#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00064 Uniform title: yoginiitantra Main title: yoginiitantram Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 16, 2009 Publisher : kṣemarāja śrī kṛṣṇa dāsa Publication year : Pre-1900 Publication city : Bombay Publication country : India #################################################### योगिनीतन्त्रम् प्रथमः पटलः | ओं नमो महाभैरवाय | कैलासशिखरारूढं शङ्करं परमेश्वरम् | पप्रच्छ गिरिजा कान्तं पार्वती वृषभध्वजम् || १ || श्रीदेव्युवाच भगवन् सर्वधर्मज्ञ सर्वज्ञान प्रभो | सूचितं योगिनीतन्त्रं तन्मे वद जगद्गुरो || २ || माहात्म्यं कीर्तितं तस्य पुरा श्रीशैलमन्दिरे | वाराणस्यां कामरूपे [कामाख्यायां] नेपाले मन्दराचले || ३|| ईश्वर उवाच शृणु देवि प्रवक्ष्यामि योगिनीतन्त्रमुत्तमम् | पावनं परमं धन्यं मोक्षैकफलदायकम् || ४ || गोपितव्यं प्रयत्नेन मम त्वं प्राणवल्लभे | यथान्यो लभते नैवं तथा कुरु प्रियंवदे || ५ || एतत्तन्त्रं वरारोहे सुरासुरसुदुर्लभम् | काङ्क्षन्ति देवताः सर्वाः श्रोतुं तन्त्रमनुत्तमम् || ६ || प्. २) यक्षाद्याः परमेशानि न तेभ्यः कथितं मया | कथयामि तव स्नेहात् बद्धोःअं परमं त्वया || ७ || विद्युत्कान्ति-समानाभ-दन्तपंक्ति-बलाकिनीम् | प्रावृट्सम्भूत [नमामि तां विश्वमातां कालामेघसमद्युतिम्] सुस्निग्ध नव मेघसमद्युतिम् || ८ || मुण्डमालावलीरम्यां मुक्तकेशीं दिगम्बराम् | लोलजिह्वां घोर रावामारक्तलोचनत्रयाम् || ९ || कोटिकोटिकलानाथ विगलन्मुखमण्डलाम् | अमाकलासमुल्लास किरीटोज्ज्वलमण्डलाम् || १० || शवद्वयकर्णभूषां नानामणिविभूषिताम् | सूर्यकान्तेन्दुकान्तौघप्रोल्लसत्कर्णभूषणाम् || ११ || मृतहस्तसहस्रैस्तु कृतकाञ्चीं हसन्मुखाम् [हसन्मुखीम्] | सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् || १२ || खड्गमुण्डवराभीति संशोभितचतुर्भुजाम् | दन्तुरां परमां नित्यां रक्तमण्डितविग्रहाम् || १३ || शिवप्रेतसमारूढां महाकालोपरिस्थिताम् | वामपादं शिवहृदि दक्षिणे लोकलाञ्छितम् || १४ || कोटिसूर्यप्रतीकाशं समस्तभुवनोज्ज्वलम् || १५ || विद्युत्पुञ्जसमानाभज्वलज्जटविराजितम् || १६ || रजताद्रिसमं देवं स्फटिकाचलविग्रहम् || १७ || दिगम्बरं महाघोरं चन्द्रार्कपरिमण्डितम् || १८ || प्. ३) नानालङ्कारभूषाढ्यं भास्वत्स्वर्णतनूरुहम् | योगनिद्राधरं शम्भुं स्मेराननसरोरुहम् || १९ || विपरीतरतासक्तां महाकालेन सन्ततम् | अशेषब्रह्माण्डभाण्डप्रकाशितमहोज्ज्वलाम् [-महोज्ज्वलम्] || २० || शिवाभिर्घोररावाभिर्वेष्टितां प्रलयोदिताम् | कोटिकोटिशरच्चन्द्रन्यक्कृतमुखमण्डलाम् || २१ || क्षुधापूर्णशीर्षहस्तयोगिनीभिर्विराजिताम् [सुधपूर्ण-] | आरक्तमुखमद्याभिर्मत्तभिरन्वितां [-अन्वगां च व] तथा || २२ || घोररूपैर्महानादैश्चण्डतापैश्च भैरवैः | गृहीतशवकङ्कालजयशब्दपरायणैः || २३ || नृत्यद्भिर्वादनपरैरनिशञ्च दिगम्बरैः | श्मशानालयमध्यस्थां ब्रह्माद्युपनिषेविताम् || २४ || अधुना शृणु देवेशि ! तन्त्रराजं सुदुर्लभम् | कथयामि तव स्नेहात् न प्रकाश्यं कथञ्चन || २५ || अतीव स्नेहबद्धेन भक्त्या दासोऽस्मि ते प्रिये | गुरुमूलमिदं शास्त्रं गुरुमूलमिदं जगत् || २६ || गुरुरेव परं ब्रह्म गुरुरेव शिवः स्वयम् | गुरुर्यस्य वशीभूतो देवास्तं प्रणमन्ति च || २७ || अपि व्याधिगलत्पादप्रक्षालनजलं यदि | पिबेदमृतभवेन यः स देवीपुरं व्रजेत् || २८ || प्. ४) सुरां यद्यप्यसंस्कारां गुर्वनुज्ञाविधः पिबेत् | प्रायश्चित्तं न तत्रापि वेदेऽपि स्थित एव हि || २९ || अपि तन्त्रविरुद्धं वा गुरुणा कथ्यते यदि | अथवा स्वमतं वेदैर्महारुद्रवचो यथा || ३० || सर्वं गुर्वाज्ञया कार्यं तत्त्वस्यागमनं विना | अद्वैतं देवतैश्वर्यं नाद्वैतं गुरुणा सह || ३१ || नाद्वैतं प्लवते कार्यं न ममास्तीह भुवने | गुरुर्गतिर्गुरुर्देवो गुरुर्देवो [गुरुर्देवी] तथा प्रिये || ३२ || स्वर्गलोके मर्त्यलोके नागलोके च वर्तते | अल्पज्ञोऽनल्पविज्ञो वा गुरुरेव सदागतिः || ३३ || गुरुवद्गुरुपुत्रेषु गुरुवत्तत्सुतादिषु | गुरुपत्नी महेशानि ! गुरुरेव न संशयः || ३४ || गुरोरुच्छिष्टवत् प्रिये [देवि] तत्सुतोच्छिष्टमेव च | भोजनीयं न सन्देहो विकारश्चेदधोगतिः || ३५ || गुरूच्छिष्टं महादेवि ब्रह्मादीनां सुदुर्लभम् | गुरूच्छिष्टं तथा प्रोक्तं महापूतं परात् परम् || ३६ || गुरुणा गुरुपत्न्या वा गुरुपुत्रेण वा प्रिये | भुक्तान्न्नं मुष्टिमात्रं वा योऽश्नीयाद्वर्षविंशतिः [यो ह्यद्याद्] || ३७ || चिरञ्जीवी जरारोगविमुक्तोऽन्ते शिवो भवेत् | गुर्वन्तिके यदि वसेत् पञ्चाशद्वर्षमुत्तमे || ३८ || भैरवाचारसम्पन्नस्तत्पादपरिचारकः | इह भुक्त्वा वरान् भोगान् अन्ते देवीगणो [देवगणो] भवेत् || ३९ || प्. ५) रूपयौवनसम्पन्नैः रुद्रकन्यागणैः सह | असौ विहरति वीरो यावच्चन्द्रार्कतारकम् || ४० || प्रातरुत्थाय यो मर्त्यो गुरौ दण्डनतिं चरेत् | तत्सुतं तत्तनयां वा प्रणमेद्विधिपूर्वकम् || ४१ || स सिध्यति वरारोहे नात्र कार्या विचारणा | यत्राशायां गुरोः स्थानं नित्यं प्रातश्च तन्मुखः || ४२ || गुरुं तद्दयितापुत्रपुत्रीरुद्दिश्य मानवः | प्रणमेद् भक्तिसंयुक्तः स सिद्धो नाऽत्र संशयः || ४३ || गुरोः स्थानं हि कैलासं गृहं चिन्तामंनेर्गृहम् | वृक्षाली कल्पवृक्षाली लता कल्पलता स्मृता || ४४ || जलखातञ्च [जलखातं स्वर्गगंगा सर्वं पुण्यमयं शिवे] सर्वं हि गङ्गातुल्यं प्रकीर्तितम् | गुरुगेहे स्थिता दास्यो भैरव्यः परिकीर्तिताः || ४५ || भृत्यान्भैरवरूपांश्च [भृत्या भैरवरूपाश्च] भावयेन् मतिमान् सदा | प्रदक्षिणं कृतं येन गुरोः स्थानं महेश्वरि | प्रदक्षिणी कृता तेन सप्तद्वीपा वसुन्धरा || ४६ || श्रीदेव्युवाच गुरुः को वा महादेव [महेशान] वद मे करुणामय | त्वत्तोऽप्यधिक एवायं गुरुस्त्वया प्रकीर्तितः || ४७ || ईश्वर उवाच आदिनाथो महादेवि महाकालो हि यः स्मृतः | गुरुः स एव देवेशि सर्वमन्त्रेऽधुना परः || ४८ || प्. ६) शैवे शाक्ते वैष्णवे च गाणपत्ये तथेन्दवे | महाशैवे च सौरे च स गुरुर्नात्र संशयः || ४९ || मन्त्रवक्ता स एव स्यात् नापरः परमेश्वरि | मन्त्रप्रदानकाले हि मानुषे [मानुषो] नगनन्दिनि || ५० || अधिष्ठानं भवेत्तत्र महाकालस्य शङ्करि | अतस्तु गुरुता देवि मानुषे [मानुषी न] नात्र संशयः || ५१ || मन्त्रदाता शिरः [शिवः] पद्मे यज्ज्ञानं कुरुते गुरोः | तज्ज्ञानं कुरुते देवि शिष्योऽपि शीर्षपङ्कजे || ५२ || अत एव महेशानि एक एव गुरुः स्मृतः | अधिष्ठानं भवेत्तस्य मानुषस्य महेश्वरि || ५३ || माहात्म्यं कीर्तितं तस्य सर्वशास्त्रेषु शङ्करि | विशेषमनुवक्ष्यामि माहात्म्यं गुरुगोचरम् || ५४ || पशुमन्त्रप्रदाने तु मर्यादा दशपौरुषी | महाविद्यासु सर्वासु पञ्चाशत् पौरुषी मता || ब्रह्मयोगप्रदाने [ब्रह्मविद्या] तु मर्यादा दश पौरुषी || ५५ || ब्रह्मयोगो महादेवि भेरुण्डायां प्रकीर्तितः | गुरुपादोदकं पुण्यं सर्वतीर्थावगाहनम् || ५६ || सर्वतीर्थावगाहे तु यत् फलं प्राप्नुयान्नरः | तत्फलं प्राप्नुयान्मर्त्यो गुरुपादकणाजलात् [गुरुपादोदकात् कणात्] || ५७ || स स्नातः सर्वतीर्थेषु योऽभिषेकं समाचरेत् | पोतं पूतञ्च कुरुते सर्वपापेभ्य एव हि || ५८ || प्. ७) विशेषतो महामाये तत्क्षणाच्छिवतां व्रजेत् | गुरोः पादरजो मूर्ध्नि धारयेद् यस्तु मानवः || ५९ || सर्वपापविनिर्मुक्तः स शिवो नात्र संशयः | तेनैव रजसा देवि तिलकं यस्तु कारयेत् || ६० || चतुर्भुजो न सन्देहः स वैकुण्ठपतिर्भवेत् | तद्रजो भक्षते येन एकस्मिन् दिवसेऽपि च || ६१ || कोटिमहायज्ञफलं लभते स न संशयः | इति ते कथितं देवि रहस्यं गुरुगोचरम् | गोपनीयं प्रयत्नेन स्वकीयं कुलपौरुषम् || ६२ || इति श्रीयोगिनीतन्त्रे सर्वतन्त्रोत्तमतमे देवीश्वर संवादे चतुर्विंशतिसाहस्रे प्रथमः पटलः | द्वितीयः पटलः श्रीदेव्युवाच परमानन्दसन्दोह चराचर जगद्गुरो | श्रुतं ते गुरुमाहात्म्यं गुह्याद् गुह्यतरं यत् || १ || अहं [इदानीं] च श्रोतुमिच्छामि कालीं सकलतारिणीम् | कथिता सा महाविद्या सिद्धविद्या च यामले || २ || महा महा ब्रह्मविद्या चामुण्डा तन्त्रगोचरे | आज्ञापय महादेव रहस्यं कृपया शिव || ३ || प्. ८) ईश्वर उवाच महामहाब्रह्मविद्या विद्येयं कालिका मता | यामासाद्य च निर्वाणमुक्तिमेति नराधमः || ४ || अस्या उपासकाश्चैव ब्रह्मविष्णु शिवादयः | रहस्यं कथ्यते देवि सर्वलोका उपासकाः || ५ || कालिकायाः प्रसादेन सर्वे मुक्त्यादिभागिनः | सा कालीनां सहस्राणि जप्यानाञ्च [जप्यानि च] हि कोटिशः || ६ || तेषां [तस्मात् सुभगो भवति] भाग्यवशेनापि कालीसाधनतत्परः | काली च जगतां माता सर्वशास्त्रेषु निश्चिता || ७ || कालीमन्त्रं जपेद् यो हि कालिपुत्रो न संशयः | व्यजसि [त्यजसि] त्वं परञ्चैतत् पुमांसं परमं तथा || ८ || सदृशत्वं क्वचित् काले त्यजसि त्वं जगन्मयि [जगन्मय] | कालिविद्यां समासाद्य न त्यक्षति कदाचन || ९ || गतं शूद्रस्य शूद्रत्वं ब्राह्मणानाञ्च विप्रता | मन्त्रग्रहणमात्रे तु सर्वे शिवसमाः किल || १० || नगरी [वाराणस्यां नगरीं वा] निर्वाराणस्या गङ्गां प्राप्य यथैव [ते] ताः | कालीमन्त्रग्रहादेव [त्वन्मन्त्रग्रहणादेव] सर्वे शिवसमाः किल || ११ || अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् | तस्यैव जननी धन्या पिता तस्य सुरोत्तमः || १२ || तस्यैव पितरः स्वर्गं यान्ति यस्मात् सुदुर्लभम् | येन भाग्यवशाद् देवि काली सा वा [सा वा भक्त्या] समाश्रिता || १३ || प्. ९) आशंसन्ति हि पितरो नराणां पुण्यकर्मणाम् | कदास्माकं कुले पुत्रः कालीमन्त्रमुपाश्रयेत् || १४ || तदा मुक्तिपुरीं प्राप्य विरराम सदैव हि | काली तारा यथाच्छिन्ना गुरुश्च भूपतिस्तथा || १५ || एकत्वेन च बोद्धव्यं भिन्नत्वे [भेदेन] नरकं व्रजेत् | ताराशिष्यस्त्यजेत् कालीं कालीशिष्यस्तु तारिणीम् || १६ || छिन्नामहिषमर्दिन्याः कदाचित् पूजनं स्मृतम् | यदि वा पूज्यते देवि नान्यद् वै न प्रपूजयेत् || १७ || कालीत्वेन च सम्भाव्य अन्यत्र पूजयेत् शिवे | या काली परमा विद्या सैव तारा न संशयः || १८ || एतयोर्भेदभावेन नानामन्त्रा भवन्ति हि | उक्तं तत् कालिकाकल्पे ताराकल्पे च ते मया || १९ || श्रीदेव्युवाच नानाविधानं देवेश कथयस्व प्रियंवद | विशेषतो महादेव रहस्यं जपमर्मणः || २० || ईश्वर उवाच वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदायिनी | तस्याः प्रतिनिधिर्देवि महाशङ्खमयी शुभा || २१ || महाशङ्खं करे यस्य तस्य सिद्धिरदूरतः | तदभावे वीरवन्द्ये स्फाटिकी सर्वसिद्धिदा || २२ || प्. १०) मणिसंख्यां महादेवि मालायाः कथयामि ते | पञ्चविंशतिभिर्मोक्षः पुष्टिस्तु सप्तविंशभिः || २३ || त्रिंशद्भिर्धनसिद्धिः स्यात्पञ्चाशन्मन्त्रसिद्धये | अष्टोत्तरशतैः सर्वा सिद्धिरेव महेश्वरि || २४ || एतत् साधारणं प्रोक्तं विशेषं कामिनां शृणु | दन्तमाला जपे कार्या गले धार्या शुभा नृषु | दशनैर्यदि कर्तव्या दन्तसंख्या तथा प्रिये || २५ || सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा | अन्यत्रापि च देवेशि मेरुत्वेनैवमादिशेत् || २६ || संकल्पवाक्ये यत्संख्या तु जपहोमयोः | तत् शृणुष्व महेशानि क्रमेण कथयामि ते || २७ || शतं सहस्रमयुतं लक्षं कोटिस्तथैव च | सर्वत्र परिसंख्येयमविशेषं महेश्वरि || २८ || विशेषे तु महेशानि ! विशेषमाचरेत् क्वचित् | शतादिप्रतिसंख्यायामष्टोत्तरं जपेत् प्रिये || २९ || आद्यन्तपर्वद्वितयं हित्वा चाष्टकपर्वभिः | जपान्ते च तथा मालां शिवस्य [शिरसि] धारयेत्ततः || ३० || रक्तपुष्पार्घ्य जीवेन [तोयेन] घटवाद्यपुरःसरम् | देव्यै समर्पयेद् धीमान् फलं तज्जपकर्मणः || ३१ || साङ्गोपाङ्गेन देवेशि रहस्यं जपकर्मणः | उक्तं सरस्वतीतन्त्रे तस्माज्जानीहि कामिनि || ३२ || प्. ११) करमाला महेशानि शिवशक्तिक्रमेण च | शृणुष्व परमेशानि सर्व तन्त्रप्रसिद्धये [मन्त्र] || ३३ || अनामामध्यमारभ्य कनिष्ठादित एव च | तर्जनीमूलपर्यन्तं प्रजपेद्दशपर्वभिः || ३४ || मध्यमामूले पर्वणि मेरुत्वेन समाचरेत् | अष्टोत्तरं जपेद्देवि आद्यन्तद्वितयं त्यजेत् || ३५ || शिवमाला समाख्याता शक्तिमालां शृणुष्व मे | अनामामध्यमारभ्य कनिष्ठादित [कनिष्ठादिक्रमेण] एव च || ३६ || तर्जनीमूलपर्यन्तं प्रजपेद् दशपर्वषु | मध्यमाद्वितयं [तर्जनीद्वितयं] पर्व तर्जन्याः परमेश्वरि || ३७ || मेरुं जानीहि देवेशि तद्द्वयं न स्पृशेत् क्वचित् | अष्टोत्तरजपे पर्व आद्यन्तद्वितयं त्यजेत् || ३८ || नित्यं जपं करे कुर्यात् न तु काम्यं कदाचन | काम्यमपि करे कुर्यान्मालाभावे च मत्प्रिये || ३९ || नित्यकर्मार्चितजपो नित्यजापः स ईरितः | स्नानं सतर्पणं होमो बलिस्तृप्तिश्च नित्यभाक् || ४० || अनुलोमविलोमेन सर्वमालासु संजपेत् | केवलञ्चानुलोमेन प्रजपेत् करमालया || ४१ || पुंमन्त्रं प्रजपेद्देवि शिवसम्भवमालया | शक्तिमन्त्रं जपेद्देवि शक्तिसम्भवमालया || ४२ || प्. १२) चन्द्रमन्त्रं विना देवि सावित्रीं वेदमातरम् | सावित्रीं प्रजपेद्देवि करेण शिवमालया [जपेद्देवि करेण शक्तिमालया] || ४३ || चन्द्रमन्त्रं जपेद्देवि करेण शक्तिमालया | सावित्रीजपने शस्ता सर्वदा करमालया || ४४ || स्फाटिकी मौक्तिकी कौषी शस्तापि शङ्खसम्भवा | वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे || ४५ || त्रिपुराजपने शस्ता रुद्राक्षै रक्तचन्दनैः | श्मशानधुत्तूरबीजैः शस्ता धूमावतीजपे || ४६ || करपर्वसमुद्भूता नाड्या संग्रथिता सती | शस्ता च बगलामुख्याः सत्यं सत्यं महेश्वरि || ४७ || असङ्कल्पिते सत्यं यन्न्यूनाधिकमथापि वा [च यज्जपं यन्न्यूनाधिकमपि वा] | न सम्यक् फलभाग्भूयात् तस्मान्नियममाचरेत् || ४८ || ताम्रपात्रं सदूर्वञ्च सतिलं जलपूरितम् | सकुशं सफलं देवि गृहीत्वाचम्य कल्पतः || ४९ || अभ्यर्च्य च शिरः पद्मे श्रीगुरुं करुणामयम् | यज्ञासावदनो(?) [यक्षासावदनी] वापि देवेन्द्रवदनोऽपि वा || ५० || मासं पक्षं तिथिञ्चैव देवपर्वादिकं तथा | आद्यन्तकालमुच्चार्य गोत्रं नाम च कामिनाम् || ५१ || क्रियाद्वयं करिष्येहमैशान्यामुत्सृजेत् पयः | चान्द्रः सौरस्तु सर्वत्र चान्द्रः स्यात्तिथिचोदने || ५२ || प्. १३) चान्द्रोऽपि मुख्यः सर्वत्र गौणस्तु क्रूरकर्मणि | ऋणदाने तथादाने पौष्टपथ्यादिषु प्रिये || ५३ || स्नानदाने तथा दाने पौष्टपथ्यादिषु प्रिये | मासो नाक्षत्रिकः प्रोक्तः सावनो वर्षपर्वणि || ५४ || एवं युगे युगे प्रोक्तः कलौ सौरस्तु सर्वतः | सौरे मासि शुभा दीक्षा न चान्द्रे न च तारके || ५५ || न सावनो महेशानि यस्मात् सा विफला भवेत् | क्रियावती वेदमयी चान्द्रमासेऽपि शस्यते || ५६ || शुक्लपक्षे शुभं सर्वमशुभञ्च सितेतरे | प्रातः कालं समारभ्य यावन्मध्यन्दिनं रवेः || ५७ || तावत् कर्माणि कुर्वीत यः सम्यक् फलमीहते | क्रूरकर्माणि कुर्वीत शेषेऽपि परमेश्वरि || ५८ || गते तु प्रथमे यामे तृतीयप्रहरावधि | कालो नक्तं जपस्योक्तं पूजाकालमिति शृणु || ५९ || सार्धयामे [अर्धयामे] गते नक्तं सार्धयामे स्थिते सदा | पूजाकालो भवेद्यामश्चतुर्वर्गप्रदः सदा || ६० || श्लिष्टे द्वे घटिके ये तु रात्रेर्मध्यमयामयोः | सा महारात्रिरुद्दिष्टा तत् कृतं चाक्षयं फलम् || ६१ || यद्यज्जप्तं हुतं यद्यत् कृतं च मोक्षसाधनम् | तत्सर्वमक्षयं याति तथानन्त्याय कल्पते || ६२ || प्. १४) न नक्तं वैष्णवे सौरे महासौरे च पैतृके | न मध्याह्नं [मध्याद्धतं] विना देवि शशाङ्कग्रहणाद्विना || ६३ || दीक्षा कार्या प्रयत्नेन शुक्लपक्षविभेदतः | मुक्तिकामः कृष्णपक्षे भक्तिकामः सिते तथा || ६४ || भूतिकामे [भुतिकामे] च कर्तव्यं कृष्णस्यापञ्चमाद्दिनात् [कृष्णस्यापञ्चम-] | शुभे काले शुभं सर्वमशुभञ्चार्तिभिश्चरेत् || ६५ || उपरागे महातीर्थे कालदोषो न विद्यते | वाराणस्यां विशेषेण सर्वदा सर्वमाचरेत् || ६६ || सदाकृ तयुगं तत्र सर्वदा उत्तरायणम् | विशेषञ्च [अविशेच] दिवारात्रौ सन्ध्यायाञ्च महानिशि || ६७ || प्रत्यक्षं दृश्यते वह्नौ मूर्त्यावर्ते पुनः शिवे | काश्याञ्च नोदेति कदा सन्धियोगाद्वरानने [सन्धियोगो-] || ६८ || द्वित्रिभ्यां क्रोशतः काशी पञ्चकोशी भवान्तरे | आयामप्रस्थतो देवि नित्येयं नित्यदा शुभे [शुभा] || ६९ || इयं निर्वाणनगरी परं ज्योतिर्मयी शिवे | ब्रह्माण्डं स्थापयेत्तत्र सकूटं वस्तुमानवम् || ७० || यत्र भ्रमणतो देवि च [स] निर्वाणमवाप्नुयात् | सर्वस्वेनापि कर्तव्यं वाराणस्यां द्विजार्पणं || ७१ || वाराणस्यां द्विजस्थानं ब्रह्मयोगा रतिस्तथा | निष्कामे [निष्कामो] कर्मबन्धश्च सर्वं निर्वाणकारणम् || ७२ || प्. १५) गङ्गादि मुक्तिक्षेत्रादौ ज्ञानादियोगतस्तथा [अन्ययोगादिभिस्तथा] | मृतं पूतं नयेत् काश्यां मुक्तो ममोपदेशतः || ७३ || न वासोऽन्यत्र मे यस्मान्न मुक्तिः कालिकां विना | तत्र यद्यत्कृतं कर्म तदनन्तफलं लभेत् || ७४ || अक्षयं हि भवेत् सर्वं दृढां सिद्धिमवाप्नुयात् | तत्र सांयोगिकं पुण्यं तत्र चैव विमुच्यते || ७५ || तत्राहं तत्स्वरूपेण पुष्णामि नान्यथा शिवे | स्वल्पत्वे तिथिकालत्वे क्रियाकालगतिर्भवेत् || ७६ || काले खलु समारभ्य अकालेऽपि समापयेत् | सन्ध्यायां पतितायान्तु गायत्रीं दशधा जपेत् || ७७ || ततः कालोचितां सन्ध्यां कृत्वा कर्म समापयेत् | इत्येवं कथितं तुभ्यं यत् पृष्टं गिरिसम्भदे | इतः परतरं किञ्चित् तद् ब्रूयास्तव मानसे || ७८ || इति श्रीयोगिनीतन्त्रे सर्वतन्त्रोत्तमोत्तमे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे द्वितीयः पटलः | तृतीयः पटलः | श्रीदेव्युवाच भगवन् प्रमथाधीश देवदेव जगद्गुरो | युद्धस्य वारणं देव ज्वरादिवारणं तथा || १ || प्. १६) क्षिप्रं भवेत् कथं नाथ कृपया परया वद | नाशुत्राता [नास्ति] च जगतां त्वां विना परमेश्वर || २ || ईश्वर उवाच कथयामि तव स्नेहात् कवचं वारणं महत् | युद्धस्य च ज्वरादेश्च क्षिप्रं हि नगनन्दिनि | प्राकृतेनैव वाक्येन कथयामि शृणुष्व तत् || ३ || ओं नमो भगवति वज्रशृङ्खले हन्तु भक्षयतु खादतु, रक्तं [ख्: अह इत्यधिकं] पिब कपालेन रक्ताक्षि रक्तपटे भस्माक्षि ! भस्मलिप्तशरीरे वज्रायुधप्रकारनिचिते पूर्वां दिशं बन्धतु, दक्षिणां दिशं बन्धतु पश्चिमां दिशं बन्धतु नागार्थं धनाय ग्रहपतीन् बन्धतु नामपतिं बन्धतु, प्रेतभूतगन्धर्वादयो ये ये केचित् पुत्रकास्तेभ्यो रक्षतु ऊर्ध्वं रक्षतु, अधो रक्षतु, खनिकां बन्धतु, जलमहाबले, ह्येहि [एह्येहि] कोटिलोष्ट्रिशताबलिवज्राग्निवज्रप्रकरे, हूं फट् ह्रीं ह्रीं श्रीं फट् हुं हुं क्रूं फं फं सर्वग्रहेभ्यः, सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो मां रक्षतु || ४ || इतीदं कवचं देवि सुरासुरसुदुर्लभम् | ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् || ५ || न देयं यत्र कुत्रापि कवचं मन्मुखात् च्युतम् | दत्ते च सिद्धिहानिः स्यात् योगिनीनां भवेत् पशुः || ६ || दद्याच्छान्ताय वीराय [धीराय] सत्कुलीनाय योगिने | सदाचाररताय च निर्जिताशेषशत्रवे || ७ || प्. १७) देव्युवाच श्रुतं हि कवचं दिव्यं त्वन्मुखाम्भोजनिर्गतम् | इदानीं श्रोतुमिच्छामि जगद्वश्यकरं परम् || ८ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि जगन्मोहकरं महत् | नारदेन पुरा पुष्टं मत्तः कैलासमूर्धनि || ९ || कथितं कवचं तस्मै सर्वमोहकरं मया | तेनैव कवचेनैव नारदो ब्रह्मसम्भवः || १० || मोहयामास त्रैलोक्यं भित्त्वा हि कलहप्रियः | तदसम्भवमालोक्य विष्णुराह विधेः सुतम् || ११ || कथं वा मोहितं सर्वं वद मे कारणं मुने | तत्सर्वमभवद् विष्णौ विष्णुराह समुद्रजाम् || १२ || कैलासशिखरासीनं महादेवं जगद्गुरुम् | पप्रच्छ नारदो धीमान् सर्वलोकहिते रतः || १३ || नारद उवाच कालिकाया महाविद्यां [-विद्या] श्रूयतां [कथ्यतां] महतीं [महती] प्रभो | किमेतस्याः फलं देव किमेतन्मोहनं भवेत् || १४ || केनोपायेन समरे त्राणं मे वद शङ्कर | ईश्वर उवाच त्रिकाले गोपितं देवि काले काले प्रकाशितम् || १५ || काली दिगम्बरी देवी जगन्मोहनकारिणी | तच्छृणुष्व मुनिश्रेष्ठ त्रैलोक्यमोहनं त्विदम् || १६ || प्. १८) अस्य कालभैरव ऋषिरनुष्टुप्छन्दः श्मशानकाली देवता सर्वत्र मोहने विनियोगः | ऐं ह्रा/ ह्रू/ ह्रः स्वाहा विवादे पातु मां सदा, क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा | ह्रीं ह्रीं स्यामाङ्गिन् शत्रुं मारय मारय क्रीं क्लीं त्रलोक्यवशमानय ह्रीं श्रीं क्रीं मां रक्ष रक्ष विवादे राजगेहे च द्वाविंशत्यक्षरा परा || १७ || ब्रह्मराक्षसे [-राक्षस] वेताले [वेताल] रक्ष मां सदा | कवचैर्वर्जितं यत्र तत्र मां पातु कालिका || १८ || सर्वत्र रक्ष मां पातु देवी ममस्वरूपिणी | एतेषां [इत्येतत्] परमं मोहं भवद्भाग्ये प्रकाशितम् || १९ || सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् | इदं कवचमज्ञात्वा पूजयेद् वीरकामिनीम् || २० || सर्वदा स महाव्याधिपीडितो नात्र संशयः | अल्पायुः स भवेद्रोगी कथितं तव नारद || २१ || धारणं कवचस्यास्य भूर्जपत्रे विशेषतः | समन्त्रकवचं धृत्वा इच्छासिद्धिः प्रजायते || २२ || शुक्लाष्टम्यां लिखेन्मन्त्री धारयेत् स्वर्णपत्रके | कवचस्यास्य माहात्म्यं नालं वक्तुं महामुने || २३ || शिखायां धारयेद् योगी फलार्थी दक्षिणे भुजे | इदं कल्पद्रुमं देवि [देव] तव स्नेहात् प्रकाश्यते || २४ || गोपनीयं प्रयत्नेन पठनीयं [पठयेच्च] महामुने || २५ || प्. १९) विष्णुरुवाच इत्येवं कवचं नित्यं महालक्ष्मीः प्रापययताम् [प्रपठ्यताम्] | अवश्यं वशमायाति त्रैलोक्यं ते चराचरम् || २६ || शिवेन कथितं पूर्वं नारदे च फलेप्सिते | तत्पाठान्नारदेनापि मोहितञ्च चराचरम् || २७ || देव्युवाच पुरामुने [परमेश] जगद्वन्द्य प्रमथेश वरप्रद | नराणामुपकाराय ब्रूहि योगं सुविस्तरम् || २८ || येनाशु लभते राज्यं येनाशु लभते सुतम् | येनाशु लभते ज्ञानं येनाशु लभते धनम् | येनाशु लभते कीर्तिं येनाशु लभतेऽखिलम् || २९ || ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | उक्तं फेत्कारिणीतन्त्रे नीलतन्त्रे च विस्तरम् || ३० || इदानीं विस्तराद्देवि कथयामि शुचिस्मिते | उदेति पश्चिमे भानुश्चन्द्रो वा पतते भुवि [भानुश्चन्द्रो वा पश्चिमे वा पतेद् भुवि] || ३१ || यदि शुष्यति पाथोधिर्न मिथ्या च कदाचन | योगराजो महेशानि अव्यर्थो मे सदैव हि || ३२ || विष्णुचक्रं यथाऽव्यर्थं त्रिशूलञ्च यथा मम | कुलिशं देवराजस्य तथा योगो मयोदितः || ३३ || यथैव निश्चितं देवि ब्रह्मणः कमलासनम् | तथैव निश्चितो देवि योगोऽयं नात्र संशयः || ३४ || प्. २०) कल्पवृक्षो यथा देवि आकाङ्क्षापरिपूरकः | अयं योगवरो देवि तथैव परिकीर्तितः || ३५ || राज्यार्थञ्च कुलार्थञ्च सुतार्थं स्वर्णपत्रके | आयामप्रस्थितो देवि षोडशाङ्गुलसम्मिते || ३६ || यज्ञार्थञ्च धनार्थञ्च कीर्त्यर्थं राजते शुभे | तथायानमिते देवि तद् वत्ताम्रे विनाशने || ३७ || स्वर्णे वा परमेशानि अन्यार्थं भूर्जपत्रके | लिखेन्मन्त्रं वरारोहे तारिण्याः सर्वसिद्धिदम् || ३८ || राज्यार्थी च धनार्थी च पुत्रार्थी कीर्तिकाम्यकः | वृद्ध्यर्थी विलिखेद्देवि लेखिन्या सुमनोहरम् || ३९ || स्वर्णयष्ट्याष्टाङ्गुलायाः [स्वर्णषष्टांगुलायाश्च] कनिष्ठायाः प्रमाणतः | ज्ञानार्थं कुशमूलेन चान्यार्थं [चान्यार्थे] दूर्वया लिखेत् || ४० || आचम्य पुरतो देवि नत्वा च गुरुपादुकाम् | उत्तराशामुखो भुत्वा पूजयित्वा च तारिणीम् || ४१ || कुङ्कुमं रोचना जटामांसी चन्दनमेव च | काश्मीरं कस्तुरीं लाक्षां सिन्दूरञ्च वरानने || ४२ || सर्वमेकीकृतेनादौ षट्कोणचक्रमालिखेत् | तन्मध्ये विलिखेत्तारां सार्धवेदाक्षरीं पराम् || ४३ || सार्धपञ्चाक्षरीं वापि तन्मयो वेदमध्यगम् | साध्यं लिखेत्तच्च साध्यं शृणुष्व शम्भुवल्लभे || ४४ || अमुकस्यामुकं वाक्यं वशीकुरु च कुर्विति | प्. २१) अमुकस्यामुकं ज्ञानं सिद्धिं कुरु च कुर्विति || ४५ || अमुकीनां शुभं पुत्रमुत्पादयोत्पादयेति च | अमुकस्यामुकं धनं देहि देहीति कामिनि || ४६ || एवमेव क्रमेणैव साध्यं संलिख्य यत्नतः | क्लीबहीनात् दीर्घवर्णान् षट्कोणे षट्समालिखेत् || ४७ || वृत्तमष्टदलं पद्मं सुदृष्टं सुमनोहरम् | अष्टपत्रं लिखेत्तत्र किञ्जल्कयुगलं युगम् || ४८ || अष्टपत्रे अष्टवर्णान् वक्ष्यमाणात् लिखेत्ततः | वाग्भवं भुवनेशानीं [भुवनेशानि] कामं हुं प्रणवं तथा || ४९ || मायामन्त्रं ततः स्वाहा पूर्वादि क्रमतो लिखेत् | चतुरस्रं चतुर्द्वारमेवं यन्त्रं समालिखेत् || ५० || ज्ञानाप्तौ च सिद्धयोऽपि [सिद्धयेऽपि] अन्यत्र त्वमृतोदये | गुरौ शुक्रे तथा सोमे मङ्गले वद बुधेःनि च || ५१ || तारायां सानुकूलायां भजेन्मन्त्रं समाहितः | पीतवस्त्रेण संवेष्ट्य जतुना परिवेष्टयेत् || ५२ || पट्टवस्त्रेण रक्तेन बध्नीयात् साधकोत्तमः | स्वर्णपीठेषु संस्थाप्य संख्यानमाचरेत् कृती || ५३ || भूमिस्पृष्टं [भूमिपृष्ठे] न [नैव] तत् कुर्यात् न निर्माल्येन संसृतम् | विदीर्णं लङ्घितं वापि नैव कुर्यात् कदाचन || ५४ || आयामे प्रस्थितो देवि षोडशाङ्गुलमानतः | घटं कुर्यात् प्रयत्नेन सर्वदृष्टिमनोहरम् || ५५ || प्. २२) राज्यार्थी काञ्चनेनैव पुत्रार्थी रजतेन च | ताम्रेण चैव युद्धार्थी मृदान्यत्र [मृदाप्यन्यत्र] घटञ्चरेत् || ५६ || तत्र मुक्तां प्रवालञ्च मणिं रजतकाञ्चने | धान्यं क्षिप्त्वा मुखं तस्य पल्लवैः प्रतिपादयेत् || ५७ || क्षौमयुग्मेन रक्तेन प्रच्छाद्य प्रयतः सुधीः | अष्टाङ्गुलस्वर्णपत्रे चतुरस्रं समन्ततः || ५८ || तव मन्त्रं लिखित्वैव [लिखेच्चैव] घटे संस्थाप्य यत्नतः | चतुःषष्ट्युपचारेण यजेत्तारां परां शिवाम् || ५९ || राजके पुष्पके देवि षोडशाच्छादनं कुले || ६० || किञ्जल्कैर्मण्डितं देवि बलिमादाय पूर्ववत् | निवेदयेन्महायुक्त्या बलिमन्त्रेण मन्त्रवित् || ६१ || पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा च पूजयेत् | अष्टोत्तरसहस्रन्तु हुत्वा साधकसत्तमः || ६२ || तत्पुटोपरि देवेशि पुष्पाक्षतं विनिक्षिपेत् | भूमिं ग्राममितां दद्याद् राज्यमिच्छति कामुकः || ६३ || दक्षिणां युद्धकामी च काञ्चनाश्वौ महेश्वरि | शालग्रामशिलामेकां स्वर्णरेखाद्यलङ्कृताम् || ६४ || ज्ञानसिद्ध्यै प्रदद्यात्तु अन्यत्र गाञ्च काञ्चनम् | भोजयेद् ब्राह्मणान् धीरः कुमारीः कल्पपल्लवे [कल्पपल्लवि] || ६५ || ततस्तु साधयेद् यन्त्रं पुरुषो दक्षिणे भुजे | प्. २३) नारी वामभुजे चैव शिशुश्च कण्ठगोचरे | इत्येवं कथितं रम्यं न देवं प्राणसङ्कटे || ६६ || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे [सर्वतन्त्रोत्तमोत्तमे] चतुर्विंशतिसाहस्रे तृतीयः पटलः | चतुर्थः पटलः देव्युवाच देव देव जगद् बन्द्य सुरासुरनमस्कृत | इदानीं श्रोतुमिच्छामि वीरषट्कर्मसाधनम् || १ || धन्यं पुण्यवतां राज्ञां राज्यादिकवयोजुषाम् | स्त्रियास्तु सिद्धसंस्थानां सर्वयोगविलासिनाम् || २ || ईश्वर उवाच शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने तथा | मारणं परमेशानि षट्कर्मेदं प्रकीर्तितम् || ३ || तारिणीं कालिकां छिन्नामधिकृत्य जगन्मयि | कथयामि तव स्नेहात् अतः सिद्धिकरं [द्रुतसिद्धिकरं] परम् || ४ || रतिर्वाणी रमा ज्येष्ठा मातङ्गी कुलकामिनी | दुर्गा चैव भद्रकाली कर्मादौ कर्मसिद्धये || ५ || षोडशैरुपचारैश्च यजेद्वीरः स्वशक्तितः | शून्यागारे महारण्ये देवतायतनेऽपि वा || ६ || प्. २४) पञ्च कर्म प्रकुर्वीत मारणन्तु शवोपरि | तदभावे पितृभूमौ वासांसि कथयामि ते || ७ || मुख्यं दिगम्बरं ज्ञेयं द्वीपिचर्म द्वितीयकम् | तदभावे रक्तक्षौमं नान्यद् वस्त्रं प्रकल्पयेत् || ८ || स्वर्णमादौ द्वितीये च राजतं स्तम्भने शिला | विद्वेषोच्चाटने ताम्रं कपालं मारणे शुभम् || ९ || विप्रान्योऽपि [विप्रादन्यो] नरः प्रोक्तो युवा च कृष्णवर्णकः | अदुर्भिक्षाव्याधिमृतो माला तस्य शुभावहा || १० || अभावे स्फाटिकी जप्या इन्द्राक्षैर्वा जपेत् प्रिये | मृदौ वा कोमले वापि विष्टरे वा सुरेश्वरि || ११ || मुण्डे वा योनिके देवि त्वचि व्याघ्रस्य वा प्रिये | एकहस्ते द्विहस्ते वा चतुर्हस्ते समन्ततः || १२ || स्थिरासनश्चरेत् सम्यक् स्वाभयं तत्र चिन्तयेत् | भये जाते महेशानि भैरवोक्तमनु जपेत् || १३ || विषयुग्मं वज्रजाले हनुयुग्ममतः परम् | सर्वभूतानतः कूर्चमन्त्रान्तो भैरवो मनुः || १४ || ततो भूतवलिं दद्यात् साधको धर्मसम्मितम् | अश्वत्थेन महेशानि तद् धर्मकीलकञ्चरेत् || १५ || सूर्यवारादियोगेन पञ्च कर्म समाचरेत् | शनौ च मारणं देवि निश्चितं वीरवन्दिते || १६ || रात्रियोगे च कर्तव्यं सर्वं कर्म शुचिस्मिते | प्राग्विद्वान् प्रजपेत् सम्यक् स्वमन्त्रमयुतं शवे || १७ || प्. २५) प्रयोगस्य फलावाप्तौ स्वस्वरक्षाकरं महत् | ततः साध्यदिने मन्त्री याममात्रे गते निशि || १८ || मादिभिः [गणपञ्चभिर्देवैः] पञ्चभिर्द्रव्यैर्यजेत् कुलविनाशिनीम् | दिग्वासागलिताशेषचिकुरः कुलकौलिकः || १९ || शक्तियुक्तो जपेद् विद्यां सदा त्वां मनसा स्मरेत् | लक्षसंख्ये महेशानि शक्तिपूजापुरस्सरम् || २० || प्रत्यहं भोजयेद् विप्रान् कौलिकाद्यान् दिनान्तरे | मांसं मद्यं तथा मत्स्यं हुनेद् वह्नौ शतं शतम् || २१ || दक्षिणां गुरवे दद्यात् गुरुरूपेण शाम्भवि | एवमुक्तविधानेन दिग्भ्यो वा वीरपुङ्गवः || २२ || यदि कुर्यात् महेशानि देवानपि तथा नयेत् | नापेक्षा जायते कान्ते चावश्यं फलभाग्भवेत् || २३ || महाप्रयोगे देवेशि कृष्णच्छागं बलिं हरेत् | पूजान्ते सततं देवि तन्मांसैर्वह्निमर्चयेत् || २४ || विधिः सर्वत्र कथितो दिव्यवीरपशुक्रमात् | क्रमेण फलमाप्नोति व्यत्यये पातकी भवेत् || २५ || इत्येवं कथितं तुभ्यं सम्यक् षट्कर्मगोचरम् | गोपनीयं खले दुष्टे पशुपामरसन्निधौ || २६ || देव्युवाच सुराद्याः किंविधा देव शक्तिर्वा कीदृशी शुभा | षट्कर्मसु यथायोग्यं वद मे करुणानिधे || २७ || प्. २६) ईश्वर उवाच माध्वी शान्तिकरी प्रोक्ता वैश्ये च स्फाटिकी शुभा | स्तम्भने डाकिनी ज्ञेया विद्वेषे पौष्टिकी मता || २८ || उच्चाटने तथा गौडी मारणे भैरवी मता | एतासां लक्षणं देवि कथितं कुलमोहने || २९ || पद्मिनी शान्तिदा प्रोक्ता वश्ये च शङ्खिनी मता | स्तम्भनोच्चाटने देवि प्रशस्ता नागवल्लभा || ३० || मारणे च तथा शस्ता डाकिनी शत्रुमृत्युदा | गौराङ्गी दीर्घकेशी या सदा सामृतभाषिणी || ३१ || रक्तनेत्रा सुशीला च पद्मिनी साधने शुभा | मन्त्रसिद्धिकरी ह्येषा शङ्खिनी सापि भाविनी || ३२ || दीर्घाङ्गी सा शङ्खिनी स्याज्जगद्रञ्जनकारिणी | समाङ्गी शूद्रदेही च न खर्वा नातिदीर्घका || ३३ || दीर्घकेशी शतपुष्टा [मध्यपुष्टा] मृदुभाषा च नागिनी | कृष्णाङ्गी च कृशाङ्गी च दन्तुरा मदतापिता || ३४ || ह्रस्वकेशी दीर्घघोणा सदा निष्ठुरवादिनी | सदा क्रुद्धा दीर्घदेहा महारावपरायणा || ३५ || निर्लज्जा हास्यहीना च निद्रालुर्बहुभक्षिका | इयं सा डाकिनी प्रोक्ता मृत्युयोगे प्रशस्यते || ३६ || एतास्तु शक्तयो देवि सर्वजातिसमुद्भवाः | सापत्याश्च सुरत्यश्च जातपुत्रादिकाः शुभाः | ग्राह्या कुलरसैः पूज्या भक्तिभावेन कामिनी || ३७ || प्. २७) देव्युवाच केन केन च मन्त्रेण मन्त्री षट्कर्मभाग्भवेत् | तत्तन्मन्त्रं महेशान यद्यहं तव वल्लभा || ३८ || ईश्वर उवाच एकाक्षरं कालिकायास्तारायास्तु त्रिवीजकम् | वज्रवैरोचनीयो यो मनुरेकादशाक्षरः || ३९ || सर्वतेजोपहारी च मनुराख्यात एव च | बहुनात्र किमुक्तेन शृणु यत्प्राणवल्लभे || ४० || केवलं शक्तियुक्तश्च जपेद्देवीं समाहितः | अवश्यं फलमाप्नोति नान्यथा वीरवन्दिते || ४१ || खलो यदि फलप्राप्तः सफलो यदि निष्फलः | भवेदेतत् महेशानि तदा सर्वं वृथा भवेत् || ४२ || अहं धाता तथा पाता रक्षाभ्युद्योगिनः शिवे | तथापि नहि सिद्धिः स्यात् चित्रमेतन्नगात्मजे || ४३ || एवन्तु मारणं देवि विशेषात् कथयामि ते | शान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् || ४४ || ह्रीं हु/ हु/ अमुकं मारय मारय स्वाहा | कूर्चयुग्मं ततो देवि अमुकं मारय मारय || ४५ || चतुर्दशाक्षरो मन्त्रः स्वाहान्तः शत्रुनाशकः | खादिराङ्गारमादाय कुजाष्टम्यां विशेषतः || ४६ || लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपात्रके | निशायां मस्तके नेत्रे ललाटे हृदये करे || ४७ || प्. २८) नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये | मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् || ४८ || संहारमुद्रां बद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् | दीर्घाकारां कृष्णवर्णां सदोर्ध्वस्तनमस्तकाम् || ४९ || नृमुण्डयुगलं हस्ते चर्वयन्तीं दिगम्बरीम् | शत्रुनाशकरीं देवीं ध्यायेच्छत्रुक्षयाय च || ५० || एवं ध्यात्वेष्टकाचूर्णैर्वामहस्तेन शङ्करि | ओं शत्रुनाशकर्त्र्यै नम इति दत्त्वा महेश्वरि || ५१ || हरिद्राचूर्णसहितां धारां दद्यादनेन तु | अमुकस्य शोणितं पिब पिबेति तत्परम् | मांसं खादय खादय ह्रीं नम इति मन्त्रतः || ५२ || मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् | जपेदेकादशाहे च रोगः स्यात् नात्र संशयः || ५३ || दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्ध्रुवम् | अथवान्यप्रकारेण शत्रुक्षयमहं वदे || ५४ || पुङ्गीशकृत् समादाय पूजयेदुष्णवारिणा | विपरीतक्रमेणैव जपपूजादिकं चरेत् || ५५ || महादेवाय नम इति पुङ्गीशकृत् समाहरेत् | शिवाय नम इति मन्त्रेण गठनञ्च समाचरेत् || ५६ || पशुपतये नम इति प्राणान् संस्थापयेत्ततः | लौहपात्रे महेशानि खादिराङ्गारयोगतः | शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेच्छिवम् || ५७ || प्. २९) ततो ध्यायेद् महारुद्रं ध्यानं शृणु समाहितः | शत्रोर्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् || ५८ || वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् | नरचर्माम्बरं देवं महाव्यालादिवेष्टितम् || ५९ || पिनाकधृगिहागच्छ इत्यादिना आवाह्य यत्नतः | शूलपाणये नम इति स्नापयेत् साधकोत्तमः || ६० || महेश्वराय नम इति पाद्यादिना प्रपूजयेत् | ईशानादिं तथा मूर्तिं व्युत्क्रमेण प्रपूजयेत् | अग्निकोणादिपर्यन्तं सूर्यरीत्या महेश्वरि || ६१ || यः शिवः नमः [रो शिवाय नमः] ओं मूलमष्टाविंशतिः संजपेत् | हु/ क्षमयेति वामेन करेण तु विसर्जयेत् || ६२ || अजित केशव विष्णो हरे सत्य जनार्दन | हंस नारायण [हंसनारायणाय] स्वाहा मन्त्रमेव सकृज्जपेत् || ६३ || हु/ नमो भगवते वासुदेवाय स्वाहा | इति यः शिवः नम इत्यपि सकृज्जपेत् || ६४ || एवमेकादशाहेन शत्रून्मादनमञ्जसा | अवश्यं जायते देवि सत्यं सत्यं त्रिलोचने || ६५ || कथयामि महादेवि वैरस्तम्भनमुत्तमम् | कुम्भकारस्य भवनादानयेत् पिठरे जलम् [शूलम्] || ६६ || एकः स्वयं द्विकः स्फुटं यत् कृतं साधकोत्तमः | आनीय च ऊखामध्याद् भस्म पर्युषितं तथा || ६७ || प्. ३०) निःक्षिप्य पिठरे शुष्कनालिकापत्रविस्तरम् [शुष्के-] | भस्मोपरि च संस्थाप्य वाटिकायाः सुरेश्वरि || ६८ || ऐशान्यां विवरं कृत्वा शनेर्वारे महेश्वरि | पुनर्मध्याह्नकाले च निर्जने सति भाविनि || ६९ || चतुर्दिक्षु वाटिकाया गर्त्तस्य निकटात् प्रिये | तत्तावतीमहं भूमिं चौरेभ्यो रक्षयामि च || ७० || प्रफुल्लमनसा देवि भुमौ परिग्रहञ्चरेत् | तावतीञ्च ततो भूमिं वामावर्तेन भाविनि || ७१ || परिक्रम्य पुनस्तत्र गर्तस्य निकटं व्रजेत् | तत्रैव निर्जने गर्ते शलाकां लौहनिर्मिताम् || ७२ || रोपयित्वा तदुपरि पिठरं सशरावकम् | संस्थाप्य मृद्भिः संपूर्य तद्गर्तं गृहमाव्रजेत् || ७३ || गतिस्तम्भो भवेद्देवि चौरादीनां तथा खलु | अयं योगवरो देवि दुर्लभो वसुधातले || ७४ || पिशाचभूतवेतालकूष्माण्डब्रह्मरक्षसाम् | दानवानां तथान्येषां गतिस्तम्भः [गतिस्तत्र] प्रजायते [न जायते] || ७५ || धनपुत्रसमृद्धिस्तु वर्धतेःअर्निशं तथा | दिने दिने धर्मवृद्धिर्जायते नात्र संशयः || ७६ || इति योगिनीतन्त्रे सर्वतन्त्रोत्तमोत्तमे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे चतुर्थः पटलः | पञ्चमः पटलः | देव्युवाच | भगवन् सर्वधर्मज्ञ लोकानुग्रहकारक | साधनं सर्वमन्त्रस्य सर्वाशापरिपूरकम् | तदहं श्रोतुमिच्छामि तद वदस्व महेश्वर || १ || ईश्वर उवाच | शययायां साधनमादौ वक्ष्येःअं परमाद्भुतम् | सार्धयामगतायान्तु निशायां साधकोत्तमः || २ || भूत्वा दिगम्बरः सम्यगाचम्य विधिवत्तदा | अभ्युक्ष्य मूलमन्त्रेण शययायां तत्र संविशेत् || ३ || गुरुं परगुरुञ्चैव परापरगुरुं तथा | परमेष्ठिगुरुञ्चैव वामेऽभ्यर्च्य गणेश्वरम् || ४ || दक्षिणे च भ्रुवोरूर्ध्वं श्मशानवासिने नमः | ततो मायमासनाय नम इत्यर्चयेच्छिवे || ५ || शययां शययातले देवि प्रणवं वाग्भवञ्च फट् | लिखित्वाचम्य यत्नेन स्वमन्त्रोक्तविधानतः || ६ || प्रणवं मणिधराञ्चैव वज्रिणि चेन्महापदम् | प्रतिसरे रक्ष रक्ष मां हू/ फट् स्वाहया युतम् || ७ || अनेन मनुना देवि शिखां बद्ध्वा विधानतः | अङ्गन्यासकरन्यासौ मातृकान्यासमेव च || ८ || भूतशुद्ध्यादिकं कृत्वा हृत्पद्मे परमां शिवाम् | ध्यात्वा भक्त्या समभ्यर्च्य मानसैः साधकोत्तमः || ९ || प्. ३२) शययातले प्रणीयतां मन्त्रोपरि वरानने | प्रणवञ्च ततो देवि वटुकेभ्यो नमस्तथा || १० || इति मन्त्रेण मनसा वटुकं पाद्यादिभिर्यजेत् | ततस्तु वह्निबीजेन समन्ताज्जलधारया || ११ || वह्निप्राचीरमाचिन्त्य सङ्कल्पञ्च समादरात् | जपं कृत्वा समर्प्याथ विधिना परमेश्वरि || १२ || पुनः सङ्कल्प्य देवेशि कुर्यात् सर्वक्रमं शिवे | होमञ्च तर्पणञ्चैव अभिषेकं ततः परम् || १३ || विप्रस्य भोजनञ्चैव अभावे द्विगुणं जपेत् | काञ्चनं दक्षिणां दत्वा छिद्रावरणमाचरेत् || १४ || संप्रोच्य वटुकं देवि क्षमस्वेति विसर्जयेत् | एवमुक्तं महादेवि शययासाधनमुत्तमम् || १५ || मन्त्रसिद्धिकरं शीघ्रमस्मत्सायुज्यदायकम् | अथ शृणु त्रिवारस्य चतुर्वारस्य साधनम् || १६ || गत्वा तु त्रिपथं वापि चतुष्पथं वरानने | प्रणमेद् गुरुमभ्यर्च्य मणिधरीति मन्त्रतः || १७ || भध्वा ग्रन्थिन्तु वज्रान्ते निर्भयः साधकोत्तमः | श्मशानवासिनो ये ये देवा दैत्याश्च भैरवाः | दयां कुर्वन्तु ते सर्वे सिद्धिदाश्च भवन्तु मे || १८ || प्रणमेत् प्रणवाद्येन मनुनानेन भक्तितः | ततः पूर्वमुखो वापि उत्तराशामुखोऽपि वा || १९ || उपविश्य समाचम्य स्वस्ति वाच्य महेश्वरि | स्थानं सम्मार्ज्य तत्रैव प्रेतबीजं लिखेत् सुधीः || २० || प्. ३३) बीजोपरि महादेवि विहितासनमास्तरेत् | तत्रोपविश्य देवेशि हृदीष्टदेवतां स्मरेत् || २१ || यथेष्टमनसाराध्यमष्टासु च बलिं हरेत् | काल्यादिभ्यो महेशानि पूजयित्वा विधानतः || २२ || काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी | विप्रचित्ता तथा नीला वलाका च मुनिद्विषः [धनत्विषः] | प्रणवाद्य [प्रपावादिनमोन्तेन पूजावल्यादिना] ङेनमोऽन्ताः पूजाबल्यादिकाः स्मृताः || २३ || संकल्प्याष्टोत्तरशतं जप्त्वाच्छिद्रावधारणम् | कृत्वा स्थानं परित्यज्य देवीं स्मृत्वा गृहं व्रजेत् || २४ || एवमुक्तं साधनं ते सर्वसिद्धिनिषेवितम् | यस्मै कस्मै न दातव्यं साधकानां परं हितम् || २५ || अतः परमहं वक्ष्ये बिल्वमूलस्य साधनम् | बिल्वमूलं महेशानि समन्तात् षोडशं करम् || २६ || मम जटास्वरूपं हि पर्णं जानीहि सुन्दरि | ऋग्यजुःसामसदृशं पत्रत्रयं वरानने || २७ || शाखा हि सर्वशास्त्राणि जानीहि मीनलोचने | कल्पवृक्षसमो बिल्वो ब्रह्मविष्णुशिवादयः | महालक्ष्मीर्विल्ववृक्षो जातः श्रीशैलपर्वते || २८ || देव्युवाच कथं सा विष्णुवनिता बिल्ववृक्षो बभूव ह | वृत्तान्तं परमाश्चर्यं वद मे करुणामय || २९ || प्. ३४) ईश्वर उवाच शृणु देवि प्रवक्ष्यामि वृत्तान्तं परमाद्भुतम् | सत्ये तु पूजयामास लिङ्गं रामेश्वराभिधम् || ३० || ज्योतीरूपं मदीयांशं प्रार्थ्यं ब्रह्मादिभिः सह | तत्र मेऽनुग्रहाद् वाणी सर्वेषां प्रियतां गता || ३१ || विष्णोरतिप्रिया नित्यं साभूत् सरस्वती सदा | तादृक् प्रीतिर्न लक्ष्म्याञ्च जायते केशवस्य च || ३२ || इति चिन्तापरा लाक्ष्मीर्ययौ श्रीशैलमुत्तमम् | प्राप्तं मल्लिङ्गमेकान्ते तपस्तेपेऽतिदारुणम् || ३३ || तथापि यदि नैवाभूत् कृपा मे परमेश्वरि | तदा सा वृक्षरूपेण स्थिता लिङ्गाग्रतः सती || ३४ || पत्रैः पुष्पैः फलैः स्वीयैः पूजयामास सन्ततम् | कोटिवर्षे महेशानि ततो मेऽनुग्रहोऽभवत् || ३५ || तेनैवानुग्रहेणैव विष्णोर्वक्षःस्थिता भवेत् | सदैव परमेशानि विहरेत् सा सदैव हि || ३६ || अतस्तु कारणाद्देवि तद्रूपेण हरिप्रिया | सदैवापूजयद् माम् सा मद्भक्ता सातुला शिवे || ३७ || अतस्तु वृक्षमास्थाय तिष्ठामि च दिवानिशम् | सर्वतीर्थमयो देवि सर्वदेवमयः सदा || ३८ || श्रीवृक्षः परमेशानि अत एव न संशयः | तत्फलैस्तत्प्रसूनैर्वा तत्पत्रैर्यः प्रपूजयेत् || ३९ || प्. ३५) तत्काष्ठचन्दनैर्वापि स मे भक्तः स मे प्रियः | तत्काष्ठचन्दनं भाले यो धारयति संभ्रमात् || ४० || तन्नूनं शिवबुध्या वा नमेद्देवि मुदान्विता | अतस्तच्चन्दनं देवि धारयेन्न कदाचन || ४१ || तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्न हि | बिल्वमूले महेशानि प्राणांस्त्यजति यो नरः || ४२ || रुद्रदेहो भवेत् सत्यं पापकोटियुतो हि सः | अतस्तत्साधनं देवि सर्वेषां प्रियकारकम् || ४३ || यत्र गत्वा बिल्वमूलं प्राग्वद्गुरुचतुष्टयम् | अभ्यर्च्य यत्नतो देवि क्षेत्रपालं प्रपूज्य च || ४४ || क्षेत्रपाल महाभाग श्मशानाधिप सुव्रत | सिद्धिं देहि जगत्कर्ता देहि स्थानं नमोस्तु ते || ४५ || अनेन प्रणवाद्येन मनुना प्रणमेत्ततः | ततः स्थानन्तु सम्पूज्य लिखेत्तत्र वरानने || ४६ || वाग्भवं प्रेतबीजञ्च पुनर्वाग्भवमेव च | तदन्ते मूलमन्त्रञ्च विलिखेत् साधकोत्तमः || ४७ || पूजयित्वा च काल्याद्याः पूर्ववत् परमेश्वरि | संकल्प्याष्टोत्तरयुतं जप्त्वा च्छिद्रावधारयेत् || ४८ || परित्यज्य ततः स्थानं गुरुं स्मरन् गृहं व्रजेत् | इत्येवं कथितं तुभ्यं सारात् सारं परात् परम् || ४९ || गोपनीयं सदा भद्रे विशेषात् पशुसंकुले | इदानीं शृणु देवेशि मुण्डसाधनमुत्तमम् || ५० || प्. ३६) यत् कृत्वा साधको याति महादेव्याः परं पदम् | नरमहिषमार्जारमुण्डत्रयं वरानने || ५१ || अथवा परमेशानि नृमुण्डत्रयमादरात् | शिवासर्पसारमेयनृणां [वृषभानां] भवा महेश्वरि || ५२ || नरमुण्डं [पञ्चमुण्डं] तथा मध्ये पञ्चमुण्डानीतीरितान् | अथवा परमेशानि नराणां पञ्चमुण्डकान् || ५३ || तथा शतं सहस्रं वाऽयुतं लक्षं तथैव च | नियुतञ्चाथवा कोटिं नृमुण्डान् परमेश्वरि || ५४ || नरमुण्डं स्थापयित्वा प्रोथयित्वा धरातले | वितस्तिप्रमितां देवीं तस्योपरि प्रकल्पयेत् | आयामप्रस्थितो देवि चतुर्हस्तौ समाचरेत् || ५५ || सहस्रं लक्षपर्यन्तं षोडशीं हस्तसम्मिताम् | ततः परं महादेवि शतहस्तमिताञ्चरेत् || ५६ || तस्यास्तु भूतनाथादिन् चतुर्दिक्षु समर्चयेत् | पूर्वोक्तभूतनाथाय नमो मन्त्रेण देशिकः || ५७ || पाद्यादिभिः पूजयित्वा बलिं दद्यात् प्रयत्नतः | एवन्तु दक्षिणे देवि श्मशानाधिपमादरात् || ५८ || तद्वच्च पश्चिमे भागे कालभैरवमुत्तमम् | श्मशानमुत्तरे तद्वत् पूजयित्वा बलिं ददेत् || ५९ || वेदीमध्ये प्रेतबीजं फट्कारे तदनन्तरम् | पाद्यादिभिरनेनैव कुण्डेभ्यः परिपूजयेत् || ६० || प्. ३७) नैॠत्यां (ह्रीं) चण्डिकाबीजं विलिख्य साधकोत्तमः | तत्रैव पूजयेद् भक्त्या भारतीं स्वस्वविग्रहाम् [शुभ] || ६१ || वाग्देवता ङेयुता [वाग्देवताभगयुतां] च नमोऽन्तवाग्भवादिना | अनेन मनुनाभ्यर्च्य बलिं तस्यै निवेदयेत् || ६२ || हे वीर शवदेवेश मुण्डरूप जगत्पते | दयां कुरु महाभाग सिद्धिदो भव मज्जये || ६३ || वेदिकोपर्यनेनैव पुष्पाञ्जलित्रयं क्षिपेत् | शवे कुर्याद् वह्निसंस्थं पाशमिन्दुकलान्वितम् || ६४ || मायाबीजं कूर्चबीजे फट्कारं तदनन्तरम् | पाद्यादिभिरनेनैव कुण्डेभ्यः परिपूजयेत् || ६५ || नै-ऋत्यां ह्रीं चण्डिकायै नमो मन्त्रेण देशिकः | वायव्ये ह्रीं भद्रकाल्यै नमो मन्त्रेण तत्परम् || ६६ || ईशाने ह्रीं भद्रकाल्यै नमो मन्त्रेण शाम्भवि | अग्नौ ह्रीं चण्डोग्रायै नमो मन्त्रेण साधकः || ६७ || पूजयित्वा बलिं दत्वा उत्थाय सम्मुखे ततः | श्मशानवासिनो ये ये देवा देव्यश्च भैरवाः || ६८ || दयां कुर्वन्तु ते सर्वे सिद्धिदास्ते भवन्तु मे | अनेन प्रणवाद्येन पुष्पाञ्जलित्रयं क्षिपेत् || ६९ || ततः स्थानन्तु संस्पृश्य वशो भव वदेदिति | विष्टरासनमास्तीर्य उपविश्य महेश्वरि || ७० || प्. ३८) अष्टाधिकायुतं जपं कृत्वा च्छिद्रावधारयेत् | स्थानं परिष्कृत्य नत्वा देवीं ध्यायन् गृहं व्रजेत् || ७१ || पुरश्चर्याविधौ देवि शेषं शृणुष्व शाम्भवि | कीलकं नैव कुर्यात्तु त्रिमुण्डोपरि कर्हिचित् || ७२ || शून्यागारे नदीतीरे पर्वते वा चतुष्पथे | बिल्वमूले श्मशाने वा निर्जने चैकलिङ्गके || ७३ || एतेषु प्रोथयेन्मुण्डान् सर्वकामार्थसिद्धये | एवं वा प्रोथयित्वा च नारं मुण्डं विधानतः || ७४ || अनेन सर्वसिद्धीशो [सर्वसिद्धिः स्यात्] बहुभिः किमु सुव्रते | इत्येवं कथितं देवि मुण्डानां साधनं शिवे | यत् कृत्वा सर्वसिद्धानामधिपो भुवि जायते || ७५ || इति योगिनीतन्त्रे सर्वतन्त्रोत्तमोत्तमे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे पञ्चमः पटलः | षष्ठः पटलः देव्युवाच भगवन् सर्वधर्मज्ञ सर्वागमविशारद | गुरुस्त्वं सर्वमन्त्राणां करुणामयसागर || १ || सर्वधर्मकृता यूयं योगिहृत्पद्मभास्कराः | प्. ३९) दिव्यभावो वीरभावो महत्त्वेन प्रदर्शितः | त्वया तत्र विशेषेण वद मे चन्द्रशेखर || २ || ईश्वर उवाच दिव्यवीरविभेदेन योगद्वयं समीरितम् | तद्योगादभवत् कौलो दिव्यवीरो महेश्वरि || ३ || तद्योगं हि विना देवि तत् कर्म यः समाचरेत् | समायोगी [स नो योगी भवेद्] यजेद्देवि मुमुक्षुः कुलकामिनि || ४ || तावच्च [तावत्तेहं] ते प्रवक्ष्यामि श्रुत्वा कर्णेऽवतंसय | आत्मानं परमं ब्रह्म चिन्तयेदथवा न चेत् || ५ || आत्मदेहं स्वेष्टरूपं सदैव परिचिन्तयेत् | ब्रह्माण्डञ्च तथा सर्वं स्वेष्टरूपं विभावयेत् | दिव्ययोगमिदं देवि सावधानेन गोपय || ६ || वीरयोगं शृणुष्वेमं सर्वदेवनमस्कृतम् | बिन्दुत्रयं कलाक्रान्तं प्रथमं परिचिन्तयेत् || ७ || तत्तस्माद्भावयेज्जातं स्त्रीरूपं षोडशादिकम् | बालार्ककोटिसंज्योतिः प्रकाशितदिगम्बरम् || ८ || मूर्धादिस्तनपर्यन्तमूर्ध्वविन्दोः समुद्भवम् | बिन्दुयावन्मध्यदेहं कण्ठादिकटिशीर्षकम् || ९ || स्तनद्वयेन भासन्तं त्रिवलीपरिमण्डितम् | योन्यादिकञ्च पादान्तं कामान्तं परिचिन्तयेत् || १० || प्. ४०) नानालङ्कारभूषाढ्यं ब्रह्मेशविष्णुवन्दितम् | एवं कामकलारूपं स्वात्मदेहं विचिन्तयेत् || ११ || सदैव परमेशानि वीरयोगमिमं शृणु | संक्षेपात् कथयिष्यामि तयोराचारमुत्तमम् || १२ || मध्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | इदमाचरणं देवि पशोर्न दिव्यवीरयोः || १३ || स देवाचारवान् भूयाद् दिव्यो वीरो महेश्वरि | यदि दैवाद् महेशानि मद्यादि च न लभ्यते || १४ || कस्मिन्नहनि [तस्मिन्] देवेशि तदात्मानं समाचरेत् | तथापि न हि वक्तव्यमिदमाचमनं शिवे || १५ || महामद्यं विना कौलः क्षणादूर्ध्वं न तिष्ठते | तस्माद् मद्यादिकं देवि सेवितव्यं दिने दिने || १६ || अनुष्ठानविधिं वक्ष्ये शृणु त्वं पर्वतात्मजे | गुरुणा दीक्षितो भूत्वा कौलन्यासं समाचरेत् || १७ || तद्विधिश्चोत्तरे तन्त्रे एतत् स्यात्तु कुलार्णवे | मयोक्तं तत् क्रमेणैव अभिषेकद्वयं चरेत् || १८ || नाम लब्ध्वा गुरोश्चापि वृणुयाद् योगमुत्तमम् | दिव्यं वा वीरयोगं वा यथा कर्मानुसारतः || १९ || तत्क्षणात् प्रियतामेत्य मुक्तो भवति कालतः | यस्तु दिव्यो भवेत् सत्यं स विष्णुर्नात्र संशयः || २० || प्. ४१) यो रुद्रो भविता शेषे वीर एव न संशयः | यत्र देशे नरस्तिष्ठेद् दिव्यो वा वीरपुङ्गवः || २१ || तत्तत् कुलं वा देवेशि स देशक्षितिराट् स्वयम् | सिद्धिक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् || २२ || तत्रैव सर्वतीर्थानि तत्र गङ्गा सरिद्वरा | योगिनी दुर्लभाप्येतद्डाकिनीभिः सरीसृपैः || २३ || ब्रह्मराक्षसवेतालैः कुष्माण्डैर्भैरवैः शिवैः | गुह्यकैर्दानवैर्वापि मारीभिर्यक्षकिन्नरैः [मायाभिः] || २४ || रोगैर्दुष्टमृगैश्चैव दुर्भिक्षैः सर्पसंकुलैः | अवश्यं मङ्गलं तत्र तत्पुरीपरिवर्धनम् || २५ || सुभिक्ष्यं क्षेममारोग्यमेवं ते धर्मकोषकः | स्फुरन्ति सर्वशास्त्राणि सर्वस्मादपि नित्यशः || २६ || ब्रह्मविष्णुशिवादीनां सुप्रियः साधकोत्तमः | तरवोऽपि हि जीवन्ति पशुः पक्षी स जीवति || २७ || कुलधर्मे मनो यस्य स्वधर्मश्च व्यवस्थितः | यत्र कुत्र मृतो देवि दिव्यो वा वीरपुङ्गवः || २८ || तत्रैव परमे ज्ञाने कर्णमूले ददाम्यहम् | कुलधर्ममिमं देवि संसेव्यं सनिरन्तरम् || २९ || कुलधर्मपरा देवि सर्वे च त्रिदिवौकसः | मुनयो मानवो नागाः सिद्धगन्धर्वकिन्नराः || ३० || ऋषयो वसवो दैत्या येऽपि स्युः कुलपुङ्गवाः | कुलधर्मप्रसादेन ते सर्वे कुलनायकाः || ३१ || प्. ४२) इन्द्राद्याः खेचरारूढा भवेयुश्चिरजीविनः | ये यथा मां प्रपद्यन्ते ते तथा फलभागिनः || ३२ || ब्राह्मणः क्षत्रियो वैश्यो ब्रह्मचारी गृही तथा | वानप्रस्थो पतिश्चैव भवेयुस्ते कुलानुगाः || ३३ || तेषां विधिं शृणुष्वाद्य मत्तस्त्वं कुलनायिके | गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च || ३४ || नारिकेलोदकं कांस्ये क्षत्रियस्य वरानने | वैश्यस्य माक्षिकं प्रोक्तं कांस्यस्थं वरवर्णिनि || ३५ || मांसं मत्स्यन्तु सर्वेषां लवणाद्रकमीरितम् | भूर्जधान्यादिकं यद्यच्चर्वणीयं प्रचक्षते || ३६ || सा मुद्रा कथिता देवि सर्वेषां नगनन्दिनि | ब्राह्मणी ब्राह्मणस्यैव क्षत्रिया क्षत्रियस्य च || ३७ || वैश्या वैश्यस्य देवेसि मैथुने यद्विधिः [च प्रशस्यते] स्मृतः | वैश्या वा ब्राह्मणी [ब्राह्मण क्षत्रियवर्णानां] क्षत्रा त्रिवर्णानां महेश्वरि || ३८ || क्षत्रिया ब्राह्मणस्यापि कथिता वरवर्णिनि | शूद्रा वा ब्राह्मणादीनां त्रिवर्णानामभावतः || ३९ || ब्रह्मक्षत्रविशाञ्चैव आश्रमिणामिदं स्मृतम् [व्रतम्] | त्रिवर्णविहितानाञ्च यतीनां शृणु सम्प्रति || ४० || सहस्रारोपरि बिन्दौ कुण्डल्या मेलनं शिवे | मैथुनं परमं [शयनं] दिव्यं यतीनां परिकीर्तितम् || ४१ || अवधूताश्रमी यो हि तस्य वक्ष्ये विधिं शृणु | पौष्टिकादीनि सर्वाणि मद्यानि तस्य शाम्भवि || ४२ || प्. ४३) मत्स्यं मांसं तस्य देवि जलभूचरखेचरम् | पूर्वोक्ता च भवेन्मुद्रा देवता सादरान्विता || ४३ || मातृयोनिं परित्यज्य मैथुनं सर्वयोनिषु | क्षतयोनिस्ताडितव्या अक्षतां नैव ताडयेत् || ४४ || अक्षताताडनद्देवि सिद्धिहानिः प्रजायते | द्वादशाब्दाधिका योनिर्यावत् षष्टिः प्रजायते || ४५ || तावत्तु मैथुनं तस्या यावत्तु स्यात् स्वयम्भवा | अवधूतसमाचाराः शूद्रे सर्वाः प्रकीर्तिताः || ४६ || विशेषं मैथुने तस्य कथयामि शृणुष्व मे | ब्राह्मणीं क्षत्रियां वैश्यां त्यक्त्वा तु सर्वजातिषु || ४७ || मैथुनं प्रचरेद्धीमान् देवताभावचेष्टितम् | गृहमेधी भवेच्छुद्रो नान्याश्रमी भवेत् कदा || ४८ || शूद्रवदन्यजातीनामाचारोऽयं प्रकीर्तितः | गुरुवद् द्वे त्रिवर्णे तु तथा मातामहे कुले || ४९ || मैथुनं सुसमुद्दिष्टमवधूताश्रमेऽपि च | काली तारा छिन्नमस्ता सुन्दरी भैरवी तथा || ५० || मातङ्गी च तथा विद्या विद्या धूमावती तथा | एतासां साधकाचारश्चावधूतः समः स्मृतः || ५१ || सर्वाश्रमे सर्ववर्णे सर्वयोगे तथा शिवे | सर्वस्थानेषु सर्वत्र न विशेषं क्वचिद् भवेत् || ५२ || आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् | एवं विप्रो देवतायै स्वगात्ररुधिरं ददेत् || ५३ || प्. ४४) शक्तिनाशः विकारोऽस्ति स्वदेहरुधिरार्पणे || ५४ || तस्याभिव्यञ्जनं द्रव्यं [द्रव्यादि] दीयते कालयोगिभिः | शुद्ध्यादि सकलं देवि व्यञ्जकस्यापरार्धकम् || ५५ || केवलेनाद्ययोगेन साध्यः काल्याद्युपासकः | भैरवाय द्वितीयेन शिवत्वञ्च तृतीयकम् || ५६ || चतुर्थे सर्वसिद्धीश चित्रमेतन्नगात्मजे | परेण परतां याति मम तुल्यो न संशयः || ५७ || सेवितं कुलतत्वे तु कुलतत्त्वसुदर्शिनः | जायन्ते न भैरवास्ते वेशास्तत्समदर्शिनः || ५८ || तमःपरिवृतं वेश्म यथा दीपेन दृश्यते [हन्यते] | तथा मायावृते वृत्ते ज्ञानदीपेन दृश्यते [हन्यते] || ५९ || निरस्तभेदवस्तु स्यान्मेध्यामेध्यादिवस्तुषु | जीवन्मुक्तो देहभावो देहान्ते क्षेममाप्नुयात् || ६० || पीत्वा कुलरसं वीरो ब्रह्मध्यानमुपाश्रयेत् | ब्रह्मध्यानं महेशानि ब्रह्मनिर्वाणकारणम् || ६१ || तच्छृणुष्व महेशानि सारात्सारं परात्परम् | स्वकीयजीवदेहादि ब्रह्माण्डोऽनन्त एव च || ६२ || एवं हि सकलं देवि देहे महार्णवादि यत् | न चिन्तनीयं तत्सर्वं नास्तीति परिभावयेत् || ६३ || मात्स्यीयकं महातेजश्चैतन्यव्यापकं यथा | अहमेव जालरूपश्चाधारदेहवर्जितः || ६४ || प्. ४५) आत्मानमपि देवेशि तदभेदेन चिन्तयेत् | ब्रह्मध्यानमिदं प्रोक्तमेतत् स्थिरतराय च || ६५ || सेवन्ते योगिनो द्रव्यं नान्यथा तु कदाचन | क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् || ६६ || तस्मै दद्यात् फलं देवी तस्यान्ते [तद्विना] नैव गम्यते | मया वा ब्रह्मणा वापि विष्णुनापि कथञ्चन || ६७ || अत एव महेशानि नित्य कर्म न लोपयेत् | द्रव्याभावे महेशानि जलेनापि समाचरेत् || ६८ || अथवा मनसा नित्यं कुलयोगं समाचरेत् | वक्ष्येऽयुतविधिं भद्रे शृणुष्व कमलानने || ६९ || कुण्डल्या मिलनादिन्दोः स्रवते यत् परामृतम् | पिबेद् योगी महेशानि सत्यं सत्यं शिवः [वरानने] स्वयम् || ७० || कुलयोगं महापानमिदमेव [महादेवि महापानमिदं स्मृतम्] स्मृतं ध्रुवम् | पापपुण्यं पशुं हत्वा ज्ञानखड्गेन शाम्भवि || ७१ || परमात्मनि नयेच्चित्तं पलाशीति निगद्यते | मनसा सेन्द्रियं सर्वं संयम्यात्मनि योजयेत् || ७२ || मत्स्याशी स भवेद्योगी मुक्तबन्धस्तव प्रिये | अशेषब्रह्माण्डभाण्डं परब्रह्मणि संनयेत् || ७३ || परशक्यात्मसंयोगो न वीर्ये मैथुनं मतम् | प्. ४६) एवं ते कथितं देवि सारात्सारं परात्परम् || गोपनीयं गोपनीयं मम सर्वस्वसाधनम् || ७४ || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे [सर्वतन्त्रोत्तमोत्तमे] देवीश्वरसंवादे चतुर्विंसतिसाहस्रे षष्ठः पटलः | सप्तमः पटलः देव्युवाच नमस्तुभ्यं महादेव संसारार्णवतारक | जायाशेष जगन्नाथ भक्तवत्सल ईश्वर || १ || परमानन्दसन्दोहकारणानाञ्च कारण | दिव्यवीरप्रभेदेन श्रुतं योगद्वयं मया || २ || इदानीं श्रोतुमिच्छामि विद्यां स्वाप्नवतीं शुभाम् | मृतसञ्जीवनीं विद्यां तथा मधुमतीमपि | आसफलं साधनञ्च वद मे परमेश्वर || ३ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | ओं ह्रीं स्वपुरावाहि कालि स्वप्ने कथयामुकस्यामुकं देहि क्रीं स्वाहा || ४ || प्रणवं पूर्वमुद्धृत्य मायाबीजं तदन्तरम् | तदन्ते स्वपुरावाहि कालि सम्बोधनद्वयम् || ५ || प्. ४७) स्वप्ने कथय तत् पश्चादमुकस्यामौकं ततः | देहि पदात् कालीबीजमन्ते वह्निवधून्तथा || ६ || इयं स्वाप्नवती विद्या त्रैलोक्ये चातिदुर्लभा | महाचमत्कारकरी महाकालेन भाषिता || ७ || अष्टोत्तरशतं नित्यं जपेद्वर्षचतुष्टयम् | ततः सिद्धा भवेद् विद्या स्वप्ने तिष्ठति नित्यशः || ८ || स्वप्ने दर्शयते सर्वं यद्मन्मनसि कल्प्यते | मृतसञ्जीवनीं विद्यामतः शृणु नगात्मजे || ९ || अमृतं बीजमाभाष्य मृतसञ्जीवनीति च || १० || स्वसन्धातं [स्वमन्त्रांश्च] ततः पश्चान्मृतमुत्थापय [पयत्विमम्] द्वयम् || ११ || वृहद्भानुवधूमन्ते त्रैलोक्ये चापि विश्रुता | ससुप्तेयं महाविद्या सारात्सारतरं स्मृतम् || १२ || नित्यमष्टोत्तरशतं जपमात्रेण शाम्भवि || १३ || सिद्धिदा सा भवेद्विद्या मृतसञ्जीवनी ततः || १४ || कालालयं गतो यो वा चिताधूमागतोऽपि वा | मन्त्रं जपन् स्पृशेच्छवं तदा देवि वरानने || १५ || चिरजीवी भवेत् सत्यं नात्र कार्या विचारणा | वक्ष्ये मधुमतीं विद्यां सर्वरञ्जनकारिणीम् || १६ || श्रीमधुमति इत्युक्त्वा स्थावरजङ्गमाकर्षिणीति [दिशः स्थावरजङ्गमाः] च | प्. ४८) ठं ठं स्वाहा महाविद्या वसुचन्द्राक्षरी परा | त्रैलोक्याकर्षिणी विद्या प्रोक्तेयं देवदुर्लभा || १७ || एकवर्षं जपेन्नित्यं शतमष्टोत्तरं नरः | ततः सिद्धा महाविद्या सर्वज्ञानप्रकाशिनी || १८ || आकर्षयेत् सुमेरुञ्च दिशः सागरमेव च | नदीं रत्नानि च पुरीं स्त्रियः शैलान् वनस्पतीन् || १९ || अलभ्यानि च द्रव्याणि पातालादिस्थितान्यपि | पुरस्थानं च वृत्तान्तं राज्ञाञ्च विद्विषामपि || २० || नक्तं तल्पशतजपात् सिद्धिं प्राप्नोति साधकः || २१ || देव्युवाच देवदेव जगद्धाम प्रसीद सुमुख प्रभो | यत् पृष्टं यच्छ्रुतं नाथ श्रोतुमिच्छामि सम्प्रति | पश्यावतीमहाविद्यां सर्वविद्याविनोदिनीम् || २२ || ईश्वर उवाच कथयामि वरारोहे विद्यां पद्मावतीं शुभाम् | प्रणवं पूर्वमुद्धृत्य मायाबीजं तदन्तरम् || २३ || पद्मावतीपदं देवि सम्बुद्ध्यन्तं समुद्धरेत् | त्रैलोक्यवार्तामन्ते च कथय द्वन्द्वमुच्चरेत् || २४ || स्वाहान्तेयं महाविद्या कथिता कल्पवल्लरी | अष्टोत्तरशतं नित्यं जपेद्वर्षद्वयं प्रिये || २५ || ततः सिद्धा महाविद्या सर्वं वदति साधके | तल्पे स्थित्वा नक्तयोगे जपेद् मन्त्रं शताष्टकम् || २६ || प्. ४९) जगद्धितस्य वृत्तान्तं तज्जानाति दिने दिने | ब्रह्मविष्ण्वादिकानाञ्च त्रैलोक्यस्यापि शङ्करि | वृत्तान्तं कथयेत् स्वप्ने विद्या पद्मावती शुभा || २७ || देव्युवाच श्रुतञ्च साधनं पुण्यं महाकालेन भाषितम् | इदानीं श्रोतुमिच्छामि वशीकरणमुत्तमम् | अल्पसाध्यं महादेव द्रुतसिद्धिकरं महत् || २८ || ईश्वर उवाच तवानुरोधाद्देवेशि कथयामि शृणुष्व तत् | पुरा ते कथितं देवि योगिनां ज्ञानसम्भवम् || २९ || संक्षेपादधुना देवि विस्तरात् कथयामि ते | गोपितव्यं प्रयत्नेन सर्वदा पशुसङ्कुले || ३० || कुजवारे नक्तयोगे अमायाञ्च तिथौ नरः | शत्रुनाम लिखित्वा तु वामपादतले न्यसेत् || ३१ || तत्पादोपरि देवेशि वाग्भवं प्रजपेत् सुधीः | अष्टोत्तरशतं देवि तदा वादी वशो भवेत् || ३२ || अतिमूको भवेच्छत्रुर्विवादे व्यवहारके | तार्क्षं दृष्ट्वा यथा सर्पो जडो भवति कामिनि || ३३ || तत्रैव तत्समालोक्य जडो वादी न संशयः | तथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् || ३४ || येन योगप्रभावेण भुवनं वशमानयेत् | प्रणवं पूर्वमुद्धृत्य सुन्दरी भैरवी तथा || ३५ || प्. ५०) योगिनीपदतो देवि राजा प्रजा महारथी | वशङ्करि तथा प्रोच्य अं इं ऋं तथा वदेत् || ३६ || षड्विंशत्यक्षरो मन्त्रः कथितः कल्पपादपः | अनेन मनुना देवि तैलञ्च चन्दनञ्च वा || ३७ || शताष्टजप्तं तत्तैलं मुखे दद्याद् वरानने | तच्चन्दनेन तिलकं भाले दद्यान्नगात्मजे || ३८ || जगद्वश्यक्रियामेतां कृत्वा साधकसत्तमः | चेत्तु पश्यति यं देवि स वशो नात्र संशयः || ३९ || एवमेव विधानेन देवेन्द्रमपि मोहयेत् | किं पुनर्मानवान् देवि सार्वभौमान् नराधिपान् || ४० || अथोच्यते महादेवि वशीकरणमुत्तमम् | सर्वेषां जगतां देवि मोहनं परमाद्भुतम् || ४१ || मन्त्रमादौ प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् | प्रणवं पूर्वमुद्धृत्य वदेद्राजमुखीपदम् || ४२ || पुनाराजमुखी प्रोच्य मायाबीजद्वयं वदेत् | कामबीजं ततः पश्चाद्देवी देवीपदद्वयम् || ४३ || महादेवीपदं पश्चाद्देवि देवाधिदेवी च | सम्बोधनान्तं देवेशि पदमेतच्चतुष्टयम् || ४४ || सर्वजनस्याभिमुखं मम वशं कुरु कुर्विति | स्वाहान्तोऽयं महामन्त्रः सर्ववश्यप्रदो महान् || ४५ || इति मन्त्रेण शययास्थः प्रातःकाले महेश्वरि | त्रिवारं दक्षहस्तेन मुखं संमार्जयेत् कृती || ४६ || प्. ५१) एवन्तु प्रत्यहं कुर्याज्जगद्वश्याय कामिनि | अवश्यं जायते वश्यं जगदेतच्चराचरम् || ४७ || देव्युवाच श्रुतमेतत् महादेव त्वत्प्रसादात् पुरातनम् | स्वाप्नवती च या विद्या कथितावगता मया || ४८ || इदानीं श्रोतुमिच्छामि विशेषं तत्र यद्भवेत् | तद्वदस्व महादेव यदि तेऽनुग्रहो मयि || ४९ || ईश्वर उवाच कथयामि शृणु प्राज्ञि विद्यां स्वाप्नवतीं पराम् | प्रणवं पूर्वमुद्धृत्य वधूबीजऽम् समुद्धरेत् || ५० || मायाबीजं ततः स्वाहामन्त्रमेतत् नगात्मजे | दिवा भुक्त्वा हविष्यान्नं रात्रौ जप्त्वा सहस्रकम् || ५१ || ततः शुद्धायां शययायां तदा स्वप्ने हि पश्यति | मनसा चिन्तितं यद्यत् तत् सर्वं परमेश्वरि || ५२ || अथापरं प्रवक्ष्यामि स्वप्नप्रबोधमुत्तमम् | येन विज्ञानमात्रेण सर्वं जानाति निश्चितम् || ५३ || प्रणवं प्राक् समुच्चार्य हि लि हूं [हू/] शूलपाणये | स्वाहान्तोऽयं महामन्त्रः प्रोक्तस्ते कमलेक्षणे | विधानं पूर्ववत् सर्वं जपान्ते प्रार्थनं शृणु || ५४ || ओं नमो जगत्त्रिनेत्राय पिङ्गलाय महात्मने | वामदेवसुरूपाय स्वप्नाधिपतये नमः || ५५ || प्. ५२) स्वप्ने कथय मे तत्त्वं सर्वं कार्यं शुभाशुभम् | इति मन्त्रेण संप्रार्थ्य सर्वं जानाति भावतः [तत्त्वतः] || ५६ || एतत्ते कथितं देवि स्वप्नबोधमनुत्तमम् | रहस्यं परमं रम्यं वशीकरणमुत्तमम् || ५७ || सर्वमेतत् महादेवि सर्वज्ञानप्रदायकम् | निरन्तरं महादेवि सेवितः सिद्धशङ्करैः || ५८ || मधुमत्या प्रसादेन सर्वोक्तं सर्वयोनिषु | याचन्तं परमेशानि तस्मात्त्वां समुपाश्रयेत् || ५९ || स्वप्नावत्यादिविद्याया यो जपः कथितः प्रिये | वर्षसंख्याक्रमेणैव सिद्धिकामाय शाम्भवि | त्वां जपन्तु ततो [विना] देवि फलसिद्धिः समीरिता || ६० || सिद्धविद्याप्रभावेण स्युः सुसिद्धाः सुरासुराः || ६१ || इति ते कथितं सम्यग्रहस्यं परमाद्भुतम् | गोपनीयं खले दुष्टे पशुपामरसन्निधौ || ६२ || अन्यथा कुरुते यस्तु स भक्ष्यो डाकिनीगणैः | तस्मात् सर्वप्रयत्नेन गोपनीयं विशेषतः || ६३ || दद्याच्छान्ताय दान्ताय सत्कुलीनाया योगिने | भक्ताय पापहीनाय साधकाय महात्मने || ६४ || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे सप्तमः पटलः | अष्टमः पटलः देव्युवाच श्रुतं हि साधनं सर्वं त्वन्मुखाम्भोजनिर्गतम् | देवदानवगन्धर्वसिद्धचारणसेवितम् || १ || परमानन्दसन्दोहं सानन्दादिविभूतिदम् | परं पारं परं पुण्यं पवित्रं परमं महत् || २ || योगिन्युत्पत्तिकथनं त्रैलोक्यस्यापि दुर्लभम् | कथयस्य महादेव केवलानन्दवृंहितम् || ३ || ईश्वर उवाच पूर्वं यदावयोर्वृत्तं सर्वं तद्विस्मृतं शिवे | अत्यन्तगुह्यं परमं देवासुरभयङ्करम् || ४ || प्राचीनमतिगोप्यं हि सारात्सारं परात्परम् | शृणु वक्ष्यामि चार्वङ्गि समासेन शिवप्रिये || ५ || गोपनीयं त्वया [त्विदं] भद्रे योनिः परनरे यथा | ब्रह्माण्डस्यायुषः शेषे सर्व सत्त्वविवर्जितम् || ६ || भूम्यादि पञ्च तत्त्वे तु केवले संस्थिते शिवे | त्वां मां विना महेशानि नासीत् किञ्चिज्जगत्त्रये || ७ || एतस्मिन्नन्तरे त्वां वै पप्रच्छाहं प्रहासतः | ममाधिका योग्यता वा तवापि वा महेश्वरि || ८ || इदानीं परमेशानि नमो ब्रह्माण्डमण्डले | स्थातुं स्थानं न कुत्रास्ति कुत्र स्थास्यामि भाविनि || ९ || प्. ५४) यद्यन्मया कृतं सर्वं तत् सर्वं गतमेव हि | विविक्तोःअं सदा दिव्ये [देवि] भवसंसारकर्मणि || १० || स्थातुं स्थानमिदानीं त्वं कल्पयस्व महेश्वरि | इति श्रुत्वा तदा देवी क्रोधेनारुणलोचना || ११ || उवाच मां सुनिष्ठुरं दुराचारादिदारुणा | यद् यत् कृतं त्वया देव मामुपाश्रित्य सर्वदा || १२ || मां विना ते महादेव शवत्वमिति निश्चितम् | योगे हि ते महेशानि मया सर्वमिदं ततम् || १३ || कल्पितं वत्सरूपेण योग्यता का तवास्ति ते | कारणावस्थयापन्ना सदाहं धातुरूपिणी [धात्रीरूपिणी] || १४ || न कार्यं नैव यत् किञ्चित् वह्नौ [नाकार्यं मे हि यत् किंचित् सदाहं ध्यानतत्परा परा] वाहं क्षरं परम् | कार्यभावसमापन्ना सदा प्रकृतिरूपिणी || १५ || तदा ब्रह्मादयः सर्वे सर्वेऽप्याविर्भवन्ति हि | मम मायामयमिदं विश्वं देवचराचरम् || १६ || विक्षेपावरणे मासारम्भो मे [हे] परमेश्वर | इति श्रुत्वा वचस्तेःअं वज्रतुल्यं सुदारुणम् || १७ || नोवाच किञ्चित्तां देवीं स्थिरत्वमभवत्तदा | वारितोःअं [परितोःअं] सदा देवि दुःखेनान्तरजेन च || १८ || ततः स्थिरीकृत्य हृदि उपायं तव निग्रहे | जगाम पश्चिमे भागे ब्रह्माण्डस्य वरानने || १९ || प्. ५५) गत्वा तत्र महादेवि निर्जने दारुणं पुरा | स्वदेहभस्मना दैत्यं प्रागदृष्टं श्रुतं तथा [मुदम्] || २० || दानवेन्द्रं महाघोरं घोरनामानमद्भुतम् | कोटियोजनविस्तीर्णं द्वात्रिंशल्लक्षप्रस्थितम् || २१ || कोटिहस्तं महारौद्रं कोटिलोचनमुज्ज्वलम् | पञ्चाशल्लक्षवदनं ज्वालावलिसमाकुलम् || २२ || तस्मै दत्त्वा महासिद्धीरणिमाद्या महेश्वरि | सर्वभावैर्मत्सदृशं विधाय तं सुदारुणम् || २३ || उल्लासमनसा देवि आगतोःअं तवान्तिकम् | सोऽपि तस्थौ दानवेन्द्रः शययां कृत्वा जलार्णवे || २४ || गेण्डुके द्वे विधायैव सुवेलवेल पर्वतौ | तदा मम मनो ज्ञात्वा त्वमवादीश्च मां प्रति || २५ || इदानीं ब्रह्माण्डभाण्डं जीवहीनं प्रजापते | आज्ञापय महादेव पश्यामि सकलं शिव || २६ || तदा विहस्य मनसा तवोत्कण्ठाञ्च वर्धयम् [कण्ठानुवर्धयन्] | उवाच त्वामहं भद्रे आगच्छ पश्चिमां दिशम् || २७ || सर्वत्रान्यत्र देवेशि दृष्ट्वा पश्चाद् द्रुतं [तु त्वां] मयि | स्त्रीणां स्वभावो देवेशि य एवाधः स्थितो भवेत् || २८ || तत्रैव महती श्रद्धा दृष्ट्वा ज्ञातुं सदा भवेत् | इति ज्ञात्वा मयोक्तं तन्निषेधवचनं शिवे || २९ || प्. ५६) ततः प्रयोजनाभावात् तव स्वभावतः शिवे | न गतान्यत्र देवेशि मम च प्रत्यगन्तिके [स्थिता त्वं च ममान्तिके] || ३० || महद्धामे च कान्तारे तत्र केदारकेश्वरः | तत्र गत्वा महादेवी जगन्मोहनकारिणी || ३१ || विव्याध दैत्यराजेन्द्रं कामवाणात् सहस्रशः | अत उथाय दैत्येन्द्रः कामवाणेन विह्वलः | करान् प्रसार्य सकलान् आह चाटुवचो भृशम् || ३२ || घोर उवाच क्रोडे मे त्वं समागच्छ भव सर्वेश्वरी मुदा | त्राहि मां कामजलधौ निमग्नं स्वाङ्गदानतः || ३३ || कञ्चित् कालं न जीवामि त्वां विनाहं कथञ्चन | आलिङ्ग्य पतिभावेन जीवनं रक्ष सुन्दरि || ३४ || इत्यादि चाटुवाक्यैस्त्वां मुहुर्मुहुर्जगाद च | ततः सा त्वमवादीश्च सकटाक्षं शुचिस्मितम् || ३५ || देव्युवाच त्वं सर्वदैत्येन्द्र च सर्वभोक्ता त्वं वै बली देवनिकाय एव | त्वं वीर्यवान् सर्वविनाशनश्च त्वां वै वरामो यदि तत्करोषि || ३६ || मदीयवृत्तान्तमिह शृणुष्व नावस्थितिः क्वापि भवेन्न यस्मात् | पुरा प्रतिज्ञा हि मया कृता या तां पालय त्वं यदि मां ग्रहीतुम् || ३७ || मनस्तु चैवं खलु दैत्यराज यो मां विनिर्जित्य रणे स्थितः स्यात् | स मे हि भर्ता न चान्य एव तदादितो युद्धमितः श्रयस्व || ३८ || प्. ५७) ईश्वर उवाच एवं ब्रुवाणां त्वां देवि क्रोधेन महता वत [यतः] | उच्चैर्निभर्त्सयामास प्रलयाम्भोधिघर्घरम् || ३९ || ततः समुत्थितो घोरः कालरुद्रश्च न्यक्कृतः | समाहर्तुं तदा दैत्यो धावति स्माखिलं जगत् || ४० || तथापि त्वां ग्रहीतुं स क्षमो नाभूत् कथञ्चन | तदा बोधेन [वेगेन] महता जप्त्वा [गत्वा] च दानवेश्वरः || ४१ || हस्तामर्षवशात्ते [हस्तस्पर्शवशात्तस्य पर्वताः चूर्णतां गताः] च पर्वताः स्पृश्यतां गताः | पादाघातादुपरता मग्नाश्चैव जलार्णवे || ४२ || तद्वहभ्रमवातेन प्रोच्छलज्जलमण्डलम् | ऊर्ध्वाधश्च कटाहान्तं महाभीमतरङ्गकम् || ४३ || ब्रह्माण्डं परिसंव्याप्य भ्रमते स निरन्तरम् | धर्तुकामो महामायां तां धर्तुं न [धर्तुमक्षमो] क्षमोऽभवत् || ४४ || अग्रेऽग्रे त्वां पश्यति स्म केवलं देवपुङ्गवः | यद्यद् युद्धं कृतं तेन कथितुं नैव शक्यते || ४५ || यद् यत् क्षिप्तं त्वयि शिवे तत्सर्वं भस्मसाद्गतम् | यत्तेजसा महेशानि तत्रापि क्रोधमूर्च्छितः || ४६ || अभून्निरन्तरं [भवन् निरन्तरं] दैत्यो घोरो घोरपराक्रमः | आश्चर्यं शृणु देवेशि युद्धं वृत्तं महोज्ज्वलम् || ४७ || जलजातात् कटाहात्तु धूलिरुत्पद्यते [बुधिरुत्] भृशम् || ४८ || प्. ५८) दिव्यं तत्र महेशानि युद्धकाले भयातुरः | अहं योगं समाश्रित्य सूक्ष्मसूक्ष्मतरं वपुः || ४९ || विधाय परमेशानि त्वामाश्रित्य स्थितः सदा | कथञ्चिदपि न प्राप्य त्वां प्रहर्तुं दैत्यराट् तदा || ५० || चिन्तयामास च खलु त्वां हन्तुं विविधक्रमम् | वर्धयित्वा शरीरं स्वं घर्षयित्वा च बाहुना || ५१ || कटाहे मारयिष्यामि महादुष्टां च त्वामहम् | इति सञ्चिन्त्य मनसा वर्धयित्वा कलेवरम् || ५२ || पूरितं तेन ब्रह्माण्डं घोरो हर्षमुपागमत् | उवाच त्वां तदा दैत्यः हता यास्यसि कुत्र वा || ५३ || भवती भृशमालोक्य दैत्यं ब्रह्माण्डपूरितम् | त्वयोक्तोऽसौ घोरदैत्यस्तिष्ठ तिष्ठ सुदुर्मते || ५४ || कथं व्यस्तो भवान् जातो निहन्मि त्वामहं मुदा | अधुनैव महादुष्ट जानासि नहि मां कदा [कथं] || ५५ || मत्तः सृष्टिः समुत्पन्ना मययेव प्रविलीयते | मयैव पाल्यते सर्वं मम मायामयं जगत् || ५६ || मत्तो नान्यत् किञ्चिदस्ति ब्रह्मैवाहं सनातनः | शृणु मूढवरास्माकं परमं मङ्गलं महत् || ५७ || दुष्टभावेन वा दैत्य शिष्टभावेन वा पुनः | भजन्ते मां यथा ये हि तथा कामं ददामि ते || ५८ || निदानन्तु प्रयच्छामि महाफलमनुत्तमम् | त्वयाहं सेविता दैत्य बहुकालं न संशयः || ५९ || प्. ५९) ममाप्तिमेकचित्तेन ममेहा त्वकरोद्यतः | शिवोऽसि नात्र सन्देहो यत् कृते यद्भ्रमस्तव || ६० || इदानीं पश्य मद्रूपं ब्रह्मानन्दं परं पदम् | यद् दृष्ट्वान् पुनः कोऽपि कदाप्याविर्भवेत् किल || ६१ || ध्यात्वा यत् परमं रूपं शिवं न्यूनमिति प्रभो | तद्रूपं परमं धाम काली रूपमिति शृणु || ६२ || इतः परतरं रूपं ब्रह्मणो नास्ति कुत्रचित् | इत्युक्त्वाहं तदा देवि भवानि भवमोचनी || ६३ || ध्यात्वा यत् परमं रूपम् अहं कालीति वादिनी | असकृत् परमेशानि जाता त्वं कालिका तदा || ६४ || कृष्णवर्णा महाघोरा महाकालोपरिस्थिता | मुण्डमाला वली रम्या मुक्तकेशी स्मितानना || ६५ || लोकजिह्वा रक्तघोरलोचनत्रयराजिता | अमाकलासमुल्लासा किरीटोज्ज्वलविग्रहा || ६६ || शिवाकोटिसहस्रैस्तु तेजोमण्डल सम्भवैः | महारावैश्चतुर्दिक्षु याता घोरपराक्रमैः || ६७ || रश्मिवृन्दसमुद्भूता योगिन्यः कोटिकोटिशः | समन्ताद् घोररूपस्था महायुद्धमहोत्सुकाः || ६८ || प्रतिलोमकूपमध्ये ब्रह्माण्डं कोटिकोटिशः | भासन्ते सततं देवि सर्वाः सूर्यमयाः पुनः || ६९ || एवं तां कालिकां दृष्ट्वा मूर्च्छितो दानवेश्वरः | प्रतीतोऽसौ महाकाल्या दृष्ट्वा श्रीमुखमण्डलम् || ७० || प्. ६०) तत्क्षणाद्दानवाधिशो ब्रह्मज्ञानमवाप्तवान् | ततस्तं दानवाधीशं ज्ञाने भक्तं सुनिर्मलम् || ७१ || जिह्वया लोलया काली कर्तयिष्ये रणान्तरे | ब्रह्माण्डसहितं माता चर्वयित्वा मृता क्षणात् || ७२ || चकार लोलया काली घोरवाद्यमहोत्सुका | नानायन्त्रस्य बृहतः पताका व्यापिका सदा || ७३ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशति साहस्रे अष्टमः पटलः | नवमः पटलः ईश्वर उवाच तद्दृष्ट्वा तु महाश्चर्यं भयविह्वलमानसः | अहं जगाम सहसा तत्र कान्तारमुत्तमम् || १ || सुषुम्ना वर्त्मना देवि तत्र गत्वा मया किल | संदृष्टञ्च श्रुतं यद्यत् कथितुं नैव शक्यते || २ || सर्वाश्चर्यमयं देवि [समुद्दिष्टं] न दृष्टं न श्रुतं क्वचित् | अतीव बृहदाकाराः ब्रह्माण्डाः कोटिकोटिशः || ३ || चरन्ति सर्वदा देवि कः संख्यातं क्षमो भवेत् | कोटिकोटिमुखा देवि कोटिकोटिभुजास्तथा | एवञ्च विविधाकारा ब्रह्मविष्णुशिवादयः || ४ || प्. ६१) महदैश्वर्यसम्पन्नाः प्रतिब्रह्माण्डवासिनः | सर्वाश्चर्यमयं देवि दृष्ट्वा कुशलमानसाः || ५ || सर्वं मे विस्मृतं जातं कोःअं चिन्तापरायणः | अहं का कुत्र आयातः को न पृच्छति कुत्रचित् || ६ || एवं नानाविधं देवि भुवने विस्मृतः सदा | नानास्थानसम्भ्रमञ्चस्मर्यञ्च नास्ति मे कदा [स्मर्यं नास्ति कदा मम] || ७ || ततश्च कोटिवर्षान्ते प्राप्तं ते हृदयाम्बुजम् | तत्र गत्वा मया सर्वं दृष्टमाश्चर्यसुन्दरम् || ८ || तत् सर्वं परमेशानि कथितुं नैव शक्यते | यद्धर्मार्थोदयं [स्वधर्मार्थोदयं] शास्त्रं कारणं सुखमोक्षयोः || ९ || परमात्मगमो वेदा जीवो दर्शनमिन्द्रियः | देहःपुराणमङ्गानि स्मृतयो यानि यानि च || १० || तत्रैव सर्वशास्त्राणि लोमादीनि वरानने | जीवात्मनोर्यथाभेदस्तथा भेदागमेष्वपि || ११ || पत्राग्रे पत्रमध्ये च पत्रान्ते हृदयाम्बुजे | दृष्ट्वा वर्णावली यातु तीव्रतेजोमयी शुभा || १२ || शिक्षा कल्पो व्याकरणं निरुक्तश्छन्द एव वा | अन्यानि सर्वशास्त्राणि क्षुद्राणि यानि कानि च || १३ || किन्तु पूर्णवलालोके जातोःअं कथितं तव | ततो मया शतं देवि कर्णिकान्तर्महोज्ज्वलम् || १४ || प्. ६२) कोटि कोटि दिवानाथ निशानाथ समुज्ज्वलम् | कोटि कोटि महावह्नितेजोमण्डलमण्डितम् || १५ || तन्मध्ये तु मया दृष्टं वर्णपुञ्जं महोज्ज्वलम् | सूर्यकोटिसमाभासंचन्द्रकोटि सुशीतलम् || १६ || वह्निकोटिमहोज्ज्वलं परं ब्रह्ममयं ध्रुवम् || १७ || सर्वज्ञानमयं देवि सर्वाश्चर्यमयं सदा | सर्वयज्ञमयं देवि सर्वतीर्थमयं सदा || १८ || सर्वपुण्यमयं देवि सर्वधर्ममयं तथा | ब्रह्मज्ञानमयं देवि ब्रह्मानन्दमयं तथा || १९ || प्रमाणं सर्वशास्त्राणां वेदादीनां महेश्वरि | प्रमाणं सर्वसत्त्वानां ब्रह्मतेजः परं हितम् || २० || सर्वमायाबहिर्भूतं सर्वमायानिकृन्तनम् | सर्वानन्दमयं देवि ब्रह्मज्ञानमयं [ब्रह्मानन्दमयं] सदा || २१ || पूर्णानन्दमयं देवि ब्रह्मनिर्वाणमुत्तमम् | सर्वमायामयं देवि सर्वविद्यामयं पुनः || २२ || सर्वतपोमयं देवि सर्वसिद्धिमयं तथा | सर्वमुक्तिमयं देवि सर्ववेदमयं तथा || २३ || सर्वलोकमयं देवि सर्वभोगमयं तथा | सर्वशास्त्रमयं देवि सर्वयोगमयं तथा || २४ || दृष्ट्वागममिमं तत्र मम ज्ञानान्धसागरे | गतशर्वर्यथोऽद्राक्षं यथा सूर्योदयोज्ज्वलम् || २५ || प्. ६३) अभ्यस्तं हि मया सर्वं महाकालीप्रसादतः | दृष्ट्वाभ्यस्तं मया सर्वं तत्क्षणान्नात्र [सूर्यकान्तिसमप्रभम्] संशयः || २६ || ततः कि~जल्कपुञ्जेषु गत्वा दृष्टं मया किल || २७ || वर्णपुञ्जमयं देवि सूर्यकान्तिसमप्रभम् | न्यायो मीमांसकं सांख्ये पातञ्जलं तथा पुनः || २८ || वैशेषिकं तथा पूर्व मया ज्ञातं हि तत्क्षणात् | ततो वर्णावलीं दृष्ट्वा कर्णिकाप्रान्तदेशतः || २९ || शतसूर्यसमाभासा सर्वरञ्जनकारिणी | आयुर्वेदभिषग्वेदा मयाभ्यस्ता तदैव हि || ३० || तदन्तरे महादेवि दृष्टा वर्णावली शुभा | सहस्रादित्यसङ्काशा शूद्रवर्णा महोज्ज्वला || ३१ || स्मृतीतिहासौ देवेशि पुराणानि मया पुनः | मयाभ्यस्तं हि तत्सर्वं तत् क्षणान्नात्र संशयः || ३२ || तथापि भ्रमदेहो मे न शुध्यति कदाचन | तदन्तरे यथा दृष्टं सूर्यकोटिसमप्रभम् || ३३ || ब्रह्मज्ञानं मया देवि ब्रह्मतेजः परिवृतम् | वेदान्तमिति विख्यातं वर्णपुञ्जमहाप्रभम् || ३४ || मयाभ्यस्तं तत् क्षणात्तन्महदेभ्यश्च मोहतः | तदन्तरे मया दृष्टं वर्णपुञ्जसमुज्ज्वलम् || ३५ || कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् | सर्वज्ञानमयं देवि सर्वतीर्थमयं सदा || ३६ || प्. ६४) सर्वयज्ञमयं देवि सर्वधर्ममयं तथा | प्रमाणं सर्वसत्त्वानां शास्त्रादीनां महेश्वरि || ३७ || वेदचतुष्टयं सामाथर्व ऋग्यजुःसत्तमम् | मयाभ्यस्तं हि तत् सर्वं तत् क्षणान्नात्र संशयः || ३८ || तथापि न च तृप्तिर्मे जायते न च तत्क्षणात् | सर्वज्ञानसर्वतत्त्वं सर्वसिद्धिमयो ह्यहम् || ३९ || तदा नमस्कृतां देवि तैस्त्वां कालीं सनातनीम् | शिवाभिर्योगिनीभिश्च नृत्यन्तीं ब्रह्मरूपिणीम् | तत उड्डीनमासाद्य द्विदले चागतं मया || ४० || आज्ञाचक्रे भ्रुवोर्मध्ये महाकाल्या महेश्वरि | तदा मम स्मृतिर्जाता ब्रह्मविष्णुकृते पुनः || ४१ || तन्नृत्यसमये काल्या द्वयोश्चिबुकयोश्चितौ | च्युतौ स्वेदौ महेशानि ताभ्यां जातौ गुणोचितौ || ४२ || ब्रह्मा विष्णुश्च तौ दृष्ट्वा भयकम्पितविग्रहौ | तदा तौ च गतौ तूर्णं नासिकारन्ध्रयोर्द्वयोः || ४३ || काल्यास्तदागतो [स्तदायता] धाता पिङ्गलायां महेश्वरि | ईडायाश्च ततो विष्णुस्तत्र गत्वा च तौ शुभौ || ४४ || महाविडम्बितौ भूतौ दृष्ट्वाश्चर्यमनेकशः | सदन्तौ सततं देवि विस्मृतं कि भविष्यति || ४५ || प्. ६५) एवमादि सदन्तौ तौ गच्छन्तौ च इतस्ततः | तावीश्वरौ महेशानि महादुःखेन दुःखितौ || ४६ || ज्ञात्वा मया मेहेशानि प्राग्गतं विष्णुमन्दिरम् | तस्मै दत्तं मया ज्ञानं मन्त्रं परममङ्गलम् || ४७ || तत् क्षणान्मम तुल्योऽसौ वामाङ्गे केवलो मम | तस्मै दत्तं सर्वशास्त्रं वाङ्मात्रेणागमं विना || ४८ || गरुडस्थो महाविष्णुर्हृष्टपुष्टो बभूव ह | तमादाय गतस्तत्र ब्रह्माण्डे परमेश्वरः || ४९ || गत्वा तस्मै मया दत्तं मन्त्रं परममद्भुतम् | महाज्ञानी महादेवि तत्क्षणात् स पितामहः || ५० || मम तुल्यो जायतेऽसौ दक्षाङ्गे मम केवलः | स विधिः परमेशानि मम शासनतस्तदा || ५१ || दत्तं तस्मै सर्वशास्त्रं विशारदञ्च [वेदशास्त्रं च] विष्णुना | गतव्यथस्तदा ब्रह्मा हृष्टः पुष्टः सदैव हि || ५२ || अत आदिगुरुस्त्वं हि वर्तसे मम सर्वदा | तदङ्गीकृत्य तज्ज्ञानं सह ताभ्यां महेश्वरि || ५३ || परे काल्या मया यातं तेन तेन यथा तथा | शिवाभिर्योगिनीभिश्च महानृत्यपरायणा || ५४ || शतकोटिदिव्यवर्षं नृत्यतिस्म परात्मिका | नानावाद्यमहोल्लासा नानालङ्कारगाथिका [-गायिका] || ५५ || चन्द्रसूर्यवह्निसोम्यैर्विचित्रैश्च प्रसूनकैः | उत्थितैः पतितैः पुष्पैर्दिव्यगन्धैर्महोत्सुका || ५६ || प्. ६६) वीक्षणागोचरैर्देवि सदा नृत्यपरैः [नृत्यषरायणा] रहः | शतशो ब्रह्माण्डसमा पताकाभिश्च रञ्जिता || ५७ || विचित्राभिश्च बहुभिर्दृष्टा क्रान्ताभिरेव च | अतः स्तोतुं समारब्धा वयं कालीं करालिकाम् || ५८ || साश्रुप्लुता गद्गदोक्त्या नतशिर्षाः पुटैः करैः | तदादौ [तदासौ] विधिरस्तौषीत् सर्वशास्त्रेण भक्तितः || ५९ || कोटिवर्षं महेशानि तमुवाच तदा परा | यद्गुणस्त्वमहो धातः सर्वशास्त्रार्थविस्मृतः || ६० || अनुसन्धानवेत्तासि सृजकस्त्वं सदा भव | इत्याज्ञप्तस्ततो धाता कृतकृत्योऽभवत्तदा || ६१ || ततोऽस्तौषीन्महाविष्णुः सर्ववेदेन शाम्भवि | दशकोट्ययनानाञ्च [दशकोटिवर्षात् परं विष्णुमिदमव्रवीच्छिवा] ततस्तमव्रवीच्छिवा || ६२ || वेदज्ञोऽसि महाविष्णो मद्भक्तोऽसि गुणालयः | धर्मज्ञोऽसि पालकस्त्वं भव सृष्टेश्च रक्षकः || ६३ || इत्याज्ञाञ्च शिरे कृत्वा कृतार्थोऽसौ जगद्धितः | ततोःअं परमां नित्यां कालीं ब्रह्मसनातनीम् || ६ || तुष्टाव परया भक्त्या आगमेन महेश्वरीम् | विंशकोटिवत्सराणां मामुवाच तदा तु सा || ६५ || काल्युवाच आगमज्ञो महाप्राज्ञो निर्मायोरसि सदाशिव | सगुणस्त्वं महायोगी सृष्टिसंहारको भव || ६६ || प्. ६७) एवमाज्ञां शिरे कृत्वा पुनस्तुष्टाव तामहम् | पञ्चकोटिदिव्यवर्षं मामुवाच ततस्तु सा || ६७ || आगमे संस्तुता तेःअं तुष्टा तेऽस्मि सदाशिव | किं प्रार्थ्यते महादेव ददामि नात्र संशयः || ६८ || ईश्वर उवाच तिष्ठामि सततं मातस्त्वदीयचरणाम्बुजे || ६९ || काल्युवाच घोरनाम्ना दानवेन यादृग्युद्धं कृतं मया | तत् कोटिकोट्यंशयुद्धं करिष्यत्येव यो मया || ७० || महिषीगर्भसम्भूतस्तव रेतःसमुद्भवः | भविष्यति [भविष्यसि] स [त्व] देवेश महिषासुरनामधृक् || ७१ || आसुरं भावमासाद्य महायुद्धं करिष्यति [करिष्यसि] | तता तं [त्वां] नाशयित्वाहं भद्रकाली स्वरूपतः || ७२ || वामाङ्गुष्ठं पदाब्जस्य स्थापयिष्यामि ते हृदि | इदानीं त्वं महादेव मम पादतले सदा || ७३ || तिष्ठ त्वं शवरूपेण मम चासनतां व्रज | इत्याज्ञप्ता वयं देव्याः पतिताः पदसन्निधौ || ७४ || दण्डवत्प्रणिपातेन लक्षवर्षं गतं तदा | तत्रैवान्तरगात् काली चिद्रूपा ब्रह्मनिष्कला || ७५ || इत्येवं कथितं तुभ्यं योगिन्युत्पत्तिविस्तरम् | गोपनीयं प्रयत्नेन सर्वेषां सधनोत्तमम् || ७६ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे नवमः पटलः | दशमः पटलः ईश्वर उवाच उत्थाय च पुनर्देवि [-देवीं] न त्वां दृष्ट्वा वयं पुनः | वदन्तो भृशदुःखार्ता निमग्नाः शोकसागरे || १ || हा मातस्ते मुखाम्भोजं कोटिचन्द्रार्कन्यक्कृतम् | कीदृक् चरणरागं ते कृपासागरसञ्चयम् || २ || विस्तृतं परमं रूपं महामायाविमोहनम् | किं भूतं नखचन्द्राणां ज्योतिः परममङ्गलम् || ३ || कोटिकोटिनिशानाथविगलन्मुखमण्डलम् | किं भूतं किं भवेन्मातः क्व यातमिदमद्भुतम् || ४ || हा हा मातरिदं रूपं सच्चिदानन्दमव्ययम् | अस्माकं मातृभावेन न पश्यामः पुनश्च तत् [त्वां] || ५ || मातृतातविहीनाश्च [पितृ मातृ] भ्रमन्ति बालका यथा | रुदित्वा च रुदित्वा च वयं सर्वे तथा [तथाह्वयन्] स्थिताः || ६ || इत्यादि विविधैर्देवि विलापैः परमेश्वरि | नीता वयं पञ्चलक्षं वर्षाणामम्बुजेक्षणे || ७ || रुदित्वा पुनरुत्थाय रुदन्तो भृशमुच्चकैः | मातर्यातः क्व याता त्वमस्माकं [यातासि] किं भविष्यति || ८ || वयन्ते कथमुत्पाद्य निःक्षिप्ता दुःस्तरार्णवे | दया नास्ति अहो मातर्वयन्ते दीनबालकाः || ९ || प्. ६९) न पालयसि चेदस्मान् को वास्मान् पालयिष्यति | त्वां विना जननी नास्ति नास्माकं तात् [भाव] एव च || १० || त्वामदृष्ट्वा मरिष्यामः सत्यमेव सुनिश्चितम् | मातृतातविहीनस्य बालकस्य च जीवनम् || कथं भवति हे मातर्ज्ञायतां स्वयमेव हि || ११ || निरुत्सुका [निरुत्सुकहृदस्माकं कृपा तस्य तदाभवत्] चिदस्माकं कृपा [कृपां तस्यां ततः कुरु] तस्या यतोऽभवत् | सोवाच योगिनी वाणीं महामृतप्रवर्षिणीम् || १२ || काल्युवाच मा भयार्ता महेशान [महाभागा] ब्रह्मविष्णुमहेश्वराः | तिष्ठामि सततं तेषामित्याह [एवानित्याहुरहमव्यया] खलु सा तदा || १३ || सच्चिदानान्दरूपाहं ब्रह्मैवाहं स्फुरत्प्रभम् | मम नाशो नास्ति कदा निःसन्देहास्तु तिष्ठत || १४ || यद्रूपं दृष्टमस्माकं युष्माभिः परम् मतम् | ध्यात्वा तद्रूपममलं जपं कुरुत मे मनुम् || १५ || तदेव मङ्गलं तुभ्यं भविष्यति महाप्रभम् | इदानीं ब्रह्मणो देहे विश विष्णो स्थिरो भव || १६ || अहो महेश देवेश ब्रह्मदेहे प्रविश्यताम् | यावत् सृष्टिं करोतीश इमां ज्ञानक्रियामयीम् || १७ || ईश्वर उवाच इत्युक्त्वा सा महाकाली ददावस्मासु शाम्भवि | इच्छाज्ञानक्रियाशक्तीः सर्वकार्यार्थसाधनीः || १८ || प्. ७०) इच्छा तु विष्णवे दत्ता क्रियाशक्तिस्तु ब्रह्मणे | मह्यं दत्त्वा ज्ञानशक्तिः सर्वशक्तिस्वरूपिणी || १९ || काल्युवाच तदोवाच महाकाली शृणुध्वं परमेश्वराः | अहं विशामि युष्मासु पूर्णरूपेण शङ्करे || २० || अयमेव गुरुर्देवः श्रीशिवः परमेश्वरः | अयं हि वक्ता शास्त्राणां नाप्यन्योऽपि विधिर्हरिः || २१ || श्रोत्री याहं हि युष्माकं सर्वेषां नात्र संशयः | मोहयिष्यामि ब्रह्माणं विष्णुं वापि महेश्वरम् || २२ || ईश्वर उवाच इत्युक्त्वा सा महाकाली अस्मासु प्रविवेश ह | अयञ्च माधवो देहे प्रविष्टो ब्रह्मणस्तदा || २३ || ततस्तं मोहयामास ब्रह्माणं ब्रह्मविग्रहम् | ततो ब्रह्मा स्वयं ज्ञात्वा स्वयं जुहोति चाव्ययम् || २४ || स्वयम्भूरिति विख्यातिं तदा प्राप्तो न संशयः | किं करोभि क्व गच्छामि इति चिन्तासमाकुलः || २५ || एवमेव विधातासावुषित्वा परिवत्सरम् | जलमेव ससर्जादौ व्यापकं परमं महत् || २६ || गुणाभिमानं तत्तोयं कारणार्णवमुल्वणम् | तत्र स्थित्वा हेमरूपमसृजद् वार्थसञ्चयम् [वीर्य] || २७ || तद्वीर्यबुद्बुदं यावदनीकं जातमान्तिके | तत्तद् ब्रह्माण्डमाख्यातं प्लवते कारणार्णवे || २८ || प्. ७१) तत्तद्ब्रह्माण्डरक्षार्थं ब्रह्माण्डानां वियोगताम् | करोमि सततं देवि रुद्रमूर्तिधरः स्वयम् || २९ || शूलपाणिर्महादेवि प्रतिब्रह्माण्डपार्श्वतः | एकैकरुद्ररूपेण तिष्ठामि सततं शिवे || ३० || यथा ब्रह्माण्डयोश्चापि संयोगो जायते नहि | तथा करोमि सततं स्थित्वा तत्कारणार्णवे || ३१ || एवमेव वयं सर्वे ब्रह्मविष्णुमहेश्वराः | प्रतिब्रह्माण्डमध्ये तु तिष्ठामो नात्र संशयः || ३२ || ततो ब्रह्मा जगद्धाता प्रतिब्रह्माण्डमध्यतः | प्रविश्येकैकरूपेण अन्यतत्त्वचतुष्टयम् || ३३ || भूमिमग्निं तथा वायुमाकाशञ्च ससर्जसः | एतैस्तु पञ्चभिस्तत्त्वैः सर्वां सृष्टिमकारयत् || ३४ || ततस्तु भगवान् विष्णुरिच्छया ब्रह्मणस्तदा | ब्रह्मदेहात् समुद्भूय पालयामास तां सदा || ३५ || सृष्टिं ब्रह्माज्ञया देवि प्रतिब्रह्माण्डमध्यतः | पृथक् पृथक् समास्थाय विष्णुरूपं महाभुजम् || ३६ ||२ प्रतिब्रह्माण्डमध्ये तु संहराभि पुनः पुनः | अहं हि परमेशानि ब्रह्मदेहं समाश्रितः || ३८ || एवं किञ्चिन्न स्मरति [स्मरसि] ब्रह्मा किञ्चिन्महेश्वरि | सर्व कार्यं ममैवैतज्जानाति हि जगन्निधिः || ३९ || जलादि सकलं तत्त्वं ब्रह्माण्डादिकविस्तरम् | देवादिसकलं देवि दिग्विदिक् च चराचरम् || ४० || प्. ७२) कार्यञ्च कारणं देवि तथा विष्णोः समुद्भवः | सर्वं जानाति हि ब्रह्मा मत्कृतं मायया पुनः || ४१ || किन्तु सर्वं हि मिथ्यैव मातुर्माया हि केवलम् | तां मायां हि भजन्ते ये [तत्पारं यान्ति ते नराः] मायामेतां तरन्ति ते || ४२ || रुष्टा चेत् [सा] परमा माया मुक्तिमात्रं प्रयच्छति | रुष्टा चेत् [सा] सैव माता मे भूमियोगं प्रयच्छति || ४३ || भुक्तिमुक्तिस्तस्य [तस्य पादाम्बुजे देवि वश्या मुक्तिः समाश्रिता | यस्य तुष्टा महादेवी मम माता महेश्वरी ||] पादे वश्यैव चाश्रयाचिता | यस्य तुष्टा महादेवि मम माता हि कालिका || ४४ || देव्युवाच श्रुतं हि सकलं देव त्वत् प्रसादात् महेश्वर | अश्रुतं सर्ववृत्तान्तं ब्रह्मादीनामगोचरम् || ४५ || इदानीं श्रोतुमिच्छामि यत् प्रोक्तं कारणार्णवम् || ४६ || किमाधेयं [किमाधारं] महादेव तदाधारञ्च किं वद | सीमानं वद देवेश यदि स्नेहोऽस्ति मां प्रति || ४७ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि गुह्याद् गुह्यतरं शुभम् | अतिगोप्यं सुगोप्यं हि ब्रह्मविष्ण्वाद्यगोचरम् || ४८ || महार्णवो भवेद् देवि महाकालो महेश्वरः || ४९ || शून्यरूपं हि क्रीडार्थं भर्तारं पर्यकल्पयत् || ५० || प्. ७३) सैव काली जगन्माता महाकालतुला तु सा | भूत्वार्धतेजसो रूपा महाकालञ्च विभ्रती || ५१ || शून्यरूपा कृष्णवर्णा मत्ता स्यादूर्ध्वतैजसी | सीमा पृष्टा त्वया देवि सीमा [सैव] ब्रह्मैव केवलम् || ५२ || तेजोरूपं ब्रह्मतेजः प्रकाशरूपकं तथा | तत् प्रकाशं महादेवि व्याप्यव्यापकवर्जितम् || ५३ || नाधेयञ्चैव नाधारमद्वितीयं निरन्तरम् | इदं हि सकलं देवि सर्वं मायामयं पुनः || ५४ || मिथ्यैव सकलं देवि सत्यं ब्रह्मैव केवलम् | इदं हि कथितं तुभ्यं सारात्सारं परात्परम् || ५५ || गुह्याद् गुह्यतरं गुह्यं गुह्याद् गुह्यं महेश्वरि | इदं हि परमं ज्ञानं सर्वमायानिकृन्तनम || ५६ || सर्वज्ञानमयं [-मतं] भेदं महामार्तण्डविग्रहम् | कोटिकोटिमहादानात् कोटिकोटिमहातपात् || ५७ || कोटिकोटिमहाज्ञानात् कोटिकोटिमहाव्रतात् | कोटिकोटिमहातीर्था वगाहाच्च [स्नानात्] महेश्वरि || ५८ || बहुजन्मव्यतीते तु यदि शृणोति कर्हिचित् | तदा मुक्तो भवेद् देवि संसारे न पुनर्भवेत् || ५९ || इत्येवं कथितं तुभ्यं गोपयस्व स्वयोनिवत् | यथान्यो लभते नैवं [नैव] तथा कुरु प्रयत्नतः || ६० || गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः | गोपनीयं प्रयत्नेन मम सर्वस्वमुत्तमम् || ६१ || प्. ७४) दद्याच्छान्ताय धीराय योगिने कुलयोगिने | ज्ञानिने देवदेवेशिं अन्यथा नरकं व्रजेत् || ६२ || कथितं सारभूतं ते खेलत्खञ्जनलोचने | ब्रह्मज्ञानं मया देवि किं भूयः श्रोतुमिच्छसि || ६३ || नातः परतरं किञ्चित् विद्यते मम मानसे | गोपनीयं सदा भद्रे पशुपामरसन्निधौ || ६४ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे दशमः पटलः || एकादशः पटलः देव्युवाच देवदानवगन्धर्वसुरेश परिपूजित [सुर] | गणेशनन्दिचन्द्रेश गोविन्दविधिवन्दित || १ || योगीन्द्रवन्दितपद सर्वलोकगुरो हर | या प्रोक्ता परमा विद्या काली कलुषनाशिनी || २ || यद्यन्मन्त्रं साधनञ्च पूजनञ्च पुरष्क्रियाम् | मुद्रां बलिं तथा होमं भावं स्थानं तथैव च || ३ || ध्यानं स्तोत्रञ्च कवचम् अस्याः श्रुतं पुरा मया | इदानीं श्रोतुमिच्छामि स्थानं भेदं महेश्वर || ४ || प्. ७५) कुत्र वा प्राप्यते मोक्षः कुत्र वा सिद्धिरुत्तमा | झटित्येव महादेव कृपया वद शङ्कर || ५ || यदाश्रितो द्रुतं लोकः स्वकार्यफलभाग्भवेत् | प्रयासस्य च बाहुल्यं हित्वा हि परमेश्वर || ६ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि स्थानं परमदुर्लभम् | द्रुतसिद्धिकरं देवि महामोक्षफलप्रदम् || ७ || कालिकायाः श्मशानाद् हि नान्यत् स्थानं प्रशस्यते | तत्र यद् यत् कृतं कर्म तदनन्तफलं लभेत् || ८ || तत्र चैका पुरश्चर्या कृता चेत् परमेश्वरि | न तु मैवं महादेवि भावयुक्तः सशक्तिकः || ९ || अवश्यं मन्त्रसिद्धिः स्यात् नात्र चित्रं कथञ्चन | अनन्तफलदा पूजा सर्वत्रैव जले स्थले || १० || दिव्यभावेन वा देवि वीरभावेन चेद् भवेत् | शाक्तं वा वैष्णवं वापि शैवं वान्यं तथा पुनः || ११ || वाराणस्यां जपेद् यो हि मासमात्रं वरानने | प्रातः कालं समारभ्य यावन्मध्यन्दिनं भवेत् || १२ || अवश्यं मन्त्रसिद्धिः स्यात् सत्यमेव सुसिद्धिदे | निर्वाणं तस्य देवेशि अवश्यं जायते शिवे || १३ || महाश्मशानं देवेशि आनन्दकाननं तथा | अविमुक्तं महादेवि तथा गौरीमुखं पुनः || १४ || प्. ७६) वाराणसीमहाक्षेत्रं कालीरूपं परात्परम् | तत्र यद्यत् कृतं देवि किं तस्य कथयामि ते || १५ || कामरूपे महापूजा सर्वसिद्धिफलप्रदा | नेपालस्य काञ्चनाद्रिं ब्रह्मपुत्रस्य सङ्गमम् || १६ || करतोयां समाश्रित्य यावद्दिक्करवासिनीम् | उत्तरस्यां कुञ्जगिरिः करतोयात्तु पश्चिमे || १७ || तीर्थश्रेष्ठ दिक्षुनदी पूर्वस्यां गिरिकन्यके | दक्षिणे ब्रह्मपुत्रस्य लाक्षायाः सङ्गमावधि || १८ || कामरूप इति ख्यातः सर्वशास्त्रेषु निश्चितः | ऋणानि त्रीण्यपाकर्तुं यस्य चित्तं प्रसीदति || १९ || स गच्छेत् परया भक्त्या कामाख्या योनिसन्निधिम् | तीर्थयात्रां समासाद्य यद्येकोऽप्यत्र गच्छति || २० || पदे पदेऽश्वमेधस्य फलऽम् प्राप्नोति मानवः | त्रिंशद्योजनविस्तीर्णं दीर्घेण शतयोजनम् || २१ || कामरूपं विजानीहि त्रिकोणाकारमुत्तमम् | ईशाने चैव केदारो वायव्यां गजशासनः || २२ || दक्षिणे सङ्गमे देवि लाक्षाया ब्रह्मरेतसः | त्रिकोणमेव जानीहि सुरासुरनमस्कृतम् || २३ || तत्र ये मानवाः सन्ति देवा नात्र संशयः | तत्र यद्यज्जलं देवि तत् सर्वं तीर्थमेव हि || २४ || उपवीथिश्च वीथिश्च उपपीठञ्च पीठकम् | सिद्धपीठं महापीठं ब्रह्मपीठं तदन्तरम् || २५ || प्. ७७) विष्णुपीठं महादेवि रुद्रपीठं तदन्तरम् | नवयोनिरिति ख्याता चतुर्दिक्षु समन्ततः || २६ || तत्र तत्र महापूजा चोत्तरोत्तरफलाधिका | द्विगुणं द्विगुणं भद्रे फलमेवं सुनिश्चितम् || २७ || सर्वेषाञ्चैव विद्यानां सर्वमन्त्रस्य शाम्भवि | पूजने जपने चैव द्विगुणं द्विगुणं फलम् || २८ || नवयोनिः समाख्याता कामाख्यायोनिमण्डलम् | आयोनिमहिपर्यन्तमाविद्यागन्धमादनम् || २९ || पञ्चक्रोशमिदं देवि सर्वेषामेव दुर्लभम् | ब्रह्मविष्णुसुरेशाद्यैः सेवितं परमाद्भुतम् || ३० || देवा मरणमिच्छन्ति का कथा मानुषेषु च | योनिपीठे महेशानि पञ्चक्रोशमिते शिवे || ३१ || ये [ते] गच्छन्ति शिवाकारा ये मृतास्तेऽपुनर्भवाः | ये च सूर्याकरं क्लेशं प्राप्नुवन्ति न कर्हिचित् || ३२ || योनिपीठे च निष्पापा ये वसन्ति नरोत्तमाः | ते सर्वे शङ्करा जातास्त्रिनेत्राश्चन्द्रमुर्धजाः || ३३ || सर्वेषाञ्चैव विद्यानां सर्वमन्त्रस्य चेश्वरि | पूजनं जपनञ्चैव कुरुते साधकोत्तमः || ३४ || अणिमाद्यष्टसिद्धिनामाश्रयो जायते नरः | तन्मध्ये च महादेवि गिरिर्नीलाचलोज्ज्वलः || ३५ || ब्रह्मविष्णुशिवाकारः सर्वशक्तिमयः पुनः | तन्मध्ये परमेशानि मनोभवगुहा परा || ३६ || प्. ७८) मनोभवगुहामध्ये रक्तपानीयरूपिणी | कोटिलिङ्गसमाकीर्णा कामाख्या कल्पवल्लरी || ३७ || तत्तेजसा तु सन्दीप्ता मनोभवगुहा सदा | अस्याः स्पर्शनमात्रेण लौहो याति सुवर्णताम् || ३८ || चतुर्हस्तप्रमाणानि समन्तात् पर्वतात्मजे | अस्याः स्पर्शनमात्रेण शिवत्वमेति मानवः || ३९ || निष्पापो जायते देवि तत् क्षणान्नात्र संशयः | अत्र यद्यत् कृतं कर्म तदनन्तफलं भवेत् || ४० || तन्मध्ये परमेशानि समन्ताद् द्वादशाङ्गुलम् | आपातालाद् ह्रदं देवि प्रोच्छलज्जलमण्डलम् || ४१ || तज्जलं परमेशानि ब्रह्मविष्णुशिवात्मकम् | ऐश्वरं तज्जलं देवि कारणार्णवसंज्ञकम् || ४२ || बहु किं कथ्यते देवि तज्जलं परमामृतम् | सङ्केतेनैव कथितं मातर्जानीहि सुन्दरि || ४३ || काङ्क्षन्ति सततं देवि तज्जलं च चराचराः | तज्जलस्पर्श मात्रेण तध्रदस्पर्शनेन च || ४४ || तत्क्षणान्मानवो देवि देवो भवति निश्चितम् | पुण्यपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् || ४५ || तध्रदे पूजयेद् यो हि तज्जलेन महेश्वरि | जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि || ४६ || वर्णितुं नैव शक्नोमि [शक्यते] तत् फलं गिरिनन्दिनि | ह्रदे हस्तं विनिःक्षिप्य जलमध्ये महेश्वरि || ४७ || प्. ७९) अष्टोत्तरशतजपान्महासिद्धिश्वरो भुवि | मन्त्रसिद्धिर्भवेत्तस्य तत् क्षणान्नात्र संशयः || ४८ || शैवो वा वैष्णवो वापि शाक्तो वान्यो महेश्वरि | जपन्ति ये हि मन्त्रं ते सिद्धिमायान्ति तत्क्षणात् || ४९ || अष्टोत्तरशतेनापि नात्र कार्या विचारणा | कुशाग्रैरुत्थितं तोयं यः पितृभ्यः प्रयच्छति || गया श्राद्धं कृतं तेन नियुतार्धं महेश्वरि | एतत्ते कथितं देवि कामाख्यायोनिमण्डलम् || ५० || संक्षेपेण महेशानि वक्ष्याम्येवं विशेषतः | किन्त्वस्य कथ्यते देवि माहात्म्यं ते यशस्विनि || ५२ || यत्र कोटियोगिनीभिः काली वसति तारिणी | छिन्नमस्ता भैरवी सा सप्त सप्त विभेदिता || ५३ || ध्रूमा च भुवनेशानी मातङ्गी कमलालया | भगक्लिन्ना भगाधारा तथा चैव भगन्दरी || ५४ || दुर्गा च जयदुर्गा च तथा महिषमर्दिनी | उपविद्याश्च याः प्रोक्ताः सर्वाभिस्ताभिरेव च || ५५ || ब्रह्मविष्णुमहेशाद्यैर्महाकाली वसेत् सदा | ब्रह्ममुखाश्रयं पीठमुग्रताराधिदैवतम् || ५६ || तत् पीठं विविधं प्रोक्तं गुप्तं व्यक्तं महेश्वरि | व्यक्ताद् गुप्तं पुण्यतरं दुरापं साधकोत्तमैः || ५७ || सर्वत्र लभ्यते देवि कुलद्वयविशारदैः | मनोभवगुहावह्नौ देवीशिखरमुन्नतम् || ५८ || प्. ८०) तन्महोग्रमिति ख्यातं पीठं परमदुर्लभम् | सिद्धि काली ब्रह्मरूपा देवता भुवनेश्वरी || ५९ || निवसेत्तत्र या काली घोरदैत्यविनाशिनी | तत्पीठोपरि संविश्य दशधा च जपेन्मनुम् || ६० || तदा मन्त्रविशुद्धिः स्यात् तद्देहेन शिवो भवेत् | यत् क्षणं ते मया प्रोक्तं हृन्मध्ये हि सुलोचने || ६१ || पादहीनं तत्फलं स्यात् पूर्णं शिवजपार्चने | अर्घं जालन्धरे ज्ञेयमुड्डीयाने तदर्धकम् || ६२ || अवश्यं तन्त्रसिद्धिः स्यान्नेपाले तिथिवासरात् | नीलकण्ठसमीपे तु नात्र कार्या विचारणा || ६३ || जपेन देव देवेशि कथितं ते मया मुदा | त्रयोदशाहे महासिद्धिरेकाभ्रकानने तथा || ६४ || दशलक्षेण गङ्गायां सिद्धिरावश्यकं शिवे | राढायां विकटाक्षायां द्रुतञ्ज पर्वतात्मजे || ६५ || लक्षत्रयेण सिद्धिः स्यात् सत्यमेव सुसिद्धिदे | पुष्कराख्ये च लक्षेण प्रयोगे विंशलक्षतः || ६६ || कोटिजपाद्द्रोणगिरौ ज्वालायाञ्च द्विलकषतः | तथैव विरजे क्षेत्रे लक्षद्वादशतः शिवे || ६७ || हिमालये त्रिलक्षेण केदारे पञ्चलक्षतः | कैलासे दशलक्षेण जयन्त्यां पञ्चलक्षतः || ६८ || उज्जयिन्यां दशाहेन मासेन मन्दराचले | अवश्यं मन्त्रसिद्धिः स्याज्जपनात् पूजनाच्छिवे || ६९ || प्. ८१) इत्येवं कथितं तुभ्यं यत् पृष्टं गिरिसम्भवे | मातृजारसमं देवि सर्वदा परिगोपयेत् || ७० || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे एकादशः पटलः || द्वादशः पटलः देव्युवाच भोः स्वामिन् परमानन्द योगिनामभयप्रद | कामाख्यायोनिमाहात्म्यं यदुक्तं मे त्वया शिव || १ || सत्यं सत्यं न सन्देह आश्चर्यं सर्वमेव हि | तत्त्वेन [तंत्रेन] तन्मया ज्ञातं कलौ किं न सुसिद्धिदम् || २ || न पश्यामो शिवज्ञानं [वशि०] मन्त्रसिद्धिन्तथैव च | किमेतत् कारणं नाथ वद मे करुणामय || ३ || ईश्वर उवाच नरकासुरनामा तु विष्णुवीर्यसमुद्भवः | पृथिवीगर्भसम्भूतो दानवानामद्धीश्वरः || ४ || तस्मै विष्णुर्ददौ राज्यं कामरूपं महाफलम् | पृथिवीवचनात् सोऽपि दानवो युद्धदुर्धरः || ५ || प्. ८२) किरातैर्घटितं जित्वा रणे कामनृपोऽभवत् | पुनश्च भगवान् तस्मै निवासाय ददौ मुदा || ६ || प्रग्ज्योतिषपुरं ख्यातं कामाख्यायोनिमण्डलम् | जित्वाऽभिषेचनं राज्ये विष्णुः शक्तिं ददावपि || ७ || ततस्तु दर्शयामास मनोभवगुहां हरिः | सुस्नातं नरकं तद्वद् विधेयामास वै तदा || ८ || विष्णुरुवाच कामाख्यायाश्च माहात्म्यं सर्वं वेदार्थसम्मतम् | ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं च मया पुनः || ९ || शिवत्वञ्च शिवेनैव कामाख्यायाः प्रसादतः | तस्माद्योनिं पूजयस्व यत्नात् सर्वात्मभिस्त्वमूम् || १० || यदा ते सुमुखी माता तदा ते सम्पदः स्थिराः | यदा ते विमुखी माता तदा ते न शुभं सुत || ११ || तदैवाहञ्च त्यक्ष्यामि पुत्रस्त्वं वेद्म्यहं पुनः | इति ज्ञात्वा पुजयस्व विशेषेण वदामि किम् || १२ || ईश्वर उवाच इत्युक्त्वा स ययौ विष्णुर्वैकुण्ठं स्वनिकेतनम् | नरकः पालयामास विष्णूवतं यद्यदेव हि || १३ || एतस्मिन्नन्तरे देवि वृत्तान्तं शृणु दारुणम् | ब्रह्मणो मानसः पुत्रो वशिष्ठोऽतीव सद्यति || १४ || तारामाराधयामास तदा नीलाचले मुनिः | तत्रैवैकदिने देवि पूजयितुं [जप्तुं चैव] सुरेश्वरीम् || १५ || प्. ८३) कामाख्यामण्डले तारां पुरहारे समागतः | तत्र तं वरयामास नरको ब्रह्मसम्भवम् || १६ || नरक उवाच इदानीं तिष्ठ विप्र त्वं नागच्छ मण्डलान्तरे | इदानीं पूज्यते देवी पूजान्ते त्वं गमिष्यसि || १७ || इत्युदीरितमाकर्ण्य नरकस्य मुनीश्वरः | द्वादशादित्यसङ्काशो वभूव क्रोधमूर्छितः | उवाच नरकं विप्रो वशिष्ठस्ताम्रलोचनः || १८ || वशिष्ठ उवाच रे पापिष्ठ किमुक्तं ते अयोग्योःअं सुदुर्मते | कामाख्यापूजने काले मा लभेम गृहान्तरे || १९ || गन्तुं योन्यन्तरे मूढ भूत्वापि ब्रह्मसम्भवः | इदानीं पश्य वीर्यं मे तव नाशकरं महत् || २० || ईश्वर उवाच इत्युक्त्वा च वशिष्ठोऽसौ जग्राह पाणिना जलम् | कमण्डलोर्महादेवीं शशाप दारुणं मुनिः || २१ || वशिष्ठ उवाच अहञ्च ब्रह्मणो मातः कामाख्ये ब्रह्मसम्भवः | हित्वा त्वां हि व्रजाम्यद्य न किञ्चिदुच्यते त्वया || २२ || ब्रह्मवधोद्भवं पापं सत्यं तेऽद्य भविष्यति | एवमत्र महापीठे जपनात् पूजनादपि | सिद्धिर्न जायते कर्हि काले मद्वचनात् पुनः || २३ || प्. ८४) ईश्वर उवाच दत्त्वेमं दारुणं शापं त्यक्त्वा तज्जलमुत्तमम् | नीलाचलं परित्यज्य गतोऽसौ खाण्डवं गिरिम् || २४ || ततः सा परमा विद्या कामाख्या विश्ववन्दिता | महाज्योतिर्मयी देवी सर्वप्रकाशरूपिणी || २५ || दह्यतेःअर्निशं तारा तत्रैव स्वाङ्गतेजसा | तत्क्षणात् परिसन्दग्धा गता कैलासमन्दिरम् || २६ || तदैव परमेशानि मनोभव गुहा पुनः | महान्धकारपटलैरावृता तद्वियोगतः || २७ || हाहाकारः सर्वलोके मूर्छितो दानवेश्वरः | ततस्तां परमां मायां विषण्णवदनां पुनः || २८ || दृष्ट्वाहं परिपप्रच्छ कामाख्यां परिसादरम् | कथं शिवे समायाता त्यक्त्वा तद्योनिमण्डलम् || २९ || विष्ण्णवदना भूत्वा कामाख्ये वद कारणम् | त्वं देवि परमाराध्या स्थीयतां मे हृदि स्वयम् || ३० || सर्वं प्रतिकरोम्येव विषण्णवदने कथम् || ३१ || कामाख्या उवाच वशिष्ठो ब्रह्मणः पुत्रस्तारामाराधितुं मुनिः | मद्योनिमण्डले नाथ द्वारं मे समुपागतः || ३२ || प्रातस्तस्मिन् ब्राह्मणो मामर्चितुं समुपागतः | द्वारपालोऽभवद्राजा यावन्मे पूजनं भवेत् || ३३ || तावत् कोऽपि न क्षमो हि गन्तुं मद्योनिमण्डलम् | एवं नित्यं नियमितं नरकेनासुरेण च || ३४ || प्. ८५) अतस्तं वारयामास नरको ब्रह्मनन्दनम् | ततस्तेनैव मुनिना शापो दत्तः सुदारुणः || ३५ || शापं शृणु महादेव कथने रोदनं मम || ३६ || ब्रह्मविष्णुसुरेशाद्यैः काङ्क्ष्यते यत् परं स्थलम् | तद् मम विहतं देव को वोपायोऽस्ति मे वद || ३७ || हित्वा त्वां [स्थानं ब्रजाम्यद्यान्यथा] हि व्रजाम्यद्य न किञ्चिदुच्यते त्वया | ब्रह्मवधोद्भवं पापं सत्यं तेऽद्य भविष्यति || ३८ || एवमत्र महापीठे जपनात् पूजनादपि | सिद्धिर्न जायते कर्हि काले मद्वचनात् पुनः || ३९ || एवमेव मुनेः शापादागताहं तवान्तिकम् | कमुपायं करिष्यामि वद मे करुणामय || ४० | ईश्वर उवाच एवमुक्त्वा रुदन्तीं तामाश्वास्य च पुनः पुनः | आगत्याहं योनिपीठे जजाप कालिकामनुम् || ४१ || शापोद्धाराय देवेशी तस्माच्छापाद् विमोचिता | कामाख्यां स्थापयामास पूर्ववद् योनिमण्डले || ४२ || ततः सा परमा माया महाहर्षमुपागता | किन्तु कलौ महेशानि वर्षाणाञ्च शतत्रयम् | ब्रह्मशापो महेशानि फलिष्यति सुनिश्चितम् || ४३ || देव्युवाच वशिष्ठेन पुरा शप्ता कामाख्या कामवासिनी | नरकस्य प्रसङ्गेन तत् सर्वं कथितं मयि || ४४ || प्. ८६) इदानीं श्रोतुमिछामि शापोद्धारस्य ते कथा | कथं शापश्च ज्ञातव्यस्तस्यापि लक्षणं वद | यच्छ्रुत्वा साधवः सर्वे दयामेष्यन्ति सर्वदा || ४५ || ईश्वर उवाच कुमतेः पुरभूपस्य राज्यनाशो यदा भवेत् | तद्दिनात् परमेशानि ब्रह्मशापः प्रवर्तते || ४६ || ततोऽतीव दुराचारो कामरूपे भविष्यति | प्रजापीडा रोगकृत्वा बहुदोषो भविष्यति || ४७ || सदा युद्धं महामाये सदा दुर्वृत्तमेव च | देवदानवगन्धर्वाः सदा पीडापरायणाः || ४८ || कुपूर्वकुलटाचन्द्रमिते [कुपूर्वकुलचन्द्रेण ते] शाके दिवानिशम् | सौमारैश्च कुवाचैश्च यवनैर्युद्धमुल्वणम् || ४९ || भविष्यति कामपृष्ठे बहुसैन्यसमाकुलम् | ततो रणे च सौमारं जित्वा यवनवाञ्छितम् [ईप्सितं] || ५० || वर्षमेवाकरोद्राज्यं मकारादिर्महीपतिः | तत् सहायं समासाद्य कुवाचः स्वीयराज्यभाक् || ५१ || वर्षान्ते यवनं जित्वा सौमारो राज्यनायकः | कुमारीचन्द्रकालेन्दौ गते शाके महेश्वरि || ५२ || कामरूपे मणेः पृष्ठसंयोगः [युद्धसंयोगी (क) मणेः संयोगं] सम्भविष्यति | कामरूपे तथा राज्यं द्वादशाब्दं महेश्वरि || ५३ || प्. ८७) कुवाचसङ्गतो भूत्वा यवनश्च करिष्यति | षष्ठवर्गपञ्चमादिस्ततः शरीरमिच्छति || ५४ || शासितव्यं कामरूपं सौमारैश्च कुवाचकैः | यवनश्च कुवाचश्च सौमारश्च तथा प्लवः || ५५ || कामरूपाधिपो देवि शापमध्ये न चान्यकः | एवमेव बहुविधं वक्ष्ये लक्षणमीश्वरि || ५६ || क्रियते सत्कारकरं प्रत्यक्षं परमेश्वरि | वशिष्ठस्य तपस्यादावग्निः शाम्यति कामिनि || ५७ || भविष्यन्ति च तरवः शालाख्यपर्वतोपरि | स्वर्गहारे शिलापाते चैके वेपुरसन्निधौ || ५८ || कामाख्याया मठे भग्ने उर्वश्या सदृशङ्गमः | ब्रह्मपुत्रस्य देवेशि सूक्ष्मधारा तु तस्य च || ५९ || षोडशाब्दे गते शाके भूर्महीरिपुचुल्वके [भूमद्य (क) भूमद्यादि] | विगतो भविता नूनं सौमारकामपृष्ठयोः || ६० || षण्मासं तत्र सम्पूज्य उत्तराकालकोभयोः | गमिष्यन्ति च राजानः सर्वे युद्धविशारदाः || ६१ || कुवाचैर्यवनैश्चैन्द्रैर्बहुसैन्यसमाकुलैः | त्रिभिर्म्लैच्छैः समाकीर्णं महायुद्धं भविष्यति || ६२ || अश्वमुण्डैर्नरमुण्डैर्गजमुण्डैर्विशेषतः | लोहित्यो रक्तपूर्णश्च भविष्यति न संशयः || ६३ || तदैव परमा माया योगिनीगणवन्दिता | कामाख्या वर्णकश्यामा [कणका] बलिहस्ता हसन्मुखी || ६४ || प्. ८८) लोलजिह्वा मुण्डमाला दिग्वस्त्रा परमा स्थिता | पर्वताग्रं समाश्रित्य रक्तपानं करिष्यति || ६५ || ततः कुवाचो यवनं हित्वा सौम्यविनाशितः | करतोयानदीं यावत् करिष्यति महद्रणम् || ६६ || दशाहं तत्र संस्थाय यास्यति पुनरालयम् | ततो विप्रो नृपो भूत्वा कामरूपनिवासिनः || ६७ || करिष्यति जनान् देवि जपपूजादितत्परान् | एवं वर्षत्रयं राज्यं कृत्वा दण्डी द्विजो नृपः || ६८ || भविष्यति महामाये योनिमण्डलसन्निधौ | ततो द्वादशदले नाभिः कल्पते पूर्वभूमिपः || ६९ || ऐशानीमागतः [ऐशान्यामागतः] कामानेकच्छत्रं करिष्यति | तद्राज्यं सकलं देवि धर्मेण पालयिष्यति || ७० || तत्पत्नीश्यामवर्णां स्यात् सदाराधितपार्वती | सवितं [सरितं] तनयं साध्वी राजानं राजपुत्रकम् || ७१ || तज्जन्मदिवसाद्देवि यावत् स्याद् द्वादशं दिनम् | तावत् स्पर्शाचले स्पर्शमणिराविर्भविष्यति || ७२ || तेनैव धनिनः सर्वे कामरूपनिवासिनः | भविष्यन्ति तदैव स्यात् वशिष्ठशापमोचनम् || ७३ || ततस्तेजांसि भूयांसि कामाख्या योनिमण्डले | कामाख्यासन्निधाने च भविष्यति कलौ युगे || ७४ || मन्त्रसिद्धिश्च भविता तदैव योनिमण्डले | यथोक्तफलदा देवि कामाख्या हि भविष्यति || ७५ || प्. ८९) जडीभवद्ब्रह्मशापाद् [जडितत्वाद्] वर्षाणाञ्च शतत्रयम् | कामाख्या देववन्द्याङ्घ्रिकमला लज्जिता स्वयम् || ७६ || पूर्ववत् सकलं देवि ततस्तु सम्भविष्यति | एवं कामपरित्राणं संक्षेपात् कथितं मया | किं श्रोतव्यमितो देवि गिरिजे कथ्यतां त्वया || ७७ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे द्वादशः पटलः | त्रयोदशः पटलः देव्युवाच देवेश परमेशान सर्वज्ञ सर्वपूजित | क्व गच्छसि मुहुर्नाथ कृपया वद शङ्कर || १ || ईश्वर उवाच कोंचानाख्ये च देशे च योनिगर्तसमीपतः | साध्वी सती शासिका हि रेवती जनविश्रुता [जनविस्मृता] || २ || म्लेच्छदेहोद्भवा या तु योगिनी सुन्दरी मता | तत् कुचौ कठिनौ द्वन्द्वौ योनौ तस्याश्च पीनता || ३ || भिक्षाचारप्रसङ्गेन गच्छामि च दिवानिशम् | तत् सन्निधौ महेशानि तया मे रमणं महत् || ४ || प्. ९०) देव्युवाच कुत्रासीत् किं तपस्तप्तं कथं प्राप्तं महीतलम् | त्वया सार्द्धं रतिर्यस्या नाल्पस्य तपसः फलम् || ५ || तथापि च कृपा तस्यां लक्ष्यते महती मया | इदानीं किमभूत् सा हि कृपया परया वद || ६ || ईश्वर उवाच नगेन्द्रतनये बाले शृणुमत्प्राणवल्लभे | तत् साध्वीचरितं किञ्चित् कथयामि शुचिस्मिते || ७ || रसक्रीडा कृता सार्धमेकाम्रकानने मुदा | वेदाङ्गसम्भवा साध्वी योगिनी सा सुरी मता || ८ || नाभूत्तस्याः सुतृप्तिर्वै [परितृप्तिः] मत् क्रियायां नगात्मजे | मामाप्तुमुत्कटं तप्तमस्मिन् मे क्षेत्रकामदे [कामदा] || ९ || एकाम्रगहने देवि पर्वते तीर्थसङ्कुले | तत्रैको ब्राह्मणो यातो भिक्षार्थं तामुवाच ह || १० || न दत्तमुत्तरं तस्यै भिक्षा तिष्ठतु दूरतः | ततः शशाप विप्रस्तां म्लेच्छतां याहि दुर्मदे || ११ || इत्युक्त्वा स ययौ विप्रो म्लेच्छत्वमाप योगिनी || १२ || अतोऽर्थिनं समर्थश्चेत् याचितं न ददाति चेत् | तस्यास्तु तपसा देवि क्रीतोःअमभवं सदा || १३ || अतस्तस्या रतिर्याता मम कामिनी सर्वदा | तस्याः पुत्रो विनुसिंहो मदौरससमुद्भवः || १४ || प्. ९१) एकेन जितवान् कामान् सौमारान् गौडपञ्चमान् | विनिर्जित्य नृपान् सर्वान् एकः श्रीमान् महामतिः || १५ || तस्यापि बहवः पुत्राः पृथिवीपरिपालकाः | कुवाचा धार्मिकाः सर्वे राजानो युद्धदुर्मदाः || १६ || तपः [तथात्वे सः] कर्तुं विनुसिंहो योगमाश्रित्य विह्वले [निर्जनम्] | तिष्ठत्यव्यक्तरूपेण पट्ट आकल्पमम्बिके || १७ || कालात् सा माधवी देवी मद्देहे नीचतां गता | यथा जाया नन्दिमता तथेयं योगिनी मता || १८ || यथा पुत्रो भृङ्गरीटस्तथा विनुर्ममात्मजः | विनुसिंहोऽपि कल्पान्ते परां सिद्धिमवाप्स्यति || १९ || तद्वंशजास्तु राजानः सर्वे कैलासवासिनः | भविष्यन्ति महात्मानो गणेशाः [धनेशाः] सर्वशालिनः || २० || रूपयौवनसम्पन्नैर्देवकन्यागणैः सह | विहरन्ति सदा देवि क्रीडन्ते भैरवा यथा || २१ || यदा यदा ब्रह्मशापः कामाख्यायां भवेत् पुनः | तदा तदाऽवतीर्यासौ स्वस्य कामस्य पालकः || २२ || तथा तद्वंशजाः सर्वे भवेयुः कामपालकाः | कल्पान्तमेवं देवेशि यावच्छापो विमुच्यते || २३ || तावदेव महामाये तद्वीर्ये क्रीडति ध्रुवम् | कल्पमेव महेशानि कलौ वर्षशतत्रयम् || २४ || वर्षाणां परमेशानि भुक्तिशापं [भुङ्क्ते] परात्मिका | कामाख्या तु महामाये तदन्ते सकलं भवेत् || २५ || प्. ९२) एवन्ते कथितं देवि ब्रह्मशापविमोचनम् | कामाख्याया महेशानि साकल्येन मया ध्रुवम् || २६ || तावद्यस्य ब्रह्मशापो निष्कृतिस्तस्य दूरतः | तक्षकेणापि दष्टस्य प्रतीकारो हि तत् क्षणात् || २७ || ब्रह्मशापप्रसक्तस्य कल्पान्ते स्यात् प्रतिक्रिया | नरकान्निष्कृतिर्नास्ति तस्याभावान्न संशयः || २८ || एवं तद्वंशजाः सर्वे पीड्यन्तेःअर्निशं प्रिये | नानाविधमहोत्पातैर्यावत् स्यात् साप्तपौरुषम् || २९ || तस्मात्तु ब्राह्मणं देवि नावमन्येत कुत्रचित् | सर्वदेवमयो विप्रो ब्रह्मविष्णुशिवात्मकः || ३० || ब्रह्मतेजःसमुद्भूतः सदा प्राकृतिको द्विजः | ब्राह्मणैर्भुज्यते यत्र तत्र भुङ्क्ते हरिः स्वयम् || ३१ || तत्र ब्रह्मा च रुद्रश्च खेचरा ऋषयो मुनिः | पितरो देवताः सर्वे भुञ्जते नात्र संशयः || ३२ || सर्वदेवमयो विप्रस्तस्मात्तं नावमानय [नावमन्येत्] | ब्राह्मणञ्च कुमारीञ्च शक्तिमग्निं श्रुतिञ्च गाम् || ३३ || नित्यमिच्छन्ति ते देवा पूजार्थं कर्मभूमिषु | पूजितैका कुमारी चेद्द्वितीयं पूजनं भवेत् || ३४ || कुमारीपूजनफलं मया वक्तुं न शक्यते | कुमार्यश्च शक्तयश्च सर्वमेतच्चराचरम् || ३५ || एका चेद् युवती देवि पूजिता स्वात्मलोकिता | सर्वा एव परा देव्यः पूजिता स्युः न संशयः || ३६ || प्. ९३) हुतमेकगुणं वह्नौ दत्तमेकगुणं द्विजे | लभ्यते कोटिगुणितं विश्वासान्नात्र संशयः || ३७ || अविश्वासे शतगुणं फलमेव सुनिश्चितम् | गोग्रासं पावनं लोके सर्वपापनिकृन्तनम् || ३८ || कुमार्यैश्चैव यद्दत्तं तथा शक्त्यै महेश्वरि | सततञ्चैव [न नश्यति कदापि तत् कल्पकोटिशतैरपि] तेषान्तु कल्पकोटिशतायुतैः || ३९ || धर्मयोनिर्हि ते देवा धर्मो यज्ञादिको मतः | परलोके महाबन्धुर्धर्मो नास्त्यत्र संशयः || ४० || कर्मण्येव कृत देवि वैदिके बहुजन्मनि | ततश्चागमिके धर्मे धर्मेणैव प्रवर्तते || ४१ || तत्र सम्प्राप्यते मुक्तिः कर्मबन्धविनाशिनी | ततस्तु बहुजन्मान्ते ज्ञानमासाद्य मुच्यते || ४२ || कर्मणा लभते भक्तिं भक्त्या ज्ञानमुपालभेत् | ज्ञानान्मुक्तिर्महादेवि सत्यं सत्यं मयोच्यते || ४३ || ज्ञानाभावे समुत्पन्ने सम्प्राप्य ज्ञानकामिनीम् [ज्ञानमुत्तमम्] | तदा योगी विमुक्तः स्यादित्याह भगवान् शिवः || ४४ || न कर्मणः समारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | तस्मात् कर्म महामाये सर्वदा समुपाचरेत् || ४५ || वैदिकं तान्त्रिकं वापि यदि भाग्येन लभ्यते | न वृथा गमयेत् कालं द्यूतक्रीडादिना सुधीः || ४६ || गमयेद् देवतापूजाजपयज्ञस्तवादिना | द्विविधञ्चैव तत् कर्म बाह्यान्तरविभेदतः || ४७ || प्. ९४) बाह्यञ्चानियमासक्तं मानसं न तथा पुनः | अशुचिर्वा शुचिर्वापि यत्र कुत्र स्थलेऽपि वा || ४८ || गच्छंस्तिष्ठन् स्वपन् वापि यद्वा यद्वा वरानने | कुर्याच्च मानसं धर्मं न दोषो मानसे क्वचित् || ४९ || सर्वेषां कर्मणां श्रेष्ठं जपज्ञानं महेश्वरि | जपयज्ञो महेशानि मत्स्वरूपो न संशयः || ५० || जपयज्ञे हि तिष्ठेद् यो बाह्ये वा चान्तरेऽपि वा | सर्वदा परमेशानि जीवन्मुक्तो न संशयः || ५१ || वैदिकास्तान्त्रिका ये ये धर्माः सन्ति महेश्वरि | सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् || ५२ || ग्रहभूतपिशाचाद्या यक्षरक्षोगणाश्च ये | व्याघ्राद्या जन्तवो देवि तथैव कुपितान्तराः || ५३ || डाकिन्यो गुह्यकाश्चैव गन्धर्वाश्च सरीसृपाः | दानवा भैरवा दुष्टा ये वै श्मशानवासिनः || ५४ || केऽपि नेक्षन्ति तं देवि जापिनं भयविह्वलाः | न स्पृशन्ति च पापानि कदापि साधकं प्रिये || ५५ || फलमेतद्वाचिकस्य जपस्य परिकीर्तितम् | उपांशुः स्यात् शतगुणः सहस्रो मानसो मतः || ५६ || मन्त्रमुच्चारयेद्वाचा वाचिको जप ईरितः | किञ्चित् सुश्रवणोपेत उपांशु परिकीर्तितः || ५७ || निजकर्णागोचरो यो मानसः परिकीर्तितः | वाचिकस्तु जपो बाह्यो मानसोऽभ्यन्तरो यतः || ५८ || प्. ९५) उपांशुर्मिश्र एव स्यात् त्रिविधोऽयं जपः स्मृतः | जपेन देवता नित्यं स्तूयमाना प्रसीदति || ५९ || प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्च शाश्वतीम् | साधनञ्च जपञ्चैव ध्यानञ्चैव वरानने || ६० || नाल्पेन तपसा देवि केनापि कुत्र लभ्यते | यदि भाग्येन देवेशि बहुजन्मार्जितेन च || ६१ || प्राप्यते यत्र तच्चेत्तु जन्मनाप्येकमोक्षभाक् | ब्रह्मज्ञानञ्च यत् प्रोक्तं समाधिस्तत् प्रकीर्त्यते || ६२ || इत्येवं कथितं रम्यं समासेन महेश्वरि | इतः परं महादेवि किं पुनः श्रोतुमिच्छसि || ६३ || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे त्रयोदशः पटलः | चतुर्दशः पटलः देव्युवाच भो देव परमानन्द महायोगेश्वर प्रभो | शुश्रूषा [श्रोतुमिच्छामि यद्] यत्र मे देव कृपया कथ्यतां गुरो || १ || श्रुतं विप्रस्य चरितं रेतसस्ते सनातन | प्लवश्च यवनश्चैव सौमारश्च महेश्वर || २ || प्. ९६) तेषां रेतः समुद्भूता म्लेच्छास्ते कामपालकाः | कथं जाता महादेव वद मे करुणामय || ३ || ईश्वर उवाच शाल्वपुत्राश्च बाह्लीका मृता कौरवसंयुगे | नान्यो वंशधरः कश्चित्तद्वंशे तु त्रिलोचने || ४ || तदा वाह्लीकरमणी कीर्तिर्गुणवती शुभा | युवती सुन्दरी रम्या तपःशीला महामतिः || ५ || पुत्रेच्छया गता काशीं तपस्तेपे दिवानिशम् | स्थित्वा विश्वेश्वराग्रे तु द्वारे मे मुक्तिमण्डपे || ६ || तदा बलिसुतो वाणो महाकालो महाबलः | तद्द्वारपालको देवि चुक्षुभे तां निरीक्ष्य च || ५ || मदधिकारमादाय भैरवः काममोहितः | कपालमाली मदिरामोदितोन्मत्तवेशवान् || ८ || तपस्विवेशमास्थाय निर्लज्जो रतिनायकः | कीर्तेर्जातो महादेवि बन्धुकामलकद्युति || ९ || भैरवो विपुलस्तत्र ततो जातो महाङ्कुशः | कीर्तेः सुतो महादेवि महाकालस्य रेतसः || १० || वात्सल्यं तत्र दृष्ट्वाहं तत् पुत्रो भैरवस्य च | तयाऽनिशं रतिञ्चापि महाङ्कुशमहाभुजम् || ११ || राज्याप्तिं सह तस्यापि कीर्तेश्चेष्टाञ्च शाम्भवि | कामरूपान्तकं [कामरूपान्तकः शाल्वः राज्यं प्राप्तो महाङ्कुशः] शाल्वं राज्यं दत्वा महाङ्कुशे || १२ || प्. ९७) कीर्तियोनिं समासाद्य कुलाचारपरायणः | समर्चयन् यथा काश्यां तथा तत्रापि सर्वदा || १३ || तत्पूजा तत्र महती भविष्यति दिवानिशम् | महाङ्कुश समुद्भूय [समुद्भूत] काश्यामास्कन्दनं कुतः || १४ || ततः प्लवेतिनामा च जगाम मणिमण्डपम् | एवन्ते कथितं देवि चरितं प्लवसम्मतम् || १५ || यवनं चरितं किञ्चित् कथयामि शृणुष्व तत् | आसीत् त्रेतायुगे राजा बहुधर्मपरायणः || १६ || महाधीशो महायोद्धा सूर्यवंशसमुद्भवः | पितृशत्रून् विनिर्जित्य सप्तद्वीपां वसुन्धराम् || १७ || बुभुजे परमं कामं योगध्यानं सुविस्तृतम् | बहुकाले महामाये ततः स्वमदमोहितः || १८ || मत्तोऽधिकोऽधिको राजा नासीद्भूमण्डलेऽधुना | निपात्य पितृशत्रून् यः पितृश्राद्धं कृतं हि यत् || १९ || एवं जातस्वाहङ्कारः सर्वनाशकरो हि यत् | तस्मात्तु पापसञ्चारो जातस्तस्य महाभुजः || २० || पापात्मा यो भवेद्राजा राजतां न कदाचन | अहङ्कारो युद्धचर्यः सदा नैवाव्यवस्थितिः || २१ || महापापानि सर्वाणि साङ्गान्येतानि निश्चितम् | तस्य तेनैव भावेन राजलक्ष्मीर्विनिच्युता || २२ || प्. ९८) आविर्भूतो हैहयश्च तालजङ्घा नृपोत्तमाः | मन्त्रयित्वा च राजानो लङ्घयित्वाम्बुधिं तदा || २३ || व्याजतः करदानस्य प्रापुरुत्तरकौशलम् | आदौ पराजितस्तेभ्यो बाहुर्मासेन निष्क्रमन् || २४ || जितराज्यो [हृत-] बाहुराजः सस्त्रीको वनमाययौ | ममार तद्वने बाहुः समस्तं निष्प्रभं तदा || २५ || तेन विनिर्जितौ भूपौ तालजङ्घीयहैहयौ [-जङ्घाश्च] | अवसानाद् वशिष्ठस्य चाश्रमं [तत्तयोर्गतिरीदृशी] जग्मतुस्तदा || २६ || पुनश्च तौ हि राजानौ पवनौ प्राणकातरौ | वशिष्ठं शरणं यातौ रक्षरक्षेति वादिनौ || २७ || ततस्तान् यवनान् विप्रो वशिष्ठस्त्वभयं ददौ | एतस्मिन्नन्तरे भूपः सगरः खड्गमूर्छ्रितः [क्रोधः-] || २८ || तान् नृपान् हन्तुकामस्तु वशिष्ठान्तिकमाययौ | तत्तथा भूपमालोक्य वशिष्ठो ब्रह्मसम्भवः || २९ || उवाच सगरं देवि धर्मज्ञं बाहुनन्दनम् | मा हिंसीर्बाहुनन्दन अभयं दत्तवानहम् || ३० || तच्छ्रुत्वा चकितो राजा बाहुजो भविता कृती | ब्रह्मवाक्यं वृथा न स्यात् प्रतिज्ञा मेऽपि पूर्वजा || ३१ || इदानीं किं करोम्यद्य सङ्कटं समुपस्थितम् | इति सञ्चिन्त्य तत् सर्वं वशिष्ठमभ्यवेदयत् || ३२ || प्. ९९) हनामि मानुषगणान् प्रतिज्ञा मे कृता पुरा | तत्र तद्वचनं श्रुत्वा गतोष्मि किं करोम्यतः || ३३ || तद्वाक्यमन्यथा कर्तुं मया नोक्तं तदा [सदा] मुने | यद्युपायं न करोषि श्रेयो ये मरणं तदा || ३४ || एवं श्रुत्वा वशिष्ठोऽसौ सत्वरं प्रत्यभाषत || ३५ || वशिष्ठ उवाच मा विषादं गच्छ सखे कर्तव्यं यच्छृणुष्व मे | तवारातीनिमान् सर्वान् मुण्डयित्वा शिरांसि तु | वेदाचारबहिर्भूतान् कारयामास दूरतः || ३६ || हिमाद्रेः पश्चिमे भागे देशे तु यवनो नृपः | इत्थं मे वचनं तिष्ठेत् प्रतिज्ञापि च ते विभो [शिशो] || ३७ || शिरसः कृन्तनं यद्धि मुण्डनं तद्वदेव हि | वेदेऽपि स्थिरमेवं हि समानं समुदाहृतम् || ३८ || ईश्वर उवाच इत्थं तद्वचनं श्रुत्वा सगरोऽपि तथाऽकरोत् | तेऽपि वै क्षत्रियाः सर्वे हैहयास्तालजङ्घकाः || ३९ || विडम्बिता विहीनास्ते सदा मुण्डितमस्तकाः | सुषेणमुनिमाश्रित्य तदाचारविराजिताः || ४० || सुषेणस्योपदेशात्ते तपस्तेपुः सदाश्रिताः | यमाश्रित्य महादेवि म्लेच्छाचारपरायणाः || ४१ || प्. १००) तामसास्ते महादेवि तामसं भावमाश्रिताः | संयोगञ्च वियोगञ्च मन्त्राणाञ्च द्विधा गतिः || ४२ || सात्त्विको राजसो देवि संयोगः फलदायकः | बाह्यान्तरवियोगेन संयोगो हि अनुत्तमः || ४३ || तामसे तु वियोगः स्याद् बाह्यः सिद्धिफलप्रदः | तामसः परलोकस्य बाह्यस्तद्धर्म ईश्वरः || ४४ || तेषान्तेनैव भावेन प्रसादो मेऽभिजायते | मया दत्तो वरस्तेभ्यो शृणु कामयितुं वरम् || ४५ || भुङ्क्ष्वेदानीमिदं राज्यं यवन तिष्ठ एव च | कालं तथेन्द्वष्टनवान् गते शाके कलौ युगे || ४६ || पुण्यदेशाधिपा यूयं भविष्यथ सुनिश्चितम् | एवमेव महेशानि कामरूपाधिपाः शिवे || ४७ || यवनो मत् प्रसादेन तथान्यपुण्यभूमिषु | बहुभूपसमाकीर्णः कलौ भुङ्क्ते महीं मुदा || ४८ || एवन्ते कथितं देवि वृत्तान्तं पावनं सदा | इदानीं श्रूयतां युद्धे सौमारचरितं तथा || ४९ || एकदा मरराजश्च [एकदश्च रिपुग्रस्तः] खाण्डवं वनमाययौ | विहाय देवराज्यं च [देवराजं च] कौशाङ्ग्या सहितः स्वयम् || ५० || गतेषु बहुकालेषु क्रीडया देवभूभुजः | तौर्यत्रिके सम्यगिच्छा जाता बहुविधास्तथा || ५१ || प्. १०१) रम्भां तिलोत्तमां काञ्चीं कुरङ्गाक्षीं मनोहराम् | आदिदेश समानीय नृत्यं कर्तुञ्च रम्भया || ५२ || ततस्तेन [ततश्च ताः स्वर्गवेश्या नृत्यन्ति स्म मुदान्विताः] वृताः सर्वा वेश्या जग्मुर्मुदान्विताः | नानाविधिविधानेन इन्द्रं तुतोष मोहिनी || ५३ || मोहिता चापि कौशाङ्गी देवराजेन सङ्गता | तासं नृत्यप्रगीतेन कामोद्दीपोऽभवत्तदा [कामभ्रंशो भविष्यति] || ५४ || एतस्मिन्नन्तरे देवि स्वर्गवेश्या मनोहरा | तया रतिं समकरोत् देवेन्द्रो [स राजा हृष्टमानसः] बलसूदनः || ५५ || इन्द्रं [कौशांगी तं समालोक्य] तद्विधमालोक्य मनो दधे तथा तु सा || ५६ || कामनानलैर्विभ्रान्ता [कामरूपेषु] स्खलिता नृत्यगीतयोः | रतिर्धैर्यं तयोर्जातं तस्यास्तत्स्खलने पुनः || ५७ || ततस्तस्या मनो ज्ञात्वा कौशाङ्गी क्रोधमूर्छिता | उवाच निष्ठुरां वाणीं शृणु देवि मनोहराम् || ५८ || भूत्वा वेश्या महादुष्टा मदविक्षिप्तमानसा [मद्रतं देवमीहसे] | अतः प्रचलितं चित्तमावयोरतिकर्मणि || ५९ || अहो याहि भुवं वेश्ये राजानं पतिमाप्नुहि | एवमुक्तं दुष्टशापं कौशाङ्गीमुखनिःसृतम् || ६० || प्. १०२) श्रुत्वा च मूर्छिता भूत्वा कौशाङ्गी चरणेऽपतत् | विललाप बहुविधं धृत्वा च चरणे मुहुः || ६१ || ततो जगाद कौशाङ्गी द्वात्रिंशधायनं [हायनं] भुवि | भुक्त्वा शापं मनोहरे पुनः [पूर्णसौष्ठं] स्वर्गं [सौख्यं] गमिष्यसि || ६२ || मन्दाकिन्यां तनुं त्वक्त्वा ततः सा मानवाश्रिता | कङ्कती मोहिनी रम्या धार्तराष्ट्रं पतिं गता || ६३ || कौरवे च कुरुक्षेत्रे हते नारीशतं मृतम् | तूर्णञ्च कङ्कती सागाच्चन्द्रचूडं गिरिं भिया || ६४ || अत्युच्चशिखरे तस्य सा तस्थौ भृशदुःखिता | प्राप्यर्तुं स्वर्गवेश्या सा द्वितीयदिवसे दिशि || ६५ || कामवाणैः सदा विद्धा मूर्च्छिता तापमागता | ततो [इन्द्रो रथे समारूढे यात्यपश्यत्तु सुन्दरीम्] रथै समारूढो गत्वापश्यत् तु सुन्दरीम् || ६६ || सालङ्कारां कुशद्वीपात् स्मृत्वा तत्पूर्वंकारणम् | बोधयित्वा च सर्वं [सर्वां] तां कान्तां कामविमोहिताम् || ६७ || रतिं कृत्वा [धृत्वा] गतस्तस्याः सुतोऽभूच्च अरिंदमः | कङ्कत्या परमेशानि पर्वते गन्धमादने || ६८ || यतो जग्राह तामिन्द्रो द्वितीयदिवसे ऋतौ | ततः सोऽरिन्दमश्चाभूत् म्लेच्छाचारपरायणः || ६९ || व्याधवृत्तिरतो घोरः सर्वदा प्राणिहिंसकः | सर्वमांसादनो देवि किरातो घटितो यथा || ७० || प्. १०३) सर्वपुण्यवहिर्भूतः सर्वपापसमाकुलः | मद्यमांसभगामोदी कदाचारपरायणः || ७१ || ईदृशं तं सुतं दृष्ट्वा कङ्कती भृशदुःखिता | तपस्तेपेऽतिगाढञ्च सारात्सारं [परात्परं] चतुष्टयम् || ततस्तां देवराजोऽसावुवाच तत्पुरस्थितः || ७२ || इन्द्र उवाच कथं तप्तं तपो घोरं त्वया कङ्कति मे वद | तपसा तेऽतिसन्तुष्टो यदिच्छसि ददामि च || ७३ || कङ्कती उवाच सुतस्ते ईदृशो जातः सदा पापपरायणः | द्रष्टुं न शक्ता देवेश यथेच्छसि तथा कुरु || ७४ || देवाधिदेव देवेश सुतस्तेऽयं सुराधिप | भवेत् सत्यं न सन्देहः पुत्त्रोयन्तु नराधमः || ७५ || अतस्त्वं देवतानाथ पिताऽस्यायं सुतस्तव | यथेच्छसि कुरु तथा मां तु नय द्रुतं प्रभो || ७६ || किङ्करीं त्वत्पार्श्वदेशे किङ्करीत्वे [किंकर्यै मां] नियोजय | देवाधीश एष काम्यो नान्यः काम्यः कदाचन || ७७ || इन्द्र उवाच शृणु प्रेयसि मद्वाक्यं शापकालो गतस्तव | त्वरितो नेष्याम्यधुना त्वामहं सुस्थिरा भव || ७८ || पुत्रस्य पापयोगेन वंशनाशकरोऽभवत् [भवेत्] | अतः शताष्टविंशे च पुरुषे क्षयिते [हारिते] सति || ७९ || प्. १०४) सौमारवासिनो भूत्वा वंश्या मे राजपुङ्गवाः | पुण्यश्लोका धर्ममयाः सदाचारपरायणाः || ८० || न्यायबुद्धिमहोत्साहा देवविप्रपरायणाः | भविष्यन्ति न सन्देहो ब्रह्मतत्त्वविदः पुनः || ८१ || गच्छन्ति चापि वैकुण्ठे सर्वे स्युर्विष्णुवल्लभाः | लयमेष्यन्ति तत्रैव यावदाभूतसंप्लवम् || ८२ || ईश्वर उवाच ततस्तान्तु [तां च] समादायागच्छदिन्द्रो निजालयम् | तथा काले तु सौमारः कामरूपाधिपोऽभवत् || पूर्वभागे च सौमारः कुवाचः पश्चिमे तथा | दक्षिणे यवनस्तद्वदुत्तरे प्लव एव च | एवमेव महादेवि ते सर्वे कामपालकाः | एवन्ते कथितं देवि सौमारचरितं हि तत् || इतः किमिच्छसि श्रोतुं यस्त्वया नैव संश्रुतम् | इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे चतुर्दशः पटलः | पञ्चदशः पटलः देव्युवाच गुप्तेन त्वामहं पृच्छे कामाख्या का वदस्व मे || १ || प्. १०५) ईश्वर उवाच या काली परमा विद्या ब्रह्मरूपा सनातनी | कामाख्या सैव देवेशि सर्वसिद्धिप्रदायिनी || २ || देव्युवाच कथं काली ब्रह्मरूपा कामाख्याऽभून्महेश्वर | सर्वं मे कृपया नाथ वदस्व चन्द्रशेखर || ३ || ईश्वर उवाच यदा सृष्टिः कृता धात्रा स्वयमेव स्वयम्भुवा | तदाहङ्कारदोषेण पूरितोऽसौ पितामहः || ४ || अहङ्कारो नाशकरः सर्वस्यैवेति चेश्वरि [सर्वनाशकरः सर्वस्य चेश्वरि] | तमहङ्कारमादाय स्थितो ब्रह्मा जगन्निधिः || ५ || विस्मृत्य सर्ववृत्तान्तं कालिकोक्तं [कालिकोक्तं] हि यत् पुरा | केवलाहङ्कारयुतो धात्रा भूतो हि सर्वदा || ६ || सर्वकामालयं [काममयं] विश्वं कस्य वा किं कृतं भवेत् | तथापि मायया देवि ब्रह्माहङ्कारमोदितः || ७ || तं तथाभूतमालोक्य ब्रह्माणं परमेश्वरि | तद्देहात् कल्पयामास तदहङ्कारतः शिवे || ८ || दैत्यं परमदुर्धर्षं केशिनामानमुत्तमम् [उद्यतम्] | निःसृत्य ब्रह्मणो देहाद् दैत्यः परमदारुणः || ९ || धावति स्म तदा देवि ब्रह्माणं भक्षितुं ततः | ततः पलायनञ्चक्रे विष्णुना स पितामहः || १० || प्. १०६) ततः केशी महादैत्यः पुरञ्चक्रे च भारते | केशिपुरमिदं ख्यातं तत्र स्थित्वा हि दानवः || ११ || बुभुजे सकलं देवि भूर्भुवः स्वश्चराचरम् | ब्रह्मशब्दजपादेवं [ब्रह्माणं जहीति शब्दं] सदा ब्रह्माण्डमण्डले || १२ || ततो ब्रह्मा जगद्धाता विष्णुना निरहङ्कृतिः | अस्तौषीज्जगतां धात्रीं [मातां] कालीं विघ्नविनाशिनीम् || १३ || ब्रह्मविष्णू ऊचतुः नमः परमकल्याणीं प्रणवात्मानमीश्वरीम् | निजबीजस्वरूपाञ्च कामबीजस्वरूपिणीम् || १४ || मुण्डमालावलीरम्यां ललज्जिह्वां सनातनीम् | मायाबीजस्वरूपाञ्च कूर्चबीजस्वरूपिणीम् || १५ || वन्देःअं जगतां धात्त्रीं कालीं कमललोचनाम् | घोररावां शिवसङ्गीं मुक्तकेशीं दिगम्बरीम् || १६ || नमामि कालिकां मातां महाविघ्नविनाशिनीम् | प्रणमामि सदा हृद्यां तां मातां भुवनेश्वरीम् || १६ || ईश्वर उवाच एवं स्तुता तदा देवी ब्रह्मणा विष्णुनापि च | सहसाकाशवाणीं वै किमिच्छसि पितामह | भो विष्णो त्वं महाबाहो किमिच्छसि च तद्वद || १८ || ब्रह्मविष्णू ऊचतुः जगद्दैत्यवरश्चैकः [जातो दैत्यवरश्चैकः] केशिनामा महासुरः | आवयोः सकलं नीतं [हृतं] नित्यं तत् तेन मण्डलम् || १९ || प्. १०७) हत्वेदानीं तमसुरमावां स्थापय पूर्ववत् | देहि दास्यं पदाम्भोजे माहात्म्यं तन्निवेदनम् || २० || काल्युवाच शृणु ब्रह्मन्नहो वाक्यमहङ्कारो गतस्तव | इदानीं परिसंज्ञातं ते यान्ति च तवाधिकाः || २१ || सर्वं मायामयं विश्वं किं त्वेवान्यस्य पङ्कजे | अहङ्काराप्तमीक्षित्वा विघ्नं दत्तं दुरासदम् || २२ || मया तुभ्यं जगद्धातस्तवाहङ्कारनिर्मितम् | केशिदैत्यस्वरूपो हि हन्मि तन्तु स्थिरो भव || मा भयं कुरु भो विष्णो स्थिरो भव महामते || २३ || ईश्वर उवाच एवमासाद्य आश्वास्यब्रह्मविष्णुपरात्मिका | हुङ्कारेणैव तं भस्मीचकार दानवोत्तमम् || २४ || केशीं महासुरं काली विधिमाह ततस्तु सा || २५ || काल्युवाच अहङ्कारात् पातकं ते जातं ब्रह्म महत्तरम् | तत्पापस्यापनोदाय क्रियते पर्वतोत्तमः || २६ || केशिदैत्यभस्मना च गोग्रासं बहुना धृतम् | तद्ग्रासभस्मना नित्यं गौस्ते पापं क्षयिष्यति || २७ || ईश्वर उवाच एकीकृत्य च तद्भस्म केशिदैत्यशरीरजम् | कमण्डलुजलक्षेपाच्चकार पर्वतं विधिः || २८ || प्. १०८) नात्युच्छ्रिछ्रतं नातिनिम्नं गोग्रासं बहुना धृतम् [वृतम्] | तद्ग्रासभस्मना गौश्च तुष्टिः पुष्टिर्भवेद् ध्रुवम् || २९ || अतो गोवर्धनं नाम पर्वताय ददौ विधिः | यथा यथा [यथाश्रुति] चात्ति गौश्च तद्ग्रासं पर्वतोत्तमे || ३० || तथा तथा क्षयं याति पातकं ब्रह्मणः शिवे | तावत्तु निष्कृतिर्धातुर्यावद् गोवर्धनो गिरिः || ३१ || तदन्ते निष्कृतिस्तस्य ब्रह्मणः परमेश्वरि | एवमेवापराधस्ते प्राधान्ये यदि जायते || ३२ || तत् फलं पीडनं तस्य सर्वेषाञ्च त्रिलोचने | ततो ब्रह्मा जगद्धाता विष्णुश्च जगतां पतिः || ३३ || पुनश्च तत्क्रमेणैव अस्तौषीत् परमेश्वरीम् | ततः काली जगन्माता तावुवाच किमिच्छथः || ददामि वत्सौ तत् सर्वं भवन्तौ कातरौ कथम् || ३४ || ब्रह्मविष्णू ऊचतुः आवयोर्जगताञ्चैव मङ्गलाय पदाच्च्युतम् | महामुक्तिप्रदञ्चैव त्वदीयमतिनिर्मलम् || ३५ || अदृश्यमपि गोप्यं हि मातराकारवर्जितम् | कथं तत् पूजयिष्यावः सर्वं मङ्गलदायकम् || ३६ || भूमौ स्थानं कल्पयस्व जपितुं त्वत्पदाम्बुजम् | सर्वदा पूजयिष्यावो महाभङ्गलकारणम् || ३७ || आवयोश्चैव सर्वेषां महामुक्तिफलाय च | तदावयोर्दानवाद्यैरशुभैः किं करिष्यति || ३८ || प्. १०९) अवश्यं नौ तरिष्यावो दुस्तरात् त्वत्पदार्चनात् || ३९ || काल्युवाच शृणु वत्स महाविष्णो वचनं परमं महत् | जलहुङ्कारबीजेन [येन] चकार भस्म दानवम् || ४० || केशीमन्त्रं महाबीजं शब्दब्रह्मस्वरूपकम् | महातेजोमयं विद्धि तद्बीजं परम् पदमं || ४१ || केशिपुरे च तद्बीजं केशिहन्त्रा व्यवस्थितम् | आपातालं क्रोशमात्रं तद्बीजं तेजसावृतम् || ४२ || अतो हि पूज्यं तत्स्थानं महातेजोमयं ध्रुवम् | तत्स्थानं त्वं समादाय मां पूजय यदीप्सितम् || ४३ || अतिसङ्गुप्तभावेन ईप्सितं प्राप्यते फलम् | देवदानवगन्धर्वैरन्यैरपि महामते || ४४ || यथा न ज्ञायते कश्चित् तथार्चनां कुरुष्व मे | सर्वापद्भ्यः परित्राणं त्वां करिष्यामि सर्वदा || ४५ || क्रीडास्थानमिदं विष्णो उक्तं तुभ्यं मया सदा | इच्छाशक्तिस्तु दत्ता वै आद्यञ्चैव मया पुरा || ४६ || महालक्ष्मीस्वरूपेण सेवते ब्रह्मसंस्थिता | सैव वृन्दास्वरूपेण पुरेऽत्र सम्भविष्यति || ४७ || केशिपुरं समा व्याप्य ततो वृन्दावनाभिधम् | केशिपुरस्य भविता तया ते क्रीडनं ध्रुवम् || ४८ || भूत्वा वृन्दावनतरुर्लक्ष्मीः स्थास्यति सर्वदा | दैत्यविघ्नं हि भविता सर्वदैत्यनिषूदनी || ४९ || प्. ११०) मो ब्रह्मन् शृणु वत्सैतद्वचनं मे शुभोदयम् | केशिदैत्यवधार्थाय यत्र ते पूजनं कृतम् || ५० || युवाभ्यां तत्र पश्य त्वं जातं मे योनिमण्डलम् | मम तेजः समुद्भूतं जानीहि योनिमण्डलम् || ५१ || सर्वेषामुद्भवस्थानं योनिरेव न संशयः | जानीहि प्रकृतिं देव योनिं मे यां तु मामकीम् || ५२ || सम्पूज्य योनिं देवेश सृष्टिं कुरु यथार्थतः | कुत्रापि च भयं न स्यात् तव क्वापि पितामह || ५३ || अधिष्ठानमस्ति मम तत्र पीठे न संशयः | जानीहि तदधिष्ठातृरूपं मेऽति सुशोभनम् || ५४ || नित्यं पूजय तद्रूपं कामाख्या योनिमण्डले | योनिमण्डलमासाध कामाख्यां यस्तु पूजयेत् || ५५ || सर्वसिद्धीश्वरो भूत्वा परत्रेह च मोदते | न भयं तस्य कुत्रापि कस्मादपि प्रजायते || ५६ || तवान्येषां हितार्थाय स्थापितं योनिमण्डलम् | पृथिव्यां भारते वर्षे कामरूपं महालयम् || ५७ || नवयोनिसमाकीर्णं महामुक्तिफलप्रदम् | नवयोन्यात्मके ब्रह्मन् कामरूपे मनोहरम् || ५८ || कामाख्यातेजसा देव दीप्यते योनिमण्डलम् | किन्त्विदानीं भवत्पापं प्रपश्यामि [न पश्यामि] कथञ्चन || ५९ || अहङ्कारात् समुत्पन्नं त्रिविधं पातकं तव | कायिकं वाचिकञ्चैव मानसञ्च तथा पुनः || ६० || प्. १११) तत् पापाद् योनिपीठं मे न पश्यसि कदाचन | तत् पापध्यानधाराभिर्बद्धीभूतं दिवानिशम् || ६१ || तत्र वाचनिकं पापं गोवर्द्धनात् प्रकाश्यते | तत् त्रयस्य प्रशमनं वदामि तच्छृणुष्व मे || ६२ || नक्षत्रलोकान्नक्षत्रमेकं तत्र निपात्य च | श्रेष्ठतामेहि हे देव दृष्ट्वा पीठं तपः कुरु || ६३ || यावद्राक्षसी ज्योतिस्तु मिलितं योनितेजसिं | तावत् कुरु तपो घोरं तदन्ते पातकद्वयम् || ६४ || प्रशाम्यति न सन्देहो वसतिं कुरु सत्वरम् | तत्र तपोवशात् तत्तु केनापि नहि वीक्ष्यते || ६५ || अपराधाच्छ्रेयसस्तु भवेद् वै गतिरीदृशी | नक्षत्रस्थापनात्तत्र पृथक् जातिषु निश्चयम् | स्थानं तद्गास्यते वत्स सर्वलोके निरन्तरम् || ६६ || ईश्वर उवाच इत्युक्त्वा विररामासौ गगनस्था परात्मिका | कालीं परमकल्याणीं तां नत्वा विधिकेशवौ || ६७ || विस्मयाविष्टमनसौ राज्यं तच्चक्रतुस्तु तौ | इत्येवं कथितं गुह्यं यत् पृष्टं गिरिसम्भवे | प्राचीनमतिगोप्यं हि वृत्तान्तं कुलनायिके || ६८ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे पञ्चदशः पटलः || षोडशः पटलः देव्युवाच श्रुतं हि पूर्ववृत्तान्तं सर्वेषामप्यगोचरम् | इदानीं श्रोतुमिच्छामि कालीरूपा भवेत् कथम् || ईश्वर उवाच शृणु देवि परं गुह्यं ब्रह्मादीनामगोचरम् | सारात्सारतरं देवि भक्तिमुक्तिप्रदायकम् || २ || एकदा ब्रह्मविष्णू तौ विरोधन्तौ परस्परम् | ईश्वरोःअमीश्वरोःअमुक्तवन्तौ जलार्णवे || ३ || तयोः शान्त्यै महेशानि प्रादुर्भूतं जलार्णवे | अप्रमेयं महालिङ्गं मदीयं पावनं परम् || ४ || ज्ञानाज्ञानमयं दिव्यं दुर्निरीक्ष्यं भयंकरम् | तन्मध्येःअं रुद्ररूपो बभ्राम वृषवाहनः || ५ || तौ दृष्ट्वा हि [दृष्ट्वा तु तौ] तदाश्चर्यं भयकम्पितविग्रहौ | स्तुत्वा च विविधैः स्तोत्रैरूचतुर्मां पुनश्च तौ || ६ || ब्रह्माविष्णू ऊचतुः कस्त्वं वद भीमरूप उत्थितोऽसि जलार्णवे || ७ || रुद्ररूप उवाच परस्परं विरुध्यन्तौ युवां दृष्ट्वा जलार्णवे | उत्थितोःअं च युवयोदीश्वरत्वं परीक्षितुम् || ८ || प्. ११३) इत्युदीरितमाकर्ण्य स्थगितौ ब्रह्मकेशवौ | निगूढं ध्यान्तो ज्ञात्वा सन्तुष्टो माधवोऽभवत् || ९ || उद्विग्नमानसो ब्रह्मा ध्यात्वा मन्मानमाप्तवान् | केवलं रुद्ररूपं मां ज्ञात्वाऽसौ कमलासनः || १० || विचिकित्सापरो भूत्वा विष्णुमाह तदा विधिः || ११ || ब्रह्मोवाच भो विष्णो मत्कपालाद् यो जातो रुद्रोऽप्यसौ मतः || १२ || ईश्वर उवाच एवमुक्त्वा चोपहासं कृत्वा [निन्दितं च] धात्रा विगर्हितम् | चकार बहुधा देवि विघ्नं दत्तं सुदारुणम् || १३ || मया तस्मै ब्रह्मणे तद्विगर्हितविनिर्मितम् | तद्विघ्नमसुरो भूत्वा मध्याह्नसमये रविः || १४ || जातो देहात् स त्रिपुरनाम्ना च दानवः शिवे | सर्वेषां सकलं नीतमिन्द्रादीनां महेश्वरि || १५ || तेन दैत्येन देवेशि ततो विष्णोर्हि तत् जगत् | गरुडञ्च विना लक्ष्मीमन्यत् सर्व हृतं बलात् || १६ || हृतं तेनैव दैत्येन ब्रह्मणः कमलासनम् | ततः पलायिताः देवा ब्रह्मविष्णुपुरोगमाः | हिमालयं समासाद्य विष्णुराह तदा विधिम् || १७ || विष्णुरुवाच शिवनिन्दा कृता धातस्त्वया पूर्वं जलार्णवे | तेनैव चापराधेन वयं सर्वे प्रपीडिताः || १८ || प्. ११४) ततस्तु परमेशानं स्तोष्याम्यत्र गिरौ पुनह् | तदैव मङ्गलं लेभे भूयो मे रोचते हृदि || १९ || ईश्वर उवाच समाश्रित्य तपस्तेपुर्ब्रह्मविष्णुपुरोगमाः | हिमालये तदा देवाः प्रसादो मेऽभवत् तदा || २० || पृथिवीञ्च रथं कृत्वा चक्रे चन्द्रदिवाकरौ | ब्रह्माण सारथीं कृत्वा वेदान् रज्जूंस्तथैव च || २१ || देवान् कृत्वा रथाङ्गानि अश्वांश्चैव रथान् पुनः | धनुः कृत्वा सुमेरुञ्च ज्याञ्च कृत्वा तु वासुकीम् || २२ || विश्वञ्च सकलं कृत्वा रथस्थं यच्चराचरम् | वाणं विष्णुं विधायैव त्रिपुरं भस्मसात् कृतम् | चराचरेण सहितं देवदैत्यादिभिः सह || २३ || मया तत्र महेशानि पुनः सृष्टिः कृता ततः | यत्र भस्म कृतं देवि जगदेतच्चराचरम् || २४ || महत् श्मशानन्तु विद्धि सर्वेषां लयकारणम् | मृतानां सर्वदेवानां तेजस्तत्र व्यवस्थितम् || २५ || पञ्चक्रोशात्मकं भूत्वा तेजस्तु जगतां तथा | निर्माय मायया देहं त्रैपुरं तस्य वक्षसि || २६ || तत्र मृत्युच्छलेनाहं तुष्टाव परमेश्वरीम् | तत्तेजसि महाकाल्याः परा चैतन्यरूपिणी || २७ || ततस्तेजसि सा काली प्रादुर्भूता परा कला | महादीपप्रयाणन्तु तेजसः कालीकीर्तितम् || २८ || प्. ११५) मुखमात्रं समादृष्टं महाकाल्यास्तु तेजसि | अतो गिरिमुखं नाम मुनिभिः परिगीयते || २९ || तद्दृष्ट्वा परमेशानि आनन्दश्चैव जायते | आनन्दकाननं तस्माद् गीयते वेदवादिभिः || ३० || कालीमयं हि तत्तेजः सकलं संबभूव ह | यथा तु सागरे गच्छन् शीकरः सागरो भवेत् || ३१ || तथा सूर्यादितेजो हि कालीतेजो बभूव ह | यथा नानाजलं देवि गङ्गायां पतितं यदि || ३२ || गङ्गैव जायते सर्वं तथा तेजः सुरेश्वरि | सर्वं काल्यभवत् पूर्णं नास्ति भेदो महेश्वरि || ३३ || सर्वं तदमृतं देवि जानीहि सुरसुन्दरि | तां चाप्यहर्निशं [तामसीमनिशं] देवि शिरसा धारयाम्यहम् || ३४ || ततो हि शङ्करत्वं मे निश्चितं सत्यमेव हि | तां कालीं शिरसाधाय पञ्चक्रोशमयीं सदा || ३५ || अहर्निशं पूजयामि परमानन्दबृंहितः | अतो विश्वेश्वरत्वं मे सदैव नात्र संशयः || ३६ || ब्रह्मविष्ण्वादिकानाञ्च ईश्वरो यः सुरेश्वरि | विश्वेश्वरः स एव स्यान्नापरः परमेश्वरि || ३७ || केवलानन्दवान् भूत्वा पूजयामि परं सदा | तत्र तस्याः कृपा जाता वाग्भवा याऽशरीरिणी || ३८ || प्. ११६) देव्युवाच [काल्युवाच] भो देव परमानन्द ममानन्दः कृतस्त्वया | अतः काश्यां मृतानां त्वमानन्दं देहि सर्वदा || ३९ || ईश्वर उवाच इति श्रुत्वा वचस्तस्या मग्नोःअममृतार्णवे | ददामि परमं ब्रह्म मुमूर्षोः कर्णगोचरे || ४० || वाराणस्यां सदा देवि स्थित्वा ध्यानपराः शिवे | जले स्थले चान्तरिक्षे वाराणस्यां मृतास्तु ये || ४१ || ददामि परमं ब्रह्म तेषां हि कर्णगोचरे || ४२ || हित्वा हि सकलं कर्म सुकृतं दुष्कृतं हि ते | प्राप्स्यन्ति [भवति | (भवेच्च)] ब्रह्मनिर्वाणं ममोपदेशतः क्षणात् || ४३ || तत् सर्वं सुकृतं कर्म दुष्कृतं वा महेश्वरि | भवेद्भस्म [भस्मी भवति तत् सर्वं महाकाल्याः प्रसादतः] महाकाल्याः प्रसादात् ज्ञानयोगतः || ४४ || काशीलग्नं हि यत् किञ्चित् काशी भवति तत्क्षणात् | काशीस्पर्शनमात्रात् ते पूर्णानन्दमयाः सदा || ४५ || शूलीकर्म दहेत् काशी तेजःस्पर्शात् क्षणात्तथा | तूलराशिं दहत्यग्निः किञ्चित्कालाद्यथा शिवे || ४६ || तथा दहेत् कर्मराशिं काशीजन्मैकतो नृणाम् | काशीस्थानं पुण्यचयं किं वाहं कथयामि ते || ४७ || अपिचेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् | तदा काशीफलं किञ्चित् देवि वक्तुं क्षमो भवेत् || ४८ || प्. ११७) अण्डजा ऊष्मजाश्चैव उद्भिज्जाश्च जरायुजाः | ते सर्वे मुक्तिमायान्ति काश्याञ्चेद् भाग्यतो मृताः || ४९ || इयं वाराणसी देवि महातेजोमयी शुभा | युगभेदाज्जनैरेव दृश्यते हि चतुर्विधा || ५० || कृते रत्नमयी काशी त्रेतायां स्वर्णजा स्मृता | द्वापरे सा शिलारूपा कलौ भूमिमयी शुभा || ५१ || नातः परतरं क्षेत्रं त्रिषु लोकेषु विद्यते | सत्यं सत्यं महादेवि शपथेन वदामि ते || ५२ || संसारवर्त्मना देवि मुक्तिमिच्छति यः पुनः | पाषाणेश्वरलोभित्वात् तिष्ठेत् काश्यां स यन्त्रितः || ५३ || स एव पण्डितो ज्ञानी स एव कुलपावनः | प्राणान्तेऽपि महादेवि काशीं न निस्त्यजेद्बुधः || ५४ || स एव परमो मूर्खः स एव कुलनाशकः | वृथैव मूर्खलोकेन काशीं प्राप्य समुज्झितम् || ५५ || बहुभिर्जन्मभिः पुण्यैर्यदि काशीं लभेत् जनः | तदा नैव त्यजेत् काशीं प्राणान्तेऽपि कदाचन || ५६ || अनायासेन संसारसागरं यस्तितीर्षति | स गच्छेदपि यत्नेन मम वाराणसीं पुरीम् || ५७ || अन्नं दद्यादन्नपूर्णा ज्ञानं दद्यात् सरस्वती | प्राणान्ते मुक्तिदाताःअं काश्यां स्थित्वा सदैव हि || ५८ || एवन्ते कथितं देवि यत् पृष्टं गिरिजे मयि | परमं पावनं मोक्षं किमतः श्रोतुमिच्छसि || ५९ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे षोडशः पटलः | सप्तदशः पटलः देव्युवाच गुरुस्त्वं सर्वलोकानां परमेश पुरातन | जगदूर्ध्वकलाधीश वद कोलानिपातनम् || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि कोलासुरनिपातनम् | महाकालीप्रसङ्गेन वृत्तान्तमिदमद्भुतम् || २ || पापं जातं ब्रह्मशापात् विष्णोरतुलतेजसः | पीडितस्तेन पापेन तपश्चक्रे स सर्ववित् || ३ || हिमालयान्तिके गत्वा तत्पापक्षयकात्मकः | अष्टाक्षरीं महाविद्यां महाकाल्याः सदा जपन् || ४ || दशवर्षसहस्रान्ते तुतोष सा महेश्वरी | तस्याः सन्तोषमात्रेण विष्णोर्हृदयपङ्कजात् || ५ || कोलानामासुरो भूत्वा निर्गतः सहसा हि सः | तेन दैत्येन बलिना सर्वं नीतं दुरात्मना || ६ || इन्द्रादिसकलान् देवान् विनिर्जित्य महासुरः | हृत्वा च वैष्णवं धाम ब्रह्मणः कमलासनम् || ७ || ततो विष्ण्वादयो देवाः कालीं गत्वा सनातनीम् | अस्तुवन् भक्तियोगेन रक्ष रक्षेति दुःखिताः || ७क || काल्युवाच इदानीं रे [श्रूयतां] वत्स विष्णो हन्मि कोलान् सबान्धवान् | कोलानगरमास्थाय कुमारीरूपमास्थिता || ८ || प्. ११९) ईश्वर उवाच एवं श्रुत्वा कालीवाणीं ब्रह्मविष्ण्वादयः सुराः | आनन्दजलधौ मग्नाः शिखिवन्ननृतुर्घनात् || ९ || अतः कालीं करालास्या द्विजवाला स्वरूपतः | गत्वा कोलापुरं देवि कोलासुरसमीपतः | तमयाचत तद्भक्ष्यं कुमारी दैत्यपुङ्गवम् || १० || काल्युवाच मातृतातविहीनाहं सहायपरिवर्जिता | क्षुधिताहं महाराज भोज्यं मह्यं प्रदीयताम् || ११ || ईश्वर उवाच ततः कोलासुरो देवि मायया परिमोहितः | दयया तां करे धृत्वा विवेशान्तःपुरे स्वयम् || १२ || उवाच भोज्यं दास्यामि तुभ्यं यत्ते स्वमीप्सितम् | अत्रोपविश बाले त्वं आसने मणिरञ्जिते || १३ || इत्युक्त्वासौ ददौ भोज्यं नानाविधमनेकशः | भुक्त्वा सा सकलं देवि पुनर्देहीतिवादिनी || १४ || पुनर्ददौ बहुतरं तच्चापि बुभुजे स्वयम् | नाहं तृप्ता वदन्तीं तां कोलोवाच तदाऽसुरः || १५ || यथा तृप्तिर्भवेद् बाले तावत् [तावच्च तत्तथा] त्वं भोजनं कुरु | इत्युदीरितमाकर्ण्य काली बालास्वरूपिणी || १६ || कोषं हयं हस्तिनञ्च रथं सैन्यं सबान्धवम् | क्षणेन बुभुजे काली कोलासुरं महाबलम् || १७ || प्. १२०) कालरुद्रो यथा काले क्षणाद्युगत्रयं नयेत् | ततः कोलापुरं शून्यं कृतं काल्या क्षणाच्छिवे || १८ || हतारयस्ततो देवा ब्रह्मविष्णुमुखास्तथा | निरन्तरं पुष्पवृष्टिं चक्रुस्ते ननृतुः परम् || १९ || जगुःसुललितं गीतं देवगन्धर्वकिन्नराः | अविद्याधरी देवपत्नी किन्नरीभिः समन्ततः || २० || पूजिता तैः कुमारी सा कुसुमैर्नन्दनोद्भवैः | असर्वलोकैः पूजिता च कुमरी सा गृहे गृहे || २१ || ततः सान्तर्हिता देवी कुमारी ब्रह्मविग्रहा | एवं तेऽद्य मया प्रोक्तं कोलासुरनिषूदनम् || २२ || अब्रह्मशापो दुराधर्षः कोऽप्यतस्तं [विप्रः पूज्यः सदा] न चाचरेत् | वाग्वज्रञ्च ब्राह्मणानां सदा जानीहि कामिनि || २३ || अतोऽविद्यः सविद्यो वा ब्राह्मणः सर्वदा भवेत् | सन्तुष्य ब्राह्मणान् देवि तुष्टा वयं सदा सुराः || २४ || वितुष्टे ब्राह्मणे देवि वितुष्टा वयमेव हि | यद्यकार्यशतं देवि ब्राह्मणः स्वयमाचरेत् || २५ || आत्मनो हितकामेन तथापि तं न चोत्सृजेत् | नापमानं च कर्तव्यं सर्वदा सुरपुङ्गवे || २६ || ब्राह्मणः सर्वदेवात्मा मोक्षतेजःसमो हि सः | अप्रसूतिश्च सा काली कुमारीरूपधारिणी || २७ || ततः प्रभृति देवेशि कुमारी पूज्यते सुरैः | ब्रह्मविष्णुमहेशाद्यैः कुमारी पूज्यते सदा || २८ || प्. १२१) अन्यैः सर्वैः प्रपूज्येत ब्रह्माण्डतलगोचरे | कुमारीपूजनफलं वक्तुं नार्हामि सुन्दरि || २९ || जिह्वाकोटिसहस्रैस्तु वाक्यकोटिशतैरपि | तस्माच्च पूजयेत् बालां सर्वजातिसमुद्भवाम् || ३० || जातिभेदो न कर्तव्यः कुमारीपूजने शिवे | जातिभेदान्महेशानि नरकान्न निवर्तते || ३१ || विचिकित्सापरो मन्त्री ध्रुवञ्च पातकी भवेत् | देवीबुद्ध्या महाभक्त्या तस्मात्तां परिपूजयेत् || ३२ || सर्वविद्यास्वरूपा हि कुमारी नात्र संशयः | एका हि पूजिता बाला सर्वस्य पूजनं [देव पूजनम्] भवेत् || ३३ || बहूनां पूजने चैव त्रैलोक्यस्य पूजा भवेत् | यदि भाग्यवशाद्देवि वेश्याकुलसमुद्भवाम् | कुमारीं लभते कान्ते सर्वस्वेनापि साधकः || ३४ || यत्नतः पूजयेत्तान्तु स्वर्णरौप्यादिभिर्मुदा | तदा तस्य महासिद्धिर्जायते नात्र संशयः || ३५ || महासिद्धिर्भवेदस्य [सदाशिवमयो भूत्वा मद्देहे च विलीयते] स एव श्रीसदाशिवः | लक्षणं तस्य वक्ष्यामि तच्छृणुष्व [कुमारीसाधकस्य च] प्रियंवदे || ३६ || वपुस्तस्य [सकृत्तस्य] महेशानि काञ्चनं परिजायते | सर्वसिद्धियुतो भूत्वा क्रीडते भैरवो यथा || ३७ || स्वर्गे मर्त्ये च पाताले गतिस्तस्य सुनिश्चितम् | हठात्तु [तथा तु] जायते सर्वं यद्यन्मनसि वर्तते || ३८ || प्. १२२) कायव्यूहं [देहमिदं] समासाद्य सर्वत्र व्यापको भवेत् | अव्याहताज्ञः [अव्याहतश्च] सर्वत्र यथा पुरन्दरः शिवे || ३९ || देवदानवगन्धर्वनागकिन्नरकामिनी | विद्याधरी राजनारी सेवते तं दिवानिशम् || ४० || अन्ते च प्राप्यते तेन परं निर्वाणमुत्तमम् | कुमारीपूजने काले साधकः शिवतां व्रजेत् || ४१ || कुमारी पूज्यते यत्र स देशः क्षितिपावनः | महापुण्यतमं भूयात् समन्तात् क्रोशपञ्चकम् || ४२ || कुमारी पूजने तत्र [पूज्यते यत्र] कुर्याच्च परमेश्वरि | स्फुरत्येव [तस्याः प्रस्फुटिता ज्योतिः] महज्ज्योतिः प्रत्यक्षं भारते भुवि || ४३ || विश्वम्भरो नाम राजा चैत्रवंश समुद्भवः | अपूजयत् कुमारीं तां वेश्याकुलसमुद्भवाम् || ४४ || काञ्चीनाम्नीं कृष्णवर्णां सर्वलक्षणपूरिताम् | पूजाकाले महादेवि काञ्ची जाता [लभेत्] स्फुरत्प्रभा [-प्रभाम्] || ४५ || तत्प्रभापटलाच्छन्नो [तत्र प्रभाच्छन्नो भूत्वा] राजा मोक्षमवाप्तवान् | सम्यक् प्रपूरिता तत्र काञ्ची ज्योतिर्मयी प्रभा | भूत्वा नित्या हि तत्स्थाने [तत् स्वप्ने] गृह्णाति पूजनं सदा || ४६ || काञ्चीनाम्नी पुरी जाता तत्स्थानन्तु महाफलम् | मोक्षदा सा पुरी ज्ञेया पञ्चक्रोशमयी शुभा || ४७ || प्. १२३) गृहव्यापारादिकञ्च तत्र यद्यत् कृतं भवेत् | तत्सर्वं पूजनं तस्याश्चित्रमेतन्नगेन्द्रजे || ४८ || अथ [अतः] काञ्चीपुरी देवि पूता वाराणसी शुभा | एवन्तु पूजिता बाला कम्पिल्लेन महात्मना || ४९ || काम्पिल्लेयनगरे पूर्वं तामुद्भूत्य वरानने | अद्यापि दृश्यते लोके [लोकैः] शिलारूपेण तिष्ठता || ५० || सर्वपुण्यतमं वासं सर्वतीर्थसमाकुलम् | सर्वयज्ञयुतं देवि महर्षीणाञ्च वेष्टितम् || ५१ || सर्वाश्चर्यसमाक्रान्तं [सर्वैश्वर्यमये पुरे काम्पिल्ल्ये निवसन्ति ये] काम्पिल्ले नगरे परम् | ये वसन्ति महादेवि काम्पिल्लनग्रे पुरे || ५२ || इहभुक्त्वा वरान् योगान् मम तुष्टिप्रदायकान् | सर्वसम्पत्समाकीर्णानन्ते देव्याः प्रसादतः || ५३ || उल्लङ्घ्य ब्रह्मलोकं वै देव्याः स्थानं समाप्नुयुः | यदि कामो भवेत् कोऽपि वैकुण्ठं परमं व्रजेत् || ५४ || मल्लोकं वा महेशानि यथा मे मणिमन्दिरम् | एवं तेऽद्य मया प्रोक्तं कुमारीचरितं शिवे | किञ्चिदेवं महामाये पुनः किं परिकथ्यते || ५५ || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे सप्तदशः पटलः | अष्टादशः पटलः देव्युवाच श्रुतं कुमारीचरितं पूर्वं हि देववाञ्छितम् | इदानीं श्रोतुमिच्छामि कहोलचरितं परम् || १ || आज्ञापय महादेव कृपया परया हि तत् | हितं हि सर्वलोकानां योगिनां हृदयार्थदम् || २ || ईश्वर उवाच वेदवेदान्तवेदाङ्ग सर्वशास्त्रस्वरूपभाक् | सर्वयाजी [सर्वयोगीश्वरो देवः सर्वपापविवर्जितः | सर्वविद्यामन्त्रकृतसिद्धिः सर्वार्थसाधकः | कहोलश्च ऋषिश्रेष्ठः परिबभ्राम मेदिनीम् |] सर्वतीर्थपूतः सर्वार्थवर्जितः || ३ || सर्वविद्यासर्वमन्त्रकृतां सिद्ध ऋषीश्वरः | सर्ववर्य ऋषिश्रेष्ठः परिबभ्राम मेदिनीम् || ४ || चिन्तामवाप महतीमतीवोद्विग्नमानसः | सहस्रसूर्यसङ्काशः स एवासीत् पुरा शिवे || ५ || चिन्तया परया सोऽभूत् परितप्तो [क्षीणकायो विदांवर] निरन्तरम् | तदाकाशसमुद्भूता श्रुता वाणी महर्षिणा || ६ || कहोल पाहि पूर्वं [पूर्वस्यां यथा देवो महेश्वर] त्वं शङ्करं देवशङ्करम् | स गुरुः सर्वसत्त्वानां सकलं ते करिष्यति || ७ || प्. १२५) श्रूत्वा त्वां गागनीं वाणीं परमानन्दसंप्लुतः | गत्वोवाच कहोलोऽसौ [-मे] वृत्तान्तं सकलं हि तम् || ८ || ततस्तस्मै मया दत्ता विद्या काली परा कला | चन्द्राक्षरी सर्वज्ञानभावनी [-मानवी] चिन्मयी शुभा || ९ || दत्तश्च परमाचारः श्रीमदागमसम्भवः | कथितञ्च मया तस्मै कहोलपुत्र तच्छृणु || १० || अनेनाचारयोगेन गत्वा काशीं [कालीं] दिगम्बरीम् | भावयित्वा पूजयेद् यः सर्वाज्ञानविनाशिनीम् || ११ || ततस्ते संशया [संशयः नष्टः सन्निधौ भुवनेश्वरः |] नष्टा भवेयुर्भुवनेश्वरि | इत्याज्ञप्तः कहोलः स ऋषिर्वेदविशारदः || १२ || गत्वा काशीं यजेत् कालीं पञ्चाचारयुतो मुदा | तस्य ते संशया विघ्नाः पलायन्ते दिने दिने || १३ || ऋषेस्तस्य [सर्वेषामीप्सितप्रदम् | इत्याज्ञप्तः कहोलः स ऋषिर्वेदविशारदः | गत्वा काशीं यजेत् कालीं पञ्चाचारयुतो मुदा | ख पुस्तके अधिकः |] कहोलस्य वेदमूर्तेर्महामतेः | ततस्तस्मिन् कृपा जाता महाकाल्या ऋषेः शुभा || १४ || तथा च कृपया [प्राप्य] देवि कहोल ऋषिसत्तमः | आत्मानं कालिकारूपं परं ब्रह्म सनातनम् || १५ || जज्ञे मायाविनिर्मुक्तमद्वैतं [ज्ञानमाया-] परमं शिवे | सर्वमायाविनिर्मुक्तो जातः स ऋषिरुत्तमः || १६ || प्. १२६) सर्वं ब्रह्ममयं दृष्ट्वा [पश्येत्] जगदेतच्चराचरम् | आत्मदेहादिकं किञ्चिज्जानाति न च कर्हिचित् || १७ || तेनैव ब्रह्मज्ञानेन देहकर्मादिकं खलु | भस्मीभूतं महेशानि ऋषेस्स्तस्य महात्मनः || १८ || ब्रह्मभूतः कहोलर्षिर्महाकाल्याः प्रसादतः | अत्याचारेषु सर्वेषु रतः स्यात् स्फुरते हि सः || १९ || एवमेव महाकाल्या [कालो कहोलर्षिणः] कहोल ऋषिराहतः | चकार लीनं तमृषिं स्वीयदेहे तु कारणे || २० || यं यं भावमुपाश्रित्य यजेत् कालीं हि साधकः | प्राप्नुयादचिरादेव [तत् फलं लभते देवि] महाकाल्याः प्रसादतः || २१ || देव्युवाच श्रुतं कहोलचरितं पूर्वं विस्मयकारकम् | देवासुरमुनीन्द्राणामृषीणां भावितात्मनाम् || २२ || इदानीं श्रोतुमिच्छामि गङ्गां त्रैलोक्यपावनीम् | कां विद्यां प्राप्य सा जाता तां वदस्व मयि प्रभो || २३ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | श्रवणात् सर्वपापानि नाशमायान्ति नान्यथा || २४ || मन्त्रमादौ प्रवक्ष्यामि त्रैलोक्यपावनाभिधम् | महादेव्या महाकाल्या महादेवेन भाषितम् || २५ || प्. १२७) निजबीजं समुद्धृत्य सम्बोधनपदद्वयम् | पुनश्च निजबीज हि विद्यायशस्करी परा || २६ || एनां विद्यां समाराध्य गङ्गात्रैलोक्यपावनी | मम जटातटे स्थित्वा [स्थिता] जपेद्विद्यामहर्निशम् || २७ || तेन सा पावनी गङ्गा मोक्षदा सर्वदेहिनाम् | सिद्धमन्त्रस्वभावेन [-प्रभावे न] काली तेजोऽतिबृंहिता [तेजोप-] || २८ || अतः सा पावनी भूत्वा मोक्षदास्यात् शिवे [च सदा शिवे] सदा | अतो हि सर्वतीर्थानां सा विद्या सर्वपूजिता || २९ || माहात्म्यं किमु वक्ष्यामि गङ्गायाश्च सुरेश्वरि | यन्नामस्मरणादेव पापिनो मुक्तिभागिनः || ३० || गङ्गा गङ्गेति यो ब्रूयात् पापिनामपि पातकी | तेषाञ्च पातकं हित्वा स गच्छेद् वैष्णवीं पुरीम् || ३१ || यानि कानि च पापानि प्रोक्तानि ते महेश्वरि | प्रायश्चित्तविहीनानि [तंदेशं न परित्याज्यं धर्मार्थमोक्षकामिनः] प्रायश्चित्तपराण्यपि || ३२ || तानि सर्वाणि नश्यन्ति गङ्गाजलाभिषेकतः | नगरीं [भिन्नस्थानात् प्रवाहिता यदि गंगां प्रवाहयेत् |] यां सदा देवि शुभा गङ्गा प्रवाहयेत् || ३३ || सर्वं गङ्गा भवत्येव मन्त्रमाहात्म्यतः शिवे | यत्र देशे [प्रवहति] वसेद् गङ्गा स देशः पुण्यभाजनः || ३४ || प्. १२८) पुण्यक्षेत्रं [पातकातिपातकानि महापातकादीनि च | ख पुस्तके अधिकः] समुद्दिष्टं पवित्रं योजनद्वयम् | तत्र यत् क्रियते कर्मं गङ्गायां नात्र संशयः || ३५ || गङ्गायां यत्कृतं देवि तदक्षयफलं भवेत् [लभेत्] | सङ्गमं [सांगं-] वा विहीनं वा कथितं शम्भुवल्लभे || ३६ || तत्रस्थाः प्राणिनः सर्वे देवलोकविनिःसृताः | भुक्त्वा च विविधान् भोगान् कृत्वा च सुकृतं सदा || ३७ || अनायासेन यास्यन्ति स्थानं परमदुर्लभम् | यत्र [क् पुस्तके अधिकः] गङ्गाप्रवाहोऽस्ति देवर्षिगणसंस्तुते || ३८ || गङ्गायां त्यजते प्राणान् यस्तु पुण्यस्वभावतः | ज्ञानतो मोक्षमाप्नोति वैकुण्ठं तत्प्रभावतः [तदभावतः] || ३९ || स्वर्लोकाद्या महेशानि गङ्गापापविनिर्जिताः | गङ्गामुद्दिश्य यो गत्वा पथि प्राणान् विमुञ्चति || ४० || विष्णुलोकं बहुगुणं पापी चेत् सोऽपि गच्छति | तत्तीरे यस्त्यजेत् प्राणान् न्यायतोऽन्यायतोऽपै वा || ४१ || सोऽपि स्वर्गमवाप्नोति सर्वसम्भारसंयुतः | यावदस्थीनि गङ्गायां निक्षिप्यन्ते मृतस्य च || ४२ || तावद्वर्षसहस्राणि स्वर्गलोके महीयते | गङ्गाजलसमायोगान्म्रियते यत्र कुत्रचित् || ४३ || प्. १२९) सर्वपापविनिर्मुक्तो विष्णुलोके महीयते | गङ्गातीरे चतुर्हस्ते पिण्डं दद्यात् समाहितः || ४४ || पितॄणां निष्कृतिं कृत्वा [भूत्वा] विष्णुलोके वसेन्नरः || ४५ || गङ्गायां तर्पणं देवि पुण्यवान् यः समाचरेत् | महातृप्तिर्भवेत् सत्यं पितृणाञ्च शताब्दिकम् || ४६ || ऋषीणां देवतानाञ्च तथैव समुदाहृतम् | दिवा वा यदि वा रात्रौ सन्ध्यायां वा महानिशि || ४७ || स्नानं दानं तपो होमं तर्पणं पूजनं शिवे | सर्वं कुर्यात्तु गङ्गायां कालभेदं न चाचरेत् || ४८ || कालभेदं समाचर्य यदि कर्म त्यजेत् शिवे | ततस्तु स्थावरो भूयादरण्ये [भूत्वा कानने जायते हि सः] तदनन्तरे || ४९ || दावाग्नीनां [शिखया तं तु दग्धमनेकधा] शिखा तस्य दग्ध्वा मृतन्त्वनेकधा | तदन्ते परमेशानि चाण्डालो नित्यदुःखितः || ५० || जायते सप्तजन्मानि तदन्ते रजको भवेत् | जन्मत्रयं महेशानि तदन्ते शूद्रयोनिषु || ५१ || दशजन्म महेशानि ततो वैश्यत्वमाप्नुयात् | चतुर्जन्मव्यतीते तु क्षत्रियत्वं त्रिजन्मतः || ५२ || ब्राह्मणत्वं ततः प्राप्य लभेत् पुण्यगतिं नरः | गङ्गायां हरते यो हि यत्किञ्चित् परमेश्वरि || ५३ || तस्य मोहान्धतमसो रौरवान्नास्ति निष्कृतिः | आभूतसंप्लवं [क पुस्तके अधिकः] देवि कथितं ते सुरेश्वरि || ५४ || प्. १३०) तस्यास्तीरे [गंगातीरे च गंगायां] च गङ्गायाः प्रतिगृह्णाति यो नरः | श्वपचो जायते यो नित्यं दशजन्मनि कामिनि || ५५ || ततो दारिद्र्यदोषेण परिभ्रमति मेदिनीम् | सप्तजन्म महादेवि तदन्ते निष्कृतिं लभेत् || ५६ || एवन्ते कथितं तस्या मन्त्रमाहात्म्यमुत्तमम् | कालिकाया महेशानि गङ्गामाहात्म्यकारणम् || ५७ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे अष्टादशः पटलः | ऊनविंशः पटलः देव्युवाच भो देव परमानन्द करुणामयवारिधे | अपारे घोरसंसारे पतितानां महार्णवे || १ || त्वामृते [यो मृतः] कः समुद्धर्ता चास्ते ब्रह्माण्डमण्डले | गुरुस्त्वं सर्वसत्त्वानां ब्रह्मादीनां यतो [मतः] भवान् || २ || पृच्छामि त्वामतो नाथ कृपया परया वद | श्रुतं सर्वं जगन्नाथ त्वन्मुखाम्भोजनिर्गतम् || ३ || इदानीं श्रोतुमिच्छामि यत्र मे मानसं गतम् | कां विद्यां समुपाश्रित्य करालभैरवः स्वयम् || ४ || प्. १३१) क्रोधवक्त्रो भैरवोऽभूत् सर्वसत्त्वभयप्रदः | विद्रवन्ति भयार्ता वै यस्माद्देवासुरादयः || ५ || स्वां स्वां श्रियञ्च सत्त्वञ्च पालयन्ते इतस्ततः | तां विद्यां श्रोतुमिच्छामि वद नाथ दिगम्बर || ६ || ईश्वर उवाच अतिगुह्या महाविद्या गुह्याद्गुह्यतरा हि सा | ब्रह्मविष्णुशिवादीनां सर्वस्वं जीवनावधि || ७ || कथितुं नैव शक्नोति तां विद्यां परमेश्वरि | कथ्यते नाममात्रं हि ज्ञायतां कुलभैरवि || ८ || यत्र वै परमेशानि सुन्दरी वरदायिनी | विद्या राज्ञी घोरकाली अनिरुद्धसरस्वती || ९ || गृहीत्वा तां महाविद्यामादिनाथः स भैरवः | महाकालभैरवाद्यैर्यद्गुरो र्मुखनिःसृताम् [श्रीमुखा निःसृता] || १० || प्राप्तिमात्रान्महादेवि करालभैरवः [वो हि सः] सदा | मेने [अकरोत्] स पूतमात्मानं सर्वस्मादधिकं स्वयम् || ११ || सर्वसंसारनिर्मुक्तो ब्रह्मादिसुरवन्दितः | स तूदयाचले पूर्व तपस्तेपेऽति दुष्करम् || १२ || भूत्वार्धचरणो देवि वर्षाणां नियुतद्वयम् || १३ || हिमाचले चैकलक्षं लक्षञ्च मन्दराचले | कनकाश्रमे तथा लक्षमुड्डीयाने द्विलक्षकम् || १३ || पञ्चविंशति लक्षञ्च तथा जालन्धरे शिवे | पुण्यशैले तथा लक्षं पञ्चविंशतिमानतः || १४ || प्. १३२) पञ्चविंशतिलक्षञ्च कामाख्यायोनिमण्डले | एवं तप्तं [तेपे] तपो ह्येवं कोटिवर्षं सुदुष्करम् || १५ || कष्टेन महता देवि [कृतं] करालभैरवेण ते [तु] | तथापि तं प्रति प्रीता माभूत् काली कदाचन || १६ || ततः स भैरवो देवि गुरोरन्तिकमन्वगात् | निवेदयामास तथा वृत्तान्तं तपसः शिवे || १७ || श्रुत्वा श्रीमादादिनाथो महाकालो महेशराः | मन्नाथः परमेशानि भावनावशतां गतः || १८ || विना च परमाचारं कथयामि [ न हि सिद्धिर्भवेत् किल] समासतः | कथं त्वां परमाचारं कथयामि सविस्तर्म् || १९ || स एव परमाचारः कालीहृदयसङ्गतः | गुह्यातिगुह्यगुह्येति ब्रह्मादीनामगोचरः || २० || परो मुक्तिप्रदः साक्षात् सर्वसिद्धिवरप्रदः | कालीप्रत्यक्षबीजोऽयं मम सर्वस्व एव च || २१ || केवलं कथितं सर्वं शिवेन मत्समो भवेत् | सत्त्वशान्तो महायोगी गोपितस्तेन यत्नतः || २२ || आचारार्थं स्वीयपादं कालरुद्रे समर्पितम् | मम [सर्वस्वमेतद्धि] स्वस्वपदं शम्भुर्निरुद्वेगोऽप्यचेतसः || २३ || परं सङ्गोपनेनैव [परं सङ्गोप्यते नैव] तथाचारं समाचरेत् | सदाचारस्य निगूढं तत्त्वज्ञानं महामतिः || २४ || प्. १३३) सर्वेषामधिपो भूतो विश्वबन्धुः सदाशिवः | अजरामरतां प्राप्तो महाशान्तः परेश्वरः || २५ || तदाचाररतं नित्यं शान्तं दृष्ट्वा मया पुनः | पदं मदीयं गुरुत्वं दत्वा तस्मै समासतः || २६ || अहन्तु तस्य देहे वै तिष्ठामि सर्वदा मुदा | सर्वेषां तु सहस्त्रारे तिष्ठामि कमले परे || २७ || शिवस्य [शिवत्वं] सकलं प्राप्य तिष्ठामि सर्वदा ह्यहम् | शिवः शिवोःअन्तु शिवो न भेदः कुत्रचित् सदा || २८ || ब्रह्मविष्णुशिवादीनां गुरुर्यत्र ततः शिवः | सोऽपि शान्तो महायोगी आचारक्षम एव सः || २९ || नान्यः कश्चित् क्षमः क्वापि तदाचारः [तदाचारं] कदाचन | शिवस्य कृपया चैव केवलं साधकः क्षमः || ३० || क्षमा गिरिसुता [सा गिरिजा] देवी नान्यः कश्चित् कदाचन | ऊर्ध्वतोऽयं भीमकर्मा करालभैरवः सदा || ३१ || तमेव परमाचारं कथं [विद्यान्नास्य तमो] गोप्तुं क्षमो भवेत् | यथा मे कालिकाराध्या तथाचारोऽयमेव हि || ३२ || विद्याराज्ञीं समाराध्यां [समाराध्य] दातुं योग्यः कदाप्यहम् | योग्यं न परमाचारं दातुं कालीहृदङ्गमम् || ३३ || इति सम्भाव्य [संचिन्त्य] मन्नाथः करालभैरवं प्रति | आज्ञापयामास गच्छ पुत्र त्रिलोचनं प्रति || ३४ || प्. १३४) देवी शिवं समारुह्य तथापि करुणामयी | यातो मातुः कालिकाया स्ततः [समीपं] स भैरवः स्वयम् || ३५ || त्यक्त्वा तपस्तु सकलं भावयन्नन्तरात्मना | यद्यज्जप्तं तपो ह्येवं यातु यातु वृथा हि तत् || ३६ || मम भाग्यवशात् सा हि गुर्वाज्ञा विफला भवेत् | अतः शरीरं त्यक्ष्यामि न वक्ष्यामि कदाचन || ३७ || प्रतिज्ञामीदृशीं कृत्वा देहं सन्त्यक्तुमुद्यतः | तदाकाशसमुद्भूता [तदा कापि समुद्भूता व्योमवाणी] वाणी सेयं समीरिता || ३८ || श्रुता तेन करालेन भैरवेण महात्मना | तामाज्ञां कथयामीशे [ममाज्ञां कथयामि ते] श्रुत्वा कर्णे तवांशजम् [अवधारय] || ३९ || गुर्वाज्ञा विफला यातु तव वै भैरवोत्तम || ४० || विनाचारं तपस्तप्तं त्वयात्मज्ञानतः सदा | कथं तुभ्यं महासिद्धिं दर्शनं वा ददाम्यहम् || ४१ || पुनर्याहि महाकालभैरवं भवनाशनम् | आदिनाथं तव गुरुं वृत्तान्तं कथयेदृशम् || ४२ || तदावश्यं महाचारं तुभ्यं स तु प्रदास्यति || ४३ || तेनैवाचारतो देव ममाराधनसुव्रत [त्वं हि ममाराधनतत्परः] | अचिरात्तं प्रदास्यामि यद्यन्मनसि वर्तते || ४४ || कालीतारामहामन्त्रं शुभं [विद्या] मन्त्रञ्च वै ध्रुवम् | कुलाचारं विना यो हि जपेत् स नारकी भवेत् || ४५ || प्. १३५) कथं सिद्धिर्भवेत् तस्य मुक्तिस्तिष्ठति दूरतः | एवमाज्ञां [आन्तरीक्षेण वचसा कथयामास भैरवम् | ख पुस्तके अधिकः |] महाकाल्या श्रुत्वा [लब्धा] स भैरवोत्तमः || ४६ || पुनर्गत्वा च श्रीनाथमादिनाथं महाप्रभुम् | महाकालं महादेवं शून्यरूपं जगद्गुरुम् || ४७ || निवेदयामास तदा यद्यद्वाक्यं समीरितम् | जाता कृपा महाकाल्याः करालभैरवोऽधुना [मातुः कृपा महाकाल्याः करालभैरवं प्रति |] || ४८ || इति मत्वा निन्दितः स गुरुणा शून्यरूपिणा [नन्दितः सशून्यरूपी जगद्गुरुः] | तदा नियमपूर्वं हि करालभैरवोऽवदत् || ४९ || कुलाचारं परं गुप्तं कालीतन्त्रोदितं हि यत् | महाकालो जगन्नाथोऽभिषिक्तं तञ्चकार ह || ५० || शाक्ताभिषेकविधिना पूर्णाभिषेकतस्तथा | ददौ नाम करालाय क्रोधवक्त्रोऽतिविश्रुतः || ५१ || दिव्य भावं श्रावयित्वा वीरभावं तदन्तरम् | (स) मदिरामत्स्यमुद्रान्तु पात्रं कारणपूरितम् || ५२ || ददौ तस्मै महाकालः [महाकालं] शून्यरूपी गुरुः स्वयम् | तदानीं शुशुभे सर्वं जगदेतच्चराचरम् || ५३ || क्रोधवक्त्रोऽपि नत्वा श्रीमहाकालीपदाम्बुज्म् | महाकालो तदा देवि [महाकालीं तदा देवीं] स्मृत्वा श्रीगुरुपादुकाम् || ५४ || प्. १३६) गुर्वाज्ञया भावयुक्तः स्वीकृत्य कारणं परम् | नष्टपापः [सर्वबुद्धिमांश्च तेजस्वी] स्थिरमनाः परमानन्दपूरितः || ५५ || आनन्दजलधौ देवि निमग्नः क्रोधभूपतिः | शक्ति कोपे [शक्तिपादे] महेशानि भूयो नत्वा गुरोः पदम् || ५६ || अस्तौषीत् परया भक्त्या संसारसागरे स्थितः || ५७ || क्रोधवक्त्रभैरव उवाच नमामि नाथे सुरकल्पवृक्षं गुरुं चिदानन्दमहावतारम् | नित्यं हि विज्ञानमानन्दरूपं परात्परं ब्रह्म शिवस्वरूपम् || ५८ || जगन्निवासं जगदादिमूलमज्ञातमेकं परमात्म संज्ञम् [शेषम्] | तेजोमयं निष्कलतत्त्वभावं क्रियाविहीनम् परमं निरञ्जनम् [प्रसन्नम्] || ५९ || प्रपञ्चहीनं परिपूर्णभावमाद्यन्तशून्यं प्रकृतेः परस्तात् | अरूपरूपं स्फुटमेव सत्यं कृपावतारं खलु शून्यरूपम् || ६० || अनादिसंसारविनाशबीजं परं पवित्रञ्च ह्यगोचरं गुरुम् | शिवाहृदं [-दां] केवलनाममन्त्रं [कवलनाममन्त्रात्-] प्रकाशभावं प्रणमामि नित्यम् || ६१ || अणोरणीयान् महतो महीयान् प्रपश्यति त्वादिविदेव वर्यः | यज्ज्ञानजं लोचनमेव सत्यं स च प्रविष्टस्त्वयि नाथ सत्यम् || ६२ || असारसंसारसमुद्रतारं [अपार-] वन्देऽहमाद्यं पुरुषं पुराणम् | तमेव कालीं परमार्थबीजं नमाम्यहं तच्चरणारविन्दम् || ६३ || प्. १३७) स्तोत्रेणानेन यो भक्त्या त्वां स्तोष्यति च साधकः | प्रातर्मध्याह्नसायाह्ने तेषां मुक्तिप्रदा भव || ६४ || महाकालभैरव उवाच स्तोत्रेणानेन सन्तुष्टः सदाहं तव पुत्रक | गच्छ शीघ्रं योनिपीठं देवीशिखरमाश्रितः || ६५ || भज कालीं कुलाचारभाववेश्यापरायणः | अचिराद्वाञ्छिता [तसिद्धिः] सिद्धिर्भविता ते न संशयः || ६६ || वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् | एवं वदति सा काली तस्माद्वेश्यापरो भव || ६७ || मन्त्राचारे हि सर्वत्र नहि दोषः कदाचन | तस्माद्भ्रान्तिं परित्यज्य कुलधर्मं समाश्रय || ६८ || भ्रान्तिस्तत्र न कर्तव्या सिद्धिहानिर्यतो भवेत् | विशुद्धचित्तो भूयाच्चेत् सिद्धिः स्यादपरार्धगा || ६९ || ईश्वर उवाच ततो गत्वा [नत्वा] महाकालीं गुरुं बहुविधं मुदा | योनिपीठं समासाद्य देवीशिखरमाश्रितः || ७० || उर्वशी मेनका रम्भा पञ्चचूडा तिलोत्तमा | पञ्चवेश्यारतो भूत्वा कुलाचारपरायणः || ७१ || भावशुद्धां महाविद्यां जजाप क्रोधभूपतिः | विद्याराज्ञीं घोरकालीमनिरुद्धसरस्वतीम् [-अनिरुद्ध्यां] || ७२ || अष्टोत्तरशतेनैव तस्य प्रत्यक्षतामियात् | काली करालवदना तेजोरूपा सनातनी || ७३ || प्. १३८) तेजसा परिसञ्छाद्य ब्रह्माण्डमण्डलं सदा | तद्दृष्ट्वा सुमहत्तेजो भैरवो भयविह्वलः || ७४ || अनुपायो मूर्छितः सन् पपात पर्वताद् भुवि | ततः काली जगन्माता कृपासागरसञ्चया | आश्वास्योवाच तं क्रोधं वाचाऽमृतसमानया || ७५ || काल्युवाच समुत्थाय ततो देवीं भैरवः पुलकान्वितः | अस्तौषीत् परया भक्त्या नानाविधविधानतः | मुहुर्मुहुर्ननामासौ ततः कालीमुवाच ह || ७६ || क्रोधवक्त्र उवाच परं ब्रह्म परं धाम परमात्मा सनातनी | मनोऽभीष्टं प्रयच्छ त्वं सर्वदा मे मनोमयी || ७७ || काल्युवाच ब्रह्मविष्ण्वादिकानाञ्च ब्रह्माण्डेतरवासिनाम् | नित्यं निग्राहकस्त्वं हि भव भैरवसत्तम || ७८ || कुलाचारेण यः कोऽपि मामर्चयति पुत्रक | स मे पुत्रत्वमागच्छेत् सत्यं सत्यं न संशयः || ७९ || गृह्णातु वक्त्रं दास्यामि ब्रह्माण्डभयदो भवान् | तव वक्त्रं कालरूपं सर्वनिग्राहकं परम् || ८० || ईश्वर उवाच वक्त्रं दत्वा भैरवाय क्षणात् शान्तिमगात् शिवा | महाकालो भैरवोऽपि वज्रपाणिर्बभूव सः || ८१ || प्. १३९) करालभैरवं रूपं क्रोधवक्त्रे बभूव सः [भवेत्] | वज्रपाणिर्महाकालीप्रसादादीश्वराभिधः || ८२ || इति श्रीयोगिनीतन्त्रे पूर्वार्धे कथितं मया | गोपनीयं सदा भद्रे योनिः परनरे यथा || ८३ || इति योगिनीतन्त्रे महातन्त्रराजे देवीश्वरसंवादे चतुर्विंशतिसाहस्रे ऊनविंशः पटलः | इति श्रीयोगिनीतन्त्रे पूर्वखण्डं समाप्तम् | उत्तर-खण्डम् प्रथमः पटलः ओं कामाख्यायै नमः | [नमः कामाख्यायै] प्रधानसाधारविकल्पसत्त्वा स्वभावभावाद्भुवनत्रयस्य | सा विद्यया [विद्याया] व्यक्तमपीह माया ज्योतिः परा पातु जगन्ति नित्यम् || १ || देव्युवाच उड्डीयानादिकं पीठं श्रुतं मे प्राणवल्लभ | इदानीं श्रोतुमिच्छामि कामरूपस्य निर्णयम् || २ || यदुक्तं मे त्वया नाथ घोरपापविनाशकम् | कामाख्यासंज्ञकं पीठं व्यक्तं [पुण्यं] कलियुगे गतम् [मतम्] || ३ || कलिसर्पस्य [कालसर्पस्य] दंष्ट्राणां विचित्राणां चिकित्सकम् | भेषजं परमं देव किं मे तत् कथ्यतां विभो || ४ || भगवानुवाच उड्डीयानस्य देवेशि प्रादुर्भावः कृते युगे | पूर्णशैलस्य सम्भूतिस्त्रेतायुगमुखेऽभवत् || ५ || द्वापरे जालशैलस्य कामाख्यस्य [कामाख्यायाः] कलौ युगे | घोरस्य कलिपापस्य विनाशाय महेश्वरि || ६ || प्. १४१) प्रतिवर्षे तव पीठमुपपीठं युगं युगम् | त्रयं त्रयं महाक्षेत्रं पुण्यारण्यं त्रयं त्रयम् || ७ || प्रतिपीठे महादेवः प्रतिपीठे चतुर्भुजः | प्रतिपीठे स्थिता गङ्गा पार्वती प्रतिपीठके || ८ || प्रतिपीठं प्रतिक्षेत्रं पुण्यारण्यं तु पीठके | कलौ गृहात् सुदूरे च तीर्थबुद्धिः प्रजायते || ९ || किन्तु तीर्थानि वै सन्ति भावनासिद्धिमन्दिरे [सिद्धिरिष्यते] | प्रतिपीठे पृथग्धर्म आचारश्च पृथक् पृथक् || १० || देशे देशे कुलाचारो न हन्तव्यश्च हेतुभिः | पृथक् पूजा पृथङ्मन्त्रो मर्त्ये च तारपीठकम् || ११ || भद्रपीठं दाक्षिणात्ये मध्यदेशस्य पार्वति | जालन्धरन्तु पाश्चात्ये पूर्णपीठन्तु पूर्वतः || १२ || ऐशान्यां पूर्वभागे च कामरूपं विजानीहि | जालन्धरन्तु वायव्ये कोलापूरन्तु [कोल्वा-] उत्तरे || १३ || ईशाने चैव विहारं महेन्द्रमुत्तरे कियत् | श्रीहट्टमपि पूर्वे च उपपीठान्यथो शृणु || १४ || नौकायनेन देवेशि अष्टषष्टिस्तु योजनैः | प्रस्तारे ओड्रपीठस्य आयामेऽति गुणं भवेत् || १५ || शकटाकारकं पीठं चतुष्कोणं सपीठकम् | चतुर्द्वारसमायुक्तं वायुविम्बेन चिह्नितम् || १६ || तीर्थकोटिद्वययुतं सिन्धुभद्रकपीठकम् | तत्र सोमेश्वरं लिङ्गमादिपीठं तथा परम् || १७ || प्. १४२) कामधेनुश्च यत्रैव यत्र चक्रेश्वरो हरः | क्षेत्रं विरजसंज्ञञ्च एकाम्रं तदनन्तरम् || १८ || भास्करस्य महाक्षेत्रं यत्र मातङ्गशङ्करः [भास्करः] | कुशस्थली महापुण्या दण्डकस्य वनं तथा || १९ || सुमन्तश्च तथारण्यं शिवयूपश्च पूर्वतः | पश्चिमे धेनुकारण्ये उत्तरे तु गयाशिरः || २० || दक्षिणे चन्द्रभागा च ओड्रपीठं वरानने | त्रिंशद्योजनविस्तीर्णमायामे शतयोजनम् || २१ || यत्र [अत्र] कामेश्वरी देवी योनिमुद्रास्वरूपिणी | भूगोलपीठकं नाम यत्र वै गोलकेश्वरः || २२ || धर्मपीठं महापीठं यत्र कामेश्वरो हरः | अविमुक्तं महाक्षेत्रं हंसप्रपतनं तथा || २३ || ब्रह्मयूपस्तु तत्रैव यत्र श्वेतवटः स्थितः | कुरुक्षेत्रं तु तत्रैव यत्र मायास्वना नदी || २४ || अयोध्यारण्यकं पुण्यं धर्मारण्यं तथा परम् | कचात्मकं महारण्यं तत्र पातालशङ्करः || २५ || गण्डकी च नदी पूर्वे विष्णुयूपश्च पश्चिमे | दक्षिणे वृषभं लिङ्गमुत्तरे कदलीवनम् || २६ || एतन्मध्यतमं पीठं चापाकारं मनोरमे | आननाभं तथा पद्मं रक्तवर्णं विभावयेत् || २७ || प्. १४३) एकादशशतायामं योजनानां तथा नव | अशीत्यष्टौ च प्रस्तारे त्रिकोणं पीठमुत्तमम् || २८ || प्रवरं पीठकं तत्र पीठं चाशोकमेव च | सीतायाश्च महाक्षेत्रमगस्तस्याश्रमस्तथा || २९ || हरस्य परमं क्षेत्रं क्षेत्रत्रयमिदं प्रिये | माधवारण्यकं क्षेत्रं हरस्यारण्यकं तथा || ३० || अरण्यञ्चैव भर्गस्य एतदारण्यकत्रयम् | उत्तरे ब्रह्मक्षेत्रञ्च दक्षिणे सागरावधि || ३१ || पूर्वे तूदयकूटञ्च पश्चिमे श्रीपर्वतं प्रिये | एतन्मध्यतमं पीटं पुण्याख्यं नाम नामतः || ३२ || पादात् पादान्तरं यावन्मध्यहस्तद्वयान्तरम् | शिवरात्रौ च गमनं सौरमासेन मासकम् || ३३ || कामरूपं विजानीयात् षट्कोणाम्रप्रगर्भकम् | तत्पुण्यं तत्समं वेत्थ नवव्यूहं त्रिमण्डलम् || ३४ || पर्वतैर्दशभिर्युक्तं वेदिमध्यं प्रकीर्तितम् | मध्यपीठं महापीठं यत्र कामेश्वरो भवेत् || ३५ || तत्र पीठे हि देवेशि यत्र चम्पावती नदी | कन्याश्रमं महाक्षेत्रं यत्र रुद्रपदद्वयम् || ३६ || एकाम्रकं परं क्षेत्रं यत्र नागाङ्कशङ्करः [नागाख्यशंकरः] | मानसं क्षेत्रकञ्चैव यत्र विश्वेश्वरो हरः || ३७ || नाटकारण्यकञ्चैव चम्पकारण्यकं तथा | पिच्छिला या दक्षिणतो गौतमस्य महाफला || ३८ || प्. १४४) पूर्वे स्वर्णनदीं यावत् करतोया च पश्चिमे | दक्षिणे मन्दशैलश्च उत्तरे विहगाचलः || ३९ || प्रस्तारे चैव मासार्धं योजनानाञ्च पञ्चकम् | अयुतत्रयञ्च त्रिस्स्रोतः पञ्चोद्भवं तथा दश || ४० || अष्टकोणञ्च मौसारं यत्र दिक्करवासिनी | तस्मिन् वसति सा देवी ज्ञानाद्ध्यानाद्भवोऽपि वा || ४१ || तेऽपि देव्याः प्रसादेन स्थितिं गच्छन्ति नान्यथा | अथाद्यं [अथोदयं नवं पीठं सौमारादपि] मानवं पीठं सौमारमिति कथ्यते || ४२ || वसत्यज्ञेयं प्रत्यक्षं यत्र दिक्करवासिनी | दिक्करस्य च वायव्ये नीलपीठं सुदुर्लभम् || ४३ || यत्र कामेश्वरी देवी योनिमुद्रास्वरूपिणी | पारिजातं महाक्षेत्रं यत्रादित्यस्तु शङ्करः || ४४ || कौषेयस्य पुरं क्षेत्रं तथा चामरकण्टकम् | आरण्यमाश्विनञ्चैव [आरण्यमाश्वनं चैव] गौतमारण्यकं शिवम् || ४५ || अरण्यं शिविनाथस्य शृणु पीठावधिं प्रिये | पूर्वे सौरशिलारण्यं पश्चिमे स्वर्णदी शुभा || ४६ || दक्षिणे ब्रह्मयूपस्तु उत्तरे मानसं सरः | एतन्मध्यगतं पीठं [पुण्यं] भुक्तिमुक्तिप्रदायकम् || ४७ || सौमाराख्यं महापीठं षट्कोणन्तु त्रिमङ्गलम् [त्रिमण्डलम्] | सहस्रयोजनव्यासं [-व्यामं] हयताम्रञ्च पञ्चमम् || ४८ || प्. १४५) प्रस्तारे तु व्यासहीनं कोलापीठं प्रकीर्तितम् | सौमाराख्यं महापीठं शिवतत्त्वञ्च पीठकम् || ४९ || वक्रशैवेश्वरं लिङ्गं यत्र वै कमला शिला | केदारक्षेत्रं प्रथमं यत्र केदारशङ्करः || ५० || यत्र पिण्डकरं क्षेत्रमरुणो यत्र तिष्ठति | दुर्गारण्यं सोमारण्यं भद्रारण्यं तथैव च || ५१ || अशीतियोजनं क्षेत्रं षट्त्रिंशद्योजनायुतम् | चौहाराख्यं महाक्षेत्रं यत्र गत्वा न शोचति || ५२ || ब्रह्मक्षेत्रं कलाक्षेत्रं रघुक्षेत्रं तथैव च | नन्दनं पारिजातञ्च शिवारण्यं तथा परम् || ५३ || देशारण्यं ततः प्रोक्तं सप्तपीठावधि प्रिये | पुर्वे तु हीरिका नाम नदी पुण्यतमा स्मृता || ५४ || पश्चिमे नाथकं लिङ्गमुत्तरे किलिपर्वतः | दक्षिणे नाथवृक्षस्तु पीठन्तु परिकीर्तितम् || ५५ || गोयानेन त्रिभिर्मासैस्तथा चैव दिनत्रयम् | मासहीनन्तु प्रस्तारे त्रिपीठं नाम नामतः || ५६ || वाराही प्रथमं पीठं द्वितीयं कोलपीठकम् | कुमारक्षेत्रं प्रथमं द्वितीयं नन्दनाद्वयम् || ५७ || तृतीयं शाश्वतीक्षेत्रं मातङ्गं प्रथमं वनम् | सिद्धारण्यं द्वितीयन्तु तृतीयं विपुलं वनम् || ५८ || कोटिकोटियुतं लिङ्गं कोटिकोटिगणैर्वृतम् | पञ्चतीर्थं भवेत् पूर्वे पश्चिमे धनदा नदी || ५९ || प्. १४६) पत्राख्या दक्षिणे चैव उत्तरे कुरुकावनम् | एतन्मध्यगतं देवि श्रीपीठं नाम नामतः || ६० || इति योगिनीतन्त्रे सर्वतन्त्रोत्तमोत्तमे द्वाविंशतिसाहस्रे कामरूपपीठाधिकारे प्रथमतमे द्वितीयभागे प्रथमः पटलः | द्वितीयः पटलः भगवानुवाच नित्यं निर्वर्त्यं स्वगृहे पितॄन् नान्दीमुखानपि | अभ्यर्च्य विधिवद्भक्त्या पश्चाद् यात्रां समाचरेत् || १ || उत्तरस्थगते शुक्रे सानुकूले शुभे ग्रहे | गुरुपित्रोरनुज्ञाप्य ब्राह्मणानां विशेषतः || २ || भोजयित्वा द्विजान् सप्त ततो यात्रां समाचरेत् | सिंहे धनुषि मेषे च न गच्छेत् पूर्वपीठकम् || ३ || घटे [तुलायां कुम्भे मिथुने] च मन्मथे कुम्भे न गच्छेत् पश्चिमं बुधः | वृषेऽङ्गनायां मकरे न गच्छेद्दक्षिणालयम् || ४ || कर्कटे कीटमीने च न गच्छेदुत्तरं सुधीः || ५ || चापे गव्यङ्गनायाञ्च न गच्छेद्वह्निकोणकम् | मकरे कर्कटे मीने नैर्-ऋत्यां परिवर्जयेत् || ६ || प्. १४७) वायव्यां कुम्भे मेषे च चापे चैव विवर्जयेत् [च परिवर्जयेत्] | सिंहे मीने कर्कटे च ऐशान्यां तु न चिन्तयेत् || ७ || एतत् स्थूलं विजानीयात् योगिनीं शृणु शङ्करि | न गच्छेन्मन्दवारे च पूर्वदेशं मम प्रिये || ८ || पश्चिमं सवितुर्वारे दक्षिणं बुधवासरे | कुजवारे तथोत्तरं [चोत्तरं च बुधेऽपि] बुधे चापि दिशं भजेत् || ९ || जीववारे तु नैर्-ऋत्यां वायव्यां भृगुवासरे | शनिवारे तथैशान्यां सोमे चाग्नौ विशेषतः || १० || पूर्वदेशं महेशानि प्रतिपन्नवमी तथा | न गच्छेद्यात्रिको यात्रां योगिनी सम्मुखा यतः || ११ || चतुर्दशी तथा षष्ठी पश्चिमन्तु विवर्जयेत् | त्रयोदशी पञ्चमी च न गच्छेद्दक्षिणां दिशम् || १२ || द्वितीया दशमी चैव वर्जयेद् राक्षसीं दिशम् | पूर्णिमा सप्तमी चैव वायव्यां सर्वथा त्यजेत् || १३ || न गच्छेच्चैव ऐशान्याममावास्यां तथाष्टमीम् | विष्कुम्भः प्रीतिरायुष्मान् प्रतिपत्सु विवर्जयेत् || १४ || सौभाग्यं शोभनञ्चैव द्वितीयाञ्चाति गण्डके | सुकर्मा च धृतिश्चैव तृतीयायां विजानीहि || १५ || गण्डो वृद्धिध्रुवश्चैव व्याघातश्च तथैव च | चतुर्थ्यां वर्जयेद्देवि पञ्चम्यां हर्षणं तथा || १६ || प्. १४८) वज्रं सिद्धिव्यतीपातौ षष्ठ्यां जानीहि शङ्करि | वरीयान् परिघश्चैव सप्तम्यां परिवर्जयेत् || १७ || शिवं सिद्धिञ्च साध्यञ्च वर्जयेदष्टमीतिथौ | नवम्यां शुभशुक्रञ्च दशम्यां ब्रह्म एव च || १८ || एकादश्यां तथेन्द्रन्तु द्वादश्यां वैधृतिं त्यजेत् | उत्तरात्रयं त्रयोदश्यां विशाखान्तु चतुर्दशीम् || १९ || मघार्द्रं भरणीञ्चैव पौर्णमास्यां विवर्जयेत् | प्रतिपत् कृत्तिकायान्तु द्वितीयायान्तु ज्येष्ठके || २० || न यात्रिके च नक्षत्रे प्रस्थाने न कदाचन | यात्रायान्तु न दुष्टं स्यात् करणस्य विचिन्तनम् || २१ || जन्ममासे जन्मदिने जन्मनक्षत्रके तथा | अष्टम्याञ्च नवम्याञ्च सदाकालेषु वर्जयेत् || २२ || आपत्काले च यात्रायामूषासम्पच्च पश्चिमे | गोधूलिसमये चैव पूर्वदेशे विजानीहि || २३ || मध्याह्ने दक्षिणे चैव अपराह्ने तथोत्तरे | ऐशान्याञ्च तथा रात्रौ नैर्-ऋत्यां सन्ध्ययोर्द्वयोः || २४ || मध्यन्दिने तथाग्नेययां वायव्यां प्रातरेव हि | वारुणादिषु योगेषु यथाकाले समाचरेत् || २५ || विना जन्म दिनं तत्र अष्टमीं नवमीं विना | प्राचीदिशं समागच्छेद् यात्रां कुर्यादुदङ्मुखः || २६ || पश्चिमे प्राङ्मुखः कुर्यात् दक्षिणे पश्चिमामुखः | उत्तरे दक्षिणामुखो यात्रां कुर्यात् सुसिद्धये | कुसुमं यावकः शङ्खो भेरी वाद्यञ्च भूमिपः || २७ || प्. १४९) गावः शतं रथं यानं दक्षिणे शुभदाः स्मृताः | सिद्धान्नं मांसपिण्डञ्च भक्तं भाजनजं गुरुम् || २८ || मत्स्यपिण्डं पराहाराः सर्वाश्च [सर्वत्र] दक्षिणे शुभाः | कन्या वै मिथुनं वेश्या पूर्णकुम्भाः स्त्रियस्तथा || २९ || चरन्तः पशुखगाश्च [-पक्षिणः] वामतः शुभकारकाः | अग्रे दधिफलं यात्रा शुभदा परिकीर्तिता || ३० || तथा क्रौञ्चमयूराश्च युग्मं गच्छन्ति गच्छतः | तदा सिद्धिं विजानीयादन्यथा विघ्नमादिशेत् || ३१ || गृध्रा श्येनाश्च चिल्लाश्च पार्श्वं गच्छन्ति वै यदा | न कुर्याद् यात्रिको यात्रां वायसे वनसंस्थिते || ३२ || च्युतं निष्ठुरसम्भाषं ग्रहगोधारुतं तथा | क्रन्दनं कलहं श्रुत्वा न गच्छेत्तु कदाचन || ३३ || गुर्वादित्ये गुरौ सिंहे शुक्रे चास्तमुपागते | देवतादर्ऽऽअनं यात्रां प्रतिष्ठां नैव कारयेत् || ३४ || व्रतारम्भं तथोद्वाहं गृहं प्रासादिकं तथा | वापीकूपतडागादि यन्त्रस्यारम्भकस्तथा || ३५ || नारोपयेद् यज्ञवृक्षमारामकरणं [रोपणं यज्ञवृक्षस्य-] तथा | देवव्रतं वृषोत्सर्गं यज्ञस्यारम्भणं तथा || ३६ || कर्णवेधोपनयने [कर्णवेधञ्च चूडाश्च] स्त्रीणामानयनं त्यजेत् | प्राग्दर्शनञ्च देवानां न कुर्वीत कदाचन || ३७ || प्. १५०) प्रागारम्भं व्रतानाञ्च यात्रां संवत्सरात् परम् | तथा व्यालव्रतं यत्तु तथा नित्यं व्रजेच्च वै | न कालनियमस्तत्र तथा च रोहिणीव्रते || ३८ || शिवरात्रिव्रते चैव प्रयागे [प्रयागस्य च] चैव मुण्डने | देशदाहे ग्रहाणाञ्च विशुभं कर्म आरभेत् || ३९ || उज्जयिन्यामर्कशुद्धिर्मध्यदेशे विधोः शुभम् | कुजशुद्धिस्तु [कुजशुद्धिस्तने पाने- | (स्तने पाने जन्मस्थाने इत्यर्थंः) नेपालेऽवन्त्यां च बुधस्य हि || ४० || गौडे चान्ध्रे गुरोः शुद्धिः कामरूपे भृगोः स्मृता | मथुरायामर्कज्ञस्य राहोरङ्गे च बङ्गके || ४१ || धनुर्वाणं तथा तद्वद् ओड्रपीठे व्यवस्थितम् | जालन्धरे चतुर्हस्तमूर्मिकं हस्तपूर्णके || ४२ || पंक्तिहस्तं कामरूपे सौमारे तारहस्तकम् | कोल्वपीठे तुर्यहस्तं चौहारे द्विगुणं भवेत् || ४३ || महेन्द्रे तु कलाहस्तं श्रीहट्टे वह्निहस्तकम् | उपपीठे च पाताले हस्तमेव विजानीहि || ४४ || रत्नपीठे तु षढस्तं लौहित्यां चैव उत्तरे | बलदेवाश्रमे चैव तथा कन्याश्रमेषु च || ४५ || न योगिनीमुखं गच्छेत् स्नानं ध्यानं विवर्जयेत् | यानेनार्थफलं विद्यात्तथाच्छत्रे च पादुके || ४६ || तीर्थयात्राफलं हन्ति सुरतैर्मांसभक्षणैः [व्यायामे मांसभक्षणे] | तीर्थे प्राप्यानुषङ्गेन तीर्थस्य च फलं लभेत् || ४७ || प्. १५१) ज्ञानेन तु तदाप्नोति ज्ञानहीने तु निष्फलम् | तीर्थे चाचमनं वर्जेत् पादप्रक्षालनं तथा || ४८ || शौचमाचमनञ्चैव अन्यतीर्थप्रशंसनम् | अन्यतीर्थरतिञ्चैव सदा तीर्थेषु दूषणम् || ४९ || न मलं त्यजेत्तीर्थे तु न केशं निर्वपेत् क्वचित् | न तीर्थतीरे निवसेद् दक्षिणे तु विशेषतः || ५० || दक्षिणे चैव तीर्थस्य न स्नायाद्धि कदाचन | तीर्थे तथोत्तरे भागे [तीर्थस्योत्तरे भागे च] अष्टकोटिसहस्रशः || ५१ || वसन्ति [वसन्ति च अधिकः क पुस्तके] तत्र तीर्थानि पुण्यान्यायतनानि च | दक्षिणे कुण्डतीर्थस्य सरितां वामतः प्रिये | तीर्थेषु ब्राह्मणं नैव परीक्षेच्च कदाचन || ५२ || यत्तीर्थं यस्य देवस्य तत्तीर्थस्थद्विजाः सदा | वन्दितव्याश्च पूज्याश्च तेषां वाक्येन पूतता || ५३ || न कालनियमः श्राद्धे पिण्डे तु वर्जयेन्मधु || ५४ || तीर्थं गत्वा न दूरात्तु वसेत्तीरे विचक्षणः | ग्रहणे चैव तीर्थे च तथा च पितृवासरे || ५५ || यज्ञारम्भे समाप्तौ च भूकम्पे तु विशेषतः | ब्राह्मणे दानयोग्यं न श्राद्धयोग्यं न तद्भवेत् || ५६ || न [यद्] दीयते महादानं निष्फलं परिकीर्तितम् | नावाहनं न चार्घ्यञ्च न चाग्नीकरणं तथा || ५७ || प्. १५२) पवित्रसेचनेनैव तथाक्षययावधारणम् | तीर्थश्राद्धे न कुर्वीत वासः सूत्रप्रदापनम् || ५८ || ततः सप्तदशान् पिण्डान् पिण्डकालेषु निर्वपेत् | श्राद्धं समाप्य तत् पिण्डं न दद्याच्च कदाचन || ५९ || मज्जनं [कर्तव्यं] प्रतिकुण्डे च प्रतितीर्थे च मज्जनम् | दिवसे दश चाष्टौ च पञ्च सप्तत्रयं तथा || ६० || अतः कृत्वाभिषेकञ्च तीर्थे च प्रतिपूजयेत् | लौहित्ये चैव शोणे च गयायां विरजेषु च || ६१ || कन्याश्रमेष्वगस्त्ये [कन्याश्र चा] च पारिपात्रे तथैव | मुकुराङ्गे च एकाम्रे मण्डलञ्च विवर्जयेत् || ६२ || पापराशिस्तु केशाग्रे प्रपलायय प्रतिष्ठति | तस्मात् शिखां परित्यज्य कर्णमूले च स्थापयेत् [कर्णमूलं च वपयेत्] || ६३ || घाटान्ते चैव मासान्ते षण्मासान्ते च वत्सरे | अष्टावष्टौ समान्ते [वत्सरान्ते] वा मुण्डनञ्च पुनश्चरेत् || ६४ || ततः कुशमयं विप्रं कृत्वा तीर्थे निधाय च | उत्तराभिमुखो भूत्वा बान्धवान् स्नापयेद्बुधः || ६५ || कुशो निद्विति मन्त्रेण त्रिवारं स्नापयेत् कुशैः | तत्तिर्थस्य तुरीयाङ्गं फलं प्राप्य न संशयः || ६६ || गृहीत्वा तु द्विज क्रोडे नामोच्चारणमज्जनम् | कृत्वा तीर्थफलस्यार्धं ब्राह्मणस्य विधीयते || ६७ || प्. १५३) वरं विक्रयणं मातुर्वरं विक्रयणं पितुः | न स्नापयेत्त्वाप्तगोत्रं न तीर्थे तु प्रतिग्रहम् || ६८ || सिद्धक्षेत्रेषु तीर्थेषु नाशीः कुर्यात् परस्य च | न गृह्णीयादितोऽन्यत्र तिलं गाञ्च विशेषतः || ६९ || न गृह्णीयाच्च शूद्रस्य यज्ञे [यतो यज्ञबहिर्मुखः] पात्री भवेत् क्वचित् | यस्य यज्ञस्य यत् पात्रं तस्य पापेन लिप्यति | तस्मात् सर्वप्रयत्नेन परयज्ञं विवर्जयेत् || ७० || इति श्रीयोगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे (उपरितमे) द्वितीयभागे द्वितीयः पटलः | तृतीयः पटलः भगवानुवाच कामरूपं महापीठं गुह्याद्गुह्यतमं परम् | सदासौ संस्थितस्तत्र पार्वत्या सह शङ्करः || १ || न चिरात् पूजितो देवस्तस्मिन् पीठे प्रसीदति | तत्तु पीठं प्रवक्ष्यामि शृणु त्वं साम्प्रतं प्रिये || २ || नदीशतं यात्राकालं लिङ्गकोटिगणावृतम् | वायुकूटस्य चरमे धनुर्हस्तप्रमाणतः || ३ || वायुरूपः स्थितश्चन्द्रस्तस्मान्निस्सृत्य मारुतः | तन्तुवायुं समभ्यर्च्य वायुलोकमवाप्नुयात् || ४ || प्. १५४) पूर्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः | मध्यतश्चैव गोदन्त ऋष्यक्रान्तस्तु [क्रान्तस्तु दक्षिणे शुभः] दक्षिणे || ५ || माधवश्चन्द्रकूटे तु गोदन्ते च जटाधरः | षण्मुखश्च जयन्तश्च अश्वक्रान्ते जनार्दनः || ६ || तत्तद्बीजेन मन्त्रेण पूजयेन्मधु पायसैः | यो वसेद्वायुकूटे तु धनानामधिपो भवेत् || ७ || चन्द्रशैले निवासस्तु क्षयी भवति नान्यथा | पापी भवति गोदन्ते अश्वक्रान्ते तु मुक्तिदः || ८ || चन्द्रशैलस्य पुर्वे तु किञ्चिदाग्नेयगोचरे | लौहित्यमध्ये देवेशि धनुस्त्रिंशत् प्रमाणतः || ९ || इन्द्रशैल इति ख्यातस्तत्र वासे महाफलम् | इन्द्रशैलस्य [इन्द्रचन्द्रस्य] मध्ये तु किञ्चिद्दक्षिणगोचरे | उत्तरे चन्द्रशैलस्य त्यजेत् षोढा धनुर्बुधः || १० || धनुत्रयञ्च प्रस्तारे धनुषः शतकं मतम् | पञ्चविंशतिदैर्घ्येण चन्द्रकुण्डाह्वयं सरः || ११ || तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते | चन्द्रतीर्थं महातीर्थं तीर्थं पिण्डारकं समम् || १२ || स्नात्वा चानेन मन्त्रेण ब्रह्महत्यां व्यपोहति | सुधीशवंशसम्भूत माधवप्रीतिदायक || १३ || सुधीश्रवणजाह्लाद पापं हर नमोऽस्तु ते | भृगुः प्रायः सर्वयुगं आदिपंक्तिसमन्वितम् || १४ || प्. १५५) तदूर्ध्वे च भृगुर्दण्डी जान्तं शक्तिसुरान्वितम् | नादबिन्दुसमायुक्तं पुनर्जान्तं सुभाविकम् || १५ || अष्टाक्षरञ्च [अष्टाक्षरं मन्त्रं जप्त्वा तेन चार्घ्यं] कक्कोलमन्त्रेणार्घ्यं समर्पयेत् | मेषे मीने पौर्णमास्यां जपन् काममनुं निशि || १६ || स्नात्वा ब्रह्मत्वमाप्नोति दुर्गतिञ्च न विन्दति | स्नानञ्च दिवसे कुर्यान्महापातकनाशनम् || १७ || यथोक्तेन [इत्यनेन] तु मन्त्रेण यः स्नायाच्चन्द्रपायसि | अवच्छिन्नमन्त्रसिक्तस्तु यावत्तिष्ठति मेदिनी || १८ || स एव चन्द्रभवनं भीरो [धीरो] याति परं पदम् | तस्य दक्षिणदिग्भागे चतुर्धनःप्रमाणतः || १९ || मानसं नाम तत्तीर्थं सर्वपापप्रणाशनम् | कार्तिके शुक्लपक्षे तु स्नानं तत्र समाचरेत् || २० || विष्णुलोकमवाप्नोति मन्त्रेण परमेश्वरि | तस्मान्न संशयस्तीर्थं विष्णुतुष्टिप्रदायकम् || २१ || योगज्ञानाप्तये तुष्टिमर्घ्यं हर सरित्पते | तस्य दक्षिणदिग्भागे अष्टाविंशद्धनुर्मितम् || २२ || अयुताख्यं सरस्तत्र स्नात्वायुतपदं व्रजेत् | वर्षासु चतुरो मासान् यस्तत्र स्नानमचरेत् || २३ || स याति ब्रह्मसदनं मध्याह्ने यदि शाङ्करि | मन्त्रेण स्नानं कुर्यात्तु अर्घ्यदानेन [अर्घ्यभावेन] साधकः || २४ || प्. १५६) अमृताख्यं महापिण्डं सिद्धिं देवाभिवन्दितम् | अमृताधिवासं सर्वं प्राणिनां किल्विषात् परम् || २५ || तद्दक्षिणे दशधनुर्-ऋणमोचनकं सरः | स्नात्वा [स्वाहा मुक्तेः] ऋणत्रयान्मुक्तो भवबन्धो न जायते || २६ || भाद्रे ललितसप्तम्यां तत्र स्नात्वा दिवं व्रजेत् | माघे मासि चतुर्दश्यां स्नात्वा मुक्तिञ्च विन्दति || २७ || ऋणग्रस्तनराः सर्वे [विविधात् कर्म] त्रिभिः कर्मणि बन्धनात् | ऋणत्रयान्मोचयित्वान्ते [मुच्यते ऋणत्रयेभ्यः] ऋणमोचनकं सरः | दक्षिणे अश्वक्रान्तस्य किञ्चिदाग्नेयगोचरे || २८ || धनुरर्कप्रमाणेन अश्वक्रान्ताह्वयं सरः | नागलोकादुत्थितश्च कल्किरूपी [देवदेवो] जनार्दनह् || २९ || स्नात्वा तत्रैव विरजे अश्वतीर्थं चकार ह | उत्तरे वापि मार्गस्य तत्र वासं समाचरेत् [मार्गस्य तत्र अर्घ्यं वापि समाहरेत्] || ३० || गन्धतोयेन [गन्धतोयसक्षीराभ्यां पूजयेच्च प्रयत्नतः] क्षीरेण मन्त्रेणानेन यत्नतः | ब्रह्मणासेविते पुण्ये वाराणस्याः कलाधिके || ३१ || गृहाणार्घ्यं सस्त्रीकश्च युक्तिं तत्र ददाम्यहम् || ३२ || अश्वक्रमेण सम्भूतपापविच्युतिकारकः | अयुतैकनिदानाय अश्वक्रान्ताय [अयुतैकनिदानोऽयमश्वक्रान्नाय] ते नमः || ३३ || प्. १५७) इत्यनेन तु मन्त्रेण स्नात्वा यज्ञफलं लभेत् | अश्वमेधादिकं पुण्यं मौसलस्नानमात्रतः || ३४ || विधिञ्च स्नानमात्रेण राजसूयफलं लभेत् | दानमक्षयतां याति पितृणां तर्पणं तथा || ३५ || विशाखस्थो यदा भानुः कृत्तिकासु च पूर्णिमा | स योगः पद्मको नाम अश्वक्रान्ते सुदुर्लभः || ३६ || अन्तरीक्षाद्देवतीर्थे [अश्वक्रान्ते देवतीर्थे] ततः पैतामहे शुभे | स्नानं येऽत्र करिष्यन्ति तेषां लोका महोदयाः || ३७ || न स्पृहा तेषु पुण्यस्य कृतस्यापत्कृतस्य च | करिष्यन्ति महेशानि सत्यमेतदुदाहृतम् || ३८ || तीर्थानां परमं तीर्थं लोकेऽस्मिन् [लोकेषु त्रिषु दुर्लभम्] त्रिषु विद्यते | कार्तिकी तु विशेषेण पुण्या [सर्व] पापहरा परा || ३९ || मन्त्रैर्दानैस्तपोभिश्च यत् कृत्यं जायते द्विजैह् | यदा तु स्नानमात्रेण शुभैरपि सुभावितैः || ४० || दर्शनात् सुविनिष्क्रान्ता महापतकिनः प्रिये | उपपातकसंसर्गाः स्वयं यान्ति मुमुक्षया || ४१ || तत्रोपवासी यज्ञस्य पुण्डरीकस्य यत् फलम् | तत् प्राप्नोति नरः क्षिप्रमल्पायासेन शाङ्करि || ४२ || माघे स्नात्वा तिलान् यस्तु प्रयच्छति [द्विजेभ्यश्च प्रयच्छति] च सद्द्विजे | यथाशक्त्या च भक्त्या च स विभुर्भुवने वसेत् [विष्णुलोके मुदा] || ४३ || प्. १५८) तत्रोपवासं स्नानञ्च दानं गव्याशनं तथा | यः करोति नरः सोऽपि मृतः स्वर्गमवाप्नुयात् || ४४ || वसन्ति तत् समीपस्था ये तत्राक्षरजातयः [तत्र नरजातयः (क्षत्रजातयः)] | तेऽपि तस्यानुभावेन स्वर्गं यान्ति न संशयः || ४५ || ये यच्छन्ति द्विजेऽप्यर्थं धार्मिके ब्रह्मशान्तितः | ते मृताः स्वर्गमारूढाः पद्मासनचतुर्भुजाः || ४६ || ब्रह्मणा सह सायुज्यं प्राप्नुवन्त्यपुनर्भवम् | प्रायोपवेशं ये तत्र प्रकुर्वन्ति नरोत्तमाः || ४७ || ते हंसयानेन नरा दिवं यान्त्यकुतोभया | नृत्यन्ति पितरस्तेषां तुष्टाश्चैव पितामहा || ४८ || लभन्ते तर्पणात्तृप्तिं पितुर्दानात् त्रिविष्टपम् | स्पृष्ट्वा [स्पृष्टास्तु] तु पापिनस्तत्र मुच्यन्ते भवबन्धनात् || ४९ || अवग्राहणाद् [तत्र दानाच्च] ब्रह्मणः स भवत्यनुचरः सदा | अश्वक्रान्तमनुप्राप्य स्नानं [न स्नानेन मनः क्वचित्] यावदतन्द्रितः || ५० || भुक्ते वा यदि वाऽभुक्ते दिवा वा यदि वा निशि | तत्तीर्थं सर्वतीर्थानां सदनप्रवरं [परं श्रेष्ठतमं] मतम् || ५१ || पापहनं पुण्यजननं प्राणिनां परिकीर्तितम् | ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम् || ५२ || पूजयन्ति यथाशक्त्या ते प्रयान्ति त्रिविष्टपम् | ब्रह्मा विष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः || ५३ || प्. १५९) अश्वतीर्थे महेशानि नान्यत् पुण्यतमं भुवि | विरजामलतोयं [विरजममन्त्रं] तत् त्रिषु लोकेषु विश्रुतम् || ५४ || ब्रह्मलोकस्य यत् स्थानं धन्याः पश्यन्ति तीर्थकम् | ये तु वर्षशतं साग्र्यमग्निहोत्रमुपासते || ५५ || कार्तिके वामदेशैकतीर्थे(?)ते [वासदेशैकं तीर्थं तत् सममेव हि] मुक्तिभागिनः | सर्वयज्ञफलं तुल्यं सर्वतीर्थफलप्रदम् || ५६ || सर्वेषाञ्चैव वेदानां समाप्तिस्तैश्च वै कृता | यैर्नत्वा ह्यश्वक्रान्ते च सन्ध्या च समुपासिता [यैस्तु अश्वक्रान्ते तीर्थे त्रिसन्ध्या समुपासिता] || ५७ || स्वपत्नीहस्तदन्तेन अश्वक्रान्तजनेन तु | भृङ्गारेण करङ्केण मृण्मयेनापि शाङ्करि || ५८ || आनीय तज्जलं पुण्यं सन्ध्योपान्ते विचक्षणः | समाधिना समाधेयात् सप्राणायामपूर्वकम् || ५९ || तस्यां कृतायां यत् पुण्यं तत् शृणुष्व वरानने | तेन द्वादशवर्षाणि भवेत् सन्ध्या सुवन्दिता || ६० || अश्वमेधफलं स्नाने पाने दशगुणं तथा | उपवासेऽप्यनन्तश्च प्राप्नोति सुमहत् फलम् || ६१ || तीर्थान्तरे गवां कोटिं विधिवत् यः प्रयच्छति | एकाहं यो वसेत् तीर्थे स तत् पुण्यफलं लभेत् || ६२ || अर्धपादप्रमाणेन यस्तु स्वर्णं प्रयच्छति | स्वर्णमानफलं [स्वर्णदानफलं पूर्णं लभते नात्र संशयः] तत्र तस्मै दद्यादतः परम् || ६३ || प्. १६०) चन्द्रशैलं स्पृष्टा धारा जाह्नवी सा प्रकीर्तिता | अश्वतीर्थं स्पृष्टा धारा मज्जनेष्वभिधीयते [स्वर्गमाप्नुयात्] || ६४ || इन्द्रशैलं स्पृष्टा धारा सा विज्ञेया सरस्वती | अश्वक्रान्ते [तत्र यो मज्जति विद्वानानन्त्यं फलमश्नुते | इत्यधिकः पाठः ख पुस्तके] सङ्गमस्तु वर्षासु च प्रदृश्यते || ६५ || प्रयागं तद्विजानीयात् कार्तिके च विशेषतः | यस्तत्र मुण्डनं कुर्यात् प्रयागे मुण्डनं फलम् || ६६ || अद्यापि दृश्यते देवि गयाकुण्डे द्विधारकम् | इह लोके दरिद्रो यो भ्रष्टराज्योऽथव पुनः || ६७ || अश्वक्रान्ते जले गत्वा वैष्णवीमन्वहं [मनुं वैष्णवकं] जपेत् | कृत्वा पूजोपहारञ्च देवानां पितृतर्पणम् || ६८ || कृत्व पिण्डप्रदानन्तु सोऽचिराज्जन्मवर्जितः | एकचक्रो [चक्रवर्ती] भवेद् राजा सत्यमेतन्न संशयः || ६९ || इह जन्मनि सौभाग्यं धनं धान्यं वरस्त्रियः | भवन्ति विविधास्तस्य यैर्यात्रा कर्तिके कृता || ७० || इदं यात्राविधानं यः कुरुते कारयेत् तथा | शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते || ७१ || अगस्त्यागमनं [(अ) येन कृतं जानन्ति मानवाः | (ब्) अगम्यागमनं येन कृतं जानन्ति |] यात्रां करोति यश्च मानवः | ब्रह्मक्रियोपलाभेन [बहुवर्षशतं कृतं ब्रह्मक्रिया] बहुवर्षशतेन च || ७२ || प्. १६१) यात्रां चैत्रीं तथा कुर्यादेवं संस्कारमाप्नुयात् | किमत्र बहुनोक्तेन न तदस्तीति भाषितम् || ७३ || प्राप्यं सम्प्राप्यते तेन पापं वा यत्र पश्यति | सर्वयज्ञफलं तुल्यं सर्वतीर्थफलप्रदम् || ७४ || सर्वेषाञ्चैव देवानां सन्तुष्टिस्तेन वै कृता | यैर्गत्वा अश्वतीर्थे तु स्नातं सकृद् यथाविधि || ७५ || पुत्र पौत्रैश्च [पुत्रिक्या वा दुहित्रा वा वसुभिः सहिताः कुले] संयुक्ता वसुभिः परिपूरिताः | शिखरिणीञ्च प्रदातॄणां युवतीनां न संशयः || ७६ || मोदते तत् तस्य तु वै सर्वाऽऽगं परिपूरितम् | काशीवासे युगान्यष्टौ दिनैकं पुरुषोत्तमे || ७७ || तदेव कोटिगुणितं विरजामुखदर्शने | तत् सदृशं गुणं विद्यादश्वतीर्थे क्षणे क्षणे || ७८ || तद्दर्शनेन हि विराजति राजसूयः स्नानं जले दशगुणं किल वाजपेयात् | गण्डूषमात्रमपि चार्हति चाश्वमेधः सर्वक्रतोरधिकमप्यधिकं भवाम्भः || ७९ || इति योगिनीतन्त्रे महातन्त्रराजे कामरुपाधिकारे द्वाविंशतिसाहस्रे (उपरितमे) द्वितीयभागे तृतीयः पटलः | चतुर्थः पटलः देव्युवाच यदि प्रसन्नो मे नाथ तदेवं [वारार्हा यदि वा तव] वद मे प्रभो | सुरेशानादिनाम्ना [तर्हि मे कथ्यतां देव कस्मिन् किं नाम निर्दिशेत्] च कस्मिन् स्थाने भवान् स्थितः || १ || केषु केषु च होमेषु त्वां पश्यन्ति सदा द्विजाः | नाम्ना च कतमं स्थानं शोभते धरणीतले || २ || भगवानुवाच पुष्करेऽहं सुरेशानो गयायां वै सुक्षेमदः | कान्यकुब्जे वेदगर्भो भृगुकच्छे पितामहः || ३ || कौवेर्यां सृष्टिकर्ता च नन्दिपुर्यां वृहस्पतिः | प्रभासे पद्मजन्मा च स्वर्गनद्यां सुरप्रियः || ४ || द्वारवत्यान्तु वाग्देवो नाटके नाटकेश्वरः | नीलाचले च कामेशः पिङ्गलो हस्तिपर्वते || ५ || कुशावर्ते तु विजयो जयन्तः पुष्कराचले | भस्माचले भयानन्दश्चन्द्रकूटे च माधवः || ६ || अन्तर्गृहे पद्महस्तो मङ्गलायाञ्च त्र्यम्बकः | भद्रपीठे च दिव्येशो अश्वक्रान्ते जनार्दनः || ७ || अहिच्छत्रे तुल्यानन्दः श्रीशैले तु जगत्प्रियः | पद्मपाणिः कुशहस्ते मानशैले मुनीश्वरः || ८ || प्. १६३) श्रीकण्ठे श्रीनिवासश्च काम्पिल्ये [श्रूयतां प्राणवल्लभे] सिद्धिदायकः | कन्याश्रमे च रुद्रोऽहं [भवेद्रुद्रो] मैनाके विश्वनादकः || ९ || एकाम्रे चैव नागेशो विरजायां महेश्वरः | मूलिकाख्ये तथा विष्णुर्महेन्द्रे भार्गवस्तथा || १० || कौशिक्यान्तु तथा बोधिरयोध्यायान्तु भार्गवः | मणिकूटे हयग्रीवो वराहो विन्दुपर्वते || ११ || जटाधरस्तु गोदन्ते गोमन्ते जाङ्गलेश्वरः | परमेष्ठी ब्रह्मपुत्रे विश्वशैले तु गह्वरः || १२ || चित्रशैले तु चित्रेशो देविकायां चतुर्भुजः | वृन्दावने पद्मपाणिः कुशहस्तस्तु नैमिषे || १३ || मन्दरे च महाबोधिर्गोपीन्द्रो हनुपर्वते | भागीरथ्यां पद्मगर्भः काम्पिल्ले कनकप्रियः || १४ || करणे चैव कामीरः कपोते हव्यवाहनः | वशिष्ठश्चार्वुदे चैव श्वेतनद्यां मनोभवः || १५ || धवलायां पिनाकी च पिच्छिलायां त्रिविक्रमः | यज्ञगर्भस्तु आगस्त्ये उर्वश्यां मधुसूदनः || १६ || रुक्मिणीशे हरिश्चैव पैत्रिके तु रुचिस्तथा | वायनश्चैव गोमन्ते काश्यां विश्वेश्वराह्वयः || १७ || प्रजापतिः प्रयागे च विदर्भायां द्विजप्रियः | गन्गाधरो मद्रपीठे मातङ्गे चैव त्र्यम्बकः || १८ || त्रिपुरारिर्नन्दशैले पाण्दुशैले त्रिलोचनः | गङ्गाह्रदे त्रिलोकेशो भित्तिपुर्यां दिवाकरः || १९ || प्. १६४) वमटे [वमदे] मिङ्गिलानाथो दासशृङ्गे कलानिधिः | दासवने महालिङ्गः अशोके तु विनाशकः || २० || हरिसेनश्चुल्लुकायां पर्णाटे तु अनन्तकः | मार्कण्डेयो वटे चैव इक्षुद्वारे दिवाकरः || २१ || गोकर्णे च विकर्णाख्यो मन्दारे मधुसूदनः | अष्टोत्तरशतं स्थानं मया ते परिकीर्तितम् || २२ || यत्र वै मम सान्निध्यं नित्यन्तु तव सुव्रते | एतेषामपि यस्त्वेकं पश्येत् च भक्तिमान्नरः || २३ || स्नानं [स्रानेन विरजां लब्ध्वा] विरजः संलब्ध्वा मोदते शाश्वती समाः | मानसं वाचिकञ्चैव कायिकं यच्च दुष्कृतम् || २४ || तत् सर्वं वै शमं याति नात्र कार्या विचारणा | यानि [येषु येषु च तीर्थेषु] तानि च सर्वाणि गत्वा मां पश्यते नरः | भवति मोक्षमार्गी च यत्राहं तत्र संस्थितः || २५ || पुष्पोपहारैर्घूमैश्च ब्राह्मणानाञ्च तर्पणैः | ध्यानेन च स्थिरेणाशु प्राप्स्यते परमेश्वरि || २६ || अश्वक्रान्तस्योत्तरतः ऋणमोचनपश्चिमे | द्वाविंशतिधनुर्मानं क्षेत्रं परमदुर्लभम् || २७ || क्षेत्रं द्विपञ्चकं नाम सर्वदेवनमस्कृतम् | पूजयित्वा तत्र रुद्रं ज्योतिर्व्योमफलं लभेत् || २८ || षाण्मास्यं [षण्मासं] नियताहारो ब्रह्मचर्यसमाहितः | उषित्वा तत्र देवेशि प्राप्स्यते परमं पदम् || २९ || प्. १६५) कृते युगे पुष्कराणि त्रेतायां नैमिषं मतम् | द्वापरे तु कुरुक्षेत्रं अश्वतीर्थं कलौ युगे || ३० || तस्मात् तदुत्तरे तीरे साधयेन्मानसेप्सितम् | द्वापरे तु कुरुक्षेत्रं सर्वपुण्यफलप्रदम् [तत्र दानेऽक्षयं फलम्] || ३१ || दुष्करं पञ्चके दानं पञ्चके [सर्वसिद्धिफलप्रदम्] सर्वदुष्करम् | यदन्यत्र कृतं पापं तीर्थे याति च लाघवम् || ३२ || तत्तीर्थे [तीर्थस्थाने कृतं पापं नतु क्वचिद् व्यपोहति] कृतमन्यत्र क्वचित् पापं व्यपोहति | द्वादशाहं दशाहं वा मासार्धं मासमेव वा || ३३ || रुद्रस्यार्धासनगता मेरुपृष्ठे यशस्विनी | महादेवं ततो देवी प्रणता परिपृच्छति || ३४ || देव्युवाच जन्मान्तरसहस्रेषु यत् पापं पूर्वसञ्चितम् | कथं तत् क्षयमाप्नोति तन्मामाचक्ष्व शङ्कर || ३५ || भगवानुवाच शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यमनुत्तमम् | सर्वतीर्थेषु विख्यातमश्वक्रान्तमतः परम् || ३६ || तस्योत्तरे तु यत् क्षेत्रं मयाप्युक्तं विमुक्तकम् | एतदेव परं ज्ञानमेतदेव परं तपः || ३७ || एतदेव परं ब्रह्म एतदेव परं पदम् | यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः || ३८ || प्. १६६) यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् | दत्तं जप्तं हुतं शेर्ष तपस्तप्तं कृतञ्च यत् || ३९ || ध्यानमध्ययनं ज्ञानं सर्वं भवति चाक्षयम् | अश्वक्रान्ते परो योगो अश्वक्रान्ते परा गतिः || ४० || अश्वक्रान्ते परो मोक्षस्तीर्थं नैवास्ति तादृशम् | मेरुमन्दरतुल्योऽपि राशिः पापस्य सर्वशः || ४१ || अश्वक्रान्तं समासाद्य सर्वो व्रजति संक्षयम् | अश्वक्रान्तं स्थितैः पुण्यैः पांशुभिर्वायुनेरितैः || ४२ || यदि दुष्कृतकर्माणो यास्यन्ति परमां गतिम् | न सा गतिः कुरुक्षेत्रे गयाद्वारे च पुष्करे || ४३ || या गतिर्विहिता पुंसामश्वक्रान्तनिवासिनाम् | न दानैर्न तपोभिर्न यज्ञैर्नापि च विद्यया || ४४ || प्राप्यते गतिरुत्कृष्टा अश्वतीर्थे हि लभ्यते | संसर्गाच्च भवेन्मोक्ष इतरासत्परिग्रहात् [परागतिः सत्परिग्रहात्] || ४५ || आगस्त्यादपि चाग्न्यादेरिदमेव महत्तरम् | ब्रह्महापि अध्यागच्छेदश्वक्रान्तं कदाचन || ४६ || अश्वक्षेत्रस्य माहात्म्याद् ब्रह्महत्या निवर्तते | न तस्य पुनरावृत्तिः कदाचिदपि दृश्यते || ४७ || उत्तरं दक्षिणं वापि पुण्यद्वारं विचिन्तयेत् | सर्वोऽप्यस्य शुभः काल अश्वक्रान्ते वरानने || ४८ || महादानेन तल्लाभो यत्फलं लभते नरः | अश्वतीर्थे तु काकिन्यां दत्तायां लभतेऽक्षयम् || ४९ || प्. १६७) एकाहमुपवासं यः करोतीह मम प्रिये | फलं वर्षसहस्रस्य लभते मत्परायणः || ५० || तीर्थान्तरे गवां कोटीर्विधिवद् यः प्रयच्छति | एकाहञ्च वसेच्चात्र तयोस्तुल्यं [तत्तुल्यं] फलं भवेत् || ५१ || प्रयागे माघमासे तु सम्यक् स्नानेन यत् फलम् | तत् फलं कोटिगुणितं अश्वतीर्थे क्षणे क्षणे || ५२ || सृष्टिकोटिसहस्राणि सृष्टिकोटिशतानि च | सेवनाच्चैव मध्याह्ने अपराह्णे च शाङ्करि || ५३ || मेरुमन्दरतुल्यो हि राशिः पापस्य सर्वशः | अश्वक्रान्तं समासाद्य सर्वो व्रजति संक्षयम् || ५४ || कीटाः पतङ्गा मशकाश्च वृक्षे [वृक्षाः] जले स्थले ये विचरन्ति जीवाः | मण्डूकमत्स्याः क्रमशोऽश्वतीर्थे त्यक्त्वा शरीरं शिवमाप्नुवन्ति || ५५ || यो वसेत् पञ्चके नित्यं स गच्छेत् परमां गतिम् | सर्वेषामेव लोकानां ब्रह्मलोकोपरिस्थितः || ५६ || यदीच्छेत् तत् पदं गन्तुं स वसेदत्र दुष्करम् | यथा सुराणां सर्वेषामादिस्तु मधुसूदनः || ५७ || तथैव सर्वक्षेत्राणामादिपञ्चकमुच्यते | अनुलोमविलोमाभ्यां तथा व्यस्तसमस्तयोः || ५८ || स्नातव्यं पञ्चके यच्च अश्वतीर्थे वरानने | तथैवोत्तरमारण्ये तदेव फलमश्नुते || ५९ || प्. १६८) विधिवद्गुह्यमानेषु सर्वतीर्थेषु यत् फलम् | पञ्चकालोकनादेव नरः प्राप्नोति तत् फलम् || ६० || दशकोटिसहस्राणि तीर्थानां वै महीतले | सान्निध्यमश्वतीर्थे च मुक्तिद्वारसमीपतः || ६१ || यावत्तिष्ठन्ति गिरयो यावत्तिष्ठन्ति सागराः | तावत् पञ्चकमृतस्तु ब्रह्मलोके महीयते || ६२ || जन्मान्तरसहस्रैश्च आजन्ममरणान्तिकम् | निर्दहेत् पातकं सर्वं सकृत् स्नात्वा तु शाङ्करि || ६३ || योगाभ्यासेन यस्तिष्ठेत् सम्यग् वर्षत्रयं नरः | एकेन जन्मना मुक्तिं [स तु] योगान्मोक्षञ्च विन्दति || ६४ || ऋणमोचनान्तं देवेशि समन्तात् पञ्चकं स्मृतम् | ब्रह्मणः सदनं भद्रे [तत्र जीवानां मोक्षदायकम्] प्रशस्तमपि सर्वतः || ६५ || तत्र स्नानं जपो होमः श्राद्धं दानादिकं स्मृतम् | एकैकशो महेशानि [यः करोति] पुनाति सप्तमं कुलम् || ६६ || अश्वतीर्थसमक्षे तत् किञ्चित् पश्चिमगोचरे | धनुरष्टप्रमाणेन सिद्धकुण्डमिहोच्यते || ६७ || अत्र स्नात्वोदकं पीत्वा मुच्यते सर्वपातकैः | त्रिरात्रोपोषितेनात्र एकरात्रोषितेन वा | द्विजातीनान्तु कथितं तीर्थानामिह सेवनम् || ६८ || प्. १६९) यस्य वायुं शशी युङ्क्ते [भुङ्क्ते] हस्तपादौ च संयतौ | एनोलोपी ब्रह्मचारी तीर्थानां फलमाप्नुयात् || ६९ || सिद्धकुण्डं महाभोगं देवताभिः सुसंस्कृतम् | पुनीहि सर्वपापेभ्यस्तीर्थवर्य नमोऽस्तु ते || ७० || इत्यनेन तु मन्त्रेण वैशाखे कृष्णपक्षके | त्रयोदश्यां स्नानमात्रे पुनात्युभयतः कुलम् || ७१ || पश्चिमे तस्य तीर्थस्य किञ्चित्तु मरुगोचरे [वायव्यगोचरे] | चतुषष्टिधनुर्मानं तीर्थं ब्रह्मसरः स्मृतम् || ७२ || तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि | पापकर्तॄनपि पितृन् तारयेन्नात्र संशयः || ७३ || स्नात्वा याति द्विजः सम्यक् ततः संस्कारतां व्रजेत् | स्वयन्तु ब्रह्मणा सृष्टम् ईश्वरप्रियकाम्यया || ७४ || स्वयन्तु ब्रह्मणा स्नातं तस्मात् नाशय पातकम् [पावय पापतः] | इत्यनेन तु मन्त्रेण स्नानं कृत्वा यथाविधि || ७५ || माघे मासि चतुर्दश्यां शुक्लपक्षे विशेषतः | दत्वा दानञ्च विधिवद् ब्रह्मलोके महीयते || ७६ || इन्द्रकूटस्थ कौबेरे धनुरशीतिप्रमाणतः | रामक्षेत्रं विजानीयात् तस्य कुण्डं कुले प्रिये || ७७ || बिन्दुकुन्दप्रमाणन्तु स्नात्वाभ्यर्च्य पितॄनपि | मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते | तीर्थेभ्यः परमं तीर्थं रामतीर्थं वरानने || ७८ || प्. १७०) ब्राह्मणानर्चयित्वा तु ब्रह्मलोके महीयते | तव तीरे महाभाग श्रीरामेण महात्मना || ७९ || पितरस्तर्पिताः सर्वे तीर्थवर्य नमोऽस्तु ते | इत्यनेन तु मन्त्रेण वैशाखे कृष्णपक्षके || ८० || तत्राभ्यर्च्य महादेवं गोसहस्रफलं लभेत् | तस्य पूर्वे नवधनुः सीतातीर्थं वरानने || ८१ || तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः || ८२ || क्रौञ्चच्चापि महाश्राद्धे अक्षयं समुदाहृतम् | सीतया रामभद्रेण निर्मितं तीर्थमुत्तमम् || ८३ || तस्मात् पुनीहि मां पापान्मोक्षं कुरु सुरार्चिते | मौनी भूत्वा त्रयोदश्यां तत्र स्नात्वा महाफलम् || ८४ || मन्त्रेणानेन स्नात्वा तु रत्नेनार्घ्यं प्रदापयेत् | मुच्यते सर्वपापेभ्यो ब्रह्मलोके वसेन्मृतः || ८५ || दक्षिणे चैव सीताया धनुर्दशप्रमाणतः | तत्राभिषेकमात्रञ्च विजयी सर्वदा भवेत् || ८६ || तीर्थानां परमं तीर्थं विजयं नाम शोभितम् | तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् || ८७ || षण्मासं नियताहारो ब्रह्मचारी समापितः | उषित्वा तत्र देवेशि मुच्यते सर्वपातकैः || ८८ || तीर्थानां परमं तीर्थं योगतीर्थेति विश्रुतम् | सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः || ८९ || दृष्ट्वा लिङ्गन्तु देवस्य योगीशं नाम विश्रुतम् | ईप्सितान् लभते कामान् रुद्रस्य दयितो भवेत् || ९० || प्. १७१) द्वाविंशत्तु धनुर्मानं मुक्तितीर्थं विजानीहि | वक्ष्यमाणेन मन्त्रेण स्नात्वार्घ्यं विनिवेदयेत् || ९१ || मोक्षाभिकाङ्क्षिभिर्युक्तैर्वन्द्यते [वन्द्यसे त्वमहर्निशम्] पूज्यतेऽनिशम् | योगकुण्ड महाभाग मां पुनात्वमरार्चित || ९२ || तत्रातिदूरे लोकस्य वृत्तं कुण्डमनुत्तमम् | तत्रापि [तस्याति] स्नात्वा विधिवत् सन्तर्प्य पितृदेवताः || ९३ || ब्राह्मणेभ्यः प्रदायाथ [देयं सर्व] दानानि विविधानि च | स्नात्वा कौलेन बीजेन तत्त्वेनार्घ्यं निवेदयेत् || ९४ || पश्चात् कौलेश्वरं दृष्ट्वा मुच्यते भवबन्धनात् | तिथिहस्तमितं कुण्डं देवगन्धर्वसेवितम् || ९५ || कुण्डे सिततृतीयायां ग्रामं धान्यं धनं लभेत् | इन्द्रशैलस्य यामे तु धनुर्द्वादशमनतः || ९६ || सूर्यतीर्थमिति ख्यातं तीर्थानां तीर्थमुत्तमम् | अदृश्यमूर्तिर्भगवान् सप्ताश्वरथवाहनः [तत्र सप्तरथेरितः] || ९७ || आस्ते लोकहितार्थाय व्यापी योगतनुः स्वयम् | यदा हरश्च [महाहरश्च] निरतनिवासं कृतवानिह || ९८ || तत्रैव देवताः सर्वास्तत् सेवार्थं [सेवितुं तं] समागताः | भानुबीजेन स्नात्वा तु अर्घ्यं तारेण दापयेत् || ९९ || रामक्षेत्रं ततो गच्छेत् साधकः सिद्धिमानसः | दुर्गकूपद्वयं तत्र ब्रह्मयूपश्च तिष्ठति || १०० || प्. १७२) दुर्गकूपोदकं पीत्वा माघे मासि चतुर्दश्याम् [चतुर्दश्यान्तिथौ] | भवेद्भक्त्या [राममयो भवेद भक्त्या] गर्भधरा मन्त्राणामयुतं जपन् || १०१ || यूपे प्रदक्षिणीकृत्य यस्तु श्राद्धं प्रकल्पयेत् | पितृंश्च तारयेत्तेन ब्रह्मलोके महीयते || १०२ || काकिनीञ्च न्यसेत् कूपे सुवर्णं रजतं तथा | यस्य मित्रस्य यद्वित्तं शोधयेत् पूर्वजन्मनि || १०३ || ततो गच्छेदिन्द्रशैलं दक्षिणाभिमुखेन तु | मणीश्वरं ततः पश्येन्निरयाच्च प्रमुच्यते || १०४ || बधवन्धनयुक्तोऽपि युक्तो वाप्युपपातकैः | इन्द्रकूटस्थितं दृष्ट्वा मणिनाथं स वायुना || १०५ || क्षणेन मुच्यते देवि नात्र कार्या विचारणा | चरमे लोमतीर्थस्य धनुः पञ्चप्रमाणतः || १०६ || नागतीर्थं ततो जातं पृथिव्यां ख्यातिमागतम् | नागकुण्डे हि वैकुण्ठः स्नात्वा नागान् समर्चयेत् [समाह्वयेत्] || १०७ || पुण्यं तत् सर्वतीर्थेषु सर्पाणां विषनाशनम् | स्नानं कुर्वन्ति ये मर्त्या भक्त्या श्रावणपञ्चमीम् || १०८ || न तेषां तत् कुले सर्पाः पीडां कुर्वन्ति कर्हिचित् | श्राधं पितृणां ये तत्र करिष्यन्ति नरा भुवि || १०९ || ब्रह्मा तुष्टः परं स्थानं दास्यते नात्र संशयः | चन्द्रादुत्तरतः शैलश्चतुःषष्टिप्रमाणतः || ११० || प्. १७३) तत्र जले गयाकुण्डं क्षेत्रं तीरे तदुच्यते | गयाशीर्षं पूर्वभागे धनुर्द्वाविंशमानतः || १११ || यावल्लौहित्यपर्यन्तमुत्तरे ब्रह्मयोनिकम् | गयातीर्थं परं गुह्यं पितॄणाञ्चातिवल्लभम् || ११२ || कृत्वा पिण्डप्रदानन्तु न भूयो जायते नरः || आगस्त्येऽस्मिन् गयायाञ्च तथा नीलाचले शुभे | यात्राभेदे ददेत् पिण्डं गयायाञ्च सकृत्प्रिये || ११३ || शोचन्ति पितरस्तस्य वृत्तोऽत्र [वृथात्र च परिश्रमः] शापविभ्रमः | गायन्ति पितरो गीतं कीर्तयन्ति महर्षयः || ११४ || गयां यास्यति यः कश्चित् सोऽस्माकं तारयिष्यति | एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः || ११५ || तेषां तत्समवेतानां यद्येकोऽपि गयां व्रजेत् | तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः || ११६ || यो दद्याद्विधिवत् पिण्डान् गयां गत्वा समाहितः | धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः || ११७ || कुलान्युभयतः सप्त तेषामुद्धृतिराप्नुयात् | परं पिण्डप्रदानं [परपिण्डप्रदानं स नाम्ना] च दद्याद्वै पायसेन च || ११८ || कर्तव्यमृषिभिर्दृष्टं पिण्याकेन घृतेन [गृहेन] तु | तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा || ११९ || श्राद्धन्तु तत्र कर्तव्यमर्ध्यावाहनवर्जितम् | मूषिकगृध्रकाकाश्च नानुदृश्यं चरन्ति ते || १२० || प्. १७४) श्राद्धं तत्तीर्थकं प्रोक्तं पितृणां तुष्टिदं परम् | कर्तुं तत्र प्रयत्नेन भुक्तिरेवाच कारणम् || १२१ || भुक्त्या तुष्यन्ति पितरस्तुष्टाः कामान् ददन्ति च | आयुः पुत्रान् धनं धान्यं कामानन्यान् प्रयच्छति || १२२ || भक्त्या चाराधितं रुद्रं नृणां प्रीताः पितामहाः | अकालेप्यथवा काले गयाश्राद्धं सदा नरैः || १२३ || प्राप्य चैव [प्राप्यते नैव] सदा स्थानं कर्तव्यं पितृतर्पणम् | पिण्डदानञ्च तेनाप्तं पितृणाञ्चाति वल्लभम् || १२४ || पितरो हि निरीक्षन्तो गगनं समुपागताः | आशया परया भक्त्या आशामेषां प्रपूरयेत् || १२५ || विलम्बो नैव कर्तव्यो न च [यतो] विघ्नं समाचरेत् | अच्छिन्ना सन्ततिस्तेषां सदाकालं भविष्यति || १२६ || पितरः पुत्रदातारो वृद्धिश्राद्धाभिकाङ्क्षिणः | तेन [तेन तेषां च तद्देयं यथोक्तेन विधानतः] ते सकलास्तुष्टाः पितरश्चैव कर्हिचित् || १२७ || अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयम्भुवा | तैः सत्वरं तत्तत् कार्यं द्विजैः पितृपरायणैः || १२८ || तीर्थेऽक्षते [तीर्थक्षेत्रे] गृहे वापि सङ्क्रान्त्यां ग्रहणेऽपि वा [संक्रान्तेऽपि ग्रहेऽपि च] | विषुवे तु तथा वापि जन्मनक्षत्रपीडने || १२९ || एते वै श्राद्धकालाः स्युः पुरा स्वायम्भुवोऽब्रवीत् | कृते श्राद्धे नवे पुंसां पीडा भवति देहजा || १३० || प्. १७५) इहामुत्र कृतं वापि सर्वं त्यजति दुष्कृतम् | याम्या न भवते पीडा ग्रहचौरनृपादिका [मृत्युभयं ग्रहपीडा शत्रुराजभयं तथा] || १३१ || दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम् | लभते नात्र सन्देहः प्रजापतिवरो यथा || १३२ || कामेश्वरः सर्ववेदी अश्वक्रान्तस्तु [कामेश्वरीं सप्तवेदं (?) अश्वक्रान्तं तु] कार्तिके | मातृमुख्यं गयाश्राद्धं पितृमुख्यन्तु अन्यतः || १३३ || पिण्डञ्च षोडशं दद्याद् बहुले [बहुर्ल] कारयेत् सुधीः | पातयेत् क्षीरधाराश्च आरोहेत् सोमपर्वतम् || १३४ || साक्षिणः सन्तु मे देवा ब्रह्मविष्णुमहेश्वराः | महागयां समासाद्य श्राद्धं [अनाहूतमृगत्रयात्] कुर्याद्विचक्षणः || १३५ || ततो भेर्यादिशब्देन आरोहेत् शिविकां नरः | गृहं गत्वा समभ्यर्च्य गृहदेवीं यथाविधि || १३६ || ब्राह्मणान् भोजयेत् पश्चात् अक्षययमुपधारयेत् | युञ्जीत ब्राह्मणैः सार्धं दक्षिणामुपपातयेत् || १३७ || अस्मिन् पिण्डप्रदानेन आगस्त्ये विरजेषु च | दशाश्वमेधिकश्चैव तथा विष्णुपदेषु च || १३८ || एकत्र पिण्डदः कश्चित् पुनः श्राद्धं विवर्जयेत् | पुनराकर्षणं कृत्वा शापः पतति मूर्धनि || १३९ || त्रिदिनं पातयेत् पिण्डं गयायाञ्च विशेषतः | प्. १७६) ततो मातृगयायाञ्च एकाहमपि पातयेत् | आगस्त्ये विरजे चैव पातयेच्च दिनत्रयम् || १४० || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे [कामरूपपीठाधिकारे] द्वितीयभागे चतुर्थः पटलः | पञ्चमः पटलः भगवानुवाच ततः प्रभाते विमले साधकः सिद्धिमानसः | सोमशैलस्य ऐशान्यां दृष्टिमात्रान्तरे प्रिये || १ || मानशैलं ततो गत्वा गच्छेद्वाराणसीसरः | मणीश्वरस्य ऐशान्ये किञ्चित् पूर्वादिगोचरे || २ || धनुः सप्तान्तरे चैव कुण्डं वाराणसीयकम् | द्वाविंशद् धनुरायामं सर्वदेवैश्च संयुतम् || ३ || देवी त्रिपथगा तत्र गोमती च सरस्वती | करतोया दिव्यनदी लोहित्यो घर्घरस्ततः || ४ || सरयूर्धूतपापा च नर्मदा च महानदी | दृषद्वती देविका च तथा चर्मण्वती नदी || ५ || प्. १७७) कृष्णवेणी तथा पुण्या शोणः श्येनो महानदः | कावेरी यमुना चैव ये चान्ये नानुकीर्तिताः || ६ || मम प्रीत्यर्थमायान्ति कुण्डं वाराणसीयकम् | उदधिर्गह्वरश्चैव क्षीरोदश्च तथा पयः || ७ || घृतोदश्चैव मद्योदो दध्युदश्चैव सागरः | ह्रदाश्च सरितश्चैव तीर्थानि विविधानि च || ८ || मधुमासे चतुर्दश्यां समायान्ति न संशयः | वैशाखस्य तृतीयायां समायान्ति सुमध्यमे || ९ || स्नात्वा तत्र दिवं यान्ति यावदाभूतसंप्लवम् | जगन्माये जगद्बीजे जगत्पापप्रणाशिनि || १० || अमृतं देहि मे कुण्डे वाराणसि नमोऽस्तु ते | इत्यनेन तु मन्त्रेण अन्येनार्घ्यं निवेदयेत् || ११ || तस्य दक्षिणदिग्भागे धनुःपञ्चप्रमाणतः | द्वाविंशतिधनुर्मानं कुण्डं मणिकर्णिकाह्वयम् || १२ || मणिकर्णसमं तीर्थं न भूतं न भविष्यति | सत्यं सत्यं पुनः सत्यं सत्यमेव सुनिश्चितम् || १३ || मणिकर्णसमं तीर्थं नास्ति ब्रह्माण्डगोलके [-गोचरे] | युगादिषु च सङ्क्रान्तौ उपरागे महेश्वरि || १४ || स्नानं मध्यन्दिने कुर्यान्महापातकनाशनम् | मणिकर्णे सुरश्रेष्ठे मणीश्वरि मणिप्रिये || १५ || पापं हर कृत्तिवास मणिकर्णे [अयं हरकृतावासो मणिकर्ण] नमोऽस्तु ते | मन्त्रेणानेन स्नात्वा तु प्रणिपत्य प्रपूजयेत् [विसर्जयेत्] || १६ || प्. १७८) ऐशान्यां मणिशैलस्य मङ्गला नाम वै नदी | नीरं नीरं वहन्तीव पापौघानि पुनीहि माम् || १७ || मन्त्रेण स्नात्वा देवेशि प्रणिपत्य प्रसादयेत् | मणीश्वरं ततो गत्वा क्षालयेत् काममुच्चरन् [प्रार्थयेन्मन्त्रमुच्चरन्] || १८ || प्रथमेन [प्रथमेन मानसः इत्यन्तः पाठः बहुषु नास्ति] स्नानं कृत्वा शुचिसंयतमानसः | द्वितीयकेन स्पृष्ट्वा तु तृतीयेनाभिपूजयेत् | कलाहस्तद्वयांशेन सिद्धक्षेत्रमिहोच्यते || १९ || हंसोऽर्घ्यासनमारुढो रश्मिविन्दु समासितः [समाहितः] | मन्त्रोऽयं देवदेवस्य ऋषिगर्गैरुदाहृत [ऋषि गर्गं-] || २० || छन्दोऽनुष्टुप् भवो [रुद्रो] देव इष्टार्थे विनियोजयेत् || २१ || उद्यत्किरीटशकलं विमलं स देवदेवो बिभर्ति वैयाघ्रतनुश्चतुर्भिः | शूलञ्च [शूलं चाभय] यो वै स वरञ्च वज्रं रक्त त्रिनेत्रं परमं मृगस्थम् || २२ || मध्ये देवं पूजयेत् कृत्तिवासं भीमं देवं तत्पुरस्तात् हरञ्च | भवं देवं शक्रमाद्यं विसंज्ञं [भवेशानं शक्रमित्येव संज्ञम्] पश्चाद्देवं वामनं कालसंज्ञम् || २३ || यजेच्छक्तीः पद्मपत्रेषु देवीः वाराणसीः कीर्तीस्तयोः पुरस्तात् | श्रीकण्ठाद्यस्तद्बहिः संयजेद्वै ग्रहान् पश्चात् तत्पुरस्ताद्दिगीशान् || २४ || वामेऽनन्तः पूजितः स्यात् पिनाकी दक्षिणे भागे कमला सर्वतश्च | सिद्धेशाख्यादग्रतश्च [सिद्धिसाध्याश्च] प्रपूज्याः स्वैः स्वैर्मन्त्रैः स्वीयकल्पोदितैश्च || २५ || प्. १७९) मणिनाथञ्चादिलिङ्गं ब्रह्मपाषाणमक्षयम् | ऐशान्यां मङ्गला देवि एतन्मध्यतमं प्रिये || २६ || क्रोशत्रयमिदं क्षेत्रं मणिपीठं सुरार्चिते | दक्षवक्त्रे च कामेशीं हयग्रीवन्तु पश्चिमे || २७ || उत्तरे कमलं लिङ्गम् उत्तरायाः समुद्भवः | पूर्ववक्त्रे च विरजा उत्तरे कौशलोद्भवम् || २८ || अन्यत्र वै कोटिद्वयं सर्वं वामोद्भवं भवेत् | रमणायाः समुद्भूतं कुण्डं पञ्चशतं शतम् || २९ || सार्धकोटिस्तथा लिङ्गं त्रिंशतञ्च कलौ युगे | भूम्यन्तरस्थं लक्षञ्च सार्धलक्षं जले प्रिये || ३० || द्विलक्षं पर्वते चैव पञ्चलक्षं गुहासु च | भूमिपीठे सप्तलक्षं वृक्षमूले तु लक्षकम् || ३१ || कुण्डमध्यगतं लिङ्गं अर्धलक्षं विजानीहि | सन्ध्या सन्ध्यांशके चैव कुण्डं लौहित्यपावनम् || ३२ || नवेन्दुशाके देवेशि विदितं सर्वमेव तु | त्र्यंशे सन्ध्यांशके चैव यदा शूद्रो भवेन्नृपः || ३३ || तदा कामेश्वरी देवी स्फुटिता मध्यमांशके | अन्ते नैव शाकेश्वरी स्फुटिता मध्यमेंऽशके || ३४ || अन्त्यांशे च शाकदेवी सुव्यक्ता [अव्यक्ता] उर्वशी तदा | भूशाके माधवो व्यक्तः सुधांशे विरजा प्रिये || ३५ || यत् फलं राजसूयेन पूजनाद्वन्दनात् प्रिये | वायव्ये मानशैलस्य वराहो नाम पर्वतः || ३६ || प्. १८०) तत्र नारायणो देवः निवासः क्रियते सदा | तस्य पूर्वदक्षिणे च नरनारायणं सरः || ३७ || तत्र पीत्वा च स्नात्वा [स्नात्वा जल पीत्वा] च विष्णुलोके महीयते | तस्य पश्चिमतीरे च लिङ्गं सोमेश्वरं परम् [हरम्] || ३८ || तीर्थं प्रभासनामानं [प्रभासाख्यं] मृतानां मुक्तिदं फलम् | सेवनात् कृतपिण्डानां पापजित् कामदं नृणाम् || ३९ || तत्र वैनायकं तीर्थं वायव्ये धनुरष्टकम् | स शतधनुरायामं प्रभासं तीर्थमुत्तमम् || ४० || वायव्ये तस्य देवेशि धनुरर्कप्रमाणतः | तीर्थं बिन्दुसरः पुण्यं स्नानात् पातकनाशनम् || ४१ || मणिसोमाचलान्तेन सहस्रपञ्चकं धनुः | भूलिङ्गे च भवेत् कोटीज्यामुत्र च सरस्वती || ४२ || धनुष्कोकिलकः शम्भुर्लक्षकालिरुदाहृता | नाटकाचलपूर्वे तु मतङ्गो नाम पर्वतः || ४३ || अग्नौ हयाचलं यावत् शिवस्यान्तर्गृहं स्मृतम् | अन्तर्गृहमृता ये च यान्ति ब्रह्म सनातनम् || ४४ || अक्षयं सत्कृतं तत्र यत्कृतञ्च तदक्षयम् | मणिशैले स्थिता ये च ये मृतास्तेऽपुनर्भवाः || ४५ || तत्र दानं कुरुक्षेत्रसमं भवति नान्यथा | अश्वतीर्थेन्द्रमध्ये तु ब्रह्मावधिरुदाहृतः || ४६ || प्. १८१) वराहस्य मुखे तोयं दृष्ट्वा मत्स्योदरी तदा | आषाढे वर्षणे विष्णोर्यदा मत्स्योदरं भवेत् || ४७ || तदा सर्वप्रयत्नेन स्नानं कुर्यान्मम प्रिये [समाहितः] | शतजन्मकृतं पापं स्नानान्नश्यति निश्चितम् || ४८ || भाद्रे वा श्रावणे वापि तदार्धार्धं लभेत् फलम् | कार्तिके दृश्यते किञ्चित् फलं दशगुणोत्तरम् || ४९ || हस्ताचलस्य पूर्वे तु किञ्चिदैशान्यगोचरे | भस्माचलं स्थिरं कृत्वा समीक्षेत् काममुच्चरन् || ५० || कीलकाचरमे [कलिका] भागे नाक्रान्तं तत्र [सूत्रपातयेत्] पातयेत् | तत् क्षेत्रस्योत्तरे भागे धनुरर्कप्रमाणतः || ५१ || उर्वशी सा समाख्याता सर्वकिल्विषनाशिनी | माघे मासि सिते पक्षे द्वादश्याञ्च समाहितः || ५२ || स्नात्वाश्वमेधजं पुण्यं लभते सङ्क्रमेषु [संक्रमणेषु] च | दिनक्षये च ग्रहणे न स्नायाद्धि कदाचन || ५३ || नाशोऽपि ज्येष्ठपुत्रस्य धनस्य परमेश्वरि | तारं श्रवणशून्यञ्च वाराहं स शिखी स्थितः || ५४ || समार्णको वह्निजायाऽनन्तोऽयं परिकीर्तितः | पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च || ५५ || उर्वश्यान्तानि सर्वाणि पापं हर नमोऽस्तु ते | मन्त्रेण विधिवत् स्नात्वा उत्तराशामुखेन तु || ५६ || प्. १८२) वारुणेन च मन्त्रेण दद्यादर्घ्यं विभूतये | पूर्वाशामज्जनं कृत्वा महालक्ष्मीः स्थिरायते [विमुच्यते (?)] || ५७ || धनं धान्यं प्रजावृद्धिः कुवेराशाभिमज्जनात् | तस्याः पूर्वे चार्कधनुरायतांशं [अयुतांशं] तथा परम् || ५८ || सूर्यतीर्थमिति ख्यातं देवानामपि दुर्लभम् | ऋषयः सिद्धगन्धर्वास्तीर्थानि च सरांसि च || ५९ || माहात्म्यमतुलं [-मण्डलं] तस्य सूर्यकुण्डस्य शाङ्करि | भृग्वन्तं गगनं देवि भृगुः स्वर्गान्तिको मनुः || ६० || स्नाने च पूजने चार्घ्यं स्तुतौ च विनियोजयेत् | चैत्रे [माघे मधुमासे चैव] माघे च मासि च सप्तम्यां रविवाशरे || ६१ || स्नात्वा स्वर्गमवाप्नोति सूर्यलोकञ्च विन्दति | रक्तांशो विंशसम्भूत महापातकनाशन || ६२ || महाभाग हर्यात्मक पापं हर नमोऽस्तु ते | तत् पूर्वे तु पञ्चधनुः कामाख्यं नाम वै सरः || ६३ || तत्र स्नात्वा त्रयोदश्यां सर्वान् कामानवाप्नुयात् | धात्रीफलं मुखे कृत्वा यस्तु स्नानं समाचरेत् || ६४ || अपुत्रो लभते पुत्रं राजानं [राजा च पृथिवीपतिः] पृथिवीपतिम् | चैत्रे सितत्रयोदश्यां स्नात्वा राज्यञ्च विन्दति || ६५ || वक्ष्यमाणेन मन्त्रेण कामेनार्घ्यं निवेदयेत् | कामकुण्ड महाभग स्वयं [सर्वकामफलप्रद] देवीभिः संस्कृतः || ६६ || प्. १८३) प्रयच्छ कामान् सकलान् पापाच्च त्राहि सर्वतः | सूर्यतीर्थे चार्घ्यदानं यः करोति वराङ्गने || ६७ || शतमष्टोत्तरञ्चापि सहस्रमयुतं तथा | द्वादशकृत्तथाष्टौ वा अश्वमेधफलं लभेत् || ६८ || माघे वा फाल्गुने वापि स्वाहार्घ्यं [दत्वा-] सप्तमीदिने | स्नात्वा रव्युदये काले कुष्ठी पापाद्विमुच्यते || ६९ || अपुष्पिता च या नारी विंशाहात् परमेश्वरि | तत्राभ्यर्च्यार्घ्यदानेन सा नारी पुष्पिता भवेत् || ७० || योऽर्घ्य तु मार्तपात्रेण आदित्यस्य च शाङ्करि | सप्त जन्मनि दारिद्र्यं मृते सा [तदभिजायते] चाभिजायते || ७१ || मृतापत्या च या नारी अह्नि सम्पूज्य भास्करम् | करवीरेण वार्केण तथा धात्रीफलेन च || ७२ || करवीरशतं दत्त्वा नारी [नापुत्रा जायते क्वचित्] पुत्रवती भवेत् | अभावे करवीरस्य पत्राण्यपि निवेदयेत् || ७३ || रक्तं रुद्रजटञ्चैव रक्तञ्च करवीरकम् | तथा रक्ततया देवि शस्तं भास्करपूजने || ७४ || सर्वेषाञ्चैव पुष्पाणां श्रेष्ठञ्च करवीरकम् | एकञ्च करवीरञ्च रक्तपद्मसहस्रकम् || ७५ || प्रतिपुष्पे चाश्वमेधफलं सम्यक् प्रजायते | तस्मात् सर्वप्रयत्नेन करवीरेण पूजयेत् || ७६ || अभावे करवीरस्य त्रिवारं वाग्यतः स्मरेत् | उच्चरेत् करवीरेति न तथा कोटिजाप्यतः || ७७ || प्. १८४) प्रीतिः स्यात् करवीरस्य न तथा याति भास्करः | संवत्सरस्य मध्ये तु वारैकं सप्तमीव्रतम् || ७८ || सूर्यतीर्थे सकृत् कृत्वा पुनाति सप्तमं कुलम् | अपराह्णं परं कालं परेशानि [विजानीहि व्रतस्य च] विजानीहि || ७९ || न्यूनातिरिक्ते देवेशि न सिद्धिर्जायते भुवि | द्विपक्वं वर्जयेद् यस्माद् घृतञ्चैव कलापकम् || ८० || कशेरु शृङ्गवेरञ्च लवणञ्च कषायकम् | अम्लञ्चैव तथा तिक्तं दूषितञ्च न भक्षयेत् || ८१ || शिलापात्रेण भोक्तव्यं रौप्यताम्रे कदाचन | मदनस्य दक्षभागे धनुः पंक्तिप्रमाणतः || ८२ || तीर्थं गङ्गासरो नाम तत्र स्नात्वा महत् फलम् | गङ्गातीरे नरः स्नात्वा पितॄन् देवांश्च तर्पयेत् || ८३ || ब्रह्मलोकं समाप्नोति रविसङ्क्रमणे ग्रहे | विष्णुपादरजःसम्भूते गङ्गे त्रिपथगामिनि || ८४ || धर्मदायि हरित्श्रेष्ठे त्राहि मां सर्वपातकात् | तुलायां मकरे चैव शुक्लाष्टम्याञ्च भामिनि || ८५ || स्नानमात्रेण स नरो विष्णुलोके महीयते | तस्य दक्षिणदिग्भागे धनुरष्टप्रमाणतः || ८६ || आगस्त्यं परमं तीर्थं मृतानां भुक्तिमुक्तिदम् | यः श्रुत्वा मज्जयेन्मर्त्यः सर्वज्ञत्वमवाप्नुयात् || ८७ || स्वयं देवो महादेवो विष्णुस्तत्र च संस्थितः | कामाख्यायाश्च क्रीडार्थमागस्त्यं कुण्डमुत्तमम् || ८८ || प्. १८५) सर्वपापहरं शुद्धं विष्णुब्रह्मादिभिर्युतम् | देवदानवविद्याधृग्वन्दितं [-गन्धर्व-] सर्वकामदम् || ८९ || नानारत्नादिभिश्छन्नं [-युक्तं] सोपानं सुमनोहरम् | शल्येनोत्पादितं कुण्डं महादेव्याश्च तुष्टये || ९० || माघे च कार्तिके चैव शुक्लपक्षे वरानने | दशम्यां स्नानमात्रेण पुष्करस्य फलं लभेत् || ९१ || शतजन्मकृतं पापं तत्क्षणादेव नश्यति | सहस्रजन्मजं पापं विषुवे च दिनक्षये || ९२ || पौषे च कर्कटे चैव कृष्णाष्टम्यां महेश्वरि | स्नानञ्च वर्जयेद्देवि भार्याहानिर्भवेद्यतः [ध्रुवम्] || ९३ || यथा वाराणसी पुण्या तथा पुण्या न संशयः | गुह्यं तीर्थं परं देवि नात्र कार्या विचारणा || ९४ || एतद्गुह्यतमं क्षेत्रमेतद् गुह्यतरं परम् | यत्र गत्वा नरः सद्यो मुच्यते सर्वपतकैः || ९५ || यत्र देवो महादेवो यत्र देवी सरस्वती | गङ्गादिसरितः सर्वाः समुद्राः सप्त एव हि || ९६ || नदा शोणादयो यत्र तीर्थानि च सरांसि च | किं [तस्य वामे स्थितस्य च] वा वामे परीतस्य कुण्डस्य परमेष्ठिनः || ९७ || न शक्यं विस्तराद् वक्तुं मया जलजलोचने | यथा चराचरं सर्वं त्रैलोक्यं भासयेल्लघु || ९८ || प्. १८६) तथा त्रायस्व मां नित्यं तीर्थवर्य नमोऽस्तु ते | आग्नेये तस्य क्षेत्रस्य किञ्चित् पश्चिमगोचरे || ९९ || एकविंशद्धनुर्मानं वासवं नाम तीर्थकम् | वासवे परमे तीर्थे स्नात्वाभ्यर्च्य च वासवम् || १०० || शक्रवीजेन देवेशि इष्टस्य सदनं व्रजेत् | वक्ष्यमाणेन मन्त्रेण धरण्यार्घ्यं [इन्द्राय-] निवेदयेत् || १०१ || वासवाख्यं महातीर्थं सर्वपापप्रणाशनम् | तत्राम्भसि निमज्याथ यथोक्तफलदो भव || १०२ || तस्य पश्चिमतो देवि नातिदूरे व्यवस्थितः | धनुःसप्तप्रमाणेन रम्भातीर्थं महेश्वरि || १०३ || रम्भातीर्थ नरः स्नात्वा रूपवानभिजायते | सहभर्त्रा मृता या च ज्ञानान्नारी पतिव्रता || १०४ || रम्भालोकञ्च लभते [तदनु] तदन्ते भवनं हरेः | याति नास्त्यत्र सन्देहः शेषे च गुरुवासरे || १०५ || ब्रह्मकर्मसमुद्भूते सर्वकामप्रदे शुभे | कामद्रवि नमस्तेऽस्तु त्राहि मां भवसागरात् || १०६ || स्नात्वानेन च रम्भायै मन्त्रेणार्घ्यं निवेदयेत् | क्षेत्रस्य पश्चिमे भागे धनुस्त्रिंशत् प्रमाणतः || १०७ || तत्रैव रुक्मिणीकुण्डे स्नात्वा ब्रह्मपुरं व्रजेत् | मुखस्य क्षालनं कृत्वा नारी वा पुरुषोऽपि वा || १०८ || रूपवान् परलोके तु जायते नात्र संशयः | स्नानं कन्दर्पबीजेन शृणु क्षालनमन्त्रकम् || १०९ || प्. १८७) ब्रह्मविष्णुमहेशानैः क्षालितं वदनं त्वयि | रूपवानश्विनोर्याति रूपं सत्येन देहि मे || ११० || वायव्ये तस्य क्षेत्रस्य धनुरष्टास्त्रसम्मितम् | पितॄणां परमं तीर्थं स्नानाद् याति परां गतिम् || १११ || पितृतीर्थ महाभाग स्वयं देवाष्टसत्कृत | तृप्तिहेतोर्महाभाग अघोरान्मां पुनीहि च || ११२ || अत्र स्नात्वा च मन्त्रेण पितृमेधफलं लभेत् | अगस्त्यस्य तु दक्षे च गत्वा स्नात्वा च तर्प्य च || ११३ || धनुर्वेदप्रमाणञ्च गवाक्षायति वै सरः | तत्र गत्वा च सप्तम्यां पितॄणामनृणो भवेत् || ११४ || गयातीर्थं महातीर्थं पितॄणां नास्ति तत्समम् | पावनः सर्वतीर्थेषु स मां पुनातु पापतः || ११५ || अनेन स्नानं कृत्वा तु उत्तीर्य धौतवाससी | पिधाय तिलकं दद्यात् क्षेत्रं कुर्यात् प्रदक्षिणम् || ११६ || कृत्वा दशाश्वक्षेत्रे च पिण्डं दद्यात् समाहितः | तत्र देवि षोडशके पितॄन् समर्चयेद् बुधः || ११७ || क्षीरेण मधुना चैव पादापनयनेन च | दक्षिणादि क्रमाच्चात्र एकैकैर्हस्तकं चतुः || ११८ || वेदीषोडशकस्तत्र प्रतिवेदीं समर्चयेत् | गयाकूपे नरः स्नात्वा दृष्ट्वा देवमुमापतिम् || ११९ || आत्मानं तारयेत् सद्यो दश पूर्वान् दशापरान् | विष्णुर्ब्रह्मा च रुद्रश्च अगस्त्यश्च शतक्रतुः || १२० || प्. १८८) गणेशश्चैव क्रौञ्चश्च कुमारश्च प्रजापतिः | च्यवनः कश्यपश्चैव पुलस्त्यश्च यथाक्रमात् || १२१ || अश्वक्रान्तस्य [वृद्ध्या वै निवसन्त्यस्मिन् अश्वक्रान्तागस्त्ययोर्यथा] बृद्ध्यैवमागस्त्येऽमृतवासरे | अत्र मातुः पृथक् पिण्डमन्यत्र पतिना सह || १२२ || दशाश्वमेधे यः पिण्डं नाम्ना येषान्तु निर्वपेत् | नाकस्थाश्च दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः || १२३ || येऽस्मत्कुले च पितरो लुप्तपिण्डोदक्रियाः | ये चाप्यकृतचूडाश्च ये च गर्भाद्विनिःसृताः || १२४ || ये [येषां दारा विक्रेयाश्च] चापरिग्रहदाराः येऽग्निदग्धास्तथापरे | भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् || १२५ || पिता मातामहश्चैव तथैव प्रपितामहः | माता पितामही चैव तथैव प्रपितामही || १२६ || यथा [मातामहादयो ये च ये चान्ये गोत्रिणो मृताः] मातामहश्चैव प्रमातामह एव च | ये च सिंहव्याघ्रसर्पप्रहृता [-हृता अन्यैश्च प्रहृताश्च ये] निहताश्च ये || १२७ || दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् | अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे || १२८ || विद्युच्चौरहता ये च तेषां पिण्डं ददाम्यहम् | पशुयोनिगता ये च पक्षिकीटसरीसृपाः || १२९ || अथवा वृक्षयोनिस्थास्तेषां पिण्डं ददाम्यहम् | असंख्यजनसंस्था ये ये नीता यमशासनम् || १३० || प्. १८९) तेषामुद्धरणार्थाय इमं [इदं (यजुर्वेदिना क्लीबे प्रयुज्यते)] पिण्डं ददाम्यहम् | जात्यन्तरसहस्राणि भ्रमन्ति स्वेन कर्मणा || १३१ || मनुष्यान्तर्गता [-र्गतं येषां यातनाशतमाहृतम्] ये च तेषां पिण्डं ददाम्यहम् | अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् || १३२ || तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् | ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः || १३३ || तेषान्तु तृप्तिमायान्तु पिण्डदानेन सर्वदा | ये ये पितृकुले जाताः कुले मातुस्तथैव च || १३४ || गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः | ये ये कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः || १३५ || क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा | विरूपा वा सगर्भा ये ये च जाता कुले मम || तेषां पिण्डं मया दत्तमक्षययमुपतिष्ठताम् || १३६ || ये [ये पितृवंशजाताः स्युर्मातृवंशास्तथैव च | कुलद्वये दासभूता ये चासन् सेवकाश्च वै || मित्राणि सख्यो दुष्टाश्च ये च कृतापकारिणः | तेषामुद्धरणार्थाय पिण्डमिदं ददाम्यहम् ||] बान्धवा ये पितृवंशजाता मातुस्तथा ये भवनादिजाताः | कुलद्वये ये मम दासभूता मृतास्तथैवामृतसेवकाश्च || १३७ || मित्राणि सख्यः परसख्यश्च वृक्षाः पुण्याश्च दुष्टाश्च कृतोपकाराः | जन्भान्तरे ये मम दासभृत्यास्तेषाभिमं पिण्डमहं ददामि || १३८ || प्. १९०) सूर्यकुण्डस्य वायव्ये धनुर्दण्डान्तरे स्थितः | देवो गदाधरस्तत्र प्रणिपत्य प्रदापयेत् || १३९ || साक्षिणः सन्तु ये [भो] देवा ब्राह्मणा वसवस्तथा | मया गयां समासाद्य पितॄणां निष्कृतिः कृता || १४० || आगतोऽहं गयां देव पितृकार्ये गदाधर | त्वमेव साक्षी भगवाननृणोऽहम् ऋणत्रयात् || १४१ || पितृपिण्डस्य मध्ये तु पिण्डं दद्याच्च षोडश | वर्तुलं कारयेत् पिण्डं क्षीरधारां च पातयेत् || १४२ || गदाधरस्य वै वामे नातिदूरेण शाङ्करि | तत्र मातृगया देवि दक्षिणेन सुतीर्थकम् || १४३ || तथा गदाधरं देवं मुक्तिदं [केशवं] पुरुषोत्तमम् | तं प्रणम्य प्रयत्नेन न भूयो जायते नरः || १४४ || मौनादित्यं महात्मानं कनकार्कं विशेषतः | दृष्ट्वा मौनेन विप्रर्षिः पितॄणामनुगो भवेत् || १४५ || ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् | उर्वश्या दक्षिणे तीरे या शिला कनकप्रभा || १४६ || सा विज्ञेया च गायत्री पूजयेद्गन्धचन्दनैः | गायत्रीं [प्रातरुत्थाय गायत्र्या उपागम्य समाहितः] प्रातरुत्थाय उपागम्य तु नामशः || १४७ || सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत् | सावित्रीञ्चैव मध्याह्ने दृष्ट्वा यज्ञफलं लभेत् || १४८ || प्. १९१) दशाश्वमेधे धनदो देवदेवो जनार्दनः | तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती || १४९ || गयायां पितृरूपेण देवदेवो जनार्दनः | तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् || १५० || दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते | मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः || १५१ || दुर्लभस्त्रिषु लोकेषु आगस्त्ये पिण्डपातनः | आत्मजो वा तथान्यो वा गयाकूपेऽश्वमेधिके [कृत्वा पुनर्जन्म न विद्यते] || १५२ || यन्नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम् | तद्ब्रह्मकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पिताः || १५३ || पूजितैः पूजिताः सर्वे पितृभिः सह देवताः | तर्पयेत्तु गयाविप्रान् हव्यकव्यविधानतः || १५४ || दानं नहि परित्यागो गयायान्तु विधीयते | यः करोति महादानं वृषोत्सर्गं करोति यः || १५५ || दशाश्वमेधिके तीर्थे [शत्तीर्थानि स्थितानि तत्र सुव्रते] मुक्तिदे स च मानवः | चतुःषष्टि धनुर्मानं क्षेत्रमागस्त्यमीरितम् || १५६ || पञ्चपञ्चाशतं तीर्थमुक्तं तीर्थं सुमध्यमे | उर्वशी च तथा सूर्यः कामः पुत्रश्च वासवः || १५७ || आगस्त्यश्चाश्वमेधश्च तीर्थसारो गयाविलः | उद्बन्धनमृता ये च गलपाशमृताश्च ये || १५८ || प्. १९२) पतिदुष्टा [चित्रभ्रष्टा] च या नारी क्रिया तेषां न विद्यते | नान्त्येष्टिर्न च दाहश्च नाशौचं तेषु विद्यते || १५९ || आगस्त्ये च गयायाञ्च क्रियां कुर्यात् त्रिरात्रकम् | अमायाञ्च समारभ्य कुर्याच्चैव त्रिरात्रकम् || १६० || अन्यत्र च क्रियां तेषां यः करोति सुदुर्मतिः | विफला च क्रिया तेषां चरेच्चान्द्रायणं व्रतम् || १६१ || ततः शुद्धिमवाप्नोति अन्यथा पातकी भवेत् | अन्यतीर्थे [अश्वतीर्थे] कृतं पापं गयायान्तु विनश्यति || १६२ || गयायां यत् कृतं पापं रामक्षेत्रे विनश्यति | रामक्षेत्रे कृतं पापं मणिकूटे विनश्यति || १६३ || मणिकूटे कृतं पापं नीलशैले विनश्यति | नीलशैले कृतं पापमन्तर्गेहे विनश्यति || १६४ || अन्तर्गेहे कृतं पापं सोमतीर्थे विनश्यति | सोमतीर्थे कृतं पापं मंगलायां व्यपोहति | मङ्गलायां कृतं पापम् आगस्त्ये तु विनश्यति || १६५ || आगस्त्ये यत् कृतं पापं मन्दरे तद् विनश्यति | मन्दरे यत् कृतं पापं वज्रलेपे विनश्यति [वज्रलेपो भविष्यति] || १६६ || वज्रलेपाच्च यत् पापम् अश्वक्रान्ते विनश्यति | अश्वक्रान्ते कृतं पापम् उर्वश्यां तद्व्यपोहति || १६७ || माहात्म्यश्रवणेनाथ संहिताश्रवणेन वै | दिनं नयेन्महेशानि रात्रौ विष्णुविचिन्तनम् || १६८ || प्. १९३) कृत्वा वासन्तु तेऽत्रैव नक्तं मोक्ष्यं न वर्तयेत् | ततोऽन्यदिवसे काल्या [विप्र] आगस्त्ये स्नानमाचरेत् || १६९ || भस्माचलं स्पृशन् धारा सा विज्ञेया सरस्वती | तत्र स्वाहा महेशानि अग्निष्टोमफलं लभेत् || १७० || विष्णोर्वक्षः स्थिते भद्रे मकरन्दप्रिये शुभे | जन्मजन्मार्जितं पापं हर मे परमेश्वरि || १७१ || स्नायादनेन मन्त्रेण कार्तिके [कार्तिकीं च] च विशेषतः | देवस्य पूर्वभागे तु वापी तिष्ठति शोभना || १७२ || तस्याः स्वच्छोदकं पीत्वा पुनर्जन्म न विद्यते | आग्नेये भस्मशैलस्य धनुरष्टप्रमाणतः || १७३ || पिशाचमोचनं नाम तीर्थं परमकं शुभे | पिशाचमोचने तीर्थे पूजयामास शूलिनम् || १७४ || इदं देवस्य तल्लिङ्गं कपर्दीश्वरमुत्तमम् | वायव्ये भस्म कूटस्य धनुर्मदनमानतः [धनुर्वदन-] || १७५ || कपालमोचनं नाम तीर्थेभ्यस्तीर्थमुत्तमम् | पूजनीयं प्रयत्नेन स्तोतव्यं विविधैः स्तवैः || १७६ || कपालं पतितं तस्मिन् स्नाने च मम सुन्दरि | तस्मिन् स्नातो वरारोहे ब्रह्महत्यां व्यपोहति || १७७ || कपालेश्वरमीशानमस्मिन् [कपालेश्वर ईशान अस्मिन् ....व्यवस्थितः] तीर्थे व्यवस्थितम् | तस्योत्तरे धनुः पञ्च कपिला नाम वै शिवे || १७८ || प्. १९४) तत्र स्नात्वा वरारोहे मुच्यते भवबन्धनात् | कपिलाह्नदतीर्थेऽस्मिन् स्नात्वा संयतमानसः || १७९ || वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेत् | पूर्वाशाभिमुखेनैव आरोहेद्भस्मकूटकम् || १८० || वक्ष्यमाणेन मन्त्रेण पूजयित्वा प्रशस्यते | वृयाचल नमस्तेऽस्तु धर्मभार्गत्रिविष्टप || आरोहयामि शिखरं भस्मकूटं नमोऽस्तु ते || १८१ || पश्चिमाभिमुखं यस्तु आरोहेत् पर्वतं यदि | दशजन्मकृतं पुण्यं तत्क्षणादेव नश्यति || १८२ || उत्तराभिमुखो यस्तु यश्च ऐशान्य सम्मुखः [मुखोऽपि] | धनं पुत्रं कलत्रञ्च सर्वं नश्यति तत्क्षणात् || १८३ || अथा चान्यत् प्रवक्ष्यामि गुह्याद् गुह्यतरं शुभम् | वृषध्वजस्य माहात्म्यं शृणु देवि वरानने || १८४ || संयुक्ता सोमवारेण अमावास्या भवेद् यदि | तदा भस्माचलं गत्वा देवमभ्यर्च्य यत्नतः || १८५ || कुलैकविंशमुद्धृत्य स गच्छेत् परमं पदम् | गन्धाद्यैः स्नापयेल्लिङ्गं कमलैः सुमनोहरैः || १८६ || पञ्चामृतेन तोयेन चन्दनेन विलेपयेत् | महात्मानं ततः कुर्यान्मासान्ते प्रतिपर्वणि || १८७ || बिल्वपत्रेण सम्पूज्य रत्नतोयेन स्नापयेत् | प्रसादेन तु मन्त्रेण रुद्रपुष्पेण पूजयेत् || १८८ || प्. १९५) बन्धुकेन जयन्तेन मालूरेण विशेषतः | ध्येयः प्रीतो देवदेवः पिनाकी पांशुनेत्रैर्दीप्यमानैस्तृतीयैः | लोलैः साक्षात् सर्वपापौघहर्ता विभ्रद्रुद्रो [भस्मविभूषितांगो] यश्चतुरो देवदेवः || १८९ || विभ्रद्वासश्चर्म वैयाघ्रकाण्डं भूत्वा शुभ्रं शशिकान्तं वपुश्च | देव्या गात्रे नीलदेहो मुखञ्च स्पृशन् पाणिं पाणिना सुप्रमत्तः || १९० || पत्रेषु पूजयेदेता देवताः परमेष्ठिनः | धाम धर्मं तथा सूक्ष्मं विष्णुं नारायणं हरम् || १९१ || विजयं विरजं विश्वं मध्यादि प्रतिपूजयेत् | शक्तीः सम्पूजयेच्चैव रामाद्याः प्रोक्तलक्षणाः || १९२ || बाह्ये सम्पूजयेद् भक्त्या श्रीकण्ठाद्याश्च तद्बहिः | पीठेशांश्च तथा बाह्ये पीठेशांश्चाग्रतोऽर्चयेत् || १९३ || त्रैयम्बकेण मन्त्रेण पूजयेत् कमलां विना | नन्दीशं मुकुटञ्चैव दिक्पालान् पूजयेत् क्रमात् || १९४ || एवं सम्पूज्य देवेशं पूजाभिर्भक्तिमान्नरः | प्रणम्य परमेशानम् इदं स्तोत्रमुदाहरेत् || १९५ || ओं नमो विश्ववर्णाय हिरण्याय [च हिरण्यवर्णाय च वै] हिरण्यकर्णाय च | हिरण्यकॄतचूडाय हिरण्यपतये नमः || १९६ || ईशानवज्रसम्भूत हरिकेश नमोऽस्तु ते | नमो बालार्कवर्णाय ज्वलद्रूपधराय च || १९७ || नमोऽशुद्धाय शुद्धाय सौभगायाक्षयाय च | भवाङ्गोज्झितकेशाय मुक्तकेशाय वै नमः || १९८ || प्. १९६) नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च | वर्णाश्रमेण विधिवत् पृथक् कर्मप्रवर्तिने || १९९ || नमः शोशीयशोशाय [शोधाय शोच्यमानाय करणकारणाय च] नमः करकणाय च | श्वेतपिङ्गलनेत्राय कृष्णवक्त्रेक्षणाय च || २०० || धर्मकर्मार्थमोक्षाय सर्वपापहराय च | नमस्त्रिशूलहस्ताय उमाकान्ताय वै नमः || २०१ || ईशानवक्त्रसम्भूत हरिकेश नमोऽस्तु ते | प्रसीद पार्वतीकान्त उमानन्दाय वै नमः || २०२ || ततोऽनुज्ञां समादाय कृताञ्जलिपुटः करः | प्रणम्य पूजयित्वा च इमं मन्त्रमुदीरयेत् || २०३ || उमानन्द नमस्तेऽस्तु पार्वतीप्रीतिवर्धन | निर्विघ्ना पातु मे सिद्धिर्यस्मात् पूजा कृताऽद्य मे || २०४ || जगन्नाथ प्रसादेन श्रीमत् कामेश्वरं शिवम् | अर्चयाम्यद्य देवेश आज्ञया ते महेश्वरम् [-र] || २०५ || प्राच्यां तस्य समभ्यर्च्य विश्वक्सेनं जनार्दनम् | देवस्य पश्चिमे भागे मातङ्गं नाम क्षेत्रकम् || २०६ || धनुर्द्वाविंशमानेन तत्र वासे न शोचति | तत्र यत् पातकं कृतं ब्रह्मवधसमं [अन्यद् ब्रह्मवधे क्षमम्] भवेत् || २०७ || तत्र यत् सुकृतं किञ्चित् अग्निष्टोमफलं लभेत् | मातङ्गं पूजयेत्तत्र गङ्गाद्यैर्भक्तिमान्नरः || २०८ || प्. १९७) मायाबीजेन देवेशि भावेन सुसमाहितः | तत्रस्थो मन्दिरं पश्येद्दक्षिणाभिमुखेन तु || २०९ || स सर्वं कुलमुद्धृत्य ब्रह्मलोके महीयते | नमो मन्दरशैलाय विष्णुरूपाय वेधसे || २१० || त्वां दृष्ट्वाथ च स्वर्गस्थो भवपापं व्यपोहतु | वीक्षेत् सन्ध्याचलं पश्चादिमं मन्त्रमुदीरयेत् || २११ || युगकोटिस्राहस्राणि यत् पापं समुपार्जितम् | क्षपासिगजवक्त्रे च साक्षी भव मतङ्गज || ततोऽर्घ्यं भानवे दद्यात्तिलवारिकुशान्वितम् || २१२ || उत्थाय प्रणिपातेन दद्यादाचमनीयकम् | आदित्यस्य व्रताङ्गे तु अर्घ्यदाने विशेषतः || २१३ || उपविश्य ततो दद्यादन्यतोत्थाय दापयेत् | अधोमुखञ्चार्घ्यपात्रं दत्वार्घ्यान्ते [दद्यादर्घ्यं] विचक्षणः || २१४ || तत्र चण्डेश्वरं सूर्यं प्रणिपत्य विसर्जयेत् | दशाश्वमेधनैर्-ऋत्ये दाक्षिण्ये मम सुन्दरि || २१५ || इषुक्षेपान्तरे यच्च संस्थित कलिपर्वतम् | तत्रारोहणमान्त्रेण सुकृतञ्च विनश्यति || २१६ || दुःखितं लिप्यते गात्रे कलिः स्पृशति नान्यथा | कलिः स्पृशति यां धारां सा धारा मम वाहिनी || २१७ || सर्वं कलिमलं तीर्थं तथैनं परिवर्जयेत् | मन्दरस्य हि चैशान्यां धनुःषोडशकं मितम् || २१८ || चक्रतीर्थं महातीर्थं सर्वपापप्रणाशनम् | ग्रहापदोषजञ्चैव पातकं यत् कृतं बहु || २१९ || प्. १९८) कृष्णे शुक्ले चतुर्थ्याञ्च दृष्ट्वा सिंहेऽर्धचन्द्रकम् | तद्दोषात् पातकं यच्च सर्वं स्नानाद्विनश्यति || २२० || अस्थीनि पातयेद् यस्तु सप्तरात्रौ मम प्रिये | चक्राङ्कितं भवेद्देवि नात्र कार्या विचारणा || २२१ || चक्रतीर्थे मृतं सर्वं धारणाद् योऽपि चन्दनम् | तत् फलं प्राप्य [प्राप्यते जन्तुः] तेजस्वी मृते हरिपुरं व्रजेत् || २२२ || द्वारकायां समुद्भूत द्विजन्मभवसागरात् | तीर्थराज नमस्तेऽस्तु त्राहि मां भवबन्धनात् || २२३ || मन्त्रेणानेन स्नात्वा तु सवित्रेऽर्घ्यं निवेदयेत् | चक्रतीर्थे नरः स्नात्वा वेधसं यस्तु पूजयेत् || २२४ || दशपूर्वान् दशपरान् आत्मानञ्चैव तारयेत् | चक्रतीर्थं स्पृशन् शैलं नन्दनं नाम पर्वतम् || २२५ || धनुर्द्विषष्टिमानञ्च पश्चिमेनैव सुन्दरि | जनार्दनञ्च देवेशं कलौ बौद्धस्वरूपिणम् || २२६ || तं दृष्ट्वा मुच्यते पापैर्महाघोरैः सुदारुणैः | कर्कशं पौण्ड्रवर्धञ्च या शिलाचक्र उद्गता || २२७ || मन्दरस्य च पाश्चात्ये शुभशैलस्य भाविनि | जनार्दनस्य चिह्नञ्च रूपञ्च परिकीर्तितम् || २२८ || उत्तरे तस्य शैलस्य ऐशान्यां विरजा तथा | दक्षिणे गजशैलस्य पश्चिमे शौभ्रलिङ्गकम् || २२९ || एतन्मध्यतमं क्षेत्रमागस्त्यं नाम वै गया | एवं शतमितं क्षेत्रमसम्भवादिकं स्मृतम् || २३० || प्. १९९) एतदाशां [क्षेत्रमेतद्] विजानीयादन्यल्लोहितमुच्यते | तत्र पिण्दप्रदानेन पितॄणां परमा गतिः || २३१ || जनार्दनस्य हस्ते च स्वधा [स्वाहा] पिण्डं समर्पयेत् | एष पिण्डो मया दत्तस्तव हस्ते जनार्दन || २३२ || परलोकगतं मह्यं त्वं हि दाता भविष्यसि | कलिशेषस्य [कलावेतस्य] पूर्वे तु धनुरष्टप्रमाणतः || २३३ || सा शिला प्रेतभावेन पितॄणां तारणाय च | तत्र पिण्डप्रदानेन न प्रेतो जायते क्वचित् || २३४ || चक्रतीर्थस्य चाग्नेये धनुर्द्वन्द्वप्रमाणतः | लिङ्गं लौलं परं तीर्थं तिलदुग्धैः प्रतर्पयेत् || २३५ || जनार्दनं ततो वीक्ष्य मुच्यते वै ऋणत्रयात् | कलिद्वापरयोः सन्धौ धनुरर्धप्रमाणतः || २३६ || शुक्रेण स्थापितं लिङ्गं शुक्रेशं नामतः श्रुतम् | देवं शुक्रेश्वरं दृष्ट्वा [मुच्यते भवबन्धनात्] को न मुच्येत बन्धनात् || २३७ || गोलेश्वरं [गोलोकेशं] ततो दृष्ट्वा मुच्यते ब्रह्महत्यया | अङ्गारेशञ्च सिद्धेशं गयादित्यं गजं तथा || २३८ || मार्कण्डेयेश्वरं दृष्ट्वा पितॄणाम-ऋणो भवेत् | गयागोलेश्वरं दृष्ट्वा स्नापयित्वा जनार्दनम् || २३९ || पितृभिः सार्धं त्रायते पुरुषानेकविंशतिः | एतेन किं न पर्याप्तं नृणाञ्च शुद्धिकारणम् | ब्रह्मलोकं प्रयान्तीह पुरुषा एकविंशतिः || २४० || प्. २००) पृथिव्यां यानि तीर्थानि आसमुद्रसराषि च | चक्रतीर्थं गमिष्यन्ति वारमेकं दिने दिने || २४१ || पृथिव्याञ्च गया पुण्या गयायां कूपकं तथा | कुपादष्टगुणं देवि श्रेष्ठा मातृगया शुभे || २४२ || पुत्रो मातृगयां गत्वा अनृणो भवति क्षणात् | गयायां पिण्डदानेन पितॄणामनृणो भवेत् || २४३ || गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव च | पञ्चकान्तं कामरूपं पिच्छिलान्ता सरित् शुभे || २४४ || जनार्दनस्य हस्ते तु पिण्डं दद्यात् स्वकं नरः | विरजे च तधा चाश्वे कर्णिवामे च सोमके || २४५ || जीवत्पिण्डप्रदानेन अल्पायुर्जायते नरः | यत्रागस्त्ये महाक्षेत्रे स्वकं पिण्डं ददेत्तु यः || २४६ || मासद्वयाधिकं वर्षमायुषो वर्धते क्रमात् | स्वहस्ते तु वृषोत्सर्गं यः करोत्यौर्ध्वदैहिकम् || २४७ || परलोकगते देवि अक्षयं तदपि स्मृतम् | पित्रोश्च जीवतोः पुत्रो न कुर्यादौर्द्ध्वदेहिकम् || २४८ || बहुपुत्रे चैकपुत्रे पुत्रे वा योगसेविते | क्षयकृष्णगते पुत्रे त्रिपुत्रे वा महेश्वरि || २४९ || चत्वारिंशत्परो देवि स्वयमात्मक्रियाञ्चरेत् | दानञ्चैव वृषोत्सर्गं कुर्यान्नैव दशाहिकम् || २५० || दम्पत्योर्जीवतोः कुर्याद् वृषोत्सर्गद्वयं सदा | एकत्र मण्डले कुण्डे वृषोत्सर्गं पृथक् चरेत् || २५१ || प्. २०१) मृते कुर्यादेकगुणं जीवितेऽष्टगुणं फलम् | परगोत्रकृते चैव स्वल्पाल्पं फलमाप्नुयात् || २५२ || उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः | कृत्वा [विधाय कर्कटिकेशं] स्वजनसम्भाषां ग्रामस्यापि प्रदक्षिणम् || २५३ || ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनात् | कृत्वा प्रदक्षिणं गच्छेत् प्रतिग्रहविवर्जिता || २५४ || गृहाच्चारत्निमात्रञ्च आगस्त्यगमनं प्रति | स्वर्गारोहणसोपानः पितॄणान्तु पदे पदे || २५५ || दिवा च सर्वदा रात्रौ आगस्त्ये श्राद्धकृद् भवेत् | अश्वतीर्थे कृतं श्राद्धं नीलकूटे च पञ्चके || २५६ || रामाश्रमे सोभकूटे श्राद्धी स्वर्गं नयेत्पितॄन् | आरुस्त्ये मुण्डनं कृत्वा दृष्ट्वा देवं जनार्दनम् || २५७ || आरुह्य मन्दरं शैलं पुनाति सप्तमं कुलम् | सांवत्सरे गयाश्राद्धं पार्वणं प्रतिपर्वणि | निरामिषं कृतं श्राद्धं तथा [तथा च विषुवद्वये] च विषुवद्द्वये || २५८ || स पिण्डाः पितरस्तस्य निराशाः सर्वदा गताः | आमश्राद्धे आममांसं प्रदद्यादविचारतः || २५९ || पितरोऽधोमुखगतास्तिष्ठन्ति न मम प्रिये | सामिषन्तु कृतं श्राद्धं यस्तु भुङ्क्ते निरामिषम् || २६० || तामिस्रनरकं गच्छेत् पितृभिः सह नान्यथा | दीर्घतन्तुमयं कुर्याद् गृहीत्वा तत्र शाङ्करि || २६१ || प्. २०२) श्राद्धाचारं विना कुर्याद् व्रतमेवं मम प्रिये | निरामिषः कृतो येन कुर्यात् श्राद्धं निरामिषम् || २६२ || मोक्ता निरामिषं भुङ्क्ते सामिषं न कदाचन | सद्यो निमन्त्रयेत् श्राद्धे कर्म कुर्याद्विचक्षणः || २६३ || शूद्रेण निन्दिते विप्रे श्राद्धयज्ञे सुरेषु [न चार्चयेत्] च | ब्राह्मणं भोजयेद् यस्तु भुङ्क्ते विष्ठाञ्च शाङ्करि || २६४ || माहिषं वृहदाजञ्च ऐणञ्च [ऐहञ्च] चामरं तथा | गौधं कौर्मञ्च शाल्वञ्च शाशकं शौकरं तथा || २६५ || वाराहञ्च तथा मैषं श्राद्धे देयानि सर्वशः | अकलौ तु गवां मांसं सारमेयञ्च तत्त्ववित् || २६६ || हीनेन्द्रियं छागलञ्च न कृष्यं [यन्मांसं] तच्च वर्जयेत् | कृष्णच्छागस्य मांसेन पितॄन् यस्तु प्रतर्पयेत् || २६७ || निराशाः पितरो यान्ति शापं दत्त्वा सदारुणम् | हीनेन्द्रियछागमांसैर्यस्तु पितॄन् प्रतर्पयेत् || २६८ || महाभयकरं प्रोक्तं तस्मात्तत् परिवर्जयेत् | माहिषं द्वादशाब्देन तृप्तिर्भवति शाश्वती || २६९ || सांवत्सरन्तु आजेन च्छागैः पार्वति [शैलेयैः] षट्समाः | चामरेण शतं वर्षं साहस्रं गोधया प्रिये || २७० || सण्माषञ्च वराहेण [वरारोहे] कूर्मेण मासमात्रकम् [च मासत्रयम्] | शालूमांसेन [वाराहेण तु] षण्मासं शाशकेन नवैव तु || २७१ || प्. २०३) द्वाविंशन्मासकञ्चैव क्षुद्रवाराहके तथा | शताब्दं [षडब्दं] चामरेणैव स्थूलमांसन्तु वर्जयेत् || २७२ || यत्र वर्ज्यं भवेत् पुंभिश्चतुर्भिः षड्भिरेव च | अतिस्थूलमिति प्रोक्तं तस्मात् तत् पूर्वसूरिभिः || २७३ || माहिष्यञ्च [माहिषस्य च गव्यस्य] वा गव्यञ्च वराहस्य मम प्रिये | मार्गस्य वृहदाजस्य स्थूलस्यापि हि शस्यते || २७४ || खाड्गं पाञ्चनखं भक्ष्यमभक्ष्यं खड्गसंयुतम् | चतुर्नखं वारिजातं वर्जयेच्च मम प्रिये || २७५ || गोधिकां स्वर्णखड्गञ्च चामरं कृष्णमेव च | वर्जयेत् कूर्मकं विद्वान् यदि चक्रेण चिह्नितम् || २७६ || सिंहशुण्डं रोहितञ्च राजीवं चित्रर्क तथा | महाशल्कं प्रौष्ठिकञ्च मत्स्यं च पार्वतीयकम् || २७७ || बृहद्रोहितमत्स्यञ्च बृहत् प्रौष्ठिकमेव च | बृहच्छल्कञ्च चित्रञ्च श्राद्धे यत्नेन योजयेत् || २७८ || मत्स्यांश्च शल्कहीनांश्च सर्पाकारांश्च वर्जयेत् | शल्कहीनस्य मध्ये तु प्रदेय कचकद्वयम् || २७९ || प्रेताकारादिकं यच्च विकृताकारमेव यत् | सर्पास्यान् पीवरांश्चैव रजनांश्च विवर्जयेत् || २८० || जीवांशं शेलुकञ्चैव पद्मकं कुङ्कुमं तथा | स्वर्णकं ग्रन्थिवर्णञ्च श्राद्धे यत्नेन वर्जयेत् || २८१ || प्. २०४) धूम्रञ्च पञ्चकदलं शर्कराकीटसंयुतम् | महिषस्य घृतं [क्षीरमाज्यं श्राद्धे यत्नेन वर्जयेत्] क्षीरमाज्यं श्राद्धे विवर्जयेत् || २८२ || नारिकेलञ्च तालञ्च खर्जूरं पीनसं तथा | तक्रं घृतं विना क्षीरं प्रयत्नेन विवर्जयेत् || २८३ || दीपं वर्जेद्रंध्रवर्त्या प्रत्यक्षं तैलमेव च | कुसुम्भं नालिकाशाकं मालतीकुसुमं तथा || २८४ || वृद्धिश्राद्धे पङ्कजञ्च करवीराणि वर्जयेत् | न प्रदद्यात्तु गाङ्गेयं पद्या रक्तजलोद्भवम् || २८५ || विना वस्त्रेण यच्छ्राद्धं विना यज्ञोपवीतकम् | विना तिलेन देवेशि विना गव्येन निष्फलम् || २८६ || अभावे चैव वस्त्रस्य कुशमाल्यं निवेदयेत् | अभावे यज्ञसूत्रस्य सूत्रयुग्मं तु विन्यसेत् || २८७ || शूद्रश्राद्धे च स्त्रीश्राद्धे यज्ञसूत्रं विवर्जयेत् | ताम्बूलेन विना [कृतं] श्राद्धं पर्णचूर्णेन [विना चूर्णेन] शाङ्करि || २८८ || अभावे जीवकं दद्यात् पायसं मधुसंयुतम् | एकजातीयपात्रे तु दद्यादन्नं समाहितः || २८९ || दैवतं प्रथमं दद्यात् पितृपात्रे निवेदयेत् | पितृशेषन्तु दैवे तु पुनरन्नं कदाचन [न दापयेत्] || २९० || निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित् | वृद्धौ तु क्षालयेदन्नं संक्रमे ग्रहणेषु च || २९१ || प्. २०५) अष्टमुष्टिप्रमाणेन ब्राह्मणेन्नं [ब्रह्मणे नैकसंक्रमात्] निवेदयेत् || २९२ || अतोऽधिकञ्च न्यूनञ्च न दद्यात् श्राद्धकर्मणि | यः श्राद्धं पद्मपत्रे च करोति सुमनोहरम् [-रे] || २९३ || वर्षाणान्तु [तस्य पिता शतं वर्षं तृप्तो भवति] शतं साग्रं तृप्तिर्भवति नान्यथा | अश्वत्थस्यच्छदे देवि ब्रह्मपात्रे च शाङ्करि || २९४ || षण्मासं जायते तृप्तिरनन्तं वटपत्रके | मासैकं ताम्रपात्रे च रुक्मपात्रे तु वत्सरम् | रौप्ये दशगुणं प्रोक्तं खड्गपात्रे शतोत्तरम् || २९५ || एकजातीयपात्रे तु मृताहे श्राद्धकर्मणि | पार्वणे च तथा वृद्धौ पृथक्जातींश्च योजयेत् || २९६ || संवत्सरं भवेत्तावद् ब्रीहींश्चैव नियोजयेत् | वर्षाद्भवति यो ब्रीहिः प्रेतश्राद्धे विवर्जयेत् || २९७ || धान्यं वर्षासमुद्भूतं तिलं यावानकञ्च [यावं च चनकम्] यत् | यज्ञादौ च तथा श्राद्धे द्विः स्विन्नं परिवर्जयेत् || २९८ || षष्टिधान्यं राजधान्यं बृहद्धान्यञ्च बल्लभम् | सोमधान्यं शिश्नधान्यं वङ्गानि रक्तशालिकम् || २९९ || केतकीं कलविङ्कञ्च धान्यं नारायणं तथा | माधवञ्च प्रदीपञ्च विष्णुधान्यञ्च बल्लभम् || ३०० || भोग्यधान्यमशोकञ्च नागाक्षं पञ्चकं तथा | धान्यानि श्राधयोग्यानि वेदेषु च नियोजयेत् || ३०१ || गोधूमांश्च यवांश्चैव अपूपांश्च महेश्वरि | नीवारांश्च तथा श्राद्धे देवधान्यं तथा परम् || ३०२ || प्. २०६) वसन्ते रोपितं धान्यं यत्नेन च विवर्जयेत् | तदत्र भक्षणादेव पापं संक्रमते नृणाम् || ३०३ || भक्षणे श्रावणान्नस्य दरिद्रश्चाभिजायते | भक्षणे सोमधान्यस्य व्रतं चान्द्रायणञ्चरेत् || ३०४ || भक्षणे वृद्धधान्यस्य विभवो जायते किल | राजधान्यं शिश्नधान्यं [सिस्न-] भक्षणाद् विष्णुलोकभाक् || ३०५ || रक्तशाल्योदनं भुक्त्वा विजयश्रीमवाप्नुयात् | नारायणं माधवस्य भोगञ्च मम सुन्दरि || ३०६ || धान्यन्तु यावसं भुक्त्वा नरः ख्यातिमवाप्नुयात् | निमन्त्रितं ब्राह्मणञ्च यदि श्राद्धे विवर्जयेत् || ३०७ || दारुणं नरकं गच्छेद् यावदाभूतसंप्लवम् | निमन्त्रितो यदि गृहे भुङ्क्ते विप्रः कथञ्चन || ३०८ || स गच्छेत् कालसूत्रञ्च शौकरीं योनिमाविशेत् | निमन्त्रितो व्रतस्थश्च ब्रह्मचार्यथवा पुनः || ३०९ || नातिक्रामेच्च तत् श्राद्धं न दोषो मधुभक्षणे | सद्योघृतं सदाधान्यं मांसं तैलं तथैव च || ३१० || व्रतस्थभक्षणे देवि न दोषः पितृयज्ञके | गयाश्राद्धे प्रेतपक्षे तथानुमरणे प्रिये || ३११ || ग्रहणे तीर्थश्राद्धे च न जिघ्रेत् पिण्डकं प्रिये [सदा] | मुक्तितीर्थं विना विप्रा नानुगच्छेत् स्वकं पतिम् || ३१२ || प्. २०७) पृथक् चितां नानुगच्छेन्मुक्तिमार्गेषु सर्वदा | क्रिया कार्या दशाहेन अन्यत्र तु निवारकम् || ३१३ || उद्बन्धनमृतञ्चैव तथा जलगते शवे | पर्युषिते शवे चैव क्षयकुष्ठिशवे तथा || ३१४ || ब्राह्मणो नानुगच्छेच्च मुक्तितीर्थादृते प्रिये | बहुपुत्रा सगर्भा च तथा चैव रजस्वला || ३१५ || पतिता कुलटा चैव असती न कदाचन | ततोऽनुगमनार्थञ्च एकाहं स्थापयेत् शवम् || ३१६ || अनुगच्छेत् परेद्युश्च न दोषस्तत्र जायते | विदेशमरणे चैवभर्तुर्यद्वस्तु विद्यते || ३१७ || तद्द्रव्यं हृदये कृत्वा क्षत्रादीनामनुव्रजेत् | भावावगुण्ठिता [भावानुरक्ता] वाथ सती शूद्रा भवेत् क्वचित् || ३१८ || तस्यानुमरणं कुर्याद् वैश्यायाश्च विधिः स्मृतः | तृतीयायां मृतो भर्ता चतुर्थ्यामप्यनु व्रजेत् || ३१९ || भर्तुरेव तिथौ तस्याः कुर्यात् संवत्सरे बुधः | एकत्र मरणे देवि पिण्डमेकत्र निर्वपेत् || ३२० || युगपत् कारयेत् श्राद्धं पौर्वापर्यं [पृथक् श्राद्धं न कारयेत्] न कारयेत् | दम्पत्योश्चैव पिण्डञ्च वर्तुलं कारयेन्नरः || ३२१ || वस्त्रेणावरणं कुर्यान्मधु क्षीरं निपातयेत् | न पिण्डेन सह क्षीरं शुष्काम्रं न कदाचन || ३२२ || प्. २०८) न घृतं माहिषाज्यञ्च धात्रिकं लकुचं तथा | दाडिमं बीजपूरञ्च उर्वारुकफलं तथा || ३२३ || जम्बूफलञ्च पद्माक्षं कदलीं रामकं त्यजेत् | कशेरुञ्च युगानञ्ज कपिलाक्षीरमेव च || ३२४ || तथा जम्बूफलं पक्वं श्राद्धे देयानि यत्नतः | अपक्वं [ब्रह्मसंसमधुक्षीरं] कीटदुष्टञ्च मूलकं करमर्दकम् || ३२५ || बिल्वञ्च तिन्दुकञ्चैव मधुकं मधुरीं तथा | जम्बूफलञ्च पद्माक्षं जीवन्तीञ्च निवेदयेत् || ३२६ || ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं सुवचसोदितम् [कुर्याद्यथोदितम्] | कुलधर्ममनुज्ञाय दातव्यं मन्त्रपूर्वकम् || ३२७ || त्रिभिर्वर्णैर्वरैः शूद्रैर्देयं विप्रानुशासनात् | मन्त्रवर्जञ्च विधिवद् वह्निपाकविवर्जितः || ३२८ || पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च | शिखरेषु गिरीन्द्राणां पुण्यदेशे तु शाङ्करि || ३२९ || सरित्सु पुण्यतोयेसु सरित्सु च नदेषु च | सङ्ग्रामेषु नदीनाञ्च सागरेषु च सप्तसु || ३३० || देवतायतने चैव गोष्ठे च धात्रीमूलके | दिव्यपादपमूलेषु तुलसीमध्यगेषु च || ३३१ || दशार्णेषु कुमार्येषु मगधेषु कुशेषु च | विरजस्योत्तरे तीरे लौहित्यस्य च दक्षिणे || ३३२ || प्. २०९) दक्षिणे नर्मदायाश्च आगस्त्यस्य च दक्षिणे | पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते || ३३३ || श्राद्धं देयं वदन्तीह मासि मासि उपक्षये | पौर्णमासीषु श्राद्धञ्च कर्तव्यमक्षगोचरे || ३३४ || नित्यश्राद्धं सदैवञ्च मनुष्यैः सह गीयते | नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा || ३३५ || काम्यानि यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः | वृद्धिश्राद्धं च कर्तव्यं कर्माकर्मादिकेषु च || ३३६ || तत्र स्नानं हि जानीहि मातृपूर्वन्तु शाङ्करि | कन्यागते सवितरि दिनानि दश पञ्च च || ३३७ || पार्वणेन विधानेन श्राद्धं कुर्याद्विचक्षणः | यो ददाति गुडैर्मिश्रान् तिलान् वा श्राद्धकर्मणि || ३३८ || मधुना मधुमिश्राणि चाक्षयं मनुनैव यत् | कृत्तिकासु पितॄनर्च्य मुक्तिमाप्नोति मानवः || ३३९ || अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् | मधासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च || ३४० || नक्षत्रेष्वपि चान्येषु कर्तव्यं कामचारतः | अपि नः पितरो यस्य मृताः शस्त्रेण चाहवे || ३४१ || तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता | यदा पञ्चदशश्राद्धं कर्तव्यं काम्यभावतः || ३४२ || चतुर्दश्यां समेतञ्च षोडश श्राद्धमिष्यते | दशम्यादिकमारभ्य पञ्चम्यादिकमेव च || ३४३ || प्. २१०) तदा वर्ज्यं चतुर्दश्यां तिथौ दैवान् समाचरेत् | श्राद्धं कुर्यादमावस्यां मासि मासि तदा क्वचित् || ३४४ || सर्वान् कामानवाप्नोति मृते [स नरः] च स्वर्गमश्नुते | नित्यश्राद्धे तर्पणे च सुरार्चा नित्यपूजने || ३४५ || भोजने ब्राह्मणानाञ्च दक्षिणा नहि विद्यते | श्राद्धाशक्तौ प्रेतपक्षे ब्राह्मणान् भोजयेत् प्रिये || ३४६ || देवेभ्योऽत्र जलं दद्यादेवञ्चापि निवेदयेत् | पित्रोश्च जीवतोर्देवि यज्ञादौ श्राद्धवासरे || ३४७ || भोजयेद्भक्ष्यभोज्यैश्च फलैश्च विविधैरपि | अभोजिते हतो यज्ञः श्राद्धञ्चापि हतं भवेत् || ३४८ || वृद्धिश्राद्धे पार्वणे च नित्यश्राद्धं विवर्जयेत् | ब्राह्मणानां बहूनाञ्च भोजने च महेश्वरि || ३४९ || राजसूयाश्वमेधाय यदिच्छेद् दुर्लभं पदम् | गयां गङ्गां ततो गत्वा कुर्यात् श्राद्धं विधानतः || ३५० || अप्यम्बुशाकमूलाभैः शक्तुभिर्यावनीयकैः | तावत् पितृपुरी शून्या यावद् विष्णोः प्रबोधनम् || ३५१ || प्रबोधे समतिक्रान्ते पित्रा वा दैवतैः सह | निश्वस्य प्रतिगच्छन्ति शापं दत्वा सुदुष्करम् || ३५२ || गयाश्राद्धं गयास्नानं तथा च तिलतर्पणम् | खड्गपात्रेण देवेशि जीवत्पितृको वर्जयेत् || ३५३ || प्. २११) सोमवारेऽमावास्यायां मौनं स्नानं विवर्जयेत् | यस्य माता मृता देवि सोऽपि [तस्य मातृगया प्रिये] मातृगयां व्रजेत् || ३५४ || यदि श्रेष्ठः [प्रेतः] पिता देवि पितृव्यमरणेऽपि वा | मातापित्रोर्जीवतोश्च [मातृ पित्रोश्च मरणे विचार्य गयां व्रजेत्] न कदापि गयां व्रजेत् || ३५५ || पितृपिण्डं प्रदद्यात्तु ततश्चापि पैतामहम् | प्रपितामहस्य [प्रपितामहपिण्डं वै दद्यात् श्रास्रोषु] पिण्डेऽपि एवं शास्त्रेषु निश्चितम् || ३५६ || मृतेषु पिण्डं दातव्यं ब्राह्मणांश्चापि भोजयेत् | सपिण्डीकरणं नास्ति न च पार्वणमिष्यते || ३५७ || दक्षिणापूरणं सिद्धं विविक्तं शुभलक्षणम् | शुचिं देशं विविक्तञ्च गोमयेनोपलेपयेत् || ३५८ || पावकं भूमिभगे च पितॄणां पिण्डं [नैव निर्वपः (?)] निर्वपेत् | शमनीयग्रहे देवि पापागारं विवर्जयेत् || ३५९ || भिक्षुको ब्रह्मचारी च भोजनार्थमुपस्थितः | उपविष्टेषु श्राद्धेषु कामभृदपि पूजयेत् || ३६० || सह क्रियां देशकालौ द्रव्यब्राह्मणसम्पदः | पञ्चैते पितरो घ्नन्ति तस्याङ्गे हेतुविस्तरम् || ३६१ || प्. ३१२) अपि वा भोजयेदेवं ब्राह्मणं वेदपारगम् | भूयोऽपि देवसन्तुष्ट्यै तत् कर्यं वा करोति यः || ३६२ || न काम्यं तद् भवेत् श्राद्धं तन्त्रेणापि समापयेत् | वैश्वदेवस्य चारम्भे तत् श्राद्धञ्च विवर्जयेत् || ३६३ || प्रासादीकरणे चैव यात्रायां गृहकर्मणि | न विद्यते श्यामपक्षे तत्र स्नानं विवर्जयेत् || ३६४ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे पञ्चमः पटलः | षष्ठः पटलः भगवानुवाच द्वितीयेऽन्यदिने [अनुदिने] देवि यत् कृत्यं शृणु पार्वति | चक्रतीर्थे नरः स्नात्वा सर्वपापाद्विमुच्यते || १ || लौहित्यदक्षिणं गत्वा वायव्ये कोलपर्वतः | तस्य पश्चिमदिग्भागे पाण्डुनाभो महावली || २ || तस्य वायव्यभागे तु धनुर्द्वादशकं सरः | ब्रह्मकुण्डमिति ख्यातं सर्वपापप्रणाशनम् || ३ || किं जप्यैः किं तपोभिश्च किं दानैः किं हुतैरपि | ब्रह्मकुण्डे नरः स्नात्वा सिद्धिं विन्दति तत्क्षणात् || ४ || प्. २१३) ईश्वरानुज्ञया पूर्वमूषितं ब्रह्मणा पुरा | स्नानार्थं सम्प्रधावन्ति तत्तीर्थं देवदानवाः || ५ || ऋषयः सिद्धगन्धर्वास्तीर्थानि च सरांसि च | माहात्म्यमण्डलं [-मुत्तममं] तस्य ब्रह्मकुण्डस्य सुन्दरि || ६ || त्वरया [तीरेण] स्नात्वा विधिवद् दानं दद्याद् यथाविधि | मणिकाञ्चनरत्नानि यथाविभवमात्मनः || ७ || सम्भवे सति यो मोहान् न स्नाति स [च] नराधमः | पच्यते नरके घोरे यावदिन्द्राश्चतुर्दश || ८ || तस्य दक्षिणदिग्भागे धनुःपञ्चप्रमाणतः | लौहित्यं [लौहित्यनामतः] नाम तत्तीर्थं स्नानान्नश्यति पातकम् || ९ || स्नानेन तीर्थराजस्य तथा सर्वाघसंक्षयः | तीर्थराजसरः पुण्यं सर्वतीर्थफलप्रदम् || १० || भूतानि यानि तीर्थानि सरितश्च सरांसि च | विशन्ति सर्वतीर्थानि [तानि सर्वाणि] तीर्थराजे सुनिश्चितम् || ११ || राजा [यथा] समस्ततीर्थानां सागरः सरितां पतिः | तस्मात् [तथा] समस्ततीर्थेषु श्रेष्ठोऽसौ सर्वकामदः || १२ || तमोनाशं यथाज्योतिर्भास्करे उदिते प्रिये | स्नानेन तीर्थराजस्य तथा सर्वाघसंक्षयः || १३ || प्. २१४) तीर्थराजसमं तीर्थं न भूतं न भविष्यति | अधिष्ठानं सदा यत्र प्रभोर्नारायणस्य वै || १४ || कः शक्नोति गुणान् वक्तुं तीर्थराजस्य मे प्रिये | तिस्रो नवत्यः [नवतायुतानि] कोट्यश्च यत्र तीर्थानि सन्ति वै || १५ || तस्मात् स्नानञ्च दानञ्च होमं जाप्यं सुरार्चनम् | यत् किञ्चित् क्रियते पुण्यं चाक्षयं भवति प्रिये || १६ || नमस्ते ब्रह्मपुत्राय नमः शान्तनुसूनवे | त्रिजन्मनश्च [त्रिजन्यजञ्च] यत् पापं हर लौहित्य सर्वदा || १७ || इत्यनेन तु मन्त्रेण स्नात्वा चार्घ्यं निवेदयेत् | पूजयेत् परया भक्त्या मन्त्रेणानेन भाविनि || १८ || तीर्थानां [तीर्थराजवर षष्ठ (श्रेष्ठ)] परमं श्रेष्ठं हंसं वामाक्षिसंयुतम् | शासनं हृदयं वह्नेः प्रिया ध्रुववपुः सरः || १९ || तस्य दक्षिणतो भागे नातिदूरे च संस्थितः | कुलं धान्वन्तरं यावद् विष्णुकुण्डमिति श्रुतम् || २० || विष्णुकुण्डे नरः स्नात्वा (सं)वीक्षेत पाण्डु शौनकम् | गुरु चारुशिलारूपम् अग्रे मञ्जुसमन्वितम् || २१ || पञ्चानामश्वमेधानां फलं प्राप्नोति मानुषः | प्राणस्थं सर्वभूतानां योनिश्च सरितां पतिः || २२ || विष्णुकुण्ड नमस्तेऽस्तु त्राहि मां सर्वकिल्विषात् [मुच्यते प्रिये] | स्नात्वानेन वरारोहे एकादश्याञ्च फाल्गुने || २३ || प्. २१५) सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः | वृन्दारकाह्वयः [-समः] श्रीमान् रूपयौवनगर्वितः || २४ || विमलेनार्कवर्णेन दिव्यगन्धर्वसेविना | कुलैकविंशमुद्धृत्य विष्णुलोकञ्च गच्छति || २५ || तस्य दक्षिण कोष्ठायां किञ्चिन्नैर्-ऋत्यगोचरे | एकादशधनुर्मानं शिवकुण्डमिति श्रुतम् || २६ || तत्राभिषेकमात्रेण रुद्रलोकं स गच्छति | शिवकुण्डे चतुर्दश्यां मासि मासि मम प्रिये || २७ || स्नात्वारुणोदये काले न प्रेतो जायते भुवि | तीर्थानां परमं तीर्थं विष्णुस्नानसमुद्भवम् || २८ || सरित्पते नमस्तेऽस्तु त्राहि मां त्वं शिवप्रियः | स्नात्वा चानेन मन्त्रेण हंसेनार्घ्यं निवेदयेत् || २९ || ततो व्रजेत् पाण्डुशैलं गन्धतोयेन स्नापयेत् | पूजयेत् कमलैः श्वेतैः करवीरैः सितैः शुभैः || ३० || विष्णवे पदमाभाष्य पाण्डुनाथाय सत् पदम् | जवाढ्यञ्च [पूजाढ्यञ्च] नतिः पश्चादुद्धरेत् जनकादिषु || ३१ || चतुर्दशार्णो [चतुर्दशवर्णो यस्य तत्] बालो यत् शिखान्तं समुदीरितम् | नारदोऽस्य ऋषिश्छन्दो गायत्री देवता हरिः || ३२ || विनियोगश्च सर्वार्थे काम्येषु च विशेषतः | श्वेतञ्च द्विभुजं विष्णुं चक्रशङ्खलसत्करम् || ३३ || प्. २१६) वरदं देवगग्धर्व सेवितं [सर्वलोकेशं वरदं देवगन्धर्वसेवितं] कामदं सदा | ध्यानं कृत्वार्चयेद्धीमान् पात्रपूर्वादितः क्रमात् || ३४ || लक्ष्मीं सरस्वतीं गङ्गां यमुनां नर्मदां शिवाम् | बालाञ्च कमलाञ्चैव तथा सङ्कर्षणादिकम् || ३५ || दिक्पतींश्च ग्रहांश्चैव विश्वक्सेनं प्रपूजयेत् | लौहित्ये विधिवत् स्नात्वा पाण्डुनाथ प्रपूजयेत् || ३६ || सर्वपापविनिर्मुक्तो विष्णुलोके महीयते | मन्वन्तरगतं साग्रं [यावत्] जरामृत्युविवर्जितः || ३७ || पुण्यक्षयादिहागत्य कुले सर्वगुणान्विते | जायते [जन्मपरिग्रहं कृत्वा प्रेतवत् (?)] प्रेतवन्नैव धार्मिको याति वैष्णवम् || ३८ || मन्त्रं जप्त्वार्चयेदेवम् इष्टमन्त्रेण पूजयेत् | पाण्डुनाथ नमस्तेऽस्तु नमस्ते मोक्षकारक || ३९ || त्राहि मां सर्वलोकेश विष्णुरूप नमोऽस्तु ते | निर्मलाम्भोदसङ्काश [निर्मलार्कस्य] नमस्ते पुरुषोत्तम || ४० || नमस्ते पुण्डरीकाक्ष पाण्डुनाथ नमोऽस्तु ते | नमस्ते हेमगर्भाभ [हेमगर्भाय] नमस्ते गरुडध्वज || ४१ || ब्रह्मरूप नमस्तेऽस्तु नारायण नमोऽस्तु ते | नमस्तेऽञ्जनसङ्काश नमस्ते भक्तवत्सल || ४२ || पाण्डुनाथ नमस्तेऽस्तु त्राहि त्राहि नमोऽस्तु ते | नमस्ते विबुधावास नमस्ते विबुधप्रिय || ४३ || प्. २१७) नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् | नमस्ते विबुधश्रेष्ठ नमस्ते कमलोद्भव || ४४ || चतुर्मुख जगद्धाम पाण्डुरूप नमोऽस्तु ते | नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित || ४५ || त्राहि विष्णो जगन्नाथ पाण्डुरूप नमोऽस्तु ते | नरसिंह महावीर्य त्राहि मां दीप्तलोचन || ४६ || विष्णुरूप नमस्तेऽस्तु पाण्डुनाथ नमोऽस्तु ते | देवस्य नैर्-ऋते भागे धनुःपञ्चप्रमाणतः || ४७ || अश्वत्थचिह्नितं क्षेत्रं धर्मक्षेत्रं विजानीहि | संहितां प्रजपेत्तत्र गीतशास्त्रश्च सञ्जपेत् || ४८ || चतुर्युगेन सञ्जप्यं मन्त्रेणैव च तत् फलम् | लभते नात्र सन्देह एकावर्ते सहस्रकम् || ४९ || क्षेत्रस्यारोहणाद्देवि कुरुक्षेत्रफलं लभेत् | देवस्य पूर्वभागे तु धनुस्तावत् प्रमाणतः || ५० || स्वच्छाकृतिश्चारुशिला सा लक्ष्मीः परिकीर्तिता | श्रीबीजेन समभ्यर्च्य मालतीकुसुमैर्यजेत् || ५१ || विष्णुकुण्डे ततः स्नात्वा लक्ष्मीं जप्त्वा विधानतः | पौर्णमास्यां तुलार्के तु लक्ष्मीस्तस्य प्रसीदति || ५२ || तस्य दक्षिणदिग्भागे नातिदूरे च शाङ्करि | धनुरष्टप्रमाणञ्च कोलक्षेत्रं विजानीहि || ५३ || अश्वत्थमूले देवेशं कृष्णचारुशिलामयम् | लोलं दृष्ट्वार्चयेद्भक्त्या विष्णुलोकं स गच्छति || ५४ || प्. २१८) ब्रह्मकूटस्य धनदे श्रीकुण्डं नाम वै सरः | धनुर्युग्मप्रमाणेन तत्र स्नात्वा श्रियं लभेत् || ५५ || चैत्रे शुक्लदशम्याञ्च एकादश्यां सिते शिवे [तरे] | मन्त्रेन स्नात्वा श्रीतीर्थे गतिमाप्नोत्यनुत्तमाम् || ५६ || श्रीरस्तु भगवच्श्रेष्ठ [भगवच्छ्रेष्ठ] आरोग्यविजयप्रद [-प्रदम्] | श्रियं देहि यशो देहि पापं हर नमोस्तु ते || ५७ || तस्य पूर्वे च द्वाविंशद् धनुरेव प्रमाणतः | तीर्थं कनखलं प्रोक्तं महापातकनाशनम् || ५८ || वैशाखस्य तृतीयायां शुक्लपक्षे विशेषतः | दक्षिणामूर्तिमन्त्रेण स्नात्वा स्वर्गे महीयते || ५९ || सरिच्छ्रेष्ठ महाभाग देवगन्धर्वसेवित | दशजन्मार्जितं पापं हर तीर्थं नमोऽस्तु ते || ६० || तस्य दक्षिणभागे तु पर्वते च मनोहरे | धनुर्वेदप्रमाणञ्च चम्पकेशं समर्चयेत् || ६१ || कनखलं समुपस्पृश्य शुचिभावसमन्वितः | मुच्यते सर्वपापैश्च ब्रह्मलोकं व्रजेद् यतः || ६२ || तस्य पूर्वे सप्तधनुः शुभे देवि प्रमाणतः | तीर्थं त्रैलोक्यविख्यातं ब्रह्मणः परमेष्ठिनः || ६३ || पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् | मनसा संस्मरेद् यस्तु पुष्करन्तु महेश्वरि || ६४ || प्. २१९) मुच्यते पातकैः सर्वैः शक्रेण सह मोदते | तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः || ६५ || उपासते सिद्धसङ्घा ब्रह्माणं पद्मसम्भवम् | तत्र स्नात्वा भवेन्मुक्तो ब्रह्माणं परमेष्ठिनम् || ६६ || पूजयित्वा हि वरदं ब्रह्माणञ्च प्रपश्यति | तदाभिगम्य देवेशं पुरूहूतमनिन्दितम् || ६७ || स्वरूपो जायते मर्त्यः सर्पान् कामान् समश्नुते | कमलास्य [हे पुष्कर] महाभाग नमस्ते च त्रिपुष्कर || ६८ || हु/ हू/ हौं सरितां नाथ पापं मे हर पुष्कर | अनेन स्नानं कुर्यात्तु अनेनार्घ्यं निवेदयेत् || ६९ || पुष्करस्य च नैर्-ऋत्ये किञ्चिद्वामे मम प्रिये | अष्टाविंशद्धनुर्मानं तीर्थं वदरिकाश्रमम् || ७० || तत्र गत्वार्चयेद्देवं नारायणमनामयम् | गोसहस्रफलं प्राप्यं [प्राप्तं] स्नात्वाभ्यर्च्य हरेर्दिने || ७१ || नारायणस्याश्रमे तु यः कुर्याद्रोहिणीव्रतम् | एकेन शतकोटीनां व्रतस्य फलमाप्नुयात् || ७२ || तत्र लिङ्गं महेशस्य विभाण्डकमिति श्रुतम् | प्रासादेन समभ्यर्च्य रुद्रत्वमधिगच्छति || ७३ || पञ्चगोदावरं तीर्थं ब्रह्माद्यैः सेवितं परम् | पूजयित्वा तत्र रुद्रं प्रसन्नं परमेश्वरम् || ७४ || प्. २२०) आराधयामास हरं पञ्चाक्षरपरायणम् | पूजयित्वा नमस्कुर्याद् गोशतानां फलं लभेत् || ७५ || पुष्करस्य च पूर्वे तु कुमारं नाम वै सरः | कुमारतीर्थे यः स्नायाद् गाणपत्यञ्च विन्दति || ७६ || कुमारतीर्थस्याग्नेये पञ्चाशद्धनुरायतम् | नरमारण्यकं देवि [तीर्थं] सर्वदेवगणैर्वृतम् || ७७ || कुमारेशपुरे वासो विष्णोः प्रियहिते [प्रियाहिते] रतः | ओं ओं ईं हूं जगद्व्याप्त पापं हर कुमारक || ७८ || अनेन मज्जनं कृत्वा सुरेशार्घ्यं निवेदयेत् | तत्र देवो महादेवः स्थाणुरित्यभिधीयते || ७९ || तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत् क्षणान्नरः | चम्पकेशस्य धनदे धनुर्द्विषष्टिमानतः | तद्वनं चम्पकं नाम सिद्धब्रह्मर्षिवन्दितम् || ८० || पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः | ब्रह्मकूटस्य धनदे शिलापञ्चकमध्यगम् || ८१ || दुर्गाकूपं महाकूपं सर्वतोद्वारमेव हि | दशाक्षरेण मन्त्रेण स्नात्वा कामानवाप्नुयात् || ८२ || दुर्गाकूपे तथाष्टम्यां स्नात्वा काममनुं जपन् | त्रिकृत्वा पञ्चमं वाथ कृष्णविजयपुष्पकैः || ८३ || पूजयित्वा परं देवं नरः श्रुतिधरो भवेत् || ८४ || प्. २२१) काकवन्ध्या तु या नारी मृतापत्या च या भवेत् | सापि तद्गतिमाप्नोति शरत्काले विशेषतः || ८५ || बन्धूकैः पूजयेत्तत्र देवीं कामेश्वरीं यदि | बिल्वपत्रेण देवेशि शाश्वतीं सिद्धिमाप्नुयात् || ८६ || साधयेदीप्सितान् कामान् तत्र सिद्धिञ्च विन्दति | कौलश्च विष्णुशैलश्च शङ्करः परमेश्वरः || ८७ || ईशश्च पारिजातश्च कुमारश्च गणेश्वरः | नीलश्वेतो भूभागे उत्तरे संस्थिताचलः || ८८ || मध्ये विष्णुस्तथा स्थाणुरथ धर्मबलस्तथा | कमलश्च शिखा चैव कपोतो मरुताचलः || ८९ || आग्नेये [इतः पूर्वं पूर्वे पानकूपादिश्च पर्वतः परिकीर्तितः | इत्यधिकः पाठः] चाचलो देवि हस्तिकर्णो विकर्णकः | अमाचलो दक्षिणे तु मरुवकोऽथ प्रजेश्वरः | द्युमन्तः कनकश्चैव वायव्यो नीललोहितः || ९० || मानशैलः कामाह्वयो वह्निरिन्द्रः शतक्रतुः | लोहितः कमलश्चैव नैर्-ऋते निर्-ऋतिस्तथा || ९१ || गन्धर्वो लक्षणश्चैव पिशाचो विहगाचलः | पश्चिमे ब्रह्मयूपश्च हयमेधो गिरीश्वरः || ९२ || उत्तरे उत्तरश्चैव तथा चोत्तरपाण्डुकः | आदित्यो वायुकोणे तु वायुर्भल्लातकस्तथा || ९३ || प्. २२२) धनदश्च महीध्रश्च जनकश्च नलस्तथा | ऐशान्यां मण्डलश्चैव अश्वक्रान्तः सचन्द्रकः || ९४ || यमचित्रवहश्चैव ग्रहश्चैव यथाक्रमात् | ततो गच्छेन्नीलशैलं मध्याह्ने परमेश्वरि || ९५ || अष्टम्याञ्च त्रयोदश्यां चतुर्दश्यामथापि वा | विषुवे अयने वाथ रविसंक्रमणे तथा || ९६ || पूर्वद्वारि यदा गच्छेत् प्राप्नुयाद् विपुलं धनम् | उत्तरे मुक्तिकामस्तु राज्यकामस्तु पश्चिमे || ९७ || यदा दक्षिणमार्गेण आरोहेन्नीलकूटकम् | हतराज्यो भवेद् राजा अन्येषां जायते क्षयः || ९८ || ऐशान्ये तु तदा गच्छेद् विपुलां श्रियमाप्नुयात् | वायव्ये चाग्निनैर्-ऋत्ये महाभयकरं भवेत् || ९९ || नीलं दशभुजं शान्तं मणिकुण्डलमण्डितम् | नागहारोत्तरीयञ्च वृषभस्थं विचिन्तयेत् || १०० || पूजयेद् वह्निबीजेन नमस्कृत्य विधानतः | मन्त्रेणारोहयेत् शैलम् अश्वमेधफलं लभेत् || १०१ || पूर्वद्वारे गृहस्यैव आरोहेन्नीलपर्वतम् | नीलश्चैव [नीलो ह्येष] महाबाहो धर्मकामार्थमोक्षद || १०२ || आरोहयामि शिखरं पापं हर प्रसीद मे | दुर्गाकूपे तु पूर्वस्यां देवमाम्नातकेश्वरम् || १०३ || प्. २२३) धनुस्त्रयान्तरे देवि पूजयेत् केशवादिना | तस्य देवस्य याम्ये तु धनुरष्टान्तरे प्रिये || १०४ || गजाकारं कृष्णवर्णं पूजयेद्गणनायकम् | तस्य पूर्वेणैव धनुः संस्थितश्च त्रिविक्रमः || १०५ || तं प्रणम्य नरो भक्त्या सर्वान् कामानवाप्नुयात् | तस्यांशपञ्चकं यावद् धनुरेव प्रमाणतः || १०६ || चत्वारिंशद् हस्तमानं सौभाग्यं नाम वै सरः | क्रीडापुष्करिणी सा तु कामाख्यायाः सुरेश्वरि || १०७ || शक्रेणोपासितः पूर्वं सह दैवैः प्रजापतिः | तस्य पश्चिमतीरे च स्नात्वा तत्र च मण्डलम् || १०८ || कृत्वा सम्यग् विधानञ्च उपवासं समाचरेत् | पञ्चमेऽन्यदिने प्राप्ते जले स्नात्वा विधानतः || १०९ || क्रीडापुष्पकरिणीं गत्वा कामेशीं यस्तु पूजयेत् | पितॄन् सन्तारयत्याशु देवी लोके प्रमोदते || ११० || सौभाग्ये सरिदावर्ते विमले मानसप्रिये | नमोङ्कारौ वषट् स्वाहा पापं हर नमोऽस्तु ते || १११ || मन्त्रेण मज्जनं कृत्वा कामेनार्घ्यं निवेदयेत् | ऐशान्ये तस्य कुण्डस्य लोहित्यो नाम वै सरः || ११२ || ध्रुवेण स्नात्वा देवेशि मुच्यते भवबन्धनात् | अग्नौ कुण्डं कालहस्तं यामलं नाम वै सरः || ११३ || तत्र स्नात्वा च पार्श्वेन रूपवान् जायते भुवि | नैर्-ऋते पञ्चकं हस्तं सौभाग्ये परमेश्वरि || ११४ || प्. २२४) गङ्गासरो विजानीयात् सर्वतीर्थोद्भवं जलम् | कोलाभ्यन्तर्गतं कुण्डं सौभाग्यपरिकीर्तितम् || ११५ || तिस्रःकोट्यर्धकोटी च दिवि भुव्यन्तरीक्षके | सौभाग्ये तानि सर्वाणि मन्दीभूते दिवाकरे || ११६ || तस्मात् समाचरेत् स्नानं कर्तव्यं मकरे रवौ | तुलाविषुवसङ्क्रान्त्यां यस्तु स्नानं समाचरेत् || ११७ || अभार्यो लभते भार्यां देवीलोके प्रमोदते | नैर्-ऋते पञ्चकं हस्तं सौभाग्ये परमेश्वरि | गंगासरो विजानीयात् स्नात्वा विष्णुपुरं व्रजेत् || ११८ || गोधिकाकाररूपेण व्यक्ताव्यक्तशिला च या | अनन्ताख्यं विजानीयात् कुण्डं तस्योपरि प्रिये || ११९ || अनन्तः पश्चिमे पार्श्वे पूर्वे कृष्णशिला च या | वराहं तं विजानीयात् सर्वतीर्थोद्भवं जलम् | अभार्यो [अभार्यो- -भवेत् इत्यधिकः पठाः (क) पुस्तके] लभते भार्याम् अपुत्रः पुत्रवान् भवेत् || १२० || तुलायां वाथ कन्यायां शुक्राष्टम्यां विशेषतः | स्नात्वा संवीक्षयेद्देवीमग्निष्टोमफलं लभेत् || १२१ || तर्पयेत् पुतॄदेवांश्च काम्यानन्यांश्च तर्पयेत् | सर्वतीर्थेषु देवेशि न कुर्यात् काम्यतर्पणम् || १२२ || अस्मिन् कुण्डे अश्वक्रान्ते आगस्त्ये च प्रयागके | वाराणसीह्रदे चैव भार्गवे मेरुपुष्करे || १२३ || प्. २२५) गङ्गाह्रदे ब्रह्मसरे दुर्गाकूपे च भावयेत् | पृथ्वीप्रदक्षिणे यच्च फलं प्रोक्तं महर्षिभिः || १२४ || तत् फलं प्राप्यते तस्य कुण्डस्यैव प्रदक्षिणे | कुण्डस्याग्नेयभागे च तुलादूरे व्यवस्थितम् || १२५ || कम्बलाख्यं शिवं दृष्ट्वा मुच्यते भवबन्धनात् | स्मरेण [स्वरेण] भावयुक्तेन नत्यन्तेन प्रपूजयेत् || १२६ || नमो नमस्ते देवेश मन्त्रवत् स विभूषितः | लक्ष्मीकान्त नमस्तेऽस्तु अनन्त पुरुषोत्तम || १२७ || देवदानवगन्धर्वपादपद्मार्चितः [-त] शुभः [श्रुभ] | नमो वरदलिङ्गाय कमलाय नमो नमः || १२८ || कृष्णाकृतिं विष्णुरूपं नमस्कृत्वा मम प्रिये | स्तुत्वा प्रदक्षिणं कृत्वा ततो देवीगृहं व्रजेत् || १२९ || गत्वा शवासनं जप्त्वा वीक्षेत्तारेण शाङ्करि | पञ्चामृतेन तोयेन स्नपयेत् सुशुभैर्जलैः || १३० || मूलमन्त्रेण तं देवं तेन पात्रेण मार्जयेत् | कामतन्त्रं [काममन्त्रं] कुशीतेन लिखेद्दक्षे मम प्रिये || १३१ || वामे कामं लिखित्वा तु तत्र पूजां समाचरेत् | देव्यङ्गे चित्रके पुष्टिमणौ खड्गे च शाङ्करि || १३२ || श्मशाने च महालिङ्गे प्रतिमायां जले तथा | यन्त्रे तन्त्रे शालग्रामे मण्डलञ्च विसर्जयेत् || १३३ || प्. २२६) महाहोमे मण्डलञ्च महापातकमाप्नुयात् | न गृह्णाति च तत् पूजां पदं [त्यक्त्वा] विष्णोर्ब्रजेत् पुरम् || १३४ || न च योन्यन्तरगतं श्मशानस्य च पूर्वतः | महामण्डलकं देव्याः संस्थितस्तत्र पूजयेत् || १३५ || सप्ताशीति धनुर्मानं रक्षोरक्ता शिला च या | अष्टहस्तं सपुलकं लिङ्गं लक्षार्धसंयुतम् || ११६ || चतुर्हस्तसमं क्षेत्रं पश्चिमे योनिमण्डलम् | बहुमात्रमितञ्चैव प्रस्तारे द्वादशाङ्गुलम् || १३७ || आपातालं जलं तत्र योनिमध्ये प्रतिष्ठितम् | उर्वशी यमुना धारा कावेरी च सरस्वती || १३८ || ब्रह्मकुण्डे समुद्भूतं मणिकूटे च निर्मलम् | याति नास्त्यत्र सन्देहो यो विष्णुं पूजयेद् हृदा || १३९ || प्लावित्वा मण्डलं देव्या व्यक्तं ब्रह्मसरः प्रिये | मासत्रयाधिके षष्टिवर्षे शुष्कबला भवेत् || १४० || द्विमासं त्रिदिनं यावत् [चैव निर्विघ्नं तिष्ठति ध्रुवम्] षण्मासे तु विपत्करम् | (षण्मासं सुस्थिते देवि महावियत्करी स्मृता |) यदा [कुल्यधारा यदा शुष्का विन्मूत्रं सन्त्यजेद् बहिः] कुल्ये शुष्कधारा बाह्ये विण्मूत्रमादिशेत् || १४१ || वर्षे वर्षे यदा शुष्कधारा भवति शङ्करि | बाह्ये भवति दुर्भिक्षं तत्र कश्चिन्न संशयः || १४२ || गर्भे शुष्के स्चामिहा [राज्यनाशः] च सर्वशुष्के च संशृणु [फलं शृणु] | हृतराज्यो भवेद् राजा परराष्ट्रसमागमः || १४३ || प्. २२७) एवमेव [एवं बहुविधा दोषाः सम्भवन्ति वरानने (शान्तिं कुर्याद् विधानेन तद्दोषशमनाय वै |)] भवेद्दोषस्तत्र शान्तिं समाचरेत् | लक्षद्वयं [घृताप्लुतैः करवीरैर्द्विलक्षं होममाचरेत् | पायसैः रक्तपद्मैरथवा श्रीफलैः सुधीः || किं वा त्रिमधुभिर्भद्रे गोधामांसैर्द्विलक्षकम् |] जुहुयाच्च करवीरं घृतान्वितम् || १४४ || पङ्कजं वाथवा रक्तं पायसं वाथ श्रीफलम् | त्रिमध्वाक्तेन देवेशि गोधामांसेन वा सुधीः || १४५ || शर्करा [शर्करामधुसर्पिषां मेलनं त्रिमधु इति] मधुमांसं च त्रिमधु परिकीर्तितम् | आवर्तितेन क्षीरेण आज्ययुक्तेन होमयेत् || १४६ || अनन्तस्य च पाश्चात्ये असिर्नाम स्थिता नदी || १४७ || तत् पश्चिमे च या धारा वरुणा नाम सा नदी || १४८ || तस्याः स्वच्छोदकं पीत्वा न भूयो जायते क्वचित् | सिद्धेश्वरं कोटिलिङ्गं हेमकं मुक्तिमण्डलम् || १४९ || ज्ञेयं [तथा वाराणसी क्षेत्रं] धारा शमीक्षेत्रं देव्या अन्तर्गृहं श्रुतम् | लिङ्गस्थां [पुस्तके प्रतिमायां च स्थण्डिले च महेश्वरि | पादुकायां चित्रपटे तथा खड्गेऽनले जले ||] पूजयेद्देवीं पुस्तके प्रतिमासु च || १५० || स्थण्डिले पदुके (?) चित्रे खड्गे वह्नौ जलेषु च | लौहित्ये चैव गङ्गायां सागरे तीर्थसङ्गमे || १५१ || प्. २२८) प्रतिपीठे बिल्वमूले बिल्वमुखे [लिंगस्थां देवीमर्चयेत्] च शङ्करि | यत्र कामशिला चैव पीठं तन्मणिपूरकम् || १५२ || अन्तर्गृहं महापीठं मणिपीठं [तदेव मणिपीठकम्] तदुच्यते | शिलायां पर्व तस्याग्रे तथा पर्वतगह्वरे || १५३ || देवीं सम्पूजयेन्नित्यं भक्तिश्रद्धासमन्वितः [नरः] | वाराणस्यां यथा [पूर्णफलं द्विगुणं पुरुषोत्तमे] पूजा सम्पूर्णफलदायिनी || १५४ || ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ | सर्वक्षेत्रेषु तीर्थेषु पूजा कामशिलासया [कालगिरिसमं फलम्] || १५५ || सौमारेऽष्टगुणा प्रोक्ता चौहारे चैव तत्समा [तत्समं फलम्] | आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च [श्रीहट्टके] || १५६ || मणिपूरवत् [मणिपूरसमं देवि पूजिता फलदायिनी] फलदात्री श्रीह्रदे च महेश्वरि | (आगस्त्ये चाश्वमेधिके चतुर्गुणफलं भवेत् |) ततश्चतुर्गुणा [तस्य चतुर्गुणं देवि जल्पेश्वरे च निश्चितम्] प्रोक्ता जल्पीश्वरस्य सन्निधौ | विराजते [यत्र विराजते योनिः फलं दशगुणं स्मृतम्] यत्र योनिस्ततो दशगुणा स्मृता || १५७ || प्. २२९) ततश्चतुर्गुणा [तस्य चतुर्गुणं देवि एकाम्रे परमेश्वरि | मणिकूटे शतगुणं मणिशैले सहस्रकम् || जले स्थले वाश्वतीर्थे उक्तं दशगुणं फलम् | जले स्थले कामरूपे पूजनाच्च समं फलम् || प्रोक्ता एकाम्रे परमेश्वरि | तस्मात् शतगुणं भद्रे मणिकूटे महेश्वरि || १५८ || तस्माद्दशगुणा चैव मणिशैले महेश्वरि | ततो दशगुणा प्रोक्ता अश्वतीर्थे जले स्थले || १५९ || तत्समा कामरूपे च सर्वत्रैव जले स्थले | सर्वश्रेष्ठो [देवतानां यथा विष्णुः श्रेष्ठा लक्ष्मीर्महेश्वरी | कामरूपे तथा देवी पूजा सर्वत्र मे स्मृता ||] यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा || १६० || देवीपूजा तथा शस्ता कामरूपे मम प्रिये | देवीक्षेत्रं कामरूपंविद्यतेऽन्यन्नतत्समम् [कुत्रापि तत् समं न च] || १६१ || अन्यत्र विरला देवी कामरूपे गृहे गृहे || १६२ || कामाख्यायां महामाया [महामायां यः पूजयति मानवः | सर्वकाममिह प्राप्य परलोके शिवो भवेत् ||] पूजां यः कृतवान् सकृत् | स चेह लभते कामान् परत्र शिवरूपताम् || १६३ || न तस्य सदृशोऽन्यत्तु कृतं किञ्च न विद्यते | वाञ्छितार्थमवाप्येह चिरायुरभिजायते [नहि तत् सदृशं कार्यमन्यत्र भुवि विद्यते | वाञ्छितार्थं वरो लब्ध्वा चिरायुर्भवति ध्रुवम् ||] || १६४ || प्. २३०) स्नानकालेऽर्धरात्रौ च महापूजावसानके | न [सान्निध्यं महामायाया नैव गच्छेत् स्पृशेन्न च | कुमारेण महाष्टम्यां निशायां च दिनक्षये ||] स्पृशेत्तु महामायां न गच्छेत् सिद्धिमानसः || १६५ || महाष्टम्यां निशाभागे तथा चैव दिनक्षये | युगादौ कार्तिके मासि कौमारैर्न [देवीं पश्येन्न वै नरः] विलोकयेत् || १६६ || देव्या नो राजानं शूद्रो ध्यारतिं वा प्रपश्यति | रूपवान् स भवेद् देवि सद्गतिं लभते ध्रुवम् | विधवा ब्राह्मणी या च सदा [पश्येन् महामायां च सर्वदा] स्नानेन वीक्षयेत् || १६७ || स्नानकाले च मध्याह्ने निर्माल्यस्य विसर्जने | न [न पश्येरन् स्त्रियो देवीं युवत्यश्च विशेषतः] स्त्री देवीं स्पृशेज्जातु युवतिं च विशेषतः || १६८ || पौषाष्टम्यां नवम्याञ्च त्रयोदश्यान्तथैव || त्रिदिनं [न गच्छेत् पार्वतीगेहं कर्कटाद्यदिनत्रये | कालेष्वेतेषु स्पृष्टायां शापं चायुःक्षयो भवेत् ||] कर्कटस्यादौ न व्रजेत् पार्वतीगृहम् || १६९ || स्पृष्ट्वा ददाति शापञ्च दृष्ट्वा चायुःक्षयो भवेत् | दीक्षितेनैव [दीक्षितस्यार्चनां श्रुत्वा नादीक्षितस्य चैव हि | अत एव न दीक्षार्थी रक्ताम्बरधरस्तथा || रक्तचन्दनभूषाढ्यो नागजैस्तिलकक्रियः | मृगचर्मण्युपविश्य दीक्षां गृह्णाति भक्तितः ||] भावेन न चैवादीक्षितेन च || १७० || प्. २३१) रक्ताम्बरधरो भूत्वा रक्तचन्दनभूषितः | नागजैस्तिलकं कुर्यान् मृगचर्मणि संविशेत् || १७१ || दीयते ज्ञानमत्यर्थं [परमं ज्ञानं] क्षीयते पाशबन्धनम् | ततो दीक्षेति देवेशि [नाम्ना च ख्यायते] कथिता तत्त्वचिन्तकैः || १७२ || मनसा कर्मणा [क्रियया] वाचा यत् पापं समुपार्जितम् [यच्च पापमुपार्जितम्] | तेषां [निःशेषं नाशयित्वा च परज्ञानं प्रदास्यति] विशेषकरणी परमज्ञानदा यतः || १७३ || तस्मात् [अतो] दीक्षेति लोकेऽस्मिन् गीयते शास्त्रकोविदैः | विज्ञानफलदा सैव [चाद्ये] द्वितीया [-ये] लयकारिणी || १७४ || तृतीया [-ये] मुक्तिदा चैव तस्माद्दीक्षेति गीयते | साधारा [च निराधारा दीक्षासिद्धिविधानतः || १७५ || नित्ये नैमित्तिके काम्ये यस्य स्यादधिकारिता | साधारा [द्विधा दीक्षा साधारा च | निराधारा तथैव च | (निरालम्बा निराधारा)] सा हि विज्ञेया निराधारा च मुक्तिदा || १७६ || प्. २३२) निर्मला सा च विज्ञेया कथ्यते तत्त्वचिन्तकैः | दीक्षा [कुण्डञ्च मण्डलं कृत्वा सत्पात्रेभ्यः प्रदीयते | ततः फलवती दीक्षा अन्यथा विफला भवेत् |] फलवती तत्र कुण्डमण्डलपूर्विका | मनोव्यापारमात्रेण निर्वीर्या सम्मता [भवति ध्रुवम्] तथा || १७७ || अपुत्रो मृतपुत्रश्च कुण्डञ्च वामनस्तथा | कुनखी श्यावदन्तश्चाधिकाङ्गः स्त्रीजितस्तथा || १७८ || आचार्योऽपि [यो भवेद्देवि तत्सकाशात् कदा च न] हि देवेशि एवमेव विवर्जितः | सुमूर्तिश्च कुलीनश्च ज्ञानाचारगुणान्वितः | तेन [समयाचारवान् चैव मन्त्रं दद्याद् विचक्षणः] देया च दीक्षा स्यात् समयाचारवित्तथा || १७९ || (न गृह्णीयाद् देवि दीक्षां सत्यं सत्यं व्रवीमि ते |) पित्रोर्मन्त्रं [मातामहात् पितुश्चैव मन्त्रं न गृह्णीयान्नरः] न गृह्णीयात्तथा मातामहस्य च | स्वप्नलब्धञ्च स्त्रीदत्तं संस्कारेणैव शुध्यति || १८० || स्वप्नलब्धे [-मन्त्रसिद्ध्यै] च कलशे गुरोः प्राणं निवेशयेत् | वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं तथा | ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत् || १८१ || अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | रवेः संक्रान्तिदिवसे युगाद्यायां सुरेश्वरि || १८२ || प्. २३३) मन्वन्तरासु तिथिषु चतुर्दश्यष्टमीषु च | महापूजादिने वापि शिष्यशुद्धिदिनेषु वा || १८३ || गृह्णीयात् प्रयतो भूत्वा भक्तिश्रद्धासमन्वितः | देवीपूजाविधौ यस्तु मनुष्यो भक्तितत्परः || १८४ || स एव दीक्ष्यो नान्यस्तु सर्वशस्त्रार्थतत्परः | चैत्रे दुःखाय दीक्षा स्याद् वैशाखे सर्वसिद्धिदा || १८५ || ज्यैष्ठे मृत्युप्रदा सा स्याद् आषाढे बहुवत्सका | श्रावणे बहुहानिः स्याद् भाद्रे च दुःखदा मता || १८६ || आश्विने सर्वसिद्ध्यै सा [स्यात्] कार्तिके ज्ञानवृद्धिदा | शुभकृन्मार्गशीर्षे च पौषे ज्ञानविनाशिनी || १८७ || माघे च मेधा वृद्धिः स्यात् फाल्गुने सर्वशस्यकृत् | ग्रहणे च महातीर्थे नास्ति कालस्य निश्चयः || १८८ || गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते | कोङ्कणे च मतङ्गे च तथा कन्याश्रमेषु च || १८९ || न गृह्णीयात्ततो दीक्षां तीर्थेष्वेतेषु पार्वति | कर्तव्यं दीक्षितैः शिष्यैर्गुरोः शासनमुत्तमम् || १९० || देवताहृदये यः स्याद् गुरुपूजापरायणः | पुरश्चरणचारी स्याद् विशुद्धात्मा जितेन्द्रियः || १९१ || मन्त्रयन्त्रपुराणानि भारतीश्च गयादिषु | प्राप्तमित्येवमानोऽपि गुरुणा ज्ञापितः सदा || १९२ || न स्त्रीहिंसा कर्तव्या शिष्येणैव महेश्वरि | सयवं चक्रवाकञ्च क्रौञ्चं पारावतं तथा || १९३ || प्. २३४) नीलशीलादिशैलञ्च सदा तस्य प्रियो भवेत् | इत्येवं दीक्षितेनैव कर्तव्यं दिवसं तथा || १९४ || रात्रौ भुक्त्वा तथा यत्नाद् ध्यात्वा सम्पूजयेद्बुधः | तस्यापि पूर्वदिवसं हविष्यं वा निरामिषम् || १९५ || भुक्त्वा परस्मिन् दिवसे हविष्यञ्च [ताम्बूलं] समाचरेत् | चरुं श्रपित्वा भागार्धं देवतायै निवेदयेत् || १९६ || तदर्धं गुरवे दद्यात् पूर्णन्तु स्वयमेव हि | भुक्त्वा च गुरुणा सार्धं सर्वदीक्षास्वयं विधिः || १९७ || मन्त्रं दत्वा गुरुश्चैव उपवासी यदा भवेत् | मोहान्धकारनरके कृमिर्भवति नान्यथा || १९८ || दीक्षां कृत्वा यदा मन्त्री उपवासं चरेद् यदि | तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम् || १९९ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे षष्ठः पटलः || सप्तमः पटलः भगवानुवाच शोभने निर्जने देशे निगूढे शुभमण्डले | पुष्पप्राकारसङ्कीर्णे गन्धपुष्पादिवासिते || १ || प्. २३५) तृतीयवर्जिते देशे पशुदृष्टिविवर्जिते | फलिकादौ ततो मन्त्री मन्त्रं तत्र समुद्धरेत् || २ || बिना मन्त्रसमुद्धारं स्वल्पाल्पफलदं मतम् | यन्त्रे समुद्धरेन् मन्त्रं सम्भृणं वा प्रपूरितम् || ३ || न भूमौ विलिखेन्मन्त्रं पुस्तके [न तथा पुस्तके लिखेत् (?)] च समालिखेत् | न भूमौ पुस्तकं स्थाप्यं आहरेद्डाकिनी [नाहरेद् डाकिनीं] ततः || ४ || भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् | भूमौ तिष्ठति देवेशि जन्मजन्मनि मूर्खता || ५ || तदा भवति देवेशि तस्मात्तं परिवर्जयेत् | वंशे नैवोल्लिखेद् वर्णं तस्य हानिर्भवेद् ध्रुवम् || ६ || ताम्रसूच्या हि विभवो जायते [भजते चा-] न क्षयो भवेत् | महालक्ष्मीप्रदश्चैव सुवर्णस्य शलाकया || ७ || वृहन्नलस्य सूच्या वा मतिवृद्धिश्च जायते | तथा अग्निमये देवि पुत्रपौत्रधनागमः || ८ || रौप्येण विपुला लक्ष्मीः कांस्येन मरणं भवेत् | अष्टाङ्गुलप्रमाणेन दशाङ्गुलमथापि वा || ९ || चतुरङ्गुलसूच्या [-लया सूच्या यो] वा यो लिखेत् प्रस्थकं शुभे | तत्तदक्षसंख्यानां स्वल्पायुर्याति वै दिने || १० || प्. २३६) मानं वक्ष्ये पुस्तकस्य शृणु देवि समासतः | मासेनापि फलं विन्द्यादमाने श्रीर्हता भवेत् || ११ || हस्तमात्रं मुष्टिमात्रमावाह्य द्वादशाङ्गुलम् | दशाङ्गुलं तथाष्टौ च अतो हीनं न कारयेत् || १२ || वेधद्वयं मुष्टिहस्ते बाहुमात्रे चिरन्तनम् | समभागे महेशानि हस्तादौ रूपबन्धनम् [बेधकम्] || १३ || अष्टाङ्गलं परित्यज्य मध्ये वेधं च कारयेत् | प्रादेशादौ भवेद्वेधं द्व्यङ्गुले वा समाचरेत् || १४ || पुस्तकस्य च आद्यन्ते यस्तु वेधं प्रकल्पयेत् | भार्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् || १५ || भूर्जे वा तेजपत्रे वा तथा वा तालपत्रके | अगरुपत्रे [अगुरुं नातिह्रस्वं वा पुस्तकं कारयेत् प्रिये] देवेशि पुस्तकं कारयेत् प्रिये || १६ || सम्भवे स्वर्णपत्रे च ताम्रपत्रे च शङ्करि | अन्यवृक्षत्वचि देवि तथा केतकिपत्रके || १७ || मृत्ताम्रपत्रे रौप्ये वा वटपत्रे वरानने | अन्यपत्रे बहुदले लिखित्वा यः समभ्यसेत् || १८ || स दुर्गतिमवाप्नोति धनहानिर्भवेद् ध्रुवम् | दग्धरध्रे [देवस्य लिखनं कृत्वा यः पठेद् ब्रह्महा भवेत् | पुस्तकं वा गृहे स्थिते वज्रयानो भवेद् ध्रुवम् || अधिकः पाठः] भवेत् पीडा वर्तुलं शुभदं भवेत् || १९ || प्. २३७) चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत् | सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः || २० || प्रजापतिर्द्वापरे च त्रेतायां सूर्य एव च | कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः || २१ || आरम्भे च समाप्तौ च लिखितं प्रतिपुजयेत् | हरिञ्च [श्रीहरिं] गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः || २२ || यावदक्षरसंख्यानं प्रति पात्रे च शङ्करि | भवेद्युगसहस्राणि स्वर्गलोके वसेच्चिरम् || २३ || वेतनञ्च न गृह्णीयात् लिखित्वा पुस्तकस्य च | यावदक्षरसंख्यानं तावच्च नरके व्रसेत् || २४ || व्यञ्जनक्षितिमारूढं वामनेत्रेन्दुसंयुतम् | महाबीजं विजानीयात् जपान् मुक्तिमवाप्नुयात् || २५ || प्रणवे प्रणवं वक्ष्ये वषडन्ते च ठद्वयम् | स्वयं वदेत् स्वरान्ते च नतिञ्चैव हृदात्मिकाम् || २६ || आद्यमेव गृहस्थस्य प्रणवं सर्वमन्त्रके | आद्यन्तवर्णसंस्थस्य आत्मज्ञानविवृद्धये || २७ || मन्त्रविद्याविभागे तु द्विविधं जायते प्रिये | मन्त्राः पुंदेवताः प्रोक्ता विद्या स्त्री देवता स्मृता || २८ || पुंमन्त्राः हुं फडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः | नपुंसका नमोऽन्ताः स्युर्मनवश्च त्रिधा मताः | एतच्छन्या भवेद् विद्या महाशद्वेन कीर्तिता | परमेष्ठी ऋषिच्छन्दो गायत्र्याः समुदाहृतम् || २९ || प्. २३८) देवता त्रिपुराख्याता सर्वार्थे विनियोजयेत् | विधिना स्थापयेद्देवीं वारिणा प्रथमं प्रिये || ३० || मुखप्रक्षालनं कृत्वा पुनः स्नानं समाचरेत् | दिनद्वयान्तरे देवि उत्थायाष्टदिनान्तरे || ३१ || तैलेनोद्वर्तनं कुर्यात् कषायेणातिरुक्षयेत् | पक्षान्ते चैव मासान्ते महास्नानं समाचरेत् || ३२ || मूलबीजेन देवेशि द्रव्यमन्त्रेण वा प्रिये | वैदिकेनाथ मन्त्रेण मायया वा समाचरेत् || ३३ || कलसैः स्नापयेत् पश्चादर्घ्यं स्नानमनन्तरम् | अर्घ्यस्नानं ततः कृत्वा पुनः स्नानं करोति च || ३४ || देवीलोकाच्चच्युतिर्भवेत् धनहानिश्च जायते | वारिणा प्रथमं स्नानं क्षीरेण तदनन्तरम् || ३५ || दघ्ना घृतं पिण्डद्वयं शर्कराञ्च गुडं मधु | तिलक्षीरं दधितिलं मधुक्षीरेण स्नापयेत् || ३६ || उष्णोदकं फलञ्चैव तथा चैव कुशोदकम् | गन्धोदकञ्च रत्नानामुदकं पुष्पतोयकम् || ३७ || विल्वोदकं सप्तपत्रं रक्तपुष्पोदकं तथा | स्वर्णशङ्खोदकञ्चैव ताम्राधारमनन्तरम् || ३८ || घटोदकं कुशञ्चैव अर्घ्यस्नानं समाचरेत् | पञ्चगव्येन यो देवीं तथा दुग्धकुशोदकैः || ३९ || स्नपयेद्विविधैर्मन्त्रैर्ब्रह्मस्नानं हि तत् स्मृतम् | कपिलापञ्चगव्येन तथा क्षीरयुतेन च || ४० || प्. २३९) स्नानं शतगुणं प्रोक्तं तथा इक्षुरसेन च | क्षीरेण स्नपयेद् यस्तु श्रद्धाभक्तिसमन्वितः || ४१ || कामाख्यां विधिवद्देवि इन्द्रलोके महीयते | घृताभ्यङ्गेन देवांगघृतेन विधिवत् प्रिये || ४२ || दशपूर्वान् दश परान् आत्मानञ्च विशेषतः | भवार्णवात् समुद्धृत्य दुर्गालोके महीयते || ४३ || स्नपयेद् विधिवद् यस्तु दघ्ना दूर्वाक्षतेन च | राजतेन विमानेन शिवलोके महीयते || ४४ || कामाख्यां स्नपयेद् यस्तु नवेनेक्षुरसेन च | गरुडेन विमानेन विष्णुना सह मोदते || ४५ || स्नपयित्वा नरो दुर्गां गन्धचन्दनवारिणा | चन्द्रांशुनिर्मलः श्रीमान् चन्द्रलोके महीयते || ४६ || सुगन्धपुष्पतोयेन स्नपयित्वा नरः क्वचित् [कश्चित्] | नागलोकं समासाद्य क्रीडते सह पन्नगैः || ४७ || स्नपयित्वा तु कामेशीं श्रद्धया हेमवारिणा | सौवर्णयानमारूढो मोदते वसुभिः सह || ४८ || द्रोणपत्र विल्वपत्र करवीरोत्पलानि च | स्नानकाले प्रयोज्यानि देवीप्रीतिकराणि च || ४९ || एषामेकतमं स्नानं कृत्वा वै श्रद्धयान्वितः | भगवत्यै नरो भक्त्या विष्णुलोके महीयते || ५० || प्. २४०) स्नापयेद् यस्तु वै देवीं नरः कर्पूरवारिणा | स गच्छति परं स्थानं यत्र कामेश्वरी स्थिता || ५१ || पितॄनुद्दिश्य यो देवीं क्षीरेण मधुनाथवा | स्नपयेद्विधिवद् भक्त्या तस्य पुण्यफलं शृणु || ५२ || तृप्ता भवन्ति पितरस्तस्य वर्षशतद्वयम् | पञ्चामृतस्य प्रत्येकं फलानाञ्च शतं शतम् || ५३ || शतञ्च वारिकुम्भानां महास्नाने नियोजयेत् | अपां कुम्भशतेनैव तैलस्यापि त्रिभिः पलैः || ५४ || महिष्ठन्तु महास्नानमेवमाहुर्मनीषिणः | मध्यमन्तु तदर्धेन स्नानं यत्र विधीयते || ५५ || तदर्धन्तु कनिष्ठं स्यादतो हीनं न कारयेत् | एवं यः कारयेत् स्नानं नरः कश्चित् कदाचन || ५६ || सप्तजन्मकृतं [कृतात्] पापं [पापात्] तत्क्षणादेव हीयते | आयुर्बलं यशो वर्चः सौभाग्यं पुष्टिरेव च || ५७ || स्नपयित्वा तु कामाभ्यां लभते नात्र संशयः | एवं यस्तु महास्नानं करोति भक्तिमान्नरः || ५८ || शरीरारोग्यमायुष्यं प्राप्नोति श्रियमुत्तमाम् | दशतोलिकमानेन द्रव्याणाञ्च पृथक् पृथक् || ५९ || चतुस्तोलिकया वाथ हीने स्नाने विधीयते | अष्टाङ्गुलं मुखं तस्य एकविंशाङ्गुलोदरम् || ६० || प्. २४१) अरलिमात्रमुत्सेधं मणिकुम्भं तदुच्यते | गवाक्षमात्रे [मार्गे सूर्यस्य या रश्मिः सा हि] यत्रैषा सूर्यरश्मिस्तु लेखिका || ६१ || लेखिकाष्टौ भवेद् धूली धूल्यष्टौ चैव सर्षपः | सर्पषाणां चतुष्केण रक्तिकेत्यभिधीयते || ६२ || रक्तिकानां विंशकन्तु पादकं परिकीर्तितम् | तोलिका च चतुष्पादैश्चतुस्तोलैः प्रसृतितः || ६३ || प्रसृती द्वे कर्षकञ्च द्वे कर्षे तु पलं भवेत् | पलार्धेन भवेन्मुक्तिर्द्विमुक्ती गुडकं मतम् || ६४ || एवं स्नानं ततः कृत्वा गात्रं सम्मार्जयेत् सुधीः | चन्दनेन सुगन्धेन कारयंस्तिलकं [कारयेत्] सुधीः || ६५ || कटिसूत्रञ्च वस्त्रञ्च यज्ञसूत्रं निवेदयेत् | मयूरपिच्छसङ्काशां स्निग्धचारुसुकेशिकाम् || ६६ || महतीं रक्तबिम्बोष्ठीं रक्तनेत्रां सुविस्मिताम् | यच्च वै लोहितं चास्यं सुरक्तकज्जलप्रभम् || ६७ || (त्रिपुरेशि समाख्यातं त्रैलोक्यनिलयं परम् | सम्भुक्तं नरकेशेन पूर्ववक्त्रमनुत्तमम् |) मृत्तिकायां महेशानि लक्ष्मीकामो विभावयेत् | करालं यत्तु वै वक्त्रं कृष्णं दक्षिणगोचरम् || ६८ || कामाख्येति च विख्यातं दिव्यद्रंष्टासमन्वितम् | सर्वसिद्धिप्रदञ्चैव सर्वार्थस्य च साधकम् || ६९ || प्. २४२) देवस्य दक्षिणेनैव पीतवक्त्रेण [-वक्त्रं] चिन्तयेत् | कौवेरीनिलयं यच्च वदनं श्यामलं शिवम् || ७० || शतवीताङ्गविज्ञेयमद्भूतं भुवनेश्वरि | अव्यक्तं रुचिरं दिव्यं कुञ्जिकावदनोत्तमम् || ७१ || नरकेशेन सम्भुक्तं [शंभूक्तं] ध्येयं विजयकाङ्क्षिभिः | शुद्धस्फटिकसङ्काशं सर्वरत्नसमन्वितम् || ७२ || सर्वज्ञानमयं ज्ञेयं कालवागीश्वरीमुखम् | सदारङ्गेन [वृषभांकेन] भृङ्गेन निपीतं मधुसञ्चयम् || ७३ || ईशानं वदनं देव्याश्चिन्त्यं सर्वक्षमार्थिभिः | सूर्यकोटिसहस्रांशु यद्वक्त्रमूर्ध्वजं प्रिये || ७४ || पीठं कामेश्वरी तद्वत् विज्ञेयं परमं महत् | पर ज्योतिर्मुखं भद्रे नरकेशेन चुम्बितम् || ७५ || भवपापविनाशाय [भवपाश-] केवलं तद्धि भावयेत् | त्रिपुरा देवता चास्य कामाख्यस्य गणाम्बिके | एता मण्डलसंस्थाश्च देव्यः शक्तिसमन्विताः || ७६ || सिंहचर्मोत्तरासङ्गकामाख्या विपुलोदरा | वैयाघ्रचर्मवसना सर्वसिद्धिप्रदा [यथा चैव इरोदरा] शुभा || ७७ || परमानन्दसम्भूता साट्टहासा महोत्सवा | सुनन्दा लोचनप्रीता व्यक्ताष्टादशलोचना || ७८ || प्. २४३) चारुमाणिक्यसम्पूर्णकुण्डलद्वयशोभिता | भयङ्करी [रौद्राकारैस्तथा रौद्री भृंगालिसहमालिका] महेशानी रौद्री सर्वार्थदायिनी || ७९ || मुकुटकोटिशुभ्रांशु कमलज्योतिरन्विता [-राजिना] | नानामणिगणाकीर्णकण्ठभूषणधारिणी || ८० || मृणालकोमलैः [मृणाली-] स्निग्धा युक्ता द्वादशबाहुभिः | अस्थिरत्नार्चितैर्दिव्यैः पद्मकर्दमनालिभिः || ८१ || कर्णयोः शवदम्भोलिसूत्रचक्रांशुभास्वरैः | षड्भिश्च बाहुभिर्धत्ते वामदक्षिणबाहुभिः [-दक्षिणैर्बाहुभिः शृणु] || ८२ || कोदण्डमुण्डखट्वाङ्गमृणालनालनीरजम् | कपालं पुस्तिका घण्टा मुण्डमाला निवीतिनी || ८३ || तुलाकोटिपराक्रान्ता पादपद्मचयाश्रिता | सिंहासनोर्ध्वसंसुप्ता शवासनकृताश्रया || ८४ || मणिप्रभाविधानेन शिवेन परमेष्ठिना | नरकेशेन संश्लिष्टा कामाख्या परमेश्वरी || ८५ || एवं ध्यानं [ध्याता न्यसेद्देवी] न्यसेद्देवि मातृकां परमेश्वरीम् | स्वनामग्रहनक्षत्रं श्रीकण्ठन्यासपूर्वकम् || ८६ || कलान्यासं पीठन्यासं मन्त्रन्यासं समाचरेत् | दशधा यन्त्रे संस्थाप्य संस्कृत्य च यथाविधि || ८७ || अक्षतान् विकिरेत्तत्र पीठपूजां समाचरेत् | पूर्वादिक्रमयोगेन गणेशञ्च गणाधिपम् || ८८ || प्. २४४) गणनाथं गणक्रीडं गदिं [गदीं स्वर्गाश्रयो मनुः] स्वग्राश्रयं मनुः | (पूर्वं श्रियं पूजयेच्च गोपदं तदनन्तरम् |) मन्वन्तरेण दीर्घेण तारयुक्तेन चार्चयेत् | क्रीडासरो दक्षिणे तु मन्दरं वामनेत्रकम् || ८९ || रश्मिबिन्दुसमायुक्तं लौहजङ्घन्तु पश्चिमे | नारसिंहेन बीजेन क्षेत्रेशं परिपूजयेत् || ९० || उत्तरे भूतनाथञ्च मन्दरेण समन्वितम् | गौरीपूत्रञ्ज वटुकं तथा समयपुत्रकम् || ९१ || ज्ञानपुत्रं समयपुत्रं पूर्वादिषु यथाक्रमात् | हंसेत्यनेन मन्त्रेण ध्यात्वा रक्तेन चार्चयेत् || ९२ || शान्तिकानां द्वारपालं तथा बिन्दुकला परा | निवृत्तिश्च कला पश्चात् प्रतिष्ठा च कला ततः || ९३ || मायाबीजेन पूर्वादि तत्र वै हेतुकादिकम् || ९४ || हेतुकं त्रिपुरघ्नञ्च अग्निवेतालकं तथा | वामव्यादिक्रमेणैव कालञ्चैव करालकम् || ९५ || एकपादं तथा भीमं चतुर्णां गगनो मनुः | असिताङ्गादयश्चैव ब्राह्म्यादिसिद्धिसंयुताः || ९६ || चर्चिका [चर्चिकदशकं पूज्यात्] दशकाः पूज्याः षट्कोणेषु भगादितः | षट्कोणाग्रे च मदनं रतिपुत्रीं स्वपार्श्वयोः || ९७ || पञ्च वाणांस्तथा चाग्रे ग्रहांश्चैव तु दिक्पतीन् | आसनं पूजयित्वा च उपर्युपरिभावतः || ९८ || प्. २४५) ध्यात्वा चारोपयेद्देवीमिमं मन्त्रमुदाहरेत् | एह्येहि परमेशानि सान्निध्यमिह मण्डले || ९९ || कुरुष्व जगतां मातः संसारार्णवतारिणि | महापद्मवनान्तस्थे कारणानन्दविग्रहे || १०० || शब्दब्रह्ममये स्वच्छे कामेश्वरि प्रसीद मे | कामाक्ष्यावाहनं कुर्यादिति मन्त्रेण शाङ्करि || १०१ || नमो भवाय सर्वाय रुद्राय वरदाय च | पशूनां पतये चैव सर्वानन्दात्मने सदा || १०२ || त्रिजटाय त्रिशीर्षाय सदा त्रिशूलधारिणे | त्रिनेत्राय त्रिकालाय त्रिपुरन्धाय वै नमः || १०३ || नमश्चण्डाय मुण्डाय विश्वदण्डधराय च | लोहिताय च धूम्राय नीलकण्ठाय वै नमः || १०४ || नमस्त्रिपुररूपाय विरूपाय नमो नमः | सूर्याय सूर्यपतये सिद्धिनाथाय वै नमः || १०५ || तस्मादरुण्योत्तरतो नातिदूरे व्यवस्थिता | सर्वाश्वेता कृष्णवर्णा गोधिकाया शिला यतः || १०६ || पश्चिमे तु शिवस्तस्य पूर्वपूर्वं विजानीहि | गयातीर्थञ्च उदरे उत्तरे परिकीर्तितम् || १०७ || चतुर्वर्गप्रमाणेन शीर्षे चैव गयाशिरः | शीर्षपार्श्वे रामगया रामपिण्डन्तु दक्षिणे || १०८ || पुच्छे तु मानसं तीर्थं दक्षिणे तु महानदी | तत्र स्नानं प्रकुर्वीत विधिपूर्वेण कर्मणा || १०९ || प्. २४६) तस्योत्तरे इषुक्षेपयोगस्यैवान्तरे प्रिये | तीर्थं प्रेतशिलाख्यञ्च श्राद्ध स्वर्गं नयेत् पितॄन् || ११० || महानद्यां कृते श्राद्धेऽक्षययं फलमाप्नुयात् | तथाक्षयवटे श्राद्धी ब्रह्मलोकं नयेत् पितॄन् || १११ || गयातीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते | आत्मयोने महेशानि गयायान्तु तिलैर्विना || ११२ || पिण्डनिर्वपणं शेषमपि कुर्याच्च मानवः | पश्चिमे वासुदेवस्य धनुरष्टादशान्तरे || ११३ || दीर्घाकारं पञ्चकोणमुत्तरं मुनिसंस्कृतम् | उत्तरे मानसे श्राद्धी न भूयो जायते नरः || ११४ || दक्षिणे कोटिलिङ्गस्य चतुष्कोणश्च यः शिवः | दक्षिणं मानसं तद्धि सर्वपापप्रणाशनम् || ११५ || दक्षिणे मानसे श्राद्धी ब्रह्मलोकं नयेत् पितॄन् | महानद्यां कृते श्राद्धे ब्रह्मलोकं नयेत् पितॄन् || ११६ || श्राद्धी रामह्रदे देवि ब्रह्मलोकं नयेत् पितॄन् | गयाशिरे पिण्डदानाद् यथापुच्छे तथोत्तरे || ११७ || त्रिदिनं पातयेत् पिण्डं कुलञ्चैव समुद्धरेत् | काङ्क्षन्ति पितरः पुत्रान् नरकाद् भयभीरवः || ११८ || गयां गच्छति वः कश्चित् सोऽस्मान् सन्तारयिष्यति | पश्चिमे कामनाथस्य सप्तधन्वन्तरे स्थिताम् || ११९ || दृष्ट्वा दीर्घेश्वरीं देवीं सर्वकामफलप्रदाम् | षष्टिवर्षसहस्राणि देववद् भुवि मोदते || १२० || प्. २४७) मायाबीजेन देवेशि अष्टम्यां प्रतिपूजयेत् | सर्वविद्यामवाप्नोति राशीनामग्रणीर्भवेत् [वासीनां] || १२१ || कल्पवृक्षं ततो गत्वा तिन्तिडीसंज्ञकं तरुम् | प्रदक्षिणत्रयं कृत्वा मन्त्रेणानेन पूजयेत् || १२२ || ओं नमो व्यक्तरूपय सर्वदेवस्तुताय च | शिवाधिष्ठानरूपाय तिन्तिडीवृक्षरूपिणे || १२३ || प्रशस्तः सर्वमन्त्रेषु काम्ये मोक्षे च दक्षिणे | वामहस्तस्य संस्पर्शे मालाया ग्रहणे तथा || १२४ || भूगतश्च परैः स्पृष्टश्छित्रे संवत्सरान्तरे | संस्कुर्यात् मालिकां देवि ताम्रपात्रे निवेशयेत् || १२५ || गायत्र्या प्रथमं प्रोक्ष्य पञ्चगव्यैरनन्तरम् | पश्चात्तेनैव मन्त्रेण हूं सिद्ध्यै नम इत्युत || १२६ || गन्धोदकेन तत्पश्चात् गन्धपुष्पैः पृथग्विधैः | कुम्भत्रयेण संस्थाप्य रक्तपुष्पैः प्रपूजयेत् || (यवक्षारवलिं दत्वा देवप्राणं निवेशयेत् |) तदानीय स्पृशेन्मालामन्तरीक्षेषु विन्यसेत् || १२७ || आनीय रात्रौ पीठे च स्थापयेन्मालिकां ततः | गन्धचन्दनकं दत्वा तथा दूर्वाक्षतानि च || १२८ || पुनर्देवस्य पीठे च तद्रात्रौ च निवेशयेत् | शतं साहस्रकञ्चैव अयुतं नियुतं तथा || १२९ || लक्षञ्चैव तथा कोटिं जपहोमस्य मानकम् | प्रतिमाने चाष्टहस्तं सर्वपर्वणि सञ्जपेत् || १३० || प्. २४८) अथवा चाष्टभिर्बीजैस्त्रीणि तत्रापि योजयेत् | माले माले महामाले सर्वत्रैव स्वरूपिणि || १३१ || चतुर्वर्गस्त्वयि न्यस्तस्तन्माले सिद्धिदा भव | पुष्करी सखिबीजं त्वं सूक्ष्मं सूक्ष्मान्वितं तथा || १३२ || आकाशशक्तिसंयुक्तं सिद्ध्यै हृदयसंज्ञकम् | एष पञ्चाक्षरो मन्त्रो मालायाः परिकीर्तितः || १३३ || ग्रहणे स्थापने चैव पूजने विनियोजयेत् | शिवं जपादौ विन्यस्य जपान्ते तु स्तुतिं पठेत् || १३४ || बलिदानं ततः कुर्यात् दद्याद् विभवमात्मनः | अनुलोम विलोमेन मूलमन्त्रेण पूजयेत् || १३५ || अम्बे अम्बिके मन्त्रेण तथा पौराणिकेन च | जय कामेशि चामुण्डे जय भूतापहारिणि || १३६ || जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते | विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने || १३७ || भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते | मालाजपे जये जम्मे भूताक्षि क्षुधितेऽक्षयेत् | महामाये महेशानि कामेश्वरि नमोऽस्तु ते || १३८ || भीमाक्षि भीमदे देवि सर्वभूतक्षयङ्करि | करालि विकरालि च कामेश्वरि नमोऽस्तु ते || १३९ || कालि करालि विक्रान्ते कामेश्वरि हरप्रिये | सर्वशस्त्रभृते [सर्वशत्रुहरे; सर्वशस्त्रधरे] देवि कामेश्वरि नमोऽस्तु ते || १४० || कामरूपप्रदीपे च नीलकूटनिवासिनि | निशुम्भशुम्भमथिनि कामेश्वरि नमोऽस्तु ते || १४१ || प्. २४९) कामाख्ये कामरूपस्थे कामेश्वरि हरप्रिये | कामांश्च देहि मे नित्यं कामेश्वरि नमोऽस्तु ते || १४२ || रुधिरासवपानाढ्यववत्रे त्रिभुवनेश्वरि | महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते || १४३ || छागतुष्टे महाभीमे कामाख्ये सुखदायिनि | जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते || १४४ || भ्रष्टराज्यो यदि [यदा] राजा नवम्यां नियतः शुचिः | अष्टम्याञ्च चतुर्दश्यां उपवासी नरोत्तमः || १४५ || संवत्सरेण लभते राज्यं निष्कण्टकं पुनः || १४६ || य इदं शृणुयाद् भक्त्या तव देवि समुद्भवम् | सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति || १४७ || कामेश्वरि देवि सुरासुरप्रभे प्रकाशिताम्भोजनियन्त्रिते नमः | सुरारिब्रह्मस्थलपाटवोत्सुके [-रिविघ्न-] त्रयीमये देवि च ते नमामि || १४८ || सितासिते रक्तपिशङ्गविग्रहे रूपाणि यस्याः प्रतिपादितानि | करे कपाले च विकल्पितानि शुभाशुभानामपि तां नमामि || १४९ || कामरूपसमुद्भूते कामपीठावतंसके | विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते || १५० || अव्यक्तविग्रहे श्रान्ते सन्तते कामरूपिणि | कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते || १५१ || प्. २५०) या सुषुन्नान्तरालस्था चिन्त्यते ज्योतिरूपिणी | प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते || १५२ || दंष्ट्राकरालवदने मुण्डमालोपशोभिते | सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते || १५३ || स्नानकाले च प्रत्यूषे भोजने दन्तधावने | तथा विगतवस्त्रे च दर्शनं न तु संस्पृशेत् || १५४ || मधुमासे त्रयोदश्यां चतुर्दश्यां वृषस्य च | न स्त्रीदेवीं स्पृशेज्जातु तद्दिने दर्शनं त्यजेत् || १५५ || दर्शनं भयदं विन्द्यात् शापः पतति मूर्धनि | आशु [एवं] ज्येष्ठसिताष्टम्यां कुमारो नावलोकयेत् || १५६ || कुमार्यश्च सुरूपा [कुमारिभिः सुरूपाभिः-] साधकोऽपि कदाचन | न रात्रौ संस्पृशेन्नारीं बलिं न स्पर्शयेत् क्वचित् || १५७ || लिङ्गस्थाञ्च महादेवीं कदाचिदपि न व्रजेत् | विप्राणां क्षीरबलयः शाल्यन्नं वाथ पायसम् || १५८ || घृतप्लुतं चर्व्यफलं पुष्पं तस्य घृतान्वितम् | दद्यात् क्षीरञ्च दुग्धान्नं भक्तान्नं वा निवेदयेत् || १५९ || शाल्यन्नं वाथ समधुकृशरं खण्डमोदकम् | राज्ञां हि पशवः शस्ता वैश्यानां व्रीहयस्तथा || १६० || क्षौद्रं वृषलजातीनां सर्वेषां पशवोऽथवा | निवेदयेत् शोणतुण्डं मानुषं वा लुलायकम् || १६१ || प्. २५१) वराहं वाथ [छागमुगलं] च्छगलं चामरं वरुणं तथा | मेषञ्चाथ वराहञ्च गोधिकाञ्च निवेदयेत् || १६२ || चामराणाञ्च दशकं छागलैको विशिष्यते | दशभिश्छगलैरेव कूर्म एकः प्रशस्यते || १६३ || कूर्मस्य च शतेनापि शशकैको विशिष्यते | शशकस्य सहस्राणां वराहस्तु विशिष्यते || १६४ || द्वे सहस्रे वराहस्य माहिषः श्रेष्ठ उच्यते | द्वे सहस्रे लुलायस्य खड्गिरेको विशिष्यते || १६५ || खड्गिनान्तु सहस्रेण मानुषं चातुलं फलम् | द्वे सहस्रे मानुषस्य शोणतुण्डः प्रशस्यते || १६६ || द्वे शते शोणतुण्डस्य श्वेतग्रीवः प्रशस्यते | श्वेतग्रीवशतेनापि गोधिकापि वरं मतम् || १६७ || गोधिकानां शतं देवि नरस्य च कुमारकः | पशूनाञ्चैव षण्मासात् परतश्च बलिर्भवेत् || १६८ || छगलं कृष्णं श्वेतं वा द्विवर्षात् परतो यदि | सञ्जाते गुग्गुलुशुद्धे शोणाख्यं जम्बुकं तथा || १६९ || तथा [श्वानं] गन्धमृगैश्चैव छागञ्च पार्वतीयकम् | मूषकञ्च करालञ्च क्षुद्रमार्जारमेव च || १७० || कोलिलं कालविङ्कञ्च राजहंसञ्च शारिकम् | शुकं गृध्रञ्च काकोलं मयूरं चित्रकं तथा || १७१ || प्. २५२) अश्वञ्च वेणुपृष्ठञ्च कृष्णपारावतं तथा [च यत्] | बृहत्कपोतकञ्चैव खञ्जरीटन्तथैव च || १७२ || बकञ्चैव बलाकञ्च प्रयत्नेन विवर्जयेत् | संहते बलिदानेन स्त्रियन्तु न विचारयेत् || १७३ || मिथुने दीयमाने तु न दोषो जायते प्रिये | श्मशाने महिषं दद्याद्देवकस्य च सन्निधौ || १७४ || स याति ब्रह्मलोकञ्च शिववद्भुवि मोदते | अन्तर्गृहमृतानाञ्च स याति ब्रह्म शाश्वतम् || १७५ || अद्यापि दृश्यते ब्रह्म यत्तु दक्षिणतः प्रिये | पतते नात्र सन्देहो ज्ञानदाता सदाशिवः || १७६ || तस्या दक्षिणकर्णेन भूमौ पतति वै नरः | महापातकयुक्तोऽपि युक्तो वाप्युपपातकैः || १७७ || श्मशाने बलिदाने तु मुक्तो गच्छेत् शिवालयम् | अकामो वा सकामो वा प्राणांस्त्यजति तत्र वै || १७८ || त्यक्तदेशोऽपि भजति स्वयमेव गणेश्वरः | परदेशार्जितं वाथ कृत्वा दत्वा बलिं नृपः || १७९ || महापातकिनं चौरं मूर्खं वा चैकवीरकम् | स्त्रीजितं वा ब्रह्मद्विषं प्रयत्नेन न योजयेत् || १८० || मणिमुक्तासुवर्णानां देवे दत्तानि यानि च | न निर्माल्यं द्वादशाहं ताम्रपात्रं तथैव च || १८१ || पट्टी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः | मोदकं कृशरञ्चैव यामार्धेन महेश्वरि || १८२ || प्. २५३) पट्टवस्त्रं त्रिमासाच्च यज्ञसूत्रमहः स्मृतम् | यावदुष्णं भवेदन्नं परमान्नं तथैव च || १८३ || मस्तकं रुधिरञ्चैव अर्धरात्रेण पार्वति | मुहूर्तं दधि दुग्धञ्च आज्यं यामेन शाङ्करि || १८४ || करवीरमहोरात्रं बिल्वपत्रं तथैव च | जवा बन्धूकमाल्यञ्च निर्माल्य सार्धमासके || १८५ || माल्यं वै करवीरस्य पद्मस्य विल्वकस्य च | मासार्धेन महेशानि ताम्बूलं दत्तमात्रतः || १८६ || खर्जूरं पनसं द्राक्षा मातुलुङ्गञ्च शावकम् | कदली नागरङ्गञ्च तथा जम्बूफलानि च || १८७ || शालूकं मधुकञ्चैव प्रयत्नेन निवेदयेत् | फलं बिल्वञ्च दाडिम्वं जयन्तीं कर्कतीं तथा || १८८ || त्रपुरञ्चैव वार्ताकी देवीप्रीतिकराणि च | न निर्माल्यञ्च दाडिम्बं तथा बिल्वफलं प्रिये || १८९ || सौगन्धिकञ्च कदलं प्रयत्नेन नियोजयेत् | कदलं बीजपूरञ्च दुग्धं पक्वं निवेदयेत् || १९० || कन्दुपक्वं कशेरुञ्च जम्बूबालप्रियं भवेत् | आर्द्रकं लवणञ्चैव जीवकं पिप्पलीयकम् || १९१ || जातीकोषं तिन्दुकञ्च देव्याः प्रियतरं महत् | रामरम्भाफलं पुष्पं वदनं धूम्रतापितम् || १९२ || न योजयेन्महादेव्यै उत्पलस्य च बीजकम् | धान्यं श्रावणकं मर्त्यो द्विः स्विन्नञ्च विवर्जयेत् || १९३ || प्. २५४) नारिकेलं सुवर्णाभं नारिकेलञ्च वामकम् | निवेदयेन्महादेव्यै तोयं तस्य विशेषतः || १९४ || नारिकेलञ्च भाण्डीरं दैवे श्राद्धे विवर्जयेत् | बकुलस्य फलं पक्वं पद्मस्य च फलं तथा || १९५ || नियोजयेन्महादेव्यै चान्द्रायणफलं लभेत् | शृणु देवि प्रवक्ष्यामि पुष्पाध्यायं समासतः || १९६ || ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिपुष्पकैः | सितरक्तैस्तथा पुष्पैर्नीलपद्मस्य पाण्डुरैः || १९७ || किंशुकैस्तगरैश्चैव जवाकनकचम्पकैः | किंशुकैस्तगरैश्चैव वकुलैश्चैव मन्दरैः || १९८ || क्रस्तूरिकादियुक्तैश्च बन्धूकागस्त्यसम्भवैः | मदनैः सिन्धुवारैश्च दुर्वाङ्कुरसुकोमलैः || १९९ || (पत्रैश्च तुलसीनां च बिल्वपत्रैः सुकोमलैः |) करवीरस्य माह्यस्य [कुण्डस्य] सहस्राणि ददाति यः | स कामान् प्राप्य चाभीष्टान् देवीलोके महीयते || २०० || एकेन करवीरेण पद्मानां द्वे सहस्रके [द्विसहस्रकम्] | नोत्सृज्य दद्यात् पुष्पाणि वनस्थानि कदाचन || २०१ || न शक्नुवन्ति वै देवाः समाकर्षितुमुद्यताः | एकैकं कुसुमं यक्षा रक्षन्ति दश वै यतः || २०२ || तथा यक्षाङ्गनाः पञ्च सर्वतः सुसमावृताः | तस्मादाहृत्य कुसुमं दद्याद्देवान् पितॄनपि || २०३ || प्. २५५) कुर्यात् [कृत्वा पुष्पगृहं तत्र कामाख्यायै प्रयच्छति] पुष्पगृहं तत्र कामाख्योपरि शाङ्करि | इह कामानवाप्नोति दुर्गालोके महीयते || २०४ || करवीरेण जात्या [सजातिभिः पूजयेदथ शाङ्करीम्] च पूजयेद् यस्तु शाङ्करि | अग्निष्टोमफलं लब्ध्वा सूर्यलोके महीयते || २०५ || पूजयित्वा नरो भक्त्या चण्डिकां पद्ममालया | ज्योतिष्टोमफलं प्राप्य सूर्यलोके महीयते || २०६ || स्वजातिवकपुष्पेण [वकपुष्पैः स्वजातिभिः] तथा रुद्रजपेन [रुद्रजटैस्तथा] च | वाजपेयस्य यज्ञस्य फलं प्राप्नोति नान्यथा || २०७ || सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम् | नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति || २०८ || दुर्गायां विधिवद्देवि तस्य पुण्यफलं शृणु | वर्षकोटिसहस्राणि वर्षकोटिशतानि च || २०९ || देव्या अनुचरो भूत्वा रुद्रलोके महीयते | वक्रधान्योद्भवं यच्च सूक्ष्मधान्योद्भवं तथा || २१० || राजधान्योद्भवञ्चैव रक्तधान्योद्भवं तथा || शस्तं तण्डुलमक्षुण्णं सप्ताष्टनवसंख्यया || २११ || दूर्वाङ्कुरसमेतञ्च भगवत्यै निवेदयेत् | अष्टम्यां वा नवम्यां वा सोऽश्वमेधफलं लभेत् || २१२ || प्. २५६) गन्धानुलेपनं दत्वा ज्योतिष्टोमफलं लभेत् | कुङ्कुमेन विलिप्यार्घं गोसहस्रफलं लभेत् || २१३ || चन्दनागरुकर्पूरैः शुक्लपुष्पैः सकुङ्कुमैः | विलिप्तां पूजयेद् दुर्गां वह्निष्टोमफलं लभेत् || २१४ || निम्बपत्रञ्च माध्यञ्च तमालामलकीदलम् | कह्लारं तुलसीञ्चैव पद्मञ्च श्रेष्ठपुष्पकम् || २१५ || एतत् पर्युषितं न स्याद् यच्चान्यत् कलिकात्मकम् | न दुष्येत् छिन्नभिन्नञ्च जातीपुष्पञ्च शाङ्करि || २१६ || पद्मदूर्वाङ्कुरञ्चैव तुलसीदलमेव च | नाशु पर्युषितं पुष्पं [तत् स्यात् कुसुमस्य च शाङ्करि] तुलस्या सह शाङ्करि || २१७ || नार्चयेत् झिंटिपुष्पाणि पीतेन तगरेण च | श्वेताङ्गेन च कृष्णेन विजयेन न चार्चयेत् || २१८ || त्रिलक्षं प्रजपेन्मन्त्रं पुरश्चरणसिद्धये | न्यासञ्च तर्पणञ्चैव होमं पङ्क्त्यष्टकञ्चरेत् || २१९ || जितेन्द्रियो महेशानि सोऽग्निष्टोमफलं लभेत् | शुक्लपक्षे नवम्यान्तु अष्टम्यां परमेश्वरीम् [-रि] || २२० || त्रिकालं पूजयेद्यस्तु चतुर्दश्यां मम प्रिये | स गच्छति परं स्थानं यत्र देवी व्यवस्थिता || २२१ || क्रीडयित्वा चिरं कालं राजा भवति भूतले | स्नात्वोपवासनियमपूजाजागरमार्जनैः || २२२ || प्. २५७) सर्वकालेषु सर्वेषु कामेशीं यस्तु पूजयेत् | विमानवरमारुह्य ध्वजमालाकुलं तथा || २२३ || ब्रह्मलोके नरो याति मोदते शाश्वतीः समाः | विविधैर्भक्तिभावेन [सदा भक्तिरतो भूत्वा] तस्माद् विभवविस्तरैः || २२४ || पूजयेत् सततं दुर्गां महापुण्यफलेच्छया | अयने विषुवे चैव षडशीतिमुखे प्रिये || २२५ || मासैश्चतुर्भिर्यत् पुण्यं विधिना पुज्य चण्डिकाम् | तत् फलं लभते देवि नवम्यां कार्तिकस्य च || २२६ || मासि आश्वयुजे देवीं शुक्लपक्षे महेश्वरीम् | नवम्यां पूजयेद् यस्तु तस्य पुण्यफलं शृणु || २२७ || अश्वमेधसहस्रस्य वाजपेयशतस्य च | तत् फलं समवाप्नोति नात्र किञ्चित् प्रपद्यते [विचारयेत्] || २२८ || हनूमतश्चोत्तरे च एकविंशधनुर्मितम् | मुक्तिमण्डपिकं नाम स्थानं परमदुर्लभम् || २२९ || संस्थितां प्रजपेत्तत्र परां गतिमवाप्नुयात् | ततः कृताञ्जलिर्मुद्रां कृत्वा देवीं प्रसादयेत् || २३० || नमस्ते सर्वदेवेशि भक्तानां भयहारिणि | संसारसागरे मग्नं त्राहि मां परमेश्वरि || २३१ || एवं प्रसाद्य तां देवीं दण्डवत् प्रणिपत्य च | ततोऽर्चयेद् गुरुं भक्त्या पुष्पगन्धानुलेपनैः || २३२ || प्. २५८) कुमारीं भोजयेत्तत्र जागरं कारयेन्निशि | माहात्म्यञ्च महादेव्या गीतिकाञ्चापि कारयेत् || २३३ || ध्यामन् स्तवन् परां देवीं प्रेरयेद् रजनीं बुधः | मासि मासि तथाष्टम्यां चतुर्दश्यां विशेषतः || २३४ || गोधूलिसमये देवीं नयेत् कामेश्वरालयम् | रथे वा शिबिकायां वा दृष्ट्वा तत्र कदाचन || २३५ || सर्वपापविनिर्मुक्तो देवीलोके महीयते | मुक्तिमण्डपिकां नीत्वा पूजयेद् यस्तु शाङ्करीम् || २३६ || दशाश्वमेधे यत् पुण्यं लभते नात्र संशयः | न कुर्याद् दिवसे यात्रां न च रात्रौ महानिशि || २३७ || शरत्कालस्य सप्तम्यां नयेन्नगरदक्षिणे | सायंकाले महेशानि सर्वयज्ञफलं लभेत् || २३८ || अष्टम्यां पूजयित्वा च नवम्यां स्रोतसो जले | यश्चैव स्नपयेद्देवीं दिवसे च न दूष्यति || २३९ || ततः स्पृष्ट्वा रथे देवीं न शोको जायते भुवि | स्कन्धे देवीं वहेद् यस्तु अश्वमेधं पदे पदे || २४० || तस्मात् प्रयत्नतो भूत्वा शिबिकां कारयेद् बृहत् | एतस्मिन्नन्तरे देव्याः स्नानार्थं पर्वतं तथा || २४१ || पश्येत् कामेश्वरं देवं भूमिपीठे व्यवस्थितम् | तस्योत्तरे कामसरो भानुहस्तप्रमाणतः || २४२ || तत्र [कामासवं मन्त्रं] कामासनं जप्त्वा स्नात्वा कामानवाप्नुयात् | कामकुण्डे नरः स्नात्वा यः पश्येत् काममीश्वरम् || २४३ || प्. २५९) न तस्य पुनरावृत्तीरुद्रलोके महीयते | चतुर्भुजं शूलहस्तं खट्वाङ्गञ्च वराभयम् || २४४ || पद्मस्थं पूजयेद् देवं सर्वपापप्रणाशनम् | दक्षिणामूर्तियन्त्रेण पूरयेच्च प्रसादयेत् || २४५ || ओं नमः शिवाय तन्निशामयाय नमः शिवाय शिवार्चिताय | तुभ्यं कृपापराय नमो मायागेहे नाश्रमाय || २४६ || नमोऽस्तु शोषाय महान्धकाय नमः शरण्याय [श्ररणागभ्रषाय] नमो गणाय | नमोऽस्तुते भीमगणानुगाय नमोऽस्तु नानाभुवनादिकर्त्रे || २४७ || स्नपयित्वा घृतैः क्षौद्रैर्गन्धैर्दीपैश्च पूजयेत् | कनकैर्बिल्वपत्रैश्च रक्तरुद्रजटैरपि || २४८ || जयशब्दैः स्तवैश्च नानानैवेद्यवेदनैः | चैत्रे मासि त्रयोदश्यां शुक्लायां काममीश्वरम् || २४९ || ये पश्यन्ति सुरश्रेष्ठं ते यान्ति परमं पदम् | अष्टम्याञ्च निशाभागे नयेत् कामेश्वरीगृहम् || २५० || तत्र सम्पूजयेद्देवं देव्या सह विशेषतः | अग्निष्टोमफलं तस्मात् लभते नात्र संशयः || २५१ || दर्शनात् फलमाप्नोति दृष्ट्वा कामेश्वरीं ततः | यद् यत् प्रार्थयते तत्र तत्तदेव न संशयः || २५२ || कम्बलस्य च यामो तु [च देवी देवेन सङ्गता] देवी यत्रास्ति सङ्गता | धनुरण्टान्तरे भद्रे यजेत् कोटीश्वरीं पराम् || २५३ || प्. २६०) दृष्ट्वा च न स्पृशेद्देवीं पुत्रार्थी चेत् कदाचन | सर्वपापविनिर्मुक्तो रुद्रलोके महीयते || २५४ || इति योगिनितन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे सप्तमः पटलः अष्टमः पटलः श्रीभगवानुवाचत तोऽस्मिन् दिवसे देवि प्रायादाकाशवाहिनीम् [-नी] | लोकचक्षुरिति ख्यातां [ख्याता] सर्वपापहरां [-रा] शुभाम् [-भा] || १ || देव्या दक्षिणतश्चैव इषुक्षेपद्वयान्तरे | त्रिधारा दृश्यते तत्र मध्यधारा सरस्वती || २ || दक्षिणे वरुणा धारा उत्तरे यमुना स्मृता | यामुने च कृतस्नानो मुच्यते घोरकिल्विषात् || ३ || सरस्वत्यां कृतस्नानो विष्णुलोके महीयते | वरुणायां कृतस्नानो मुक्तिमाप्नोत्यनुत्तमाम् || ४ || त्रिधारासङ्गमो यत्र अनन्तः परिदृश्यते | आकाशगङ्गा सा देवी महापातकनाशिनी || ५ || नमो देवि सहस्राक्षे भवबन्धप्रणाशिनि | नीलशैलस्थिते भद्रे पापं मे हर जाह्नवि || ६ || प्. २६१) अनेन स्नानं कृत्वा तु शब्दबीजेन पूजयेत् | तस्याः कौबेरदिग्भागे नातिदूरे व्यवस्थितः || ७ || शुक्लाकृतिश्चारुरूपो वासुदेवः प्रकीर्तितः | स्मरेण पूजयेल्लिङ्गं गन्ध्याद्यैः पायसैरपि || ८ || द्वादश्यां कार्तिके मासि दृष्ट्वा मुक्तिञ्च विन्दति | रात्रौ जागरणादत्र मुच्यते सर्वपातकात् || ९ || दक्षिणे चैव गङ्गायाश्चतुर्धन्वन्तरे स्थितः | महाश्मशाने भगवान् क्रीडते स्त्रीगणैः सह || १० || तत्र देवाः सगन्धर्वा ऋषयः सहचारणाः | प्रसादनार्थं देवस्य नित्यमायान्ति चादृताः || ११ || तत्राराध्य महादेवं भावपूतैर्गणेश्वरम् | प्राप्तवान् गाणपत्यं हि देवानामपि दुर्लभम् || १२ || अद्यापि दृश्यते तत्र प्रत्यहं महदद्भुतम् | निक्षिप्य मानुषास्थीनि भस्मीभूय प्रजापतिः || १३ || तत्र गत्वा महादेवं यः पूजयति मानवः | दिव्यलोकमवाप्नोति भिन्नदेहो न संशयः || १४ || कार्तिके मासि शुक्लायां चतुर्दश्यां विशेषतः | सम्पूज्य तत्र देवेशं सर्वप्रीतं पितामहम् || १५ || तावत् प्रीत्या तु सर्वास्तान् रुद्रस्यानुचरो भवेत् | त्र्यंशञ्च दृश्यते तत्र उत्तराङ्गं हरं श्रुतम् || १६ || पश्चिमाङ्गं हेरुकञ्च विष्णुरूपिणमव्ययम् | भैरवो दक्षिणांशश्च त्रिपुरेत्यभिधीयते || १७ || प्. २६२) प्रासादेन तु मन्त्रेण पूजयेत् परमेश्वरम् | वाजिमेधस्य यज्ञस्य लभते फलमुत्तमम् || १८ || कुलाद्येन त्रिकुण्डेन पूजयेद् भक्तिमान्नरः | महाविद्यामवाप्नोति मण्डलान्नात्र संशयः || १९ || हेरुकं द्वादशार्णेन वासुदेवस्वरूपिणम् | सर्वलोकेश्वरो याति जातिश्रेष्ठोऽभिजायते || २० || रुधिरैर्मांसमद्यैश्च पूजयेत् परमेश्वरीम् | रजन्यां सम्प्रदद्यात्तु कूर्ममांसं कदाचन || २१ || चामरं मद्गुरं मत्स्यं प्रयत्नेन विवर्जयेत् | चिञ्चां भुक्त्वा नीलशैवं श्मशानं [पिण्याकं] वा प्रमादतः || २२ || महाभयंकरं विन्द्यात् स्पृष्ट्वा शापं प्रयच्छति | न स्पृशेत् सप्तरात्रञ्च शाकं वामहृदि [कामेश्वरि] प्रिये || २३ || चान्द्रायणत्रयं कृत्वा ततः शुद्धिर्भविष्यति | राजीवं रजनीञ्चैव शाकं चामरसम्भवम् | भुक्त्वा प्रमादतो देवि तदेवं [तदेवं द्रुतमाकिरेत्] व्रतमाचरेत् || २४ || कर्कन्धूशर्करायुक्तं दण्डशाकं तथैव च | कूष्माण्डं पर्वतीयञ्च दूरतः परिवर्जयेत् || २५ || अष्टम्याञ्च नवम्याञ्च त्रयोदश्यां विशेषतः | एकविंशतिसूत्रैश्च तथा त्रिगुणितेन च || २६ || प्. २६३) त्रिगुणेत्येकयोगेन पदे तु [माल्यं तु] त्रिंशकं मतम् | कोषतः पट्टसूत्रञ्च अभावे रक्तकं न्यसेत् || २७ || अन्येन दर्शयेन्मालां न स्पृशेद्वामपाणिना | वानप्रस्थो यतिश्चैव ब्रह्मचारी तथा प्रिये || २८ || विष्णुमन्त्रस्य जाप्ये तु समन्त्रस्यापि च प्रिये | वामहस्ते ततो धृत्वा सप्तबीजान्तरं प्रिये || २९ || सञ्जपेद्दक्षिणेनैव प्रतिबीजं वरानने | गृहद्वारे वरदाय [समागम्य] तिन्तिडीकाय वै नमः || ३० || सहस्रान्मुच्यते पापात् जीर्णत्वच इवोरगः | कामेश्वरस्य पृष्ठे तु यावत् सिद्धेश्वरः स्थितः || ३१ || तदन्तर्गतखण्डे च [-खण्डश्च] छायारुद्रः प्रकीर्तितः | स्नानं [देहिन इव तच्छाया न जहाति कदाचन] देहपरित्यागश्छाया चात्र विधीयते || ३२ || यः करोति वृषोत्सर्गं तस्मिन् क्षेत्रे वरानने | अग्निष्टोमशतं पुण्यं लभते नात्र संशयः || ३३ || माघे मासि महेशानि छायारुद्रे तिलैर्विना | पिण्डनिर्वपणं कृत्वा मातॄणामनृणो भवेत् || ३४ || ततो विन्ध्याचलं गत्वा कृष्णा रक्ता च या शिला | विन्ध्येशी सा समाख्याता प्रयजेत् कमलादिना || ३५ || प्. २६४) कामेश्वर्याश्च मन्त्रेण सा पूज्या परमेश्वरि | गवामयुतदानेन यत् फलं [तत्र पार्वति] लभते प्रिये || ३६ || तत् फलं लभते सत्यं विन्ध्येशीदर्शनेन च | तस्याः पूर्वोत्तरे देशे इषुक्षेपशताधिके || ३७ || आकाशगङ्गा चिह्ने [चिह्नता] तु या शिला सुरदीर्घिका | दक्षिणेन च तस्याग्रं [तस्यागे] किञ्चिदुच्चे च संस्थिता || ३८ || या ख्याता ललिता कान्ता ब्रह्महत्यापहारिणी | अश्वत्थं नन्दिरूपञ्च मूले कूर्माकृतिः शिला || ३९ || नरः [दृष्ट्वा नरश्च] कदापि तं देवं न पश्यत्येव पातकात् | योनिमध्यगतं [तत्र योनिगतं] लिङ्गं चतुर्हस्तप्रमाणतः | गतिप्रदीपिकाकारं कुण्डं सर्वाघनाशनम् || ४० || तत्र व्यासेश्वरं देवं दृष्ट्वा नयति पातकम् | व्यासतीर्थे नरः स्नात्वा ललितां योऽभिपूजयेत् || ४१ || अश्वमेधसहस्रस्य तत्फलं लभते महत् | विंशद्धन्वन्तरे [सैरुपचिह्नितम्] प्राच्यां वनदाससुचिह्नितम् || ४२ || पद्मपत्राकृतिं पत्रं निर्यासपरिचिह्नितम् | तस्य मूलस्थिता देवी उच्चवारणरूपिणी || ४३ || तस्याः सम्पूजनादेव ग्रहदोषैर्न लिप्यते | वृक्षं तत्र स्थितं स्पृष्ट्वा वन्ध्या गर्भधरा भवेत् || ४४ || प्. २६५) छिन्नहस्तो लभेत् स्वर्णं [रत्नं] काले [नागं लभेत् पुमान्] युक्तकरः पुमान् | दाडिमस्य च पूर्वे तु नातिदूरे प्रतिष्ठितम् || ४५ || नवहस्तमितं रन्ध्रं तद्देवं भुवनेश्वरम् | पूजयेत् कामबीजेन विजयी जायते नरः || ४६ || तस्य वायव्यभागे तु अगस्त्यस्याश्रमे शुभे | देवं गदाधरं तत्र पूजयेत् कुसुमादिना || ४७ || नातिदूरे तु देवस्य या शिलाश्वेतमुज्ज्वला | जल्पीशं तं महालिङ्गं पूजयेत्तावदुच्चरन् || ४८ || सौभाग्ये विधिवत् स्नात्वा जल्पीशं यस्तु पूजयेत् | अग्निष्टोमफलं तस्य भविष्यति मम प्रिये || ४९ || पश्चिमे तस्य पातालभुवनाधिपचिह्नितम् | एकविंशतिभूभागे स्थितस्तत्र सदाशिवः || ५० || तं प्रणम्य नरो भक्त्या न भूयो जायते क्वचित् | तस्य देवस्य भूभागे पवित्रे कालहस्तके || ५१ || गोविन्दपर्वते रम्ये शुक्लवर्णेन या शिला | गोविन्दं तं विजानीयात् पूजयेद्धरिवासरे || ५२ || तस्य पूर्वे नवधनुर्या शिला शोणसन्निभा | शरशेणी समाख्याता महापातकनाशिनी || ५३ || शिवाचले च तुङ्गे च प्रकराख्या पराशिवा | ताञ्च सम्पूज्य यत्नेन महतीं श्रियमाप्नुयात् || ५४ || प्. २६६) विन्ध्याचलस्योत्तरे च इषुक्षेपनवान्तरे | महालक्ष्मीः स्थिता तत्र सितपुष्पेण पूजयेत् || ५४ || श्रीपर्वते महेशानि श्रीकुण्डे स्नानमाचरेत् | स्नात्वा कुण्डे ध्रुवे नाम पौर्णमास्यां तथाश्विने || ५५ || दृष्ट्वा सम्पूजयेद् भक्त्य धराणामीश्वरो भवेत् | गौतमस्याश्रमं गत्वा सम्पूज्य वृषभध्वजम् || ५६ || नरो न निरयं गच्छेत् पापस्य च क्षयो भवेत् | पश्चिमादुत्तरं तावत् यावद्दक्षिणमानसम् || ५७ || तदन्तर्गतक्षेत्रे हि नातिदूरे च शाङ्करि | गत्वा तत्र समभ्यर्च्य ब्रह्मलोकमवाप्नुयात् || ५८ || तत्रैव सरसस्तीरे हंसतीर्थमनुत्तमम् | द्वादशादित्यमभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् || ५९ || रेवन्तं पूजयित्वाथ गतिमाप्नोत्यनुत्तमाम् | अभ्यर्च्येन्द्रं महैश्वर्यं गौरिसौभाग्यमाप्नुयात् || ६० || सर्वान् कामानवाप्नोति सम्पूज्य पुरुषोत्तमम् | नारायणन्तु सम्पूज्य नराणामधिपो भवेत् || ६१ || दृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् | वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् || ६२ || सोमनाथं समभ्यर्च्य रुद्रलोके महीयते | पाण्डुकूटस्य या धारा सा धारा नर्मदा नदी || ६३ || तस्यां स्नात्वा चतुर्दश्यां वाजिमेधञ्च विन्दति | शिवविष्णोर्मध्यगता या च योनिर्विनिःसृता || ६४ || महानदी सा विज्ञेया सर्वपातकनाशिनी | नितम्बस्तनयोर्मध्ये सा धारा परमेश्वरि || ६५ || प्. २६७) मङ्गला नाम सा धारा सर्वमङ्गलकारिणी | बिल्वश्रीपर्वतान्ते च या धारा सा सरस्वती || ६६ || तस्याः स्वच्छोदकं पीत्वा कविनामग्रणीर्भवेत् | मतङ्गस्य च या धारा नर्मदा सा [प्रकीर्तिता] न संशयः || ६७ || कामकुण्डस्य या धारा कामगङ्गा समुच्यते [सा उच्यते] | कामाख्यायाश्च या धारा सा गङ्गा परिकीर्तिता || ६८ || नन्दिकुण्डस्य या धारा सा ज्ञेया च मधुस्रवा | कामधेन्वाश्च या धारा सा विज्ञेया सुधर्मिणी || ६९ || पद्मशैलस्य या धारा सा गङ्गा उर्वशी स्मृता | नीलकुण्डस्य या धारा सुभद्रा परिकीर्तिता || ७० || व्यासकुण्डस्य या धारा चन्द्रभागा च सा स्मृता | शक्रशैलस्य या धारा उर्वशी सा निगद्यते || ७१ || सोमकुण्डस्य या धारा नदी वैतरणी च सा | यमशैलस्य या धारा सा च गोदावरी स्मृता || ७२ || भण्डीशस्य च यां धारां स्नात्वा पीत्वा प्रणम्य च | अग्निष्टोमशतस्यापि लभते फलमुत्तमम् || ७३ || धर्मारण्यं ततो गत्वा स्नात्वा रामह्रदे प्रिये | कोटिलिङ्गं ततो वीक्षेत् प्रापयेदामरीं तनुम् || ७४ || कामस्येवोत्तरे देशे त्रिंशद्धन्वन्तरे प्रिये | कोटिलिङ्गन्तु यः पश्येद् वाजपेयफलं लभेत् || ७५ || प्. २६८) प्राणदण्डाय नित्याय नमस्ते लोहिताय च | नमः सहस्रशीर्षाय कोटिलिङ्ग नमोऽस्तु ते || ७६ || नमो गिरिपते नित्यं गिरिवृक्षप्रियाय च | नमो यज्ञाधिपतये कोटिलिङ्ग नमोऽस्तु ते || ७७ || इत्यनेन तु सम्पूज्य जवापुष्पैः प्रपूजयेत् | पायसञ्च बलिं दत्वा स्तुत्वा जप्त्वा विसर्जयेत् || ७८ || तस्य दक्षिणपार्श्वेन या शिला पार्श्वसङ्गता | वेतालं तं महादेवं वामे विष्णुद्विकर्णकम् || ७९ || पुष्पाञ्जलिं गृहीत्वा तु पठेन्मन्त्रमनन्यधीः | धर्मकामार्थमोक्षाय क्रूराय कथनाय च || ८० || सांख्याय सांख्यमुख्याय वेतालाय नमो नमः | कृष्णाजिनोत्तरीयाय पीतवस्त्रधराय च | त्वमेव ब्रह्मा विश्वेश ब्रह्मरूप नमोऽस्तु ते || ८१ || तस्याग्रतो ब्रह्मयोनिं निर्गमे [गत्वा च मन्त्रमुच्चरन्] मन्त्रदुःसहम् | ब्रह्मयोनिं विशेद्यस्तु न पुनर्योनिमाविशेत् || ८२ || तिर्यग्योनिं न गच्छेत्तु ब्रह्मणः पदमाविशेत् | शिववल्लभदेशे तु मोक्षमार्गनिरोधके || ८३ || प्रसन्नो देवदेवेश त्राहि मां योनिसङ्कटात् | निःसृतो ब्रह्मयोनेः स गणेशं द्वारि पूजयेत् || ८४ || महाकायं शिलोत्कृष्टं मन्त्रेणानेन साधकः | नमो लम्बोदर श्रेष्ठ देवानामिष्टदायक || ८५ || प्. २६९) अखिलाख्यं प्रभो नाथ नमस्ये [त्राहि मां योनिसंकटे] योनिसङ्कटम् | ततो गच्छेन्मुक्तिमार्गं शक्रस्याभिमुखे [मुखो यथा] यदि || ८६ || वामदक्षिणपार्श्वे द्वे युगे च सत्यसम्भवे | उर्ध्वं कृतयुगञ्चैव पार्श्वे त्रेता च द्वापरः || ८७ || बलिवक्त्रे स्थितं लिङ्गं गुप्ताख्यं भुवनेश्वरम् | तं प्रणम्य नरो भक्त्या प्राप्नुयादैश्वरं पदम् || ८८ || चतुर्युगं नमस्कृत्य स्पृष्ट्वा देवं कपर्दिनम् | न जायते पुनर्गर्भे युगदोषैर्न लिप्यते || ८९ || युगानामधिपः सो हि [यो हि] जगज्जातिस्वरूपधृक् | तद्युगे यत् कृतं पापं त्राहि त्वं [मां] परमेश्वर || ९० || सम्भृतिभृतिपर्याप्त [-पर्याप्तः - युगः श्वरः] त्रेतायुग नरेश्वर | यद्युगे [तद्-] यत् कृतं पापं तद्व्यपोहतु भूमिजम् || ९१ || सत्यसाधन [धनः ख्यः त्मकः] सत्याख्य नरनारायणात्मक | हेतुभूत [-तः] कृतादीनां सत्यधर्म नमोऽस्तु ते || ९२ || विजयादौ यास्य चाज्ञा युगचक्र बलीश्वर | नमामि सततं भक्त्या पापं हर नमोऽस्तु ते || ९३ || प्. २७०) पञ्चाक्षरेण मन्त्रेण पूजयेच्च कपर्दिनम् | राजसूयाश्वमेधस्य तत् फलं प्राप्नुयान्नरः || ९४ || कामधेनुं ततो दृष्ट्वा सर्वान् कामानवाप्नुयात् | पूजयित्वा नमस्कृत्य ब्राह्मणान् भोजयेत्ततः || ९५ || सौरभेययै नमस्तुभ्यं कामगे कामचारिणि | धेनुरूपेण सा देवी मम पापं व्यपोहतु || ९६ || सन्दिष्टञ्च [पुष्करे च] कुरुक्षेत्रे राहुग्रस्ते दिवाकरे | तुलापुरुषदानेन यत् फलं समुदाहृतम् || ९७ || तत् फलं समवाप्नोति कामधेनोश्च दर्शने | दक्षिणां गुरवे दद्यात् सवित्रेऽर्घ्यं निवेदयेत् || ९८ || शान्तिं कृत्वा ततो देवि ध्यानं कुर्यादनन्यधीः | उत्थाय सूर्यं संवीक्ष्य पठेन्मन्त्रद्वयं प्रिये || ९९ || नमोऽस्तु काल्यै गिरिजायै कामेश्वर्यै नमोऽस्तु ते | नमोऽस्तु देव्यै गिरिसम्भवायै नमः || १०० || नमोऽस्तु गौर्यै बृजिनान्तकायै समलीलाबलं सत्यमिदं सुरेश | अतीर्थे तीर्थनिष्ठेभ्यो व्यासादिभ्यो नमो नमः || गजेभ्यो रक्षकेभ्यश्च क्षत्रियेभ्यो नमो नमः || १०१ || पोण्ड्रविघ्न नमस्तेऽस्तु नमस्ते कामभैरव | नमस्ते दक्षिणामूर्ते दण्डपाणे नमोऽस्तु ते || १०२ || तीर्थं गत्वोपवासश्च श्रद्धा च जपकर्मणि | करिष्यतीति विश्वास एतत् सिद्धेस्तु लक्षणम् || १०३ || प्. २७१) श्रीदेव्युवाच यो नरः पापकर्माणि क्षेत्रेऽस्मिन् कुरुते सदा | सुरादिपातकं घोरं स किं मोक्षं गमिष्यति || १०४ || ईश्वर उवाच पुण्यक्षेत्रे स्थितो यो वै पातकेषु रतः सदा | योनिं प्रविश्य मनुजो वर्षाणामयुतं वसेत् [भ्रमेत्] || १०५ || पुरे [परं स्थानं लभेत् तत्र] पुरे च तत्रैव ज्ञानं सम्पद्यते सतः | मोक्षं गमिष्यति सोऽपि गुह्यमेतन्मम प्रिये || १०६ || सुलभोऽन्यत्र लौहित्यः पञ्चस्थानेषु दुर्लभः | अगस्त्यस्य च तीर्थे च मणिकर्णे ह्रदे तथा || १०७ || अपुनर्भवे चन्द्रकुण्डे स्थानपञ्चकमीरितम् | अक्षतेन विशेषेण शतमार्गसहस्रकः [-कैः] || १०८ || क्षेत्रबाह्यस्थितैः शून्यैः कश्चिन्नास्ति विशेषकः | कालाख्यो रणभद्रश्च सौरभश्च महाबलः || १०८ || वेतालश्च विकण्टश्च एते पूर्वे स्थिता गणाः | एकजङ्घोऽनलश्चैव कर्दमालिप्तविग्रहः || १०९ || घण्टाकर्णस्तदूर्द्धश्च दक्षिणं पार्श्वमास्थितः | बलनाशो भीषणश्च पश्चिमायां व्यवस्थितः || ११० || पञ्चमो लोहिताक्षश्च नन्दनश्च तथा मतः | केशवश्चक्रपाणिश्च धनदस्योत्तरा गणाः || १११ || प्. २७२) मधुरो मधुकश्चैव जयन्तश्च मधुप्रियः | अविशेषेण रक्षन्ति त्रयः कामेश्वरीस्थिताः || ११२ || गणेशः कालदण्डश्च विकर्णश्च कपिध्वजः | द्वारं रक्षति वै सर्वं मण्डपञ्च स्वयं हरः || ११३ || कन्दर्पो मकरन्दश्च प्रबलश्च गदाधरः | सोमश्च विपुलश्चैव अश्वतीर्थे स्थिता गणाः || शतसाहस्रयक्षिण्यो मुक्तिद्वारञ्च रक्षति || ११४ || दशसाहस्रकैश्चैव अन्तर्गेहञ्च रक्षति | कुब्जतीर्थं ततो रक्षत्यष्टभिर्दशभिर्युतैः || ११५ || तीर्थे प्रासादकरणे धर्मारम्भे विशेषतः | व्रतयज्ञसमारम्भे विघ्नानि निवसन्ति वै || ११६ || तेषां सम्पूजयेदादौ बलिभिर्मोदकादिभिः | अन्यथा जायते विघ्नमिति जानीहि मे प्रिये || ११७ || अथापराणि विघ्नानि शरीरे निवसन्ति वै | मानसानि ज्ञानघ्नानि तानि मम शृणु प्रिये || ११९ || कश्चिन्निवर्तको देवि कश्चित् प्रवर्तकस्तथा | सन्निकर्षं विदूरं वा सहस्रं लक्षमेव च || ११९ || पापानुस्मरणञ्चैव आलस्यमपि दूषणम् | शोकमोहजराव्याधितारुण्यधननाशकम् || १२० || कलहं भार्यया सार्धं दुर्भिक्षं गृहसङ्कटम् | नानाव्रतसमाकीर्णं धार्मिकोऽस्मीति मानसः || १२१ || प्राप्तशोकन्तु धर्मस्य कारणे हीनपातकम् | वृक्षपत्रञ्च तुलसी धात्री वृक्षफलं तथा || १२२ || प्. २७३) शालग्रामशिलाखण्डं प्रतिमादारुजं तथा | मानुषं ब्राह्मणञ्चैव स्वयम्भूर्वर्तुल [स्वयम्भुवं वर्तुलं] शिवम् || १२३ || शङ्खशम्बूकभेदञ्च खड्गस्य मांससम्भवम् | गुरौ च मानुषी बुद्धिः तीर्थजले जलं तथा | दृष्ट्वा सर्वं भवेदेवं तीर्थजातं जलं तथा || १२४ || गङ्गायां वा नदीरूपं पुण्यक्षेत्रञ्च भूमिका | इत्येतानि च विघ्नानि संयान्ति च पुनः पुनः || १२५ || मन एवोत्तरेन्नित्यं मन एवात्र कारणम् | मन एव मनुष्याणां कारणं बन्धमोक्षयोः || १२६ || तन्निष्ठस्तत् परं जातं तन्मुख्यं दुःखकारणम् | चित्तमन्तर्गतं दुष्टं तीर्थस्नाने निषिध्यते || १२७ || पठेद् यः शृणुयाद्वापि भक्तिं मुक्तिमवाप्नुयात् | पुत्रार्थी लभते पुत्रं कीर्त्यर्थी कीर्तिमाप्नुयात् || १२८ || विद्यार्थी लभते विद्यां जयार्थी लभते जयम् | ब्रह्महत्यादिपापानां पापशुद्धिमवाप्नुयात् || १२९ || बन्ध्यापि लभते पुत्रं कन्या विन्दति सत्पतिम् | मोक्षार्थी लभते मोक्षं भोगार्थी भोगमाप्नुयात् | काव्यार्थी च कवित्वञ्च निःसारः सारमाप्नुयात् || १३० || ज्ञानार्थी लभते ज्ञानं सर्वसंसारनाशनम् | इदं स्वस्त्ययनं धन्यं योगिनीनामतन्त्रकम् || १३१ || प्. २७४) नाकाले मरणं तस्य श्लोकमेकन्तु यः पठेत् | श्लोकार्धपठनादस्य दुष्टग्रहक्षयो भवेत् || १३२ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे अष्टमः पटलः नवमः पटलः श्रीभगवानुवाच शृणु देवि प्रवक्ष्यामि निर्मलं भुवि दुर्लभम् | लिङ्गाष्टकशतं चक्रे हरिक्षेत्रसमं शुभम् || १ || विष्णुपुष्करकं क्षेत्रं शताष्टतीर्थसंयुतम् | हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् || २ || विदुषां गणभूयिष्ठं धनधान्यादिसंयुतम् | गृहाणां पुरतो रम्यं भुवि चत्वरभूषितम् || ३ || नानामणिगणाकीर्णं नानारत्नोपशोभितम् | नानातोरणसङ्कीर्णं वीथिभिः समलङ्कृतम् || ४ || राजहंसीनिभैः शुभ्रैः प्रासादैरुपशोभितम् | सततञ्च जलैर्धौतं सुराभाण्डमिवाशुचि || ५ || यदि [णोस् ६ अन्द् ७ चोन्स्तितुते अ सिन्ग्ले वेर्से ओf fओउर् लिनेस् इन् मलिनि मेत्रे बुत् थे म्स् ब्रेअक्स् थे वेर्से इन्तो त्wओ.] वसति गुहायां पर्वताग्रे चिरं वा | यदि [यदि धरति त्रिदण्डं भस्मकाच्छादनं वा] वसति त्रिखण्डे तस्य पार्श्वे च दूरे || ६ || प्. २७५) यदि पठति पुराणं वेदसिद्धान्ततत्त्वम् | यदि हृदयमशुद्धं सर्वमेतद् विरुद्धम् [विशेषतः] || ७ || न तीर्थानि न दानानि न व्रतानि न चाश्रमाः | दुष्टाशयो दुष्टरतिः प्रनष्टव्यधितेन्द्रियः || ८ || इन्द्रियाणि वशीकृत्य यत्र तत्र वसेन्नरः | तत्र तस्य कुरुक्षेत्रं प्रयागं पुष्करं गयाम् || ९ || न लङ्घयेत् पानधर्मं देशधर्मं न लङ्घयेत् | यस्मिन् पीठे य आचारः स आचारो विधिः स्मृतः || १० || ओड्रे पुरुषोत्तमक्षेत्रे पीठे च वरवर्णिनि | अन्नं न दूषयेत् तत्र ब्राह्मणेन च वृत्यता || ११ || स्पृष्टास्पृष्टो योनिदोषः पानदोषो न गण्यते | विवाहव्यत्ययस्तत्र परिवित्तिर्न दुष्यति || १२ || शयनञ्चैव शेषे [नारीणां गोप्यालापनं तथा] तु स्त्रीजनैः सह संस्थितिः | जालन्धरे शिलातीर्थे [महेशानि दूषयेन्मत्स्यथमांसकम्] न दुष्येन्मत्स्यमांसकम् || १३ || पादुकाया [पादुकाप्रदानं] विशुद्धिश्च शुभ्रं तक्रञ्च गर्हितम् | पूर्णसन्ध्या स्वधर्मेण कालधर्मो न विद्यते || १४ || सिद्धक्षेत्रे [सर्वश्रे] योगिनीपीठे धर्मं कैरातजं मतम् | कामरूपे न संन्यासस्तथा दीर्घव्रतं प्रिये || १५ || प्. २७६) न त्यजेत् सामिषं देवि ब्रह्मचर्यमतं न च | संसर्गपातकेनैव स्त्रीधर्मौ धर्ममाश्रयेत् || १६ || न शुक्रदर्शनं स्त्रीणां ताम्बूलाशी सदा भवेत् | हंसपारावतं भक्ष्यं कूर्मवाराहमेव च || १७ || कामरूपे परित्यागाद्दुर्गतिस्तस्य सम्भवेत् | हीनाचारस्तु सौमारे सर्वाशी सर्वविक्रयी || १८ || तत्र नारी सदा तुष्टा तत्र राजा सुपुण्यवान् | कोल्वपीठे [कोल-] जातिधर्मान् स्वजात्युक्तेन वर्तयेत् || १९ || धर्माधर्मविचारेण स्वं रूपं स्वनिरूपकम् | महेन्द्रे चैव योगी च ब्रह्मज्ञानी सुबुद्धिमान् || २० || श्रीहट्टेपानविपुलं न चान्नस्य परिक्रिया | एतत् सर्वं समाख्यातं यत् पृष्टं हि त्वयाधुना || २१ || अशिष्याय न दातव्यं देवब्राह्मणनिन्दके | पिशुनाय न दातव्यं वेदभक्तिविवर्जिते || २२ || दातव्यं भक्तियुक्ताय स्वधर्मनिरताय च | विविधैः [नीलरक्तैस्तथा] सुन्दरैः शुभ्रैः प्रासादैरुपशोभितम् || २३ || रक्षितं शस्त्रसङ्घैश्च परिखाभिरलङ्कृतम् | सितरक्तैस्तथा पीतैः कृष्णैश्चान्यैश्च वर्णकैः || २४ || धूम्रैः समीरणैर्धूमैः पताकाभिरलङ्कृतम् | नित्योत्सवं प्रमुदितं नानावादित्रनिस्वनम् || २५ || प्. २७७) वीणावेणुमृदङ्गेन क्षेपणीभिरलङ्कृतम् | देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डितैः || २६ || पूजा विचित्ररचितैः सर्वतः समलङ्कृतम् | स्त्रियस्तत्र प्रमुदिता दृश्यन्ते तनुमध्यमाः || २७ || द्वारमालार्पितग्रीवाः पद्मपत्रायतेक्षणाः | पीनोन्नतकुचयुगाः पूर्णचन्द्रसमाननाः || २८ || स्थिरात्मकाः सुकपोलाः काञ्चीनूपुरनादिताः | सुकल्पचारुजघनाः कर्णान्तायतलोचनाः || २९ || नानाजलाशयैश्चान्यैः पद्मिनीशतमण्डितैः | सरांसि च मनोज्ञानि प्रसत्रसलिलानि च || ३० || कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः | कदम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः || ३१ || कारण्डवोत्करैर्हंसैस्तथान्यैर्जलचारिभिः | एवं नानाविधैर्वृक्षैः पूर्ण नानाविधै रवैः || ३२ || नानाजलाशयैश्चान्यैः शोभितं तत्समन्वितम् | आस्ते तत्र स्वयं देवो हयग्रीवो जनार्दनः || ३३ || पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च | पुष्करिण्यस्तडागानि वाप्यः कुण्डाश्च सागराः || ३४ || तेभ्यः पूर्वं समाहृत्य जलानि च पृथक् पृथक् | सर्वलोकहितार्थाय रुद्रः सोमगणैः सह || ३५ || (तीर्थमपुनर्भवं नाम तस्मिन् क्षेत्रे वरानने | चकार कामिभिः सार्धं ततोऽपुनर्भवं स्मृतम् || ३६ ||) प्. २७८) अस्मिंश्च विपुले क्षेत्रे माघे मासि मम प्रिये | यस्तत्र यात्रां कुरुते विपुले [पूतात्मा] विजितेन्द्रियः || ३६ || विधिवत् सरसि स्नात्वा ततः श्रद्धासमन्वितः | देवानृषीन्मनुष्यांश्च पितॄन् सन्तर्पयेत्ततः || ३७ || तिलोदकेन विधिवन्नामगोत्रविधानतः | स्नात्वैवं विधिवत्तत्र सोऽश्वमेघफलं लभेत् || ३८ || ग्रहोपरागे विषुवे संक्रान्त्यामयने तथा | युगादौ षडशीत्याञ्च तथान्ये च शुभे तिथौ || ३९ || ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् | अन्यतीर्थाच्छतगुणं फलं [फलं प्राप्नोति वै सदा] तु प्राप्नुवन्ति वै || ४० || पिण्डं तत्र प्रयच्छन्ति पितृभ्यः सरसस्तटे | पितॄणामक्षयां तृप्तिं तत् करोति न संशयः || ४१ || धनुरष्टप्रमाणञ्च कुण्डमानं प्रकीर्तितम् | वराहकामयोर्मध्ये तत्तीर्थं सर्वकामदम् || ४२ || पुनर्न भवनं यस्मादपुनर्भवं तत् सरः | तत्र स्नात्वा नरो याति भास्करस्यालयं प्रति || ४३ || न पुनर्जायते जन्तुर्यस्मात् त्वयि निमज्जनात् | अतः स्नामि महातीर्थ पापं हर नमोऽस्तु ते | अनेन स्नानं कुर्यात्तु पश्येद्देवं त्रिलोचनम् || ४४ || गोकर्णञ्च विकर्णञ्च योगीशं सर्वकामदम् | गोकर्णं वृषभाकारं विकर्णं पुरुषाकृतिम् || ४५ || प्. २७९) अधस्ताच्चैव योगानां योगज्ञानं ततः परम् | उत्तरे च सरस्तीरे पर्वते भद्रकाशके || ४६ || या शिला पौड्रवित्ता च मध्ये शोणच्युति प्रिये | पञ्चधन्वन्तरे यावद्वरवीथीति क्षेत्रकम् || ४७ || तस्याः शैवशिलायास्तु स्वभागे देवतात्रयम् | सम्पाद्य विधिवद्भक्त्या गन्धैः पुष्पैः पृथग्विधैः || ४८ || चतुर्दश्याञ्च मिथुने मृते मोक्षमवाप्नुयात् | त्रिशूलाभयहस्ताय यज्जटाभारधारिणे [जटाभारविधारिणे] || ४९ || वृषध्वजाय देवाय गोकर्णाय नमो नमः | युगरूपाय देवाय चन्द्रहस्ताय विष्णवे || ५० || गदासारङ्गहस्ताय विकर्णाय नमो नमः | महेशाय वृषस्थाय ज्ञानरूपाय ज्ञानिने || ५१ || धर्मज्ञाय स्वरूपाय योगीन्द्राय नमोऽस्तु ते | अपुनर्भवपूर्वे तु नवधन्वन्तराय च || ५२ || सप्तधन्वन्तरं यावत् कुण्डं वाराणसीयकम् | तत्र स्नात्वा महेशानि मृतो मोक्षमवाप्नुयात् || ५३ || चैत्रे कामत्रयोदश्यां मन्त्रेणानेन यत्नतः | सर्वपापविनिर्मुक्तः स गच्छेद् ब्रह्मणः पदम् || ५४ || सर्वतीर्थेषु यत् स्नानं कृतं वर्षशतैरपि | सकृद् वाराणसीकुण्डे स्नात्वा तत्फलमाप्नुयात् [लभते क्षणात्] || ५५ || प्. २८०) तस्य पूर्वधनुः पञ्च दैर्घ्यमानेन शाङ्करि | मार्कण्डेयह्रदो नाम तत्र स्नात्वा व्रजेच्छिवम् || ५६ || उत्तरेण सरस्तीरे मार्कण्डेश्वरसंज्ञितम् | ये वा पश्यन्ति च स्नात्वा कुण्डे माहेश्वरे ततः || ५७ || आदित्यमर्चितं तत्र देवदेवं त्रिलोचनम् | सर्वपापविनिर्मुक्ता विमानवरमास्थिताः || ५८ || उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति वै | तिष्ठन्ति तत्र मुदिताः कल्पमेकं वरानने || ४९ || मार्कण्डेयो मुनिः श्रेष्ठस्तपस्तेपे महामतिः | मार्कण्डेयह्रदो नाम पापं मम सदा हर [पापं मम हरोहरः विख्यातो वै ह्रदो वरः] || ६० || अनेन मज्जनं कृत्वा कुर्यान्मुण्डस्य मुण्डनम् | श्राद्धं कुर्यात् प्रयत्नेन उपवासं समाचरेत् || ६१ || ततः प्रभाते विमले नित्यं निर्वर्त्य साम्प्रतम् | गोकर्णस्य च देवस्य [विकर्णस्य] नातिदूरे महेश्वरि || ६२ || कुण्डं ब्रह्मसरो नाम एकविंशतिमानतः | तत्र स्नात्वा क्लमहरं न पुनर्भवमादिशेत् || ६३ || प्. २८१) मुक्तये सर्वपापानां ब्रह्मणा निर्मितं पुरा | ब्रह्मकुण्ड महाभाग त्राहि मां भवसागरात् || ६४ || स्नात्वा चानेन मन्त्रेण सरसस्तस्य पश्चिमे | कृष्णाख्यः शैलरूपश्च वराहो नाम नामतः || ६५ || तं प्रणम्य नरो भक्त्या विष्णुलोके प्रमोदते | पिशङ्गरोमाञ्चिततुङ्गकाय दंष्ट्राग्रभागैश्च धराधराय | मनोज्ञनीलाचलमूर्तये [नीलाचलाङ्गकलेवराय महावराहाय नमो नमस्ते] च मुक्तिप्रदायाऽस्तु नमो नमस्ते || ६६ || गोकर्णस्य तदैशान्यां इषुक्षेपत्रयान्तरे | मदने पर्वते रम्ये गत्वा पश्येच्च शङ्करम् || ६७ || केदाराख्यं महादेवं सर्वदेवनमस्कृतम् | तं लिङ्गमव्ययं दृष्ट्वा श्रद्धया सुसमाहितः || ६८ || पूजयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः | धूपैर्दीपैश्च नैवेद्यैर्नमस्कारैस्तथा स्तवैः || ६९ || दण्डवत् प्रणिपातैश्च नृत्यगीतादिभिस्तथा | सम्पूज्य तं विधानेन शिवलोकं व्रजेन्नरः || ७० || मदने सागरश्रेष्ठ सुखसौभाग्यदायक | आरोहयामि शिखरं पापं हर नमोऽस्तु ते || ७१ || पूर्वाशाभिमुखो भूत्वा गत्वा कुर्यात् प्रदक्षिणम् | क्षणेनैव समुद्धृत्य शिवलोकं स गच्छति || ७२ || प्. २८२) शिवं शुक्लवर्णं श्वेतवृषभारूढं पद्मासनस्थम् | श्वेतनागयज्ञोपवीतिनं वरदाभयहस्तं सोमसूर्याग्निचक्षुषम् | जटामुकुटचन्द्रशेखरं शितभस्माङ्गलेपनम् || ७३ || अर्धनारीश्वरं पञ्चवक्त्रं त्रिनेत्रम् | स्वस्य वामे तत्पुरुषे अघोरमीशानम् || ७४ || अधः पश्चिमं डमरुखड्गादिधारिणम् | खड्गगोक्षीरयोर्वर्णं उत्तरं वामदेवकम् || ७५ || शङ्खचक्रधारिणं तप्तहेमाभवर्णकम् | पूर्वं तत्पुरुषं देवं गदापद्मधरं परम् || ७६ || स्वछसिन्दूराभं दक्षिणमघोरं त्रिशूलम् | कपिलविटङ्कदंष्ट्रं [विकटदंष्ट्रं] नीलमेघाञ्जनोपमम् || ७७ || एवं केदाराख्यं शिवं ध्यात्वा शिवतन्त्रोक्तेन विधिना | (पूजयित्वा) [पूजयेत् प्रतिमन्त्रेण गृहीत्वा च पुष्पाञ्जलिम्] पुष्पाञ्जलिं गृहीत्वा प्रतिमामन्त्रेण पूजयेत् || ७८ || नमश्चन्द्रार्धचूडाय नमः खट्वाङ्गधारिणे | नमोऽस्तु शूलहस्ताय केदाराय नमो नमः || ७९ || सर्वलोकेश्वरं देवं मोक्षकारणमव्ययम् | निष्कलं परमं देवं प्रणतोऽस्मि पुरातनम् || ८० || सर्वेषामेव गोप्तारं नमस्ते शम्भुमव्ययम् || ८१ || शब्दातीतं गुणातीतं नमस्ये शम्भुमव्ययम् | इति प्रसादनं कृत्वा केदारस्य च पश्चिमम् || ८२ || प्. २८३) गत्वा ब्रह्मवरं वृक्षं [वृक्षं नरः समवधारयेत्] मच्छिद्रमवधारयेत् | केदारञ्च नमस्कृत्य कल्पवृक्षं ततः पुनः || ८३ || दशजन्मार्जितं पापं तत्क्षणादेव नश्यति | नमोऽव्यक्तस्वरूपाय महामलयवासिने || ८४ || महेन्द्रस्योपरिष्ठाय न्यग्रोधाय नमो नमः | केदारस्य च कौवेरे इषुक्षेपत्रयान्तरे || ८५ || पौष्पके नगरे क्षेत्रे कमलाक्षहरं यजेत् | संसारसागरे मग्नं पापग्रस्तमचेतनम् || ८६ || त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते | त्रिपुरारे नमस्तेऽस्तु कमलेश नमोऽस्तु ते || ८७ || दक्षिणे कल्पवृक्षस्य इषुक्षेपान्तरे प्रिये | छत्रकोरगिरिर्योऽसौ स गिरिः परिपात्रकः || ८८ || तस्यारोहणमात्रेण न पुनर्जायते भुवि | अष्टषष्टिस्तु शैलेऽस्मिन्मध्य उन्नतको गिरिः || ८९ || मन्दराख्यन्तु ते शैलं गत्वा तत्र समाहितः | पूर्वभगे तु शैलस्य स्थितो मधुरिपुर्हरिः || ९० || दर्शनात्तस्य देवस्य कुलानां तारयेच्छतम् | केदारमुदकं पीत्वा कामधेनुं स्पृशेद्यदि || ९१ || पूजयेत् केशवं भक्त्या न भूयो जायते क्वचित् | अनुत्तमोत्तमं क्षेत्रं शैलं मन्दारकं प्रिये || ९२ || ककुदेश्वरहरं दृष्ट्वा स याति परमां गतिम् | ब्रह्मेश्वरश्च तत्रैव होममध्ये प्रतिष्ठितः || ९३ || प्. २८४) ब्रह्मेश्वरं नमस्कृत्य ब्रह्मज्ञानमवाप्नुयात् | भावभूतेश्वरं दृष्ट्वा कृत्वा चैव प्रदक्षिणम् || ९४ || मुच्यते पापसङ्घैश्च शिवलोके महीयते | सम्पूजयेच्छिवं यस्तु मन्दारे क्षेत्रपर्वते || ९५ || जन्मार्जितस्य पापस्य दर्शनाद्याति संक्षयम् | प्रयागे सङ्गमे स्नात्वा यत् फलं लभते नरः || ९६ || तत् फलं लभते चाग्र्यं सहस्रगुणमेव हि | धर्मेश्वरस्य देवस्य कूपस्तिष्ठति चाग्रतः || ९७ || तत्र स्नानेन देवेशि पिण्डनिर्वपणेन च | गोसहस्रफलं सम्यक् लभते च वरानने || ९८ || पारिपात्रस्योत्तरतो धनुर्विशान्तरे प्रिये | कपिलस्याश्रमे रम्ये सम्पश्येत् कपिलेश्वरम् | तं सम्पूज्य नरो भक्त्या विष्णुलोके महीयते || ९९ || पारिपात्रे स्थितं देवं सर्वाघभयनाशनम् | न [तेषां किञ्चिद्भयं नास्ति घोरसंसारसागरे] तेषां ये प्रपश्यन्ति भयं संसारसागरे || १०० || पिशाचमोचनं नाम तीर्थं तस्य च पूर्वतः | धनुरेकादशान्ते च तत्रैव कालभैरवः || १०१ || कृष्णं गौरं वृषाकारं पूर्वभागे गतं प्रिये | पिशाचमोचने तीर्थे पूजयामास शूलिनम् || १०२ || इत्थं देवस्य तल्लिङ्गं कपर्दीश्वरमुत्तमम् | पूजनीयं प्रयत्नेन स्तोतव्यं विविधैः स्तवैः || १०३ || प्. २८५) व्याघ्रेश्वरस्य देवस्य दक्षिणे वरवर्णिनि | स्वयम्भूस्तत्र लिङ्गं वै देवानामपि दुर्लभम् || १०४ || पूर्वमुखन्तु तल्लिङ्गं श्रेष्ठस्थानमुदाहृतम् | कृत्तिवासेश्वरं प्राप्य संसारविगतज्वराः || १०५ || संसारभयनिर्मुक्ताः सर्वपापविवर्जिताः | सुखेन मुक्तिमायान्ति यथार्हन्ति यतस्तथा || १०६ || व्याघ्रेश्वरस्य चैशान्ये धनुर्दशप्रमाणतः | कृत्तिवासेश्वरं प्राप्तं लिङ्गयोनिप्रतिष्ठितम् || १०७ || कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः | यदीच्छेत्तारकं ज्ञानं शाश्वतं चामृतं पदम् || १०८ || एतत् सर्वञ्च कर्तव्यं यद्दीच्छेत् सुखमात्मनः | मदनाचलस्येशाने इषुक्षेपत्रयान्तरे || १०९ || वाणेश्वरन्तु विख्यातं सप्तपातालभेदकम् | वत्सहतन्तु लिङ्गानां सर्वेषामुत्तमोत्तमम् || ११० || तं प्रणम्य नरो भक्त्या वत्सराज्जायते नरः | तस्य देवस्य वायव्ये नानावर्णेन या शिला || १११ || गरुडाख्यं महालिङ्गं पूजयेद् गरुड [विना (?)] नरः | दर्शनात्तस्य देवस्य गोशतस्य फलं लभेत् || ११२ || नमस्ते पक्षिराजेन्द्र वासुदेवहिते रत | अनुज्ञां देहि पक्षीश त्वमस्य दर्शनं प्रति || ११३ || प्रणिपत्य पठेन्मन्त्रं पश्चिमस्यान्तरे महत् | विष्णोरायतनं प्राप्य तत्र शिवजलं शुभम् || ११४ || प्. २८६) स्नात्वा च मुण्डनं कृत्वा ध्यात्वा विष्णुं क्षपेन्निशाम् | ततः प्रभाते देवेशि मणिकूटस्य चोत्तरे || ११५ || बल्लभाख्या नदी पुण्या सर्वपापप्रमोचनी | तत्र स्नात्वा चतुर्दश्यां माघे वा फाल्गुनेऽथवा || ११६ || बल्लभायाञ्च देवेशि महापातकनाशनम् | बल्लभायां नरः स्नात्वा नीलकण्ठस्य दर्शनात् || ११७ || न स्पृशन्तीह पापानि सप्तजन्मकृतान्यपि | तस्मिंस्तीर्थे नरः स्नात्वा दृष्ट्वा सादरमाधवम् || ११८ || यत्र तत्र स्थितो वापि संसारे न पुनर्विशेत् | संसारे पतितानाञ्च गङ्गा त्राणकरी भवेत् || ११९ || वराहविवरं दृष्ट्वा नरो गच्छेन् [व्रजेत्] महानदीम् | अशोकामलसञ्जाता कोलदण्डविनिःसृता || १२० || नन्दिनी पङ्कजा चैव नदी मधुमती परा | मणिकूटे च संयाता तस्य तत्राधिकं फलम् || १२१ || नमोऽस्तु ते पुण्यजले नमः सागरगामिनि | नमस्ते पापविमले नमो देवि वराङ्गने [शिवप्रदे] || १२२ || अपुनर्भवजले स्नात्वा विशेद्गोकर्णमीश्वरम् | स्वर्गद्वारञ्च तत्रैव इमं मन्त्रमुदीरयेत् || १२३ || ब्रह्मा विष्णुस्तथा रुद्रः सर्वदेवैर्निरूपितः | स्वर्गद्वारं महापुण्यं समारोहेत सुदुर्लभम् || १२४ || मणिकूट गिरिश्रेष्ठ पीतवर्ण त्रिलोचन | प्. २८७) दशलक्षणयुक्ताय चतुष्पादाय चारवे | अर्घ्यं ददामि धर्माय स्वर्गद्वारनिवासिने || १२५ || गत्वा तत्रपञ्चहस्तं [युग्महस्तं] नमस्कुर्यादतन्द्रितः | ह्रदे वाराणसीये च मार्कण्डेयह्रर्द तथा || १२६ || स्नात्वा कामहरं [कामेश्वरं] दृष्ट्वा कल्पवृक्षं नमेत्ततः | स्नात्वा पश्चाद् दुर्लभायां ततो हरिगृहं व्रजेत् || १२७ || योऽर्चां तीर्थे च विधिवत् करोति नियतेन्द्रियः | कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति || १२८ || मणिकूटस्य पूर्वे तु नातिदूरे महेश्वरि | विष्णुपुष्करकं नाम सर्वतीर्थोद्भवं जलम् || १२९ || तत्र स्नात्वा वरारोहे विपुलां लभते श्रियम् | पुष्कराकारमास्थाय स्थितोऽसौ वसुधातले || १३० || मर्त्यलोकहितार्थाय पापं मे हर पुष्कर | स्नात्वा चानेन मन्त्रेण वारुणं तत्र सञ्जपेत् || १३१ || दद्यादर्घ्यञ्च विधिवदारोहेदपि कूटकम् | मणिकूटाचले विष्णुर्हयग्रीवस्वरूपधृक् || १३२ || शतबाहुप्रमाणञ्च अचलाष्टसहस्रकम् | मन्त्रेणारोहयेद्देवि पीतपुष्पेण पूजयेत् || १३३ || ततः स विष्णुदेहञ्च द्वारिकञ्च प्रसादयेत् | दण्डहस्त महाबाहो कालदैत्यनिषूदन || १३४ || प्. २८८) द्वारपाल नमस्तेऽस्तु कपाटं देहि मे सदा | पीतञ्च द्विभुजं शान्तं मणिकुण्डलचर्चितम् [-मण्डितम्] || १३५ || चक्रं वाणधरं शुक्लं नमस्त परिवेष्टितम् | सर्वलक्षणसम्पन्नं मणिशैलं त्रिलोचनम् || १३६ || ध्यात्वा तत्पीठके मन्त्रमारोहेत् शिखरं तदा | मणिकूट गिरिश्रेष्ठ पीतवर्ण त्रिलोचन || १३७ || त्वययधारोहणं कृत्वा द्रक्ष्यामि भवनं तथा | तं पूर्वाभिमुखेनैव उत्तराभिमुखेन वा || १३८ || आरोहेन्मणिशैलञ्च वर्जयेदन्यदिङ्मुखम् | गत्वा विन्ध्याचलं पश्चात् कृत्वा तत् त्रिः प्रदक्षिणम् || १३९ || प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः | मूलेन स्नपयेद्देवं सौगन्धिकजलैः शुभैः || १४० || कर्पूरवासितैः स्निग्धैः सुगन्धिकुसुमादिभिः | चन्दनागुरुपद्मानि यानि काम्यानि कानिचित् || १४१ || कृत्यानि कुण्डमालिख्य तज्जले स्नानमाचरेत् | सितामलजलैश्चैव तथा कोष्णोदकेन च || १४२ || उष्णेन वारिणा चैव क्रमात् पञ्चामृतेन च | त्रिसितेन त्रिगन्धेन त्रिजलेन मम प्रिये || १४३ || प्रीत्यर्थं तस्य देवस्य स्नानं देवि समाचरेत् | त्रिसितं चन्दनं पद्ममुशीरं परिकीर्तितम् || १४४ || प्. २८९) नित्यं मलयजं मर्त्यं त्रिगन्धं सुमनोहरम् | तीर्थोदकं गन्धतोयं कर्पूरस्योदकं तथा || १४२ || त्रिजलञ्च महेशानि स्नापयेदन्तरान्तरे | स्नापयित्वा यथोक्तेन तथा [पुनः] स्नानं समाचरेत् || १४३ || अर्धस्नानं ततः कुर्याद् विधिज्ञः [विधिना] परमेश्वरि | अष्टोत्तरसहस्रैस्तु सुवर्णघटितैर्घटैः || १४४ || तण्डुलैः स्नापनं कुर्यात् कर्पूरादिविमिश्रितम् | अशक्तस्तु शतं कुर्याद्दशधा सुरसुन्दरि || १४५ || ताम्रैर्वा राजतैर्वापि अथवा सति सम्भवे | मार्तिकैर्वा घटैः स्नानमशक्तस्तु समाचरेत् || १४६ || स्नानात् पूर्वं महेशानि तीर्थं यत् परिकीर्तितम् [गत्वा महेश्वरि] | तस्माच्च [जलमाहृत्य कुम्भे च कृत्वा पुष्पं विधानवित्] जलमाहृत्य कुम्भे कृत्वा विधानतः || १४७ || गन्धं पुष्पं ततो दत्वा पुनर्मन्त्रं जपेत्ततः | अमृतीकरणं कुर्यान्मुद्रां तत्र च दर्शयेत् || १४८ || षडङ्गं विन्यसेत्तत्र अवगुण्ण्य ततोऽर्चयेत् | महोत्सवं ततः कृत्वा स्नानार्थं देवदक्षिणे || १४९ || स्नापयेत् स्नानशेषे तु देवबुद्ध्या क्षिपेत्तनौ | उद्वर्तनं प्रतिदिनं कर्तव्यं च दिनान्तरे || १५० || प्. २९०) दिनत्रयान्तरे वापि सर्वकाले विशेषतः | तिलोद्भवेन तैलेन सुगन्धेन मम प्रिये || १५१ || पलेन च पलार्धेन तदर्धेनापि यत्नतः | स्नेहैर्वा रजनीभिश्च तण्डुलोद्वर्तनादिभिः || १५२ || संस्थाप्य देवदेवेशं बिल्वपत्रेण [बिल्वपत्रोपरि प्रिये] शाङ्करि | संघृष्य गात्रं पत्रैर्वा अपामार्गस्य मूलकैः || १५३ || कूर्चकैः [नलपुष्पस्य कूर्चैश्च कूर्चं कुर्यात्] नलपुष्पस्य कूर्चं कुर्यान् महेश्वरि | कुशेन चामरेणाथ गोबालेन विशेषतः || १५४ || उशीरं कूर्चकं दत्वा सर्वपापैः प्रमुच्यते | दत्वा गोबालकं कुर्चं सर्वपापाद्व्यपोहति [पापानपोहति] || १५५ || दत्वा च चामरं कूर्चं श्रियमाप्नोत्यनुत्तमाम् | न वराहस्य रोमेण न वंशेन कदाचन || १५६ || गवयस्य तथाश्वस्य रोमन्तु परिवर्जयेत् | लिङ्गे वा प्रतिमायां वा शालग्रामे तथैव च || १५७ || न कूर्चयेत् प्रतिदिनं पञ्चाहे सप्तके [सप्तमे] तथा | मासान्ते वाथ पक्षान्ते कूर्चयेन्मम सुन्दरि || १५८ || अयने विषुवे चैव भौमवारे दिनक्षये | द्वादश्यां राहुग्रस्ते च तैलस्नानं न कारयेत् || १५९ || प्. २९१) नैव तत्कूर्चयेद्देवि [ते] न वराङ्गे मुखे ततः | नासिकान्ते तथा गुह्ये लिङ्गे च पुलकेषु च || १६० || वस्त्रेण मार्जयेद्देवि कार्पासेनाथ चन्दनैः | रक्तवस्त्रैर्भवेत् कुष्ठी पाण्डुव्याधिमवाप्नुयात् || १६१ || पटैश्च क्षोभमाप्नोति नीलीरक्तैः क्षयं व्रजेत् | परिधाप्य ततो वस्त्रं स्वर्गक्षयकरं [स्वर्णसूत्रद्वयं] तथा || १६२ || कटीवेष्टनकं दद्याद् नानारत्नादिभूषणम् | परिधानं पिधायैवं [-व] स्नानं यः कुरुते नरः || १६३ || पूजाकाले भोजने च स्नाने चैव विशेषतः | सोऽपि नाशमवाप्नोति धननाशं तथैव च || १६४ || मलयजेन गन्धेन गोपीचन्दनकेन वा | बिल्वकाष्ठोद्भवेनाथ तुलसीकाष्ठकेन वा || १६५ || पद्मकेन तमालेन तथा रोचनयाथवा | पिधाय तिलकं श्रेष्ठमेषामेकतमेन च || १६६ || चतुःसमञ्चातिसमं द्विसमञ्च सुरेश्वरि | अत्रालिप्य ततो देहमयनेन विसर्जयेत् || १६७ || शीते रात्रौ पुनः स्नानेनानुलिप्य सुगन्धिभिः | ललाटे तु विशेषेण वराङ्गे न कदाचन || १६८ || चतुःसमञ्च त्रिसमं द्विसमञ्च सुरेश्वरि | पादे पृष्ठे तथा नेत्रे न दद्यादनुलेपनम् || १६९ || प्. २९२) चतुर्लग्ने हता लक्ष्मीर्मुखलग्ने हताः श्रियः | दरिद्रः करलग्ने च पदलग्ने धनक्षयः || १७० || लिङ्गस्य पुलकान्ते तु न दद्याच्चन्दनं प्रिये | पद्मपत्रे बिल्वपत्रे करवीरदले तथा || १७१ || तत्र दद्याच्चन्दनञ्च लिङ्गे पुनश्च सम्भवे | नेत्राणि नाञ्जयेद्देवि कज्जलैश्च विशेषतः || १७२ || मालतीपत्रसम्भूतं तिलतैलेन आयसे | तापयेत् पातयेद्देवि कज्जलं तत्प्रकीर्तितम् || १७३ || नीराजनेन यः पूजां करोति वरवर्णिनि | अमृतं प्राप्नुयात् सोऽपि इहलोके परत्र च || १७४ || अथ शुद्धिजलं यस्तु नैव कुर्यात् सुरार्चिते | सोऽपि मूढो भवेद्रोगी क्षिप्रं वा नाशमाप्नुयात् || १७५ || लिङ्गे वा प्रतिमायां वा पूर्वमेव मम प्रिये | नीरैः समार्जयेद्यन्त्रं कृत्वा चैव प्रदक्षिणम् || १७६ || संस्पृशेत् प्रतिमां भद्रे माञ्च लिङ्गस्वरूपिणीम् | ओं नमो नारायणायेति ये वदन्ति मनीषिणः || १७७ || किं कार्यं बहुभिर्यत्नैश्चित्तविभ्रमकारकैः | ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः || १७८ || यजंस्तेनैव मन्त्रेण सूक्तेन पुरुषेण वा | द्वादशाक्षरबीजेन कृष्णबीजेन पूजयेत् || १७९ || व्यस्तेन च समस्तेन अनुलोमविलोमकैः | तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् || १८० || प्. २९३) ततो विचिन्त्य हृदयं ओंकारं ज्योतीरूपिणम् | कर्णिकायां समासीनं ज्योतीरूपस्वरूपिणम् || १८१ || अष्टाक्षरं ततो मन्त्रं प्रवदन्ति यथाक्रमम् | केशवादिपुरं कृत्वा द्वादशाक्षरकं न्यसेत् || १८२ || चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् | चिन्तयित्वा ततो योगं ज्योतीरूपं सनातनम् || १८३ || तत आवाहयेन्मन्त्रं क्रमशोधितमानसः | मीनरूपो वराहश्च नरसिंहोऽथवा पुनः || १८४ || आयातु देवो वरदो मम नारायणोऽग्रतः | सुमेरोश्च पादपीठे पद्मकल्पितमासनम् || १८५ || सर्वसत्त्वहितार्थाय तिष्ठस्व मधुसूदन | त्रैलोक्यपतीनां पतये नमो देवदेवाय च नमः | अर्घ्योऽयं हृषीकेशाय विष्णवे [इत्यर्घ्यं विष्णवे नमः] नमः || १८६ || इत्यर्घ्यम् | स्वपाद्यं पादयोर्देव पद्मनाभ सनातन | विष्णो कमलपत्राक्ष गृहाण मधुसूदन || १८७ || इति पाद्यम् मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव | मया निवेदितं भक्त्या गृहाण पुरुषोत्तम || १८८ || इति मधुपर्कम् मन्दाकिन्यास्तु ते वारि जलपानं हराशुभम् | गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् || १८९ || इत्याचमनीयम् प्. २९४) त्वमापः पृथिवी चैव ज्योतिस्त्वं वह्निरेव च | लोकसंवित्तिमात्रेण वारिणा स्नपयाम्यहम् || १९० || इति स्नानम् दरवस्त्रसमायुक्ते यज्ञवर्णविभूषिते | स्वर्णवर्णप्रभे ह्येते [प्रभेदेन] वाससी तव केशव || १९१ || इति वस्त्रम् शरीरं ते लेपयामि चेष्टा स्वैव च केशव | मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् || १९२ || इति विलेपनम् ऋग्वेदादिषु मन्त्रेण शोधितं पद्मयोनिना | सावित्रीग्रन्थसंयुक्तमुपवीतमनक्षतम् || १९३ || इति यज्ञोपवीतम् सूर्यश्चचन्द्रश्च विद्युच्च त्वमेवाग्निस्तथैव च | त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् || १९४ || इति दीपः अन्नं पञ्चविधञ्चैव रसैः षड्भिः समन्वितम् | मया निवेदितम् भक्त्या नैवेद्यं तव केशव || १९५ || इति नैवेद्यम् पूर्वे दले न्यसेद्देवं याम्ये संकर्षणं न्यसेत् | प्रद्युम्नं पश्चिमे चैव तथैशान्ये त्रिविक्रमम् || १९६ || प्. २९५) तथा च वासुदेवस्य गरुडं पुरतो न्यसेत् | तथा महागदाञ्चैव न्यसेद्देवस्य दक्षिणे || १९७ || ततः सवेदं धनुषी न्यसेद्देवस्य वामतः | दक्षिणे वसुधां देवीं वाङ्मयं तत्र विन्यसेत् || १९८ || श्रियो दक्षिणतः स्थाप्याः पुष्टिं स्वोत्तरतो न्यसेत् | वनमाल्यञ्च पुरतः श्रीवत्सकौस्तुभौ ततः || १९९ || विन्यसेद् हृदयादीनि विन्यसेच्च चतुर्दिशम् | ततोऽपि देवदेवस्य कोणे नैव [चैव] तु विन्यसेत् || २०० || पीठेशानं पूजयेत्तु तच्छक्तीरपि बाह्यतः | ग्रहांश्च दिक्पतींश्चैव दद्यात् पुष्पबलित्रयम् || २०१ || एवं सम्पूज्य देवेशं मण्डस्थञ्च [षण्डस्थ (?)] जनार्दनम् | लभेदभिमतान् कामान् नरो नास्य तु संशयः || २०२ || अनेनैव विधानेन मण्डपस्थं हयाननम् | पूजितं पश्यति यस्तु न विघ्नं विष्णुमव्ययम् || २०३ || सकृदप्यर्चितो येन विधिनानेन केशवः | जन्ममृत्युचरातीतः स विष्णोः पदमाप्नुयात् || २०४ || यः स्मरेत् सततं भक्त्या हयग्रीवमतन्द्रितः | अन्वहं तस्य द्वे सन्ध्ये श्वेतद्वीपः प्रकल्पितः || २०५ || ओंकारादिसमायुक्तं नमस्कारान्तदीपितम् | स्वनाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते || २०६ || प्. २९६) अनेनैव विधानेन मण्डपस्थं हयाननम् | पूजयेद् [पूजितं] यस्तु देवेशि गन्धपुष्पं निवेदयेत् || २०७ || एवमस्य प्रकुर्वीत यथोद्दिष्टक्रमेण तु | मुद्रां ततो निबध्नीयाद् यथोक्तक्रमयोगतः || २०८ || जपञ्चैव प्रकुर्वीत मूलयन्त्रेण मन्त्रवित् | अष्टाविंशतिरष्टौ वा अष्टोत्तरशतं तथा || २०९ || काम्येषु चाधिकं कुर्याल्लक्षकोट्यधिकं प्रिये | पद्म-शङ्खं श्रीवत्सञ्च गदां गरुडमेव च || २१० || चन्द्रं शङ्खञ्च सारङ्गमष्टौ मुद्राः प्रकीर्तिताः | अर्चनीयं न जानन्ति हरेर्मन्त्रान् यथोदितान् || २११ || हिरण्यगर्भमन्त्रेण पूजयेत् परमेश्वरम् | वक्ष्यमाणेन मन्त्रेण परमेशं समर्चयेत् || २१२ || ओं नमोऽस्त्वनन्ताय विशुद्धचेतसे नमः स्वरूपाय सहस्रवाहये | सहस्ररश्मिप्रवराय वेधसे हयास्यरूपाय नमो नमस्ते || २१३ || विशालदेहाय विशुद्धकर्मणे समस्तविश्वार्तिहराय शम्भवे | नमोऽस्तु सूर्यानलतीक्ष्णतेजसे हयास्यरूपाय नमो नमस्ते || २१४ || अनादि [देवाचलं] देवाधिप शेखरप्रभो नमो विभो भूतपते महेश्वर | मरुत्पते सर्वपते जगत्पते रमापते भुवनपते सदा नमः || २१५ || प्. २९७) जलेश नारायण विश्वशङ्कर क्षितीश विश्वेश्वर विश्वलोचन | शशाङ्कसूर्यायतविश्वमूर्तये | हयास्यरूपाय नमो नमस्ते || २१६ || श्वेताय पुष्पकसरोवरप्रदाय विद्याक्षियुक्तसहकारिचतुर्भुजाय | लौहित्यनिर्मितकृतावासकर्त्रे [लौहित्यानिर्मातिकृत त्वववासकर्ते (?)] (तस्मै) तुरङ्गवदनाय नमो नमस्ते || २१७ || शुक्राय दीप्तमणिपर्वतमन्दिराय [मणिपर्वतमन्दिराय] पीताक्षराक्षसजनेषु [रक्तबृहन्मुक्तिदाय] च मुक्तिदाय | भक्तेषु [भक्तोऽस्मि मानदाय पुस्तकधारिणे | सोऽप्युद्धर पितृगणञ्च इदं नमस्ते ||] वाञ्छितधनं ददते समस्तं सोऽप्युद्धरेत् पितृगणञ्च हरे नमस्ते || २१८ || शुद्धाय मुक्ताय मणिरञ्जिताय प्रलम्बबाहुकमलासनाय | ततोऽघनाशनपुरघातकाय(?)हयाद्यरूपाय नमो नमस्ते || २१९ || जयति वरदपाशः पुस्तकव्यस्तहस्तो विधृतसितसरोजो मोक्षदानां बिभर्ति | शशधरशुभमूर्तिर्भुक्तिर्भुक्तिप्रदायी प्रणतसुरनरेभ्यो वाजिवक्त्रो मुरारिः || २२० || प्. २९८) इडासुर हयग्रीव मुरारे मधुसूदन | मणिकूटकृतावास कमलाक्ष नमोऽस्तु ते || २२१ || जन्मकोटिकृतं पापं कल्पकोटिशतानि च | हयास्यदर्शनादेव सर्वं [न भास्ये भास्करं भमम्] नश्यति तत्क्षणात् || २२२ || सप्तस्तोत्रं [इदं देवि सप्तस्रात्रं स्तुतिपाठं समाचरेत्] विशुद्धात्मा स्तुतिपाठं समाचरेत् | प्रदक्षिणत्रयं कुर्यात् पद्माकारं नमेत्ततः || २२३ || दक्षिणादुत्तरं गत्वा देवस्य च महेश्वरि | कृत्वाञ्जलिस्ततो भक्त्या [कृताञ्जलिः] भ्रमयित्वा नमेत्ततः || २२४ || प्रत्येकं प्रणमेद्देवि दण्डवत् प्रणिपातयेत् | यो नो नमेद्भ्रमयित्वा च अपराधो भवेत्तदा || २२५ || अबद्धाञ्जलिना [अबद्ध्वा (अकृत्वा)] यस्तु नमस्कारं करोति यः | मोहान्धकारनरके पच्यते नात्र संशयः || २२६ || पात्रान्तरे च प्रणमेन्मूर्ध्ना न च क्षितिं स्पृशेत् | शपन्ति देवतास्तस्य विफलं परिकीर्तितम् || २२७ || प्रणामो देवदेवस्य यावत्यो मूर्तिकाः प्रिये | शरीरे वा महेशानि तस्य पुण्यफलं शृणु || २२८ || यावन्तो रेणवस्तस्य यावत् कालञ्च तिष्ठति | तावद्वर्णसहस्राणि ब्रह्मलोके महीयते || २२९ || प्. २९९) देव्युवाच ब्रूहि मे देवदेवेश मम कान्त जगत्पते | मणिकूटे त्वयं विष्णुः स्थापितः केन वै पुरा || २३० || भगवानुवाच शृणु देवि महाभागे आगमं वेदसन्निभम् | कथयामि पुरावृत्तं प्रतिमायाश्च सम्भवम् || २३१ || प्रवृत्ते च महायज्ञे प्रासादे देवनिर्मिते | चिन्मयार्तो महीपालः प्रतिमार्थमहर्निशम् || २३२ || केनोपायेन देवेशं सर्वत्र लोकभावनम् | सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् || २३३ || चिन्तादुःखमयो राजा दिवारात्रं शेते न च | न भुङ्क्ते विविधान् भोगान् न स्नानं न प्रसाधनम् || २३४ || शैलशृङ्गस्तरुर्वापि [स्थितो वापि] प्रशस्तो यो महीतले | विष्णोः प्रतिमयोग्यो यः सर्वलक्षणलक्षितः || २३५ || एतैरेव प्रमाणन्तु दयितं यत् सुरार्चनम् | तत् केन वा करिष्यामि चाज्ञापयतु मे प्रभुः [प्रभो] || २३६ || कुशानास्तीर्य सुप्त्वा च इन्द्रद्युम्नो महाबलः | हरिध्यानपरो भूत्वा सुस्वाप नियतेन्द्रियः || २३७ || सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः | आत्मानं दर्शयामास गुप्तस्तस्मै च चक्रभृत् || २३८ || प्. ३००) ददर्श स तु विष्णुं च देवदेवं जगद्गुरुम् | आत्मानं दर्शयामास तस्मै सुप्ताय चक्रभृत् || २३९ || ददर्श स तु भूपालो देवदेवं जगद्गुरुम् | शङ्खचक्रधरं देवं गदापद्मोग्रपाणिकम् | युगान्तादित्यवर्णाभं नीलवैदूर्यसन्निभम् || २४० || सुवर्णपृष्ठमासीनं षोडशार्धभुजं शुभम् | क्रतुनानेन दानेन धिया भक्त्या प्रशस्तया [च ते नृप] || २४१ || तुष्टोऽस्मि ते महीपाल कथं त्वमनुशोचसि | यदत्र प्रतिमां राजन् जगत्पूज्यां सनातनीम् || २४२ || स्थापयिष्यसि हे धीर तदुपायं ब्रवीमि ते | सागरस्य जलस्यान्ते नानाद्रुमविभूषिते || २४३ || वेलाभिर्हन्यमानस्तु न चासौ कल्पते द्रुमः | हस्ते [परशुहस्ते] च परशुं कृत्वा ऊर्मिन्तं ततो व्रजेत् || २४४ || एकाकी विहरन् राजन् सत्यं पश्यसि पादपम् | इति वाक्यं समालोच्यच्छेदयन्नविशङ्कितः || २४५ || पश्चिमायतनं वृक्षं प्रातरद्भुतदर्शनम् | छित्वा परशुना [तैलरसं दत्वा] वृक्षं तदा भूपाल चानय || २४६ || कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् | एवमुक्त्वा महाबाहुः प्रयातोऽदर्शनं हरिः || २४७ || स चापि स्वप्नमालोच्य परं विस्मयमागतः | तां दिशं समुदीक्ष्यैव स्थितस्तद्गतमानसः || २४८ || प्. ३०१) व्याहरन् वैष्णवं मन्त्रमुक्तञ्चैव तदात्मकम् | प्रभातायां रजन्यान्तु सततानन्यमानसः || २४९ || स स्नात्वा सागरे रम्ये यथासम्यग्विधानतः | तं ददर्श महावृक्षं यथा तेजस्विनं द्रुमम् || २५० || मोहान्तकं दुरारोहं पुण्यं च फलदायकम् | महोच्छ्रायं महाकायं प्रसुप्तञ्च जलान्तिके || २५१ || नीलरत्नाग्रवर्णाभं नामजातिविवर्जितम् | नरराजस्तथा विष्णोर्द्रुमं दृष्ट्वा मुदान्वितः || २५२ || परशुना शातयामास निशातनतयैव हि | सप्तधा द्रुमराजः स निपपात महीतले || २५३ || ओड्रदेशे मूलभागं कल्पयामास वै विभुः | तदूर्ध्वखण्डं काश्मीरे कबन्धाकारमेव च || २५४ || आदित्यं तं विजानीयाद् रामेण स्थापितं पुरा | शोणादित्यं तदूर्ध्वाङ्गं शुक्रेण स्थापितं प्रिये || २५५ || शिलारूपं महेशानि स्थापितं गुरुणा ततः | भागद्वयं कामरूपे भागैकं मलये गिरौ || २५६ || मणिकूटे ततोऽर्धञ्च स्थापितं वरुणेन हि | प्राच्यां नान्दीमैशान्ये मत्स्याक्षो नाम माधवः || २५७ || शिलामयो दारुमयः कुबेरेणैव स्थापितः | महावराहनामा च योऽष्टादशभुजैर्युतः || २५८ || हयाख्यो मणिकूटे च माधवाख्यो व्यवस्थितः | सम्भवं कथितं देवि प्रापणं शृणु पार्वति || २५९ || प्. ३०२) इङ्गुदीफलबिल्वानि बदरामलकानि च | खर्जूरं पनसञ्चैव तथा तालफलानि च || २६० || दाडिमं कदलीञ्चैव प्रयत्नेन नियोजयेत् | लकुचं मधुकं युक्तं तथा पूगफलानि च || २६१ || बीजपूरञ्च मधुरं कर्कन्धूञ्च निवेदयेत् | मूलकस्य च शाकञ्च गाजरस्य [राजकस्य] तथैव च || २६२ || यस्य फलं विशालञ्च तस्य शाकं प्ररोहकम् | वास्तूकस्य च शाकञ्च पालङ्गस्य मम प्रिये || २६३ || विलयानि प्रियाणि वै तथा च तिन्तिडीफलम् | कुष्माण्डं पार्वतीयञ्च तथा चारण्यसम्भवम् || २६४ || कदलं बीजपूरं च रोमकं पौत्रकं तथा | अकालपनसञ्चैव तथान्यदपि वर्जयेत् || २६५ || धान्यानाञ्च प्रवक्ष्यामि उपयोगानि शाङ्करि | एकचित्तं समाधाय प्रापणं शृणु शाङ्करि || २६६ || सोमधान्यं बृहद्धान्यं रक्तशालिकमेव च | राजधान्यं षष्टिकञ्च देवबल्लभकं तथा || २६७ || चणकं कोद्रवञ्चैव वर्जयेन्मम सुन्दरि | क्षारञ्च कृष्णक्षीरञ्च वर्णञ्च मार्तिकोद्भवम् || २६८ || लवणं प्राचीसम्भूतं तथोत्तरसमुद्भवम् | पशूनाञ्च प्रवक्ष्यामि वन्यानां ग्रामवासिनाम् || २६९ || प्. ३०३) यानि यान्युपयोग्यानि गव्यं देवि पयोघृतम् | मार्गं मात्स्यं तथाच्छागं शारभं [भालनं] शाशकन्तथा || २७० || एतैस्तु प्रापणं दद्याद्विष्णोश्चैव प्रियावहम् | माहिषं वर्जयेन्मांसं क्षीरं दधि घृतन्तथा || २७१ || पक्षिणाञ्च प्रवक्ष्यामि ये प्रयोज्या मम प्रिये | हारितश्च मयूरश्च नारको वर्तकस्तथा || २७२ || कपिलश्चैव चाषश्च काककुक्कुटकौ किटौ [शिरः] | वन्यकुक्कुटकश्चैव शरारिश्च कपोतकः || २७३ || बिल्वकः कुलिकश्चैव रक्तपुच्छश्च टिट्टिभः | कृष्णमत्स्याशनश्चैव पत्रिणां तु विशिष्यते || २७४ || अभक्ष्यञ्चैव मांसञ्च यद्वा पञ्चनखस्य च | चित्रमत्स्यं रोहितञ्च मद्गुरं कबिकं तथा || २७५ || महाशूलञ्च राजीवं दद्यात् सिंहर्तुकं तथा | मत्स्यान्येतानि देयानि विभालीञ्च विवर्जयेत् || २७६ || जालपादांश्च नकुलान् वेवि वाराट्टकं तथा | कौसुम्भशाकं पिण्याकं रक्तपादांश्च केशरान् || २७७ || शोभाञ्जनं रक्तशेलुं केमुकं निन्दुकं तथा | पूतिक्रं कानकञ्चैव वर्जयेत् साधकोत्तमः || २७८ || यथोक्तं साधयेन्मन्त्रं योगी ध्यानपरायणः | अभक्ष्यं वर्जयेत् सर्वं देवताध्यानसाधने || २७९ || प्. ३०४) हविष्याशीः शुचिर्भूत्वा मन्त्रतन्त्रविशारदः | अहर्निशं जपेद् विद्यां तद्गतेनान्तरात्मना || २८० || स भवेत् कालिकापुत्रः सर्वत्र निर्भयो भवेत् | रहस्यं परमं देवि तव स्नेहात् प्रकाशितम् || २८१ || इति योगिनितन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे नवमः पटलः दशमः पटलः श्रीभगवानुवाच यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः | प्रयत्नेन तदा मर्त्यैर्गन्तव्यः पुरुषोत्तमः || १ || पृथिव्यां सर्वतीर्थेषु हरेश्चायतनेषु च | सागदेषु च शैलेषु नदीषु च सरःसु च || २ || यत्फलं स्नानदाने च राहुग्रस्ते दिवाकरे | तत् फलं कृत्स्नमालोक्य महाज्यैष्ठ्यां वदेन्नरः || ३ || तस्मात् सर्वप्रयत्नेन गन्तव्यः पुरुषोत्तमः | महाज्यैष्ठ्यां महेशानि सर्वकामफलेप्सुभिः || ४ || दृष्ट्वा कृष्णं रथस्थञ्च लक्ष्मीं तत्र सरस्वतीम् | विष्णुलोकं नरो याति समुद्धृत्य कुलं मतम् || ५ || भुक्त्वा तत्र वरान् भोगान् यावदाभूतसंप्लवम् | पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् || ६ || प्. ३०५) स्वधर्मनिरतः स्वान्तो [श्रान्तः | पङ्क्तिरेषा एकस्यां पाण्डुलिप्यां नास्ति] विष्णुभक्तो जितेन्द्रियः | वैष्णवं लोकमासाद्य तत्र लोकमवाप्नुयात् || ७ || प्रतिमासे च द्वादश्यां नयेत् केदारकं गृहम् | कल्पवृक्षस्य मूले तु पूजयेद् हरिचन्दनैः || ८ || पायसं शर्करां दद्यात् पिष्टकं घृतमर्जितम् | यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च || ९ || विष्णुलोकमवाप्नोति यावदिन्द्राश्चतुर्दश || १० || यावद् यात्रां ज्यैष्ठमासे करोति विधिवन्नरः | तावत् कालं विष्णुलोके सुखं भुङ्क्ते न संशयः || ११ || पौर्णमास्यां फाल्गुनस्य यात्रां मन्दारकं प्रति | तत्र दृष्ट्वा नरः कश्चिद् विष्णुलोके महीयते || १२ || रथे वा शिविकायां वा यात्राकाले महेश्वरि | न संस्पृशेत् ततो देवं दङ्गभूमौ न संस्पृशेत् || १३ || कृम्भे (कृष्णे ?) यात्रां नरो कृत्वा मयि वा संयतेन्द्रियः | अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् || १४ || रोगाद्विमुच्यते रोगी कन्या प्राप्रोति सत्पतिम् | आयुः कीर्ति यशो मेधां धनं विद्यां धृतिं पशुम् || १५ || नरः सद्गतिमाप्नोति यौवनं रूपसम्पदम् | यान् यान् समीहते भोगान् दृष्ट्वा तं पुरुषोत्तमम् || १६ || नरो वाप्यथवा नारी तांस्तानाप्नोत्यसंशयम् | अकारः सर्ववर्णानां गायत्री छन्दसां यथा || १७ || प्. ३०६) तथा समस्ततीर्थानां वरिकः पुरुषोत्तमः | सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं महेश्वरि || १८ || तथा समस्ततीर्थानां वरिष्ठः पुरुषोत्तमः | वरुणो यादसां यद्वद् यमः संयमतां यथा || १९ || तथा समस्ततीर्थानां वरिष्ठः पुरुषोत्तमः | समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः || २० || तथा समस्ततीर्थानां वरिष्ठः पुरुषोत्तमः | न तं पश्यामि देवेशि यस्तेन सदृशो भुवि || २१ || किंचात्र बहुनोक्तेन भाषितेन पुनः पुनः | सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् || २२ || स याति परमं स्थानं यत्र योगेश्वरो हरिः | भुक्त्वा भोगान् विचित्रांश्च [विविधा] देवयोषित्समन्वितान् || २३ || कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः | जायते योगिनो [जायते योगिनां] देवि ज्ञानज्ञो जायते गृही || २४ || संप्राप्य वैष्णवं योगं प्रवरे जायते कुले | दक्षिणाभिमुखो भूत्वा पश्येद्दक्षिणसागरम् || २५ || मन्दारं [मन्दारं च] तन्नमस्कृत्य ब्रह्मलोके महीयते || २६ || किरीटी लोकवासा च ब्रह्मपुत्रनदोत्तमः | मणिकूटे स्थितो दृष्टोऽशेषफलदो भव || २७ || [मणिकूटे स्थितोऽहं मे यथोक्तफलदो भव] प्. ३०७) मन्दारगिरिशार्दूल विष्णुरूप महेश्वरि | दर्शनादेव शैलेन्द्र विष्णुरूप नमोऽस्तु ते || २८ || माधवञ्च नमस्कृत्य मणिकूटे सकृत् स्मृतः | ब्रह्मविद्यां स विज्ञाय गर्भवासं न संस्पृशेत् [न पश्यति] || २९ || हरेः सन्निहिते दक्षे स्थाने च नारसिंहके | संवत्सरमुपोषित्वा मासमात्रमथापि वा || ३० || तेनैवेष्टं कृतं तेन [तेनैव सुकृतकृतं चात्र] तप्तं तेन तपो महत् | मन्दारस्योत्तरे भागे यामिला रक्तसन्निभा || ३१ || आकाशगंगाचिह्नेन कालरत्रिश्च सा स्मृता | कवचेन तु सा पूज्या धर्मार्थकामदायिनी || ३२ || षट्पुरं पुन्नराद्ये [पद्मराश्ये] तु क्षौणीविश्वान्तरं स्थितम् | जयाञ्च विजयाञ्चैव भद्रकालीं कपालिनीम् || ३३ || महामायाञ्च ताराञ्च षट्कोशेषु च समर्चयेत् | मध्ये भवानीं कालीं च कालरात्रिं च संयजेत् || ३४ || पूर्वपत्रेषु ब्रह्मादीन् अलिङ्गादींश्च भैरवान् | ध्यानेनध्यानं [-व्यानेन] कुर्यात् शृणु ध्यानं मम प्रिये || ३५ || प्रत्यालीढाद्रिसंस्थामसितगिरिनिभां मेघमालाभकान्तिम् | खड्गं कर्त्री कपालं धनुरथ कवचं विभ्रतीमिन्दुवक्त्राम् | प्. ३०८) नेत्रैरुद्भासयन्तीं सितसरोजनिभां मुण्डमालोपशोभाम् | घोरैरट्टाट्टहासैर्दुरितशतहरां कालरात्रिं भजामि || ३६ || षडङ्गेन ततो न्यस्य प्रतिश्लोकेन पूजयेत् | विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने || ३७ || भीमरूपे शिवे विद्ये कालरात्रि नमोस्तु ते | महारात्रि विचित्राङ्गे गोपनृत्यप्रिये शुभे || ३८ || पाशहस्ते दण्डहस्ते कालरात्रि नमोऽस्तु ते | चामुण्डे मुण्डमालास्ये तीक्ष्णदंष्ट्रे [महाविद्ये] महाबले || ३९ || शवालये स्थिते देवि कालरात्रि नमोऽस्तु ते | कालि कराल विक्रान्ते [कालि करालवक्त्रे च] सर्वदेवनमस्कृते || ४० || सर्वपापहरे देवि कालरात्रि नमोस्तु ते | इति संपूज्य तां देवीं व्रतं कुर्यात् समाहितः || ४१ || माघे वा कार्तिके वाथ ज्यैष्ठाषाढे समारभेत् | सम्वत्सरं तदूर्ध्वं वा पक्षं वापि तदूर्ध्वकम् || ४२ || मासत्रयं व्रतं कुर्यात्ततो न्यूनाधिकं नतु | मत्स्यमांसं च भुञ्जंश्च न रात्रौ भोजनं चरेत् || ४३ || अकालकृष्टमश्नीयादेकभक्तेन वर्तते | प्रत्यङ्गं पूजयेद्देवीं गन्धपुष्पैरदीनकैः [सुगन्धकैः] || ४४ || पञ्चोपचारैर्विधिवत् व्रतान्ते भूरिभोजनम् | कुर्यादमायां देवेशि पशुपायसमोदकैः || ४५ || प्. ३०९) स्थण्डिले कलशं कृत्वा सूत्रेण त्रिगुणेन च | नील रक्तेन संवेष्ट्य पञ्चपल्लवचर्चितम् || ४६ || रात्रौ सन्ध्यात्मके चैव पूजयेत् परमेश्वरीम् | नैवेद्यं द्विगुणं दद्याद् वलिञ्च त्रिगुणं तथा || ४७ || श्रपयित्वा चरुं पश्चाद् अर्घ्यं [तञ्च] देव्यै निवेदयेत् | स्वयमर्घ्यञ्च गृह्णीत नृत्यगीतमहोत्सवैः || ४८ || नयेद्रात्रिं महेशानि गीतादिश्रवणेन च | चिञ्चाञ्च नालिकाशाकं कलायं निङ्कुचं तथा || ४९ || कदलीं नारिकेलं च व्रते कुष्माण्डकं त्यजेत् | कंकारं कुसुमं झिन्दीं कुन्दं मन्दारमेव च || ५० || द्रोणपुष्पं शिरीषञ्च मुनिपुष्पञ्च वर्जयेत् | पूजयित्वा महेशानि पूजास्थानं न वीक्ष्यते || ५१ || पुष्पद्रव्यं न गृह्णीयान् न स्पृशेन् मम सुव्रते | ब्राह्मणाय ततो दद्यान्न शूद्राय कदाचन || ५२ || यस्तु तत् चानयेद् [शृणुयात्] भक्त्या गृहे वा धारयेत् तु यत् | न तत्रातिभयं घोरं सर्पचौरादिकं तथा || ५३ || यश्चेदं पूजयेद् भक्त्या पशुभिर्मोदकादिभिः | सपुत्र पौत्रो मतिमान् समृद्धिमुपगच्छति || ५४ || भ्रष्टराज्यो यदा राजा अष्टम्यां नियतः शुचिः | स वत्सरेण लभते राज्यं निष्कण्टकं नृपः || ५५ || प्. ३१०) वराहस्य च पाश्चात्ये भद्रकामे च पर्वते | तत्र कामेश्वरं लिङ्गं पूजयेच्च वृषध्वजम् || ५६ || कपालेन सुगन्धेन महाविभवविस्तरैः | हयग्रीवस्य पूर्वे तु या शिला शुक्लसन्निभा || ५७ || सा देवीर्महालक्ष्मीर्भुक्तिमुक्तिप्रदायिनी | यत्फलं सर्वतीर्थेषु स्नानदानेन कीर्तितम् || ५८ || नरस्तत् फलमाप्नोति दृष्ट्वा लक्ष्मीं प्रणम्य च | तुलसीद्वे (?) च मन्दारे कल्हारे च तमालके || ५९ || नार्चयेच्च महालक्ष्मीं कुशकाशोद्भवेन च | तस्याः सव्ये च या योनिः सा विज्ञेया सरस्वती || ६० || तस्याः सम्पूजनाद् देवी पुनात्युभयतः कुलम् | यत् फलं वनवासे च वानप्रस्थे च कीर्तितम् || ६१ || नरस्तत् फलमाप्नोति पूजयित्वा सरस्वतीम् | तस्याः पूर्वे च विवरे पञ्चशेषाकृतिः शिला || ६२ || प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः | द्वादश्यां शुक्लपक्षस्य उपोष्य मम सुन्दरि || ६३ || जपेल्लक्षाणि वै विद्वान् मनसा संयतेन्द्रियः | उपपातकमुक्तश्च महापातकसम्भवैः | मुक्तो भवेत्तु वै देवि साधको नात्र संशयः || ६४ || कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् | गन्धपुष्पादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् || ६५ || कर्पूर चन्दनाक्तानि जातिपुष्पाणि मस्तके | प्रदद्याधरशिरसि तत्र सिद्धिश्च जायते || ६६ || प्. ३११) निःसृत्य तस्मात् काशायात् (कासाराद्) या धारा परमेश्वरि [तस्य कामस्य विधृता] | ऊर्ध्वभद्रा च [तुरङ्गभद्रा] सा धारा तस्यां स्नात्वा व्रजेद् दिवम् || ६७ || मन्दरस्य तु या धारा उत्तराशा समाश्रिता | कावेरी सा समाख्याता स्नानान्नश्यति पातकम् || ६८ || सुभद्रस्य तु या धारा ताम्रपर्णीति सा मता | तस्यामेव चतुर्दश्यां स्नानात् पापक्षयो भवेत् || ६९ || हयमेधस्य या धारा कौशिकीं [कैशिकीं तां विदुर्बुधाः] तां विदुर्बुधाः | कौशिक्यां विधिवत् स्नात्वा सर्वपापैः प्रमुच्यते || ७० || गोकर्णस्य तु या धारा शिप्रा धारा च सा स्मृता | शिप्रायां स्नानमात्रेण दरिद्रोऽपि धनी भवेत् || ७१ || वराहस्य तु या धारा करतोया च सा स्मृता | करतोयामुपस्पृश्य विष्णुलोके महीयते || ७२ || मणिकूटस्य या धारा सा च धारा सरस्वती | तस्याः स्वच्छोदकं पीत्वा न पुनर्जायते नरः || ७३ || स्नात्वा सरस्वतीतोये यः पश्येत् पुरुषोत्तमम् | अश्वमेधसहस्राणां फलं प्राप्नोति भाविनि || ७४ || सन्न्यासेन यथोक्तेन यत्फलं समुदाहृतम् | तपोऽतिविविधैरुग्रैः यत् फलं समुदाहृतम् | नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च || ७५ || प्. ३१२) किंचात्र बहुनोक्तेन माहात्म्यं तस्य सुन्दरि | दृष्ट्वा कृष्णं नरो नत्वा मोक्षं प्राप्नोति दुर्लभम् || ७६ || पापैर्विमुक्तः शुद्धात्मा कलाकोटिसमुद्भवैः | श्रिया परमया युक्तः सर्वैः प्रमुदितो गुणैः || ७७ || सर्वकामसमृद्धेन विमानेन सुरार्चितः | त्रिसप्तकुलमुद्धृत्य अन्ते विष्णुपुरं व्रजेत् || ७८ || तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोहरान् | गन्धर्वाप्सरसैः सार्द्धं यथा विष्णुश्चतुर्भुजः || ७९ || च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले | सर्वज्ञः सत्यवादी च जायते गतमत्सरः || ८० || स्वधर्मनिरतः शान्तो भृत्यानाञ्च हिते रतः | आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् || ८१ || निराहारः कुरुक्षेत्रे पादेनैकेन यद्भवेत् | जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायतम् || ८२ || दृष्ट्वा सकृत् ज्यैष्ठशुक्लद्वादश्यां पुरुषोत्तमम् | कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् || ८३ || तस्माज्ज्यैष्ठे महेशानि द्रष्टव्यः परमेश्वरि | विष्णुलोकं समासाद्य न च्यवन्ति कदाचन || ८४ || अष्टतीर्थं ततः कृत्वा द्रष्टव्यः पुरुषोत्तमः | सुदूरस्थोऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् || ८५ || प्. ३१३) अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् [लभेत्] | यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः || ८६ || सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः | ध्वजं दृष्ट्वा हरेर्दूरात् प्रासादोपरि संस्थितम् || ८७ || सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तम् | आस्ते यश्चतुरो मासान् वार्षिकान् विष्णुपुष्करे || ८८ || सम्यक् तृतीययात्रायाः फलं प्राप्नोति चाधिकम् | सर्वकाले तु तत्रैव ये वसन्ति मनीषिणः || ८९ || जितेन्द्रिया जितक्रोधा लभते तपसः फलम् | तपस्तप्त्वान्यतीर्थेषु वर्षाणामयुतं नरः || ९० || यदाप्नोति तदाप्नोति मासेन पुरुषोत्तमे | तपसा ब्रह्मचर्येण सङ्गत्यागेन तत्फलम् || ९१ || तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः | सर्वतीर्थेषु यत् पुण्यं स्नानदाने प्रकीर्तितम् || ९२ || सम्यक् चित्रेन (दानेन ?) यत् प्रोक्तं व्रतेन नियमेन च | तत् फलं लभते तत्र प्रत्यहं नियतः शुचिः || ९३ || यस्तु नानाविधैर्यज्ञैर्यत्फलं लभते नरः | फलं तत् लभते मोक्षमाप्नोति नात्र संशयः [फलं तल्लभते दुर्लभं मोक्षमाप्नुवन्ति न संशयः | तत् फलं लभते तत्र प्रत्यहं नियतेन्द्रियः ||] || ९४ || प्. ३१४) ([अधिकः पाठः] देहं त्यजन्ति पुरुषाः क्षेत्रे ये विष्णुपुष्करे | कल्पवृक्षं समासाद्य युक्तास्ते नात्र संशयः | आवल्लभाद् (?) वटस्याग्रे ये त्यजन्ति कलेवरम् | ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ||) अनिच्छन्नपि यस्तत्र प्राणांस्त्यजति मानवः | सोऽपि दुःखविनिर्मुक्तो मुक्तिं गच्छति दुर्लभाम् || ९५ || कृमिकीटप्तङ्गाद्यस्तिर्यग् योनिगताश्च ये | तत्र देहं परित्यज्य तेऽपि यान्ति परां गतिम् || ९६ || योऽसौ पुराणवेदान्ते परमात्मेत्युदाहृतः | कामरूपोपकाराय आस्ते स पुरुषोत्तमः || ९७ || पथि श्मशाने गृहमण्डपे वारण्यप्रदेशे [वाराख्यप्रदेशे] भुवि यत्र तत्र | इच्छन्ननिच्छन्नपि तत्र देहं संत्यज्य मोक्षं लभते मनुष्यः || ९८ || कृष्णरताः कृष्णमनुस्मरन्ति रात्रौ च कृष्णं पुनरुत्थिता ये | ते भिन्नदेहा प्रविशन्ति कृष्णं हविर्यथा मन्त्रकृतं हुताशे || ९९ || ततो गणपतिं ध्यात्वा पूजयल्लड्डुकादिभिः | करवीरेण रक्तेन बन्धुकेन समर्चयेत् | प्रदक्षिणं ततः कृत्वा मन्त्रेण च प्रसादयेत् || १०० || लम्बोदराय विशदाय गजाननाय तुंगाय मोदकांकुशविभूषिताय | गुणं तथोभयमपि प्रथितं बिभर्ति तस्मै नमोऽस्तु पुरुषाय गणेश्वराय || १०१ || प्. ३१५) आद्यान्ते चैव यात्रायां गणेशमपि पूजयेत् | मणिकूटं ततो गत्वा प्राप्नुयादीप्सितं पदम् || १०२ || तस्मात् प्रसादयेद्देवं भक्त्या तं पुरुषोत्तमम् | नमस्ते सर्वलोकेश भक्तानामभयप्रद || १०३ || संसारसागरे मग्नं त्राहि मां पुरुषोत्तम | यास्ते मया कृताः पूजा मणिकूटे जगत्पते || १०४ || प्रसादात् तव गोविन्द सम्पूर्णास्ता भवन्तु मे | एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च || १०५ || ततोऽभ्यर्च्य गुरुं भक्त्या स्वर्णवस्त्रानुलेपनैः | सूर्यायार्घ्यं ततो दत्वा ब्राह्मणान् भोजयेत् ततः || १०६ || यः पठेत् शृणुयाद्वापि श्रावयेद्वा समाहितः | स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः || १०७ || धन्यं पापहरं चेदं भुक्तिदं मुक्तिदं शिवम् | गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित् | न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने || १०८ || इदं समस्ताघविनाशहेतुं कामाख्यसंज्ञं सुखमोक्षदञ्च | अशेष वाञ्छाफलदं वरिष्ठं पीठं मयोक्तं पुरुषोत्तमस्य || १०९ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे दशमः पटलः | एकादशः पटलः श्रीभगवानुवाच यत्रास्ते भारते वर्षे दक्षिणोदधिदक्षिणे | कामरूप इति ख्यातः स्वर्गमोक्षप्रदायकः || १ || लोहितस्योत्तरं यावत् प्राच्यां विश्वेश्वरावधि | देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः || २ || तत्र देशे प्रसूता ये ब्राह्मणाः संयतेन्द्रियाः | तपः स्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा || ३ || श्राद्धकाले विवाहे च यज्ञे वा उत्सवेषु च | प्रशस्ताः सर्वकार्येषु तत्र देशोद्भवा द्विजाः || ४ || षट्कर्मनिरतास्तत्र ब्राह्मणा वेदपारगाः | इतिहासविदश्चैव पुराणार्थविदश्च [-स्त] ते || ५ || सर्वशास्त्रार्थकुशला यज्वानो वीतमत्सराः | पुत्रदाराधनैर्मुक्ता दातारः सत्यवादिनः || ६ || इतरे ये त्रयो वर्णाः [लोकाः] क्षत्रियाद्याः सुसंयताः | स्वधर्मनिरताः शान्तास्तत्र तिष्ठन्ति धार्मिकाः || ७ || शुक्रांशे च बुधांशे च भौमांशे सर्वव्यक्तयः | आगस्त्यः शौनकश्चैव भारद्वाजकपिञ्जलाः || ८ || आत्रेयश्चैव वात्सश्च सावर्णिधृतकौशिकाः | जामदग्न्यो वशिष्ठश्च आत्रेयश्च पराशरः || ९ || प्. ३१७) कमण्डलुश्च गर्गश्च शौनकः शौनिकस्तथा | शाण्डिल्यश्चापरंसश्च च्यवनोऽङ्गिरसस्तथा || १० || एते गोत्राः कामरूपे ब्राह्मणाः स्थापिताः पुरा | तस्मात् [तांश्च] पूज्याश्च वन्द्याश्च त्याज्या ये शृणु शाङ्करि || ११ || लौहित्यपूतदेशे च दक्षिणे ये स्थिताः प्रिये | ते वर्ज्याः पीठपूर्वस्थाः सौवर्चल विनावधि (?) || १२ || आदित्यांशे कलियुगे कामरूपे च ये द्विजाः | प्रवक्ष्यामि महेशानि शृणुष्वैकमना भव || १३ || भारद्वाजो रघुश्चैव शौनकः केशवः स्मृतः | कपिञ्जलस्तथागस्त्यः माधवश्च धराधरः || १४ || सोऽपि वाराणसीं प्राप्य स्नात्वा गोत्राण्यतारयत् | आत्रेययाश्चाभवद् धर्मो भानुश्चैव धनञ्जयः || १५ || सम्भवो दमयन्त्याश्च महात्मानो जितेन्द्रियाः | वत्सश्च नरसिंहश्च दामोदरमहीधरौ || १६ || शुभान्तस्तत्र पतितश्चपलः सत्यधर्मवान् | सावर्णाः शङ्करो भानुर्मधुश्च मधुसूदनः || १७ || सौरिर्धनञ्जयो विष्णुः कामदेवो हरिस्तथा | भास्करो भूधरो रामः सर्वे शिष्टा महौजसाः || १८ || कौशिकाश्च घृताद् विष्णुर्माधवो धर्मतत्परः | जामदग्न्यो मनुर्ब्रह्मा सोमो भानुः पुरन्दरः [भानुश्च सुन्दरः] || १९ || प्. ३१८) सर्वे शिष्टाश्च पुण्याश्च आचारथा जितेन्द्रियाः | भारद्वाजाद् भवेद् रामः स्मृतोरन्तर्गृहे द्विजः || २० || पापी सञ्जायते देवि तस्मात् तं परिवर्जयेत् | वशिष्ठश्चैव दमनः क्रमश्चैव त्रिविक्रमः || २१ || पाराशरात्तु आत्रेयाद् भानुः पीताम्बरः स्मृतः | भ्रातरौ द्वौ धर्मरतौ प्रजापतो कमण्डलोः || २२ || उग्रश्चैव धनेशश्च [उग्रेश्वरधनेश्वरौ] आश्रमे निरतावुभौ | गङ्गान्नीलाम्बरो जातः स एवोक्तो महेश्वरि || २३ || शौनकाद् बलभद्रश्च मदनाच्च गदाधरः | कौशिकाद् वासुदेवश्च पुत्रश्चैव महीधरः || २४ || नारायणो ध्रुवश्चैव अच्युतो विष्णुरेव च | एते वशिष्ठात् सञ्जाता आश्रमस्थास्तथोद्गताः || २५ || शाण्डिल्यान्मन्मथो जातः सोमः कृष्णो दिवाकरः | च्यवनाच्च भवेद्रामस्तथा चैव धनञजयः || २६ || लक्ष्मीपतिः श्रीपतिश्च भवश्चैव शुभाशयः | अपरस्थो भवेद् ब्रध्या नरसिंहमहीधरौ || २७ || बलदेवस्तधा भानुः पुरन्दरधराधरौ | एते च पन्नगाज्जाताः पृथिवीभारमाश्रिताः || २८ || च्यवनाद्भूधरश्चैव पतितः परिकीर्तितः | आङ्गिरसाल्लक्षणश्च धर्मवान् सत्यविक्रमः || २९ || शाण्डिल्यमध्यगोत्रश्च सोऽपि पूज्यतमः प्रिये | भीमो दामोदरो वत्सो वेदगर्घश्च मे प्रिये || ३० || प्. ३१९) ये तावांश्चैव शुक्रांशे गोत्रे गोत्रे द्वयं द्वयम् | एकैकमुत्तमं चैषां व्रात्या जाता सहस्रशः || ३१ || पुनरुत्तमतन्त्रोक्तं ते व्रात्या मम सुन्दरि | महीक्षेत्रे स्थितः सूर्यः शाम्बेनैवावतारितः || ३२ || साम्बादित्यः समाख्यातस्त्रिषु लोकेषु विश्रुतः | समन्तात् क्रोशमात्रञ्च भुक्ति मुक्तिफलप्रदः || ३३ || आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः | मासि मासि सिते पक्षे पञ्चम्यां [सप्तम्यां] विजितेन्द्रियः || ३४ || कृतोपवासो देवेशि स्नात्वा तु मकरे रवौ | लौहित्ये विधिवत् स्नात्वा अर्चयेच्च [अर्चयति] समाहितः || ३५ || देवान् ऋषीन् मनुष्यांश्च पितॄन् संतर्प्य वाग्यतः | उत्तिर्य दाससी धौते परिधाय सुनिर्मले || ३६ || आचम्य प्रयतो भूत्वा लौहित्यस्याधस्तटे | उपविश्योदये काले प्राङ्मुखः सवितुस्तथा || ३७ || विलिख्य पद्मं मेधावी रक्तचन्दनवारिणा | अष्टपत्रं केशराद्यं [केशवार्ध्यं वर्तुलं श्वेतकर्णिकम्] वर्तुलञ्चोर्ध्वकर्णिकम् || ३८ || तिलतण्डुलतोयञ्च रक्तचन्दनसंयुतम् | रक्तपुष्पञ्च दर्भञ्च प्रक्षिप्य ताम्रभाजने || ३९ || प्. ३२०) ताम्राभावे तु चार्कस्य पुटे कृत्वा तिलोदकम् | पिधाय तन्महेशानि पात्रं पात्रेण विन्यसेत् || ४० || कराङ्गन्यासविन्यासं कृत्वाङ्गहृदयादिभिः [कृत्वाङ्गहृदयार्दिभिः] | आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः [केषुचित् नास्ति] || ४१ || मध्ये चाग्निदन्ते धीमान् नैर्-ऋते वायवे दन्ले | कामादिगोचरे चैव [कामाविशेच वा चैव] मूलं मध्ये तु पूजयेत् || ४२ || प्रभूतं विमलं सारमाराध्येद्धि मनःसुखम् [आराध्येद्विमलं सुखम्] | सम्पूज्य पद्मञ्चारभ्य गगनात्तत्र भास्करम् || ४३ || कर्णिकोपरि संस्थाप्य ततो मुद्राः प्रदर्शयेत् | कृत्वार्चनादिकं सर्वं ध्यात्वा तं समुपाहितः [समुपस्यितः] || ४४ || रक्तपद्मोपरि रक्ततेजसं सुव्यवस्थितम् [रविं बिम्बमध्ये व्यवस्थितम्] | पिङ्गलाक्षं महाकायं पद्महस्तारुणाम्बरम् || ४५ || सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् | स्वरूपं बलदं शान्तं प्रभामण्डलमण्डितम् || ४६ || उद्यन्तं भास्करं दृष्ट्वा सान्द्रसिन्दूरसन्निभम् | ततस्तत्पात्रमादाय जानुभ्यां धरणीं गतः || ४७ || कृत्वा शिरसि तत्पात्रमेकचित्तस्तु वाग्यतः | त्र्यक्षरेण तु मन्त्रेण सूर्यायार्घ्यं निवेदयेत् || ४८ || प्. ३२१) अदीक्षितश्च तञ्चैव पूजयेद् भक्तितत्परः | यावन्न वीक्षते विष्णुं शङ्करं वा महेश्वरम् [सुरेश्वरम्] || ४९ || तस्मात् प्र्यत्नमास्थाय दद्यादर्घ्यं दिनेदिने | आदित्याय शुचिः स्नात्वा स लभेदीप्सितं फलम् || ५० || प्रविश्य पूजयेद् भानुं कृत्वा [गत्वा] च त्रिप्रदक्षिणम् | तान्त्रिकैर्वैदिकैर्मन्त्रैर्भानोस्तस्य च बुद्धिमान् || ५१ || पूजयेत् परया भक्त्या आदित्यं परमेश्वरि | स्नात्वा कपोतकुण्डे च आरोहेदुदयाचलम् || ५२ || तत्रार्कं पूज्य देवेशि लभते वाञ्छितं फलम् | करणे विधिवत् स्नात्वा मेषार्के रविवासरे || ५३ || दशानामश्वमेधानां फलं प्राप्नोति मानवः | सप्तावरान् सप्त परान् वंशानुद्धृत्य पार्वति || ५४ || विमानेनार्कवर्णेन कामगेन सुवर्चसा | उपगीयमानो [-ने] गन्धर्वेः सूर्यलोकं स गच्छति || ५५ || चैत्रे मासि सिते पक्षे यात्रां मदनभञ्जिकाम् | यः करोति नरस्तत्र पूर्वोक्तं सकलं लभेत् [भवेत्] || ५६ || शयनोत्थापने चैव सङ्क्रान्त्यामयने तथा | वारे तिथिरवौ चैव सर्वकाले महेश्वरि || ५७ || प्. ३२२) ये तत्र यात्रां कुर्वन्ति श्रद्धया संयतेन्द्रियाः | विमानेनार्कवर्णेन सूर्यलोकं व्रजन्ति ते || ५८ || आस्ते तत्र महादेवस्तस्य देवस्य दक्षिणे | रामेश्वर इति ख्यातः सर्वकामफलप्रदः || ५९ || ये तं पश्यन्ति [तपस्यन्ति] कामादिं स्नात्वा करणपायसि | नरो वा यदि वा नारी सर्वकामफलं लभेत् || ६० || तस्य पूर्वे नवधनुःकुण्डः पच्यन्तरे [नवधनुर्धनुष्पर्यन्तरं पर्यन्त०] यथा | शतहस्तमिदं कुण्डं सूर्यरश्यिसमुद्भवम् || ६१ || आस्ते सरोवरस्तत्र सर्वतीर्थोद्भवं जलम् | सर्वतीर्थाम्भसि स्नात्वा कुशैरासिच्य मूर्धनि || ६२ || सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् | धर्मारण्यस्य पूर्वे तु सप्तधन्वन्तरायतम् || ६३ || कपोताख्यं सरस्तत्र स्नात्वामृतपदं [-पूतपदं] व्रजेत् | सूर्यरश्मिसमुद्भूत कपोताख्य संरित्पते || ६४ || दशजन्मकृतं पापं हर मेऽद्य नमोऽस्तु ते | तारेणार्घ्यं ततो दत्वा स्नात्वा मन्त्रेण शाङ्करि || ६५ || दशजन्मकृतं पापं तत् क्षणादेव नश्यति | तस्य पश्चिमदिग्भागे दशधन्वान्तरायतम् || ६६ || प्. ३२३) करणाख्यं सरस्तत्र स्नात्वा तत्र दिवं व्रजेत् | नमस्करोमि भूतेश ब्रह्मणा पूजित प्रभो | हूं गां गुं धूममार्गेषु नमस्ते करणामृत || [ठे वेर्से इस् लेfत् उन्नुम्बेरेद्.] इत्यनेन हि मन्त्रेण स्रात्वा ब्रह्मपदं व्रजेत् | फाल्गुने वा तथा माघे सप्तम्यां स्नानमाचरेत् || ६७ || शुक्लपक्षे विशेषेण सूर्यलोके महीयते | कपोतस्य च पाश्चात्ये धनुरेकादशम्मितम् || ६८ || वशिष्ठाख्यं सरस्तत्र पञ्चम्यामथ कार्तिके | स्नात्वा वारुणमन्त्रेण वारुणं लोकमाप्नुयात् || ६९ || मार्गशीर्षे तथाष्टम्यां स्रात्वाभ्यर्च्य जनार्दनम् | अर्घरात्रोपवासेन [अहोरात्रो-] पूजयेच्च [पूजयेद्वः] सुभक्तितः [सभक्तिकं] || ७० || एकादश्याञ्च देवेशि विष्णुलोके महीयते | श्राद्धञ्च मुण्डनं कुर्याद्दानं दद्याद् यथाविधि || ७१ || तत्राचलं समारुह्य न पुनर्जायते भुवि | नक्षत्रकूटवायव्ये शिवयूपस्तु पश्चिमे || ७२ || दक्षिणे नार्मदं शैलमुत्तरे हरकूपकम् | पूर्वतो नागशैलश्च तत्र मध्यतमः प्रिये || ७३ || महीक्षेत्रं महाक्षेत्रं कुरुक्षेत्राधिकं प्रिये | स्नानं दानं तपो होमः सर्वमक्षयमश्नुते || ७४ || प्. ३२४) भस्माचलस्य पूर्वे तु यावद् धनुः सहस्रकम् | चन्दनं नाम तत् क्षेत्रं वाराणसीसमं शुभम् || ७५ || तत्र वाराणसीकुण्डं धनुः पञ्चप्रमाणतः | तत्र स्नात्वा च विधिवन्नरः कैवल्यमश्नुते || ७६ || तत्रैव वायवं कुण्डं पूर्वभागे धनुस्त्रयम् | तत्र स्नात्वा नवम्याञ्च ऊर्ध्वलोके महीयते [नरः सम्यक् स्वर्गलोके महीयते | तत्र स्नात्वा नवम्याञ्च स्वर्गलोके |] || ७७ || तस्मिन् क्षेत्रे च मरणेन भूयो जायते क्वचित् | ज्ञानं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् || ७८ || वायव्यभागे पीठस्य दृष्टिमात्रान्तरे स्थितः | वृषाकारगिरिः सोमगिरिस्तु वृषभाचलः || ७९ || दक्षिणे तस्य कुण्डस्य नन्दिकुण्डात्मकं सरः | चन्द्रसूर्यग्रहे स्नात्वा कैवल्यं प्राप्नुयान्नरः || ८० || नन्दीश्वराह्वयस्तत्र शिवलिङ्गो व्यवस्थितः | तस्य सम्पूजनाद् देवि सर्वपापैः प्रमुच्यते || ८१ || इहलोके नीरोगश्च सम्प्राप्य चोत्तमं सुखम् | शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात् || ८२ || नन्दिकण्डे नरः स्रात्वा नक्तं कुर्यात्तथा निशि | ततः परस्मिन् दिवसे गच्छेद् भस्माचलं प्रति || ८३ || वृषाचलस्य वायव्ये दृष्टिमात्रान्तरे स्थितम् | तत्र रत्नाह्वयं लिङ्गं पूजयेद्विजितेन्द्रियः || ८४ || प्. ३२५) सर्वपापविशुद्धात्मा शिवलोके महीयते | गिरेरैशान्यभागे तु कान्नकं [कान्वकं] नाम वै सरः || ८५ || धनुरष्टप्रमाणेन स्नात्वा लोके महीयते | तस्योत्तरपूर्वभागे शिवविष्णोर्बिलद्वयम् || ८६ || तत्र स्नात्वा नरो नारी मुच्यते भवबन्धनात् | गङ्गाकुण्डं तु तत्रैव धनुःषोडशकं मितम् || ८७ || तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति | तस्यां दिशि हविष्याशी संयतस्तद् [संयतस्तु] दिनं नयेत् || ८८ || ततोऽन्यदिवसे प्राप्ते गच्छेन्नक्षत्रपर्वतम् || ८९ || दक्षिणे रसकूटस्य नातिदूरे व्यवस्थिता || ९० || महीक्षेत्रस्य मध्ये तु या नदी उत्तराश्रया | सा तु पुष्पनदी ख्याता सर्वपापप्रमोचनी || ९१ || तत्र स्रात्वा महामाघ्यां नरो गच्छति देवताम् | सम्पूर्णमाघमासे तु स्नात्वा विष्णुपुरीं व्रजेत् || ९२ || चैत्रशुक्लनवम्यां तु स्नात्वा नश्यति पातकम् | द्वापरस्य तु सा गङ्गा विष्णुकूटसमुद्भवा || ९३ || तस्यां स्नात्वा महेशानि मातृयोनौ [महद्योनौ | महात्मा वै] न जायते | तत् तीर्थे मुण्डनं कुर्यान् महीक्षेत्रे तु सङ्गतः || ९४ || प्. ३२६) सम्पूज्य नागं तत्रैव [नागकूटे तु] द्विगुणं फलमीरितम् | तत्रं स्नानं जपो होमः सर्वमक्षयतां व्रजेत् || ९५ || भानोर्वारे च सप्तम्यां स्नात्वा संयतमानसः | इहलोके ह्यरोगी स्यात् शेषे शिवपुरं व्रजेत् || ९६ || क्षेत्रस्य पश्चिमे भागे या धारा उत्तराश्रया | सा ज्ञेया मलधारा च स्नात्वा तत्र च किल्विषी || ९७ || तस्मात् तोयं न संस्पृशेत् तीरे तस्य न संवसेत् | प्रमादात् स्नानमात्रेण पौष्पकं स्नानमाचरेत् || ९८ || अथवा पुण्यतीर्थे वा आदित्यं वा ततः स्पृशेत् | एतत् पुण्यकरं क्षेत्रं भार्गवस्य महात्मनः || ९९ || एतज्ज्ञात्वा नरो याति शङ्करस्यालयं प्रति | चन्द्रिका च नदी पुण्या तस्य क्षेत्रस्य पूर्वतः || १०० || यामान्तरे महेशानि तस्यां स्नात्वा दिवं व्रजेत् | तस्य पूर्वोत्तरे भागे लिङ्गं वै कृत्तिवाससम् || १०१ || तं सम्पूज्य प्रयत्नेन शिववन् मोदते दिवि | चन्द्रिकायां नरः स्नात्वा सम्पूज्य कृत्तिवाससम् || १०२ || भाद्रे शुक्लचतुर्थ्यां तु निष्कलङ्को भवेन्नरः | क्रोशान्तरे महेशानि पूर्वभागे व्यवस्थिता || १०३ || फेनला [कलिला] च नदी पुण्या गाङ्गपर्वतसम्भवा | फेनिलायां नरः स्नात्वा फाल्गुने [करताले] च विशेषतः || १०४ || प्. ३२७) त्रयोदश्यां तथाषाढे कृष्णपक्षे वरायने | सुकृतार्घ्ये [मृद्योतोर्ध्वे] स्थिता पुण्या नदी पापप्रणाशिनी || १०५ || कामानलान्निस्सरति मदना नाम शाङ्करि | चैत्रे च [चैत्र्याञ्च] विधिवत् स्नात्वा गङ्गास्नानफलं लभेत् || १०६ || अभीक्ष्णं गिरिमारुह्य स्नात्वा तु मदनाम्भसि | माघशुक्लचतुर्थ्यान्तु पूजयित्वा महेश्वरम् || १०७ || संप्राप्य सकलान् कामान् शिवलोकं स गच्छति | त्रिस्रोता च नदी तत्र दक्षिणस्यां व्यवस्थिता || १०८ || शिवलिङ्गद्वयं तत्र सदाभैरवरूपधृक् | क्षीरोदश्च महेशश्च गुहामध्ये व्यवस्थितः || १०९ || ध्रुवेण पार्श्वमात्रेण पूजयेत् श्रद्धयान्वितः | गन्धैः पुष्पैस्तथा धूपैर्नैवेद्यैर्विभवैरपि || ११० || गुहावने च हरयो निवसन्ति महाबलाः | शङ्करं सेव्यमानं तु समासाद्य प्रसादयेत् || १११ || दर्शने वानराणाञ्च अभयं जायते भुवि | पुत्र पौत्रसमृद्धिश्च धनं धान्यं वरस्त्रियः || ११२ || प्राप्नोत्यभिमतान् कामान् षण्मासान्नात्र संशयः | कामाख्या पूर्वभागे तु क्षीरोदा या नदी षरा || ११३ || तस्याञ्च विधिवत् स्नात्वा सर्वपापैः प्रमुच्यते | क्षीरोदायाः पूर्वभागे पर्वतेऽमरकण्टके [शरकण्टके] || ११४ || प्. ३२८) तत्र शोणेश्वरं लिङ्गं गुरुचारुशिलामयम् | तं सम्पूज्य प्रयत्नेन न शोकं लभते नरः || ११५ || तत्र घाटेश्वरं लिङ्गं दक्षिणे तु महेश्वरि | दृष्ट्वा तं लिङ्गमत्युग्रं श्रद्धया सुसमाहितः || ११६ || स्नापयित्वा तु तं भक्त्या गन्धपुष्पैर्मनोहरैः | एवं कृत्वा चतुर्दश्यामष्टभ्यां शुक्लपक्षके [शुक्लके तथा] || ११७ || कुलं पञ्चकमुद्धृत्य शिवलोकं स गच्छति | पूर्वाग्नेये महेशानि पर्वतो गन्धमादनः || ११८ || तस्य पश्चिमप्राच्ये तु कोनस्य च विलद्वयम् | तत्र सनात्वाश्वमेधस्य यज्ञस्य फलमाप्नुयात् || ११९ || पूर्वभागे तु शैलस्य लौहित्ये धनुरष्टकम् | तीर्थं विल्वसरो [विल्वेशरो] नाम स्नात्वा नश्यति पातकम् || १२० || सरसश्चोत्तरे भागे भृङ्गीशस्य [भृङ्गेशस्य] पदद्वयम् | पूजयित्वा ततो भृङ्गं गाणपत्यमवाप्नुयात् || १२१ || तत्र पिण्डप्रदानेन पितॄणामनृणो भवेत् | दक्षिणे तस्य शैलस्य निवेधो नाम पर्वतः || १२२ || तस्य पूर्वोत्तरे भागे मन्मथस्य विलद्वयम् | तत्र स्नात्वा नरो नारी ब्रह्मलोकमवाप्नुयात् || १२३ || नातिदूरे तु शैलस्य निषधो नाम पर्वतः | तस्योत्तरे तु लौहित्ये धनुः सप्तप्रमाणतः || १२४ || प्. ३२९) पिशाचमोचनं नाम तीर्थं परमदुर्लभम् | तत्र स्नात्वा च तारेण प्रेतत्वं नैव गच्छति || १२५ || पर्वतारोहणाद् देवि ब्रह्महत्याञ्च (?) विन्दति | लौहितस्योदधेस्तीरे दक्षिणे परमेश्वरि || १२६ || दक्षिणस्राविणी नित्यं चण्डिकाख्या सरिद्वरा | स्नानं तत्र वरारोहे महापातकनाशनम् || १२७ || माघस्य सितसप्तम्यां पञ्चदश्यान्तु फाल्गुने | स्नात्वा क्षीरं पिबेन्नारी मृतापत्या भवेन्नहि || १२८ || स्नानं कृत्वा विधानेन राजसूयफलं लभेत् | मौसलस्नानमात्रेण राजसूयफलं लभेत् | [अश्वमेधञ्च विन्दति] तस्याः पूर्वोत्तरे भागे भूमिपीठे महेश्वरि || १२९ || पङ्कजं नाम क्षेत्रञ्च क्रोशमात्रं विजानीहि | भृङ्गीशं शङ्करं तत्र पूजयेद्भक्तितत्परः || १३० || चण्डिकायां ततः स्नात्वा क्षेत्रं कृत्वा प्रदक्षिणम् | शङ्करं पूजयेद् भक्त्या ब्रह्मलोके महीयते || १३१ || वैशाखं सकलं मासं पूजयित्वा नरोत्तमः | विष्णुलोकमवाप्यैवं ततो मोक्षमवाप्नुयात् || १३२ || चतुर्भुजं श्वेतवर्णं पद्मस्थं मुकुटोज्ज्वलम् | कुण्डले बिभ्रतं शुभ्रे नागहारविभूषितम् || १३३ || त्रिशूलडम्बरुधरं वरदाभयसन्मतम् | सर्वलक्षणसम्पन्नं [-संयुक्तं] जटामुकुटमण्डितम् || १३४ || प्. ३३०) ध्यात्वा चाघोरमन्त्रेण शिवतन्त्रेण पूजयेत् | पुष्पाञजलिं समादाय प्रतिमन्त्रेण पूजयेत् || १३५ || दद्याद्रक्तं रुद्रजटं धुत्तूरेण समर्चयेत् | नमस्ते भगवन् देव लोकपाल जगत्पते || १३६ || विश्वेश्वरमजं देवं जगद्धातारमव्ययम् | सर्वलोकविधातारं भृङ्गीशं [घृङ्गरीशं] प्रणमाम्यहम् [नमाम्यहम्] || १३७ || लोहितस्योत्तरं गत्वा आरोहेद् दर्पटाचलम् [कर्कटाचलम्] | श्वेतरूपं ब्रह्मरूपं कुबेरं तं समर्चयेत् || १३८ || तस्य पूर्वोत्तरे भागे कुबेरस्य बिलद्वयम् | तस्मिन् कुण्डे नरः स्नात्वा विष्णुलोके महीयते || १३९ || तस्याग्नेये गिरिश्रेष्ठो रोहिणो रोहणाकृतिः | तस्मिन् लोहादिकं स्पृष्टं स्वर्णतां [स्वर्णाभं] याति तत्क्षणात् || १४० || भूमिभागे द्वादशान्ते संस्थितश्च कलौ युगे | बलिं दद्यात् कुबेराय व्यञ्जनेनाशून्यकम् || १४१ || आदित्यांशे कलियुगे व्यक्तं याति च शाङ्करि | महेशस्य मुखोद्भूतः कूर्पटो नाम वै नदः || १४२ || तत्र स्नात्वा चतुर्दश्यां वारुणं लोकमाप्नुयात् | रोहिताकारमास्थाय स्थितोऽसौ वसुधातले || १४३ || प्. ३३१) मर्त्यलोके हितार्थाय पापं कूर्पटं मे हर | इत्यनेन तु मन्त्रेण स्नात्वा तु धनदेश्वरम् || १४४ || सम्पूज्य विधिवद् भक्त्या सोमलोके महीयते | लौहित्ये विधिवद् स्नात्वा आरोहेद् वह्निपर्वतम् || १४५ || सम्पूज्य वह्निं तत्रैव वह्निकूटेऽग्निमण्डले | प्राप्यते विष्णुलोकञ्च मोदते विष्णुना सह || १४६ || वह्निकूटस्य पूर्वे तु कमलो नाम पर्वतः | तत्रैव वारुणं लिङ्गं कुण्डञ्च वारुणाह्वयम् || १४७ || तत्र स्नात्वा च वरुणं सम्पूज्य धनवान् भवेत् | तस्य पूर्वे नातिदूरे कालिङ्गो नाम पर्वतः || १४८ || यमेश्वरं नाम लिङ्गं पूजयेत् श्रद्धयान्वितः | माघेऽमवास्या कृष्णायां यमलोकः प्रणश्यति [शमनस्तं न पश्यति] || १४९ || तस्य पूर्वोत्तरे [-रं] पाण्डुं कृष्णरूपं शिलामयम् | दृष्ट्वा स्पृष्ट्वा च भक्त्या च न भूयो जायते क्वचित् || १५० || तस्य पश्चिमवायव्ये धनुः रुद्रप्रमाणतः | गङ्गातीर्थं महातीर्थं स्नानान्नश्यति पातकम् || १५१ || तस्य पूर्वे नवधनुः सुमद्राया विलद्वयम् | स्नात्वा च कामबीजेन स्पृष्ट्वा पाण्डुशिलां ततः || १५२ || नाटकेशं समभ्यर्च्य इन्द्रलोके महीयते | पुस्तकाभयहस्ताय साक्षसूत्रधराय च || १५३ || प्. ३३२) नमः पर्कटसंस्थाय पाण्डुनाथाय वै नमः | प्रसादयेत् ततो देवं मर्त्यस्य [उत्तरे] दृष्टिगोचरे || १५४ || प्रासादकाररूपेण पर्वते सुप्रसंस्थिते | सप्तर्षीणामेकैकेन तद्रूयं पर्वतं भजेत् || १५५ || गङ्गाकुण्डे नरः स्नात्वा अभ्यर्च्य [आरुह्य] ऋषिपर्वतम् | सप्ताचले सप्त-ऋषीन् मध्यादिपूर्वतः क्रमात् || १५६ || प्रणम्य चैव शैलेशं गन्धैः पुष्पैः समर्चयेत् | कुले तस्य भयं नास्ति पुण्यवान् जायते भुवि || १५७ || उपगीयमानो गन्धर्वैः शिवलोकं व्रजन्ति वै | तस्योत्तरे कल्पवृक्षं विल्ववृक्षं महातरुम् || १५८ || गत्वा मूलेन सम्पूज्य नाकपृष्ठे प्रमोदते | वृक्षाणां पूजनाद् देवि तस्य पत्रेण शाङ्करि || १५९ || नार्चयेत् तस्य पत्रेण सर्वत्रैवं विधिः स्मृतः | तस्य वायव्ये धनदपुरस्कारको गिरिः || १६० || महाविवरमध्यस्थं नाटकेशं समर्चयेत् | दक्षिणे तस्य देवस्य वासवस्य सदस्त्रयम् || १६१ || तस्य पूर्वे नरः स्नात्वा अरोगी तत्क्षणाद् भवेत् | मध्ये कुण्डे च अधनी धनी भवति नान्यथा || १६२ || प्राक् कुण्डे धत्रिके (?) स्नात्वा ग्रहदोषैर्न लिप्यते | यस्मिन् कस्मिन् स्थितो देवि नरः स्नात्वा सरोऽम्भसि || १६३ || प्. ३३३) पश्चाद् देवं विरूपाक्षं देवीं सिद्धेश्वरीं शिवाम् | गणं चण्डं कार्तिकेयं गणेशं वृषभं तथा || १६४ || कल्पद्रुमञ्च सावित्रीं शिवलोकञ्च गच्छति | तस्योत्तरे मध्यभागेऽन्तर्गृहसमीपतः || १६५ || भूषण्डे पर्वते रम्ये वासुदेवस्य चोत्तरे | तत्र सिद्धेश्वरी योनिहस्तद्वयप्रमाणतः || १६६ || चामरेण तु सम्पूज्य तारामन्त्रेण शाङ्करि | तां पूजयेत्तु अष्टम्यामुपवासं समाचरेत् || १६७ || पशु पायसशाकाद्यैः पुत्रवाल् लक्ष्मीवान् भवेत् | तस्याः पूर्वे विल्वकूटे विरूपाक्षं समर्चयेत् || १६८ || सिद्धेश्वर्याः पश्चिमतः सुमदाहे च पर्वते | पर्वतं हस्तिरूपञ्च उच्चौघं कृष्णसायिनम् || १६९ || अभ्यर्च्य गणपतिं देवं कुले विघ्नो भवेन्न च | चन्द्रञ्च कार्तिकेयञ्च पूर्वभागे गुहाद्वये || १७० || एवाङ्गजशिलामध्ये पङ्काकारे परे तथा | आकाशगङ्गाचिह्नेन रक्तरक्षं हिरण्मयम् || १७१ || श्रीकूटे संस्थिता देवि सिद्धेशी कामसर्वदा | त्रिकोणान्तं गतं तोयं षट्कोणात् तेषु वेष्टनम् || १७२ || पञ्चहस्तमितं क्षेत्रं कल्पवृक्षस्तु चम्पकम् | वृषोद्भूतं श्वेतवर्णं वृषाकारं सरस्तटे || १७३ || दक्षिणे भवकुण्डस्य सावित्रीमुत्तरे तथा | यस्तेषु तीर्थं विधिवत् करोति नियतेन्द्रियः || १७४ || प्. ३३४) कुलं सप्तकमुद्धृत्य देवीलोकं स गच्छति | नाटकस्य पूर्वे तु दृष्ट्वा नीलाचलं गिरिम् || १७५ || कम्बनं नाम तत् क्षेत्रं हरिक्षेत्रादिकं फलम् | मन्त्राणां साधने तत्र वाञ्छितं फलमाप्नुयात् || १७६ || आरोहणे तु शैलस्य शिलावस्थां (स्या ?) विमुञ्चति | दक्षिणे मारणं कुर्याद् रम्यं दक्षिणभागतः || १७७ || पूर्वे चाकर्षणं कुर्यात् पश्चिमे चोच्चाटनं चरेत् | सुभद्रा च लयाग्नेये दृष्टिमात्रान्तरे स्थितः || १७८ || कामोत्तरपर्वतेन भूमिपीठे व्यवस्थितः | तत्र दीर्घेश्वरीं योनिं रक्तपाषाणरूपिणीम् || १७९ || पूजयेत् परया भक्त्या गन्धैः पुष्पैः पृथग्विधैः | मायाबीजेन कामेन अष्टम्यां संयतेन्द्रियः || १८० || चतुर्दश्यान्तु माधस्य कामानाप्नोति पुष्कलान् | चतुर्भुजा उमादेवी पीनोन्नतपयोधरा || १८१ || सिन्दूरपुञ्जसंकाशा धत्ते कर्त्रीञ्च खर्पराम् | दक्षिणे वामबाहुभ्यामभीतिवरदायिनी || जटामण्डितशीर्षा च रक्तप्रेतोपरि स्थिता || १८२ || कामाख्यायाश्च मन्त्रेण सा पूज्या परमेश्वरि | एवं कृत्वा नरो वीरः पुनर्योनौ न जायते || १८३ || तस्य पूर्वे विंशधनुः स्थितं तत्र शवं शुभम् | दुर्गाञ्च पञ्च तत्रैव स्नानान्नश्यति पातकम् || १८४ || उमाशैले उमा पूज्या योनिमुद्रास्वरूपिणी | तां पूजयेत् श्रीबीजेन नालक्ष्मीर्जायते क्वचित् || १८५ || प्. ३३५) तत्र माहेश्वरं लिङ्गं गुहामध्ये व्यवस्थितम् | पूजयेच्च चतुर्दश्यां शिवलोके महीयते || १८६ || तस्याः पूर्वे भूकृताङ्के (?) कूर्माख्यो नाम पर्वतः | सम्पन्नं चैव लौहित्ये पर्वतं कूर्मरूपिणम् || १८७ || कूर्माख्येनैव मन्त्रेण पूजयेत् श्रद्धयान्वितः | अधस्ताच्चैव लौहित्ये द्वाविंशधनुरायतम् || १८८ || प्रभागाख्यं महातीर्थं स्नानान्नश्यति पातकम् | तत्र स्नात्वा सकृत् लोके ब्रह्मलोके महीयते || १८९ || दापयिष्यति यः पिण्डान् तटे तस्मिन् सरःशुभे | कुलैकविंशमुद्धृत्य विष्णुलोके महीयते || १९० || तस्य पूर्वे इषुक्षेपद्वये शैवान्तरास्थितः | मद्गुरे पर्वते रम्ये लिङ्गं तत्र च मद्गुरम् || १९१ || सम्पूज्य विधिवल्लिङ्गं राजसूयफलप्रदम् | पूर्वोत्तरे तु देवस्य विल्वारण्ये गुहान्तरे || १९२ || श्वेताक्षमीश्वरं तत्र पूजयेत् स्वरमुच्चरन् | तत्रैव निःसृता पूर्वभागाद् गिरिवरा नदी || १९३ || कामधेनुमुखोद्भूता या नदी मङ्गला स्मृता | याममात्रं पश्चिमाशां पुनर्याति पराङ्मुखी || १९४ || कुबेरस्याश्रयं प्राप्ता मुक्त्वा शैलहिमाद्रिजाम् | तत् क्षेत्रं दुर्लभं लोके यत्र गत्वा न शोचति || १९५ || तत्र पिण्डप्रदानेन पितॄणामनृणो भवेत् | सितगङ्गा त्रियामान्ते अम्भः शैला च सागता || १९६ || प्. ३३६) भगिन्यौ च पुरा प्राप्तौ च्यवनेन महर्षिणा | तस्मिन् क्षेत्रवरे पुण्ये निमेषमावसेत् सुधीः || १९७ || राजसूयस्य यज्ञस्य लभते फलमुत्तमम् | यत्र सार्धं शैलपुत्र्या जलक्रीडां सदा हरः || १९८ || करोति च सदा देवि स्वर्णपङ्कजशोभितम् | तत्र स्नात्वा महामाध्यां गङ्गेव फलदायिनी || १९९ || पश्चिमे वा तथा पूर्वं यः करोति निमज्जनम् | सर्वपापक्षयस्तस्य प्रायश्चित्तं न विद्यते || २०० || यत्र वै मङ्गला गन्धा पिच्छिला पपनाशनी | तपोधन्यः पुण्यदेशः प्रायश्चित्तं न विद्यते || २०१ || नमस्ते मङ्गले भद्रे सर्वपापप्रणाशिनि | वन्द्ये त्वं निर्मले रुद्रे पापं हर नमोऽस्तु ते || २०२ || इत्यनेन हि मन्त्रेण स्नानं कृत्वा प्रपूजयेत् | सत्रं मन्त्रमतं शान्तं तथा विजयमम्बरम् || २०३ || तेजस्यञ्च समाङ्गञ्च [ससङ्गञ्च] पूजार्घ्यैः समुदीरयेत् [समुदीरितः] | जले वा अन्तरीक्षे वा स्थले वा यो मृतो भवेत् || २०४ || ब्रह्मज्ञानं समासाद्य स गच्छेद् ब्रह्म शाश्वतम् | सर्वपापविनिर्मुक्तो ब्रह्मणः सदनं व्रजेत् || २०५ || सकलं माघमासं तु स्नानं यः कुरुते नरः | ब्रह्महत्यासहस्राणि पापानि विविधनि च || २०६ || प्. ३३७) तत्क्षणाद् नश्यते देवि मकरस्थे दिवाकरे | मीने मेषे त्रयोदश्यां यः स्नानं कुरुते सुधीः || २०७ || कुलसप्तं समुद्धृत्य ब्रह्मलोके महीयते | फाल्गुन्यां विधिवत् स्नात्वा दृष्ट्वा च वृषभध्वजम् || २०८ || गन्धर्वत्वं समासाद्य शिवलोके महीयते | यस्याः पश्चिमवायव्ये इषुक्षेपद्वयान्तरे || २०९ || तत्रैव कपिलं कुण्डं स्नात्वा देवं प्रपूजयेत् | संयुक्ता सोमवारेणामावास्या यदा तु भवेत् || २१० || तदा कपिलेश्वरं गत्वा स्नानं कृत्वा विधानतः | कुलैकविंशमुद्घृत्य स गच्छेत् परमं पदम् || २११ || मङ्गलायाः पूर्वभागे भूमिपीठे च शाङ्करि | देवञ्च केशवं तत्र दृष्ट्वा विष्णुपुरं व्रजेत् || २१२ || केशवं ये तु पश्यन्ति अमावस्यामुपोषितः | श्वेतद्वीपेश्वरो भूत्वा विष्णुलोके महीयते || २१३ || तस्याः पूर्वे तु या धारा ऐशान्यां परमेश्वरि | रक्तधारा सा विज्ञेया तस्यां स्नानं विवर्जयेत् || २१४ || तस्याः पूर्वे महेशानि तापिका नाम वै नदी | तस्यां च विधिवत् स्नात्वा महाकीर्तिमवाप्नुयात् [महागतिम्] || २१५ || ऐशान्यां तस्य देवस्य दुग्धधारा परा नदी | तस्याञ्च विधिवत् स्नात्वा ग्रहणे चन्द्रसूर्ययोः || २१६ || गोशतस्य फलं प्राप्य शक्रलोके महीयते | तत्पूर्वस्यां महेशानि नदी वेत्रवती परा || २१७ || प्. ३३८) तस्यां स्नात्वा नरो गङ्गास्नानस्य फलमाप्नुयात् | तस्मादीशानकाष्ठायां या नदी उत्तरस्रवा || २१८ || तस्मादमृतकुण्डं तु त्रिपुरा नाम सत्कृता | त्रिपुरायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके || २१९ || विष्णुलिङ्गं समभ्यर्च्य न विशेद् गर्भसङ्कटम् | स याति विष्णुसदनं शरीरेण विराजितः [विजानता] || २२० || गन्धैः पुष्पैस्तथा धूपैरुपहारैरनूत्तमैः | पूजयेत् परया भक्त्या नानानैवेद्यवेदनैः || २२१ || तस्याः पूर्वे च क्रोशान्ते नदी दीपवती मता | एषा च मन्दरा ख्याता छिनत्ति दीपवत्तमः || २२२ || तेन देवमनुष्येषु नदी दीपवती शुभा | तस्याञ्च विधिवत् स्नात्वा सर्वयज्ञफलं लभेत् || २२३ || पद्ममानससम्भूतो नदः परमदुर्लभः | दुर्वाराख्यो महेशानि तत्र स्नात्वा दिवं व्रजेत् || २२४ || दुर्वारे विषुवे स्नात्वा कार्तिक्यां वा विशेषतः || २२५ || सर्वपापविनिर्मुक्तः संगच्छेद् ब्रह्मणः पदम् | पञ्चमानससम्भूता नदी शिवजला परा || २२६ || तत्र स्नात्वा नरो नारी न पुनर्भवमाविशेत् | सोमेश्वरं महालिङ्गं दक्षिणस्यां महेश्वरि || २२७ || तं सम्पूज्य महेशानि नाकपृष्ठे प्रमोदते | तस्यासन्ने नातिदूरे पद्मा नाम नदी परा || २२८ || प्. ३३९) पद्ममानससम्भूता प्रथते चोत्तरस्रवा || २२९ || तस्याञ्च विधिवत् स्नात्वाश्वमेधफलं लभेत् | कलौ पञ्चनदी ख्याता बिल्वक्षेत्रे मम प्रिये || २३० || सोमवती यज्ञधारा कनकाभा नदी वदी (?) [च नदीवती ?] | पद्मावती पञ्चधारा ख्याता पञ्चनदी स्मृता || २३१ || तस्याञ्च विधिवत् स्नात्वा चैत्रे मासि विशेषतः | अष्टम्याञ्च चतुर्दश्यां शिवलोके महीयते || २३४ || तस्याः पूर्वे वरनदी ख्याता चम्पावती शुभा | कदम्बबिलसंयाता ताञ्च यामवहा नदी || २३५ || तस्याञ्च विधिवत् स्नात्वा अश्वमेधञ्च विन्दति | कदम्बमानसोद्भूता गङ्गेव फलदायिनी || २३६ || विचित्रगोमहेशानि पापं हर नमोऽस्तु ते | चम्पावतीजले स्नात्वा दृष्ट्वा शम्भुं विशेषतः || २३७ || दृष्ट्वा च गौरीं देवेशीं पुनर्योनौ न जायते | लिङ्गस्वरूपी भगवान् शम्भुस्तत्र व्यवस्थितः || २३८ || विष्णुः शिलास्वरूपेण ब्रह्मलिङ्गस्वरूपधृक् | तीरे तस्य पश्चिमायां नातिदूरे व्यवस्थितः || २३९ || तस्याः पूर्वे च क्रोशान्ते दिव्यपुत्रनदः स्मृतः | तत्र स्नात्वामावास्याञ्च सर्वतीर्थफलं लभेत् || २४० || कार्तिकं सकलं मासं यः स्नायात् परमेश्वरि | अश्वमेधसहस्रस्य लभते फलमुत्तमम् || २४१ || प्. ३४०) दिव्यपुरे नदः श्रेष्ठः सर्वकिल्विषनाशकः | स्नात्वा मन्त्रेण मनुजा दिवं गच्छन्ति पारिताः || २४२ || अनेन स्नानं कृत्वा तु तीरेणार्घ्यं निवेदयेत् | दिव्यपुरे जले स्नात्वा दृष्ट्वा देवं त्रिलोचनम् || २४३ || सर्वलोकं समुद्धृत्य स्वर्गलोके महीयते | चम्पावतीं नदीं लङ्घ्य योऽन्यतः स्नानमाचरेत् || २४४ || उत्तरे च कुले चैव दक्षिणे च फलप्रदः | तत्र स्नात्वा सकृन्मौनी मधुकूटस्य दक्षिणे || २४५ || मानसे विधिवत् स्नात्वा कपर्दिनं प्रपूजयेत् | राजसूयस्य यज्ञस्य लभते फलमीप्सितम् || २४६ || तस्य सन्दर्शनान्मर्त्यः पुनात्यासप्तमं कुलम् | सकृद् दृष्ट्वा तु तां देवीं भक्त्या पूज्य प्रणम्य च || २४७ || नरः स्वयं समुद्धृत्य यमलोकं न गच्छति | अन्याश्च तत्र तिष्ठन्ति विरजा लोकमातरः || २४८ || सर्वाः पापहरा देव्यो वरदा भक्तवत्सलाः | आस्ते वैतरणीतीर्थं सर्वपापहरं परम् || २४९ || तत्र स्नात्वा नरः श्रेष्ठः सर्वपापैः प्रमुच्यते | देव्याः पूर्वे नातिदूरे कुण्डं वैतरणीयकम् || २५० || विंशधन्वन्तरायामं मध्ये तु धनुरष्टकम् | आस्ते स्वयन्तु तत्रैव कोलरूपी हरिः स्वयम् || २५१ || दृष्ट्वा प्रणम्य तं भक्त्या नरो विष्णुपुरं व्रजेत् | कपिला गोगृहे सोमतीर्थं च लोभसंज्ञके || २५२ || प्. ३४१) मृत्युञ्जये सिद्धतीर्थे वासुके सिद्धकेश्वरे | तीर्थक्षेत्रेषु मतिमान् विरजे संयतेन्द्रियः || २५३ || कृत्वा तीर्थञ्च विधिवत् स्नात्वा देवं प्रणम्य च | नरः स्वयं तत्र स्नात्वामरलोकं स गच्छति || २५४ || विरजायाञ्च गत्वा च पिण्डदानं करोति यः | स करोत्यक्षयां तृप्तिं पितृणां नात्र संशयः || २५५ || आगस्त्ये च महेशानि विरजे च कलेवरम् | परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै || २५६ || तारामन्त्रेण तन्त्रेण सम्पूज्य परमेश्वरीम् | पशुपायसगन्धैश्च महाविभवविस्तरैः || २५७ || तस्य पूर्वे महेशानि छत्राकारस्तु यो गिरिः | लिङ्गान्तरगता योनिर्मङ्गला नाम चन्द्रिका || २५८ || विधिवत् पूजयेद् भक्त्या मुच्यते भवभन्धनात् [कर्मबन्धनात्] | वाग्भवं मध्यबीजञ्च श्रीबीजं पुरतो भवेत् || २५९ || अन्यद्वा द्विष्टकं बीजं त्र्यक्षरं मन्त्रमीरितम् | ऋषिः स्यान्नारदः छन्दो गायत्री परिकीर्तिता || २६० || देवता च भवेत् शम्भुर्विनियोगश्च साधने | धर्मार्थकाममोक्षेषु योजयेन्मम सुव्रते || २६१ || त्र्यस्रगर्भं पङ्कजञ्च त्रिर्गेयं धरणीगृहम् | तत्र संस्थाप्य कलशमङ्गेरापूजनञ्चरेत् || २६२ || षोडशाङ्गुलकमानं मनोहरं द्विमात्रकम् | चमकं वादनेनास्य प्रणवाद्यं विसर्जयेत् || २६३ || प्. ३४२) दद्यात् पक्षिबलिं नैव खण्डद्रव्यं निवेदयेत् | कदलञ्च शमीपत्रं धत्रीञ्च तुलसीं तथा || २६४ || न दद्यात् कर्कटीञ्चैव [समर्चयेत्] अकालपनसन्तथा | वरालीञ्च तथा मत्स्यं न दद्यादपि कर्हिचित् || २६५ || अतिकल्पो भौमवारे पूजाविभवविस्तरैः | अष्टम्याञ्च चतुर्दश्यां त्रयोदश्यां समर्चयेत् || २६६ || न रात्रौ पूजयेद् देवीं निमज्याद्भिः कदाचन | चिञ्चाभ्यक्तनरः पृष्ट्वा तथा पञ्चशिरा अपि || २६७ || लशुनं गृञ्जनं भुक्त्वा मासमात्रं न चार्चयेत् | अभक्षैर्नार्चयेद् देवीं नीलीरक्तं न दापयेत् || २६८ || चामरञ्च तथा गोधां धर्मवाराहमानुषम् | महादेव्यै न दद्यात्तु दद्याद् हंसं च छागलम् || २६९ || शशकं स्वस्तिकञ्चैव खड्गीञ्च यमवाहनम् | जवापुष्पं कुङ्कुमं च बिल्वपत्र सकोमलम् || २७० || माघ्यं हयारिं जयञ्च रक्तवद्रजतं तथा | जलजानि च देयानि तथा कालोद्भवानि च || २७१ || दन्तपुष्पं तथा रक्तं विष्णुक्रान्ते तथैव च | देवीं च द्विभुजां पीतां स्वर्णकङ्कणधरिणीम् || २७२ || वरदाभयहस्ताञ्च परमसंस्थां प्रपूजयेत् [समर्चयेत्] | विस्तरे वा तथा चर्मकम्बले पुष्परेतसः || २७३ || उपविश्य जपेन्मन्त्रं त्रिलक्षं तु पुरश्चरेत् | कृष्णाजिने ज्ञानसिद्धिः श्रीमोक्षौ व्याघ्रचर्मणि || २७४ || प्. ३४३) वस्त्रासने व्याधिमुक्तिः ऊर्णायां द्रव्यमोचनम् | चर्मासने दरिद्रः स्यात् पाषाणे व्याधिजं भयम् || २७५ || धरण्यां द्रव्यसम्मृद्धिर्दौ भाग्यं दारुजासने | तृणासने यशोहानिः पर्णे च वित्तविभ्रभः || २७६ || यन्त्रासने तपोहानिरिति जानीहि मे प्रिये [वै सदा] | तत्रैव पश्चिमे भागे वाराहीं प्रतिपूजयेत् || २७७ || रवेर्वीजेन गन्धेन अष्टम्याञ्च विशेषतः | हयमेधस्य यज्ञस्य प्राप्यते चोत्तमं फलम् || २७८ || कर्पटे पूजयेल्लिङ्गं यमेशं नाम शङ्करम् | ध्रुवेण पञ्चपत्रेण गन्धाद्यैः प्रतिपूजयेत् || २७९ || पश्चिमे चैव लौहित्ये धनुर्मानप्रमाणतः | रम्भातीर्थं विजानीयात् स्नानाद् भयपरिक्षयः || २८० || तस्याः शैले महेशानि अधस्तान् माधवस्य च | सरोद्वयं चतुःषष्टिर्धनुषाञ्च प्रमाणतः || २८१ || तस्यां स्नात्वा पुनात्याशु कुलानामेकविंशतिः | तस्याः पूर्वे कञ्जनाख्ये [कज्जलाख्ये] शैले विष्णोः पदद्वयम् || २८२ || कलौ सन्न्यासके गुप्तमारोहेत् प्रतिपूजयेत् | तत्र शैलं चञ्चलाख्यं नारोहेच्च कदाचन || २८३ || सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति | पश्चिमे कज्जलस्यान्ते कपिलायाश्च सङ्गमे || २८४ || प्. ३४४) लौहित्ये विधिवत्स्नानमश्वमेधफलप्रदम् | मृद्मूर्ते (?)कपिलायाश्च सङ्गमावधि शाङ्करि || २८५ || नदी पिशङ्गिनी तव गङ्गातुल्या वरानने | दक्षिणस्यां त्रियामान्ते रैवते पर्वतान्तरे || २८६ || मध्यमात्तु पिशङ्गिन्या उभे पार्श्वेषु कीर्तनम् | नवपीठस्य यत्तीर्थं शृणु वै तस्य देवताः || २८७ || वशिष्ठशापादेकत्र गत्वा तत्र समाहितः | एकत्र तीर्थं कृत्वा च एकत्र चैव देवताः || २८८ || स्नात्वा च विधिवद् देवि यात्रा चैत्रे विशिष्यते | पूजयेत् परया भक्त्या प्रतिपीठफलं लभेत् || २८९ || तस्य पीठस्य आग्नेये याममात्रान्तरे स्थितः | कुरुक्षेत्रं महाक्षेत्रं यत्र ब्रह्मसरः स्मृतः || २९० || तत्र स्नात्वा च विधिवत् पश्येद्देवपितामहम् | दशाश्वमेधजं पुण्यं प्राप्नुयात् नात्र संशयः || २९१ || तस्याग्नेये पूर्वभागे यत्र प्राची सरस्वती | तस्यां च विधिवत् स्नात्वा ब्रह्महत्यां व्यपोहति || २९२ || उदुम्बरीवज्जाता च योजनानां गता मता | उदकाप्सरा तु प्रथमे द्वितीया पश्चिमाप्सराः || २९३ || विला च कविला जाता तस्मात् सा कविला स्मृता | कविलायां नरः स्नात्वा मकरस्थे दिवाकरे || २९४ || सम्प्राप्य सकलान् कामान् शिवलोकाय गच्छति | मुक्तये सर्वपापानां ब्रह्मणा निर्मिता पुरा || २९५ || प्. ३४५) कविले निर्मले स्नात्वा त्राहि मां भवसागरात् | अनेन स्नानं कृत्वा तु दद्यादर्घ्यं विभूतये || २९६ || कुशचन्दनदूर्वाभिः तिलाक्षतसमन्वितम् | दृष्ट्वा क्षीरञ्च तोयञ्च ततोऽर्घ्यं समुदीरितम् || २९७ || कञ्जनं शून्यसम्भूतं वागुरं विजयं तथा | महासेनं वह्निजायामर्घ्यमन्त्रः षडक्षरः || २९८ || चैत्रे मासि सिताष्टम्यां तरयां स्नात्वा दिवं व्रजेत् | पूर्णायां वा महेशानि शिवस्य सदनं व्रजेत् || २९९ || कार्तिकं सकलं मासं योऽवगाहेच्च शाङ्करि | इह लोके त्वरोगी स्यात् संप्राप्य चोत्तमं सुखम् || ३०० || शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात् | कुशावर्ते दैवते च सम्प्राप्ते [संगते] कुब्जिकामुखे || ३०१ || निष्फला दुर्लभा एषा कुशावर्ते तु सफला | मानसे कुब्जिधारा च प्राचीधारा सरस्वती || ३०२ || त्रिधारासङ्गमं यत्र तत् कुशावर्तमीरितम् | तत्र पूजा जपो होमः कृतं भवति देहिनाम् || ३०३ || तदनन्तफलं सर्वं ब्रह्ममुक्तिरतात्मनाम् | दत्तश्राद्धं तदा तत्र कृतं भवति चाक्षयम् || ३०४ || धनुषाञ्च सहस्रेण तत् क्षेत्रं परमं महत् | ऊर्ध्वभागे तु यामार्धे एकस्यैव तु सङ्गमम् || ३०५ || दक्षिणस्राविणी धारा सा तु कुब्जि महानदी | तस्यां च चारुवान् स्नात्वा रोगी भवति नान्यथा || ३०६ || प्. ३४६) उत्तरस्य तु या धारा मानसं नामतः श्रुतम् | पूर्वस्याञ्चैव या धारा कीर्तिता सा सरस्वती || ३०७ || त्रिस्थाने सङ्गमं यत्र प्रयागं तत् प्रकीर्तितम् | उत्तरे क्षेत्र ऐशान्ये धनुषाञ्च प्रमाणतः || ३०८ || कुब्जिसंज्ञं महातीर्थं तत्र स्नात्वा दिवं व्रजेत् | कुब्जिप्राप्तं सुतं दृष्ट्वा पितृणामनृणो भवेत् || ३०९ || उपस्पृश्य तत्र गत्वा नारी [स्नानी] वा पुरुषः क्वचित् | कुब्जिकायाः प्रसादेन मुच्यते ब्रह्महत्यया || ३१० || यत्र काली चतुष्कोणा तत्र पिण्डप्रदा नराः | हंसयुक्तविमानेन यान्ति सर्वे त्रिविष्टपम् || ३११ || तीरे धनुःशतञ्चैव यावद्रामह्रदावधि | तावत् क्षेत्रं भद्रकाल्या गत्वा सम्पूज्य कालिकाम् || ३१२ || पशुपायसगन्धाद्यैर्मांसैरुपकरैरपि | कलिद्वापरयोः सन्धौ गुप्तकाली सरस्वती || ३१३ || तस्मात्तत्र जले देवीं क्षेत्रे सम्पूज्य पूजयेत् | क्षेत्रस्यारोहणाद्देवि लभते विपुलां श्रियम् || ३१४ || कुब्जिकायां ततः स्नात्वा कालीक्षेत्रं व्रजेत् तु यः [सदा] | यावज्जीवकृतं पापं तत्क्षणादेव नश्यति || ३१५ || यः कुर्यात् तर्पणं तत्र तदनन्तफलदं [फलकं] भवेत् | नृत्यन्ति पितरस्तेषां तुष्टाश्चैव पितामहाः || ३१६ || प्. ३४७) लभन्ते तर्पणात् तृप्तिं पिण्डदानात् त्रिविष्टपम् | आदीश्वरं महालिङ्गं पूर्वभागे प्रतिष्ठितम् || ३१७ || आदितीर्थं तथा युक्तं दर्शनादपि मुक्तिदम् | स्पृष्ट्वा तु मानसं तत्र मुच्यते भवबन्धनात् || ३१८ || अवगाहनाद् ब्रह्मणः पदं च लभते सदा | ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम् || ३१९ || पूजयन्ति यथाशक्त्या ते प्रयान्ति त्रिविष्टपम् | धनानां काञ्चनं यद्वत् पवित्राणाञ्च दक्षिणा || ३२० || तथा समस्ततीर्थानां वरिष्ठं कुब्जितीर्थकम् | अश्वमेधस्तु यज्ञेषु यथा श्रेष्ठः प्रकीर्तितः || ३२१ || तथा समस्ततीर्थानां कुज्वितीर्थंमुखं वरम् | देवर्षीणां यथा श्रेष्ठो नारदो मम सुव्रते || ३२२ || तथा समस्ततीर्थानां कुब्जितीर्थमुखं वरम् | उत्तरे कालिक्षेत्रस्य देवदेवो जनार्दनः || ३२३ || लिङ्गरूपी गुप्तभावो अन्तर्धानः कलौ युगे | तत्र तीरे पिवेत् क्षीर नारमन्त्रेण [साममन्त्रेण] भक्तितः [यत्नतः] || ३२४ || दशजन्मकृतात् पापात् तत्क्षणादेव मुच्यते | कुशावर्तस्य पाश्चात्ये क्रोशमात्रान्तरे स्थितः || ३२५ || देवं कालाह्वयं लिङ्गमभिगम्य प्रपूजयेत् | चतुर्दश्यां तथाष्टम्यामेकादश्याञ्च पर्वणि || ३२६ || प्. ३४८) कविलायां ततः स्नात्वा यः पश्यति कपर्दिनम् | सोऽश्वमेधमवाप्नोति तत्र वा सेवने कृते || ३२७ || यावल्लिङ्गं कुरुक्षेत्रे उत्तरे कविला[कपिला]नदी | दक्षिणे कल्पवृक्षश्च क्रोशमात्रञ्च मध्यमम् || ३२८ || दशाश्वमेधकं नाम क्षेत्रं परमदुर्लभम् | अत्र यद्दीयते दानं कुरुक्षेत्राधिकं फलम् || ३२९ || अत्र यः प्रतिगृह्णाति अक्षयं नरकं व्रजेत् | प्रयागे कुब्जितीर्थे वा वगाह्य न पुनर्भवेत् || ३३० || अश्वक्रान्ते पिच्छिलायां मुण्डने उत्तमं फलम् || ३३१ || यावन्ति तस्य रोमाणि जले वा स्थलगोचरे | तावत्सख्यं कल्पशतं ब्रह्मलोके विराजते || ३३२ || अनर्घाचलसञ्जाता या ख्याता वगुडा नदी | भाद्रशुक्लचतुर्दश्यां तस्यां स्नात्वा दिवं व्रजेत् || ३३३ || या पिञ्जाचलसंयाता तोयदा नामतः स्मृता | तत्र स्नात्वा महामाघ्यां पुनात्यासप्तमं कुलम् || ३३४ || द्वारकेश्वर लिङ्गं च दक्षिणे परमेश्वरि | अभूद्ब्राह्मी च वाराही लक्ष्मीश्चैवानुमध्यमा || ३३५ || स्नात्वा सरस्वतीतीर्थे देवदेवमुमापतिम् | सम्पूज्य च त्रयोदश्यां मुच्यते भवबन्धनात् || ३३६ || अत्र स्वर्णनदी पुण्या वायुकोणे तु शाङ्करि | भाद्रे मासि तृतीयायां न शोको जायते क्वचित् || ३३७ || प्. ३४९) वाजवारिजले स्नात्वा मुच्यते घोरकिल्विषात् | विष्णुधाराजले स्नात्वा नाकपृष्ठे [स्वर्गलोके] प्रमोदते || ३३८ || गुरुधाराजले स्नात्वा अश्वमेधञ्च विन्दति | कालिधाराजले स्नात्वा सर्वान् कामानवाप्नुयात् || ३३९ || तृणशैलस्य पाश्चात्ये धनुःपञ्चान्तरे स्थितः | क्षेत्रं शृङ्गाटकं नाम कर्दिनं ह वर्जयेत् (?) || ३४० || सलिलायां नरः स्नात्वा मङ्गलायां महेश्वरि | शृङ्गाटकं समारुह्य पूजयेच्च कपर्दिनम् || ३४१ || स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् | अन्ते भर्गगृहं याति ततो मोक्षमवाप्नुयात् || ३४२ || तस्य पश्चिमभागे तु श्वेतसङ्केतकीर्तिता | कालनरा नदी ख्याता सर्वपापप्रमोचिनी || ३४३ || माघे मासि सिते पक्षे द्वादश्यां शुक्लपक्षके | नवम्यां वा महेशानि पूजयेत् पार्वतीपतिम् || ३४४ || स याति विष्णुसदनं शरीरेण विराजितः | नमस्ते सर्वतोभद्रे स्वर्गमोक्षप्रदायिनि || विष्णुकूटसमुद्भूते पाप हर नमोऽस्तु ते || ३४५ || इत्यनेन हि मन्त्रेण स्नानं कुर्यात् प्रपूजयेत् | वान्तं दशाक्षरयुतं रश्मिबिन्दुविभूषितम् || ३४६ || शून्यं [पुण्यं] चन्द्रान्वितं कृत्वा हृदयञ्च शिखान्तथा | पूजनेऽर्घ्यप्रदाने च यो जपेद्विजितेन्द्रियः || ३४७ || प्. ३५०) पतन्ती च सुपर्णा च मागधी यमुना परा [पलनापरा] | कल्लोला च शिखण्डी [शिखिनी] च शतरुद्रा घृतार्चिका || ३४८ || अष्टधारा तु यत्रैव पुण्यधारा सरिद्वरा | चतुः स्नात्वा चतुर्दश्यां ग्रहदोषैर्न लिप्यते || ३४९ || घृताची संगमे स्नात्वा प्रयागस्नानजं फलम् | कल्लोलासङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति || ३५० || षष्टियामवहा देवी विष्णुकूटात् समुद्गता | वासवं स्नापयामास वराहस्य मुखोद्गता || ३५१ || तस्मिन् देहपरित्यागे [परित्यागात्] पुनर्योनौ न जायते | तत्र श्राद्धं कृतं तीरे कुरुक्षेत्रसमं फलम् || ३५२ || स्नानं दानं तपो होमः सर्वमक्षयतां व्रजेत् | ते धन्याः पुरुषा जाता ये वसन्त्युत्तरे प्रिये || ३५३ || ये पश्चिमे वसेयुस्ते दुर्लभगतिमाप्नुयुः [वसन्ति स्मते दुर्गतिमवाप्नुयुः (?)] | तस्याः पूर्वे च क्रोशान्ते मङ्गलायाश्च पश्चिमे || ३५४ || क्रोशान्ते च महेशानि कलुषाख्या महानदी | तस्यां स्नात्वा महेशानि तत्क्षणात् पातकी भवेत् || ३५५ || सोमकुण्डान्निःसरति योजनानि चतुर्दश | गौतमस्याश्रमाज्जाता अतः [यतः] शैला [शैलात्] सरस्वती || ३५६ || प्. ३५१) धनुस्त्रयस्तथा षष्टिरायामे प्रायहीनकम् [आश्रमा प्रायहीनकम्] | पूर्वे सौरशिला तस्य पूर्वभागे व्यवस्थिता || ३५७ || गौतमेन पुरा शप्ता त्रिजन्मसागरावधि | यावत् [तारा] पूजावहा देवी तावत् तोय न संस्पृशेत् || ३५८ || पुण्या सरस्वती धारा स्नात्वा च तत्र शाङ्करि | गोसहस्रफलं प्राप्य नाकलोके [नाकपृष्ठे प्रमोदते] महीयते | ऊर्ध्वा या [ऊर्ध्वार्थे] गौतमक्षेत्रात् पुण्यतोया सरिद्वरा || ३५९ || कलुषा च त्रियामा च [चान्द्रिजन्मा] नौकायानेन भाविनि | तीरे नैव वसेत् तस्यास्तोयं नैव स्पृशेत् क्वचित् || ३६० || दशहस्तमितं यावत् तावत् तोयं प्रचक्षते | उद्धृतेन च तोयेन यः स्नानं कुरुते नरः || ३६१ || पराकेन [परलोके] भवेत्तद्धि [...शुद्धिः] स्नात्वा चान्द्रायणं चरेत् | अथवा मङ्गलास्नानं कुर्यादेकादशी[चरेदेकादशी..]व्रतम् | सितगङ्गाम्भसि स्नायादागस्त्ये वा समाहितः || ३६२ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे एकादशः पटलः | द्वादशः पटलः श्रीभगवानुवाच शृणु देवि प्रवक्ष्यामि यथावच्च समासतः | सर्वपापहरं पुण्यं पीठं परमदुर्लभम् || १ || लिङ्गद्वादशसंयुक्तं वाराणसीसमफलम् | भद्रपीठेतिविख्यातं शततीर्थसमन्वितम् || २ || विद्वत्कुलसमायुक्तं [विद्वद्गणभूयिष्ठञ्च] धनधान्यादिभिर्युतम् | गृहगोपुरसंयुक्तं महाचत्वरभूषितम् || ३ || तत्र दिव्येश्वरं लिङ्गं महापातकनाशकम् | प्रासादो जयमध्यस्थो मन्त्रोऽय परिकीर्तितः || ४ || ऋषिः स्यान्नारदश्छन्दोऽनुष्टुव्देवता हरः | विनियोगो धर्मकामे जायते मम सुव्रते || ५ || नवाङ्गे मण्डलं कार्यं नवतन्त्रं समुल्लिखेत् | स्वस्तिकं प्रथमं देयं पत्राष्टकसमन्वितम् || ६ || पश्चाद्गुणत्रयं दद्यात् कलापत्रमनन्तरम् | धरणीसदनं कुर्यात् सरक्तं [मूल] गुणसम्मतम् || ७ || ततः षोडशकं विद्यात् स्वस्तिकां च [स्वस्तिकारं.....] समार्जयेत् | पूर्वे कामञ्च श्रीबीजं प्रासादं प्रणवं तथा || ८ || सान्तं सबिन्दुकं पार्श्वमैन्द्रं पूर्वादिपत्रके | रश्मिबिन्दुसमायुक्तं स्मरञ्चैव वहिश्छदे || ९ || प्. ३५३) नृसिहं कोणकोणे तु निशया वानुशीतकैः | गैरिकेन लिखित्वा च कुङ्कुम-रोचनेन वा || १० || विलिखेच् च महायन्त्रं चन्दनेन लिखेत् क्वचित् | नागजेन सपुष्पेण न कुशेन कदाचन || ११ || लिखित्वा तत्र वै शम्भुम् उमासार्धं प्रपूजयेत् | न कदाचिद् बुधः कुर्यात् शम्भुं गौर्या वियोजनम् || १२ || वियोगे तु कृता पूजा निष्फला तस्य जायते | अर्घ्यपात्रं स्वर्णमयं विल्वामित्रकपात्रकम् || १३ || कृत्वा ताम्रमयं वापि द्वादशाङ्गुलमानकम् | एकाङ्गुलन्तु शरकास यत्र विनिसम्मितम् (?) || १४ || शङ्खञ्च रजतञ्चैव अश्मपात्रं विवर्जयेत् | शस्तं भद्रदारुमयं सहकारमपत्रया || १५ || अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् | चतुर्भुजं त्रिनेत्रञ्च दक्षिणे च त्रिशूलकम् || १६ || वामहस्ते डमरुकं तथाभयवरं प्रिये | श्वेतं श्वेताम्बरधरं जटामुकुटमण्डितम् || १७ || नागहारत्रययुतं फणामणिविभूषितम् | सर्वलक्षणसम्पन्नं सौन्दर्यगोपसेवितम् [सौन्दर्येणोपशोभितम्] || १८ || सर्वपापहरं देवं ब्रह्मादिभिरभिस्तुतम् | देवदानवगन्धर्वैरर्चितं वा मनोहरम् || १९ || विरूपाक्षं हरं विष्णुं महेशं स्वान्तिकेऽर्चयेत् | असिताङ्गादयः पत्रे श्रीकण्ठादींश्च तद्वहिः || २० || प्. ३५४) ब्राह्म्यादिशक्तिसंयुक्तं कलाषोडशकं बहिः | शङ्खपद्मनिधिश्चाष्टौ ब्रह्माणमग्रतोऽर्चयेत् || २१ || कन्दर्पञ्च हरं भीमं नन्दीशं वृषभं पुनः | रामाद्याः सर्वतः पूज्या ग्रहांश्चैव च दिक्पतीन् || २२ || पूजयेदुपचारैश्च प्रतिश्लोकैरनन्तरम् | नैवेद्यञ्चैव पानीयं श्रीफलञ्च निवेदयेत् || २३ || खर्जूरञ्चैव तालञ्च डाडिम्बं पनसं तथा | मोदकं पायसञ्चैव धान्यं हैमन्तिकं तथा || २४ || तिलान् मासांश्च मुद्गांश्च चनकञ्च विवर्जयेत् | अस्वरांश्चैव नारारमलावुं वर्तुलं तथा [मसूरांश्चैव नारारांद्यानाम्रमुकुलं तथा | (धान्यञ्चैव नीवारादीन्)] || २५ || वार्ताकीञ्चैव श्वेताञ्च पोतिकाञ्च कलम्बिकाम् | शिम्वीं कर्कीञ्च मानञ्च कवीरं मधुकानि च || २६ || सिद्धार्थं कालशाकञ्च सोमशाकञ्च वर्जयेत् | चन्द्रं शाकं चन्द्रबिम्बमग्रवक्त्रं प्ररोहकम् || २७ || शाकान्येतानि संविद्धि मांसभेदान् शृणु प्रिये | वाध्रीनसञ्च एणञ्च शशकं सलकं तथा || २८ || गोधामांसं प्रशस्तञ्च प्राशने च निवेदयेत् | वाराहञ्च तथा कौर्मं कृष्णच्छगं तथैव च || २९ || करिमांसञ्च कालञ्च तथा कालजवस्य च | महिषस्य च खड्गस्य प्रयत्नेन विवर्जयेत् || ३० || प्. ३५५) सुलोङ्कं [सुलोडं] तित्तिरिञ्चैव शामञ्चौनिकमेव च | सरारीञ्च कपोतञ्च तथा पारावतं सितम् || ३१ || पक्षिणं व्रध्रीनसञ्च वन्दकीं ग्रामहंसकम् | टिट्टिभं रक्तपुच्छञ्च हारीतं काष्ठकुक्कुटम् || ३२ || तथा चित्रबकं नव्यं वर्तकं रक्ततुण्डकम् || ३३ || शस्तान्येतानि मांसानि वर्जनीयानि त्वं शृणु || ३४ || वृहत् कापोतकञ्चैव चकोरञ्च वकं तथा | मयूरञ्चैव दात्यूहं तथा च ग्राम्यकुक्कुटम् || ३५ || कलविङ्कं शारिकां च कोयष्टिं प्रतुदानि च | मत्स्यं वैडालिकं वर्जेत् राजीवं मद्गुरं तथा || ३६ || प्रौष्टिकं हैरुकं चन्द्रं प्रयत्नेन च योजयेत् | कुवङ्कुटं जालपादान् तथा चित्रबकं प्रिये || ३७ || मत्स्यान् तक्रं तथा शोणं हारीतं चित्रकं तथा | भोजयेच्च प्रयत्नेन शम्भुना तान् शृणु प्रिये || ३८ || मारीचं रक्तकं वर्ज्यं पालङ्गं मानकं तथा | शस्तकं विकिरञ्चैव वर्वाशाकञ्च वृत्रकम् || ३९ || पुनर्नवा च राजीवं लकलं पनसं तथा | वृत्रिका पुचुमर्दञ्च तथा च हिनमोचिका [दीनमीचिका] || ४० || दद्यादेतानि शाकानि प्रशस्तानि च शाङ्करि | पुष्पाणि यानि देयानि वर्जनीयानि यानि च || ४१ || प्. ३५६) शृणु तानि समासेन हृदयानन्ददायिनि | जलजानि च देयानि करवीराणि दापयेत् || ४२ || तमालामलकीपत्रं तुलसी द्वे निवेदयेत् | द्रोणपुष्पञ्च नालञ्च जवा सिंहास्यकं तथा || ४३ || देये रुद्रजटा द्वे च मालती द्वे निवेदयेत् | मल्लिका चम्पकाशोकं पुन्नागं नागकेशरम् || ४४ || सन्ध्यावक्त्रं कपुष्पञ्च मुनिपुष्पं निवेदयेत् | केतकीं वन्धुजीवञ्च शिरीषं बकुलं तथा || ४५ || श्वेतकाञ्चनकं श्वेतसिन्टीञ्च सहकारकम् | माध्यञ्चैव सिताशोकं कर्णिकारं विवर्जयेत् || ४६ || सहस्रकुसुमैर्मालां चन्दनाक्तैर्निवेदयेत् | अष्टोत्तरसहस्रेण शिवमाला उपाहृता || ४७ || पार्श्वग्रन्थिमतां मालां मम हृद्ग्रन्थिसम्मताम् | वर्जयेत् सर्वदेवेषु त्रिवर्णञ्च विवर्जयेत् || ४८ || न दद्यात् सर्वरक्तञ्च सर्वश्वेतं न दापयेत् | सर्वक्षृणं सर्वपीतं न देयं मम सुव्रते || ४९ || श्वेतान्ते रक्तपीतञ्च रक्तपीतञ्च कृष्णकम् | रक्तकृष्णं न दद्यात् तु श्वेते पीतं न दापयेत् || ५० || बाहुमात्रां कण्ठमालां द्विगुणं परिकीर्तितम् | शिवमाला बाहुमात्रा चतुरङ्गनसम्मता || ५१ || दशाङ्गुलं महेशानि कण्ठमाल्यं निवेदयेत् | जलजानां यथायोगं माल्ये दत्तं विवर्जयेत् || ५२ || प्. ३५७) बिल्वपत्रैः कृते माल्ये पत्रसंख्या न विद्यते | हस्तमानेन तत् कुर्याच्चतुर्हस्तं तथोत्तमम् || ५३ || अष्टोत्तरं हस्तशतमष्टमं पञ्चविंशतिः | कनिष्ठं दशहस्तञ्च तथा षोडशहस्तकम् || ५४ || बाहुमात्रं वाथ कुर्यादतो हीन न कारयेत् | अन्येषाञ्चैव पत्राणां तत्र संख्या न दुष्यति || ५५ || आवाहुमात्रं तत् कुर्यान्न कुर्यात् पत्रसङ्करम् | पञ्चपत्रकृतं माल्यं शाङ्करञ्च न दुष्यति || ५६ || जलजानां शाङ्करञ्च माल्यं तत् परिकीर्तितम् | तुलसीविल्वकह्लारं धात्रीपत्रं तमालकम् || ५७ || एषां पञ्चकपुष्पेण कुर्यान्माल्यं समाहितः | चतुर्दश्यां था रात्रौ शिवाय च निवेदयेत् || ५८ || चतुर्दश्याः फलं सम्यक् प्राप्नोति नान्यथा प्रिये | न काष्ठेन न वंशेन न केशेन कदाचन || ५९ || चतुर्दश्यां तथाष्टम्यां बिल्वमाल्यं निवेदयेत् | शतहस्तमितं दत्वा राजलक्ष्मीमवाप्नुयात् || ६० || दशहस्तभितं दत्वा स्वचलां श्रियमाप्नुयात् | तुलस्याः शतहस्तेन शिवाय च निवेदयेत् || ६१ || दशजन्मकृतं पापं तत्क्षणादेव नश्यति | करवीरस्य रक्तस्य दद्यान्माल्यं समाहितः || ६२ || पाद्मं हस्तमितं दत्वा सर्वान् कामानवाप्नुयात् | राजसूयस्य यज्ञस्य लभते फलमुत्तमम् || ६३ || प्. ३५८) मालत्याः सर्वशुक्लेन दद्यान्माल्यं समाहितः [प्रयत्नतः] | जातीयूथ्योः कृता माला सर्वश्वेतेन दुष्यति || ६४ || चन्दनं बिल्वसम्भूतं शिवाय च निवेदयेत् | मलयाचलसम्भूतमथवा भृगुणान्वितम् || ६५ || यत्नलेपं तु मुख्यस्य प्रदद्याद्वा चतुःसमम् | द्विसमन्तु प्रदद्यात्तु एकैकं न कदाचन || ६६ || मलयजं सोमकञ्चागरुं मृगमदं तथा | चतुःसमञ्च कथितं द्विसमञ्च कलागरुः || ६७ || चन्दनञ्च उशीरञ्च अगरुः त्रिःसमं मतः | अगरुं न ददेदेकं गुग्गुलेन समन्वितम् || ६८ || अथवा सिद्धकं दद्याद् दद्यात्सर्जरसान्वितम् | निशवो कृष्टकञ्चैव कुशीतं गन्धमुरमदम् || ६९ || उद्वर्तनं प्रतिदिनं सप्ताहाद् वा समाचरेत् | तिलतैलेन स्नेहेन घृतेनाभ्यङ्गमाचरेत् || ७० || महिषस्य तथाज्यञ्च दधिदुग्धञ्च वर्जयेत् | शालिपिष्टकचूर्णेन यवचूर्णेन शाङ्करि || ७१ || विलेपनं ततः कुर्यान् मधुना स्नापयेच्छिवम् | वारिणा प्रथमं स्नानं क्षीरेण तदनन्तरम् || ७२ || ततः पञ्चामृतस्नानं नवेनेक्षुरसेन वा | गुडेन स्नानं कुर्याच्च क्षीरधाराञ्च पातयेत् || ७३ || प्. ३५९) घटस्नानं ततः कुर्यादष्टोत्तरसहस्रकम् | शतेन मध्यमं कुर्यात् कनिष्ठ पञ्चविंशकम् || ७४ || एकैकस्य सहस्रेण पलेन स्नापयेच्छिवम् | शतेन मध्यमं देवि कनिष्ठं पञ्चविंशतिः || ७५ || उष्णोदकेन संस्नाप्य यथा आपसयोगकम् | अर्घस्नानं ततः कुर्याद् वारुणं कलशं पुनः || ७६ || शीते उष्णोदकं दद्याद् वत्सरान्ते विवर्जयेत् | अस्त्रेण स्नापयेद्देवि महास्नानं विधीयते || ७७ || मासपूर्णेन गोमूत्रैर्न[नागसूत्रैर्न]घृनिः सारयेत् (?) प्रिये | नोष्णेन योजयेद्देवि निद्रार्थं समुपागते [नाश्रयो याजयेद् निद्रार्थं समुपासते] || ७८ || न निशायां कूर्चनञ्च [न निशार्धे तत्कुलञ्च] पक्षान्ते वा तदर्द्धके | मासान्ते वा महेशानि कूर्चयेत् मम सुन्दरि || ७९ || चामरैरथवा गोलैरश्ववालै[चामरं वा मासवालैः]र्न कूर्चयेत् | न कूर्चयेत् शूकरस्य वालैर्नैव कदाचन || ८० || न काष्ठेन न वंशेन न केशेन कदाचन | प्रभाते स्नापयेल्लिङ्गं मध्याह्ने तदनन्तरम् || ८१ || रात्रौ तोयेन संस्नाप्य क्षीरपातैरनन्तरम् | मध्यन्दिने शेषयामे महापूजावसानके || ८२ || प्. ३६०) न स्नापयेत् महादेवं लिङ्गेषु प्रतिमासु च | सप्तभिर्बिल्वपत्रैश्च पञ्चपत्रैश्च मार्जयेत् || ८३ || न स्नापयेत् शुष्ककुशैः रौप्यतोयैः कदाचन | नारिकेलजलैर्देवं स्नापयेन्मधुभिस्तथा || ८४ || दृढहस्तेन देवेशं दिवारात्रौ च स्नापयेत् | पद्मपत्रस्य रजसा वस्त्रकार्पासजेन वा || ८५ || चतुरङ्गुलमानेन तिलतैलेन वा प्रिये | घृतेन चालयेद्दीपं परितः पञ्चकं न्यसेत् || ८६ || नार्चयेदेकदीपेन त्रिदीपेन कदाचन | स्नानभोजनकाले चतुर्दश्यामष्टमीषु च || ८७ || अर्द्धरात्रेण वीक्षेत पूजान्ते न स्पृशेत् क्वचित् | गोदोहमात्रमापेक्ष्यं पूजान्ते दन्तमात्रकम् || ८८ || दिनक्षये सोमवारे अमावस्या भवेद् यदि | पौषस्य च त्रयोदश्यां दिव्येशं न स्पृशेत् क्वचित् || ८९ || दिव्येशं प्रथमं यामो द्वितीयञ्चन्द्रभैरवम् | तृतीयं कामशत्रुञ्च चतुर्थं हि विकम्बनम् || ९० || गोपेश्वरं पञ्चमञ्च नामान्येतानि पूजयेत् | व्यस्तेन वा समस्तेन तदा अन्तनमोऽन्वितम् || ९१ || प्रत्येकेन स्वनाम्नास्य पूजनं परिकीर्तितम् | पूर्णिमा माघमासस्य मघर्क्षे लक्ष्यते यदा || ९२ || तदागच्छेद्विशेषेण लिङ्गं पशुपतिं प्रति | कायवाङ्मनसाशु तद्भावेनानन्यमानसः || ९३ || प्. ३६१) सर्वद्वन्द्वविनिर्मुक्तो वीतरागो महोत्सवः [महाव्रतः] | कल्पवृक्षं वटं रम्यं यत्र साक्षाज्जनार्दनः || ९४ || प्रदक्षिणं तत्र कुर्यात् तथा सप्त समाहितः | तं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् || ९५ || पुण्यञ्चाप्नोति विपुलं गतिमिष्टाञ्च शाङ्करि | यः पश्यति तृतीयायां वैशाखे दिव्यनामकम् || ९६ || विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति | कार्तिकस्य चतुर्दश्यां दृष्ट्वा देवं पिनाकिनम् || ९७ || कुलैकविंशमुद्धृत्य ब्रह्मलोके महीयते | यत्फलं सर्वदानेषु व्रतेन नियमेन च || ९८ || नरस्तत्फलमाप्नोति दृष्ट्वा लिङ्गं सकृत् तु यः | दृष्ट्वा नरोञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च || ९९ || अश्वमेधसहस्राणां फलमाप्नोति शाङ्करि | दृष्ट्वा लिङ्गं नरो नत्वा मोक्षं प्राप्नोति दुर्लभम् || १०० || पापैर्विमुक्तः शुद्धात्मा कल्पकोटिशतं मुदा | श्रिया परमया युक्तः सर्वैः प्रमुदितैर्गुणैः || १०१ || सर्वकामसमृद्धेन विमानेन सुवर्चसा | त्रिःसप्तकुलसमुद्धृत्य नरः शिवपुरं व्रजेत् || १०२ || तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् | गन्धर्वाप्सरसैः सार्धं शिवः स्यात् स चतुर्भुजः || १०३ || च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले | सर्वज्ञः सत्यवादी च जायते गतमत्सरः || १०४ || प्. ३६२) स्वधर्मनिरतः शान्तो दान्तो भूतहिते रतः | अभ्यस्य च शिवज्ञानं ततो मुक्तिमवाप्नुयात् || १०५ || यस्त्वश्वतीर्थं कृत्वा तु दिव्येशं पूजयेच्छिवे | तस्येष्टानि प्रसिध्यन्ति नात्र कार्या विचारणा || १०६ || पदं शूलञ्च खड्गञ्च रोचनाञ्च मणिन्तथा | रसं रसायनञ्चैव पादुकाञ्जनमेव च || १०७ || कृष्णाजिनं महेशानि ताढकाञ्च मनःशिलाम् | कमण्डलुं साक्षसूत्रं यष्टिमजीवनं (?) तथा || १०८ || सिद्धविद्याञ्च साङ्गां निगृहीत्वा मासकेश्वरः (?) | ज्वलदग्निस्फुलिङ्गोर्मिवेपितं त्रिशिखं यदि || १०९ || सकृद्यष्टं दहेत् सर्वं वृजिनं जन्मकोटिजम् | विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् || ११० || स्वदेहे भ्रूणहत्यादि कृत्वा दिव्ये न शोचति | महाग्राहगृहीतेषु ज्वलमानं विचिन्तयेत् || १११ || रुदते वै ततः शिघ्रं नश्येयुर्दारुणा ग्रहाः | बालानामङ्गकेशानां रक्षा भवति नित्यशः || ११२ || गण्डमेदकमृतानां (?) नाशनं कुरुते ध्रुवम् | एवं तत्र प्रभावोऽपि देवदेवस्य शाङ्करि || ११३ || व्याधिपातेन सिद्धिश्च घृतक्षीरेण होमयेत् | त्रिसन्ध्यमासमेकन्तु सर्वरोगान् विनाशयेत् || ११४ || प्. ३६३) शिवं प्रदक्षिणं कुर्यात् समसूत्रं न लङ्घयेत् | लङ्घने समसूत्रस्य ब्रह्महत्याञ्च विन्दति || ११५ || दक्षिणाशां ततो गत्वा स्पृष्ट्वा स्नानजलं यदि | निवर्तनं पुनस्तत्र वासं कृत्वा तदावधि || ११६ || पुनरागम्य तत्रैव प्रणामं परिकीर्तितम् | यस्याग्रे भ्रमणं कृत्वा प्रकुर्यात् प्रणतिं बुधः || ११७ || कृत्स्नान्यदेवतानाञ्च तस्मात् तत् परिवर्जयेत् | ज्योतिर्लिङ्गस्य निर्माल्यं नैवेद्यं परमेश्वरि || ११८ || भक्ष्यं तदपि देवेशि दत्वा तन्त्रेश्वरं हरम् | अन्येषां शम्भुलिङ्गानां स्थापितानां वरानने || ११९ || नैवेद्यञ्चैव निर्माल्यं कूपेष्वेव विनिक्षिपेत् | नश्येद् विल्वफलेनापि तस्मात् तत्परिवर्जयेत् || १२० || विश्वेश्वरो नीलकण्ठस्तथा कामाह्वयो [कामहयो] गिरिः | सोमेश्वरञ्च केदारं मनीषं काममीश्वरम् || १२१ || ततः पाशुपतं नित्यं व्योमेशं नागमीश्वरम् | दिव्येशञ्चैव जल्पीशं नन्दीशं ककुदेश्वरम् || १२२ || कृत्रिवासेश्वरं लिङ्गं लिङ्गं तु कौरकेश्वरम् (?) | च्यवनाख्यं महालिङ्गं कोटीशं सिद्धिनायकम् || १२३ || चम्पकेशं विरूपाक्षं व्याधेशञ्च वृषध्वजम् | राजतं त्रापुषं [रजरूपषं राजतत्रापुषाः] सर्वे ज्योतिर्लिङ्गाः प्रकीर्तिताः || १२४ || प्. ३६४) यात्रां कुर्यान्मासि मासि चतुर्दश्यान्तथाष्टमीम् | नयेत् सौगवतीर्थञ्च स्नापयेदर्षजैर्जलैः || १२५ || तत्र सम्पूजयेद् देवं प्रतिमां लिङ्गमेव वा | तत्र दृष्ट्वा नरो नारीं सर्वान् कामानवाप्नुयात् || १२६ || फाल्गुनस्य त्रयोदश्यां दोलां कृत्वा वटान्तिके | पूजयेद्विधिवद् देवं तत्र दृष्ट्वाथ कश्चन || १२७ || अश्वमेधसहस्रस्य फलं प्राप्नोति नान्यथा | वसन्ते विषुवे यात्रां कुर्यान्नीलाचलं प्रति || १२८ || तत्र दृष्ट्वा शिवं शान्तं ब्रह्महत्यां व्यपोहति | कुर्याद् हि दिवसे यात्रां वित्तके अयनं विना || १२९ || रात्रौ सन्ध्यागमे यात्रा अनन्तफलदायिका | माघमासस्य सप्तम्यां नयेच्च दक्षिणां दिशम् || १३० || तत्र दृष्ट्वा नरो नारी मुच्यते सर्वपातकात् | वर्षासु चतुरो मासान् चतुर्दश्यां दिवागमे || १३१ || मन्दीभूते भास्करे तु नयेच्चक्रालयं प्रति | दर्शयेद्दिव्ययानञ्च तत्र दृष्ट्वा च मुक्तिभाक् || १३२ || नौकायाञ्च ततो दृष्ट्वा लौहित्यान्ते महेश्वरि | कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् || १३३ || तत् फलं शिवमालोक्य नौकायां वार्षिकेषु च | कन्याशतप्रदानेन यत् फलं मकरे रवौ || १३४ || तत् फलं शिवमालोक्य शिविकास्यञ्च शाङ्करि | वलिदानेन विधिवद् यत्फलं समुदाहृतम् || १३५ || प्. ३६५) तत्फलं नीलकूटे च शिवस्यालोकनेन च | सुवर्णशतनिष्केन दत्तेन यत्फलं स्मृतम् || १३६ || तत्फलं नागरे तीरे दृष्ट्वा शम्भुं प्रणम्य च | पञ्चम्यां त्वमावस्यायां दशम्यां ग्रहणेषु च || १३७ || भूदाहे भूमिकम्पे च शिवयात्रां विवर्जयेत् | तत्र दृष्ट्वासनं धान्यं सर्वं हन्ति न संशयः || १३८ || पूजान्ते चैव यात्रायां नित्यनैमित्तिकेषु च | वक्ष्यमाणेन मन्त्रेण प्रतिपुष्पेण पूजयेत् || १३९ || नमो भवाय रुद्राय सर्वाय वरदाय च | पशूनां पतये चैव दिव्येशाय नमोऽस्तु ते || १४० || त्रिजराय त्रिशीर्षाय त्रिशूलवरधारिणे | त्र्यम्बकाय त्रिनेत्राय वैभवाय नमो नमः || १४१ || नमश्चण्डाय मुण्डाय स्वर्णदण्डधराय च | दण्डिने शङ्कुकर्णाय कामरत्नाय वै नमः || १४२ || नमोऽर्घ्यचण्डिकेशाय शुक्लाय वृषभाय च | विलोहिताय धूम्राय कमलाय नमो नमः || १४३ || नमो वर्तनशीलाय श्मशाननिरताय च | नम स्तुताय गुह्याय गोपेशाय नमो नमः || १४४ || सर्वाय सर्वभक्ष्याय सर्वभूतान्तराय च | नमो ज्येष्ठाय प्रोष्ठाय गोपेशाय नमो नमः || १४५ || नमो बुद्धाय उग्राय संविभागप्रियाय च | पञ्चाङ्गीयविहङ्गाय दिव्येशाय नमो नमः || १४६ || प्. ३६६) नमो यज्ञाधिपतये कृताय प्रकृताय च | यज्ञवाहाय दण्डाय दिव्येशाय नमो नमः || १४७ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे द्वादशः पटलः || त्रयोदशः पटलः श्रीभगवानुवाच अतः परं प्रवक्ष्यामि अश्वतीर्थफलं शृणु | यत्फलं स्नानदानेन देवताप्रेक्षणेन च || १ || चम्पावत्या ह्रदं गत्वा दिव्यपुरस्य सङ्गमे | नत्वा तीर्थं नमेद् दूरान् नरश्चोदङ्मुखः शुचिः || २ || निमज्जेदञ्जलिं वत्त्वा इमं [भौमं] मन्त्रमुदीरयन् | संसारसागरे मग्नं पापग्रस्तमचेतनम् || ३ || त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते | नमः शिवाय शान्ताय सर्वपापहराय च || ४ || स्नानं करोमि देवेश मम नश्यतु पातकम् | नाभिमात्रजले स्थित्वा विधिवद् देवतापितॄन् || ५ || तिलैः कुशैश्च मतिमान् कृषींश्चापि प्रतर्पयेत् | ऊर्ध्वबाहुं ततः कृत्वा उत्थायार्घ्यं निवेदयेत् || ६ || प्. ३६७) हंस एतेन मन्त्रेण करवीरेण पूजितम् | मानसञ्च ततो गच्छेत् कुवेराचलदक्षिणे || ७ || कन्दर्पञ्च कुवेरञ्च नन्दिनञ्च शिलात्रयम् | तत्र स्वच्छोदकं कुण्डं शिवस्य विवरं स्मृतम् [सुभम्] || ८ || तत्र स्नानात् जरामृत्युभयं नो विद्यते क्वचित् | शिवमानसदेवेश यन्मया दुष्कृतं कृतम् || ९ || मानसे कुण्डप्रवरे स्नात्वाऽहं निर्मले जले | अनेन विधिवत् स्नात्वा स्व [षत्] पितॄंश्च प्रतर्पयेत् || १० || ततो गच्छेत् तीर्थराजं स्नात्वा सन्तर्पंयेत् पितॄन् | त्वमापः सरितांनाथ जगत् कारणसत्तमम् || ११ || तीर्थराज नमस्तेऽस्तु त्राहि मां भव[पाप]सागरात् | इत्यनेन तु मन्त्रेण स्नायादे [स्नापयेच्चं] तन्निवेदयेत् || १२ || गोविन्दाचलपूर्वे तु दक्षभागे महेश्वरि | धनुरष्टप्रमाणञ्च कुण्डं वाराणसीयकम् || १३ || तत्र गत्वा च पीत्वा च पुनात्यासप्तमं कुलम् | सागरेभ्यः समुद्धृत्य जलमेकीकृतं त्वयि || १४ || वाराणसीह्रदश्रेष्ठ पापं हर नमोऽस्तु ते | मन्तेण स्नात्वा विधिवद्दद्यादर्घ्यं विभूतये || १५ || प्. ३६८) वाराणसीह्रदे स्नात्वा दिव्येशं यस्तु पूजयेत् [वीक्षते] | सर्वपापविशुद्धात्मा स गच्छेत् त्रिदशालयम् || १६ || ततः कामसरो गत्वा स्नात्वा काममन्त्रं जपेत् | तर्पयेत् पीठदेवांश्च सर्वान् बन्धांश्च यत्नतः || १७ || कामकुण्ड महाभाग स्वयं देवाभिसत्कृत | प्रयञ्छ कामानतुलान् पापाच्च त्राहि सर्वतः || १८ || इत्यनेन तु मन्त्रेण स्नात्वार्घ्यञ्च निवेदयेत् | ब्रह्मशैलस्य वायव्ये नातिदूरे व्यवस्थितम् || १९ || तिथिहस्तमितं कुण्डं सर्वपापप्रणाशनम् | मन्त्रेण स्नात्वा देवेशि दृष्ट्वा देवं महेश्वरम् || २० || दशानामश्वमेधानां फलं प्राप्नोति मानवः | मार्कण्डेयो मुनिश्रेष्ठस्तपस्तेपे महामतिः || २१ || मार्कण्डेयह्रदो नाम विख्यातो मेऽद्याघं हर | कल्पवृक्षं ततो गत्वा सकृत् कृत्वा प्रदक्षिणम् || २२ || पूजयेत् परया भक्त्या मन्त्रेणानेन तं वदन् | नमो व्यक्तस्वरूपाय महाप्रलयवासिने || २३ || महेन्द्रस्योपरिस्थाय न्यग्रोधाय नमो नमः | अमरत्वं सदा कल्य हरेरायतनं वट [नम इत्यारभ्य वट इत्यन्तः पाठः अधिकः] || २४ || न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते | पश्येद् देवञ्च दिव्येशं मुक्तिर्नास्त्यत्र संशयः || २५ || प्. ३६९) समारोहेन्मयूरञ्च पूर्वाशाभिमुखेन तु | दक्षिणाशासमारोहान्महाभयकरं भवेत् || २६ || पश्चिमाभिमुखः पापी रोगी भवति नान्यथा | उत्तरे चैव धनवान् जायते मम सुन्दरि || २७ || प्रविश्य देवतागारं कृत्वा च त्रिः प्रदक्षिणम् | मूलमन्त्रेण सम्पूज्य देवं दिव्येश्वरं हरम् || २८ || अष्टाङ्गार्घ्यं ततो दत्वा प्रणिपत्य प्रसादयेत् | त्रिलोचन नमस्तेस्तु नमस्ते नागभूषण || २९ || त्राहि मां त्वं विरूपाक्ष महादेव नमस्तु ते | मार्कण्डेयह्रदे देवि वाराणसीह्रदे तथा || ३० || पूर्वाह्णे मुण्डनं कृत्वा परेऽह्नि श्राद्धमिष्यते | छायां तस्य समाक्रम्य कल्पवृक्षस्य पार्वति || ३१ || ब्रह्महत्यां नरो जह्यात् पापेष्वन्येषु का कथा | दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतोयसमं परम् || ३२ || न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च संहितम् | संजपेत् शतरुद्रीयं कञ्चिद् वेदादिकं जपेत् || ३३ || यमश्चैव मतङ्गश्च मयूरश्च महेश्वरि | गोविन्दो ब्रह्मणश्चैव पारिपात्रः सुभद्रकः || ३४ || सोमश्च विजयश्चैव नागश्च नन्दनस्तथा | आदित्यश्च कसेरुश्च मनश्च मानसस्तथा || ३५ || मध्यदक्षिणभागे तु सन्त्येते गिरयः क्रमात् | अग्रतः पूर्वभागे तु नीलश्च कुमुदस्तथा || ३६ || प्. ३७०) कार्तिकेयो बलश्चैव बलभद्रस्तथैव च | गयश्च विहगश्चैव शुभदो मकरस्तथा [गोमेधश्च गवाक्षकः | (रामश्च लक्ष्मणश्चैव शुभदो |)] || ३७ || कसेरुर्मधुकश्चैव कुवेरोऽथ हरिस्तथा | कुरुश्च धर्मरूपश्च काहालो लोन एव च || ३८ || कलिङ्गश्च करालश्च उत्तरे गिरयस्तथा | कमलः कामधेनुश्च हरश्च मकरन्दकः || ३९ || रामश्च लक्ष्मणश्चैव गोमेधश्च गवाक्षकः | एते लौहित्यस्यान्ते [एते वै मध्यप्रान्ते तु] तु पश्चिमादिषु कीर्तिताः || ४० || उत्तरे स्यन्दनश्चैव पश्चिमे च पिशाचकः | आग्नेये जालशैलश्च ऐशान्ये राक्षसाचलः || ४१ || मिलित्वा त्रिशतं [विंशतिं] सार्धं पञ्चसाहस्रकं धनुः | सहस्रं वाराणसीक्षेत्रं शृणु चान्तर्गृहं प्रिये || ४२ || विकुम्भाक्षश्च देवेशि उत्तरे परिपठ्यते | नारोहेन्मलभद्रञ्च महापातकमाप्नुयात् || ४३ || नीलशैलं पिशाचान्तं धनुः पञ्चशतं मतम् | एतदन्तर्गृहं देवि सर्वतीर्थमयं स्मृतम् || ४४ || तत्र यद् यत् कृतं किञ्चित् अक्षययं परिकीर्तितम् | दुष्कृतं यन्महेशानि कल्पे ब्रह्मवधैः समम् || ४५ || वटमन्दरयोर्मध्ये ये त्यजन्ति कलेवरम् | तद्दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः || ४६ || प्. ३७१) अनिच्छन्नपि यस्तत्र प्राणांस्त्यजति मानवः | सोऽपि दुःखविनिर्मुक्तो मुक्तिमाप्नोति मानवः [दुर्लभाम्] || ४७ || कृमिकीटपतङ्गाद्यास्तिर्यग् योनिगताश्च ये | अत्र देहं परित्यज्य तेऽपि यान्ति परां गतिम् || ४८ || भूलोके नैव संलग्नमन्तरीक्षे यमालये | अमुक्तास्तन् न पश्यन्ति मुक्ताः पश्यन्ति चेतसा || ४९ || अशाश्वतमिदं मत्वा मानुषो याति किल्विषम् | तत्र पिवन् न सेवन्ते संसारभयमोचकम् || ५० || अस्मिन् कलियुगे घोरे नराः पापानुवर्तिनः | भविष्यन्ति सदादेवि धर्माश्रयविवर्जिताः || ५१ || नान्यत् पश्यामि जन्तूनां मुक्त्वा सिद्धेश्वरीं पुरीम् | सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे || ५२ || जन्मान्तरसहस्रेषु यत् पापं पूर्वसञ्चितम् | भद्रपीठं प्रविष्टस्य तत् सर्वं व्रजति क्षयम् || ५३ || भद्रपीठाग्निना दग्धमग्नौ दुर्गमिवाहितम् | जन्मान्तरसहस्रेषु पुण्य-यानमवाप्नुयात् || ५४ || भद्रपीठेऽन्यपीठे च तीर्थे मग्नं धनादिकम् | तत् सर्वञ्चैव पौरस्त्यं चौरेणापि हृतञ्च यत् || ५५ || अकामां बहूनां दुग्धम् (?) अन्यायेन कृतञ्च यत् [कृतं नृप] | महाकूले [महातीर्थे] निमग्नञ्च तत् कुलं पारलौकिकम् || ५६ || प्. ३७२) महापातकिनो ये च ये चान्ये पापकृन्नराः | अन्तर्गृहं समासाद्य ते यान्ति परमां गतिम् || ५७ || यमशैले धर्मराजः यमकूपश्च तिष्ठति | तत्र स्नात्वा ब्रह्मलोकं न पश्येद् यमसादनम् || ५८ || मतङ्गेशीं मतङ्गञ्च मतङ्गेशं समर्चयेत् | मयूरे चैव दिव्येशं गणेशं वृषभध्वजम् || ५९ || नारायणञ्च गोविन्दं ब्रह्मशैले त्रिविक्रमम् | पारिपात्रे स्थिता दुर्गा तस्या मन्त्रेण पूजयेत् || ६० || सुभद्रे कामपालन्तु सोमसोमेश्वरं शिवम् | विजये च जयन्ताख्यं नागकं मम लक्षणम् || ६१ || नकुले च स्थितः शक्र अदित्याख्ये च नायकः [आदित्ये रुद्रनायकः] | कशेरुशैले योगीशः मानसे मनसा शिवा || ६२ || नीले कामेश्वरीयोनिः कुमुदे पुरुषोत्तमः | कार्तिकाख्ये महाशैलेऽत्युग्रस्तत्र [यद्युग्रस्तत्र] नायकः || ६३ || वनशैले विरूपाक्षो नन्दभद्रे शतक्रतुः | गयाशिरो गयाशैले विष्णोश्चैव पदद्वयम् || ६४ || विहायसि [विहगेऽसि तु] च कामाख्या स्थिता कात्यायनी परा | कृष्णशैले स्थितः कृष्णो वनशैले वनस्तथा || ६५ || वाराहे तु वराहाख्यं धर्मशैले तु हेरुकः | सुभद्रे नीलवासी च मन्दरे च जनार्दनः || ६६ || प्. ३७३) कशेरुः शैले मातङ्गे भुवनेशी च तिष्ठति | कुबेरशैले पद्माक्षि शिवविष्णोर्विलद्वयम् || ६७ || हरिशैले श्रीघरश्च कुरुशैले जटाधरः | धर्मशैले महायूपे देवी कामेश्वरी स्थिता || ६८ || कैलासे च महादेवि [रुद्राचले महाबोधिः] धर्मारण्ये तथैव च | लोलाख्ये जम्भकेशश्च लिङ्गे पशुपतीश्वरः || ६९ || करालशैले देवेशि भुवनेशी च तिष्ठति | कमले कमलं लिङ्गं कामधेनौ तु केशवः || ७० || हरकूटे स्थितो ब्रह्मा मकरन्दे तु माधवः | कामशैले स्थिता सीता अनसूयाश्रमे प्रिये || ७१ || नकुलाख्ये महाशैले धर्मांशे तु पितामहः | प्रपितामहश्च गोमेधे गवाक्षे विष्णुरव्ययः || ७२ || योगाभ्यासेन यस्तिष्ठेत् सम्यक् वर्षशतत्रयम् | तत्फलं समवाप्नोति कामकुण्डस्य दक्षिणे || ७३ || कार्तिकस्य चतुर्दश्यां दिव्येश्वरमुमापतिम् | सम्पूज्य गन्धपुष्पैश्च धूपनैवेद्यचन्दनैः || ७४ || गीतवादित्रनिर्घोषैर्धर्मश्रवणसम्मतैः | जागरं कुरुते तत्र स याति परमां गतिम् || ७५ || देवस्योत्तरभागे च वापी तिष्ठति शोभना | तस्याः स्वच्छोदकं पीत्वा पुनर्जन्म न विद्यते || ७६ || दण्डपाणिस्तु तत्रैव रक्षते तज्जलं सदा | धनुषाञ्च तथा कोटी रक्ष्यते गणनायकैः || ७७ || प्. ३७४) सोमकूटस्य वायव्ये गुहामध्ये प्रतिष्ठितः | कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः || ७८ || स गच्छेत् तारकं ज्ञानं शाश्वतं सम्मतं पदम् | एतत् सततं कर्तव्यं यदीच्छेत् शाश्वतं पदम् | ते धन्यास्ते कृतार्थाश्च तैः प्राप्तं जन्मनः फलम् || ७९ || ये द्रक्षन्ति परं लिङ्गं दिव्येशं भद्रपीठके [तत्र पीठके] | षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च || ८० || पक्षे पक्षे ते पश्यन्ति चतुर्दश्याममासु [मष्टमीषु] च | नीलशैलस्य पाश्चात्ये दक्षिणेऽप्यथ सुव्रते || ८१ || धनुर्द्वाविंशकं नाम क्षेत्रं वदरिकाश्रमम् | तत्र स्थित्वा निमेषञ्च सर्वयज्ञफलं लभेत् || ८२ || तस्य पश्चिमभागे तु दशाश्वं नाम क्षेत्रकम् | दशानामश्वमेधानां तत्र वासेन तत्फलम् || ८३ || उत्तरे तु दिशां भागे तस्य चोत्तरतो रविः | तेन देवमनुष्येषु सेतुर्वार्कस्तु गीयते || ८४ || कुण्डं तत्र समुद्भूतं सर्वतेजःसमुद्भवम् | सूर्यतीर्थमिति ख्यातं सर्वकल्मषनाशकम् || ८५ || ततो देवगृहं गच्छेत् करोति त्रिः प्रदक्षिणम् | स्तुतिं कुर्याच्च स्तोत्रेण नीलकण्ठे कदाचन || ८६ || सलिलाख्याय लिङ्गाय युगान्ताय च लिङ्गिने | नमः कपालमालाय दिव्येशाय नमो नमः || ८७ || प्. ३७५) नमो दैवतनाथाय त्र्यम्बकाय हराय च | मयूरगुहावासाय दिव्येशाय नमो नमः || ८८ || कामरूपनिवासाय उमाकान्ताय वै नमः | शशाङ्कादित्यनेत्राय दिव्येशाय नमो नमः || ८९ || नमः रुद्राय वसवे नमः सागरशायिने | नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः || ९० || नमः स्फाटिक्यशयन शङ्खशैलकलेवर | खट्वाङ्गशूलडमरुविलसद्वाहवे नमः || ९१ || गङ्गातरङ्गगिरिगह्वरवासकर्त्रे | गोपेश्वराय वरदाय नमो नमस्ते || ९२ || ततोऽन्यदिवसे प्राप्ते प्रातः दण्डसरोवरे | गत्वा स्नात्वा च विधिवन्मन्त्रेणानेन साधकः || ९३ || दण्डतीर्थे निमज्जेऽस्मिन् जले जन्मसमुद्भवः | स याति नरकं घोरं स्नानमात्रेण मानवः || ९४ || हरिशैलस्य [हरिकूटस्य] वायव्ये धनुरष्टभिरन्तरे | पाषाणेनावृतं कुण्डं हस्तपञ्चदशायतम् || ९५ || गोविन्दस्य गिरेः पूर्वं गोविन्दो नाम पर्वतः | अधस्तात् समसूत्रञ्च कुण्डं वाराणसीयकम् || ९६ || तस्मिन् कुण्डे नरः स्नात्वा पश्येद् देवं जटाधरम् | मुच्यते पातकैर्घोरैः सप्तजन्मार्जितैरपि || ९७ || प्. ३७६) उभे धनुः कलामानं तत्पूर्व धनुरष्टकम् | वासुदेवसरस्तत्र स्नात्वा यज्ञफलं लभेत् [प्रदम्] || ९८ || गोविन्दाचलपूर्वे तु देव नारायणं भजेत् | ब्रह्माचलं ततो गत्वा ब्राह्मणान् तत्र पूजयेत् || ९९ || दक्षिणे नवधन्वन्तम् [वृषस्वत्तं] अमोघं नाम वै सरः | तत्र स्नात्वा नवम्याञ्च ब्रह्मलोके महीयते || १०० || तीर्थानां परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम्[स्मृतम्] | अष्टधन्वन्तरं यावत् पञ्चधन्वन्तरं तथा || १०१ || (काश्यपस्य महातीर्थमादितीर्थमिति स्मृतम् | आदिकुण्डे नरः स्नात्वा दिव्येश यस्तु पूजयेत् || अष्टम्याञ्च विशेषेण स याति परमां गतिम् | श्राद्धं दानं तपो होमः पिण्डनिर्वपनं तथा ||) ध्यानं तपश्च नियमः सर्वम्भवति चाक्षयम् | भास्कराख्यं सरः पूर्वे पङ्क्तिधन्वन्तरं विदुः || १०२ || पौर्णमास्याभमावास्यां श्राद्धं कुर्याद् यथाविधि | शक्ररूपी शिला तत्र तस्य मध्ये व्यवस्थितः || १०३ || तस्यांश्च दापयेत् पिण्डान् वैशाखेषु विशेषतः | ततः षष्टिर्धनुर्मानं तीर्थं सारस्वतं परम् || १०४ || प्. ३७७) तत्र स्नात्वा नरो देवि पुनर्जन्म न पश्यति | द्वाविंशद्धनुराकीर्णममृताख्यन्तु वै सरः || १०५ || तत्र स्नात्वा महामाघ्यां विष्णुसायुज्यमाप्नुयात् | ततेऽनु क्रौञ्चतीर्थञ्च धनुरष्टप्रमाणतः || १०६ || स्नात्वा शैवं पदं प्राप्य मघुमासे दिनक्षये | ततोऽष्टधनुराकीर्णं नन्दिकुण्डं समुज्ज्वलम् || १०७ || स्नात्वा नन्दिसमं प्राप्य रुद्रत्वं याति तत्क्षणात् | धनुः सप्तदशं यावद् ऊर्ध्वाशारासकं (वासक) सरः || १०८ || तत्र स्नात्वा च पीत्वा च नरो न निरयं व्रजेत् | त्रयोदश्याञ्च स्नानेन शिवलोकञ्च गच्छति || १०९ || यमुनाख्यं ततो गच्छेत् सर्वपापप्रणाशनम् | नास्ति तेन समं तीर्थं यमुनाया न संशयः || ११० || तत्पूर्वे तिथिमासेन धनुःकोणप्रमाणतः | कुण्डं हारि संज्ञकञ्च स्नात्वा क्रतुसमं फलम् || १११ || धनुर्विंशप्रमाणन्तु प्रयागाख्यं सरः शुभम् | तत्र स्नात्वा महाष्टम्यां [महामाध्यां] सर्वतीर्थफलं लभेत् || ११२ || तीर्थं कनखलं नाम स्नात्वा शैवपदं ब्रजेत् | ऋषिधन्वन्तरे पूर्वे पुष्कराचलदक्षिणे || ११३ || शिवो विष्णुस्तथा ब्रह्मा गणेशः सूर्यसंक्रमात् | विष्णुकुण्डस्य चैशान्यां नैर्-ऋते तु वटस्य तु | दुर्गाकूपञ्च तत्रैव कालहस्तप्रमाणतः || ११४ || प्. ३७८) तत्र कूपोदकं पीत्वा नारी गर्भधरा भवेत् | पूर्वे नगाचले तत्र स्थाने श्रीपुरुषोत्तमे || ११५ || जनार्दनं ततः पश्येद् दक्षिणे तु गयाशिरः | गयाकुण्डजले देवि गजवद्धि धनुर्मितम् || ११६ || स्नात्वा च तर्पयेद् देवान् पितॄन् ऋषीन् समर्चयेत् | सर्वपापविनिर्मुक्तो मुच्यते वै ऋणत्रयात् || ११७ || पिशाचस्य तु ऐशान्ये तत्र गङ्गाह्वयं सरः | तत्र स्नात्वार्चयेल्लिङ्गं न याति भास्करीभयम् || ११८ || पूर्वे नीलाचलो योऽसौ स गिरिर्मदनाह्वयः | तत्रैव मानसं कुण्डं दक्षिणे चैव जानीहि || ११९ || धर्माचलस्य ऐशान्ये धनुर्द्वादशमानतः [दर्शप्रमाणतः] | पश्येत् सिद्धेश्वरीं योनिं रक्तपाषाणरूपिणीम् || १२० || तां पूजयेत् तथाष्टम्यामुपवासं समाचरेत् | अत्यादक्षिणभागे तु नातिदूरे च संस्थिता || १२१ || शुकाकृतिश्चारुरूपा मर्त्ययोनिः प्रतिष्ठिता | कामकुण्डे नरः स्नात्वा कामानाप्नोति नित्यशः || १२२ || तस्मिन् कुण्डे नरः स्नात्वा सर्वपापैः प्रमुच्यते | अस्तहस्तमितं कुण्डं पाषाणत्रयमध्यगम् || १२३ || काषायमुदकं प्रातः मध्याह्ने क्षीरवद्भवेत् [स्मृतम्] | मध्याह्ने लवणं वा तु अपराह्णे तु कृष्णकम् || १२४ || प्. ३७९) रात्रौ क्षीरोदकं सर्षमेतच्चित्रं निदर्शितम् | या धारा कामकुण्डस्य जटोदका प्रकीर्तिता || १२५ || तस्यां स्नात्वा मृतापत्या न पुत्रो म्रियते क्वचित् | दक्षिणे शिवकुण्डस्य या धारा सा वियन्नदी || १२६ || तस्याः स्वच्छोदकं पीत्वा मुच्यते भवबन्धनात् | वह्निकूटस्य मध्ये तु या धारा गिरिनिःसृता || १२७ || सा ज्ञेया नर्मदाधारा महापातकनाशिनी | पश्चिमे मकरन्दस्य निःसृता भूमिपीठगा || १२८ || सरस्वती सा विज्ञेया पीत्वा श्रुतिधरो भवेत् | वक्रकूटस्य या घारा सा विज्ञेया च गोमती || १२९ || तस्यां स्नात्वा ब्रह्मयोनिं गत्वा मुञ्चति किल्विषात् | तदुत्तरे सप्तधारा धनुः सप्तत्रयान्तरे || १३० || वरुणस्य विलस्यान्ते वह्नेस्तत्र विलद्वयम् [बिलत्रयम्] | स्नात्वा च वारुणे कुण्डे वारुर्ण लोकमाप्नुयात् || १३१ || वटपूर्वे [वटपुटे] स्थितो देवि संस्थितश्च त्रिविक्रमः [संस्थितश्चेन्द्रियविक्रमः] | सप्तहस्तमितं लिङ्गमायामे चाक्षिहस्तकम् || १३२ || किञ्चित् शोणनिभं [शोणान्वितं] वक्त्रं पूर्वभागोन्नतं प्रिये | तस्मादीशानकाष्ठायां वह्निकूटेऽनलं शिवम् || १३३ || प्. ३८०) पूजयेद् वह्निवीजेन बन्धुकैश्च पृथग्बिघैः [विधि] | लौहित्यपायसि स्नात्वा आरुह्य वह्निपर्वतम् || १३४ || वलिभिः पूजयेद् भक्त्या मोदते विष्णुमन्दिरे | वह्निकूटस्य वायव्ये सर्पाकारस्तु तद् [सर्पाकारस्तदा] गिरिः || १३५ || चण्डभैरवरूपेण संस्थितश्च सदाशिवः | पुरस्ताद् भैरवस्याथ कुण्डं मानससंज्ञकम् || १३६ || तत्र स्नात्वा न शोकोऽस्ति पापी पापञ्च मुञ्चति | तस्य तीरे गिरिवरो नन्दो विपुलपर्वतः || १३७ || रमतेऽत्र च ईशानः सर्वदेवगणैः सह | एकाक्षरेण हंसेन पूजयेद् वृषभध्वजम् || १३८ || विषदग्धो निर्विषः स्याद् दंष्ट्री दंष्ट्रं विमुञ्चति | मयूरद् वायुकोणे च धनुषां सप्तकं मितम् || १३९ || गणेशं तत्र जानीयात् पूजयेत् लड्डुकादिना | ततो गच्छेत् स्वर्गद्वारं कामदीशान् ततो दिशि || १४० || धनुरष्टप्रमाणेन कुमुदस्य तथोत्तरे | उपोष्य रजनीमेकां गोसहस्रफलं लभेत् || १४१ || ततस्तु नन्दनं गत्वा नियतो नियतागतः | धनुस्त्रयं मयूरस्य अन्तिके नन्दनं स्मृतम् || १४२ || प्. ३८१) कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् | तस्योत्तरे ब्रह्मसरो मूर्तिर्गोश्च सरः शुभम् || १४३ || अश्वगोतीर्थमागत्य रूपवानभिजायते | ततो गच्छेन्महेशानि वराहस्य बिलद्वयम् [विलत्रयम्] || १४४ || विष्णुर्वराहरूपेण पुरा यत्र स्थितोऽभवत् | तत्र गत्वा चतुर्दश्यां लौहित्ये परिकीर्तितम् || १४५ || इन्द्रकूटस्य मध्ये तु चन्द्रतीर्थञ्च विश्रुतम् | एकहंसेश्वरं तीर्थं मध्ये तु परिकीर्तितम् || १४६ || स्नात्वा तत् फलमाप्नोति राजसूयस्य यत् फलम् | एकहंसेश्वरे स्नात्वा गोसहस्रफलं लभेत् || १४७ || चक्रतीर्थस्य याम्ये तु दिव्ययाम्योत्तरेषु च | तीर्थं रामह्रदं तत्र अष्टषष्टिर्धनुर्मितम् || १४८ || जामदग्न्येन रामेण आहृते वै महात्मना | कृतकृत्यो भवेद् देवि अश्वमेधञ्च विन्दति || १४९ || क्षेत्रमुद्भूतवीर्येण ह्रदाः पञ्च निवेशिताः | तस्मिन् पञ्चह्रदे स्नात्वा तर्पयेत् पितृदेवताः || १५० || ईप्सिताल् लभते कामान् स्वर्गलोकञ्च विन्दति | रविकन्दर्पयोर्मध्ये या धारा सा सरस्वती || १५१ || दक्षिणे यमुना चैव गङ्गा धनदवाहिनी | तत्र स्नात्वा महामाध्यां प्रयागस्नानजं फलम् || १५२ || प्. ३८२) संक्रमे सर्वकाले वा ग्रहणे चन्द्रसूर्ययोः | ज्योतिष्टोमस्य यज्ञस्य फलं सम्यक् समश्नुते || १५३ || जालेश्वरं ततो गच्छेद् गुरुरूपः सदाशिवः | तं प्रणम्य जगन्नाथं वाजिमेधफलं लभेत् || १५४ || स्नात्वा रामह्रदे सम्यग् दृष्ट्वा जालेश्वरं हरम् [शिवम्] | अर्चयित्वा महादेवमुपवासपरायणः || १५५ || अग्निष्टोममवाप्नोति शिवलोकञ्च [शिवलोकं स] गच्छति | ततो व्रजेन्मयूरञ्च पूर्वाशाभिमुखेन तु || १५६ || आरोहेदेकवस्त्रेण [तन्त्रेण] पठन् मन्त्रं शनैः शनैः | पदे पदेऽश्वमेधस्य फलं भवति धर्मतः || १५७ || मयूरे पर्वतश्रेष्ठे गतिरन्या न रोचते | मयूरं पर्वतश्रेष्ठं गिरिरूपधरं हरिम् || १५८ || समारुह्य नरो याति ब्रह्मलोकमनामयम् | कल्पकोटिशतस्थाय कल्पवृक्षधराय च || १५९ || अमृतैकनिधानाय मयूराय नमोऽस्तु ते | मयूरगिरिमारुह्य दक्षिणं सागरं मया || १६० || नमस्कृत्य तथा दृष्ट्वा वञ्चितः प्रेतनायकः | नमस्ते ब्रह्मपुत्राय नमः शन्तनुसूनवे || १६१ || अमोघागर्भजाताय गङ्गागर्भाय ते नमः | मयूरगिरिमारुह्य पश्यतो विहगाचलम् || १६२ || प्. ३८३) ब्रह्मलोकं निरालम्बं देहि मे पर्वतोत्तम | दिव्यजालस्योत्तरतः सदासागरसम्भवम् [सदा गरुडसम्भवम्] || १६३ || मधुमासे यदा पश्येत् त्रिधारां तु गयाशिरे [त्रिधारां तनयां गिरेः] | तदा अभीक्ष्णं देवेशि ब्राह्मणानाञ्च सम्पदः || १६४ || धारा तु दक्षिणे तस्य धारा भवति भाविनि | तदा तु मकरे राज्ये हाहाकारश्च जायते || १६५ || दिव्यमालस्योत्तरतो मयूरस्य च पश्चिमे | यदा भवति देवेशि चातुर्वर्णस्य सम्पदः || १६६ || यदा तु दक्षिणा तस्य धारा भवति भाविनि | तदा तु क्षत्रियो राजा धर्मराज्ये स्थिरो भवेत् || १६७ || चैत्रतीर्थस्य सान्निध्ये यदा वहति [भवति] सागरः | पञ्चवर्षान्तरे देवि जल्पीशश्चाति म्लेच्छकः || १६८ || तदा भवेन्महेशानि यवनाश्च तथापरे | यदा तु दक्षिणे तस्य क्रूरो राजा भवेदनु || १६९ || दृष्टिमात्रान्तरे तस्य अतिक्रूरोऽभिजायते | तदा परिहरेद्वासो भद्रपीठे विशेषतः || १७० || यदा यामान्तरे देवि दिव्येशस्य च सागरः | तदा पृथ्वी शस्यहीना [तदा तु पृथ्वी सम्यग् हीना] भविष्यति न संशयः || १७१ || प्. ३८४) यदा क्रोशान्तरे देवि मयूरस्य च सागरः | तदा पृथ्वी भवेद् भोग्या भविष्यति फलाधिका || १७२ || क्रोशाधिके या विद्यात् तु क्रूरांशे (!) मम सुन्दरि | विधिवद् दक्षिणां दद्यादाचार्याय गुणान्विते || भानवेऽर्घ्यं ततो दद्याद् ब्राह्मणान् भोजयेत् ततः || १७३ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे त्रयोदशः पटलः | चतुर्दश पटलः श्रीभगवानुवाच दिव्यजलस्य चैशान्यां सीता नाम नदी स्थिता | तत्र स्नात्वा महेशानि तिर्यग् योनौ न जायते || १ || हेतुका शृङ्गिनी चैव घोरा सत्या च तापसी | पञ्चधारा तु यत्रैव तत्र स्नाने दिवं [स्नानञ्च त्रिदिवं | (स्नात्वा च त्रिदिवं) | पाठः केषुचित् पाण्डुलिपिषु नास्ति] व्रजेत् || २ || तस्याः पूर्वे तु या धारा कपिला नाम सा नदी | तस्याञ्च पर्वणि स्नात्वा ब्रह्महत्यां व्यपोहति || ३ || पञ्चयामवहा सा च संयाता च्यवनाश्रमात् | कपोतकुण्डसम्भूता कपिलेनावतारिता || ४ || महामाध्यां स्नानमात्राद् ब्रह्माणीलोकमीक्षते | तस्याः पूर्वे च क्रोशान्ते दिव्यनामा सरस्वती || ५ || प्. ३८५) तस्याञ्च मकरे स्नात्वा सर्वयज्ञफलं लभेत् | अयने विषुवे चैव संक्रान्त्यां च विशेषतः || ६ || तस्यां स्नात्वा महेशानि अश्वमेधफलं लभेत् [तस्यामित्यारभ्य लभेदित्यन्तः पाठः नास्ति] | यदा पूर्वमुखं याति ब्राह्मणानां भयन्तदा || ७ || यदा तु दक्षिणं याति राष्ट्रे भवति दुर्गतिः | यदा ऐशान्ये गमनं महामारी तदा भवेत् || ८ || तस्याः पूर्वे निवासस्तु सफलं तस्य जीवितम् | पश्चिमस्थाश्च ये केचिद् धन-धान्य-क्षयो भवेत् || ९ || नगरस्य च ग्रामस्य यस्य पूर्वे नदाः [पूर्वे नद्यो यतः] प्रिये | तत्र वासं न कुर्याच्च दूरतः परिवर्जयेत् || १० || तस्य पश्चिमभागे तु नदीरूपा च दृश्यते | तस्मिन् स्नाने भवेद् यद्धि वायुर्लक्ष्मीः प्रवर्धते || ११ || नदं निरोधयेन्नैव नदीञ्चैव विशेषतः | यावच्च बन्धनमुर्व्यास्तावद् कुलं शपन्ति च || १२ || प्रमादाद् बन्धनं कृत्वा प्रायश्चित्तं समाचरेत् | नदीनिरोधके तोये यस्तु स्नानं समाचरेत् || १३ || सर्वकालोपजो दोषो भविष्यति न संशयः | तस्याः पश्चिम-भागे तु दक्षिणे परमेश्वरि || १४ || प्. ३८६) नगक्षेत्रे भूमिपीठे देवी ख्याता त्रिगण्डकी | तस्याः सम्पूजनादेव सर्वान् कामानवाप्स्यते || १५ || तस्याः पूर्वे महेशानि मोदको नाम पर्वतः | तत्र लिङ्गं गणेशस्य पूजयित्वा श्रियं लभेत् || १६ || उत्तरे तु भवेद्ब्रह्मा दक्षिणे कमला शिला | योनिरूपां महामायां पूजयेद् भक्तितत्परः || १७ || तस्यैशान्ये महेशानि यामार्द्धे संस्थितो नदः | द्विपुत्र इति विख्यातस्तत्र स्नात्वा दिवं व्रजेत् || १८ || पूर्वभागे द्विपुत्रस्य या धारा परमेश्वरि | सा धारा तापिनी नाम स्नात्वा नश्यति पातकम् || १९ || तस्याः पूर्वे च क्रोशान्ते या नदी सरयूं विना | निःसृता सर्वपापघ्नी दिग्वासा नाम विश्रुता || २० || माघे कुम्भे च मीने च यः स्नायान्मम सुन्दरि | तस्यां स्नात्वा मन्दिरेण ब्रह्महत्यां व्यपोहति || २१ || चतुर्दश्यां सिते पक्षे यः स्नायाद्मनुजोत्तमः | दशानामश्वमेधानां तत्फलं प्राप्नुयान्नरः || २२ माध्याञ्च विधिवत् स्नात्वा ब्रह्मलोकं स गच्छति | कार्त्तिक्यां ग्रहणे चैव अयने विषुवे तथा || २३ || सर्वयज्ञफलं प्राप्य देववद् दिवि मोदते | कार्तिकं सकलं मासं यः स्नायात् परमेश्वरि || २४ || अरोगी बलवान् शश्वत् कीर्तिमान् जायते भुवि | भौमवारे चतुर्दश्यां चतुर्थ्याञ्च शनैश्चरे || २५ || प्. ३८७) दिग्वासायां नरः स्नात्वा मुच्यते भवबन्धनात् | नमस्ते सर्वपापघ्नि स्वच्छे स्वच्छाम्बुवाहिनि || २६ || प्रसीद सुभगावर्ते नमस्ते सुरपूजिते | तद्वत्श्रान्तं सदानन्तं पार्श्वं दशसु वर्द्धितग् || २७ || रश्मि-बिन्दुसमायुक्तं नाकाभं सप्तवर्णकम् | स्नात्वानेन तु मन्त्रेण दद्यादर्घ्यं समाहितः || २८ || पितृंश्च तर्पयेद् भक्त्या श्राद्धं कुर्यात् परेःअनि [तद्वशान्तमित्यारभ्य परेऽहनि इत्यन्तः पाठः अधिकः] | मुण्डनञ्च ततः कुर्यादुपवासं समाचरेत् || २९ || एषा पुण्यतमा देवि देवगन्धर्वसेविता | दिग्वासालोकविख्याता तीर्थानामुत्तमा नदी || ३० || दिग्वासा सरितां श्रेष्ठा रुद्रदेहाद् विनिस्सृता | तारयेत् सर्वभूतानि स्थावराणि च शाङ्करि || ३१ || ग्रामे वा यदि वारण्ये पुण्यं सर्वत्र दिग्दशा | सदेवासुरगन्धर्वा ऋषयस्तु तपोधनाः || ३२ || तपस्तप्त्वा च देवेशि सिद्धिन्तु परमां गताः | प्रातः स्नात्वा नरो यस्तु नियमस्थो जितेन्द्रियः || ३३ || उपोष्य रजनीमेकां कुलानां तारयेत् शतम् | योजनशतसाहस्रं श्रूयते सरिदुत्तमा || ३४ || विस्तरेण तु देवेशि शतयोजनमागता | ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः || ३५ || प्. ३८८) सर्वहिंसानिवृत्तस्तु सर्वद्यूतहिते रतः | एवं धर्मसमाचारो यस्तु पापान् परित्यजेत् || ३६ || तस्य पुण्यफलं देवि शृणुष्व मम सुव्रते | शतवर्षसमं प्राणी स्वर्गे मोदेत शाङ्करि || ३७ || अप्सरोगणसङ्क्रीडो देवस्त्रीगणसेवितः | दिव्यगन्धैश्च लिप्तश्च दिव्यपुष्पोपशोभितः || ३८ || क्रीडते देवलोके तु दैवतैः सह मोदते | ततः स्वर्गात् परिभ्रष्टो राजते वा स धार्मिकः || ३९ || गृहन्तु लभते देवि दिव्यरत्नविभूषितम् | स्तम्भैर्मणिमयैर्दिव्यैर्ध्वजवैदूर्यभूषितम् || ४० || आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितैः | रेजे वागीश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः || ४१ || जीवेद् वर्षशतं साग्रं तत्र गोपसमन्वितः | सङ्गमे तीर्थरजस्य भुक्तिं मुक्तिञ्च विन्दति || ४२ || तस्य पूर्वे च या धारा सा च पद्मावती नदी | तस्याञ्च विधिवत् स्नात्वा शिवलोके महीयते || ४३ || कन्याश्रमे महापुण्ये तत्र स्नात्वा दिवं व्रजेत् | अशोक[सोम]कुण्डे दशम्याञ्च यः स्नायात् परमेश्वरि || ४४ || आजन्मसञ्चितं पापं तत्क्षणादेव नश्यति | सोमस्य दुहिता कन्या च्यवनेन च पालिता || ४५ || शङ्करेण हृता पूर्वं गौर्या शप्ता ततः स्थिता | ततः कग्याश्रमो नाम सर्वतीर्थमयं शुभम् || ४६ || प्. ३८९) क्रोशद्वयमितं क्षेत्रं वेदीमहीस्तदर्द्धकम् [देवीमध्यान्तदर्शकम्] | धनुर्द्वादशकं यावद् अन्तः क्षेत्रं महेश्वरि || ४७ || शिलातले पदं न्यस्तं ब्रह्मेन्द्रवरुणस्य च | रुद्रस्य च तथा विष्णोः क्रौञ्चस्य च गणस्य च || ४८ || रक्तं ब्रह्मपदं देवि श्वेतच्छत्रं पदद्वये [द्वयम्] | वासवस्य तथा श्यामं पाषाणाभं परं प्रिये || ४९ || यदा ब्र्ह्मपदं श्वेतं प्रजाहानिस्तदा भवेत् [वासवस्य इत्यारभ्य भवेदित्यन्तः पाठः अधिकः] | यदा विष्णुपदं रक्तं दृश्यते परमेश्वरि || ५० || तदा दुर्भिक्षं राज्यस्य एवं जानीहि मे प्रिये | तस्योत्तरे महापुण्यं तथा रुद्रपदं प्रिये || ५१ || वाराणसीसमं क्षेत्रं गयावत् फलदं मतम् | विराजपं [विवर्जयेत्] विधानञ्च तस्मादत्र समाचरेत् || ५२ || लौहित्यपायसि स्नात्वा पितॄन् सन्तर्पयेत्तु यः | तारयेत् सप्तगोत्राणि कुलमेकोत्तरं शतम् || ५३ || यस्तु प्राणान् परित्यज्य तस्मिन् क्षेत्रे विशेषतः | सर्वलोकविशुद्धात्मा ब्रह्मलोके महीयते || ५४ || जले वा चैव क्षेत्रे च अन्तरीक्षे वरानने | ज्ञानं पाशुपतं प्राप्य यस्तु देहं परित्यजेत् || ५५ || प्. ३९०) उद्वन्धनमृता ये च प्राप्नुयुर्गतिमुत्तमाम् | अस्मिन् क्षेत्रे च एकाग्रे लौहित्ये विरजेषु च || ५६ || मुण्डनं वर्जयेद्देवि गयायाञ्च विशेषतः | सिद्धाचले महेशानि पश्चिमाभिक्रमेण तु || ५७ || गुहामध्ये सप्तलिङ्गं गत्वा तत्र प्रपूजयेत् | नारदस्य च तत्रैव तीर्थं परमदुर्लभम् || ५८ || स्नानमात्रेण देवेशि गोसहस्रफलं लभेत् | तपस्तप्तं तत्र पूर्वं नारदेन महात्मना [सुरर्षिणा] || ५९ || प्रीतस्तस्य ततो योगे देवदेवो महेश्वरः | ब्रह्मणा निर्मितं तेन ब्रह्मसर [ब्रह्मेश्वर] इति श्रुतम् || ६० || तत्र गत्वा महेशानि ब्रह्मलोकञ्च विन्दति | रामतीर्थं ततो गत्वा स्वजनान्मुच्यते भयात् || ६१ || महेश्वरीं ततो गच्छेत् पूर्वजं जन्मनः फलम् | ताम्रेश्वरं [भासेश्वरं] ततो गच्छेत् सर्वव्याधिविनाशनम् || ६२ || स्नानमात्रे नरस्तत्र सर्वपापैः प्रमुच्यते | ततो गच्छेत् पूर्वभागं पिङ्गलेश्वरमुत्तमम् || ६३ || अहोरात्रोपवासेन त्रिरात्रं फलमाप्नुयात् | तस्मिन् तीर्थे च देवेशि कपिलां यः प्रयच्छति || ६४ || यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च | तावद् वर्षसहस्राणि रुद्रलोके महीयते || ६५ || प्. ३९१) यस्तु प्राणपरित्यागं कुर्यात् तत्र महेश्वरि | अक्षयं मोदते स्वर्गे यावच्चन्ब्रदिवाकरौ || ६६ || सिद्धानाञ्च समाश्रित्य तिष्ठन्ति ये च मानवाः | ते मुक्ताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा || ६७ || ततो दीपेश्वरं गच्छेत् स्थानं तीर्थं ततो धनम् | निवर्तिता पुरा तेन वहन्ती सा महानदी || ६८ || निवारिता च व्यासेन पश्चिमेन ततो गता | प्रदक्षिणे तु यः कुर्यात् यस्मिन् क्षेत्रे महेश्वरि || ६९ || प्रीतस्तस्य ततो व्यासो वाञ्छितं लभते फलम् | तस्याः पूर्वोत्तरे भागे इषुक्षेपदशाष्टके || ७० || क्रोशद्वयाचितं क्षेत्रमेकाम्रं क्षेत्रमुत्तमम् | नागाख्यशङ्करो यत्र नागप्रायं मनोहरम् | गुप्ततीर्थं गुप्तलिङ्गं गुप्तदेवैः निषेवितम् || गुप्तानां देवदेवीनां गुप्तसंघैः समावृतम् | आम्रस्याधः स्थितं कुण्डं धनुः षोडशकं मितम् || ७१ || तस्य दक्षिणदिग्भागे देवि नागाह्वयं सरः | भूमिपीठे स्थितं देवं शङ्करं परमेश्वरम् || ७२ || यत्र ब्रह्मादयो देवा ऋषयश्च तपोघनाः | सिद्धचारण-गन्धर्व-किन्नराश्च महोरगाः || ७३ || यत्रास्ते शङ्करो देवो नागाख्यः सुरपूजितः | पूर्वे ब्रह्मसरश्चैव उत्तरे पार्वतीवटः || ७४ || दक्षिणे विष्णुकुण्डश्च पश्चिमे दिक्करायिनी | एतन्मध्यगतं क्षेत्रं सुगन्धं नाति-विश्रुतम् || ७५ || प्. ३९२) ततोःअं सरितां श्रेष्ठे स्नापयामास शङ्करम् | स्नात्वा च दिक्करायिन्यां संस्पृशेत् पार्वतीवटम् || ७६ || शङ्करं प्रणमेद् भक्त्या पुनात्यासप्तमं कुलम् | तारं च मङ्गलं हंसं हंसं श्रवणवादनम् || ७७ || मन्त्रोऽयं देवदेवस्य ऋषिगर्गैरुदाहृतः | छन्दोऽनुष्टुव् भवो देव इत्यार्थे विनियोजयेत् || ७८ || चित्रवस्त्रपरिधानं श्यामं जटिलमेव च | खट्वाङ्गञ्चैव शूलञ्च वरदञ्चाभयं तथा || ७९ || नागयज्ञोपवीतञ्च महावृषभवाहनम् | सर्वलक्षणसम्पन्नं सर्वालङ्कारमण्डितम् || ८० || रामाद्यांश्चैव ब्रह्माद्यान्निशिताङ्गादिभैरवान् | पीठेशान् पूजयेदग्रे यद्दिगीशान् बहिर्यजेत् || ८१ || ततो मन्त्रस्तुतिं कृत्वा दद्याच्च मधुपायसम् | देवस्योत्तरभागे तु नातिदूरे व्यवस्थितम् || ८२ || त्रिशूलाख्यं परं तीर्थं स्नात्वा मुक्तिञ्च विन्दति | तत्राभिषेकं कुर्यात्तु पितॄदेवार्चने रतः || ८३ || गाणपत्यञ्च लभते देहत्यागे न संशयः | त्रिशूलतीर्थयाम्ये च धनुः षष्टेरनन्तरम् || ८४ || तत्र देवं महालिङ्गं कङ्कं केशं महेश्वरम् | समभ्यर्च्य ततश्चैत्रे मासि कृष्णे विशेषतः || ८५ || अष्टम्यां कृष्णपक्षे तु अश्वमेधफलं लभेत् | वर्जयेन्मुण्डनञ्चात्र तथा कन्याश्रमेषु च || ८६ || प्. ३९३) लौहित्ये चैव शोणे च गङ्गायां विरजेषु च | ततो व्रजेत् कुलक्षेत्रं देव्याः क्षेत्रं सुदुर्लभम् || ८७ || देवी शाकम्भरी तत्र योनिमुद्रास्वरूपिणी | देवस्यैशान्यभागे तु संस्थिता परमेश्वरी || ८८ || नव धन्वन्तरे देवीं कामवीजेन पूजयेत् | मनसा प्रार्थितान् कामान् लभते नात्र संशयः || ८९ || गत्वा प्रसादयेद् देवं मन्त्रेणानेन देशिकः | कृताञ्जलिपुटं बद्ध्वा जानुस्पृष्टमहीतलः || ९० || नमोनन्ताय [नमः शान्ताय] देवाय प्रलयोत्पत्तिकारिणे | नमोऽनुग्रहकर्त्रे च नागेशाय नमो नमः || ९१ || प्रधानायाप्रमेयाय पुरुषाय नमो नमः | पुरुषाय नमस्तेऽस्तु नागेशाय नमो नमः || ९२ || नमः कमलहस्ताय [कनकहस्ताय] दंष्ट्रिणे गदिने नमः | नमस्त्रैलोक्यनाथाय नागेशाय नमो नमः || ९३ || नमः प्रकृतिसाङ्ख्याय विश्वनाथाय वै नमः | नमः चक्रेशसंज्ञाय नागेशाय नमो नमः || ९४ || नमो विरजलिङ्गाय नागहार-धराय च | नमस्त्रिशूलहस्ताय नागेशाय नमो नमः || ९५ || नमः कलाधिनाथाय कामरूपनिवासिने [नागेशाय नमो नमः] | कलाकलाधिनाथाय नागेशाय नमो नमः || ९६ || प्. ३९४) ततो व्रजेत् पूर्वभागे नैमिषं नाम क्षेत्रकम् | तत्र देवं त्र्यम्बकाख्यं लिङ्गं मूर्तिगतं परम् || ९७ || अभिगम्य यजेद् देवं कामत्रितयमध्यगम् | भूमिपीठे व्यवस्थानं तारेण प्रतिपूजयेत् || ९८ || त्रैयम्बकस्य चैशान्ये मार्तण्डं नाम क्षेत्रकम् | तत्र गत्वार्चयेल्लिङ्गं मार्तण्डाख्यं [मूर्तिंस्तस्य] महेश्वरि || ९९ || पश्चिमे तस्य क्षेत्रस्य मर्मरा नाम या नदी | सा विज्ञेया कला नाम [सा ज्ञेया कमला नाम] तस्यास्तोयं न संस्पृशेत् || १०० || सुधामा च नदी पुण्या सर्वपापप्रणाशिनी | आजन्मनः कृतं पापं तस्यां स्नानाद् [तस्यां स्नात्वा] व्यपोहति || १०१ || दिक्करिण्याः पश्चिमतः किञ्चिद् वायव्यगोचरे | धर्मारण्यं महाक्षेत्रं गच्छेत् तत्र महेश्वरि || १०२ || एतत् पुण्यतरं क्षेत्रं देवगन्धर्वसेवितम् | नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् || १०३ || अत्र सन्निहितो देवि लक्ष्म्या सह गदाधरः | एको विष्णुस्तथा चेन्द्रो [चन्द्रो] विद्याधरगणैर्वृतः || १०४ || अनन्ताख्यो माधवश्च तिष्ठत्यद्भुतविक्रमः | मासि मासि तु द्वादश्यां यो द्रक्ष्यति मम प्रिये || १०५ || प्. ३९५) पौण्डरीकस्य अश्वस्य फलमाप्नोति मानवः | देवस्य पश्चिमे भागे विष्णोः पुष्करतीर्थकम् || १०६ || तत्र स्नात्वार्चयेद् देवं हयमेधफलं लभेत् | पौर्णमास्यां तु ज्यैष्ठस्य यस्तु यात्रां समाचरेत् || १०७ || सर्वपापविनिर्मुक्तो नरो विष्णुपुरं व्रजेत् | महाज्यैष्ठ्यान्तु यः पश्येन्माधवन्तु नरेश्वरम् || १०८ || (अत्र पाठस्त्रुटितो भाति) इति श्रीयोगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे चतुर्दशः पटलः || पञ्चदशः पटलः श्रीभगवानुवाच यस्मिन् सृष्टश् चकासेशम् तस्मिन् राजा शिखिध्वजः | शिखिध्वजान्ते यो जातः शालो नाम भवेन् नृपः || १ || वंशाच्च क्षत्रिया जाताः धर्मपालस्ततः परम् | बालप्रायो यदा तत्र कैवर्तश्च विनाशकः || २ || स भवेत् पञ्चवर्षीयः तद्द्रोहश्च स्वयं कृतः | यदा चन्द्रसमो द्युतिः कामपालोऽभवत्तदा || एकद्विवर्षे स भवेद् द्रोहेणैव स्वयं [ततो] हतः || ३ || प्. ३९६) वीरनाम्ना द्विजन्मा च शूद्रो जैमिनिगोत्रजः | यदा पुनर्भवो जातस्तस्मिन्नेव भवेन्नृपः || ४ || तदा तु मरकं राष्ट्रे ब्राह्मणानां भवेत् क्षयः | तस्य वर्षे रूपप्राये स्वर्गद्वारे भवेत्सृतिः | यदा तु यवनो राजा वाणशून्यश्च वत्सरः || ५ || तदा तु ऋषिवर्षीयं शौक्रं लिङ्गं हनिष्यति | यदा कलेर्भवेद्राजा तस्मिन् कामसमुद्भवः || ६ || स शूद्रः [समुद्रः] कीर्तितो लोके देवब्राह्मणदूषकः | लक्ष्मीनारायणो नाम भवेद्वंशोन्नतः सुतः || ७ || गीतिका धर्मशास्त्राणि तस्मिन् शासति मेदिनीम् | समुद्भूतः स धर्मात्मा तस्यांशे च [स्वस्याशेष] भवेन्नृपः || ८ || तदावधि च तद्वंशः सर्व एव विनश्यति [सर्वमेव हनिष्यति] | यदा ब्रह्मसरोद्भूतिः रत्नपीठात् समागतः || ९ || तैराक्रम्य कलिर्जज्ञेभस्मगर्भादिनामतः | ये ये मध्या नृपतय उत्तमाः सन्ति पार्वति || १० || तीर्थानि देवतादीनि प्रव्यक्तानि भवन्ति च [भविष्यन्ति] | यः पापः क्ष्मापतिर्देवि तस्मिन् राज्ये विनश्यति || ११ || यस्मिन् राज्ये कर्मनाशा नदी वा सर एव च | तत्तीरे नगरं कृत्वा राष्ट्रं पापैर्नृपो हतः || १२ || प्. ३९७) गीतिका धर्मशास्त्राणि तदस्तोयं [तदान्ते च] (?) विवर्जयेत् | तस्य पश्चिमभागे तु या नदी सा स्थिता शुभा || १३ || सा पुण्या सर्वभावेन या पूर्वे संस्थिता नदी | तर्करूपगते वर्षे सौभाराच्च परस्परम् || १४ || नृगवर्षे (?) तदा राज्यं कृत्वा तत्र महामतिः | ऐश्वर्यतन्त्रे तद्वर्षे शेषे राजा विनश्यति || १५ || मध्यमार्धे ततो वर्षे महाभयमवाप्नुयात् | तदवधि च कामाख्यां यो राजा पश्यति ध्रुवम् || १६ || हृतराज्यो भवेद्राजा भार्या वा सन्ततिक्षयः | यदा श्वेतान्तवर्णे वै कामरूपे भवेन् नृपः | तदा ब्रह्मसरो जातः शङ्करः ककुदेश्वरः || १७ || न गण्यते यत्र मध्ये भार्गवंशो भविष्यति | यस्मिन् शासति सौमारं द्रोहस्तु विविधो भवेत् || १८ || तत्रोद्भवंजनान् (?) भानुर्भानुवीजादिपञ्चकम् | कामपीठत्रयञ्चैव स्वयमेव स्वयं हृतः || १९ || तस्माद् व्यार्लोयञ्च (?) पतिर्वाग्मी गौरे विराजते | अश्वक्रान्ताद्वयं कुण्डं समुद्भूतं स्वकालतः || २० || जाते तीर्थे सर्वविघ्नस्त्वरितेन विनश्यति | अस्मिन् शासति राज्ये तु द्रोहस्तुर्यविधो भवेत् || २१ || वलदे च महादेशे कामब्रह्माक्षरेण तु | आकाशशशिसंयुक्तं सिद्ध्यै हृदयसंज्ञकम् | एषः पञ्चाक्षरो मन्त्रो मालायाः परिकीर्तितः || २२ || प्. ३९८) ग्रहणे स्थापने चैव पूजने विनियोजयेत् | जपान्ते शिरसि न्यस्य सत्रान्ते च स्तुतिं पठेत् || २३ || बलिदानं तथा कुर्याद् दद्याद् विभवमात्मनः | अनुलोमविलोमेन मूलमन्त्रेण पूजयेत् || २४ || अम्वेऽम्विके इति मन्त्रेण तथा गौराणिकेन च | जय कामेशि चामुण्डे जयभूतापहारिणि || २५ || जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते | विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने || २६ || भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते | मनोजवे जये जम्भे भूताक्षि क्षुधिते क्षये || २७ || महामाये महेशानि कामेश्वरि नमोऽस्तु ते | चामुण्डे च महाकालि कालि कपालहारिणि || २८ || पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते | चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले || २९ || शवस्थाने स्थिते देवि कामेश्वरि नमोऽस्तु ते | भीमाक्षि भीषणे देवि सर्वभूतक्षयंकरि || ३० || करालि विकरालि च कामेश्वरि नमोऽस्तु ते | कालि करालि विक्रान्ते कामेश्वरि हरप्रिये || ३१ || सर्वशास्त्रमये देवि कामेश्वरि नमोऽस्तु ते | निशुम्भशुम्भमथिनि कामेश्वरि नमोऽस्तु ते | कामाख्ये कामरूपस्थे कामेश्वरि हरप्रिये || ३२ || प्. ३९९) कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते | (अत्र पटलसमाप्तिर्नास्ति) || ३३ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे पञ्चदशः पटलः | षोडशपटलस्य केचित् श्लोकाः ममैवांशा महामाये ब्राह्मणा ऋषयश्च ये | पापपङ्कं निमग्नानां नराणामुद्दिघीर्षया || १ || धर्मसंस्थापनार्थञ्च सम्भवन्ति युगेयुगे | तस्मात् तान् ब्राह्मणान् देवि मावमंस्थाः कदाचन || २ || श्रौतमार्गच्युतां विद्यां रक्षितुं परमेश्वरि | त्रिपादास्तिककारेषु त्र्यवतारा कलौ युगे || ३ || क्रमेणाविर्भविष्यन्ति दिव्यौघद्वारतः शिवे | बौद्धपाषण्डनाशार्थं सम्प्रदायार्थमेव च [वाराणसेयसार्वभौमप्रचारकार्यालयतः प्रचारितायां परमार्थसुधानामकपत्रिकायां समुद्धृताः श्लोकाः | गुवाहाटीनगरे अनुष्ठितस्य भारतीयदर्शनसम्मेलनस्य स्मृतिग्रन्थे च समुदृधृताः || पृष्ठम् ६३ ||] || ४ || इति योगिनीतन्त्रे महातन्त्रराजे द्वाविंशतिसाहस्रे कामरूपाधिकारे द्वितीयभागे षोडशः पटलः | ########### END OF FILE #######