#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00134 Uniform title: śāktānandataraṅgiṇī Author : brahmānandagiri Editor : pañcānana śāstrī Description: Transcribed by the staff of Muktabodha. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 22, 2008 Publisher : unknown-pree 1900 Bengali Script Publication year : Publication city : Publication country : India #################################################### शाक्तानन्दतरंगिणी प्रथमोल्लासः मङ्गलाचरणम् प्रणम्य प्रकृतिं नित्यां परमात्मस्वरूपिणीम् | तन्यते भुक्तिमुक्त्यर्थं शाक्तानन्दतरङ्गिणीम् || प्रकृतिशब्दार्थः अथ का प्रकृतिः ? तथाहि गुणत्रयसाम्यावस्था प्रकृतिः | तथा चोक्तं यामले सत्वं रजस्तम इति गुणत्रयमुदाहृतम् | साम्यावस्थितिरेतेषामव्यक्तं प्रकृतिं विदुः | सैव मूलप्रकृतिः स्यात् प्रधानं पुरुषोऽपि च || अन्यत्रापि सत्त्वं रजस्तम इति गुणानां त्रितयं प्रिये | यदा सा परमा शक्तिर्गुणाधिष्ठानमाचरेत् | प्रकृतित्वं भवेत्तस्याः पुरुषः स्यात् सदाशिवः || नित्याशब्दार्थः नित्याशब्दार्थमाह शक्तियामले ब्रह्मविष्णुशिवादीनां भवो यस्यां निजेच्छया | पुनः प्रलीयते यस्यां नित्या सा परिकीर्तिता || परमात्मशब्दार्थः परमश्चासौ आत्मा चेति परमात्मा, उत्कृष्ट आत्मा इत्यर्थः | उत्कृष्टत्वं च स्वेच्छया ब्रह्मविष्णुशिवादिशरीराणामुत्पादकत्वम् | अथवा तत्तदिन्द्रियरहितोऽपि तत्तदिन्द्रियजन्यप्रत्यक्षाश्रयः | तथा च श्रुतिः (श्वेता० ३/१९) अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः | स वेत्ति विश्वं नहि तस्य वेत्ता तमाहुराद्यं पुरुषं महान्तम् || इति | नित्यज्ञानकृत्याश्रयः परमात्मा | स च लाघवाद् एक एव | स च जन्यज्ञानप्रकृत्याश्रयो जीवात्मा, स चानन्तः, मनुष्यपशुपक्ष्यादिभेदात् | तथा शिवविष्णुदुर्गादीनां शरीरभेदाद् परमात्मा नाना एवास्तु इति वाच्यम्, घटाद्युपाधिभेदेनाकाशस्य नानात्वभ्रमवत् मनुष्यपशुपक्ष्यादिशरीरभेदेनात्मनो भिन्नत्वभ्रमात् सुषुप्तिप्रलयादौ शरीरनाशे आत्मन एकत्वदर्शनात्, तथा भक्तानुग्रहाय गृहीतशरीराणां शिवादिदैवतानां नानात्वेन तत्र नानात्वभ्रमात् | नहि भ्रमाद् वस्तुसिद्धिरिति | अथ उल्लासविषयनिर्णयः प्रतिपाद्यमाह उल्लासे प्रथमे वक्ष्ये शरीरं कर्मसम्भवम् | दीक्षा द्वितीये वक्ष्यामि तृतीये योगनिर्णयम् || प्रातःकृत्यं चतुर्थे तु आसनं पञ्चमे तथा | अन्तर्यागविधिं षष्ठे नित्यपूजा च सप्तमे || वसौ मालाविधानं तु नवमे जपलक्षणम् | महासेतुं च सेतुं च कुल्लुकां दशमे तथा || मुखस्य शोधनं रुद्रे द्वादशे च पुरस्क्रियाम् | संस्कारं यन्त्रराजस्य बलिदानं त्रयोदशे || फलं चतुर्दशे चैव उपचारादिदानजम् | नामस्मरणपूजादिफलं पञ्चदशे तथा || कलौ संसर्गदोषादि प्रायश्चित्तं तु षोडशे | कुण्डं सप्तदशे चैव होमं चाष्टादशे ततः || ततः सर्वमङ्गलादिनाम्नामर्थो निरूपितः | दुर्गादेव्याश्च माहात्म्यं विशेषेण प्रदर्शितम् | गुरुपादरजो ध्यात्वा कृत उल्लासनिर्णयः || शरीरोत्पत्तिक्रमः ज्ञानभाष्ये देव्युवाच- शरीरं कीदृशं नाथ मुक्तिर्वा केन कर्मणा | इदानीं श्रोतुमिच्छामि ब्रूहि मे शशिशेखर || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि शरीरं कर्मसम्भवम् | रजस्वला यदा नारी विशुद्धा पञ्चमे दिने || पीडिता कामबाणेन ततः पुरुषमीहते | भगलिङ्गसमायोगान्मैथुनं स्यात्तया तयोः || अन्योन्यस्पर्शनाद् देवि ! जायते च महत्सुखम् | क्षरते च तथा रेतः प्राणापानादिसंश्रितम् || क्षितिरापस्तथा तेजो वायुराकाशमेव च | सर्वेषां तत्त्वं प्रादुः स्याद् देहस्थरक्तबीजयोः || नाभिरन्ध्रे तदा देवि ! भ्राम्यते च समीरणैः | कुम्भकारो यथा चक्रे घटते च घटादिकम् || तथा समीरणो गर्भे घटते प्राणिनां तनुम् | कललं चैकरात्रेण बुद्बुदं पञ्चमे दिने || शोणितं दशरात्रेण मांसपिण्डं चतुर्दशे | मासैकेऽपि च सम्पूर्णे मांसपिण्डोऽङ्कुरायते || आदौ संजायते पिण्डो ब्रह्माण्डः सदृशाङ्कुरः | तस्य मध्ये सुमेरुश्च कङ्कालदण्डरूपिणः || चराचराणां सर्वेषां देवादीनां विशेषतः | आलयः सर्वभूतानां मेरोरभ्यन्तरेऽपि च || प्रदीपकलिकाकारो जीवो हृदि सदा स्थितम् | रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः || प्राणबद्धस्तथा जीवः प्राणापानेन कृष्यते | जीवस्य परमेशानि परिवारगणं शृणु || अक्षिणी नासिके कर्णौ जिह्वा च कमलानने | हस्तौ पादौ महेशानि ! गुह्योपस्थौ क्रमात् प्रिये || नाभिश्च परमेशानि ! मनश्च परमेश्वरि | जाग्रत्स्वप्नसुषुप्त्याख्याश्चेति देहे संस्थिताः || इन्द्रियाणां च सर्वेषां मनः प्रमसारथिः | पापैः पुण्यैर्महेशानि बद्धः स्यादात्मनः प्रिये || स्ङ्गत्या सदसत्कर्म जीवः सर्वं करोति हि | विशुद्धसात्त्विको जीवः सदसत्कर्मवर्जितः || मनसा जीवसंयोगात् सत्कार्यं कुरुते सदा | मासद्वये तु सम्पूर्णे मेदस्तत्र प्रजायते || मज्जास्थीनि त्रिभिर्मासैः केशास्त्वक् च चतुष्टये | कर्णाक्षिनासिका वक्त्रं कण्ठोदरं च पञ्चमे || रक्तादुत्पद्यते शुक्रं शुक्राद् बिन्दुसमुद्भवः | प्राणतो वायुरुत्पन्नः कालाग्निः स्यादपानतः || शुक्रतो नाडिकोत्पत्तिः शुक्रादग्निः समुद्भवः | मांसतश्च मलोत्पत्तिर्मज्जा चापि ततो भवेत् || वायुना प्राणनिष्पत्तिरपानादग्निसम्भवः | शुक्रेणोत्पादिता जिह्वा नासिका सर्वदेहिनाम् || रक्तादुत्पद्यते नेत्रं वामं चैव तु दक्षिणम् | प्राणादुत्पद्यते शून्यं प्राणरन्ध्रद्वयं तथा || षष्ठे मुखं तथा पादौ सर्वाङ्गानि च सप्तमे | सन्धिः साम्पूर्णतां याति अष्टमे मासि वै ततः || अण्डाधारस्तु कङ्काल आरभ्य गुदमूलतः | द्वात्रिशज्ज्ञानविज्ञेय ग्रन्थिको वर्द्धतः सदा | तस्य मध्ये सदा सर्वा नाड्यस्तत्र व्यवस्थिताः || शरीस्थनाडीनिर्णयः इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका | गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी || अलम्बुषा कुहुश्चैव शङ्खिनी दशमी तथा | अन्याश्च नाडिकाः क्षुद्राः सहस्राणां द्विसप्ततिः || इडा च वामभागे तु दक्षिणे पिङ्गला तथा | ब्रह्मरन्ध्रे सुषुम्ना च गान्धारी वामचक्षुषि || दक्षिणे हस्तिजिह्वा च पूषा कर्णेऽथ दक्षिणे | वामे यशस्विनी चैव मुखे चालम्बुषा तथा || कुहुश्च लिङ्गमूले च शङ्खिनी शिरसोपरि | एवं द्वारं समावृत्य तिष्ठन्ति दशनाडिकाः || क्षितिश्च वारितेजश्च वायुराकाशमेव च | स्थैर्यं गता इमे पञ्च बाह्याभ्यन्तर एव च | भूतगुणाः अस्थि चर्म तथा नाडी लोममांसस्तथैव च | एते पञ्चगुणाः प्रोक्ताः पृथिव्यां च व्यवस्थिताः || मलमूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च | एते पञ्चगुणाः प्रोक्ता आपस्तत्र व्यवस्थिताः || क्षुधा तृष्णा तथा निद्रा प्रमोहः क्षान्तिरेव च | एते पञ्चगुणाः प्रोक्तास्तेजस्तत्र व्यवस्थितम् || विरोधाक्षेपणाकुञ्चधारणं तर्पणं तथा | एते पञ्चगुणाः प्रोक्ताः मारुते च व्यवस्थिताः || रागो द्वेषश्च मोहश्च भयं लज्जा तथैव च | एते पञ्चगुणाः प्रोक्ता आकाशे च व्यवस्थिताः || शरीरस्थवायुनिर्णयः प्राणापानसमानश्चोदानव्यानौ च वायवः | नागः कूर्मोऽथा कृकरो देवदत्तो धनञ्जयः || एते दशगुणाः प्रोक्ताः सर्वे प्राणसमात्मकाः | हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले || समानो नाभिदेशे च उदानः कण्ठदेशतः | व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः || नगः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः | एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः || शरीरकोषवर्णनम् | ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे | पातालं भूधरा लोका आदित्यादि नवग्रहाः || (भूरादि सप्तस्वर्गाश्च नामाश्च सर्वदेहिनाम्) | पिण्डमध्ये स्थिताः सर्वे स्थानं तेषां वदामि ते || शरीरे सप्तपातालवर्णनम् पादाधस्त्वतलं विद्यात्तदूर्ध्वं वितलं तथा | जानुनोः सुतलं चैव तलं च सन्धिरन्ध्रके | तलातलं गुद(ल्फ)मध्ये लिङ्गमूले रसातलम् | पातालं कटिसन्धौ च पादादौ लक्षयेद् बुधः || शरीरे भूरादिलोककथनम् भूर्लोको नाभिदेशे तु भुवर्लोकस्तथा हृदि | स्वर्लोकः कण्ठदेशे तु महर्लोकश्च चक्षुषि || जनलोकस्तदूर्ध्वञ्च तपोलोको ललाटके | सत्यलोको महायोनौ भुवनानि चतुर्दशे || शरीरे सप्ताचलवनर्णनम् त्रिकोणे च स्थितो मेरूर्ध्वलोके च मन्दरः | कैलासो दक्षिणे कोणे वामकोणे हिमालयः | विन्ध्यो विष्णुस्तदूर्ध्वे च सप्तैते कुलपर्वताः || शरीरस्थ सप्तद्वीपवर्णनम् अस्थि स्थाने महेशानि ! जम्बूद्वीपो व्यवस्थितः | मांसेषु च कुशद्वीपः क्रौञ्चद्वीपः शिरासु च || शाकद्वीपः स्थितोरक्ते प्राणिणां सर्वसन्धिषु | तदूर्ध्वं शाल्मलिद्वीपः प्लक्षश्च लोमसञ्चये | नाभौ च पुष्करद्वीपः सागरस्तदनन्तरम् || शरीरस्थसप्तसागरवर्णनम् लवणोदस्तथा मूत्रे शुक्रे क्षीरोदसागरः | मज्जा दधिसमुद्रश्च तदूर्ध्वं घृतसागरः || रसोदके रसः प्रोक्त इति पुस्तकान्तरे पाठः | वसापः सागरः प्रोक्त इक्षुः स्यात् कटिशोणितम् | शोणितेषु सुरासिन्धुः कथिताः सप्तसागराः || शरीरस्थग्रहमण्डलम् ग्रहाणां मण्डलम् चैव शृणु वक्ष्यामि पार्वति ! | नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्र्माः || लोचने मङ्गलः प्रोक्तो हृदि सोमसुतस्तथा | उदरे च गुरुश्चैव शुक्रे शुक्रस्तथैव च || नाभिचक्रे स्थितो मन्दो मुखे राहुः स्थितः सदा | पादे नाभौ च केतुश्च शरीरे ग्रहम्ण्डलम् || गर्भस्थजीवस्य पूर्वजन्मस्मरणम् नवमे मासि गर्भस्थः सर्वान् संस्मरते मनः | नवद्वारे पुरे देहि समयांश्च विकारकान् || सुखं दुःखं समं कृत्वा भुक्तं च हृदये नृणाम् | सुकृतं दुष्कृतं चैव यत्कृतं पूर्वजन्मनि || तत्सर्वं सफलं ज्ञात्वा ऊर्ध्वपादस्त्वधोमुखः | गर्भस्तु संप्रविष्टाऽसौ स्तिमिते घोरदर्शने || यदि माता सुखं भुङ्क्ते अन्नपानादिकं ततः | जनन्या नाभिदेशे तु मुखं दत्त्वा पिवत्यसौ || ततो जीवति गर्भेऽसौ अन्यथा मरणं भवेत् | अभ्यस्यामि शिवं ज्ञानं सांसारार्णवतारणम् || (देवद्विजगुरूणां हि पूजनं शङ्कयान्वितम्) | करिष्यामि यथा भाग्यं सत्यं सत्यं न संशयः || चिरयोगी ततो भूत्वा मुक्तो यास्यामि तत्पदम् | एवं गर्भस्थितो जीवो गर्भयातनयार्दितः | नित्यं भावयते चित्ते लब्धचैतन्यलक्षणः | एतस्मिन्नन्तरे देवि विश्वेषां गर्भसङ्कटे || नवमे दशमे मासि प्रबलैः सूतिमारुतैः | निःसार्यते बाण इव जन्तुश्छिद्रेण सज्वरः | पतितोऽपि न जानाति मूर्च्छितोऽपि ततश्च्युतः || सूतिवातस्य वेगेन योनिरन्ध्रस्य पीडनात् | विस्मृतं सकलं ज्ञानं गर्भे यच्चिन्तितं हृदि || यथा भवति तत्त्वेषु सूतिभूतेषु पीडनात् | मातरं स्मरते नित्यं बुभुक्षा दृढवेदनम् || स्त्री-पुरुषादि भेदकारणम् रक्ताधिका भवेन्नारो भवेच्छुक्राधिकः पुमान् | नपुंसकं ततो जातं साम्ये च रजबीजयोः || पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः | आयुः कर्म च वित्तं च विद्या निधनमेव च || जीवावस्थाकथनम् बालः शिशुश्च पोगण्डः किशोरकस्तथैव च | अतः परं तु युवकः प्रौढश्चैव ततः परम् || अतिप्रौढस्तथा वृद्धश्चातिवृद्धस्ततः परम् | पलितं मरणं चैव अवस्थाः परिकीर्तिताः || तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् | केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् || प्रेतदेहमिति प्रोक्तं क्रमादेव न संशयः | ततः सपिण्डीकरणे बान्धवैः सत्कृते नरैः || पूर्णसंवत्सरे देहमतोऽन्यं सम्प्रपद्यते | ततः स नरके याति स्वर्गे वा स्वेन कर्मणा || तत्क्षणात् मृत्युक्षणादिति | जीवानां कर्मफलप्रकारः देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा | कृमित्वं स्थावरत्वं च याति जन्तुः स्वकर्मभिः || स्थावरा जङ्गमाद्याश्च पक्षिणः पशवो नराः | जायन्ते वा म्रियन्ते वा संसारे दुःखसागरे || कर्मणा जायते जन्तुः कर्मणैव प्रलीयते | देहे विनष्टे तत्कर्म पुनर्देहं प्रपद्यते || तथा धेनुसहस्रेषु वत्सो विन्दति मातरम् | तथा शुभाशुभं कर्म कर्तारमनुगच्छति || प्राक्तनं बलवत्कर्म कोऽन्यथा तत्करिष्यति | देहः कर्मात्मकः प्रोक्तस्तत्तद् देवि ! प्रतिष्ठितम् || कर्मयोगानुरूपेण निर्माणं विधिरादिशेत् | चराचरमिदं देवि ! सर्वं कर्मात्मकं प्रिये || माता कर्म पिता कर्म कर्मैव परमो गुरुः | स्वर्गं वा नरकं वापि कर्मणैव लभेन्नरः || सुखदुःखमयैः स्वीयैः पुण्यपापैर्नियन्त्रितः | तत्तज्जातियुतं देहं सम्भोगं च स्वकर्मजम् || मनुष्यजन्मोत्कर्षकथनम् अत्र जन्मसहस्रैस्तु सहस्रैरपि पार्वति ! | कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् || निद्रा च मैथुनाहाराः सर्वेषां प्राणिनां समाः | ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये || सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् | तडिद्वत् परमायुश्च यस्य ज्ञानवतो धृतिः || चतुरशीतिलक्षेषु शरीरेषु शरीरिभिः | न मानुष्यं विनान्यत्र तत्त्वज्ञानं तु लभ्यते || ब्रह्मविष्णुमहेशादिदेवताभूतजातयः | नाशमेवानुधावन्ति तस्माच्छ्रेयः समाचरेत् || मोहप्रभावः स्वदेहधनदारादिनिरताः सर्वजन्तवः | जायन्ते च म्रियन्ते च हा हताऽज्ञानमोहिताः || प्रभवं सर्वदुःखानामाश्रयं सकलापदाम् | आलयं सर्वपापानां संसारं वर्जयेत् प्रिये || प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते | आमकुम्भ इवाम्भस्थो विशीर्णा नैव भाव्यते || अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे | लपन्तमिति मर्त्त्यं तमत्ति कालवृको बलात् || पृथिवी दह्यते येन मेरुश्चापि विदार्यते | शोष्यते सागरजलं शरीरेष्वपि का कथा || मोहस्य संसारकारणत्वकथनम् लोहपाशमयैः पाशैर्नरो बद्धोऽपि मुच्यते | स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन || असकृद् देहकर्माणि सुखदुःखानि भुञ्जते | परत्राऽज्ञानिनो देवि ! यान्त्यायान्ति पुनः पुनः || अरज्जुबन्धनं सङ्गो दुष्टसङ्गो महाविषः | सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् | यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः || मोक्षकारणम् द्वे पदे मोक्षबन्धाय निर्ममेति ममेति च | ममेति बध्यते जन्तुर्निममेति च मुच्यते || ममेत्यध्यासनाद् बन्धो विमुक्तिर्निर्ममेति च | मांसलुब्धो यथा मत्स्यो लौहशङ्कुं न पश्यति || सुखलुब्धस्तथा देही यमबाधां न पश्यति | कृत्वा पापविनिर्भिन्नं सिक्तं विषयसर्पिषा || रागद्वेषानलैः पक्वं मृत्युरश्नाति मानवम् | स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि || स्त्रीमातृधनपुत्रादिसम्बन्धः केन हेतुना | संसारस्य दुःखरूपत्ववर्णनम् शतं जीवनमत्यल्पं निद्रा तस्यार्धहारिणी | बाल्यरोगजरादुःखैरर्द्ध तदपि निष्फलम् || दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः | तस्य त्यागः कृतो येन स सुखी नापरः प्रिये || प्रभाते मलमूत्राभ्यां मध्याह्ने क्षुत्पिपासया | रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः सदा || दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम् | तद् व्याधिर्वद्धनापथ्यं कुर्वन्ति बहुशो जनाः || सुकर्मफलदं हित्वा दुष्कर्माणि करोति यः | कामधेनुं समाक्रम्य ह्यर्कक्षीरं स मार्गतिः || अनित्यानि शरीराणि विभवो नैव शाश्वतः | नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः || अध्रुवेण शरीरेण प्रतिक्षणविनाशिना | यो ध्रुवं नार्जयेद् धर्म स मर्त्यो मूढचेतनः || नामुत्र हि सहायार्थं पिता माता च गच्छति | नापि पुत्रो न वा जाति धर्मस्तिष्ठति केवलम् || पुत्रदारमयैः पाशैः पुमान् बद्धो न मुच्यते | पण्डिते चैव मूर्खे च बलिन्यप्यथ दुर्बले || ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता | राजतः सलिलादग्नेश्चौरतः स्वजनादपि || भयमर्थवतां नित्यं मृत्योः पापभृतामिव | श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् || नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् | कर्मणा मनसा वाचा यः स कर्मनिरतः सदा || अफलाकाङ्क्षि चित्तो यः स मोक्षमधिगच्छति | अफलाकाङ्क्षि स्वकीयभोगजनकांक्षारहितमित्यर्थः | अहो मोहस्य माहात्म्यं तन्मायाजनितस्य च | किमन्यमपि देवेशि मोहयेदमरानपि || इति यामलवचनात् | मार्कण्डेये महामाया हरेश्चैतत्तया सम्मोह्यते जगत् | तया महामायया जगत् संसारः मोह्यते | न केवलं जगत् सम्मोह्यते, देवानामपि चेतांसि | ज्ञानिनामपि चेतांसि देवी भगवती हि सा || बलादाकृष्य मोहाय महामाया प्रयच्छति | ज्ञानिनामिति प्रशंसायामिन्, नित्यज्ञानिनामित्यर्थः || महामायाशब्दार्थः महती चासौ माया चेति महामाया, ब्रह्मविष्णुशिवादीना मोहजनकत्वात् महामाया | तथा चोक्तं यामले सैव माया प्रकृतिर्या सम्मोहयति शङ्करम् | हरिं तथा विरञ्चि च तथैवान्यांश्च निर्जरान् || कालिकापुराणे (६, ६१-६३) गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः | उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् || पूर्वातिपूर्वसंस्कारसम्मोहं संनियोज्य च | आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् || क्रोधोपरोधनादिषु क्षिप्त्वा क्षिप्त्वा पुनः पुनह् | पश्चात् कामे नियोज्याशु चिन्तायुक्तमहर्न्निशम् || महामायाभेदः सा महामाया द्विविधा-विद्याऽविद्या च | या महामाया मुक्तेर्हेतुभूता सा विद्या | या महामाया संसारबन्धनहेतुभूता साऽविद्या | मार्कण्डेये सा विद्या परमामुक्तेर्हेतुभूता सनातनी | संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी || अन्यत्रापि विद्या वाप्यथवाऽविद्या द्वे एते माययावृते | तत्कर्म यच्च बन्धाय साऽविद्या परिकीर्तिता || यन्न बन्धाय तत्कर्म सा विद्या परिकीर्तिता || विद्या तु सर्वदा सेव्या नाप्यविद्या कथञ्चन | अविद्या कर्मबन्धः स्याद् तया ज्ञानं प्रणश्यति || ज्ञाननाशाद् भवेद्धानिर्हानात् संसरणं पुनः | संसारात्तु भवेद् घोराद् घोरं नरकमेव च | तस्मादविद्या कुत्रापि न सेव्यापि कदाचन || विद्याप्रशंसा या विद्या सा महामाया सा तु सेव्या सदा बुधैः | ऽअन्धं तमः प्रविशन्ति येऽविद्यामुपासतेऽ (ईश. ९) इति श्रुतेः | अन्यत्रापि संसारैकनियतिरूपाऽविद्या इति | रुद्रयामले सुखदा मोक्षदा नित्या सर्वभूतेषु संस्थिता | यदा तुष्टा भवेन्माया तदा सिद्धिमुपालभेत् || बन्दनीया सदा स्तुत्या पूजनीया च सर्वदा | श्रोतव्या कीर्त्तितव्या च माया नित्या नगात्मजा || वृथा न कालं गमयेद् द्यूतक्रीडादिना सुधीः | गमयेद् देवतापूजाजपयागस्तवादिना || किमन्यैरसदालापैर्यदायुर्व्ययतामियात् | तस्मान्मन्त्रादिकं सर्वं विज्ञाय श्रीगुरोर्मुखात् | सुखेन मुच्यते देवि घोरसंसारबन्धनात् || इति श्रीपरिव्राजकाचार्यपरमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां शरीरनिर्णयो नाम प्रथमोल्लासः || द्वितीयोल्लासः ईश्वर उवाच दीक्षामाहात्म्यम् शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | विना दीक्षां न मोक्षः स्यात् प्राणिनां शिवशासने || न योगेन विना यन्त्रो न मन्त्रेण विना हि सः | द्वयोरभ्यासयोगश्च ब्रह्मसंसिद्धिकारकः || तमः परिवृते गेहे घटो दीपेन दृश्यते | एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः || सम्प्राप्ते षोडशे वर्षे दीक्षां कुर्यात् समाहितः | रसैर्मन्त्रैर्यथा विद्घमयः सुवर्णतां व्रजेत् || दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते ध्रुवम् | इति कुलार्णवात् | मन्त्रमुक्तावल्याम् जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः || नास्ति पापं यतस्तेषां सूतकं च यतात्मनाम् | रुद्रयामले आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः || नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः || आगमलक्षणम् आगमशब्दव्युत्पत्तिमाह रुद्रयामले आगतः शिववक्त्रेभ्यो गतश्च गिरिजामुखे | मतः श्रीवासुदेवस्य तस्मादागम उच्यते || वक्त्रेभ्य इति बहुवचनं पञ्चाम्नायलाभार्थम् | तथा च कुलार्णवे मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः | पूर्वपश्चिममतश्चैव दक्षिणोत्तरतस्तथा | ऊर्ध्वं नयत्यधःसंस्थमूर्ध्वाम्नाय इतीरितः || यावन्तः पांशवो भूमेस्तावन्तः समुदीरिताः | एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः || सर्वेषामेव मन्त्राणां देवता तत्फलप्रदा | इति वचनेभ्यो वासुदेवस्य मतः सम्मत इत्यर्थः | तेन वेदाविरुद्धत्वाल्लाभान्नागमव्युदासः | सदागम एवागमशब्दस्य मुख्यत्वात् | अत एवागस्त्यसंहितायामसदागमस्य निन्दामाह शिवः कलौ प्रायेण देवेशि ! राजसास्तामसास्तथा || निषिद्धाचरणाः सन्तो मोहयन्त्यपरान् बहून् | आवाभ्यां पिशितं रक्तं सुरां चैव सुरेश्वरि || वर्णाश्रमोचितं धर्ममविचार्यार्पयन्ति ये | भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः || इति वचनात् श्रीक्रमेऽपि न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्(दा)चन | ब्राह्मणो वामकामोऽपि मद्यं मासं न भक्षयेत् || देव्याश्च पश्चिमे भागे चक्रपार्श्वे निवेदयेत् | तत्तद्द्रव्यं तु शूद्रस्य नान्येषां च कदाचन || वैश्यस्य माक्षिकं शुद्धं क्षत्रियस्य तु साज्यकम् | ब्राह्मणश्च गवां क्षीरं ताम्रे वा विसृजेन्मधु || नारिकेलोदकं कांस्ये सर्वेषां द्रव्यशोधनम् || इति || अन्यत्रापि गोक्षीरं ब्राह्मणो दद्याद् गव्यमाज्यं च बाहुजः | वैश्यैश्च माक्षिकं देयं शूद्रः पैष्ट्यादिकं चरेत् | पैष्ट्यादिकमित्यत्र पौष्णादिकमिति पाठो दृश्यते, तथात्वे शूद्रस्याप्यनुकल्पः | तथा च पूर्वत्र नारिकेलोदकं कांस्ये सर्वेषां द्रव्यशोधनम् | इत्युक्तेः || देव्याश्च पश्चिमे भागे चक्रपार्श्वे निवेदयेत् | तत्तद्द्रव्यं तु शूद्रस्य नान्येषां तु कदाचन || इति वचनात् तथा चान्यत्र बहुषु तन्त्रवचनेषु शूद्रस्य मुख्यद्रव्यादिदानस्य विहितत्वात् परस्पर विरोधे विकल्पाश्रयणम्, अतस्तेषां (शूद्राणां) सुरादानस्य ऐच्छिकत्वमायातम् | न केवलं द्रव्याभाव एव शूद्रस्यानुकल्पो विधीयते | अपितु द्रव्यादिसत्त्वेऽपि स्वेच्छया शूद्रोऽनुकल्पेनापि पूजां कर्तुमर्हतीति सर्वमनवद्यमिति || तथा गुरुणा दीक्षितः शिवशक्तिभ्यां प्रोक्तमन्त्रयोगसमाश्रयेण साधकः कृतार्थो भवत्येव | तथा चागमसारे शिवेन परया शक्त्या द्वाभ्यां कृत्स्नं समुद्धृतम् | वाच्यवाचकभावेन द्वाभ्यां ब्रह्म प्रकाशितम् || इति दीक्षाशब्दार्थः दीक्षाशब्दार्थमाह यामले दीप्तज्ञानं तु या दद्यात् कुर्यात् पापक्षयं तथा | तेन दीक्षेति लोकेऽस्मिन् कीर्तितं तन्त्रपारगैः || अदीक्षितार्चननिन्दा उपचारसहस्रैस्तु पूजिता भक्तिसंयुतैः | अदीक्षितार्चनं देवा न गृह्णन्ति कदाचन || तस्य कर्माखिलं व्यर्थं तस्माददीक्षितः पशुः | मन्त्रग्रहणनियमः क्रियासारे कल्पे दृष्ट्वा तु यो मन्त्रं जपेद् गुरुमनाश्रितः || सुतनाशो भवेत्तस्य फल किञ्चिन्न विद्यते | यामले गुरोर्मुखान्महाविद्यां गृह्णीयात् पापनाशिनीम् || तस्माद्यत्नाद् गुरुं कृत्वा मन्त्रसाधनमाचरेत् || गुरुशब्दार्थः गुरुशब्दार्थमाह यामले गुकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः | उकारः शम्भुरित्युक्तस्त्रितयात्मा गुरुः स्मृतः || गुरुलक्षणम् सारसंग्रहे विशुद्धमातापितृको जितेन्द्रियः सर्वागमज्ञः परदुःखकातरः | यथार्थवाग्वेदविदङ्गपारगः शान्तः कुलीनो गुरुरीरितो द्विजः || ब्राह्मणगुरुकरणविधिः द्विज इत्युपादानाद् ब्राह्मणेभ्यो मन्त्रग्रहणम् | तन्त्रे सदाचारो द्विजो यस्तु वर्णानां गुरुरेव सः | अन्यत्रापि स्वधर्मनिरतो भूत्वा कृत्वा द्विजगुरोर्मुखात् | सर्वसिद्धिमवाप्नोति शीघ्रं देवत्वमाप्नुयात् || शूद्रः शूद्रमुखाच्छ्रुत्वा विद्यां वा मन्त्रमेव वा | गृहीत्वा नरकं याति दुःखमाप्नोति निश्चितम् || दीक्षाफलम् नवरत्नेश्वरे सर्वेषामेव दीक्षाणां मुक्तिः फलखण्डितम् | अविशेषाद् भवत्येषा प्रासङ्गिकास्तु भुक्तयः || यामले दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयम् | ऐन्द्रलोकं क्षत्रियस्तु प्राजापत्यं तथा विशः || याति गन्धर्वनगरं शूद्रो दीक्षाप्रभावतः || शूद्रदीक्षाविचारः अत्र शूद्रदीक्षाधिकार श्रुतेः न शूद्राय मनुं दद्यात् इति वचनं वेदमन्त्रपरं देवताविशेषपरं मन्त्रविशेषपरं च | वाराहीतन्त्रे गोपालस्य मनुर्देयो महेशस्यापि पादजे | तत्पत्न्याश्चापि सूर्यस्य गणेशस्य मनुस्तथा | एष दीक्षाधिकारी स्यादन्यथा पापभाग् भवेत् || इति वचनात् देवतान्तरस्य मन्त्रे शूद्रानामधिकारः | नृसिंहतापनीये श्रुतिः सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति इति | सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः स मृतोऽधो गच्छति (१.३) इति च | लक्ष्मीं श्रीबीजं लक्ष्मीमन्त्रमित्यपि कश्चित् | गोपालस्य दशाक्षरः, श्यामाया द्वाविंशत्यक्षरश्च मन्त्रः स्वाहागर्भोऽपि शूद्राय देयः, सर्वषु वर्णेषु तथाश्रमेषु (१.४) इति क्रमदीपिकायां अभिधानात् | नात्र सिध्यपेक्षास्ति न चाऽमित्रादिदूषणम् | न चाऽधिकारचिन्ताऽत्र ग्रहणे कालिकामनोः || इति कालीकुलसर्वस्ववचनाच्च | तस्माद् गोपालदशाक्षरश्यामाद्वाविंशत्यक्षरमन्त्रग्रहणे शूद्रस्याधिकारः | ननु स्वाहा-प्रणवसंयुक्तं शूद्रे मन्त्रं ददद् द्विजः | शूद्रो निरयगामी स्याद् ब्राह्मणो यात्यधोगतिम् || इति देवीयामलवचनात् स्वाहा प्रणवान्वितमन्त्रेषु शूद्रस्यानधिकारप्रतीतेः प्रणवान्वित-गोपालमन्त्रे स्वाहागर्भित- द्वाविंशत्यक्षर श्यामामन्त्रे च कथं तस्याधिकार इति चेन्न | तन्त्रोक्तं प्रणवं देवि ! वह्निजायां च सुन्दरि | प्रजपेत् सततं शूद्रो नात्र कार्या विचारणा || इति भूतशुद्धिवचनेन तन्त्रोक्त-प्रणव-वह्निजायायोः शूद्रोच्चार्यता-प्रतिपादनात् तदेकवाक्यतया तन्त्रोक्त स्वाहाप्रणवान्वितेष्वेव मन्त्रेषु तस्याधिकारकल्पनात् | एवं यत्र यत्र स्वाहा प्रणवालीढे मन्त्रे शूद्रस्याधिकारोक्ति दृश्यते, तत्र न स्वरूपतः, अपितु वह्निजायादिस्थले मायाबीजादिप्रक्षेपेण | तथा चोक्तम् श्रीविष्णोः कोटिमन्त्रे च कोटिमन्त्रे शिवस्य च | शूद्राणामधिकारोऽस्ति स्वाहा-प्रणववर्जिते || वह्निजायास्थले मायां दत्त्वा शूद्रो जपेद्यदि | जपात् सिद्धीश्वरो भूत्वा परं ब्रह्माधिगच्छति || तस्मात् तन्त्रोक्त-प्रणवाद्यन्वितेष्वेव गोपालादिमन्त्रेषु शूद्राणामधिकार इति सर्वमवदातम् | स्त्रीगुरोर्दीक्षाग्रहणफलम् स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता | स्वप्नलब्धा च या दीक्षा तत्र नास्ति विचारणा || स्त्रिय इति पदं न सर्वस्त्रीपरम् | विधवाया न गुरुत्वम् | तदुक्तं तत्त्वसारे साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया | सर्वतन्त्रार्थसारज्ञा सधवा पूजनेरता | गुरुयोग्या भवेत्सा हि विधवां परिवर्जयेत् || यत्तु विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया | नाधिकारो विना नार्या भार्याया भर्तुराज्ञया || इति विधावाया गुरुत्वबोधकं वचनम्, तदमूलम् | समूलत्वेऽपि सिद्धमन्त्रो नरः सर्वमयोग्यं योग्यतां नयेत् | इति वचनैकवाक्यतया साधितमन्त्रविषयम् | मन्त्रोद्धारः गुरुदीक्षातन्त्रे मृतमप्यनुगच्छेत्तु विद्यामन्त्रो विशेषतः | मन एव मनुष्यस्य पूर्वकर्माणि शंसति || यदि न स्यान्महेशानि मनुष्यत्वं कथं भवेत् | दीक्षायां च कथं तस्य मनो भवति पार्वति || तस्मात्तु यत्नतो देवि पूर्वविद्यां समुद्धरेत् | मन्त्रलिखननियमः गुरुदीक्षातन्त्रे बकुलाश्वत्थवटकं पत्ररत्नं शृणु प्रिये ! | वटपत्रे महेशानि शक्तिमन्त्रं लिखेत् प्रिये || अश्वत्थे विष्णुमन्त्रं च बकुले शिवमन्त्रकम् | रक्तगन्धेन देवेशि काश्मीरैर्वा महेश्वरि || शक्तिमन्त्रं लिखेत् देवि चन्दनैर्विष्णुमन्त्रकम् | भस्मना शिवमन्त्रं च विलिखेत् परमेश्वरि || विलिखेदिति सप्तसप्तषु पत्रेषु तत्तद्देवतायाः मन्त्रं लिखेदित्यर्थः | प्राणप्रतिष्ठां तन्मन्त्रे कारयेद्यत्नतः सुधीः | तत्तद् देवतायाः प्राणप्रतिष्ठां कुर्यादित्यर्थः | यथाशक्त्युपचारेण सम्पूज्य परमेश्वरि || ततः शिष्यश्चार्घ्यपात्रं हस्ते कृत्वा महेश्वरि | अनेन मनुना मन्त्री भास्कराय निवेदयेत् || अर्घ्यद्रव्यम् अर्घ्यद्रव्यमाह आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु | रक्तानि करवीराणि तथा रक्तं च चन्दनम् || अष्टाङ्गं एषकोऽर्घ्यो वै भानवे परिकीर्तितः | गान्धर्वे न दद्याद् भास्करायार्घ्यं शङ्खतोयैर्महेश्वरि | अर्घ्यदानमन्त्रः ओं भो देव पृथिवीपाल सर्वशक्तिसमन्वित | ममार्घ्यं च गृहाण त्व पूर्वविद्यां प्रकाशय || अर्घ्यं दत्त्वा नमस्कृत्य कृताञ्जलिः पठेत्ततः | ओं सूर्यः सोमो यमः कालो महाभूतानि पञ्च वै | एते शुभाशुभस्येह कर्मणो नव साक्षिणः || सर्वे देवा शरीरस्था मम मन्त्रस्य साक्षिणः | पूर्वजन्मार्जितं विद्यां मम हस्ते प्रदापय || शाक्तिकीदीक्षा पठित्वेदं महेशानि सत्त्वरं पत्रमुद्धरेत् | उद्धृत्य पत्रमेकं तु गुरोर्हस्ते प्रदापयेत् || गुरुस्तु अक्षरश्रेणीमधीत्य परमेश्वरि | सेतुं दत्त्वा महेशानि तन्मन्त्राष्टशतं जपेत् || शिष्यस्य मस्तके हस्तं दत्त्वा चाष्टशतं जपेत् | (अन्यत्र-गुरुस्तु प्राङ्मुखो भूत्वा शिष्यः प्रत्यङ्मुखस्थितः |) त्रिवारं दक्षिणे कर्णे वामकर्णे तथा सकृत् | स्त्रीशूद्रविषये कुर्याद् वैपरीत्येन चिन्तनम् || एतच्च विष्ण्वादिविषयम् | शक्तौ च आचम्य संयतो भूत्वा प्राणायामं विधाय च | अष्टोत्तरशतं जप्त्वा ॠष्यादिकसमन्वितम् | अष्टकृत्वा वदेन्मन्त्रं वामकर्णे सुरेश्वरि || इयं दीक्षा सर्वतन्त्रे शाक्तिकी परिकीर्तिता | गुरोर्लब्ध्वा महाविद्यां अष्टोत्तरशतं जपेत् || गुरवे दक्षिणां दद्याद् वित्तशाठ्यं न कारयेत् | गुरवे गुरुपुत्राय तत्पत्न्यै वा प्रदापयेत् || कुलार्णवे श्रीगुरौ प्रीतिमापन्ने देवताप्रीतिमाप्नुयात् | देवे च प्रीतिमापन्ने मन्त्रसिद्धिर्भवेद् ध्रुवम् || पत्ररत्नप्रदानेन दीक्षां कुर्यात् कलौ युगे | ततः सिद्धो भवेन्मन्त्री नात्र कार्या विचारणा || एतज्ज्ञानं विना देवि दीक्षां कुर्याच्च यो नरः | दीक्षा तु विफला तस्य चान्ते हि नरकं व्रजेत् || ततः शिष्यो महेशानि प्रणमेद् दण्डवद् भुवि | त्वत् प्रसादादह देव कृतकृत्योऽस्मि सर्वतः | मायामृत्युमहापाशाद् विमुक्तोऽस्मि शिवोऽस्मि च || एवमाभाष्य देवेशि ! श्रीगुरोश्चरणान्तिके | पतितस्तन्मनाः शिष्यस्तिष्ठेद् भूमौ तु वाग्यतः || अनुज्ञां श्रीगुरोर्यावन्न लभेतोत्थितुं प्रिये ! | उत्थापयेद् गुरुः शिष्यं मन्त्रमेतं समुच्चरन् || उत्तिष्ठ वत्स ! मुक्तोऽसि सम्यगाचारवान् भव | कीर्तिः श्रीः कान्तिमेधायुर्बलारोग्यं सदास्तु ते || योगिनीहृदये मन्त्रं दत्त्वा चोपवासं गुरुर्नैव समाचरेत् | महान्धकारनरके कृमिर्भवति चान्यथा || दीक्षां लब्ध्वा यदा मन्त्री चोपवासं समाचरेत् | तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम् || उपदेशदीक्षा तत्वसारे चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये | मन्त्रमात्रप्रकथनमुपदेशः स उच्यते || रुद्रयामले श्यामायां भैरवी ताराच्छिन्नमस्तासु भैरवे | मज्जुघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः || तत्रापि गुह्यकालीविषये पञ्चायतनीदीक्षाऽस्त्येव | यथा विश्वसारे भूपुरेषु चतुष्कोणे पूजयेत् क्रमशः सुधीः | विष्णुं शिवं गणेशं च सूर्यं शक्तिं यथाक्रमात् | पूजयेच्च महेशानि प्रधानं मध्यतो न्यसन् || दीक्षायां चक्रादिविचारस्यानावश्यकत्वम् || यः कुर्याच्चक्रगणनां दीक्षायां पशुपामरः | स भ्रष्टः स च पापिष्ठो विष्ठायां जायते कृमिः || किं ॠणैः किं धनैर्वापि राश्यादिकविचारणैः | सिद्धसाध्यसुसिद्धारिविचारं परिवर्जयेत् || नास्ति सत्यं महेशानि नक्षत्र्यादिविचारणा | राश्यादिगणना नास्ति शङ्करेणेति भाषितम् || आगमकल्पद्रुमे रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किञ्चिन्न विचार्यं कथञ्चन || यामले शरत्काले युगाद्यायां ग्रहणे चन्द्रसूर्ययोः | बोधने चैव दुर्गायाः कालाकालं न शोधयेत् || कालविशेष-मन्त्रविशेषग्रहणनियमः मत्स्यसूक्ते ग्रहणे च महातीर्थे नास्ति कालस्य निर्णयः | सोमग्रहे विष्णुमन्त्रं सूर्ये शक्तिं न चाचरेत् || यामले सूर्यग्रहे शक्तिमन्त्रं न प्रदद्याज्जिजीविषुः | न गृह्णीयादपि तथा यदीच्छेदात्मनो हितम् || तत्र विशेषविधिः अत्र शक्तिपदं पञ्चमीपरम्, प्रकरणादित्युदयकरः | अत एव श्रीकामकालीबीजानि लोपादौर्गश्च यो मनुः | सूर्यस्योपग्रहे लब्धो नृणां शीघ्रफलप्रदः || इति यामलवचनमपि सङ्गच्छते | पराश्रीकामबीजानीति कुलमूलावतारे पाठः | पूर्ववचने शक्तिमन्त्रपदं श्रीबीजाद्यतिरिक्तमन्त्रपरमिति तु शिवदीक्षाटीकाकृतः | यामले लग्ने वाप्यथवाऽलग्ने यत्र कुत्र तिथावपि | गुरोराज्ञानुरूपेण दीक्षा कार्या विशेषतः || न तिथिर्न व्रतं पूजा न स्नानं न जपक्रिया | दीक्षायां कारणं किञ्चित् स्वेच्छाप्राप्ते च सद्गुरौः || सर्वे वाराः ग्रहाः सर्वे नक्षत्राणि च राशयः | यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || मन्त्राणां दशसंस्कारम् अथ दशसंस्कारमाह शारदायाम् (२.११२) जननं जीवनं पश्चात्ताडनं बोधनं तथा | अथाभिषेको विमलीकरणाप्यायने पुनः || तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः | मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् || मातृकावर्णास्तु अकारादिक्षकारान्ताः | मातृकावर्णास्तु अकारादिक्षकारान्ता मातृकार्णाः प्रकीर्तिताः इति तन्त्रगन्धर्ववचनात् | मातृकायन्त्रलेखनमाह भूमौ गोमयलिप्तायां विलिख्याऽष्टदलान्वितम् | चन्दनाद्यैः कठिन्या वा तार्त्तीयं कर्णिकागतम् || द्विर्द्विः स्वरान् केशरेषु वर्गानष्टदलेषु च | तार्त्तीये हसौः कादिमान्ताः पञ्चवर्गा मातृकाः क्रमशोदिताः | यादिवान्ताः शादिहान्ता लक्षणे विलिखेत्ततः || इति मातृकायन्त्रम् | तस्माच्च गन्धपङ्केन भूर्जादौमन्त्रमुद्धरेत् | प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः | एतज्जीवनमित्याहुमन्त्रतन्त्रविशारदाः || दशधा शतधा वा जपः | यथा विश्वसारे पृथक् शतं वा दशधा मन्त्रवर्णान् जपेत् सुधीः | मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा || प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् | तन्त्रान्तरे ताडनं ताडयेद् वर्णानखिलांश्चन्दनाम्भसा | शतं वा दशधा वापि बोधयेत्तु मनुं ततः | विलिख्य मन्त्रं तन्मन्त्री प्रसूनैः करवीरजैः | तन्मन्त्राक्षरसंख्यातैर्हन्याद् यान्तेन बोधनम् || यान्तेन रमिति बीजेन | स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया | अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || तन्त्रान्तरे मन्त्रस्य चामुकं वर्णमभिषिञ्चामि हृद्युतम् | अभिषिञ्चेदष्टधा वा प्रत्येकमभिषेचनम् | कुशोदकेन दुग्धेनाऽभिषेचनमुदाहृतम् || इति | साञ्चिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् | मन्त्रे मलत्रयं मन्त्री विमलीकरणं त्विदम् | तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः || मनुश्चतुर्दशस्वरो दण्डी अनुस्वारः | तेन ओं ह्रौं इति | कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः | तेन मन्त्रेण विधिवदेतदाप्यापनं मतम् || अन्यत्र अमुकमन्त्रं तर्पयामि नम इत्यम्भसा च तम् | मधुना शक्तिमन्त्रे वैष्णवे चेन्दुमज्जलैः || शैवे घृतेन दुग्धेन तर्पणं समुदीरितम् | दशधा तर्पयेत्तावदिति तर्पणम् | तारमायारमायोगे मनोर्दीपनमुच्यते | शतमष्टोत्तरं चैव दीपयेत् साधकोत्तमः || इति | तन्त्रान्तरे सप्तधा दीपनमिति | जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् || इति मन्त्राणां दशसंस्काराः | इष्टदेवस्य नित्यपूज्यत्वकथनम् विश्वसारे ग्रहीत्वा च महाविद्यां जपेज्जीवावधि प्रिये | महागुरुनिपातादौ न पूजायां विकल्पना || मोहाद्वा यदि वा दैवात् पूजयेन्न च साधकः | तस्य सर्वविनाशः स्यान्मारयेत्तं सदाशिवः || अशुचौ वा शुचौ वापि सर्वदेशेऽपि सर्वदा | पूजयेत् परया भक्त्या नात्र कार्या विचारणा || रुद्रयामले पूजयेन्मृतके वाऽपि जनने सरुजोऽपि वा | सर्वत्रैष विधिः प्रोक्तः सर्वकामफलप्रदः || सूतकिनः पूजाविधिः अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम् | स्नात्वा नित्यं च निर्वर्त्य मानस्या क्रियया तु वै | बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् || देवीविषये बाह्यपूजा कर्तव्या विशेषविधानात् | तथा चोक्तं वाराहीतन्त्रे तारायाश्चैव काल्याश्च त्रिपुरायाश्च सुव्रते | सूतके मृतके चैव न त्यजेयुर्जपार्चनम् || यामले अशुचिर्वा शुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि | न दोषो मानसे जाप्ये सर्वदेशेऽपि सर्वदा || विश्वसारे जाग्रत्शयान उत्तिष्ठन् गच्छन् भुञ्जान एव वा | सिद्धमन्त्रे न दोषः स्यादशौचेऽपि जपेत् सदा | न कल्पना दिवा रात्रौ न च सन्ध्यावसानके || अथ गुरुमाहात्म्यम् गुरुः सर्वसुराधीशो गुरुः साक्षी कृताकृते | सम्पूज्य सकलं कर्म कुर्यात्तस्याज्ञया सदा || गमनं पूजनं जापं भोजनं मननं तथा | गृहीत्वाज्ञां गुरोः कुर्यात्तस्य सिद्धिर्विना जपात् || तन्त्रे त्रिसन्ध्यं श्रीगुरोर्ध्यानं त्रिसन्ध्यं पूजनं गुरोः | त्रिसन्ध्यं भावेयेन्नित्यं गुरुं परमकारणम् || स्वगुरुं हि विना देवि ! नान्यं च गुरुमर्चयेत् | प्रत्यक्षो वा परोक्षो वा प्रत्यहं प्रणमेद् गुरुम् || एकग्रामे स्थितो नित्यं त्रिसन्ध्यं प्रणमेद् गुरुम् | क्रोशमात्रं स्थितो भक्त्या गुरुं प्रतिदिनं नमेत् || अर्द्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु | एकयोजनमारभ्य योजनद्वादशावधिः || तत्तत्संख्यागतैर्मासैः प्रणमेत् श्रीगुरुं प्रिये | यदि दूरे च चार्वङ्गि श्रीगुरुर्नगनदिनि | संवत्सरस्य मध्ये तु द्विवारं पूजयेद् गुरुम् || द्विवारमिति एकधोत्तरायणे एकधा दक्षिणायने इत्यर्थः | एवं यो नाचरेद् देवि ! स भवेद् ब्रह्मराक्षसः | एकत्र गुरुणा सार्द्धं स्वपित्युपविशेच्च यः || स याति नरकं घोरं यावदिन्द्राश्चतुर्दशः | तन्त्रे गुरुमालोकयन् शिष्य उत्तिष्ठन्नासनं त्यजेत् || जातिविद्याधनाढ्योऽपि दूरे दृष्ट्वा गुरुं मुदा | प्रणमेद् दण्डवद् भूमौ प्रदक्षिणमथाचरेत् || आयान्तमग्रतो गच्छेद् गच्छन्तं तमनुव्रजेत् | प्रणम्य प्रवसेत् पार्श्वे तदा गच्छेदनुज्ञया || मुखावलोकी सेवेत् कुर्यादाज्ञादिमादरात् | असत्यं न वदेदग्रे न बहुप्रलपेदपि || ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् | न कुर्याद् गुरुणा सार्द्धं शिष्यो भूत्वा कथञ्चन || गुरुर्माता पिता स्वामी बान्धवाश्च सुहृद् गुरुः | इत्याधाय मनो नित्यं यजेत् सर्वात्मा गुरुम् || गुरोरग्रे पृथक् पूजामौद्धत्यं च विवर्जयेत् | दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे परित्यजेत् || आसनं शयनं वस्त्रं भूषणं पादुकां तथा | छायां कलत्रमन्यद् वा यद् दृष्टं तत् सुपूजयेत् || यथा देवे मन्त्रे यथा मन्त्रे तथा गुरौ | यथा गुरौ तथा स्वात्मन्येवं भक्तिक्रमः स्मृतः || गुरुशययासनं यानं पादुकोपानहौ तथा | स्नानोदकं तथाछायां लङ्घयेन्न कदाचन || अन्यत्रापि देवच्छायां गुरुच्छायां शक्तिच्छायां न लङ्घयेत् | प्रमादतोऽपि चेद् देवि ! गुरोरग्रे प्रपूजयेत् || स याति नरकं घोरं सा पूजा निष्फला भवेत् | रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम् || फलपुष्पान् वरीदनि यथाशक्त्या समर्पयेत् | भक्त्या शक्त्यनुसारेण गुरुमुद्दिश्य यत्कृतम् || स्वल्पं वा बहुलं तुल्यं फलमाढ्यदरिद्रयोः | गुर्वर्थे कृपणो देवि ! रौरवं नरकं व्रजेत् || गुरुवाक्यं मृषा कृत्वा आत्मवाक्यं तु स्थापयेत् | गुरुं जेतुमना यः सः पच्यते नरकार्णवे || गुरोर्नाम न भाषेत जपकालादृते क्वचित् | ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नगनन्दिनि || भुञ्जते विबुधा भक्त्या गुरोरुच्छिष्टमुत्तमम् | आगच्छेद् यदि चार्वङ्गि ! गुरुः शिष्यस्य मन्दिरे || शिष्यस्य मन्दिरं देवि कोटिसूर्यग्रहैः समम् | चन्द्रग्रहणकालो हि तद्दिनं वरवर्णिनि || गुरोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते | गुरुं वा गुरुपुत्रं वा पत्नीं वा वरवर्णिनि || विलङ्घ्य यदि चार्वङ्गि गच्छेत् साधकसत्तमः | तत्क्षणाच्चञ्चलापाङ्गि नरकं चोत्तरोत्तरम् || उत्तरकल्पे साक्षाद्वापि परोक्षे वा गुरोराज्ञां समाचरेत् | (परोक्षे तदनुज्ञानं विधानं शृणु शङ्करि) || पूजाकाले च चार्वङ्गि आगच्छेच्छिष्यमन्दिरम् | गुरुर्वा तत्सुतो वाऽपि तत्पत्नी वा महेश्वरी || तदा पूजां परित्यज्य पूजयेत् स्वगुरुं प्रिये | यद्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोत्यपि || तिरश्चां योनिमागच्छेत् क्रव्यादैर्भक्ष्यते सदा | सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च || स्तुत्वा करपुटं कृत्वा मनसा ध्यानतत्परः | विहितं विदधे नाथ ! विधेयं यत्कृपां कुरु || अविरुद्धं भवत्वत्र तत्त्वदीयप्रसादतः | इति मन्त्रेण सम्प्रार्थ्य तदादिष्टं समाचरेत् || महिषमर्दिनीतन्त्रे श्रीदेव्युवाच देवदेव महादेव कृपया परमेश्वर | गुरुपूजाविधानं मे विस्तराद् वद शङ्कर ! || ईश्वर उवाच दिव्यं वीरं च चार्वङ्गि पूर्वोक्तं बहुशः प्रिये | मानवस्य क्रमं देवि संक्षेपान्निगदामि ते || गुरुः परगुरुश्चैव परापरगुरुस्तथा | स्वगुरुः परमेशानि साक्षाद् ब्रह्म न संशयः || तद् गुरुः स्यात् परगुरुः स्वयं विष्णुः क्षितौ सदा | परापरगुरुस्तस्य गुरुः साक्षात्महेश्वरः | गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | अत-एव महेशानि साक्षाद् ब्रह्ममयो गुरुः || अखण्डमण्डलाकारं सर्वव्यापिनमीश्वरम् | सर्वेशं सर्वदं देवं प्रणमामि पुनः पुनः || पुरस्तात् पार्श्वयोः पृष्ठे नमस्तुभ्यं नमोनमः | त्रिसन्ध्यं श्रीगुरोर्ध्यानं त्रिसन्ध्यं पूजनं गुरोः || त्रिसन्ध्यं भावयेन्नित्यं गुरुं परमकारणम् | गुरुं विना वरारोहे ! नास्ति सिद्धिः कदाचन || गुरुं स्मृत्वा महेशानि दिवसे दिवसे प्रिये | पूजयेद् मानसैर्गन्धैर्धूपैर्दीपैस्तथोत्तमैः || भक्ष्यैर्भोज्यैस्तथा पेयैर्दधिदुग्धैरनेकधा | पनसैर्नारिकेलैश्च तथा रम्भाफलैः प्रिये || अन्नैर्नानाविधैर्देवि पूजयेत् स्वगुरुं प्रिये | स्वगुरुं हि विना देवि नान्यं च गुरुमर्चयेत् || (मत्स्यैर्मांसैर्महेशानि पूजयेद् भक्तितः प्रिये |) गन्धैर्माल्यैश्च चार्वङ्गि पूजयेद् भक्तितः सदा || स्वर्णैश्च पट्टवस्त्रैश्च तथा कार्पाससम्भवैः | अविचित्रैर्विचित्रैश्च अतिसूक्ष्मैर्मनोहरैः || आसनैर्विविधैर्देवि रक्तकम्बलसंयुतैः | तथा नानाविधैर्द्रव्यैः पूजयेत् स्वगुरुं सदा || अलङ्कारैस्तथा देवि विविधैः स्वर्णनिर्मितैः | राजतैश्चैव चार्वङ्गि स्वगुरुं पूजयेत् सदा || गुरोर्मन्त्रं महेशानि प्रजयेत् सुरवन्दिते | गुरोः पत्नीं महेशानि पूजयेद् विधिनाऽमुना || गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु | प्रत्यहं पूजनं कार्यं चामुना विधिना प्रिये || गुरोरभावे चार्वङ्गि गुरुपत्नीं च पूजयेत् | तदभावे वरारोहे गुरुकन्यां च पूजयेत् || तदभावे महेशानि गुरुस्नुषां प्रपूजयेत् | एषामभावे चार्वङ्गि गुरोर्गोत्रं प्रपूजयेत् || गोत्राभावे वरारोहे तथा मातामहं गुरोः | मातुलं मातुलानीं वा पूजयेद् विधिनाऽमुना || यदि नो पूजयेद् देवि अनेन विधिना प्रिये | प्रायश्चित्ती भवेद् देवि तत्क्षणात् स च साधकः || संवत्सरस्य मध्ये तु न गच्छेत् यदि साधकः | मन्दिरं गुरुदेवस्य सदा काशीपुरीसमम् || काशी समं महेशानि यः पश्येद् गुरुमन्दिरम् | शिवतुल्यो भवेद् देवि तत्क्षणात् स च साधकः || गुरोर्गेहं समासाद्य उच्छिष्टभक्षणं चरेत् | तदैव सहसा सिद्धिः साधकस्य भवेत् प्रिये || अभुक्त्वा गुरुदेवस्य चोच्छिष्टं वरवर्णिनि | विद्यां वा परमेशानि मन्त्रं वा नगनन्दिनि || न जपेत्तु कदाचित्तु कुत्रचित् क्वचिदेव हि | तन्मुखं चञ्चलापाङ्गि विष्ठाकूपसमं प्रिये || उच्छिष्टभक्षणाद् देवि मुखस्य शोधनं प्रिये | ब्राह्मणाः क्षत्रियो वैश्याः शूद्राश्च नगनन्दिनि || भुञ्जते विविधं भक्त्या गुरोरुच्छिष्टमुत्तमम् | गुरोरुच्छिष्टमन्नं च सदानन्दमयं प्रिये || गुरुं वा गुरुपुत्रं वा पत्नीं वा वरवर्णिनि | विलङ्घ्य यदि चार्वङ्गि गच्छेत् साधकसत्तमः || तत्क्षणाच्चञ्चलापाङ्गि नरकं चोत्तरोत्तरम् | मन्दिरं गुरुदेवस्य कुटीरं यदि पार्वति | कैलाशसदृशाकारं तदेव नगनन्दिनि || यद् यदिष्टतमं लोके साधकस्य शुचिस्मिते | तत्सर्वं गुरवे दद्याद् भक्त्या परमयत्नतः || तदैव सहसा देवि मन्त्रसिद्धिः प्रजायते | गुरोराज्ञां समादाय प्रजपेदनिशं यदि || तदैव सहसा सिद्धिरष्टसिद्धीश्वरो भवेत् | पूजाकाले च चार्वङ्गि आगच्छेच्छिष्यमन्दिरम् || गुरुर्वा गुरुपुत्रो वा पत्नी वा वरवर्णिनि | तदा पूजां परित्यज्य पूजयेत् स्वगुरुं प्रिये || देवतापूजनार्थं च गन्धपुष्पादिकं प्रिये | तत्सर्वं गुरवे दत्त्वा पूजयेन्नगनन्दिनि | तदैव सहसा देवि देवता प्रीतिमाप्नुयात् || रुद्रयामले गुरुर्वा गुरुपत्नी वा पुत्रो वापि समागतः || ज्येष्ठो वाप्यर्चनामध्ये शिष्यः सर्वार्चनां त्यजेत् | आज्ञया पूजयेच्छिष्य इति शास्त्रस्य निर्णयः || गन्धैः पुष्पैस्तथा धूपैस्तथा नैवेद्यकैरपि | पूजयेद् विविधैर्भक्त्या स्वगुरुं तत्सुतं च वा || (गुरुदेवो हरः साक्षात्तत्पत्नी हरवल्लभा | गुरुपुत्रो गणेशः स्याद्विभाव्य पूजनं चरेत्) || गुरुपत्नी महेशानि साक्षाद् देवीस्वरूपिणी | गणेशसदृशं देवि गुरुपुत्रं विभावयेत् || शिष्यस्य तद्दिनं देवि कोटिसूर्यग्रहैः समम् | चन्द्रग्रहणकालं हितद्दिनं वरवर्णिनि || गुरोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते | तत्क्षणाञ्चञ्चलापाङ्गि दानं दद्याद्विचक्षणः || स्वर्णगोतिलवस्त्राणा रजतस्य विशेषतः | गुरोः प्रीतिं समुद्दिश्य दानं कुर्याद् विचक्षणः || श्रीगुरौ प्रीतिमापन्ने देवताप्रीतिमाप्नुयात् | प्रीतायां देवतायां तु मन्त्रसिद्धिर्भवेद् ध्रुवम् || गुरोः समीपे चार्वङ्गि न मिथ्या चोच्चरेत् क्वचित् | गुरोरङ्गो महेशानि देवताकारमुत्तमम् || गुरोः कृपा महेशानि पूजामूलं महत् पदम् | गुरोर्वाक्यं मन्त्रमूलं परंब्रह्म स्वयं गुरुः || अनेन विधिना देवि प्रत्यहं भावयेद् गुरुम् | तदैव सहसा सिद्धिर्जायते कमलानने || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्दगिरिकृतायां शाक्तानन्दतरङ्गिण्यां दीक्षानिर्णयो नाम द्वितीयोल्लासः || २ || तृतीयोल्लासः योगनिर्णयः विना चोपासनां देवी न ददाति फलं नृणाम् | तन्त्रे ध्यातः स्मृतः पूजितो वा तुस्तोवा नमितोऽपि वा | ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः || इत्यादिषु पूजादिकं विना चतुर्वर्गफलं न सम्भवतीति ज्ञायते | विग्रहसृष्टिकारणम् निर्गुणस्य ब्रह्मणः केन प्रकारेण पूजादिकं कार्यं, शरीररहितत्वात् | केन प्रकारेण वा तन्मुक्त्यादिकं दातुं शक्यते ? अत एव साधकानां हितार्थाय सगुण-निर्गुणभेदाद् ब्रह्मणो द्वैविध्यमाह श्रीरामतापनीयश्रुतौ कुलार्णवे च चिन्मयस्याऽद्वितीयस्य निष्फलस्याऽशरीरिणः | उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना || अस्यार्थः चिन्मयस्य ज्ञानमयस्य | मार्कण्डेय पुराणे चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् | अद्वितीयस्य एकस्य | तथा चोक्तं योगिनीहृदये एकं हि परमं ब्रह्म नानात्वेन निरूप्यते | स्थूल-सूक्ष्मविभेदेन परं ब्रह्मस्वरूपिणी || गोपालतापनीयश्रुतिरपि एकमेव परं ब्रह्म मायया तु चतुष्टयम् || तस्माद् ब्रह्मैव पुंरूपेण स्त्रीरूपेण च माययैव नटवद् बहुधा भवति | बहुरूप इवाभाति मायया बहुरूपया इति श्रुतेः | निष्कलस्य कला माया तया रहितस्य | आग्नेयपुराणे सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः | देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः || हरिरित्युपलक्षणम् | यामले सगुणा निर्गुणा चेति महामाया द्विधा मता | सगुणा मायया युक्ता हीना तु निर्गुणा || अशरीरिणः मुखहस्तपादाद्यवयवावच्छिन्न शरीररहितस्य | भूतशुद्धौ निष्फलं परमं ब्रह्म कुतः प्रीतिः कुतः सुखम् | निराकारं निरीहञ्च रहितं त्विन्द्रियेण | जन्मकर्माणि सर्वाणि ब्रह्मणो नास्ति भामिनि || प्रकृतेः सन्ति भाविनीति पाठश्च | उपासकानां सभक्तिकज्ञानकर्मयोगवतामित्यर्थः | लैङ्गे सर्वेषामेव मर्त्यानां विभोर्दिव्यवयुः शुभम् | सकलं भावनायोग्यं योगिनामपि निष्फलम् || योगिनां कर्मयोगज्ञानयोग भक्तियोगवतामित्यर्थः | आग्नेय पुराणे साधुनामप्रमत्तानां भक्तानां भक्तवत्सलः | उपकर्ता निराकारस्तदाकारेण जायते | कार्यार्थं साधकानाञ्च चतुर्वर्गफलप्रदः || तथाचोक्तं मार्कण्डेय पुराणे आराधिता सैव नृणां भोगस्वर्गापवर्गदा | बृहन्नारदीये भक्तानां मोक्षदानाय भवतो मूर्तिकल्पना || आराधना-लक्षणम् आराधना तु ध्यानं पूजा च | ते च भेदज्ञानपूर्विके भोगस्वर्गप्रदे | अभेदज्ञानपूर्विके तु मुक्तिप्रदे | तदर्थञ्च ब्रह्मकर्तृकरूपकल्पना इत्यर्थः | ध्यानन्तु तत्तद्देवतायास्तत्तन्मन्त्र घटकीभूत तत्तद्वर्णोत्पन्न मुखहस्तपादाद्यवयवाच्छिन्नशरीरविषयकज्ञानमिति तु निष्कर्षार्थः | तथाचोक्तं गरुडेऽपि अमूर्तश्चेत् स्थिरो न स्यात् ततो मूर्ति विचिन्तयेत् || ध्यानद्वैविध्यकथनम् यामलेऽपि स्थूलसूक्ष्मविभेदेनध्यानन्तु द्विविधं भवेत् | सूक्ष्मं मन्त्रपपुर्ज्ञानं स्थूलं विग्रहचिन्तनम् || करपादोदरास्यादि रूपं यत्स्थूलविग्रहम् | सूक्ष्मञ्च प्रकृते रूपं परं ज्ञानमयं स्मृतम् || सूक्ष्मध्यानं महेशानि कदाचिन्न हि जायते | स्थूलध्यानं महेशानि कृत्वा मोक्षमवाप्नुयात् || यामले देवतायाः शरीरन्तु बीजादुत्पद्यते ध्रुवम् | तत्तद्वीजात्मकं मन्त्रं जप्त्वा ब्रह्ममयो भवेत् || अदिष्टं भावयेद्देवि यथोक्तध्यानयोगतः | वर्णरूपेण सा देवी जगदाधाररूपिणी || बीजात्वर्णात् बीजपरिभाषामाह कुलचूडामणौ एकाक्षरं समुद्धृत्य पूर्वबीजं परं शक्तिरिति | पूर्वं कमिति | परमीकारः | रेफः कीलकम् गान्धर्वे नित्यमेकाक्षरं ब्रह्म अक्षरं परमं पदम् || सकृज्जप्त्वाऽक्षरं मन्त्रं ब्रह्मभूयाय कल्पते | जप्त्वा तं साधयेत् सर्वं बहुजापेन किं फलम् || स्थूलः सूक्ष्म एक एव | तथाचोक्तं यामले घृतस्य द्विविधं रूपं काठिन्यं स्वच्छता तथा | काठिन्ये स्वच्छतायान्तु घृतमेव न संशयः || पाद्मेऽपि दीपादुत्पद्यते दीपो यथा तद्वद् भविष्यति | इति वचनात् | अथवा पूज्य-पूजकयोरभेदञ्ज्ञानार्थं ब्रह्मणोरूपकल्पना | तथाचोक्तं कौर्मे मन्यन्ते ये तु चात्मानं विभिन्नं परमेश्वरात् | न ते पश्यन्ति तं देवं वृथातेषां परिश्रमः || ईश्वर इत्युपलक्षणम् | तथाचोक्तं रुद्रयामले सर्वदेवमयीं देवीं सर्वमन्त्रमयीं पराम् | आत्मानं चिन्तयेद्देवि परमानन्दरूपिणीम् || योगिनीरूपणम् अथ प्रसङ्गाद्योगज्ञानं लिख्यते | अथाऽपरं प्रवक्ष्यामि समाधिं भवनाशनम् || भवनाशनं जन्मनाशनमित्यर्थः | हृत्पद्मकर्णिकामध्ये ध्यायेत् सिंहं मनोहरम् | सिंहोपरि स्थितं पद्मं रक्तं तस्योर्ध्वगं शिवम् || तस्योपरि महादेवी रमते कामरूपिणी | सितप्रेतो महादेवो रक्तप्रेतोऽपि पद्मजः || ब्रह्मा लोहिपङ्कज इति वा पाठः | हरिर्हरस्तु विज्ञेयो वाहनानि महौजसः | ध्यायेच्च परमेशानि यथोक्त ध्यानयोगतः || देव्यात्मकं स्वमात्मानं भावयेद्यतमानसः | अस्यान्य(नु)रूपं यद्यत् तत् स्वकीयमिति भावयेत् || ऐवयं संभावयेन्नित्यं स्वगुरुदेवतात्मनाम् | श्रीक्रमेऽपि आत्मानं चिन्तयेद्देवि शक्ति माद्यास्वरूपिणीम् || मनसा वचसा चैव कायिकेन च चिन्तयेत् | अन्यत्रापि आत्माऽभेदेन सञ्चिन्त्य याति तन्मयतां नरः || सोऽहमित्यस्य सततं चिन्तनात् तन्मयो भवेत् | अहं देवी न चान्योऽस्मि मुक्तोऽहमिति भावयेत् || रुद्रस्य चिन्तनाद् रुद्रो विष्णु स्याद् विष्णु चिन्तनात् | दुर्गायाश्चिन्तनाद् दुर्गा भवत्येव न चान्यथा || एवमभ्यस्यमानस्तु अहन्यहनि पार्वति | जराभरणदुःखाद्यैर्मूच्यते भवबन्धनात् || ध्यानयोग-प्रशंसा ध्यानयोगपरस्याऽस्य पूजा नास्ति कथञ्चन || विनान्यासैर्विना पूजां विना जाप्य-पुरष्क्रियाम् | ध्यानयोगद्भवेत् सिद्धिर्नान्यथा खलु पार्वति || एतत्ते कथितं देवि ब्रह्मज्ञानमिदं महत् | विज्ञाय गुरुतो देवि संसारसागरं तरेत् || अहं ब्रह्मास्मि विज्ञानादज्ञानविलयो भवेत् | सोऽहमित्येव सञ्चिन्त्य विहरेत्सर्वदा प्रिये || यथा फेनतरङ्गादि समुद्रादुत्थितं मुने | समुद्रे लीयते तद्वद् जगदात्मनि लीयते || इति गन्धर्वतन्त्रोक्तयोगः || तस्मात्साधकानां हितार्थाय ब्रह्म स्त्रीपुंरूपं धत्ते | विष्णुयामले देवीं प्रति विष्णुवचनम् मातस्त्वत्परमं रूपं तन्न जानातिकश्चन | काल्यादि स्थूलं यद्रूप्ं तदर्चन्ति दिवौकसः || स्त्रीरूपां वा स्मरेद्देवीं पुंरूपां वा स्मरेत् प्रिये | स्मरेद् वा निष्कलं ब्रह्मसच्चिदानन्दरूपियत् || स्त्रीरूपावतार-लक्षणम् स्तनन्योन्याद्यवयवावच्छिन्न शरीराःस्त्रीरूपावताराः | तद्यथा काली नीला महादुर्गा त्वरिता छिन्नमस्तका | वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः || कामाख्यावासिनी बाला मातङ्गी शैलवासिनी | इत्याद्याः सकला विद्या कलौ पूर्णफलप्रदा || अन्यत्रापि उमेति केचिदाहुस्वां शक्तिं लक्ष्मीति चापरे | भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च || दुर्गेतिभद्रकालीति चण्डीं माहेश्वरीं तथा | कौमारीं वैष्णवीं वाराहीति चैन्द्रीति चापरे || ब्राह्मीति विद्याविद्येति मायेति च तथा परे | प्रकृतिं चापरां चैव वदन्ति परमार्षयः || पुरुषावतार-लक्षणम् शिश्नाद्यवयवावच्छिन्नशरीरावच्छिन्नावताराः पुंरूपाः | यथा ब्रह्मा-विष्णु-शिवादयः | एवं मत्स्य कूर्मो वराहश्च नृसिंहो वामनस्तथा | रामो रामश्च रामश्च बुद्ध-कल्की च ते दश || इत्यादि | नपुंसकं गृहस्थैरनुपास्यमेव, फलाजनकत्वात् | गृहस्थानाञ्च सर्वे स्युर्ब्रह्म वै ब्रह्मचारिणाम् | गृहस्थानाञ्च सर्वे स्यु रित्युपादानात् शिव-दुर्गा-विष्णु पुरस्कारेण उपासना कार्या | तथा च विमलानन्दभाष्ये कूर्मपुराणम् मनुष्याणामुमा देवी तथा विष्णुः सदाशिवः | या यास्याऽभिमता पुंसः साहितस्यैव देवता | किन्तु कार्याऽविशेषेण पूजिता स्वेष्टदा नृणाम् || नृणां मनुष्याणामभेदेन पूजाकार्या | शैवे देवीं प्रति ईश्वरवाक्यम् एकं प्रशंसति यस्तु सर्वानेव प्रशंसति | एकं निन्दति यस्तेषां सर्वानेव विनिन्दति || ईश्वरनिन्दाफलम् ईश्वरस्य प्रशंसायां न सुखं निन्दायां वा न दुखं, सुखदुःख रहितत्त्वात् | किन्तु निन्दकस्य नरकमेव | तथोचोक्तं भाष्ये देवी-विष्णु-शिवादीनामेकत्त्वं परिचिन्तयेत् | भेदकृन्नरकं याति यावदाहूतसंप्लवम् || आहूतसंप्लवं प्रलयकाल-पर्यन्तमित्यर्थः | वाराहे यथा दुर्गा तथा विष्णुर्यथा विष्णुस्तथा शिवः | एतप्लयमेकमेव न पृथग् भावेयेत् सुधीः || योऽन्यथा भावयेदेतान् पक्षपातेन मूढधीः | स याति नरकं घोरं रौखं पापपुरुषः || यामले ध्यानगम्यं प्रपश्यन्तिरुचिभेदात्पृथग् विधम् | तन्त्रे एकैव हिमहामाया नामभेदं समाश्रिता | विमोहनाय लोकानां तस्मात् सममना भवेत् || प्रवृत्तिमार्गसङ्गस्तु दीक्षाभेदेन पूजयेत् | निवृत्तिं मार्गमाणस्तु भेदवादं विवर्जयेत् || शक्त्युपासना-प्रशंसा शिवविष्णोरुपासनां त्यक्त्वा देव्या उपासना कर्तव्या, कोमलान्तः करणत्वात् भुक्तिमुक्तिदातृत्वाच्च | शिव- विष्णुरुपासनायां कायक्लेशेन मुक्तिमात्रम् | तथा च शारदायां भुवनेश्वरीं प्रति शिववाक्यम् आद्याप्यशेषजगतां नवयौवनासि शैलाधिराजतनयाप्यतिकोमलासि समयातन्त्रे कदाचित् कस्यमुक्तिः स्यात् कस्यचिद् मुक्तिरेव च | एतस्याः साधकस्याथ भुक्तिमुक्तिः करे स्थिता | रुद्रयामले यत्रास्ति भोगो नच तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | शिवापदाम्भोजयुगार्चकानां भोगश्च मोक्षश्च कस्थ एव | योऽन्येभ्यो दर्शनेभ्यश्च भुक्तिं मुक्तिञ्च कांक्षति | स्वप्नलब्धधनेनैव धनवान् किं भवेन्नरः || शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति | अथान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च कांक्षतः || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्द गिरिकृतायां शाक्तानन्दतरङ्गिण्यामभेदयोगनिर्णयो नाम तृतीयोल्लासः || ३ || चतुर्थोल्लासः अथ प्रातःकृत्यम् यामले प्रातःकृत्यमकृत्वा तुयो देवीं भक्तितोऽर्चयेत् | तस्य पूजा च विफला शौचहीना यथा क्रिया || ब्राह्ये मुहूर्ते चोत्थाय चिन्तयेद् गुरुदैवतम् | स्वमूर्द्धनि सहस्रारे शिवाख्य-परबिन्दुके || ब्राह्यमुहूर्तस्तु रात्रेरुपान्त्यो मुहूर्तः | तथा च यामले द्वौ दण्डौरात्रिशेषे तु ब्राह्यं मुहूर्तकं विदुः || श्रीगुरुध्यानम् गुरोर्ध्यानं यथा शशाङ्क युतसङ्काशं वराभयलसत्करम् | शुक्लाम्बरपरीधानं शुक्लमाल्यानुलेपनम् || वामोरौ रक्तशक्त्या चयुतं देवाख्यमव्ययम् | शिवेनैक्यं समुन्नीय ध्यायेत् परगुहं धिया || एवं ध्यात्वा पुरश्चैव पञ्चभूतमयैर्यजेत् | श्रीगुरुमानसपूजा गन्धतत्त्वं पार्थिवन्तु कनिष्ठांगुलियोगतः | शब्दमयं महापुष्पं प्रथमांगुलियोगतः | वायुरूपं महाधूपं तर्जनीभ्यां नियोजयेत् || तेजोरूपं महादीपं मध्यमाद्वत्य योगताः | अमृत भोजनं तद्वदमृतांगुलि योगतः || नमस्कारेणाऽञ्जलिना वाग्भवं ताम्बूलं स्मृतम् | स्वस्वबीजेन सर्वन्तु नमस्कारेण योजयेत् | गुरोर्मन्त्रं प्रयत्नेन प्रजपेत् सुदवन्रिते || गुरुमन्त्रः गुरुमन्त्रो यथा वाणी च भुवनेशानी रमा चैव सुरेश्वरि | तारत्रयमिदं देवि गुरुमन्त्रे प्रतिष्ठितम् || ततः स्वगुरु नामान्ते चानन्दनाथमालिखेत् | रक्तशक्तिपदान्ते च अम्बा पदमथालिखेत् || श्रीपादुकां समुच्चार्य पूजयामीति संजपेत् | तेजोरूपं समर्प्याथ स्तवेन तोषयेद् गुरुम् || श्यामारहस्ये- मनसा गन्धपुष्पाद्यैः सम्पूज्य वाग्भवं जपेत् | अथ कुब्जिका तन्त्रोक्तां स्तुतिं कुर्यात् || गुरुस्तुतिः ओं नमस्तुभ्यं महामन्त्रदायिने शिवरूपिणे | ब्रह्मज्ञानप्रकाशाय संसारदुःखतारिणे || अतिसौम्याय दिव्याय वीरायाऽज्ञानहाहिणे | नमस्ते कुलनाथाय कुलकौलोन्यदायिने || शिवतत्त्वप्रबोधाय ब्रह्मतत्त्वप्रकाशिने | नमोऽस्तु गुरवे तुभ्यं साधकाभयदायिने || अनाचाराचारभाव बोधाय भावहेतवे | भावाभाव विनिर्मुक्त-मूर्तये गुरवे नमः || भावाभावविनिर्मुक्तशाक्ताय इति वा पाठ्ययम् | नमोऽस्तु शम्भवे तुभ्यं दिव्यभावप्रकाशिने | ज्ञानानन्दस्वरूपाय विभवाय नमो नमः || शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे | कामरूपाय कामाय कग्मकेलि कलात्मने || कुलपूजोपदेशाय कुलाचारस्वरूपिणे | आरक्तनिजसच्छक्ति वामभाग विभूतये || नमस्तेऽस्तु महेशाय विद्यानाथाय संविदे | सर्वविद्यास्वरूपाय नमस्तेऽस्तु नमो नमः || इदं स्तोत्रं पठेन्नित्यं साधको गुरुदिङ्मुखः | प्रातरुत्थाय देवेशि अतोविद्या प्रसीदति || कुलसम्भवपूजायामादौ यो न पठेदिदम् | विफला तस्य पूजा स्यादभिचाराय कल्पते || इति कुब्जिका तन्त्रोक्तं श्रीगुरुस्तोत्रं समाप्तम् | अथ कवचमपि पठेत् | ततस्तु प्रणमेत् | श्रीगुरुप्रणाम मन्त्रः अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || षट्चक्र निरूपणम् अथ प्रसङ्गात् षट्चक्रव्यवस्था लिख्यते | तिस्रः कोट्यस्तदर्द्धेन शरीरे नाडयो मताः | तासु मुख्या दश प्रोक्तास्तित्रस्तासूत्तमा मताः || प्रधाना मेरुदण्डान्तश्चन्द्रसूर्यार्ग्निरूपिणी | शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा || पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा | मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा || सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी | दाडिमीकुसुमप्रख्या शिवाख्या चापरा मता || सुषुम्नान्तर्गता चित्रा चन्द्रकोटिसमप्रभा | सर्वदेवमयी सा तु योगिनां हृदयङ्गमा | तस्या मध्ये ब्रह्मनाडी मृणालतन्तुरूपिणी || मूलाधारचक्र कथनम् सुषुम्नाग्रन्थिसंस्थानि षट्पद्मानि यथाक्रमम् | आधाराख्यं मूलचक्रमतिरक्तं चतुर्दलम् | वादिसान्तार्णसंयुक्तं रक्तवर्णं मनोहरम् || कर्णिकायां स्थिता योनिः कामाख्या परमेश्वरी | तद्योनिः परमेशानि इच्छाज्ञानक्रियात्मिका || अपराख्यो हि कन्दर्प आधारे तत्त्रिकोणके | स्वयम्भूलिङ्ग तन्मध्ये सरन्ध्रं पश्चिमाननम् || ध्यायेच्च परमेशानि शिवं श्यामल-सुन्दरम् | कुण्डली तेन मार्गेण यातायातं करोति हि || भित्वा भित्वा पुरीं याति चायाति कुण्डली सदा | तत्र विद्युल्लतारूपा कुण्डली परदेवता || प्रसुप्तभुजगाकारा सार्द्धत्रिवलयान्विता | वामावर्तक्रमेर्णेव वेष्टिता विषतन्तुवत् || शिवं वेष्ट्य महेशानि सर्वदा परितिष्ठति | येन मार्गेण गन्तव्यं परं ब्रह्म निरामयम् | मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी || स्वाधिष्ठान-मणिपूरचक्र विवरणम् लिङ्गमूले महापद्मं स्वाधिष्ठानन्तु षड्दलम् | यादि-लान्तार्ण-संयुक्तं नाभौ तु मणिपूरकम् | डादि-फान्तान्वित-दलैररुणैर्दशभिर्युतम् || अनाहतपद्म-विवरणम् हृदये द्वादशदलमनाहतसरोरुहम् | कादि-ठान्तदलैर्देवि तप्तहटकसन्निभम् || तन्मध्ये बाणलिङ्गन्तु सूर्यायुतसमप्रभम् | शब्दब्रह्ममयो मन्त्रोऽनाहतस्तत्र दृश्यते | तेनाहताख्यं तत्पद्मं योगिभिः परिकीर्तितम् || विशुद्धचक्र-निरूपणम् कण्ठदेशे विशुद्धाख्यं धूम्रवर्णं मनोहरम् | अकारादि-स्वरोपेतैर्दलैः षोडशभिर्युतम् || विशुद्धिस्तन्यते यस्माज्जीवस्य हंसलोकनात् | विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम् || आज्ञाचक्र-विवरणम् आज्ञानाम भ्रुवोर्मध्ये अक्रञ्च द्विदलं परम् | हक्ष-द्वयक्षर-संयुक्तं निर्मलं सुमनोहरम् || इतराख्यं महालिङ्गं तन्मध्ये काञ्चनप्रभम् | आज्ञासंक्रमणं तत्र गुरोराज्ञेतिविश्रुतम् | कैलासाख्यं तदूर्ध्वं तु बोधिनी तु तदूर्ध्वतः || सहस्रारचक्र-विवरणम् सहस्रारं महापद्मं नादबिन्दुसमन्वितम् | शून्यरूपः शिवः साक्षाद् वृत्तं परमकुण्डली | सार्द्धत्रिवलयाकारा कोटिविद्युत्समप्रभा || यामले वृत्तं कुण्डलिनी शक्तिर्गुणत्रयसमन्विता | शून्यभागो महादेवि शिवरूपो महेश्वरः || सर्पाकारा शिवं वेष्ट्य सर्वदा तत्र संस्थिता | शिवशक्त्यात्मको बिन्दुर्मुक्तिमुक्तिफलप्रदः | नादरूपेण सा देवी योनिरूपा सनातनी || भूतशुद्धौ शिवविष्णुब्रह्ममयी बिन्दुयोनिः शुचिस्मिते | सर्वोपरि महेशानि बिन्दुर्ब्रह्मस्वरूपकः || गन्धर्वमालिकायां भवो बिन्दुरिति ख्यातो भवनञ्च त्रिकोणकम् | भवनं भवसम्बन्धाज्जायते भुवनत्रयम् || पञ्चभूतानि देवेशि षष्ठे मानसमीश्वरि | षट्चक्रेषु स्थितान्येव क्रमाद्देवि विचिन्तयेत् || सहसारं शिवपुरं रम्यं दुःखविवर्जितम् | सर्वतोऽलंकृतैर्दिव्यैर्नित्यपुष्पफलैर्द्रुमैः || सदाशिवपुरं रम्यं कल्पवृक्षं सुशोभितम् | पञ्चभूतात्मकं तच्च गुणत्रयसमन्वितम् || चतुर्वेदचतुःशाखं नित्यपुष्पफलान्वितम् | पीतं कृष्णं तथा श्वेतं रक्तं पुष्पञ्च पार्वति || हरितञ्च विचित्रञ्च नानापुष्पं मनोहरम् | एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् || तत्रोपरि सुपर्यङ्कं नानारत्नो पशोभितम् | मन्दारपुष्परचितं नानागन्धानुमोदितम् || तत्रोपरि महादेवः सदा तिष्ठति सुन्दरि | ध्यायेत सदाशिवं देवं शुद्धस्फटिकसन्निभम् || बहुरत्नसमाकीर्णं दीर्घबाहु मनोहरम् | सुखप्रसन्ननयनं स्मेरास्यं सततं प्रिये || श्रवणे कुण्डलोपेतं रत्नहारेण शोभितम् | शोण(गले)पद्मसहस्रस्य मालया शोभितं वपुः || अष्टबाहुं त्रिनयनं शिवं पद्मदलेक्षणम् | पादयोर्नूपुरं रम्यं शब्दब्रह्ममयं वपुः || एवं स्थूलवपुस्तस्य भवयेत् कमलेक्षणे | पद्ममध्ये स्थितं देवं निरीहं शब्दरूपिणम् || शब्दरूपे महादेवेकृत्यं नास्ति कदाचन | एवं सर्वेषु चक्रेषु शक्तिरूपं विचिन्तयेत् || ब्रह्मा रुद्रश्च विष्णुश्च ईश्वरश्च सदाशिवः | ततः परशिवश्चैव षट् शिवाः परिकीर्तिताः || शक्तिमाह विशुद्धौ डाकिनी देवि अनाहते तु राकिणी | लाकिनी मणिपूरस्था काकिनी लिङ्गगोचरे || आधारे शाकिनी देवी आज्ञायां हाकिनी तथा | याकिनी ब्रह्मरन्ध्रस्था सर्वकामफलप्रदा || ध्यायेत् कुण्डलिनी देवीं स्वयम्भूलिङ्गसंस्थिताम् | श्यामां सूक्ष्मां सृष्टिरूपां सृष्टिस्थितिलयात्मिकम् | विश्वातीतां ज्ञानरूपां चिन्तयेदूर्ध्वरूपिणीम् || रक्तामिति सुन्दरी विषये ज्ञेयम् | हुङ्कारवर्णसम्भूता कुण्डली परदेवता | विभर्ति कुण्डली देहमात्मानं हंसमन्त्रतः || कुण्डलिनी योगः प्रवृद्धवह्निसंयोगमनसामारुतैः सह | ऊर्ध्वं नयेत् कुण्डलिनीं जीवात्मसहितां परम् || गछन्ति ब्रह्मरन्ध्रेण भित्वा ग्रन्थिं चतुर्दशः | षट्चक्र-सन्धिमार्गेण सुषुम्ना वर्त्मना तथा | हंसेन मनुना देवीं सहस्रारं समानयेत् || सदाशिवो महादेवो यत्रास्ते परमेश्वरि | तत्रगत्वा महादेवि कुण्डली परदेवता || देवीरूपवती काम-समुल्लासविहारिणी | मुखारविन्दगन्धेन मोदितं परमं शिवम् || प्रबोध्य परमेशानि तत्रोपरि वसेत् प्रिये | शिवस्य मुखपद्मं हि चुचुम्बे कुण्डली शिवे || सदाशिवेन देवेशि क्षणमात्रं रमेत् प्रिये | अमृतं जायते देवि तत्क्षणात् परमेश्वरि || तदुद्भवामृतं देवि लाक्षारस समारुणम् | तेनामृतेन देवेशि तर्पयेत् परदेवताम् || षट्चक्रदेवतास्तत्र सन्तर्प्याऽमृतधारया | आनयेत् तेन मार्गेण मूलाधारं पुनः सुधीः || यातायातक्रमेणैव तत्र कुयान्मनोलयम् | एवमभ्यस्यमानस्तु अहन्यहनि पार्वति || जराभरणदुःखाद्यैर्मुच्यते भवबन्धनात् | इत्युक्तं परमो योगो योनिमुद्रा प्रबन्धनः || यामले कुलयोषित् कुलं त्यक्त्वा पुनरेव कुलं विशेत् | रमते सेयमव्यक्ता पुनरेकाकिनी सती || संकेतपद्धत्याम् पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्तितः | रूपं बिन्दुरिति ज्ञेयं रूपातीतञ्च निष्फलम् || एतेन षट्चक्रभेदक्रमेण कुण्डलिनीं सहस्रदल पद्मे नीत्वा तत्रस्थ सदाशिवेन सङ्गमययतदुद्भवामृतेन परदेवतां षट्चक्रस्थशिवशक्त्यादींश्चाप्लाव्य सोऽहमिति मन्त्रेण पुनः स्वस्थानमानयेदिति तु वाक्यार्थः | सोऽमिति च मन्त्रेण स्वस्थानमानयेत् सुधीः | इति यामलवचनात् || देव्युवाच देवदेव महादेव सृष्टिस्थित्यन्तकारकः | मूर्ध्नि पद्मं सहस्रारं रक्तवर्णमधोमुखम् || तस्य मध्ये स्थितं ध्यायेद् गुरुं शान्तं सशक्तिकम् | मूलाधारे महाशक्तिं कुण्डलीरुप-धारिणीम् || अधोवक्त्र क्रमेणैव सर्वपद्मेषु भावना | तदा कथं भवेत् तत्र चिन्तनं गुरुदेवयोः || आधारे चत् स्थितिस्तत्र त्वधोभागे कथं भवेत् | अधोवक्त्रे स्थितस्यापि चिन्तनं वा कथं भवेत् || श्रीमहादेव उवाच यथा युक्तं त्वया देवि कथितं वीरवन्दिते | एवमेव तु सन्देहो जायते नात्र संशयः || कथ्यते परमेशानि सन्देहोच्छेदकारणम् | तानि पद्मानि देवेशि सुषुम्नान्तः स्थितानि च || परंब्रह्मस्वरूपाणि शब्दब्रह्ममयानि च | तत्सर्वं पङ्कजं देवि सर्वतोमुखमेव च | प्रवृत्तिश्च निवृत्तिश्च द्वौ भावजीवसंस्थितौ || प्रवृत्तिमार्गः संसारः निवृत्तिपरमात्मनि | प्रवृत्तिमावचिन्तायामधोवक्त्राणि चिन्तयेत् || निवृत्तियोगमार्गेषु सदैवोर्ध्वमुखानि च | एवमेव भावभेदादसन्देहोऽभिजायते || गृहस्थयोगसाधनम् (अथान्यत संप्रवक्ष्यामि गृहस्थानाञ्च साधनम् | मूलाधारे स्थितां देवीं कुण्डलीं परदेवताम् || भोगकाले महेशानि आजिह्वान्तं विभाव्य च | शोधितान मत्स्यमांसादीन् तन्मुखे स्थापयेद् बुधः || मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे | प्रतिग्रासे महेशानि एवं कुर्याद् विचक्षणः || भोजनेच्छा भवेत् तस्या निर्लिप्तो जीवसंज्ञकः |) एवमेव प्रकारेण ऊर्ध्वपद्मं प्रजायते || गुरोः स्थितिश्च चार्वङ्गितदा सम्यक् प्रजायते | भिद्यते हृदयग्रन्थिच्छिद्यते सर्वसंशयः || गुर्वादि भावनाद्देवि तदा सिद्धिः प्रजायते | स्वगेहे पायसं त्यक्त्वा भिक्षामटतिदुर्मतिः || अत एव महेशानि वातुलत्वं प्रजायते | इत्येतत्कथितं सारं मम ज्ञानविलोकितम् || प्रकारान्तर-कुण्डलिनी-योगकथनम् अथ योगं प्रवक्ष्यामि येन देवमयो भवेत् | मूलपद्मे कुण्डलिनी यावन्निद्रामिता प्रिये || तावत् किञ्चिन्न सिध्येत् मन्त्रयन्त्रार्चनादिकम् | स्वापकालो वामवाहः प्रबोधो दक्षिणावहः || मन्त्रिणां स्वापकाले तु जपोऽनर्थ फलप्रदः | प्रबोधकालं जानीयादुमयोरपि पार्वतिः || जागर्तियदि सा देवि बहुभिः पुण्यसञ्चयैः | तदा प्रसादमायान्ति मन्त्रयन्त्रार्चनादयः || योगयोगाद्भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता | सिद्धे मनौ परावाप्तिरिति शास्त्रस्य निर्णयः || जीवनमुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् | संसारोत्तरणं मुक्तिर्योगशब्देन कथ्यते || प्राणायामैर्जपैर्यागैस्त्यक्तनिद्रा जगन्मयी | चतुर्दलं स्यादाधारं स्वाधिष्ठानन्तु षड्दलम् | नाभौ दशदलं पद्मं सूर्यसंख्यादलं हृदि || कण्ठे स्यात षोडशदलं भ्रूमध्ये द्विदलं तथा | सहस्रदलमाख्यातं ब्रह्मरन्ध्रमहापथे || मातृकाक्षर संयुक्तं सहस्रारं सरोरुहम् | अधोवक्त्रं शुक्लवर्णं रक्त किञ्जिल्कभूषितम् || इति || (सुन्दरीविषये तु रक्तवर्णं बोध्यम् | समयातन्त्रोक्तत्वात्, अन्यथा | विरोधापत्तेः || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ततः परशिवश्चैव षट् शिवाः परिकीर्तिताः || डाकिनी राकिनी चैव शाकिनी लाकिनी तथा | काकिनी शाकिनी चैव शक्तयस्ताः परिकीर्तिताः || आधारे हृत्प्रदेशे च भ्रुवोर्मध्ये विशेषतः | स्वयम्भूसंज्ञो बाणाख्यस्तथैवेतरसंज्ञकः || लिङ्गत्रयं महेशानि प्रधानत्वेन चिन्तयेत् | मूलाधारे स्थिताभूमिः स्वाधिष्ठाने जलं प्रिये || मणिपूरे स्थितं तेजो हृदये मारुतस्तथा | विशुद्धौ तु महेशानि आकाशं कमलेक्षणे || आज्ञाचक्रे महेशानि मनः सर्वार्थसाधकम् | तदूर्ध्वे परमेशानि पद्ममूर्ध्वमुखं सदा | तस्योपरि महेशानि ध्यायेत् सदा शिवं गुरुम् || ऊर्ध्वमुखमिति | अधोमुख सहस्रदल पद्माधोगतेर्ध्वमुखद्वादश-दल-पद्मोपरि शिवरूपिणं श्रीगुरुं ध्यायेदित्यर्थः | तथा चोक्तं यामले ब्रह्मरन्ध्र सरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डलीविवरकाण्डमण्डितं द्वादशार्ण सरसीरुहं भजे || अहं द्वादशार्ण द्वादशदलं सरसीरुहं पद्मं भजे | सरसीरुहं किं विशिष्टम् ? कुण्डलीविवर काण्डमण्डितं | कुण्डल्यां विवरं मूलाधारपद्मात् सहस्रदलकमलकर्णिकान्तर्गतबिन्दुरूपि-सदाशिव सन्निधौ गमनमार्गः, तस्य काण्डं तदाधारभूतं नालं, चित्रिणीनाडीत्यर्थः | तस्य मण्डितं पद्मनालवत् चित्रिणीनाड्याः शिरोभूषणमित्यर्थः | तदग्रे द्वादशार्णस्य सरसीरुहस्य स्थितत्वात् भूषणमित्युक्तिः | पुनः किम्भूतम् ? ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नम्, सहस्रारपद्म कर्णिकासमीपे तदधोदेशे नित्यमविनाभाव सम्बन्धेन लग्नं स्थितमित्यर्थः | पुनः किम्भूतम् ? अवदप्तं गौरम् | पुनः किम्भूतम् ? अद्भुतं मनोहरम् | तत्र पूर्वोक्त क्रमेण शिवरूपिणं श्रीगुरं ध्यायेत् || षट्चक्रं परमेशानि | सदाशिवपुरं समम् | शक्तिपुरं महेशानि सदाशिवपुरोपरि || स एव निर्वाणाख्य कलोपरिगतः निर्वाणशक्तेः पुरम् | शिवस्थानं शैवाः परमपुरुषं वैष्णवगणा लपन्तीति प्रायो हरिहरपदं केचिदपरे || पदं देव्या देवीचरणयुगलानन्दरसिका | मुनीन्द्रा अप्यन्ये प्रकृति पुरुषस्थानममलम् || कुण्डलिनी प्रत्यावर्तन प्रकारः रमित्वा शम्भुना सार्द्धं कुण्डलीं परदेवताम् | मूलाधारं महेशानि सहस्रारात् समानयेत् || शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् | ध्यायेत् कुण्डलिनीं तत्र इष्टदेवस्वरूपिणीम् || सदा षोडशवर्षीयां पीनोन्नतपयोधराम् | नवयौवनसम्पन्नां सर्वाभरणभूषिताम् || पूर्णचन्द्रनिभां रक्तां सदा चञ्चललोचनाम् | नानारत्नयुतां धन्यां पादे नूपुरशोभिताम् || किङ्किनी च तथा कट्यां रत्नकङ्कणमण्डिताम् | कन्दर्पकोटि-लावण्यां सदा मधुरहासिनीम् || एवं ध्यात्वा जपेन्मन्त्रं शतमष्टोत्तरं शिवे | मातृकामालया जप्त्वा आज्ञाचक्रं समानयेत् || तत्रेतरेण लिङ्गेन योजयेत् कुण्डलीं पराम् | ध्यात्वा ब्रह्ममयीं तत्र शतमष्टोतरं जपेत् || ततो विशुदौ तां नीत्वा शिवेन सह योजयेत् | तामिष्टदेवतां ध्यात्वा जपेदष्टशतं प्रिये || हृत्पद्मे तां ततो नीत्वा बाणेन सह योजयेत् | देवीरूपाञ्च तां ध्यात्वा जपेदष्टोत्तरं शतम् || मणिपूरे तु तां नीत्वा शिवेन सह योजयेत् | देवीरूपां च तां ध्यात्वा शतमष्टोत्तरं जपेत् || स्वाधिष्ठाने ततो नीत्वा शिवेन सह योजयेत् | योजयित्वा जपेन्मन्त्रं देवीं ध्यात्वा प्रियं वदे || शतमष्टोत्तरं जप्त्वा मूधाधारे तु तां नयेत् | तत्र लिङ्गं स्वयम्भूञ्च ध्यायेत्कुन्दसमप्रभम् || शुक्लवर्णं चतुर्बाहुं पञ्चवक्त्रं त्रिलोचनम् | नानारत्नयुतं रम्यं सार्द्धत्रिवलयान्वितम् || प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् | कपर्दिनं स्फुरत्सर्वभूषं कुन्दसमप्रभम् || षट्चक्रे परमेशानि ध्यायेज्जगन्मयीं शिवाम् | भुजङ्गरूपिणीं देवीं नित्यां कुण्डलिनीं पराम् || विषयन्तुमयीं देवीं साक्षादमृतरूपिणीम् | अव्यक्तरूपिणीं दिव्यां ध्यानगम्यां वरानने || ध्यात्वा जप्त्वा च देवेशि साक्षाद् ब्रह्ममयो भवेत् | एवं द्वादशधा देवि यातायातं करोति यः || स मुक्तः सर्वपापेभ्यो मन्त्रसिद्धो न चान्यथा | यत्र तत्र मृतश्चायं गङ्गायां श्वपचालये | ब्रह्मविद् ब्रह्मभूयाय कल्पते नान्यथा प्रिये || अथ प्रार्थना अहं देवि न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् | सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् || हृदिस्थया परदेव्या प्रेरितश्च करोम्यहम् | न मे किञ्चिद् क्वचिद्वापि कृत्यमस्ति जगत्त्रयये || जानानि धर्मं न च मे प्रवृत्तिजानाम्यधर्मं न च मे निवृत्तिः | त्वया महादेवि हृदिस्थायाऽहं यथा यथानियुक्तोऽस्मि तथा करोमि || त्रैलोक्य चैतन्यमयि त्रिशक्ते श्रीपार्वति त्वच्चरणाज्ञायैव | प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये || एवं सञ्चिन्त्य मनसा गृहान्निर्गत्य संयतः | आचम्य प्रयतोमन्त्री दन्तधावनमाचरेत् || दन्तधावनविधिः तन्त्रगन्धर्वे दन्तकाष्ठमखादित्वा पूजयेद्यस्तु देवताम् | तत्पूजा विफला देवि मृते च नरकं व्रजेत् || मन्त्रतन्त्रप्रकाशे विधायावश्यकं शौचमाचामं दन्तधावनम् | मुखप्रक्षालनादीनि कृत्वा स्नानं समाचरेत् || अथ मुखप्रक्षालनमन्त्रः दक्षिणामूर्तौ क्लीं कामदेवसर्वजनप्रियाय नमः | क्लीमात्मकं कामदेव-सर्वजनमथालिखेत् | प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये | चतुर्दशाक्षरैर्वक्त्रं क्षालयेत् सिद्धिहेतवे || स्नानविधिः यामले स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् | तस्मात् स्नानं निषेवेत श्रीपुष्ट्यारोग्यवर्द्धनम् || मन्त्रतन्त्रप्रकाशे अरुणेऽनुदितेमन्त्री तीर्थे वा विमले जले | वैदिकं स्नानमाचर्य तान्त्रिकं स्नानमाचरेत् || परखाते यत्कर्तव्यं तदाह विश्वसारे परखाते तु कर्तव्यः पञ्चपिण्डोद्धारः सदा || स्नानमन्त्रः मन्त्रमाह उत्तिष्ठोत्तिष्ठ पङ्क त्वं त्यज पुण्यं परस्य च | पापानि विलयं यान्तु शान्तिं देहि सदा मम || नीलतन्त्रे पुनर्निमज्य पयसि संकल्पञ्च समाचरेत् | ततः सङ्कल्प्य मतिमान्नाभिमात्रोदके स्थितः || प्रीतये स्वेष्टदेवस्य स्नानं सर्वत्र कारयेत् | इष्टदेवतापूजार्थं स्नानं कार्यं जलाशये || मन्त्रतन्त्रप्रकाशे अस्त्रेणानीय मृत्स्नां वै त्रिभागं तत्र कारयेत् | भागमेकं जले चैव क्षिपेन्मन्त्रं समुच्चरन् || एवं मूद्धादि नाभ्यन्तरं पठन् मूलं विलेपयेत् | शेषन्तु पादनाभ्यन्तं तथैव परिलेपयेत् || अङ्गे षडङ्गं विन्यस्य प्राणायामपुरःसरम् | हृन्मन्त्रां कुशमुद्राभ्यां तीथमावाह्य मण्डलात् || मण्डलात् सूर्यमण्डलात् || तीर्थावाहनमन्त्रः ब्रह्माण्डेयानि तीर्थानि करैः स्पृष्टानि तेरवे | तेन सत्येन मे देव तीर्थं देहि दिवाकर || ओं गङ्गे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु || ओं आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि | एहि गङ्गे नमस्तुभ्यं सर्वतीर्थ समन्विते || एवमावाह्य विधिवन् मूलमन्त्रेण मन्त्रयेत् | आमन्त्र्याऽम्भसि संयोज्य सोमसूर्याग्निमण्डलम् || विचिन्त्य मन्त्री तन्मध्ये निमज्जेन् मूलमुच्चरन् | उत्थायाचम्य तत्पश्चात् षडङ्गन्यास संयुतः || अचामन मन्त्रः यामले आत्मविद्या शिवैस्तत्त्वैराचामेत् साधकाग्रणीः | वह्निजायां परे दत्त्वा शुद्धेन पाथसा प्रिये | पाथसा जलेन | अभिमन्त्र्य ततस्तोयं मूलमन्त्रेण साधकः | क्षालयेत् तेन वपुषः कलुषं कुम्भमुद्रया || आत्मानं दशधा सिन्ञ्चेन् मुद्रया कलशाख्यया | सप्तकृत्वोऽभिषिञ्चेद्वा मनुना मन्त्रितैर्जलैः || ज्ञानार्णवे वामहस्ते कृता मुष्टिर्दक्षहस्तस्य पार्वति | कलशाख्या भवेन्मुद्रा सर्वपापहरा शुभा || गौतमीये पीडयित्वाऽम्बरं चारु प्रक्षाल्याचम्य वाग्यतः | धारयेद्वाससी शुद्धे परीधानोत्तरीयके || अच्छिन्ने सदशे शुक्ले आचामेत् पीठसंस्थितः | मोक्षार्थी रक्तवस्त्रे द्वे भोगार्थी श्वेतवाससी || शाक्ततिलकविधिः तिलकं रक्तगन्धेन चन्दनेन च वा प्रिये | देव्यस्त्रं विलिखेद्भाले ताराबीजं ततो हृदि | शक्तिं मध्यगतां कुर्यात् साधको नरपुङ्गवः || देव्यस्त्रं स्वस्वोपासित देव्यस्त्रं लिखेदित्यर्थः | त्रिपुण्ड्रेणविना कुर्याद् यां काञ्चिद्वैदिकी क्रियाम् | सा निष्फला भवेद् भूप ब्रह्मणपि कृता यदि || इति भविष्यपुराणवचनात् | कूर्मपुराणे वैष्णवो वाथ शैवा वा शाक्तो वा सौर एव वा | त्रिपुण्ड्रेण विना पूजां कुर्वाणो यात्यधोगतिम् || शिवधर्मे सितेन भस्मना कुर्याल्ललाटे यस्त्रिपुण्ड्रकम् | सर्वपापविनिर्मुक्तः शिवलोके महीयते || भस्मेत्युपलक्षणम्, द्रव्यान्तरेणापि त्रिपुण्ड्रं कार्यम् | तथा च भविष्ये सर्वस्त्रिपुण्ड्रकं कुर्याद्यज्ञस्य भस्मना सदा | तदलाभे चन्दनेन मृदा वा वारिणापि वा || यत्किञ्चित् कुरुते कर्म विना विप्रस्त्रिपुण्ड्रकम् | व्यर्थमेव भवेत्सर्वं बन्ध्यास्त्रीसङ्गमो यथा || सच्छिद्रं कुरुते यस्तु पुण्ड्रं पशुमतिर्द्विजः | धर्मार्थकाममोक्षेषु तस्य छिद्रं प्रजायते || वैदिकीं तान्त्रिकीं सन्ध्यां ततः कुर्यात् समाहितः | अशून्यं च करं कुयात्सुवर्णरजतैः कशैः || सुवर्णरजतञ्चैव जपपूजादि कर्मसु | एष एव कुशः शाक्ते न दर्भो वनसम्भवः | तर्जन्यां रजतं धार्यं स्वर्णं धार्यमनामया || तान्त्रिक-सन्ध्या अथ सन्ध्या प्रवक्ष्यामि तान्त्रिकीं सर्वसिद्धिदाम् | उपविश्याचमेन्मन्त्री पयोमिहर्नीबुद्बुदैः || ततश्च आत्मतत्त्वाय विद्यातत्त्वाय तत्परम् | शिवतत्त्वाय वै प्रोच्य क्रमेण वह्निवल्लभाम् || मूलान्तैरेभिराचामेत् पूर्वोत्तरमुखः सुधीः | आचमनं ततः कृत्वा प्राणायामं समाचरेत् || षडङ्गन्यासमाचर्य जले मूलं जपेद् दश | कुशेन तज्जलं भूमौ त्रिर्मूर्ध्नि सप्त निक्षिपेत् || मूलमुच्चार्य देवेशि वामहस्ते जलं ततः | गृहीत्वा तज्जलं देवि तत्र मूलं समुच्चरन् || शिववायुजलपृथ्वीवह्निबीजैस्त्रिधा पुनः | अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया || गलिताम्बु क्षिपेन्मूर्ध्नि शेषं दक्षे निधाय च | इडयाकृष्य देहान्तः क्षालितैः पापसञ्चयैः || कृष्णवर्णं तदुदकं दक्षनाडया विरेचयेत् | दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य च | पुरतो वज्रपाषाणे प्रक्षिपेदस्त्रमन्त्रतः || तर्पणविधिः जले यन्त्रं समालिख्य तपयेत् परदेवताम् | पूजयित्वा तत्र देवीं परिवार-समन्विताम् || गुरुपंक्तीः प्रतर्प्याथ तर्पयेदिष्टदेवताम् | उत्ताभिमुखो भूत्वा देवीमात्रं प्रतर्पयेत् || तृप्यतां जगतां माता भैरवस्तृप्यतां तथा | मूलान्ते नाम चोच्चार्य तर्पयामि ततः परम् || स्वाहान्ते तर्पणं त्वेवं पञ्चविंशतिसंख्यया | तर्पणञ्च प्रकुर्वीत द्वितीयान्तमथोच्चरन् || पञ्चविंशतिसंख्यातं दशधा वा त्रिधापि वा | एकैकाञ्जलितोयेन परिवारांस्तु तर्पयेत् || सूर्यार्घदानम् दिनेशाय क्षिपेत्तिष्ठन्वारिणा चाञ्जलित्रयम् | सूर्यमन्त्रं समुच्चर्य ओं ह्रीं हंस इत्यपि || मार्तण्डभैरवायेति प्रकाशशक्तिसंयुतम् | ङेन्तं समुच्चार्य ग्रहराशियुताय ठद्वयम् || त्रिधाञ्जलिं क्षिपेन्मन्त्री सिद्धये साङ्ककर्मणाम् | तोयाञ्जलिं ततः क्षिप्त्वा सूर्यमण्डलमध्यगाम् || आदित्यमण्डले देवीं ध्यायेत् सूर्यस्वरूपिणीम् | तत्तद्गायत्रीमुच्चार्य विसृजेदनयाऽर्घकम् || गायत्रीं भावयेद्देवीं सूयासनकृताश्रयाम् | प्रातर्मध्याह्न सायाह्ने ध्यानं कृत्वा जपेत्सुधीः || ध्यानं कृत्वेति | बीजत्रयरूपां कुण्डलिनीं ध्यात्वा जपेदित्यर्थः || कुण्डलिनीध्यानम् कुण्डलिनीं त्रिधा देवि तथा बीजत्रयं त्रिधा | तृतीयां कुण्डलीं मूर्ध्नि नित्यानन्द स्वरूपिणीम् || वाग्भवं मूलदेशे च द्रवस्वर्णनिभं स्मरेत् | वह्निकुण्डलिनीं नित्यां बालार्कसदृशारुणाम् || हृदये कामबीजञ्च सूर्यकोटिसमप्रभम् | सूर्यकुण्डलिनीं तत्र नित्यानन्दस्वरूपिणीम् || भ्रूमध्ये शक्तिबीजञ्च कोटिचन्द्रसमप्रभम् | चन्द्रकुण्डलिनीं तत्र स्रवदमृतविग्रहाम् || बीजत्रयमयीं बिन्दौ तुर्यां बिन्दुत्रयात्मिकाम् | तूर्यकुण्डलिनीं देवि केवलां ज्ञानविग्रहाम् || प्रातःकाले मूलाधारे बालार्कमण्डलाभासां भानुवह्नीन्दुलोचनाम् | पाशांकुशौ शरांश्चापं धारयन्तीं शिवां स्मरेत् || मध्याह्ने हृत्पद्मे मध्याह्ने चिन्तयेद्देवीं नवयौवन शोभिताम् | सायाह्ने भ्रूमध्ये सायह्नि चिन्तयेद्देवीं त्रैलोक्यैकप्रभामयीम् || नवयौवनसम्पन्नामुज्वलां परमां कलाम् | रात्रौ सहस्रारे तामेव चिन्तयेद्रात्रौ भोगी भोगपरायणाम् || गायत्रीजपविधिः गायत्रीं प्रजपेद् विद्वानष्टाविंशतिसंख्यया | मनसा प्रजपेन्मन्त्रं गायत्रीञ्च विशेषतः || गान्धर्वे गायन्तं गायते यस्माद् गायत्री तेन चोच्यते | महापातकयुक्तोऽपि प्रजपेद्दशधा यदि || सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् | अष्टोत्तर शतावृत्या गायत्रीं जपते यदि || सर्वपापविनिर्मुक्तो भवेत् पूजाधिकारवान् | अष्टोत्तर शतावृत्त्या मूलमन्त्रञ्च संजपेत् || आर्द्रवस्त्रेण यत्कर्तव्यं तदाह यामले नाभिमात्रोदके स्थित्वा देवीमर्कगतां स्मरन् | जपेदष्टोत्तरशतं लभते महतीं श्रियम् || संहारमुद्रया चैव तीर्थमुद्वास्य वाग्यतः | ततोमौनी विशुद्धात्मा हृदि विद्यां परामृशन् || अवहिर्मानसो भूत्वा यागभूमिमथाविशेत् | शक्तिसन्ध्या मया प्रोक्ता कर्तव्या साधकोत्तमैः | सन्ध्यायां पतितायां तु गायत्रीं दशधा जपेत् || सन्ध्याञ्च त्रिकालं कुर्यात् | तथा शैवागमे प्रातर्मध्याह्ने सायाह्ने सन्ध्यां कुर्याच्च मन्त्रवित् | सन्ध्यायास्त्त्वकरणे दोषमाह च लक्ष्मीकुलार्णवे सन्ध्यां तु विहीनो यो न दीक्षाफलमाप्नुयात् || तान्त्रिक सन्ध्यायां शूद्रस्याप्यधिकारः | विशुद्धेश्वरे सन्ध्यात्रयं सदा कुर्याद् ब्राह्मणोविधिपूर्वकम् | तन्त्रोक्तविधि पूर्वान्तु शूद्रः सन्ध्यां समाचरेत् || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां प्रातःकृत्यनिर्णयो नाम चतुर्थोल्लासः || ४ || पञ्चमोल्लासः आसननिर्णयः आसनस्य ग्राह्यत्वमाह गौरीयामले सलिले यदि कूर्वीत देवतानां प्रपूजनम् | अथाप्यासन आसीनो नोत्यितस्तु तथाचरेत् || आसनं कल्पयित्वा तु मनसा पूजयेज्जले | आसनस्थो जपेत् सम्यङ् नन्त्रार्थगत-मानसः || सम्मोहनतन्त्रे रक्तासनोपविष्टस्तु लाक्षारुण गृहेस्थितः | मनःकल्पितरक्ते वा साधकः स्थिरमानसः || कुश(तूल) कम्बलवस्त्राणि सिंहव्याघ्रमृगाजिनम् | कल्पयेदासनं धीमान् सौभाग्यज्ञानवर्द्धनम् || कौशेयं वाथचार्मं वा चैलतौलमथापि वा | शरपत्रं तालपत्रं कम्बलं दर्भमा(दार वा) सनम् || कृष्णाजिने ज्ञानसिद्धिर्मुक्तिः स्याद्व्याघ्रचर्मणि | कृष्णाजिने गृहस्थानां नाधिकारः कथञ्चन || नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही | विशेद्यतिर्वनस्थश्च ब्रह्मचारी तु भिक्षुकः || वस्त्रासने व्याधिनाशः कम्बले दुःखनाशनम् | जपध्यानतपोहानिर्वस्त्रासनं करोति यः || अत्र वस्त्रनिषेधः केवलवस्त्रासनपरः अन्यथा विरोधापत्तेः | कुशासने भवेदायुर्मोक्षः स्याद्व्याघ्रचर्मणि || अजिने च भवेत् पुत्री कम्बले सिद्धिरुत्तमा | शान्तिके धवलः प्रोक्तः सर्वाथश्चित्र-कम्बले || स्यात्पौष्टिके तु कौशेयं कम्बले दुःखमोचनम् | त्रिपुरापूजने शस्तं रक्तकम्बलमासनम् || नैतद् द्विहस्ततो दीर्घं सार्द्धहस्तान्न विस्तृतम् | न त्र्यंगुलात् समुच्छ्रायं पूजाकर्मणि संग्रहे | आसनञ्च ततः कुर्यान्नातिनीचं न चोच्छ्रितम् || तन्त्रगन्धर्वे - धारण्यां दुःखसम्भूतिदौर्भाग्यं दारुजासने || आम्रनिम्बकदम्बानामासनं वंशनाशनम् | बकुलेकिंशुके चैव पनसे च हतश्रीकः || वंशेष्टकाश्मधरणीतृणपल्लवनिर्मितम् | वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् || दारुजासनं विशेषयति गन्धर्वतन्त्रे गाम्भारीनिर्मितं शस्तं नान्यद्दारुमयं शुभम् | चतुर्विंशांगुलं दीर्घं कुर्यात्काष्ठाशनं शिवे || षोडशांगुलविस्तीर्णमुच्छ्राये चतुरंगुलम् | कम्बलं चर्मजं चैलं महामाया प्रपूजने || प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च | त्रिपुरायाश्च रुद्रस्य विष्णोश्चापि कुशासनम् || तृणासने यशोहानिः पल्लवे चित्तविभ्रमः | यथोक्तमासनं कुर्यात् सर्वसिद्धिप्रदायकम् | न यथेष्टासनो भूयात् पूजाकर्मणि साधकः || अन्यत्र वंशाश्मधरणीदारुतृणपल्लवनिर्मितम् | वर्जयेदासनं धीमान्दारिद्र्यव्याधिदुःखदम् || तन्त्रे काष्ठासने भवेद्रोगी वंशे वंशक्षयो भवेत् | शैलासने च वागरोधः पल्लवे मतिवभ्रमः || अन्यत्रापि धरण्यां शोकसंयुक्तः काष्ठे व्यर्थश्रमो भवेत् || पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा | वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् || पद्मासनादिलक्षणम् सव्यं पादमुपादाय दक्षोपरि न्यसेत्ततः | तथैव दक्षिणं सव्यस्योपरि च विधानवित् || विष्टम्य कोट्याः पार्ष्णी तु नासाग्रन्यस्तलोचनः | पद्मासनमिदं प्रोक्तं जपकर्मसु शस्यते || जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे | ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत्प्रचक्षते || सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् | वृषणाधः पादपार्श्वौ पाणिभ्यां परिबन्धयेत् || भद्रासनं समुद्दिष्टं मुनिभिः परिकल्पितम् | ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखांगुली || करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् | एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् | ऋजुकायो विशेन्मन्त्रि वीरासनमितीरितम् || नित्यनैमित्तिकपूजाकथनम् रुद्रयामले नित्यं नैमित्तिकं काम्यं त्रिविधं पूजनं स्मृतम् | नीलतन्त्रे नित्यसेवारतो मन्त्री कुर्यान्नैमित्तिकार्चनम् || नित्यपूजां दिवा कुर्यात् रात्रौ नैमित्तिकार्चनम् | उभयोः काम्यकर्माणि चेति शस्त्रस्य निश्चयः || रुद्रयामले रात्रौ पूजां सदा कुर्यात् रात्रौ सिद्धिर्न संशयः | सफला रजनीपूजा दिवापूजा च निष्फला || शक्तिमन्त्रं जपेद्रात्रौ विनापि पूजनं शुचिः | विशेषतो निशीथे तु तत्राऽतिफलदो जपः || बृहत्तोडलतन्त्रे निशायां योऽर्चयेत्कालीं ताराञ्च भैरवीं तथा | आसमुद्रक्षितीशानां श्रेष्ठो भवति सर्वथा || अन्यत्रापि मातङ्गीञ्च तथा बालां चामुण्डां छिन्नमस्तकाम् | भद्रकालीञ्च दुर्गाञ्च जयदुर्गां तथैव च || आसां जपश्च पूजा च रात्रौ चेत् क्रियते सदा | भुक्त्वा भोगानशेषांश्च सोऽवश्यं याति रुद्रताम् || समयातन्त्रे दिवा प्रपूजनं देवि यथोक्तफलदं भवेत् | पूजनं लक्षण-गुणितं निशि नीरजलोचने || अर्धरात्रात्परं यच्च मुहूर्तद्वयमेव हि | सा महारात्रिरुद्दिष्टा कृता तत्राऽक्षया भवेत् || तन्त्रे गते तु प्रथमे यामे तृतीयं प्रहरावधि | निशायाञ्च प्रजप्तव्यं रात्रिशेषे जपेन्न हि || प्रकटे शक्तिमन्त्रे च हानिः स्यादुत्तरोत्तरम् | पशुसन्निधिमासाद्य नित्यपूजाञ्च वर्जयेत् || पशोरग्रे कृताया तु प्रमादान्निष्फला भवेत् | निजसाधकमध्ये तु न गोप्तव्या कदाचन || समयामन्त्रे स्त्रीसमीपे कृतापूजा जपश्च परमेश्वरि | कामरूपाच्छतगुणावव्ययौ समुदीरितौ || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्दगिरिकृतायां शाक्तानन्दतरङ्गिण्या मासननिर्णयो नाम पञ्चमोल्लासः || ५ || षष्ठोल्लासः अन्तर्यागविधिः आत्मस्थां देवतां त्यक्त्वा वहिर्देवं विचिन्तयेत् | करस्थं कौस्तुभं त्यक्त्वा भ्रमन्ते काचतृष्णया || प्रत्यक्षीकृत्य हृदये वहिस्थां पूजयेच्छिवाम् | यस्य यस्य च देवस्य यथा भूषणवाहनम् || तदेव पूजने तस्य चिन्तयेत् परमेश्वरि | अथान्तर्यजनं वक्ष्ये येन देवमयो भवेत् || सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः || स्वकीय हृदये ध्यायेत्सुधासागर मुत्तमम् | रत्नद्वीपञ्च तन्मध्ये सुवर्णवालुकामयम् || मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः | सर्वतोऽलंकृतं दिव्यैर्नित्यपुष्पफलैर्द्रमैः || नानासुगन्धिकुसुम गन्धामोदितदिङ्मुखम् | उत्फुल्लकुसुमामोद प्रहृष्टभृङ्गसंकुलम् || कूजत्कोकिलसंघेन वाचालितदिगन्तरम् | सर्वतोऽलंकृतं दिव्यैर्लसत्काञ्चनपङ्कजैः | मौक्तिकैः कुसुमैः स्रग्भिर्दुकूलैः स्वर्णतोरणैः || तन्मध्ये संस्मरेद्देवि कल्पवृक्षं मनोहरम् | चतुर्वेदचतुःशाखं गुणत्रयसमन्वितम् || पीतं कृष्णं तथा श्वेतं रक्तं पुष्पञ्च सुन्दरि | हरितञ्च विचित्रञ्च नानापुष्पैर्विराजितम् || कोकिलैर्भ्रमरैर्देवि शोभितं बहुपक्षिभिः | एवं कल्पद्रुमं ध्यात्वा तदधोरत्नवेदिकाम् || तत्रोपरि महद्व्याप्तं चिन्तयेद्रत्नमण्डपम् | उद्यदादित्यसंकाशं रत्नसोपानमण्डितम् || ध्वजावलीसमाकीर्णं चतुर्द्वारसमन्वितम् | नानारत्नादिशोभाढ्यं रत्नप्राकारमण्डितम् || स्वस्वस्थानस्थितैस्तैस्तैर्लोकपालैरधिष्ठितम् | मिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः || किन्नरैरप्सरोभिश्च क्रीडद्भिः परिवारितम् | नृत्यवादित्रनिरतैरमरस्त्रीगणैर्युतम् || किङ्किनीजालसन्नद्धपताकाभिरलंकृतम् | महामाणिक्यवैदूर्य रत्नचामर भूषितम् || स्थूलमुक्ताफलोन्नद्धवितानसमलंकृतम् | चन्दनागुरुकाश्मीरमृगनाभिविलेपितम् || तन्मध्ये संस्मरेद्देवि महामाणिक्यवेदिकाम् | उद्यदर्केन्दुकिरणां चतुष्कोण प्रशोभिताम् | ध्यायेत्सिंहासनं तत्र ब्रह्मविष्णुशिवात्मकम् | सिंहासने महेशानि प्रसूनतुलिकां न्यसेत् || पीठपूजां ततः कुर्यात् स्वकल्पोक्तक्रमेण तु | प्रेतपद्मासने तत्र चिन्तयेत्परमेश्वरीम् || आत्मनोऽभीष्टदेवता ध्यानं कुर्यादित्यर्थः | श्रीरत्नपदुके दत्त्वा नीत्वा तां स्नानमन्दिरे | सिंहासनोपविष्ठायामुद्वर्तनं समाचरेत् || कर्पूरागुरुकस्तूर्या तथा मृगमदेन च | कुंकुमरोचनाचूणैर्नानागन्धसमन्वितैः || देव्यां उद्वर्जनं कृत्वा गन्धतैलं विलेपयेत् | देवीनां शतसाहस्रैः स्वर्णकुम्भसहस्रकैः || आनीय वारिणा स्नातां चिन्तयेत्परदेवताम् | दुकूलैर्माजितं गात्रं दुकूले परिधाप्य च || कङ्कत्या केशं संस्कृत्य विधिवद् बन्धनं चरेत् | पट्टगुच्छं केशपाशे नानारत्नोपशोभितम् || ललाटे तिलकं दद्यात् सिन्दूरं केशम्ध्यके | नागेन्द्रदन्तखचितं शङ्खं दद्यान्मनोहरम् || हस्ते केयूरकञ्चैव कङ्कणं कटकं तथा | स्वर्णांगुरीयकं दद्यान्नातारत्नोपशोभितम् || पादयोर्नूपुरं दद्यानासाग्रे गजमौक्तिकम् | निवेदयेद्यथा शक्त्या पुष्पमालाञ्च भूषणम् || सर्वाङ्गे लेपनं कुर्याद् गन्धचन्दनसिह्लकैः | काञ्चनाञ्चितकञ्चुलीशोभितां हृदयोपरि || समाधौ चिन्तयेद्देवीं भूतशुद्ध्यादिकं चरेत् | न्यासजालं विधायाथ समाधौ पूजयेत्सदा || षोडशैरुपचारैस्तु हृदिस्थां पूजयेच्छिवाम् | रत्नसिंहासनं दद्यात्स्वागतं कुशलं वदेत् || पाद्यञ्च पादयोर्देवि शिवस्यर्घ्यं निवेदयेत् | परामृताचमनं प्रदद्यान्मुखपङ्कजे || मधुपर्कं मुखे दद्यात् त्रिधा त्वाचमनं मुखे | हेमपात्रगतं दिव्यं परमान्नं परिष्कृतम् || कपिलाधतसंयुक्तमन्नं व्यञ्जनसंयुतम् | (सुधाम्बुधिं मांसशैलं मत्स्यराशिं फलानि च ||) भक्ष्यं भोज्यं तथा लेह्यं चर्व्यं चूष्यं तथैव च | सकर्पूरञ्च ताम्बूलं मानसं परिकल्पयेत् || आवरणं ततो देव्याः पूजयेन्मनसैव हि | इत्थमन्तः समाराध्यमनसैव जपेन्मनुम् || सहस्रादि जपं कृत्वा देव्यै सोदकमर्पयेत् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || एत एव महादेव्याः पर्यङ्कं समुदाहृतम् || पयः फेननिभां शययां नानापुष्पोपशोभिताम् | पुष्पशययाञ्च संस्कुर्यात् तत्र देवीं सुरेश्वरीम् || चिन्तयेत् साधको योगी नानासुखविलासिनीम् | नृत्यगीतैः सवाद्यश्च तोषयेत्परमेश्वरीम् || ततो होमं प्रकुर्वीत पूजासार्थक्यतवे || अथ होमं प्रवक्ष्यामि येन चिन्मयतां लभेत् | अथाधारमये कुण्डे चिदग्नौ होमयेत्ततः || आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्तिताः | एतद्रूपन्तु चित्कुण्डं चतुरस्रं विभावयेत् || आनन्दमेखलारभ्यां बिन्दुत्रिवलयाङ्कितम् | अर्द्धमात्रायोनिरूपं ब्रह्मानन्दमय भवेत् || नाडीमिडां वामभागे दक्षिणे पिङ्गलां पुनः | सुषुम्नां मध्यतोध्यात्वा कुर्याद्धोभं यथाविधि || धर्माधमौ साधकेन्द्रो हविष्ट्वेन प्रकल्पयेत् | मूलमन्त्रं समुच्चार्य ततः श्लोकं जपेदमुम् || नाभौ चैतन्यरूपाग्नौ हविषा मनसा स्रुचा | ज्ञान प्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् || वह्निजायान्तमन्त्रेण दद्याच्च प्रथमाहुतिम् | मूलमन्त्रोपरि श्लोकमपरं प्रपठेदमुम् || धर्माधर्महविर्दीप्ति आत्माग्नौ मनसा स्रुचा | सुषुम्ना वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् || वह्निजायान्तमन्त्रेण द्वितीयाहुतिमादिशेत् | मूलमन्त्रं समुच्चार्य ततः श्लोकं जपेदमुम् || प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा | ज्ञान प्रदीपिते नित्यमक्षवृतीर्जुहोम्यहम् || वह्निजायान्तमन्त्रेण तृतीयाहुतिमाचरेत् | मूलमन्त्रं समुच्चार्य ततः श्लोकं जपेदमुम् || अन्तर्निरन्तरमनिन्धन मेधमानेमोहान्धकारपरिपन्थिनि सम्विदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् || स्वाहान्तोनाऽमुना हुत्वा पूर्णाहुतिरनन्तरम् | मूलमन्त्रं समुच्चार्य श्लोकमेतमुदीरयेत् || अह(इद)न्तापात्रभरितमिद (अह)न्ता परमामृतम् | पराहन्तामये वह्नौ पूर्णहोमं जुहोम्यहम् || वह्निजायान्तमन्त्रेण दद्यात्पञ्च (पूर्णा)हुतिं प्रिये | इत्यन्तर्यजनं कृत्वा साक्षाद् ब्रह्ममयो भवेत् || एवमेव पूजयन्ति गृहस्थाः परमेश्वरीम् | योगिनो मुनयश्चैव पूजयन्ति सदाप्रिये || केवलं मानसेनैव नहि सिद्धो भवेत् गृही | सवाह्येन तु तेनैव सिद्धो भवति यद् गृही || भूतशुद्धौ सर्वासु वाह्यपूजासु अन्तःपूजा विधीयते | अतः पूजां विना नैव वाह्यपूजाफलं लभेत् || सान्तःपूजा महेशानि वाह्या कोटिफलप्रदा | किं तस्य वाह्यपूजायां सर्वं व्यर्थं कदर्थनम् || उपचाराद्यभावे च वाह्यपूजा कदर्थनम् | विनोपचारैर्या पूजा सा पूजा निष्फला भवेत् || तन्त्रान्तरे यदि वाह्यार्चना द्रव्यसम्पत्तिरपि वर्तते | अन्तर्यागं विधायेत्थं वहियगिविधिं चरेत् || यामले अर्चाभावे महेशानि हृदये पूजयेच्छिवाम् | सर्वपूजाफलं देवि प्राप्नोति साधकः प्रिये || तन्त्रगन्धर्वे मनसायि महादेव्यै नैवेद्यं दीयते यदि | योनरो भक्तिसंयुक्तो दीर्घायुः ससुधी भवेत् || माल्यं पद्मसहस्रस्य मनसायः प्रयच्छति | कल्पकोटिसहस्राणिकल्पकोटिशतानि च || स्थित्वा देवीपुरे श्रीमान्सार्व भौमो भवेत् क्षितौ | मनसाऽपि महादेव्यै यस्तु कुर्यात्प्रदक्षिणाम् | स दक्षिणे यमगृहे नरकाणि न पश्यति || मनसाऽपि महादेव्या यो भक्त्या कुरुते नतिम् | सोऽपि लोकान् विनिर्जित्य देवीलोके महीयते || महामाये महादेवीमर्चयामि च भक्तितः | नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः || नैवेद्यं देहि मे भातरिति यो भावयेन् मुहुः | सोऽपि लोकान् विनिर्जित्य देवीलोके महीयते || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्दगिरि कृतायां शाक्तानन्दतरङ्गिण्यांमन्तयगिविधिर्नाम षष्ठोल्लासः || ६ || सप्तमोल्लासः गुप्ततन्त्रोक्तपूजाविधिः अथानन्दमयीपूजां वक्ष्यामि गुप्ततान्त्रिकीम् | यां कृत्वा शिवसायुज्यं लभेते साधकोत्तमः || पूजागृहं समासाद्य साधकेन्द्रो महेश्वरि | प्रथमं जलमानीय पादप्रक्षालनं चरेत् || उत्तराभिमुखो भूत्वा पादप्रक्षालनं चरेत् | दिवा पूर्वमुखो भूत्वा रात्रौ कुर्यादुदङ्मुखः || देव्याः पूज्यां शिवस्यापि सदा कुर्यादुदङ्मुखः | प्रणवं पूर्वमुच्चार्य तदिति च पदं ततः || सदिति तु समुच्चार्य कर्म कुर्याद् विचक्षणः | स्मरणात्कर्मणामाद्ये ब्रह्मभूयाय कल्पते || सर्वदा सर्वकार्येषु तान्त्रिके वैदिके तथा | स्वविद्यां संस्मरन्कुर्यात्क्रियां सर्वप्रचोदिताम् || स्थानशोधनमाह गन्धर्वतन्त्रे वीक्षणं वर्मबीजेन यागभूमेः समीरितम् | प्रोक्षणं चास्त्रमन्त्रेण यागभूमेः समाचरेत् || अज्ञातदूषितं स्थानं मार्जनादौ च यद्भवेद् | एवमादीनि सर्वाणि नश्येत् तल्लोकनात् प्रिये || मधुकैटभयोर्भेदः संघातैर्दृढतां गता | मेदिनी सर्वदाऽशुद्धा सुरपूजासु सर्वतः || तस्य दोषस्य मोक्षाय कामबीजं क्षितौलिखेत् | पञ्चवर्णरजश्चित्रा नानागन्धसमन्विता || पुष्पप्रकरसंकीर्णा घण्टाचामरभूषिता | बालार्कसदृशी रम्या मनःसन्तोषकारिणी || एवं भूमिं समाश्रिता पूजयेत्परमेश्वरीम् | मन्त्रैराचमनं कुर्याद्देवीं ध्यात्वा हृदम्बुजे | पीठे चोपविशेद्देवि बद्धा वीरासनादिकम् || द्रव्यासादनम् उपविश्य ततो मन्त्री द्रव्याणि स्थापयेत्पुरः | गन्धपुष्पाक्षतादींश्च दक्षे दीपांश्च सर्वतः || नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः | घृतदीपं दक्षिणे तु तैलदीपं तु वामतः || वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे | निवेदयेत् पुरोभागे गन्धं पुष्पञ्च भूषणम् || सर्वं स्वदक्षिणे स्थाप्यं वामे चार्घ्यं निवेशयेत् | स्थापयेच्चार्व्यं चूष्यादि नैवेद्यादीनि सन्निधौ || करयोक्षालनार्थाय पृष्ठे पात्रं विनिर्दिशेत् | स्वस्य शक्त्यानुरूपेण सर्वं सम्पाद्य यत्नतः || पूजा द्रव्याणि संप्रोक्ष्य मूलमन्त्रेण साधकः | दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितीरिता || अन्नं नैवेद्यादिकं यत्पुष्पगन्धादिकञ्च यत् | सर्वमाच्छादितं कार्यं यावन्नावाहयेत् परम् || राक्षसाः प्रतिगृह्णन्ति निराच्छादनकं यतः || अथ शान्तिकुम्भप्रमाणम् ईशान्यास्थापयेत्कुम्भं स्वर्णताम्रादिनिर्मितम् | दैर्घ्यं विंशत्यंगुलन्तु ग्रीवा वेदांगुलान्विता || वाष्ठमष्टांगुलं प्रोक्तं मुखमष्टांगुलं स्मृतम् | दृढं समतलः कार्यो मानं तत्परिकीर्तितम् || कुम्भविधानन्तु गौतमीये हैमं रौप्यं तथा ताम्रं मार्त्तिकं वा स्वशक्तितः | वित्तशाठ्यं न कर्तव्यं कृते नैष्फल्यमाप्नुयात् || षट्त्रिंशदंगुलं कुम्भं विस्तारोन्नतिशालिनम् | षोडशं द्वादशं वापि ततो न्यूनं न कारयेत् || प्रोक्षणीस्थापनमाह गान्धर्वे पात्रमस्त्राम्बुभिः प्रोक्ष्य दक्षिणे स्थापयेत्ततः | शुद्धोदकेन सम्पूज्य मूलमन्त्रं जपेत्सुधीः || प्रोक्षयेत्तेन सकलं प्रोक्षणोस्थने वारिणा | आधारस्थ जलशोधनमाह गान्धर्वे मण्डलं वा मतः कृत्वा जलेन चतुरस्रकम् | ओं वषट्कार मन्त्रेण साधारं मण्डले घटम् || स्थापयेत्तत्र वह्नयर्कसोमानां मण्डलं भजेत् | आनन्दभैरवं तत्र यजेदानन्दभैरवीम् || यदन्यद्दूषणं पात्रे तोये वाऽज्ञानतो भवेत् | तत्सर्वं नाशमायाति पूजार्यं तज्जलं भवेत् || अर्घ्यस्थापनक्रमः अर्घ्य द्वारि परिष्कार्य तत्क्रमः कथ्यतेऽधुना | अस्त्रेण पात्रं प्रक्षाल्य हृन्मन्त्रेण प्रपूरयेत् | मन्त्रयेत्प्रणवेनैव सामान्यार्घ्यमिदं स्मृतम् || प्रणवेन दशधा मन्त्रयेदित्यर्थः | फटा द्वारं च संप्रोक्ष्य बीजेनाम्यर्च्चयेत् सुरान् | गां वां क्षां यां च बीजानि उक्तानि परमेश्वरि || गणेशवटकक्षेत्रपालांश्च योगिनीं तथा | पूजयेत्साधकश्रेष्ठः प्रतिद्वारमिति क्रमात् || विश्वसारे एषां पूजां विलंघ्याथ न सिद्धिः स्याद्युगेयुगे | उत्तरादिक्रमेणैव द्वारपालान् समर्चयेत् | ब्रह्माणं वास्तुदेवं च पूजयेद्गृहमध्येतः || आसने मण्डलं कृत्वा सम्पूज्यारोहयेत्सुधीः | विशोध्य वाक्कायचित्तं भूमिं सम्यग्विशोधयेत् || ओं पवित्र वज्रभूमे हुं फट् स्वाहेति मन्त्रतः | अनन्तरं देशिकेन्द्रो दिव्यदृष्ट्याऽवलोकनैः || दिव्यानुत्सारयेद्विघ्नानस्त्राद्भिश्चान्तरीक्षगान् | पार्ष्णिघातैस्त्रिभिर्भौमानिति विघ्नान् निवारयेत् || विश्वसारे अनिमेषदृशा दृष्टिर्दिव्यदृष्टिः प्रकीर्तिता | करशुद्धिर्यामले प्रागुदीचीमुखो वापि सपुष्पैर्मार्जयेत्करम् | मूलमुच्चार्य देवेशि तत्पुष्पं वामतस्त्यजेत् || मन्त्रमाह यामले भौतिकः शशिकलासमन्वितो वह्निषोडशकला समन्वितः | ङेन्तमन्त्रमथ फट्समन्वितं शुद्धये मनुरयं प्रकीर्तितः || भौतिकः ऐकारः | शशिकला नादबिन्दुः | वह्नीरेफः | षोडशकला अः कारः | तेन ऐं रः अस्त्राय फट् | शुद्धये करशुद्धये इत्यर्थः || तन्त्रगन्धर्वेऽपि गृहीत्वा रक्तपुष्पञ्च सगन्धं साधकोत्तमः | अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् || सम्मार्ज्य सव्यहस्तेन वामेन पाणिना ततः | निर्मञ्छयकामबीजेन जिघ्रेत्तद्वाग्भवेन च | ऐशान्यां निक्षिपेदेतच्छरबीजेन पार्वति || तत्रैव मार्जनात्करयोः शुद्धिर्निर्मञ्छनातु पृष्ठयोः | ग्राणाद्देवाश्च तुष्यन्ति तीर्थानाञ्च समागमः || क्षेपणात् सर्वविघ्नानां दूरसंस्थानमेव च | दुर्गन्धोच्छिष्ट संस्पर्शदूषणं करयोस्तु यत् || अज्ञातरूपं तत्सर्वं नाशयेद् विधिनाऽमुना | करशुद्धिं समासाद्य कुर्यात्तालत्रय ततः || ऊर्ध्वोर्ध्वमस्त्रमस्त्रेण दिग्बन्धमपि देशिकः | हुं फट् स्वाहेति मन्त्रेण ऊर्ध्वोर्ध्वमप्यधस्तथा || कुर्यात्तालत्रयं मन्त्री दिग्बन्धनमथाचरेत् | दिग्बन्धनं छोटिकामिर्दशभिः कारयेत्सुधीः || विघ्नमुत्सारितं कृत्वा ततः पुष्पं विशोधयेत् | कृताञ्जलिपुटो भूत्वा वामे गुरुत्रयं नमेत् || गुरुत्रयमाहतन्त्रे गुरुं परंगुरुञ्चैव परापरगुरुं तथा | दक्षपार्श्वे गणेशञ्च मूर्ध्नि देवीं नयेत् प्रिये || गन्धर्वे भूतशुद्धिऋषिन्यासः पीठन्यासस्तथैव च | कराङ्गयोः षडङ्गानि मातृकान्यास एव च || विद्यान्यासो महेशानि यैश्च देवमयो भवेत् | एतदेव हिनित्यं स्यात्काम्यं चान्यत्प्रकीर्तितम् || देव एव यदेद्देवं नादेवो देवमर्चयेत् | अदेवः पूजयन् देवं न पूजाफलभाग्भवेत् || वासिष्ठरामायणे अविष्णुः पूजयन् विष्णुं च पूजाफलभाग्भवेत् | विष्णुर्भूत्वाऽर्चयेद्विष्णुरिति स्मरन् || भारते नाविष्णुः कीर्तयेद्विष्णुर्विष्णुमर्चयेत् | नाविष्णुः संस्मरेद्विष्णुं नाविणुर्विष्णुमाप्नुयात् || भविष्ये नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् | नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् || नादेवी कीर्तयेद्देवीं नादेवी तां समर्चयेत् | न्यासात्तदात्मको भूत्वा देवीभूतस्तु तां यजेत् || आग्नेये रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् | सूर्यः स्याद् सूर्यपूजातः शाक्त्यादिः शक्तिपूजनात् || शक्तिपूजनात् शक्त्यादिपूजनात् | आदिपदात् गणेशादि परिग्रहः | द्येनैव न्यासमात्रेण देववज्र जायतेनरः | प्राणायामैस्तथा ध्यानैर्न्यासैर्देवशरीरमृत् | न्यासानां प्रचुरत्वेन फलानामपि भूरिता || भूतशुद्धिः तन्त्रगन्धर्वे स्वभावतः सदाऽशुद्धं पञ्चभूतात्मकं वपुः | मलमूत्रसमायुक्तं सर्वदैव महेश्वरि || तस्यैव हि विशुद्ध्यर्थं वायवग्निसलिलाक्षरैः | चन्द्रबीजेन देवेशि पृथ्वीबीजेन देशिकः || शोषदाहौ तथा भस्मप्रोत्सारामृतवर्षणम् | आप्लावनञ्च कर्तव्यं पूरकुम्भकरेचकैः || शरीराकारप्राप्तानां भूतानां यद्विशोधनम् | अव्यक्तब्रह्मसंस्पर्शाद् भूतशुद्धिरियं शिवे || भूतशुद्धिं विधाये त्थमर्घ्यादिस्थापनं चरेत् | विदध्यान्मातृकान्यासं मन्त्रन्यासमनन्तरम् || प्राणायामत्रयं कुर्यादृष्यादिन्यासमाचरेत् | न्यासौ कराङ्गयोः कृत्वात्मानं भगवतीं स्मरेत् || प्राणायामं ततः कुर्यात्पूरकुम्भकरेचकैः | तत्त्रयं तु विधातव्यमनुलोमविलोमतः || अर्घ्यं संस्थापयेन्मन्त्री यथान्यायं विधानतः | त्रिकोणषट्कोणवृत्तचतुरस्राणि कारयेत् | पुष्पैरभ्यर्च्य तन्मन्त्री तत्राधारं निवेशयेत् || मं वह्निमण्डलायेति दशकलात्मने नमः | पूजयित्वा अर्घ्यपात्रं तु तत्रैव स्थापयेद् बुधः || फडिति प्रक्षालनं कृत्वा पूजयेत्साधकोत्तमः | अं अर्कमण्डलायेति द्वादशान्ते कलात्मने || नम इत्यन्तमन्त्रेण पूजयेदर्कमण्डलम् | मूलेनापूर्य देवेशि विमलेन जलेन तु || ओं सोममण्डलायेति षोडशान्ते कलात्मने | नम इत्यन्तमन्त्रेण पूजयेच्चन्द्रमण्डलम् || पूजयित्वा षडङ्गानि न्यसेत्साधकसत्तमः | तत्राक्षतानि पुष्पाणि दूर्वादीने विनिःक्षिपेत् || मूलमन्त्रं जपेत् स्पृष्ट्वा अङ्गमन्त्रं प्रविन्यसेत् | हृन्मन्त्रेणाऽभिसम्पूज्य हस्ताभ्यां छादयेदपः || हस्ताभ्यामिति मत्स्यमुद्रया इत्यर्थः | अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च | धेनुमुद्रां समापाद्य रोधयेत् त्स्वमुद्रया | अमृतं तज्जलं चिन्त्यं द्रव्यसंप्रोक्षणं चरेत् || गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः | सदूर्वैः सर्वदेवानामेत दर्घ्यमुदीरितम् || शिवविषये गृहिणां सगर्भैवि दूर्वा | यथा अन्तः शून्यां त्रिपत्राञ्च योदद्यान्मच्छिरोपरि | जन्मन्यत्र दरिद्रः स्यादन्ते च नरकं व्रजेत् || अर्घ्यपात्रस्थितैस्तोयैर्विना यत्तु निवेदनम् | देवेभ्यो दीयते यद्यद् तत्सर्वं निष्फलं भवेत् || अर्घ्यस्योत्तरतः स्थाप्यं पाद्यमाचमनीयकम् | तत्पार्श्वे मधुपर्कञ्च दद्यात्तु मधुमिश्रितम् || एतत् श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् | पाद्यपात्रे च दातव्यमर्घ्यञ्चैवार्घ्यपात्रके || जातीलवङ्गकंकोलं दद्यादाचमनीयके | आदौ द्रव्याणि संस्कृत्य पश्चात्तन्त्रोदितान्न्यसेत् | मातृका द्विविधा प्रोक्ता पराचाप्यपरा तथा | सुषुम्नान्तः पराज्ञेया अपरादेहमाश्रिता || अथ मातृकाषडङ्गन्यासः ज्ञानार्णवे अं आंमध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् | उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् || ओं औं मध्ये पवर्गन्तु अं अः मध्ये यवर्गकम् | न्यासं कुयान्महेशानि हृदयादि षडङ्गकम् || मूलादि ब्रह्मरन्ध्रान्तं ध्यायेद्देवीं चिदात्मिकाम् | बिन्दुस्रत सुधासारैस्तर्पयन्मातृकां न्यसेत् || अन्तर्मातृकान्यासः अथाऽन्तर्मातृकान्यासं शृणुष्व कमलानने | द्व्यष्टपत्राम्बुजे कण्ठे स्वरान्षोडश विन्यसेत् || द्वादशच्छदहृत्पद्मे कादीन्द्वादश विन्यसेत् | दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश || षट्पत्रे लिङ्गमूले च वकारादीन्न्यसेच्च षट् | आधारे चतुरो वर्णान्न्यसेद्वादीन् चतुर्दले || हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये | एकैकं वर्णमुच्चार्य मनसा तु ध्रुवादिकम् | नमोऽन्तमिति विन्यास आन्तरः परिकीर्तितः || ध्रुवादिकं प्रणवादिकमित्यर्थः | शारदायाम् बाह्यं चैव मातृकान्यासं शृणुष्वावहितोमम | ललाटमुखवृत्ताक्षिश्रुतिघ्राणेशु गण्डयोः || ओष्ठदन्तोत्तमाङ्गस्यदोःपत्सन्ध्यग्रकेषु च | पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेंऽसङ्के || ककुद्यंसे च हृत्पूर्वपाणिपादयुगे तथा | जठराननयोर्न्यसेन्मातृकार्णान् यथाक्रमम् || मातृकान्यासमुद्रामाह मानसोल्लासे मनसा वा न्यसेन्न्यासान्पुष्पैरेवाऽथवा न्यसेत् | अंगुष्ठानामिकायोगान्न्यसेद्वा सर्वकर्मसु || गौतमीये चतुर्द्धा मातृका प्रोक्त केवला बिन्दुसंयुक्ता | सविसर्गा सोभया च रहस्यं कथयामिते || अन्त्योपान्त्यौ स्वरौ बिन्दुसर्गहीनौ न्यसेत्प्रिये | विद्याकरी केवला च सोभया मुक्तिदायिका | सविसर्गा पुत्रदात्री सबिन्दुर्बिन्दुदायिनी || बिन्दुदायिनी मोक्षदायिनीत्यर्थः | धन्यं यशस्यमायुष्यं कलिकल्मषनाशनम् | यः कुर्यान्मातृकान्यासं स एव श्रीसदाशिवः || अथ विद्यान्यासः नवरत्नेश्वरे मूर्ध्नि मूले च हृदये नेत्रत्रितय एव च | श्रोत्रयोर्युगले देवि मुखे च भुजयोः पुनः || पृष्ठे जान्वोस्तथा नाभौ विद्यान्यासं समाचरेत् | एवं न्यासकृतः साक्षात्पशुः पशुपतिः स्वयम् || फेत्कारिणीयतन्त्रे ओंकारसम्पुटीकृत्य मूलेन व्यापकं न्यसेत् | पञ्चधा नवधा वापि न्यसेद्वा सप्तधाऽथवा || मूलमुच्चार्य शीर्षादिपादपर्यन्तं पादादिशीर्षान्तं हृदयादिमुखान्तं व्यापकं न्यसेदित्यर्थः | इति विद्यान्यासः || विशुद्धेश्वरे प्राणायामत्रयं कुर्याद्विद्यया तदनन्तरम् | पूरकं वामनाड्यां तु कुर्याद् षोडशधा जपैः || कुम्भकं मध्यनाड्यान्तु चतुःषष्टिजपात्ततः | रेचकं पिङ्गलायान्तु तदर्द्धजपसंख्यया || विपरीतं पुनः कुर्याद्यथाशक्त्या च साधकः | तदशक्तौ चतुर्द्धापि प्राणसंयमनं चरेत् || चतुर्द्धेति मूलविद्याश्चतुर्वारजपेन पूरकं, षोडशवार जपेन कुम्भकमष्टवारजपेन रेचकमिर्त्यः | तत्राप्यशक्तौ समयाङ्कमातृकायाम् | इडया पूरयेद्वायुं सकृच्च मूलविद्यया | मध्यनाड्या कुम्भयेच्च वेदसंख्यं वरानने || नेत्रसंख्याक्रमेणैव रेचयेत् पिङ्गलाध्वना | पुनः पुनः क्रमेणैव यथा वारत्रयं भवेत् || बाह्यादापूरणं वायोरुदरे पूरको भवेत् | सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् | वहिर्यद्रेचनं वायोरुदराद्रेचको हि सः || ज्ञानार्णवे कनिष्ठानामिकांगुष्ठैर्यन्नासापुटधारणम् | प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना | प्राणायामं विना देवि पूजने नास्ति योग्यता || यामले ऋषिं न्यसेन्मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे | देवतां हृदये चैव बीजं तु गुह्यदेशके || शक्तिं तु पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् || ऋषि न्यसेदिति तत्तत्प्रकारणीयमृषिच्छन्द इत्यादिकं न्यसेदित्यर्थः | ऋषिच्छन्दो देवतानां विन्यासेन विना यदा | जपेत्तु साधको यस्तु न स तत्र फलं लभेत् || कराङ्गन्यासमाह शारदायाम् अंगुष्ठादिष्वंगुलिषु न्यसेदङ्गैः सजातिभिः | अङ्गैस्तत्तत्कल्पोक्तांगमन्त्रैः | सजातिभिः नम आदिभिः | ज्ञानार्णवे नमः स्वाहा वषट् हुं वौषट् फडन्ताः सजातयः | हृच्छिरः शिखा-कवच-नेत्रत्रयं तथास्त्रकम् || शारदायाम् अस्त्रं तत्तलयोर्न्यस्य कुर्यात्तालत्रयादिकम् | दिशस्तेनैव बध्नीयाच्छोटिकाभिः समाहितः || अथाङ्गन्यासः हृदयादिषु विन्यसेदङ्गमन्त्रांस्ततः सुधीः | हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा || शिखायै वषडित्युक्तं कवचाय हुमीरितम् | नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् | षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् || रुद्रयामले हृदयं मध्यमाऽनामातर्जनीभिः स्मृतं शिरः | मध्यमार्जनीभ्यां स्यादंगुष्ठेन शिखा स्मृता || दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् | प्रोक्तांगुलीभ्यामस्त्रं स्यादंकॢप्तिरियं मता || इति | तिसृभिरिति तर्जनीमध्यमानामाभिः | तर्जनीमध्यमानामाः प्रोक्ता नेत्रत्रये क्रमात् | यदि नेत्रद्वयं देवि तदा तर्जनीमध्यमे || भैरवतन्त्रे षडङ्गानि न्यसेन्मन्त्री त्रिःसकृद्वा यथाक्षमम् | तन्त्रे अङ्गन्यास करन्यासौ षड्दीर्घमायया चरेत् | सारावल्यां यद्बीजाद्या भवेद्विद्या तद्बीजेनाऽङ्गकल्पना | कुलचूडामणौ एकाक्षरमधिकृत्य पूर्वं बीजं परं शक्तिरिति | षड्दीर्घभाजाबीजेन कुर्यादङ्गादिकल्पना || कालीविद्यायां स्वच्छन्दसंग्रहे स्वरं विहाय बीजस्य दीर्घषट्कं नियोजयन् | षडङ्गानि विदध्याद्वै सर्वत्राऽयं विधिः स्मृतः || पूजाजपार्चनाहोमाः सिद्धमन्त्रैः कृता अपि | अङ्गन्यासेन हीनास्तु न दास्यन्ति फलान्यमी || इत्यङ्गन्यासस्य नित्यत्वम् | अथ स्वस्वकल्पोक्तषोढान्यासं कुर्यात् || षोढान्यासफलम् षोढान्यासशरीरस्तु भवेद् गङ्गाधरः स्वयम् | अवश्यं प्रत्यहं कुर्यात् ततः पूजां जपं तथा | कृतेऽपि साधक श्रेष्ठो महादेवसमो भवेत् || कृतन्यासोऽकृतन्यासं प्रणमेद्यदि पार्वति | तत्क्षणादकृतन्यासो विदीर्णहृदयो भवेत् || यं नमन्ति महादेवि षोढापुटित विग्रहाः | अल्पायुः स भवेत्सद्यो देवता कम्पते भिया | न्यासं निर्वर्तयेद्देवि षोढान्यासपुरःसरम् || आत्मध्यानम् तन्त्रगन्धर्वे आत्मानं साधको ध्यायेद्दिव्यस्त्रीभिरलंकृतम् | दिव्यं मूर्ध्नि महाच्छत्रं सहस्रदल कल्पितम् || रत्नासनोपविष्टन्तु लाक्षारुणगृहस्थितम् | ताम्बूलरक्तवदनं नानागन्धसमन्वितम् || चन्दनागुरुकस्तूरी रक्तचन्दनभूषितम् | सर्वालङ्कारभूषाढयं देव्या विग्रहरूपिणम् || सुगन्धिपुष्पाभरणरत्नादिभिरलंकृतम् | तस्य हस्तगता सिद्धिर्नान्यस्य च कदाचन || देवीध्यानम् ततो देवीं हृदम्भोजे ध्यायेत्तद्गतमानसः | पुष्पं गृहीत्वा देवेशि मुद्रया तु त्रिखण्डया || तां कुर्याद् हृदयासन्नां निमील्य लोचनद्वयम् | समकायशिरोग्रीवा भूत्वा स्थिरमना बुधः || तत्रैव सफलध्यानकर्तव्यत्वमाह ध्यानं समाचरेन्मन्त्री सर्वपापप्रणाशनम् | ततो हृत्पद्मगां देवीं मानसैरुपचारकैः || गन्धपुष्पधूपदीपैर्नैवेद्यैर्बलिभिस्तथा | भोर्गेश्च पूजयेदेनां साधकस्तु यथाविधि || ततो वै मानसं जापं कुर्याद् होमञ्च साधकः | नमस्कृत्य तथा स्तुत्वा वहिर्यजनमाचरेत् || ततो हृदयपत्रान्तः स्फुरन्तीं परमेश्वरीम् | सुषुम्नावर्त्मना नीत्वा शिर(व)स्थाने महेश्वरीम् || तत्रानन्देन संयोज्य केवलानन्दरूपिणीम् | ततो वै हृदयासन्ने पूर्वस्थाने समानयेत् || तामाज्ञास्थानमानीय वहन्नाभ्या विरेचयेत् | नासया दक्षया देवि वायुबीजेन मन्त्रवित् | करस्थकुसुमे देवीं स्थापयेदासनोपरि || देव्यावाहनम् एह्येहि भगवत्यम्ब भक्तानुग्रहविग्रहे | योगिनीभिः समं देवि रक्षार्थं मम सर्व(दा)था || देवेशि ! भक्तिसुलभे ! परिवार समन्विते | यावत् त्वां पूजयामीशे तावत्त्वं सुस्थिरा भव | देवीं ध्यात्वा समावाह्य तत्तन्मुद्राः प्रदर्शयेत् || तत्तन्मुद्रा आवाहन्यादि पञ्चमुद्राः | शालग्रामादावाहनस्य निषेधमाह शालग्रामे मणौ चाप्सु वह्नौ मनसि पुष्पके | एषु चावाहनं नास्ति तत्र देवाः सदा स्थिताः || द्रव्यदाननियमः पूजाप्रकारमाह यामले आदौ मूलं समुच्चार्य पश्चाद् देयं समुच्चरेत् | सम्प्रदानं तदन्ते तु त्यागार्थकपदं ततः | एवं कल्पक्रमेणैव पूजयेत् परमेश्वरीम् || नार्चयेदेकहस्तेन पञ्चानां नखदर्शनम् | निष्फला कीर्तिता सा हि सर्वत्राऽपि न शोभते || षडङ्गाद्यावरणपूजा चरणाधारनाभ्यन्तर्वक्षो मौलिषु पञ्चसु | पञ्चाञ्जलीन्प्रसूनैश्च विकीर्याऽथ महेश्वरि | देवीपादाम्बुजे द्वन्द्वे त्रिधा पुष्पाञ्जलीन् क्षिपेत् || श्रीपादुकां पूजयामीत्यमुं मन्त्रं समुच्चरन् | अंगुष्ठाऽनामया दक्षे त्रिधा पुष्पाणि पातयेत् || तर्पणं तु मुखे दद्यात्त्रिवारं तत्त्वमुद्रया | अंगुष्ठानामिकायोगः शिवशक्त्यात्मकः स्मृतः || तयोः संयोगमात्रेण द्रव्यं स्यादमृतोपरम् | तेनामृतेन दिव्येन तर्पयेत् परदेवताम् || व्यक्तमाह अंगुष्ठानामिकाभ्याञ्च वामहस्तस्य पार्वति | तर्पयेत्सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ||] षडङ्गं पूजयेत् तत्र देव्या देहेऽथ साधकः | हृदये हृदयाङ्गं तु शिरस्येव शिरोऽङ्गकम् || शिखां शिखायां सम्पूज्य कवचं सर्वदेहके | नेत्रत्रयं त्रिनेत्रे तु दिक्ष्वस्त्रं च प्रपूजयेत् || नमः स्वाहा वषट् हुञ्च वौषट् फट् जातिसंयुतम् | षडङ्गयुवती नित्यं देव्यो देहेषु संस्थिता || तन्त्रे इज्यं हृदयमाग्नेययामैशान्यां तु शिरो यजेत् | नैर्-ऋत्यां तु शिखा पूज्या वायव्यां कवचं यजेत् || अभ्यर्च्य पुरतो नेत्रं दिक्षु चात्रथार्चयेत् | प्रधानतनुरूपाणि षडङ्गानि प्रपूजयेत् || शारदाटीकायाम् वायव्यादीशपर्यन्तं गुरुपंक्ति समर्चयेत् | गुरुपंक्त्याज्ञाने यामले अविज्ञातगुरुर्देवि गुरुञ्च परमं गुरुम् | परापरगुरुं चैव परमेष्ठिगुरुं तथा | आग्नेयादिचतुष्कोणे पूजयेत् परमेश्वरि || आग्नेयादि कोणमाह तन्त्रगन्धर्वे ईशानमग्निकोणं स्याद्वायुकोण तथेशकम् | राक्षसं वायुकोणं स्यादग्निश्च राक्षस भवेत् || गन्धर्वतन्त्रे अथवा रश्मयः सर्वा देवीरूपा विचिन्तयेत् | निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः || देव्यस्तथा समुत्पन्ना महादेव्याः शरीरतः | श्रीपात्रामृततोयेन रश्मिवृन्दं प्रतर्पयेत् || प्राचीं दिशं तु विज्ञाय पूजयेदङ्गदेवताः | स्वस्थानमाश्रित्य देवाः सर्वाभीष्टफलप्रदाः | स्वस्थानवर्जिता देवाः शोकदुःखफलप्रदः || पूर्वादिदिग्निरूपणम् प्राच्यादिदिशमाह नवरत्नेश्वरे पूज्यपूजकमध्यं तु पूर्वाशैव व्यवस्थिता | पूज्यस्य दक्षिणे दक्षा चोत्तरे चोत्तरा तथा | पश्चिमे पश्चिमा ज्ञेया पूजायां सर्वतः शिवे || सर्वत इति षडङ्गपूजायाम् | आत्मनः सम्मुखञ्चैव देवतायाश्च सम्मुखम् | देवस्य मस्तकं कुर्यात्कुसुमेनाचितं सदा | पूजाकाले देवताया नोपरि भ्रामयेत्करम् || त्रिपुराविषये पुरन्दरमुखो देवी पूजयेत्त्रिपुरां यदि | देवीपृष्ठं भवेत् प्राची प्रतीची त्रिपुरापुरः || कृताञ्जलिः श्रीमत्यमुकि देवि आवरणं ते पूजयामि इत्यनुज्ञां लब्ध्वा आवरणं पूजयेत् | पद्मपत्रे ततश्चक्रे देव्या अग्रदलादितः | वामावर्तेन देवेशि क्रमेण परिपूजयेत् | स्वकल्पोक्त क्रमेणैव पूजयेदङ्गदेवताः || कुलार्णवे त्रिवारं पूजयेद्वापि सकृद्वापि यथेच्छया | यामले देव्यस्त्रं पूजयेद्दिक्षु पुनर्देवीं प्रपूजयेत् | सवाहनाः सवर्गाश्च परिवारास्ततः परम् || तथा सर्वोपचारैश्च पूजितास्तर्पितास्तथा | सन्त्वित्येतन्मनुं जप्त्वा देव्यै पूजां समर्पयेत् || पूजां सर्पयेद्देव्यै गन्धपुष्पाक्षतादिभिः | विशेषार्घ्योदकेनैव तर्पयेत्परमेश्वरीम् || मन्त्रजपप्रकारः ध्यात्वा कामकलां देहे विद्याजपं समाचरेत् | मन्त्रार्थस्मृतिपूर्वं तु सहस्रादिजपं चरेत् || बृहच्छ्रीक्रमे न जपेत्त्रिंशता न्यूनं साधकस्तु कदाचन | तन्त्रे सहस्रं वा शतं वापि दश वापि जपं तथा | कुर्यादष्टाधिकं तेषामिति जप्यविधिः स्मृतः || जपं समर्पयेद्देवि गन्धपुष्पार्घ्यवारिभिः | तेजोमयं जपं देव्या वामहस्ते निवेदयेत् || गुह्यातिगुह्यगोप्त्री त्वमिति मन्त्रेण मन्त्रवित् | ततो नीराजनं कुर्याद्दशवारं तु दीपकैः || स्तुवन् प्रदक्षिणीकृत्य दण्डवद् प्रणमेद् भुवि | आत्मार्पणेन मनुना कुर्यादात्मार्पणं प्रिये || आत्मसमर्पणम् तदुक्तं यामले इतः पूर्वमिति प्रोच्य प्राणबुद्धीति चोच्चरेत् | देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु || सर्वावस्थासु मनसा वाचा च कर्मणेति च | हस्ताभ्यामथ पद्भ्याञ्च तथोदरेण संस्मरेत् || शिश्ना यत्स्मृतमित्येतद्यदुक्तं यत्कृतं तथा | सर्वमित्यपि तद्ब्रह्मार्पणमस्त्वग्निवल्लभा || प्रणवञ्च मदीयं मां सकलं साध्यदेवताम् | ङेन्तां समर्पितं तारं तत्सदित्यपि संस्मरेत् || अर्घ्योदकाक्षतैर्मूलैर्देव्यै पूजां समर्पयेत् | पूजिताऽस्त्वियनेनैव देव्यै पूजां समर्पयेत् | देव्या गृहीतमित्येवं भावयेद्यतमानसः || विश्वसारे आज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च | यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि || द्रव्यहीनं क्रियाहीनं श्रद्धाभक्तिविवर्जितम् | तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे || यन्मया क्रियते कर्म महद्वा स्वल्पमेव वा | तत्सर्वञ्च जगद्धात्रि क्षन्तव्यमयमञ्जलिः || कुलार्णवे कृताञ्जलिर्महेशानि रक्षामन्त्रं पठेत्सुधीः | ओं काली विदध्यान्मम पुत्ररक्षां तथा कराली मम देहरक्षाम् | दुर्गाऽट्टहासैर्मम शत्रुनाशं करोतु तारा विदधतु राज्यम् || पठेत्सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् | स्तोत्रैः स्तुत्वा पठेद्देवि कवचं सर्वकामदम् | कवचं हि विना देवि शूद्रस्तु जपमाचरेत् || कवचं हि बिनेति | स्वाहाप्रणवसंयुक्तं कवचं विनेत्यर्थः | देवीं प्रदक्षिणीकृत्य नमस्कृत्य विसर्जयेत् | विधाय पश्चात्स्वां विद्यां स्वीयहृत्सरसीरुहे || सुषुम्नावर्त्मना पुष्पमघ्रायोद्वासयेत्ततः | क्षमस्वेति च मन्त्रेण हृदि देवीं विसर्जयेत् || भैरवीतन्त्रे संहार मुद्रया देवि क्षमस्वेति विसर्जयेत् | तन्नैवेद्यशतांशं वा सहस्रांशं च भैरवि | दद्यादुच्छिष्टचाण्डाल्यै स्वाहेति मनुना ततः || अथवा निर्माल्येन यजेद्देवीमीशे निर्माल्यवासिनीम् | निर्माल्यं शिरसा धार्यं सर्वाङ्गे चानुलेपनम् || नैवेद्यञ्चोपमुञ्जीत दत्त्वा तद्भक्तिशालिने | शताभिमन्त्रितं पुष्पं चन्दनं मूर्ध्नि भालतः || धृत्वाऽवश्यं नयेद्वश्यं त्रैलोक्यमपि दर्शनात् | यं यं गच्छामि पादेन यं यं पश्यामि चक्षुषा || स एव दासतां यातु यदि शक्रसमो भवेत् | अनेन तिलकं कृत्वा त्रैलोक्यमपि मोहयेत् || सद्यः पर्युसितं वापि निर्माल्यं प्रदूष्यति | ब्रह्मरध्रे गुप्तस्थाने यन्त्रलेपं तु धारयेत् | उदकं तरुमूले वा निर्माल्यं तस्य संत्यजेत् || रुद्रयामले पूर्वजन्मार्जितैः पुण्यैर्ज्ञात्वैनां परदेवताम् | यो भजेद्भक्तिभावेन सद्यः श्रीसम्पदां पदम् | यदाराधनमात्रेण जीवन्मुक्तिः प्रजायते || इति वचनात् | देव्याः पूजा त्रिधा प्रोक्ता स्थूलमाभ्यन्तरं तथा | स्थूलं मन्त्रमयीं पूजां स्थूलविग्रहचिन्तनम् || मानसैरुपचारैस्तु पूजा चाभ्यन्तरं प्रिये | कर्मयोगं विना देवि ज्ञानयोगो न सिध्यति | ज्ञानेन कर्मणा वापि सिद्धिर्भवति नान्यथा || इति श्रीपरिव्राजकाचार्यपरमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां प्रातःकृत्यनिर्णयो नित्यपूजाप्रमाणनिर्णयो नाम सप्तमोल्लासः || ७ || अष्टमोल्लासः मालानिर्णयः अथ वक्ष्ये महेशानि मालायाः परिनिर्णयम् | नित्यं जपं करे कुर्याद् न तु काम्यं कदाचन् | काम्यमपि करे कुर्याद् मालाभावे च सुन्दरि || अथ करमाला यामले अनामायास्त्रयं पर्वं कनिष्ठायास्त्रिपर्विका | मध्यमायास्त्रयं पर्वं तर्जनी मूलपर्वं च || प्रादक्षिण्यक्रमेणैव जपेद्दशसु पर्वसु | शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपिका || पर्वद्वयं तु तर्जन्या मेरुं तद्विद्धि पार्वति | तर्जन्यग्रे तथा मध्ये यो जपेत् तत्रमानवः | चत्वारि तस्य नश्यन्ति आयुर्विद्यायशोबलम् || श्रीविद्यायाम् अनामामध्यमायाश्च मूलाग्रञ्च द्वयं द्वयम् | कनिष्ठायाश्च तर्जन्यास्त्रयं पर्वं महेश्वरि || अनामामध्ययोर्मध्यं मेरुश्च द्वितयं स्मृतम् | प्रादक्षिण्यक्रमाद्देवि जपेत् त्रिपुरसुन्दरीम् || करमालायां जपप्रकारः हृदये हस्तमारोप्य तिर्यक् कृत्वा करांगुलीः | आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् || अंगुलीनां वियुञ्जीत किञ्चिदाकुञ्चयेत्तलम् | अंगुलीनां वियोगाच्च छिद्रेण स्रवते जपः || अंगुल्यग्रेषु यज्जप्तुं यज्जप्तुं मेरुलंधने | सर्वसन्धिसु यज्जप्तुं तत्सर्वं निष्फलं भवेत् || यामले मणिनियममाह मण्यष्टकशतेनैव निर्मिता या तु मालिका | राज्यं वितनुते नित्यं देहान्ते मोक्षदायिनी || मोक्षदा पञ्चविंशत्या त्रिंशता धनवृद्धिदा | चतुर्दशमयी माला मोक्षदा भोगवर्द्धिनी | सर्वार्थाः सप्तविंशत्या पञ्चदश्याभिचारिके || (पञ्चविंशत्याभिचारके इत्यपि पाठः) पञ्चाशता कार्यसद्धिश्चतुःपञ्चाशता तथा | अष्टोत्तरशतेनैव सर्वसिद्धिरुदाहृता | त्रिपुरायाणपेशस्ता रुद्राक्षै रक्तचन्दनैः || भैरवीविषये वाराहीतन्त्रे सुवर्णमणिभिर्माला स्फाटिकी शङ्खनिर्मिता | प्रवालैरपि वा कार्या पुत्रजीवं विवर्जयेत् || श्मशानधुस्तूरैर्मालां कुर्याद्धूमावती विधौ | रक्तेन चन्दनेनाऽपि बालामालां प्रकल्पयेत् || दन्तेन कालिकायास्तु राजदन्तस्य मेरुणा | उग्रताराजपे शस्ता महाशङ्खस्य मालिका || उन्मुख्याश्च तथा ज्ञेया मालिका सिद्धिदायिका | शाक्तानां स्फाटिकी माला रक्तचन्दनसम्भवा || रुद्राक्षमालिका ज्ञेया चतुर्वर्गफलप्रदा | निर्मिता रौप्यमणिभिर्जपमालेप्सितप्रदा || हिरण्यमणिभिर्माला सर्वान्कामान्प्रयच्छति | प्रवालैर्विहिता माला प्रयच्छेत् विपुलं धनम् || सौभाग्यं स्फाटिकी माला मौक्तिकैर्विहिता तथा | निर्मिता शङ्खमणिभिः कुरुते कीर्तिमयव्याम् || सुवर्णै रचिता माला सदा स्यान्मुक्तये नॄणाम् | गोपनीयाऽनिशं देवि जपमालेप्सिताप्तये || मुण्डमालायाम् रुद्राक्षैर्वा यदि जपेदिन्द्राक्षैः स्फाटिकैस्तथा | नान्यमध्ये प्रयोक्तव्यं पुत्रजीवादिकञ्च यत् || यदन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि | तस्य कामं च मोक्ष च नो ददाति प्रियङ्करी || यामले रुद्राक्षैः शक्तिमन्त्रञ्च मन्त्री यः प्रजपेत् प्रिये | स दुर्गतिमाप्नोति निष्फलस्य तस्य तज्जपः || प्रतिप्रसवमाह तत्रैव कालिका छिन्नमस्ता च त्रिपुरा तारिणी तथा | एताः सर्वा न दूष्यन्ति जपाद् रुद्राक्षमालया || रुद्रयामले दिवा नैव प्रजप्तव्यं रुद्राक्षमालया क्वचित् | पूर्वश्चर्यादृते चात्र दूषणञ्च वरानने || अरुद्राक्षधरः कुर्यात्तान्त्रिकं वैदिकं तथा | जपहोमादिकं यद्यत्तत्सर्वं निष्फलं भवेत् || मालाविशेषफलमाह मन्त्रदेवप्रकाशिकायाम् पर्वस्वष्टगुणं पुत्रजीवे दशगुणं भवेत् | शतं स्याच्छङ्खमालायां प्रवाले च सहस्रकम् || स्फाटिके दशसाहस्रं लक्षं तु मौक्तिके भवेत् | पद्माक्षे दशलक्षन्तु कोटिः सौवर्णिके तथा || कुशग्रन्थौ च रुद्राक्षेष्वनन्तगुणितं भवेत् | श्वेतपद्माक्षमालायां जपे स्यादमितं फलम् || मालाविधानम् समासेनाऽक्षमालानां विधानमिह कथ्यते | यथालाभं यथारूपमक्षाण्यादाय यत्नतः || अन्योन्यसमरूपाणि नातिस्थूलकृशानि च | कीटादिभिरदुष्टानि न जीर्णानि कदाचन || गव्यैश्च पञ्चभिस्तानि प्रक्षालयेत्पृथक् पृथक् | द्विजस्त्रीनिर्मितं सूत्रं शुभ्रं ग्रन्थिविवर्जितम् || कार्पासनिर्मितं वापि पट्टसूत्रमथापि वा | त्रिगुणं त्रिगुणीकृत्य ग्रथयेच्छिल्पशास्त्रतः || सर्वेषामेव वर्णानां पट्टं सर्वेप्सितप्रदम् | कार्पाससम्भवं सूत्रं धर्मकामार्थमोक्षदम् || मूलास्त्रे च पठन् सूत्रं बीजं प्रक्षालयेत्ततः | मणिमेकैकमादाय सूत्रे तत्र तु योजयेत् || मुखे मुखन्तु संयोज्य पुच्छे पुच्छं नियोजयेत् | तत्सजातीयमेकाक्षं मेरुत्वेनाऽग्रतो न्यसेत् || एकैकमणिमादाय ब्रह्मग्रन्थिं प्रकल्पयेत् | ग्रथयेन मालिकां चैव हृदि तारं मनुं स्मरन् || स्वयमेव जपेन्मन्त्रमन्यः प्रणवमुच्चरेत् | सार्द्धत्रयावर्तनेन ग्रन्थिं कुर्यादथो दृढम् || ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा | गोपुच्छसदृशीं कुर्यादथवा सर्पपुच्छवत् || ग्रन्थिहीना न कर्तव्या मेरुपृष्ठे न दूष्यति | दूषणं त्वत्र नास्त्येव ग्रन्थिहीनैव नित्यशः || काल्याश्च त्वरितायाश्च वज्राख्या षट्कभेदके | तोतलावनवासिन्योर्वाराह्याश्च विशेषतः || नान्यस्याश्चण्डिकायाश्च ग्रन्थिहीना विधीयते | एवं निर्माय मालां वै शोधयेत् मन्त्रिसत्तमः || अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः | सर्वं तद्विफलं विद्यात्क्रुद्धा भवति चण्डिका || मालाप्रतिष्ठाविधिः अथोच्यते प्रतिष्ठा हि मालायास्तन्त्रवर्त्मना | गुरुं ततः प्रणम्यादौ संस्कुर्याज्जपमालिकाम् || शुभे लग्ने शुभे वारे शुभेर्क्षे च शुभे तिथौ | प्रतिष्ठां कारयेन्मन्त्री स्वयं वा गुरुणाऽथवा || नित्यं कर्म ततः कृत्वा सामान्यार्घ्यं विधाय च | पञ्चगव्ये क्षिपेन्मालां शिवमन्त्रेण मन्त्रयेत् || शिवमन्त्रमाह यामले शान्तः शत्रुस्वरारूढो नादबिन्दुविभूषितः | कथितः शिवमन्त्रोऽयं साधकानां हिताय च || शान्तो हकारः, शत्रुस्वरः उकारः | शीतलेन जलेनैव स्नापयेत्तदनन्तरम् | क्षालयेत्पञ्चगव्येन सद्योजातेन मार्जयेत् || सद्योजातमन्त्रस्तु सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः || क्षालयेदीशसूक्तेन लिम्पेत्तत्पुरुषेण तु | गन्धैरनल्पैर्मतिमानघोरेण तु धूपयेत् || अघोरेण तु सूक्तेन शतान्यूनं तु मन्त्रयेत् | वामदेवेन मन्त्रेण समीकुर्याद्विचक्षणः || अश्वत्थपत्रनवकैः पद्माकारं प्रकल्पयेत् | तन्मध्ये स्थापयेन्मालां मातृकामूलमुच्चरन् | संस्कृत्यैवं बुधोमालां तत्प्राणांस्तत्र योजयेत् || तत्प्राणान् आराध्यदेवताप्राणान् | तत्र देवीं प्रपूज्यैव परिवारगणैः सह | अनुलोमविलोमेन मातृकार्णेन मन्त्रयेत् | मेरुं प्रेतेन संमन्त्र्त्र भावयेद्देवतात्मिकाम् || प्रेतेन प्रेतबीजेन हसौः इति बीजेनेत्यर्थः | वह्निं संस्कृत्य विधिवदष्टोत्तरशतं हुनेत् | हुतशेषं प्रतिकृतौ प्रदद्याद्देवताधिया || होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् | ताराक्षमालाधिपते सुसिद्धिं देहि देहि मे || सर्वमन्त्रार्थसाधिनि साधय द्वितयं ततः | सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा || इत्थमाशंसिता माला जपकर्मणि सर्वदा | अभीष्टकं ददात्यर्थं सर्वकामफलं तथा || मालायां जप विधिः गुरुं सम्पूज्य तद्धस्ताद् गृह्णीयादक्षमालिकाम् | जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः || ऐं ह्रीं अक्षमालिकायै हृन्मन्त्रेण प्रपूजयेत् | पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे || हृत्समीपे समानीय न तु वामेन संपृशेत् | मध्यमाया मध्यभागे स्थापयित्वा समाहितः || मध्यमस्थामक्षमालमंगुष्ठाग्रेण चालयेत् | अशुचिर्न स्पृशेन्मालां करभ्रष्ठां न कारयेत् || तर्जन्या न स्पृशेदेनां गुरोरपि न दर्शयेत् | भुक्तौ मुक्तौ तथा पुष्टौ मध्यमायां जपेत्सुधीः || एकैकस्य जपेऽप्येवं चालयेद्देशिकोत्तमः | जप्त्वाऽक्षमालां सकलां भ्रामयेदखिलान्मणीन् || प्रदक्षिणं पुनः कृत्वा प्रारभ्यैवं समापयेत् | एवं क्रमेण देवेशि जपेदष्टोत्तरं शतम् || स्थूलावधि जपेन्मन्त्रं सूक्ष्मभागे समर्पयेत् | हस्तौ च वाससाच्छाद्य दक्षिणेन सदा जपेत् || एवं सूक्ष्मावधिस्थूलान्तो जपः संहारः || न स्वयं वामहस्तेन जपमालां तु संस्पृशेत् | जपकाले जपं कृत्वा शुद्धस्थाने सदा न्यसेत् || जीर्णेसूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् | अदीक्षितद्विजेनाऽपि स्पृष्टा चेत् शुद्धिमाचरेत् || न धारयेत्करे कण्ठे मूर्ध्नि च जपमालिकाम् | उरुपादाधरस्पृष्टा चापसव्यप्रचालिता || अगुप्ता चालिता वापि पुनः संस्कारमर्हति | जपमाला मया देवि कथिता भुवि दुर्लभा | सदा गोप्या प्रयत्नेन यदि त्वां मम वल्लभा || अथ वर्णमाला माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् | कुण्डलीग्रथिता शक्तिरलान्ते मेकसंस्थितिः || चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा | तया संग्रथिता ध्येया साक्षाज्जाग्रत्स्वरूपिणी || अन्तर्विद्रुमभासमानभुजगीसप्रोतवर्णोज्वला | आरोहप्रतिरोहतः शतमयी वर्गाष्टकाष्टोत्तरा || अनुलोमविलोमेन मन्त्रवर्णविभेदतः | मन्त्रेणाऽन्तरितान्वर्णान्वर्णेनाऽन्तरितं मनुम् || कुर्याद्वर्णमयी मालां सर्वमन्त्र प्रकाशिनीम् | चरमार्णं मेरुरूपं लंघनं नैव कारयेत् || सबिन्दुं वर्णमुच्चार्य पश्चान्मन्त्रं जपेत्सुत्धीः | अकारादिलकारान्तमनुलोम इति स्मृतम् || पुनर्लकारमारभ्य श्रीकण्ठान्तं मनुं जपेत् | विलोम इति विख्यातं क्षकारं केवलं जपेत् || वर्णानामष्टवर्गेण अष्टवारं जपेत्सुधीः | अष्टोत्तरशतं मन्त्रं ज्ञानेन संजपेत्सुधीः | अ क च ह त प य शा इत्येवं चाष्टवर्गकाः || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां मालानिर्णयो नामाऽष्टमोल्लासः || ८ || नवमोल्लासः जपविधिः जपविधिमहं वक्ष्ये शृणुष्व कमलानने | जपार्थं सर्वमन्त्राणां विन्यासञ्च लिपेर्विना || कृतं तन्निष्फलं विद्यात्तस्मादादौ न्यसेत्प्रिये | जपादौ च जपान्ते च प्राणायामं समाचरेत् || मानसादि जपभेदः विशुद्धेश्वरे जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकाः | निजकर्णगोचरो यो मानसः स जपः स्मृतः || उपांशुर्निजकर्णस्य गोचरः परिकीर्तितः | निगदस्तु जनैर्वेद्यस्त्रिविधो जप ईरितः || अन्यत्रापि यद्युच्चनीचोच्चरितैः स्पष्टशब्दवदक्षरैः | मन्त्रमुच्चारयेद्व्यक्तं जपयज्ञः स वाचिकः || उच्चारयेन्मन्त्रमीषत् किञ्चिदोष्टौ प्रचालयन् | किञ्चिच्छब्दमयं ब्रूयादुपांशुः स जपः स्मृतः || धिया यदक्षरश्रोण्या वर्णाद्वर्णं पदात्पदम् | शब्दानुचिन्तनाभ्यासः स उक्तो मानसो जपः || उच्चैर्जपाद् विशिष्टः स्यादुपांशुर्दशभिर्गुणैः | तस्मादपि विशिष्टः स्यात्सहस्रं मानसो जपः || मन्त्रजपपद्धतिः देवतां चित्तगां कुर्यात्कुर्याच्च हृदयं स्थिरम् | ओष्ठौ तु सम्पुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः || ध्यायेच्च मनसा वर्णान् जिह्वोष्ठौ न विचालयेत् | न कम्पयेच्छिरोग्रीवान्दन्तानैव प्रकाशयेत् | मन्त्रोद्धारक्रमेणैव मन्त्रं जपति साधकः || तदा सिद्धिं विजानीत न सिद्धिश्चान्यथा भवेत् || मन्त्रोद्धारक्रमेणैव मन्त्रघटकीभूत स्वरव्यञ्जन वर्णज्ञान क्रमेणेत्यर्थः | एव-कारोऽवधारणार्थः | आदौ ध्यानं ततो मन्त्रं ध्यानस्याऽन्ते मनुं जपेत् | ध्यानमन्त्रसमायुक्तः शीघ्रं सिध्यति साधकः || कुलार्णवे मनसा पठितं स्तोत्रं वाचा वापि मनोर्जपः | उभयं निष्फलं देवि भिन्न भाण्डोदकं यथा || भूतशुद्धौ यस्य यस्य च मन्त्रस्य उद्दिष्टा या च देवता | चिन्तयित्वा तदाकारं मनसा जपमाचरेत् || शनैः शनैरविस्पष्टं न द्रुतं न विलम्बितम् | क्रमेणोच्चारयेद्वर्णानाद्यन्तक्रमयोगतः || अतिह्रस्वो व्याधिहेतुरतिदीर्घो वसुक्षयः | अक्षराक्षरसंयुक्तं जपेन्मौक्तिक हारवत् || कुलार्णवे तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः | तत्पदार्थानुसन्धानं कुर्वन्मन्त्रं जपेत् प्रिये || रुद्रयामले कथं मन्त्राश्च सिध्यन्ति मन्त्रार्थाज्ञानिनः प्रिये | पशुर्भावविहीनश्च न तस्य भजते फलम् | मन्त्रार्थस्याऽनभिज्ञो हि न जपफलमश्नुते || मन्त्रार्थः मन्त्रदेवतयोरभेदज्ञानम् | तथाचोक्तं यामले मन्त्रार्थो देवतारूप चिन्तनं परमेश्वरि | मन्त्रात्मकश्च देवः स्याद् मन्त्रवाच्या च देवता || वाच्यवाचकभावेनैवाऽभेदो मन्त्रदेवयोः | मन्त्रगच्या देवता हि मन्त्रो हि वाचकः स्मृतः | वाचकेऽपि च विज्ञाते वाच्य एव प्रसीदति || प्रकारान्तरमाह भूतशुद्धौ मन्त्रार्थं परमेशानि सावधानऽवधारय | आधारे चिन्तयेद्विद्यां शुद्धस्फटिकसन्निभाम् || बन्धूकरुचिरां लिङ्गे नाभौ स्फटिक सन्निभाम् | हृदि मारकत प्रख्यां हरिद्वर्णां विशुद्धके || आज्ञायां चिन्तयेद्विद्यां चतुर्वर्णानुरञ्जिताम् | षट्चक्रे परमेशानि ध्यायेत्साधकसत्तमः || मन्त्रपुरश्चरणविधिः रुद्रयामले मन्त्रं नीत्वा गुरोः पार्श्वे गुरुभक्तिपुरःसरः | मन्त्रश्रोत्रास्यहृन्नेत्रप्राणान्विज्ञाय यत्नतः | मन्त्राणां कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरष्क्रियाम् || नचैतद्वचनं पुरश्चरणविषयमेवेति बोद्धव्यम् | श्रोत्रादीनां ज्ञानाभावे मन्त्रजपमात्रनिषेधात् | तथा चोक्तं मन्त्रकोषे श्रोत्रादीनां ज्ञानाभावे मन्त्रजापं करोति यः | दारिद्र्यञ्च विपत्तिञ्च नरकं प्राप्नुयात्तु सः || अन्यत्रापि हृन्नेत्रविहीनो मन्त्रो दारिद्र्यक्लेशदायकः | तन्त्रान्तरे श्रोणास्यनेत्रहृदयज्ञानान्मोक्षमवाप्नुयात् | सद्यः सिद्धिः सर्वविद्या स्यात्साक्षाच्छिव एव सः || भूतडामरे इन्द्रियमनोविशुद्ध्या मनोरास्यादिकं वक्ष्ये | शृणु देवि प्रवक्ष्यामि कालीमन्त्रतनुक्रमम् || कालीमन्त्रादीनां तनुक्रमः बिन्दुं श्रोत्रं नादमास्यं ककारं हृदयं बिदुः | वह्निं नेत्रं कीलकञ्च दीर्घेकारं प्रियंवदे || तकारं तारिणीमन्त्रो हृदयं विद्धि पार्वति | हकारं विद्धि सर्वत्र शक्तिमन्त्रे सुरेश्वरि || उत्तरतन्त्रे प्राणविद्या महाविद्या सा विद्या मुक्तिदायिका | श्यामाया द्वाविंशत्यक्षरविद्यायां विशेषमाह उत्तरतन्त्रे क्रीं कारोमस्तकं देवि क्रींकारश्च ललाटकम् | नेत्रत्रयं क्रींकारेण हूंकारेण च नासिका || हूंकारो मुखपद्यं स्याद् ह्रींकारः कर्णयुग्मकम् | ह्रींकारेण भवेद् ग्रीवा दकारश्चिद्रुकं भवेत् || क्षिकारेण भवेद्दन्तो णेकारेणौष्ठयुग्मकम् | काकारेण स्तनद्वन्द्वं लिकारः पृष्ठदेशकम् || केकारेण भवेद्बाहुः क्रींकारेणोदरं भवेत् | क्रींकारो नाभिदेशः स्यात् क्रींकारश्च नितम्बकम् || हूंकारो योनिरूपः स्याद् हूंकारेणोरुयुग्मकम् | ह्रींकारो जानुयुग्मं स्याद् ह्रींकारो गुल्फदेशकः | स्वाकारेण पदद्वन्द्वं हाकारेण नखास्तथा || ताराविद्यायां यामले वाग्देव्याः समुदायः स्यादाकृतिः प्रणवोमुखम् | मायावधुस्थितौ बिन्दु लोचने समुदाहृते || हसकारो श्रुती दीर्घस्वरौ हृदयरूपिणौ | फटकारौ योन्युदरावकारेण स्तन द्वयम् || रेफयुग्मं पदद्वन्द्वं तकारं माललोचनम् | वेदभुजस्वरूपञ्च नादयुग्ममुदाहृतम् || कूर्चं प्राणा एकजटा शरीरं सर्वमिष्यते | कूर्चं मुखन्तु विज्ञेयमन्यमन्त्रेषु पार्वति || अन्य मन्त्रेषु एकजटा या प्रणवरहितमन्त्रेषु कूर्चं मुखं तेन तत्तन्मन्त्रघटकीभूत तत्तद्वर्णोत्पन्नमुखनासौष्ठदन्ताधरहस्तपादस्तनयोन्याद्य- वयवावच्छिन्नशरीरं ज्ञानविषयीकृत्य जपेदित्यर्थः || कामिनीतत्त्वम् कामधेनुतन्त्रे अथान्यत्संप्रवक्ष्यामि कामिनीतत्त्वमद्भुतम् | शृणु तत्त्वं महेशानि ककारस्याऽतिदुर्लभम् || रहस्यं परमाश्चर्यं त्रिकोणानाञ्च संशृणु | वामरेखा भवेद् ब्रह्माविष्णुर्दक्षिणरेखिका || अधोरेखा भवेद् रुद्रो मात्रा साक्षात्सरस्वती | कुण्डली चांकुशाकारा मध्यशून्यं सदाशिवः || ज्वायावकसङ्काशा वामरेखा वरानने | शरच्चन्द्रप्रतीकाशा दशरेखा समुर्तिका || अधोरेखा भवेद् रुद्रो महामरकतद्युतिः | शङ्ख दुग्धसमाभासा मात्रा साक्षात्सरस्वती || अंकुशाकुण्डली या तु कोटिविद्युल्लताकृतिः | कोटिचन्द्रप्रतीकाशो मध्यशून्यं सदाशिवः || शून्येषु परमेशानि सर्वव्यापी सदाशिवः | इश्वरो यस्तु देवेशि कलाचतुष्ट्यात्मकः || इच्छाशक्तिर्भवेद् ब्रह्मा विष्णुस्तु ज्ञानशक्तिमान् | क्रियाशक्तिर्भवेद्रुद्रः सर्वः प्रकतिमूर्तिमान् || आत्मविद्याशिवैस्तत्त्वैः सदाशिवः प्रतिष्ठितः | शून्येषु संस्थिता काली कैवल्यपददायिनी || मर्दिनी संस्थिता तस्य दक्षभागे समूर्तिका | वामभागे स्थिता लक्ष्मीश्चतुर्वर्गप्रदायिनी || तासां गर्भे स्थिता सा च सुन्दरी परदेवता | तिसृणां गर्भसम्भूता त्रिपुरा चात एव हि || परमात्मस्वरूपत्वात्तासां गर्भे प्रतिष्ठिता | अन्ये च कालिकायाः स्युः सर्वा भेदाश्च पार्वति || तत्र स्थित्वा सृजेद् ब्रह्मा विष्णुः पालनतत्परः | रुद्रः संहारकर्ता च ईश्वरस्तुसदाशिवः || ईश्वरो यस्तु देवेशि त्रिकोणे तस्यस्थितिः | त्रिकोणमेतत्कथितं योनिमण्डलमुत्तमम् || ककाराज्जायये देवि सर्वञ्च वरवर्णिनि | ककारात्सर्वमुत्पन्नं कामः कैवल्यमेव च || अर्थोऽपि जायते देवि सोऽपि धर्मबलाद् तथा | सर्वासां देवतानाञ्च ककारो मूलमेव च || आसनं त्रिपुरादेव्याः ककारः पञ्चदैवतः | ककारात्कामदा कामरूपिणी स्फुरदव्यया || माता सा सर्वदेवानां कैवल्यपददायिनी | कैवल्यं प्रपदे य(स्याः)स्मात्कामिनी सा प्रकीर्तिता || कामिनी ध्यानम् जवायावकसिन्दूरसदृशीं कामिनीं पराम् | चतुर्भुजां त्रिनेत्राञ्च बाहुवल्ली विराजिताम् || कदम्ब कोरकाकारस्तनद्वयविभूषिताम् | शङ्खकङ्कणकेयूरैरङ्गदैरुपशोभिताम् || रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम् | एवं हि कामिनीं ध्यात्वा ककारं दशधा जपेत् || प्रफुल्लञ्च ततो जप्त्वा जपस्य फलभाग् भवेत् | एतत्ते कथितं देवि ककारतत्त्वमद्भुतम् || एतत्तु कालिकाबीजं प्रफुल्लं शृणु सुन्दरि | पृथ्वीबीजं ततो धृत्वा वामाक्षिसंयुतं कुरु || बिन्द्वर्द्धसंयुतो भूत्वा प्रफुल्लं भवति प्रिये | लकारः पृथिवी साक्षात्सर्वरत्नप्रदायिनी || पीताङ्गीं पीतवसनां पीतविद्युल्लताकृतिम् | सुखप्रसन्नवदनां रत्नकुण्डल मण्डिताम् || एवं हि संस्मरेद् बीजं तदूर्ध्वे कामिनी पराम् | ककार संयुतं कृत्वा प्रफुल्लं भावयेत्प्रिये || मर्दिनी या महेशानि सा वामा परमेश्वरि | प्रतप्तकाञ्चनाभासां दशबाहुसमान्विताम् || त्रिभङ्गललिताकारां जटाजूटविभूषिताम् | त्रिलोचनां चन्द्ररेखां महिषासुरमर्दिनीम् | सिंहासनगतां देवीं मावये द्वैष्णवोत्तगः || बहुरूपमयीं देवीं ककारं कामिनी पराम् | शुक्लवर्णां रक्तवर्णां (पीतवर्णां) पीतचम्पकहासिनीम् || हरिद्वर्णां कृष्णवर्णां नानाचित्रस्वरूपिणीम् | उत्पत्तेः कारणं भूमेर्देवानां चैव पार्वति || बीजमेतन्महागुह्यं विष्णोर्जन्मस्थलं सदा | तदूर्ध्वे नादतत्त्वञ्च योनिरूपां सनातनीम् || प्रतप्तकाञ्चनाभासां त्रिकोणां शशिशेखराम् | शृङ्गाररससन्दोहैः पूरि(जि)तां परमेश्वरीम् || तदूर्ध्वे भावयेद्बिन्दुं शिवशक्तिमयं सदा | शून्यरूपः शिवः साक्षाद्बिन्दुः परमकुण्डली || शून्यभागः कलायुक्तो बिन्दुश्च मोक्षदोऽव्ययः | सार्द्धत्रिवलयाकारा कोटिविद्युत्समप्रभा || सर्पाकारा शिवं वेष्ट्य तत्रैव संस्थिता सदा | एवं हि संस्मरेद्भक्त्या बीजशक्तिसमाश्रिताम् || बीजात्तु जायते ब्रह्मा ज्ञानात्मा परमेश्वरः | शब्द ब्रह्ममयो भूत्वा ईश्वरः कार्यकारणम् || कृष्णस्य चञ्चलापाङ्गि माता सा कामिनी परा | बीजाच्चैवाऽङ्कुरे जाते बीजं निष्फलतां व्रजेत् || एतद्बीजं वरारोहे सदा सारमयं विभु | लकारसंयुतं भूत्वा प्रसूते हरिमव्ययम् || स्वयं शक्तिर्हरिर्भूत्वा जायते नात्र संशयः | ककारसंयुता भूत्वा शक्तिराविरभूत्स्वयम् || जन्मकर्माणि सर्वाणि प्रकृतेरस्ति भामिनि | जपे ध्याने च पूजायां प्रकृतिः सुप्रतिष्ठिता || ककारस्योर्ध्वकोणे तु प्राणो वायुः प्रतिष्ठितः | अपानो वामकोणे च संस्थितश्च सदा प्रिये || समानोदक्षिणे कोणे शुद्धस्फटिक सन्निभः | उदानस्त्वंशाकारे मात्रायां व्यान एव च | एतत्ते कथितं देवि ककारतत्त्वमद्भुतम् || नवतत्त्वं ककारस्य ज्ञात्वा यः कुरुते जपम् | स जपश्चञ्चलापाङ्गि जप एव न संशयः || एतत्तत्वमविज्ञाय प्रजपेद्यदि कोटिधा | न तज्जप्तं वरारोहे सदा त्वावर्तनं भवेत् || नवतत्त्वनिरूपणम् देवतत्त्वं प्राणतत्त्वं बिन्दुतत्त्वञ्च सुन्दरि | ज्ञानतत्त्वं शक्तितत्त्वं योनितत्त्वं तथैव च || नवतत्त्वमिदं प्रोक्तं कामधेनुमतं प्रिये | कीलितो नहिदेवो हि विद्या मन्त्रश्च सर्वथा || न शप्तः परमेशानि न विद्धो वरवर्णिनि | सर्वेषां जङ्गमादीनां स्थावराणान्तु योगिनि || देवता मातृका माया सृष्टिस्थित्यन्तकारिणी | एकाक्षरविहीनत्वाद् ब्रह्महत्या वरानने || कस्य स्याद्वशगा देवी हृदये भावयेत्प्रिये | भावनादक्षरश्रेण्याः साक्षाद् ब्रह्म न संशयः || अक्षरे दूषणं नास्ति शप्तादि कमलानने | दूषणं यत्कृतं देवि हृदिस्थं भावयेत्प्रिये || रक्षणार्थं सुराणाञ्च ह्यात्मनो गोपनाय च | मानवाः परमेशानि वराकाः क्षुद्रबुद्धयः || मानवस्य च रक्षार्थं रक्षार्थं पन्नगस्य च | मयैव निर्मितौ देवि विद्यामन्त्रौ पुरैव हि || अत-एव महेशानि ह्यसुराः क्षयमागताः | तस्मात्सर्व प्रयत्नेन जपं कुरु वरानने || मन्त्रार्थनिरूपणम् यामले देवतायाः शरीरन्तु बीजादुत्पद्यते ध्रुवम् | भूतशुद्धौ ध्यानेन परमेशानि यद्रूपं समुपस्थितम् | तदेव परमेशानि मन्त्रार्थं विद्धि पार्वति || मन्त्रस्थानमाह तन्त्रे स्थानस्था वरदामन्त्रा ध्यानस्थाश्च फलप्रदाः | ध्यानस्थानविनिर्मुक्ताः सुसिद्धा अपि वैरिणः || मन्त्रस्थानम् मन्त्रस्थानं प्रवक्ष्यामि शृणु देवि वरानने | सकलं निष्फलं सूक्ष्मं तथा सकलनिष्फलम् || कलाभिन्नं कलाभीतं षोढामन्त्रं शिवोऽव्रवीत् | सकलं ब्रह्मरन्ध्रस्थं तदधो विद्धि निष्फलम् || मानसः सूक्ष्ममाख्यातो हृत्स्थः सकलनिष्फलः | बिन्दुस्थितः कलाभिन्नः कलातीतस्तदूर्ध्वतः || कला कुण्डलिनी चैव नादः शक्तिः शिवोदिता | षट्कस्थानस्थिता मन्त्राः स्थानस्थाः परिकीर्तिताः || ध्यानन्तु स्वरव्यञ्जनभेदेन मन्त्रघटकीभूतवर्णचिन्तनमेवेत्यर्थः | भूतशुद्धौ चैतन्यरहितं मन्त्रं यो जपेत्स च पापकृत् | मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः || मन्त्रचैतन्यादिनिरूपणम् चैतन्यं सर्वमन्त्राणां शृणुष्व कमलानने | सहस्रारं शिवपुरं कल्पवृक्षं मनोहरम् || चतुर्वेद चतुःशाखं नित्यं पुष्पफलान्वितम् | पीतं रक्तं तथा श्वेतं कृष्णञ्च हरितं तथा || भ्रमरैः कोकिलैर्देवि बहुपुष्पोपशोभितम् | एवं कल्पद्रुमं ध्यात्वा तदधोरत्नवेदिकाम् || तत्रोपरि महेशानि पर्यङ्कं सुमनो हरम् | नानापुष्पसंयुतया रचितं हेममालया || तत्रोपरि महादेवं महाकुण्डलिनीयुतम् | एवं ध्यात्वा जपेन्मन्त्रं महादेवि त्रिवर्गदाम् || आनन्दाश्रणि पुलको देहावेशः सुरेश्वरि | गद्गदोक्तिश्च सहसा जायते नात्र संशयः || सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते | शते सहस्रे लक्षे वा कोटिजापेन तत्फलम् || इत्येतत्कथितं देवि मन्त्रचैतन्यमुत्तमम् | विष्णुमन्त्रे तथा शैवे शक्तिमन्त्रे सुरेश्वरि | मन्त्रार्थं मन्त्रचैतन्यं यत्नतः समुपाचरेत् || योनिमुद्रा योनिमुद्रामाह तन्त्रमुक्तावल्यां उपविश्यासने मन्त्रीप्रङ्मुखो वाप्युदङ्मुखः | षट्चक्रं चिन्तयेद्देवि प्राणायामपुरःसरम् || चतुर्दलं स्यादाधारं स्वाधिष्ठानन्तु षड्दलम् | नाभौ दशदलं पद्यं सूर्यसंख्यदलं हृदि || कण्ठे स्यात्षोडशदलं भ्रूमध्ये द्विदलं तथा | सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे || आधारे कन्दमध्यस्थं त्रिकोणमतिसुन्दरम् | त्रिकोणमध्ये देवेशि कामबीजं सुलक्षणम् || कामबीजोद्भवं तत्र स्वयम्भूलिङ्गमुत्तमम् | तस्योपरि पुनर्ध्यायेत् चित्कलां हंसमाश्रिताम् || ध्यायेत्कुण्डलिनीं देवीं स्वयम्भूलिङ्ग वेष्टिताम् | चित्कलां तां कुण्डलितां तेजोरूपां जगन्मयीम् || आधारादीनि पद्मानि भित्त्वा तेजः स्वरूपिणीम् | हंसेन मनुना देवीं ब्रह्मरन्ध्रं नयेत्सुधीः || सदाशिवेन देवी सा क्षणमात्रं रमेत्प्रिये | अमृतं जायते देवि तत्क्षणात्परमेश्वरि || तदुद्भवामृतं देवि लाक्षारस समोपमम् | तेनामृतेन देवेशि तर्पयेत्परदेवताम् || षट्चक्रदेवतास्तत्र सन्तर्प्याऽमृतधारया | आनयोत्तेन माग्रेण मूलाधारं पुनः सुधीः || ततस्तु परमेशानि अक्षमालां विचिन्तयेत् | चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा || तया संग्रथिता मध्ये साक्षाज्जाग्रत्स्वरूपिणी | अनुलोम विलोमेन मन्त्रवर्णविभेदतः || मन्त्रेणाऽन्तरितान्वर्णान्वर्णेनाऽन्तरितं मनुम् | कुर्याद्वर्णमयीं मालां सर्वमन्त्रप्रकाशिनीम् || चरमार्णं मेरुरूपं लंघनं नैव कारयेत् | सबिन्दुं वर्णमुच्चार्य पश्चान्मन्त्रं जपेत्सुधीः || अकारादि लकारान्तमनुलोम इति स्मृतम् | पुनर्लकारमारभ्य श्रीकण्ठान्तं मनुं जपेत् || विलोम इति विख्यातं क्षकारं केवलं जपेत् | वर्णानामष्टवर्णेन त्वष्टवारं जपेत्सुधीः || अ क च ट त प य शा इत्येवं चाष्टवर्गकाः | अष्टोत्तरशतं मूलमन्त्रं ज्ञानेन संजपेत् | योनिमुद्रा महेशानि तव स्नेहात्प्रकाशिता || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां नवेत्ति यः | शतकोटिजपेनाऽपि तस्य सिद्धिर्न जायते || इति योनिमुद्रा मन्त्रशिखानिरूपणम् मन्त्रशिखामाह यामले शृणुदेवि प्रवक्ष्यामि सर्वज्ञानोत्तमोत्तमम् | यस्य विज्ञानमात्रेण क्षिप्रं विद्या प्रसीदति || मूलकन्दे तु या देवी भुजगाकाररूपिणी | तद्भ्रमावर्तवातो यः प्राण इत्युच्यते बुधैः || भिल्लीवाऽव्यक्तमधुरा कुजन्तो सततोत्थिता | गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ति स्वकेतनम् || यातायातक्रमेणैव तत्र कुर्यान्मनोत्नयम् | तेन मन्त्रशिखा जाता सर्वमन्त्रप्रदीपिका || तमःपूर्णे गृहे यद्वत् न किञ्चित्प्रतिभासते | शिखाहीनास्तथा मन्त्रा न सिद्ध्यन्ति कदाचन || शिखापदेशः सर्वत्र गोपितः परमेश्वरि | विना येन न सिद्धिः स्याद्वर्षकोटिशतैरपि | तस्मात्त्वयापि गिरिजे गोपनीयः प्रयत्नतः || अशौचभङ्गः रुद्रयामले जातसूचकमादौ स्यादन्ते च मृतसूतकम् | सूतकद्वयसंयुक्तो न मन्त्रः सिद्धिदायकः || जपादौ जातसूतकं जपान्ते च मृतसूतकमिति सूतकद्वयमित्यर्थः | यामले ब्रह्मबीजं मनोर्दत्त्वा चाद्यन्ते परमेश्वरि | सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये || सूतकद्वयमुक्तये मनोराद्यन्ते ब्रह्मबीजं प्रणवं दत्त्वा जपादौ सप्तवारं जपान्ते च सप्तवारं तं मनुं जपेदित्यर्थः | सूतकद्वयमुक्तो यः स मन्त्रः सर्वसिद्धिदः | चतुर्दश स्वरो देवि पुण्यः सिद्धि प्रदायकः | नादबिन्दुसमोपेतो दीर्घ प्रणव उच्यते || स्त्रीशूद्राणामशैचभङ्गः तन्त्रोक्तः प्रणवः सोऽपि स्त्रीशूद्राणां प्रशस्यते | तस्मात्स्त्रीणाञ्च शूद्राणां स एव परिकीर्तितः || भूतशुद्धौ तन्त्रोक्तं प्रणवं देवि वह्निजायां सुरेश्वरि | प्रजपेत्सततं शूद्रो नात्र कार्या विचारणा || तेन प्रणवपुटितमन्त्रजपस्थले स्त्री शूद्रश्च ओंकारपुटितं कृत्वैव मन्त्रं जपेत् | तन्त्रोक्ता वह्निजाया तु हृदयमेव (नमः) स्वाहास्थाने च नमः पदं प्रयोज्य न्यासजपादिकं कुर्यादिति ज्ञेयम् || गणनाविधिः गणनविधिमाहयामले गणनाविधिमुल्लंघ्य यो जपेत् तज्जपं यतः | गृह्णन्ति राक्षसास्तेन गणयेत्सर्वथा बुधः || नाक्षतैर्हस्तपर्वैर्वा न धान्यैर्न च पुष्पकैः | न चन्दनैर्मृतिकया जपसंख्यां तु कारयेत् || लाक्षाकुशीदसिन्दूरं गोमयञ्च करीषकम् | विलोड्य गुटिकां कृत्वा जपसंख्यां तु कारयेत् || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्दगिरि कृतायां शाक्तानन्दतरङ्गिण्यां जपलक्षणादिनिर्णयो नाम नवमोल्लासः || ९ || दशमोल्लासः महासेतुनिरूपणम् अथ महासेत्त्वादीनां प्रयोजनमाह महासेतुं विना देवि यो जपेत् सतु पापभाक् | आदौ जप्त्वा महासेतुं ततः सेतुं ततो मनुम् | एवं क्रमैर्वरारोहे यथेष्टं जपमाचरेत् || सेतुमङ्गलतन्त्रे यो जपेत्परमेशानि विना सेतुं महामनुम् | तस्य सर्वार्थहानिः स्यान्मृते च नरकं व्रजेत् || महासेतुः महासेतुमाह यामले महासेतुश्च देवेशि सुन्दर्या भुवनेश्वरी | कालिकायाः स्वबीजन्तु ताराया कूर्च उच्यते | अन्येषान्तु वधूबीजं महासेतुर्वरानने || वधूबीजमाह रुद्रयामले आकाशाद्यं चतुर्थाद्यं यकारान्तं च संहतम् | लक्ष्मीबिन्दुयुतं देवि वधूबीजमुदाहृतम् || आकाशाद्यं सकारः चतुर्थाद्यं तकारः, यकारान्तं रेफः | संहतं एतत्त्रितय संयुक्तम् | लक्ष्मीः ईकारः बिन्दुरनुस्वारः, ताभ्यां युतम् | एतेन स्त्रीमिति | महासेतुं विना देवि न जप्तव्यं कदाचन | शतकोटिजपेनाऽपि तस्य सिद्धिर्न जायते || सेतुनिरूपणम् सेतुमन्त्रं महेशानि सर्वेषां कुल्लुकां शृणु | सेतुविद्या महेशानि साक्षाद् ब्रह्मस्वरूपिणी || आदावन्ते च देवेशि जपेत्तां तु जपान्मनोः | ततः सिद्धो भवेद्देवि मन्त्रो विद्या विशेषतः || अन्यथा विफलं देवि निश्चयं वचनं मम | पार्श्वयोः सेतुमाधाय जपकर्म समाचरेत् || निःसेतुसलिलं यद्वत्क्षणान्निम्नं प्रसर्पति | मन्त्रस्तथैव निःसेतुः क्षणात्क्षरति यज्वनाम् || आदावन्तेचेति | मनोर्जपात् आदौ तदन्ते च सेतुविद्यां जपे दित्यर्थः | समान्यसेतुः सामान्यसेतुमाह विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च | वैश्यानां तु फडर्णः स्यान्माया शूद्रस्य कथ्यते || विशेषसेतुः विशेषसेतुमाह यामले शृणु देवि प्रवक्ष्यामि सुन्दर्याः सेतुमुत्तमम् | मायाबीजं समुद्धृत्य सौभाग्यं च ततः परम् || पुनर्मायां समुद्धृत्य विद्येयं त्र्यक्षरी परा | सुन्दरीविषये सेतुः कथितः परमेश्वरि || सौ स्वरूपम् | भाग्यं विसर्गः | मन्त्रो यथा ह्रीं सौः ह्रीं | अथ वक्ष्ये महेशानि भैरव्याः सेतुमुत्तमम् | हरप्रियां समुद्धृत्य सुरसा च ततः परम् || औदर्यसंयुत कृत्वा बिन्द्वर्द्ध संयुतं कुरु | इयं विद्या वरारोहे भैरव्याः सेतुरूपिणी | मन्त्रो यथा ह्स | प्रणवं पूर्वमुद्धृत्य हृल्लेखा तदनन्तरम् | एषा च द्व्यक्षरी विद्या तारायाः सेतुरुच्यते || मन्त्रो यथा ओं ह्रीं | श्यामायाः ऐश्वर्य बीजमुद्धृत्य कूर्चबीजं समुद्धरेत् | पुनरैश्वर्यमुद्धृत्य बिन्द्वर्द्ध संयुतं कुरु || सेतुरेषा महेशानि श्यामायाः परिकीर्तिता | मन्त्रो यथा ऐं हूं ऐं | भुवनेश्याः प्रणवं प्रथमं देवि हृल्लेखाद्वितयं ततः | ततश्च परमेशानि प्रणवद्वयमुद्धरेत् || भुवनेश्याः महेशानि विद्येयं सेतुरुच्यते | मन्त्रो यथा - ओं ह्रीं ह्रीं ओं ओं | अन्नदायाः अथ वक्ष्ये महेशानि चान्नदासेतुमुत्तमम् | आदौ मायां समुच्चार्य वह्निजाया समुद्धरेत् || मन्त्रो यथा ह्रीं स्वाहा | महिषमर्दिन्याः अथ वक्ष्ये महेशानि मर्दिन्याः सेतुमुत्तमम् | हंस-(वर्णं)रूपं समुद्धृत्य रंजिन्युपरि संस्थितम् || ईतिवर्णयुतं कृत्वा विन्द्वर्द्ध संयुतं कुरु | ततश्च परमेशानि वह्निजायां उद्धरेत् || त्र्यक्षरीयं सेतुविद्या मर्दिन्याः परिकीर्तिता | मन्त्रो यथा ह्रीं स्वाहा | विष्णोः प्रणवं पूर्वमुद्धृत्य वासवा द्यं ततः परम् | इन्दिरासंयुतं कुर्याद्यत्नतः परमेश्वरि || प्.२०७) ष्णात्मकमक्षरं चोक्त्वा ततः परमुदीरयेत् | बालिबीजं समुद्धृत्य एधिता सयुतं कुरु || पुनः प्रणवमुद्धृत्य विष्णोः सेतुः शुचिस्मिते | मन्त्रो यथा - ओं विष्णेव ओं श्रीकृष्णस्य प्रणवं पूर्वमुद्धृत्य मन्मथं तदनन्तरम् | पुनः प्रणवमुद्धृत्य सेतुमन्त्रं मनोहरम् || श्रीकृष्णविषये सेतुस्त्र्यक्षरः समुदाहृतः || मन्त्रो यथा - ओं क्लीं ओं रामस्य शृणु कमलपत्राक्षि सेतुं रामस्य सुन्दरम् | प्रणवं पूर्वमुद्धृत्य राजहंसं ततः परम् || आचार्य संयुतं कृत्वा बिन्द्वर्द्धसंयुतं कुरु | पुनः प्रणवमुद्धृत्य विद्येयं सेतुरूपिणी || त्र्यक्षरीयं महाविद्या सेतुविद्या प्रकीर्तिता | मन्त्रो यथा - ओं रां ओं शिवस्य हंसयुक्तं समुद्धृत्य समुद्ररूपिणं ततः | चन्द्रार्द्ध संयुतं देवि कुरु यत्नेन पार्वति | एषा च द्व्यक्षरी विद्या शिवस्य सेतुरूपिणी || मन्त्रो यथा हंसः | अन्येषु देवोदेवेषु प्रणवः सेतुरुच्यते | सर्वेषां शूद्रजातीनामौङ्कारः सेतुरुच्यते || अथ कवचसेतुः यत्र यत्र विनिर्दिष्टः सेतुमन्त्रः शुचिस्मिते | तन्मन्त्रं त्रिगुणं कृत्वा सेतुमन्त्रं कुरु प्रिये || कवचस्य महेशानि सेतुर्भवति सुन्दरि | सेतुं विना महेशानि कवचं यः पठेन्नरः || स भक्ष्ये जायते देवि योगिनीनां शुचिस्मिते | वैष्णवे गाणपत्ये च शैवे शाक्ते शुचिस्मिते | आदावन्ते महासेतुं दत्त्वा तु कवचं पठेत् || कुल्लुका प्रयोजनम् अथ कुल्लुका प्रयोजनमाह रुद्रयामले अज्ञात्वा कुल्लुकां देवि महामन्त्रं जपेत्तु यः | तस्य नश्यन्ति चत्वारि आयुर्विद्या यशो बल(धन)म् || कुल्लुकाञ्च न जानाति महामन्त्रं जपेन्नरः | पञ्चत्वं जायते तस्य अथवा वातुला भवेत् || अज्ञात्वा कुल्लुकामेतां जपते योऽधमः प्रिये | पञ्चत्वमाशु लभते सिद्धिहानिश्च जायते || तथा जपादिकं सर्वं निष्फलं नात्र संशयः | तस्मात्सर्वप्रयत्नेन प्रजपेन्मूर्ध्नि कुल्लुकाम् || वाराही तन्त्रे जपं समारभेन्मन्त्री कुल्लुकाद्यं यथाविधि | पूजां जपं समाप्यैव स्तुत्वा च कवचं पठेत् || कुल्लुकानिरूपणम् विशुद्धेश्वरतन्त्रे गुह्याद् गुह्यतरं देवि तव स्नेहेन कथ्यते | तारायाः कुल्लुका देवि महानीलसरस्वती || मन्तो यथा ह्रीं स्त्रीं हूं | पञ्चाक्षरी कालिकायाः कुल्लुका परिकीर्तिता | काली कूर्चं वधूर्माया फडन्ता परमेश्वरि || मन्त्रस्तु क्रीं हूं स्त्रीं ह्रीं फट् | छिन्नायास्तु महेशानि कुल्लुकाऽष्टाक्षरी भवेत् | वज्रवैरोचनीये च अन्ते वर्म प्रकीर्तयेत् || मस्त्रस्तु वज्रवैरोचनीये हूं | प्रसादबीजं शम्भोस्तु मञ्जुघोषे षडक्षरी | ललाटवचनं चैव ध्यर्णं चन्द्रयुतं स्मरेत् || मन्त्रस्तु शिवस्य हौं, मञ्जुघोषस्य तु अरवचन धीं | भुवनेश्याश्च ह्रीं बीजं विष्णोर्वै चाष्टवर्णिका | नमो नारायणायेति प्रणवाद्या च कुल्लुका || भुवनेश्वयाः ह्रीं | विष्णोः - ओं नमो नारायणाय | वर्मबीजं तु भैरव्याः कुल्लुका परिकीर्तिता | मन्त्रो यथा हूं | श्रीमत्त्रिपुरसुन्दर्याः कुल्लुका द्वादशाक्षरी | वाग्भवं कामबीजञ्च लज्जाञ्च त्रिपुरे ततः | भगवतिपदं पश्चादन्ते ठद्वयमुद्धरेत् || मन्त्रस्तु ऐं क्लीं ह्रीं त्रिपुरे भगवति स्वाहा | अथवा वाग्भवं प्रथमं बीजं कामराजमनन्तरम् | लज्जाबीजं क्रोधबीजं फडन्तञ्च समुद्धरेत् || मन्त्रस्तु ऐं क्लीं ह्रीं हूं फट् | अथवा कामबीजाख्या कुल्लुका परिकीर्तिता | मन्त्रस्तु क ए ई ल ह्रीं | सरस्वत्या वाग्भवञ्च अन्नदायास्त्वनङ्गकम् || सरस्वत्याः ऐं | अन्नदायाः क्लीं | मातंग्याः प्रथमं बीजं माया धूमावतीं प्रति | मातंग्याः - ओं; धूमावत्याः ह्रीं | बगलाया वधूबीजं लक्ष्म्याश्च निजबीजकम् || बगलायाः स्तीं | लक्ष्म्याः श्रीं | धनदाया वधूबीजं कुल्लुका परिकीर्तिता | मन्त्रो यथा स्त्रीं | अपरेषाञ्च देवानां स्वमन्त्रं परिकीर्तितः | अन्यासां तु पराबीजं कुल्लुका परमेश्वरि || रामस्य प्रणवं पूर्वमुद्धृत्य राजहंसं ततः परम् | आचार्य संयुतं कृत्वा बिन्द्वर्द्धं संयुतं कुरु || पुनः प्रणवमुद्धृत्य विद्येयं सेतुरूपिणी | एतां विद्यां वरारोहे मन्मथैः पुटितां कुरु | तदा भवति देवेशि रामस्य स्वर्गदुर्लभा || पञ्चाक्षरी महाविद्या सर्वतन्त्रेषु गोपिता | मन्त्रस्तु क्लीं ओं वां ओं क्लीं | इत्येवं कथिता देवि संक्षेपात्कुल्लुका मया || सेतुमङ्गलतन्त्रे वाग्भवं पूर्वमुद्धृत्य मन्मथं तदनन्तरम् | भृगुबीजं समुद्धृत्य मनुसर्गयुतं कुरु || सुन्दरीविषये बोध्या कुल्लुकेयं महेश्वरि | मन्त्रो यथा ऐं क्लीं सौः | कामधेनुं समुद्धृत्य लोकबन्धां ततः परम् | वामनीयकबीजस्तु पुनरुद्धृत्य सुन्दरि | ईतिबीजयुतं कृत्वा बिन्द्वर्द्ध संयुतं कुरु || कुल्लुकेयं महाविद्या भैरव्याः परिकीर्तिता | मन्त्रस्तु कलरीं | तारायाः मायाबीजं समुद्धृत्यततश्च प्रणवद्वयम् | पुनर्मायां समुद्धृत्य कुल्लुकाजपमाचरेत् || कुल्लुकाजपमात्रेण सर्वसिद्धीश्वरो भवेत् || मन्त्रो यथा ह्रीं ओं ओं ह्रीं | कालिकायाः पञ्चाक्षरी कालिकायाः कुल्लुका परिकीर्तिता | काली कूर्चं वधूमाया फडन्ता परमेश्वरि || मन्त्रो यथा क्रीं हूं स्त्रीं ह्रीं फट् | भुवनेश्याः कालकूटप्रशमनीबीजमुद्धृत्य सुन्दरि | वामनीयकबीजेन संयुतं कुरु सुन्दरि | बिन्द्वर्द्ध संयुतं कृत्वा त्रिगुणं कुरु सुन्दरि || एषा विद्या महेशानि कुल्लुका विष्णुपूजिता || मन्त्रो यथा ह्रीं ह्रीं ह्रीं | आद्यान्ते परमेशनि कूर्चबीजद्वयं कुरु | तदा भवति विधेयं मर्दिन्याः कुल्लुका प्रिये || आद्यन्ते ओं ह्रीं स्वाहा ओं इति मन्त्रस्याद्यन्तयोः हूं इति बीजं कृत्वेत्यर्थः | तेन हूं ओं ह्रीं स्वाहा ओं हूं | पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः | एवं कृते महेशानि प्रभुत्वं प्राप्नुवन्ति ते | अन्यथा पशुवद्देवि न जपेत्तु कदाचन || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्दगिरि कृतायां शाक्तानन्दतरङ्गिण्यां सेतु महासेतुकुल्लुका निर्णयो नाम दशमोल्लासः || १० || एकादशोल्लासः मुखशोधनम् मुखशोधनमाह सारस्वततन्त्रे अथ वक्ष्ये महेशानि मुखशोधनमुत्तमम् | यन्न कृत्वा वरारोहे जप-पूजा वृथा भवेत् || अशुद्ध जिह्वया देवि यो जपेत्सतु पापभाक् | दशधा प्रजपित्वा वै मुखशोधन माचरेत् || देव्युवाच देवदेव महादेव शूलपाणे पिनाक्धृक् | पृथक् पृथग् देवतानां कथयस्व दयार्णव | शोधनं सर्वविद्यानां मुखस्य दशनस्य च || श्रीमहादेव उवाच महात्रिपुरसुन्दर्याः शृणुष्व मुखशोधनम् | श्रीबीजं प्रणवो लक्ष्मीस्तारः श्रीः प्रणवस्तथा || इमं षडक्षरं मन्त्रं सुन्दर्या दशधा जपेत् | मन्त्रस्तु श्रीं ओं श्रीं ओं श्रीं ओं | बालायाः शृणुचार्वङ्गि सुखशोधनमुत्तमम् | वाग्भवः भुवनेशी च वाग्भवं सुरवन्दिते || एषा च त्र्यक्षरी विद्या सदामृतमयी प्रिये | मन्त्रस्तु ऐं ह्रीं ऐं | भैरव्याः शृणु चार्वङ्गि मुखशोधनमुत्तमम् | प्रणवञ्च हसौबीजं प्रणवं सुरवन्दिते || इमं त्र्यक्षरमन्त्रं च प्रथमं दशधा जपेत् || मन्त्रस्तु - ओं हसौः ओं | शृणुसुन्दरि श्यामायाः मुखशोधनमुत्तमम् | निज बीजत्रयं देवि प्रणवत्रितयं ततः || कामत्रयं वह्निबिन्दुरतिचन्द्रार्द्धभूषितम् | एषा नवाक्षरी विद्या मुखशोधन कारिणी || मन्त्रस्तु क्रीं क्रीं क्रीं ओं ओं ओं क्रीं क्रीं क्रीं | तारायाः शृणुचार्वङ्गि अपूर्वं मुखशोधनम् | जीवनी मध्य(मा)गा लज्जा भुवनेशी ततः परम् || त्र्यक्षरीयं महाविद्या जिह्वागेऽमृतवर्षिणी || मन्त्रस्तु ह्रीं हूं ह्रीं | अपूर्वं शृणु चार्वङ्गि भुवनामुखशोधनम् | द्वादशस्वरमुद्धृत्य नादबिन्दुयुतं कुरु | एत्त्रिकं दशधा भुवनेशी जपेत्सुधीः || त्र्यक्षरीयं समाख्याता नानासुख विलासिनी मन्त्रस्तुः ऐं ऐं ऐं | दुर्गायाः शृणुचार्वङ्गि मुखशोधनमुत्तमम् | द्वादश स्वरमुद्धृत्य बिन्दुयुक्तञ्चतत्त्रिकम् || मन्त्रस्तु ऐं ऐं ऐं | अथ देवि प्रवक्ष्यामि बगलामुखशोधनम् | वाग्भवं भुवनेशानी वाग्बीजं सुरवन्दिते || एषा तु त्र्यक्षरी विद्या सदाऽमृतमयी प्रिये | मन्त्रस्तु ऐं ह्रीं ऐं | मातङ्ग्याः शोधनं देवि अंकुशं वाग्भवं तथा | बीजञ्चांकुशमेतद्धि विज्ञेयं त्र्यक्षरात्मकम् || त्र्यक्षरीयं समाख्याता मुखशोधनदुर्लभा | मन्त्रस्तु क्रों ऐं क्रों | अपरैकं शृणु षौढे लक्ष्म्याश्च मुखशोधनम् | श्रियाश्च परमेशानि बीजान्ते कमलानने | पुनः श्रीबीजमुद्धृत्य मुखशोधनमाचरेत् || इयं सप्ताक्षरी विद्या चतुर्वर्गमयी सदा | मन्त्रस्तु श्रीं कमलानने श्रीं | अपरैकं प्रवक्ष्यामि दुर्गाया मुखशोधनम् | वाग्बीजपुटिता माया दुर्गे स्वाहा ततः प्रिये || भुवनेशी पुनश्चैव वाग्बीजद्वय मेव च | इयं दशाक्षरी विद्या सदा मम हृदि स्थिता || मन्त्रस्तु ऐं ह्रीं ऐं दुर्गे स्वाहा ह्रीं ऐं ऐं | अपरैकं प्रवक्ष्यामि धनदामुखशोधनम् | प्रणवं दान्तमुद्धृत्य वामकर्ण विभूषितम् || बिन्दुयुक्तं ब्रह्मबीजं विज्ञेयं त्र्यक्षरात्मकम् | मन्त्रस्तु - ओं धूं ओं धूमावत्या महेशानि शोधनं चैतदेव हि | मन्त्रस्तु - ओं धूं ओं भुवनायाः स्वबीजन्तु प्रणवं वा विशोधनम् || मन्त्रस्तु ह्री अथवा ओं | रुद्रार्णादष्टमो देवि भूपुष्ट्यक्रूरसंयुतः | एकाक्षरीयं विद्या तु चान्नदामुखशोधने || मन्त्रस्तु क्लीं | उच्छिष्ठचाण्डालीदेव्या भद्रकाल्यास्तथैव च | जिह्वायाः शोधनं भद्रे शृणुष्व वरवर्णिनि | षष्ठस्वरं बिन्दुयुक्तं लज्जाबीजनन्तरम् || पुनराद्यं महेशानि चाण्डाल्या मुखशोधनम् || मन्त्रस्तु - ओं ह्रीं ओं | चतुर्दशस्वरेणाढ्यं बिन्दुचन्द्रार्द्धभूषितम् | शिवबीजं महेशानि भद्रकाल्या विशोधनम् | मन्त्रस्तु ह्रौं | अन्यासां देवतानाञ्च तथा विष्णोः शिवस्य च | अन्येषाञ्चैव देवानां प्रणवं मुखशोधनम् | माया वा परमेशानि प्रजप्य मुखशोधनम् || कुर्यादिति शेषः | अन्यदेवदेवीनां मन्त्रस्तु - ओं अथवा ह्रीं | अन्येषु सर्वदेवेषु देवीषु च वरानने | दशधा प्रणवेनैव मुखशोधन माचरेत् || मुखशोधन मात्रेण जिह्वाऽमृतमयी भवेत् | अन्यथा विषसंयुक्ता जिह्वा भवति सर्वदा || भक्षणे दूषिता जिह्वा मिथ्यावादेन दूषिता | कलहैर्दुःखिता जिह्वा नानादोषेण दूषिता || तं कथं पामरो लोको जिह्वायां प्रजपेन्मनुम् | संशोधनमनाचर्य न जपेत्पामरः क्वचित् || शाक्तो वा वैष्णवो वापि गाणपः सौर एव वा | शैवो वाऽप्यन्यभक्तो वा कारयेन्मुखशोधनम् | देवो यदि जपेन्मन्त्रमकृत्वा मुखशोधनम् | सर्वं तस्य वृथा देवि मन्त्रसिद्धिर्न जायते || तस्मात्प्रयत्नतो देवि जिह्वाशोध माचरेत् | अन्यथा प्रजपेन्मन्त्रमकृत्वा मुखशोधनम् || पतनं तस्य देवेशि यो जपेत्स च पापभाक् | तस्यात्प्रयत्नतो देवि जिह्वाशोधन माचरेत् || इति सारस्वत तन्त्रोक्तमुखशोधन विधानम् | निद्राभङ्ग देव्युवाच पूजाकाले महेशान यदि निद्रातुरो मनुः | तत्कथं सिध्यते मन्त्रः किं कर्तव्यं तदा प्रभो || प्रजपेत्केन विधिना न जपेद्वा वद प्रभो | निद्रायाश्चैव देवेश लक्षणं वद मे प्रभो || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | इडायाञ्च गते वायौ शक्तिमन्त्रं जपेत् प्रिये | रात्रौ जपैकमात्रेण चण्डिका वरदा भवेत् || रुद्रयामले पिङ्गलायां गते वायौ तदा निद्रातुरः प्रिये | इडायाञ्च गते वायौ तदा निद्रातुरो मनुः || एतत्ते कथितं देवि निद्राया लक्षणं प्रिये | प्रजपेद्यदि निद्राया किं तस्य जप पूजने || सर्वं तस्य वृथा देवि अरण्ये रोदनं यथा | रहस्यानेन चार्वङ्गि त्यक्तनिद्रा सनातनी || निद्राभङ्गमन्त्रः आदौकामकलाबीजं स्वमन्त्रान्तेऽपि तद् जपेत् | प्रायश्चित्तमिदं देवि कृत्वा मन्त्रं जपेद्यदि | किं तस्य दक्षिणो वायुस्तस्य निद्रातुरेण किम् || मन्त्रविद्यालक्षणम् विश्वसारे मन्त्राः पुंदैवता ज्ञेया विद्या स्त्रीदैवता स्मृता | पुंमन्त्रा हूं फडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः | नपुंसका नमोऽताः स्युरित्युक्ता मनवस्त्रिधा || दीपनी लक्षणम् दीपनीमाह तन्त्रे योनिमन्त्रं मनोर्दत्त्वा चाद्यन्ते परमेश्वरि | सप्तवारं जपेत्तं तु दीपनीयं प्रकीर्तिता || योनिमन्त्र ईङ्कारः | ताम्यां पुटिटं मूलं सप्तवारं जपेदित्यर्थः | तन्त्रे योनिमन्त्रेणाऽवयं सकलं तु विभावयेत् | स्वकीयात्मानं कामकलां विभाव्य जपपूजादिकं कार्यम् | तथाचोक्तम् ध्यात्वा कामकलां देहे विद्याजापं समाचरेत् | ध्यात्वा कामकलारूप मात्मानं चिन्तयेत्सदा || तन्त्रे ऊर्ध्वविन्द्वात्मकं वक्त्रमधोविन्दुस्तनद्वयम् | हकारार्धं कामपुरं तथात्मनं विचिन्तयेत् || एतत्कामकलाध्यानं गुह्याद्गुह्यतमं महत् | नाऽशिष्याय प्रवक्तव्यं नामक्ताय कदाचन || लोमान्महोच्च देवेशि यत्र कुत्र प्रकाशयेत् | सोऽचिरान्मृत्युमाप्नोति शस्त्राघातविषादिभिः || योनिमन्त्रः योनिमन्त्रमाह यामले तूर्यस्वरो बिन्दुयुतो नादेन परिभूषितः | कामकला महामन्त्रो महाकालेन कीर्तितः | तस्यात्स्वकीयमात्मानं ध्यायेद्देव्याः स्वरूपकम् || इतिपरिव्राचकाचार्य परमहंसतीथावधूत श्रीमद्ब्रह्मनन्दगिरिकृतायां शाक्तानन्दतरङ्गिण्यां मुखशोधन निर्णयो एकादशोल्लासः || ११ || द्वादशोल्लासः पुरश्चरणलक्षणम् पुरश्चरणलक्षणमाह हंसमाहेश्वरे जपो होमस्तर्पणञ्च सेको ब्राह्मणभोजनम् | पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते || यामले पञ्चाङ्गोपासनं लोके शाक्तवैष्णव भेदतः | पुरश्चरणमित्युक्तं शिवेन परमात्मना || पुरश्चरण प्रयोजनम् यामले जीवहीनो यथा देही सर्वकर्मसुन क्षमः | पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः | तस्मादौ स्वयं कुर्याद् गुरुं वा कारयेद् बुधः || रुद्रयामले पुरश्चरण सम्पन्नो मन्त्रो हि फलदायकः | ततः पुरस्क्रियां कुर्याद् मन्त्रवित् सिद्धिकांक्षया || किं होमैः किं जपैश्चैव किं मन्त्रन्यास विस्तरैः | रहस्यानाञ्च मन्त्राणां यदि न स्यात्पुरस्क्रिया | पुरस्क्रिया हि मन्त्राणां प्रधानो जीव (बीजमु) उच्यते || पुरश्चरणपूर्वदिनकृत्यम् हविष्येनैव भोक्तव्यं कृत्वा देहविशोधनम् | प्रातः स्नात्वा तु सावित्रीं जपेत्पञ्चसहस्रकम् || त्रिसहस्रं सहस्रं वा जपेदष्टोत्तरं शुचिः | ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः | विप्रान्सन्तोषयेदन्नभोजनाच्छादनासनैः || तत्रादौ भूमिपरिग्रहः कार्यः | तदुक्तं वैशम्पायन संहितायाम् आदावमुकमन्त्रस्य पुरश्चरणसिद्धये | मयेयं गृह्यते भूमिर्मन्त्रो मे सिध्यतामिति || भूमेः परिग्रहं कुर्यात् परिमाणाच्च सर्वशः | ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया मितम् || नगरादा वपि क्रोशं क्रोशयुग्ममथापि वा | आहारादिविहारार्थं तवतीं भूमिमाश्रयेत् | दीपस्थानं समाश्रित्य कृतं कर्म फलप्रदम् || दीपस्थानम् दीप्यते पुरुषो यत्र दीपस्थान तदुच्यते | चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् || पूर्वकोष्ठादिषु लिखेत्सप्तवर्गाननुक्रमात् | लक्षमीशे लिखेन्मन्त्री स्वरन्यासक्रमं शृणु || पुनरेवं मध्यकोष्ठं नवधा विभजेत्सुधीः | मध्य पूर्वादिकोष्ठेषु स्वरान्युग्मक्रमाल्लिखेत् || यत्र पूर्वादिकोष्ठेषु ग्रामाद्याक्षर संस्थितिः | मुखन्तु तस्य जानीयाद् हस्तावुभयतः स्थितौ || कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम् | मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः || उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् | पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः || कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम् | निर्माय विधिवत्कुर्याद् जपं तत्र शुभे दिने || चन्द्रतारानुकूले च शुक्लपक्षे शुभेऽहनि | आरभेत पुरश्चर्यां हरौ सुप्ते न चाचरेत् || हरौ सुप्ते दक्षिणायने इत्यर्थः | तेन यद्दक्षिणायनं निषिद्धमुक्तं, तद्विष्णुविषयम् | शक्तिविषये दक्षिणायनेऽपि पुरश्चरणं कर्तव्यम् | तथाचोक्तं यामले शरत्काले महापूजा क्रियते या च वार्षिकी | तस्मिन्पक्षे विशेषेण पुरश्चरण माचरेत् || अन्यत्रापि शरत्काले चतुर्थ्यादिनवमान्तं विशेषतः | भक्तितः पूजयित्वा तु रात्रौ चाष्टसहस्रकम् | एकाकी निर्जने देशे जपेञ्च तिमिरालये || अष्टसहस्रकमिति | अष्टाधिकसहस्रं प्रत्यहं जपेदित्यर्थः | तिमिरालये अन्धकारवद् गृहे, न त्वालोक युक्ते इत्यर्थः | केचित्तु तिमिरालये रात्राविति वदन्ति | तदसत् रात्रौ चाष्टसहस्रकमिति रात्रेः पूर्वं प्राप्तत्वादिति दिक् || अथ पुरश्चरणदिन-कृत्यम् बहुभिः र्वस्त्रभुषाभिः सम्पूज्य गुरुमात्मनः | आरभेत् जपं पश्चात् तदनुज्ञापुरः सरम् || प्रातः स्नात्वा महेशानि कीलानादाय साधकः | कुटीनिकट मागत्य कुर्यात्तन्त्रोदितां क्रियाम् || क्षीरिवृक्षोद्भवान् कीलानस्त्रमन्त्राभिमन्त्रितान् | निखनेद्दशदिग्भागे तेष्वस्त्रञ्च प्रपूजयेत् || क्षेत्रे तु कीलिते मन्त्रो न विघ्नैः परिभूयते | अश्वत्थोडुम्बरप्लक्षवटाश्च क्षीरिशाखिनः || क्षेत्रपालान्पूजयित्वा बलिं दद्याद्विधानतः | दिक्पतिभ्यो बलिं दत्त्वा ततः क्षेत्रं समाश्रयेत् || क्षेत्रपलमन्त्रमाह तन्त्रे वर्णान्त औ बिन्दुयुतः क्षेत्रपालाय हृन्मनुः | ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः || मन्त्रः - ओं क्षौं क्षेत्रपालाय नमः | षड्दीर्घभाजा बीजेन षडङ्गन्यास माचरेत् | नीलाञ्जनाद्रिनिभ मूर्द्धपिशङ्ग केशं वृत्तोग्रलोचनमुपात्त गदाकपालम् | आशाम्बरं भुजगभूषणमुग्रदंष्ट्रं क्षेत्रेशमन्दुतमहं प्रणमामि देवम् || इति ध्यात्वा क्षेत्रपलमावाह्य अष्टदलपदे पूजयेत् | अनलाक्षमग्निकेशं करालं तदनन्तरम् | घण्टाखं महा (क्रोधं) कोपं पिशिताशनमप्यथ || पिङ्गलाक्षमूर्द्धकेशं पत्रेषु पूर्वतोऽर्चयेत् | लोकपालांस्तदस्त्राणि यथापूर्वं प्रपूजयेत् || ततो माषभक्तबलिं दद्यात् || मन्त्रमाह शारदायाम् पूर्वमेहिद्वयं पश्चाद् विदु(द्वि)षि स्यात्सुरद्वयम् | भञ्जय द्वितयं भूयो तर्जय द्वितयं ततः || ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् | क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरि | बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः || बद्धाञ्जलि ओं तीक्ष्णदंष्ट्र महाका(ल)य कल्पान्त दहनोपम | भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि || इत्यनुज्ञां लब्ध्वा इन्द्रादिदिक्पालान्पूजयित्वा भाषभक्तबलिं दद्यात् | शारदायाम् कुटीनिकटमागत्य सामान्यार्धं विधाय च | द्वारपूजां विधायाथ जपस्थानं विशोधयेत् || वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् || पुरश्चरण संकल्प सनत्कुमारसंहितायाम् प्रणवं तत्सदद्येति मासपक्षतिथीरपि | अमुकगोत्रोऽमुकोऽहं मूलमुच्चार्य तत्परम् || सिद्धिकामोऽस्य मन्त्रस्य इयत्संख्यजपं ततः | दशांशं हवनं होमाद्दशांशं तर्पणं ततः || दशांशं मार्जनं तस्याद्दशांशं विप्रभोजनम् | पुरश्चरणमेवं हिकरिष्ये प्रागुदङ्मुखः || भूतशुद्धिं विधायादौ प्राणायामं समाचरेत् | ऋष्यादिकं ततः कृत्वा कल्पोक्तन्यासमाचरेत् || ततः पूजादिकं कृत्वा यथाविधि जपं चरेत् | शनैः शनैरविस्पष्टं न द्रुतं न विलम्बितम् || क्रमेणोच्चारयेद्वर्णानाद्यन्त क्रमयोगतः | देवतां चित्तगां कुर्यात्कुर्याच्च हृदयः स्थिरम् | प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि || कुलार्णवे यत्संख्या समारब्धं तज्जप्तव्यं दिने दिने | न्यूनाधिकं न कर्तव्य मासमाप्तं कदाचन || न्यूनातिरिक्त कर्माणि न फलन्ति कदाचन | यथाविधि कृतान्येव तत्कर्माणि फलन्ति हि || स्नानं त्रिसवनं प्रोक्तमशक्तौ द्विःसकृच्च वा | मन्त्रं साधयमानस्तु त्रिसन्ध्यं देवमर्चयेत् || द्विकालमेककालं वा न मन्त्रं केवलं जपेत् | उपचारै यथाशक्ति देवतामन्वहं यजेत् || न क्षुज्जृम्भणहिक्कादि विकलीकृतमानसः | मन्त्रसिद्धिमवाप्नोति तस्माद्यत्नपरो भवेत् || यदि दैवाद् जृम्भणादिकं भवति, तदा आचम्य प्राणायामं षडङ्गन्यासं च कृत्वा शेषं जपेत् | सूर्यं दृष्ट्वा वा जपेत् | तथा च योगिनी हृदये पतितानामन्त्यजानां दर्शने भाषणे कृते | क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् || तथाचम्य च तत्प्राप्तौ प्राणायामं षडङ्गकम् | कृत्वा सम्यग्जपेच्छेषं यद्वा सूर्यादि दर्शनम् || कृत्वा जपेदिति परेणान्वयः | आदिपदाद्देव ब्राह्मणादीनां परिग्रहः || शयीत दर्भशययायां विन्यस्य भुवि चात्मनः | तद्वासः क्षालयेन्नित्यमन्यथा विघ्नमा (वहेत्) पतेत् | न दिवा शयनं कुर्यात्कुकुरादीन्न संस्पृशेत् || न सेवेत स्त्रियं मांसं मधु वा साधकोत्तमः | एतानि सेवमानस्य न सिध्यन्ति पुरस्क्रियाः || भक्ष्यादि नियमः कुलार्णवे भुञ्जानो वा हविष्यान्नं शाकं यवकमेव वा | पयो मूलं फलं वापि यत्र यच्चोपलभ्यते || भिक्षाशी वा जपेद् यद्वा कृच्छ्रचान्द्रायणादिकृत् | आम्रमामलकञ्चैव फलं केशरिसम्भवम् || रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् | फलान्येतानि भोज्यानि तदन्यानि विवर्जयेत् || विहितशाकं यथा कलायं कालशाकञ्चवास्तुकं हिलमोचिका || हविष्यान्न लक्षणम् हविष्यान्नं यथा हैमन्तिकं सितास्विन्नं धान्यमुद्गास्तिला यवाः | कलायकं गुनीवारा वास्तुकं हिलमोचिका || यष्टिका कालशाकञ्च मूलकं केमुकेतवत् | लवणे सैन्धव सामुद्रे गव्ये च दधिसर्पिषी || पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी | पिप्पली जीरकञ्चैव नागरङ्गञ्च तिन्तिडी || कदली लवली धात्री फलान्यगुडमैक्षवम् | अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते || मूलं केमुक केन्दूनां वर्जयेद्विहितं मुने | धृतं दधि फलं वापि नारिकेलं यथोचितम् || हविष्यान्नं तथाऽश्नीयाच्छक्तुं यव समुद्भवम् | नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः || गृहस्थानां वदान्यानां भिक्षाशिनोऽग्रजन्मनाम् | पुरश्चरण मध्ये तु यदिस्यान्मृतसूतकम् || तथापि कृतसङ्कल्पो जपं नैव परित्यजेत् | स्वकल्पोक्त क्रमेणैव जपं कृत्वा वरानने || होमयेत्तद्दशांशेन तद्दशांशेन तर्पणम् | तर्पणस्य दशांशेन चाभिषिञ्चेज्जगन्मयीम् || अभिषेक दशांशेन कुर्याद् ब्राह्मण भोजनम् | गुखे दक्षिणां दत्त्वा दीनान्धकृपणान् बहून् || ज्ञातीन्द्विजान्परान्भक्त्या भोजयेच्च यथेप्सितान् | एवं कृतपुरश्चर्यः साधयेदिष्टमात्मनः || होमादि नियमः गौतमीये जपान्ते प्रत्यहं मन्त्री होमयेत्तद्दशांशतः | तर्पणं चाभिषेकञ्च तत्तद्दशांशतो मुने || प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक्यप्रशान्तये | अथवा सर्वसम्पूर्तौ होमादिकमथाचरेत् || अथवा हेमपत्रादौ यन्त्रं कृत्वा ततः परम् | पूजयित्वा तत्र देवीं परिवार समन्विताम् || तर्पण विधिः तर्पयेत्तां परां देवीं तत्प्रकारमिहोच्यते | तर्पयित्वा गुरूनादौ मूलदेवीञ्च तर्पयेत् || मूलान्ते नाम चोच्चार्य तर्पयामि ततः परम् | स्वाहाऽन्ते तर्पयेन्मन्त्री यथासंख्यं विधानतः || योगिनी हृदये तर्पणञ्च प्रकुर्वीत द्वितीयान्तमथोच्चरन् | एकेकमञ्जलिं दत्त्वा तर्पयेद्रश्मिवृन्दकम् || तर्पणद्रव्यम् तर्पणद्रव्यमाह विशुद्धेश्वरे तर्पणं चेन्दुमत्तोयैस्तीर्थतोयैस्तथा पुनः | गुरूपदिष्ट विधिना मधुना वाथ तर्पयेत् || तन्त्रान्तरे तीर्थतोयेन दुग्धेन सर्पिषा मधुनाऽपि वा | गन्धोदकेन वा कुर्यात्सर्वत्र साधकोत्तमः || कालागुरुद्रवैरेव वशयेज्जगदादिकम् | सचन्दनेन तोयेन सौभाग्यं लभते नरः || तोयैः कुंकममिश्रैश्च स्तम्भयेदखिलं जगत् | सितमिश्रिततोयेन बृहस्पति समो भवेत् || कर्पूराक्त जलेनैव सुरान्नाकर्षयेन्नरः | रोचनायुत तोयेन सर्वविघ्नात्प्रमुच्यते || ध्यात्वा देवीं मुखे तस्यास्तर्पणञ्च समाचरेत् | सर्वशास्त्रेषु कथितं तर्पणं शुभदायकम् || एतत्तु तर्पणं कृत्वाऽभिषेकं तद्दशांशतः | आत्मानं देवबुद्ध्या तु सम्पूज्य तन्मयः सुधीः || मूलविद्यां समुच्चार्याऽमन्तां च देवताभिधाम् | तदन्ते चाभिषिञ्चामि नमोऽन्तेनाऽभिषेचयेत् || इति मन्त्री स्वकं मन्त्रं चिन्तयित्वा स्वमूर्द्धनि | अभिषेकं स्वीयसंख्यं विदध्यात् तदनन्तरम् || तत्र सञ्चिन्तयेद्देवीं साङ्गावरणदेवताम् | क्षिपेत्तोयं यथासंख्यं गणान्सिञ्चेत्सकृत्सकृत् || अभिषेकं समाप्यैवमभिषेक दशांशतः | ब्राह्मणान् देवबुद्ध्या च भोजयेत्साधकोत्तमः || यामले ब्राह्मणान् भोजयेद्देवि तथैव च कुमारिकाः | साधकः पशुतामेति कुमारी भोजनाहते || ततो मन्त्रयुतान्विप्रान् भोजयेद्देवताधिया | ततः सम्पूजयेद्भक्त्या सम्भारै विविधैर्गुरुम् || दक्षिणां गुरवे दद्याद्यथा विभवविस्तरैः | दत्त्वा च साधक श्रेष्ठोमहापुजां समाचरेत् | सिद्धमन्त्रो भवेन्मन्त्री नात्र कार्या विचारणा || तन्त्रे विभवे सति यो मोहान्न कुर्याद्विधिविस्त(रैः)रम् | नैतत्फलमवाप्नोति देवद्रोही स उच्यते || अङ्गहीनेजपविधिः मुण्डमालायाम्- यधदङ्गविहीनं स्यात्तत्संख्याद्विगुणो जपः | कर्तव्यः साङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः || रुद्रयामले होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः | इतरेषान्तु वर्णानां त्रिगुणादिक ईरितः || योगिनी हृदये होमाशक्तौ जपं कुर्याद् होमस्य द्विगुणो बुधः | ब्राह्मणादित्रिवर्णानां स्त्रीणां संख्या विधीयते || यं वर्णमाश्रितः शूद्रो दीक्षां कुर्याद्यथेप्सिताम् | तस्यस्त्रीनान्तु या संख्या सा संख्या तस्य विद्यते | शूद्रस्य यादृशी संख्या द्विगुणा सा स्त्रियः प्रिये || अन्यत्रापि यं वर्णमाश्रितः शूद्रः स च तस्य विधिं चरेत् | अनाश्रितस्य शूद्रस्य दिक्संख्याकः समीरितः || शूद्रस्य विप्रभृत्यस्य तत्पत्नयाः सदृशो जपः | होमशून्यस्य विप्रस्य यो जपः स तु तत्स्त्रियः | इतरेषान्तु वर्णानां सर्वेषां त्रिगुणादिकः || त्रिगुणादिक इति होमसंख्या त्रिगुण जपः क्षत्रियेण कार्यः | वैश्येन चतुर्गुणः शूद्रेण च पञ्चगुणो बोध्यः | शूद्रस्य द्विगुणः शक्तिविषये ज्ञेयः | वैष्णवानां चतुवर्णानां चतुर्गुणषड्गुणाष्टदशगुणो बोद्धव्यः | अन्यथा कुत्रापि द्विगुणादिक कुत्रापि चतुर्गुणादि इति विरोधापत्तेः | तथाचोक्तं गौतमीये होमाभावे जपः कार्यो होमसंख्या चतुर्गुणः | विप्राणां क्षत्रियाणाञ्च रससंख्यागुणः स्मृतः | वैश्यानां वसुसंख्याक एषां स्त्रीणामयं विधिः || इति | यामले यदि होमे न शक्तः स्यात्पूजायां तर्पणेऽपि वा | तावत्संख्यजपेनैव सर्वसिद्धिः प्रजायते || यामले कुत्रापि यदि हीनं स्याद्दशकस्याऽङ्गकर्मणि | तत्तद्दशैव कर्याणि दशन्यूनं न कारयेत् || यामले लक्षमेकं जपेद्विद्वान् हविष्याशी सदा शुचिः | ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये || तर्पयेत्तद्दशांशेन तीर्थतोयेन पार्वति | चाभिषिञ्चेत्ततस्तोयैस्तर्पणस्य दशांशतः || तद्दशांशं हविष्यान्नैर्भक्तितो भोजयेद् द्विजान् | गुरवे दक्षिणां दद्याद्यथा विभवविस्तरैः | पाशवः कथितः कल्पः शृणु वीरमतः परम् || वीरकल्पः मुण्डमालायां मत्स्यमांसाशने शक्तः कुर्यान्मन्त्रपुरस्क्रियाम् | रात्रौ प्रागास्यः शययायां प्रजपेल्लक्षमानतः || ततस्तु तद्दशांशेन होमयेद्धविषानले | दशांशं तर्पयेद् द्रव्यैर्मांसमिश्रैः सुसाधकः || तर्पणस्य दशांशेन चाभिषिञ्चेज्जगन्मयीम् | दशांशं भोजयेद्देवि साधकं देवताप्रियम् || मधुमांसञ्च मत्स्यञ्च चर्वणञ्च प्रदापयेत् | ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये | एतत्कल्पद्वयाद्देवि मन्त्रः सिध्यति निश्चतम् || अत्र लक्षपदं स्वस्वकल्पोक्तसंख्यापरम् | तथाचोक्तं कुमारीतन्त्रे तस्मिन्काले साधकेन्द्रः स्वकल्पोक्तं जपं चरेत् | तस्मिन्काले पुरश्चरणकाले | यत्तु कुमारीतन्त्रे लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः | रात्रौ ताम्बूलपूरास्यः शययायां लक्षमानतः | एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् || इति वचनाद्विशिष्ट पुरश्चरणे लक्षद्वयजप इति वदन्ति | तन्त्र मनोरमम् | यद्दिने हविष्याशी, तद्दिने मत्स्याद्यशने हविष्यान्नव्याघातान् नानाचारस्य प्रसक्तेश्च | तथाचोक्तं यामले नानाचारो न कर्तव्यो नानाचाररतो यतः | इति वचनात् | तस्मात्कुमारी तन्त्रोक्त वचनस्य पुरश्चरणद्वये तात्पर्यम् | एतत्कल्पद्वयं दिव्यवीरयोः पर्यायेण कर्तव्यम् | दिव्येन तु एतत्कल्पद्वयं युगपत्कर्तुमपि शक्यम् | यतः स तत्त्वज्ञानी सन् मानसक्रियावान्, अतो नास्य मानसकियया वाह्यकियाया विरोधः | वीरस्तु अतत्त्वज्ञानी सन्बाह्यान्तरोभयक्रियावान् | अस्यैतत्कल्पद्वययौगपद्य नास्ति, उद्धतमानसत्त्वात्, आचारसाङ्कर्यापाताच्चेति सर्वमवदातम् | तथाचोक्तं तन्त्रे दिव्यस्तु देववत्प्रायो वीरश्चोद्धतमानसः | योगिनीहृदये सर्वहिंसा विनिर्मुक्तः सर्वप्राणिहिते रतः | कामक्रोधलोभमोहरागद्वेष विवर्जितः || पूजापमाने सन्तुष्टोऽप्यधिकारी स एव हि | सोऽस्मिन् शास्त्रेऽधिकारी स्यात्तदन्यो भ्रष्टसाधकः || पशुस्तु संशयज्ञानी सन्क्रियावान् | मत्स्यमांसादिकं न ग्राह्यम्, न स्त्रियं मनसाऽपि स्मरेत्, न ताम्बूल भक्षयेत्, किन्तु हविष्यान्नं भक्षयेत् | ऋतुकालं बिना न स्त्रियमपि गच्छेत् | दक्षिणमार्गेण पूजा कर्तव्या | तथाचोक्त यामले यो दाक्षिण्यं विना देवि महा मायां समर्चति | स पापः सर्वलोकेभ्यश्च्युतो भवति नान्यथा || अनेन यद्दिवाविधानं, तद्दिव्यवीर विषयेऽपि बोद्धव्यम् | तथाचोक्तं यामले दिवा दक्षिणमार्गेण वामेन च तथा निशि | यदि तूर्णं फलावाप्तौ युष्माकं मतमेव च || इति वचनात् || अथ ग्रहणपुरश्चरण श्रीबीजार्णवतन्त्रे षोडश पटले देवीं प्रतिशिववाक्यम् एकदा परमेशानी कामाख्यायां महेश्वरी | दृष्ट्वोपरागं यत्कार्यं तत् पृच्छति महेश्वरम् | ये नैव विधिना देव सिद्धो भवति नान्यथा || श्रीशिव उवाच कुतः स्नानं कुतः सन्ध्या प्राणायामः कुतः प्रिये | भूतशुद्धिः कुतो भद्रे कुतः पूजा वरानने || कालातीतभयाद्देवि सर्वं सन्त्यज्य कामिनि | सङ्कल्पं मानसं कृत्वा जपं कुर्याद्वरानने || पञ्चाङ्ग विधिना देवि सिद्धो भवति नान्यथा | मन्त्रो विद्या महेशानि कवचं स्तव एव वा || ध्यानं वा परमेशानि न्यासो वा कमलेक्षणे | एकोच्चारेण देवेशि भवन्ति दशकोटयः || असंख्यस्तज्जपो देवि ग्रहणे चन्द्रसूर्ययोः | तत् कथं परमेशानि जपसंख्या विधीयते || अत एव महेशानि होमो नास्ति शुचिस्मिते | अभिषेकश्च देवेशि तथा च तर्पणादिकम् || भोजनं च महेशानि नास्ति वै कमलानने | सूर्यचन्द्रग्रहे देवि पञ्चाङ्गं नास्ति कामिनि || पञ्चाङ्गेन विहीनोऽपि सिद्धो भवति नान्यथा | सङ्कल्पं विद्धि देवेशि मानसं यद्युपस्थितम् || तत्सङ्कल्पं विजानीयाद् ग्रहणे चन्द्रसूर्ययोः | तस्मात्तु चञ्चलापाङ्गि सङ्कल्पं नैव कारयेत् || सङ्कल्पो मानसो देवि चतुर्वर्गफलप्रदः | अत एव महेशानि सङ्कल्पो मानसः स्मृतः || स्थूलो हि परमेशानि सङ्कल्पो व्यर्थ उच्यते | सङ्कल्पेन विना देवि यत्किञ्चित्कुरुते सुधीः | व्यर्थमेव हि देवेशि तत्सर्वं मानसो न हि || ग्रहणे भोजनकालः प्रथमप्रहरे भद्रे चन्द्रग्रासो यदा भवेत् | तदैव दिवसे भुक्त्वा सत्वरं नरकं व्रजेत् || निशीथे च महेशानि यदैव ग्रहणं भवेत् | तदैव दिवसे भुक्त्वा पीत्वानन्दमयो भवेत् || चन्द्रग्रहणकाले तु जपयज्ञादिकं चरेत् | दिवसे च यदा भद्रे भास्करग्रहणं भवेत् | रात्रौ भुक्त्वा च पीत्वा च जपयज्ञादिकं चरेत् || सौरेषु (सर्वेषु) विष्णुमन्त्रेषु शैवे (सौरे) गाणपत्यौ तथा | शक्तिमन्त्रो महेशानि प्रशस्तः सततं जपेत् | इति बीजार्णवे तन्त्रे शिवेनैव प्रकीर्तितम् || एतत्सर्वं ज्ञानिनामेव कर्तव्यम् | आज्ञानिनामपि पशूनां कर्तव्यमाह गन्धर्वतन्त्रे अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते | ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः || नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः | ग्रहणादि विमोक्षान्तं जपेन्मन्त्रं समाहितः || सनत्कुमारतन्त्रे दृष्ट्वा स्नात्वा सुसङ्कल्पो विमोक्षान्तं जपं चरेत् | जपस्य च दशांशेन होमं कुर्याद्यथाविधि || होमार्थं द्विगुणं वापि जपेन्मन्त्रं समाहितः | होमस्य तु दशांशेन तर्पणं समुपाचरेत् || तर्पणस्य दशांशेन त्वभिषेकं समाचरेत् | अभिषेक-दशांशेन कुर्याद् ब्राह्मण भोजनम् || तदन्ते महतीं पूजां कुर्यात्साधक सत्तमः | गुरवे दक्षिणां दद्यद्भक्त्या विप्रान्प्रतर्पयेत् || श्यामाविद्यायां विशेषमाह कालीतन्त्रे अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते | चन्द्रसूर्यग्रहे चैव ग्रासावधिविमुक्तितः | यावत्संख्यं मनुं जप्त्वा तावद् होमादिकं चरेत् || यदि नक्रादिदूषिता नदी भवति समुद्रगामिनी वा न भवति, तदा किं कर्तव्यं तदाह रुद्रयामले यद्वा शुद्धोदकैः स्नात्वा शुचौ देशे समाहितः | ग्रहणान्मुक्तिपर्यन्तं जपेन्मन्त्रंमनन्यधीः | इति कृत्वा न सन्देहो जपस्य फल भाग्भवेत् || ये तु ग्रहणपूर्व दिने उपवासाशक्त्या हविष्यान्नं फलं दुग्धं वा भुञ्जीतेति वदन्ति | तन्न मनोरमम्, प्रमाणाभावात्, उपवासस्यावश्यकत्त्वाच्च || जपप्राधान्यम् ये तु वदन्ति अत्र श्राद्धमकुर्वाणः पङ्के गौरव सीदति | इति निन्दावाद श्रवणात् श्राधस्यावश्यकत्वं, न जपस्येति तत तथाऽह | सनत्कुमारतन्त्रे श्राद्धादेरनुरोधन यदि जाप्यं त्यजेन्नरः | स भवेद् देवताद्रोही पितृन्सप्त नयत्यधः || महिषमर्दिनीतन्त्रे चन्द्रसूर्यग्रहे जप्त्वा कैवल्यं प्राप्नुयान्नरः | अकृत्वा मन्त्रजापं च सत्वरं नरकं व्रजेत् || गुप्तदीक्षातन्त्रे चन्द्रसूर्यग्रहे यस्तु सम्यग् जापं न चाचरेत् | स दु(भ्र)ष्टः स च पापिष्ठः सहसा शूकरो भवेत् || तस्यान्नमुदकं देवि मूत्रशोणित विट्समम् | जायते नात्र सन्देहो मम वाक्याद्वरानने || अन्यत्रापि जपयज्ञं विना देवि यः करोत्यान्यचिन्तनम् | स भवेद् रौरवे मग्नो यावदाहूत संप्लवम् || रौरवात्पुनरगत्य पापयोनिषु जायते | निष्कृतिर्नास्ति चार्वङ्गि तस्यापि च कदाचन || तस्मात्सर्वं परित्यज्य चन्द्रपर्वणि संजपेत् | सूर्य पर्व यथा देवि चन्द्रपर्व तथा प्रिये | सर्वं त्यक्त्वा महेशानि जपयज्ञं समाचरेत् || इत्यादि नानातन्त्र वचनेभ्यो जपं विना कार्यान्तरस्य निन्दाश्रुतेर्जपस्यैवावश्यकत्वम् || राश्या दिगणनायां दोषमाह यामले अज्ञानाद्यादि वा मोहाद्राश्यादिगणनां चरेत् | विचार्य चञ्चलापाङ्गि न पश्येद् ग्रहणं यदि | पूर्वजन्मार्जितं पुण्यं तत्क्षणादेव नश्यति || कामधेनुतन्त्रे चन्द्रपर्व सूर्यपर्व न विचार्यं कदाचन | सूर्यपर्वं वरारोहेन पश्येद्यदि पामरः | अस्तु तावत्परोधर्मः पूर्वधर्मो विनश्यति || यामले जन्म सप्ताष्ट - ऋप्फाङ्कदशमस्थे निशाकरे | दृष्टाऽरिष्टप्रदो राहुर्जपपूजां विना भवेत् || कवच पुरश्चरणम् भैरवतन्त्रे अथ वश्ये महेशानि कवचानां पुरस्क्रियाम् | अष्टोत्तरशतं जप्त्वा पुरश्चार्यां समाचरेत् || दशांशतोऽङ्गकर्माणि होमादीनि पृथक् पृथक् | ततश्च सिद्धकवचः पुण्यात्मा मदनोपमः || स्वयमशक्तौ प्रतिनिधिद्वारा कर्तव्यम् | ज्ञानप्रदीपे विदधीत पुरश्चर्यां गुरुणा तादृशेन वा || इति परिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्द गिरिकृतायां शाक्तानन्दतरङ्गिण्यां पुरश्चरणनिर्णयो नाम द्वादशोल्लासः || १२ || त्रयोदशोल्लासः यन्त्र-संस्कारः विना यन्त्रेण पूजायां देवता न प्रसीदति | सर्वेषामपि देवानां यन्त्रे पूजा प्रशस्यते || सुवर्णं रजतं ताम्रं श्रेष्ठं मध्यमथाधमम् | ताम्रं लक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् || स्वर्णं त्वनन्तफलदं स्फाटिकञ्च तथा भवेत् | एकतोलं द्वितोलं वा त्रितोलं पञ्चतोलकम् || रसतोलं चतुस्तोलं सप्ततोलं पलं तु वा | साधकस्य मनुं ज्ञात्वा कृत्वा पीठेषु साधकः || अथवा प्रतिमां कृत्वा निजदेवस्वरूपिणीम् || पूजयेदिति शेषः || सम्मोहनतन्त्रे मूलमुच्चरयन्सम्यगालिखेद्यन्त्रमुत्तमम् | तन्त्रे तन्मध्ये विलिखेद्यन्त्रं सुवर्णेन कुशेन वा | ऊर्ध्वाम्नायतन्त्रो प्राणनाथ ! जगन्नाथ ! ब्रह्मविष्णुप्रपूजित् | इदानीं चक्रराजस्य प्रतिष्ठा कर्म मे वद् || श्री-ईश्वर उवाच यथा मन्त्रस्य संस्कारं तथा यन्त्रस्य कल्पयेत् | असंस्कृतौ यन्त्रमन्त्रौ रोगशोकभयप्रदौ || कथितो मन्त्रसंस्कारो दशधा सर्वतन्त्रके | यन्त्रसंस्कार मधुना शृणु देवि समाहिता || यन्त्रसंस्कार सङ्कल्पः चक्रराजं विनिर्माय ततः संस्कार माचरेत् | प्रतिष्ठा द्विविधा देवि मध्यमा चोत्तमा तथा || स्नात्वा सङ्कल्पयेन्मन्त्री गुरोर्वाक्येन चादरात् | प्रणवं तत्सदद्येति मासपक्षतिथोरपि || अमुकोऽमुकगोत्रान्तेऽमुकदेव्याश्च प्रीतये | चक्रेऽस्मिन्नमुकदेव्याः प्राणजीवेन्द्रियेति च || प्रतिष्ठाकर्मशब्दान्ते करिष्ये प्रागुदङ्मुखः | ततो गुरुञ्च वृणुयाद्वस्त्रालङ्कारचन्दनैः || भूतशुद्ध्यादिकान्न्यासान्विन्यसेत्तदनन्तरम् | पञ्चगव्यं निजैर्मन्त्रैः शिवमन्त्रेण मन्त्रितम् || तस्मिन् चक्रं क्षिपेन्मन्त्री प्रणवेन विलोकयेत् | ततश्चक्रं समुद्धृत्य स्थापयेच्चक्रभाजने || यन्त्रस्नानम् शङ्खतोयेन देवेशि तथा पुष्पोदकेन च | वारिणा चन्दनेनाऽपि स्नापयेत्परमेश्वरीम् || नारिकेलोदकैश्चैव सर्वोषधिजलैरपि | पञ्चामृतैः पञ्चगव्यैः स्नापयेत्परमेश्वरीम् || तप्तं शीतं जलं वर्ज्यं किञ्चिदुष्णेन स्नापयेत् | अत्युष्णे वज्रपातः स्यात्तस्मात्तपरिवर्जयेत् || पञ्चामृतमाहयामले धृतं दधि तथा क्षीरं शर्करा मधुसंयुतम् | पञ्चामृतमिदं ख्यातं प्रत्येकन्तु पलं पलम् || पञ्चगव्यपरिमाणम् पञ्चगव्यपरिमाणमाह तन्त्रे पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते | घृतञ्च पलमात्रं स्याद् गोमयं तोलकद्वयम् || दधि प्रसृतिमात्रं स्यात्पञ्चगव्यमिति स्मृतम् | अथवा पञ्चगव्यातां समानो भाग इष्यते || अतिक्रान्तं तु षड्रात्रं दधि स्नाने विवर्जयेत् | संवत्सरात्परं त्वाज्यं षण्मासान्ते च माक्षिकम् | गुडञ्च शर्करां चैव सर्वं ब्रीहिञ्च वत्सरात् || विवर्जयेदिति पूर्वेणान्वयः | एतानि न दद्यादित्यर्थः || देवानां प्रतिमा यत्र घृताम्यङ्गक्षमा भवेत् | पलानि तत्र देयानि श्रद्धया सप्तविंशतिः || अष्टोत्तरशतपलं स्नाने देयञ्च सर्वदा | द्वे सहस्रे पलानान्तु महास्नाने तु संख्यया || पलं तु लौकिकैर्मानैः साष्टरत्ति द्विमासकम् | तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् || पलं पलं पञ्चगव्यं नित्यस्नाने तदर्द्धकम् | अशक्तानां विधिं वश्ये कृच्छ्राणां परमेश्वरि || गुणतोलकहीनं च न दद्यात् स्नानकर्मणि | स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपीठके || तस्मादुद्धृत्य मतिमान्नाभेरूर्ध्वं निवेशयेत् | तत्रैव पीठं सम्पूज्य चार्घपात्रादिकं चरेत् | स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्र्या चाभिमन्त्रयेत् || गायत्रीमाह प्रणवं यन्त्रराजाय विद्महे तदनन्तरम् | महायन्त्राय धीमहि तन्नो यन्त्रः प्रचोदयात् | आवाह्य पञ्चमुद्राभिः प्राणस्थापनमाचरेत् || ज्ञानार्णवे अनामिकामूलपर्वसंसक्तांगुष्ठयुग्मकम् | उत्तानं हस्तयुगलं योजयेत् साधकाग्रणीः || ऊर्ध्वाञजलिमधः कुर्यादियमावाहनी भवेत् | इयं तु विपरीता स्यान्मुद्रा स्थापनकर्मणि || युक्तोच्छ्रितांगुष्ठमुष्टी मुद्रा स्यात्सन्निधापनी | अंगुष्ठगर्भिणी सैव मुद्रा स्यात्सन्निरोधिनी || उत्तानमुष्टियुगला सम्मुखीकरणी मता | देवतांगे षडङ्गानां न्यासः स्यत् सकलीकृतिः || करावेकत्र संयोज्य अधोभूताविव प्रिये | परमीकरणं नाम मुद्रेयन्तु ततः परम् | वं बीजेनामृतीकुर्यात् मुद्रया धेनुसंज्ञया || अन्योन्याभिमुखे श्लिष्टे कनिष्ठानामिके पुनः | तथैव तर्जनीमध्ये धेनुमुद्रा प्रकीर्तिता || धेनुमुद्रा महादेवी अमृतीकरणे भवेत् | प्रतिष्ठाप्याऽर्चयेद् देवीमन्यथा निष्फलं भवेत् || प्रतिष्ठाप्येति यन्त्रे प्रतिमायां वा प्राणप्रतिष्ठां विधायेत्यर्थः || प्राणमन्त्रमाह यामले उच्चार्य भुवनेशानीं पाशांकुशपुटां ततः | याद्याः सप्तमृताङ्काट्या व्योम सत्येन्दुसंयुतम् || व्योम बिन्दुसमायुक्तं सर्गावान् भृगुरित्ययम् | नाम्ना देव्यास्ततः प्राणा इह प्राणास्ततः प्रिये || पुनर्मन्त्रं पुरस्कृत्य तथैव साधकोत्तमः | नाम्ना च देवतायास्तु ततो जीव इह स्थितः || तथैव देवदेवेशि ! उक्त्वा सर्वेन्द्रियाणि च | वाङ्मनश्चक्षुरित्यन्ते श्रोत्रघ्राणपदं ततः || ततः प्राणा इहागत्य सुखमुक्त्वा चिरं पठेत् | तिष्ठन्तु वह्निजायान्तः प्राणमन्त्र उदाहृतः || स्व स्व नाम्ना महेशानि मन्त्रोऽयं सर्वदैवतः | इति प्राणान् प्रतिष्ठाप्य ततः पूजां समारभेत् || स्वकल्पोक्त विधानेन मुद्रां प्रदर्श्य साधकः | उपचारैः षोडशभिर्देवीं प्रपूजयेद् क्रमात् || देव्याज्ञया परीवारान्पूजयेत् परमेश्वरि | ततो जपेत् सहस्रं तु शतमष्टोत्तरं प्रिये || बलिदानं ततः कृत्वा प्रणमेच्चक्रराजकम् | शतमष्टोत्तरं होमं कुर्याच्च साधकोत्तमः || निजमन्त्रेण देवेशि जुहुयाच्चक्रसिद्धये | आहुत्यन्ते चक्रराजे हुतशेषं विनिक्षिपेत् || पुर्णान् दत्त्वा तु होमान्ते तज्जलैरभिषेचयेत् | मन्त्राभिषिक्तं चक्रं तत्सर्वेषां सिद्धिदायकम् || गुरुवे दक्षिणां दद्याद् गां च दद्यात्पयस्विनीम् | भूमिं वृत्तिकरीं दद्यात् पुत्रपौत्रानुयायिनीम् || संहारमुद्रया देव्या विसर्जनमतःपरम् | प्रतिष्ठयेच्चक्रराजमनेन विधिना यदि || पुरश्चर्याफलं तस्य सर्वसिद्धियु तस्य च | गुरोराज्ञां प्रमाणेन यन्त्रं मूर्ध्नि निधापयेत् || गृहीतं यन्त्रमेवेदं क्वापि नैव प्रकाशयेत् | यन्त्र मन्त्र प्रकाशे तु क्रुद्धा भवति पार्वती || निजमन्त्राभिषिक्तञ्च गुरोरपि न दर्शयेत् | यन्त्रग्रहणकाले च यदि स्यात् मेघगर्जनम् || उल्लुलुध्वनिराकस्मादथवा शङ्ख निस्वनः | तदा मन्त्री झटित्येव सिद्धकार्यो न संशयः || अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | ग्रहणं यन्त्रमन्त्राणां शुभदं तत् प्रकीर्तितम् || अथ बलिदानम् मुण्डमालायाम् नरश्छागस्तथा मेषो महिषः शशकस्तथा | शल्लकी शूकरश्चैव बलयः परिकीर्तिताः || नरबलिस्तु राज्ञामेव राजा नरबलिं दद्यान्नान्यो हि परमेश्वरि | सिंहव्याघ्र नरान्दत्त्वा ब्राह्मणो रौरवं व्रजेत् || युवानं व्याधिहीनं च सुश्रीकं लक्षणान्वितम् | सर्वावयव सम्पन्नं बलिं दद्यात् सुशोभनम् || तरुणं सुन्दरं कृष्णं क्षतादिदोषवर्जितम् | स्नापयित्वा बलिं तत्र भूषयेत् पुष्पचन्दनैः || भूषयेद् रक्तमाल्येन सिन्दूरेण विषेशतः | उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा || समानीय स्ववामे च मूलेन प्रोक्षणं चरेत् | संप्रोक्षणं विधायैव बलिं सम्पूजयेदथ || ब्रह्मरन्ध्रे च ब्रह्माणं तन्नासायाञ्च मेदिनीम् | कर्णयोश्च तथाकाशं जिह्वायां सर्वतोमुखम् || ज्योतीषि नेत्रयोर्विष्णुं वदने परिपूजयेत् | ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः || वामगण्डे तथा वह्निं ग्रीवायां समवर्तनम् | रोमकूपे धृतिं चैव भ्रुवोर्मध्ये प्रचेतसम् || नासामूले च श्वसनं स्कन्धे चैव महेश्वरम् | हृदये सर्पराजेन्द्रं पूजयित्वा पठेदिदम् || महातपोभिर्ज्ञानैश्च यज्ञेर्यत्साध्यते नृभिः | तन्मे देहि महाभाग ! सत्वरं चाप्नुयां श्रियम् || शिवबुद्ध्या च सम्पूज्य उत्सृजेच्च ततः परम् | ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः || इत्युत्सृज्य बलिं पश्चात् करवालं प्रपूजयेत् | खड्मग्रे पूजयेन्मन्त्री ब्रह्म-वागीश्वरीं तथा || मध्ये च पूजयेद्देवि ! लक्ष्मीनारायणावपि | मूले च पूजयेन्मन्त्री उमया च महेश्वरम् || एवं विधानैः सम्पूज्य नमस्कुर्यात् प्रयत्नतः | खड्गत्वं शिवरूपोऽसि क्रोधभैरव संज्ञकः || दुर्गा प्रीतिकरो नित्यं कालीशक्तेरिवाऽपरा | खड्गाय खरशानाय शक्तिकार्यार्थ तत्पर ! || पशुच्छेद्यस्त्वया शीघ्रं खड्गनाथ ! नमोऽस्तुते | एवं सम्पूज्य तं खड्गमुत्तोल्य साधकोत्तमः || छेत्ता पूर्वमुखो भूत्वा बलिमुत्तरवक्त्रकम् | (?) आं हुं फट् इति मन्त्रेण छेदयित्वा ततः पशुम् || ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः | मधुभिर्गन्धपुष्पैश्च स्वधिवास्य प्रयत्नतः || गन्धपुष्पोक्षितं कृत्वा चोत्सृजेन्मूलमुच्चरन् | प्रणवं वाग्भवं लक्ष्मीं ततः कौशिकीं शब्दतः || रुधिरेण ततः पश्चादाप्यायतां समुच्चरेत् | निवेद्य रुधिरं देवि ! शिवे दद्यात् प्रदीपकम् | ततो निवेदयेन्मन्त्री ताम्बूलं सुमनोहरम् || रुधिर-मस्तक स्थानपन क्रमः रुधिरमस्तक स्थापनक्रममाह तन्त्रे नारं सव्ये शिरोरक्तं देव्याः सम्यग्नियोजयेत् | छागं तु वामतो दद्यान्माहिषं वितरेत् पुरः | दक्षिणे वा मतो दद्यादग्रतो देहशोणितम् || यामले यदा कटकटाशब्दो दन्तानां श्रूयते क्वचित् | तदा तु मरणं विद्याद्धानिं तत्र विनिर्दिशेत् | यदाश्रु दृश्यते नेत्रे तदा हानिं विनिर्दिशेत् || बलिमस्तकपतन फलम् पूर्वोत्तरे च दिग्भागे पतते यदि मस्तकम् | सर्वसम्पत्करं विद्याद् राज्ञां राज्यं विनिर्दिशेत् || ईशानाग्न्योर्मध्यभागे पतते यदि मस्तकम् | ततः स्वल्पेन कालेन सर्वसिद्धिर्भवेद् ध्रुवम् || यदि वायव्यदिग्भागे नैर्-ऋते दक्षिणेऽपि वा | मस्तकं पतते जातु तस्य हानिं विनिर्दिशेत् || बलिमस्तके दीपदानम् यामले ग्रहाणां कच्छपानाञ्च गोधानाञ्च विशेषतः | मत्स्यानां पक्षिणां चैव न दीपं दापयेच्छिरे || शीर्षोपरि ज्वलद्दीपो यावत्कालं प्रवर्तते | तावत्कालं वसेत्स्वर्गे तस्माद्यत्नेन दापयेत् || रुद्रयामले लोमदाहोद्भवं गन्धं घ्रत्वा देवी प्रसीदति | तस्मात्समर्पयेद्दीपं तस्य पात्रं विवर्जयेत् | विधिवद्बलिदानेन चतुर्वर्गफलं भवेत् || अवैध हिंसायां दोषः अविधानेन हिंसायां दोषमाह कुलार्णवे अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये | निवसेन्नरके घोरे युगानि पशुलोमभिः || स रक्तबिन्दुपाती च तिर्यग्योनौ प्रजायते | अनुमन्ता विशसिता निहन्ता क्रयविक्रयी | संस्कर्ता चोपहर्ता खादिताऽष्टौ च घातकाः || रुद्रयामले धनेन क्रयिको हन्ता खादिता चोपभोगतः | घातको वधतश्चैव त्रिविधो वधवान् ध्रुवम् || यामले पितृदैवतयज्ञेषु वैधहिंसा विधीयते | अन्यत्रापि अहिंसा परमो धर्मोनास्त्यहिंसा परं सुखं | विधिना या भवेत् हिंसा सा त्वहिंसा प्रकीर्तिता || भूतहिंसा न कर्तव्या पशुहिंसा विशेषतः | बलिदानं विना देवि हिंसां सर्वत्र वर्जयेत् || यामले हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं शिवे | गन्धपुष्पाक्षतैः पूज्य त्वन्यथा नरकं व्रजेत् || पापोपजनिका हिंसा तत्कथं स्वर्गसाधनम् | अश्वमेधादियज्ञेषु वाजिहत्यां कथं चरेत् || दृष्टान्तमाह यामले येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः | तेनैव विषखण्डेन भिषग्नाशयते विषम् || तस्मादविधिना हिंसा पापजनिका, विधिबोधिता हिंसा स्वर्गजनिका इति निर्गलितार्थः || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूत श्रीमद्ब्रह्मानन्दगिरि कृतायां शाक्तानन्दतरङ्गिण्यां यन्त्रप्रतिष्ठादि निर्णयो नाम त्रयोदशोल्लासः || १३ || चतुर्दशोल्लासः उपचारविधिः उपचारं प्रवक्ष्यामि शृणु पार्वति ! सादरम् | विनोपचारैर्या पूजा सा पूजा न प्रसीदति || अष्टादशोपचारास्तु सर्वेषामुत्तमाः प्रिये | षोडशेति प्रधानाश्च दशधास्तदनु स्मृताः | पञ्चधास्तदनु प्रोक्ताः कर्तव्या भूतिमिच्छता || फेत्कारिणीतन्त्रे आसनं स्वागतं पाद्यमर्घ्यमाचमनं तथा | स्नानं वासश्चोपवीतं भूषणानि च सर्वशः || गन्धपुष्प धूपदीपौ तथान्नं चापि दर्पणम् | माल्यानुलेपनं चैव नमस्कार विसर्जनम् | अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् || तन्त्रे आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमनस्नानवसनाभरणानि च || गन्धपुष्पधूपदीपनैवेद्यवदनं तथा | प्रयोजयेदर्चनायामुपचारांस्तु षोडश || पाद्यार्घ्याचमनीय च मधुपर्काचमं तथा | गन्धादयो नैवेद्यान्ता उपचारा दश स्मृताः || गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च | प्रदद्यात् परमेशानि ! पञ्च पूजोपचारकान् || पाद्यादिनिरूपणम् पाद्यार्थमुदकं पाद्यं चन्दनागुरु संयुतम् | एतच्छ्यामाकदूर्वाब्ज विष्णुक्रान्तामितीरितम् || पाद्यं पात्रे प्रदातव्यमर्घ्यं चैवार्घ्यपात्रके | रक्तबिल्वाक्षतैः पुष्पैर्दधिदूर्वातिलैर्जलैः || सामान्यः सर्वदेवानामर्घोऽयं परिकल्पितः | अभावे दधिदुग्धाद्यैर्मानसं परिकल्पयेत् || अन्तःशून्यां त्रिपत्राञ्च दूर्वां चार्घेन निक्षिपेत् | जातीलवङ्गकक्कोलैर्दद्यादाचमनीयकम् || तत् तैजसेन पात्रेण शंखेन वा प्रदापयेत् | उदकं दीयते यद्यत्सुगन्धं फेनवर्जितम् || आचमनीयकं देव्यै तदाचमन मुच्यते | दद्यादाचमीयं तु सुगन्धसलिलैः शुभैः || मधुपर्कनिरूपणम् बृहत्श्रीक्रमे नारिकेलोदकं स्वल्पं सिता दधि घृतं समम् | सर्वेषाम्धिकं क्षौद्रं मधुपर्के प्रयोजयेत् || आज्यं दधि मधून्मिश्रं मधुपर्कं विदुर्बुधाः | तद्दद्यात्कांस्यपात्रेण शोभनेन विशेषतः || इति वचनात् कांस्यपात्रेण मधुपर्के नारिकेलोदकदाने दोषाभावः | यथा ताम्रपात्रेण चरुपाके दोषाभावस्तद्वत् | तथाचोक्तम् ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् | अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके || पयोऽनुद्धृतसारञ्च ताम्रपात्रे न दुष्यति | इति वचनात् | पात्रपरिमाणमाह वस्वंगुलन्यूनमानं न पात्रं कारयेद् बुधः || गन्धकथनम् सर्वेषां गन्धजातीनां प्रकृष्टौ मलयोद्भवः | तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा || मध्यमानामिकाग्राम्यामंगुष्ठाग्रेण पार्वति | दद्याच्च विमलं गन्धं मूलमन्त्रेण साधकः || पुष्पप्रकरणम् सर्वेषां पुष्पजातीनां रक्तं शस्तं वरानने ! | देवी प्रीतिकरं प्राज्ञे ! सर्वकामफलप्रदम् || रक्तपुष्पञ्च देवेशि ! तथा स्वर्णादि निर्मितम् | रक्तपद्मं च वज्रञ्च कृष्णा तु चापराजिता || पञ्चदेवमयं पुष्पं करवीरं मनोहरम् | विष्णुर्लम्बोदरः सूर्यो ब्रह्मा च कालिका तथा || पञ्चदेवाः पञ्चदले सदा तिष्ठन्ति नान्यथा | जवापुष्पं महेशानि ! करवीरापराजिते || महादेव्यै निवेद्यैव कोटिपूजाफलं लभेत् | एषां मध्ये वसेद् ब्रह्मा एषां मूले जनार्दनः | एषामग्रे वसेद् रुद्रः सर्वे देवाः स्थिता दले || एषां करवीरापराजिताजवापुष्पाणम् इत्यर्थः | वृक्षे विकसिते काले देवतादिग्विनिर्णयः | पश्चिमस्थदले विष्णुः उत्तरे गणनायकः || ऐशान्यां सूर्यदेवश्च पूर्वे ब्रह्मा प्रकीर्तितः | दक्षिणे कालिका देवी या तु मुक्तिप्रदायिनी || करवीरं यथा देवि ! जवापुष्पं तथैव हि | यथा शुभ्रं तथा रक्तं हरितं कृष्णमेव च || गङ्गादि सर्वतीर्थानि तिष्ठन्ति बिन्दुगह्वरे | तन्मध्ये शिवलिङ्गञ्च महाकुण्डलिनीयुतम् || गह्वरं बिन्दुरूपं च कैवल्यपदमुत्तमम् | शिवशक्तिमयं पुष्पं चतुर्वर्गफलप्रदम् || सर्वपुष्पाणि चैकत्र जवाब्जपारिजातकैः | न समानि भवन्त्येव लक्षकोटि शतान्यपि || यत्राऽपराजितापुष्पं करवीरं जवापि च | तिष्ठन्ति तत्र वै देवा ब्रह्माविष्णुमहेश्वराः || गङ्गादि सर्वतीर्थानि तन्मूले निवसन्ति वै | तन्मूलं सिञ्चितं तेन पूजितास्तेन देवताः || अपराजितामाहात्म्यं वक्तुं न शक्यते मया | मल्लिकामुत्पलं रम्यं शमीं पुन्नागचम्पके || अशोकं कर्णिकारञ्च द्रोणपुष्पं तथैव च | करवीरं जवापुष्पं कुंकुमं नागकेशरम् || यः प्रयच्छति दुर्गायै स गच्छेत् परमं पदम् | पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये जनार्दनः || पुष्पाग्रे च वसेद्रुद्रः सर्वे देवाः स्थिता दले | चराचराश्च सकलाः सदा पुष्पवशाः स्मृताः || सर्वदेवमयं पुष्पं तस्माद्देव्यै समर्पयेत् || पुष्पैररण्यसम्भूतैः पत्रैर्गिरिसमुद्भवैः | अपर्युषितनिश्छद्रैः प्रोक्षितेर्जलवर्जितैः || आत्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेच्छिवाम् | पारोपित वृक्षेभ्यः पुष्पाण्यानीय योऽर्चयेत् | अविज्ञाप्यैव तस्यैव निष्फलं तस्य पूजनम् || इति तु साक्षात्स्वामिपरम् | देवार्थे कुसुमस्तेयमस्तेयं मनुरव्रवीत् | इति वचनात् || पुष्पादीनां पर्युषितकालः सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं जलम् | अवर्ज्यं जाह्नवीतोयमवर्ज्यं तुलसीदलम् || अवर्ज्यं बिल्वपत्रं स्यादवर्ज्यं जलजं तथा | पुष्पैः पर्युषितैर्देवि ! नार्चयेत् स्वर्णजैरपि || बिल्वपत्रं च माघ्यञ्च तमालामलकीदलम् | कह्लारं तुलसीपत्रं पद्मञ्च मुनिपुष्पकम् || एतं पर्युषितं न स्यात् यच्चान्यत् कलिकात्मकम् | तिष्ठेद्दिनत्रयं शुद्धं पद्ममामलकं तथा || दिनैकं करवीराणि योग्यानि च तपोधन | पद्मानि सितरक्तानि कुमुदान्युत्पलानि च || एषां पर्युषिता शंका कार्या पञ्चदिनोर्ध्वतः | अन्येषां कुसुमानां च यावद् गन्धविपर्ययः || पुष्पं च पञ्चगव्यं च उपचारांस्तथाऽपरान् | घ्रात्वा निवेद्य देवेशि ! नरो नरकमाप्नुयात् || अंग संस्पृष्टमाघ्रातं त्याज्यं पर्युषितं बुधैः | केशकीटापविद्धानि शीर्णपर्युषितानि च || स्वयं पतितपुष्पाणि त्यजेदुपहतानि च | शेफाली बकुलं चैव स्वयं शीर्णं न दूष्यति || सर्वं भूमिगतं त्याज्यं शेफालीबकुलं विना | कृमिभक्ष्याणि भग्नानि वर्ज्यानि पतितं भुवि || तमालस्य च पद्मस्य छिन्नभिन्नं न दूष्यति | विष्णुक्रान्ता-जवा-नागकेशरं नागवल्लभम् || बन्धूकं चैव मन्दा(कह्ला)रं सवृन्तं शस्तमर्चने | स्वयं विकसितं पुष्पं त्याज्यञ्च पतितं भुवि || नागवल्लभं नागचम्पकमित्यर्थः | स्वयं विकसितं पुरुषेण विकसित मित्यर्थः || माघमासे तु देवेशि ! पूज्यपुष्पाणि द्वादश | कुन्दं कुरुवकं झिण्टीं केतकं निचुलं तथा || नीलञ्च विकटं शीर्षं भृङ्गराजं च क्षुद्रकम् | बकुलं रङ्गनं चैव नान्यमासे यजेत् क्वचित् || नाक्षतैरर्चयेद् विष्णुं न तुलस्या विनायकम् | न दूर्वया यजेद् दुर्गां बिल्वपत्रैर्दिवाकरम् || दूर्वा निषिद्धेति यदुक्तं, तत् श्वेतदूर्वापरम् | तथोचोक्तं यामले रक्तमाध्यं श्वेतदूर्वां नीलकण्ठं कुरुष्टकम् | न दद्याच्च महादेव्यै यदीच्छेच्छुभमात्मनः || पुष्पाभावे यजेद् पत्रैः पत्राभावे तु तत्फलैः | अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् || शिवे विवर्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा | देवीनामर्कमन्दारौ सूर्यस्य तगरं तथा || देवीनामिति आद्येतरदेवीनामित्यर्थः | अर्कपुष्पैराद्यापूजायाः प्राशस्त्यकथनात्, सहस्रं त्वर्काणामिति कर्पूरादिस्तवाच्च | तगरं काष्ठतगरमित्यर्थः || शिवपूजायां यामले बकुलं मालतीं जातीं कुन्दं शेफालिकां जवाम् | न दद्याच्च महादेवे यदीच्छेच्छुभमात्मनः || मालती मल्लिका जाती यूथिका माधवी तथा | तगरं कर्णिकारश्च द्रोणश्चोत्पलचम्पकौ || अशोकः कुमुदश्चैव शेफालिकाकदम्बकौ | केतकी वनमाला च कुसुम्भकिंशुकौ तथा || कह्लारबकुलं चैव लवङ्ग नागकेशरौ | एतान्यपि प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् || जवाभिश्चैव गन्धाढ्यैर्दूर्वया श्रीफलच्छदैः | विना वै दूर्वया देवीपूजा नास्ति च कर्हिचित् || प्.२७९) तस्माद दूर्वा ग्रहीतव्या सर्वपुष्पमयी हि सा | देवेभ्यः सर्वगन्धाढ्यमभावे तुलसीदलम् || तुलस्या पूजयेद् देवान् नात्र कार्या विचारणा | विना तुलस्या स्नानादि श्राद्धं यज्ञञ्च न प्रिये || सर्वञ्च निष्फलं प्राहुः सर्वत्रैवं विनिश्चितम् | दूर्वा वा तुलसी तस्मात् ग्रहीतव्या च साधकैः || सुन्दरी भैरवीकाली ब्रह्मविघ्न विवस्वताम् | तुलसीवर्जिता पूजा सा पूजाऽविफला भवेत् || तुलसीपत्रैः शक्तेरर्चनम् शक्तिविषये यामले सावित्रीं च भवानीं च दुर्गादेवीं सरस्वतीम् | योऽर्चयेत् तुलसीपत्रैः सर्वकामैः समृध्यते || यामले रात्रावासां तु पूजायां तुलसीं वर्जयेत् सदा | तुलसीघ्राणमात्रेण क्रुद्धा भवति चण्डिका || तुलसी ब्रह्मरूपा च सर्वदेवमयी शुभा | सर्वदेवमयी सा तु गणेशस्य प्रिया नहि || लक्ष्मीदेव्याश्चाप्रिया हि तारादेव्यास्तथैव च | अंगुष्ठतर्जनी योगैर्दक्षिणे पुष्पपातनम् || पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् || दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पयेत् | पुष्पाञ्जलिं विना देवि ! तथोत्पन्नं तथार्पयेत् || पुष्पादिचयनकालः यामले स्नानं कृत्वा तु ये केचिद् पुष्पं गृह्णन्ति वै द्विजाः | देवतास्तन्न गृह्णन्ति न चापि पितरस्तथा || एतत् तु मध्याह्नस्नान परम् | प्रातःस्नानान्तरं तु पुष्पादिचयनं कर्तव्यमिति सम्प्रदायिकाः | तन्त्रे स्नात्वा मध्याह्नसमये न छिन्द्यात् कुसुमं बुधः | तत्पुष्पैरर्चयन्देवीं निरये परिपच्यते || देवीत्युपलक्षणम् | नान्यदेवानपि यजेदिति | प्रातःस्नानादिकं कृत्वा पुष्पाण्यपि समाहरेत् | तत्पुष्पैरर्चयन्देवीं स पापैर्मुच्यते क्षणात् || देवीत्युपलक्षणमन्यदेवानपि अर्चयेदिति | नपुष्पच्छेदनं कुर्याद्देवार्थं वामहस्ततः | न दद्यात्तेन तेभ्यो वा संस्थाप्य वामहस्ततः || धूपप्रकरणम् अगुरूशीरगुग्गुलशर्करामधुचन्दनैः | सामान्यः सर्वदेवानां धूपोऽयं परिकीर्तितः || सर्वेषामेव धूपानां दुर्गायाः गुग्गुलुः प्रियः | घृतयुक्तो विशेषेण सततं प्रीतिवर्धनः || धूपभाजनमस्त्रेण प्रोक्ष्याऽभ्यर्च्य हृदाणुना | अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत् || धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन् | जय ध्वनि ततो मे मातः? स्वाहेत्युदीरयन् || अभ्यर्च्य वादयन् घण्टां तैर्धूपैर्धूपयेत्ततः | मध्यमानामिकाभ्याञ्च मध्यपर्वणि देशिकः || अंगुष्ठाग्रेण देवेशि ! धृत्वा धूपं निवेदयेत् | उत्तोल्य मूर्ध्नि पर्यन्तं घण्टावादेन धूपकम् || धूपयेदाज्यसंमिश्रं नीचैर्देवस्य देशिकः | न भूमौ वितरेद् धूपं नासेन न घटे तथा || यथा तथाधरगतं धृत्वा तं विनिवेदयेत् | राशीकृतैर्न चैवात्र त्वेतैर्धूपैर्विधूपयेत् || तुषाग्निवत् तथा कृत्वा न तत्फलमवाप्नुयात् | दीपप्रकरणम् न मिश्रीकृत्य दद्यात्तु दीपस्नेहघृतादिकान् | दत्त्वा मिश्रीकृतं स्नेहं तमिस्रं नरकं व्रजेत् || वर्त्या कर्पूरगर्भिण्या सर्पिषा तिलजेन वा | आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः || उच्चैरिति देवस्य मस्तकपर्यन्तमित्यर्थः | उत्तोलनं त्रिधा कृत्वा गायत्रीमूलयोगतः | ततो नीराजनं कुर्याद्दशवारं तु दीपकैः || दातव्यः पात्रे दीपस्तु न तु भूमौ कदाचन | कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः || तमिस्रं नरकं घोरं प्राप्नोत्येव न संशयः | सर्वंसहा वसुमती सहते न त्विदं द्वयम् || अकार्यपादधातं च दीपतापं तथैव च | तस्मात्कुर्वीत पृथिवीतापं नाप्नोति वै यथा || नैव निर्वापयेद्दीपं देवार्थमुपकल्पितम् | दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् | न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः || नैवेद्यप्रकरणम् नैवेद्यमाह कन्दुपक्वं स्नेहपक्वं घृतसंयुक्त पायसम् | मनः प्रियञ्च नैवेद्यं दद्याद्देव्यै पुनः पुनः || कन्दुपक्वमिति मृष्टतण्डुल पृथुकादीनि देयानीत्यर्थः | यद्यद् हि वाच्छितं वस्तु दद्दद्यात्देवपूजने | बलप्रियं च नैवेद्यं दत्त्वा देवीं प्रपूजयेत् || आत्माऽप्रियं च नैवेद्यं न दद्याद्देवपूजने | स्त्रीणां प्रीतिकरं यच्च तच्चापि विनिवेदयेत् | ताम्बूलस्य प्रदानेन देवी प्रीतिमती भवेत् || प्रदक्षिणविधिः शङ्खहस्तेन सर्वत्र सकृद् द्विर्वा प्रदक्षिणम् | वेष्टनञ्च ततः कृत्वा प्रणमेद्दण्डवद् भुवि || तथा त्रिधाचरेत् सम्यक् देवतायाः प्रदक्षिणम् | एकं चण्ड्यां रवौ सप्ते त्रीणि कुर्याद्विनायके || चत्वारि केशवे कुर्याच्छिवे चार्द्धप्रदक्षिणम् | दक्षिणाद्वायवीं गत्वा दिशस्तस्याश्च शाम्भवीम् || ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् | त्रिकोणोऽयं नमस्कारस्त्रिपुराप्रीतिवर्द्धनः || नतिस्त्रिकोणाकारा च तारादेव्याः समीरिता | दर्शयन्दक्षिणं हस्तं मनसापि च दक्षिणः || स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टये | पश्चात्कृत्वा तु यो देवं भ्रभित्वा प्रणमेन्नरः | तस्येह च फलं नास्ति न परत्र दुरात्मनः || प्रणामविधिः नमनं मानसं प्रोक्तं वाचिकं कायिकं तथा | त्रिविधश्च नमस्कारः कायिकश्चोत्तमः स्मृतः || कायिकैश्च नमस्कारैर्देवास्तुष्यन्ति नित्यशः | जानुभ्यामवनीं गत्वा शिरसा स्पृश्य मेदिनीम् || क्रियते यो नमस्कार उत्तमः कायिकः स्मृतः | पद्भयां कराभ्यां जानुभ्यामुरसा शिरसा दृशा || वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः | पद्भयां कराभ्यां जानुभ्यामुरसा शिरसाऽपि च || पञ्चाङ्गोऽसौ नमस्कारः सर्वत्रायं विधिः स्मृतः | पुटीकृत्य करौ शीर्षे दीयते च यथा तथा || अस्पृष्ट्वा शीर्षजानुभ्यां क्षितिं सोऽप्यधम स्मृतः | कायिकस्त्रिविधः प्रोक्तो ह्यष्टाङ्गादिविभेदतः || अष्टाङ्ग उत्तमः प्रोक्तः पञ्चाङ्गो मध्यमः स्मृतः | अधमं करशीर्षाभ्यां नमस्कारं विवर्जयेत् || अयमेव नमस्कारो दण्डवदिति नामतः | प्रणाम इति विज्ञेयः स पूर्वं प्रतिमादितः || या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः | क्रियते भक्तियुक्तेन वाचिकी तूत्तमा स्मृता || पौराणिकैवैदिकैर्वा मन्त्रैर्या क्रियते नतिः | स मध्यमो नमस्कारो भवेद्वाचनिकः सदा || यत्तु मानुषवाक्येन नमनं क्रियते सदा | स वाचिकोऽधमो ज्ञेयो नमस्कारस्तु पार्वति ! || उपचारप्रकरणम् अथोपचारान्कुर्वीत तन्त्रोक्तानासनादिकान् | आसनं कुसुमं दद्यात् स्वागतं कुशलं वदेत् || देवस्य वामभागे तु दद्यान्मूलेन चासनम् | पौष्पं दारुमयं वास्त्रं चार्मं कौशं च तैजसम् || षड्विद्यं चासनं प्रोक्तं देवताप्रीतिकारकम् | नमोऽन्तं पादयोः पाद्यं शिरोमन्त्रेण देशिकः || अर्घ्यं दद्यात्ततो मूर्ध्नि स्वधेत्याचमनं मुखे | स्वधेत्याचमनीयञ्च तिवारं मुखपङ्कजे || स्वधान्तेनैव मनुना मधुपर्कं मुखाम्बुजे | स्नानं गन्धं हृदा दद्यात् पुष्पाणि वौषडित्यपि || स्नानार्थमुदकं दद्यात्सर्वाङ्गे परमेश्वरि ! | तायेन प्रोक्षणं कृत्वा दुकूलं विनिवेदयेत् || स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् | सर्वालङ्करणं दद्याद्यत्र यत् तु विराजते || प्रतिमादौ यथायोग्यं गात्रे दद्यात्तु तत्वगः | सर्वाङ्गे चन्दनं दद्यात्पुष्पं दद्याच्छिरोपरि || नमोऽन्तकौ धूपदीपौ सव्यदक्षक्रमेण तु | दद्यात्तु योग्यं पुरतो नैवेद्यं भोजनादिकम् || नैवेद्यञ्च सुधान्तं हि कल्पयामि नमो वदेत् | निवेदयामि नैवेद्यं यद्द्रव्यैः परिकल्पितम् | ततो निवेदयामीति सर्वं दद्यान्महेश्वरि || नैवेद्यादीनामाच्छादनावश्यकत्वम् गान्धर्वे सुनैवेद्यादिकं यत्तु गन्धपुष्पादिकञ्च यत् | सर्वस्याच्छादनं कार्यं यावदावाहयेत्पराम् || राक्षसाः प्रतिगृह्णन्ति निराच्छादनकं यतः | देव्या नैवेद्यदान्ते तु यो विधिः स तु कथ्यते | असंस्कृतं न दातव्यं देवताभिर्न गृह्यते || नैवेद्यदानविधिः संस्कारमाह यामले आनीय देवीपुरतः संप्रोक्ष्य चार्घ्यवारिणा | अस्त्रमन्त्रेण चाभ्युक्ष्य धेनुमुद्रां प्रदर्शयेत् || तस्योपरि मूलमन्त्रमष्टवारं जपेत् सुधीः | चक्रमुद्रां विधायैव चिन्तयेत्तत्सुरक्षितम् || यं मन्त्रैः शोषयेद् दोषं रं मन्त्रैर्दाहयेच्च तम् | वं मन्त्रैश्चामृतं भाव्यं ठं मन्त्रैः प्लावयेच्च तत् || सर्वत्र भक्ष्यद्रव्येषु एवं संस्कारमाचरेत् | अमृतोऽपस्तरणमसि स्वाहेति जलमर्पयेत् || अमुकीदेव्यै एतज्जलं ओं अमृतोपस्तरणमसि स्वाहा इति मन्त्रेण दद्यात् | आपोशानं जलं दत्त्वा महादेव्यै निवेदयेत् | इदमन्नं सोपकरणं महादेव्यै स्व(सु) धापि च || प्रणवाद्यैरुक्तमन्त्रैर्देवीवक्त्रे हुनेत् गुरुः || गुरुवित्युपलक्षणम् अग्रे देवस्य हस्ताभ्यामुत्थाप्य मुखसन्निधौ | जगन्मातर्जगद्धात्र्यमुकि देवि ततः परम् || निवेदयामि यत्किञ्चिद् जुषा(गृहा)णेदं हविर्मम | अनेन मनुना देवि ! निवेद्य प्रणवादिना || वामे वा दक्षिणे वापि पञ्चमुद्राः प्रदर्शयेत् | अंगुल्यः कुटिलीभूता विरलाग्राः परस्परम् | ग्रासमुद्रा समाख्याता सव्ये पाणौ नियोजयेत् || प्राणादिमुद्रा प्राणापान समानाश्चोदानव्यानौ च वायवः | समानः पञ्चमो ज्ञेयः प्राणाः पञ्च समीरिताः || प्राणमुद्रा समाख्याता प्राणे हवनकर्मणि | तर्जनी मध्यमांगुष्ठैस्त्रिभिरेकीकृतं यदि || स्यादपानाहुतौ मुद्रा तथाऽनामिकमध्यमे | कनिष्ठेन समायुक्ता नियुक्ता व्यानहोमके || निष्कनिष्ठेन या मुद्रा सोदान हवने स्मृता | सर्वाभिः संस्कृता मुद्रा समानाहुतिकर्मणि || क्षणं विलम्ब्य देव्या तु स्वीकृतं तद् विभावयेत् | यावद् भुङ्क्ते हविर्देवि ! तावन्मूलं जपेत्सुधीः || ततो मूलेन सलिलं दत्त्वा हवींषि साधकः | तस्मात्तेजः समुन्नत्यै दत्त्वाऽपोशानमुत्तरम् || एतज्जलम् अमृतापिधानमसि स्वाहेति दद्यात् | ततः आचमनं तोयं दद्याच्च मुखवासनम् | स्थानं विशोध्य तन्मन्त्री ताम्बूलं च निवेदयेत् || उक्तेष्वेतेषु द्रव्येषु यत्किञ्चिद् दुर्लभं यदि | तत्कल्पनीयं देवेशि मनसा भावनेन तु | सर्वत्रैव जलं देयमुप चारान्तरान्तरे || द्रव्याणां निर्माल्यताकालः द्रव्यविशेषाणां निर्माल्यतानियममाह योगिनीहृदये मणिमुक्तासुवर्णानि देवे दत्तानि यानि वै | न निर्माल्यं द्वादशाब्दं ताम्रपात्रं तथैव च || पटी शाटी च षन्मासं नैवेद्यं दत्तमात्रतः | मोदकं कृषरं चैव यामार्द्धेन च सुन्दरि || पट्टवस्त्रं त्रिमासाच्च यज्ञसूत्रं त्वहः स्मृतम् | यावदुष्णं भवेदन्नं परमान्नं तथैव च || मस्तकं रुधिरं चैव अहोरात्रेण पार्वति ! | मुहूर्तं दधि दुग्धं च त्वाज्यं यामेन शङ्करि ! || करवीरमहोरात्रं बिल्वपत्रं तथैव च | जवारक्तं च निर्माल्यं भवेत् सार्द्धैकयामके || यामार्द्धेनाप ईशानि ! ताम्बूलं दत्तमात्रतः | न निर्माल्यञ्च दाडिम्बं तथा बिल्वफलं प्रिये ! || इति श्रीपरिव्राजकाचार्य परमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां मुपचारादि निर्णयो नाम चतुर्दशोल्लासः || १४ || पञ्चदशोल्लासः अथ शाक्ताचारः कुलचूडामणौ देव्युवाचः शृणुपुत्र ! रहस्यं में समयाचार सम्भवम् | येन हीनां न सिद्ध्यन्ति जन्मकोटिशतैरपि || अनित्यकर्म संत्यागी नित्यानुष्ठान तत्परः | परस्यां देवतायान्तु सर्वकर्म निवेदयेत् || वृथा न कालं गमयेद्युत क्रीडादिना सुधीः | नयेत् तु देवतापूजाजपयज्ञादिकर्मभिः || अन्तः शाक्ता वहिः शैवाः सभायां वैष्णवा मताः | सर्वदा विष्णु भावस्तु भवेत् साधकपुङ्गवः || यदि पश्येत् कुलतरुं प्रणमेत् साधकस्तदा || कुलवृक्षाः कुलवृक्षमाहतन्त्रे अशोकः केशरो बिल्वःकर्णिकारश्चूतस्तथा | नमेरुस्तथा प्रियालश्च सिन्दुवार कदम्बकौ | मरुवकश्चम्पकश्च बिल्वश्च द्वादश स्मृताः || नमेरु रुद्राक्षः | पियालो वृक्षविशेषः | सिन्धुवारो निशुन्दाख्ययाख्यातः | मरुवको झिण्टिका | एते द्वादश कुलवृक्षा ज्ञातव्याः | अन्यत्रापि श्लेष्माकः करञ्जाख्यो निम्बाश्वत्थ कदम्बकाः | बिल्वोऽशोकश्चम्पकश्च इत्यष्टौ कुलपादपाः || श्लेष्मांतको बहेडावृक्ष इतिख्यातः | तिष्ठन्ति कुलयोगिन्यः सर्वेष्वेतेषु सर्वदा | न स्वपेत् कुलवृक्षाधोन चोपद्रवमाचरेत् || यामले आरामे पर्वते चैव निर्जने शून्यमण्डपे | चतुष्पथे कलामध्ये यदि दैवाद् गतिर्भवेत् || क्षणं स्थि(ध्या)त्वा मनुं जप्त्वा नत्वा गच्छेद् यथासुखम् चतुष्पथे देव्याः पीठे इत्यर्थः | तथाचोक्तं यामले चतुष्पथः स विज्ञेयो यत्र स्यात् तारिणी शुभा | तरणकर्तृत्वात् तारिणीत्यर्थः || पीठनिरूपणम् पीठमाह गान्धर्वे कामरूपं महापीठं वाराणसीं ततः परम् | नेपालञ्च महापीठं पौण्डुवर्द्धनकं तथा || पुरस्थिरं महादेवि ! चरस्थिरमतः परम् | पूर्णशैलं महापीठं अर्बुदं च ततः परम् || काश्मीरञ्च तथा पीठं कान्यकुब्जमथो भवेत् | आम्रात केश्वरं पीठमेकाम्रञ्च तथा शिवे ! || तिस्रोत पीठमुद्दिष्टं कामकोटिमतः परम् | कैलासं भूतनगरं केदारं पीठमुत्तमम् || श्रीपीठञ्च तथोङ्कारं जालन्धरमतः परम् | मालवञ्च कलान्तञ्च देवमातृक मेव च || गोकर्णञ्च तथा देवि ! मारुतेश्वर मेव च | अट्टहासं च विरजं राजगिरिमतः परम् || पीठं कोल्वगिरिञ्चैव एलापुरमतः परम् | कालेश्वरं महापीठं प्रणवञ्च जयन्तिकाम् || पीठमुज्जयिनीं चैव क्षीरिकापीठमेव च | हस्तिनापुरकं पीठं पीठमुड्डीशमेव च || प्रयागं चैव षष्ठीशं मायापुरजलेश्वरौ | मलयञ्च महापीठं श्रीशैलं च तथा प्रिये || मेरुगिरि मेहेन्द्रञ्च वामनञ्च महेश्वरि | हिरण्यपुरकं पीठं महालक्ष्मीपुरं तथा || उड्डीयानं महापीठं छायापुर (पीठ)मतः परम् | (पीठान्येतानि देवेशि ! शस्तानि जपकर्मसु ||) पीठस्थानजपफलम् फलमाह योगिनी हृदये वाराणस्यां सदापूजा सम्पूर्णफलदायिनी | ततस्त द्विगुणा प्रोक्ता पुरुषोत्तम सन्निधौ || ततऽपि द्विगुणा प्रोक्ता द्वारावत्यां विशेषतः | सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा || विन्ध्योशतगुणा प्रोक्तागङ्गायामपि तत्समा | आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च || विन्ध्यवत् फलदा प्रोक्ता प्रयागे पुष्करे तथा | ततश्चतुर्गुणा प्रोक्ता करतोया नदीतटे || ततश्चतुर्गुणा प्रोक्ता नदीकुण्डे च भैरवे | ततश्चतुर्गुणा प्रोक्ता वाल्मीकीश्वर सन्निधौ || तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता | ततश्चतुर्गुणा प्रोक्ता लौहित्यनदकुण्डके || तत्समा कामरूपेतु सर्वत्रैव जले स्थले | देवीपूजा तथा शस्ता कामरूपे सुरालये || देवीक्षेत्रं कामरूपे विद्यतेऽन्यन्न तत्समम् | अन्यत्र विरला देवी कामरूपे गृहे गृहे || ततश्चतुर्गुणा प्रोक्ता नदीकुण्डस्य मस्तके | ततोऽपि द्विगुणा प्रोक्ता दारुके शिवलिङ्गके || ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्याः स्वयोनिषु | ततःशतगुणं प्रोक्तं कामाख्या योनिमण्डलम् || कामाख्यायां महामाया पूजां यदि सकृच्चरेत् | स चेहलभते कामं परत्र शिवरूपताम् || एषु स्थानेषु देवेशि ! यदि दैवाद् गतिर्भवेत् | तदा पूजादिकं कृत्वा नत्वा गच्छेद् यथा सुखम् || कलामध्ये कला प्रकृतिस्तस्याः समूहमध्ये गत्वा पूजादिकं कृत्वा नत्वा सुखं गच्छेदित्यर्थः | तथाचोक्तं समयातन्त्रे स्त्रीसमीपे कृता पूजा जपश्च परमेश्वरि ! | कामरूपाच्छतगुणोऽव्ययश्च समुदीरितः || कुलार्णवेऽपि एकलिङ्गे श्मशानञ्च समूहं योषितामपि | नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः || गृध्रं वीक्ष्य महाकालीं जम्बुकीं यमदूतिकाम् | कृष्णमार्जारभूकाकौ श्येनं क्षेमङ्करी तथा || कुररञ्च नमस्कुर्यादिदं मन्त्रं पठेन्नरः | कृशोदरि ! महाचण्डे ! मुक्तकेशि ! बलिप्रिये | कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये || पितृभूमिं व्यसुं दृष्ट्वा प्रदक्षिणमनुव्रजन् | प्रणभ्याऽनेन मनुना मन्त्रीसुखमवाप्नुयात् || ओं घोरदंष्ट्रे ! करालास्ये ! किटिशब्द वि(प्र)नादिनि ! | गुरुघोररवास्फाले ! नमस्ते चितिवासिनि || रक्तवस्त्रं तथा पुष्पं विलोक्यं त्रिपुराम्बिकाम् | प्रणमेद्दण्डवद् भूमाविमं मन्त्रं पठेन्नरः || ओं बन्धूकपुष्पसङ्काशे त्रिपुरेभयनाशिनि | भाग्योदय समुत्पन्ने ! नमस्ते वरवर्णिनि || कृष्णवस्त्रं तथा पुष्पं राजानं राजपुत्रक(रुष)म् | हस्त्यश्वरथशस्त्राणि फलकान् वीरपुरुषान् || महिषे कुलदेवं च दृष्ट्वा महिषमर्दिनीम् | प्रणमेद् जयदुर्गां च स च विघ्नैर्न लिप्यते || फलकोनट इति ख्याताः | ओं जयदेवि ! जगद्धात्रि ! त्रिपुराद्ये ! त्रिदैवते ! भक्तेभ्यो वरदे देवि ! महिषघ्नि ! नमोऽस्तुते | मद्यभाण्डं समालोक्यं मत्स्यं मासं वरस्त्रियम् || दृष्ट्वा च भैरवीं देवीं प्रणमेद्विमृशन् मनुम् | ओं घोरविघ्न विनाशाय कुलाचार समृद्धये || नमामि वरदे ! देवि ! मुण्डमाला विभूषिते | रक्तधारा समाकीर्णवदने त्वां नमाम्यहम् || सर्वविघ्नहरे देवि ! नमस्ते हरवल्लभे ! | यः शिवारुदितं श्रुत्वा शिवदूतीं शुभप्रदाम् || प्रणमेत् साधको भक्त्या तस्य कामःकरे स्थितः | एतेषां दर्शनेनैव यदि नैवं प्रकुर्वते || शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते | एतेषां मारणोच्चाट हिंसनं वागुरादिभिः || कुरुते यदि पापत्मा स मद्भक्तः कथं भवेत् | एतत् कर्तुं प्रसक्तोयस्यार्थं तमसा लिखेत् || नित्यसंकेतः स्तवः कुलचूडामणौ नित्यसंकेतस्तवमाह श्रीदेव्युवाच ओं त्रिपुरा त्रिपुरेशी च सुन्दरी पुरसुन्दरी | श्रीमालिनी च सिद्धाम्बा महात्रिपुरसुन्दरी || प्रकटास्या तथा निद्रा गुप्ता गुप्तरापरा | सम्प्रदायकुला कौलरहस्यातिरहस्यगा || परापररहस्या च तथा कामेश्वरी शुभा | भगमाला तथा क्लिन्ना भेरुण्डा वह्निसुन्दरी || महाविद्येश्वरी दूती त्वरिता कुलसुन्दरी | नित्या नीलपताका च विजया सर्वमङ्गला || ज्वालांशुमालिनी चित्रा वशिनी शुभगा कुला | पूर्णाख्या च तथा वत्स ! कामेशी मोदिनी तथा || विमला अरुणा देवी जयन्ती कुलभैरवी | सर्वेश्वरी तथा कौली वागिशी सर्वकामिनी || सिद्धेश्वरी तथा चोग्रा दुर्गा महिषमर्दिनी | स्वप्नावती शूलिनी च मातङ्गी सुरसुन्दरी || महाकाली महोग्रा च चित्ररूपा महोदरी | प्राणविद्या तथैकाक्षी चैकपादा महांकुशा || वामा शिवा तथा ज्येष्ठा सुरूपा चारुहासिनी | त्रिखण्डा त्रिशिरासौरी गौरी विन्ध्यनिवासिनी || क्षोभिणी नादिनी भद्रा ललिता बहुरूपिका | सर्वसम्पत्करी तारा भावानी विश्ववासिनी || कूटेश्वरी महाविद्या कथिता तव भैरव ! | उपासकान् महादेव ! शृणु चैकमनाः स्वयम् || मनुश्चन्द्रः कुबेरश्च मन्मथस्तदनन्तरम् | लोपामुद्रापति(मुनि)र्नन्दी शत्रुः स्कन्दः शिवस्तथा || क्रोधभट्टारकश्चैव शक्तिर्नाम प्रकीर्तिता | दुर्वासा व्याससूर्यौ च वशिष्ठश्च पराशरः || और्वो वह्निर्यमश्चैव निर्-ऋतिर्वरुणस्तथा | वायुर्विष्णुः स्वयम्भूश्च भैरवो गणकस्तथा || अनिरुद्धो भरद्वाजो दक्षिणामूर्ति रेव च | गणपाः कुलापाश्चैव लक्ष्मीर्गङ्गा सरस्वती || धात्री शेषः प्रमत्तश्च उन्मत्तः कुलभैरवः | क्षेत्रपालो हनूमांश्च दक्षो गरुड एव च || शुकदेवः प्रह्लादश्च रामो रावण एव च | काश्यपः कौत्सकुम्भौ च जमदग्निर्भृगुस्तथा || बृहस्पतिर्यदुश्रेष्ठौ दत्तात्रेयोयुधिष्ठिरः | अर्जुनो भीमसेनश्च द्रोणाचायर्णो वृषाकपिः || दुर्योधनस्तथा कुन्ती सीता च रुक्मिणी तथा | सत्यभामा द्रौपदी च उर्वशी च तिलोत्तमा || पुष्पदन्तो महाबुद्धो बालः कालश्च मन्दरः | कैलासः क्षीरसिन्धुश्च उदधिर्हिमवांस्तथा || नारदश्च महावीराः कथिता वीरसाधकाः | महाविद्याप्रसादेन स्वस्वकर्म समाहिताः || एतेषां वत्स ! नामानि नित्यविद्योपसेविनाम् | प्रातःकाले शुचिर्भूत्वा यः पठेत् प्रयतात्मवान् || पूजाकाले शुचिर्भूत्वा प्रपठेत् स्तोत्रमुत्तमम् | अशुचिर्वा निरालम्बामालम्ब्य च कुलान्तिके || नित्यपूजाफलं तस्य ददामि वरमीप्सितम् | चक्रसंकेतकं चैव गुरुसंकेतकं तथा || मन्त्र संकेतकञ्चैव नामसंकेतकं तथा | समयाचार संकेतं न ज्ञात्वा योऽत्र वर्तते || जपपूजार्चना होमस्त्वभिचाराय कल्पते | इदं स्तोत्रं पठित्वा तु भवेत् संकेतवान् ध्रुवम् || इति कुलचूडामणौ नित्यसंकेतस्तवराजः समाप्तः | देहपातेऽपि मोक्षः स्यात् समयाचार पालनात् | इति फलश्रुतेः काम्यमपि || अथ शिवाबलिः विश्वसारे शिवाबलिं निवेद्याथ तोषयेद् जगदम्बिकाम् | न ददाति बलिं यस्तु शिवायाः शिवताप्तये || स पापिष्ठो न सह्यते कुलदेव्याः प्रपूजयेन् | इति यामल वचनात् तथा च यामले पशुरूपां शिवां देवीं यो नाऽर्चयति निर्जने | शिवारावेण तस्याऽशु सर्वं नश्यति निश्चितम् || जपपूजा विधानानि यत्किञ्चित् सुकृतानिच | गृहीत्वा शायमादाय शिवा रोदिति निर्जने || तन्त्रे कालिकानीति वक्तव्ये तत्रोमा शिवरूपिणी | शिवारूपधराऽयाति परिवारगणैः सह | अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् || शिवाबलेर्नित्यत्वम् नित्यश्राद्धे यथा सन्ध्या वन्दने पितृतर्पणे | तथैव बलिदानेऽपि नित्यता कुलपूजनम् || यामले बिल्वमूले नदीतीरे श्मशाने वापि साधकः | मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् || शिवबलिदानमन्त्रः बलिमन्त्रमाह ओं गृह्य देवि ! महाभागे ! शिवे ! कालाग्निरूपिणि ! | शुभाशुभफलं व्यक्तं ब्रूहिगृह्य बलिं तव || एवमुचार्य दातव्यो बलिः कुलजनैः प्रिये ! | एकया भुज्यते यत्र साधकानां हिताय च || तदैव सर्वशक्तीनां प्रीतिः परमदुर्लभा | भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुस्वरम् || तदैव मङ्गलं देवि ! नान्यथा भवति ध्रुवम् | यदा न गृह्यते न्यूनं तदा नैव शुभं भवेत् || एवं ज्ञात्वा महेशानि ! शान्तिस्वस्त्यनं चरेत् | पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात् || पूजनाद्विगुणं कर्मसगुणं साधयेद्यतः | तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् || शिवापूजादिफलम् पूजाजपादेः फलमाह दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा | स्वयं ब्रह्मा स्वयं विष्णुः स्वयं रुद्रो न संशयः || अन्ते निरामयं ब्रह्म मन्त्री भवति नान्यथा | या नारी प्रजपेद्विद्यां सा भवेत् परमेश्वरी || काकबन्ध्या च या नारी बन्ध्या वा भृतमुगिणी | पूजयित्वा लभेत् पुत्रं सत्यं सुचिरजीविनम् || स्वामिनी दुर्लभा सा स्याद् धनधान्यसमन्विता | अन्ते न जायते गौरी सत्यं सत्यं न संशयः || योगिनीहृदये महाविद्यां जपेन्नित्यं स्मरेद्वापि समाहितः | तस्य गेहे वसेल्लक्ष्मीर्जिह्वायां च सरस्वती || हृदये च वसेद्देवा नारायण इति श्रुतिः | ब्रह्माऽस्ति कण्ठदेशे च अहं तिष्ठामि सन्मुखे || एकीभूय समस्तैश्च देवी रक्षति साधकम् | लक्षमेकं जपन्मन्त्री महापापात् प्रमुच्यते || लक्षद्वयेन पापानि सप्तजन्मकृतान्यपि | हन्ति लक्षत्रयेणैव जन्म साहस्रिकाण्यपि || चतुर्लक्षजपान्मन्त्री वागीश्वरसमो भवेत् | पञ्चलक्षाद्दरिद्रोऽपि साक्षाद् वैश्रवणो भवेत् || जप्त्वा षडलक्षकं देवि महाविद्याधरो भवेत् | प्रजपन्सप्तलक्षाणि खेचरीसिद्धिभाग् भवेत् || अष्टलक्षप्रणाणान्तु जप्त्वा विद्यां महेश्वरि | अणिमाद्यष्टसिद्धीशो जायते नात्र संशयः || नवलक्षजपाद्देवि ! रुद्रमूर्तिरिवाऽपरः | कर्ता हर्ता महादेवि ! लोकेऽप्रतिहतः प्रभुः | दशलक्षफलं देवि ! वर्णितुं नैव शाक्यते || श्रीक्रमेऽपि मन्त्रपाशेन देवेशि ! देवतामानयेद् ध्रुवम् | साधकस्य कार्यसिद्धिं कृत्वा देवी गमिष्यति || अथ देवीप्रणामफलम् अष्टोत्तरशतं कुर्यात् कालिकायाः प्रदक्षिणम् | सर्वकामं समासाद्य पश्चान्मोक्षमवाप्नुयात् || अत्र पूर्वापरार्द्धेयोर्यथाक्रमं यः स इति योज्यम् | ये नमन्ति नरा दुर्गां श्रद्धया परयाऽन्विताः | अश्वमेधफलं प्राप्य दुर्गालोकं व्रजन्ति ते || षाठ्येनापि नमस्कारं यः करोति सकृन्नरः | भगवत्यै तथाऽभक्त्या स गच्छति सुरालयम् || सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलम् | तत्फलं लभते लोकः प्रणम्य शिरसा सतीम् || संप्रसारितदेहो यो दण्डवत् पतितो भुवि | चण्डिकापुरतो भक्त्या स याति परमां गतिम् || श्रीमद्भागवते दशमःस्कन्धे रुक्मिणीवचनम् कात्यायनि ! महामाये ! महायोगिन्यधीश्वरि ! | नन्दगोपसुतं देवि पति मे कुरुते नमः || हे कात्यायनि ! कात्यायनमुनिनिमित्तप्रादुर्भूते | हे महामाये ! महती चासौ माया चेति महामाया ब्रह्मविष्णुशिवादीनामपि मोहहेतुत्वात् महामाया | विष्णुः शरीरग्रहणमहमीशान एव च | कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् || इति मार्कण्डेय पुराणात् | हे महायोगिनि ! महायोगो जगत्सृष्ट्यादिकारणत्रिगुणात्मकमाया विद्यते यस्याः सा महायोगिनी | हे अधीश्वरि ! ईश्वराणां शिवभक्तिब्रह्मणामीश्वरो | शैव सर्वेश्वरेश्वरी ति मार्कण्डेयवचनात् | नन्दगोपसुतं नन्दनन्दनत्वेनाभिमतं परमेश्वरं श्रीकृष्णं तथैव देवतारूपं मे मम पतिं पाणिग्रहीतारं कुरु | त्वत्प्रसादं विना किमपि कार्यं न सिद्धयेदतस्ते तुभ्यं नमः | कायिकवाचनिकमानसिको नमस्कारः || इति परिव्राजकाचार्यपरमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्दगिरि- कृतायां शाक्तानन्दतरङ्गिण्यां जपादिफलनिर्णयो नाम पञ्चदशोल्लासः || १५ || षोडशोल्लासः जपादिफलाभावहेतुनिर्णयः महिषमर्दिनीतन्त्रे श्रीदेव्युवाच केन वा जप्यते विद्या केन वा न प्रजप्यते | फलाभावश्च नियतः कथं नाथ प्रजायते || श्रीमहादेव उवाच तवैव विदितं सर्वं जगदेतच्चराचरम् | तथापि शृणु चार्वङ्गि ! रहस्यं परमेश्वरि ! || संसर्गदोषः कलिकाले महेशानि ! पाषण्डा बहवो जनाः | सङ्गदोषान् महेशानि ! तत्क्षणाद्धानितां व्रजेत् || तस्मात्प्रयत्नतो देवि ! संसर्गं वर्जयेत् सुधीः | वरं चाण्डाल संस्पर्शं कुर्यात् तु साधकोत्तमः || तथाप्यसिद्धिजनकं सर्वदा तं परित्यजेत् | दूषिताः कलिकालेषु भारते विविधाः प्रजाः || अत एव महेशानि ! सर्वे संसर्गदूषिताः | घटकं ब्राह्मणं देवि ! संस्पर्शे यत्नतस्त्यजेत् || भारते बहवो दोषाः कलिकाले सुरार्चिते ! | ब्राह्मणाः कलिकाले तु शूद्रगेहे वराङ्गने ! || पुराणवाचनासक्ता दम्भमात्सर्यतत्पराः | पापिष्ठा ब्राह्मणास्ते तु चाण्डालसदृशाः प्रिये ! || न तूच्चरेत् पुराणानि कलौ शूद्रगृहे द्विजः | शूद्रगेहे महेशानि ! पुराणं प्रपठेद्यदि || एतस्य सङ्गमात्रेण सर्वावस्था भवन्ति हि | संसर्गात् सिद्धिहानिः स्यात् न सिध्यन्ति कदाचन || कलौ च भारते देवि ! निन्दका बहवो जनाः | शिवनिन्दापराः केचिद् विष्णुनिन्दापराःपरे || सर्वेषां देवतानाञ्च देवीनाञ्च तथैव च | सततं कुर्वते निन्दां नात्र कुर्यु विचारणाम् || परस्त्रीसङ्गमाच्चैव पुत्रमुत्पादयन्ति च | आत्मानं वैष्णवं मत्वा अधमा भारते कलौ || कर्णे कण्ठे तथा हस्ते हृदये नगनन्दिनि ! | विधृत्य तुलसीमालां तिलकं हरिमन्दिरम् || गृह्णीषुर्हरिनामानि सुस्वराणि गृहे गृहे | अन्यस्य सञ्चयं कुर्यः पाषण्डा मानवाधमाः || तेषां पापं महेशानि ! वर्णितुं नैव शक्यते | अधर्मनिरतो भूत्वा हरेर्नाम वदेद्यदि || तदा पापान्यशेषाणि नाशयत्येव निश्चितम् | विहाय सन्ध्यां गायत्रीं हरिनाम स्मरेद्यदि || यान्यक्षराणि नाम्न्येव वसन्ति च शुचिस्मिते ! | तावत् संख्यान्यनेकानि पापानि च पदे पदे || अन्नं जलं तथा पुष्पं यद्दत्तं विष्णवे प्रिये ! | अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् || गेहे गेहे महेशानि ! वैष्णवी वैष्णवा जनाः | सङ्कश वैष्णवा यत्र स देशः पतितः सदा || गीतमत्ता वाद्यमत्ता ब्राह्मणा नृत्यतत्पराः | गीतेषु जायते भावो ब्राह्मणानां गृहे गृहे || सद्भावो नहि चार्वङ्गि ! नरकस्य पदं ध्रुवम् | भारते ब्राह्मणाः सर्वे पृथिव्यां पादताडनम् || ये करिष्यन्ति चार्वङ्गि ! विष्णोरग्रे द्विजाधमाः | पादताडनसंख्यातांस्तत्पूर्वपुरुषान् बहून् || स्वर्गाच्च नरकं देवि ! पातयन्ति न चान्यथा | पूजाकाले तु चार्वङ्गि ! ध्यानानन्दो भवेद्यदि || तदैव गीतं नृत्यं च ये कुर्वन्ति द्विजातयः | विष्णुद्रुगाशिवाग्रे तु तदा पापं विनश्यति || गीतभावमयो भूत्वा यदि नृत्यं करोति हि | कोटिवं श्यान् समादाय स द्विजो नरकं ब्रजेत् || कलिकाले भारते या ब्राह्मण्यो गीततत्पराः | तथा वाद्यरता भूत्वा नृत्यन्ति चाधमा द्विजाः || तासां संसर्गमात्रेण सर्वं च हानितामियात् | तस्मात् तु यत्नतो देवि ! संसर्गं तैर्न कारयेत् || कलौ तु भारते वर्षे संसर्गान्नहि सिध्यति | यदि सिध्यति चार्वङ्गि ! तदा बहुदिने गते || भारतं कलिकाले च सर्वदोषमयं यतः | तत्रैकं चञ्चलापाङ्गि ! वर्तते मोक्षसाधनम् || महामाये ! महाविद्यामेकधा यदि चोच्चरेत् | सर्वपापविनिर्मुक्तो महामोक्षं स गच्छति || वर्णसङ्करजातीनां वैष्णवानां सह प्रिये | शाक्तः शैवो वैष्णवश्च संसर्गं यत्नतस्त्यजेत् || अथ प्रायश्चित्तम् पापमात्रनाशकं कर्म प्रायश्चित्तम् | यथाह तन्त्रे देहस्थसर्वपापस्य नाशनं यदि चेच्छति | कामं मायां तथा देवि ! मन्मथं परमेश्वरि ! || विद्यामेतां जपेद् देवि ! तत्पापस्यापनुत्तये | अष्टोत्तरशतं जप्त्वा तस्मात् पापाद् विमुच्यते || यामले च जाम्बूनदस्य मालिन्यं परिशुद्धं यथाऽग्निना | अनाचारस्य कलुष प्रायश्चित्ताग्निना तथा || प्रायश्चित्तं तु पापानां मूलमष्टसहस्रकम् | गायत्रीं वा जपेद् देवि ! सर्वपापप्रणाशिनीम् || अष्टसहस्रकमिति अष्टोत्तरसहस्रमित्यर्थः | गायत्रीं वैदिकगायत्रीम् ! शूद्रस्य तत्राऽनधिकाराद् मूलमष्टोत्तरसहस्रं तान्त्रिकगायत्रीं वा जपेत् | स्त्रीणान्तु शूद्रतुल्यत्वात् अथैवाचारः || अथ धृतकवचनाश-प्रायश्चित्तम् यामले विधृतं कवचं देवि ! यदि नश्यति कर्हिचित् | तदुपायं प्रवक्ष्यामि शृणुष्व कमलानने || उपविश्य तथाचम्य भूतशुद्धिमथा चरेत् | षट्चक्राणि विचिन्त्याऽथ गुरुं शिरसि चिन्तयेत् || अनुलोम-विलोमाभ्यां मातृकाबीजसंपुटम् | कवचं तत्पठेद् देवि ! ह्यर्कावृत्तमनुक्रमात् || ततो जपेन् महाविद्यां सहस्रं वा शतं क्रमात् | विलिख्य कवचं देवि ! रक्तसूत्रेण वेष्टयेत् || स्वर्णेनाऽपि पुनर्देवि ! वेष्टयेत् तत् सुदुर्लभम् | वेष्टयित्वा महादेवि ! स्वर्णैः परमदुर्लभम् | धारयेतत् त्प्रतिष्ठाप्यं नूतनं कवचं ततः || नष्टकवचप्रतिष्ठाक्रमः प्रतिष्ठाक्रममाह पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि | प्राणप्रतिष्ठामन्त्रेण प्राणास्तत्र निवेशयेत् || सम्पूज्य देवतारूपं कवचं सर्वकामदम् | ततो जपेन्महाविद्यां सहस्रं वा शतं क्रमात् | धारयेत् तन्महादेवि ! यथास्थानेषु साधकः || इति कवचनाशप्रायश्चित्तम् | अथ यन्त्रनाशप्रायश्चितम् नवरत्नेश्वरे यदि प्रतिष्ठतं यन्त्रं दैवाद् देवि ! विनश्यति | उपोषणमहोरात्रमादरेण समाचरेत् || येन स्वर्णादिना यन्त्रं द्रव्येण परिनिर्मितम् | विलिख्य यन्त्रं तत्पत्रे देवतां परिपूजयेत् || उपचारैः षोडशभिः शक्तितः सुसमाहितः | अयुतं प्रजपेन्मन्त्रं पूजयित्वा यथाविधि || मन्त्री विलोड्य तत्तोयं पीत्वा भक्षणमाचरेत् | तावत् कालं ब्रह्मचर्यं यावद्यन्त्रं न कारयेत् || पुनर्यन्त्रं नवं रम्यमाहरेच्छुद्धयाऽन्वितः | आहृत्य च नवं यन्त्रं प्रतिष्ठां तस्य कारयेत् | ततः प्रतिष्ठिते तस्मिन् पूर्ववत् पूजनं चरेत् || अथ पूजाकाले यन्त्रादिपतनप्रायश्चित्तम् यन्त्रं यदि पतेद् देवि ! पूजाकाले कदाचन || लिङ्गं वापि शिवो वापि तत्फलं शृणु पार्वति | आयुर्हानिर्धनग्लानिर्बन्धुनाशस्तथैव च || भवतीति विनिश्चित्य प्रायश्चित्तमथाचरेत् | त्रिरात्रमेकरात्रं वा उपवासं समाचरेत् || मूलविद्यां जपेद् देवि ! सहस्रं साष्टकं तथा | जपापुष्पैश्च जुहुयाच्छतमष्टोत्तरं तथा || ब्राह्मणान् भोजयेद्भक्त्या यजेद्यन्त्रं समाहितः | यन्त्रमिति शिवादेरप्युपलक्षणम् || मालापतनप्रायश्चित्तम् माला यदि पतेद्धस्तात् तथैव च विनश्यति | सहस्रं तत्र संजप्य ब्राह्मणान् भोजयेत्ततः || भोजनं ब्राह्मणानां तु सर्वानिष्टस्य नाशनम् | गायत्रीं वा जपेद् देवि ! शतं साष्टं समाहितः || गायत्रीं जपेदिति ! तत्तद् देवताया गायत्रीं जपेदित्यर्थः | ततः सम्पूज्य तां मालां गृह्णीयात् पुनरेव हि | एवं कृते वरारोहे ! न विघ्नैरभिभूयते || अथ मालाविनाशप्रायश्चित्तम् माला यदि विनष्टा स्यात् पूर्ववत् सकलं चरेत् | ततश्चाप्यपरां मालां तज्जातीयां वरानने || समाहृत्य प्रतिष्ठाप्य गृह्णीयात् पुनरेव हि | यामले महापतकयुक्तोऽपि गायत्रीं प्रजयेद्यदि | सत्यं सत्यं महादेवि ! मुक्तो भवति तत्क्षणात् || अशुचिर्न स्पृशेन्मालां करभ्रष्टां न कारयेत् | शब्दे जाते भवेद्रोगः करभ्रष्टा विनाशकृत् | छिन्ने सूत्रे भवेन्मृत्युस्तस्माद्यत्नपरो भवेत् || तन्त्रान्तरे हस्तात् पतति चेन्माला न जप्तव्या तु सा बुधैः | प्रायश्चित्तं विधातव्यं जप्त्वा मन्त्रं सहस्रकम् || सहस्रकमिति | अष्टाधिकसहस्रमित्यर्थः | जीर्णे सूत्रे पुनः सूत्रैर्ग्रथयित्वा शतं जपेत् | शतमिति मूलमन्त्रमष्टोत्तरशतं जपेदित्यर्थः | छिन्ना भवति चेन्माला पूजां कुर्यात् ततोऽधिकाम् | पुनर्ग्रथित्वा तां मालां प्रतिष्ठां पूर्ववच्चरेत् | ततस्तु प्रजपेन्मालां न तत्र दोषभाग्भवेत् || अथ गुरुक्रोधोपसमनप्रायश्चित्तम् शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन | उपवासं गुरुक्रोधे कृत्वा तं तु प्रसादयेत् || यावत् प्रसादं नायाति तावद्वै भोजनं त्यजेत् | गुरौ प्रसन्ने भुञ्जीत एवं दोषा न जायते || अथाऽनिवेदितभोजनप्रायश्चित्तम् मत्स्यसूक्ते अनिवेद्य न भुञ्जीतभक्ष्य भोज्यादिकं च यत् | अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् || विष्णुपदं स्वस्वसाध्यदेवता परम् | अन्यत्रापि अदत्तं नैव भोक्तव्यमभक्ष्येण समं स्मृतम् | पत्रं पुष्पं फलं मूलमन्नपानौषधं प्रिये | अनिवेद्यं न भुञ्जीत भुञ्जीतैव निवेदितम् || कालिकापुराणे महाधीरो मुनिर्वापि ब्राह्मणश्चेतरोऽपि वा | यद्यद्भक्ष्यं समर्थस्तु प्रकृष्टं स्याद्यथा तथा | प्रदद्यादिष्टदेवेभ्यो गृह्णीयाच्च तथा स्वयम् || यामले यद्यथा भक्ष्यते भक्ष्यं तत्तथैव प्रदापयेत् | अन्यथा तत् प्रदानेन न तत् फलमवाप्नुयात् || यद्यद् द्रव्यं येन प्रकारेण भोक्तव्यं तद् द्रव्यमन्यथा प्रकारेण न दातव्यम् | अनिवेद्य हरेर्भुञ्जन् सप्तजन्मनि नारकी | हरेरित्युपलक्षणम् | तथाचोक्तं कालिकापुराणे फलं पुष्पं च ताम्बूलमन्नपानादिकञ्च यत् | अदत्त्वा तन्महादेव्यै न भोक्तव्यं कदाचन || अनिवेद्य न भुञ्जीत प्रायश्चित्तीभवेन्नरः | देव्याश्चाष्टशतं मन्त्रं जप्त्वा पूतो भवेन्नरः || देव्या इत्युपलक्षणं स्वस्वोपासित देवतानाम् | तथाचोक्तं यामले अनिवेद्य महेशानि ! भुञ्जानः पातकी भवेत् | इष्टमन्त्रं शतं जप्त्वा तस्मात् पापाद् विशुध्यति || न च यो यद् देवार्चनरतः स तन्नैवेद्यभुग् भवेत् | इति वचनाद् देवतान्तरनैवेद्यभक्षणं न कर्तव्यमिति वाच्यम् | अग्राह्यं शिवनिर्माल्यमितिवचनमज्ञानिनाम्, ज्ञानिनाम् तु प्रसादभक्षणमेवावश्यकम् | तथा चोक्तम् यामले शिवदत्तं विष्णुदत्तं गिरिजादत्तमेव च | प्राप्तिमात्रेण भोक्तव्यमन्यथा पातकी भवेत् || अग्निपुराणे शिवदत्तं विष्णुदत्तं पार्वतीदत्तमेव च | नैवेद्यमुदरे कृत्वा नरः सायुज्यमाप्नुयात् || लैङ्गे लिङ्गे त्यक्त्वा तु नैवेद्यं भुंक्ते मोहाद्विमूढधीः | कुम्भीपाके च नरके पच्यते नात्र संसयः || एतत्तु शिवमस्तकदत्तं नैवेद्यपरम् | स्कन्दपुराणे बाणलिङ्गे स्वयम्भूवे स्फाटिके मृदि संस्थिते | अतः शतक्रतोः पुण्यं शम्भोर्नैवेद्य भक्षणात् || आदित्यपुराणे निर्माल्यं धारयेद्यस्तु शिरसा पार्वतीपतेः | राजसूयस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् || तथा च लिङ्गार्चनतन्त्रे ब्रह्मत्वं प्राप्तवान् ब्रह्मा योगं चान्ये महर्षयः | विष्णुत्वमपि विष्णुश्च शिवः केन न सेव्यते || निर्माल्यं सर्वपापानि शम्भोर्हरति निश्चितम् | निवेदितञ्च नैवेद्यं भुञ्जीत नात्र संशयः || न हि ये भुञ्जते मूर्खा नरकं तैः प्रपद्यते | नैवेद्यं चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने | अन्यथा नैव सिद्धिः स्यादर्चको नरकं व्रजेत् || इत्यादि नानातन्त्रपुराणवचनैः निवेदितमात्रं भोक्तव्यं न तु अनिवेदितमिति निश्चयः || नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ति योगिनीगणाः | रक्तपानोद्यतः सर्वा मांसास्थिचर्वणोद्यताः || तस्मान्निवेदितं देव्यै दृष्ट्वा श्रूत्वा च मानुषः | न निन्देत् मनसा वाचा कुष्ठव्याधिपराङ्मुखः || इति कालीकुलसर्वस्ववचनात् | कुमारीतन्त्रे देवतानाञ्च नैवेद्यं स्त्रीभ्यो दद्यान्न कुत्रचित् | तन्त्रे स्वशक्तिभ्योऽन्यशक्तिभ्यो दत्त्वा च स्वयमाहरेत् | यामले अनेकधा पशोरन्नं भुञ्जते ये च साधकाः | तेभ्यः प्रकुप्यते देवी तत् संसर्गं न कारयेत् || तन्त्रे अनस्थिप्राणिसंघातं हत्त्वा च दशकं जपेत् | हत्वा च पक्षिणं सर्वं त्रिरेकादशकं जपेत् || यामले पर्वण्यपूज्य देवेशीं गुरुं शक्तिञ्च शक्तितः | अदत्त्वा च बलिं तत्र मूलमष्टशतं जपेत् || वर्णसङ्करजातीयैर्वैष्णवैस्तु सह प्रिये ! | शाक्तः शैवो वैष्णवश्च संसर्गं यत्नतस्त्यजेत् || तेषां मुखं समालोक्य सूर्यदर्शनमाचरेत् | इष्टमन्त्रं शतं जप्त्वा तस्मात् पापाद्विशुध्यति || इति || वैदिककर्ममात्रम् इष्टदेवताप्रीत्यर्थं कार्यम् | तन्त्रे देवताप्रीतिकामस्तु कर्म कुर्यात् सदाशिवे | अन्यकामस्तु चेत्कर्म करोति विधिमोहितः || फलं न जायते तस्य देवस्तस्मै प्रकुप्यति | अन्यच्च ये त्वकामा नराः सम्यग्कर्म कुर्वन्ति शोभने ! | तेषां ददाति विश्वेशो भगवान् मुक्तिमीश्वरः || सकामानां सायुज्यादि मुक्तिः, सायुज्यं न परामुक्तिः शरीरसम्बन्धात् | अकामानां निर्वाणमेव मुक्तिः, परमपुरुर्थत्वात् | न च पुनरावर्तते इति श्रुतेः | ननु अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् | मामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि || इति वचनात् कर्ममात्रस्य भोगनाश्यत्वे बहुजन्मार्जितानन्तकर्मणात् | भोगेन विनिवर्तनासम्भवाद् जीवस्य कथं मुक्तिरिति चेत् | उच्यते देवता प्रीतिकामस्तु कर्म कुर्यात् सदाशिवे | देवस्तु प्रीतिमापन्नो भुक्तिमुक्तिफलप्रदः || अकामः सात्त्विको लोके यत्किञ्चिद् विनिवेदयेत् | स तत्स्थानमाप्नोति यत्र गत्वा न शोचति | अत्यन्तदुःखविरहो मुक्तिरित्युच्यते बुधैः || यामले धर्माधर्माविति प्रोक्तौ द्वौ पाशौ कर्मसंज्ञितै | देवताप्रीतिकर्माणि न बन्धाय विमुक्तये | मूर्ध्ना प्रतीछते देवस्तत्कामेन कृतं तु यत् || इत्यादिवचनात् वर्तमान कर्मणाम् ईश्वर प्रीतिमात्रसाधकत्वेनाऽदृष्टो जनकत्वात् प्रारब्धातिरिक्तकर्मणामीश्वरप्रसादलब्ध ज्ञानेन नाशात् प्रारब्धानाञ्च भोगादेव क्षयाल्लिङ्गदेहनाशे विमुक्तिः स्यादिति || लिङ्गदेहमाहगान्धर्वे पञ्चप्राणमनोबुद्धिर्दशेन्द्रियसमन्वितम् | शरीरं सप्तदशकं सूक्ष्मैतल्लिङ्गमुच्यते || श्रीभागवते द्वादशे घटे भिन्नेघटाकाशमाकाशं स्याद्यथा पुरा | एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः || देहे मृते लिङ्गदेहे ध्वस्ते इत्यर्थः | अन्यथा पुनः पुनर्जन्ममृत्युर्भवत्येव | तथा चोक्तं विष्णुधर्मोत्तरे तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् | केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वर्चित् || ततः सपिण्डीकरणे बान्धवैः स कृते नरः | पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते || ततः न नरके याति स्वर्गं वा स्वेन कर्मणा | तत्क्षणात् मृत्युक्षणात् | प्रेतशरीरञ्च पूर्वदेहरूपमत्यन्तगतिमत् | तदाह मार्कण्डेयपुराणम् वायुप्रसारिते देहमतोऽन्यं प्रतिपद्यते | तत्प्रमाण-वयोवस्थसंस्थानं प्राग्भवं यथा || इति श्रीपरिव्राजकाचार्यपरमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां संसर्गदोषादिनिर्णयो नाम षोडशोल्लासः || १६ || सप्तदशोल्लासः अथ कुण्डविधिः गोविन्दवृन्दावने भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत् | गुरुराचम्य विधिवदासने उपविश्य च || माषभक्तिबलिं दद्याद्यथोक्तविधिना ततः | ओं स्वर्गपातालमध्ये च ये सन्ति वास्तुदेवताः || गृह्णन्त्विमं बलिं दत्तं तुष्टायान्तु स्वमन्दिरम् | मातरो भूतवेताला ये चान्ये बलिकांक्षिणः || देव्याः पारिषदा ये च ते च गृह्णन्त्विमं बलिम् | मण्डपनिर्माणम् शारदायाम् पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् | पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् || षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्रायाः संस्थाप्य द्वादशाऽमितः || चतुर्विंशांगुलं हस्तं तन्त्रवेदविदो विदुः | गृहादिकुण्डकरणे वेदिकामण्डपे तथा | मानांगुलेन कर्तव्यं नान्यैर्वापि कदाचन || मानांगुलिलक्षणम् मानांगुलिमाह तन्त्रे कर्तुर्दक्षिणहस्तस्य मध्यमांगुलिपर्वणः | मध्यस्य दैर्घ्यमानेन मानांगुलिरुदाहृता || मण्डपस्थानपरिमाणम् सिद्धान्तशेखरे स्थलादर्कांगुलोच्छ्वायं मण्डपस्थानमीरितम् | नारिकेलदलैर्वशैश्छादयेन् मण्डपं ततः | चतुर्द्वारैः समायुक्तं कदलीस्तम्भसंयुतैः || आम्रपत्रसमायुक्त रज्जुभिः परिवेष्ठितम् | अष्टदिक्षु ध्वजानष्टौ चतुर्दिक्पालवर्णतः || दिक्पालवर्णः दिक्पालवर्णमाह शारदायाम् पीतो रक्तो सितो धूम्रः शुक्लो धूम्रः सितावुभौ | गौरोऽरुणः क्रमादेते वर्णतः परिकीर्तिताः || कुण्डशरीरम् नास्ति होमो विना कुण्डं तस्मात् कुण्डं प्रशस्यते | कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः || प्राच्यां शिरः समाख्यातं बाहु दक्षिणसौम्ययोः | उदरं कुण्डमित्युक्तं योनिः पादौ तु पश्चिमे || चतुरस्रकुण्डलक्षणम् पूर्वापरायतं सूत्रं विन्यसेद्धस्तमानतः | दक्षिणोत्तरगं सूत्रं तथैव च प्रविन्यसेत् || तदग्रयोः प्रविन्यस्य तथा सूत्रचतुष्टयम् | चतुरस्रं महाकुण्डं सर्वयोग प्रकीर्तितम् || मुष्टिमात्रमितं कुण्डं शतार्धे संप्रचक्षते | शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके || द्विहस्तमयुते लक्षे चतुर्हस्तमुदीरितम् | नियुते षट्करं प्रोक्तं कोट्यामष्टकरं स्मृतम् || खातपरिमाणम् यावान् कुण्डस्य विस्तारः खननं तावदीरितम् | चतुर्विंशत्यंगुलञ्च यवशून्यं सहस्रके || ततो द्विहस्तमाने तु त्रिंशदंगुलकं स्मृतम् | चतुर्हस्ते मध्यमानमष्टत्रिंशत्प्रकल्पितम् || अंगुलं यवशून्यं स्याल्लक्षहोमे प्रकीर्तितम् | ऋतुहस्ते तथा मानं चत्वारिंशत्त्रयाधिकम् || अंगुलं नियुते प्रोक्तमधिकं यवचतुष्टयम् | चत्वारिंशदष्टयुतं यवसप्तसमन्वितम् | वसुहस्ते तथा मानमंगुलं कथितं बुधैः || शोभनं कमलं कुर्यात् कुण्डमध्ये सरन्ध्रकम् | सर्वेषामेव कुण्डानां मेखलास्तिस्र एव च || एकांगुलं विहायाऽन्ते मेखलास्तस्य कारयेत् | अर्द्धांगुलप्रमाणेन कण्ठञ्च वर्द्धयेत् क्रमात् || तन्त्रान्तरे कोणसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् | एवं लक्षादिके ज्ञेयं कुण्डं तत्र विधानतः || एकहस्त कुण्डस्य कोणसूत्रेण ईशानकोणसूत्रेण परितो यन्मानं तदेव पारिभाषिकं द्विहस्तादिकुण्डमानं न तु प्रकृतहस्ताद् द्वैगुण्यादिकमिति || मेखलानिरूपणम् इदानीं मेखलादीनां मानं तस्य निगद्यते | कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम् || कुण्डानां मेखलास्तिस्रो मुष्टिमात्रे तु ताः क्रमात् | उत्सेधायामतो ज्ञेया द्वयेकार्द्धंगुलिसम्मिताः || युगांगुलं योनिमानं योन्यग्रमेकमंगुलम् | युगांगुलं नाभिपद्मं शतार्द्धे संप्रचक्षते || अरत्निमात्रकुण्डे तास्त्रिद्वयेकांगुलिकात्मिकाः | कर्तव्या मेखला योनिश्चतुरंगुलसम्मिता || एकांगुलं तु योन्यग्रं कुर्यादीषदधोमुखम् | अंगुलित्रितयं चैव नाभिपद्मं सुशोभनम् || एकहस्तमिते कुण्डे वेदाग्निनयनांगुलाः | कर्तव्या मेखला योनिं कुर्याच्चैव षडंगुलम् || वेदांगुलं नाभिपद्मं योन्यग्रैकांगुलं स्मृतम् | कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणांगुलाः || योनिः सप्तांगुलोपेता योन्यग्रं चांगुलिद्वयम् | पञ्चांगुलं नाभिपद्मं कुर्याच्चैव मनोहरम् || चतुर्हस्तमिते कुण्डे वसुतर्कयुगांगुलाः | कर्तव्या मेखलास्तिस्रो योन्यग्रं चांगुलित्रयम् || योनिरष्टांगुलोपेता नाभिपद्मं षडंगुलम् | कुण्डे रसकरे ताः स्युर्दशाष्टर्त्वंगुलान्विताः || योनिर्न वांगुलोपेता योन्यग्रं चतुरंगुलम् | सप्तांगुलं नाभिपद्मं कुर्याच्च सुमनोहरम् || अष्टहस्तमिते कुण्डे भानुपंक्त्यष्टकांगुलाः | योनिर्दशांगुलोपेता कर्तव्याऽधोमुखी तथा || पञ्चांगुलं तु योन्यग्रं कुर्यादष्टांगुअल्ं तथा | नाभिपद्मं लक्षहोमे तन्त्रवित् परिकल्पितम् || होतुरग्रे तु तां योनिं मेखलानां परिस्थिताम् | गजकुम्भवदाकारां कुर्यादोषदधोमुखीम् || पश्चिमाभिमुखीं योनिं कुण्डकोणेषु नार्पयेत् | एवं समस्तकुण्डानां व्यवस्थेयं प्रकीर्तिता || नालनिरूपणम् स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम् | सरन्ध्रकमित्युभयत्र सम्बध्यते | तथा चोक्तं रुद्रयामले योन्या मध्ये बिलं कुर्यात् तदाज्यग्राहिसंज्ञकम् | स्थलनियममाह क्रियासारे होमस्थानाद् बहिःस्थानं स्थलमित्यभिधीयते | गौतमीये सूक्ष्माग्रं स्थूलमूलञ्च सरन्ध्रकं नालमिष्यते | सम्मोहनतन्त्रे मूलं मध्यं तथा चाग्रं क्रमाच्च षट्चतुस्त्रिकम् | तथा च त्रयोदशांगुलीदीर्घं नालमित्यर्थः | नालमेखलयोर्मध्ये परिधेः स्थापनाय च | रन्ध्रं कुर्यात्ततो विद्वान् द्वितीयमेखलोपरि || कुण्डदोषाः कुण्डदोषमाह विश्वकर्मा खाताधिके भवेद् रोगी हीने चैव धनक्षयः | वक्रकुण्डे च सन्तापो मरणं छिन्नमेखले || मेखलारहिते शोको ह्यधिके वित्तसंक्षयः | भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् || अपत्य ध्वसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् | कुण्डमेवं विधं न स्यात् स्थण्डिलं वा समाश्रयेत् || स्थण्डिललक्षणम् यामले नित्यं नैमित्तिकं काम्यं स्थण्डिले वा समाचरेत् | हस्तमात्रे तु तत्कुर्याद् बालुकाभिः सुशोभनम् | अंगुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः || चतुरस्रं चतुष्कोणमित्यर्थः | इति श्रीपरिव्राजकाचार्यपरमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्द- गिरिकृतायां शाक्तानन्दतरङ्गिण्यां कुण्डनिर्णयो नाम सप्तदशोल्लासः || १७ || अष्टादशोल्लासः अथ होमविधिः अथाऽग्निजननं वक्ष्ये सर्वतन्त्रानुसारतः | गोमयेन समालिप्य कुण्डं सर्वत्र मन्त्रवित् | सामान्यार्घ्यं प्रकल्प्याऽथ पञ्चगव्यैर्विशोधयेत् || अष्टादशकुण्डसंस्काराः शारदायाम् अष्टादशोक्ताः संस्काराः कुण्डानां तन्त्रदेशिताः | वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् || तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं स्मृतम् | अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् | समीकरणमस्त्रेण सेचनं वर्मणा मतम् || कुट्टनं हेतिमन्त्रण वर्ममन्त्रेण मार्जनम् | विलेपनं कलारूपकल्पनं तदनन्तरम् || त्रिसूत्रीकरणं पश्चाद् हृदयेनाऽर्चनं मतम् | अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः || चतुष्पथं तनुत्रेण तनुयादक्षपाटनम् | यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः || अस्यार्थः कुट्टनं दृढीकरणम् | विलेपनं गोमयोदकेन | कलारूपकल्पनं सोमसूर्याग्निकलात्मकचिन्तनम् | त्रिसूत्रीकरणं रक्तसूत्रेण त्रिःपरिवेष्टनम् | वज्रीकरणं वज्ररूपेण चिन्तनम् | चतुष्पथं चतुरस्रीकरणम् | अक्षपाटनमिन्द्रियोद्घाटनम् इति | प्रकारान्तरसंस्कारः अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः | तिस्रस्तिस्रो लिखेल्लेखा हृदा प्रागुदगग्रिकाः | प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः || रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः || अथवा त्रिकोणं तद्वहिः षट्कोणं तद्बहिरष्टदलपद्मं परिकल्पयेत् | चतुरस्रं चतुर्द्वारमेवं वा वह्निमण्डलम् | कुण्डस्योत्तरभागे च त्रिरेखा हस्तमानतः || दक्षिणोत्तरतस्तद्वल्लिखेद्रेखात्रयं शुभम् | अर्घ्याद्भिः प्रोक्ष्य सर्वं हि पञ्चशुद्धिं समाचरेत् || सर्वाणि तारेणाऽभ्युक्ष्येति शेषः || पञ्चशुद्धिः पञ्चशुद्धिमाह शारदायाम् वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | ताडनं हेतिमन्त्रेण कवचेनाऽथ लेपयेत् || अस्त्रेण रक्षणं कृत्वा ततः संस्कारमाचरेत् | ततो वह्नेगर्योपीठमर्चयेत् कर्णिकोपरि | धर्मं ज्ञानञ्च वैराग्यमैश्वर्यमग्नितो यजेत् || पूर्वादि दिक्षु चापूर्वानथ धर्मादिकान यजेत् | मध्ये च पूजयेद्वह्नेर्नवशक्तीर्विधानवित् || पीता श्वेताऽरुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी || रुचिरा ज्वालिनी प्रोक्ता क्रमशो नव शक्तयः | पूजयेन्मण्डलं तेषां कलाभिः सहमन्त्रवित् || अं अर्कमण्डलं ङेन्तं तथा उं सोममण्डलम् | मं वह्निमण्डलं तद्वदर्चयेद् गन्धपुष्पकैः || वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् | वागीश्वरेण सहितामुपचारैः समर्चयेत् || अग्निप्रणयनम् विहिताग्निमाह तन्त्रे सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् | अग्निप्रणयनमाह पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे | अग्निप्रणयनं कुयाच्छरावे वापि तादृशे || यत्तु स्मृतिसारे शरावे भिन्नपात्रे वा कपाले वोल्मुकेऽपि वा | नाग्निप्रणयनं कुर्याद् व्याधिहानि-भयावहेम || इत् || तस्य मुख्यपात्रसम्भवे शरावो न ग्राह्य इत्यत्र तात्पर्यम् | आनीयास्त्रेण नै-ऋत्यां क्रव्यादांशं परित्यजेत् | अस्त्रेणैव च तत्काष्ठं नैर्-ऋत्यां वर्जयेत् प्रिये || शारदायाम् संस्कुर्यात् तं यथान्यायं देशिको वीक्षणादिभिः | ओदर्य वैन्दवाग्निभ्यां भौमस्यैकं स्मरन् वसोः || योजयेद्वह्निबीजेन चैतन्यं पावके तदा | तारेण मन्त्रितं कृत्वा धेनुमुद्रामृतीकृतम् || अस्त्रेण रक्षितं पश्चात् तनुत्रेणाऽवगुण्ठितम् | अर्चितं त्रिःपरिभ्राम्य कुण्डस्योपरि देशिकः | प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् || आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः | शिवबीजधिया देव्या योनावेनं विनिक्षिपेत् || समयातन्त्रे कुशेनाच्छाद्य तद्योनिं चतुष्कोणं पटं न्यसेत् | ततो देवाय देव्यै च दद्यादाचमनीयकम् | गर्भनाड्या धृतं ध्यायेद्वह्निरूपं हरिं गुरुः || हरिरित्युपलक्षणं स्वस्वेष्टदेवानाम् | समयातन्त्रे देव्या वामकरे दद्याद्रक्षार्थं दर्भकङ्कणम् | भूषाभिर्भूषयेद्देवीं त्रैलोक्योत्पत्तिमातृकाम् | जिह्वामन्त्रः रेफवायवर्घीशैर्युक्ता नादबिन्दुविभूषिताः | सादियान्ताश्च जिह्वानां मनवः परिकीर्तिताः || पायौ लिङ्गे च नामौ च हृदये कण्ठमूलतः | लम्बिकायां भ्रुवोर्मध्ये जिह्वा ज्वालारुचो न्यसेत् || जिह्वास्तस्त्रिविधाः प्रोक्ता गुणभिन्नेषु कर्मसु | हिरण्या गगना रक्ता कृष्णाऽन्या सुप्रभा मता || बहुरूपा सुवर्णान्या तृतीया भद्रलोहिता | लोहिताऽनन्तरं श्वेता धूमिनी च करालिका || राजस्यो रसना वह्ने विहिता काम्यकर्मसु | विश्वमूर्तिस्फुलिङ्गिन्यै धूम्रवर्णा मनोजवा || लोहितान्या करालास्या काली तामस्य ईरिताः | एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः || जिह्वाधिपति देवता अमर्त्य-पितृ-गन्धर्व-यक्ष-नाग-पिशाचकाः | राक्षसाः सप्त जिह्वानामीरिता ह्यधिदेवताः || वह्नेरङ्गमनुं न्यस्येत तनावुक्तेन वर्त्मना | सहस्रार्चिः स्वस्तिपूर्णं उत्तिष्ठपुरुषस्तथा || धुमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः | षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः || मूर्तिन्यासः शारदायाम् मूर्तिरष्टौ तनौ न्यस्येद्देशिको जातवेदसः | मूर्ध्निस्कन्धे वामपार्श्वे कट्यन्धु कटिपार्श्वके || तथा स्कन्धे च विन्यस्येत् प्रादक्षिण्यक्रमेण तु | जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः || अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः | कौमारतेजाः स्याद् विश्वमुखो देवमुखः स्मृताः || ताराग्नये पदाद्योः स्युर्नत्यन्ता वह्निमूर्तयः | एवं विन्यस्तदेहः सन् ज्वालयेन्मनुनाऽमुना || ज्वालयेदिति ज्वालिनीमुद्रां प्रदर्श्य इत्यर्थः | तल्लक्षणं राघवीये मणिबन्धौ समौ कृत्वा करौ तु प्रसृतांगुली | मध्यमे मिलिते कृत्वा अन्तरंगुष्ठकौ क्षिपेत् | मुद्रा सा ज्वालिनी प्रोक्ता वह्नेर्ज्वालनकर्मणि || इति || वह्निप्रज्वालनमन्त्रः शारदायाम् चित्पिङ्गलं हन दह पच युग्मानुदीर्य च | सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं परिकीर्तितः || अग्निं प्रज्वालितं वन्दे जातवेदं हुताशनम् | सुवर्णवर्णममलं समिद्धं विश्वतो मुखम् || उपतिष्ठेत विधिवन्मनुनाऽनेन पावकम् | सारदायाम् परिषिञ्चेत् ततस्तोयै विशुद्धैर्मेखलोपरि | दर्भैः काष्ठैश्च शुद्धैश्च मूलमध्याग्रच्छादितैः || संस्तरेद्विधिवन्मन्त्री प्रदक्षिणावशक्ततः | एवं संस्तरणं कुर्याद्वर्जयित्वात्मनो दिशम् || गणेश्वरविमर्शिन्याम् प्रागग्रैरुदग्रैश्च दर्भैर्वह्निं परिस्तरेत् | यज्ञवृक्षोद्भवं तद्वत् काष्ठैश्च परिधित्रयम् || मध्ये तु मेखलायान्तु संस्तरेत् तन्त्रवित्तमः | अथ चेत् स्थण्डिले मन्त्री भूमौ सर्वं परिस्तरेत् || परिधिलक्षणम् यज्ञकाष्ठसमुद्भतः प्रादेशप्रमितः शुभः | परिधिः कथितः सर्वैर्देशिकैस्तन्त्रवित्तमैः || निक्षेपेद्दिक्षु परिधीन् प्राचीवर्ज्यं गुरूत्तमः | प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्तयः | गन्धादिभिः समभ्यर्च्य वह्निदेवं विभावयेत् || वह्निध्यानं वह्नेर्ध्यानं यथा त्रिनयनमरुणाभं बद्धमौलिं तु शुक्लां शुकमरुणमनेका कल्पमम्भोजसंस्थम् | अभिमतवरशक्तिं स्वस्तिकाभीतिमुच्चै- र्नमतकमलमालालंकृतांशं कृशानुम् || एवं हि मनसा ध्यायेच्छान्तिकादौ गुरूत्तमः || कृष्ण कृष्णगतेर्वर्णं ध्यायेन्मारणकर्मणि | मूर्तिरष्टौ समभ्यर्च्य षट्कोणे तु षडङ्गकम् | मध्ये षट्स्वपि कोणेषु जिह्वा ज्वालारुचो यजेत् || केशरेषूक्तमार्गेणः पूजयेदङ्गदेवता | दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणीः | लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणाम् || शारदायाम् ध्यातं वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनाऽमुना | वैश्वानरजातवेदपदे पश्चादिहावह || लोहिताक्षपदस्याऽन्ते सर्वकर्माणि साधय | वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः || कुलार्णवे ब्रह्माणं दक्षिणेऽभ्यर्च्य घृतस्थालीं प्रपूजयेत् | आज्यस्थालीं समानीय क्षालयेदस्त्रमन्त्रतः || कुण्डाङ्गाराम्समुत्तोल्य न्यसेत् तत्राऽस्त्रमन्त्रतः | तस्यामाज्यं विनिक्षिप्य जानीयात् तपनं हि तत् || शारदायाम् तस्यामाज्यं विनिक्षिप्य संस्कृतं वीक्षणादिभिः | निरुह्य वायव्यऽङ्गारान् हृदा तेषु निवेशयेत् | इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः || अर्णवे प्रज्वाल्य कुशगुच्छन्तु आज्ये क्षिप्त्वाऽनले क्षिपेत् | अभिद्योतनमित्युक्तं सर्वत्र सर्वकर्मसु || शारदायाम् दीप्तेन दर्भयुग्मेन भीराज्याज्यं स वर्मणा | अग्नौ विसर्जयेद् र्दर्भमभिद्योतनमीरितम् || पुनः कृशान् समुज्वाल्य निक्षिपेदाज्यमध्यतः | मूलमन्त्रेण मतिमानाज्यसंस्कार ईरितः || सन्दीप्य दर्भयुगलमाज्ये क्षिप्त्वाऽनले क्षिपेत् | गुरुर्हृदयमन्त्रेण पवित्रीकरणं त्विदम् || अभिमन्त्र्य च मूलेन रक्षयेदस्त्रमुच्चरन् | प्रदर्श्य धेनुयोनी च तदाज्यममृतात्मकम् || होमविधिः प्रादेशमात्रं सग्रन्थिदर्भयुग्मं धृतान्तरे | निक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् || वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः | सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि || स्रुक् स्रुवौ च समादाय विधिना निर्मितौ गुरुः | पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ || त्रिशः प्रतापयेद्वह्नौ दर्भानादाय देशिकः | तदग्रमध्यमूलानि शोधयेत् तैर्यथाक्रमम् || गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ | पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिक्षिपेत् || स्रुवमादाय मतिमान् धारयेत् तु त्रिभागतः | वेदांगुलं परित्यज्य धारयेच्छङ्खमुद्रया || शारदायाम् स्रुवेण दक्षिणाद्भागादादायाज्यं हृदा गुरुः | जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने || वामतस्तद्वादादाय वामे वह्निविलोचने | जुहुयादथ सोमाय स्वाहेति हृदयाणुना || मध्यादाज्यं समादाय वह्नेर्भालविलोचने | जुहुयदाग्नीषोमाभ्यां स्वाहेति मनुना गुरुः || हृन्मन्त्रेण स्रुवेनाज्यं भागादादाय दक्षिणात् | जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे || इत्यग्नेर्नेत्रवक्त्राणां कुर्याच्चोद्घाटनं गुरुः | सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः | वैस्वानरेण मन्त्रेण त्रिवारं जुहुयाद् गुरुः || समयातन्त्रे- एकैकागुतिभिः कुर्याद् गर्भाधानादिकाः क्रियाः | क्रमेण देवदेवेशि ! स्वाहान्तमूलविद्यया || गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा | जातकर्म नामकृतिरूपनिष्क्रमणं तथा || चूडोपनयनं भूयो वेदाध्ययनमेव च | गोदानं च विवाहश्च संस्काराः शुभकर्मणि || ततश्च पितरौ वह्नैः सम्पूज्य हृदयं नयेत् | वह्निमन्त्रेण विधिवत् कुर्यादाहुतिपञ्चकम् || जुहुयात् समिधः पञ्च मूलाग्रघृतसंप्लुताः | गुरुर्हृदयमन्त्रेण विधिवत् स्वाहया विना || शारदायाम् मन्त्रैर्जिह्वाङ्गमूर्तीनां क्रमाद् वह्नेर्यथाविधि | प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः || अवदाय स्रुवेणाज्यं चतुः स्रुचि पिधाय ताम् | स्रुवेण तिष्ठन्नेवाऽग्नौ देशिको यतमानसः | जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे || माधवीयसंहितायाम्- पलाशस्यापरा वापि यज्ञीया द्वादशांगुलाः | अवक्राश्च स्वयं शुष्काः सत्वचो निर्व्रणाः समाः || दशांगुला वा विहिताः कनिष्ठांगुलिसम्मिताः | प्रादेशमात्तस्याऽलाभे होतव्याः सकला अपि || गौतमीये- महागणेशमन्त्रेण हुनेदेकादशाहुतीः | सामान्यं सर्वदेवानामेतदग्निमुखं स्मृतम् || बहुरूपाख्यजिह्वायामाज्यञ्च परमेश्वरि | गन्धादिभिः समभ्यर्च्य जुहुयात् षोडशागुतीः | मूलमन्त्रेण विधिवद्वक्त्रैकीकरणं त्विदम् || शारदायाम्- ततः पीठं समभ्यर्य देवताया हुताशने | अर्चयेदग्निरूपां तां देवतामिष्टदायिनीम् || तन्मुखे जुहुयान्मन्त्री पञ्चविंशतिसंख्यया | आज्येन मूलमन्त्रेण वक्त्रैकीकरणं त्विदम् || वह्निदेवतयोरैक्यमात्मना सह भावयन् | मूलमन्त्रेण जुहुयादाज्येनैकादशाहुतीः || नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः | अङ्गादिपरिवाराणामेकैकामाहुतिं हुनेत् || पुनर्व्याहृतिभिर्हुत्वा होमं कृत्वा यथाविधि | तिलेनाज्येन जुहुयात् सहस्रादि यथाविधि || अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते | अल्पं तु जुहुयाद्वह्नेः पण्डितः सर्वकर्मसु | तथा सम्पातयेद्भागेष्वाज्यस्यान्वाहुतिं क्रमात् || विशेषमाह तन्त्रान्तरे- अग्नौ स्वाहेति तद्भागे शेषमग्नौ विनिःक्षिपेत् | ओं भूरग्नये पृथिव्यै महते च स्वाहा | ओं भुवो वायवे अन्तरीक्षाय च दिवे महते च स्वाहा | ओं स्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा | ओं भूर्भुवःस्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते च स्वाहा | स्रुवञ्चैव समादाय घृतेनापूर्यते पुनः | होमद्रव्याणि निक्षिप्य नाभौ संस्थाप्यते पुनः || अग्नेर्नामकृतिं कृत्वा दद्यात् पूर्णाहुतिं प्रिये | ब्रह्मार्पणेन न मनुना दद्यात् पूर्णाहुतिं पुनः | योजयेद् हृदये धाम्नि स्वेष्टं साधकसत्तमः || अग्निमुखनिरूपणम् शारदायाम् यतः काष्ठं ततः श्रोत्रं यतौ धूमोऽत्र नासिका | यत्राल्पज्वलनं नेत्रं यतो भस्म ततः शिरः | यत्र प्रज्वलितो वह्निस्तन्मुखं जातवेदसः || श्रोत्रादिषु होमफलम् फलमाह शारदायाम् वधिरत्वं कर्णहोमे नेत्र क्षतमवाप्नुयात् | नासिकायां मनःपीडा शिवोहोमो हि शूलदः | मुखे सिन्दूरवालार्क वह्नेर्होमः शुभावहः || भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभप्रदः || चन्द्रचन्दनकुन्दाभो धूमः सर्वार्थसिद्धिदः | खरवायसवच्छब्दो वह्निः सर्वविनाशकृत् || कृष्णः कृष्णगतेर्वर्णौ यजमानं विनाशयेत् | नागचम्पकपुन्नागपाटलायूथिकानिभः || पद्मेन्दीवरकह्लारसर्पिर्गुग्गुलसन्निभः | पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः || पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् | एवं विधेषु दोषेषु प्रायश्चित्ताय देशिकः | मूलेनाज्येन जुहुयात् पञ्चविंशतिकाहुतीः || इति होमविधिनिर्णयः | सर्वमङ्गलादिनामार्थः सर्वमङ्गलादिनाम्नां योगार्थानाह मङ्गलाऽर्हसि सर्वेषां तेन त्वं सर्वमङ्गला | वरदाऽसि च मर्त्यानां वरदा तेन कीर्त्यसे || अशेषं जयसे दुर्गं दुर्गा तेन निगद्यसे | भक्तानां शं करोसीति शङ्करी त्वं तु गीयसे || संसारार्णवमग्नानां सर्वेषां प्राणिनामिह | दुर्गैका हि परः पोतो नराणां मुक्तये सदा || संसारार्णवमग्नानां दुर्गैका परमं पदम् | दुर्गैका देवताः सर्वा दुर्गैका कर्म वैदिकम् || दुर्गैका परमं ज्ञानं दुर्गैका परमं बलम् | न त्वया रहितं किञ्चिद् भूतं स्थावरजङ्गमम् || दुर्गैका परमा देवी दुर्गैका परमं पदम् | दुर्गैका परमं ज्ञानं दुर्गैका ज्ञानमेव च || दुर्गैका परमं सत्यं दुर्गैका परमा गतिः | दुर्गैका परमं दैवं दुर्गैका परमौषधम् || दुर्गैका सुखमत्यन्तं दुर्गैका निर्वृतिः परा | दुर्गैका परमा तुष्टि दुर्गैका परमं यशः || दुर्गैका परमं तत्वं दुर्गाभिन्नमिदं जगत् | प्राणप्रयाणपाथेयं संसारव्याधिभेषजम् | दुर्गार्णवपरित्राणं दुर्गानामाक्षरद्वयम् || इति श्रीपरिव्राचकाचार्य परमहंसतीर्थावधूतश्रीमद्ब्रह्मानन्दगिरिकृतायां शाक्तानन्दतरङ्गिण्यां होमादिनिर्णयो नामाष्टादशोल्लासः समाप्तः || १८ || समाप्तोऽयं ग्रन्थः ########### END OF FILE #######