्यापकव्याप्ययोः स्थूलसूक्ष्मविभेदाद् व्यापकगुणा व्याप्येषु तिष्ठन्तीत्यर्थः || २/३५ || ननु कस्य कस्य भूतस्य गुणाः केषु केषु भूतेषु स्थिताः ? विद्यायाः कानि कान्यक्षराणि कस्य कस्य भूतस्य गुणान् लक्षयन्तीत्यत आह - तस्माद्व्योमगुणः शब्दो वायवादीन्व्याप्य संस्थितः | व्योमबीजैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् || २/३६ || तस्माद् व्योम्नः स्वेतरभूतेभ्यः स्थूलत्वाद् व्यापकत्वम्, तेन व्योमगुणः शब्दो वायवादीन् वायुतेजःसलिलपृथिव्यात्मकान् व्याप्य स्थितः | विद्यास्थैर्व्योमबीजैः पञ्चभिः पञ्चभूतेषु स्थितानां शब्दानां पञ्चकं लक्षयेत्, व्योमवाचकत्वाद् हकारपञ्चकं तद्गुणं शब्दपञ्चकं लक्षयतीत्यर्थः || २/३६ || ननु विद्यायां षढकाराः सन्तिः, अन्यस्य हकारस्य किं प्रयोजनमित्यत आह - तेषां कारणरूपेण स्थितं ध्वनिमयं परम् | तेषां शब्दानां कारणरूपेण स्थितः कारणात्मना स्थितो ध्वनिर्नादः शब्दानां कारणम् | तदुक्तमभियुक्तैः - पिण्डो वाचकविस्तरस्य महतः संस्कारशेषा स्थितिर्- नादोऽसौ तव देवि मूर्ध्नि समनासीमानमुल्लङ्घयन् | घण्टाक्वाण इव क्रमेण विरमन्नन्न्यामणीयस्तनी- माजिघ्रन् परचिद्दशामनुभवन् मूर्ति पुराणीमुमे || इति | तन्मयं तल्लक्षकत्वात् | परं कामराजबीजस्थितककारलकारमध्य- गतहक्राराक्षरम् | कोऽर्थः ? कामराजमध्यस्थितः षष्ठो हकार आकाशादिपञ्चभूतगतशब्दपञ्चककारणनादरूपः कामराजबीजस्य स्थितिरूपतां लक्षयतीत्यर्थः || ननु हकारादिवर्णा आकाशादिभूतवाचका इत्युक्तम्, कथं शब्दादिपञ्चभूतगुणानामपि वाचका इत्युच्यन्त इत्यत आह - भवेद् गुणवतां बीजं गुणानामपि वाचकम् || २/३७ || गुणवताम्, गुणाः शब्दादयः पञ्च, तद्वतामाकाशादीनां पञ्चभूतानां बीजम् | जातावेकवचनम् | अत्र विद्यायां हकारादीनि पञ्चभूताक्षराणि व्यञ्जनानि | अत्रैवोक्तम् - हकाराद् व्योमसंभूतम् (२/२९) इत्यादिना | अतो बीजान्युच्यन्ते | ककारादिक्षकारान्तानां व्यञ्जनानां बीजत्वमुक्तं चिद्गगनचन्द्रिकायाम् - षण्ढवर्जमहिमद्युतेः स्वरा बिन्दुसर्गरहिताश्च ये शुचेः | सर्व एव शशिनः कलाः शिवे योनयो विधृतबीजतः स्वराः || इति | (श्लो. ४०) परापञ्चाशिकायामप्युक्तम् - द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता (श्लो. ४०) इति | तानि तद्गुणानां शब्दादीनां वाचकानि लक्षकाणि, हकाराद्यक्षराण्याकाशार्थेषु संकेतितत्वात्तद्गुणेषु शब्दादिषु लक्षकाण्येव | तदुक्तमभियुक्तैः - साक्षात् संकेतितं योऽर्थमभिधत्ते स वाचकः (का. प्र. २/७) इति | कोऽर्थः ? शब्दादिगुणवतामाकाशादिभूतानां यानि बीजानि वाचकानि हकारादीनि, तानि तद्गुणानां शब्दादीनां लक्षकाणीत्यर्थः || २/३७ || लक्षणायां निमित्तमाह - कार्यकारणभावेन तयोरैक्यं विवक्षया | तयोः गुणगुणिनोः | कार्यकारणभावेन | गुणी कारणम्, गुणः कार्यम् | अतः कार्यकारणभावेनैकत्वविवक्षया विवक्षितमेवैकत्वम्, न तु तात्त्विकम् | गुणगुणिनोः कार्यकारणभावादेकत्वमारोप्य तत्संबन्धं निमित्तीकृत्य लक्षणया गुणिशब्दा गुणेषु योज्यन्त इत्यर्थः | तदुक्तं महास्वच्छन्दसंग्रहे - शब्दः शान्तत्वघोरत्वविशेषा पन्नरूपकः | शब्दस्तु शब्दतन्मात्रं मृदूष्णकठिनश्चलः || विशिष्टस्पर्शरूपश्च स्पर्शतन्मात्रसंज्ञकः | नीलपीतत्वशुक्लत्वविशिष्टं रूपमेव च || रूपतन्मात्रमित्युक्तं मधुरत्वादिसंयुतम् | रसतन्मात्रसंज्ञं तु सौरभ्यादिविशेषितः || गन्धः स्याद् गन्धतन्मात्रं तेभ्यो वै भूतपञ्चकम् | आकाशं शब्दतन्मात्रं नित्यं शब्दगुणं महत् || व्यापकं निर्मलं तत्त्वमवकाशप्रदानकम् | स्पर्शतन्मात्रतो वायुश्चलद्रूपोऽनिलोऽभवत् || जगत्प्राणोऽनिलो व्यूहप्रेरणं च लघुर्भवेत् | शब्दस्पर्शगुणः प्रोक्तो गमागमनकर्मकृत् || शब्दस्पर्शरूपगुणं तेजस्तत्त्वं तु भास्वरम् | रूपतन्मात्रकार्यं च पाककर्मकरं शिवे || रसतन्मात्रतो जातं वारितत्त्वं द्रवात्मकम् | शब्दस्पर्शरूपरसगुणं संग्रहकर्मकृत् || शब्दस्पर्शरूपरसगन्धपञ्चगुणान्वितम् | पृथिवीतत्त्वमाख्यातं कठिनं सर्वधारणम् || पृथ्व्यादिव्योमतत्त्वान्तपञ्चकं पूर्वपूर्वकम् | कार्यदृष्ट्या समावृत्य वर्तते पञ्चकं क्रमात् || इति || पूर्वं विद्यास्थहकारपञ्चकस्य पञ्चभूतस्थितशब्दपञ्चक- लक्षकतामुक्त्वेदानीं वायवादिभूतचतुष्टयगतं स्पर्शचतुष्टयं वायुवाचकबीजैर्लक्षयति - महामायात्रेयेणापि कारणेन च बिन्दुना || २/३८ || वायवग्निजलभूमीनां स्पर्शानां च चतुष्टयम् | उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः || २/३९ || महामाया ईकारः, तेषां त्रयं बीजत्रयशिखरवर्तिना-मीकाराणां बिन्दुद्वयहार्धमात्रामायानां त्रयम् | करणेन च बिन्दुना तदक्षरत्रयकारणेनाकारहकारसामरस्यरूपेण कामाख्येनोर्ध्व-बिन्दुना | वायवग्निजलभूमीनां स्पर्शानां चतुष्टयमुत्पन्नं लक्ष्यं भावयेत् | स्थूलसूक्ष्मविभेदतः | सूक्ष्माणि पृथिव्यप्तेजांसि, स्थूलो वायुरर्वाचीनेभ्यः | अत एव एवंविधेन ईकारत्रयेणापि लक्षिता बिन्दवः षट्संख्याकाः | कारणं बिन्दुः समष्टिवृत्तं हि, षड्बिन्दुलाञ्छितवृत्तात्मकत्वाद् वायुमण्डलस्य | तदुक्तमभियुक्तैः - कण्ठादितालुपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् | धूम्रम् इति | [एवमन्यत्रापि - समष्टिबिन्दुना वायुः स्थूलसूक्ष्मप्रभेदतः |] तद्वायुमण्डल-वाचकेन ईकारत्रयेण समष्टिबिन्दुना च स्थूलसूक्ष्मविभेदतो वायवादिभूतचतुष्टयस्थितं स्पर्शचतुष्टयं लक्षयेदित्यर्थः || २/३८-३९ || वायुवाचकैर्वायुगुणं स्पर्शचतुष्टयं लक्षयित्वेदानीं तेजोवाचकैरक्षरैस्तद्गुणं रूपत्रयं लक्षयति - रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् | रूपाणां त्रितयं वह्निवारिभूमिष्ठानां रूपाणां त्रितयं त्रिभी रेफैर्विभावितं लक्षितम् || ननु रूपं पृथिव्यप्तेजसां साधारणम्, कथं तेजोबीजेन रेफेण लक्षितमित्यत आह - प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते || २/४० || सत्यं त्रिष्वपि भूतेषु विद्यते रूपम्, तथापि वायवाकाशयोरभावात् प्रथमं तेजस एव रूपं प्रधानम् | पश्चादितरयोर्भूतयोस्तद्बीजेन रेफेण जन्यते प्रकाश्यते | जननं प्रादुर्भावः || २/४० || पूर्वं तेजोवाचकैरक्षरैस्तेजोगुणं रूपत्रयं लक्षयित्वेदानीम्- अब्वाचकैरक्षरैस्तद्गुणं रसद्वयं लक्षयति - विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः | विद्याबीजस्थैश्चन्द्रबीजैः सकारैः | अभिधानमात्रमेतत् | तदुक्तमभियुक्तैः - व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्यद्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः | अन्यद् द्युशीतकरपावकमन्वमन्तैर्बीजैरमीभिरुदिता त्रिपुरेति विद्या || इति | (प्र. सा. ९/३) स्थूलः सूक्ष्मः | स्थूलो रसोऽप्तत्त्वगतः, व्यापकत्वात् | सूक्ष्मो रसो भूतत्त्वगतः, व्याप्यत्वात् | स्मृतः भावितः | स्मृतिर्हि भावना || ननु विद्यायां सकारत्रयमस्ति, अप्पृथिव्योस्तु रसद्वयमेव, इतरेण सकारेण किमुच्यत इत्यत आह - संबन्धो विदितो लोके रसस्याप्यमृतस्य च || २/४१ || अमृतस्य सुधाया रसस्यापि संबन्धो लोके विदितः सुरासुरैरपां-निधौ मथ्यमाने तत्सारभूतममृतं समुदितमिति पुराणप्रसिद्ध्या लोके विदितः परिज्ञातः | अत्राप्तत्त्वसारभूतत्वात् तद्गुणो रसस्तृतीयसकारेण लक्ष्यते | कोऽर्थः ? अप्तत्त्वं स्थूलम्, अमृतं तत्सारभूतं सूक्ष्मम्, तद्व्याप्या पृथिवी च सूक्ष्मा | तेन सलिलामृतपृथिव्यन्तरे त्रिधा स्थितो रसो विद्यास्थैस्त्रिभिः सकारैर्लक्ष्यत इत्यर्थः || २/४१ || पूर्वमब्वाचकैरक्षरैरब्गुणं रसत्रयं लक्षयित्वेदानीं पृथिवीवाचकैर्वर्णैः पृथिवीगुणं गन्धं लक्षयति - वसुन्धरागुणो गन्धस्तल्लिपिर्गन्धवाचिका | वसुन्धरायाः पृथिव्याः, गुणो गन्धः | तल्लिपिः पृथिवीवाचकवर्णो लकारः | गन्धवाचिका गन्धस्य परिभाषणकरी | ननु विद्यायां लकारत्रयमस्ति, तत्रैकेन लकारेण पृथिवी-संस्थितो गुणो गन्धो लक्षितः, शिष्टाभ्यां लकाराभ्यां किं क्रियत इत्यत आह - भुवनत्रयसंबन्धात् त्रिधात्वं तु महेश्वरि || २/४२ || भुवनत्रयं लोकत्रयम्, तत्संबन्धात् लोकत्रयाधारत्वात्, आधाराधेयभावः संबन्धः, तस्मात् संबन्धाद्धेतोः पृथिव्यास्त्रिधात्वम् | तेन पृथिवीभागत्रयगतगन्धत्रयलक्षकं लकारत्रयमित्यर्थः || २/४२ || हकाराद् व्योम संभूतं ककारात्तु प्रभञ्जनः (२/२९) इत्यत्र वायुवाचकतयोक्तस्य ककारस्य प्रमातृवाचकत्वेनापि वक्तुं शक्यत्वाद्-अन्यैरक्षरैः स्पर्शचतुष्टयं लक्षयित्वेदानीं ककारत्रयेण प्रमातृ-त्रयं लक्षयति - अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः | क्रोधीशत्रितयेनाथ विद्यास्थेन प्रकाश्यते || २/४३ || अशुद्धाः प्रमातारो भेदधीमात्रसाराः शिवाहम्भावभावनाविहीनाः सकलाः पशवः | तदुक्तं स्वच्छन्दसंग्रहे - पशवस्त्रिप्रकाराः स्युस्तेष्वेके सकलाः मताः | प्रलयाकलनामानस्तेषां केचिन्महेश्वरि || विज्ञानकेवलास्त्वन्ये तेषां रूपं क्रमाच्छृणु | अनादिमलसंच्छन्नो मायाकर्मावृतोऽविभुः || शरीरी शिवतत्त्वाज्ञो भेदैकरसिको लघुः | सर्वदा कर्मकर्ता च स्वकर्मफलभोजकः || नित्यं विषयसंसक्तोबोध्यः शोध्यः पुमानयम् | इति | शुद्धाः प्रमातारः पक्वमलविज्ञानाः शिवतावन्मात्रसारा विज्ञानकेवलाः पशवः तदुक्तं स्वच्छन्दसंग्रहे - मलमात्रेण संच्छन्नः पशुर्विज्ञानकेवलः | सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये || सुतीव्रशक्तिपातेन कुरुते तान् स केवलान् | इति | मिश्राः प्रमातारः पुर्यष्टकसूक्ष्मशरीरमात्रसंबद्धाः प्रारब्धकर्मानुभवार्थमनेकयोनिषु संभूय तत्तत्कर्मफलानुभवेन कर्मद्वयसाम्ये सति सुपक्वमलकर्माणो गुरुं विनाऽपि शिवानुग्रह-शालिनः क्रियाज्ञानसाधारणाः प्रलयाकलाः पशवः | तदुक्तं स्वच्छन्दसंग्रहे - मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः | पुर्यष्टकशरीराश्च स्वस्वकर्मवशात् प्रिये || सर्वयोनिषु संभूय भोगार्थं स्वस्वकर्मणाम् | भुक्त्वा भोगानि तेषां तु कर्मसाम्ये शिवः स्वयम् || सुपक्वमलकर्माणस्तान् किञ्चिदनुगृह्य च | जलतत्त्वादितत्त्वानां मध्ये लोकेश्वरास्त्रिधा || इति | तेषां त्रिविधानां प्रमातॄणाम् | वपुः स्वरूपम् | परमन्यत् | क्रोधीशत्रितयेन श्रीकण्ठन्यासपरिपाट्या क्रोधीशः ककारः, तेषां त्रितयेन | विद्यास्थेन बीजत्रितयस्थेन | प्रकाश्यते व्यज्यते | कोऽर्थः ? बीजत्रयगतककारत्रयेण सकल-विज्ञान-केवल-प्रलयाकलाख्य-त्रिविधपशुरूपाऽशुद्ध-शुद्ध- मिश्रप्रमातृत्रयस्वरूपं व्यज्यत इत्यर्थः || २/४३ || पूर्वं विद्यास्थक्रोधीशत्रितयेन प्रमातृत्रयं लक्षयित्वेदानीं विद्यास्थश्रीकण्ठाद्वादशमध्ये आद्यदशकेनाव्यक्तम्, अनन्तरेण प्राणम्, चरमेणेशं च लक्षयति - श्रीकण्ठदशकं तद्वदव्यक्तस्य हि वाचकम् | प्राणरूपः स्थितो देवि तद्वदेकादशः परः || २/४४ || श्रीकण्ठदशकं हृल्लेखात्रयवर्जितहकारादिद्वादशाक्षरो- परिगतानामकाराणां मध्ये श्रीकण्ठदशकम्, श्रीकण्ठा अकाराः, तेषां दशकम् | अव्यक्तो जीवोऽनादि मलसंच्छन्नतया स्वशिवत्वापरिज्ञानकारणेन्द्रियादिजडवर्गान्तःपातितया विन्यस्तः | तदुक्तं स्वच्छन्दसंग्रहे - अनादिमलसंच्छन्नो मायाकर्मावृतोऽविभुः | शरीरी शिवतत्त्वाज्ञो भेदैकरसिको लघुः || इति | तस्य वाचकम् | अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः इति संकेतपद्धत्युक्तरीत्याऽकारवाच्यः परमशिवः, परमशिवांशत्वात् | तद्वत् परशिववत् | यथा परमशिवोऽकारवाच्यः, तथा तदंशभूतो जीवोऽप्यकारदशकेनोच्यत इत्यर्थः | तद्वद् जीववत् | यथा शिवांशो जीवः परमशिववाचकश्रीकण्ठेन लक्ष्यते, तद्वद् जीववत् एकादशश्च श्रीकण्ठो जीवाधारभूतप्राणरूपः स्थितः | प्राणो हि जीवस्याधारः, प्राणेन विना जीवस्यानवस्थानात् | परः परो द्वादशः श्रीकण्ठः पुरुषस्य वाचकः, विश्वस्य पूरणात् परमशिवः पुरुषः | तदुक्तं चिद्गगनचन्द्रिकायाम् - विश्वसद्मनि चिदात्मनीश्वरे पूरणात् पुरुषतामुपेयुषि | ये मनः प्रणिदधुर्महर्षयस्तान् पतञ्जलिमुखानुपास्महे || २/९ || इति | श्रुतिरपि - पुरुष एवेदं सर्वम् (ऋ. १०/९०/२) इति || २/४४ || ननु श्रीकण्ठद्वादशकं विद्यायां विद्यते, एकेन शिवः कथ्यते, एकेन जीवः, एकेन प्राण इति त्रिभिरेवालम्, किमन्यैरित्यत आह - एकः सन्नेव पुरुषो बहुधा जायते हि सः | सत्यमेकेन शिव उच्यते, द्वाभ्यां जीवप्राणौ, तथापि स एकः सन्नेव एकमेवाद्वितीयं ब्रह्म (त्रि. म. ना. ३/३), सच्च त्यच्चाभवत् (तै. उ. २/६) इत्युपनिषदुक्तरीत्या सद्रूप एको हि पुरुषो बहुधा जायते | हिशब्दः प्रसिद्धौ | अपि चास्मिन्नर्थे प्रमाणम् - इन्द्रो मायाभिः पुरुरूप ईयते (ऋ. ४/७/३३) इति | एक एव हि भूतात्मा भूते भूते व्यवस्थितः | एकधा बहुधा चैव दृश्यते जलचन्द्रवत् || (ब्र. वि. उ. ११) इति रीत्या सत्यमेक एव शिवो भवति, तथापि जीवप्राणात्मना बहुधा भिन्न इतीममर्थं द्योतयितुं विद्यायां बहवः श्रीकण्ठाः स्थिता इत्यर्थः || अक्षराणां वासनामुक्त्वा बिन्दूनां नादादीनां च वासनामाह - रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः || २/४५ || बिन्दुत्रयेण कथिता अमितामितविग्रहाः | शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः || २/४६ || रुद्रस्तेजस्तत्त्वाधिपतिः | तेजस्तत्त्वान्तर्भूतं पुरुषरागा- विद्यानियतिकालकलामायान्तम् | तदुक्तं स्वच्छन्दसंग्रहे - पुरुषादिकमायान्तं तेजस्तत्त्वं महेश्वरि इति | शुद्धविद्येश्वर-सदाशिवा वायुतत्त्वात्मकाः | तदुक्तं स्वच्छन्दसंग्रहे - विद्या चेश्वरसादाख्यौ वायुतत्त्वं समीरितम् इति | अतो रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः परिच्छिन्नरूपाः | तदुक्तं स्वच्छन्दसंग्रहे - यत् सदाशिवपर्यन्तं विनाशोत्पत्तिसंयुतम् इति | बिन्दुत्रयेण कथिताः | बिन्दुत्रयं त्रिबीजशिखरवर्तिकामकलोर्ध्वगतानां बिन्दूनां त्रितयम् | अमितामितविग्रहाः शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः | शान्तिरव्यक्तध्वनिलक्षणो नादोऽखिलं जगदधरीकृत्य यत्र लयमेति सा ब्रह्मरन्ध्रावसानभूमिः, ऊर्ध्वशक्तीनां प्रशान्तिस्थानहेतुत्वात् | तदुक्तं स्वच्छन्दसंग्रहे - नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् | अधःशक्त्या विनिर्गत्य ऊर्ध्वशक्त्यवसानकः || नाड्यां ब्रह्मबिले लीनस्त्वव्यक्तध्वनिलक्षणः | इति | शक्तिरूर्ध्वशक्तिः, उपरिगतं शक्तितत्त्वम् | तदुक्तमत्रैव - ब्रह्माणी त्वपरा शक्तिर्ब्रह्मणोत्सङ्गगामिनी | द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिता || तां भित्त्वा तु वरारोहे ऊर्ध्वशक्तिं परां शिवाम् | शक्तितत्त्वात्मिकां देवीं प्रसुप्तभुजगाकृतिम् || शक्तितत्त्वं समाख्यातं भुवनैरावृतं महत् | इति | शम्भुः शिवतत्त्वं शक्तितत्त्वोपरि स्थितम् | तदुक्तमत्रैव - शिव-तत्त्वं समाख्यातं तदूर्ध्वं शक्तितत्त्वतः इति | अमितामितविग्रहाः | एतेऽनन्ता अपरिच्छिन्नरूपाः, व्योमतत्त्वान्तर्गतत्वात् | तदुक्तमत्रैव - शक्ति-तत्त्वं शिवो व्योम इति | नादत्रितयबोधनाः | वाग्भवकामराजशक्तिबीजोपरि- गतबिन्दुत्रयोपरिगतरोधिनीत्रितयोर्ध्वगतानां नादानां त्रयमेषां क्रमेण बोधकं लक्षकम्, तेन नादत्रितयबोधनाः | वाग्भवबीजोपरिगत-बिन्दुपरिवर्तिना नादेन शान्तिः, कामराजबीजशिखरवर्तिना नादेन शक्तिः, तार्तीयबीजशिखरवर्तिना नादेन च शिवो व्यज्यत इत्यर्थः || २/४५ - ४६ || पूर्वं विद्याया बिन्दुनादमयवासनामुक्त्वेदानीं सर्वमन्त्रमय- वासनामपि सोदाहरणामाह - वागुरामूलवलये सूत्राद्याः कवलीकृताः | तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः || २/४७ || वागुरा मृगबन्धनी (अ. को. २/१०/२६) | अत्र तु वागुराशब्देन मत्स्यग्रहणहेतुर्जालं लक्ष्यते, प्राणिग्रहणसामान्यात् | अन्यथा मूलवलये सूत्राद्या इत्यनुपपन्नं स्यात्, मृगबन्धन्या मूलवलयस्या-भावात्, रज्जुनिर्मितत्वात् सूत्रादीनामप्यभावात् | सूत्राद्याः सूत्राणि तन्तवः, आद्यशब्दाज्जालप्रान्ते आयसगुलिकाः प्रोता गृह्यन्ते | यथा लोहमये वलये जालावयवानां तन्तूनां मूलं कवलितम्, तथा समस्त-मन्त्राणां मूलभूता वैखर्यपि विद्यायामस्यां विश्रान्ता | अतोऽत्र विद्यायां समस्तमन्त्राः स्थिता इत्यर्थः || २/४७ || गुरुपदेशक्रमेणायमर्थः संप्राप्यत इत्याह - गुरुक्रमेण संप्राप्तः सम्प्रदायार्थ ईरितः | गुरुक्रमः पारम्पर्यक्रमः, तदुपदेशक्रमेणैव शिवादिविग्रहात् पूर्णात् सर्वकारणकारणात् | ध्वनिरूपं परं सूक्ष्मं शुद्धं सकलतेजसाम् || वाग्रूपं प्रसृतं तत्त्वमुन्मनाशक्तिकेवलम् | अव्यक्तं व्यक्तरूपेण निष्कलं क्रमकारणम् || परानन्दस्वरूपं तत् स्वच्छन्दादिप्रभेदतः | अनुष्टुप्च्छन्दसा बद्ध्वा प्राह स्वच्छन्दभैरवः || तद्विमृश्य प्रपञ्चेन प्रोवाचानाश्रितेश्वरः | तत्सर्वं शान्त्यतीतांशे कथितं बहुविस्तरम् || तदेतत् पररूपेण सदाख्येन शिवेन तु | मन्त्रसिंहासनस्थेन पञ्चमन्त्रशरीरिणा || कौलिकादिषु सिद्धान्तपूर्वाद्यखिलमागमम् | साधनं पुरुषार्थस्य कौलिकं चातिकौलिकम् || असंख्यमप्रमेयं च शिवेन कथितं पुरा | तज्ज्ञानमीश्वरे दत्तमीश्वरेण शिवेच्छया || विद्यायामादितो दत्तं विद्येशाय च तत्त्वतः | विद्येश्वरेण दत्तं तज्ज्ञानं नियमितं क्रमात् || दत्तं रुद्रेभ्य एतच्च गुणतत्त्वेश्वराय च | श्रीकण्ठायेश्वरेणैव दत्तं तेन ततः परम् || श्रीकण्ठेन प्रधानादिदशरुद्रान्तिकं क्रमात् | दीक्षयित्वा विधानेन दत्तं वै ज्ञानमम्बिके || दीक्षयित्वाऽभिषिच्याथ श्रीकण्ठेन मयाऽपि च | दत्तं श्रीदक्षिणं सर्वं सर्वकामार्थसाधनम् || इति स्वच्छन्दभैरवोक्तरीत्या मयोदितः स्वगुरुपारम्पर्यो-पदेशक्रमेणैव विषमपदैरसम्प्रदायविद्भिरपरिज्ञातार्थश्लोकैः पूर्वोक्तरीत्या कथितः सम्प्रदायार्थो विना गुरुपदेशं व्युत्पत्तिबलेन पुराणादिश्लोकवद् ग्रहीतुमशक्य इत्यर्थः || अथ क्रमप्राप्तं निगर्भार्थमाह - निगर्भोऽपि महादेवि शिवगुर्वात्मगोचरः || २/४८ || निगर्भो निगर्भार्थः | शिवो वाङ्मनगोचरः सकल-निष्कल-सकलनिष्कल- भेदविशेष्यः, [आत्मादिसकलगुणाभिधस्तादृशमेव स्वात्मतया वीक्षमाणो विदिताखिलागमार्थो गुरुः, तादृशगुरुकरुणा-कटाक्षपातविगलितसकलपाशविशद] चिद्रूपानुभवः [शिष्य] आत्मा | तदुक्तं स्वच्छन्दसंग्रहे - तत्त्वातीतं वरारोहे वाङ्मनोऽतीतगोचरम् | अनिष्कलं चासकलं नीरूपं निर्विकल्पकम् || निर्द्वन्द्वं परमं तत्त्वं शिवाख्यं परमं पदम् | इति | सर्वविद्याविदाचार्यो मोक्षधर्मपरायणः | गुरुवक्त्रप्रयोगेण पशुं तत्रैव योजयेत् || इति | गुरुः - गृणीते तत्त्वमात्मीयमात्मीकृतजगत्त्रयम् | उपायोपेयरूपाय शिवाय गुरवे नमः || इत्युक्तलक्षणः | एवंविधशिवगुर्वात्मैक्यगोचरानुसन्धानात्मको निगर्भार्थ इत्यर्थः || २/४८ || ननु केन प्रकारेण शिवगुर्वात्मनामैक्यमनुसन्धीयत इत्यत आह - तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते | शिवगुर्वात्मनामैक्यानुसन्धानात् तदात्मकम् || २/४९ || तत्प्रकारं शिवगुर्वात्मनामैक्यानुसन्धानात्मकम्, दिङ्मात्रेण वदामि न विशेषप्रतिपादनप्रपञ्चेनेत्यर्थः || २/४९ || तत्प्रकारमाह - निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि | तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् || २/५० || भावयेद् भक्तिनम्रः सन् शङ्कोन्मेषाकलङ्कितः | कला अवयवाः, तद्रहितत्वं निष्कलत्वं निरवयवत्वम्, शिवे पूर्वोक्तलक्षणे, बुद्ध्वा, गृणीते तत्त्वमात्मीयमात्मीकृतजगत्त्रयम् | उपायोपेयरूपाय शिवाय गुरवे नमः || इत्यभियुक्तवचनोक्तरीत्या निष्कलं निष्कलात्मकं शिवं स्वात्मतया वीक्ष्यमाणस्यैव गुरुत्वाद् गुरोरपि तद्रूपत्वं शिवात्मकत्वं बुद्ध्वा, तन्निरीक्षणसामर्थ्यात् गुरोराज्ञाप्रभावेण केवलं निष्प्रपञ्चकम् | निरीक्ष्यैतादृशाद्वैतचिदम्बुधिसुधार्द्रया || यथा विशुद्धः शिष्योऽपि लीयेतानन्दचिद्घनः | इत्यादिवाक्योक्तरीत्या तस्य गुरोर्निरीक्षणं निखिलपाशच्छेदन-समर्थम् | तत्सामर्थ्यवशाद् विशुद्धः शिष्यो भक्तिनम्रः प्रत्युत्पन्न- परमशिवाहंभावनावेशः प्रत्यहमादरनैरन्तर्यपट्वभ्यासवशात् शङ्कोन्मेषाकलङ्कितः | शङ्का संकोचः संसारित्वाभिमानः, तस्योन्मेषः पुत्रभार्यादिबाह्यार्थाभिरतिः, तेनाकलङ्कितो विगताहं ममताभिमानः, आत्मनश्च शिवात्मतां भावयेत् | जपाकुसुमसामीप्य-विगमात् स्फटिकस्य नैर्मल्यमिवात्माद्वैतभावनाभावितगुरुकटाक्ष-पातपाटितपाशपटलः परिपूर्णस्वभावः स्यादित्यर्थः || २/५० -५१ || अथ क्रमप्राप्तं कौलिकार्थमाह - कौलिकं कथयिष्यामि चक्रदेवतयोरपि || २/५१ || विद्यागुर्वात्मनामैक्यं कौलिकं कौलिकार्थम्, कथयिष्यामि | चक्रदेवतागुरुविद्या- साधकानामैक्यानुसन्धानं कौलिकार्थ इत्यर्थः | अक्षरार्थः स्फुटः || २/५१ || तत्प्रकारमाह - तत्प्रकारः प्रदर्श्यते | तत्प्रकारः प्रदर्श्यते इत्यादिना इत्येवं कौलिकार्थस्तु कथितो वीरवन्दिते (२/६८) इत्यन्तेन || २/५२ || आदौ विद्याचक्रयोरैक्यमाह - लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् || २/५२ || सरोरुहद्वयं शाक्तैरग्नीषोमात्मकं प्रिये | हृल्लेखात्रयसंभूतैरक्षरैर्नवसंख्यकैः || २/५३ || बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये | लकारैः विद्याबीजत्रयगतैः | चतुरस्राणि भूगृहाणि, पृथिवीमण्डलं पीतं चतुरस्रं सुशोभनम् इति स्वच्छन्दसंग्रहोक्तरीत्या भूमण्डलस्य चतुरस्ररूपत्वाद् भूतत्त्ववाचकैर्लकारैश्चतुरस्रत्रयं जातमित्यर्थः | शाक्तैः [सकारैः | तदुक्तं चतुःशतीशास्त्रे - मादनं तदधः शक्तिः (१/१११) इति | हंसपारमेश्वरेऽप्युक्तम् - शिवो हकार इत्युक्तः सकारः शक्तिरव्यया इति | विद्याबीजत्रयगतैः] सकारैर्वृत्तत्रितयसंयुतं सरोरुहद्वयम् | चतुरस्रान्तरेण एकं वृत्तम्, तद्वृत्तान्तः षोडशदलं सोमात्मकं पद्मम् | तदन्तश्च द्वितीयं वृत्तम्, तदन्तश्चाष्टदलं पद्ममग्न्यात्मकम् | तदन्तश्च तृतीयं वृत्तम् | एवं वृत्तत्रितयसंयुतमग्नीषोमात्मकं सरोरुहद्वयम् | जलबिम्बं सुवृत्तं च श्वेतं वै पद्मलाञ्च्छितम् इति स्वच्छन्दसंग्रहोक्तरीत्या जलबिम्बस्य पद्मलाञ्च्छितवृत्तरूपत्वाज्- जलतत्त्ववाचकैः सकारैर्वृत्तत्रयसंयुतं सरोरुहद्वयं जातमित्यर्थः | बीजत्रयशिखरगतहृल्लेखात्रयावयवभूतैरक्षरैर्हकाररेफेकाराख्यैर्- बिन्दुत्रययुतैर्नवसंख्यात्मकैर्नवयोन्यात्मकं चक्रं जातमित्यर्थः || २/५२ - ५४ || ननु पद्मद्वयानन्तरं चतुर्दशारदशारद्वयात्मकचक्रत्रयस्य कथने युक्ते किमिति तदुल्लङ्घ्य नवयोनिचक्रं कथितम् ? उच्यते नवयोनिचक्रस्योपरिष्टात् प्रस्तारे कृते सति तिसृभिः शक्तिभिर्वह्निभिश्च द्विदशचतुर्दशकोणात्मकं चक्रत्रयं जातम्, अतो नवयोनिचक्रानन्तर-मेतच्चक्रत्रयं जायत इत्येत मनसि निधायाह - मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् || २/५४ || व्योमबीजत्रयेणैव प्रमातृत्रितयान्वितम् | इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् || २/५५ || सदाशिवासनं देवि महाबिन्दुमयं परम् | इत्थं मन्त्रात्मकं चक्रं मण्डलत्रययुक्तं तु वृत्तत्रयान्तर्गतशक्त्यनलात्मकं चक्रम् | नवयोनिचक्रस्योपरिष्टात् प्रस्तारे कृते सति तिसृभिः शक्तिभिरनलैश्च त्रिभिर्निष्पन्नत्वाच्चतुर्दशारादिचक्रत्रयं व्योमबीजत्रयेणैव हकारत्रयेणैव, हकारस्य व्योमवाचकत्वात् | हृल्लेखात्रये हकारत्रयं गतम्, शिष्टेन हकारत्रयेण चतुर्दशारादिचक्रत्रयं जातमित्यर्थः | प्रमातारस्त्रिविधा उक्तरूपा अशुद्धशुद्धमिश्रात्मानः, तेषां त्रयेणान्वितम् | पश्चात् शिवानुग्रहतो मलकर्मविपाकात् पृथिव्यप्तेजोवायवधिपतीनां तेषां त्रयेण व्यष्ट्या समष्ट्या चेदमन्वितं प्राप्तम् | तदुक्तं स्वच्छन्दसंग्रहे - मलादीनामपाके तु सामान्यानुग्रहो भवेत् | आधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः || पशवस्त्रिप्रकारास्तु प्राप्नुयुः परमेश्वरि | ये पक्वमलकर्माणस्तान् किञ्चिदनुगृह्य च || जलतत्त्वादितत्त्वानां मध्ये लोकेश्वरास्त्रिधा | इति | इच्छाज्ञानक्रियाशक्तिप्रधानप्रमातृत्रयरूपाणां त्रयाणां मादनानां ककाराणां त्रयेण संयुक्तं संमिश्रितं सदाशिवासनं पृथिव्यादिवायुतत्त्वान्तचतुस्तत्त्वाधिपतिभिर्ब्रह्मविष्णुरुद्रेश्वरैश्चतुर्भिः पादरूपेण धृतं पञ्चमभूताकाशाधिपतिसदाशिवरूप-पञ्चमयासनम् | महाबिन्दुमयं परम्, परशिवरविकरनिकरे प्रतिपलति विमर्शदर्पणे विशदे | प्रतिरुचिरुचिरे कुड्ये चित्तमये निविशते महाबिन्दुः || (श्लो. ४) इति कामकलाविलासोक्तरीत्या परशिवप्रतिबिम्बमहाबिन्द्वात्मकं परमुत्कृष्टम्, शिवशक्त्योरधिवासयोग्यत्वात् | तदुक्तं ज्ञानदीप-वमर्शिन्याम् - ओड्याणपीठमध्ये कदम्बवनान्तः श्रीमञ्चचतुष्पादके लं पृथिव्याधिपतये ब्रह्मणे नमः, वं अपामधिपतये विष्णवे नमः, रं तेजोऽधिपतये रुद्राय नमः, यं वायवधिपतये ईश्वराय नमः | एतानभ्यर्च्य हं आकाशाधिपतये पञ्चवक्त्रसदाशिवमहाप्रेतासनाय नम इति श्रीमञ्चाकारं सदाशिवमभ्यर्च्य इति | इत्थमुक्तप्रकारेण मन्त्रात्मकं चक्रं सौभाग्यविद्यामयमित्यर्थः || २/५४ -५६ || इदानीं चक्रेण देवताया ऐक्यमाह - देवतायाः परं वपुः || २/५६ || चक्रं देवतायाः परम् अन्यद् वपुः | ततः पद्मनिभां देवीम् (नि. षो. १/१३०) इत्यत्र देवतायाः करचरणादिमद् वपुरुक्तम् | तदेव त्रिकोणादिभूगृहान्तश्रीचक्रपदनिवास्यावरणदेवतारूपेणावयवशो विभज्य बैन्दवनिवासिनी स्वसंविद्देवता श्रीचक्रवपुषा स्थितेत्यर्थः | तदुक्तमत्रैव - एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् | तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् || (१/५५) इति || २/५६ || एतदेवोपपादयति - एकादशाधिकशतदेवतात्मतया पुनः | एकादशोत्तरशतदेवतास्त्रिकोणाग्रदक्षवामकोणेषु कामेश्वर्यादिकास्तिस्रः, तद्बहिरष्टकोणान्तराले त्रिकोणं परितश्चतुर्दिक्षु अष्टौ कामेश्वरकामेश्वर्यायुधदेवताः, अष्टकोणेऽष्टौ वशिन्याद्याः, अष्टकोणान्तराले षडङ्गदेवताः, अन्तर्दशारे सर्वज्ञाद्या दश, द्वितीयदशारे सर्वसिद्धिप्रदाद्या दश, चतुर्दशारे सर्वसंक्षोभिण्याद्याश्चतुर्दश, अष्टदलेऽष्टानङ्गकुसुमाद्याः, षोडशदले कामाकर्षिण्याद्याः षोडश, अन्तश्चतुरस्रे मुद्रादेवता दश, मध्यचतुरस्रे ब्राह्म्याद्या अष्टौ, बाह्यचतुरस्रेऽणिमाद्या दश | एवमेकादशोत्तरशतदेवतात्मतया तासामाधारभूता श्रीचक्ररूपिणी देवतेत्यर्थः || २/५७ || नन्वयं कौलिकार्थो वामकेश्वरतन्त्रे कुत्र सूचित इत्याशङ्कां परिहरन् देवताविद्याचक्रगुरुशिष्याणामैक्यार्थमेव गणेश (नि. षो. १/१) इत्यत्र सूचितं कौलिकार्थं विवृणोति - गणेशत्वं महादेव्याः ससोमरविपावकैः || २/५७ || इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः | ग्रहरूपा च सा देवी पुनःशब्दादेकादशाधिकशतदेवतात्मतयाऽस्या गणेशत्वम् | गणेशत्वं महादेव्या इत्यनेनापि काकाक्षिन्यायवदन्वयः | पूर्वोक्तत्रिकोणादिचतुरस्रान्तश्रीचक्रपदनिवास्येकादशाधिकशतदेवतात्म-तया महादेव्यास्तु तत्संख्याकदेवतासमुदायो गणः | देव्याः सोमरविपावका नेत्ररूपेण स्हिताः, इच्छा शिरःप्रदेशस्था ज्ञाना च तदधोगता | क्रिया पादगता ह्यस्याः इति संकेतपद्धत्युक्तरीत्या इच्छादिका मुर्धाद्यवयवाः, गुणाः सत्त्वरजस्तमांसि, एवं स्वावयवभूतैस्तैर्नवभिर्ग्रहरूपा च सा देवी || २/५७ - ५८ || ज्ञानकर्मेन्द्रियैरपि || २/५८ || तदर्थैरेव देवेशि करणैरान्तरैः पुनः | प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना || २/५९ || नक्षत्रविग्रहा जाता ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बोधकरणानि, कर्मेन्द्रियाणि वाक्पाणिपादपायुपस्थानि, तेषामर्थाः शब्दस्पर्शरूपरसगन्धा वचनादानगमनविसर्गानन्दाश्च, करणानि मनोबुद्ध्यहङ्कारचित्तान्यान्तराणि च , प्रकृतिः गुणसाम्यमव्यक्तम्, गुणो गुणतत्त्वं सुखदुःखमोहानां मूलम्, पुंस्त्वबन्ध आत्मा पुरुषतत्त्वम् | तदुक्तं स्वच्छन्दसंग्रहे - एभिर्मायादिभिः षड्भिः परिपूर्णः पशुः पुमान् | भुङ्क्ते भोगान् यथा देवि तथा पुरुषसंज्ञकः || सैव मायाऽथ भोगार्थं पशोरव्यक्तसंज्ञकम् | मूलप्रकृतिर्विश्वस्य गुणत्रितयरूपकम् || अभूत् तस्यां प्रकृत्यां तु गुणतत्त्वं बभूव ह | तद्दुःखसुखमोहानां मूलं सत्त्वं रजस्तमः || बुद्धिव्यापारनिचयरूपं व्यक्तगुणात्मकम् | विषयाध्यवसायात्मा बुद्धिः स्याद् गुणतत्त्वतः || गुणत्रयानुसारेण त्रिधा कर्मानुसारतः | तया बुद्ध्या समुद्भूतोऽहङ्कारस्त्रिप्रकारकः || सर्वजीवनसंरम्भरूपेण कमलासने | विषयास्तस्य भेदाश्च त्रिधा कर्मानुसारतः || सोऽयं तैजसवैकारिभौतिकाख्यास्वरूपतः | विकाराश्च स्व (स) भेदाश्च वागादीन्द्रियसंहतौ || वाचकार्थाः स्युरीशानि तत्र तत्र नियन्तृतः | प्राप्नोति सात्त्विकाद्याभिरवस्थाभिरगात्मजे || संकल्पकारकं चेच्छारूपं तैजसतो मनः | जातं वैकार्यवस्थाभिर्ज्ञानकर्मेन्द्रियाणि च || भूततन्मात्रशब्दस्पर्शरूपरसगन्धकाः | जाता वागादीन्द्रियाणां व्यापाराः परमेश्वरि || श्रोत्रत्वक्चक्षूरसनाघ्राणान्येतानि पञ्च च | बुद्धीन्द्रियाणि व्यापारास्तेषामेकैकशः क्रमात् || शब्दस्पर्शरूपरसगन्धानां ग्रहणं प्रिये | कर्मेन्द्रियाणि वाक्पाणिपादपायुरुपस्थकाः || वचनादानगमनविसर्गानन्दकं क्रमात् | कर्मेन्द्रियाणां व्यापाराः पञ्चानां परिकीर्तिताः || एतानि दश बाह्यानि क्रमेणाभ्यन्तरत्रयम् | मनो बुद्धिरहङ्कारो ह्यन्तःकरणसंज्ञकम् || इति | एतैः स्वावयव संभूतैः सप्तविंशतिभिर्नक्षत्रविग्रहा जाता देवी स्वेच्छागृहीत विग्रहा || २/५८ - ६० || योगिनीत्वमथोच्यते | त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ || २/६० || वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता | योगिनीरूपमास्थाय राजते विश्वविग्रहा || २/६१ || [त्वगादिघातवस्त्वगसृङ्मांसमेदोमज्जाशुक्राणि घातवः, तेषां नाथा अधिष्ठात्र्यो डाकिन्याद्याः - डाकिनी, राकिनी, लाकिनी, काकिनी, साकिनी, हाकिनी च | वर्गा अकचटतपयशाः, तेषामष्टके निविष्टा ब्रह्माण्याद्या योगिन्यः | तदुक्तं स्वच्छन्दसंग्रहे - सर्ववाङ्मयमूला या वर्गाष्टकसमावृता | विश्वोत्पत्तिक्रमान्ताष्टशक्तिप्रसृतभैरवैः || शक्तिभिश्च समायुक्ता अक्षान्ता मातृकावलिः | इति | चतुःशत्यामप्युक्तम् - वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् (नि. षो. १/११) इति | एभिः संयुक्ता | षडाधारेषु डाकिन्यादिभिः, मातृकास्थूलरूपत्वात् त्वगादिव्यापकत्वतः | योगिन्यः प्रकटा ज्ञेयाः (३/११४) इति वक्ष्यमाणरीत्या त्वगादिधातुषु ब्राह्म्यादिभिः सेविता सर्वसमष्टिरूपत्वाद् योगिनीरुपमास्थाय राजते विश्वविग्रहा तत्तद] योगिनीरूपेण विहरति | अत्रैव वक्ष्यति - अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् | त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी || (३/१९४) इति || २/६०-६१ || प्राणापानौ समानश्चोदानव्यानौ तथा पुनः | नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः || २/६२ || जीवात्मापरमात्मा चेत्येतै राशिस्वरूपिणी | प्राणादिधनञ्जयान्ता दश वायवः, जीवात्मा उक्तलक्षणः पशुः, परमात्मा एष त आत्माऽन्तर्याम्यमृतः (बृ. उ. ३/७/३) इत्युपनिषदुक्तः सर्वभूतानामन्तर्यामी | एतैर्द्वादशभी राशिस्वरूपिणी || २/६२-६३ || गणेशेत्यादिपदं विद्यापदेऽपि योजयति - अकथादित्रिपङ्क्त्यात्मतार्तीयादिक्रमेण सा || २/६३ || गणेशोऽभून्महाविद्या परावागादिवाङ्मयी | अकारहकारसामरस्यरूपा परा वाग् आदिर्यासां ताः पश्यन्तीमध्यमावैखर्यो वाचश्चतस्रः परावागादिवाचः | तदुक्तं संकेतपद्धत्याम् - अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः | हकारोऽन्त्यः कलारूपो विमर्शाख्या प्रकीर्तितः || अनयोः सामरस्यं यत् परस्मिन् महसि स्फुटम् | वामाद्यैः पिण्डितो योऽसाववर्णः परिकीर्तितः || आदावस्य शिरो रौद्री वक्त्र वामा प्रकीर्तिता | अम्बिका बाहुरित्युक्ता ज्येष्ठा चैव नखाग्रगा || एता हार्धकलारूपा रूपपञ्चतया स्थिताः | अवर्णः सर्ववर्णानां न पृथग् भासते बहिः || इच्छा शिरःप्रदेशस्था ज्ञाना च तदधोगता | क्रिया पादगता ह्यस्य शान्ता हृन्मध्यगा भवेत् || अष्टधाऽनाहतः प्रोक्तः शून्यादिप्रविभागतः | शून्यः स्पर्शस्तथा नादो ध्वनिर्बिन्दुस्तथैव च || शक्तिबीजाक्षरं चेति ह्यष्टधाऽनाहतः स्मृतः | चत्वारिंशत्सप्तसंख्यो हतः स परिकीर्तितः || क्षकारः कथितो योऽसौ संयोगो द्विविधः स्मृतः | सप्तषष्ट्याख्यमेवं हि मातृकापीठमुत्तमम् || अनाहतहतोत्तीर्णैस्त्रिभिर्भेदैः समन्ततः | स्थितो योऽसौ महापीठो मातृकाख्यो जयत्यसौ || इति | एव्मेतत्परादिचतुर्विधतया वाङ्मयी, अस्वरविमर्शरूपौ स्वांशौ हित्वा चतुष्कलौ सैव (२/२) इत्यादिसौभाग्यसुधोदय-प्रतिपादितरीत्या परापश्यन्तीमध्यमावैखरीमयत्वाद् विद्यायाः | अकथादित्रिपङ्त्यात्मतार्तीयादिक्रमेण | अकथादीत्यादिशबोदो-ऽकारथकारैस्त्रिभिः संबध्यते | आदयो विसर्गान्ताः स्वराः षोडश, कादयस्तान्ताः षोडश, थादयः सान्ताः षोडश | एवमकथादिवर्णात्मकतार्तीयादिकामराजादिवाग्भवादिक्रमेण अकारादिपङ्क्तिमयं तार्तीयम्, ककारादिपङ्क्तिमयं कामराजम्, थकारादिपङ्क्तिमयं वाग्भवमिति क्रमेण | पङ्क्तिशब्दो गणपरः, चतुर्विधमातृकामयत्वात्, अकथादिवैखर्यादिवर्गगणत्रय- बीजत्रयावयवत्वाच्च सेयं महाविद्या गणेशोऽभूदित्यर्थः || २/६३ -६४ || बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका || २/६४ || हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः | अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी || २/६५ || कूटशब्दोऽत्राक्षरपिण्डपरः | यतोक्तमभियुक्तैः - कूटेषु त्रिषु कार्यगौरववशादीकारशृङ्गक्रमात् इति | सौभाग्यविद्याक्षर-पिण्डेषु बीजाबिन्दुध्वनीनां च, बीजम् ईकारान्ताक्षरजातम्, बिन्दुरुक्त (१/२८) लक्षणः, ध्वनिर्नादः, बीजबिन्दुध्वनीनां चेति तृतीयार्थे छान्दसः प्रयोगः | कूटत्रयबीजानि त्रिणि, बिन्दवस्त्रयः, नादास्त्रय इति नवभिर्ग्रहात्मिका विद्येत्यर्थः | बीजत्रयशिखरवर्तिहृल्लेखात्रयसंभूतैस्तथाक्षरैर्हकाररेफेकार- बिन्दुनादात्मकैस्तिथिसंख्यकैः पञ्चदशभिः, अन्यैर्हृल्लेखात्रयवर्जितैर्-द्वादशवर्णैः कूटत्रयावयवैरेवं पञ्चदशभिर्द्वादशभिश्च सप्त-विंशतिवर्णैः सर्वैर्नक्षत्ररूपिणीत्यर्थः || २/६५ || विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः षड्भिस्तथाक्षरैः | योगिनीत्वं च विद्याया राशित्वं चान्त्यवर्जितैः || २/६६ || विद्यायाः पञ्चदशाक्षर्या अन्तर्भूताः शक्तयो हृल्लेखास्तिस्रः, तदाद्याश्च लकारास्त्रयः | शाक्तैरेतैः षड्भिरक्षरैर्विद्याया योगिनीत्वम् | योगिन्यश्च डाकिन्याद्याः षट् | अस्या विद्यायाः पञ्चदशाक्षर्या अन्त्या हृल्लेखास्तिस्रः, तद्वर्जितैर्द्वादशभिर्वर्णै राशित्वं भवेदित्यर्थः | राशयो मेषाद्या द्वादश || २/६६ || उक्तमर्थं चक्रे व्यतिदिशति - एवं विश्वप्रकारा च चक्ररूपा महेश्वरी | एवमुक्तरीत्या योजितगणेशादिविश्वप्रकारा महेश्वरी त्रिपुरसुन्दरी चक्ररूपा देवता | विद्यापक्षवत् चक्रपक्षेऽपि गणेशत्वादिकं योज्यमित्यर्थः | योजनाप्रकारस्तु - अकथादिमयमध्यत्रिकोणरेखया गणेशत्वम्, नवकोणैर्ग्रहरूपत्वम्, वृत्तत्रयचतुर्दशकोणबहिर्दशार-कोणैश्च नक्षत्ररूपत्वम्, अष्टकोणैर्ब्राह्म्यादियोगिनीसंख्यैर्योगिनीत्वम्, पञ्चशक्तिचतुर्वह्निपद्मद्वयभूगृहै राशित्वम् || २/६७ || पुनश्च पूर्वोक्तलक्षणमेवार्थं गुरुशिष्ययोरप्यतिदिशति - देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि || २/६७ || तत्प्रसादाच्च शिष्योऽपि तद्रूपः संप्रकाशते | देव्याः त्रिपुरसुन्दर्याः, देहे स्वेच्छागृहीतलीलाविग्रहे, यथा प्रोक्तः - एकादशाधिकशतदेवतात्मतया पुनः | गणेशत्वं महादेव्याः (२/५७) इत्यादिना | गृणीते तत्त्वमात्मीयमात्मीकृतजगत्त्रयम् | उपायोपेयरूपाय शिवाय गुरवे नमः || इत्यभियुक्तवचनोक्तरीत्या देवतादेहस्यैव गुरुत्वाद् गुरुदेहेऽपि, यथा देव्या देहे गणेशत्वादिकं योजितं तथैव तद्रूपस्य गुरोरपि देहे तद् योज्यम्-इत्यर्थः | तत्प्रसादात् स्वप्रकाशवपुषा गुरुः शिवो यः प्रसीदती पदार्थमस्तके | तत्प्रसादमिह तत्त्वशोधनं प्राप्य मोदमुपयाति भावुकः || (चि. ३१) इत्यस्मदुक्तरीत्या प्राप्तगुरुप्रसादः शिष्यस्तद्रूपो देवतारूप एव संप्रकाशत इति | अतो यथा देव्या गुरोश्च देहे गणेशत्वादिकं योजितम्, तथैव शिष्यदेहेऽपि योजनीयमित्यथः || २/६७-६८ || कौलिकार्थमुपसंहरति- इत्येवं कौलिकार्थस्तु कथितो वीरवन्दिते || २/६८ || इति शब्दः प्रसङ्गपरिसमाप्तिपरः | एवंशब्दः पूर्वोक्तानुवाद-परः | शेषं स्पष्टम् || २/६८ || अथ क्रमप्राप्तं सर्वरहस्यार्थं वक्तुं प्रतिजानीते - तथा सर्वरहस्यार्थं कथयामि तवानघे | तथाशबः पूर्वोक्तार्थप्रकारपरामर्शार्थः | सर्वरहस्यार्थं पूर्वोक्तसर्वेभ्यो रहस्यम्, परप्राप्तिरूपत्वात् || २/६९ || सर्वरहस्यार्थमेवाह - मूलाधारे तडिद्रूपे वाग्भवाकारतां गते || २/६९ || अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा | विद्या कुण्डलिनीरूपा मण्डलत्रयभेदिनी || २/७० || तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः | व्योमेन्दुमण्डलासक्ता सुधास्रोतःस्वरूपिणी || २/७१ || सदा व्याप्त जगत्कृत्स्ना सदानन्दस्वरूपिणी | एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि || २/७२ || मूलाधारे पूर्वोक्त (१/२५) लक्षणे, तडिद्रूपे विद्युद्वर्णे, वाग्भवाकारतां गते, वाचः परापश्यन्तीमध्यमावैखर्यः, ताभिर्वाग्भिर्भवतीति वाग्भवं त्रिकोणम्, तदुक्तमत्रैव - आत्मनः स्फुरणम् (१/३६) इत्यादिना क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा (१/४०) इत्यन्तेन | तदाकारतां गते तद्रूपेण परिणते | अष्टात्रिंशत्कलाः, वह्नेर्ध्रूम्रार्चिराद्या दश, सूर्यस्य तपिन्याद्या द्वादश, सोमस्यामृताद्याः षोडश, एवमेता ऽष्टात्रिंशत्कलाः, ताभिर्युक्तैः पञ्चाशद्वर्णैरकारादिक्षकारान्तैः, वह्निकलाभिर्दशभिर्युक्ता यादयो दश वर्णाः, सूर्यकलाभिर्द्वादशभिर्युक्ताः क्रमोत्क्रमकभाद्याश्-चतुर्विंशतिवर्णाः, सोमकलाभिः षोडशभिर्युक्ता अकारादयः षोडश स्वराः, एवमेते पञ्चाशद्वर्णा विग्रहो यस्याः सा तथा | विद्या सौभाग्यविद्या | स्वरव्यञ्जनभेदेन.....षट्त्रिंशत्तत्त्वरूपिणी (२/३३) इति पूर्वोक्तरीत्या षट्त्रिंशत्तत्त्वावयववत्पञ्चाशदक्षरमयी वैखर्यात्मिका कुण्डलिनीरूपा तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता || नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा | नीवारशूकवत् तन्वी पीता भास्वत्यणूपमा || (तै. आ. १०/११/११-१२) इति श्रुत्युक्तरीत्या भुजङ्गभोगसदृशी ज्योतिर्लता | मण्डलत्रयभेदिनी, मण्डलत्रयं मूलहृदयभ्रूमध्यस्थितानां वह्निसूर्यसोममण्डलानां त्रयम्, तद्भेदिनी | मण्डलत्रयं भित्वा तन्मध्यमार्गेणाकुलं प्रवेष्टुमुद्यतेत्यर्थः | तडित्कोटिनिभप्रख्या तडित्कोटीनां निभा सदृशी प्रख्या कान्तिर्यस्याः सा | बिसतन्तुनिभाकृतिः बिसतन्तुवत् सूक्ष्मरूपा | व्योमेन्दुमण्डलासक्ता ललाटोर्ध्वं समारभ्य कपालोर्ध्वावसानकम् | त्र्यङ्गुलोर्ध्वे शिरोदेशे परं व्योम प्रकीर्तितम् || इति स्वच्छन्दसंग्रहोक्तरीत्या परे व्योम्नि यदिन्दुमण्डलं चिच्चन्द्रबिम्बम्, तत्रासक्ता | सुधास्रोतःस्वरूपिणी तद्विगलितामृतप्रवाहरूपा | सदा व्याप्तजगत्कृत्स्ना सदा कालत्रयेऽपि षट्त्रिंशत्तत्त्वात्मकं जगत् कृत्स्नं व्याप्तं ययेति शेषः | सदानन्दस्वरूपिणी सदानन्दः परशिवः स्वरूपं यस्याः सा सदानन्दस्वरूपिणी | एषा चिन्मयी कुण्डलिनीशक्तिः स्वात्मेति बुद्धिस्तदात्मतया समावेशो रहस्यार्थ इत्यर्थः | तदुक्तं चतुःशतीशास्त्रे - यदोल्लसति शृङ्गाटपीठात् कुण्डलरूपिणी || शिवार्कमण्डलं भित्वा द्रावयन्तीन्दुमण्डलम् | तदुद्भवामृतस्यन्दपरमानन्दनन्दिता || कुलयोषित् कुलं त्यक्त्वा परं पुरुषमेति सा | निर्लक्षणं निर्गुणं च कुलरूपविवर्जितम् || ततः स्वच्छन्दरूपा तु परिगृह्य जगत्पतिम् | तेन मार्गेण सन्तुष्टा पुनरेकाकिनी सती || रमते स्वयमव्यक्ता त्रिपुरा व्यक्तिमागता | इति || २/६९ -७२ ||(नि. षो. ४/१२-१६) अथ क्रमप्राप्तं महातत्त्वार्थं वक्तुं प्रतिजानीते - महातत्त्वार्थ इति यत् तच्च देवि वदामि ते | स्पष्टम् || ७३ || महातत्त्वार्थमेवाह - निष्कले परमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते || २/७३ || व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे | विश्वोत्तीर्णे विश्वमये तत्त्वे स्वात्मनि योजनम् || २/७४ || निष्कले निरवयवे, कला अवयवाः | परमे महद्भ्योऽपि महीयसि | सूक्ष्मे अणोरप्यणीयसि | निर्लक्ष्ये करणेन्द्रियाद्यगोचरे | भाववर्जिते भावनागममतीन्द्रियं च यल्लक्ष्यमुक्तम् (श्लो. १३) इति चिद्गगनचन्द्रिकोक्तरीत्या भावनागम्ये | व्योमातीते व्योम पूर्वोक्त (२/७१) लक्षणं तदतीते | परे तत्त्वे सकलतत्त्वातीते परमार्थे | प्रकाशानन्दविग्रहे, प्रकाशो ज्योतिषां ज्योतिरनुत्तरम्, आनन्दः सकलवैषयिकानन्दसमष्टि-भूतः परमानन्दः, तौ प्रकाशानन्दौ विग्रहो यस्य, तस्मिन् | विश्वोत्तीर्णे विमुक्तसकलजगदुत्तीर्णे | विश्वमये देशकालपदार्थात्म यद्यद्वस्तु यथा तथा | तत्तद्रूपेण या भाति तां श्रये सांविदींकलाम् || (सौ. हृ. ४) इति प्रामाणिकोक्तवचनरीत्या तत्तदात्मनाऽवभासमाने, तत्त्वे तत्त्वमसि (छ्. उ. ३/८/७) इत्युपनिषद्वाक्यपरमार्थपरविद्याप्रदायक-परशिवरूपे निजगुरुप्रबोधितनिर्मलस्वभावे स्वात्मनि योजनं तदेकतानुप्रवेशो महातत्त्वार्थ इत्यर्थः || २/७३-७४ || नन्वेवंविधलक्षणं स्वात्मतत्त्वं केन प्रमाणेनावसीयत इत्यत आह - तदा प्रकाशमानत्वं तेजसां तमसामपि | अविनाभावरूपत्वं तस्माद् विश्वस्य सर्वतः || २/७५ || यदा शिवः सर्वप्राणिनां चित्ते परिस्फुरति, तदा आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन (न्या. भा. १/१/४) इति तन्त्रान्तरोक्तरीत्या तेजसां सूर्यादीनां तमसां घटादीनां जडानामपि प्रकाशमानत्वम् | चित्ते चिदात्मनि परमशिवे प्रथमं परिस्फुरति सत्येव तत्तदिन्द्रियद्वारा तत्तदर्थानां परिस्फुरणम् | अत्र श्रुतिः - तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति (क. उ. ५/१५) इति | तस्मात् सर्वतः सर्वस्य विश्वस्य उक्त १/४१) लक्षणस्य अविनाभावरूपत्वम्, विना न भवतीत्यविनाभावः | कोऽर्थः ? विश्वमिदं द्रष्टृसापेक्षप्रतीतिकं दृश्यत्वात्, यद्यद् दृश्यं तत्तद् द्रष्टृसापेक्षप्रतीतिकम्, यथा सम्प्रतिपन्नो घटः, यद् द्रष्टृअसापेक्षप्रतीतिकं न भवति तद् दृश्यमपि न भवति, यथा शशविषाणम्; इत्याद्यन्वयव्यतिरेकसिद्धेनानुमानप्रमाणेनावसीयत इत्यर्थः || २/७५ || अथवा अलं प्रमाणचिन्तया, प्रमाणानामपि चिदनुप्रवेशेनैव प्रमाणत्वात् तेषामपि स्वरूपमेतत्सद्भावं साधयितुमलम्, तस्य प्रकाशरूपत्वादित्याह - प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले | महातत्त्वं देशकालाकारैर्निरवच्छिन्नं तत्त्वं प्रकाशते स्वयमेव, तेन विना न तत्किमपि प्रकाशयितुमलम्, तस्यैव प्रकाशेन सर्वत्र प्रकाशात् | अत्र श्रुतिस्मृती - तस्य भासा सर्वमिदं विभाति (क. उ. ५/१५) इति, न तद् भासयते सूर्यो न शशाङ्को न पावकः (भ. गी. १५/६) इति च | अभियुक्तवचोऽपि - अवधानैकतानानां मतिरेवात्र साक्षिणी | किं प्रमाणैर्वराकैस्तैश्चिदनुप्राणितात्मभिः || नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते (प. प. ११-१२) इति | दिव्यक्रीडारसोज्ज्वले | देव्याः संबुद्धिः | दिवि भवो दिव्यः परमशिवः, तस्य क्रीडा विश्वसर्जनादिव्यवहारक्रियात्मिका चिच्छक्तिः, तयोः रसः सामरस्यम्, तेनोज्ज्वले नित्यं शिवशक्तिसामरस्यपरायणप्रतीते देवि इत्यर्थः || २/७६ || ननु महातत्त्वार्थज्ञानस्य फलं यागादिकर्मणामिव देहान्तरदेशान्तरकालान्तरभाविप्रत्ययः किम् ? नेत्याह - निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः || २/७६ || रहस्यार्थो महागुप्तः सद्यः प्रत्ययकारकः | इदमहं करिष्यामीति मानसं कर्म संकल्पः, एवं मया कर्तव्यं न वेति कोटिद्वयावलम्बि ज्ञानं विकल्पः | शिवस्वातन्त्र्यभावे तु तौ निरस्तौ यत्परिज्ञानमात्रतः, तदुभयनिरासादेव मनःस्थैर्यं स्थितिर्जायते | तत्पूर्वको रहस्यार्थ आकर्णनयोग्यो न भवति | अत एव महागुप्तः, न कस्यापि कथितः, अत्यन्तयत्नेन रक्षितः | सद्यः प्रत्ययकारकः एतदाकर्णनेन शिवोऽहमस्मीति प्रत्ययः सद्य एव समुदेतीत्यर्थः || २/७६-७७ || नन्वयमर्थः कुत्र स्थितः ? कुत्र वा दृष्टस्त्वया ? किं वा तस्य फलम् ? इत्यत आह - महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति || २/७७ || विद्यापीठनिबन्धेषु संस्थितो दिव्यसिद्धिदः | विद्यैव पीठं विद्यापीठम्, शिवयोर्विश्रान्तिस्थानत्वात् | तन्निबद्ध्यते येषु तानि तदवयवभूतानि वाग्भवकामराजशक्त्याख्यानि बीजानि तेषु विद्यापीठनिबन्धेषु, अकुले विषुसंज्ञे च (१/२५) इत्यत्रोक्तरीत्या बीजत्रयशिखरवर्तिबिन्द्वर्धचन्द्ररोधिनीनादनादान्तशक्तिव्यापिकासमनोन्- मनाक्रमेणानुसन्धीयमानेषु उन्मन्यन्तदेशकालानवच्छिन्नवस्तुपर- चिदात्मकमहातत्त्वार्थः संस्थित इत्यर्थः | तदुक्तं स्वच्छन्दसंग्रहे - या चेयं समनाशक्तिस्तदूर्ध्वे उन्मना स्मृता | नात्र कालकलाभानं न तत्त्वं न च देवता || सुनिर्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते | शिवश्क्तिरिति ख्यातं निर्विकल्पं निरञ्जनम् || तत्त्वातीतं वरारोहे वाङ्मनोतीतगोचरम् | अनिष्कलं चासकलं नीरूपं निर्विकल्पकम् || निर्द्वन्द्वं परमं तत्त्वं शिवाख्यं परमं पदम् | इति | दिव्यसिद्धिदः | दिवि उन्मन्यन्ते निरस्तनिखिलप्रपञ्चमहाशून्ये भवतीति दिव्यः परमशिवः पूर्वोक्तः (२/७६), तस्य सिद्धिः स्वाभेदेन परिज्ञानम्, तल्लक्षणं परमप्रयोजनं ददातीति दिव्यसिद्धिदः | महाज्ञानार्णवे दृष्टः | तादृशपरमशिवसामरस्यसमाधिरेव महाज्ञानम्, तदेवार्णवः, निस्तरङ्गपारावारभूतपरमामृत-परिपूर्णत्वात्, तस्मिन् दृष्टः स्वात्माहंभावभावनया भावितः | कोऽर्थः ? अयं परमः शिवपरप्राप्तिलक्षणो महातत्त्वार्थः सौभाग्यविद्याबीजत्रयशिखरवर्तिन्युन्मन्यवसानभूमाववस्थितस्तथा-विधफलदो मया नित्यं समाधिदशायां निरीक्ष्यत इत्यर्थः | शङ्का तत्र न पार्वति | शङ्का तत्र त्वया न कार्या | यथार्थदर्शी यथादृष्टार्थवादी तवाहमाप्तः, तेन मदुक्तेऽर्थेऽपि विश्वासः कार्य इत्यर्थः || २/७७ -७८ || नन्वयं महातत्त्वार्थो महागुप्त इत्युक्तम्, तर्हि कीदृशैर्लभ्यत इत्यत आह - कौलाचारपरैर्देवि पादुकाभावनापरैः || २/७८ || योगिनीमेलनोद्युक्तैः प्राप्तदिव्याभिषेचनैः | शङ्काकलङ्कविगतैः सदा मुदितमानसैः || २/७९ || पारम्पर्येण विज्ञातरहस्यार्थविशारदैः | लभ्यते कुलं शरीरं महाप्रयोजनहेतुतया ज्ञेयं येषां ते कौलाः | तदुक्तं स्वच्छन्दसंग्रहे - कुलज्ञानमथो वक्ष्ये कौलिकानां हिताय वै | यस्य विज्ञानमात्रेण योगोपायाश्च योगिनाम् || सुगुप्ताः सिद्धयः सर्वा भवन्ति सुलभाः प्रिये | शरीरं कुलमित्युक्तम् .......................... || तेषामाचारः, सर्वेषामेव शिष्याणां दीक्षितानां कुलान्वये | सर्वावस्थागतानां च साधारणमतं शृणु || गुरुभक्तिश्च शान्तिश्च पूजा श्रद्धा क्षमा धृतिः | इति स्वच्छन्दसंग्रहोक्तरीत्या समयाचारपरैः | पादुकाभावनापरैः, स्वप्रकाशशिवमूर्तिरेकिका तद्विमर्शतनुरेकिका तयोः | सामरस्यवपुरिष्यते परा पादुका परशिवात्मनो गुरोः || (चि. १) इत्यस्मदुक्तरीत्या प्रकाशविमर्शतत्समष्टितया श्रीगुरुपादुकात्रयभावनापरैः | योगिनीमेलनोद्युक्तैः, यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते | तत्सतां हि नियमावलम्बनं ध्यानपूजनकथा विडम्बना || इति प्रामाणिकवचनोक्तरीत्या मातृमानमेयसंविदो योगिन्यः, तासां मेलनम् अन्तर्मुखीभावेन परप्रमातृविश्रान्तिः, अथवा ब्राह्म्याद्यष्टकार्चनार्थं सामयिकशक्तिचक्रमेलनं योगिनीमेलनम्, तत्रोद्युक्तैः | प्राप्तदिव्याभिषेचनैः लब्धपरमशिवप्रायगुरुवराभि-मन्त्रितचिद्रसमयकलशसलिलसेकैस्ततः प्रक्षालितमलमयपाशैः | अत एव शङ्काकलङ्कविगतैः | इदमित्थं भवेन्न भवेदित्यनवधारण-ज्ञानं शङ्का, सैव कलङ्कः, मालिन्यहेतुत्वात्, तस्माद्विगतैः | अत एव सदा मुदितमानसैः, मेघावरणविगमाद् यथा रवेः स्वरूपं स्फुरति, तथा मलपाशविगमात् सदा येषां मनसि प्रमोदलक्षणं परशिव-स्वरूपं प्रकाशते, तैरित्यर्थः | पारम्पर्येण विज्ञातरहस्यार्थ-विशारदैर्लभ्यते शिवादिस्वगुरुपर्यन्तगुरुपारम्पर्यक्रमसमासादित- सकलरहस्यार्थपर्यालोचनपटुतरमतिभिरयं महातत्त्वार्थो लभ्यत इत्यर्थः || २/७८ - ८० || कौलाचारपरैरित्याद्युक्तगुणविहीनैरयमर्थो न लभ्यत इति शपथपूर्वकमाह - नान्यथा देवी त्वां शपे कुलसुन्दरि || २/८० || स्पष्टम् || २/८० || ननु मास्तु गुरुपारम्पर्यक्रमः, पुस्तकपाठादिना व्युत्पत्तिबलेनापि किञ्चिन्मात्र परिज्ञानं सम्पादयितुं शक्यत इत्याह - पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः | तेषां समयलोपेन विकुर्वन्ति मरीचयः || २/८१ || अन्यथा कौलाचारव्यतिरेकेण ज्ञानमात्रेण पुस्तकपाठोत्पन्न-ज्ञानमात्रेण तस्य साधकस्य सिद्धिर्न भवतीति ये पारम्पर्यविहीनाः शब्दव्युत्पत्तिबलेन किञ्चिन्मात्रपरिज्ञानेन गर्विताः, तेषां समयलोपेन, मादनं तदधः शक्तिः (नि. षो. १/१११) इत्याद्यागमशास्त्रविहितसकल- मन्त्राक्षरसंकेतपरिज्ञानाद्युच्चारणादिक्रमलोपेन विकुर्वन्ति मरीचयः सर्वपीठनिवासिन्यः सर्वगाश्चिन्मरीचयः | भैरव्यो भरिताकारा रक्षन्तु कुलमातरः || इति प्रामाणिकवचनोक्तरीत्या ब्राह्म्याद्या डाकिन्याद्यास्त्वगादिधातु- देवताः, विकुर्वन्ति विकारं जनयन्ति, स्वस्वधातूद्रेकरूपविकारजननेन तेषां देहं नाशयन्तीत्यर्थः || २/८१ || २/ ननु कस्मिन् दिने कस्मिन्नक्षत्रे कस्मिन् वासरे कौलाचारक्रमेण योगिनीमेलनं कार्यमित्यत आह - यस्तु दिव्यरसास्वादमोदमानविमर्शनः | देवतातिथिनक्षत्रे वारेऽपि च विवस्वतः || २/८२ || मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः | सर्वदा च विशेषेण यस्तु कौलाचारपरो योगी दिव्यरसास्वादमोदमानविमर्शनः, दिवि परव्योम्नि भवतीति दिव्यः परशिवः, तेन रसः सामरस्यम्, तस्यास्वादोऽनुभवः, तेन मोदमानं विमर्शनं मनोवृत्तिर्यस्य सः | प्रथमं परशिवैक्यपरामर्शपरिस्फुरदकृत्रिमानन्दकेवलः पश्चान्मदिरानन्दघूर्णितो वक्ष्यमाणा (३/९८-१०३) र्घ्यशुद्धिं विधाय परामृतभूतया मदिरया सम्पादितानन्दो योगी देवतातिथिनक्षत्रे, चतुदश्यष्टम्यौ देवतातिथी, पुष्यनक्षत्रं देवतानक्षत्रम् | अत्रैव वक्ष्यति - पुष्यभेन तु वारे च सौरे च परमेश्वरि || गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च | चक्रपूजां विशेषेण योगिनीनां समाचरेत् || (३/१९१-१९२) इति | मरीचीन् प्रीणयत्येव | एवकारोऽयोगव्यवच्छेदपरः | उक्तकालेषु सर्वदा योगिनीप्रीणनं कुर्यात्, अन्यथा प्रत्यवायो भवेदित्यर्थः | कालविशेषकथनं नैमित्तिकविशेषपूजाद्योतनार्थम् | सर्वदा प्रत्यहं च मरीचिप्रीणनं कुर्यादेव, एवकारेणाप्यन्वयः | नित्यार्चनाकरणे प्रत्यवायोऽस्तीति तात्पर्यम्, नित्यार्चनायां लुप्तायां सासनां सावृतिं क्रमात् इति स्वच्छन्दसंग्रहोक्तरीत्या प्रायश्चित्तस्य कर्तव्यत्वात् || २/८२ - ८३ || अकरणे प्रत्यवाय एव भवति, करणे तु फलमस्तीत्याह - लभते पूर्णबोधताम् || २/८३ || यत्र निर्विषयबोधलक्षणः स्वात्मशम्भुरवतिष्ठते-ऽनिशम् (चि. १०) इत्यस्मदुक्तरीत्या निरावरणचिद्रूपस्वात्मशम्भुत्वं प्राप्नोतीत्यर्थः || २/८३ || ननु पूर्णबोधभावः केन वा कियता कालेन कैर्वा सम्प्राप्यत इत्यत आह - एवंभावस्तु देवेशि देशिकेन्द्रप्रसादतः | महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः || २/८४ || एवंभावः पूर्णबोधत्वम् | देशिकेन्द्रप्रसादतः, यस्य करुणाकटाक्षपातमात्रेण पाशजालं छिद्यते, स परमशिवः केवलो देशिकेन्द्रः, तत्प्रसादतः स्वप्रकाशवपुषा गुरुः शिवो यः प्रसीदति पदार्थमस्तके | तप्रसादमिह तत्त्वशोधनं प्राप्य मोदमुपयाति भावुकः (चि. ३१) इत्यस्मदुक्तरीत्या तत्पादग्रहणेन, महाज्ञानमयो निरावरण-चिन्मयः | नरैः कौलाचारपरैः (२/७८) इत्यादिपूर्वोक्तविशेषणविशेषितैः | सद्यः देशिकेन्द्रप्रसादसमवाप्तिसमय एव सम्प्राप्यते || २/८४ || मन्त्रसंकेतमुपसंहरति - एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम् | देवि गुह्यं प्रियेणैव व्याख्यातं दुर्गि षड्विधम् || सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् | एवम् उक्तप्रकारेण, एतत्प्रदं परिपूर्णबोधलक्षणपरशिवतत्त्व-प्रदं ज्ञानम् | विद्यार्णागमगोचरम्, विद्याया अर्णाः पञ्चदश वर्णाः, त एवागमा महार्थबोधकत्वात्, तद्गोचरं तदर्थतया व्याख्यातम्, यद्वेत्ता त्रिपुराकारो वीरचक्रेश्वरो भवेत् (२/१) इत्यारभ्य एवमेतत्प्रदम् (२/८५) इत्यन्तश्लोकजालेन | षड्विधं भावार्थः सम्प्रदायार्थः (२/१५) इत्यादिना प्रतिपादितषट्प्रकारम् | देवि प्रकाशविमर्शसामरस्यरूपे परे | दुर्गि दुर्गे देशिकेन्द्रकटाक्षपातविहीनैरप्राप्यस्वरूपे | सद्यो यस्य प्रबोधेन षड्विधार्थस्य प्रबोधेन | वीरचक्रेश्वरो भवेत् | इदन्तारिपोरहमि समराङ्गणे प्रलयप्रतिपादनपरा वीराः, तेषां चक्रं समूहः, तस्येश्वरः परशिवः | पूर्वोक्तषड्विधार्थविज्ञानसमय एव परशिवो भवेदित्यर्थः || २/८५ || इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीपुण्यानन्दशिष्यामृतानन्दयोगि- प्रवरविरचितायां योगिनीहृदयदीपिकायां मन्त्रसंकेतो नाम द्वितीयः | पूजासंकेतस्तृतीयः अथ क्रमप्राप्तं पूजासंकेतं वक्तुं प्रतिजानीते - पूजासंकेतमधुना कथयामि तवानघे | स्पष्टम् || श्रोतृजनप्रवृत्तये फलमाह - यस्य प्रबोधमात्रेण जीवन्मुक्तः प्रमोदते || ३/१ || यस्य पूजासंकेतस्य | प्रबोधमात्रेण वक्ष्यमाणपरादित्रिविध-भेदवतः केवलपरिज्ञानेनैव | जीवन्कुक्तः जीवन्नेव मुक्तः सन् शिवोऽहमस्मीति मतिमान् | प्रमोदते परशिवाहन्तामतिरेव प्रमोदहेतुः || ३/१ || पूजासंकेतमारभते - तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता | प्रकाशात्मनो मम विमर्शशक्तेर्विमर्शरुपिण्यास्तव | नित्योदिता पूजा नित्यं प्रत्यहम् उदिता विहिता पूजा, त्रिभिर्भेदैर्व्यवस्थिता || पूजानामान्याह - परा चाप्यरा गौरि तृतीया च परापरा || ३/२ || प्रथमा पूजा परा उत्तमोच्यते | परमशिवाद्वैतप्रथाप्रापकत्वादि- तरपूजाभ्यामुत्तमत्वम् | तदुक्तं संकेतपद्धत्याम् - न पूजा बाह्यपुष्पादिद्रव्यैर्या विहिताऽनिशम् | स्वे महत्यद्वये धाम्नि सा पूजा या परा स्थितिः || इति | अपरा द्वितीया पूजा भेदप्रथामात्रसारा बाह्यचक्रावरणार्चन- रूपाऽधमा, न पूजा बाह्यपुष्पादिद्रव्यैर्या विहिताऽनिशम् इति पूर्वोक्तवचनात् | तृतीया पूजा परापरा बाह्यस्यान्तरे धाम्न्यद्वये चिल्लयभावनामयी मध्यमा, परापरात्मकत्वात् || ३/२ || तासां लक्षणानि क्रमेणाह - प्रथमाऽद्वैतभावस्था सर्वप्रसरगोचरा | आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन (न्या. भा. १/१/४) इति पूर्वोक्त (२/२-४) परिपाट्या सर्वेषामिन्द्रियाणां ये प्रसरा व्यापारास्तेषां गोचरीभूता | कोऽर्थः ? यत्र यत्र मनो याति बाह्ये वाऽभ्यन्तरे प्रिये | तत्र तत्र परावस्था व्यापकत्वात् क्व यास्यति || ३/(श्लो. ११३) यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते प्रभोः | तस्य तन्मात्रधर्मित्वाच्चिल्लयाद् भरिता मतिः || ३/(श्लो. ११४) इति विज्ञानभैरवभट्टारकोक्तरीत्या बाह्यस्य चिल्लयलक्षणाऽद्वैत-प्रथा परा पूजेत्यर्थः || द्वितीया चक्रपूजा च सदा निष्पाद्यते मया || ३/३ || द्वितीया चक्रपूजा अपरा पूजा, चतुरस्रादिबैन्दवान्तश्रीचक्रसदना- वरणदेवतार्चनमपरा पूजेत्यर्थः | सदा निष्पाद्यते मया | सदा प्रत्यहम्, मया सर्वज्ञेनापि, निष्पाद्यते क्रियते, अभेदप्रतीतिबोधकत्वात् | अभेदप्रतीत्यर्थमपरा पूजा सर्वैरपि ज्ञानिभिः कार्येत्यर्थः | अन्यथाऽद्वैतमित्यप्रसक्तप्रतिषेधः स्यात्, न च तथा युक्तम् | तदुक्तं तन्त्रान्तरे - लब्धरूपं क्वचित् किञ्चित् तादृगेव निषिद्ध्यते | विधानमन्तरेणातो न निषेधस्य संभवः || इति || ३/३ || (ब्र. सि. २/२) परापरापूजामाह- एवं ज्ञानमये देवि तृतीया स्वप्रथामयी | एवं ज्ञानमये पूर्वोक्ताद्वैतभावनामये धाम्नि स्वप्रथामयी बाह्यस्य पृथगात्मकावरणार्चनरूपस्य कर्मणो ज्ञानमयताविश्रान्तिस्-तृतीया परापरा पूजा | तदुक्तमभियुक्तैः - प्रकाशैकघने धाम्नि विकल्पप्रसरादिकान् | निक्षिपाम्यर्चनद्वारा वह्नाविव घृताहुतीः || इति || (सु. वा. ३७) पूजाविधानमाह- उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् || ३/४ || उत्तमा सा परा पूजा | परापूजाया उत्तमत्वकथनादितरयोरपरा- परापरपूजयोरधमत्वं मध्यमत्वं चोपलक्षयति | सा ज्ञेया यथा-ज्ञानं कार्या | अपरा पूजा पश्चाद् वक्ष्यते | अस्या ज्ञेयत्वात् परत्वमत एवोत्तमत्वं चेत्यर्थः | साम्प्रतं ज्ञेयायाः पूजाया विधानं शृणु || ३/४ || विधानमेव विवृणोति - महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम् | आप्यायितजगद्रूपां परमामृतवर्षिणीम् || ३/५ || संचिन्त्य महापद्मवनं ब्रह्मरन्ध्राधोमुखसितसहस्रदलाकुलकमलं पद्मदलेराकुलत्वाद् वनमिव वनम् | तदुक्तम् स्वच्छन्दसंग्रहे - यावदूर्ध्वाकुलं पद्मं सहस्रारमधोमुखम् | श्वेतं च निष्कलाशक्तिमध्यं चासंख्यशक्तिकम् || व्यापिनी केवला शश्वदमृतौघप्रवर्षिणी | महापद्मवनं चैव समना तस्य चोपरि || तस्यान्तः कर्णिकामध्ये तत्स्थे वाग्भवरूपिणी | इति | पूर्वोक्त (२/६९) रीत्या वाचः परापश्यन्तीमध्यमावैखर्यो भवन्त्यस्मादिति वाग्भवं त्रिकोणम् | तत्र गुरुपादुकाम्, गृणीते तत्त्वमात्मीयमात्मीकृतजतत्त्रयम् | उपायोपेयरूपाय शिवाय गुरवे नमः || इत्यभियुक्तवचनोक्तरीत्या विश्वगुरोः परमशिवस्य पादुकाम्, स्वप्रकाशशिवमूर्तिरेकिका तद्विमर्शतनुरेकिका तयोः | सामरस्यवपुरिष्यते परा पादुका परशिवात्मनो गुरोः || (चि. १) इत्यस्मदुक्तरीत्या त्रिभेदवतीम् | आप्यायितजगद्रूपां शिशिरतरनिजरश्मिनिफालनात् प्रसारणादाप्यायितचराचराम् | परमामृतवर्षिणीं निरतन्तरनिबिडचिद्रसासारवर्षिणीम् | संचिन्त्य स्वात्मतया विमृश्य || ३/५-६ || गुरुपादुकापरामर्शानन्तरमेव प्रसादस्वीकारमाह - परमाद्वैतभावनामदघूर्णितः | परमः परमशिवः, तेनाद्वैतभावना स एवाहमस्मीति समावेश-रूपा, सैव मद इत्युच्यते, मदहेतुत्वात् | तत्कृतेन मदेन घूर्णितो मुदितः | स्वप्रकाशवपुषा गुरुः शिवो यः प्रसीदति पदार्थमस्तके | तत्प्रसादमिह तत्त्वशोधनं प्राप्य मोदमुपयाति भावुकः || (चि. ३१) इत्यस्मदुक्तरीत्या परमशिवाद्वैतभावनालक्षणगुरुप्रसादस्वीकार- समुल्लसत्परमानन्दपरवश इत्यर्थः || ३/६ || प्रसादस्वीकारानन्तरमान्तरजपमेवाह - दहरान्तरसंसर्पन्नादालोकनतत्परः || ३/६ || विकल्परूपसंजल्पविमुखः दहरं विपाप्मं परवेश्मभूतं हृत्पुण्डरीकं पुरमध्यसंस्थम् (म. ना. ८/१६) इति, दहरोऽस्मिन्नन्तराकाशः (छा. उ. ८/१/१) इति च श्रूत्या हृदयाब्जमध्यगतमाकाशं दहरमित्युच्यते | दहरमिव दहरम् | तदन्तरे संसर्पन्नादो दहरान्तरसंसर्पन्नादः, तस्यावलोकनं विभावनम्, तत्परः | तदुक्तमभियुक्तैः - आनन्दलक्षणमनाहतनाम्नि देशे नादात्मना परिणतं तव रूपमीशे | प्रत्यङ्गमुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः || इति | संयम्येन्द्रियसंचारं प्रोच्चरेन्नादमान्तरम् | एष एव जपः प्रोक्तो न तु बाह्यजपो जपः || इत्यभियुक्तवचनोक्तरीत्याऽऽन्तरं नादानुसन्धानलक्षणं जपं कुर्यात्, न तु नानावोधोच्चारलक्षणं बाह्यजपं कुर्यात् | विकल्परूप-संजल्पविमुखः | विकल्परूपाणां नानाविधरूपाणाम्-अक्षराणाम्, संजल्प उच्चारः, तल्लक्षणबाह्यजपविमुखः | तदुक्तं विज्ञानभैरवभट्टारकैः - भूयो भूयः परे भावे भावना भाव्यते हि या | जपतोऽन्तः स्वयं नादो मन्त्रात्मा जप ईदृशः || (श्लो. १५२) || ३/६-७ || तादृशमेव ध्यानमपि कुर्यादित्याह - अन्तर्मुखः सदा | चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः || ३/७ || तत्र प्रत्ययैकतानता ध्यानम् (३/२) इति योगशास्त्रोक्तरीत्या विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहलक्षणध्येनेन सदाऽन्तःशब्दसूचितेनान्तर्मुखः परमशिवाद्वैतभावनापरो भूयादित्यर्थः | तदुक्तं विज्ञानभैरवभट्टारकैः - ध्यानं या निष्कला चिन्ता निराकारा निराश्रया | न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना || (श्लो. १४३) इति | चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दर इति | चिदम्बुधिमहाभङ्ग- भिन्नसंकोचसंकटः इत्यस्मदुक्तरीत्या परिकल्पितपरिपूर्णाहम्भावः, अत एवाति सुन्दरः | महात्रिपुरसुन्दरीनामधेयपरचित्कलोल्लासास्पदपरम- सुन्दरपरमप्रेमास्पदपरमशिवाभिन्न इत्यर्थः || ३/७ || पूजामप्येतादृशीमेव कुर्यादित्याह - इन्द्रियप्रीणनैर्द्रव्यैर्विहितस्वात्मपूजनः | इन्द्रियाणि श्रोत्रादीनि, तेषां प्रीणनानि द्रव्याणि विशिष्टशब्दस्पर्श- रूपरसगन्धवन्ति, तैर्विहितं स्वात्मदेवतायाः पूजनं येन स तथाविधः | तदुक्तं मुख्याम्नायरहस्यविधौ - इन्द्रियद्वारसंग्राह्यैर्गन्धाद्यैः स्वात्मदेवता | स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः || इति | जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद् भरितावस्थां महानन्दस्ततो भवेत् || (श्लो. ७१) इति विज्ञानभैरवभट्टारकोक्तरीत्या श्रोत्रादीन्द्रियविषयशब्दाद्- यनुभवजनितानन्दानां महानन्देन समरसीकरणं परा पूजेत्यर्थः || अथापरां पूजां वक्तुं तदङ्गभूतं बाह्यन्यासमाह - न्यासं निर्वर्तयेद् देहे षोढान्यासपुरःसरम् || ३/८ || षोढान्यासो गणेश (नि. षो. १/१) इत्याद्यसूत्रे सूचितः | देहे, स्वस्येति शेषः | षोढा षट्प्रकारको न्यासः || ३/८ || तत्प्रकाराणां गणनामाह - गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः | नक्षत्रैश्च तृतीयः स्याद् योगिनीभिश्चतुर्थकः || ३/९ || राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते | सुगमम् | न्यासं न्यासजातम्, जातावेकवचनम् | निर्वर्तयेदिति शेषः || ३/९-१० || षोढा षट्प्रकारन्यास एक एव, तत्प्रकारं षोढान्यासमाहात्म्यं फलं चाह - षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः || ३/१० || एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः | नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः || ३/११ || स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः | षोढान्यासविहीनं यं प्रणमेदेष पार्वति || ३/१२ || सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते | प्रोक्तोऽयं षोढा न्यासः, सर्वत्र सर्वलोकेष्वपि, अपराजितः अप्रतिहतसाम- [र्थ्यः, एवं वक्ष्यमाणक्रमेण यो न्यस्तगात्रः षोढान्याससाम]र्थ्यश्छिन्नपाशत्वात् स्वयमेव परमेश्वरः | अत एव लोकेषु जनेषु स एव योगिभिः पूज्यः | किं बहुना, सर्वेषामपि पूज्यः, नास्त्यस्य पूज्यः कोऽपि लोके | यद्येष बलादन्यस्मै प्रणमति, स मृतो भवेत्, नरकं च प्रयातीत्यर्थः || ३/१० -१३ || षोढान्यासप्रकारं वक्तुं प्रतिजानीते - षोढान्यासप्रकारं च कथयामि तवानघे || ३/१३ || स्पष्टम् || ३/१३ || तत्प्रकारमाह - विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ | विघ्नकृद् विघ्नहर्ता च गणराड् गणनायकः || ३/१४ || एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः | कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः || ३/१५ || गणनाथो गजेन्द्रश्च शूर्पकर्णस्त्रिलोचनः | लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः || ३/१६ || आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः | एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः || ३/१७ || वरदो वामदेवश्च वक्रतुण्डो द्वितुण्डकः | सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः || ३/१८ || जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः | भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः || ३/१९ || [ग्रन्थान्तरे - ए(ते? ता) गणेशवर्णानामेकपञ्चाशतः क्रमात् | श्रीश्च ह्रीश्चैव तुष्टिश्च शान्तिः पुष्टिः सरस्वती || रमा मेघा तथा कान्तिः कामिनी मोहिनी बला | तीव्रा च ज्वालिनी नन्दा सुरसा कामरूपिणी || उग्रा च जयिनी सत्या विघ्नेशानी सुरूपिणी | कामदा मदजिह्वा च विकटा घूर्णितानना || भूतिर्भूमिः सती रम्या मानुषी मकरध्वजा | विकर्णा भ्रुकुटी लज्जा दीर्घघोणा धनुर्धरा || तथैव यामिनी रात्रिश्चन्द्रकान्ता शशिप्रभा | लोलाक्षी चपला ऋद्धिर्दुर्भगा सुभ्गा शिवा || दुर्गा गुहप्रिया काली ललज्जिह्वा च शक्तयः |] नामान्येतानि नात्र व्याख्येयानीति || ३/१४-१९ || तेषां ध्यानमाह- तरुणारुणसंकाशान् गजवक्त्रान् त्रिलोचनान् | पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान् || ३/२० || तरुणारुणसंकाशान् तरुणारुणसवर्णान् | गजस्य वक्त्रमिव वक्त्रं येषां ते गजवक्त्रास्तान् | ऊर्ध्वकरयोः पाशाङ्कुशौ, अधःकरयोर्-वराभये दधानान् | पुष्ट्यादिभिः समन्वितान् | अत्र सूचितानां नाम्नामागमान्तरपद्धतिषु चोक्तत्वान्न वदामः || ३/२० || न्यासस्थानान्याह - एतांस्तु विन्यसेद् देहे मातृकान्यासवत् प्रिये | एतान् गणेशान् | मातृकान्यासवत् मातृकावैखरीन्यासस्थानेषु न्यसेदित्यर्थः || ३/२१ || ग्रहन्यासमाह - स्वरैस्तु सहितं सूर्यं हृदयाधः प्रविन्यसेत् || ३/२१ || बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः | भूपुत्रं लोचनद्वन्द्वे कवर्गाधिपतिं प्रिये || ३/२२ || हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः | हृदयोपरि विन्यस्येत् टवर्गाधिपतिं बुधम् || ३/२३ || बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये | नाभौ शनैश्चरं चैव पवर्गेशं सुरेश्वरि || ३/२४ || वक्त्रे शादिचतुर्वर्णैः सहितं राहुमेव च | क्षकारसहितं केतुं पायौ देवेशि विन्यसेत् || ३/२५ || स्वरैः अकारादिविसर्गान्तैः षोडशभिः सहितम्, नाम्न आदौ, सूर्य हृदयाधो विन्यसेत् | बिन्दुस्थाने ललाटे | अत्रैवोक्तम् - दीपाकारोऽर्ध-मात्रश्च ललाटे वृत्त इष्यते (१/२८) इत्यादिना | सुधासूतिं चन्द्रमसम् | यादिवर्णचतुष्टयैः यरलवैश्चतुर्भिर्विन्यसेदित्यर्थः | भूपुत्रम् अङ्गारकम् | लोचनद्वन्द्वे कवर्गस्योपरि स्थितमधिपतिं विन्यसेत् | हृदये वक्षसि | स्पष्टमन्यत् पायौ देवेशि विन्यसेदित्यन्तम् || ३/२१-२५ || नक्षत्राणां स्थानानि न्यासं चाह - ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः | पुटयोर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः || ३/२६ || पश्चात् कूर्परयुग्मे च मणिबन्धद्वये तथा | स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम् || ३/२७ || ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये | ज्वलत्कालानलप्रख्या वरदाभयपाणयः || ३/२८ || नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः | एतास्तु विन्यसेद् देवि स्थानेष्वेषु सुरार्चिते || ३/२९ || कटिबन्ध इति कटिबन्धयोरिति द्वन्द्वपरम् | अन्यथा सप्तविंशति-संख्या न घटते | कर्णद्वय इति दक्षिणादितः, दक्षनेत्रे च वामे च (३/२६) इति क्रमस्योपक्रान्तत्वात् | वरदाभयपाणयो नतिपाण्य इत्युक्त्या बाहुचतुष्टयं गम्यते | शेषं सुगमम् || ३/२६ -२९ || योगिनीन्यासमाह - विशुद्धौ हृदये नाभौ स्वाधिष्ठाने च मूलके | आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः || ३/३० || अमृतादियुताः सम्यग् ध्यातव्याश्च सुरेश्वरि | पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः || ३/३१ || विशुद्धौ तालुमूले षोडशदलकमले | हृदयेऽनाहते द्वादशदलकमले | नाभौ मणिपूरके दशदलकमले | स्वाधिष्ठाने षड्दलकमले | मूलके चतुर्दलकमले | आज्ञायां द्विदलकमले | धातवस्त्वगसृङ्मांसमेदोमज्जाशुक्राणि, तेषां नाथाः स्वामिन्यः | डादिदेवताः डाकिनीराकिनीलाकिनीकाकिनीसाकिनीहाकिन्यः | अमृतादियुताः स्वच्छन्दसंग्रहोक्ताः | यथा - अमृता प्रथमा देवी द्वितीयाकर्षिणी मता | इन्द्राणी च तृतीया स्यादीशानी तु चतुर्थिका || पञ्चमी स्यादुमा देवी षष्ठी चैवोर्ध्वकेशिनी | सप्तमी ऋद्धिदा प्रोक्ता ऋषा चाष्टमिकी मता || ऌका नवमिका प्रोक्ता ॡषा स्याद् दशमी तथा | एकादशी यथा चैकपादा द्वादशिका शिवे || ऐश्वर्याभिरता पश्चादोङ्कारी तु त्रयोदशी | चतुर्दशी चौषधात्मा पञ्चाधिकदशाऽम्बिका || षोडशी त्वःक्षरा देवी प्रोक्ताः षोडश कण्ठगाः | कालरात्रिश्च खातीता गायत्री च ततः परम् || घण्टाधारी च ङार्णात्मा चण्डा छाया जयाऽपि च | झङ्कारी ज्ञानरूपा च टङ्कहस्ता ततः परम् || ठङ्कारी द्वादश ह्येता द्वादशारे समर्चयेत् | डामरीं चैव ढङ्कारीं णामिनीं तामसीं तथा || थान्तां दाक्षायणीं चैव धात्रीं नन्दां च पार्वतीम् | फट्कारीं दशपत्रेषु पूर्वादीशान्तिमं यजेत् || बन्धि (न्दि)नीं भद्रकालीं च महामायां यशस्विनीम् | रक्तां लम्बोष्ठिकां चैव पूजयेत् क्रमशः प्रिये || चतुष्पत्रे च देवेशि वरदां च श्रियं तथा | षण्ढां सरस्वतीं चैव पूजयेत् क्रमशः शिवे || क्षमां हंसवतीं चैव पूजयेच्च द्विपत्रके | एताभिः शक्तिभिर्युक्ता ध्यातव्याश्च सुरेश्वरि || (इति) | न्यासं | निर्वर्तयेत् (३/८) इत्ययमान्तरो न्यासः | ध्यानं त्वागमान्तरादवगन्तव्यम् || ३/३० - ३१ || राशिन्यासमाह - दक्षिणं पादमारभ्य वामपादावसानकम् | मेषादिराशयो वर्णैर्न्यस्तव्या सह पार्वति || ३/३२ || पादादिस्थानेषु दक्षिणादितो वामान्तम् | मेषादिराशयः मेषवृषमिथुनकर्कसिंहकन्यातुलावृश्चिकधनुर्मकरकुम्भमीनाः | वर्णैर्मातृकाक्षरैः सह न्यस्तव्याः | राशीनां वर्णा आगमान्तर- संवादान्मयोच्यते - आद्यैश्चतुर्भिः सहितो मेषो दक्षपदेऽक्षरैः | उकाराद्यैस्त्रिभिर्वर्णैर्वृषभो लिङ्गदक्षिणे || ऋकाराद्यैस्त्रिभिर्वर्णैर्मिथुनं कुक्षिदक्षिणे | ए-ऐभ्यां कर्कटो राशिर्युक्तो वक्षसि दक्षिणे || ओ-औभ्यां सहितः सिंहो दक्षिणबाहुमूलके | अं-अःशवर्गकैः कन्या शिरोदक्षिणभागतः || कवर्गेण तुला मूर्ध्नि वामे तद्बाहुमूलके | वृश्चिकश्च चवर्गेण टवर्गेण धनुर्हृदि || वामे तवर्गसंयुक्तो मकरः कुक्षिवामतः | पवर्गेण पुनः कुम्भो लिङ्गवामप्रदेशतः || यवर्गः क्षार्णसंयुक्तो मीनाख्यो वामपादके | इति || ३/३२ || पीठन्यासमाह - पीठानि विन्यसेद् देवि मातृकास्थानके पुनः | मातृकास्थानक इति जातावेकवचनम् | वैखरीवर्णस्थानेष्वित्यर्थः || ननु कानि तानि पीठानीत्यत आह - तेषां नामानि कथ्यन्ते शृणुष्वावहिता प्रिये || ३/३३ || बहुत्वात् पीठानां पीठनाम्नां धर्तुमशक्यत्वादत्यन्त-सावधाना भवेत्यर्थः || ३/३३ || तन्नामान्याह - कामरूपं वाराणसीं नेपालं पौण्ड्रवर्धनम् | पुरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् || ३/३४ || आम्रातकेश्वरैकाम्रे त्रिस्रोतः कामकोटकम् | कैलाशं भृगुनगरं केदारपूर्णचन्द्रके || ३/३५ || श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले | कुलान्तं देविकोट्टं च गोकर्णं मारुतेश्वरम् || ३/३६ || अट्टहासं च विरजं राजगृहं महापथम् | कोलापुरमेलापुरं कालेशं तु जयन्तिका || ३/३७ || उज्जयिनी विचित्रं च क्षीरकं हस्तिनापुरम् | ओड्डीशं च प्रयागाख्यं षष्ठी मायापुरी तथा || ३/३८ || जलेशं मलयं शैलं मेरुं गिरिवरं तथा | माहेन्द्रं वामनं चैव हिरण्यपुरमेव च || ३/३९ || महालक्ष्मीपुरोड्याणे छायाछत्रमतः परम् | एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः || ३/४० || एते पीठाः समुद्दिष्टा गृहीतनामानः पीठाः | मातृकारूपकाः स्थिताः मातृका रूपं येषां ते मातृकारूपकाः | क्रमेणादिक्षान्ता-नामेकैकं वर्णमेकैकस्यादावुक्त्वा तत्तद्वर्णस्थानेषु पीठानां न्यासं कुर्यादित्यर्थः | [पीठानां मातृकामयताकथनं गणेशा-दीनामप्युपलक्षणम् | वर्गवर्णानामादौ वैखर्यक्षराण्यागमान्तर-संवादाद् विभज्य योज्यानीत्यर्थः] || ३/३४ - ४० || षोढान्यासानन्तरं श्रीचक्रन्यासस्याऽवश्यंभावित्वात् तदिदानीं श्रीचक्रन्यासमाह - एवं षोढा पुरा कृत्वा श्रीचक्रन्यासमाचरेत् | एवं उक्तप्रकारेण, षोढा षट्प्रकारं न्यासम्, पुरा कृत्वा, पश्चात् श्रीचक्रन्यासमाचरेदित्यर्थः || ३/४१ || श्रीचक्रन्यासस्य महाप्रयोजनत्वादनन्यकथितमप्यद्य प्रियायै कथयामीत्याह - श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये || ३/४१ || यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम् | आनन्दकणभिक्षार्थं शब्दस्पर्शादिपक्कणे | अटत्यविरतं येन तद्दारिद्र्यं विदुर्बुधाः || इत्यभियुक्तवचनोक्तरीत्या संकोचलक्षणदारिद्र्यविघातिनी परिपूर्णपरानन्दरूपा सम्पत् श्रीरित्युच्यते | तद्वती त्रिपुरसुन्दरी | त्रिपुरा तुरीयरूपत्वात्, सुन्दरी भेदलक्षणप्रपञ्चापरपर्यायपरम- दौर्भाग्यपरिपन्थिपरमाद्वैतसौभाग्यपदाधिरूढा सर्वप्राणिष्वात्म-तया परमप्रेमास्पदीभूता परचित्कला | तस्याश्चक्रं शिवादिक्षिति-पर्यन्ततत्त्वमयम्, तदाविर्भाव (भूमिः?मिम्) त(स्या?स्य) न्यासं शृणु प्रिये | प्रियायै मदेकरस्यलालसायै कथयामि | यन्न कस्यचिदाख्यातम्, अतिरहस्यत्वात् | श्रीचक्रन्यासस्य महाप्रयोजनत्वादनन्यकथितमपि प्रियायै ते कथयामीत्यर्थः | तनुशुद्धिकरं परम् | तनोः षट्त्रिंशत्तत्त्वात्मनः शुद्धिं परचित्पर्यवसानलक्षणां करोति | अत एव परमुत्कृष्टमितर-न्यासेभ्यः || ३/४१ - ४२ || श्रीचक्रन्यासप्रकारमाह - चतुरस्राद्यरेखायै नम इत्यादितो न्यसेत् || ३/४२ || दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ | वामाङ्घ्यरङ्गुलिषु स्फिक्के पाण्यग्रे चांसपृष्ठके || ३/४३ || सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि | चतुरस्राद्यरेखायै नमः इति मन्त्रेण आदितो दक्षांसपृष्ठादिचूलीपृठान्तस्थानेषु दशसु व्यापकत्वेन न्यसेत् | दक्षांसस्य पृष्ठं पश्चाद्भागः | सचूलीमूलेति | मूलं शिरसः पुरस्ताद्भागः | पृष्ठं शिरसः पश्चाद्भागः | स्फिगेव स्फिक्कम् ऊरुसन्धिः | स्पष्टमन्यत् || ३/४२ -४४ || एषु स्थानेषु न्यस्तव्याः शक्तीराह - अत्रैव स्थानदशकेऽणिमाद्या दश न्यसेत् || ३/४४ || सिद्धीः अणिमालघिमामहिमेशितावशित्वप्राकाम्यभुक्तीच्छाप्राप्तिसर्व-कामाख्याः सिद्धयोऽणिमाद्या दश || ३/४४ - ४५ || चतुरस्रमध्यरेखायां व्यापकमाह - तदन्तश्च तनुव्यापकत्वेन सुन्दरि | चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे || ३/४५ || विन्यसेत् तदन्तः सिद्धिस्थानानामन्तर्देशे चतुरस्रमध्यरेखायै नमः इति मन्त्रेण तनुव्यापकत्वेन विन्यसेदित्यन्वयः || ३/४५ -४६ || चतुरस्रमध्यरेखायां न्यस्तव्याः शक्तीराह - तस्याः स्थानेषु ब्रह्माण्याद्यास्तथाऽष्टसु | तस्याः चतुरस्रमध्यरेखायाः | अष्टसु स्थानेषु | ब्रह्माण्याद्या ब्रह्माणीमाहेश्वरीकौमारीवैष्णवीवाराहीन्द्राणीचामुण्डामहा-लक्ष्मीः | तथा विन्यसेदित्यन्वयः || ३/४६ || तासां स्थानाष्टकमाह - पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्ध्नोऽन्यपार्श्वके || ३/४६ || वामदक्षिणजान्वोश्च बहिरंसद्वये तथा | स्पष्टम् || ३/४६ - ४७ || चतुरस्रान्त्यरेखायां व्यापकमाह - न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि || ३/४७ || विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे | चतुरस्रान्त्यरेखायै नमः इति मन्त्रेण | विग्रहे देहे | पूर्वोक्तान्तः पूर्वोक्तानां ब्राह्म्यादिस्थानानामन्तर्देशेषु व्यापकत्वेन न्यस्तव्याः | न्यासयोग्ये विन्यसेत् || ३/४७-४८ || तस्यां चतुरस्रान्त्यरेखायां न्यस्तव्याः शक्तीराह - तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत् || ३/४८ || तस्याः चतुरस्रान्त्यरेखायाः | दशसु स्थानेषु त्रिखण्डामुद्रा-सहितानां संक्षोभिण्यादिमुद्राणां दशकं न्यसेत् || ३/४८ || तासां स्थानान्याह - ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत् ततः | शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत् || ३/४९ || तासां मुद्राणां मध्ये, अष्टौ मुद्रा ब्रह्माण्याद्यष्ट- स्थानानामन्तर्देशेष्वष्टसु विन्यसेत् | शिष्टे द्वे मुद्रे द्वादशान्ते पादाङ्गुष्ठे च विन्यसेत् | द्वादशान्तं षोडशान्तेन्दुमण्डलादधः सूर्यमण्डलस्थानम् तदुक्तं स्वच्छन्दसंग्रहे - षोडशान्तमिति ख्यातं व्योमस्थानेन्दुमण्डलम् | तदधःस्थानगं सूर्यबिम्बं द्वादशशक्तिकम् || द्वादशान्तमिति ख्यातं स्थितं व्योमप्रदेशकम् | इति तेन बिन्दुतत्त्वं चतुष्पत्राम्बुजं च तत् || सुर्यबिम्बमधश्चोर्ध्वं सार्धैकाङ्गुलिदेशतः | इति रीत्या ललाटस्थानबिन्दुतत्त्वोपरि स्थितं सूर्यमण्डलस्थानं ललाटोर्ध्वं द्वादशान्तपदेन लक्ष्यते || ३/४९ || षोडशदलपद्मव्यापकमाह - तदन्तः षोडशदलपद्माय नम इत्यपि | विन्यस्य तेषां चतुरस्राणाम्, अन्तर्देशे षोडशदलपद्माय नमः इति मन्त्रेण दक्षिणश्रोत्रपृष्ठादिस्थानानि संस्पृश्य व्यापकं विन्यसेद्-इत्यर्थः || ३/५० || तद्दलेषु न्यस्तव्याः शक्तीराह - तद्दले कामाकर्षिण्याद्याश्च विन्यसेत् || ३/५० || तद्दले, जातावेकवचनम्, तद्दलेषु | कामाकर्षिण्याद्याः कामबुद्ध्यहङ्कारशब्दस्पर्शरूपरसगन्धचित्तधैर्यस्मृतिनाम- बीजात्मामृतशरीराकर्षिण्यः, ता विन्यसेत् || ३/५० || तद्दलस्थानान्याह - दलानि दक्षिणश्रोत्रपृष्ठमंसं च कूर्परम् | करपृष्ठं चोरुजानुगुल्फपादतलं तथा || ३/५१ || वामपादतलाद्येवमेतदेवाष्टकं मतम् | दलनीत्यादि तथेत्यन्तं स्पष्टम् | एवमुक्तप्रकारेण | वामपादतलादिवामश्रोत्रपृष्ठान्तमेतदेवाष्टकं मतम् | स्थानाष्टकद्वयं षोडशदलानीत्यर्थः || ३/५१ - ५२ || अष्टदलव्यापकमाह - तदन्तरे चाष्टदलपद्माय नम इत्यपि || ३/५२ || विन्यस्य तदन्तरे षोडशदलपद्मान्तरे | अष्टदलपद्माय नमः इति मन्त्रेण दक्षशङ्खादिस्थानानि संस्पृश्य व्यापकं न्यसेदित्यर्थः || ३/५२ - ५३ || तद्दलान्याह - तद्दलेष्वेषु दक्षशङ्खे च जत्रुके | ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वामतः || ३/५३ || शङ्खजत्र्वादिशब्दानां शरीरावयवावच्छिन्नानामङ्गेषु निघण्टुषु सुप्रसिद्धत्वादवगतिः || ३/५३ || तत्तद्दलेषु न्यस्तव्याः शक्तीराह - अनङ्गकुसुमाद्यास्तु शक्तीरष्टौ च विन्यसेत् | अनङ्गकुसुमाद्याः अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गमदना- ऽनङ्गमदनातुराऽनङ्गरेखाऽनङ्गवेगिन्यनङ्गाङ्कुशाऽनङ्ग-मालिन्यः | शेषं सुगमम् || ३/५४ || चतुर्दशारचक्रव्यापकमाह - तदन्तश्चतुर्दशारचक्राय नम इत्यपि || ३/५४ || विन्यस्य तदन्तः अष्टदलपद्मस्यान्तः चतुर्दशारचक्राय नमः इति मन्त्रेण चतुर्दशकोणस्थानानि ललाटादीनि संस्पृश्य व्यापकं विन्यस्य || ३/५४ - ५५ || चतुर्दशकोणेषु न्यस्तव्याः शक्तीराह - तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश | सर्वसंक्षोभिण्याद्यास्तु सर्वसंक्षोभिण्याद्याः सर्वसंक्षोभिणीसर्वविद्राविणीसर्वा- कर्षिणीसर्वाह्लादिनीसर्वसंमोहिनीसर्वस्तम्भिनीसर्वजृम्भिणीसर्व- वशङ्करीसर्वरञ्जनीसर्वोन्मादिनीसर्वार्थसाधिनीसर्वसम्पत्तिपूरणी- सर्वमन्त्रमयीसर्वद्वन्द्वक्षयङ्कर्यः | शिष्टं स्पष्टम् || ३/५५ || तत्कोणानि प्रतिज्ञापूर्वकमाह - तस्य कोणानि वच्म्यहम् || ३/५५ || ललाटे दक्षभागे च दक्षगण्डांसमध्यतः | पार्श्वान्तरूरुजङ्घान्तर्वामजङ्घादि पार्वति || ३/५६ || वामोरौ वामपार्श्वे च वामांसे वामगण्डके | ललाटवामभागे च तथा वै पृष्ठ इत्यपि || ३/५७ || दक्षभागे ललाटस्यैव | ललाट इति प्रकृतत्वाद् दक्षगण्डदक्षांस-मध्यत इत्यर्थः | पार्श्वान्तरूरुजङ्घान्तरिति त्रिभिरपि दक्षशब्दो युज्यते | वामजङ्घादि इत्यादिशब्दः शिष्टार्थारम्भद्योतकः | वामांस इत्यत्रापि मध्य इति योज्यम् | पृष्ठमिति शिरसः पृष्ठमेव ज्ञेयम्, दक्षवामयोः प्रथमं ललाटोपादानात् | ललाटं शिरसः पुरस्ताद्भागः || ३/५५ - ५७ || बहिर्दशारचक्रव्यापकमाह - ततो दशारचक्राय नम इत्यपि पार्वति | तत् चतुर्दशारकोणन्यासानन्तरम्, दशारचक्राय नमः इति मन्त्रेण दक्षाक्ष्यादिदशकोणानि संस्पृश्य व्यापकम्, अपिशब्दाद्विन्यसेदिति योज्यम् || दशारचक्रस्य कोणान्याह - तस्य कोणानि दक्षाक्षिनासिकामूलनेत्रके || ३/५८ || कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च | कुक्षिनैर्-ऋतिवह्न्याख्यकोणेष्वेषु तस्य दशारचक्रस्य कोणानि द/शाऽपि , दशसु दक्षाक्ष्यादिस्थानेषु, भावनीयानीति शेषः | कुक्षीशवायुकोणेषु | छान्दसत्वाद् द्वित्वे बहुवचनम् | बाहुद्वयमारभ्योरुद्वयपर्यन्तं कुक्षिशब्देन लक्ष्यते | तेन कुक्षेरुपरिभागः प्राची, अधोभागः प्रतीची, दक्षिणवामपार्श्वे दक्षिणोदीच्यौ | कोणशब्देन बाहू ऊरू च लक्ष्येते | तेन वामबाहुमूलम्-ईशकोणः, वामोरुमूलं वायुकोणः, दक्षिणोरुमूलं नैरृतिकोणः, दक्षिणबाहुमूलमग्निकोणः | सुगममन्यत् || ३/५८ - ५९ || दशकोणेषु न्यस्तव्याः शक्तीराह न्यसेत् पुनः || ३/५९ || सर्वसिद्धिप्रदादीनां शक्तीनां दशकं प्रिये || सर्वसिद्धिप्रदाद्याः सर्वसिद्धिप्रदासर्वसम्पत्प्रदासर्वप्रियङ्करी- सर्वमङ्गलकारिणीसर्वकामप्रदासर्वदुःखविमोचनीसर्वमृत्युप्रशमनी- सर्वविघ्ननिवारिणीसर्वाङ्गसुन्दरीसर्वसौभाग्यदायिन्यः | शेषं स्पष्टम् || ३/५९ - ६० || अन्तर्दशारचक्रव्यापकमाह - तदन्तश्च दशारादिचक्राय नम इत्यपि || ३/६० || विन्यस्य तदन्तः बाह्यदशारान्तः, अन्तर्दशारचक्राय नमः इति मन्त्रेण दक्षिणनासादिदशकोणानि संस्पृश्य व्यापकं विन्यस्य || ३/६० -६१ || दशकोणेषु न्यस्तव्याः शक्तीराह - तस्य कोणेषु सर्वज्ञाद्याश्च विन्यसेत् | सर्वज्ञाद्याः सर्वज्ञासर्वशक्तिसर्वैश्वर्यप्रदासर्वज्ञानमयी- सर्वव्याधिविनाशिनीसर्वाधारस्वरूपासर्वपापहरासर्वानन्दमयीसर्व- रक्षास्वरूपिणीसर्वेप्सितफलप्रदाः | स्पष्टमन्यत् || ३/६० || तस्य कोणान्याह - दक्षनासा सृक्किणी च स्तनं वृषणमेव च || ३/६१ || सीवनी वाममुष्कं च स्तनं सृक्किणिनासिके | नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा || ३/६२ || स्पष्टम् || ३/६१ -६२ || अष्टकोणचक्रव्यापकमाह - तदन्तरष्टकोणादिचक्राय नम इत्यपि | विन्यस्य तदन्तः दशारान्तः, अष्टकोणादिचक्राय नमः इति मन्त्रेण चिबुकाद्यष्टकोणानि संस्पृश्य व्यापकं विन्यस्य | अष्टकोणचक्रस्यादित्वं त्रिकोणा (दी? दि) तर चक्रेभ्यः प्रथममुत्पन्नत्वात् || ३/६३ || अष्टकोणेषु न्यस्तव्याः शक्तीराह - तस्य कोणेषु वशिन्याद्यष्टकं न्यसेत् || ३/६३ || तस्य अष्टारचक्रस्य, कोणेषु | वशिन्याद्यष्टकं वशिनीकामेश्वरी- मोदिनीविमलाऽरुणाजयिनीसर्वेश्वरीकौलिन्यः || ३/६३ || तस्य कोणाष्टकमाह - चिभुकं कण्ठहृदयनाभीनां चैव दक्षिणम् | ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम् || ३/६४ || चतुष्टयं च पार्श्वानामेतत् कोणाष्टकं पुनः | चिबुकादीनां पार्श्वचतुष्कं दक्षिणम् | मणिपूरादि, मणिपूरकं नाभिस्थानम्, नाभिहृदयकण्ठचिबुकानां वामकं पार्श्वचतुष्कं चैतत्कोणाष्टकम् || ३/६४ -६५ || अनन्तरमायुधावरणन्यासमाह - हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत् || ३/६५ || शरचापौ पाशसृणी हृदये वक्षसि तिष्ठतीति हृदयस्थं स्तनद्वयमध्यनिम्न-त्रिकोणाकारं हृदयस्थत्रिकोणमित्युच्यते | तस्य बहिश्चतुर्दिक्षु प्रागादिषु कामेश्वरीकामेश्वरयोः शरचापौ पाशसृणी चेत्यायुधचतुष्टयं मिलितं न्यसेत् | शरचापौ पाशसृणी इति पुंस्त्रीभेदेन प्रत्येकं द्वन्द्वमित्यष्टौ | अत्रैव वक्ष्यति - बाणान् नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत् | सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेद् || (३/७०-७१) इति || ३/६५ - ६६ || ततस्त्रिकोणचक्रव्यापकमाह - त्रिकोणाय नमस्तथा | विन्यस्य त्रिकोणाय नमः इति मन्त्रेण रेखात्रयं संस्पृश्य व्यापकं विन्यस्य || त्रिकोणे न्यस्तव्या देवीराह - तस्य कोणेषु अग्रदक्षान्तरेषु च || ३/६६ || कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् | तस्य त्रिकोणस्य, अग्रदक्षोत्त्ररेषु कामेश्वरीवज्रेश्वरीभगमालिन्यः, तासां कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेदिति | मध्ये बैन्दवे श्रीचक्रे | देवीं प्रकाशविमर्शसामरस्यरूपां त्रिपुरसुन्दरीं च विन्यसेदित्यर्थः || ३/६६ - ६७ || श्रीचक्रन्याससमुपसंहरति - एवं मयोदितो देवि न्यासो गृह्यतमक्रमः || ३/६७ || स्पष्टम् || ३/६७ || अतस्त्वयाऽप्येतन्न्यासजातं गोप्यमित्याह - एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते | स्पष्टम् || ननु किमेतन्न कस्मैचिदपि कथनीयमित्यत आह - समयस्थाय दातव्यं समयस्थाय कौलिकाय समयाचारनिष्ठाय देयम् | पशुसमयाचार- निष्ठाय न देयमित्यर्थः || ननु कौलिकसमयस्थायाऽपि सर्वस्मैदेयम् ? नेत्याह - नाशिष्याय कदाचन || ३/६८ || समयस्थायापि अशिष्याय न देयम् || ३/६८ || मयाऽप्येतत् त्वदन्यस्य कस्यापि न पुरा प्रकटीकृतमित्याह - गुप्ताद् गुप्ततरं चैतत् तवाऽद्य प्रकटीकृतम् | गुप्तादपि गुप्ततरम्, रहस्यादप्यत्यन्तरहस्यत्वात् | एतत् तव मदंशभूतविमर्शात्मिकायाः प्रियतमाया अपि यतो मयाऽद्य प्रकटीकृतम् | पुराऽन्यस्मै न प्रकटीकृतमिति तात्पर्यम् || ३/६९ || अस्यैव न्यासस्य पुनः प्रकारान्तरमाह - मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत् || ३/६९ || पूर्वमणिमादिमूलदेव्यन्तं श्रीचक्रावरणदेवतान्या (समुक्त्वा?सं कृत्वा) इदानीं मूलदेव्याद्यणिमान्तं पुनः श्रीचक्रावरणदेवतान्यासं कुर्यादित्यर्थः || ३/६८ || मूलदेव्यादिन्यासप्रकारमेवाह - शिरस्त्रिकोणे पूर्वादि कामेश्वर्यादिका न्यसेत् | मूलदेव्यादिकामित्यनेनैव शिरस्त्रिकोणमध्ये मूलदेव्याः प्रथमन्यासो ज्ञेयः | पश्चात् शिरस्त्रिकोणे शिरःकपालमध्ये निम्नं त्रिकोणाकारमस्ति, तद् बाल्ये मृदुतरं दृश्यते, तत्र | पूर्वादि, आदिशब्दाद् दक्षिणोत्तरकोणयोर्ग्रहणम् | कामेश्वर्यादिकाः, आदिशब्दाद् वज्रेश्वरोभगमालिन्यौ गृह्येते | शिरस्त्रिकोणाग्रदक्षवामकोणेषु कामेश्वरीवज्रेश्वरीभगमालिनीर्विन्यसेदित्यर्थः || ३/७० || आयुधावरणन्यासमाह - बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत् || ३/७० || सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् | बाणान् कामेश्वरकामेश्वर्योः | नेत्रे नेत्रयोः | चापौ भ्रुवोः | पाशद्वयं कर्णे कर्णयोः | सृणिद्वयं नासाग्रोभयपार्श्वयोः | नेत्रे, कर्णे, नासाग्र इति चैकवचनप्रयोगो द्विवचनोपलक्षणम्, दक्षिणाग्रमिति कथनात् | एषु स्थानेषु दक्षिणे कामेश्वरस्य, वामे कामेश्वर्याश्-चायुधानि विन्यसेदित्यर्थः || ३/७० - ७१ || वशिन्याद्यावरणन्यासमाह - मुण्डमूलक्रमेणैव न्यसेद् वाग्देवताष्टकम् || ३/७१ || मुण्डं शिरः, तस्य मूलक्रमेणाष्टदिक्षु परितो वाग्देवतानां वैखर्यष्टवर्गाधिष्ठात्रीणां वशिन्यादीनां देवतानामष्टकं न्यसेत् || ३/६१ || ननु बैन्दवचक्रादुपरि अर्धचन्द्राद्युन्मन्यन्तानां सूक्ष्मा-वयवानां न्यासः किमिति नोक्तः ? इत्यत आह - बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने | बैन्दवादीनि चक्राणि चतुरस्रान्तानि नव चक्राणि न्यस्तव्यानि, स्थूलत्वात् | अर्धचन्द्राद्युन्मन्यन्तानि भावनीयानीत्यर्थः | अतः स्थूलन्यासप्रसङ्गे स्थूलानामेव न्यासो निगद्यत इति भावः || ३/७२ || सर्वज्ञाद्यावरणन्यासमाह - नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः || ३/७२ || चूडादिकेऽर्धनिम्नेऽर्धं शेषार्धं कर्णपृष्ठके | कर्णपूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत् || ३/७३ || कर्णोत्तरं कर्णस्य पश्चाद्भागः | चूडादिके चूडाया आदिर्ललाटम् | अर्धनिम्ने कर्णोत्तरानन्तरं न्यसेदिति सम्प्रदायः | निम्नं शिरःपश्चान्-निम्नस्थलम् अवटुरेव | कोऽर्थः ? चूडादिनेत्रमूलापाङ्गकर्णपूर्व-पृष्ठेषु सर्वज्ञादीनां दशानामर्धं विन्यसेत् | अथ तासामेवार्धम्- अवट्वन्तरकर्णपृष्ठपूर्वान्यनेत्रापाङ्गमूलेषु विन्यसेदित्यर्थः | ननु सर्वज्ञादीनां नाम न कीर्तितम्, कथमत्र ता एव न्यस्तव्याः कथ्यन्ते ? उच्यते - पूर्वचक्रे वशिन्याद्या न्यस्तव्याः कथिताः, अनन्तरोपरिचक्रे सर्वसिद्ध्याद्या न्यस्तव्याः कथ्यन्ते | अतस्तयोरपि मध्यदशस्थानेषु पारिशेष्यात् सर्वज्ञाद्या न्यस्तव्या इति गृह्यन्ते || ३/७२ -७३ || सर्वसिद्ध्याद्यावरणन्यासमाह - सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत् | स्पष्टम् || ३/७४ || सर्वसंक्षोभिण्याद्यावरणन्यासमाह - हृदये मनुकोणस्थाः शातयोऽपि च पूर्ववत् || ३/७४ || हृदये वक्षसि | पूर्ववत् प्रादक्षिण्येन | मनुकोणस्थाः शक्तयश्- चतुर्दशकोणनिवासिन्यः सर्वसंक्षोभिण्याद्याः, न्यस्तव्या इति शेषः || ३/७४ || अनङ्गकुसुमाद्यावरणन्यासमाह - नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके | उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम् || ३/७५ || वंशवामान्तरालादि न्यसेदन्यच्चतुष्टयम् | नाभौ नाभिदेशे, अष्टदलं पद्मम् | तत्त्विति तत् पूर्वोक्तानङ्गकुसुमाद्यष्टकं परामृश्यते | तदादिचतुष्टयम् अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गमदनाऽनङ्गमदनातुराणां चतुष्टयम् | वंशः पृष्ठास्थि | सव्यपार्श्वं दक्षिणपार्श्वम् | वंशवामान्तरालादि वंशवामपार्श्वयोरन्तरालम् | आदिशब्दाद् वामपार्श्वपुरोभागयोरन्तरालं पुरोभागदक्षिणपार्श्वयोरन्तरालं दक्षपार्श्वपृष्ठवंशयोश्चान्तरालं गृह्यते | अन्यच्चतुष्टयम् अनङ्गरेखाऽनङ्गवेगिन्यनङ्गाङ्कुशाऽनङ्गमालिनीनां चतुष्टयम् | नाभिदेशस्य पश्चिमादिदक्षिणपार्श्वान्तमनङ्गकुसुमादीनां चतुष्टयं वायवादिनैरृतान्तमनङ्गरेखादीनां चतुष्टयं न्यसेदित्यर्थः || ३/७५ - ७६ || कामाकर्षिण्याद्यावरणन्यासमाह - स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम् || ३/७६ || चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् | स्वाधिष्ठानकमलप्रदेशे, स्वस्य पूर्वात् पूर्वदिगादिमारभ्य, दक्षावसानकं दक्षिणदिगवसानपर्यन्तम्, चतुर्दिक्षु प्रतिदिशं चतस्रश्चतस्रः शक्तयः कामाकर्षिण्याद्याः क्रमेण न्यस्तव्याः | ननु कामाकर्षिण्याद्या इति कथमनुमीयन्ते ? इति चेदुच्यते - पूर्ववदेव पूर्वोत्तरचक्रयोः शक्तीनां नामग्रहणाद् मध्यचक्रशक्तीनां पारिशेष्यान्नामान्यनुक्तान्यप्यवसीयन्त इति || ३/७६ -७७ || सर्वसंक्षोभिण्यादिमुद्राशक्त्यावरणन्यासमाह - मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः || ३/७७ || मूलाधारे मूलाधारप्रदेशे | शेषं स्पष्टम् || ३/७७ || ननु किं मूलाधारे मुद्रादशकं ध्यानेन न्यस्तव्यम् ? इत्याशङ्कायामाह - पुनर्वंशे च सव्ये च वामे चैवान्तरालके | ऊर्ध्वाधो दशमुद्राश्च पुनःशब्दात् नाभावष्टदलं तत्तु (३/७५) इत्यष्टदलन्यासोक्त-स्थानान्युच्यन्ते | वंशे पृष्ठवंशे | सव्ये च पार्श्वे | चकारादूत्तरदक्षिणयोः पार्श्वयोर्ग्रहणम् | वामे चैवान्तरालके पृष्ठवंशवामपार्श्वान्तराले | चकाराद् वामपार्श्वाद्यन्तरालानि गृह्यन्ते कोऽर्थः ? पृष्ठवंशादिदिक्षु वायव्याद्यन्तरालेषु च, ऊर्ध्वाधश्च दश मुद्रा न्यसेत् | ननु ऊर्ध्वाध इति किमान्तरं स्थानद्वयम् ? नेत्याह ऊर्ध्वाध इति (आ? ना)न्तरोर्ध्वाधः स्थानद्वयम्, इन्द्रेशानदिशोर्मध्ये स्थानमन्यत् प्रकीर्तितम् | नैरृताम्बुदिशोर्मध्ये स्थानमन्यत् प्रकीर्तितम् || इति तत्त्वविमर्शिन्यामस्मदुक्तरीत्या दशलोकपालार्चनरीत्यैव स्थानद्वयं शिष्टमुद्राद्वयस्य कल्पनीयम् || ३/७८ || ब्रह्माण्याद्यावरणन्यासमाह - ऊर्ध्वाधोवर्जितं पुनः || ३/७८ || ब्रह्माण्याष्टकं दक्षजङ्घायां विन्यसेदित्यनुषङ्गः | शिष्टं स्पष्टम् || ३/७८ -७९ || ननु दक्षजङ्घायां विन्यसेदित्युक्तम्, तत्र तासां कानि स्थानानीत्यत आह - तास्तु पूर्ववत् | ताः ब्रह्माण्याद्याः | पूर्ववत् पुनर्वंशे च सव्ये च (३/७८) इत्युक्तस्थानेषु | अत्र पृष्ठवंशब्देन पश्चाद्भागो लक्ष्यते | दक्षजङ्घायाः पश्चिमादिचतुर्दिक्षु वायव्यादिविदिक्षु च ता ब्रह्माण्याद्या न्यस्तव्या इत्यर्थः || ३/७९ || अणिमाद्यावरणन्यासमाह - वामजङ्घां समारभ्य वामादिक्रमतोऽपि च || ३/७९ || सिद्ध्यष्टकं न्यसेत् तेषु द्वयं पादतले न्यसेत् | वामजङ्घां समारभ्य वामजङ्घायाः पश्चिमभागमारभ्य | वामादिक्रमतोऽपि च वामान्तरालक्रमेण | तेष पूर्वोक्तेषु स्थानेषु | सिद्ध्यष्टकं न्यसेत् | शिष्टद्वयं पादतले पादतलयोर्न्यसेदित्यर्थः || ३/७९ - ८० || उक्तन्यासस्योत्कर्षं दर्शयन्नुपसंहृत्य फलभूतां वासनां विधत्ते - कारणात् प्रसृतं न्यासं दीपाद् दीपमिवोदितम् || ३/८० || एवं विन्यस्य देवेशि स्वाभेदेन विचिन्तयेत् | कारणात् प्रकाशविमर्शसामरस्यरूपान्निखिलजगद्रूपात् | दीपाद् दीपमिव प्रसृतं महाभासं कारणानुरूपम् | एवमुक्तप्रकारेण | उदितं कथितं | न्यासं विन्यस्य | स्वात्मनोऽभेदेन चिन्तयेत् | श्रीचक्रावयवान् सशक्तिकान् स्वदेहावयवैरपृथक्त्वेन विभाव्य तदधिष्ठात्र्या परया च स्वात्मनोऽभेदं भावयेदित्यर्थः || ३/८० -८१ || उक्तैस्त्रिभिः षोढादिन्यासैः परचिदानन्दलक्षणं भावयन् परिपक्वहृदयो बाह्यपूजाक्रियायोग्यतायै करशुद्ध्यादिन्यासं कुर्यादित्याह - ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः || ३/८१ || ततः त्रिविधन्यासानन्तरम् | करशुद्ध्यादिन्यासम् | कारणात्मपरामृष्टकार्यरूपाऽङ्गुलिस्थिताम् | करोमि चिन्मयीं शुद्धिं करयोः स्पर्शशोधिनीम् || (सु. वा. २४) इत्यभियुक्तवचनोक्तरीत्या करशुद्धिन्यास आदिर्यस्य न्यासस्य | जातावेकवचनम् | समाहितः सावहितः | करशुद्ध्यादिन्यासश्चतुःशती-शास्त्रोक्तः (१/१२६-१२९) | अतो नात्रोच्यते, केवलं नाम्नैव गृह्यते || ३/८१ || तत्रानुक्तं विद्यान्यासमाह - मूर्ध्नि गुह्ये च हृदये नेत्रत्रितय एव च | श्रोत्रयोर्युगले देवि मुखे च भुजयोः पुनः || ३/८२ || पृष्ठे जान्वोश्च नाभौ च विद्यान्यासं समाचरेत् | विद्याया बीजत्रयेण न्यासो विद्यान्यासः | मूर्ध्नि वाग्भवबीजम्, गुह्ये कामराजबीजम्, हृदये शक्तिबीजम् | एवं सर्वत्र स्थानत्रये बीजत्रयमुच्चरन् न्यसेदित्यर्थः | शिष्टं स्पष्टम् || ३/८२ -८३ || करशुद्ध्यादीनां नामान्याह - करशुद्धिं पुनश्चैव आसनानि षडङ्गकम् || ३/८३ || श्रीकण्ठादींश्च वाग्देवीः वाग्देव्यो वशिन्याद्याः | श्रीकण्ठादिन्यासः स्वच्छन्दसंग्रहोक्तः | तन्त्रान्तरे प्रसिद्धत्वादिह नोक्तः | शिष्टं स्पष्टम् || ३/८३ - ८४ || कामेश्वर्यादिदेवीनां न्यासमाह - आधारे हृदये पुनः | शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् || ३/८४ || बैन्दवस्थाने शिखायामिति व्यत्ययेन क्रमो ज्ञेयः | बैन्दवस्थानम् दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते (१/२८) इति पूर्वोक्तं ललाटम् | शिखा नाम कुण्डलिन्या अग्रं शिवस्य विश्रान्तिस्थानम् | अत्र श्रुतिः - तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः (तै. आ. १/१२/१२) इति | तेन शिखाशब्देन तद्व्याप्तिस्थानं ब्रह्मरन्ध्रं लक्ष्यते | अग्निचक्रादिकाः - अग्निचक्रे कामगिर्यालये मित्रीशनाथात्मके श्रीकामेश्वरीदेवीरुद्रात्मशक्तिश्रीपादुकां पूजयामि, सूर्यचक्रे जालन्धस्पीठे षष्टीशनाथात्मके वज्रेश्वरीदेवीविष्ण्वात्मशक्तिश्रीपादुकां पूजयामि, प्. २७१) सोमचक्रे पूर्णगिरिपीठे ओड्डीशनाथात्मके भगमालिनीदेवीब्रह्मात्मशक्तिश्रीपादुकां पूजयामि, ब्रह्मचक्रे ओड्याणपीठे चर्यानाथात्मके श्रीमहात्रिपुरसुन्दरीदेवीपरब्रह्मात्मशक्तिश्रीपादुकां पूजयामि इति मन्त्रैर्न्यस्तव्याः | शक्तयोऽग्निसूर्यसोमब्रह्मचक्रात्मिकाः | कोऽर्थः ? आधारहृदयभ्रूमध्यब्रह्मरन्धेषु वह्निसूर्यसोमब्रह्मचक्रेषु कामगिरिजालन्धरपूर्णगिर्योड्याणपीठेषु रुद्रविष्णुब्रह्मपरब्रह्मात्मकशक्तीः कामेश्वरीवज्रेश्वरीभगमालिनी-महात्रिपुरसुन्दरीर्न्यसेदित्यर्थः | अयमेवार्थः सम्प्रदायविद्भिर्देशिकेन्द्रैः पद्धतिषु प्रपञ्चितः || ३/८४ || तत्त्वन्यासमाह - तत्त्वत्रयं समस्तं च विद्याबीजत्रयान्वितम् | पादादिनाभिपर्यन्तमागलं शिरसस्तथा || ३/८५ || व्यापक.ं चैव विन्यस्य तत्त्वत्रयम् आत्मविद्याशिवाख्यतत्त्वानां त्रयम् | समस्तं च तत्त्वत्रयसमष्टिरूपं तुरीयं तत्त्वम् | तदुक्तं स्वच्छन्दसंग्रहे - धरादिमायान्तमात्मतत्त्वस्यान्तर्गतं स्मृतम् | शुद्धविद्येश्वरसदाशिवा विद्याख्यतत्त्वगाः || शिवशक्तिद्वयं चैव शिवतत्त्वं प्रकीर्तितम् | प्रमातृमेयप्रमितिरूपमेतत्त्रयात्मकम् || एतत् तत्त्वं शिवतत्त्वं सर्वतत्त्वमयं शुभम् | इति | विद्याबीजत्रयान्वितम् | विद्याया बीजानि बाग्भवकामराजशक्तिबीजानि, एतद्बीजसमुदायरूपं तुर्यबीजम्, तैश्चतुर्भिर्बीजैरन्वितम् | पादादिनाभि-पर्यन्तम् | पर्यन्तपदसामर्थ्यान्नाभ्याद्यागलं लक्ष्यते, शिरस इति पञ्चमीसामर्थ्याद् गलादिति च लभ्यते | कोऽर्थः ? आत्मविद्याशिवतुरीय-तत्त्वानि मूलविद्यावाग्भवकामराजशक्तितुरीयबीजादिकानि चतुर्थ्यन्त-नमोऽन्तान्युच्चार्य पादादिनाभि पर्यन्तम्, नाभ्यादिगलान्तम्, गलादिशिरोऽन्तं समुपस्पृश्य व्यापकं न्यसेदित्यर्थः || ३/८५ - ८६ || भूयोऽपि पराहन्ताभावनामाह - स्वात्मीकृत्य परं पुनः | परं विश्वोत्तीर्णं तेजः, पुनः स्वात्मीकृत्य | पूर्वं श्रीचक्रन्यासा-नन्तरं स्वाभेदेन विचिन्तयेत् (३/८१) इति परेणैक्यमुक्तम्, इदानीं करशुद्ध्यादिन्यासानन्तरमपि पुनः परज्योतिर्मायावशात् स्वभिन्नमिव प्रतीयमानं स्वाभेदेन विचिन्तयेदिति स्वात्मीकृत्य परं पुनः करशुद्ध्यादिन्याससामर्थ्यान्मायापगमे श्रीमहात्रिपुरसुन्दरीं स्वात्मतया विभाव्येत्यर्थः || ३/८६ || अमृतप्लावनमाह - सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः || ३/८६ || सौम्यं ब्रह्मरन्ध्राधोमुखसहस्रदलकमलकर्णिकामध्यगत- पूर्णसोममण्डलमध्यस्थितत्रिकोणान्तरस्थितमनच्कानुत्तरात्म हार्ध-कलात्मकं सौम्यम् | मूलाधारचतुर्दलकमलकर्णिकामध्यगतपूर्ण- वह्निमण्डलमध्यगतत्रिकोणान्तरस्थितमनच्कानुत्तरात्मसपरार्धकला-रूपमाग्नेयम् | द्वयोरमृतानलकुण्डलिनीरूपयोरध-ऊर्ध्वं प्रसरतोर्योनिलिङ्गाकारयोः सामरस्यात् प्रसरदमृतद्रवासारैः सन्तर्पयेत् आप्लावयेत् | अयमेव सम्प्रदायविद्भिर्देशिकैः पद्धतिषु परान्यास इत्युच्यते || ३/८६ || उक्तचतुर्विधन्यासमनुवादपुरःसरमुपसंहरति - एवं चतुर्विधो न्यासः कर्तव्यो वीरवन्दिते | षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये || ३/८७ || करशुद्ध्यादिकश्चैव साधकेन सुसिद्धये | एवमुक्तप्रकारेण | षोढान्यासादिः सुसिद्धये सुखेन न्याससामर्थ्यान्निराकृतप्रत्यूहतया परमनिःश्रेयसप्राप्तये | साधकेन मुमुक्षुणा कर्तव्यः, न तु सिद्धेन, तस्य मुक्तत्वात् | तदुक्तं विज्ञानभैरवभट्टारकैः - यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः | यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् || इति || ३/८७ -८८ || (वि. भै., श्लो. १५०) न्यासचतुष्टयस्य कालभेदेन विनियोगमाह - प्रातःकाले तथा पूजासमये होमकर्मणि || ३/८८ || जपकाले तथा तेषां विनियोगः पृथक् पृथक् | पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः || ३/८९ || प्रातःकाले षोढान्यासम्, पूजासमयेऽणिमादिन्यासम्, होमसमये मूलदेव्यादिकन्यासम्, जपकाले करशुद्ध्यादिन्यासं कुर्यादित्ययं पृथक् पृथग् विनियोगः | अथवा पूजाकाले समस्त चतुर्विधं न्यासं कृत्वा साधकपुङ्गवः साधकश्रेष्ठः, चतुर्विधन्यासकरणसामर्थ्याद् विशीर्यमाणपाशपटलत्वात् प्रत्यासन्नमोक्षत्वात् कृतकृत्य एव || ३/८८ - ८९ || षट्त्रिंशत्तत्त्वपर्यन्तमासनं परिकल्प्य च | गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् || ३/९० || षट्त्रिंशत्तत्त्वपर्यन्तं क्षित्यादिशिवान्तं तत्त्वसमुदाय-रूपमासनं परिकल्प्य चिन्मरीचीनामाधारत्वादासनं श्रीचक्रं परिकल्प्य | तदुक्तं श्रीपराक्रमे - हृत्सरोजान्तरेध्यायन् पृथिव्यादिशिवान्तकम् | गुप्तादितप्तकुसुमक्षेपेणाऽऽसनतां नयेत् || ३/इति | गुप्तादियोगिनीनामित्यत्र आदौ समस्तप्रकटपदमध्याहार्यम् | आदिपदेन गुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापररहस्य-योगिन्यो गृह्यन्ते | बलिः पूजा | तत्र निघण्टुः - बलिः पूजोपहारेऽपि इति | महाकविभिरप्युक्तम् - अवचितबलिपुष्पा (कु. सं. १/६०) इति | कोऽर्थः ? भावितात्मा बाह्यपूजाकारणात् पूर्वम् यद्यद् बाह्यं वक्ष्यमाणं तत्तदान्तरमाचरेत् इत्यस्मदुक्तरीत्याऽऽन्तर्यागार्थं स्वशरीरं तत्त्वसमुदायरूपं श्रीचक्रं विभाव्य समस्तप्रकटगुप्तगुप्ततर - संप्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापररहस्ययोगिनी-श्रीपादुकाभ्यो नमः इति योगिनीमूलमन्त्रेण स्वशिरसि पूजां कुर्यादित्यर्थः | एतेन बाह्यपूजां सर्वामप्यादावन्तः कुर्यादिति सूच्यते || ३/९० || आन्तरविघ्ननिरासमाह - पिण्डरुपपदग्रन्थिभेदनाद् विघ्नभेदनम् | गुह्यहृन्मुखमूर्धसु विद्यान्यासेन सुन्दरि || ३/९१ || गुह्यहृन्मुखमूर्धसु | गुह्यशब्देन गुदमेढ्रान्तरालं लक्ष्यते | मुखशब्देन मुखावयवो ललाटं लक्ष्यते | गुह्यहृन्मुखमूर्धसु चतुर्षुं स्थानेषु विद्यान्यासेन, विद्यायाः सौभाग्यविद्याया बीजचतुष्टयन्यासेन | पिण्डं कुण्डलिनी | पिण्डशब्देन कुण्डलिनीस्थानं गुदमेढ्रान्तरं कन्दं लक्ष्यते | रूपपदेति व्यत्ययो ज्ञेयः | पदं हंसः | पदशब्देन हंसस्थानं हृदयं लक्ष्यते | रूपं बिन्दुः | रूपशब्देन बिन्दुस्थानं ललाटं लक्ष्यते | ग्रन्थिशब्देन यत्र विश्वं सूत्रे मणिरिव ग्रथ्यते तद् विश्वमूलं ब्रह्मरन्धं चिन्मयं लक्ष्यते | एतच्चतुष्टयभेदनाद् विघ्नभेदनम् | कोऽर्थः ? गुह्यादिस्थानचतुष्टये विद्याबीजचतुष्टयन्यासेन पातालादिषु लोकेषु ये विघ्ना भेदलक्षणाः (सु. वा. २३) इत्यभियुक्तवचनोक्तरीत्या पातालादिरूपाणि पिण्डपदरूपग्रन्थि-स्थानि गुदहृदयललाटब्रह्मरन्ध्राणि भेदलक्षणानि भित्त्वा तदूर्ध्वं तदतीतचिन्मयाद्वयपदविश्रान्तिरान्तरो विघ्ननिरास इत्यर्थः | एतेन सर्वमपि बाह्यपूजान्तमन्तः कुर्यादित्युपलक्ष्यते || ३/९१ || अन्तर्यागे देहस्यैव यागगृहत्वात् तदन्तर्विघ्नान्निरस्य बहिर्याग- मन्दिरगतानां विघ्नानामुत्सारणं कुर्यादित्याह - यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् | अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || हू/ अस्त्राय फट् इति मन्त्रेण मन्त्रवित् साधकः, निर्गच्छतां विघ्नानां निजवामाङ्गसंकोचाद् मार्गं दत्त्वा उत्सार्य | भूमिगतान् नभोगतान् दिव्यांश्च विघ्नानुत्सारयेदित्याह - पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् || ३/९२ || अस्त्रमन्त्रेण दृष्ट्या च दिव्यान् विघ्नानपोहयेत् | पार्ष्णिघातेन पार्ष्णिघातत्रयेण | भौमान् भूमिष्ठान् विघ्नान् | अस्त्रमन्त्रेणेति सर्वत्रानुवर्तते | तालेन करतालत्रयेण | नभोगतान् अन्तरिक्षगतान् विघ्नान् | दृष्ट्या वीक्षणेन दिव्यांश्च विघ्नान् | अपोहयेत् निःसारयेत् || ३/९२-९३ || निर्गतानां विघ्नानां पुनरप्रवेशाय वह्निप्राकार-भावनामाह - दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् || ३/९३ || संविदग्नौ महासारे विमर्शैकशरीरिणि | भेदाभासमिदं हव्यं जुहोम्यपुनरुद्भवम् || (सु. वा. ६४) इत्यभियुक्तवचनोक्तरीत्या सर्वतः स्फुरितपरसंविदेव महावह्निः, स एव प्राकारः, दुर्लङ्घ्यत्वात् | सर्वतो दिक्षु परिस्फुरदद्वयपरसंविदात्म- कमहावह्निप्राकारपरिकल्पनभावनया भेदप्रतीतिलक्षणानां विघ्नानामप्रवेश इत्यर्थः || ३/९३ || सूर्यपूजामाह - सामान्यार्घ्येण देवेशि मार्तण्डं परिपूजयेत् | प्रकाशशक्तिसहितम् सामान्यार्घ्यं विशेषार्घ्यं च वक्ष्यते (३/९८-१०३) | प्रकाशशक्ति-सहितः प्रकाशः परमः शिवः, शक्तिर्विमर्शाख्या, तया सहितो नित्य-समवेतः | स्वप्रकाशशिव एव भास्करस्तद्विमर्शविभवा मरीचयः | यैः स भासयति वेद्यमण्डलं तस्य पूजनमहन्तया मतिः || (चि. स्त. ५) इत्यस्मदुक्तरीत्या सर्वं सामान्यार्घ्येण स्वात्माहम्भावना-लक्षणया पूजया भावयेदित्यर्थः | बाह्यार्थस्तु स्पष्ट एव || ३/९४ || अस्यैव गुणाधिक्यमाह - अरुणाकल्पमुज्ज्वलम् || ३/९४ || ग्रहादिपरिवारं च विश्वतेजोऽवभासकम् | स्वसंवित् त्रिपुरा देवी लौहित्यं तद्विमर्शनम् इति प्रामाणिक-वचनोक्तरीत्या विमर्शविभवविधारुणभूषणम् | उज्ज्वलम्, उदयास्तमय-रहितत्वात् | ग्रहादिपरिवारं च | विषयान् गृह्णन्तीति ग्रहा इन्द्रियाणि, तेषाम्-आदि मनः, तत्परिवारं च विविधविषयग्रहणलक्षणसंकल्प-प्रत्ययप्रवाहप्रवर्तकमित्यर्थः | अत्रोपनिषत् - धियो यो नः प्रचोदयात् (ऋ. ३/४/१०) इति | विश्वतेजोऽवभासकम् | तदेव ज्योतिषां ज्योतिः (मु. उ. २/२/९) इत्युपनिषदुक्तरीत्या बाह्यतेजोगणप्रतीतिकारणनिजस्फुरणम् | बाह्यार्थस्तु - सोमादयोऽत्र ग्रहाः, सूर्यस्य प्रधानत्वात् | आदिशब्देन षडङ्गानि गृह्यन्ते | स्पष्टमन्यत् || ३/९४ -९५ || बाह्यचक्रोद्धारमाह - सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः || ३/९५ || मूलमुच्चारयन् सम्यग् भावयेच्चक्रराजकम् | सौम्यं कर्पूरम्, सोमनामवाच्यत्वात् | आग्नेयं काश्मीरम्, अग्निशिखासंज्ञकत्वात् | काश्मीरजन्माग्निशिखम् (२/६/१२४) इत्यमरः | रोचना गोरोचना, अगुरुः कालागुरुः, कुङ्कुमं घुसृणम्, एतैः सुधया पङ्कीकृत्य, तेन स्वर्णादिमये पट्टे हेमसूच्या विलिख्य | मूलं सौभाग्य-विद्याम् | उच्चारयन्, परेण चेच्चक्रं लेखयति | स्वयं चेल्लिखति तदोच्चरन् | चक्रराजं चतुराम्नायमयत्वात् सर्वपूजाचक्रेभ्योऽप्युत्तमम् | सम्यक् समत्रिकोणशक्त्यग्रं समरेखं मनोहरम् इत्यभियुक्तवचनोक्तरीत्या, भावयेत् लिखेत्, लेखयेद् वा | तदुक्तमभियुक्तैः - कस्तूरीघृसृणेन्दु-चन्दनसुधाभिश्चक्रराजं लिखेत् इति || ३/९५ - ९६ || योगिनीमूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः || ३/९६ || योगिनीनां प्रकटादीनाम्, मूलमन्त्रेण समस्तप्रकट इत्यादिना पूर्वोक्तेन पुष्पाञ्जलिं ततः तत्र श्रीचक्रे निक्षिपेत् || ३/९६ || पुष्पाणामभावेऽपि कार्यतामह - मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया | अशून्यं सर्वदा कुर्यात् विलोमं प्रतिलोमम् | उच्चरितया मूलविद्यया सौभाग्यविद्यया | वा-शब्दः काकाक्षिवदुभयत्रापि संबद्ध्यते | अशून्यम् अविरहितम् | सर्वदा येन केन प्रकारेण कुर्यात् | पुष्पाणामभावे मण्यादिभिर्वा योगिनीमूलमन्त्रेण सौभाग्यविद्यया वा सर्वदा अशून्यं चक्रं कुर्यात्, पूजयेदित्यर्थः || ३/९७ || तथाऽकरणे निष्फलतामाह - शून्ये विघ्नास्त्वनेकशः || ३/९७ || मण्यादिभिः शून्ये सति श्रीचक्रेऽनेकशः बहुशः, विघ्नाः सपर्यान्तरायाः संभवेयुः || ३/९७ || सामान्यार्घ्यविधानमाह - श्रीचक्रस्यात्मनश्चिव मध्ये त्वर्घ्यं प्रतिष्ठयेत् | श्रीचक्रस्य पूर्वोक्तरीत्या उद्धृतस्य, साधकस्य च मध्ये, अर्घ्यं वक्ष्यमाणरीत्या प्रतिष्ठयेत् प्रतिष्ठापयेत् || ३/९७ || अर्घ्यप्रतिष्ठाप्रकारमाह- चतुरस्रान्तरालस्थकोणष्ट्के सुरेश्वरि || ३/९८ || षडासनानि सम्पूज्य त्रिकोणस्यान्तरे पुनः | पीठानि चतुरो देवि कापूजा-ओ इति क्रमात् || ३/९९ || अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् | चतुरस्रान्तरालस्य कोणषट्के आदौ चतुरस्रं लिखित्वा तदन्तर्वृत्तं तदन्तः षट्कोणं तन्मध्ये त्रिकोणमिति मण्डलं गोमयोपलिप्तभूतले मत्स्यमुद्रया विलिखेदिति सामर्थ्यलभ्यम् | तदुक्तं श्रीपराक्रमे - ततो गोमयसंलिप्ते चतुरस्रे भुवः स्थले | प्रवहच्छ्वासहस्तेन कृतया मत्स्यमुद्रया || दिव्यगन्धं तुल्ययुक्तं विलिखेदर्घ्यमण्डलम् | वेदास्रवृत्तषट्कोणत्रिकोणाभ्यन्तरेऽन्तरे || ३/इति | एवं चतुरस्रवृत्तान्तरालकोणषट्के षडासनानि सम्पूज्य अमृतार्णवपोताम्बुजात्मचक्रसर्वमन्त्रसाध्यसिद्धासनानि सम्पूज्य षट्कोणान्तरस्थत्रिकोणमध्ये का कामगिरिपीठम्, पू पूर्णगिरिपीठम्, जा जालन्ध्रपीठम्, ओ ओड्याणपीठं च क्रमात् त्रिकोणकोणेषु त्रयं मध्ये चैकमर्चयित्वा अर्घ्यपादे आधारे तत्र पात्रं प्रतिष्ठाप्याऽभ्यर्च्य तन्मध्ये वह्निबिम्बमभ्यर्च्य तत्परितः कलाश्चाभ्यर्चयेत् | तदुक्तं स्वच्छन्दसंग्रहे - षट्कोणान्तस्त्रिकोणे तु वह्निबिम्बं कलायुतम् | आवाह्याधारतो देवि पूजयेन्मन्त्रवित्तमः || इति | क्रमाद् यादिक्षान्तदशवर्णपूर्वास्तस्य वह्नेर्दशकला धूम्रार्चिराद्या यजेत् तदुक्तं स्वच्छन्दसंग्रहे - यादिक्षान्तानि वर्णानि कला वह्नेर्महेश्वरि | एताः कलाः समभ्यर्च्य स्वस्वर्णैर्यथाविधि || स्वबीजाद्याश्चतुर्थ्यन्तनाममध्या नमोऽन्तिमाः | प्रोक्ता वह्निकलामन्त्रा नामानि शृणु साम्प्रतम् || धूम्रार्चिर्नीलरक्ता च कपिला विस्फुलिङ्गिनी | ज्वालामालिन्यर्चिष्मती तदूर्ध्वं हव्यवाहिनी || अष्टमी कव्यवाहा च रौद्री संहारिणी ततः || इति | [धूम्रार्चिरु(ष्ट्या? ष्मा) ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहेश्वरी || (शा. ति. २/१५) ति तन्त्रान्तरे] || ३/९८ - ११० || अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् || ३/१०० || पात्रे सूर्यकलाश्चैव कभादि द्वादशार्चयेत् | पात्रे अर्घ्यपात्रमध्ये, सूर्यबिम्बमभ्यर्च्य | तदुक्तं स्वच्छन्दसंग्रहे - अस्त्रप्रक्षालितं शङ्खं स्थापयित्वा तथोपरि | हृदयात् सूर्यबिम्बं च समावाह्य स्वमन्त्रतः || इति | अत्र सूर्यकलाः पूजयेत् | कादिठान्तं भादिडान्तं वर्णजातं क्रमोत्क्रमात् | द्वयं द्वयं प्रयोक्तव्यं कलाश्च तदनन्तरम् || इत्यस्मदुक्तरीत्या कभादि ककारादिभकारादि वर्णयुगलयुक्त- द्वादशादित्यकलाः क्रमात् तपिन्याद्या द्वादश अर्चयेत् | तदुक्तं स्वच्छन्दसंग्रहे - कादिठान्ताक्षरा देवि मूर्तिनाम्ना समीरिताः | तपिनी तापिनी चैव शोधनी शोषणी तथा || भ्रामणी क्लेदिनी चैव वरेण्याकर्षणी तथा | सुषुम्ना वृष्टिवाहा च ज्येष्ठा चैव हिरण्यदा || एताः सौरकलाश्चैव युत्क्रमाद् भादिडान्तिमाः | इति | कभादिकथनाद् यकारादयो दश वह्निकलाः, अकारादयः षोडशः स्वराः सोमकला इति गम्यते | तत्र पात्रे लवङ्गादिभिः सुगन्धिकुसुमैश्च वासितं सलिलमापूर्य तस्मिन्निन्दुमण्डलमभ्यर्च्य | तदुक्तं स्वच्छन्द-संग्रहे - एलालवङ्गकङ्कोलान् जातीफलसुसंयुतान् | सुगन्धिकुसुमैर्द्रव्यैः सह तस्मिन् जले क्षिपेत् || इति | नवयोनिं समालिख्य पूर्ववज्जलमध्यतः | विशुद्धितः समावाह्य चन्द्रमण्डलमर्चयेत् || इति (च) || ३/१०० - १०१ || विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् || ३/१०१ || तस्मिन् विधृते द्रव्ये द्रवे | द्रवात्मकं द्रव्यं विशेषार्घ्यम् | मद्यं द्रवमयमेव हि | तदुक्तं स्वच्छन्दसंग्रहे - अतो हि विशेषार्घ्यस्य साधनं प्रोच्यतेऽधुना | आधारपात्रयोश्चैव तयोर्वह्न्यर्कपूजनम् || सामान्यार्घ्योक्तमार्गेण कृतपूजितपूज्यके | पात्रे त्वासवमापूर्य शिरोमन्त्रेण पूर्ववत् || इति | षोडशेन्दुकलाः क्रमादकारादिषोडशस्वरादिका अमृताद्याः षोडश कलाः यजेत् | तदुक्तं स्वच्छन्दसंग्रहे - आदिकाद्यन्तगाः सौम्याः कला षोडश कीर्तिताः | तासां नामानि वक्ष्यामि शृणु सर्वाङ्गसुन्दरि || अमृता मानदा पूषा पुष्टिः प्रीतिर्महेश्वरि | रेवती ह्रीमती चैव श्रीः कान्तिश्च सुधा ततः || ज्योत्स्ना हैमवती चैव छाया सम्पूरिणी तथा | वामा रामा कलानां च नामान्येतानि वल्लभे || इति || ३/१०१ || अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना | नवात्मना ततो देवि तर्पयेद्धातुदेवताः || ३/१०२ || आनन्दभैरवं चैव वौषडन्तेन तर्पयेत् | लकुलीशं समुद्धृत्य भृगुं संवर्तकं तथा | पिनाकिनं च खड्गीशं भुजङ्गं बालिनं तथा || योजयित्वा क्रमेणैव कार्यकारणमस्तकम् | अर्घीशं योजयेदन्ते नवात्माऽयं समुद्धृतः || इति स्वच्छन्दसंग्रहोद्धृतं नवात्मानम् | तन्मध्ये तेन मन्त्रेण अमृतेशीम् प्रसृतामृतरश्म्यौघसन्तर्पितचराचराम् | भवानि ! भवशान्त्यै त्वां भावयाम्यमृतेश्वरीम् || (सौ. हृ. ७) इत्यभियुक्तवचनोक्तरीत्याऽमृतस्राविणीं भावयेत् | नवात्मना ततो देवि धातुदेवता डाकिन्याद्याः | अत्रैवोक्तम् - विशुद्धौ हृदये नाभौ स्वाधिष्ठाने च मूलके | आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः || (३/३०) इति | नवात्मना पूर्वोक्तेन तर्पयेत् | आनन्दभैरवं चैवेत्येवकारेण नवात्मनैव आनन्दभैरवं तर्पयेदिति | नवात्मानमुच्चार्यं आनन्द-भैरवाय वौषट् इति तर्पयेदित्यर्थः || ३/१०२ - १०३ || सामान्यार्घ्यप्रकारं विशेषार्घ्येऽप्यतिदिशति - तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः || ३/१०३ || स्पष्टम् || ३/१०३ || एवमर्घ्यशुद्धिं कृत्वा तदनन्तरं गुरुन् पूजयेदित्याह - गुरुपादालिमापूज्य भैरवाय ददेत् पुनः | गुरुणां परमशिवादिस्वगुरुपर्यन्तानाम्, पादालिं पादुका-परम्परां दिव्यसिद्धमानवौघत्रयवतीम्, आपूज्य स्वशिरस्यर्घ्योदक-अक्षतकुसुमैरभ्यर्च्य | शोधितमर्घ्यमाललाटं त्रिरुद्धृत्य महापद्म-वनान्तस्थशृङ्गाटोदरवासिने गुरुरूपिणे पूर्वोक्त- (१/१) निर्वचनाय भैरवाय, ददेत् निवेदयेत् || ३/१०४ || तत् पुनः - तदाज्ञाप्रेरितं तच्च गुरुपङ्कौ निवेदयेत् || ३/१०४ || तस्य गुरुरूपिणो भैरवस्य, आज्ञाप्रेरितम् अनुज्ञातम्, तच्च द्रव्यं पुनश्च गुरुपङ्क्तौ निवेदयेत् || ३/१०४ || प्रसादग्रहणमाह - तदीयं शेषमादाय कामाग्नौ विश्वतस्त्विषि | पादुकां मूलविद्यां च जपन् होमं समाचरेत् || ३/१०५ || तदीयं शेषं गुरुदेवतयोर्निवेदितं शेषं द्रव्यमादाय तत्त्वचतुष्टयशोधनमन्त्रैः कामो देवः स काम्यत्वात् (सौ. सु. ४/३) इत्यस्मदुक्तरीत्या विश्वघस्मरकलाजाले कामेश्वराख्ये सर्वप्राणि-ष्वात्मन्यग्नौ | विश्वतस्त्विषि विश्वग्रसनशीलं तद्रूपं तेजोमयं ततः इत्याज्ञावतारोक्तरीत्या विश्वघस्मरकलाजाले | पादुकां स्वगुरुश्रीपादुकाम्, मूलविद्यां सौभाग्यविद्यां च जपन् | होमं भेदेन्धनप्रक्षेपलक्षणं समाचरेत् | तदुक्तं श्रीपराक्रमे - निवेद्य मस्तकस्थाय गुरवेऽर्घ्यं तदाज्ञया | कल्पान्तहुतभुक्कल्पचिदग्नौ विश्वघस्मरे || मेयराशिमयं हव्यं वासनात्मोपदंशकम् | व्यतिषङ्गेण स जुह्वन् जपेदात्मानमामृशन् || इति || ३/१०५ || ननु कः कामाग्निः ? स कुत्र वा निवसति ? किं वा हविरित्यत आह - माहाप्रकाशे विश्वस्य संसारवमनोद्यते | मरीचिवृतीर्जुहुयान्मनसा कुण्डलीमुखे || ३/१०६ || कुण्डलीमुखे, व्यवस्थिते इति शेषः | अत्र श्रूतिः - तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः (तै. आ. १०/११/१२) इति | महाप्रकाशे निरिन्धनदीप्ते निर्वाणरहिते प्रमातरि वह्नौ | विश्वस्य संहारवमनोद्यते | विश्वस्य शिवादिभूम्यन्तस्य, संहारे निजकारणतावन्मात्राऽवस्थितौ, वमने सर्जने चोद्यते | विश्वाद्यैव शक्तिः | तदुक्तमाज्ञावतारे - स्वेच्छयैव जगत्सर्वं निगिरित्युद्गिरत्यपि इति | मनसा सार्धं मरीचिवृत्तीर्जुहुयात् | आन्तरस्य चिदनलस्य मरीचयोऽक्षाणि, बहिरर्थेषु तेषां संचारा वृत्तयः | तदुक्तं विज्ञानभैरवभट्टारकैः - यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते प्रभोः (श्लो. ११४) इति | कोऽर्थः ? कुण्डलिन्याः शिखायां महाशून्ये व्यवस्थिते सर्वप्राणिष्वात्मनि प्रकाशलक्षणे कामाग्नौ आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन ( न्या. भा. १/१/४) इति तन्त्रान्तरोक्तरीत्या बहिरर्थेषु पसृतचिन्मरीचिरूपाक्षवृत्तिलक्षणं हविस्तेनैव मार्गेणान्तर्मुखतया मनसा सह जुहुयादित्यर्थः | तदुक्तं विज्ञानभैरवभट्टारकैः - महाशून्यालये वह्नौ भूताक्षविषयादिकम् | हूयते मनसा सार्धं स होमश्चेतनास्रुचा || इति | (श्लो. १४६) अयमेवान्तरो होमः | तदुक्तं पद्धतिषु - धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् || इति || ३/१०६ || आन्तरामेव पूर्णाहुतिमाह - अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् | मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः || ३/१०७ || हुत्वा हुत्वा स्वयं चैवं सहजानन्दविग्रहः | प्रदानैस्तर्पणैः सम्यग्विशुद्धैरमृतात्मभिः | महाहन्तीकरोमीदं विश्वं हव्यवपुर्धरम् || (सु. वा. ३९) इत्यभियुक्तवचनोक्तरीत्या अहन्तेदन्तयोरैक्यम्, अहन्ता प्रमाता, इदन्ता प्रमेयम्, तयोरैक्यं प्रमाणम्, तत्त्रितयसामरस्यात्मकम् | विश्वक्षिप्तपदप्रमेयसुभगां ब्राह्मीं महावाग्भवे विश्वोत्तीर्णमहाप्रकाशवपुषं शक्तिं च नैसर्गिकीम् | प्रामाण्य प्रवणत्रिशक्तिखचिता मध्युष्टचातुर्दशीं संवित्त्यर्कसमिद्धवस्तुभरितो मथ्नामि मन्त्रारणिम् || इत्यभियुक्तवचनोक्तरीत्या मन्त्रारणिमथनोद्रेकसम्भूतं तत्त्रितयसमष्टिरूपम् | वस्तुरूपम्, वस्तु द्रव्यम्, तद्रूपम् | तदुक्तं मुख्याम्नायक्रमे - स्वीकुर्यात् सततं वस्तु यदानन्दसुखं भवेत् इति | महाहविः | यस्मिन् हुते स्वप्रमेयलक्षणे हविषि प्रमातृलक्षणं ज्योतिरनवरतं प्रज्वलति, तन्महाहविः | पूर्णाहुतिहिमे उन्मन्यां स्रुचि कल्पितम् | उन्मनी नाम पूर्वोक्त (१/३४) लक्षणा, सा स्रुगिच्युते, तस्यां स्रुचि, तन्मयेनामृतेनापूर्य पूर्णाहुतिं जुहुयात् | एवंरूपं हविर्हुत्वा | आनन्दं ब्रह्मणो रूपं तच्च देहे प्रतिष्ठितम् | तस्याभिव्यञ्जकं द्रव्यं योगिभिस्तेन पीयते || इति प्रामाणिकवचनोक्तरीत्या यावदानन्दाविर्भावो भवति तावदिति वीप्सार्थः | स्वयं चैव सहजानन्दविग्रहः | मद्याद्यनुभवेन कृत्रिमानन्दजृम्भणान्महानन्दानुसन्धानात् तन्मयो भवेदिति | तदुक्तं विज्ञानभैरवभट्टारकैः - जग्धिपानकृतोल्लासरसानन्दविजृभणात् | भावयेद् भरितावस्थां महानन्दस्ततो भवेत् || इति | (वि. भै. श्लो ७१) कोऽर्थः ? मन्त्रारणिमथनसंभूतमिदन्ताहन्तासामरस्य- मयवस्तुरूपघृतपूर्णाहुतीं बहुशो हुत्वा परिस्फुरत्परमानन्दो भवेदित्यान्तरपूर्णाहुतिः || ३/१०७-१०८ || अत एव - प्रविष्टेऽन्तः सीधुरसे भेदनिर्हरणात्मके | स्थैर्यमेति चमत्कारो विना विषयसंगतिम् || इति क्रमोदयोक्तरीत्या मनसि स्थिरीभूते बाह्यचक्रार्चनं कुर्यादित्याह - स्वप्रथाप्रसराकारं श्रीचक्रं पूजयेद् सुधीः || ३/१०८ || सुधीः सीधुरसपानेनानन्यविषयासक्तः स्वसंविन्मात्रस्थिरमनाः | मनसि स्थिरे सति धारणा स्थिरा, तस्यां स्थिरायां तत्र प्रत्ययैकतानता ध्यानम् (३/२) इति योगपातञ्जलशास्त्रोक्तरीत्या प्रत्ययैकतानतालक्षणं ध्यानं भवति | विना ध्यानं पूजा निष्फला भवति | अथादावमृतीकृतम्-आसवं शिवादिभ्यो गुरुभ्यो निवेद्य स्वात्माग्नौ हुत्वा प्रज्वलत्परमानन्द-स्थिरधीर्भूयादित्यर्थः | स्वप्रथाप्रसराकारः स्वप्रथा स्वसंवित् तस्या बहिरर्थेष्विन्द्रियद्वारा प्रसरो व्यापारः, तदात्मना स्फुरणम् | ततस्-तदाकारं श्रीचक्रं पूजयेत् | श्रीचक्रं नाम नान्यत् किञ्चित्, अपि तु स्वसंविद्देवतायाः प्रसररूपाऽन्तः करणचतुष्टयाव्यक्तमहदहङ्कृति- तन्मात्रदशेन्द्रियतद्वृत्तितद्विषयतत्पुर्यष्टकषोडशविकारधातुप्रपञ्च एव श्रीचक्रात्मना स्फुरत्येतावत् || ३/१०८ || श्रीचक्रपूजामाह गणेशम् इत्यादिना चक्रपूजां विधाय (३/१६८) इत्यन्तेन - गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा | बाह्यद्वारे यजेद् देवि देवीश्च स्वस्तिकादिकाः || ३/१०९ || श्रीचक्रद्वारशाखयोर्गणेशं तच्छक्तिं दूतरीं क्षेत्रेशं बटुकाख्यं तच्छक्तिं दूतिकां च यजेत् | तदुक्तं संकेतपद्धत्याम् - द्वैताद्वैतमहामोहशर्वरीक्षपणक्षमः | भास्वानिव जयत्येको गणेशो दूतरीयुतः || प्रतिभायाः परोल्लासो निशाकर इवापरः | दूतीयुक्तः स जयति बटुकस्ताण्डवान्वितः || इति | बाह्यद्वारे श्रीचक्रद्वारबाह्यप्रदेशे, स्वस्तिकादिका देवीः सरस्वतीश्रीदुर्गाभद्रकाल्यश्चतस्रः | स्वस्तिका आदिर्यासामिति समासः | स्वहाशुभङ्करीगौरीलोकधात्रीवागीश्वर्यश्च पञ्च | एतास्ताश्च देवीर्गायिका यजेत् | तत्प्रसिद्धं पद्धतिषु || ३/१०९ || ततश्चान्तस्त्रिकोणेऽपि गुरुपङ्क्तिं त्रिधा स्थिताम् | ततस्तस्य श्रीचक्रस्य अन्तस्त्रिकोणे त्रिधा स्थितां दिव्यसिद्धमानवौघ-त्रयवतीं गुरुपङ्क्तिं शिवादिस्वगुरुपर्यन्तानां गुरुणां पङ्क्तिः परम्परा ताम् | अपिशब्दाद् यजेदित्यनुषङ्गः | गुरुपरम्परा गुरुमुखादेव ज्ञातव्या, न लोकतः | न च पुस्तके लिखिता, अत्यन्तरहस्यत्वात् || तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः || ३/११० || महापद्मवनान्तस्थां कारणानन्दविग्रहाम् | मदङ्कोपाश्रयां देवीमिच्छाकामफलप्रदाम् || ३/१११ || भवतीं तदन्तः श्रीचक्रस्य मध्ये बैन्दवाख्ये चक्रे | तां महापद्म- वनान्तस्थाम् महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम् (३/५) इत्यत्रोपपादितरूपाम् | अकुलाधोमुखसहस्रदलं कमलं महापद्मवनम् | मदङ्कोपाश्रयाम् अनाश्रितस्य स्वप्रकाशात्मनो ममाऽङ्कस्थाम् | कारणानन्दविग्रहाम् | कारणम् नाम हेतुद्रव्यम् | अत्रैव वक्ष्यति - क्षेत्राणां पतये मह्यं बलिं कुर्वीत हेतुना (३/१९९) इति | द्रव्यपानेन तेन य आनन्दः, स एव विग्रह आकारो यस्यास्ताम् | कोऽर्थः ? शोधितामृती-भूतद्रव्यपानपरिस्फुरत्परमानन्दमात्रशरीरामित्यर्थः | भवतीम् अनाश्रितां [मम देवीं विमर्शात्मिकाम् | इच्छाकामफलप्रदाम् इच्छया यत् काम्यते फल तस्य सर्वस्य दात्रीम् | महापद्मवनान्तस्थे कारणानन्दविग्रहे | सर्वभूतहिते मातरेह्येहि परमेश्वरि || इति मन्त्रेण आवाह्य यजेत् | ननु महापद्मवनान्तस्थामित्यनेनैवानाश्रितो देवोऽनाश्रिता देवी चाऽत्र चक्रे समावाह्य कामेश्वरीकामेश्वररूपेण पूज्याविति कथम्-अवसीयत इति चेदुच्यते - महापद्मवनान्तस्थः सकलागमशास्त्राणां वक्ता देवोऽप्यनाश्रित एव, तच्छक्तिरनाश्रिताऽत एव | अन्यथा महापद्म-वनान्तस्थां मदङ्कोपाश्रयां भवतीमिति वचनं कथं घटते ? सदाशिवादीनां तु यद्यप्यागमशास्त्रवक्तृत्वमस्ति, तथापि महापद्म-वनान्तस्थत्वं नास्ति | तदुक्तं स्वच्छन्दसंग्रहे - अनाश्रितस्य मध्यस्थं व्योमपद्मं सुविस्तरम् | असंख्ययोजनायामं तत्र सिंहासनस्थितः || सूर्यकोट्यर्बुदप्रख्यः शशाङ्ककृतशेखरः | पञ्चवक्त्रो दशभुजस्त्रिपञ्चनयनः प्रभुः || सर्वावयवसम्पूर्णो ब्रह्ममूर्तिः सनातनः | सर्वज्ञः सर्वकर्ता च सर्वानुग्रहणे रतः || सर्वरत्नसमाकीर्णः सर्वावयवभूषणः |] अनाश्रितकला देवी तस्योत्सङ्गे सदा स्थिता || पञ्चवक्त्रा त्रिनेत्रा च दशबाह्वीन्दुशेखरा | व्यापिन्यादिचतुष्कं च तादृशं परिकीर्तितम् || पूर्वाद्युत्तरपर्यन्तं दिग्गतैः सेवकैः शिवः | रुद्रकोट्यर्बुदानीकैः स्वसारूप्यैःस्वशक्तिभिः || सेवितो लोकनाथैस्तैः सृष्ट्यादीनि करोति सः | अनाश्रितोऽयं भगवान् पञ्चवक्त्रस्त्रिदृक् तथा || दशबाहुश्चतुर्बाहुर्द्विबाहुश्चैकवक्त्रकः | कौलागमादिवक्ताऽसौ देवदेवः सदाशिवः || परापरविभागेन प्रोवाचासंख्यमागमम् | इति | उत्तरपदेऽप्युक्तम् - व्योमाम्बुजे सहस्रारे सितकेसरसंकुले | तत्रासीनं महादेवमपृच्छत् कुलनायिका || (१/१) इति || ३/११० - ११२ || त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् | भवतीम् इत्यत्राप्यन्वेति | भवतीं स्वसंविल्लक्षणाम् | त्वन्मयैरेव पञ्चभूतमयं विश्वं तन्मयी सा सदाऽनघे | तन्मयी मूलविद्या च तत्तथा कथयामि ते || (२/२८) इति पूर्वोक्तरीत्या पञ्चभूतानि भवदिच्छाविजृम्भितानि त्वद्रूपाणि, पञ्चरूपिणमात्मानं दिव्यैः पञ्चोपचारकैः | अर्पयेत् सह गन्धेन पृथिवीं कुसुमेन खम् || धूपेन वायुं दीपेन तेजोऽन्नेन रसं पुनः | इति प्रामाणिकवचनोक्तरीत्या तैरेव नैवेद्यादिभिरर्चयेत् | नैवेद्याभिर्-इत्यादिपदेन गन्धपुष्पधूपदीपनैवेद्यानि गृह्यन्ते | सुगन्धवत्पदार्था-नुभवेन प्रत्यङ्मुखतया प्रमातरि विश्रान्तिर्गन्धसमर्पणम् | सुशब्दवत्-पदार्थानुभवेन प्रत्यङ्मुखतया प्रमातरि विश्रान्तिः पुष्पसमर्पणम् | सुस्पर्शवत्पदार्थानुभवेन प्रत्यङ्मुखतया प्रमातरि विश्रान्तिर्धूप-समर्पणम् | सुरूपवत्पदार्थानुभवेन प्रत्यङ्मुखतया प्रमातरि विश्रान्तिर्दीपसमर्पणम् | स्वादुरसवत्पदार्थानुभवेन प्रत्यङ्मुखतया प्रमातरि विश्रान्तिर्नैवेद्यसमर्पणमित्यर्थः | तदुक्तं मुख्याम्नायरहस्ये - इन्द्रियद्वारसंग्राह्यैर्गन्धाद्यैः स्वात्मदेवता | स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः || इति | बहिरपि गन्धपुष्पधूपदीपनैवेद्यानि पृथिव्याकाशवायुतेजःसलिल-भावनया देव्यै समर्पयेदित्युपचारोपनिषत् || ३/११२ || त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः || ३/११२ || तत्तत्तिथिमयीर्नित्याः काम्यमर्मानुरूपिणीः || त्रिकोणे श्रीचक्रस्य त्रिकोणे रेखात्रये, तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः, गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शिवा (२/३०) इत्यत्रैव पूर्वोक्तरीत्या भूतगुणात्मिकायाः पञ्चदशाक्षरशरीरिण्याः श्रीविद्यायास्तत्र स्फुरणात् पञ्चदशप्रतिबिम्बरूपाः, तत्तत्तिथिमयीः तत्संख्याकप्रतिपदादितिथ्यात्मिकाः, काम्य कर्मानुरूपिणीः नवचक्रक्रमो योऽसौ महावश्यादिसिद्धिदः इति संकेतपद्धत्युक्तरीत्या बाह्यचक्रार्चनं काम्यं कर्म, तदनुरूपकरचरणादिमद्रूपधारिणीः | उत्पत्तिविनाशरहितत्वान्नित्याः, ततः कामेश्वरी नित्या नित्या च भगमालिनी | नित्यक्लिन्नाऽपि च तथा भेरुण्डा वह्निवासिनी || महाविद्येश्वरी दूती त्वरिता कुलसुन्दरी | नित्या नीलपताका च विजया सर्वमङ्गला || ज्वालामालिनी चित्रा चेत्येवं नित्यास्तु षोडश | (१/२६-२८) इति चतुःशतोशास्त्रोक्ताः | पुनः शब्दादर्चयेदित्यनुषङ्गः || ३/११२- ११३ || तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने || ३/११३ || तत्र श्रीचक्रे | त्रैलोक्यमोहने चक्रे पूर्वोक्त (१/८२)निर्वचने चतुरस्रत्रय- लक्षणे | प्रकटयोगिन्यः, यष्टव्या इत्युत्तरत्र (१/११६) स्थितेनान्वयः || ३/११३ || प्रकटशब्दनिर्वचनमाह - मातृकास्थुलरूपत्वात् त्वगादिव्यापकत्वतः | योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि || ३/११४ || मातृकाः परापश्यन्तीमध्यमावैखर्यः, तासु स्थूलमकारादि-क्षकारान्तं पञ्चाशद्वर्णमयं वैखरीरूपम् | तदुक्तं स्वच्छन्द-संग्रहे - स्थूलं पञ्चाशदाकारम् इति | तद्रूपत्वात् मातृकास्थूल-रूपवैखरीवर्णवर्गाष्टकमयत्वात् सिद्धीनां ब्राह्म्यादीनां च | तदुक्तं चतुःशत्याम् - वर्गानुक्रमयेगेन यस्यां मात्रष्टकं स्थितम् | वन्दे तामष्टवर्गोत्थमहासिद्ध्यष्टकेश्वरीम् || (१/११) इति | त्वगादिव्यापकत्वतः त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रौजस आदिशब्देन गृह्यन्ते | तद्व्यापकत्वात् त्वगाधारभ्रूमध्य-रक्तनितम्ब-मांसनाभि-मेदोहृदय- अस्थिकण्ठ-मज्जास्य-शुक्रनासापुट-(क्रोध ? ओजो)ललाटचक्रेषु स्थितत्वाद् ब्राह्म्यादीनाम् | स्थूलविश्वप्रधात्मनि (इति) स्थूलत्वकथनम् | अत एव विश्वं प्रकर्षेण धत्त इति विश्वप्रधा विश्वम्भरा, तदात्मनि भूगृहत्रयात्मके त्रैलोक्यमोहने चक्रे स्थितत्वात् | मातृकास्थूलरूपत्वाद् वैखर्यवयवत्वाच्च त्वगादिधातूनां स्थूलशरीरावयवतया तद्व्यापकत्वात् त्रैलोक्यमोहनचक्रस्य स्थूलविश्वम्भरात्मकत्वाच्च तदन्तर्गताः सिद्धयो ब्राह्म्याद्याश्च प्रकटा ज्ञेया इत्यर्थः || ३/११४ || अन्त्यभूगृहनिवासिनीनां नामग्रहणपूर्वकं ध्यानमाह - अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः | तास्तु रक्ततरा वर्णैर्वराभयकरास्तथा || ३/११५ || धृतचिन्तामहारत्ना मनीषितफलप्रदाः | अणिमाद्याः अणिमां पश्चिमद्वारे (१/१५३) इत्यादि चतुःशती-शास्त्रोक्ताः | लघिमामहिमेशितावशिताप्राकाम्यभुक्तीच्छाप्राप्तिसर्व-कामाख्याः सिद्धयस्तत्रादिशब्देन गृह्यन्ते | अष्टौ व्यवस्थिता अष्टसिद्धयो निघण्टुप्रसिद्धाः | अत्र तु दशेति तात्पर्यम् - वामजङ्घां समारभ्य वामादिक्रमतोऽपि च | सिद्ध्यष्टकं न्यसेत् तेषु द्वयं पादतले न्यसेत् || (३/७९-८०) इत्यत्रैवोक्तत्वात् | महारत्नं चिन्तामणिः | शेषं स्पष्टम् || ३/११५ -११६ || ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमशः प्रिये || ३/११६ || ब्राह्म्याद्याः ब्रह्माणीं पश्चिमद्वारे (१/१५६) इति चतुःशती-शास्त्रोक्ताः | तत्रैव मध्यचतुरस्रे यष्टव्याः | क्रमशः क्रमेण || ३/११६ || तासां प्रत्येकं ध्यानमाह - ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः | वरदाऽभयहस्ता च कुण्डिकाक्षस्रगुज्ज्वला || ३/११७ || करैरिति शेषः | शिष्टं स्पष्टं || ३/११७ || माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी | कपालमेणं परशुं दधाना पाणिभिः प्रिये || ३/११८ || एकेन पाणिना शूलधारिणी, त्रिभिः कपालमेणं परशुं दधाना || ३/११८ || कौमारी पीतवर्णा च शक्तितोमरधारिणी | वरदाभयहस्ता च ध्यातव्या परमेश्वरी || ३/११९ || स्पष्टम् ||११९ || वैष्णवी श्यामवर्णा च शङ्खचक्रगदाब्जकान् | हस्तपद्मैश्च विभ्राणा भूषिता दिव्यभूषणैः || ३/१२० || वाराही श्यामलच्छाया पोत्रिवक्त्रसमुज्ज्वला | हलं च मुसलं खड्गं खेटकं दधती भुजैः || ३/१२१ || स्पष्टम् || ३/१२० -१२१ || ऐन्द्री श्यामलवर्णा च वज्रोत्पललसत्करा | स्पष्टम् || ३/१२२ || चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा || ३/१२२ || खड्गं वेतालकं चैव दधाना दक्षिणैर्भुजैः | नागखेटकघण्टाख्यान् दधानान्यैः कपालकम् || ३/१२३ || वेतालः पिशाचविशेषः | शूलडमरुखड्गवेतालान् दक्षिणैः करैः, नागखेटकघण्टाकपालानि वामकरैर्दधानेत्यर्थः || ३/१२२- १२३ || महालक्ष्मीस्तु पीताभा पद्मौ दर्पणमेव च | मातुलुङ्गफलं चैव दधाना परमेश्वरी || ३/१२४ || स्पष्टम् | ननु मुद्रादशकं किमित्यन्तश्चतुरस्रे पूज्यत्वेन नोक्तम् ? सत्यम्, चतुःशतीशास्त्रेऽनुक्तत्वादत्रापि प्राधान्येन नाख्याताः, किन्तु श्रीचक्रन्यासे मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः (३/७७) इति सूचिताः | अतोऽन्तश्चतुरस्रे मुद्रादशकमपि पूजयेत् || ३/१२४ || एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः | एवं उक्तप्रकारेण | एताः प्रकटयोगिनीर्ध्यात्वा, चक्रेशीं त्रैलोक्यमोहनचक्रेशीं त्रिपुरां यजेत् || ३/१२५ || विद्यादेवतयोरभेदविवक्षया च त्रैलोक्यमोहनचक्रेशीविद्या-निर्वचनमाह - कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता || ३/१२५ || आत्मतत्त्वगतयोरशुद्धयोरत्र कर्मकरणात्मनोर्द्वयोः | शुद्धतत्त्वलयभावनामयी शुद्धिरात्मकरयोः परा मता || (चि. स्त. ११) इत्यस्मदुक्तरीत्याऽऽत्मतत्त्वस्याशुद्धत्वात् कर्मेन्द्रियाणामात्म- तत्त्वान्तःपातित्वात् करयोश्च कर्मेन्द्रियत्वादशुद्धयोः कार्यकरणात्मनोः करयोः कार्ययोः, स्वकारणे शुद्धतत्त्वे शिवाद्वैतलयभावना कर-शुद्धिः, तत्करीयम् | स्मृता निरुक्ता || ३/१२५ || कार्यशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता | कारणात्मपरामृष्टकायरूपाऽङ्गुलिस्थिताम् | करोमि चिन्मयीं शुद्धिं करयोः स्पर्शशोधिनीम् || (सु. वा. २४) इत्यभियुक्तवचनोक्तरीत्या कार्यस्य शुद्धिर्नाम कारणतावन्-मात्रतया पर्यवसानम् | अणोरणीयान् (क. उ. २/२०) इति श्रुत्युक्ताणीयसि कारणे विद्यमानस्यात्मनोऽणिमा सिध्यतीत्यणिमासिद्धिः | सा चात्र त्रलोक्यमोहने चक्रे स्थितेति तात्पर्यम् || ३/१२६ || द्वितीयचक्रे पूजां सवासनामाह - षोडशस्पन्दसन्दोहे चमत्कृतिमयीः कलाः || ३/१२६ || प्राणादिषोडशानां तु वायूनां प्राणनात्मिकाः | बीजभूताः स्वरात्मत्वात् कलनाद् बीजरूपकाः || ३/१२७ || अन्तरङ्गतया गुप्ता योगिन्यं संव्यवस्थिताः | कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये || ३/१२८ || सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् | स्पन्दो नाम परायास्तत्त्वरूपेण प्रसारः | तदुक्तं परापञ्चा-शिकायाम् - सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं प्रभोः स्मृतम् (श्लो. १८) इति | तेन षोडश स्पन्दाः षोडशविकारा भूतेन्द्रियमनांसि, तेषां सन्दोहः | चमत्कारो नाम तस्मिन् चिदतिशयोदयः | तदुक्तं क्रमोदये - स्थैर्यमेति चमत्कारो विना विषयसंगतिम् इति | तन्मययो भूतेन्द्रियमनःसु चिदनुप्रविष्टाः कलाः षोडश स्फुरन्ति, तदात्मिका इत्यर्थः | कलाः षोडश-संख्याकाः कलाभिधानाश्च | प्राण आदिर्येषां तेऽपानोदानसमान-व्याननागकूर्मकृकरदेवदत्तधनञ्जया दश प्रसिद्धा वायवः | अन्ये षडागमान्तरेषु मृग्याः, तेषां प्राणनात्मिकाः, सर्वेषां प्राणना (त्मिकाः?त्मकाः) प्राणादयो हि, (एते तु ? एतास्तु) तेषां प्राणादीनाम्-अपि प्राणनात्मिका इत्यर्थः | बीजभूता बिन्दुयुक्तत्वात् | स्वराः षोडश अकारादिविसर्गान्ताः, तदात्मकत्वात् | कलनात् प्रक्रमात् | सबिन्दुकस्वर-प्राप्तत्वात् कलनाद् बीजरूपकाः [स्वस्वबीजस्वरूपाः | अन्तरङ्गया षोडश-विकाराणां त्वगादिधातुवत् तत्राप्रकटत्वात् तन्मययः |] तन्मया योगिन्यो गुप्ताः संव्यवस्थिताः | अन्तरङ्गतया अन्तरङ्गम् अन्तरिन्द्रियं बुद्धिः, तच्चमत्कारमयत्वादेता अप्यन्तरङ्गाः, अत एव गुप्ताः, सर्वाशा-पूरणाख्ये तु चक्रे, योगिन्य इत्यत्र छान्दसत्वाद् द्वितीयार्थे प्रथमा | कामाकर्षणरूपाद्या कामाकर्षणरूपां च (१/१५८) इत्यादि चतुःशती- शास्त्रोक्ताः | सृष्टेः प्राधान्यतः सृष्टौ वामचक्रस्यैव प्रधानत्वात्, अस्यैव चक्रस्य सृष्टिरूपत्वात् | अतस्ता योगिनीर्वामेन पूजयेद् वामावर्त-क्रमेण पूजयेत् | विकाराः षोडश विलासभूताः | प्राणादिषोडश-वायूनां जगत्प्राणनादिशक्त्यात्मिकाः सबिन्दुषोडशस्वरैराकलिताः प्रत्येकं तन्मयीरन्तरङ्गचिदनुप्रविष्टषोडशविकारतया गुप्ताः कामा-कर्षिण्याद्याः कलाः सर्वाशापरिपूरके चक्रे वाममार्गेण पूजयेद्-इत्यर्थः || ३/१२६-१२९ || एतासां ध्यानमाह- पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरावृताः || ३/१२९ || स्पष्टम् || ३/१२९ || तच्चक्रदेवतार्चने सिद्धिमाह - प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः || आनीदवातं स्वधया तदेकम् (ऋ. १०/१२९/२) इति श्रुत्युक्तरीत्या विश्वप्राणनरूपया स्वधया सह यदेकरसमयं प्राणिति, तस्मिन् स्वकारणे लयः प्राणादीनां वायूनां शुद्धिर्नाम | अत्र प्राणशब्दो वायुमात्रोपलक्षणपरः | तेन वायुलयलक्षणायां शुद्धौ मनोलय-लक्षणः समाधिर्भवति | ततस्तदेकरसभूतस्य भोक्तुरात्मनो जीवस्य यष्ष्तुस्तद्गुणो लघिमा सिद्धिर्भवति || ३/१३० || त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः || ३/१३० || यादृशैरुपचारैः सर्वैर्गन्धादिभिर्मूलदेवी पूजिता, तादृशैरेवोपचारैः सर्वाशापरिपूरणचक्रे चक्रेशी त्रिपुरेशी पूजनीये-त्यर्थः || ३/१३० || तृतीयचक्रे पूजां सवासनामाह - कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः | वाग्भवाष्टकसंबद्धाः सूक्ष्मा वर्गस्वरूपतः || ३/१३१ || तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके | अनङ्गकुसुमाद्यास्तु कुलं षट्त्रिंशत्तत्त्वात्मकं शरीरम्, तद्विषयानुभवः कृशोऽहं स्थूलोऽहमित्यादि, तेनाविष्टो जीवस्तदाश्रिततया, तस्य भोगपुर्यष्टकम् चितिश्चित्तं च चैतन्यं चेतना द्वयकर्म च | जीवः कला शरीरं च सूक्ष्मं पुर्यष्टकं मतम् | इति स्वच्छन्दसंग्रहोक्तरीत्या सूक्ष्मपुर्यष्टकम्, तदाश्रिताः | तन्मयतया वाग्भवाना मैकाराणामष्टकेन संबद्धाः | सूक्ष्म-वर्गं वैखरी- वर्णाष्टकवर्गम् | तदुक्तं स्वच्छन्दसंग्रहे स्थूलं पञ्चाशदाकारं सूक्ष्ममष्टाष्टकं स्मृतम् इति | तत्स्वरूपत्वात् तदात्मकत्वात् | गुप्ततराः सूक्ष्मवैखरीवर्णवर्गाष्टक-मयत्वादेता अपि सूक्ष्माः अतोऽत्यन्तरङ्गतया गुप्ततरा इत्यर्थः | ताः सर्वा अनङ्गकुसुमाद्याः अनङ्गकुसुमां पूर्वे (१/१६३) इत्यादिचतुःशती-शास्त्रोक्ताः सर्वसंक्षोभणाह्वये तृतीये चक्रेऽष्टदलकमले, पूज्या इति योज्यम् || ३/१३१- १३२ || तासां ध्यानमाह - रक्तकञ्चुकशोभिताः || ३/१३२ || वेणीकृतलसत्केशाश्चापबाणधराः शुभाः | स्पष्टम् || ३/१३२- १३३ || तत्तदाकारबुद्ध्यात्मभोग्यभोक्तुर्महीशितुः || ३/१३३ || पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता | चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी || ३/१३४ || महिमासिद्धिरूपा च पूज्या सर्वोपचारकैः | इन्द्रियद्वारा बहिर्निर्गत्य तत्तदाकारा तत्तदिन्द्रियार्ह्ता-काराकारिता बुद्धिरन्तः करणपरिणतिः, तदात्मानो भोग्याः शब्दस्पर्श-रूपरसगन्धाः, तेषां भोक्ता प्रमाता, स एव महीशिता भूपतिः, क्षेत्रज्ञ इति यावत्, तस्य | पिण्डादीनां पिण्डपदरूपरूपातीतानां स्थानानां विश्रान्तिः रूपातीते तुरीयपदे मुक्तिः | अत्र प्रामाणिकवचनम् - पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ताः षडानन | रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः || (ज्ञा. का. १/४-५) इति | सैव सौन्दर्यम् अनित्याशुचिसंसारलक्षणपरमदौर्भाग्य- विदारणनित्यशुद्धपरमप्रेमास्पदसर्वस्पृहणीयपरमशिवस्वरूप-प्रकाशनमेव सौन्दर्यम्, तदेव गुणः, तेन संयुता | तदेकरसतया चक्रेश्वरी सर्वसंक्षोभणाख्यतृतीयचक्रेश्वरी | कोऽर्थः ? चिन्मयशब्दादिविषयप्रमातुः क्षेत्रज्ञस्य पिण्डपदरूपातीतविश्रान्ति-रूपलक्षणा तत्त्रितयपुरातनी तदैकरस्यसौन्दर्यशालिनी त्रिपुरसुन्दरी तृतीयचक्रेश्वरीत्यर्थः | बुद्धिशुद्धिरूपा बुद्धिशुद्धिर्नाम विषय-संसर्गं विहाय निर्विकल्पचिदात्मलयः, तद्रूपा | अत एव महिमासिद्धिरूपा | बुद्धेरविषयोपरागात् चिदात्मनो महिमा महिमत्वं सिद्ध्यति | तत्सिद्धि-रूपा चक्रेश्वरी सर्वोपचारकैः पूर्वोक्तैर्गन्धादिभिः पूज्या || ३/१३३ - १३५ || चतुर्थचक्रे सवासनां पूजामाह - द्वादशग्रन्थिभेदेन समुल्लसितसंविदः || ३/१३५ || विसर्गान्तदशावेशाच्छाक्तानुभवपूर्वकम् | ग्रन्थिः षट्चक्राणां प्रत्येकमूर्ध्वाधो ग्रन्थिद्वयमिति द्वादश ग्रन्थयः | अत्रैव वक्ष्यति - द्वादशग्रन्थिभेदेन वर्णान् नाड्यन्तरे प्रिये (३/१८४) इति | यदोल्लसति शृङ्गाटपीठात् कुटिलरूपिणी (४/१२) इति चतुःशतीशास्त्रोक्तरीत्या समुल्लसिताया उद्गच्छन्त्याः संविदः कुण्डलिन्या द्वादशग्रन्थिभेदेन विसर्गान्तदशावेशात् | विसर्गः षोडशः स्वरः | तेन विसर्गशब्देन षोडशसंख्या गृह्यते | अतो विसर्गान्तं षोडशान्तम् यत् षोडशकलाकारं भूतान्तं व्योमगं च यत् | षोडशान्तमिति ख्यातं व्योमस्थानेन्दुमण्डलम् || इति स्वच्छन्दसंग्रहोक्तरीत्या, तदेव दशावेशश्चिद्दिपाकारत्वात् तदावेशः, तत्रासक्तिः | तदुक्तमत्रैव - व्योमेन्दुमण्डलासक्ता सुधास्रोतः स्वरूपिणी (२/७१) इति | शाक्तानुभवपूर्वकम् | मूलोत्थितायाः कुण्डलिन्याः षट्चक्रग्रन्थिसंचयभेदक्रमेण व्योमेन्दुमण्डलासक्ति-परिकलनमेव शाक्तानुभवः, तत्पूर्वकम् | भाविवर्णोत्पत्तिरिति क्रियाविशेषणम् || ३/१३५ - १३६ || त्रैलोक्यमोहनादिचक्रत्रये वैखरीमयतावासनामुक्त्वा सर्व- सौभाग्यदायकादिचक्रत्रये बूतलिपिमध्यमामयवासनामाह - उन्मेषशक्तिप्रसरैरिच्छाशक्तिप्रधानकैः || ३/१३६ || तथैवाकुलसंघट्टरूपैर्वर्णचतुष्टयैः | वेद्योष्मरूपसाद्यर्णैर्मिश्रेच्छाभावितैरपि || ३/१३७ || कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः | अकुलसंघट्टरूपैः | अकुलं ब्रह्मरन्ध्राधोमुखसित-सहस्रदलकमलम्, तत्रस्थोऽकारः अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः इति संकेतपद्धत्युक्तोऽकारः परमशिवात्मकोऽकुलशब्देन लक्ष्यते | तेन संघट्टः संबन्धः, तद्रूपैः | इच्छाशक्तिप्रधानकैः | इच्छाशक्तिरिकारः | उन्मेषशक्तिप्रसरैः | उन्मेषशक्तिरुकारः | तदुक्तं परापञ्चाशिकायाम् - अनुत्तरेच्छे उन्मेष आनन्देशनमूनता | क्रियेच्छाज्ञानशक्तीनां सत्ता चोच्छूनता च षट् || (श्लो. ३२) इति | कोऽर्थः ? मूलोत्थिताया इच्छाशक्तेः कुलकुण्डलिन्या अकुलस्थेन अकारेण संघट्टे सत्येकारो जायते | तस्यैवोन्मेषशक्तिसंघट्टे सत्योकारो जायते | तयोरेवाऽकुलसंघट्टे सयैकारौकारौ जायेते इत्यर्थः | तदुक्तं परापञ्चाशिकायाम् - अनुत्तरानन्दशक्ती इच्छाशक्तौ नियोजिते | त्रिकोणमय षट्कोणमिच्छायां रूढिमागते | (श्लो. २४) इति, ते एवोन्मेषयोगेन क्रियाशक्तिस्फुटं वपुः | उक्तं शक्तित्रिसंघट्टत्रिशूलं द्वैतघस्मरम् || (श्लो. ३५ -३६) इति च | मिश्रेच्छाभावितैरपि इच्छेशनान्तरारूढाः स्फुटास्फुटजगन्मयाः | चत्वारः परतो वर्णाः षण्ढात्मानः प्रचोदिताः || (श्लो. ३३) इति परापञ्चाशिकोक्तरीत्याऽकुलेशनाभ्यां मिश्रेण भाविताः षण्ढात्मानः स्थूलवर्णाः, तैरपि | तत्र ह्रस्वद्वयमेव ग्राह्यम् | अत एवाऽकुल एको वर्णः, इच्छात्मको द्वितीयः, उन्मेषोऽपरः, परं षण्ढं ह्रस्वद्वयं च, एकार-ऐकार ओकार-औकाराश्चिति नव स्वरा भवन्ति | वेद्योष्मरूपसाद्यर्णैः सत्तावाचिनि बीजे तु सादिमायान्तिमं जगत् | विलुप्तप्रत्ययाकारमेवैतत् परिशिष्यते || (श्लो. ४४) इति परापञ्चाशिकोक्तरीत्या वेद्यस्य षट्त्रिंशत्तत्त्वात्मनः संकल्प-रूपा उष्माणः, शषसहा ऊष्माणः इति तन्त्रान्तरवचनात् | एवम्भूतः स आदिर्यस्य हकारस्य स एव वेद्योष्मरूपसादिर्हकारः, तदाद्यवर्णैः | अत्रैक आदिशब्दोऽध्याहार्यः | कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः कुलशक्तिः कुण्डलिनी, तस्याः समावेश उदयविश्रान्तिस्थानद्वयम् आधार-ब्रह्मरन्ध्रमयम्, तद्रूपं वर्णद्वयं लकारवकारात्मकम् | आधारपङ्कजं पीतं चतुष्पत्रं सुकेसरम् इत्यादिना पार्थिवं पङ्कजं ह्येतत् इत्यन्तेन स्वच्छन्दसंग्रहोक्तरीत्याऽऽधारपङ्कजस्य पार्थिवात्मकतया लकारः | ब्रह्मरन्ध्रे यवादूर्ध्वं कुलपद्मं महेश्वरि | श्वेतं सुकेसरोपेतं सहस्रारमधोमुखम् || इत्यादिना व्यापिनी केवला शक्तिरमृतौघप्रवर्षिणी | इत्यन्तेन स्वच्छन्दसंग्रहोक्तरीत्याऽमृतमयो वकारः | एतद्वर्ण-द्वयान्वितैः | कोऽर्थः ? कुलशक्तेरिच्छात्मिकायाः कुण्डलिन्या उन्मेषात् षट्चक्रपञ्चगगनद्वादशग्रन्थिभेदक्रमेणाकुलसमावेशाद् अ इ उ ऋ ऌ ए ऐ ओ औ ह य र व ल इति वर्णचतुर्दशकमुत्पद्यते | तदुक्तमागमान्तरे भूतलिप्युद्धारप्रसङ्गे- पञ्च हृस्वाः सन्धिवर्णा व्योमेराग्नि-जलं धरा (शा. ति, ७/२) | इति तन्मयं चतुर्दशारचक्रमित्यर्थः || ३/१३६ -१३८ || सम्प्रदायक्रमायातसौभाग्यदायकशब्दयोर्वासनामाह - शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि || ३/१३८ || सम्प्रदायक्रमायाताश्चक्रे सौभाग्यदायके | शक्तेरिच्छाशक्तेः कुण्डलिन्याः, सारः प्रसारः, पूर्वोक्तरीत्याऽकुल- स्थानस्थाऽनुत्तरशिवसंसर्गः, तन्मयत्वेन तदुत्पन्नत्वात्, एतेषां वर्णानां तैर्वर्णैः प्रसृतत्वात् सर्वसंक्षोभिण्यादिशक्तीनां सम्प्रदायक्रमायातत्वम्, सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः (२/३६) इति पूर्वोक्तरीत्या गुरुमुखादधिगत्वाद् वर्णोत्पत्तेः | आसां च तन्मयत्वम् | अत एव ताः सम्प्रदायक्रमायाता इत्यर्थः || ३/१३८- १३९ || निरन्तरप्रथारूपसौभाग्यबलयोगतः || ३/१३९ || अन्वर्थसंज्ञके देवि अणिमासदृशाः शुभाः | सर्वसंक्षोभिणीपूर्वा देहाक्षादिविशुद्धिदा || ३/१४० || ईशित्वसिद्धिरपि च प्रोक्तरूपे पुरत्रये | योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनी || ३/१४१ || एताः सम्पूजयेद् देवि सर्वाः सर्वोपचारकैः | अणिमासदृशाः तास्तु रक्ततरा वर्णैः (३/११५) इत्यादिपूर्वोक्ता अणिमासिद्धिसदृशरूपाः | सर्वसंक्षोभिणीपूर्वाः सर्वसंक्षोभिणी शक्तिः (१/१६५) इत्यादिचतुःशतीशास्त्रोक्ताः | निरन्तरप्रथा शिवाद्वैत-भावना, सैव सौभाग्यम्, परमसुभगपरमप्रेमास्पदपरशिवाभेद-गोचरत्वात्, तदेव बलं शक्तिः, तद्योगतः अनित्याशुचिरूपपरमदुर्भगसर्व- जुगुप्साभेदलक्षणसंसारपरिपन्थिपरमप्रेमास्पदसर्वस्पृहणीयपरम- सुभगपरमशिवाहन्तालक्षणसौभाग्यप्रतिपादकशक्तिसंयोगात् | अन्वर्थ- संज्ञकेऽनुकूलार्थाक्षरशालिनि संज्ञावति सौभाग्यदायके चक्रे, सम्पूजयेदित्यनुषङ्गः | देहः षट्त्रिंशत्तत्त्वसमुदायलक्षणः | तच्छब्देन तदहन्ताभि-मानी प्रमाता लक्ष्यते | अक्षाणि इन्द्रियाणि प्रमाणानि | आदिशब्दाद् विषयाः प्रमेयरूपा गृह्यन्ते | तेषां विशुद्धिश्चिदेकविश्रान्तिः, तत्प्रदा | तस्यां विशुद्धौ यष्टुरीश्वरत्वं स्वातन्त्र्यं सिद्ध्यति | सा चात्र प्रोक्तरूपे प्रमातृप्रमाणप्रमेयलक्षणे पुरत्रये चिन्निवासस्थानत्वात् | अत्रैव वक्ष्यति - मातृमानप्रमेयाणां पुराणां परिपोषिणी (३/१५०) इति | योगादिक्लेश-भेदेन | आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां प्राप्यकारित्वनियमात् ततोऽप्यर्थसन्निकृष्टेनेन्द्रियेण इति तन्त्रान्तरोक्तरीत्या मातृमानमेयेषु तत्तद्रूपेण चिन्मरीचीनां प्रसरस्तत्-समवायो योगः, स एवादिक्लेशः | असङ्गाद्वयापरिच्छिन्नसंविदात्मनो मानसेन्द्रियविषयात्मना बहिरूपराग एव हि क्लेशः क्लिष्टत्वम्, तद्भेदेन | प्रत्यङ्मुखतया तदैकरस्येन परप्रमातृविश्रान्तिर्भेदः | तदुक्तं परा-पञ्चाशिकायाम् - सर्वसंविन्नदीभेदभिन्नविश्रान्तिभूमये | नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे || इति | स्तोत्रावल्यामपि - यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते इति | सिद्धा त्रिपुरवासिनी | पूर्वोक्तपुरत्रयविश्रान्तिरूपिणी चतुर्थचक्रेश्वरी | एताः पूज्या आवरणदेवताः सिद्धिचक्रेश्वरीयुताः | सर्वाः सर्वोपचारैर्-गन्धादिभिः पूजयेत् || ३/१३९ - १४२ || पञ्चमचक्रपूजां सवासनामाह - सदातनानां नादानां नवरन्ध्रस्थितात्मनाम् || ३/१४२ || महासामान्यरूपेण व्यावृत्तध्वनिरूपिणी | अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः || ३/१४३ || कुलकौलिकयोगिन्यः सर्वसिद्धिप्रदायिकाः | सदातनानां यावच्छरीरभावितानाम् | नादानाम् अविकृत- शून्यस्पर्शनादध्वनिबिन्दुशक्तिबीजाक्षराख्यानाम् | नवरन्ध्र-स्थितात्मनाम् | नवरन्ध्राणि नवाधाराणि सुषुम्नान्तर्गतगगनभाग-रूपाणि आधारस्वाधिष्ठानमणिपूरानाहततदूर्ध्ववज्रपद्म- कण्ठलम्बिकाविशुद्धाज्ञाख्यानि | तदुक्तं स्वच्छन्दसंग्रहे - आधारं स्वाधिष्ठानं च मणिपूरमनाहतम् | मध्यमं वज्रकण्ठं च लम्बिकां च विशुद्धिकाम् || आज्ञां च नवकं विद्धि षट्चक्राणि त्रिहीनकम् | इति | तेषु स्थितात्मनां तेषाम् | महासामान्यरूपेण | महद् आद्यन्तरहितं निर्विशेषध्वनिलक्षणं सामान्यं समष्टिः, तरूपेण | व्यावृत्तध्वनिरूपिणी | एवं व्यावृत्तो विभक्तो दशधा ध्वनिः, तद्रूपिणी, अविकृतादिनादमयसूक्ष्ममध्यमारूपिणीत्यर्थः | अस्थिरस्थिरवेद्यानाम् | अस्थिरवेद्यानि कर्मेन्द्रियगोचरतया क्रियारूपाणि वचनादानगमनविसर्गा-नन्दाख्यानि, स्थिरवेद्यानि ज्ञानेन्द्रियगोचराः शब्दस्पर्शरूपरस-गन्धाः, तेषामस्थिरस्थिरवेद्यानाम् | च्छायारूपैः प्रतिबिम्बभूतैः | दशार्णकैः टतवर्गद्वयदशार्णैः, आविष्कृता इति शेषः | कुलकौलिक-योगिन्यः | अत एव कुलस्य देहस्यावयवभूतानि दशेन्द्रियाणि कुलशब्दे-नोच्यन्ते, तत्संबन्धात् तद्वाह्यदशविषयाः कौलिका इत्युच्यन्ते, तैर्योगः संबन्धः कार्यकारणभावलक्षणो यासां ताः कुलकौलिकयोगिन्यः | ननु भूतलिप्युद्धारकर्मेण क्रमप्राप्तौ कवर्गचवर्गौ, कथं टतवर्गौ तस्मिन् दशारे व्युत्क्रमेण कथ्येते ? उच्यते - चतुर्दशारदशार-द्वयचक्राणां स्थितिरूपत्वाद् भूतलिपेर्मध्यमावयवत्वान्मध्य-मायाश्च स्थितिरूपत्वात् स्थितिक्रमोऽयं वर्गव्यत्ययः | अत एव च तत्कारणभूतसूक्ष्ममध्यमात्मना नादमयत्वसंज्ञाकथनमस्य चक्रस्य | सर्वसिद्धिप्रदायिकाः | सर्वस्य पूर्वोक्तस्य ज्ञानकर्मेन्द्रियविषय-जातस्य, सिद्धिः प्रतीतिः प्रमातृविश्रान्तिः, तल्लक्षणायाः सिद्धेः प्रदायिकाः || ३/१४२ -१४४ || तासां ध्यानमाह - श्वेताम्बरधराः श्वेताः श्वेताभरणभूषिताः || ३/१४४ || स्पष्टम् || ३/१४४ || सर्वार्थसाधकचक्रव्युत्पत्तिमाह - मन्त्राणां स्वप्रथारूपयोगादन्वर्थसंज्ञके | सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वार्थसाधके || ३/१४५ || सर्वसिद्धिप्रदाद्याः सर्वसिद्धिप्रदा देवी (१/१६१) इत्यादि-चतुःशतीशास्त्रोक्ताः | मन्त्राणां पूर्वोक्त (२/१) निर्वचनानां मनन-त्राणवताम्, स्वप्रथारूपयोगात्, स्वस्य शिवात्मनः साधकस्य, प्रथा शिवाहम्भावभावना, तदेव मननत्राणनम्, तद्योगात् | अन्वर्थसंज्ञके सर्वार्थसाधकपदानुकूलार्थवत्संज्ञाशालिनि शिवाहम्भावभावना-लक्षणमननात् सर्वेषां स्वसाधकानामर्थं परमप्रयोजनं मोक्षं साधयतीति विशेषात् सर्वार्थसाधकचक्रे, संस्थिता इति शेषः || ३/१४५ || स्वनामपदार्थव्युत्पत्तिपुरःसरमेतच्चक्रेश्वरीमाह - लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका | त्रिपुराश्रीर्महेशानि मन्त्रशुद्धिभवा पुनः || ३/१४६ || वशित्वसिद्धिराख्याता एताः सर्वाः समर्चयेत् | लोकयतीति लोकः, लोकनं लोकः, लोक्यत इति लोक इति व्युत्पत्त्या लोकत्रयस्य मातृमानमेयलक्षणस्य समृद्धीनां परिपूर्णप्रमातृविश्रान्तिलक्षणा-नां हेतुत्वात् त्रिपुराश्रीः पञ्चमचक्रेश्वरी पूज्येत्यर्थः | मन्ताणां शुद्धिर्नाम अकुले विषुसंज्ञे च (१/२५) इत्यादिपूर्वोक्तरीत्या उन्मन्यन्तकाललयलक्षणोच्चारणेन चिन्मयताभावना | तादृशमन्त्र-शुद्ध्या स्वसाधकस्य वशित्वं सकलजगत्सर्जने रक्षणे संहारे च स्वातन्त्र्यं सिद्ध्यतीति तादृशी परशिवताप्राप्तिः | सा चास्मिन् चक्रे वशित्व-सिद्धिरिति | एताः सर्वा आवरणदेवताश्चक्रेश्वरीसिद्धिसंयुताः समर्चयेत् || ३/१४६ -१४७ || षष्ठचक्रपूजां सवासनामाह - ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः || ३/१४७ || कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयाः | निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके || ३/१४८ || सर्वावेशकरे चक्रे सर्वरक्षाकरे पराः | सर्वज्ञाद्याः स्थिताः ऊर्ध्वाधोमुखया यदोल्लसति (४/१२) इत्यादिचतुःशतीशास्त्रोक्त- रीत्याऽकुलस्थपरपुरुषप्राप्तये ऊर्ध्वमुखया, पुनरधोमुखया विश्व-सृष्टये मूलाधारं प्रविशन्त्या कुण्डलिन्या, प्रकाशिता अभिव्यज्ञ्जिताः, कारणे सत्त्वात् | कुलेच्छया कुलमुक्तलक्षणं मातृमानमेयरूपम्, तत्रे-च्छया तन्निर्माणेच्छया | बहिर्भावात् कादिवर्णप्रथामयाः | षट्त्रिंशत्- तत्त्वसंकलनरूपतत्त्वत्रयमयमातृमानमेयलक्षणकुलनिर्माणेच्छया अकुलस्थपरशिवाद् बहिः प्रसृतया समस्ततत्त्ववर्णगर्भिण्या कुण्डलिन्या ककारादिदशवर्णप्रथारूपा निर्मितेत्यर्थः | निगर्भयोगिनीवाच्या निगर्भ-योगिन्य इति वचनाः, निगर्भोऽपि महादेवि शिवगुर्वात्मगोचरः (२/४८) इति पूर्वोक्तरीत्याऽद्वैत प्रथालक्षणपरप्रमातुर्योगो यासां ता योगिन्यो विषयेन्द्रियसंसर्गलक्षणदशेन्द्रियवृत्तयश्चिन्मरीचयो निगर्भयोगिन्यः | स्वरूपावेशरूपके स्वरूपस्य साधकस्यात्मनः प्रमातुरावेशः पर-शिवोऽहमिति मतिः | आवेशो हि लोके ब्रह्मराक्षसोऽहमितिवत् पराहन्ताप्रथा, तद्रूपके तन्निरूपके | अत एव सर्वावेशकरे | यत्र यत्र मनो याति (श्लो. ११३), यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते प्रभोः (श्लो. ११४) इति विज्ञानभैरवभट्टारकोक्तरीत्या सर्वत्र तदावेशतदभेदेन स्फुरणं करोतीति सर्वावेशकरे चक्रे षष्ठे चक्रे सर्वरक्षाकरे | काकेभ्यो दधि रक्षतामितिवत् प्रतुकूलपदार्थादुपहतिपरिहारो रक्षा नाम | सर्वस्माद् भेदप्रपञ्चलक्षणात् परिपन्थिनो रक्षा परशिवाभेदप्रतीतिरूपा, तत्करे पराः परशिवाद्वैतप्रतिपादनपरत्वादुत्कृष्टाः | सर्वज्ञाद्या सर्वज्ञा सर्वशक्तिश्च (१/१७३) इत्यादिचतुःशतीशास्त्रोक्ताः स्थिताः || ३/१४७-१४९ || तासां ध्यानमाह - एताः सह पुस्ताक्षमालिकाः || ३/१४९ || पुस्तं पुस्तकम् | शिष्टं स्पष्टम् || ३/१४९ || नामव्युत्पत्तिपुरःसरं चक्रेशीमाह - मातृमानप्रमेयाणां पुराणां परिपोषिणी | त्रिपुरामालिनी ख्याता चक्रेशी सर्वमोहिनी || ३/१५० || परसंवित्स्पन्दरूपत्वान्मातृमानमेयान्येव पुराणि, तेषां पुराणां परिपोषिणी प्रधानेनोपबृंहिणी | अत एव त्रिपुरामालिनी ख्याता निरुक्ता | चक्रेशी षठचक्रेशी सर्वमोहिनी | एतत्कृतमोहवशादेव हि मातृ-मानप्रमेयरूपा प्रथा | तदुक्तं परापञ्चाशिकायाम् -स्वाङ्गरूपेषु भावेषु मायातत्त्वं विभेदधीः (श्लो. २१) इति || ३/१५० || विद्याशक्तिविशुद्धिं च सिद्धिं प्राकाम्यसंज्ञिताम् | एताः सर्वोपचारेण पूजयेद् देवताः क्रमात् || ३/१५१ || मन्त्राः पुरुपवाच्याधिष्ठिताः, विद्याः स्त्रीरूपवाच्याधिष्ठिताः | अत एव विद्याशक्तेः सौभाग्यविद्यावर्णवाच्यायाः षट्त्रिंशत्तत्त्व-मयया विशुद्धिस्तदतोतपरचिल्लक्षणा, तद्रूपाम् | प्राकाम्यसंज्ञितां सिद्धिं कामनानुरूपलक्षणाम् तदुक्तं महाकविभिः - द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः | व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु || इति | (कु. स. २/११) एता देवताः, क्रमात् प्रथमम् आवरणदेवताः, पश्चाच्चक्रेशीम्, ततः सिद्धिमिति क्रमात् | सर्वोपचारेण | जाता वेकवचनम् | सर्वोपचारैः पूजयेद्-इत्यर्थः || ३/१५१ || सप्तमचक्रे पूजां सवासनामाह - निरुद्धवायुसंघट्टस्फुटितग्रन्थिमूलतः | हृदयान्तरसंवित्तिशून्यपुर्यष्टकात्मना || ३/१५२ || बीजरूपस्वरकलास्पृष्टवर्गानुसारतः | रहस्ययोगिनीर्देवीः संसारदलनोज्ज्वले || ३/१५३ || सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते | वैशिन्याद्याः निरुद्धयोः परिहृतस्वैराचारयोः, वायवोः प्राणापानयोः, संघट्टात् गुदमाकुञ्च्य बहुशं प्राणापानौ निरुद्ध्य च | संयोज्य ते इत्यभियुक्तवचनोक्तरीत्या संयोगात्, स्फुटितो ग्रन्थिः सुषुम्नान्- तरगतमूलाधारकमलपर्यन्तं वसन्, तादृशं मूलं मूलाधारम् | ततो हृदयान्तरसंवित्तिशून्यपुर्यष्टकात्मना | ध्यायन् भुजगाकृतिं हुङ्कारविह्वलज्योतिः पवनक्षेपमनोभिर्गमयेदूर्ध्वम् इत्यभियुक्त-वचनोक्तरीत्या मूलादुत्थितायां कुण्डलिनीरूपायाः ततो हृदय-पद्मान्तः स्फुरन्तीं सांविदीं कलाम् (सु. ३४) इत्यभियुक्तवचनोक्तरीत्या हृदयान्तरे स्फुरन्त्याः संवित्तेश्चिदात्मनः, चितिश्चित्तं च चैतन्यं चेतना द्वयकर्म च | जीवः कला शरीरं च सूक्ष्मं पुर्यष्टकं मतम् || इति स्वच्छन्दसंग्रहोक्तरीत्या सूक्ष्मपुर्यष्टकानां सूक्ष्मतया दुर्लक्ष्यत्वाच्छून्य[त्व]मिति | हृत्पुण्डरीकं पुरमध्य-संस्थम् (म. ना. ८/१६) इति श्रुत्युक्तरीत्या पुरं शरीरं चिदष्टकरूपं शून्यशरीरं शून्यपुर्यष्टकम्, तदात्मना तद्रूपेण, संस्थिता इत्यनुषङ्गः | द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता (श्लो. ४०) इति परापञ्चाशिकोक्तरीत्या बीजरूपाः स्वरा अकारादिविसर्गान्ताः कलाः षोडश, ताभिः स्पृष्टा अवर्गेण युता वर्गाः कचटतपयशाः, तेषाम् अनुसारतः अवर्गः प्रथमो देवि वशिनी तत्र संस्थिता (१/७७- ८०) इत्यादि-चतुःशतीशास्त्रोक्ताः, उद्धरेत् प्रथमं रेफम् (१/८१-८६) इत्यादिचतुःशती- शास्त्रोद्धृतस्वस्वबीजानुसारतः क्रमात् स्वस्ववर्गान्ते स्वस्वबीजमुच्चार्य पूजयेदित्यर्थः | ननु चतुर्गशकोणादिषु पूर्वचक्रेषु देवतानां भूतलिपिमातृकावर्णस्वरनवकहादिपञ्चकटतकचवर्गमयत्वमुक्तम्, अष्टकोणादिदेवतानां किमिति शिष्टपवर्गशषसमयत्वं नोक्तमिति चेत्, सत्यम्, अष्टकोणदेवताबीजमनुक्तमप्यवगन्तव्यम् | बीजरूपस्वरकला-स्पृष्टवर्गानुसारत इति तु वशिन्यादिदेवतापूजामन्त्रकथनम् | रहस्य-योगिनीः | सूक्ष्ममन्त्ररहस्यं पुर्यष्टकम्, तेन सह योगः संबन्धः कार्यकारणलक्षणो यासां ता वशिन्याद्या योगिन्यः सूक्ष्मतया दुर्लक्ष्यपुर्यष्टकमयत्वाद् गोपनीयाः | संसारदलनोज्ज्वले | अनित्याशुचि-क्लेशरूपः संसारः, तस्य दलने हरणे, उज्ज्वले परप्रकाशतावन्मात्रे | अत एव सर्वरोगहरे चक्रे, सर्व एवानित्याशुचिक्लेशरूपसंसारो रोगः, तस्य हरणे पटुप्रभावशालिनि सप्तमचक्रे संस्थिता वशिन्याद्याः अवर्गः प्रथमो देवि वशिनी तत्र संस्थिता (१/७७) इति चतुःशतीशास्त्रोक्ताः, पूजयेद्-इत्यनुषङ्गः || ३/१५३ - १५४ || तासां ध्यानमाह - रक्तवर्णा वरदाभयमुद्रिताः || ३/१५४ || पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः | सिद्धः परमशिवः, तेन योगः संबन्धः पुर्यष्टकात्मकतया तस्य जीवत्वापादनलक्षणः, तद्वतीः | शिष्टं स्पष्टम् || ३/१५४ - १५५ || शुद्धविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि || ३/१५५ || ईश्वरीं त्रिपुआसिद्धिं पूजयेद् बिन्दुतर्पणैः | अहन्तेदन्तयोरैक्यमतिर्विद्या निगद्यते (श्लो. २१) इति परापञ्चाशिको-क्तरीत्या शिवाद्वैतप्रथालक्षणायाः शुद्धविद्याया विशुद्धिः ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ( त. धा. ३/४१) इति प्रतिपादितरीत्या ज्ञातृज्ञानज्ञेयविभागशून्यनिर्विकल्पबोधलक्षणपरशिवसमावेशः, तद्रूपिणीम्, अत एव भुक्तिसिद्धिम् विश्वं शिवादिभूम्यन्तं चमत्काररसाश्रयम् | महीयसे महाभोक्त्रे महेशाय निवेदये || (ग. स्तो.) इत्यभियुक्तवचनोक्तरीत्या महाभुक्तिं विश्वविषयिणीं स्वसाधकस्य साधयति, तां चक्रेश्वरीं सप्तमचक्रेश्वरीम्, त्रिपुरसिद्धिं मातृमान-मेयरूपाणां त्रिपुराणाम् उत्तीर्णपरमशिवलयलक्षणां सिद्धिम्, बिन्दु- तर्पणैरनामाङ्गुष्ठयोगशिवशक्तिमेलनमुद्रया द्रव्यबिन्दुतर्पणैः साक्षतकुसुमैः पूजयेदिति || ३/१५५ -१५७ || अष्टमचक्रपूजां सवासनामाह - शक्तित्रयात्मिका देवि चिद्धामप्रसराः शिवाः || ३/१५६ || संवर्ताग्निकलारूपाः परमातिरहस्यकाः | पूर्णापूर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि || ३/१५७ || सर्वसिद्धिमयाख्ये तु चक्रे त्वायुधभूषिते | स्थिताः कामेश्वरीपूर्वाश्चतस्रः पीठदेवताः || ३/१५८ || शक्तित्रयात्मिका इच्छाज्ञानक्रियात्मिकाः | चिद्धामप्रसराः चितः संविदोऽम्बिकाख्याया धाम्नां किरणानां वामाज्येष्ठारौद्र्यात्म-कानाम् ओड्डीशषष्ठीशमित्रेशाख्यानां प्रसराः स्पन्दभूताः, सर्वा-वरणप्रधानभूतत्वात् | संवर्ताग्निकलारूपाः संवर्ताग्निर्विश्व-घस्मरः परमशिवोऽस्वरः, तस्य कला हकारः, तद्रूपास्तदात्मिकाः, शान्ताशक्त्यवयवभूतत्वात् | परमातिरहस्यकाः परमाः सर्वावरण-देवताभ्योऽतिरहस्यका मनोबुद्ध्यहङ्काररूपोपाधित्रयपरिस्फुरत्पर- चिदाधाररूपत्वादत्यन्तगोपनीयाः | पूर्णापूर्णस्वरूपायाः पूर्णा परशिवसमावेशरूपत्वात्, [अ]पूर्णस्वरूपा विश्वविषयत्वात्, तादृशायाः सिद्धेर् उभयात्मिकायाः | सर्वस्य क्षित्यादिशिवान्तस्य परशिवविश्रान्ति-लक्षणायाः सिद्धेर्जीवन्मुक्तेर्हेतुतया, सर्वसिद्धिमयाख्ये निरुक्त (१/८४) सर्वसिद्धिमयनाम्नि, आयुधभूषिते कामेश्वरीकामेश्वरयोरा- युधैः शरचापपाशाङ्कुशैरष्टभिर्मिथुनीकृतैः पश्चिमोत्तरपौरस्त्य-दक्षिणाशाक्रमेण तु (१/१७९) इत्यादिचतुःशतीशास्त्रोक्तरीत्याऽलङ्कृते | तेन आयुधांनां कामेश्वर्यावरणान्तःपातित्वं सिद्धम् चक्रेऽष्टमे स्थिताः कामेश्वरीपूर्वाः कामेश्वरीमग्रकाणे (१/१८२) इति चतुःशती- शास्त्रोक्तरीत्या, चतस्रः पीठदेवताः, पीठानि का पूजा ओ इति क्रमात् (१/४१) इति पूर्वोक्तानि मनोबुद्ध्यहङ्कारचित्तलक्षणानि, तेषु संक्रान्ता देवताः परप्रकाशावयवभूतवामाज्येष्ठारौद्र्यम्बिकामयमित्रेशष् अष्ठीश- ओड्डीशचर्यानाथशिवाङ्कस्थास्तद्विमर्शशक्त्यंशभूतेच्छ अज्ञान- क्रियाशान्तामयकामेश्वरीवज्रेश्वरीभगमालिनीमहात्रिपुरसुन्द् अर्यश्च-तस्र इति नवमचक्रदेवतया सह संकलनात् | अष्टमचक्रे तु तिस्र एव कामे-श्वर्याद्याः सायुधाः || ३/१५६-१५८ || आयुधदेवतानां ध्यानमाह - आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः | वरदाभयहस्ताश्च पूज्या ध्यातृफलप्रदाः || ३/१५९ || त्वदीयाश्च मदीयाश्च पुंस्त्रीवश्यविधायिनः | आयुधा आयुधदेवताः, छान्दसत्वात् पुल्लिङ्गप्रयोगः | स्वायुधोज्-ज्वलमस्तकाः स्वाधिष्ठितायुधपरिकलितमस्तकाः | महापद्मवनान्तस्थां कारणानन्दविग्रहाम् | मदङ्कोपाश्रयां देवीमिच्छाकामफलप्रदाम् || भवतीम् (३/१११-११२) इति पूर्वोक्तरीत्या महापद्मवनान्तस्थानाश्रितेश्वरस्य विश्वगुरोर्-ममाङ्कस्थाया अनाश्रितकलायास्तव संबन्धिनो बाणधनुः-पाशाङ्कुशाः पुंवश्यविधायिनः, तादृशस्य मम संबन्धिनो बाण-धनुःपाशाङ्कुशाः स्त्रीवश्यविधायिन इत्यर्थः | तदुक्तं चतुःशती-शास्त्रे - मादनैर्मदनो भूत्वा पाशाङ्कुशधनुःशरैः | क्षोभयेत् स्वर्गभूलोकपातालतलयोषितः || तथैव शाक्तैर्देवेशि त्रिपुरीकृतविग्रहः | क्षोभयेद् देवगन्धर्वसिद्धविद्याधरानपि || (४/ ६०-६१) स्पष्टमन्यत् || ३/१५९-१६० || चतुःशतीशास्त्रेऽनुद्धृतत्वाच्छक्तिबाणात्मबीजान्युद्धर ति - त्वगसृङ्मांसमेदोऽस्थिमज्जार्णान्ताः सुरेश्वरि || ३/१६० || द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः | श्रीकण्ठादिन्यासपरिपाट्या त्वगादीनां धातूनां यवर्णादयः पञ्च, एते द्वितीयस्वरसंयुक्ता बाणाः | आकारो द्वितीयः स्वरः, सामर्थ्याद् बिन्दुरपि लक्ष्यते | त्वदीयका बाणाः त्वत्संबन्धिबाणबीजानि | तत्र यकारस्-त्वगात्मकः, रेफोऽसृगात्मकः, लकारो मांसात्मकः, वकारो मेदस्वरूपः | अस्थिमज्जार्णान्तशब्दोऽस्थिमज्जयोरुपरि स्थितं शुक्रात्मकं सकारं लक्षयति | चतुःशतीशास्त्रेऽप्यनुक्तानां कामेश्वरबाणबीजानाम् - आदौ पादावरेण्याख्यां संयुजेन्-नलरक्रमे इति स्वच्छन्दसंग्रहोद्धृतत्वादागमान्तरेषु प्रसिद्धत्वान्- नात्रोद्धारः क्रियते || ३/१६० -१६१ || वामादीनां पुराणां तु जननी त्रिपुराम्बिका | परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि | एताः सर्वोपचारेण पूजयेत् तु वरानन्ते || ३/१६२ || वामादीनां वामाज्येष्ठारौद्र्याख्यानां मित्रेशादिरूपाणा- मिच्छाज्ञानक्रियात्मकविमर्शशक्त्यंशकामेश्वर्याद्यधिष्ठ् आनत्वात् पुरशब्दवाच्यत्वम्, तेषां त्रिपुराणां जननी समष्टिरूपत्वादम्बिका-शक्तिरेव त्रिपुराम्बिका, निरुक्ता चक्रेश्वरीति शेषः | स्वेच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपि इत्याज्ञावतारोक्तरीत्या परशिवस्य विश्वसर्जनसंहार- लक्षणस्वातन्त्र्यलक्षणेच्छासिद्धिरेतच्चक्रार्चकस्य सिद्ध्यति, सेयम्-इच्छासिद्धिरस्मिन् चक्रे स्थितेत्यर्थः | एता आयुधदेवताः कामेश्वर्याद्याश्-चक्रेश्वरीसिद्धियुताः सर्वोपचारैर्गन्धादिभिरुपचारैः पूजयेत् || ३/१६१ -१६२ || नवमचक्रपूजां सवासनामाह - सर्वानन्दमये देवि परब्रह्मात्मके परे | चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी || ३/१६३ || स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः समा | महाकामकलारूपा आनन्दो ब्रह्मेति व्यजानात् (तै. उ. ३/६), एतस्यैवानन्दस्यान्यानि भूतानि मातामुपजीवन्ति (बृ. उ. ४/३/३२) इति श्रुत्युक्तरीत्या सर्वानन्द- समष्टिभूतपरमानन्दमयत्वात् परब्रह्मात्मके | अत एव परे विश्वोत्तीर्णे | परमशिवस्पन्दमयत्वाच्चक्रे नवमे संवित्तिरूपा, स्वसंवित् त्रिपुरा देवी लौहित्यं तद्विमर्शनम् इत्यभियुक्तवचनोक्तरीत्या वेदकवेद्ययोरहन्ते-दन्तयोः समा मध्यस्था संवित्तिर्महात्रिपुरसुन्दरी पूर्वोक्त (१/८५) निर्वचना | महाकामकलारूपा प्रकाशविमर्शसामरस्यमहाबिन्दुत्रय- मयहार्धकला महाकामकला, तद्रूपा बिन्दुं संकल्प्य वक्त्रं तु (१/१८५) इत्यादिचतुःशतीशास्त्रोक्तरीत्या | स्वैराचारेण सम्पूज्या, यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् | तत्र तत्र परानन्दस्वरूपं संप्रकाशते || (श्लो. ७३) इति विज्ञानभैरवभट्टारकोक्तरीत्या निजेच्छानुरूपैरिन्द्रियप्रीणनैर्-द्रव्यैः परिस्फुरत्परमानुसन्धानलक्षणेन स्वैराचारेण सम्पूज्या, स्वसंविद्देवता भवनीयेत्यर्थः || ३/१६३-१६४ || प्राप्तिसिद्धिमाह- पीठविद्यादिसिद्धिदा || ३/१६४ || महामुद्रामयी देवीपूज्या का पू जा ओ इति क्रमात् (१/४१) इति पूर्वोक्ताः पीठाश्चत्वारः | विद्याः वाग्भवकामराजशक्तितुरीयबीजात्मिकाः | आदिशब्दाद् देवताः कामेश्वर्याद्याश्चतस्रः | तेषां तुरीयातीतपदपरशिवविश्रान्ति-लयलक्षणां सिद्धिं ददाति प्रापयतीति प्राप्तिसिद्धिः | महामुद्रामयी महामुद्रा सर्वमुद्रासमष्टिभूतत्वाद् योनिमुद्रा, तन्मयी पूज्येत्यर्थः || ३/१६४ - १६५ || पञ्चदशात्मिका | तत्तत्तिथिमयी नित्या नवमी भैरवी परा || ३/१६५ || प्रतिचक्रं समुद्रास्तु चक्रसंकेतकोदिताः | पञ्चदशात्मिका पञ्चदशाक्षर्या विद्याया वाच्यभूता पञ्च-दशभूतगुणात्मिका | तत्तत्तिथिमयी प्रतिपदादिपञ्चदशतिथिरूपा | नित्या निजसुखमयनित्यनिरुपमाकारा | नवमी भैरवी परा | मूलविद्या तथा प्रोक्ता (२/५) इति पूर्वोक्तरीत्या मूलविद्यारूपनवमचक्रेश्वरी विद्या षोडशकलात्मिका मूलदेवी नवमचक्रेश्वरी पूज्येत्यर्थः | प्रतिचक्रं त्रैलोक्यमोहनादिष्वेकैकस्मिन् चक्रे | चक्रसंकेतकोदिताः योनि- प्राचुर्यतः सैषा सर्वसंक्षोभिणी पुनः (१/५९) इत्यादिना चक्रसंकेते चक्रे विहिताः सर्वमुद्राः सर्वसंक्षोभिण्याद्यास्तत्तच्चक्रमुद्रास्तत्तच्-चक्रेषु पूज्या इति योज्यम् || ३/१६५ - १६६ || नित्यक्लिन्नादिकाश्चैव काम्यकर्मानुसारतः || ३/१६६ || चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः | मामेश्वरीभगमालिन्योरावणान्तःपातित्वात्तयार्मध्यत्र् इकोणाग्र-वामकोणयोः स्थितिरुक्ता | शिष्टाः - नित्यक्लिन्ना तथा नित्या भेरुण्डा वह्निवासिनी || महाविद्येश्वरी दूती त्वरिता कुलसुन्दरी | नित्या नीलपताका च विजया सर्वमङ्गला || ज्वालामालिनी चित्रा च (१/२६-२८) इति चतुःशतीशास्त्रोक्तास्त्रयोदशनित्यास्त्रिकोणे वा, श्रीचक्रमध्यत्रिकोणे वा, चतुरस्रान्तराले वा षोडशदलचतुरस्रान्तराले वा काम्यकर्मानुसारतः वश्यादिकाम्यकर्मानुरूपवर्णध्यानपुष्पादिभिः | सुधीः तत्तत्काम्य-कर्मविधानविषयज्ञो यजेत् || ३/१६६ - १६७ || चक्रपूजामुपसंहरन् कुलदीपनिवेदनमाह - अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः || ३/१६७ || चक्रपूजां विधायेत्थं कुलदीपं निवेदयेत् | अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये || ३/१६८ || अलिना हेतुना | पिशितगन्धधूपशब्दाः स्पष्टार्थाः | देवताः त्रैलोक्यमोहनादिबैन्दवान्तनवचक्रगताः, अलिपिशितगन्धधूपैराराध्य, इत्थ पूर्वोक्तरीत्या चक्रपूजां विधाय कुलदीपम्, कुलं षट्त्रिंशत्तत्त्व-समुदायरूपं शरीरम्, तत्र भवं दीपम्, ततो हृदयपद्मान्तः स्फुरन्तीं सांविदीं कलाम् (सु. ३४) इत्यभियुक्तवचनोक्तरीत्या हृदयान्तर्- भासमानं संवित्कलारूपं दीपम्, इन्द्रियद्वारा बहिरर्थेषु तद्रूपेण भासमानम्, अत एव स्वप्रकाशोज्ज्वलं तत्र प्रमाणनिरपेक्षप्रतीतिकं निर्वाणरहितं च कुलदीपं निवेदयेत् | पुनः प्रत्यङ्मुखतया तेनैव द्वारेणान्तः संविद्विश्रान्तिस्तन्निवेदनं नाम || ३/१६७ - १६८ || पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः | संयम्येन्द्रियसंचारं प्रोच्चरेन्नादमान्तरम् | एष एव जपः प्रोक्तो न तु बाह्यजपो जपः || इति प्रामाणिकवचनोक्तरीत्या समाहितः नियतेन्द्रियः, नादरूपमन्त्रो-च्चारणलक्षणं जपं कुर्यात् | शिष्टं स्पष्टम् || ३/१६९ || जपप्रकारमाह - कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च || ३/१६९ || चक्राणां पूर्वपूर्वेषां नादरूपेण योजनम् | कूटत्रये कूटानां वाग्भवकामराजशक्तिबीजाख्यानां त्रये | कुण्डलीत्रितयेऽपि च | कुण्डलीनां त्रितयं कुण्डलीत्रयम्, आधारं हृदयं बिन्दुस्थानं च परिकीर्तितम् इति स्वच्छन्दसंग्रहोक्तेषु आधार- हृदयभ्रूमध्येषु स्थितानां बीजत्रयशिखरवर्तिकामकलान्तर्गत-सपरार्धकलारूपाणां वह्निसूर्यसोमकुण्डलिनीनां त्रये | चक्राणां पूर्वपूर्वेषाम् | अकुले विषुसंज्ञे च (१/२५) इत्यत्रोक्ताऽकुलादिबिन्द्वन्त-स्थानेषु नवसु भावितानां त्रैलोक्यमोहनादिनवचक्राणामेकैकस्मिन् बीजे कुण्डलिन्यां च त्रिशस्त्रिशो विभज्य योजितानां नादरूपेण योजनम् | त्रैलोक्य- मोहनादिनवचक्रस्थादित्रयस्याधारस्थवह्निमण्डलस्थितवाग्भ् अवशिखर- वर्तिकामकलान्तर्गतहार्धकलारूपवह्निकुण्डलिन्युत्थानोदितहृद् गतकाम-राजबीजपर्यन्तव्यापिनादमयताभावनं वाग्भवबीजजपः | सर्व-सौभाग्यदायकादिचक्रत्रयस्य हृदयस्थसूर्यमण्डलस्थितकामराज- शिखरवर्तिकामकलान्तर्गतहार्धकलारूपसूर्यकुण्डलिन्युत्थान् ओदितबिन्दु-स्थानगतशक्तिबीजपर्यन्तव्यापिनादमयताभावनं कामराजबीजजपः | सर्वरोगहरादिचक्रत्रयस्य बिन्दुस्थानेन्दुमण्डलान्तर्गतशक्तिबीजशिखर- वर्तिकामकलान्तर्गतहार्धकलारूपसोमकुण्डलिन्युत्थानोदितब्रह् मरन्ध्रो-परिस्थितशिवतत्त्वातीतसमनासोमपर्यन्तव्यापिना नादेन सहोन्मन्यां लयभावनं शक्तिबीजजप इत्यर्थः | तदुक्तमभियुक्तैः - पिण्डो वाचकविस्तरस्य महतः संस्कारशेषा स्थितिर्- नादोऽसौ तव देवि मूर्ध्नि समनासीमानमुल्लङ्घयन् | घण्टाक्वाण इव क्रमेण विरमन्नन्यामणीयस्तनी- माजिघ्रन् परचिद्दशामनुभवन् मूर्ति पुराणीमुमे || इति || ३/१६९ - १७० || ननु दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते (१/२८) इत्यादि त्रिष्वपि बीजेषु उन्मनीपर्यन्तमुच्चारः किमिति नोक्तः ? प्राणादीनाम्-उन्मन्यतानां द्वादशांशानां सर्वत्र साधारण्येन वक्तुं शक्त्यत्वादित्यत आह - तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रकाः || ३/१७० || रोधिनीनादनादान्ताः शक्तिर्व्यापिकयान्विता | समना चोन्मना चेति द्वादशान्ते स्थिता प्रिये || ३/१७१ || मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः | सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि || ३/१७२ || केवलं नादरूपेण उत्तरोत्तरयोजनम् | शबलाकारके देवि तृतीये द्वादशी कला || ३/१७३ || तेषु त्रिष्वपि बीजेषु | प्राणो हकारः, अग्नी रेफः, मायार्ण ईकारः, स एव कला | तदुक्तं कामकलाविलासे - बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः | कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू || (श्लो. ७) इति | बिन्द्वादय उन्मन्यन्ताः पूर्वोक्त (१/२८-३४) लक्षणाः | एते प्राणादय उन्मन्यन्ता द्वादशान्ते स्थिताः | मूलकुण्डलिनीरूपे वाग्भवबीजे, या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् | शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः || (श्लो. २) इति लघुस्तोत्रोक्तरीत्या विश्वस्य सृष्ट्युन्मुखे, मध्यमे कामराजबीजे विश्वस्य स्थितिरूपे, संहारसृष्ट्योर्मध्यस्थितत्वात् | केवलं नादरूपेण नादाद्युन्-मन्यन्तावयवोच्चारवर्जं नादमात्ररूपेण | उत्तरोत्तरयोजनम्, उच्चार-क्रियाविशेषणम् | वाग्भवबीजशिखरवर्तिनं नादं हृद्गतकामराजबीज- पर्यन्तमुच्चरेत्, कामराजबीजशिखरवर्तिनं नाद बिन्दुस्थानगतशक्तिबीज-पर्यन्तमुच्चरेदित्यर्थः | शबलाकारके एतद्बीजद्वयनादद्वययोगान्मिश्र-रूपे तृतीये शक्तिबीजे द्वादशी कला उन्मना स्थितेत्यनुषङ्गः | तेन प्राणा-दयो द्वादशकला अपि तृतीयबीजशिखरे स्थिता उच्चार्या इति लभ्यते | कोऽर्थः ? यद्यपि वाग्भवकामराजशक्तिबीजत्रयाणामप्यन्ते प्राणाग्निमायाबिन्द्व- र्धचन्द्ररोधिनीनादनादान्तशक्तिव्यापिकासमनोन्मनाख्या द्वादशकला वक्तुं शक्यन्ते, तथापि वाग्भवकामराजबीजयोः सृष्टिस्थितिरुपत्वान्न विश्वातीतोन्मनापर्यन्तमुच्चारः | अतो न विरोध इत्यर्थः || ३/१७० -१७३ || जपकाले भाव्यानाह - शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः | विषुवं सप्तरूपं च भावयन् मनसा जपेत् || ३/१७४ || जपकाले एतानि विद्यावयवेषु भाव्यानि | शिखिपक्षचित्ररूपैर्मण्डलैः शून्यपञ्चकम् | ध्यायतोऽनुत्तरे शून्ये परं व्योमतनुर्भवेत् || (श्लो. ३२) इति विज्ञानभैरवभट्टारकोक्तरीत्या शून्यषट्कस्य रूपं ज्ञेयम् | अवस्थापञ्चकं जाग्रत्स्वप्नसुषुप्तितुर्यतुर्यातीतात्मकम् | एषां जाग्रद्-आदीनां स्वरूपं वक्ष्यति (३/१७६-१८१), विषुवं सप्तरूपं च वक्ष्यति (३/१८१-१८७) || ३/१७४ || शून्यादीनां स्थानानि स्वरूपाणि च क्रमेणाह - अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने | शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये || ३/१७५ || शून्यत्रयात् परे स्थाने महाशून्यं विभावयेत् | एकश्च एकश्च द्वयोर्द्वयोरन्तरत इत्यर्थः | अग्न्यादि अग्निः रेफः, तदादीन् त्रीन् त्रीन् षट् त्यक्त्वा, शून्यत्रयं षट् शून्यानि, विजानीयात् | कोऽर्थः ? हकारमायाक्षरयोर्मध्ये रेफम्, मायार्धचन्द्रयोर्मध्ये बिन्दुम्, अर्धचन्द्रनादयोर्मध्ये रोधिनीम्, नादशक्त्योर्मध्ये नादान्तम्, शक्तिसमनयोर्मध्ये व्यापिकाम्, समनोर्ध्वे चोन्मनामिति षट् त्यक्त्वा | तत्र रेफबिन्दुरोधिनीनादान्तव्यापिकास्थानेषु पञ्चसु शिखिपक्षचित्ररूपैः (श्लो. ३२) इत्यादिपूर्वोक्तरीत्या बर्हिबर्हगतचन्द्रकसदृशरूपाणि पञ्च शून्यानि भावनीयानीत्यर्थः | षष्ठोन्मनास्थाने तु पञ्चव्योमतनुर्- भवेत् (श्लो. ३२) इति विज्ञानभैरवभट्टारकोक्तरीत्यैव व्योमतनु शून्यं ज्ञेयमित्यन्यश्च विशेषः | शून्यत्रयात् परे स्थाने महाशून्यं निरा-कारं विभावयेदित्यर्थः || ३/१७५ - १७६ || इदानीमवस्थापञ्चकभावनां क्रमेण विवक्षन्नादौ जागरितावस्थाभावनामाह - प्रबोधकरणस्याऽथ जागरत्वेन भावनम् || ३/१७६ || वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः | इन्द्रियद्वयैः ज्ञानकर्मेन्द्रियद्वयैः दशेन्द्रियैः, प्रमातुर्-व्यवहारो जागरणं प्रबोधो जागर इत्युच्यते | तत्करणस्य प्रकाशस्य जागरत्वेन भावनम् | अन्तःप्रकाशके वह्नौ तार्तीयबीजशिखरवर्तिनि रेफे महाजाग्रदवस्था सार्वकालिकनिद्राक्षयलक्षणा परप्रबोधदशा भावनीयेत्यर्थः || ३/१७६ -१७७ || स्वप्नभावनामाह - आन्तरैः करणैरेव स्वप्नो मायावबोधनः || ३/१७७ || गलदेशे बाह्येन्द्रियरहितैरान्तरैः करणैर्मनोबुद्ध्यहङ्कारचित्ताख्यैरेव व्यवहारः प्रमातुः स्वप्नः | स मायया तार्तीयबीजस्थेन चतुर्थस्वरेण, अवगतबोधनः, तद्वाच्य इत्यर्थः | गलदेशे स्वप्नस्य स्थानम् || ३/१७७ - १७८ || सुषुप्तिभावनामाह - सुषुप्तिस्तु लीनपूर्वस्य वेदनम् | अन्तःकरणवृत्तीनां लयतो विषयस्य तु || ३/१७८ || पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता | स्वप्ने विद्यमानानामन्तःकरणवृत्तीनां लयतः सर्वेन्द्रियोपरतिः सुषुप्तिरिति हि लक्षणम् | अतो लीनपूर्वस्य देहाक्षादिषु क्रोडीकृतस्य लीनस्थित-स्यैव स्वात्मनो वेदनं प्रकाशनं भवति | सुखमहमस्वाप्सम् इति हि पश्चात् सुखमयं स्वात्मरूपं परामृश्यते | सेयं सुषुप्तिः | विषयस्य तु | विषयं तार्तीयं बीजम्, विश्वव्याप्तिस्थानत्वात् | तस्य पूर्वार्णानां बिन्दुपूर्वस्थितानां वर्णानाम्, विलोमेन - मायाबीजं महेशानि मादनं शक्रसंयुतम् | चन्द्रबीजं केवलं तु (१/११६-११७) इत्यादि, संहारक्रमयोगेन शक्तिबीजं समुद्धरेत् (१/११८) इत्यन्तेन चतुः-शतीशास्त्रे संहारक्रमोद्धृतानां शक्तिबीजवर्णानां विलोमक्रमेण परिपाट्या, भ्रूमध्ये बिन्दुसंस्थिता भ्रूमध्यस्थानस्थितहृल्लेखोर्ध्व-बिन्दौ स्थिता, भावनीयेत्यर्थः || ३/१७८ - १७९ || तुरीयभावनामाह - तुर्यरूपं तस्य चात्र वृत्तार्धादेस्तु संग्रहः || ३/१७९ || चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् | चैतन्यस्य संविदो व्यक्तेः परामर्शस्य हेतोः, नादरूपस्य पूर्वोक्त (१/३३) लक्षणनादस्य, वेदनम् अभिव्यक्तिः, तुर्यरूपम् | तस्य तुर्यरूपस्य | अत्र तार्तीयबीजे, वृत्तार्धादेः, वृत्तार्धम् अर्धचन्द्रः, आदिशब्देनरोधिनीनादौ गृह्येते, तेषां संग्रहः | तार्तीयबीजशिखरवर्त्यर्धचन्द्ररोधिनी-नादेषु स्वात्मचैतन्याभिव्यक्तिकारणनादकलनात्मकं तुर्यं तुरीयं भावनीयमित्यर्थः || ३/१७९ - १८० || तुर्यातीतभावनामाह - तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये || ३/१८० || अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद् बुधः | तुर्यातीतम् - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह | आनन्दं ब्रह्मणो विद्वान् ( तै. उ. २/४) इत्युपनिषदुक्तरीत्या मनोवागतीतपरमानन्द-स्वरूपं सुखस्थानं नादान्तादिस्थितं नादान्तशक्तिव्यापिकासमनोन्-मनासु स्थितं तुर्यातीतं भावनीयमित्यर्थः | अत्रैव शक्तिबीज एव, पञ्चा- वस्था जागरिताद्याः पूर्वोक्ताः, जपकाले स्मरेद् बुधः पञ्चावस्था-नुसन्धानपुरःसरं विद्याजपकरणावधाननिपुणः इदानीं सप्तविषुवभावनां विवक्षन्नादौ प्राणविषुवभावनामाह - योगः प्राणात्ममनसां विषुवं प्राणसंज्ञकम् || ३/१८१ || प्राणस्य हकारात्मनो वायोः, आत्मनो यष्टुः, मनसश्च संयोगः प्राणविषुवमित्युच्यते | तदुक्तं शैवतन्त्रे - शिष्यात्मप्राणमनसां संयोगं प्राणकं विदुः इति || ३/१८१ || मन्त्रविषुवभावनामाह - आधारोत्थितनादे तु लीनं बुद्ध्वात्मरूपकम् | संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि || ३/१८२ || अनाहताद्याधारान्तं नादात्मत्वविचिन्तनम् | विषुवं आधाराद् मूलाधारात्, उत्थितेन वायुना, संभूते नादे विद्या-शिखरवर्तिनि, आत्मरूपकम् आत्मनो यद् रूपं संविदात्मकमानन्दैकरसी-भूतम्, विद्यामन्त्रार्णानां वाग्भवकामराजशक्तिबीजानाम्, वियोगेन व्यासरूपेण, संयोगेन समष्टिरूपेण तुरीयबीजेन, अनाहताद्या-धारान्तम्, अनाहतं हृदयस्थानम्, आधाराणां सर्वेषामन्तस्थानं ब्रह्मरन्ध्रम्, तत्पर्यन्तम् | अत्रान्तशब्दस्तन्त्रेणोच्चारितः | अनाहताद्या-धारान्तमिति यावत् | नादात्मत्वविचिन्तनं नादस्य यष्टृरूपत्वविभावनं विषुवम्, मन्त्रसंज्ञकमिति शेषः | कोऽर्थः ? मूलाधारस्हितवाग्भव-शिखरवर्तिनं नादं हृदयपर्यन्तमुच्चार्य तत्र स्वयं लीनो भूत्वा स्वात्मनस्तन्मयतानुसन्धानं मन्त्रविषुवमित्यर्थः | तदुक्तं शैवतन्त्रे - आत्मनो नादमध्ये तु लयं संचार्य तत्त्वतः | अकारोकारवर्णादिसंयोगेन वियोगतः || हृदयादिबिलान्तं च विषुवं मन्त्रसंज्ञकम् | इति || ३/१८२ - १८३ || नाडीविषुवभावनामाह - नादसंस्पर्शान्नाडीविषुवमुच्यते || ३/१८३ || द्वादशग्रन्थिभेदेन वर्णाद् नाड्यन्तरे प्रिये | वर्णाद् बीजत्रयशिखरवर्तिकामकलाक्षरात्, द्वादशग्रन्थिभेदेन मूलादिषट्चक्रद्वादशग्रन्थीन् भीत्त्वा तेन, नाड्यन्तरे सुषुम्नामध्य-मार्गे, नादसंस्पर्शात् त्रिबीजशिखरवर्तिनो नादस्य मूलादिब्रह्म-रन्ध्रान्तमुच्चारतः संस्पर्शात्, नाडीविषुवमुच्यते | तदुक्तं शैवतन्त्रे - मूलमन्त्रत्रिशूलेन भित्त्वा ग्रन्थीननुक्रमात् | नादनाडीसमायोगान्नाडीविषुवभावनम् | इति || ३/१८३ - १८४ || प्रशान्तविषुवभावनामाह - नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् || ३/१८४ || वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् | रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् || ३/१८५ || वह्निं रेफम्, मायाम् ईकारम्, कलां तन्मध्यवर्ति- सपरार्धकलां रेखारूपाम्, चेतनां [बिन्दुम्], बुन्दुश्चैतन्यस्य संस्कारः, वेदनरूपत्वात् | तदुक्तं परापञ्चाशिकायाम् - बुन्दुर्वेद्यस्य संस्कारो विसर्गः सर्ग इत्यसौ (श्लो. ३७) इति | अर्धचन्द्ररोधिनीनाद-नादान्तांश्च पूर्वोक्त (१/३१) लक्षणायां शक्तौ लीनान् विभावयेत् | यतोऽयं नादो यष्टुस्तदतीतशक्तिलक्षणः, अतः प्रशान्तेन्द्रियगोचरं सकलेन्द्रियातीतविषयं तत् प्रशान्तविषुवमित्यनुषङ्गः | तदुक्तं शैवतन्त्रे - आकारोकारव्र्णौ च मकारं बिन्दुमेव च | नादनादान्तसंज्ञे च त्यक्त्वा ब्रह्मादिभिः क्रमात् || सप्तमे शक्तिमध्ये तु शिष्यात्मानं विचिन्तयेत् | प्रशान्तं तद्विजानीयात् प्रशान्तेन्द्रियगोचरम् || इति || ३/१८४ - १८५ || शक्तिकालविषुवयोर्भावनामाह - विषुवं शक्तिसंज्ञं तु तदूर्ध्वं नादचिन्तनम् | तदूर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि || ३/१८६ || तदूर्ध्वं शक्तेरूर्ध्वं समानान्तम्, नादस्य चिन्तनं शक्ति-विषुवम् | तदूर्ध्वं समनाया अप्यूर्ध्वम्, नात्र कालकलामानम्, इति स्वच्छन्दसंग्रहोक्तरीत्या कालातीतोन्मनान्तं नादस्य चिन्तनं काल-विषुवम् | तदुक्तं शैवतन्त्रे - शक्तिमध्यगतो नादः समनान्तं प्रसर्पति | तच्छक्तिविषुवं प्रोक्तमुन्मन्यां कालसंज्ञितम् || इति || ३/१८६ || ननु कियता कालेन नादस्तत्त्वं वेदयतीत्याह - मुनिचन्द्राष्टदशभिस्तुटिभिर्नादवेदनम् | स्वस्थे नरे समासीने यावत् स्पन्दति लोचनम् | तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः || तत्परस्य शतांशस्तु तुटिरित्यभिधीयते | इति तन्त्रान्तरोक्तरीत्या निमेषस्य त्रिसहस्रतमो भागस्तुटिः | मुनयः सप्त, चन्द्र एकः, अष्ट दश संख्ये प्रसिद्धे | तेन हकाराद्युन्मन्यन्तानां विद्यावयवानां सप्तदशाधिकाष्टशतोत्तरदशसहस्रतुटिभिरुच्चारे अकुले विषुसंज्ञे च (१/२५) इत्युक्तरीत्या कृते सति नादस्यान्ते तत्त्वस्य वेदनम्-इत्यर्थः | तत्त्वविषुवभावनामाह - चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञकम् || ३/१८७ || चैतन्यस्य स्वात्मतत्त्वस्य, व्यक्तेः प्रकाशस्य, हेतुस्तत्त्वविषुवम् | कोऽर्थः ? उन्मनोर्ध्वेऽनन्तरोक्तसंख्याततुटिभिर्नादलयात् स्वात्मा- नुसन्धानं तत्त्वविषुवमित्यर्थः | तदुक्तं शैवतन्त्रे - स्वाधिकारे परे धाम्नि विषुवं तत्त्वसंज्ञकम् इति || ३/१८७ || परं स्थानं महादेवि निसर्गानन्दसुन्दरम् | परं शून्यषट्कावस्थापञ्चकसप्तविषुवकोलाहलातीतं स्थानम्, विश्वविश्रान्तिभूमित्वाद् निसर्गानन्दसुन्दरम् | सर्वविषयानन्द- समष्टिभूतः परमानन्दो निसर्गानन्दः | अत एवानित्याशुचिक्लेशदुर्भग-भेदप्रपञ्चपरिपन्थी पराकारणरूपत्वात् परमानन्दलक्षणपरम- प्रेमास्पदपरमसुन्दरपरशिवरूपं निसर्गानन्दसुन्दरमित्यर्थः || ३/१८८ || पूर्वोक्तभावनायाः फलमाह - एवं चिन्तयमानस्य जपकालेषु पार्वति || ३/१८८ || सिद्धयः सकलास्तूर्णं सिद्ध्यन्ति त्वत्प्रसादतः | एवं पूर्वोक्तप्रकारेण, जपकालेषु | जपाः आज्ञान्तं सकलं प्रोक्तम् (१/२७-२८) इत्यादिपूर्वोक्तरीत्या सकल - सकलनिष्कल-केवलनिष्कलरूपास्-त्रिविधाः, तेषां कालाः दीपाकारोऽर्धमात्रश्च (१/२८-३४) इत्यादिना पूर्वोक्तविद्यावयवानामुच्चारणकालाः, तेषु शून्यषट्कादिकं चिन्तय-मानस्य, सकलाः सिद्धयोऽणिमाद्याः पूर्वोक्ताः (३/४४), त्वत्-प्रसादतः सिद्ध्यन्ति | प्रकाशात्मनो मम विमर्शशक्तौ त्वयि प्रसन्नायाम् - तत्र तत्राक्षमार्गेण चैतन्यं व्यज्यते प्रभोः (श्लो. ११४) इति विज्ञान- भैरवभट्टारकोक्तरीत्या सर्वप्रत्ययमयता[या]मुपगतायां तव प्रसादात् स्वायत्ता भवन्तीत्यर्थः || ३/१८८ -१८९ || एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् || ३/१८९ || एवम् उक्तभावनापुरःसरम्, जपम् उक्तलक्षणं कृत्वा प्रकाश-विमर्शसामरस्यरूपाया वामहस्ते विश्वकवलीकारपरे विमर्शमये निवेदयेत् || ३/१८९ || पूजाविधिमुक्त्वा तर्पणविधिमाह - अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः | अनामा शक्तिः, अङ्गुष्ठः शिवः, तयोर्योगेन मेलनेन, शिवशक्ति-मेलापनमुद्रयेत्यर्थः | चक्रदेवताः चतुरस्रादिबैन्दवान्तनवचक्र-निवासिनीः प्रकाशविमर्शसमरसीभूताः, तर्पयेत्, (इत्यर्थः) | प्रदानैस्तर्पणैः सम्यग् विशुद्धैरमृतात्मभिः | महाहन्तीकरोमीदं विश्वं हव्यवपुर्धरम् || (सु. वा. ३९) इत्यभियुक्तवचनोक्तरीत्या परस्मिन् लयं भावयेदित्यर्थः || ३/१९० || तर्पणसाधनानि वस्तून्याह - मद्यं मांसं तथा मत्स्यं देव्यै तु विनिवेदयेत् || ३/१९० || शिवशक्तिमेलनमुद्रया समस्तमद्यस्य मांसस्य मत्स्यस्य च निवेदनमेव तर्पणमिति भावः || ३/१९० || समयस्थैरेव सह पूजयेदित्याह - कौलाचारसमायुक्तैर्वीरैस्तु सह पूजयेत् | कुलमुक्त(१/५०, ३/१३१) लक्षणं हेयतया ज्ञेयं येषां ते कौला दक्षिणादिस्रोतःसु दीक्षिताः, तेषामाचारः गुरुभक्तिश्च शान्तिश्च पूजा श्रद्धा क्षमा धृतिः इत्यादिस्वच्छन्दसंग्रहादिशास्त्रेषु विहितः, तद्युक्तैः | वीरैः, अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वाभावमशिवापहम् || (श्लो ५०) इति परापञ्चाशिकोक्तरीत्या भेदप्रतीतिसाधनस्य इदन्तारिपोरहमि समराङ्गणे प्रलयप्रतिपादनपरा वीराः, तैः सह पूजयेत् | तन्त्राचारपरिभ्रष्टैः प्रपञ्चव्रतशालिभिः | पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यमेलनम् || इत्यादिवचनसिद्धैः सह न पूजयेदित्यर्थः || ३/१९१ || ननु कस्मिन्नक्षत्रे कस्मिन् वारे कस्मिन् वा दिने पूजेयं कार्येत्यत आह - पुष्यभेन तु वारे च सौरे च परमेश्वरि || ३/१९१ || गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च || चक्रपूजां विशेषेण योगिनीनां समाचरेत् || ३/१९२ || नित्यं सम्पूजयेद् देवीं सासनां सावृत्तिं क्रमात् इति स्वच्छन्दसंग्रहादिशास्त्रेषु यद्यपि प्रतिदिनं पूजा विहिता, तथापि पुष्यभेन पुष्यनक्षत्रेण सह सौरे वारे, गुरोरुदयव्याप्त्योर्दिने, स्वनक्षत्रे च, चतुर्दश्यष्टमीषु तिथिषु च, चक्रपूजां चतुरस्रादिबैन्दवान्तचक्र-गतानां देवतानां पूजां विशेषेण समाचरेत् | नित्यपूजावन्न भवति, किन्तु नैमित्तिकतया अष्टाष्टकादियोगिनीगणप्रीणनपुरःसरं पूजयेद्- इत्यर्थः || ३/१९१ - १९२ || ननु चक्रेऽष्टाष्टकपूजनं कथं संगच्छत इति शङ्कामपनुदन् विशेषपूजामेव विवृणोति - चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् | चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते || ३/१९३ || अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् | त्रलोक्यमोहनचक्रनिवासिनीनां ब्राह्म्यादीनामंशभूता अक्षोभ्याद्याश्चतुःषष्टियोगिन्यः, तासां प्रत्येकमंशभूतानां कोटिसंख्याकानाम्, महौजसां महाप्रभावशालिनीनाम्, योगिनीनामुक्त (१/२,२/१७,२/७९)लक्षणानां मिलित्वा चतुःषष्टिकोट्यो यतश्चक्रमेतत् समाश्रित्य संस्थिताः | मध्यमभूगृहान्तश्चतुःषष्टिकोटियोगिनीसमष्टि- भूतानामक्षोभ्यादीनाम्, अष्टाष्टकम् अष्टकानामष्टकम्, वित्तशाठ्य-विवर्जितं स्वस्वविभववञ्चनाहीनं यथा भवति तथा कर्तव्यम् | अत्र कृतिर्नाम पूजनक्रियायोगोऽभिप्रेतः || ३/१९३ - १९४ || ननु तासां पूजने किमायातं ममेत्यत आह - त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी || ३/१९४ || प्रकाशात्मनो विश्वबोधकस्य ममांशभूता विमर्श- रूपिणी त्वमेव बैन्दवचक्रगता, विश्वमोहिनी संसारित्वोपपादनकारिणी, तासां ब्राह्म्यादीनामक्षोभ्यादीनां च रूपेण क्रीडसे, एका सती भगवती परमार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव | (अ. स्त. १८) इत्यभियुक्तोक्तरीत्या तत्तद्रूपेण परिणमसे | अतस्त्वदंशभूतयोगिनी-यजनेन त्वमेव प्रीणासीत्यर्थः || ३/१९४ || ननु व्युत्पत्तिबलादेवागमार्थमवगम्य तत्तत्तन्त्रोदितपूजादिषु प्रवृतीः स्यात् किं गुरुपदेशेनेत्याशङ्क्याह - अज्ञात्वा तु कुलाचारमयष्ट्वा गुरुपादुकाम् | योऽस्मिन् शास्त्रे प्रवर्तेत तं त्वं पीडयसि ध्रुवम् || ३/१९५ || स्वप्रकाशशिवमूर्तिरेकिका तद्विमर्शतनुरेकिका तयोः | सामरस्यवपुरिष्यते परा पादुका परशिवात्मनो गुरोः || (चि. १) इत्यस्मदुक्तरीत्या त्रिधामगुरोः | अविदित्वा कुलाचारं कुलं कौलिकदर्शनम् | तत्राचारः स्वच्छन्दसंग्रहादिशास्त्रे विहितः, तं गुरु-मुखादविज्ञाय योऽस्मिन् शास्त्रे प्रवर्तेत योऽस्मिन् साधने प्रवर्तेत, तदुक्त-अर्थाचरणपरो भवेत्, तं चुम्बकं साधकाधमम्, त्व डाकिनीक्रूर-योगिनीरूपेण साधकमांसमज्जादिशोषणादिरूपेण पीडयसि गृह्णासि, ध्रुवं नात्र शङ्का अतो गुरुमुखादेवाखिलागमार्थानवगम्यास्मिन् शास्त्रे प्रवर्तितव्यम्, अन्यथा निष्फलं स्यादित्यर्थः || ३/१९५ || एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा | आवयोः शबलाकारं मद्यं मांसं निवेद्य च || ३/१९६ || त्वत्प्रथाप्रसराकारस्त्वामेव परिभावयेत् | वरारोहे वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी (अ. को. २/६/४) इति निघण्टुः | एवम् उक्तप्रकारेण, ज्ञात्वा गुरुमुखादेव | कौलाचार-परः, कौलिकाः पूर्वोक्त (३/१४४, १९१)लक्षणाः, तेषां विहिताः स्वच्छन्द- संग्रहादिशास्त्रेष्वाचाराः, सदा तदनुष्ठानपरः | आवयोः प्रकाश-विमर्शात्मनोः, शबलाकारम् सुरा शक्तिः शिवो मांसमानन्दो मोक्ष उच्यते इत्यभियुक्तवचनोक्तरीत्या सामरस्यापादनरूप तत्पूर्वोक्त (३/९८-१०३) रीत्या शोधितममृतीकृतं मद्यं मांसं निवेद्य | आवयोरित्येव योज्यम् | त्वत्प्रथाप्रसाराकाराः | तव विमर्शशक्तेः, प्रथा स्पन्दः, तत्प्रसराः तदुद्भूताः, आकारा यासामावरणदेवतानाम्, तास्तथाविधाः, त्वामेव त्वदन्यतो न प्रथायाताः परिभावयेत्, मूलोद्भवं शक्तिचक्रं यतस्तन्मयतां गतम् | तस्मिन्नेवाव्यये धाम्नि विलीनं परिभावयेत् || (सु. ६७) इत्यभियुक्तवचनोक्तरीत्या विमर्शशक्तेर्विलासभूताद्याकारायास्ता आवरणदेवतास्तत्रैव विलीना विभावयेदित्यर्थः || ३/१९६ - १९७ || त्वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् || ३/१९७ || त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् | देवीं विश्वरूपिणीं विश्वानुजिघृक्षया गृहीतलीलाविग्रहाम्, इच्छा-विग्रहामित्यर्थः | त्वामेव गुरुरूपां विभावयेत् | त्वन्मयस्य त्वद्रूपस्य, गुरोस्तद्धेतुं निवेद्य, शेषं देवतागुरुनिवेदितशेषम्, आत्मनि योजयेत् | यावत् साधकस्ताभ्यां समरसीभवति, तावच्छेषं स्वयमुपयुञ्जीतेत्यर्थः || ३/१९७ - १९८ || बलिनिवेदनमाह - योगिनीनां महादेवि बटुकायात्मरूपिणे || ३/१९८ || क्षेत्राणां पतये मह्यं बलिं कुर्वीत हेतुना | योगिनीनां पूर्वोक्त (२/७९) रीत्या मातृमानमेयमरीचीनाम् | आत्म-रूपिणे परमानन्दस्पन्दरूपिणे बटुकाय | क्षेत्राणां पतये, क्षेत्राणि शरीराणि, तेषां पतिर्जीवात्मा, तस्मै | मह्यं मदहन्ताविष्टाय | हेतुना मद्येन सद्वितीयेन | बलिं कुर्वीत | श्वासद्वयनिरोधेन कुण्डलीत्रयमेलनात् | यज्जीवशिवयोरैक्यं तेनासावान्तरो बलिः || इत्यस्मदुक्तरीत्या सद्वितीयमद्यस्वीकारेणोल्लसिते मनसि, स्वतः प्राणापानयोः संचारे शान्ते, निरस्ते त्रित्वलक्षणे भेदे, शिवोऽहमस्मीति स्वान्तरो बलिरित्यर्थः || ३/१९८ - १९९ || ततः स्वैराचारपरो भूयादित्याह - नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् || ३/१९९ || अहन्तेदन्तयोरैक्यं भावयन् विहरेत् सुखम् | नित्यं प्रत्यहम्, पिबन् देवतागुरुनिवेदितशेषं हेतुम् खादन् तच्-छेषं खाद्यम्, वमन् द्वयमपीति सामर्थ्याल्लभ्यम् | स्वेच्छाचारपरः यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् | तत्र तत्र परानन्दस्वरूपं सम्प्रकाशते || (श्लो. ७३) इति विज्ञानभैरवभट्टारकोक्तरीत्या स्वस्य यत्र यत्रेच्छा जायते तत तदेव शास्त्रविहितम्, यत्र यत्रेच्छा न जायते तत्तदेव शास्त्र-निषिद्धम् | अतः स्वेच्छानुकूलपदार्थाननुभवेत्, तत्प्रतिकूलपदार्थान् परित्यजेदित्यर्थः | अहन्तेदन्तयोरैक्यं भावयन् | अहन्ता ज्ञातृधर्मः, इदन्ता ज्ञेयधर्मः, तयोरैक्यम् यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृभते इत्यादिपूर्वं (२/७९, ३/१४१) प्रतिपादितरीत्या ज्ञातृज्ञेय- चैतन्ययोः समरसीकरणलक्षणं ज्ञानम्, तदेवाहमिति भावयन् सुखं विहरेत् | परिपूर्णज्ञानानन्दो भवेदित्यर्थः | तदुक्तं विज्ञानभैरव-भट्टारकैः - जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद् भरितावस्थां महानन्दस्ततो भवेत् || (श्लो. ७१) इति || ३/१९९ २०० || परमप्रकृतमुपसंहरति - एतत् ते कथितं दिव्यं संकेतत्रयमुत्तमम् || ३/२०० || स्पष्टम् || ३/२०० || सर्वज्ञानोत्तमत्वादत्यन्तगोपनीयमित्याह - गोपनीयं प्रयत्नेन स्वगृह्यमिव सुव्रते | यथा स्वगुह्यं योनिं परपुरुषेभ्यो गोपायसि प्रयत्नेन, तथैतदपि संकेतत्रयमनर्हेभ्यो गोपनीयमित्यर्थः || ३/२०१ || ननु केऽनर्हा येभ्यो गोपनीयमित्यत आह - चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे || ३/२०१ || भक्तिहीनोऽनेकत्रासक्तस्तत्तत्तन्त्रान्तरेषु विद्यामात्रपीठो चिम्बकः | ज्ञानलुब्धः विद्यासाधारण्यात् काव्यनाटकादिविद्यावदत्रापि ज्ञानं सम्पाद्यमिति मन्वानः | तयोर्द्वयोरपीदं रहस्यं त्वया न प्रकटी-करणीयमित्यर्थः || ३/२०१ || विध्यतिक्रमणादन्यायो न करणीय इत्यत आह - अन्यायेन न दातव्यं नास्तिकानां महेश्वरि | विध्यतिक्रम एवान्यायः | नास्ति परलोक इति ये मन्यन्ते चुम्बका बौद्धादयः, ते नास्तिकाः | नन्वत्र को विधिरित्यत आह - एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो || ३/२०२ || प्रभो ! जगत्प्रवृत्तिनियमप्रभावशालिनि ! अत एव - शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते (४/७) इति चतुःशतीशास्त्रोक्तरीत्या त्वया विनाऽहं किमपि कर्तुं न शक्तः, वक्तुं न समर्थः | तन्मदिच्छारूपया ममाऽखिलेश्वरस्याऽखिलागमशास्त्रवक्तुरिच्छारूपया विवक्षारूपया-ऽनाश्रितकलया | आज्ञप्तः प्रेरितः | ज्ञानमेवमुक्तलक्षणं प्रोक्तवानस्मि | ततस्त्वदाज्ञैव विधिरित्यर्थः || ३/२०२ || अतस्तदतिक्रमे महदनिष्टं स्यादित्याह - अन्यायेन तु यो दद्यात् स परेतो भविष्यति | अतस्त्वदाज्ञाविधिमुल्लङ्घ्य चुम्बकादिभ्यो य एतज्ज्ञानं दद्यात् स परेतो भविष्यति || एतत्परिज्ञानफलमाह - संकेतं यो विजानाति योगिनीनां भवेत् प्रियः || ३/२०३ || एतत् संकेतत्रयम् | गुरुमुखादेव यो विजानाति, स योगिनीनाम्, योगः परमशिवसमवायः, तद्वत्यः परमचिन्मरीचिभूताः शक्तयस्तासाम्, प्रियः परमशिव, तस्यानन्तशक्तिमत्त्वात् | तदुक्तं तन्त्रान्तरे - शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः इति | परमशिव एव भवेद्-इत्यर्थः || ३/२०३ || ननु परशिवतादात्म्ये कः पुरुषार्थ इत्यत आह - सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः | यतः सर्वेषां जनानां काम्यानां काम्यमानानां फलानाम्-आश्रयः परमशिवः, अतः सर्वेप्सितफलावाप्तिः सर्वेषां यानीप्सिनानि स्पृहणीयानि फलानि, तेषां प्राप्तिः परमशिवतादात्म्यपरिज्ञानाद् भवति | स परमपुरुषार्थ इत्यर्थः || ननु स कुत्र दृश्यते ? इत्यत आह - यतोऽपि दृश्यते देवि ! यतोऽपि यत्र क्वापि बहिरन्तर्वा मनः प्रसरति, तत्र तदनुभवरूपेण स एव दृश्यते, तस्य सर्वगतत्वात् | तदुक्तं विज्ञानभैरवभट्टारकैः - यत्र यत्र मनो याति बाह्ये वाऽभ्यन्तरे प्रिये | तत्र तत्र शिवावस्था व्यापकत्वात् क्व यास्यति || (श्लो ११३) इति, तत्र तत्राक्षमार्गेण चैतन्यं व्यजते प्रभोः || (श्लो. ११४) इति च | ननु किं सर्वेषामपि तथा दृश्यते ? इत्यत आह - कथं विद्वान्न चिन्तयेत् || ३/२०४ || सत्यं दृश्यते, तथापि न पश्यन्ति, न मां पश्यति कश्चन इत्युपनिषदुक्तरीत्या, प्रत्यक्षगोचरं देवं लोकं चाब्धिप्रमाथिनम् | दृष्ट्वा श्रुतिशिरः सान्द्रमनुक्रोशति दुःखितः || इति तन्त्रान्तरोक्तरीत्या दृश्यमानमप्युपदेशहीना न पश्यन्ति | निष्कलत्वं शिवे बुद्ध्वा (२/५०) इति निष्कलपरशिवतादात्म्यापरोक्षानु-भवशाली गुरुकटाक्षवीक्षणात् त्रुटितसमस्तपाशजालः परिस्फुरत्परम- शिवाहन्ताविज्ञान इदं कथं न चिन्तयेत्, सर्वत्र समभावं कथं न पश्येदित्यर्थः || ३/२०४ || शिवेनाम्ब ! रहस्यत्वादविष्पष्टतयोदितम् | त्वद्रूपं नाथवचनाद् विवृतं नो क्षमस्व तत् || इति श्रीमत्परमयोगीन्द्रपुण्यानन्दशिष्यामृतानन्दयोगिप्रवरविरचि तायां योगिनीहृदयदीपिकायां पूजास.केतस्तृतीयः || || समाप्तश्चायं ग्रन्थः || ########### END OF FILE #######