#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00113 Uniform title: śāṇḍilyopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: śāṇḍilya upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: January 28, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### शाण्डिल्योपनिषत् भद्रं कर्णेभिः- इति शान्तिः प्रथमोऽध्यायः योगाष्टाङ्गनिर्देशः शाण्डिल्यो ह वा अथर्वाणं पप्रच्छात्मलाभोपायभूतमष्टाङ्गयोगमनुब्रूहीति || १ || स होवाचाथर्वा- यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टाङ्गानि || २ || तत्र दश यमाः | तथा नियमाः | आसनान्यष्टौ | त्रिः प्राणायामः | पञ्च प्रत्याहाराः | तथा धारणाः | द्विप्रकारं ध्यानम् | समाधिस्त्वेकरूपः || ३ || शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः | यद्बोधाद्यान्ति कैवल्यं स रामो मे परा गतिः || इह खलु अथर्वणवेदप्रविभक्तेयं शाण्डिल्योपनिषत् यमाद्यष्टाङ्गयोगतद्गौणमुख्यसिद्धिप्रकाशनव्यग्रा निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजृम्भते | अस्याः प्. ५१९) स्वल्पग्रन्थतो विवरणमारभ्यते | शाण्डिल्याथर्वप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | आख्यायिकामवतारयति- शाण्डिल्य इति | किमिति ? आत्मेति || १ || एवं शाण्डिल्येन पृष्टः स होवाच | किं तत् ? योगोऽष्टाङ्ग उच्यते- यमेति || २- १४ || दशविधयमनिरूपणम् तत्राहिंसासत्यास्तेयब्रह्मचर्यदयार्जवक्षमाधृतिमिताहार- शौचानि चेति यमा दश || ४ || तत्राहिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदाक्लेशजननम् || ५ || सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् || ६ || अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहा || ७ || ब्रह्मचर्यं नाम सर्वावस्थासु मनोवाक्कायकर्मभिः सर्वत्र मैथुनत्यागः || ८ || दया नाम सर्वभूतेषु सर्वत्रानुग्रहः || ९ || आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा एकरूपत्वम् || १० || क्षमा नाम प्रियाप्रियेषु सर्वेषु ताडनपूजनेषु सहनम् || ११ || घृतिर्नामार्थहानौ स्वेष्टबन्धुयोगे तत्प्राप्तौ सर्वत्र चेतःस्थापनम् || १२ || मिताहारो नाम चतुर्थांशावशेषकसुस्निग्धमधुराहारः || १३ || शौचं नाम द्विविधं बाह्यमान्तरं चेति | तत्र मृज्जलाभ्यां बाह्यम् | मनःशुद्धिरान्तरम् | तदध्यात्मविद्यया लभ्यम् || १४ || इति प्रथमः खण्डः दशविधनियमनिरूपणम् तपःसंतोषास्तिक्यदानेश्वरपूजनसिद्धान्तश्रवणह्रीमतिजप- व्रतानि दश नियमाः || १ || तत्र तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् || २ || संतोषो नाम यदृच्छालाभतुष्टिः || ३ || आस्तिक्यं नाम वेदोक्तधर्माधर्मेषु विश्वासः || ४ || दानं नाम न्यायार्जितधनधान्यादेः श्रद्धयार्थिभ्यः प्रदानम् || ५ || ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादिपूजनम् || ६ || सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः || ७ || ह्रीर्नाम वेदलौकिकमार्गकुत्सितकर्मणि लज्जा || ८ || मतिर्नाम वेदविहितकर्ममार्गेषु श्रद्धा || ९ || जपो नाम विधिवद्गुरूपदिष्टवेदाविरुद्धमन्त्राभ्यासः | तद्द्विविधं वाचिकं मानसं चेति | मानसं तु मनसा ध्यानयुक्तम् | वाचिकं द्विविधमुच्चैरुपांशुभेदेन | उच्चैरुच्चारणं यथोक्तफलम् | उपांशु सहस्रगुणम् | मानसं कोटिगुणम् || १० || व्रतं नाम वेदोक्तविधिनिषेधानुष्ठाननैयत्यम् || ११ || दशधा भिन्नयमस्वरूपमुक्त्वा तथा नियमस्वरूपमाह- तप इति || १-९ || मन्त्रार्थानुसंधानं मानसमित्यर्थः || १०-११ || इति द्वितीयः खण्डः अष्टविधासननिरूपणम् स्वस्तिकगोमुखपद्मवीरसिंहभद्रमुक्तमयूराख्यान्यासना- न्यष्टौ | स्वस्तिकं नाम- जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे | ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते || १ || सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् | दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा || २ || अङ्गुष्ठेन निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण च | ऊर्वोरुपरि शाण्डिल्य कृत्वा पादतले उभे | पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् || ३ || एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितः | इतरस्मिंस्तथा चोरुं वीरासनमुदीरितम् || ४ || दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् | हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च || ५ || व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः | सिंहासनं भवेदेतत् पूजितं योगिभिः सदा || ६ || योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् | भ्रूमध्ये च मनोलक्ष्यं सिद्धासनमिदं भवेत् || ७ || गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् | पादपार्श्वे तु पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् | भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् || ८ || प्. ५२२) संपीड्य सीविनीं सूक्ष्मां गुल्फेनैव तु सव्यतः | सव्यं दक्षिणगुल्फेन मुक्तासनमिदं भवेत् || ९ || अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयोः | हस्तयोः कूर्परौ चापि स्थापयेन्नाभिपार्श्वयोः || १० || समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः | मयूरासनमेतत्तु सर्वपापप्रणाशनम् || ११ || शरीरान्तर्गताः सर्वरोगा विनश्यन्ति | विषाणि जीर्यन्ते || १२ || येन केनासनेन सुखधारणं भवत्यशक्तस्तत्समाचरेत् || १३ || स्वस्तिकाद्यष्टासनप्रकारमाह- स्वस्तिकेति || १ || गोमुखासनमाह- सव्य इति || २ || पद्मासनमाचष्टे- अङ्गुष्ठेनेति || ३ || वीरासनलक्षणमाह- एकमिति || ४ || सिंहासनप्रकारमाह- दक्षिणमिति || ५-६ || सिद्धासनस्वरूपमाह- योनिमिति || ७ || भद्रासनमाह- गुल्फाविति || ८ || मुक्तासनप्रकारमाह- संपीड्येति || ९ || मयूरासनमाह- अवष्टभ्येति || १०-१३ || आसनजयफलम् येनासनं विजितं जगत्त्रयं तेन विजितं भवति || १४ || यमनियमासनाभ्यासयुक्तः पुरुषः प्राणायामं चरेत् | तेन नाडयः शुद्धा भवन्ति || १५ || आसनजयफलमाह- येनेति || १४ || ततः किमित्यत आह- यमेति || १५ || इति तृतीयः खण्डः नाडीसंख्यादिजिज्ञासा अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ केनोपायेन नाडयः शुद्धाः स्युः | नाडयः कतिसंख्याकाः तासामुत्पत्तिः कीदृशी | तासु कति वायवस्तिष्ठन्ति | तेषां कानि स्थानानि | तत्कर्माणि कानि | देहे यानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति || १ || शाण्डिल्यः प्रश्नबीजमवष्टभ्याथर्वाणं पृच्छतीत्याह- अथेति || १ || शरीरप्राणप्रमाणम् स होवाचाथर्वा | अथेदं शरीरं षण्णवत्यङ्गुलात्मकं भवति | शरीरात् प्राणो द्वादशाङ्गुलाधिको भवति || २ || शाण्डिल्येन एवं पृष्टः सः | स्वस्वाङ्गुलिमानेन षण्णवतीति || २ || कुम्भकविधिः शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा यः करोति स योगिपुङ्गवो भवति || ३ || समन्यूनशब्दाभ्यां कुम्भकदीर्घकुम्भकावुच्येते इत्यर्थः || ३ || मनुष्यादीनामग्निस्थानम् देहमध्ये शिखिस्थानं त्रिकोणं तप्तजाम्बूनदप्रभं मनुष्याणाम् | चतुष्पदां चतुरश्रम् | विहगानां वृत्ताकारम् | तन्मध्ये शुभा तन्वी पावकी शिखा तिष्ठति || ४ || प्. ५२४) मनुष्यादीनामग्निस्थानमाह- देहेति || ४ || मनुष्यादिदेहमध्यलक्षणम् गुहाद् द्व्यङ्गुलादूर्ध्वं मेढ्राद् द्व्यङ्गुलादधो देहमध्यं मनुष्याणां भवति | चतुष्पदां हृन्मध्यम् | विहगानां तुन्दमध्यम् | देहमध्यं नवाङ्गुलं चतुरङ्गुलमुत्सेधायतमण्डाकृति || ५ || मनुष्यादिदेहमध्यलक्षणमाह- गुदादिति || ५-७ || नाभिचक्रे जीवभ्रमणम् तन्मध्ये नाभिः | तत्र द्वादशारयुतं चक्रम् | तच्चक्रमध्ये पुण्यपापप्रचोदिता जीवो भ्रमति || ६ || तन्तुपञ्जरमध्यस्थऌतिका यथा भ्रमति तथा चासौ तत्र प्राणश्चरति | देहेऽस्मिन् जीवः प्राणारूढो भवेत् || ७ || कुण्डलिनीस्वरूपचेष्टाः नाभेस्तिर्यगधोर्ध्वं कुण्डलिनीस्थानम् | अष्टप्रकृतिरूपाष्टधा कुण्डलीकृता कुण्डलिनी शक्तिर्भवति | यथावद्वायुसंचारं जलान्नादीनि परितः स्कन्धपार्श्वेषु निरुध्यैनं मुखेनैष समावेष्ट्य ब्रह्मरन्ध्रं योगकालेऽपानेनाग्निना च स्फुरति हृदयाकाशं महोज्ज्वला ज्ञानरूपा भवति || ८ || तत्स्वरूपं तच्चेष्टां चाह- अष्टेति | ब्रह्मरन्ध्रं पुच्छेन च || ८ || प्. ५२५) चतुर्दशनाढ्यः मध्यस्थकुण्डलिनीमाश्रित्य मुख्या नाड्यश्चतुर्दश भवन्ति | इडा पिङ्गला सुषुम्ना सरस्वती वारुणा पूषा हस्तिजिह्वा यशस्विनी विश्वोदरा कुहूः शङ्खिनी पयस्विनी अलम्बुसा गान्धारीति नाड्यश्चतुर्दश भवन्ति || ९ || देहमध्यस्थेति | कास्ता इत्यत्र इडेति || ९ || सुषुम्नानाडी तत्र सुषुम्ना विश्वधारिणी मोक्षमार्गेति चाचक्षते | गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्तं ब्रह्मरन्ध्रेति विज्ञेया व्यक्ता सूक्ष्मा वैष्णवी भवति || १० || सुषुम्नास्वरूपमाह- गुदस्येति || १० || सुषुम्नापरितः इतरनाडीस्थानानि सुषुम्नायाः सव्यभागे इडा तिष्ठति | दक्षिणभागे पिङ्गला | इडायां चन्द्रश्चरति | पिङ्गलायां रविः | तमोरूपश्चन्द्रः | रजोरूपो रविः | विषभागो रविः अमृतभागश्चन्द्रमाः | तावेव सर्वकालं धत्ते | सुषुम्ना कालभोक्त्री भवति | सुषुम्नापृष्ठपार्श्वयोः सरस्वतीकुहू भवतः | यशस्विनीकुहूमध्ये वारुणी प्रतिष्ठिता भवति | पूषासरस्वतीमध्ये पयस्विनी भवति | गान्धारीसरस्वतीमध्ये यशस्विनी प्. ५२६) भवति | कन्दमध्येऽलम्बुसा भवति | सुषुम्नापूर्वभागे मेढ्रान्तं कुहूर्भवति | कुण्डलिन्या अधश्चोर्ध्वं वारुणी सर्वगामिनी भवति | यशस्विनी सौम्या च पादाङ्गुष्ठान्तमिष्यते | पिङ्गला चोर्ध्वगा याम्यनासान्तं भवति | पिङ्गलायाः पृष्ठतो याम्यनेत्रान्तं पूषा भवति | याम्यकर्णान्तं यशस्विनी भवति | जिह्वाया ऊर्ध्वान्तं सरस्वती भवति | आसव्यकर्णान्तमूर्ध्वगा शङ्खिनी भवति | इडापृष्ठभागात् सव्यनेत्रान्तगा गान्धारी भवति | पायुमूलादधोर्ध्वगालम्बुसा भवति | एतासु चतुर्दशनाडीष्वन्या नाड्यः संभवन्ति | तास्वन्यास्तास्वन्या भवन्तीति विज्ञेयाः | यथाश्वत्थादिपत्रं सिराभिर्व्याप्तमेवं शरीरं नाडीभिर्व्याप्तम् || ११ || सुषुम्नायाः परितः इडादिनाड्यस्तिष्ठन्तीत्याह- सुषुम्नाया इति || ११ || प्राणादिदशवायुस्थानचेष्टाः प्राणापानसमानोदानव्याना नागकूर्मकृकरदेवदत्त- धनंजया एते दश वायवः सर्वासु नाडीषु चरन्ति || १२ || आस्यनासिकाकण्ठनाभिपादाङ्गुष्ठद्वयकुण्डल्यधश्चोर्ध्व- भागेषु प्राणः संचरति | श्रोत्राक्षिकटिगुल्फघ्राणगलस्फिग्देशेषु व्यानः संचरति | गुदमेढ्रोरुजानूदरवृषणकटिजङ्घानाभि- गुदाग्न्यगारेष्वपानः संचरति | सर्वसंधिस्थ उदानः | पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी समानः | भुक्तान्नरसादिकं गात्रेऽग्निना सह व्यापयन् द्विसप्ततिसहस्रेषु नाडीमार्गेषु प्. ५२७) चरन् समानवायुरग्निना सह साङ्गोपाङ्गकलेवरं व्याप्य- नागादिवायवः पञ्च त्वगस्थ्यादिसंभवाः तुन्दस्थं जलमन्नं च रसादिषु समीरितं- तुन्दमध्यगतः प्राणस्तानि पृथक्कुर्यात् | अग्नेरुपरि जलं स्थाप्य जलोपर्यन्नादीनि संस्थाप्य स्वयमपानं संप्राप्य तेनैव सह मारुतः प्रयाति देहमध्यगतं ज्वलनम् | वायुना पतितो वह्निरपानेन शनैर्देहमध्ये ज्वलति | ज्वलनो ज्वालाभिः प्राणेन कोष्ठमध्यगतं जलमत्युष्णमकरोत् | जलोपरि समर्पितं व्यञ्जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्वमकरोत् | तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरीषादिकं प्राणः पृथक्कुर्यात् | समानवायुना सह सर्वासु नाडीषु रसं व्यापयन् श्वासरूपेण देहे वायुश्चरति | नवभिर्व्योमरन्ध्रैः शरीरस्य वायवः कुर्वन्ति विण्मूत्रादिविसर्जनम् | निश्वासोच्छ्वासकासश्च प्राणकर्मोच्यते | विण्मूत्रादिविसर्जनमपानवायुकर्म | हानोपादानचेष्टादि व्यानकर्म | देहस्योन्नयनादिकमुदानकर्म | शरीरपोषणादिकं समानकर्म | उद्गारादि नागकर्म निमीलनादि कूर्मकर्म | क्षुत्करणं कृकरकर्म | तन्द्री देवदत्तकर्म | श्लेष्मादि धनंजयकर्म || १३ || नाडीभेदमुक्त्वा वायुभेदमाह- प्राणेति || १२ || प्राणादिचेष्टामाचष्टे- आस्येति || १३-१४ || नाडीशोधनविधिः एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यज्ज्ञात्वा नाडीसंशोधनं कुर्यात् || १४ || इति चतुर्थः खण्डः योगाधिकारियोगमठयोः लक्षणम् यमनियमयुतः पुरुषः सर्वसङ्गविवर्जितः कृतविद्यः सत्यधर्मरतो जितक्रोधो गुरुशुश्रूषानिरतः पितृमातृविधेयः स्वाश्रमोक्तसदाचारविद्वच्छिक्षितः फलमूलोदकान्वितं तपोवनं प्राप्य रम्यदेशे ब्रह्मघोषसमन्विते स्वधर्मनिरतब्रह्मवित्समावृते फलमूलपुष्पवारिभिः सुसंपूर्णे देवायतने नदीतीरे ग्रामे नगरे वापि सुशोभनमठं नात्युच्चनीचायतमल्पद्वारं गोमयादिलिप्तं सर्वरक्षासमन्वितं कृत्वा तत्र वेदान्तश्रवणं कुर्वन् योगं समारभेत् || १ || सप्रकारं सोपायं सामान्यविशेषप्राणायामलक्षणमाह- यमेति | योगाधिकारिलक्षणमुक्त्वा योगमठलक्षणमाह- फलेति | तत्र योगमठे || १ || प्राणायामारम्भप्रकारः आदौ विनायकं संपूज्य स्वेष्टदेवतां नत्वा पूर्वोक्तासने स्थित्वा प्राङ्मुख उदङ्मुखो वापि मृद्वासनेषु जितासनगतो विद्वान् समग्रीवशिरोनासाग्रदृग्भ्रूमध्ये शशभृद्बिम्बं पश्यन् नेत्राभ्यासमृतं द्वादशमात्रया इडया वायुमापूर्योदरे स्थितं ज्वालावलीयुतं रेफबिन्दुयुक्तमग्निमण्डलयुतं ध्यायेद्रेचयेत् पिङ्गलया | पुनः पिङ्गलयापूर्य कुम्भित्वा रेचयेदिडया || २ || योगारम्भप्रकारमाह- आदाविति | अमृतं स्रवन्तं चन्द्रमण्डलं पश्यन् || २ || प्. ५२९) नाडीशोधकप्राणायामाभ्यासकालावधिः त्रिचतुस्त्रिचतुः सप्तत्रिचतुर्मासपर्यन्तं त्रिसंधिषु तदन्तराले च षट्कृत्व आचरेन्नाडीशुद्धिर्भवति || ३ || कियन्तं कालं कर्तव्यमित्यत्र अवधिमाह- त्रिचतुरिति | त्रिचतुस्त्रिचत्वारिंशद्दिनपर्यन्तं वा, त्रिचतुस्त्रिमासं चतुर्मासं सप्तमासं वा, त्रिचतुर्मासपर्यन्तं संवत्सरपर्यन्तं वा, एवं षट्कालं प्राणायामं कुर्वतो नाडीशुद्धिः भवति || ३ || नाडीशुद्धिचिह्नानि ततः शरीरलघुदीप्तिवह्निवृद्धिनादाभिव्यक्तिर्भवति || ४ || ततः किमित्यत आह- तत इति | योगिनः शरीरस्य लघुत्वं दीप्तिमत्त्वं सौन्दर्यादिः जायते इत्यर्थः || ४ || इति पञ्चमः खण्डः प्रणवात्मकप्राणायामः प्राणापानसमायोगः प्राणायामो भवति | रेचकपूरककुम्भकभेदेन स त्रिविधः || १ || ते वर्णात्मकाः | तस्मात् प्रणव एव प्राणायामः || २ || प्रणवात्मकप्राणायामस्वरूपमाह- प्राणेति || १ || रेचकादयः ते | यस्मात् रेचकादयः अकारोकारमकारात्मकाः तस्मात् || २ || प्. ५३०) प्रणववर्णध्यानप्रकारः पद्माद्यासनस्थः पुमान्नासाग्रशशभृद्बिम्बज्योत्स्नाजालवितानिताकारमूर्ति रक्ताङ्गी हंसवाहिनी दण्डहस्ता बाला गायत्री भवति | उकारमूर्तिः श्वेताङ्गी तार्क्ष्यवाहिनी युवती चक्रहस्ता सावित्री भवति | मकारमूर्तिः कृष्णाङ्गी वृषभवाहिनी वृद्धा त्रिशूलधारिणी सरस्वती भवती || ३ || अकारादित्रयाणां सर्वकारणमेकाक्षरं परंज्योतिः प्रणवं भवति || ४ || यथोक्तसाधनसंपन्नो योगी अकारादिवर्णत्रयवाच्यगायत्र्यादिमूर्तित्रयध्यानपूर्वकं यथाविधि प्राणायामं कुर्यादित्याह- पद्मेति || ३ || अकारादिमात्रात्रयसमष्टिः प्रणवो भवतीत्याह- अकारादीति | प्रणवं प्रणवस्वरूपम् || ४ || प्राणाभ्यासप्रकारः इडया बाह्याद्वायुमापूर्य षोडशमात्राभिरकारं चिन्तयन् पूरितं वायुं चतुःषष्टिमात्राभिः कुम्भयित्वोंकारं ध्यायन् पूरितं पिङ्गलया द्वात्रिंशन्मात्रया मकारमूर्तिध्यानेनैवं क्रमेण पुनः पुनः कुर्यात् || ५ || प्राणाभ्यासप्रकारमाह- इडयेति || ५ || इति षष्ठः खण्डः प्. ५३१) सुषुम्नामलशोधनार्थप्राणायामः अथासनदृढो योगी वशी मितहिताशनः सुषुम्नानाडीस्थमलशोषार्थं योगी बद्धपद्मासनो वायुं चन्द्रेणापूर्य यथाशक्ति कुम्भयित्वा सूर्येण रेचयित्वा पुनः सूर्येणापूर्य कुम्भयित्वा चन्द्रेण विरेच्य यया त्यजेत् तया संपूर्य धारयेत् | तदेते श्लोका भवन्ति- प्राणं प्रागिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया | सूर्याचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः || १ || योगी सुषुम्नान्तर्गतमलशोधनार्थं पुरोक्तरीत्या प्राणायामं कुर्यादित्याह- अथेति | उक्तार्थे वक्ष्यमाणाः श्लोकाः मन्त्रा भवन्तीत्याह- तदिति || १ || अहरहः कर्तव्यप्राणायामसंख्या प्रातर्मध्यंदिने सायमर्धरात्रे तु कुम्भकान् | शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् || २ || अहरहः कति प्राणायामाः कर्तव्याः इत्यत आह- प्रातरिति || २ || अभ्यासोचितसिद्धिभेदः कनीयसि भवेत् स्वेदः कम्पो भवति मध्यमे | उत्तिष्ठत्युत्तमे प्राणरोधे पद्मासनं भवेत् || ३ || प्. ५३२) जलेन श्रमजातेन गात्रमर्दनमाचरेत् | दृढता लघुता चापि तस्य गात्रस्य जायते || ४ || अभ्यासोचितसिद्धिभेदमाचष्टे- कनीयसीति || ३ || तेन किं स्यादित्यत्र जलेनेति || ४ || अभ्यासकाले आहारनियमः अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् | ततोऽभ्यासे स्थिरीभूते न तावन्नियमग्रहः || ५ || आहारनियममाह- अभ्यासेति || ५ || अभ्यासे सावधानताविधिः यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः | तथैव सेवितो वायुरन्यथा हन्ति साधकम् || ६ || युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् | युक्तं युक्तेन बध्नीयादेवं सिद्धिमवाप्नुयात् || ७ || यावत् सुषुम्नाप्रवेशः तावत् सावधानतया अभ्यासः कार्यः इत्यत आह- यथेति || ६ || तत्रोपायस्तु युक्तमिति | एवम् अभ्यासं कुर्वतो नाडीशुद्धिः भवति || ७ || नाडीशुद्धितो मनोन्मन्यवस्थाप्राप्तिः यथेष्टधारणं वायोरनलस्य प्रदीपनम् | नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् || ८ || प्. ५३३) विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते | सुषुम्नावदनं भित्त्वा सुखाद्विशति मारुतः || ९ || मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते | यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी || १० || ततो वायुः सुषुम्नां प्रविश्य योगिनं मनोन्मन्यवस्थारूढं कुर्यादित्याह- यथेष्टेति || ८-९ || तेन किं स्यादित्यत्र- मारुत इति || १० || बन्धत्रयस्य कर्तव्यता पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः | कुम्भकान्ते रेचकादौ बन्धो जालंधराभिधः || ११ || अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते | मध्ये पश्चिमतानेन स्यात् प्राणो ब्रह्मनाडिगः || १२ || बन्धत्रयपूर्वकाभ्यास एव फलवानित्याह- पूरकान्त इति || ११-१२ || प्राणापानयोगफलम् अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयन् | योगी जराविनिर्मुक्तं षोडशो वयसा भवेत् || १३ || प्राणापानयोगफलमाह- अपानमिति || १३ || कपालशोधनोपायः सुखासनस्थो दक्षनाड्या बहिस्थं पवनं समाकृष्याकेशमानखाग्रं कुम्भयित्वा सव्यनाड्या रेचयेत् | तेन कपालशोधनं वातनाडीगतसर्वरोगविनाशनं भवति || १३-१ || प्. ५३४) कपालशोधनोपायमाह- सुखेति | योगी सुखासनस्थः | कपालशोधनं भवति | तेन किं भवतीत्यत्र- वातेति || १३-१ || उज्जायीप्राणायामः हृदयादिकण्ठपर्यन्तं सस्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्ति कुम्भयित्वा इडया विरेच्य गच्छंस्तिष्ठन् कुर्यात् | तेन श्लेष्महरं जाठराग्निवर्धनं भवति || १३-२ || श्लेष्महरोज्जायीलक्षणमाह- हृदयादीति | तिष्ठन् उज्जायीनामकं प्राणायामं कुर्यात् || १३-२ || सीत्कारप्राणायामः वक्त्रेण सीत्कारपूर्वकं वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् | तेन क्षुत्तृष्णालस्यनिद्रा न जायन्ते || १३-३ || सीत्कारप्राणायाममाह- वक्त्रेणेति || १३-३ || शीतलप्राणायामः जिह्वया वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् | तेन गुल्मप्लीहज्वरपित्तक्षुधादि नश्यति || १३-४ || शीतली तु जिह्वया || १३-४ || उपायोपेयकुम्भकद्वयम् कुम्भकः स द्विविधः सहितः केवलश्चेति | रेचकपूरकयुक्तः सहितः | तद्विवर्जितः केवलः | केवलसिद्धिपर्यन्तं सहितमभ्यसेत् | प्. ५३५) केवलकुम्भके सिद्धे त्रिषु लोकेषु न तस्य दुर्लभं भवति | केवलकुम्भकात् कुण्डलिनीबोधो जायते || १३-५ || उपायोपेयकुम्भकद्वयमाह- कुम्भक इति | ततः किं जायत इत्यत्र- केवलेति || १३-५ || कुम्भकाभ्यासफलम् ततः कृशवपुः प्रसन्नवदनो निर्मललोचनोऽभिव्यक्तनादो निर्मुक्तरोगजालो जितबिन्दुः पट्वग्निर्भवति || १३-६ || ततः किं स्यादित्यत्र ततः इति || १३-६ || वैष्णवीमुद्राप्राप्तिः अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता | एषा सा वैष्णवी मुद्रा सर्वतन्त्रेषु गोपिता || १४ || तेन किमित्याकाङ्क्षायाम् अनेन योगी वैष्णवीमुद्रारूढो भवतीत्याह- अन्तर्लक्ष्यमिति | मूलाधारानाहताज्ञासहस्रारेषु यथाक्रमं विराट् सूत्रं बीजं तुरीयं वा अन्तर्लक्ष्यं तदेकतानं मनः बहिर्दृष्टिस्तु अन्तर्दृष्टिर्भूत्वा यदा निमेषोन्मेषवर्जिता भवति तदा दृष्टिरियं वैष्णवीमुद्रा भवतीत्यर्थः || १४ || खेचरीप्राप्त्या ब्रह्मदर्शनम् अन्तर्लक्ष्यविलीनचित्तपवनो योगी सदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि | मुद्रेयं खलु खेचरी भवति सा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्फुरति सा तत्त्वं पदं वैष्णवी || प्. ५३६) अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षण- श्चन्द्रार्कावपि लीनतामुपनयन्निष्यन्दभावोत्तरम् | ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परं तत्त्वं तत्परमस्ति वस्तु विषयं शाण्डिल्य विद्धीह तत् || यदा योगी वैष्णवीमुद्रारूढो भवति तदा इयं वैष्णवीमुद्रा खेचरीपदवीमेत्य तत्त्वंपदलक्ष्यैक्यप्रत्यगभिन्नब्रह्मगोचरा भवतीत्याह- अन्तरिति | अन्तर्दृष्टिभावमापन्ननिश्चलबहिर्दृष्टिरेव मुद्रेयम् | शून्यं सुषुप्तिः अशून्यं स्वप्नादिकं तदुभयवर्जितं यथा भवति तथा लक्ष्यैकताना वैष्णवी स्फुरतीत्यर्थः || १५ || खेचरीमुद्रारूढयोगिनः स्थितिं तद्ध्येयस्वरूपं चाह- अर्धेति | अर्धोन्मीलितलोचनः इत्यादिविशेषणविशिष्टो योगी चन्द्रार्कौ इडापिङ्गलागोचरवायू मनोदृष्ट्यग्निभिः सह सुषुम्नायां लीनतां लयभावं उपनयन् यदा तिष्ठति तदा स्वान्तर्बाह्यविस्मारकब्रह्मानन्दनदी प्रवहति | ततो निष्यन्दभावोत्तरं नितरां स्रवदानन्दभावानुभवानन्तरं तदनुभूत्यसंगतया यद्वस्तु प्रत्यग्ज्योतीरूपम् अशेषबाह्यान्तःकलनाविरलं परमात्माभेदेन देदीप्यमानं परो दिवो ज्योतिर्दीप्यते इति श्रुतिसिद्धं परं तत्त्वमस्ति हे शाण्डिल्य तद्विषयं तद्भावापन्नं वस्तु ब्रह्माहमिति विद्धि || १६ || खेचर्या उन्मनीभावापत्तिः तारं ज्योतिषि संयोज्य किंचिदुन्नमय भ्रुवौ | पूर्वाभ्यासस्य मार्गोऽयमुन्मनीकारकः क्षणात् || १७ || तस्मात् खेचरीमुद्रामभ्यसेत् | ततोन्मनी भवति | ततो योगनिद्रा भवति | लब्धयोगनिद्रस्य योगिनः कालो नास्ति || १७-१ || कथमेवं ज्ञातुं शक्यते इत्यत्रोपायमाह- तारमिति | भ्रूमध्यविलसज्ज्योतिषि समभावमापन्नकृष्णतारयुगलं दृढं संयोज्य अवलोक्य किंचित् प्. ५३७) भ्रुवौ ऊर्ध्वमुन्नमयय उर्ध्वोत्क्षेपणं कृत्वा अथ सहस्रारविलसिततुरीयं तत्कलनाविरलतुरीयातीतं वा स्वावशेषधिया पश्येदिति शेषः | तारं ज्योतिषि संयोज्य इति यो दर्शितः अन्तर्लक्ष्यम् इत्यादिपूर्वाभ्यासस्य अयमेव मार्गः क्षणादुन्मनीकारकः निर्विकल्पकब्रह्मभावापत्तिहेतुरित्यर्थः || १७ || यस्मादेवं तस्मात् | ततोन्मनीभवति निर्व्यापारं मनो भवतीत्यर्थः | ततः किमित्यत आह- तत इति | योगनिद्रा निर्विकल्पभावापत्तिः ततो व्युत्थानशङ्कां वारयति- लब्धेति | एवं लब्धयोगनिद्रस्य योगिनः निर्विकल्पकतो व्युत्थापककालो नास्ति || १७-१ || कालापरिच्छिन्नब्रह्मप्राप्तिसाधनम् शक्तिमध्ये मनः कृत्वा शक्तिं च मनमध्यगाम् | मनसा मन आलोक्य शाण्डिल्यं त्वं सुखी भव || १८ || खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु | सर्वं च खमयं कृत्वा न किंचिदपि चिन्तय || १९ || कालापरिच्छिन्ननिर्विकल्पकब्रह्मभावापत्त्युपायमाह- कुण्डलिनीशक्तिमध्ये मनः कृत्वा मनोलयं कृत्वा ततः कुण्डलिनीशक्तिं, चशब्दात् दृष्टिं, मनमध्यगां मनःप्रवृत्तिनिमित्तप्रत्यक्चैतन्यपर्यवसन्नां कृत्वा प्रत्यग्भावापन्नेन मनसा मनः मनोवृत्तिसहस्रभावाभावप्रकाशकप्रत्यगभिन्नं ब्रह्म अहभस्मीत्यालोक्य हे शाण्डिल्य त्वं तन्मात्रावस्थानलक्षणकैवल्यसुखी भवेत्यर्थः || १८ || प्रकारान्तरमाह- खमध्य इति | चित्खमध्ये आत्मानमन्तःकरणं कुरु आत्मान्तःकरणमध्ये च खं कुरु | एव व्यतिहारेण सर्वं चित्खमयं कृत्वा चिदाकाशातिरिक्तं न किंचिदस्ति इति चिन्तय || १९ || प्. ५३८) मनोविलापनेन कैवल्यप्राप्तिः बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका | सर्वचिन्तां परित्यज्य चिन्मात्रपरमो भव || २० || कर्पूरमनले यद्वत् सैन्धवं सलिले यथा | तथा च लीयमानं च मनस्तत्त्वे विलीयते || २१ || ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते | ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः || २२ || ज्ञेयवस्तुपरित्यागे विलयं याति मानसम् | मानसे विलयं याते कैवल्यमवशिष्यते || २३ || बाह्यान्तर्वृत्त्यावृतस्य कथं चिदाकाशदृष्टिः उदेतीत्यत आह- बाह्येति || २० || निष्प्रतियोगिकचिन्मात्रावगतेः अन्तर्बाह्यविभागकलनापह्नवपूर्वकत्वात् ज्ञेयसामान्यासंभवप्रबोधसमकालं योगी कैवल्यरूपेण अवशिष्यते इत्याह- कर्पूरमिति | दग्धकर्पूरवत् जलगतसैन्धवपिण्डवच्च जाग्रदाद्यवस्थात्रयलीयमानं मनः स्वरूपध्यानसंस्कृतं सत्प्रपञ्चविमुखं भूत्वा स्वतत्त्वे ब्रह्मणि लीयते || २१ || प्रपञ्चतद्गोचरज्ञेयज्ञानसत्त्वात् कथं मनः स्वतत्त्वे विलीयत इत्यत आह- ज्ञेयमिति | सर्वत्र स्वातिरेकेण प्रतीयत इति सर्वप्रतीतम् | अविद्यापदशब्दात् जाग्रदादितत्कार्यप्रपञ्च उच्यते | तत् सर्वं ज्ञेयशब्दार्थः तद्गोचरं मनः ज्ञानमुच्यते | ब्रह्मातिरिक्तं न किंचिदस्ति इति यज्ज्ञानसमकालं ज्ञानं ज्ञेयं समं युगपन्नष्टं भवति अयमेव अद्वितीयब्रह्मप्रापकः पन्थाः नातोऽन्यः कश्चिदस्तीत्यर्थः || २२ || युगपत् कथं लीयते इत्यत आह- ज्ञेयेति || २३ || प्. ५३९) योगज्ञानाभ्यां मनोलयः द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर | योगस्तु वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् || २४ || तस्मिन्निरोधिते नूनमुपशान्तं मनो भवेत् | मनःस्पन्दोपशान्त्यायां संसारः प्रविलीयते || २५ || सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा | कथं पुनः मानसं विलीयते इत्याशङ्क्य प्रत्यगभिन्नब्रह्मगोचरयोगज्ञानाभ्यां मानसं विलीयत इति सदृष्टान्तमाह- द्वाविति | योगस्तु स्वातिरिक्तास्तित्वगोचरतच्चित्तवृत्तिरोधः, ज्ञानं ब्रह्मातिरिक्तं न किंचिदस्तीति सम्यगवेक्षणम् || २४ || यः स्वातिरिक्तमस्तीति भ्रम उदेति तस्मिन् | संसारे सति कथं मनः शाम्यतीत्यत्र- मन इति | मनःस्पन्दोपशान्त्यायामित्यस्य मनःस्पन्दोपशान्तावित्यर्थः | मनःस्पन्दोपशान्त्यायम् इत्यकं पाठान्तरमपि वर्तते | संसारः प्रविलीयते, संसारस्य मनःकल्पितत्वात् कल्पकाभावे कल्प्याभावो युज्यते इत्यर्थः || २५ || अत्र दृष्टान्तः- सूर्येति || मनोलयात् प्राणस्पन्दनिरोधः शास्त्रसज्जनसंपर्कवैराग्याभ्यासयोगतः || २६ || अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु | यथाभिवाञ्छितध्यानाच्चिरमेकतयोदितात् || २७ || एकतत्त्वदृढाभ्यासात् प्राणस्पन्दो निरुध्यते | स्वाज्ञानविकल्पितमनःस्पन्दस्य प्राणस्पन्दनपूर्वकत्वात् | यत एवमतः तच्छान्तावुपाय उच्यते- शास्त्रेति || २६ || अनास्थायां निवृत्तिमार्गे प्. ५४०) कृतास्थायां सत्यां ब्रह्म सत्यं जगत् मिथ्येति ज्ञानमुदेति | ततः यथेति || २७ || प्राणस्पन्दनिरोधात् मनःस्पन्दनिरोधः पूरकाद्यनिलायामाद् दृढाभ्यासादखेदजात् || २८ || एकान्तध्यानयोगाच्च मनःस्पन्दो निरुध्यते | मनःस्पन्दशान्तिः कथमित्यत्र- पूरकेति || २८ || प्राणस्पन्दशान्तिसमकालं मन इति || प्राणस्पन्दनिरोधविविधोपायाः ओंकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् | सुषुप्ते संविदो जाते प्राणस्पन्दो निरुध्यते || २९ || तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् | ऊर्ध्वरन्ध्रं गते प्राणे प्राणस्पन्दो निरुध्यते || ३० || प्राणे गलितसंवित्तौ तालूर्ध्वद्वादशान्तगे | अभ्यासादूर्ध्वरन्ध्रेण प्राणस्पन्दो निरुध्यते || ३१ || द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे | संविद्दृशि प्राशाम्यन्त्यां प्राणस्पन्दो निरुध्यते || ३२ || भ्रूमध्ये तारकालोकशान्तावन्तमुपागते | चैतनैकतने बद्धे प्राणस्पन्दो निरुध्यते || ३३ || ओमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं शिवम् | असंस्पृष्टविकारांशं प्राणस्पन्दो निरुध्यते || ३४ || प्. ५४१) चिरकालं हृदेकान्तव्योमसंवेदनान्मुने | अवासनमनोध्यानात् प्राणस्पन्दो निरुध्यते || ३५ || एभिः क्रमैस्तथान्यैश्च नानासंकल्पकल्पितैः | नानादेशिकवक्त्रस्थैः प्राणस्पन्दो निरुद्यते || ३६ || प्लुतप्रणवानुसंधानेनापि प्राणस्पन्दो निरुध्यत इत्याह- ओंकारेति | ओंकार - - - भवनात् कांस्यघण्टानिनादवत् प्रणवनादानुसंधानात् | बाह्यान्तर्भवसंविदो विषयज्ञानततेः सुषुप्ते जाते सति अथ प्राणेति || २९ || लम्बिकयापि प्राणस्पन्दशान्तिः स्यादित्याह- ताल्विति | तदुपायतः ऊर्ध्वरन्ध्रं गते || ३० || राजयोगाभ्यासपाटवतः प्राण इति | षण्मुखीमुद्रया गलितसंवित्तौ विगलितबाह्यान्तः संवित्कलनायां सत्याम् अभ्यासात् तालूर्ध्वरन्ध्रेण प्राणे तालूर्ध्वविलसितद्वादशान्तं सहस्रारचक्रं गते सति अथ प्राणेति || ३१ || बहिःकुम्भकेनापि प्राणजयः स्यादित्याह- द्वादशेति | संविद्दृशि प्राशाम्यन्त्यां स्वातिरिक्तविषयवृत्तौ नाष्टायाम् || ३२ || तारकानुसंधानतोऽपि भ्रूमध्ये | तारकालोकनशान्तौ सत्याम् | तारकालोकनं कर्तव्यमिति संकल्पे अन्तमुपागते अथ मनसि चेतनैकताने, चेतने प्रतीचि एकताने बद्धे एकतानतया बद्धे मनोन्मनीभावं गते सति, अथ प्राणेति || ३३ || ब्रह्मज्ञानेनापि प्राणस्पन्दशान्तिः स्यादित्याह- ओमिति | तदेव चाहं सकलं विमुक्त ओमिति ओंकारार्थविचारणसंजातासंस्पृष्टविकारांशज्ञानसमकालं प्राणेति || ३४ || ध्यानात् वासनाक्षयाच्च प्राणस्पन्दशान्तिः स्यादित्याह- चिरेति | हृदा एकान्तव्योमसंवेदनात् चिद्व्योमातिरिक्तं न किंचिदस्ति इति ज्ञानात् वासना क्षीयते | ततो ध्येयैकगोचरं मनो भवति | प्राणस्पन्दशान्तिः भवेदित्यर्थः || ३५ || उक्तैरनुक्तैर्वा उपायैः चिरानुष्टितैः प्राणस्पन्दशान्तिः स्यादित्याह- एभिरिति || ३६ || प्. ५४२) कुम्भकेन सुषुम्नाभेदनद्वारा परमपदगमनम् आकुञ्चनेन कुण्डलिन्याः कवाटमुद्घाट्य मोक्षद्वारं विभेदयेत् || ३६-१ || येन मार्गेण गन्तव्यं तद्द्वारं मुखेनाच्छाद्य प्रसुप्ता कुण्डलिनी कुटिलाकारा सर्पवद्वेष्टिता भवति || ३६-२ || सा शक्तिर्येन चालिता स्यात् स तु मुक्तो भवति | सा कुण्डलिनी कण्ठोर्ध्वभागे सुप्ता चेद्योगिनां मुक्तये भवति | बन्धनायाधो मूढानाम् || ३६-३ || इडादिमार्गद्वयं विहाय सुषुम्नामार्गेण गच्छेत् तद्विष्णोः परमं पदम् || ३६-४ || प्राणस्पन्दनिरोधलक्षणकेवलकुम्भकतो योगी कुण्डलिन्या सुषुम्नावदनं भेदयेदित्याह- आकुञ्चनेनेति | सुषुम्नाकवाटम् | मोक्षद्वारं ब्रह्मरन्ध्रं विभेदयेत् || ३६-१ || मोक्षद्वारभेदककुण्डलिनीस्वरूपं तच्चालनफलं चाह- येनेति || ३६-२,३ || यत् एवम् अतः इडादीति | सुषुम्नायाः विष्णुपदाप्तिद्वारत्वात् || ३६- ४ || मनोयुक्तप्राणस्य सुसुम्नाप्रवेशनविधिः मरुदभ्यसनं सर्वं मनोयुक्तं समभ्यसेत् | इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा || ३७ || दिवा न पूजयेद्विष्णुं रात्रौ नैव प्रपूजयेत् | सततं पूजयेद्विष्णुं दिवारात्रं न पूजयेत् || ३८ || मनोयोगाभ्यासः फलवानित्यर्थः || ३७ || मनोयुक्तप्राणम् इडादिमार्गद्वयमप्रापयित्वा महापथव्यापृतं कुर्यादित्याह- दिवेति | मनोयोगतो विष्णुं प्राणं प्. ५४३) दिवा सूर्यनाड्यां न पूजयेत् न व्यापारयेत् | तथा चन्द्रनाड्यां रात्रौ नैव प्रपूजयेत् | ततः अव्याकृताकाशं तेन पूरितं सततं सुषुम्नाख्यं महापथं प्रति विष्णुं पूजयेत् | कदापि दिवारात्रं न पूजयेदित्यर्थः || ३८ || खेचरीमुद्राप्राप्तिः सुषिरो ज्ञानजनकः पञ्चस्रोतःसमन्वितः | तिष्ठते खेचरी मुद्रा त्वं हि शाण्डिल्य तां भज || ३९ || सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः | तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः || ४० || इडापिङ्गलयोर्मध्ये शून्यं चैवालिनं ग्रसेत् | तिष्ठन्ती खेचरी मुद्रा तत्र सत्यं प्रतिष्ठितम् || ४१ || सोमसूर्यद्वयोर्मध्ये निरालम्बतले पुनः | संस्थिता व्योमचक्रे सा मुद्रा नाम च खेचरी || ४२ || सुषुम्नाप्रवेशतः किं स्यादित्याशङ्क्य तत्र खेचरीमुद्रा वर्तते तत्साक्षात्कारात् कृतकृत्यो भवसीत्याह- सुषिर इति | यत्र सुषुम्नामध्ये सुषिरः विराडादितुरीयातीतान्तपञ्चस्रोतस्समन्वितः सन् मूलाधारानाहताज्ञासहस्रारेषु योगिनः क्रमेण विराडादिज्ञानजनको भवति तत्रैव खेचरीमुद्रा निर्विकल्पकरूपिणी वर्तते | मत्प्रसादतः तां त्वं भजेत्यर्थः || ३९ || उक्तार्थमेव पुनः पुनः शब्दान्तरेण विशदयति- सव्येति || ४० || शून्यशब्देन अव्याकृतमाकाशमुच्यते, आकाशस्य वायुग्रासत्वात् || ४१ || व्योमचक्रस्य निरालम्बत्वात् || ४२ || प्. ५४४) बाह्यखेचरीसिद्ध्युपायः छेदनचालनदोहैः कलां परां जिह्वां कृत्वा दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे जिह्वा विपरीतगा यदा भवति तदा खेचरी मुद्रा जायते | जिह्वा चित्तं च खेचरति | तेनोर्ध्वजिह्रः पुमानमृतो भवति || ४२-१ || बाह्यखेचरीसिद्ध्युपायमाह- छेदनेति | प्रतिभानुवासरं षण्मासावधि स्नुहिपत्रनिभशस्त्रेण रोममात्रं जिह्वासिराच्छेदनेन प्रतिब्राह्मे मुहूर्ते जिह्वाचालनतः प्रातः सैन्धवपथ्याचूर्णतो दोहैः कलां परां सूक्ष्मां जिह्वां कृत्वा दृष्टियुग्मं भ्रूमध्ये स्थाप्य घण्टिकारन्ध्रेण कपालकुहरे जिह्वा विपरीतगा यदा भवति तदा खेचरीमुद्रा उदेति | सहस्रारजिह्वाप्रवेशतो योगी कृतकृत्यो भवतीत्यर्थः || ४२-१ || अभ्यासकाले प्राणजयोपायः वामपादमूलेन योनिं संपीड्य दक्षिणपादं प्रसार्य तं कराभ्यां धृत्वा नासाभ्यां वायुमापूर्य कण्ठबन्धं समारोप्योर्ध्वतो वायुं धारयेत् | तेन सर्वक्लेशहानिः | ततः पीयूषमिव विषं जीर्यते | क्षयगुल्मगुदावर्तजीर्णत्वगादिदोषा नश्यन्ति | एष प्राणजयोपायः सर्वमृत्यूपघातकः || ४२-२ || अभ्यासकाले प्राणजयोपायमाह- वामेति | महामुद्राभ्यासेन तेन || ४२-२ || प्. ५४५) स्वात्मापरोक्षसिद्ध्युपायः वामपादपार्ष्णि योनिस्थाने नियोज्य दक्षिणचरणं वामोरुपरि संस्थाप्य वायुमापूर्य हृदये चुबुकं निधाय योनिमाकुञ्च्य मनोमध्ये यथाशक्ति धारयित्वा स्वात्मानं भावयेत् | तेनापरोक्षसिद्धिः || ४२-३ || स्वात्मापरोक्षसिद्ध्युपायमाह- वामेति | स्वात्मानं ब्रह्माहमस्मीति भावयेत् | सिद्धिः भवति || ४२-३ || सर्वरोगविनिर्मोकसाधनं धारणाविशेषः बाह्यात् प्राणं समाकृष्य पूरयित्वोदरे स्थितम् | नाभिमध्ये च नासाग्रे पादाङ्गुष्ठे च यत्नतः || ४३ || धारयेन्मनसा प्राणं संध्याकालेषु वा सदा | सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लमः || ४४ || धारणाविशेषमाह- बाह्यादिति || ४३-४४ || नासाग्रादिषु संयमेन विविधसिद्धयः नासाग्रे वायुविजयं भवति | नाभिमध्ये सर्वरोगविनाशः | पादाङ्गुष्ठधारणाच्छरीरलघुता भवति || ४४-१ || रसनाद्वायुमाकृष्य यः पिबेत् सततं नरः | श्रमदाहौ तु न स्यातां नश्यन्ति व्याधयस्तथा || ४५ || संध्ययोर्ब्राह्मणः काले वायुमाकृष्य यः पिबेत् | त्रिमासात् तस्य कल्याणी जायते वाक् सरस्वती || ४६ || प्. ५४६) एवं षण्मासाभ्यासात् सर्वरोगनिवृत्तिः | जिह्वया वायुमानीय जिह्वामूले निरोधयेत् | यः पिबेदमृतं विद्वान् सकलं भद्रमश्नुते || ४७ || आत्मन्यात्मानमिडया धारयित्वा भ्रुवोऽन्तरे | विभेद्य त्रिदशाहारं व्याधिस्थोऽपि विमुच्यते || ४८ || नाडीभ्यां वायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः | घटिकैकां बहेद्यस्तु व्याधिभिः स विमुच्यते || ४९ || मासमेकं त्रिसंध्यं तु जिह्वयारोप्य मारुतम् | विभेद्य त्रिदशाहारं धारयेत्तुन्दमध्यमे || ५० || ज्वराः सर्वे विनश्यन्ति विषाणि विविधानि च | मुहूर्तमपि यो नित्यं नासाग्रे मनसा सह || ५१ || सर्वं तरति पाष्मानं तस्य जन्मशतार्जितम् | तारसंयमात् सकलविषयज्ञानं भवति | नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् | तदधश्चित्तसंयमादग्निलोकज्ञानम् | चक्षुषि चित्तसंयमात् सर्वलोकज्ञानम् | श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् | तत्पार्श्वे संयमान्निर्-ऋतिलोकज्ञानम् | पृष्ठभागे संयमाद्वरुणलोकज्ञानम् | वामकर्णे संयमाद्वायुलोकज्ञानम् | कण्ठे संयमात् सोमलोकज्ञानम् | वामचक्षुषि संयमाच्छिवलोकज्ञानम् | मूर्ध्नि संयमाद्ब्रह्मलोकज्ञानम् | पादाधोभागे संयमादतललोकज्ञानम् | पादे संयमाद्वितललोकज्ञानम् | पादसंधौ संयमान्नितललोकज्ञानम् | जङ्घे संयमात्सुतललोकज्ञानम् | जानौ संयमान्महातललोकज्ञानम् | ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् | प्. ५४७) कटौ चित्तसंयमात्तलातललोकज्ञानम् | नाभौ चित्तसंयमाद्भूलोकज्ञानम् | कुक्षौ संयमाद्भुवर्लोकज्ञानम् | हृदि चित्तसंयमात् स्वर्लोकज्ञानम् | हृदयोर्ध्वभागे चित्तसंयमान्महर्लोकज्ञानम् | कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् | भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानम् | मूर्ध्नि चित्तसंयमात् सत्यलोकज्ञानम् | धर्माधर्मसंयमादतीतानागतज्ञानम् | तत्तजन्तुध्वनौ चित्तसंयमात् सर्वजन्तुरुतज्ञानम् | संचितकर्मणि चित्तसंयमात् पूर्वजातिज्ञानम् | परचित्ते चित्तसंयमात् परचित्तज्ञानम् | कायरूपे चित्तसंयमादन्यादृश्यरूपम् | बले चित्तसंयमाद्धनुमदादिबलम् | सूर्ये चित्तसंयमाद्भुवनज्ञानम् | चन्द्रे चित्तसंयमात्तारव्यूहज्ञानम् | ध्रुवे तद्गतिदर्शनम् | स्वार्थसंयमात् पुरुषज्ञानम् | नाभिचक्रे कायव्यूहज्ञानम् | कण्ठकूपे क्षुत्पिपासानिवृत्तिः | कूर्मनाड्यां स्थैर्यम् | तारे सिद्धदर्शनम् | कायाकाशसंयमादाकाशगमनम् | तत्तत्स्थाने संयमात्तत्तत्सिद्धयो भवन्ति || ५२ || नासाग्रादिकायाकाशान्तसंयमाद्विचित्रसिद्धयो भवन्तीत्याह- नासाग्र इति | नासाग्रे वायुधारणात् || ४४-१ || रसनात् रसनया || ४५-४७ || चन्द्रमण्डलं विभेद्य | त्रिदशाहारम् अमृतं पीत्वा || ४८-५० || मनसा सह यो लक्ष्यं पश्यति || ५१ || तारसंयमात् तारकचित्तसंयमात् भवतीति सर्वत्रानुवर्तते | जङ्घे जङ्घायाम् | इत्थंभूतसिद्धिः पुरुषार्थसाधनमिति चेन्न, सिद्धेः पुरुषार्थपरिपन्थित्वात् | न हि स्वातिरेकेण स्वपरशरीरचतुर्दशलोकतद्विषयकज्ञानं वास्ति | तस्मात् मुमुक्षुभिः सिद्धिमार्गो नादर्तव्यः इत्यर्थः || ५२ || इति सप्तमः खण्डः पञ्चविधप्रत्याहारः अथ प्रत्याहारः | स पञ्चविधः | विषयेषु विचरतामिन्द्रियाणां बलादाहरणं प्रत्याहारः | यद्यत् पश्यति तत् सर्वमात्मेति प्रत्याहारः | नित्यविहितकर्मफलत्यागः प्रत्याहारः | सर्वविषयपराङ्मुखत्वं प्रत्याहारः | अष्टादशसु मर्मस्थानेषु क्रमाद्धारणं प्रत्याहारः || १ || पादाङ्गुष्ठगुल्फजङ्घाजानू- रुपायुमेढ्रनाभिहृदयकण्ठकूपतालुनासाक्षिभ्रूमध्यललाट- मूर्ध्नि स्थानानि | तेषु क्रमादारोहावरोहक्रमेण प्रत्याहरेत् || २ || यमनियमासनप्राणायामप्रासङ्गिकपरमार्थोपदेशतत्प्रति- पन्थिनानाविधसिद्धीः प्रतिपाद्य अथ योगाङ्गप्रकृतप्रत्याहारमाचष्टे- अथेति | स्वस्वविषयतो बलात् | क्रमाद्धारणं, धारणं हारणं संक्रमणं प्रत्याहारः || १ || मर्मस्थानानि कानीत्यत्र पादेति || २ || इत्यष्टमः खण्डः पञ्चविधाः धारणाः अथ धारणाः | स पञ्चविधः | आत्मनि मनोधारणं दहराकाशे बाह्याकाशधारणं पृथिव्यप्तेजोवायवाकाशेषु पञ्चमूर्तिधारणं चेति || स पञ्चविधः ताः पञ्चविधाः | पञ्चब्रह्म- पञ्चमूर्तिधारणम् || इति नवमः खण्डः द्विविधं ध्यानम् अथ ध्यानम् | तद्द्विविधं सगुणं निर्गुणं चेति | सगुणं मूर्तिध्यानम् | निर्गुणमात्मयाथात्म्यम् || अनात्मापह्नवसिद्धात्ममात्रावशेषो हि आत्मयाथात्म्यम् || इति दशमः खण्डः समाधिस्वरूपम् अथ समाधिः | जीवात्मपरमात्मैक्यावस्था त्रिपुटीरहिता परमानन्दस्वरूपा शुद्धचैतन्यात्मिका भवति || तूलाविद्योपाधिको जीवः मूलाविद्योपाधिकः परमात्मा तयोरौपाधिकविशेषांशापायात् प्रत्यक्परैक्यं यस्यामाभाति सेयं जीवात्मपरमात्मैक्यावस्था निर्विकल्पकरूपिणीत्यर्थः | त्रिपुट्यां सत्यां निर्विकल्पता कुत इत्यत आह- त्रिपुटीति | निर्विकल्पकप्रकृतेः त्रिपुट्यादिविकृतिग्रासत्वात् त्रिपुट्यभावे दुःखरूपा स्यादित्यत आह- परमानन्देति | त्रिपुटीदुःखग्रासनिर्विकल्पकस्थितेः परमानन्दस्वरूपत्वात् ऐक्यावस्थाया जडत्वं स्यादित्याशङ्क्य अस्य असंप्रज्ञातसमाधिरूपतया शुद्धचैतन्यतामाह- शुद्धेति | अत्र जीवात्मपरमात्मैक्यावस्थाशब्देन असंप्रज्ञातसमाधिरुच्यते इत्यर्थः || इत्येकादशः खण्डः इति प्रथमोऽध्यायः द्वितीयोऽध्यायः निर्विशेषब्रह्मस्वरूपम् अथ ह शाण्डिल्यो ह वै ब्रह्म-ऋषिश्चतुर्षु वेदेषु ब्रह्मविद्यामलभमानः किं नामेत्यथर्वाणं भगवन्तमुपसन्नः पप्रच्छ अधीहि भगवन् ब्रह्मविद्यां येन श्रेयोऽवाप्स्यामीति || १ || स होवाचाथर्वा शाण्डिल्य सत्यं विज्ञानमनन्तं ब्रह्म || २ || अष्टाङ्गयोगच्छलेन स्वात्मतत्त्वं श्रुत्वापि यथावदनधिगत- तया निष्प्रतियोगिकनिर्विशेषब्रह्ममात्रज्ञानबुभुत्सया शाण्डिल्यः पुनः अथर्वाणं पृच्छतीत्याह- अथेति | वेदेषु अर्थतोऽवधारितेष्वपि निष्प्रतियोगिकब्रह्ममात्रविद्याम् | किं नाम ब्रह्म | पप्रच्छ- किमिति ? अधीहि | येन त्वदुपदेशेन || १ || शाण्डिल्येनैवं पृष्टः स होवाच | किं नाम ब्रह्मेति प्रश्नोत्तरं- शाण्डिल्येति | सत्यं विज्ञानमनन्तं ब्रह्म इति तैत्तिरीयके सम्यक् व्याखातमेतत् || २ || ब्रह्मणः अनिर्देश्यत्वम् यस्मिन्निदमोतं च प्रोतं च यस्मिन्निदं संच विचैति सर्वं यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति तदपाणिपादमचक्षुः- श्रोत्रमजिह्वमशरीरमग्राह्यमनिर्देश्यम् || ३ || यत् सर्वाधिकरणं तदनिर्देश्यमित्याह- यस्मिन्निति | इदम् अविद्यापदतत्कार्यजातं यत्र ओतप्रोतभावमेत्य संच विचैति संकोचविकासतां भजति, यन्मात्रज्ञानतः इदं स्वातिरिक्तं नेति विज्ञातं भवति, तदेतत्पाणिपादादिमद्व्यष्टिसमष्ट्यात्मकशरीरा- पह्नवसिद्धं तत्त्वेन निर्देष्टुमशक्यत्वात् अनिर्देश्यम् || ३ || प्. ५५१) ब्रह्मणः आवाङ्मानसगोचरत्वम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह | यत्केवलं ज्ञानगम्यम् | प्रज्ञा च यस्मात् प्रसृता पुराणी | यदेकमद्वितीयम् | आकाशवत् सर्वगतं सुसूक्ष्मं निरञ्जनं निष्क्रियं सन्मात्रं चिदानन्दैकरसं शिवं प्रशान्तममृतं तत् परं च ब्रह्म | तत्त्वमसि तज्ज्ञानेन हि विजानीहि || ४ || तस्यावाङ्मानसगोचरत्वं ज्ञानैकगम्यत्वं प्रज्ञाजनकत्वम् अद्वितीयत्वं वस्तुतः सच्चिदानन्दमात्रत्वं चाह- यत इति | केवलं ज्ञानगम्यं ज्ञानेतरसाधनैरगम्यमित्यर्थः, नान्यः पन्था विद्यतेऽयनाय इति श्रुतेः | निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते इति श्रुतिसिद्धा प्रज्ञा पुराणी, आकैवल्यभावस्थायित्वात् | सा यस्मात् प्रसृता विजृम्भिता | यच्चैतन्यमात्रं द्वैतादिविकृतिप्रसक्तौ अद्वितीयमित्यादिविशेषणवत् तदभावे सन्मात्रम् असदन्यत् इति श्रुतेः यत्सर्वासदपह्नवसिद्धनिष्प्रतियोगिकसन्मात्रमवशिष्यते तत् | तदेव सर्वं तदतिरिक्तं नास्तीति बुध्यस्वेत्यर्थः || ४ || सर्वस्य परमात्मत्वम् य एको देव आत्मशक्तिप्रधानः सर्वज्ञः सर्वेश्वरः सर्वभूतान्तरात्मा सर्वभूताधिवासः सर्वभूतनिगूढो भूतयोनिर्योगैकगम्यः | यश्च विश्वं सृजति विश्वं बिभर्ति विश्वं भुङ्क्ते स आत्मा | आत्मनि तं तं लोकं विजानीहि || ५ || कथं पुनस्तद्धिया सर्वं ज्ञातुं शक्यते तद्ब्रह्मातिरेकेण विश्वकृदीश्वरसत्त्वादित्याशङ्क्य यः स्वाज्ञदृष्ट्या स्वातिरिक्तेश्वरवत् भातः स एव स्वज्ञदृष्ट्या प्. ५५२) परमात्मतया अवशिष्यते इत्याह- य इति | यस्यानात्मापह्नवसिद्धात्ममात्रशक्तिः प्रकृतिः प्रधाना मुख्या भवति साक्षित्वेश्वरत्वादिशक्तिस्तु उपसर्जनभूता च भवति सोऽयम् आत्मशक्तिप्रधानः | उपसर्जनशक्तिमवष्टभ्य सर्वज्ञ इत्यादि | ईश्वरसाक्षात्कारस्य योगैकसाध्यत्वात् ईश्वरसद्भावलिङ्गमाह- यश्चेति | यस्य लिङ्गं प्रपञ्चं वा स म आत्मा न संशयः इति श्रुतिसिद्धतटस्थलक्षणेनेश्वरास्तित्वमवगम्य तस्मिन् स्वाज्ञसमर्पितविशेषापाये यो य ईश्वरः साक्षी जीवो जगदिति च व्यपदिष्टः तं तं लोकं निष्प्रतियोगिकब्रह्ममात्रमिति विजानीहि || ५ || गुरूपदेशतः सर्वात्मत्वज्ञानप्राप्तिः मा शोचीरात्मविज्ञानी शोकस्यान्तं गमिष्यसि || ६ || कथम् एवं ज्ञातुं शक्यमिति मा शुचः मदुपदेशमहिम्ना स्वातिरिक्तास्तिताप्रभवशोकान्तब्रह्म भवसीत्याह- मा शोचीरिति || ६ || इति द्वितीयोऽध्यायः तृतीयोऽध्यायः ब्रह्मणो वस्तुतः निष्प्रतियोगिकस्वमात्रत्वम् अथ हैनं शाण्डिल्योऽथर्वाणं पप्रच्छ यदेकमक्षरं निष्क्रियं शिवं सन्मात्रं परं ब्रह्म | तस्मात् कथमिदं विश्वं जायते कथं स्थीयते कथमस्मिंल्लीयते | तन्मे संशयं छेत्तुमर्हसीति || १ || स होवाचाथर्वा सत्यं शाण्डिल्य परब्रह्म निष्क्रियमक्षरमिति || २ || प्. ५५३) ब्रह्मणो निष्प्रतियोगिकस्वमात्रत्वमुक्तं, ततो विश्वं जायते इति च | निष्प्रतियोगिकस्वमात्रत्वे विश्वहेतुत्वं न संभवति, विश्वहेतुत्वे निष्प्रतियोगिकत्वं च न संभवतीति ब्रह्मातिरिक्तेयत्ताबुभुत्सया शाण्डिल्योऽथर्वाणं पृच्छतीत्याह- अथेति || १ || ब्रह्म तु सन्मात्रप्रकृतिकं तन्निष्प्रतियोगिकस्वप्रकृतिं विना जगज्जनम्स्थितिभङ्गविकृतितां नैति | वतुयाथात्म्याज्ञानतो निरतां संशयाविष्टशाण्डिल्यप्रश्नोत्तरं स होवाच | हे शाण्डिल्य यन्मयोक्तं सन्मात्रं परं ब्रह्म निष्प्रतियोगिकं स्वातिरेकेण अस्तीति विश्वसनीयविश्वोत्पादस्थितिभङ्गकार्यकारणविक्रियापह्नवसिद्धं परमाक्षरमिति तदेव सत्यम् | तस्य निष्प्रतियोगिकत्वे न हि संशयोऽस्ति स्वाज्ञादिदृष्टिमोहे सत्यसति स्वस्यैकरूपतया स्थितत्वात् || २ || ब्रह्मणो रूपत्रयम् अथाप्यस्यारूपस्य ब्रह्मणस्त्रीणि रूपाणि भवन्ति निष्कलं सकलं सकलनिष्कलं चेति || ३ || तथा चेद्विश्वकारणता कुत इत्याशङ्क्य पारमार्थिकस्वज्ञस्वाज्ञदृष्टिवैचित्र्यात् निष्प्रतियोगिकनिष्कलमपि ब्रह्म सप्रतियोगिकनिष्कलवत् सकलवत् सकलनिष्कलवच्च भातीत्याह- अथेति || ३ || निष्कलं ब्रह्म यत्सत्यं विज्ञानमानन्दं विष्क्रियं निरञ्जनं सर्वगतं सुसूक्ष्मं सर्वतोमुखमनिर्देश्यममृतमस्ति तदिदं निष्कलं रूपम् || ४ || परमार्थदृष्ट्या यत् निष्प्रतियोगिकनिष्कलमित्युक्तं तत् तिष्ठतु, तदवगतेः सप्रतियोगिककलनापह्नवपूर्वकत्वात्, चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम् | सर्ववर्जितचिन्मात्रं ब्रह्ममात्रमसन्न हि || प्. ५५४) इत्यादि श्रुतेः | तत्र आदौ स्वज्ञदृष्टिमवष्टभ्य सप्रतियोगिकनिष्कलस्वरूपं विशदयति- यदिति | सत्यज्ञानानन्दाद्युक्तविशेषणानामनृतजडदुःखादिप्रतिषेधकत्वे सप्रतियोगिकत्वं युज्यते, निष्प्रतियोगिकपक्षे तु तद्दृष्ट्या अपह्नोतव्यविषयसामान्यमस्ति नास्तीति विभ्रमस्याप्यपह्नवं गतत्वात् || ४ || सकलं ब्रह्म अथास्य या सहजास्ति विद्या मूलप्रकृतिर्माया लोहितशुक्लकृष्णा तया सहजवान् देवः कृष्णपिङ्गलो महेश्वर ईष्टे | तदिदमस्य सकलं रूपम् || ५ || सप्रतियोगिकसकलरूपं स्पष्टयति- अथेति | य एष निष्प्रतियोगिक- निष्कलतया अवशिष्टः स एव स्वाज्ञदृष्ट्या सप्रतियोगिकनिष्कल इति ख्यातः | स एवाथ स्वाज्ञदृष्ट्या विकल्पानन्तरं सर्वेश्वरो भवति | अस्येश्वरत्वहेतुः केत्यत आह- येति | स्वाज्ञदृष्टिसहजा या मूलप्रकृतित्वेन प्रकृता त्रिगुणात्मिका मायास्ति तया सहजवान् देवः त्रिगुणयोगतः कृष्णपिङ्गलो महेश्वरः सर्वेश्वरत्वमवलम्ब्य स्वाज्ञदृष्टिप्रसक्तस्वाविद्यापदतत्कार्यजातम् ईष्टे | तदिदमस्य सकलं रूपम्, ईश्वरस्य निरावृतक्रियाज्ञानेच्छाशक्तिमत्त्वेन स्वदृष्ट्येशितव्यस्वाविद्यापदतत्कार्यवैरल्यात् स्वस्यैव निष्प्रतियोगिक- निष्कलत्वात् अस्य सकलत्वं स्वाज्ञदृष्टिनिष्ठमेवेत्यर्थः || ५ || सकलनिष्कलं ब्रह्म अथैष ज्ञानमयेन तपसा चीयमानोऽकामयत बहु स्यां प्रजायेयेति | अथैतस्मात् तप्यमानात् त्रीण्यक्षराण्यजायन्त | प्. ५५५) तिस्रो व्याहृतयस्त्रिपदा गायत्री त्रयो वेदास्त्रयो देवास्त्रयो वर्णास्त्रयोऽग्नयश्च जायन्ते | योऽसौ देवो भगवान् सर्वैश्वर्यसंपन्नः सर्वव्यापी सर्वभूतानां हृदये संनिविष्टो मायावी माययाकृतिः स ब्रह्मा स विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः सर्वाणि भूतानि स एव पुरस्तात् स एव पश्चात् स एवोत्तरतः स एव दक्षिणतः स एवाधस्तात् स एवोपरिष्टात् स एव सर्वम् | अथास्य देवस्यात्मशक्तिक्रीडस्य भक्तानुकम्पिनो दत्तात्रेयरूपा सुरूपा तनूरवासा इन्दीवरदलप्राख्या चतुर्बाहुरघोरापापकाशिनी | तदिदमस्य सकलनिष्कलं रूपम् || ६ || अर्धस्वज्ञदृष्टिमवष्टभ्य सकलस्वरूपप्रपञ्चनपूर्वकं सकलनिष्कलस्वरूपमाचष्टे- अथेति | आद्यन्तयोः सकलं मध्ये निष्कलं यत्र दृश्यते तत् सकलनिष्कलस्वरूपम् | तत्रादौ ईश्वर एकोऽपि तपसा चीयमानो वर्धमानः सन् बहु स्यां प्रजायेय इति बहुभु[भ]वनसंकल्पं कृतवान् | एवं सत्यसंकल्पात्तस्मादीश्वरात् अकारोकारमकारभेदेन त्रीण्यक्षराण्यजायन्त- इति सर्वत्र वचनानुरोधेन ऊह्यम् | भूरादि भेदेन तिस्रो व्याहृतयः, पदत्रयात्मिका गायत्री, ऋगादिभेदेन त्रयो वेदाः, ब्रह्मादिभेदेन त्रयो देवाः, ब्राह्मणादिभेदेन त्रयो वर्णाः, गार्हपत्यादिभेदेन त्रयोऽग्नयश्च जायन्ते | सोऽयमीश्वरो निरवधिकविभूतिसंपन्नः स्वेन अन्तर्यामिरूपेण सर्वव्यापी सर्वभूतहृदासनः | तस्याकृतिमत्वं मायया, न स्वतः, स्वतो निराकृतित्वात् | ब्रह्मादिरूपेणापि स एव वर्तते | दिग्विदिकधश्चोर्ध्वं चापि स एव | दत्तात्रेयरूपेणापि स एव वर्तते | सुरूपा तनू अवासाः इति विशेषणतोऽस्या अवधूतत्वमवगम्यते, जडभरतद्दत्तात्रेयरैवतक- ऋभुनिदाघ इति श्रुतेः | एवं अर्धस्वज्ञदृष्ट्यनुरोधेन सकलनिष्कलस्वरूपं प्रतिपादितमित्यर्थः || ६ || इति प्रथमः खण्डः सन्मात्रस्य परब्रह्मत्वनिर्वचनम् अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ भगवन् सन्मात्रं चिदानन्दैकरसं कस्मादुच्यते परं ब्रह्मेति || १ || स होवाचाथर्वा यस्माच्च बृहति बृंहयति च सर्वं तस्मादुच्यते परं ब्रह्मेति || २ || ब्रह्मणः सन्मात्रत्वं परब्रह्मत्वम् आत्मत्वं महेश्वरत्वं च कथमिति शाण्डिल्योऽथर्वाणं पृच्छति, भगवानथर्वापि तत्प्रश्नपूरणं कृतवानित्याह- अथेति | निष्प्रतियोगिकसच्चिदानन्दमात्रं कस्मात् || १-८ || सन्मात्रस्य आत्मत्वनिर्वचनम् अथ कस्मादुच्यते आत्मेति || ३ || यस्मात् सर्वमाप्नोति सर्वमादत्ते सर्वमत्ति च तस्मादुच्यते आत्मेति || ४ || सन्मात्रस्य महेश्वरत्वनिर्वचनम् अथ कस्मादुच्यते इति || ५ || यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या तस्मादुच्यते महेश्वर इति || ६ || सन्मात्रस्य दत्तात्रेयत्वनिर्वचनम् अथ कस्मादुच्यते दत्तात्रेय इति || ७ || यस्मात् सुदुश्चरं तपस्तप्यमानायात्रये पुत्रकामायातितरां तुष्टेन ज्योतिर्मयेनात्मैव प्. ५५७) दत्तो यस्माच्चानसूयायामत्रेस्तनयोऽभवत् तस्मादुच्यते दत्तात्रेय इति || ८ || निरुक्तिवेदनफलम् अथ योऽस्य निरुक्तानि वेद स सर्वं वेद || ९ || अथ यो ह वै विद्यैनं परमुपास्ते सोऽहमिति स ब्रह्मविद्भवति || १० || अत्रैते श्लोका भवन्ति- दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् | आत्ममायारतं देवमवधूतं दिगम्बरम् || ११ || भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् | चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् || १२ || ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् | भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् || १३ || एवं यः सततं ध्यायेद्देवदेवं सनातनम् | स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् || १४ || इत्यों सत्यमित्युपनिषत् || १५ || उक्तनिरुक्तत्रयवेदनफलमाह- अथेति | ब्रह्मणः सर्वव्यापकत्वेन ब्रह्मवेदनतः सर्ववित्त्वं स्यादित्यर्थः || ९ || य एतद्ब्रह्म विदित्वोपास्ते स तदेव भवतीत्याह- अथेति | विद्य विदित्वेत्यर्थः || १०-१३ || य एवमुक्तप्रकारेण सदा देवदेवं परमात्मानम् अयमहमस्मीति विदित्वा ध्यायेत् स निःश्रेयसं प्. ५५८) तत्पदमाप्नुयात् || १४ || यत् सत्यमोंकाराग्रविद्योतमानं तदेव भवतीत्यर्थः || इत्युपनिषच्छब्दः शाण्डिल्योपनिषत्समाप्त्यर्थः || १५ || इति द्वितीयः खण्डः समाप्तः, तृतीयोऽध्यायश्च || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | शाण्डिल्योपनिषद्व्याख्या लिखिता ब्रह्मगोचरा | शाण्डिल्योपनिषद्व्याख्याग्रन्थस्तु त्रिशतं स्मृतः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे अष्टपञ्चाशत्संख्यापूरकं शाण्डिल्योपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######