#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00181 Uniform title: śaivakalāviveka Description: The photographic facsimile is from the Devakottai Series. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: 23/10/2008 Publisher : śivāgamasiddhāntaparipālanasaṅghaṃ Publication year : 1920 Publication city : devikottai Publication country : India #################################################### || श्रीः || || श्री गुरुभ्यो नमः || शैवकालविवेकः भक्तिमन्थरचित्तेन प्रणम्य परमेश्वरम् | कर्षणादिप्रतिष्ठान्तकालोऽस्माभिर्विविच्यते || १ || मैत्रादित्यमघाश्विपद्मजमरुत्सौम्येशहस्तोत्तराः पौष्णं पुष्यहरी तुरीयनवमी द्वादश्युपान्त्याष्टमीः | त्यक्त्वा दोषगणान् स्थिरश्च युगलो राशिश्च पक्षस्सितो ग्राह्याश्शुक्रबुधामरार्यदिनदृध्धोरादयः कर्षणे || २ || परीक्ष्य भूमिं प्रथमन्तु देशिको रसेन गन्धेन च वर्णतोऽपि च | मृदा जलाद्येन निमित्ततोऽप्यथा- शुभेतु कुर्यादपि शान्तिमादरात् || ३ || वेधोहस्तमरुन्मखाश्विवरणस्वाष्ट्रेन्दुपौष्णोत्तर- श्रोणादित्य घनिष्टमैत्रदिवसेष्वेवायने चोत्तरे | त्यक्त्वा माघमथेषकार्तिकनभोमासेषु राशींश्चरान् हित्वारार्कजवासरौ च सुतिथौ वास्तुं न्यसेद्देशिकः || ४ || षण्मासेषु तथोत्तरायणगतेषु त्वाष्ट्रसौम्यानिले विष्णुत्र्युत्तरपौष्णमैत्रभ मघा सावित्रभ ब्राह्मभे | गोमीनाजघटे यमे च मकरे गच्छेन्निमित्ते शुभे वर्णाद्यैर्निपुणं परीक्ष्य च शिला सङ्गृह्यतां दारु वा || ५ || सत्रे बालसभादिमोपलमखस्थाने च सम्प्रोक्षणे लिङ्गस्थापनरत्नमण्टपविधौ गर्भस्य संस्थापने | कर्तव्या सकलप्रतिष्ठितविधौ रङ्गे च नृतार्थके वासस्थानसमस्तदैवतमुदे सा वास्तुपूजागमे || ६ || कुर्याच्छिवोत्सवविधिस्नपनप्रतिष्ठा सम्प्रोक्षणादिकसमस्तशिवक्रियासु | तत्पूर्वतो नवमसप्तमपञ्चमत्र्ये- कहस्त्विदं निशि दिवाङ्कुरकर्म सद्यः || ७ || पूर्वान्तैकाब्दकेषुत्तममथ गदितं मव्यहीने प्रतिष्ठा कालस्योदग्गतेर्के सुतिथिशुभदिने माघवर्ज्ये तु माले | होराद्रेक्काणकांशेषु करणसहितेषु स्थिरेष्वादधीता- चार्यो गर्भ त्वखण्डर्क्ष गुणयुजि शिवस्यालयादौ विशेषात् || ८ || द्वेधाद्यान्तरितक्रमेण गदिते लिङ्गे तु वालाभिधे तीद्वैयीमिह तां वदन्ति दशधा बिम्बासि कुम्भान् पटम् | चित्रादर्शसुकूर्चमण्डलमहीस्तां पादुकाञ्चादिमे मूलोक्तस्समयोऽर्चने त्वितरतस्तत्तारतम्याद्विदुः || ९ || कार्या तथोदगयनेऽपि च माघवर्ज्ये रिक्ताष्टमी प्रतिपदः परिहृत्य पर्व | पापेक्षणांशकदिनानि तथान्धकाण- पातावयोगमृतभानि शिवप्रतिष्ठा || १० || वेधः पौष्णादितिशशिशिवे तिष्.यमित्राश्विविष्णु- स्वाती हस्तोत्तरयुतदिने शैवलिङ्गप्रतिष्ठा | त्यक्त्वा चापं चरभमपि तत्सौम्यगुर्विन्दुकाव्य- द्रोक्काणेक्षोदयविधियुता स्वंशहोरासु कार्या || ११ || सावित्रादित्य चन्द्रोत्तरपवनसुराचार्य वैधातृपौष्णे- प्वृक्षेषु द्विस्वभाअ स्थिरतर भवनेष्वष्टमे धाम्नि शुद्धे | मुक्ता माणिक्यनीलादि मणिविरचितं बाणधातूत्थलिङ्गं सृष्टिस्थित्यन्तमूर्तीरपि विमलधियो देशिकास्स्थापयेयुः || १२ || प्राजापत्यादित्य हस्तोत्तरेषु पुष्यस्वातीरेवतीषु प्रतिष्ठाम् | विघ्नेशस्य त्वष्टमे धाम्नि शुद्धे कुर्याद्राशीन् वर्जयित्वा चराख्यान् || १३ || ज्येष्टा त्रिपूर्वयमनैऋतसार्परौद्र- मैन्द्राग्निवारुणमथो वसुभाग्निभञ्च | त्यक्त्वा धनुश्चरभमन्धमुखांश्च दोषान् कुर्याच्छुभांशकमुखेषु गुहप्रतिष्ठाम् || १४ || हस्तेन्दुवेधोऽदितिमारुतर्क्ष त्वाष्ट्रामरार्योत्तरपौष्णभेषु | शुद्धेऽष्टमे च स्थिरलग्नयोगे गौरीप्रतिष्ष्ठां प्रवदन्ति सन्तः || १५ || प्रातःकालात्प्रथमघटिकापञ्चके ब्राह्मसंज्ञे हित्वा निद्रां विमलहृदयो ध्यातदेवाङ्घ्रिपद्मः | कृत्वा शौचं दशनवदनक्षालनं स्नानसन्ध्ये लोकक्षेमङ्करमथ एवं कारयेत्पञ्चवाद्यैः || १६ || उच्ध्वासादि क्रमादप्युपहित समयोऽसावहोरारसंज्ञ- स्तस्येमे सन्धयोऽष्टौ शिवमतकथितास्तेषु सर्वेषु पूजा | ख्याता श्रेष्ठोत्तमाधः क्रमैतनवविधा पञ्चधा वाऽपि शम्भो- र्नित्या नैमित्तिका तत्समय विरचिता स्वेच्छया काम्यपूजा || १७ || नित्यं काम्यं केऽपि नैमित्तिकञ्च प्रायश्चित्तं तद्विधेः पूरणञ्च | इत्थं र्प्राहुर्देशिकाश्चाभियुक्ताः नित्याङ्गत्वान्नित्यमेतत्पवित्रम् || १८ || आषाढादि त्रिमासाश्सिवमतगदिताश्श्रेष्ठमध्याधमास्युः पक्षे शुक्ले च कृष्णे भवति शिवतिथिश्चाष्टमीभुक्तिमुक्त्योः | एते ग्राह्ये च भान्वोरुदयविलयगे चेत्पवित्रं क्रमात्स्यात् षष्ठ्याद्यावासपूर्वा नियमविधियुतैर्वर्जयित्वाऽधिमासम् || १९ || सूक्ष्मस्स्थूल इति द्विधा निगदितो मासस्तु सौराह्वय- स्सूक्ष्मि मेषमुखोऽपरोऽथ कथितो मार्गादिपुष्यादितः | मासर्क्षे शिवभेयने च विषुवे पर्वोपरागद्वये पातक्रान्ति नृपर्क्षकादिषु यजेद्द्रव्यैस्तदुक्तैश्शिवम् || २० || मासेज्या समये द्विवारमुदिते त्वेकत्रमासे द्वयोः कर्तव्या दिवसद्वये यदि दिवा प्रोक्तातिरिक्ते शुभा | पूर्वस्मिन्नथ पुण्ययोगसहिते संक्रान्ति राहूदयौ त्यक्त्वा पूर्वदिनेधिवास्य परतो नित्यार्चनान्ते भवेत् || २१ || सावित्रवेधो हरिवारुणानि पौष्णानुराधोत्तरमारुतानि | गुर्विन्दुसौम्योशासान्तु गर्भाधाने प्रशस्तानि दिनांशकानि || २२ || व्यक्ते तु गर्भेऽथ तृतीयमासे पुष्ये हरौ पुंसवनं विदध्यात् | शुद्धेऽष्टमे भार्गवजीवसौम्यनिशाकराणामुदये प्रशस्तम् || २३ || वेधः पौष्णादितिमृगशिरो हस्तविष्णूत्तरार्येप्वृक्षेष्वार्यैरिह निगदितं शैवसीमन्तकर्म | तुर्ये षष्ठेऽपि च शुभतिथौ मासिसिंहालिवर्ज्ये लग्ने शुद्धाष्टमयुजि हरावष्टमे विष्णुपूजा || २४ || जाते पुत्रेप्रमुदितमना जातकर्माशु कृत्वा स्वाती श्रोणादितिशतभिषक् सौम्यमूलोत्तरेषु | आर्ये पौष्णाम्बुज भवकरेप्वादधीत प्रशस्तं नामाचार्यो विधिवदथ वैकादशे द्वादशेहि || २५ || अश्विश्रोणादितिवसु मरुन्मैत्र चित्रोत्तरेन्दु ब्राह्मे पौष्णे सवितृवरुणार्येषु निष्क्रामकर्म | शुद्धे सम्यक् दशमनिलये सन्मुहूर्ते सुलग्ने मासे तुर्ये विधिवदुदितं मङ्गलं बालकानाम् || २६ || मासे तु षष्ठे महिते मुहूर्ते शशाङ्कदेवेषित वारुणेषु | अश्विप्रजेशे दशमे विशुद्धेऽन्नप्राशनं कर्म शिशोर्विदध्यात् || २७ || वर्षे तृतीये वसु पौष्णपुष्यपुनर्वसुस्सौम्यकराश्विभेषु | त्वाष्ट्रे हरावष्टमधाम्निशुद्धे कुर्यात्सनान्दीमुखचौलकर्म || २८ || विप्रक्षत्रविशां क्रमेण समये गर्भाष्टमादावृतौ मध्वाज्ये विधिमैत्रवायवदितिभ त्वाष्ट्रेन्दुसावित्रभे | कुर्यादुत्तरभत्रये वृषयुगे कन्याकुलीरे धनु- र्मीने चाष्टमशुद्धिभाज्युपनयं त्वाषोडशाब्दादिकात् || २९ || माघप्रोष्ठपदातिरिक्त निखिला मासाः पुना रोहिणी पौष्णत्र्युत्तरपैतृसौम्यपवनानूराध हस्तासुराः शुद्धे सप्तमधाम्नि सिंहयमगोकन्या तुला कर्कटाः किदण्डं घट इत्यतोर्ध्ववदनाश्शस्ता विवाहे बुधैः || ३० || शक्तेः पातं विदित्वा गुरुरसकृदथो प्राप्तशिष्यस्य चिह्नैः प्रोक्तक्षेत्रेषु दीक्षाविधिमिह विदधीतोत्तमे मव्यमे वा | मासे वेधो मखेन्दु श्रवणकरमरुत्पौष्णमूलोत्तरार्या- दित्यार्द्रामित्रभेषु स्थिरयुगभवने नास्ति कालो मुमुक्षोः || ३१ || मास्येकत्रतु तीर्थभदयगतावन्त्यं सुयोगान्वितं पूर्वं चेदिदमेव वासरयुगप्राप्तेऽधिकं त्वह्नियत् | साम्ये पूर्वमथाम्बुधौ तिथिरतोऽन्यत्रर्क्षमित्थं गुरु- र्मासर्क्षादि विविच्य तन्नवविधं कुर्यान्महेशोत्सवम् || ३२ || पञ्चम्यां नवमीतिथौ शिवतिथौ पर्वद्वये संक्रमे सूर्येन्दुग्रहणेऽयने च विपुवे स्यात्पङ्क्तिवृत्या फलम् | दीक्षा स्थापनसोत्सवाध्वरविधौ सम्प्रोक्षणोत्पातयो- र्जन्मर्क्षे मनुसाधनादिषु घटैस्संस्नापयेच्छङ्करम् || ३३ || दुर्भिक्षे दुर्निमित्ते ज्वरमुखजभये मारिकायाः प्रवृत्तौ भूकम्पे दिग्विदाहादिषु विजयविधौ वर्षहेतोस्तपस्ये | चैत्रे वैशाखमासे नृपतिजननभे मासऋक्षे च दर्शे पञ्चम्यादौ च शीतांशु कवि गुरुदिनेष्वाचरेच्छीतकुम्भम् || ३४ || भानावुत्तरदिग्गते शुभतिथौ क्रूरापमृत्योर्जये शत्रूपद्रवनाशने ग्रहजये सर्वेष्टसिद्धावपि | राज्ञां जन्मदिनेऽभिषेक समयेऽप्यायोधनाद्यन्तयो- स्सद्योगैर्युत वासरेषु रचयेज्जन्मर्क्षपूजां गुरुः || ३५ || वर्षार्थेऽप्यपमृत्युनाशनविधौ मारी विनाशे तथा स्याद्दुष्टग्रहपीडने जयविधौ भीमस्य शत्रोरपि | राज्ञां शत्रुजये ज्वरादि शमने ग्रामादिशान्तौ तथा कर्तुर्वाञ्छितसिद्धये समुदितं वारार्चनं त्वागमे || २६ || राजाभिषेक समये नृपजन्मऋक्षे मध्येऽप्युपान्तिअतिथावपि पक्षयुग्मे | युद्धावसानसमयेऽप्यथ योगयुक्ते नक्षत्रयाग उदितस्सकलार्थसिध्यै || ३७ || मासे सर्वत्रभूमीपति जननदिने मासऋक्षेतु चार्द्रा शोणर्क्षे पर्वयुग्मे हिमरुचितपनोपप्लवे सङ्क्रमेषु | अष्टम्यां पर्वपूर्वेऽयन विषुवयुगे पुण्यकालेऽन्यतो वा प्राग्रात्रावाधिवास्यामलविधिनियतो भद्रपूजां विदध्यात् || ३८ || मासे सर्वत्ररास्सितशनितपनाश्श्रेष्ठमध्याधमास्स्यु- र्मध्योपान्त्येतृतीया तिथिरपि नवमी दर्श एतेतु वर्ज्याः | कर्तुर्जन्मानुकूलर्क्षदिवस उदयास्सत्रिपादत्रिनाढ्यां प्रातर्नित्यार्चनान्तेऽभिमत गणपतेः च्छन्नपूजां विदध्यात् || ३९ || युद्धारम्भे शत्रुसम्पीडने वाऽ- नावृष्ट्यादावुष्णमारी प्रवृत्तौ | रोगोत्पत्तौ चाचरेदागमोक्तं क्षीरस्नानं देशिकश्शङ्करस्य || ४० || राज्ञोऽभिषेक जननर्क्षयुतेऽपि काले चाद्यन्तयोरपि युधो भजनादिकाले | अन्यत्र मङ्गलदिनेऽपि च पूर्वसन्ध्यां कृत्वा चरेत् परशिवस्य घटाभिषेकम् || ४१ || स्यादाश्विनप्रभृति मासचतुष्टयेऽपि मासर्क्षजन्मदिनयोरपि पुण्यकाले | अत्यद्भुतेऽद्भुतदिनेऽसितपक्षमध्ये धाराघृतस्य विधिवद्गिरिशे विधेया || ४२ || कृष्णाष्टमी तु परया यदि पूर्वया वा विद्धा शिवस्य यजने निशि पूर्वयामे| ग्राह्यैव साम्य विषये सति पूर्वविद्धा मासेषु मार्गमुखतस्त्रिपुरां जयान्ते || ४३ || चैत्रे चोर्जतपस्ययोरथ सिते पक्षे नवम्यादिषट् कृष्णे चेच्चतुरस्तिथीन् भृगुमुखं त्यक्त्वा च वारत्रयम् | वेधः पुष्यमघोत्तराश्विसवितृश्रोणासु योगे शुभे मेषे कर्क्यलिसिंहभेषु च घटे कुर्वीत मुक्ताग्रहम् || ४४ || राजर्क्षे षडशीतिके शिवहरिब्रह्मर्क्षकेष्वष्टमी दर्शादित्य शशिग्रहेषु च तथा चैत्रेतु चित्रर्क्षके | फल्गुन्यामपि फाल्गुने मृगमदैस्स्नानं शिवस्योदितं सर्वाभीष्टफलप्रदं विजयदं सर्वाध्वरेज्याफलम् || ४५ || ईशस्यामृतसिद्धयोगदिवसे दर्शे रवेस्सङ्क्रमे जन्मर्क्षेऽपि च पक्षमध्यमतिथौ शैवे तिथौ देशिकः | शङ्खैरुत्तममध्यमाधममुखैरेकोनपञ्चाशता सर्वेष्टाय शतेन वा दशशतैर्वा स्नापयेच्छङ्करम् || ४६ || रोहिण्यामनिलोत्तरेषु गुरुभे हस्ते च मैत्रर्क्षके सोमादित्यबुधासुरेडितदिनेष्वादित्य सोमग्रहे | पञ्चम्यामथ पर्वणोश्च भजने मासर्क्षमासान्तयोः पक्षोपान्तिममध्ययोरयनयोः काम्यार्थपूजां चरेत् || ४७ || याते तथोदगयनं द्युमणौ तु राज- ग्रामानुकूलयजमान शिवर्क्षकेषु | आद्यन्तयोरपि युधो मकुटं शिवाय दद्याद्दिनेषु महितेषु सिते च पक्षे || ४८ || इत्थं कामिककारणाजितमुखानामथ्य शैवागमा- म्भोराशीन् व्यरचि क्रियापटुधियां प्रीत्यै सुराणामिव | हृद्यं कालविवेचनामृतमिदं संलब्धमेतत्सदा माभूतैरसुरैरिवातिकुटिलैर्दोषैकदृग्भिः खलैः || ४९ || शैवकालविवेकमूलश्लोकाः समाप्ताः शैवकालविवेकः गणपतिभट्टविरचित व्याख्यायुतः कारुणमनिप्यन्दं कैवल्यवनचारिणम् | कालाम्बुदश्यामलाङ्गं कलभाननमाश्रये || १ || आम्नायाञ्चलमञ्चस्थमाननैप्यन्किरन्वितम् | हिमाद्रितनयास्तन्य कुक्षिम्भरिमये शिशुम् || २ || ऐश्वरं परमं तत्त्वमादिमच्यान्त वर्जितम् | आधारं सर्वविद्यानामनाधारमविक्रियम् || ३ || अनन्तानन्दबोधाम्बु निधिमद्भुतविग्रहम् | अम्बिकापतिमीशानमनिशं प्रणमाम्यहम् || ४ || सर्वेषां सद्गुणानां निधिरखिलमहाशास्त्रतत्त्वप्रवीणः चर्यायोगक्रियाधीचरणपरिचयप्राप्त बुद्धिप्रसादः | आत्मार्थेज्या प्रयुक्ताऽखिलनिगममहापद्धतीनां प्रवक्ता वेदज्ञानाभिधानो मुनिरिति महितो व्याघ्रपुर्यासमस्ति || ५ || प्. २) शैवाचार्विवेकमात्मयजनं शैवप्रतिष्ठाविधिः भाषामञ्जरिकाऽरुणांचलमहातीर्थस्थलीवैभवम् | सिद्धान्तोक्तविशेष तत्वनिवहव्याख्या विशुद्धा क्रिया रत्नोल्लेख इमान् व्यधत्त निगमज्ञानाभिधानो मुनिः || ६ || अथेदानीं ग्रन्थकारः स्वग्रन्थस्याविघ्नपरिसमाप्तये शिष्टाचार परिपालनाय प्रचयगमनाय च स्वेष्टदेवता प्रणामरूप मङ्गलविधानपुरस्सरं चिकीर्पितं प्रतिजानीते | मूलम्- भक्तिमन्थर चित्तेन प्रणम्य परमेश्वरम् | कर्षणादि प्रतिष्ठान्तकालोऽस्माभिर्विविच्यते || १ || भक्तीति- परमेश्वरम् पञ्चकृत्य साक्षिभूतपरशिवः तस्यैव सर्वानुग्राहकत्वेन परमत्वात् तं | भक्तिमन्थरचित्तेनभक्तिभावनातरङ्गितान्तः करणेन, प्रणम्य एतेन कायिक वाचिक मानसरूप नमस्कार त्रैविध्यमप्युक्तं भवति | तादृशभावस्यैव नमस्कार त्रय कारणत्वात् | तादृशभक्त्यभावेतु तस्यापि नमस्कारपरिहाररूपत्वमेव | तथैवोदाहृतमालङ्कारिकैः, यथा- बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं- कर्मेति प्रतिबोधितान्वयविदो ये केपि तेभ्यो नमः | ये तु ग्रन्थसहस्रशाणकषण त्रुट्यत्कलङ्कैर्गिरा- मुल्लेखैः कवयन्ति बिल्हण कविस्तेष्वेव सन्नह्मति || इति || प्. ३) कर्षणादि प्रतिष्ठान्तकालः- कर्षणादिप्रतिष्ठान्तानां क्रियाकला- पानां कालः, अस्माभिः विविच्यते-विशेषेण प्रदर्श्यते | अस्माभिरिति बहुवचनं हृद्गताऽनेक आगमवचनपरम् | ननु अनेकविध ज्योतिषग्रन्थजालैः सत्क्रियाजालकालविशेषस्य प्रतिपादितत्वात् कामिकाद्यागमैरपि तत्र तत्र क्रियावसरे प्रतिपादितत्वाच्च कैमर्थक्यग्रस्तोयं ग्रन्थारम्भ इतिचेत्-सत्यम्, कालविधान कालनिर्णयादिविषये तेषां साहारणत्वेन कामिकाद्यागमैश्च तत्र तत्र प्रदर्शितत्वेन विशकलिततया दुर्ग्रहत्वाच्च, अनुष्ठातृणां बुद्धिसौकर्यार्थमयमारभः इति न कैमर्थक्यम् | ततश्च कर्षणादि प्रतिष्ठान्त मित्यत्र कर्षणमादिर्यस्यास्तस्याः प्रतिष्ठाया यः कालः तदन्ते नित्य नैमित्तिक काम्य कर्मणाञ्च यः कालः सोपि विवक्षितः | ननु कालस्यानाद्यन्तत्वेन दुर्विवेकत्वात् कथं कालविवेचनप्रकार इति चेत्, सत्य- अनवच्छिन्नत्वान्महाकालस्य दुर्ग्रहत्वेपि त्रुट्याद्यवच्छिन्नस्य कालस्य निरूपणीयत्वात् | अन्यथा सकल क्रियाजालानां तत्तत्कालसापेक्षितत्वेन सर्वव्यवहारोच्छेद प्रसङ्गात् | तथाचोक्तं मतङ्गपारमेश्वरे :- कालः कालप्रवाहेस्मिन्नप्रमेयोऽप्यथोच्यते | विभागस्थितये विप्र स च त्रुट्यादिगोचरः || २ || कलादिरुच्यते कृत्स्नं संख्यानेन तवाऽधुनाः स्वस्थस्य पुरुषस्याक्षिनिमेषांशस्त्रुटिस्स्मृतः || ३ || प्. ४) सातिसूक्ष्मतया ग्राह्या तदतीतो न लक्ष्यते | त्रुटिर्नाम कला सूक्ष्मा लवस्तद्विगुणस्स्मृतः || ४ || लवद्वयं निमेपस्तु काष्ठा पञ्चदशात्मिका | त्रिंशत्काष्ठात्मिका वाहा वाहात्रिंशत्प्रपञ्चितः || ५ || मुहूर्त संज्ञो लोकेऽस्मिंस्त्रिंशद्भिस्तैस्तु सुव्रत | अहोरात्रं समाख्यातं तन्त्रेऽस्मिन्पारमेश्वरे || ६ || पक्षोऽहोरात्रवर्गेण ज्ञेयः पञ्चदशात्मना | पक्षद्वयात्स्मृतो मासो द्वौमासावृतुरुद्यते || ७ || ऋतूनां त्रितयेनोत्थमयनं मुनिसत्तम् | अयनद्वितयेनाऽथ वत्सरः परिभाष्यते || ८ || सौरो मानुष्यजातीनां तेषां षष्ठ्यधिकैश्शतैः | त्रिभिर्दिवौकसामब्दः कथितस्तत्व दर्शनात् || इति || ९ || तथैव सुप्रभेदे - शिशिरश्च वसन्तश्च ग्रीष्मः प्रावृट् तथैव च | शरच्चैव तु हेमन्तो ऋतवः पट् प्रकीर्तिताः || १० || तपस्तपस्यौ शिशिर स्तौ मासौ माघफाल्गुनौ | वसन्तश्चैत्र वैशाखौ मासौ तु मधुमाधवौ || ११ || ज्येष्ठाषाढावृतुग्रीष्मौ मासौ शुद्रशुची स्मृतौ | प्रावृट्छ्रवणभाद्राख्यौ नभो नभस्य संज्ञितौ || १२ || मासौ शरदिपोर्जौ तु तावाश्वयुजकार्तिकौ || प्. ५) सहस्सहस्यो हेमन्तो मार्गपुष्यौ तु तौ स्मृतौ | दक्षिणं शर्वरी ज्ञेयं देवानामुत्तरं दिनम् || इति || १३ || तथा च ज्ञानरत्नावल्याम्- मनुष्याणामहोरात्रः पितॄणां घटिका भवेत् | घटित्रिंशदहोरात्र श्शुक्लपक्षो दिवा भवेत् || निशां कृष्णं विजानीयात् पितॄणां तदहर्निशम् | पूर्वसन्धिरमावास्या मध्याह्नश्चाष्टमी भवेत् || पौर्णमास्यपराण्हस्तु ह्यष्टमी चास्तमानकम् || इति || अथोत्तर व्यवहार परिज्ञानार्थं सुप्रभेदोक्त नक्षत्र देवता उच्यन्ते- कृत्तिका वह्निदैवत्यं रोहिण्याश्च प्रजापतिः | सौम्यं मृगशिराः प्रोक्त मार्द्रायास्तु शिवस्स्मृतः || पुनर्वसु स्तथादित्यः पुष्यस्य तु बृहस्पतिः | आश्लेषस्सर्पदैवत्यं मघायाः पितरस्तथा || भगो हि फल्गुनस्यैव चार्यमोत्तरफल्गुनैः | हस्तस्सावित्र इत्युक्तस्सर्वकार्येषु पूजितः || त्वष्टा चैव चित्रायास्स्वाती वै वायुदेवता | इन्द्राग्नी च विशाखस्य चानूराधस्य मित्रकः || ज्येष्ठायाश्च तथेन्द्रश्च मूलस्य नि-ऋ-ऋतिस्तथा | प्. ६) पूर्वाषाढाप इत्युक्तः स्थापने तु विवर्जितः | विश्वेदेवोत्तराषाढां ब्रह्मा त्वभिजितस्तथा || श्रवणस्य हरिश्चैव श्रविष्टावसवस्तथा | वरुण श्शतभिष्क्चैवाजः प्रोष्टपदस्य तु | उत्तरप्रोष्ठपादस्य त्वहिर्बुध्न्यः प्रकीर्तितः || पूषा चैव तु रेवत्या श्चाश्विनौ चाश्वि-ऋक्षके | यमश्चैव भरण्यास्तु ऋक्षाणामधिदेवताः || इति || ननु ज्योतिषोक्तागमोक्तयोः यत्राविरोधः न कोऽपि तत्रातिशयः | यत्र तु विरोधः तत्र का गतिरितिचेत्, उच्यते-ज्योतिषोक्तागमोक्तयोर्विरोधे ज्योतिषोक्तं विहाय आगमोक्त एव परिग्राह्यः | तथाचोक्तं बोधायन स्मृतौ- विरोधो यत्र दृश्यते ज्योतिषोक्तागमोक्तयोः | ज्योतिषोक्तं विहायैव ह्यागमोक्तं समाचरेत् || इति || वस्तुतस्तु शैवतन्त्रस्यान्यतन्त्रैः न कुत्रापि विरोधः | यत्र तु विरोधस्फुरणं तत्र वक्तुरेव दोषः | तथाचोक्तं मतङ्गपारमेश्वरे- प्रतितन्त्रं विरोधेन योऽर्थस्संगृह्यतेऽत्र तु | तद्गुरोर्युक्तिदौर्बल्याद्विज्ञेयं वाग्विडम्बनम् || यत्र यत्र यथान्यायं येन येन च वर्त्मना | यदस्ति शक्यते नेतुं तथैव च विचार्यताम् || प्. ७) यथाविरोधतस्स्र्वं यदि तन्त्रं शिवात्मकम् | तथाऽचार्येण वक्तव्यं नान्यथा मुनिपुङ्गव || इति || न च तर्हि वोधायन विरोध इति वाच्यम् | तस्यापाततस्स्फुरण् विषयत्वात् | शैवतन्त्रस्य सर्वज्ञ प्रणीतत्वेन सर्वोत्तमत्वाच्च | अथ तत्र तावत् सकल शैव क्रियाजालानामालयादीनां कर्षणपूर्वक प्रतिष्ठादित्वात् प्रथमं कर्षणकालमाह- मूलम्- मैत्रादित्यमघाश्विपद्मज मरुत्सौम्येश हस्तोत्तराः | पौष्णं पुष्य हरी तुरीयनवमी द्वादश्युपान्त्याष्टमीः || त्यक्त्वा दोषगणान् स्थिरश्च युगलो राशिश्च पक्षस्सितोग्राह्याश्शुक्रबुधामरार्यदिनदृघ्घोरादयः कर्षणे || २ || मैत्रेति- अथ तत्र प्रथमं कर्षणे नक्षत्राण्याह | मैत्र-अनूराहा, आदित्यः-पुनर्वसुः, मघा-पसिद्धा, अश्वि-अश्विनी, पद्मज-रोहिणी, मरुत्-स्वाती, सौम्य-मृगशिराः, ईश-आर्द्रा, हस्त-प्रसिद्धः, उत्तराः- उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः पौष्ण-रेवती, पुष्यः- प्रसिद्धः, हरिः-श्रवणम्, एतानि पञ्चदशनक्षत्राणि कर्षणे ग्राह्याणि | प्. ८) तथाचोक्तं सुप्रभेदे कर्षणपटले- तिष्यश्रवणहस्ताद्रा मैत्रादित्यमघास्तथा | प्राजापत्याश्वयुक्स्वाती सौम्यपौष्णोत्तरात्रयम् || अथ वर्ज्य तिथि मुखेन तिथिविधिमाह- तुरीया-चतुर्थी, उपान्त्या-चतुर्दशी, चतुर्थी नवमी द्वादशी चतुर्दश्यष्टमीस्त्यक्त्वा अन्या ग्राह्या इत्यर्थः | तदुक्तं सुप्रभेदे- द्वितीया च तृतीया च पंचमी षष्ठिसप्तमी | दशम्येकादशी चैव प्रतिपञ्च त्रयोदशी || पौर्णमासी तु तिथयश्शौक्लपक्षे विशेषतः || इति || दोषगणान्-अनुपदमेव वक्ष्यमाणान् अवयोगादि दोषान् त्यक्त्वा वक्ष्यमाणा सुयोगादयो ग्राह्या इत्यर्थः | सितपक्षः शुक्लपक्षोऽपि ग्राह्यः | अथ राशीनाह-स्थिरो युगलश्चराशिः-स्थिरद्विस्वभाव राशयश्च, ते च धनुर्विना ग्राह्याः | तदप्युक्तं सुप्रभेदे राशयश्च चरा वर्ज्याश्शेषा ग्राह्या धनुर्विना || इति || शुक्तबुधामरार्यदिनदृघ्घोरादयः-शुक्रबुध बृहस्पतीनां वारदृष्टिहोरादयः | आदिशब्देन द्रेक्काणांशकादयो गृह्यन्ते | तदप्युक्तं तत्रैव- बुधशुक्रस्य जीवस्य वाराश्श्रेष्टास्तु नेतरे | द्रेक्काणांशकहोराश्च एषां दर्शन मिष्यते || प्. ९) त्यक्त्वा सोमोदयं तत्र चान्येषामुभयत्रच || इति || सन्तानसंहितायां गुरुशुक्रयोर्मौढ्यमप्युक्तम् | तद्यथा- शुक्रस्यास्तमये चैव गुरोरस्तमये तथा | वर्जयेत्कर्षणादीनि विनश्यन्ति कृतान्यपि || इति || आदित्य चन्द्र शनैश्चराङ्गारका स्त्रिषष्ठैकादशस्थिताः शुभफलप्रदा भवन्ति | एत एव लग्नगता श्चेदशुभप्रदाः | तथाच सुप्रभेदे- व्याधिपीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह | सोमसूर्यार्किभूजाश्च त्रिषष्ठायस्थिताश्शुभाः || त एव लग्नगाः कुर्युर्व्याधिशोकभयानि तु | अष्टमस्थाग्नहास्सर्वे क्षेमारोग्यसमृद्धिदाः || भयकृद्भर्गवः प्रोक्तष्षट्सप्तदशम स्थितः | नव द्विसप्तपञ्चस्थो गुरुश्शोभनकृत्तथा | सोमोऽतिसौख्यकृत्प्रोक्तो द्वितीये पञ्चमेऽपि च || इति || अथ वारतिथि नक्षत्रगतसुयोगावयोगादयोऽपि तत्रैव प्रदर्शिताः | यथा- रविवारश्शुभो युक्तः पौष्णहस्तोत्तरत्रयैः | सौरिवारश्शुभः प्रोक्तस्स्वाती रोहिणियोगतः || बुधयुक्ता द्वितीया च गुरुष्षष्ठी समायुतः | इन्दुरेकादशीयुक्तः प्राणपीडां करोति हि || प्. १०) पौष्णस्तु सप्तमीयुक्तः प्रजां दहति वह्निवत् | अशुभस्सोमवारस्तु ह्युत्तराषाढसंयुतः || विष्टिस्थूणान्धनक्षत्र गण्डांश्च गुलिकांस्त्यजेत् | दुर्दिने च दिशां दाहे भूकम्पे चण्डमारुते || अशनिध्वनि संयुक्ते दिघसेत्वशुभं स्मृतम् | संक्रान्तौ ग्रहणे चैव ह्ययने विषुवे तथा || उत्सवे शान्तिकाले च षडशीतिमुखेऽपि च || यदि मोहेन कुर्याच्चेत्कर्तुर्वै वास्तुनाशनम् || इति || एवं कर्षणकालं प्रतिपाद्य कर्षणास्य शुभप्रदभूमिविधेयत्वात् भूपरीक्षानन्तर कालविधेयत्वाच्च भूपरीक्षामाह- परीक्ष्य भूमिं प्रथमन्तु देशिको- रसेन गन्धेन च वर्णतोऽपि च | मृदा जलाद्येन निमित्ततोप्यथा- शुभे तु कुर्यादपि शान्तिमादरात् || ३ || परीक्ष्येति- अथ देशिकः प्रथमं भूमिं रसगन्धवर्ण मृज्जलाद्यैः निमित्ततोपि परीक्षयेत् | तत्र कामिके भूपरीक्षापटले भूमिस्वरूप निरूपणेन भूमेः शैवब्राह्मवैष्णवैन्द्रौक्ष भौतिकासुर पैशाचराक्षस वायव्य वारुणाग्नेय भेदात् द्वादशविधत्वमुक्तम् | तद्यथा- प्. ११) शैवं ब्राह्यं तथा वास्तु वैष्णवं चैन्द्रमेव च | औक्षञ्च भौतिकञ्चैव चासुरं च पिशाचकम् || राक्षसं चैव वायव्यं वारुणाग्नेयके तथा || इति || एतल्लक्षण व्यवस्थाऽपि तत्रैव प्रतिपादिता | यथा- जानीयाल्लक्षणैरेतैर्भूभेदं देशिकोत्तमः | कर्णिकारार्जुनाऽश्वत्थ कपित्थाशोकघातकी || स्थलारविन्दतुलसीं दूर्वाभिर्वा तथा मही | विष्णुक्रान्त्याखुकर्णेन शाल्मलीगिरि शारिबा || कपोत शुकहंसैश्च शैवी सा शुभदा मही | बिल्वैः पलाशैर्दर्भैश्च कुशैश्च हरिणैस्तथा || होमद्रव्यैस्सुगन्धैश्च भूर्ब्राह्मी शुभदा मता | तिन्दुकै स्तिन्त्रिणीभिश्च करंजैर्वेणुभिस्तथा || कार्पास्यर्क जपाभिश्च हंसैः पक्षिमृगैस्तथा | निष्कण्टकैस्तथा वृक्षैर्या भूमिस्सहिता भवेत् || वैष्णावी भूस्समाख्याता शौर्यवीर्यप्रदा नृणाम् | कदिलीपनसाम्रैश्च पुन्नागैर्वकुलैस्तथा || पाटलैस्सिन्दुवारैश्च तथाचामलकैः पुनः | इन्दीवरैश्च वैश्यैश्च शूद्रैरैन्द्री मही मता || प्. १२) पाटल्यगरु गन्धाढ्या धनधान्यसमृद्धिदा | अङ्कोलैश्च धवैश्चैव मन्दारैर्नकुलैस्तथा || शशगोधा चकोरैश्च वृक्षैरौक्षी मही मता | शौर्य वीर्यकरी सास्यात् प्रजासम्पत्समृद्धिदा || निर्गुण्डी माधवी दूर्वा स्वङ्कोलैः किंशुकैस्तथा | मल्लिका करवीरैश्च मधूकैर्भोतिकी मता || अन्नदा पुष्टिदा नृणां भस्मगन्ध समन्विता | भल्लातकैर्महावृक्षैर्दुष्टसत्वैः पलाण्डुभिः || किरातैः कुक्कुटैर्गृध्रैस्सर्पैर्धूर्तैस्समन्विता | आसुरी युद्धदा भूमिः पथ्यागन्ध समन्विता || शाल्मलीभिस्तथा भूमिर्वकुलैश्च विभीतकैः | श्लैष्मातकैः स्वरैरुष्ट्रैः सृगालैस्सूकरैः पुनः || चण्डालैश्च पुलिन्दैश्च पूतिगन्धोपरान्विता | पैशाच्येषा स्मृता शास्त्रे सर्वनाशसमन्विता || चाण्डाल विषचोरैश्च शिरो (रोगा) रुहादिभिस्तथा | मरीच गुडगन्धाढ्या राक्षसी सा क्षयप्रदा || गोमायुगणसङ्कीर्णा झिल्लिका शर्करान्विता | या वायव्येति सा प्रोक्ता दुःखनैर्धन्यदायिका || प्. १३) या पूगैरावृता भूमिर्वारूणी सर्वसिद्धदा | स्नुहिश्लेष्मातकाद्यैर्वा संयुक्ता क्षुद्रशर्करैः || औषरा तोयहीना च साऽग्नेयी सर्वनाशिनी | शैवी शैवे सामाख्याता वैष्णवी विष्णुदेशके || ब्राह्यीस्याद् ब्रह्मदेशे तु शैवी विप्रादि योग्यका | शैवी विप्रे विशिष्टा च ब्राह्मीस्याद् वैष्णवी च भूः || भूभृतां स्याद्विशामैक्षी शूद्राणां भौतिकी मता | सर्वेषां वारुणी शस्ता सर्वास्सर्वेषु वा मताः || पैशाची चासुरी भूमी राक्षसी या च भूर्मता | अन्त्यजानामिह प्रोक्ता शतशः कर्षिता च या | या च गोभिश्चरं भुक्त्वा भूर्ग्राह्या वत्सरोर्वतः || इति || अनूपजाङ्गल साधारण भेधेनापि त्रैविध्यं तत्रैव प्रतिपादितम् | अथ वर्णैः परीक्षणं सुप्रभेदे- श्वेता रक्ता तथा पीता कृष्णा भूर्ब्राह्मणादयः | मोक्षदा ब्राह्मणा भूमिर्जयदा क्षत्रिया तथा || वैश्या भूमिस्तु धनदा वृषला पुत्रदायिनी || इति || रसैः परीक्षणं च मयमते - तिक्ता च कटुका चैव कषाया लवणाम्लका | मधुरा षड्रसोपेता सर्वसम्पत्करी धरा || इति || प्. १४) गन्धैः परीक्षणं च मयमते- पुन्नागजाति पुष्पाब्ज धान्यपाटलगन्धकैः | पशुगन्धयुता श्रेष्टा सर्वबीजप्ररोहिणी || मध्वाज्यगुलगन्धा च तैलाऽसृग्गान्धिका च या | शवनीपेक्षुगन्धा च साधरा निन्दिता बुधैः || इति || मृदा परीक्षणं सुप्रभेदे- जानुमात्रां खनेद्भूमिं तन्मृदाऽपूर्यचावटम् | उत्तमात्वधिका भूमिस्तत्समा चेत्तु मध्यमा || न्यूना वर्ज्या प्रत्नेन इति शास्त्रविदो विदुः || इति || जलेन परीक्षणं कामिके- सपुष्प कुम्भतोयेन पूर्यमाणेऽवटे सति | शस्तं प्रदक्षिणावर्तमुदकं शान्तबुद्बुदम् || उत्तानपुष्पकं श्रेष्टं नत्वधोमुखपुष्पकम् || इति || आदि शब्देन बीजैरपि परीक्षणं यथा कामिके- सर्षपाणां तिलानां वाचोप्तानामङ्कुरा भुवि | त्रिरात्रेण प्रजायन्ते यस्यां सा शुभदा मही || इति || अजिते परीक्षान्तरमप्युक्तम्- दक्षिणेन तु पादेन कुट्टयेदस्त्रमुच्चरन् | कुट्टने यदि सा भूमिर्गम्भीरा नदति स्थिरा || संग्राह्या सा || इति || प्. १५) कामिके- पूर्वोत्तरप्लवा श्रेष्ठा मध्यमा सर्वतः प्लवा | सापि ग्राह्या गृहादौ तु साचोद्बणगुणान्विता || इति || निमित्तैः परीक्षणं यथा अजिते- तं देशं समनुप्राप्य प्रणम्य च महेश्वरम् | दिव्यान्तरिक्षभौमानि निमित्तान्युपलक्षयेत् || तच्छुभाऽशुभमालक्ष्य शुभे भूमिं परीक्षयेत् | अशुभेषु निमित्तेषु ह्यघोरेण शताहुतिम् || इत्यादि कारणे शल्योद्धार प्रकारः उक्तः- होमान्ते यजमानेन देशिकः शल्यमुद्धरेत् | गुरुः कर्तारमन्वीक्ष्य वदेच्छल्यांश्च तद्गुणैः || यदङ्गं स्पृशते कर्ता वास्तुदेहे तदङ्गके | शल्यं विनिर्दिशेत् प्राज्ञः शिरस्संस्पर्शने यदि || तत्राधस्त्वष्टताले तु हेमशल्यन्तु निर्दिशेत् | नासिकायास्तु संस्पर्शे चन्दनं सप्ततालके || गलस्पर्शेऽस्थिशल्यं स्यात् पट्तालाधस्थितं त्विह | उरस्संस्पर्शने चैव राजतं पञ्चतालतः || नाभौ स्पृष्टे चतुस्तालात् कांस्यशल्यं विनिर्देशेत् | गुह्यसंस्पर्शने ताम्रं त्रितालाधस्थितं विदुः || स्पर्शने चोरुजान्वोश्च त्वायसं हस्तमात्रतः | यदा गुल्फस्य संस्पर्शे त्रपुशल्यं विनिर्दिशेत् || प्. १६) बाहुसंस्पर्शने बाहुमात्रे नागास्थि चादिशेत् | विदित्वैवं व्यपोह्याऽथ प्रोक्षयेत्पञ्चगव्यकैः || सिकतोपरि मृद्भिस्तु समञ्च सुदृढं कुरु | अधो मुसलपातैश्च हस्तिपाद प्रपाततः | अष्टमृद्भिश्च पाषाणैः शर्करैरिभपादकैः || इत्यादि || अथ वास्तु विन्यासकालमाह- मूलम्- वेधोहस्कमरुन्मखास्विवरुणत्वाष्ट्रेन्दुपौष्णोत्तर- श्रोणादित्य घनिष्ठमैत्र दिवसेष्वेवायने चोत्तरे | त्यक्त्वा माघमथेपकार्तिकनभो मासेषु राशींश्चरान्- हित्वारार्कज वासरौ च सुतिथौ वास्तुं न्यसेद्देशिकः || ४ || वेध इति-तत्र प्रथमं नक्षत्राण्याह | वेधाः-रोहिणी, हस्तः- सावित्रिः, मरुत्-स्वाती, मघाश्विनौ-प्रसिद्धौ, वरुणः-शतभिषक्, त्वाष्ट्रं- चित्र, इन्दुः-मृगशिराः, पौष्णं-रेवति, उत्तरा- उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः, श्रोणा-श्रवणं, आदित्यः- पुनर्वसुः, धनिष्ठा-श्रविष्टा, मैत्र-अनुराधा, एतेषु+ षोडश नक्षत्रेषु | तथाचोक्तं कामिके कालविधानपटले- रोहिणी चोत्तरास्तिस्रो हस्तस्यात्यौ पुनर्वसुः | अनूराधाश्वयुक् सौम्यं वारुणं वैष्णावं मघा || प्. १७) चित्रा श्रविष्टा पौष्णंचह्यन्यमेष्वप्रशसितः || इति || उत्तरे अयने च माघं-माघमासं त्यक्त्वा, अथ-अनन्तरं दक्षिणायनेऽपि इषकार्तिक नभोमासेषु, इषः-आश्वयुजः कार्तिकः-प्रसिद्धः, नभाः- श्रवणः, एतेषु मासेष्वपि कार्यम् | तथा चोक्तं तत्रैव- माघमासं विना शस्तं भानोरयनमुत्तरम् | दक्षिणायनमासानां कार्तिकाश्वयुजावपि || श्रवणश्च विधीयन्ते तदन्ये निन्दिता मताः || इति || अथ निषेधमुखेन राशिविधिमाह-चरान् राशीन्-मेष कर्कट तुलामकरान्, आरार्कज वासरौ-मङ्गल शनिवासरावपि हित्वा कुर्यात् | तदप्युक्तं तत्रैव- उत्तमस्थिरराशिस्यान् मध्यमस्तूभयात्मकः | विवर्ज्यश्चरराशिस्तु सजीववश्शुभदस्स्मृतः | वारौ कुजार्कजौ हित्वा शेषवाराः प्रकीर्तिताः | मानुषे रविवारं च वर्जयेच्छंसिताः परे || इति || सुतिथौ-शोभनतिथिषु, तेऽपि तत्रैव- शुक्लपक्षश्शुभोऽन्यश्च सप्तम्यन्तोऽसितो मतः | शुक्लेवाद्य तृतीयांशं कृष्णे चान्त्यन्तु वा त्यजेत् || मध्यमौ मध्यगौ भागौ श्रेष्टावन्यौ प्रकीर्तितौ | प्.१८) नवमी पञ्चदश्यौ च हित्वा युग्मेतरां तिथिम् | आदद्यादपि युग्मासु द्वितीयां दशमीं तथा || कृष्णे षष्ठीं च याश्शीष्टास्तास्सर्वा निन्दितास्त्विह || इति || एतेषु कालेषु देशिकः वास्तुं न्यसेत् | कामिके ग्रहानुकूल्य वर्ज्यान्यप्युक्तानि | यथा- गुरु भार्गव चान्द्रीणामुदयस्सम्प्रशस्यते | गुरुदयस्तु विप्राणां भूपतीनां भृगूदयः || विशां वुधोदयः श्रेष्ठश्शूद्राणां च विधियते | त्रिषडेकादशस्थाने पापा वास्तुनि शोभनाः || व्ययं हित्वा शुभास्सर्वे सर्वत्र शुभदाः मताः | चतुरश्रे शुभाः पापा वर्जितव्या द्विजोत्तमाः || उभयस्थं हिमांशुं च षट्सप्तमगतं भृगुम् | वर्जयेद्देशिको धीमान् पञ्चगोचर संस्थितः || कण्टकं ब्रह्मदण्डं च स्थूणं मुक्तं गृहेण च | युक्तं च काङ्क्षितं चोढुं सन्त्यजेद्देशिकोत्तमः || वेधितर्क्षं व्यतीपातं वज्रं शूलं तथैव च | विष्कम्भं परिघं चेव गण्डं वैधृतिहर्षणे || तथातिगण्डं मन्दर्क्षं षडशीतिमुखं तथा | मासं शून्यं ग्रहैर्भिन्नं दग्धवारं तथैव च || प्. १९) तिथि नक्षत्र मासान्तं हायनान्तं च वर्जयेत् | अधिमासं त्यजेद्धीमान् देशिकस्तु विशेषतः || यजमानानुकूलर्क्षे चाल्पदोषे गुणाधिके | पूर्वाह्नेवाऽथ मध्याग्ने लग्ने ग्रहबलान्विते || कारये द्वास्तुकर्मैतत्सर्वसम्पत्समृद्धये || इति || अथ शिलादारुसंगृहणपूर्वकत्वात्प्रतिष्ठायाः शिलादारुसंगृहणकालमाह- मूलम्- षण्मासेषु तथोत्तरायाणगतेषु त्वाष्ट्रसोम्यानिले- विष्णु त्र्युत्तर पौष्ण मैत्रभमघासावित्रभ ब्राह्याभे | गोमीनाजघटे यमे च मकरे गच्छेन्निमित्ते शुभे- वर्णाद्यैर्निपुणं परीक्ष्य च शिला संगृह्यतां दारु वा || ५ || षण्मासेष्विति-उत्तरायणगतेषु षण्मासेषु मकरादिमांसेषु तथा च सन्तान संहितायाम्- स्थानं गिरिगुहां श्रित्वा शिलाग्रहणमुत्तमम् | मेषे वृषे च मिथुने मकरे कुम्भमीनयोः || एषु राशिष्विने प्राप्ते ग्राह्या चान्येषु वर्जयेत् || इति || कारणे च- मधुमाधवशुक्लेषु सहस्यक तपस्ययोः | तपस्येतेषु मासेषु शुक्लपक्षे शुभे दिने || प्. २०) अन्येषु सर्वमासेषु शिलारम्भं न कारयेत् | कृतं चेत्कर्तृनाशः स्यात् स्थाननाशो धनक्षयः || इति || अथ नक्षत्राण्याह-त्वाष्ट्रं-चित्रा, सौम्यं-मृगशिरः, अनिलं-स्वाती, विष्णुः-श्रवणं, त्र्युत्तराः-उत्तराफल्गुन्युत्तराषोढोत्तर- प्रोष्टपदास्तिस्रः, पौष्णं-रेवती, मैत्रभं-अनूराधा, मधा-प्रसिद्धा, सावित्रभं-हस्तः, व्राह्यभं-रोहिणी, एतेषु द्वादश नक्षत्रेषु शिलासंग्रहणं कुर्यात् | तथाचोक्तं कारणे- प्राजापत्य मघा त्वाष्ट्रे वैष्णवे मृगशीर्षके | सावित्रे चैव रेवत्यामनिले त्र्युत्तरेषु च || मत्रेप्येवं शुभेष्वेव शिलाग्रहणमाचरेत् || इति || अथ राशीनाह - गौः-वृषभः, मीनः-प्रसिद्धः, अजः-मेषः घटः-कुंभ, यमे-मिथुने, मकरे-प्रसिद्धः, एतेषु षड्राशिषु शिलागृहीतव्या | तदुक्तं दीप्ततन्त्रे- मेषे वृषे च मिथुने मकरे कुम्भमीनयोः | एतेषु राशिषु ग्राह्या शिलाग्रहण लक्षणा || इति || अथ शिलाग्रहणार्थं गमनसमये शुभनिमित्तानि परीक्ष्य गन्तव्यमित्याह | गच्छेन्निमित्ते शुभे || इति || तथाचोक्तं सन्तान संहितायाम्- आचार्यश्शिल्पिभिस्सार्धं गच्छेत्प्रागुत्तरां दिशम् | इत्यारभ्य- प्. २१) दिव्यान्तरिक्ष भौमानि शकुनानि परीक्षयेत् || गो कन्या भेरिशङ्खं दधिफलकुसुमं पूर्णकुम्भं ध्वजं वा- धान्यं वा विप्रयुग्मं हयगजवृषभं श्वेतच्छत्रं च पुष्पम् | उद्धृत्यापेयकुम्भं जलचर युगलं पक्वमन्नं गतायुः- वेश्या स्त्री मांसभारं प्रियकर वचनं प्रस्तुतं मङ्गलाय || कार्पासौषध कृष्णधान्यलवणं क्लीवञ्च तैलावहः- पङ्काकारगुडो हि शाल्मली शकृत्केशाश्च संव्याधितः | वातोन्मत्तजटीन् धनोपलतुष क्षुत्क्षाम नग्नादयो- मुण्डाभ्यक्त विमुक्तकेशंवनिता कापायिणश्चाऽशुभाः || इति || अजिते च- अतः परं प्रवक्ष्यामि शिलादिग्रहणं हरे | आचार्यश्शिल्पिना सार्धं यदागच्छेच्छिलां प्रति || सुमुहूर्ते निमित्तानि तदा समुपलक्षयेत् | दध्यन्नं मधुसर्पिश्च पूर्णकुम्भं तथैव च || काञ्चनं रजतं चैव सर्वरत्नानि भौक्तिका | भूषणानि च सर्वाणि सायुधानि सरोरुहम् || साक्षतं सफलं चैव रोचनं गैरिकं तथा | भद्रपीठं च शङ्खं च सितपुष्पं तथैव च || अम्बराणि च शुक्लानि मत्स्यं मांसं तथैव च | वृषेन्द्रश्च गजश्चेव विप्रौ वैश्यश्च शोभनाः || प्. २२) कन्या तुरग मीनानि मयूरञ्चाषमेव च | व्याघ्रं च नकुलं चैव यानि मित्राणि चैवहि || गीतमङ्गलवाद्यानि वेदघोषादिकं तथा | उपश्रुतिं च गच्छेति दृष्ट्वा श्रुत्वा वृजेत्सुधीः || कार्पाससोषधं सर्वं कृष्णधान्यं तथैव च | लवणं चाऽथ तैलं च मध्यं क्षीरं तथैव च || पङ्कमंगारकं चैव गुलं चर्म तथैव च | शकृदिन्धनपाषाण तुषकेशानि चैव हि || उन्मत्तं जटिलं मुण्डं नग्नं काषायिणं तथा | क्षुत्क्षामं विकृतं चैव नरं वाजं तथैव च || अभ्यक्तं मुक्तकेशं च रोगयुक्तं तथैव च | सर्पं गोधां च शरभं वाराहं जाहकं तथा || शशं च रोदनाक्रोशकलहं शवकुर्यकम् | आगच्छ विश तिष्टेति वचनानि तथैव च || किमर्थं गच्छसीत्येवमादिवोक्तं वचः स्मृतः | दृष्ट्वा श्रुत्वा च नोगच्छे दुषित्वा त्र्यह मुन्मनाः || संपूज्य दीक्षितान् विप्रान् शिवबृन्दपरायणान् | हुत्वा दोषनिवृत्यर्थ मघोरेण शताहुतिम् || प्. २३) परिलिप्योदितं कृत्वा ह्यहोरात्र मतन्द्रितः | प्रक्षाल्य तु पुनः सम्यक् स दोषं च परीक्षयेत् || परीक्ष्य बहुधा पश्चात्तत्कृत्यन्तु समाचरेत् | मण्डलं तत्क्षणे च स्यात्तां सगर्भां विनिर्दिशेत् || मञ्जिष्टे मण्डले भेको गोधा स्यात्पीतवर्णके | शुभ्रे सर्पस्समुद्दिष्टः कपिले मूषिकाः भवेत् || सरटो रक्तवर्णे च गुलवर्णे दृपद्भवेत् | कपोतवर्णे गौली च चित्राभे वृश्चिकं तथा || निस्त्रींश सदृशे तोयं खद्योतो मधुसन्निभे | सिक्ता भस्म वर्णे तु तेषां फल मथ शृणु || राजनाशप्रदा गोधा पशुनाशस्तु वृश्चिके | ज्वरमारीप्रदः सर्पो मण्डूकोऽरिभयप्रदः || गर्भस्रंसो जलात्प्रोक्तः खद्योतोऽग्निभयप्रदः | पाषाण वृष्टिः पाषाणात् क्षयरोगस्तु वालुकात् || सरटो व्याधिदः प्रोक्तः मूपको धान्यनाशकृत् | गौलिका शोदा ज्ञेया तस्माद्गर्भयुतां त्यजेत् || चिह्नानि यदि सन्त्यत्र सच्चिह्नान्युपलक्षयेत् | पद्म स्वस्तिक चन्द्रार्क चक्रयोनिध्वजोपमम् || प्. २४) स्वङ्गच्छत्रमृगेन्द्राभं वृक्षकञ्चापमत्स्यवत् | हस्ति श्री धेनुवच्चाऽपि स्रुक् जटा नेत्रवत्स्तिः || एवं भूतानि चिह्नानि कल्याणानि भवन्ति हि | गृध्र कङ्क समानं च काक सर्प कबन्धवत् || श्येनोलूकसमानं च वृषदन्तकरोपमा | गोमायूष्ट्रोपमा चैव खड्गरेखा च निन्दिता || वर्णात्मकं तथा चिह्नं शुभाऽशुभफलप्रदम् | शृणु लिङ्गेषु संश्लिष्टं वक्ष्यमाणं मया हरे || स्वरेषु तु ऋ ॠ ऌ ॡ ए ऐ त्वं चापि शोभनम् | वर्गेष्वाद्यं शुभं ज्ञेयं द्वितीयं निन्दितं भवेत् || तृतीयं शुभदं ज्ञेयं चतुर्थमुभयात्मकम् | आद्याक्षरञ्च प्रासाद मतीव शुभदं भवेत् || अनुनासिक वर्गौ च त्याज्यावेतौ मनीषिभिः | कूटो विसर्गक स्त्याज्यस्सबिन्दुस्सोऽतिशोभनः || मकारौकारकौ चाऽपि वर्णौ शुभफलप्रदौ | शुभचिह्नयुता ग्राह्या त्यजेदन्यामशोभनाम् || इति || दारु लक्षणं चाजिते- अथ गच्छेद्वनं शैलं सनाथं देशिकः सुधीः | तत्र रम्यतरे देशे वानप्रस्थाश्रमोचिते || प्. २५) नदी तटाक संयुक्ते फलपल्लव शोभिते | पुष्पभारावनम्रैश्च तरुण्डैरलङ्कृते || जिघांसु सत्व निर्मुक्ते प्रविश्याचार्यशिल्पिनौ | वृक्षसंगृहणार्थन्तु तदुक्तं वृक्षमाश्रयेत् || ऋजुं वृत्तसमंचैव ग्रन्थिरन्ध्रविवर्जितम् | सत्वचं पुष्पपत्राढ्यं गृह्णीयाद्वृक्षमुत्तमम् || गजादिभग्नं वज्रादिदग्धं वक्रं क्षतं तथा | स्वयं शुष्कञ्च मन्त्रज्ञो वर्जयेद् भूरुहं तथा || इति | अथ वास्तुपूजाकालमाह- मूलम्- सत्रे बालसभादिमोपलमखस्थाने च सम्प्रोक्षणे- लिङ्गस्थापन रत्नमण्डप विधौ गर्भस्य संस्थापने | कर्तव्या सकल प्रतिष्टित विधौ रङ्गे च नृत्तार्थके- वासस्थानः समस्त दैवतमुदे सा वास्तुपूजागमे || ६ || सत्रेति-सत्रे-यागादौ, वाले-बालस्थापने, सभायां- आस्थानमण्डपस्थापने, आदिमोपले-आद्येष्टकायां, मख-स्थाने- यागशालायां, सम्प्रोक्षणे-अशुचिस्पर्शादिविषये क्रियमाणावर्तनावर्तादि क्रियाविशेषे, लिङ्गस्थापने रत्नमण्टप-विधौ-रत्नमण्टपप्रतिष्टायां, गर्भस्य संस्थापने-प्रासाद गोपुरादिक्रियमाणगर्भन्यसाविधौ, सकल प्रतिष्टितविधौ-नृत्तमूर्त्यादि पञ्चविंशति विग्रह प्रतिष्टाविधौ, नृत्तार्थके रङ्गे च-नाट्यस्थाने च, एतेषु कालेषु, सा-शैवागमोक्ता, वास्तुपूजा-वासस्थान समस्त दैवतमुदे कर्तव्या | तथाचोक्तं कारणागमे- अथ वक्ष्ये विशेषेण वास्तुहोमविधिक्रमम् | बालस्थाने सभास्थाने सत्रेवा यागामण्टपे || आद्योपलेष्टकाधाने लिंङ्ग संस्थापने तथा | प्रोक्षणे गर्भविन्यासे सकलस्थापने तथा || मण्टपस्थापने चैव नृत्तरङ्गे विशेषतः | देवतायतनेचान्यस्थापने च समाचरेत् || वास्तुहोमं प्रकर्तव्यं सर्वसम्भारसंयुतम् || इति || वास्तुपूजाऽभावे दोषप्रतिपादनार्थं वास्तुस्वरूप निरूपणमजिते प्रत्यपादि-यथा- पुराऽमूत्पुरुषः कश्चिद् भुवनत्रय भीषणः | भुवनानि शरीरेण च्छादयन्भूमिविक्रमः || तं दृष्ट्वा सर्वतो देवा भीतास्त्वासन् परस्परम् | सम्प्रधार्य तु सम्भूय गृहीत्वा तमधोमुखम् || सर्वाण्यङ्गान्यवष्टभ्य भुवः पृष्टे न्यपातयन् | स एव वास्तुरित्युक्तः तस्याङ्गानि सुराऽसुरैः || प्. २७) यत्र येन गृहीतानि तत्र तस्य बलिं हरेत् | बलिं गृहीत्वा ते सर्वे प्रीणन्ति सुचिरं सुराः || यदि तेषां यदा पूजा सुराणां न विधीयते | तदा देवास्तदङ्गानि हित्वा गच्छन्ति वै ध्रुवम् || गतेषु तेषु तद्वास्तु क्षीयते नाऽत्र संशयः | क्षयहेतुस्तदङ्गानां विक्षेपोऽत्र भविष्यति || तस्मात्तद्वास्तु देहस्थानमरानर्चयेत्सुधीः | ईशाने तु शिरो वास्तोः पादौ निर्-ऋति गोचरौ || कुक्षिर्ब्रह्मणि विज्ञेय श्चैवमङ्गानि कल्पयेत् | अन्येष्वङ्गेषु ये देवा स्ते च पूज्याः पराश्रिताः || यत्र प्रसादमन्यद्वा क्रियते तत्र देशिकैः || इति || अथ कामिके- अथ वक्ष्ये विशेषेण वास्तुदेव बलिक्रमम् | रात्रौ कुर्याद्बलिं विद्वानह्नि ग्रामादिवास्तुषु || रात्रौ वाऽथ दिवावाऽथ गृहदेवालयादिषु || इत्यादि वास्तुपूजाप्रकारमुक्त्वा पटलान्ते- सर्वमङ्गलकार्ये च मण्टपादि विशोधने | पर्यग्निकरणोपेतं वास्तुपूजनहोमकम् || प्. २८) बलिं चैव विशेषेण शिवविप्रस्समाचरेत् | वास्तुपूजा विहीनन्तु वास्तुवास्तु विनश्यति || प्रतिसंवत्सरं कुर्यात्सर्वदोषाऽपनुत्तये | ग्रामादि ग्रहशालसु देववेश्मनि देशिकः || इति || अथ अङ्कुरार्पणकालमाह- मूलम्- कुर्याच्छिवोत्सवविधिस्नपन प्रतिष्ठा- सम्प्रोक्षणादिक समस्त शिवक्रियासु | तत्पूर्वतो नवमसप्तमपञ्चमत्रये- काहस्त्विदं निशि दिवाङ्कुरकर्म सद्यः || ७ || कुर्यादिति- शिवोत्सवादिषु अङ्कुरार्पणं कुर्यात् | अत्र उत्सव शब्देन एकाह त्र्यह पञ्चाह सप्ताह नवाह द्वादशाह पञ्चदशाह सप्तदशाह भेद भिन्न शिवोत्सवोऽपि विवक्षितः | स्नपन शब्देन नित्यस्नपन व्यतिरिक्त नैमित्तिक काम्य विषयक मध्यमत्रय मुत्तमत्रयं च विवक्षितम् | प्रतिष्ठा शब्देन च शिवलिङ्गादि सकल सकल प्रतिष्टा विवक्षिता | सम्प्रोक्षण शब्देन प्रायश्चितरूपावर्तनावर्तादिशान्ति शान्ति होम दिशाहोम मूर्तिहोम संहिताहोमाश्च विवक्षितः | आदि शब्देन मासपूजादयोऽपि गृह्यन्ते | एतेषु सर्वकर्मसु पूर्वमेव, नवहसप्ताह पञ्चाह त्र्यहैकाहस्सु रात्रावङ्कुरार्पणं कुर्यात् | सद्यश्चेद्दिवाऽपि कुर्यात् | तदुक्तं सुप्रभेदे- अथातस्सम्प्रवक्ष्यामि ह्यङ्कुरस्य विधिक्रमम् | सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलाङ्कुरम् || स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा | नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः || त्रिरात्रे ह्येकरात्रे वा सर्वकर्मसु देशिकः | सायादि दिनमारभ्य सायेचैवाङ्कुरार्पणम् || बीजानामधिपस्सोमस्तस्माद्रातौ तु वापयेत् || इति || तथा कारणे- उत्सवे स्नपने चैव प्रोक्षणे स्थापने तथा | अन्यत्र मङ्गले कार्ये मङ्गलाङ्कुरमुच्यते || सर्वेषु यागपूर्वेषु नवमे सप्तमेऽहनि | पञ्चमे वा शिवं पूज्य कारयेदङ्कुरार्पणम् || सद्योऽङ्कुरार्पणं वाऽपि कारयेदङ्कुरार्पणम् | बीजानामधिपश्चन्द्रस्तस्मात्तु निशि निर्वपेत् || सद्योऽङ्कुरार्पणं चेत्तु दिवा वा निशि निर्वपेत् || इति || तथा कामिके- सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलाङ्कुरम् | प्. ३०) उत्तमो मध्यमो नीच स्त्रिविधः परिकीर्तितः || नवाहे वाऽथ सप्ताहे पञ्चाहे त्रिदिनेऽपि वा | सद्योऽङ्कुरार्पणं वाऽपि शिवं सम्पूज्य कारयेत् || इति || अजिते च- शिवमुद्द्रिश्य यत्कर्म यत्र वै क्रियते दिने | तस्मात्पूर्वे प्रयुञ्जीत नवमे सप्तमेऽपि वा || पञ्चमे च त्र्यहे वाऽपि कुर्यात्तद्बीजवापनम् | उक्तानां दिवसानान्ति निशि पूर्वे प्रयोजयेत् || एकाहे वा शिवं पूज्य सद्योङ्कुरमथाऽपि वा || इति || तथा सिद्धतन्त्रे- अनङ्कुरन्तु यत्कर्म तत्कर्म निष्फलं भवेत् || इति || अथ गर्भन्यासकालमाह- मूलम्- पूर्वान्तैकाब्दकेषुत्तममथ गदितं मध्यहीने प्रतिष्ठा- कालास्योदग्गतेर्के सुतिथि शुभदिने मघवर्ज्ये तु मासे- होराद्रोक्काणकांशेषु करणसहितेषु स्थिरेष्वादधीता- चार्यो गर्भं त्वखण्डर्क्षगुणयुजि शिवस्यालयादौ विशेषात् || पूर्वेति-प्रतिष्ठाकालस्य पूर्वान्तैकाब्दकेषु-प्रतिष्ठायाः पूर्वं वा प्रतिष्ठायाः अन्ते वा तदनन्तरमेकसंवत्सरे वा गर्भस्थापनं क्रमेण उत्तमं मध्यममधमं च भवति | प्. ३१) तदुक्तं कामेके- देवतास्थापनात्पूर्वं स्थापनं चोत्तमं भवेत् | देवतास्थापनस्यान्ते स्थापनं मध्यमं भवेत् || ग्रामाविन्यासमारभ्य चैकाब्दादूर्ध्वकालके | स्थापनं कन्यसं प्रोक्तं ग्रामादीनामितिस्मृतम् || इति || पुनः कालविशेषमाह-उदग्गतेऽर्के-उत्तरायणे, तत्राऽपि माघवर्ज्ये मासे सुतिथि शुभदिने-शोभनतिथि युक्त शुभवारे, करण सहितेषु स्थिरेषु होराद्रेक्काणकांशेषु | तथा चोक्तं कारणे- उत्तरायण काले तु माघमासविवर्जिते | सुवारे सुतिथौ चैव शुक्लपक्षे शुभे दिने || स्थिरांशे स्थिरनक्षत्रे होराकरणयोस्तथा | स्थिरद्द्रेक्काणके चैव स्थिरवारे स्थिरे ग्रहे || इति || अखण्डर्क्षः गुणयुजि-अखण्डनक्षत्रेण गुणैश्व युक्ते तथा चोक्तं कारणे- अखण्डर्क्षे स्थिरे लग्ने सुमुहूर्ते विशेषतः || इति || एतादृश मुहूर्ते आचार्य उक्तलक्षणः शिवस्यालयादौ आदिशब्देन मण्टप गोपुरादिषु च गर्भमादधीत गर्भन्यासं कुर्यात् तथोचोक्तं अजिते- प्. ३२) अथ वक्ष्यामि ते सम्यक् गर्भन्यासविधिक्रमम् | प्रासादे मण्टपे वाऽथ गोपुरे वा सभादिषु || विन्यसेत् सम्पदे गर्भभाजनं विधिवत्सुधीः || इति || तत्राऽपि स्थानविशेषोऽपि तत्रैव प्रतिपादितः | यथा-सर्वत्राद्येष्टकोर्ध्वे तु गर्भन्यास मुदाहृतम् | प्रासादे पादकोर्ध्वेतु पट्टिकोपरि विन्यसेत् || द्वारस्य दक्षिणे पार्श्वे स्तम्भमूलेऽथवा पुनः | मण्टपेषु च सर्वेषु दक्षिणे स्तम्भमूलके || गोपुरद्वार पार्श्वे तु दक्षिणे भित्तिमूलके | सभायामपि तत्पादमूले तु परियोजयेत् || सम्यग्गर्भसमायुक्तं तत्तत्सम्पत्करं नृणाम् || इति || सुप्रभेदे विशेष उक्तः | यथा- आलये मण्टपे चैव निर्गमस्य तु दक्षिणे | गोपुराणां च सर्वेषां प्रवेशस्यतु दक्षिणे | प्रासादे मूलतः कुर्यादुपाने वा वृतौ तथा | भूमिष्टं शूद्रजातीनामुपाने नृपवैश्ययोः || वृतेरुपरि विप्राणां गर्भस्थानं विधियते | सर्वेषान्तु वृतौ शस्तं भूगतं वाऽपि कारयेत् || प्राग्द्वारं चेत्प्रकर्तव्यमैन्द्र पावक मध्यमे | यदि चेत्पश्चिमद्वारं दक्षिणे भित्तिके न्यसेत् || प्. ३३) कवाटार्गलयोगे वा न्यस्तव्यं गर्भभाजनम् | मण्टपे स्तम्भमूलेतु प्रथमावरणे बुधः || गोपुराणां तु कर्तव्ये दक्षिणे विनिवेशयेत् || इति || कारणेतु- ग्रामादीनान्तु तदात्रौ दिवाकाले तु सद्मानि || इति || कामिके- पादबन्धविमानेषु गर्भं हर्म्योपरि न्यसेत् | प्रतिबन्धविमानेतु वृतेरुपरि विन्यसेत् || वृतेरुपरि विप्राणां कुमुदोपरि भूभुजाम् | जगत्युपरि वैश्यानां शूद्राणां पादुकोपरि || सर्वेषां भूगतं कार्यं सर्वसिद्धकराय च | वापी कूप तटाकादौ दीर्घिका सेतुबन्धने || गर्भश्चेत्तदुदग्भागे पूर्वस्मिन्वाऽथ विन्यसेत् | ग्रामादीनान्तु रात्रौ स्यात्सद्मनस्तु दिवाऽपि || नागयोगे दिवावाऽपि ग्रामगर्भन्तु विन्यसेत् | नक्तं न्यसेन्नराणान्तु देवानान्तु दिवापि वा || गृहिणी गर्भिणी कर्तुः यदि गर्भं न निक्षिपेत् || इति || गर्भन्यासे कृते फलं तदाभावे दोषश्च कामिके- प्. ३४) गर्भन्यासविधिं वक्ष्ये ग्रामादीनां च सद्मनाम् | स गर्भं सर्वसम्पत्यै विगर्भं नाशनं भवेत् || तस्मात्सर्वप्रयत्नेन गर्भ संस्थापयेत्सुधीः || इति || अथ बालालय विधानमाह- मूलम्- द्वेधाद्यान्तरितक्रमेणगदिते लिङ्गेतु बालाभिधे- द्वैतीयीमिह तां वदन्ति दशधा बिम्बासि कुम्भान् पटम् | चित्रादर्श सुकूर्च मण्डलमही स्तां पादुकाञ्चादिमे- मूलोत्कस्समयोऽर्चने त्वितरतस्तचारतम्याद्विदुः || ९ || द्वेधेति-बालाभिधे लिङ्गे-बाललिङ्गे, आद्यान्तरित क्रमेण- आद्यमन्तरितं चेति क्रमेण, द्वेधागधिते-उक्ते, तत्र आद्यं मूललिङ्गात्पूरं क्रियमाणम् | द्वितीयन्तु, छिन्न भिन्न जीर्ण प्रासादादिविषये क्रियमाणम् || तथा चोक्तमजितागमे- बाललिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः | द्विविधा सा समुद्दिष्टा त्वाद्या त्वन्तरितेति च || इत्यादि प्रतिष्ठा सविशेषमभिधाय, एवमाद्या समुदिष्टां द्वितीया वक्ष्यतेऽधुना | सातु लिङ्गेषु जीर्णेषु प्रयोक्तव्या हि देशिकैः || इति || प्. ३५) तथा सुप्रभेदे- आद्यं द्वितीयमेवन्तु द्विविधं वरुणालयम् | मूलस्थानस्य यत्पूर्वं तदाद्यं तरुणालयम् || पुनः प्रासादकरणे भिन्ने च्छिन्ने नवीकृते | यत्कृतं तद्वितीयाख्यं तरुणालयमुत्तमम् || इति || तत्राद्ये भेदो नास्ति | द्वितीयेतु दशविधत्वमाह | बिम्बाः- उमामहेश्वरादिमूर्तयः, असिः-खड्गः, कुम्भाः-स्नपन प्रकरणोक्तलक्षणान्वितः, पटः-पटगतचित्रम्, चित्रं-मित्यादि-चित्रं, आदर्शः-दर्पणः, सुकूर्चः-करणाधिकारोक्त लक्षणान्वितः, मण्डलं- अनन्तविजयादिमण्डलभेदः, मही-गोमयोपलिप्तस्थण्डिलं, पादुकां- तत्तत्पादुकालक्षण लक्षितां, एतानि दशविधान्यपि द्वितीयबाललिङ्गविषये वदन्ति | तथोक्तमंशुमत्तन्त्रे- द्वितीयं तत्र विज्ञेयं तद्भेदं दशाधा बिदुः | खड्गे कूर्चे च बिम्बे च दर्पणे प्रतिबिम्बके || कुम्भे च स्थण्डिले चैव मण्डले पादुकेऽथवा | पटे वा भित्तिचित्रै वा बाललिङ्गार्थकं यजेत् || इति || तत्र आदिमे-मूललिङ्गात्पूर्वबाललिङ्गविषये, अर्चनेपूजाविषये, मूलोक्त एव समयः, इतरतः-द्वितीयेतु, तत्तारतम्यात्-तेषांतारतम्यात्, चिरकालाऽल्पकालावस्थायित्व तारतम्यात् वदन्ति | प्. ३६) तथाचांशुमत्तन्त्रे- मासादूर्ध्वं न कर्तव्यं कुम्भसंस्थापनं विदुः | कलशस्तापनस्योक्तमार्गेणैव समाचरेत् || मण्डले स्थण्डिले चैव कूर्वे चैव विशेषतः | तद्बिम्बस्यार्चनं कुर्यादासप्त दिवसान्तकम् || मण्डलार्चनमार्गेण कारयेद्देशिकोत्तमः | शेषाण्यन्यानि बिम्बानि द्वादशाब्दाबधौ यजेत् || इत्यादि || अथेदानीं शिवलिङ्ग प्रतिष्ठाकालं श्लोकद्वयेन प्रदर्शयन् प्रथमश्लोकेन अयनमासतिथीन् वर्ज्यानवयोगादींश्चाह- मूलम्- कार्या तथोदगयनेऽपि च माघवर्ज्ये- रिक्ताष्टमो प्रतिपदः परिहृत्य पर्व | पापेक्षणांशकदिनानि तथान्धकाण- पातावयोगमृतभादि शिवप्रतिष्ठा || १० || कार्येति-तत्र तावत्प्रथमं अयनमासनिर्णयमाह-माघवर्ज्ये उदगयने-उत्तरायणे, शिवप्रतिष्ठा कार्या | तथोक्तमजितागमे शिवलिङ्गप्रतिष्ठाप्रशंसापुरस्सरं शिवाभिव्यक्तिस्थान वर्णनपूर्वकं- प्. ३७) लिङ्गप्रतिष्ठा वक्ष्यामि भोगमोक्षकरीं नृणाम् | आदिमध्यान्तनिर्मूक्तस्स्वभावविमलः प्रभुः || सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे | दिक्कालाद्यनवच्छिन्नो वाङ्मनोतीतगोचरः || निष्कलो निष्क्रियश्चैव सर्वदृक् सर्वगस्सदा | तज्ञानादेव मुक्तिः स्यात्तद्भक्त्या वा जनार्दन || तत्पूजापि ददात्येव फलमिन्द्रपदादिकम् | पूजितो देवदेवेशो भक्तिं ज्ञानं प्रयच्छति || ज्ञानेन भक्तियोगेन विनान्यैः कर्मकोटिभिः | प्राप्यते न क्वचिन्मुक्ति स्तस्माल्लिङ्गार्चनं वरम् || लिङ्गार्चनसमो नास्ति धर्मोऽत्र भुवनत्रये | पूजा च त्रिषु लिङ्गेषु व्यक्ताव्यक्तोभयात्मसु || स्थापितेषु भवेन्मुक्तः स्थापनं द्विविधं भवेत् | स्थापनं च प्रतिष्ठा च स्थापनं शिल्पिसंयुतम् || प्रतिष्ठा तद्विहीनास्यान्मन्त्रेणैविहि सा भवेत् | मन्त्ररूपी महादेवश्शिवः परमकारणः || मन्त्रं स्यात्परमं ज्ञानं मन्त्रवाच्यः सदाशिवः | वाच्यवाचक सम्बन्धो मन्त्रस्यास्य च दृश्यते || प्. ३८) वाच्यस्य देवदेवस्य लोकानुग्राहकस्य च | लिङ्ग चिह्नं शरीरं च कथ्यतेऽत्र जनार्दन || शरीरं मन्त्र एव स्या च्छब्दब्रह्मेति संज्ञितः | शरीरं प्रथमं कृत्वा व्यक्ताव्यक्तोभयात्मकम् || त्रिविधं तत्सुरश्रेष्ठं पूजार्थ तस्य नित्यशः | प्रतिलिङ्गस्थितं मन्त्रं प्रतिष्ठेति प्रकीर्तितम् || प्रतिष्ठाविधिकालोयमुच्यते साम्प्रतं मया | उत्तरायण कालेतु माघमास विवर्जिते || इति || अथ वर्ज्यतिथिमुखेन तिथिविधिमाह | रिक्ताष्टमी प्रतिपदः-रिक्ताः चतुर्थी नवमी चतुर्दश्यः | अष्टमीप्रतिपदौ-पक्षमध्यादी, पर्व-पूर्णिमामावास्ये, एताः परिहृत्यान्ये ग्राह्या इत्यर्थः || तदुक्तं कारणे- अयनं दक्षिणं नेष्टं प्रशस्तं चोत्तरायणम् | शुक्लपक्षे चतुर्थी च ह्यष्टमी शतुर्दशी || नवमी प्रतिपञ्चै पञ्चदश्यशुभाः स्मृताः || इति || अजिते- शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा | षष्ठी च सप्तमी चापि दशमी च त्रयोदशी || प्. ३९) तिथयश्शुभदा प्रोक्ता दिनपूर्वार्धमिष्यते | श्रेष्ठावारा गुरुज्ञेन्द्र शुक्राणां परिकीर्तिताः || पक्षच्छिद्रांश्च पर्वेण रिक्तांश्चापि विवर्जयेत् || इति || भीमसंहितायां विशेष उक्तः-यथा- अयनं दक्षिणं नेष्टं प्रशस्तं चोत्तरायणम् | तदुत्तरायणे श्रेष्ठं दक्षिणे त्ववरं मतम् || तत्रापि सर्वमासेषु चैत्रवैशाखयोर्वरम् | पुष्यश्च पाल्गुन ज्येष्ठौ मध्यमः समुदाहृतः || श्रवणे पूर्वभाद्रे वा चाश्वयुक्कार्तिकेऽधमः | मार्गशीषमथाषाढं माघमासं विवर्जयेत् || इति || मोहसूरोत्तरे आधिमासमासस्य वर्ज्यत्वमुक्तम्- दीक्षादि स्थापनं चैव पवित्रादि शतक्रतो | अधिमासेन कुर्वित यदीच्छे च्छुभमात्मनः || इति || ज्योतिषेतु, द्वादशमासानां बृहस्पतिना प्रतिष्ठाफलमुक्तम् | यथा-पुष्ये राज्यविवृद्धस्स्यान्माघमासेऽति सम्ददः | फाल्गुने द्रव्यलाभस्स्या चैत्रमासे श्रियावहा || अतीव सौख्यं वैशाखे ज्येष्ठेमासे श्रियावहा | कुम्भमानौ प्रशस्तंस्यात् कुम्भं यदि न पश्यति || जीवं पश्यतिचेच्छस्तं प्रतिष्ठायां रवौ गते | आषाढे स्थापितो देवो यजमान विनाशनः || प्. ४०) सौरमासेन विज्ञेयः श्रवणे राजराष्ट्रहम् | भाद्रपदे महानाश श्चाश्वयुज्यपि राजहा || कार्तिके शत्रुबुद्धिस्स्यान् मार्गशीर्षे तथैव च || इति || तथा च रत्नकोशाख्ये ज्योतिपग्रन्थे- उपगयने सितपक्षे शुभतिथियोगे शुभे च नक्षत्रे | लिङ्गस्थानकर्म कुर्याच्छुभसंस्थिते चन्द्रे || इति || अगस्त्यश्चाह- रुद्रस्यस्थापनं श्रेष्ठं चोत्तरायण मे रवौ | दक्षिणायनगे कुर्यात्कर्तृनाशकरं भवेत् || इति || इत्याद्यनेकागम ज्योतिपग्रन्थैरुत्तरायणस्यैव प्रतिष्ठाकालत्वं प्रतिपादितम् | अथ पापेक्षण पापांशक पापदिनानिच वर्ज्यानि | तथाचोक्तमजिते- पापयुक्तं तथादुष्टं विद्धं काङ्क्षितमेव च | सव्यतीपातभञ्चैव वर्जनीयं प्रयत्नतः || भीमसंहितायां यथा- सितसौम्यकगुर्विन्दुवाराः श्रेष्टतमास्स्मृताः | अशुभा रविसौराराश्शुभयोगे शुभप्रदाः || इति || अजिते च- शन्यङ्गारदिनेशानां वारांश्च परिवर्जयेत् || इति || प्. ४१) कारणे- अशुभा रविसौराराश्शुभयोगे शुभप्रदाः | रोहिण्यनिल संयुक्तः शनिवारस्तु शोभनः || पूषासावित्र संयुक्तस्सूर्यवारो वरः स्मृतः | विश्वेदेवाश्विनीयुक्तः कुजवारो वरः स्मृतः || इति || दीप्ते च- गुरुभार्गव सौम्यानां वारास्सोमस्य शोभनाः | एषां द्रेक्काण होराश्च चांशकादर्शनं शुभम् || एषामेवोदयश्शस्तो वर्ज्यस्सोमोदयस्तथा || इति || तथान्धकाणपातावयोगमृतभादि-अन्धनक्षत्र काणनक्षत्र मृतनक्षत्रा वर्ज्यानि | तदुक्तं दीप्ततन्त्रे- अन्धं काणं च नक्षत्रं वर्ज्यं स्थापनकर्मणि || इति || अन्धं काण नक्षत्रलक्षणं यथा ज्योतिषे- अर्कादिवारं त्रिगुणमश्विन्यादि क्रमान् न्यसेत् | शेषेषु नव सूर्यर्तु काण नेत्रद्वयान्धकाः || इति || पातशब्देन व्यतीपातमहापातावुच्येते | तथाचोक्तमजिते- सव्यतीपातभञ्चैव वर्जनीयं प्रयत्नतः || इति || ज्योतिषेतु- यस्मिन्दिने महापातस्तद्दिनं परिवर्जयेत् || इति || प्. ४२) अवयोगशब्देन कारणोक्त दग्धवारादयो गृह्यन्ते- द्वादश्येकादशीचैव पञ्चमी च द्वितीयका | षष्ट्यष्टमी च नवमी सूर्यादिभिः क्रमान्विता || दग्धवारा इति ज्ञेयास्स्थापनादिषु वर्जयेत् || इति || भीमसंहितायाम्- द्वादशई रविसंयुक्तैकादशी सोमवारयुक् | पञ्चम्यङ्गार संयुक्ता द्वितीया बुधसंयुता || षष्टी च गुरुसंयुक्ता चाष्टमी शुक्रसंयुता | नवमी शनिसंयुक्ता दग्धवारा इतिस्मृताः || स्थापनादिप्वमी वर्ज्याः कुर्यूराष्ट्रविनाशनम् || इति || कारणे- पूषा च सप्तमी युक्तश्चाश्विनी च द्वितीयया | पुष्य वैष्णवसंयुक्तस्सितवारोत्तरेण तु || सौम्येन गुरुवारस्तु चोत्तरापाढसंयुतः | सोमावारस्तु हस्तेन चाश्विन्या बुधवारकः || दग्धवारा इति ज्ञेयास्स्थापनादिषु वर्जयेत् | एतेत्वशुभदाः दोषा उक्ताः यथा- पापग्रहासमायुक्तं कांक्षितं मुक्तकं ग्रहम् | कंटं स्थूणं व्यतीपातं विषं काणं च संक्रमम् || प्. ४३) कण्टकं ब्रह्मदण्डं च चोल्कापातं च विद्धकम् | ग्रहण् वेधनक्षत्रं शूलं च भूमिकम्पकम् || ध्वजं चैव विशेषेण वर्जयेत्तु प्रयत्नतः || इति || अर्स्यार्थः- पापग्रहसमायुक्तं सूर्याङ्गारकमन्दराहुकेतुभिर्युक्तं, काङ्क्षितं-एतैः काङ्क्षितंच, मुक्तं-एतैः मुच्यमानं च, ग्रहं-लग्नम् | तदुक्तं कालविधाने- पापग्रहैर्युक्त निरीक्षितं भं- सन्ध्यायुतं दग्ध गृहं च शून्यम् | अन्धं च मूकं बधिराख्य भं च- शुभेषु सन्त्याज्यमधोमुखञ्च || इति || केन्द्र त्रिकोणादि स्थानेऽपि पापग्रहावस्थानं वर्ज्यम् | तथोक्तं भरद्वाजेन- लग्नद्वितीये जामित्रे नैधने क्रूरसंयुते | लग्नं तु क्रूरमित्याहुरन्यथा तु शुभं भवेत् || इति || कण्टं-कण्टकाख्य दोषः | यथाह बृहस्पतिः | यावदर्कात्तु नैर्-ऋत्यात्तावन्नैर्-ऋतभाद्विषम् | कण्ठकाख्यो महादोषः सर्वकर्मविनाशनः || इति || स्थूणम्-स्थूणाख्यदोषम् | यथाह बृहस्पतिः- प्. ४४) मूलमङ्गारकाद्यावन्मूलात्तावति भं विषम् | स्थूणाख्यः सर्वकार्येषु निषिद्धस्सुरमानुषैः || इति || अत्र स्थूण शब्देन रक्तस्थूणस्यापि ग्रहणम् | अत्रबृहस्पतिः- वेधर्क्षे धृति भागेभ्यः कुजास्पदगतिं त्यजेत् | शिष्टमङ्गारकस्थर्क्षाद्रक्तस्थूण समाह्वयः || रक्तस्थूणस्य नक्षत्रे कृतं शुभमतोन्यथा | विनाशमुपयात्याशु कर्तृवक्तर्म चोदितम् || इति || भरद्वाजश्चाह- त्यजेदण्डक सङ्ख्येभ्यो भागेभ्यो भूततस्फुतम् | शिष्टभागपरिज्ञानं रक्तस्थूणं परित्यजेत् || इति || अत्र कण्टस्थूण शब्देन कण्टस्थूणाख्य दोषश्च विवक्षितः | अत्र बृहस्पतिः- हेमार्कसदृशादृष्टिर्यावन्नै-ऋतभं तयोः | सङ्ख्याद्वययुते मूलात्कण्टकस्थूण संज्ञितम् || इति || व्यतीपातं-उक्तमेतत्, विषं-अत्र विषशब्देन तिथिविष नक्षत्रविषे वारविष राशिविषाणि च गृह्यन्ते | अत्र तिथिविषमगस्त्येनोक्तं यथा- तिथि पञ्चाष्ट सप्ताष्ट रुद्र वेदाष्ट सप्त दिक् | राम विश्वेन्द्र सप्ताष्ट नाढ्यस्सर्प विषोपमाः || शुभकर्म मृतिंदद्युः तिथिषु प्रथमादिषु || इति || प्. ४५) नक्षत्रविषं यथा-तच्चतस्रो नाडिकाः | अत्र नारदः- त्रिंशच्च चत्त्वारिंशच्च मनुरुद्रश्च त्रिंशता | विंशश्च सद्वात्रिंशच त्रिंशद्विंशद्धृतिस्तथा || द्वाविंशद्विंशतीन्द्राश्च मनुदिक् मनवस्तथा | विंशतिश्च चतुर्विंश द्विंशद्दिक्पंक्तिरेव च || तथैव च पुराणानि राजानो रवियुक्तथा | त्रिंशत्पञ्चाशस्संख्यास्युः तज्जिनाः कृत्तिकादिषु || नाडीनां परतो ज्ञेयाश्चतस्त्रो नाड्य एव च | विषाख्याः शुभकार्याणां विषपानोपमास्सदा || विषनाढ्याख्य कालेषु यत्कृतं शोभनं स्वयम् | विनश्यतीति प्रोवाच ब्रह्मा देवगुरोर्गुरुः || इति || कालदीपेच- नीलं नैव घटः पटो नग नरः फालं नगं नाखुना- दीपं रुद्र नरो वयं घट नयं भूयान्नरो वारिणा | नारी नृत्य नृपा जटा क्षय विराट् नागो निशा वज्रमि- त्याग्नेयादिषु तानतीत्य परतो नाड्यश्चतस्त्रो विषम् || इति || वारविषं यथा-अत्रागस्त्यः- अर्कबारे विपानाड्यो विंशतेः परतश्चतुः | सोमवारे विपाख्याश्च चत्वारो वेदसंख्यया || प्. ४६) भौमवारे विषाख्याश्च द्वादश्या नाडिकाश्चतुः | बुधवारे गराख्याश्च दशनाड्याः परश्चतुः || तथैवेन्द्रगुरोर्वारे सप्तनाड्याः परं विषम् | भूतनाड्याः परं चैव चत्वारस्सितवासरे || पञ्चविंशत्परानाड्यश्चतस्रश्शनिवासरे | विषनाडीषु वाराणां शुभानि परिवर्जयेत् || इति || राशिविषन्तु घटिकार्धमात्रमेव- अजवृषभधनुः कन्यकाद्ये भृजंङ्गः तुलामिथुनघटसिंहमध्ये तु गृध्रः | झप मकर कुलीरे वृश्चिकान्ते वराहः || इति || अत्र भरद्वाजस्तु- मेषे च वृषभे चैव कन्यायां कार्मुके तथा | भागत्रयं विशेषेण चादिमे विषसंज्ञितम् || तुलामिथुनकुम्भेषु सिंहामध्मे विषं विदुः | झपे कुलीरे मकरे वृश्चिकान्ते विषं विदुः || इति || अथ कण्टकं-कण्टकाख्यदोषं-महाकण्टक यमकण्टकाख्यौ | महाकण्टकदोषो यथा-बृहस्पतिः- ऋक्षात्सौम्ययुतादष्टौ घृति जैने निशाकरे | महाकण्टकनामायां दोषत्रितयमाहितम् || इति || प्. ४७) चान्द्रीणा सहितादृक्षादष्टभं घृतिभं तथा | चतुर्विंशतिभं चैव महाकण्टक संज्ञितम् || महाकण्टकसंज्ञेषु दोषेषु शुभकर्म यत् | कृतं च नाशमायाति नचेच्चान्द्रिरनस्तगः || इति || यमकण्टकं यथा बृहस्पतिः- षड्दशैकादशा (ख्या) न्मन्दस्थाद्यमकण्टकम् || इति || ब्रह्मदण्डम्-ब्रह्मदण्डाख्यदोषं, उल्कापाताख्यदोपञ्च यथाह वृद्धगर्गः- यावदंशे स्थिते सूर्ये तावदंशे निशाकरे | वर्जयेस्सूर्यदोषे तु शेषकर्माणि कारयेत् || पूर्वाह्ने ब्रह्मदण्डस्स्यादपराह्ने तु मोधकम् | उल्कास्यादर्धरात्रे तु कम्पोऽहोरात्र पश्चिमे || कम्पोल्कमोघदण्डानां स्वरमास ऋतुर्नव | आदित्य घटिकास्तेषु व्यपनीयं हितं बुधैः || इति || विद्धकं-पापग्रहविद्धराशिं | ग्रहण-सोमसूर्योपरागौ | वेधनक्षत्रं-एतल्लक्षणं वृद्धभारद्वाजीये- दशराशिर्नवांशत्तु द्विगुणग्रहचारकान् | विशोव्य शेषमुद्भुततारकं ग्रहवेधकम् || इति || प्. ४८) बृहस्पतिनाप्युक्तम्- मकरे दशभागांश्च सर्वग्रहगतैस्त्यजेत् | शिष्टं तद्ग्रहवेधंस्यात्तद्ग्रहस्यर्क्षमादितः | शुभग्रहाणां वेधस्थनक्षत्रे कर्मनाशनम् | पापग्रहाणां वेधर्क्षे कर्म कर्तृ विनाशनम् | कालरात्रोर्कवेधस्स्यात् कुजवेधोस्तरात्रकः | बुधवेधो त्रिरात्रिस्स्याद् गुरुवेधोपरात्रिकः || शनिवेधोप्यरात्रिस्स्याद् राहुवेधो विषाह्वयः | केतुवेधो गरोरात्रिस्सर्वरात्रिं वदन्त्यसन् || इति || शूलम्- शूलाख्यदोषं महाशूलाख्यदोषं च | तदुक्तंबृहस्पतिना- प्राच्यास्सप्तकरेरवाश्चोदीच्यास्सप्तोपरि न्यसेत् | तदन्तेऽनलभाद्यं स्यात्तारायां वा गृहास्थिताः || तद्रेखाभिमुखी तारा महादोषवती तथा | महाशूलं च शूलं च पापसौम्यग्रहाह्वयोः || महाशूले कृतं कर्म कर्ता सह विनश्यति | शूले कर्मविनाशाय तेषु चन्द्रे यदि स्थिते || इति || भूमिकम्पध्वजाख्यौ दोषौ मृतभं-मृतनक्षत्रं | तद्यथा-नक्षत्रं त्रिविधं | पूर्णजीवार्धजीवमृतनक्षत्रभेदात् | प्. ४९) तदुक्तंज्योतिषे- आदित्यमुक्तस्थितगव्यतारा- स्तिस्त्रोमृतास्सप्त ततोर्धजीवाः | एका मृताऽथाष्टतु पूर्णजीवा- श्चैका मृता सप्त ततोर्धजीवाः || इति || एतेषामवयोगानां क्वचिद्दोषत्वमपि प्रतिपादितं ज्योतिषे | षडशीतिमुखादिदोषा अपि वर्ज्या इत्यजितागमे प्रतिपादितम् | यथा- षषडशीतिमुखाः पापास्तद्विद्धांशक एव च | लग्नगाः प्राणसन्देहं यजमानस्य कुर्वते || इति || षडशीतिमुखलक्षणं निश्वासकारिकायां- मिथुनं कन्यका चैव धनुर्मीनं तथैवच | षडशीतिमुखान्येवमपराः परिकीर्तिताः || इति || बृहस्पतिनाप्युक्तम्- रवौ चरस्थिरद्वन्द्वदेहेषु नवमांशके | षडशीतिमुखो नाम दोषो भवति मृत्युदः || इति || अजितागमे-उत्पातादि कालविशेषोऽपि निन्दित इत्युक्तं | यथा-उत्पाते दुर्दिने वाऽपि निर्घाते तापसे मृते | निन्दितं दिवसं प्रोक्तं मृते जनपदेश्वरे || एवमादिषु कालेषु न कुर्याल्लिङ्गसंस्थितिम् || इति || भीमसंहितायां- प्. ५०) पापग्रहसमायुक्त मुक्तं कांक्षितमन्धभम् | कण्टं स्थूणं व्यतीपातं विष्टिं काणं च सङ्क्रमम् || कण्टकं ब्रह्मदण्डं च चोल्कापातं च विद्धकम् | ग्रहणं वेधनक्षत्रं शूलं भूमेश्च कम्पनम् || ध्वजं चैव विशेषेण वर्जयेत्तु प्रयत्नतः | प्रतिष्ठां वर्जयेद्धीमान् भार्गवास्तमयोपि च || इति || दीप्ते च- पांसु लोहितवर्षेषु मेघानां स्तनितेषु च | उल्कापाते दिशां दाहे ग्रहणे चन्द्रसूर्ययोः || षडशीतिमुखे चैव स्थापनं न समाचरेत् || इति || एवमवयोगादीन् परित्यज्य शिवलिङ्गादिस्थापनोक्त षद्वर्ग दशवर्ग शुद्धप्रकारैरपि परीक्षा कर्तव्या | तथाचोक्तम्- सन्तानसंहितायां लिङ्गस्थापनपटले- आयं व्ययं च नक्षत्रं योनिवारांशकं सदा | तस्य लिङ्गस्य नक्षत्रे प्रतिष्ठा ऋक्ष संयुतम् || शुभेतु स्थापनं कुर्यादशुभे वर्जयेद्बुधः || इति || एतत् षड्वर्गलक्षणम् कामिके सम्यगुक्तम् | यथा- नागमन्द गुण नाग नन्द दृग्भानुनाडि वसुभं मुनिर्नव | आयमन्यतर योनि-ऋक्षकं वारमंशक गुणक्षयक्रमात् || इति || दशवर्गलक्षणं मानसारे शिल्पे- प्. ५१) आयं च व्ययकं वारं नक्षत्रं भानुमंशकम् | पक्षं च योनि राशिश्च वयश्च दशधा मतम् || वसु भानुस्तथा पञ्च नन्दनाडी व्ययं भवेत् | गुण नागं च योनिस्स्याद् वसुभं ऋक्षमेव च || नन्द सप्त च वारं स्याद् वेदनन्देन चांशकम् | नन्दवेदेन जातिःस्यान्नवत्रिंशत्तिथि भवेत् || वेदार्कैर्गणयेद्राशिं ऋक्षं शतहरे द्वये || इति || तत्रैव योन्यष्टकं प्रतिपादितम् | ध्वजो धूमश्च सिंहश्च श्वानश्च ऋषभः स्वरः | हस्ती काकश्च सर्वत्र विज्ञेयश्चाष्टयोनयः || इति || अंशकलक्षणं यथा- तस्करो भक्ति शक्तिश्च धन्यो नृपति षण्ढकौ | निर्भीतिरधनः प्रेक्ष्यस्त्वंशकानि नवैव तु || इति || अथ बालादि पञ्चक परीक्षाऽपि कर्तव्या | यथा- बालादि पञ्च संख्या च ह्यष्टवृध्या दिनैर्हरेत् | शेषन्तु पञ्च मात्राणि बालादिमरणान्तकम् || बालः कुमारो राजा च वृद्धश्च मारणं क्रमात् | शुभे शुभन्तु सर्वत्र त्वशुभे त्यशुभं विदुः || इति || एतञ्च षड्वर्ग दशवर्ग परीक्षणं प्रासादगोपुरादीनां विस्तारमादाय लिङ्गस्य त्वौन्नत्यमादाय कर्तव्म् | प्. ५२) तथाचोक्तमशुंमत्काश्यपे- अथ वक्ष्ये विशेषण चायादीनान्तु लक्षणम् | हर्म्य विस्तार हस्तन्तु गुणस्य वसुभिर्भजेत् || इत्यादि || किञ्च, लिङ्गपरीक्षणं पञ्चसूत्रैरपि कर्तव्यम् | तद्यथा- लिङ्गनाहसमपीठविस्तरं विस्तृतार्ध समगोमुखान्तरम् | विस्तृतस्य शरवेदतुङ्गकं विस्तृतार्धसमकण्ठनाहकम् || इति || विस्तृतार्थसमकण्ठनाहकमित्यत्र-विस्तृतं च तत् अर्धसमञ्च तावत्प्रमाणम् कण्ठनाममित्यर्थः || एवमवयोगादिकं लक्षणञ्च परीक्ष्य प्रतिष्ठामुहूर्तंतावदाह || मूलम्- वेधाः पौष्णादिसि शशिशिवे तिष्यमित्राश्विविष्णु स्वाती हस्तोत्तरयुतदिने शैवलिङ्गप्रतिष्ठा | त्यक्त्वा चापं चरभमपि तत्सौम्यगुर्विन्दुकाव्य- द्रेक्काणेक्षोदयविधियुता स्वंशहोरासु कार्या || ११ || वेध-इति-वेधाः-रोहिणी | पौष्णाः-रेवती | अदितिः-पुनर्वसुः | शशी- मृगशिराः | शिव-आद्री | तिष्यः-पुष्यः | मित्रं-अनुराधा | अश्वि-अश्विनी | विष्णुः-श्रवणम् | स्वाती-प्रसिद्धा | हस्तः-सावित्रः | उत्तरा- उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः | एतेषु चतुर्दश नक्षत्रेषु शिवलिङ्गप्रतिष्ठा कार्या | तथाचोक्तामजितागमे- प्राजापत्यैन्दवे तिष्यरुद्रस्वाती पुनर्वसुः | अश्विनी रेवती हस्तश्चोत्तरत्रितयं तथा || मैत्र वैष्णव संयुक्तं नक्षत्रं शुभदं स्मृतम् || इति || ब्राह्मीय शिवागमे- रीहिणी रेवती तिप्य मैत्रादित्यमधास्तथा | उत्तराश्चाश्वयुक्सौम्यं श्रेष्ठाश्च दिवसास्तथा || वायुहस्तहरीशाश्च मध्यमा इति कीर्तिताः | शेषांस्तु वर्जयेद्विद्वान्विशेषात्स्थापनक्रमे || इति || स्वायंभुवे- प्राजापत्याश्वयुक्सौम्य तिष्यपौष्णोत्तरास्त्रयः | मैत्रादित्यमघास्याती हस्तार्द्राश्श्रवणाश्शुभाः || इति || दीप्तेतु- प्राजापत्यं च सौम्यं च शैवमादित्यमित्रकम् | पौष्णो बृहस्पतिश्चैव चित्रभं वैष्णवं तथा || नैर्-ऋताश्वी च वायव्यं पैतृकं चोत्तरत्रयम् | एषु नक्षत्र योगेषु प्रतिष्ठान्तु समाचरेत् || इति || प्. ५४) ब्राह्मीय स्वायम्भुवयोः पञ्चदशनक्षत्राणि | दीप्तेतु- षोडशनक्षत्राणि, चिन्त्यागमेतु- तिप्यादित्येन्दु पष्णार्क विधिवातोत्तर त्रयाः | श्रेष्ठामध्यावसौ मित्रश्रवणे मूलभेऽपि च || इति || सन्तानसंहितायां- पुनर्वसुश्च पुष्यश्च मृगशीर्षं च रोहिणी | उत्तरत्रयमेवोक्तं प्रतिष्ठायां विशेषतः | वैष्णवे रौद्रवेधोऽपि वायव्येच्चाऽथ मैत्रभे | सिद्धयोगे प्रतिष्ठां च आचरेतु विशेषतः || इति || वर्ज्य नक्षत्राणि कामिके- यमाश्लेषाग्निशूर्पाणि श्रविष्ठाञ्चैव वारुणम् | ज्येष्ठाञ्च त्रोणि पूर्वाणि वर्जयेत्स्थापनादिके || इति || कारणे- यमाग्ने शूर्पाणि श्रविष्ठा सार्प वारुणम् | ज्येष्ठाञ्च त्रीणि पूर्वाणि नैर्-ऋतं चैव वर्जयेत् || भीमसंहितायाम्- यमाश्लेषाग्निशूर्पाणि श्राविष्ठाचैव वारुणम् | ज्येष्ठां च त्रीणि पूर्वाणि वर्जयेत्तु विशेषतः || शेषाणि तिथियोगानि शस्ता स्थापनकर्मणि || इति || प्. ५५) ज्योतिषे सुप्रभेदग्रन्थे- भौजङ्गेन्द्रमथाप्यवारुणवसुं भाग्यं भमिन्द्राग्निभं- पूर्वप्रोष्ठपदं च वारुणयुतं त्वाग्नेय याम्ये उभे | मूलं त्वाष्ट्रमवद्य-ऋक्षनिकरं मध्यान्य मित्राणि वै स्वाती च श्रवणं च हस्त सहितं शिष्टं प्रतिष्ठोत्तम || इति || अथ द्वादशनक्षत्राणि निषिद्धानि | चत्वारि मध्यानि | एकादशोत्तमानि | तथा च विधिरत्ने- त्रीण्युत्तराण्यश्वपतिश्च मैत्रं- मघा च तिष्यं मृगशीर्षभं च | पूषादितिब्राह्म्यमतिप्रशस्तं- रौद्रानिलार्कश्श्रवणास्समास्युः || अथ वर्ज्य लग्नमुखेन लग्नविधिमाह, त्यक्त्वाचापंचरभमपि इति | ररभं-मेषकर्कटतुलामकरराशीन्, चापमपि- धनुरपि, त्यक्त्वा-वर्जयित्वा, अन्ये राशयो ग्राह्याः | तथाचोक्तं कामिके- राशयश्च चरावर्ज्याश्शेषं पूर्ववदीरितम् || इति || कारणे- राशिष्वपि धनुश्चैव चत्यारश्चरराशयः | अप्रशस्ता इति ख्याताश्शेषास्तु शुभदा मताः || इति || प्. ५६) अजिते च- चरणि वर्जयेद्भानि धनुश्चाशुभदं मतम् || इति | दीप्ते- मेषं कर्कटकं तौल्यं मकरं च विवर्जयेत् | शेषेषु स्थापयेल्लिंगं धनूराशिं च वर्जयेत् || इति || सन्तानसंहितायाम्- स्थिरराशौ तु कर्तव्यमुभराशौ तथैव च || इति || अथ शुभग्रहाणां द्रेक्काणेक्षण होरादयो ग्राह्या इत्याह | सौम्येत्यादि, सौम्यः-बुधः, गुरुः-बृहस्पतिः, इन्दुः-चन्द्रः, काव्यः- शुक्रः, एतेषां द्रेक्काणेक्षणोदयं होरांशकाः-चन्द्रोदयं बिना ग्राह्याः | तथाचोक्तं कारणे- शुभानां होरकांशाश्च द्रेक्काणादर्शनं शुभम् | शुभानामुदयश्शस्तस्तत्र शन्युदयं विना || इति || अजिते- द्रेक्काणांशकहोराश्च दर्शनं शुभदं सदा | विनासोमोदयं तेषु देवस्थापन कर्मणि || भीमसंहितायाम्- शुभानां होरकांशाश्च द्रेक्काणादर्शनं शुभम् | प्. ५७) बुधचन्द्रसिताचार्यवारेषु स्वोदयांशकाः || इति || दीप्ते- गुरुभार्गवसुम्यानां वारास्सर्वत्र शोभनाः | एषां द्रेक्काणहोराश्च ह्यंशकं दर्शनं शुभम् || एषामेवोदयश्शस्तो वर्ज्यस्सोमोदयस्तथा | भानुमन्दार सोमाऽस्च त्रिषष्ठायगाश्शुभाः || सर्वे ग्रहा विवर्ज्यास्स्यु रष्टमस्था विशेषतः | षट्सप्तदशमं हित्वा शुक्रश्चान्यत्र शोभनः || इति || अजिते- पापास्त्वष्टमराशिस्थाश्शुभाश्चैव विनिन्दिताः | षट्सप्त दशमस्थोऽपि शुक्रो वर्ज्य उदाहृतः || द्वितीयपञ्चमौ हित्वा चन्द्रः शेषेषु शोभनः | सप्तद्विपञ्च नवमं हित्वान्यत्र तथा गुरु || सोऽपि लग्नगतः कुर्याच्छुक्रश्च शुभसम्पदम् || इति || इतःपरं कालविशेषप्रदर्शनाय वचनान्तरमुदाह्रियते | चिन्त्ये- क्रियानक्रालिझपके मिथुने वार्क सङ्गते | शशाङ्कप्रबले फाले सिताचार्यप्रकाशने || नृपकर्त्रोश्च जन्मर्क्षादनुकूलदिनेषु च || इति || प्. ५८) कामिके कालविधानपटले च- शुभकर्म न कर्तव्यं जीवेचास्तङ्गते बुधैः | शुक्रस्यास्तमयेचापि प्रतिष्ठाद्यं न कारयेत् || कामिके विशेष उक्तः- पूर्वाह्ने चै मध्याह्ने लग्ने ग्रहबलान्विते | सायाह्ने नैव फर्तव्य प्रतिष्ठाकर्षणादिकम् || दिवा वा देवकर्माणि रात्रौ वा कारयेत्सुधीः || - - - - - - - - - - - - - - - - - - - - चाह्नावपिसमाचरेत् || अधमापूर्वरात्रिस्तु यध्यमा मध्यमा स्मृता | अपरा ह्युत्तमा ज्ञेया प्रतिष्ठादिषु कर्मसु || मकुटे- दिवा सायं पूर्वरात्र्यां प्रतिष्ठादि न कारयेत् | रात्रौ वापि प्रकर्तव्यं दिवालग्नबलक्षये || एवं विचार्य यत्नेन स्थापनीया विचक्षणैः || इति || अजिते कालविशेष उक्तः | सावकाशे विमाने तु द्वारबन्धविधेः पुरा | मूर्धेष्टकाविधेर्वापि स्थापनं स्यान्निजेच्छया || बाणलिङ्गं तदुद्भूतमन्यद्रत्नादिकं च यत् | तत्सर्वं धाम्निनिष्पन्ने स्थापनीयं विचक्षणैः || इति || प्. ५९) अथ चललिङ्गप्रतिष्ठामाह- मूलम्- सावित्रादित्य चन्द्रोत्तर पवन सुराचार्य वैधातृ पौष्णे- ष्वृक्षेषु द्विस्वभावस्थिरतरभवनेष्.वष्टमे धाम्नि शुद्धे | मुक्तामाणिक्यनीलादि मणिविरचितं बाणधातूत्थलिङ्गं- सृष्टिस्थित्यन्तमूर्तीरपि विमलधियो देशिका स्थापयेयुः || १२ || इति || सावित्र-इति-सावित्रः-हस्तः, आदित्यः-पुनर्वसुः, चन्द्रः-मृगशिराः, उत्तराः-उत्तरफल्गुन्युत्तरा षाढोत्तरप्रोष्ठपदास्तिस्रः, पवनः-स्वाती, सुराचार्यः-पुष्यः, वैधातृ-रोहिणी, पौष्णः-रेवती, एतेषु दशसु नक्षत्रेषु, दिस्वभावस्थिरतरभवनेषु-उभयस्थिरराशिषु | अष्टमे-धाम्निशुद्धे- अष्टमस्थाने ग्रहवर्जिते सति, चललिङ्गप्रतिष्ठां कुर्युः || तथाचोक्तं वीरतन्त्रे चललिङ्गप्रतिष्ठापटले- रीहिणी च पुनर्वस्वः पुष्यो मृगशिरास्तथा | हस्तश्च रेवती चैव स्वाती चैव त्रिरुत्तराः || स्थिरराशिषु कर्तव्यमुभराशिष्वथापि वा || इति || अथ चललिङ्गान्येवाह-मुक्तामणिक्यनीलादिमणि-विरचितं- मौक्तिकादिरत्नविशेषैर्विनिर्मितं, बाणधातूत्थलिङ्गं बाणलिङ्गं हिरण्यादि धातुभिर्विरचितञ्च || तदुक्तं वीरतन्त्रे- प्. ६०) स्फटिकं मरकतं चैव माणिक्कं (क्यं) पद्मरागकम् | मौक्तिकं च तथा नीलं वैडूर्यञ्च प्रवालकम् || इन्द्रनीलं पुष्यरागं वज्रं चैव तु कारयेत् || इति || बाणलिङ्गादि लक्षणन्तु वातुले- कार्मुकन्तु परित्यज्य मृगे रविगते दिने | गङ्गायमुनयोर्योगे न्यसेद्बाणन्तु मध्यमे || उद्धृतोपलकं तत्र बाणलिङ्गमिहोच्यते | सौवर्णं राजतं ताम्रं कांस्यञ्चैवारकूटकम् || आयसं सीसकं चैव त्रपुजं धातुजं भवेत् || इति || एतेषां फलमपि तत्रैव- बाणजं मोक्षदं विद्यात्पूजयेत्तु विशेषतः | माणिक्कं (क्यं) श्रीप्रदं विद्यात्प्रवालं जयकारणम् || आकर्षणे तु वैडूर्यं स्फाटिकं पुत्रसिद्धिदम् | विद्वेषणं मरकतं स्तम्भनं पुष्परागजम् | ताम्रं पुत्रसमृध्यर्थं कांस्यं विद्वेषकारणम् | आरकूटं पाटवं च आयसं क्षयकारणम् || सीसजं रोगकरणं त्रपुरायुर्विवर्धनम् || इति || सृष्टिस्थित्यन्तमूर्तीरपि- सृष्टिस्थितिसंहारमूर्तीनां स्वरूपं वीरतन्त्रे सृष्टिमूर्तिस्थापन पटले- प्. ६१) उमास्कन्दयुतश्चैव सुखासीनस्तथैव च | कल्याणसुन्दरश्चैव चन्द्रशेखर एव च || गङ्गाधरश्च पञ्चैते सृष्टिरूपमिहोच्यते | वृषवाहनमूर्तिश्च अर्धनारीश्वरस्तथा || किरातश्चैव वीरेशो भिक्षाटनस्तथैव च | एतास्तु मूर्तयः पञ्च स्थितिमूर्तिरुदाहृताः || नृत्तेशश्चैव कामरिः कालदाहस्तथैव च | गजघ्नस्त्रिपुरघ्नश्च जलन्धरहरस्तथा || षट्कं संहारमूर्तीनां स्थापनं त्विहचोच्यते || इति || एतेषां प्रतिष्ठापटलेष्वपि एतान्येव नक्षत्रलग्नान्यस्मिन्नेव तन्त्रे तत्र तत्र कथितानि | वातुले स्वार्थ पारार्थलिङ्गयोः प्रमाणमुक्तम्- द्व्यङ्गुलादिक भूतान्तमात्मार्थे सा प्रपूजयेत् | भूताङ्गुलात्तदूर्ध्वे तु परार्थं तत्प्रकीर्तितम् || इति || अथ विघ्नेशप्रतिष्ठाकालमाह- मूलम्- प्राजापत्यादित्यहस्तोत्तरेषु पुष्यस्वातीरेवतीषु प्रतिष्ठाम् | विघ्नेशस्य त्वष्टमे धाम्नि शुद्धे- कुर्याद्राशीन् वर्जयित्वा चराख्यान् || १३ || प्. ६२) प्राजापत्येति | प्राजापत्यः-रोहिणी | आदित्यः-पुनर्वसुः | हस्तः-प्रसिद्धः | उत्तराः-उत्तरफल्गुन्युत्तरा-षाढोत्तरप्रोष्ठपदास्तिस्रः | पुष्यस्वातीरेवत्यः प्रसिद्धाः | एतेषु नवसु नक्षत्रेषु, अष्टमे धाम्नि शुद्धे-अष्टमाराशौ सर्वग्रहवर्जिते सति, चराख्यान्-राशीन् वर्जयित्वा, स्थिरोभय राशिषु विघ्नेशस्य प्रतिष्ठां कुर्यात् | तथाचोक्तं वीरतन्त्रे विघ्नेशस्थापनपटले- रोहिण्यादित्यपुष्याश्च हस्तपौष्णोत्तरत्रयम् | स्वाती च स्थापने प्रोक्ता प्रतिष्ठा-ऋक्षमेव च || स्थिरराशिषु कर्तव्यमुभराशिष्वथापि वा | अष्टमस्था ग्रहास्सर्वे नेष्टा वै स्थापनेषु च || इति || अथ सुब्रह्मण्यप्रतिष्ठाकालमाह- मूलम्- ज्येष्ठा त्रिपूर्व यम नैर्-ऋत सार्प रौद्र- मेन्द्राग्नि वारुणमथो वसुभाग्निभं च | त्यक्त्वा धनुश्चरभ मंन्धमुखांश्च दोषान्- कुर्याच्छुभांशकमुखेषु गुहप्रतिष्ठाम् || १४ || ज्येष्ठेति- तत्र वर्ज्यमुखेन नक्षत्रराश्यादीनाह | ज्येष्ठा-ऐन्द्रं, त्रिपूर्वाः-पूर्वफलगुनी पूर्वाषाढ पूर्वप्रोष्ठपदास्त्रिस्रः, यमः- भरणी, नैर्-ऋतं-मूलं, सार्प-आश्लेषा, रौद्रं-आर्द्रा, ऐन्द्राग्निः- विशाखा, वारुणं-शतभिषक्, वसुभं-श्रविष्ठा, अग्निभं-कृत्तीका, एतानि द्वादशनक्षत्राणि विहाय धनुः चरभश्च | अन्धमुखान् दोषांश्च- अन्धनक्षत्र प्रमुखायन मास तिथ्यादिगत दोषांश्च विहाय, शुभांश कमुखेषु- शुभानां गुरुशुक्रवुधचंद्राणामंशकमुखेषु अंशकादिषु, आदिशब्देन द्रेक्काण होरा दर्शन वारेषु गुहप्रतिष्ठां कुर्यात् || तथाचोक्तं कुमारतन्त्रे- उत्तरायणकालेस्यान्न कुर्याद्दक्षिणायने | शुक्लपक्षेऽपि रिक्ताश्च प्रतिपञ्चाष्टमी तिथि || पञ्चदश्याशुभा ज्ञेया गुर्विन्दुज्ञ सिताश्शुभाः | अशुभा रविसौराराश्शुभयोगे शुभप्रदाः || ज्येष्ठा त्रिपूर्व नैर्-ऋत्य यमाश्लेषाग्नि वारुणम् | श्रविष्ठार्द्रा विशाखाश्च नेष्टा स्थापनकर्मणि || चरराश्यश्चतस्रश्च धनुर्नेष्टास्तु राशिषु | शुभग्रहाणां होरांशद्रेक्काणादर्शनं शुभम् || पापग्रहसमायुक्तं मुक्तं काङ्क्षितमन्धकम् | कण्ट स्थूणं व्यतीपातं विष्टं काणं च सङ्क्रम् || प्. ६४) कण्टकं ब्रह्मदण्डं च विद्धमुत्पातकं तथा | ग्रहणं वेधनक्षत्रं शूलर्क्षं भूमिकम्पकम् || ध्वजं चैव विशेषण वर्जयेत्तु प्रयत्नतः | गुरुशुक्रास्तमनयोः प्रतिष्ठां वर्जयेत्सदा || इति || प्रतिष्ठास्थापनविशेषोपि सुब्रह्मण्यस्य तत्रैव प्रतिपादितः | शिखरे पर्वते वापि पर्वतस्यान्तिकेपि वा | नदीतीरेप्युपवने पुण्यक्षेत्रे चतुष्पथे || ग्रामे च नगरे चैव पत्तने खेटकेपि वा | राजधान्यां वीथिमध्ये वीथ्यग्रे सर्वदिक्षु च || पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यमुदङ्मुखम् || परिवारामरैर्युक्तं स्थापये च्छरसम्भवम् || इति || इत्यचलवेर प्रयिष्ठामुक्त्वा चलबेरप्रतिष्ठायां मासविधौ विशेष उक्तः- चलवेरे प्रतिष्ठां च वक्ष्येऽहं शृणु कौशिक | भुक्तिमुक्तिप्रदं नॄणां सर्वकामार्थसाधनम् || बालवृद्धिकरं सर्वशत्रिक्षयकरं शुभम् | सर्वकामदमन्यत्किं कुमारस्थापनादृते || मृगादिमासषट्के तु विकुम्भेषु शुभावहम् | अयनेचोत्तरे श्रेष्ठं दक्षिणेस्यात्त्वरान्विते || प्. ६५) मार्गशीर्षकमाघौ द्वौ वर्जयेत्तु प्रयत्नतः | जीवदृष्टियुते कुम्भे चलस्थापनमुत्तमम् || प्रशस्तपक्षनक्षत्रे स्थापनं सम्यगाचरेत् || इति || अथ गौरीप्रतिष्ठाकालमाह- मूलम्- हस्तेन्दु वेधोऽदितिमारुतर्क्ष- त्वाष्ट्रामरार्योत्तरपौष्णभेषु | शुद्धेष्टमे च स्थिरलप्रयोगे- गौरीप्रतिष्ठां प्रवदन्ति सन्तः || १५ || हस्त इति | हस्तः-सावित्रः, इन्दुः-मृगशिराः, वेधः-रोहिणी, अदितिः- पुनर्वसुः, मारुतर्क्षं-स्वाती, त्वाष्ट्रं-चित्रा, अमरार्यः-पुष्यः, उत्तराः- उत्तर फल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः, षोष्णभं-रेवती, एतेषु एकादशनक्षत्रेषु, शुद्धेष्टमे-अष्टमशुद्धौ सत्यां, स्थिरलग्नयोगे- स्थिरलग्नेषु, गौरीप्रतिष्ठां, सन्तः-आगमविदः प्रवदन्ति || तथाचोक्तं वीरतन्त्रे गौरीप्रतिष्ठापटले- रोहिणी च पुनर्वस्वः पुष्यो मृगशिरास्तथा | हस्तश्च रेवती चैव स्वाती चैत्रोत्तरत्रयम् || स्थिराशौ च कर्तव्यमष्टमे ग्रहवर्जिते || इति || प्. ६६) अथ प्रसङ्गादितरदेवतानां च प्रतिष्ठाकालस्तत्र तत्र ज्योतिश्शास्त्रे उक्तः सङ्गृह्य प्रदर्श्यते | भृगुप्रोक्त श्रोशास्त्रे विष्णुप्रतिष्ठायाः- श्रवणं वारुणं हस्तं रेवती च पुनर्वसुः | उत्तरत्रयरोहिण्यस्सङ्ग्राह्याश्च विशेषतः | पूर्वात्रयं तथार्द्रा च मघा मूलन्तु कृत्तिका | ज्येष्टाश्लेषा च वर्ज्येत मन्दाङ्गारौ विवर्जितौ इति || इति || श्रीपतिः- रोहिण्युत्तरपौष्णवकरादिस्याश्विनी वासवा- नूराधैन्दवजीवमेषु कथितं विष्णोः प्रतिष्ठापनम् || इति || रत्नकोशोऽप्युक्तम्- रोहिण्यां त्रिषुचोत्तरेषु विमले विष्णुं प्रतिष्ठापयेत्- ब्रह्माणं च महेश्वरं च विधिवत्पुष्यादिभिर्वैष्णवे | हस्तेचापि निवेशयेद्दिनकरं मैत्रेप्युमायास्सुतं- मूले मातृगणं च सर्वभगिनीमार्याञ्च देवीं शुभाम् || रक्षोभूतगणं तथा च भुजगान् सर्वान् प्रतिष्ठापये- न्मैत्रेवापि निवेशयेद्धनपतिं श्री श्रीपतिं नित्यशः | रोहिण्यान्ति सरस्वतीं बहुगुणां रौद्रीं गणान्नन्दिनं- कुर्याद्वा विनिवेशनन्तु विधिवद्विष्णोर्यथोक्तस्थितैः || प्. ६७) आलेख्यंच पितॄन्मखासु विधिवत्पुष्ये ग्रहान् स्थापये- दाग्नेये ज्वरकं तथा हुयवहं चन्द्रोदये ज्ञस्य वै || इति || नृसिंहस्तु नक्षत्रक्रमेण प्रतिष्ठाविधिमुक्तवान् | तद्यथा- विष्णुविघ्नेशरुद्रार्क मातृणां ब्रह्मणस्तथा | नासत्ययोश्च दुर्गायाः प्रतिष्ठा वाजिभे सदा || यमस्यतु प्रतिष्ठायां भरणी चोदिता बुधैः | कुजाग्नि दुर्गास्कन्दानां प्रतिष्ठा शोभनानले || कमातृभूतविष्णूनां यक्षाणां रक्षसामपि | गन्धर्वाणां पिशाचानां किन्नराणां तथैव च || प्रतिष्ठा सुगतस्यापि रोहिण्यां सुशुभा मता | भूतेन्दु मातृविघ्नार्क यक्षगन्धर्व रक्षसाम् || ब्रह्मरुद्रपिशाचानां किन्नराणां विधोस्तथा | दुर्गायाश्च प्रतिष्ठायामैन्दवं शुभदं भवेत् || विघ्नरुद्राग्निदुगार्क मातृणामार्यया सह | प्रतिष्ठारुद्रदैवत्ये सुशुभा स्मर्यते बुधैः || भूत शङ्कर गन्धर्व यक्ष किन्नर रक्षसाम् | किन्नराणां पितॄणाच प्रतिष्ठामस्वभे शुभा || प्. ६८) पूर्वफल्गुनि नक्षत्रे पिशाचानां भगस्ततु | मातृविघ्नार्यमार्काणां ब्रह्मणश्रियः | रौद्राणां च प्रतिष्ठास्यात् सावित्रर्क्षे शुभावहा || ज्येष्ठाविघ्नेशरुद्रार्कमातॄणां विश्वकर्मणः | दुर्गायाश्च ततोग्राणां रौद्राणां त्वाष्ट्रभे शुभा || भूतमातृ मरुद्वायु यक्षकिन्नर रक्षसाम् | रुद्रस्य लोकपालानां गन्धर्वाणां तथैव च || पिशाचानां प्रतिष्ठापि वायव्यर्क्षे शुभावहा | अग्नीन्द्रमातृस्कन्दानां ज्येष्ठा गन्धर्व रक्षसाम् || किन्नराणां पिशाचानामैन्द्राग्ने शुभदा मता | रुद्रमातृपिशाचानां यक्षकिन्नरयोस्तथा || मित्रस्य शुभदा प्रोक्ता प्रतिष्ठा मित्रभे बुधैः | मातृ विघ्नेन्द्र भूतानां ज्येष्ठा गन्धर्वरक्षसाम् || पिशाच किन्नराणां च यक्षाणामिन्द्रभे शुभा | भूतगन्धर्वमातॄणां नागकिन्नर रक्षसाम् || सिद्धनै-ऋत यक्षाणां पिशाचानां च मूलभे | जलस्य च पिशाचासां पूर्वाषाढा शुभावहा || रुद्रमातृगणेशानां दुर्गाया ब्रह्मणो रवेः | श्री बुद्ध विश्वविष्णूनामुत्तराषाढभे शुभा || प्. ६९) त्रिमूर्ति सुगतार्काणां मातृगन्धर्वरक्षसाम् | भूतकिन्नरविघ्नानां रुद्राणांच श्रियस्तथा || दुर्गा पिशाच यक्षणामुग्राणां हरिभे शुभा | दुर्गामातृगणेशार्क रौद्राणां ब्रह्मणःश्रियः || विष्णोर्वसोस्तथा श्रेष्ठा घनिष्ठायां विशेषतः | रुद्रार्कमातृविष्णूनां भूतगन्धर्वरक्षसाम् || पिशाच यक्षविघ्नानां ब्रह्मणो वारुणं शुभम् | रौद्राणां सर्व देवानां दुर्गायास्तु विशेषतः | अजैकपात्पिशाचानां पूर्वप्रोष्ठपदे शुभा | दुर्गामातृगणेशार्क रुद्राणां ब्रह्मणः श्रियः || अहिर्वुध्न्यस्य विष्णोश्च शुभाहिर्बुध्न्यभे सदा | विष्णुविघ्नेशमातॄणां दुर्गाया ब्रह्मणस्तथा || रुद्राणां च सरस्वत्याः पौष्णभे तत्पतेश्शुभा || इति || अथ सामान्येन प्रतिष्ठातिथिविषये वसिष्ठेनोक्तम्- ओजाश्च तिथयश्शस्ताः प्रशस्ता नवमीं विना | युग्मेषु दशमी षष्ठी द्वितीयास्सम्प्रपूजिताः || इति || बृहस्पतिना वर्णक्रमेण विशेष उक्तः- पूर्वपक्षश्शुभःप्रोक्तः कृष्णपक्षो विगर्हितः | कृष्णे तु पञ्चमीं यावद्दशमीं वापि पूज्यते || प्. ७०) तेषु त्रिधाकृतांशेषु पूर्वांशौ शोभनावुभौ | ब्राह्मणानां द्वितीयाच तृतीयाचापि शोभना || क्षत्रियाणां तु पञ्चम्यां सप्तमी शोभनप्रदा | वैश्यानां दशमीप्रोक्ता शूद्राणां च त्रयोदशी || इति || वसिष्ठश्च- शुक्लगा प्रथमा शस्ता द्वादश्येकादशी तथा | षष्टीच ब्राह्मणादीनां क्रमेण यदिसङ्कटे || द्वितीयाच तृतीयाच पञ्चमी सप्तमी तथा | त्रयोदशीच सर्वेषां शुभदा शोभने विधौ || इति || नृसिंहस्तु- चतुर्दशी चतुर्थी च विघ्नेशस्य शुभप्रदा | दुर्गाया नवमी श्रेष्ठा विष्णोश्श्रेष्ठा च पूर्णिमा || इति || बृहस्पतिः- शकुनादीनि विष्टिं च वर्जयेत्करणानि तु | ववाद्द्विकं द्विजातीनां क्षत्रियाणां ततो द्विकम् || वैश्यानां गरजं प्रोक्तं शूद्राणान्तु वणिक् स्मृतम् | शुभयोगे शुभं प्रोक्तं त्वशुभेतु विनाशदम् || इति || अथेत्थं प्रतिष्ठाभागमभिधाय प्रतिष्ठानन्तरं क्रियमाण नित्य- नैमित्तिक काम्यकर्णां नित्यकर्मपूर्वकत्वात् नित्यकर्मकालमाह- प्. ७१) मूलम्- प्रातःकालात्प्रथमघटिकापञ्चके ब्राह्मसंज्ञे- हित्वा निद्रां विमलहृदयो ध्यातदेवाङ्घ्रिपद्मः | कृत्वाशौचं दशनवदनक्षालनं स्नानसन्ध्ये- लोकक्षेमङ्करमथरवं कारयेत्पञ्च वाद्यैः || प्रातःकालादिति- प्रातःकालात्-प्रातःकालापेक्षया ब्राह्मसंज्ञे- ब्राह्ममुहूर्ताभिधाने प्रथमघटिकापञ्चके तथा च सूक्ष्मे काललक्षणपूर्वकं ब्राह्ममुहूर्तलक्षणमुक्तम् | तथा- अर्कोदयात्समरभ्य चाभूतद्वयनाडिकाम् | पूर्वाह्न इति विज्ञेयं मध्याह्नं च ततः शृणु || प्रातःकालान्तमारभ्य यावत्तत्पङ्क्तिनाडिकाम् | मध्याह्न इति विज्ञेयं अपराह्नमथ शृणु || मध्याह्नान्तं समारभ्य यावत्तु दशनाडिकाः | सायङ्काल इति प्रोक्तः प्रदोषोप्यथ वक्ष्यते || अस्तमयं समारभ्य सार्धेन सप्तनाडिकाः | प्रदोप इति विख्यातस्त्रिपादेन त्रिनाडिकाः || अर्धयामेति च प्रोक्तोह्याभूतद्वयनाडिकाम् | मध्यरात्र इति प्रोक्तो त्रिपादेन त्रिनाडिकाः || प्. ७२) रात्र्यन्त इति च प्रोक्तो यावदाभूतनाडिकम् | प्रातःकाल इति प्रोक्तो ज्ञात्वा कर्म समाचरेत् || ब्राह्मं तत्कालनामपि पूजोपकरणानि च || इत्यादि || तथा च अघोरशिवाचार्यवर्यैः क्रियाक्रमद्योतिकायामुक्तम्- अथ प्रातःसमयात्पूर्वं पञ्चनाडिकावच्छेदे समुत्थाय || इति || निद्रां हित्वा | निद्राजाड्यं विहाय विमलहृदयःनिर्मलचित्तो भूत्वा ध्यातदेवाङ्घ्रिपद्मः-विमलतरान्तःकरण विचिन्तित श्रीपरमेश्वर पादारविन्दः, देशिक इति शेषः | सुप्रभेदे विशेष उक्तः- त्रिपादेन त्रिघटिका रात्र्यन्ते तु दिनेदिने | ब्राह्मं मुहूर्तमाख्यातं सङ्घोषस्त्विति कथ्यते || ब्राह्मे मुहूर्ते विद्वान्वै मनसा चिन्तयेच्छिवम् || इति || शौचम्-दशन वदनक्षालनं | दन्तधावन गण्डूपाद्यं स्नानसन्ध्ये-वारुणाद्यष्टविधस्नानमध्ये द्वयं त्रयं यथा सम्भवं वा सन्ध्या च-वैदिक शैवरूप सन्ध्याद्वयं च कामिकाद्यागमोक्त प्रकारेण कृत्वा | अत्रोक्तं ज्ञानरत्नावल्याम्- उत्तमा दृष्टनक्षत्रा मध्यमा लुप्ततारका | अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा स्मृता || इति || प्. ७३) अथ लोकक्षेमङ्करं-जगन्मङ्गलावहं | पञ्चवाद्यै रवं कारयेत् | तदुक्तं कामिके- अरुणोदयाच्च पूर्वेतु कालेन प्रहरार्धतः | कुर्यात्पञ्चमहाशब्दं सर्वप्राणितमोपहम् || वातुलागमे- अरुणोदयपूर्वे तु त्रिपादेन त्रिनाडिका | कुर्यात्पञ्चमहाशब्दं तदाऽशुभनिवृत्तये || काण्डं चार्मं च कांस्यं च न्यक् धृक् सुषिरकं तथा | एतत्पञ्चमहाशब्दं शिवाय विनिवेदयेत् || महाभूतविकारांशश्शब्दः पञ्चविधः स्मृतः | दारुजं पृथिवीजातं तच्छङ्खं चाप्यमुच्यते || अग्नेयं लोहजं जातं वायुजातं च वंशकम् | गेयं गगनजातंस्यात्तस्माद्भूत विकारकम् || दारुजं चैव शङ्खं च लोहं सुषिरमेव च | गेयं सर्वसमायुक्तं शब्दः पञ्चविधःस्मृतः || इति || इत्थं कृतसन्ध्यावन्दनादिक्रियो गुरुः पूजामारभेत || ततः पूजाकालं तावदाह- प्. ७४) मूलम्- उच्छवासासिक्रमादप्युपहित समयोऽसावहोरात्रसंज्ञ- स्तस्तेमे सन्धयोष्टौ शिवमतकथितास्तेषु सर्वेषु पूजा | ख्याता श्रेष्ठोत्तमाधःक्रिमितनवविधा पञ्चधा वापि शम्भोः नित्या नैमित्तिका तत्समयविरचिता स्वेच्छयाकाम्यपूआ || उच्छवासादिक्रमादिति | उच्छवासादिक्रमात्-उच्छवासप्राणादिक्रमेण उपहितसमयः-उपाधियुक्तकालः | वस्तुतः कालस्यैकत्वेनापरिच्छिन्नत्वादुच्छवासप्राणाद्युपाधिभेदयुक्तः क्रमेणाहोरात्र संज्ञोयं समयः | तथाचोक्तं कामिके- षष्ट्युच्छवासा भवेत्प्राणः षट्प्राणा घटिका भवेत् | घटिकाष्षष्ट्यहोरात्रमष्टसन्ध्यं तदुच्यते || इति || तस्य अहोरात्रसंज्ञस्य कालस्य सन्धयः-अष्टौ-अष्ट सङ्ख्या यामापरपर्यायाः | तदप्युक्तं कामिके- भास्करोदयमारभ्य यावद्वै भास्करोदयः | सप्तार्धघटिकामानो यामोऽयं सन्धिरुच्यते || इति || तेषु सर्वेषु पूजा श्रेष्ठोत्तमा-उत्तमोत्तमा इत्यर्थः | सा पुनः पूजा अधःक्रमिता-अधःक्रमयुता | नवविधा च-अष्टसप्तषट्पञ्च चतुस्त्रिद्व्येकार्ध सन्धिक्रमेण क्रियमाणा नवविधा भवति | प्. ७५) तथाचोक्तं कामिके- अष्टसन्ध्यासु या पूजा साभवेदुत्तमोत्तमा | सप्तषट्भूतं वेदाग्नि युग्मेन्दु प्रहरेषु च || यामार्धकालसम्प्राप्ता पूजैवं नवधा भवेत् || इति || अजिते ह्यष्टविधत्वमेव पूजायाः प्रतिपादितम् | तद्यथा- उत्तमत्रितयेनाथ मध्यमत्रितयेन तु | अधमद्वितयेनापि पूजैषा ह्यष्टधा स्मृता || अन्हि यामचतुष्के च प्रतियामं विशेषतः | निशियाम चतुष्केच प्रतियामं कृतार्चना \\ यथोक्तविधिना पूजा सा भवेदुत्तमोत्तमा | दिवायाम चतुष्के च पूजनन्तु विशेषतः || रत्रौ त्रये च क्रियते सासावुत्तममध्यमा | दिवयामचुतुष्के तु रात्रौ सन्धिद्वयेऽपि च || षट् सन्धिषु कृतापूजा सा भवेदुत्तमाधमा | प्रातर्मध्याह्रसायेषु रात्रौ यामे द्वितीयके || चतुर्थे च कृता पूजा साभवेन्मध्यमोत्तमा | अर्धयामार्चनाहीना सा भवेन्मध्यमध्यमा || प्रातर्मध्याह्नसायेषु सा पूजा मध्यमाधमा | प्रातःकाले च सायं च या पूजा साऽधमोत्तमा || प्. ७६) एकधा तु कृता पूजा सास्यादधममध्यमा | अधमादधमा पूजा नैव लिङ्गेषु दृश्यते || तस्मादष्टप्रकोरेयं इति तत्रैव निश्चिता | शुद्धमिश्रा च सङ्कीर्णा त्रिविधा साऽत्र कथ्यते || शुद्धा हविःप्रदानान्ता मिश्रा नित्योत्सवान्तका | सङ्कीर्णा शुद्धनृत्तान्ता तासु पूजासु सर्वदा || प्रातर्मध्याह्नसायेषु या पूजा क्रियते जनैः | तां मिश्रान्तु प्रकुर्वीत सङ्कीर्णां वा विशेषतः || सम्पतावपि सर्वासु सोपसन्ध्यासु सर्वदा | मिऽस्रसङ्कीर्णयोः प्राप्तिर्नेष्यतेऽत्र जनार्दन || तासु शुद्धैव पूजास्यादिति शास्त्रस्य निश्चयः | सूर्योदयं समारभ्य यावद्यामन्तु याकृता || पूर्वसन्ध्येति सा प्रोक्ता महासन्ध्या च सा भवेत् | तदूर्ध्वे चार्धयामेन या पूजा तु समर्पिता || सोपसन्ध्येति विज्ञेया मध्याह्ने यामतः कृता मध्याह्नसन्ध्या सापिस्यान्महासन्ध्येति नामतः तदूर्ध्वे चार्धयामेन या पूजा तु समर्पिता सापिस्यादुपसन्धैव चाह्नि याम चतुष्टये | महासन्ध्याद्वयं प्रोक्तमुपसन्ध्याद्वयं पुनः || प्. ७६) एकधा तु कृता पूजा सास्यादधममध्यमा | अधमादधमा पूजा नैव लिङ्गेषु दृश्यते || तस्मादष्टप्रकोरेयं इति तत्रैव निश्चिता | शुद्धा मिश्रा च सङ्कीर्णा त्रिविधा साऽत्र कथ्यते || शुद्धा हविःप्रदानान्ता मिश्रा नित्योत्सवान्तका | सङ्कीर्णा शुद्धनृत्तान्ता तासु पूजासु सर्वदा || प्रातर्मध्याह्नसायेषु या पूजा क्रियते जनैः | तां मिश्रान्तु प्रकुर्वीत सङ्कीर्णां वा विशेषतः || सम्पत्तावपि सर्वासु सोपसन्ध्यासु सर्वदा | मिश्रसङ्कीर्णयोः प्राप्तिर्नेष्यतेऽत्र जनार्दन || तासु शुद्धैव पूजास्यादिति शास्त्रस्य निश्चयः | सूर्योदयं समारभ्य यावद्यामन्तु याकृता || पूर्वसन्ध्येति सा प्रोक्ता महासन्ध्या च सा भवेत् | तदूर्ध्वे चार्धयामेन या पूजा तु समर्पिता || सोपसन्ध्येति विज्ञेया मध्याह्ने यामतः कृता मध्याह्नसन्ध्या सापिस्यान्महासन्ध्येति नामतः तदूर्ध्वे चार्धयामेन या पूजा तु समर्पिता सापिस्यादुपसन्धैव चाह्नि याम चतुष्टये | महासन्ध्याद्वयं प्रोक्तमुसन्ध्याद्वयं पुनः || रात्रौ चास्तं समारभ्य यावद्यामान्तर्मर्पिता | पूजा सा.पि महासन्ध्या त्वर्धयामस्ततो भवेत् || ततश्चर्यर्धयामेन तृतीयं परिकल्पयेत् | पञ्चनाडिकया पश्चाच्चतुर्थी परिकल्पयेत् || नाडिकापञ्चकं प्रोक्तमुदयात्पूर्वमेव हि | रात्रौ महत्यां सन्ध्यायां भवेदेका ततो हरे \\ त्रिस्रश्चाप्युपसन्ध्यास्स्युरेवं पूजाक्रमो भवेत् | विभवे सति पूजासु क्रम एष उदाहृतः \\ एवमष्टविधेष्वेषु यजनेष्वेकमाश्रयेत् || इति || महासन्ध्यासु सार्धसप्तघटिकानां विविच्य विभागः कारणे प्रदर्शितः | यथा- घटिके द्वे भवेत्स्नाने घटिकैकार्चने भवेत् | घटिकार्धन्तु नैवेद्ये बलिदानन्तु तत्समम् || नित्याग्निकार्यमर्धं च नित्योत्सवे द्विनाडिका | ताण्डवे त्वेकनाडीस्यात्प्रतिसन्धिषु कारयेत् || इति || सूक्ष्मे मध्यमपूजायां पञ्चविधत्वं प्रतिपादितम् | यथा- कालं द्विविधमाख्यातं स्थूलं सूक्ष्ममिति द्विधा | स्थूलं लौकिकसंज्ञं स्यात्सूक्ष्ममाध्यात्मिकं मतम् || प्. ७८) स्थूलकाले प्रयोक्तव्यं शिवपूजादि सर्वदा | योगिनां च निमेषु वेदभागस्त्रुटिस्मृतः || लवं तद्वयसङ्ख्यातं तद्वयं निमिषं ततः | निमिषं तिथिसङ्ख्यं स्यात्काष्ठाचेति प्रकीर्तिता || काष्ठा च तिथिसङ्ख्या च कलाचेति प्रकीर्तिता | तत्कलांशो मुहूर्तश्च तथैव घटिकाद्वयम् || मुनिसङ्ख्यार्धनाडी च याम इत्युच्यते वुधैः | तत्सन्ध्यष्टौ ह्यहोरात्रो यजनं प्रतियामके || अष्टसन्ध्यासु यजनमुत्तमं चेति कीर्तितम् | चतुस्सन्ध्यार्चनं कुर्यान्मध्यमं चेति कीर्तितम् || त्रिसन्ध्यं त्वर्चनं कुर्यादधमं चेति कीर्तितम् | पूजायामष्टसन्ध्या चेन्महासन्धि चतुष्टयम् \\ उपसन्ध्या चतुष्कं स्यात् त्रिसन्द्यमुत्सवं कुरु | चतुस्सन्ध्यार्चने कुर्यादुपसन्ध्येकमेव च || नित्योत्सवन्तु सन्ध्यासु त्रिसन्ध्यासु विशेषतः | उपसन्द्येकसंयुक्तं द्विसन्ध्यं बलिमाचरेत् || अथवा चैकसन्ध्यायामाचरेत्तु बलिक्रमम् | उपसन्धौ विशेषेण बलिदानं विवर्जयेत् || प्. ७९) तत्सन्धौ च विशेषेण स्नान नैवेद्यकान्तकम् | अथवा दीपदानान्तमाचरेदुपसन्ध्यकम् || नित्यमेवं समाख्यातं कुर्यान्नैमित्तिकोत्सवम् || इति || अजिते पूर्वकालागत पूजाक्रम वैकल्ये प्रायश्चित्तं विहितम् | यथा-यत्रालिङ्गे यथा पूजा क्रियते विधिना पुरा | तस्मिञ्जाते तु वैकल्पे प्रायश्चित्तं विधीयते || इति || कामिके च- शास्त्रसिद्वैव पूर्वापि ततो वृद्धिस्सुखप्रदा | तस्मात्सर्वप्रयत्नेन पूर्वस्मादधिकां चरेत् || इति || निमित्तिका तु- निमित्ते सति क्रियामाणा यथा ग्रहणमासपूजादिः | काम्यातु-पुत्रादिकामनोद्देशेन क्रियमाणा विशेष यनादिः | अस्याश्च काम्यपूजायाः कालनियमो नास्ति | तथा च सूक्ष्मे- नित्यसन्ध्या समायुक्तं नैमित्तिकमथाचरेत् | नित्यपूजा समायुक्तमयुक्तं काम्यमाचरेत् || इति || ननु नित्यनैमित्तिक काम्य कर्माणां परस्पर समावेशे सति एकाचार्येण कर्तव्यमेकदेवालयस्थितम् || इति \\ कामिकवचनादेकदेवालय क्रियाया एकाचार्येणैव कर्तव्यत्वात् | प्. ८०) तद्यथा- आचार्यसङ्करेणैव राजराष्ट्रं विनश्यति || इति || तत्रैव आचार्यसङ्करस्य दोषावहत्व प्रतिपादनात् एकस्मिन्समये एकाचार्येणानेकक्रियाया दुष्करत्वात् कथमत्र समाधानमितिचेत् | सत्यम्-एवमेव कामिके ऋषिप्रश्नपूर्वकं भगवता सिद्धान्तितम् | यथा ऋषय ऊचुः- जलाद्याहरणं गन्धपुष्प धूपादि कल्पनम् | दीपनैवेद्य दङ्कृप्तिर्देवे नित्यार्चनादिकम् || सकलाराधनं यच्च परिवारार्चनादिकम् | नित्योत्सवं च गानाद्यं स्नपनाद्यङ्गकल्पनम् || उत्सवाद्यङ्गकॢप्तिर्वा देववाहनादिकम् | तत्काले मूललिङ्गादि पूजनं नित्यहोमकम् || अनेकनरनिर्वर्त्यं कथमेकः करोत्यहो | ईश्वर उवाच- साधवस्ते महाप्राज्ञाः समाधिं कथयामि वः | नित्य नैमित्तिके काम्ये यत्कार्मैकालये स्थितम् || एकाचार्येण कर्तव्यमिति साधूदितं मया | देशिकस्यास्य पुत्रो वा पौत्रो वा तस्य बान्धवाः || प्. ८१) तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः | आदिशैवकुले जाता ब्राह्मणा क्षत्रिया विशः || शूद्रावाप्यनुलोमाश्च गन्धर्वा नर्तकादयः | रुद्रकन्याश्च मद्दास्यस्तदाज्ञापालका यदि || तैरप्यनुष्ठितं कर्म देशिकानुष्ठितं भवेत् | यथा राजनियुक्तैस्तु सामन्तप्रमुखैरपि || यत्कृतं राजकार्यं स्यात्तथैवात्रापि सम्मतम् | अन्यथा सति कर्तव्ये राज्ञो ध्वंस उदाहृतः || अंशुमत्तन्त्रे तु विचिच्य प्रतिपादितम् | नित्यं नैमित्तिकं वक्ष्ये श्रूयतां रविसत्तम | नित्ये प्रवृत्तकाले तु तथा निमित्तिकं चरेत् || नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् | सन्ध्यावसानं त्रिविधं सन्ध्यैकेन विशेषतः || नैवेद्यान्तं च वल्यन्तं दीपान्तं च त्रिधामतम् | यत्कर्म तु समारब्धं ततत्कर्मावसानके || सन्ध्यावशिष्टमापाद्य नित्यं वै देशिकोत्तमः | आचार्याश्चार्चकाश्चै द्विधा ये च प्रकीर्तिकाः || प्. ८२) आचार्येणैव कर्तव्या पूजा नैमित्तिकक्रिया | अर्चकेनार्चनं कार्यं नित्यपूजा विशेषतः || नैमित्तिकं चतुर्भेदं साकल्यं पावनं ततः | शान्तिकं चैव माङ्गल्यं चतुर्भेदमुदाहृतम् || द्वारादि च निवेद्यान्तं साकल्पं चेति कीर्तितम् | हुतादि बलिदानान्तं पावनं त्विति कीर्तितम् || धूपान्नृत्तावसानन्तु तच्छान्तिकमिहोच्यते | द्वारादि ताण्डवान्तं च माङ्गल्यं प्रविधीयते || नैमित्तिकविधानेन तथा नैमित्तिकं चरेत् | नैमित्तिकावसानान्तं नित्यं नैमित्तिकं तथा || आचार्येणैव कर्तव्यं यथा नैमित्तिकार्चनम् | नित्यसन्ध्यावसानं यदर्चकेन समापयेत् || नित्यं नैमित्तिकं काम्यं त्रिविधं चेति कीर्तितम् | नित्यमागुन्तुकं नित्यं द्विविधं परिकीर्तितम् || दिनंप्रत्यर्चनं नित्यं यजेन्मासं प्रति प्रति | विशेषयजनं यत्तदागं नित्यमुच्यते || अष्टम्याराधनं चैव प्रदोषयजनं तथा | अमावास्याराधनं च विषुसङ्क्रान्ति पूजनम् || प्. ८३) इदमागन्तुकं नित्यमर्चकेनैव कारयेत् | नैमित्तिकं द्विधा प्रोक्तं नैमित्तिकागन्तुकं तथा || कर्षणादि प्रतिष्ठान्तं नैमित्तिकमुदाहृतम् | अन्यानि सर्वकर्माणि निमित्तिकागन्तुकं स्मृतम् || काम्यं तद्विविधं प्रोक्तं ब्राह्ममाभ्यन्तरं तथा | बाह्यं प्रसिद्धिदं कर्म चात्मार्थं चेष्टकर्मसु || काम्यं नैमित्तिकं चैव ह्याचार्हेणैव कारयेत् | अङ्गोपाङ्गं च प्रत्यङ्गं त्रिविधं चेति कीर्तितम् || स्नानं चैव निवेद्यञ्च हुतं नित्योत्सवं ततः | धूपदीपादिकं सर्वमङ्गमित्युच्यते वुधैः || वस्त्रमाभरणाद्यञ्च गन्धमाल्याद्यलङ्कृतम् | उपाङ्गमिति विज्ञेयं चामरं छत्रदर्पणे || शेषाण्यन्योपचाराणि प्रत्यङ्गमिति कीर्तितम् | स्नानाद्यङ्गानि वै तत्र न पुनः कारयेत्सुधीः || उपाङ्गभूतं प्रत्यङ्गं यथावद्वासमाचरेत् | तस्मात्सर्वप्रयत्नेन विशेष यजने कृते || नैमित्तिकार्चने चैव महास्नपन सेचने | सायरक्षाभिषेकन्तु भावनेन प्रकल्पयेत् || प्. ८४) अशेषाण्युपचाराणि यथावत्कारयेत्पुनः | नित्यं नैमित्तिकं कर्म समकाले समाचरेत् || स्नाने स्नानं प्रकर्तव्यं नैवेद्ये च निवेद्यकम् | हुतं वै होमकाले च बलिकाले बलिभ्रमम् || धूपं दीपं च तत्काले ह्येवमेवं समाचरेत् | नित्यं नैमित्तिकं कर्म यत्काले तु विमिश्रितम् || तत्काले चोभयं कर्म त्वाचार्येणैव कारयेत् | शेषाणि नित्यकर्माणि चार्चकेन समापयेत् || असन्ध्यायां कृता पूजा चाभिचारककृद्भवेत् | कर्मारम्भे तथाचार्यस्त्वशक्तश्चेद्विशेषतः || तत्पुत्रोवाऽथ शिष्यो वा सर्वकर्म समारभेत् | आचार्यश्चार्चकश्चैव साधकोलङ्कृतस्तथा || वाचकश्च कुलोद्भूताः पञ्चाचार्याः प्रकीर्तिताः | आचार्यश्चागमाल्लोकाद्यजेन्नैमित्तिक क्रियाम् || एवमाचार्यकृत्यं स्या दर्चकेनार्चनं कुरु | अलङ्कृतेनालङ्कृत्य साधको द्रव्वसाधकः || वाचकस्तु शृतेः कर्ता पञ्चाचार्यक्रमं विदुः | अर्चकादि चतुर्णान्तु नित्यकर्मार्हता भवेत् || एवं क्रमेण त्वभ्यर्च्य नित्यनैमित्तिकक्रियाम् || इति || प्. ८५) सूक्ष्मे- प्रायश्चित्तादिकं सर्वं नित्यकाले समाचरेत् | असन्ध्यायां चरेद्विद्वानाभिचार समुद्भवम् || नित्य नैमित्तीकं चैव प्रायश्चित्तं तथैव च | नित्यसन्ध्या समायुक्तं कारयेत्सर्व सिद्धिदम् || सन्ध्यातिक्रमणाद्दोषो न्यूनं चेत्तु न दोष भाक् | शास्त्रातिक्रमणं तस्य सर्व दोषं नियच्छति || इति || सूक्ष्मागमे तावत् सावश्य सौभाम्य सौख्य सौचकाभिधान चतुर्विधोपचारप्रदानमुक्त्वा पाद्याचमनीयादीनां कालविशेषः प्रतिपादितः | तद्यथा- सनानादौ च तदन्ते नैवेद्यादौ तदन्तके | धूपादौ च विशेषेण पाद्यमाचमनं ददेत् || पञ्चकालेषु मतिमान् पाद्यमाचमनं कुरु | पूजादौ चाभिषेकान्ते पूजान्ते च विशेषतः || त्रिकालेष्वर्घ्यदानं स्यात् त्रिकाले गन्धमाचरेत् || इति || सुप्रभेदे- अर्घ्ये विलेपने स्नाने त्रिषु गन्धं प्रयोजयेत् || इति || सूक्ष्मे- आवाहनेऽर्घ्यकाले च स्नानान्ते धूपकालके | विलेपने च नैवेद्ये चोत्सवान्ते विशेषतः || पूजन्ते च प्रयोक्तव्यमष्टपुष्पाणि योजयेत् || इति || सुप्रभेदे- आवाहनार्घ्यपाद्येषु स्नाने धूपे विलेपने | नैवेद्ये च विसर्गे च पुष्पाण्यष्टौ सुयोजयेत् || आवाहनं विना सप्तकाले वापि सुयोजयेत् | सूक्ष्मे- स्नानान्ते चार्चनान्ते च नैवेद्यं स्याद्द्विकालके | पूजा काले तु तत्पूर्वे स्नानान्ते चार्चनान्तके || कपिला घृतसंयुक्त धूपदीपौ समाचरेत् | चतुष्काले तु मतिमान् धूपदीपौ ददेत्प्रभोः || स्नानादौ च तदन्ते च ह्यर्चनान्ते तथैव च | नैवेद्यादौ चोत्सवादौ तदन्ते नर्तनान्तके || एवमादुषु कालेषु महाघण्टान्तु ताडयेत् | स्नानकाले निवेद्ये च बलिभ्रमण कालके | धूपदीपादि कालेपि चोषःकाल समन्विते || पञ्चकाले विशेषेण वाद्यघोषं तु कारयेत् | आरात्र्याराधने काले पूजान्ते तु विशेषतः || प्. ८७) बलिभ्रमण काले च तल्लक्षणपुरस्सरम् | तिषु कालेषु गणिका मद्दासी नर्तनं चरेत् || स्नानादौ च तदन्ते च पूजान्ते च विशेषतः | नैवेद्योत्थापने काले पुष्पकाले तथैव च || पञ्चकाले विशेषेण शङ्खध्वनिमथाचरेत् | स्नानकाले निवेद्ये च धूपदीपौ तदन्तके || ऋगाद्यध्ययनं कुर्यात्त्त्रिकाले चैव बुद्धिमान् | स्नाने निवेद्ये धूपे च पूजान्ते च विशेषतः || भक्तादि स्तोत्र भाष्याद्यैश्चतुष्काले समाचरेत् | स्नानकाले निवेद्ये च चोत्सवे धूपकालके || पटावरोहं कर्तव्यं चतुष्काले समाचरेत् | एवं क्रमेण विधिवत्सन्ध्यैकेन समाचरेत् || त्रिपादेन त्रिनाडी च सावश्यकमिति स्मृतम् | सौभाग्यं पञ्चनाडी च सौख्यकं याममेव च || सौचकं दशनाडीस्यादेवं सम्पूज्य देशिकः | कालातिक्रमणाद्दोषो न्यूनं चेत्तु नदोषभाक् || इति || कारणे- सायरक्षाविधिं वक्ष्ये सर्वप्राणि तमोपहम् | सर्वरोगनिवृत्यर्थं सर्वद्रव्यस्य वर्धनम् || प्. ८८) देवस्य नयनोच्छिष्ट निवृत्यर्थं प्रदोषके | कर्तव्या सायरक्षा तु धूपदीपावसानका || इति || कामिके- नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते | प्रदोषादौ विध्येयो वा धूपदानावसानके \\ उत्सवादौ विधेयो वा चान्यस्मिन्मङ्गलेपि च || इति \\ सुक्ष्मे- सायरक्षाविधिं वक्ष्ये शृणु त्वं तत्प्रभञ्जन | आदित्यार्धास्तसमये सम्भोरग्रे नटेशितुः || वादयेद्वादशांश्चै तालेन तालवित्क्रमात् | देवस्य नयनोच्छिष्टं तन्निवृत्यर्थकारणम् \\ सायरक्षा प्रकर्तव्या सर्वदेवेषु योग्यकम् || इति \\ कामिके- नैमित्तिकार्थं नित्यार्थमन्नलिङ्गमुदाहृतम् | त्रिकालमन्नलिङ्गं वा प्रातर्मध्याह्नयोस्तु वा || मध्याह्ने वाऽथ पूर्वाह्ने पुष्पलिङ्गमुदाहृतम् | प्रदोषेक्षतलिङ्गं स्यात्तत्र पशुपतं यजेत् || इति || सुप्रभेदे- पूर्वसन्ध्यासु गन्धाष्षाडवश्च ततः परम् | मध्याह्ने नाट्टरागः स्यात्कौशिकश्च ततः परम् || प्. ८९) साये तु चेन्दलः प्रोक्तो ह्यर्धरात्रे तु पञ्चमः | भरतोष्कं तथा नृत्तं सन्धिं प्रति सुकारयेत् || एवं नृत्तं कृत्तं यत्र सुभिक्षं लोकशान्तिकम् || इति || कामिके- प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च | सौख्यकर्म प्रकर्तव्यं यथावच्छ्रुणुत द्विजाः || कृतस्नानाङ्गभूषाढ्यं शुक्लमाल्यादि युक्त्या | पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतम् || समभ्यर्च्य तदग्रे तु नवनाट्यरसान्वितम् | श्लोकार्थभावनोपेतं शुद्धनृत्तं समाचरेत् || ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्या त्रयाधिपाः स्मृताः || प्रातर्मध्याह्नसायेषु क्रमाछश्लोकत्रयं पठेत् | मन्दारपुष्प-भावानुबन्ध-सन्तानकादि-इति श्लोकत्रयम् | स्थापने प्रोक्षणेऽन्यत्र प्रायश्चित्ते हुतादिके | उत्सवे स्नपने मासपूजायां होमकर्मणि || ध्वजारोहण कालादौ माम्यादौ च विशिष्यते || इति || अथ पवित्रकालं निर्णेतुं पवित्रस्य नित्यनैमित्तिकत्वाद्यनेक विकल्पग्रस्त्वेन प्रथमं पवित्रस्य नित्यत्वं साधयति || प्. ९०) मूलम्- नित्यं काम्यं केपि नैमित्तिकं च- प्रायश्चित्तं तद्विधेः पूरणं च | इत्थं प्राहुर्देशिकश्चाभियुक्ताः- नित्याङ्गत्वान्नित्यमेतत्पवित्रम् || नित्यमिति | पविः-वज्रं कुलिशं भिदुरं पविः इत्यमर कोशाभिधानात् | पवेः नित्य पूजा वैकल्पदोष जनिताद्वज्रनाम्नो नरकास्त्रायत् इति पवित्रम् | तदुक्तं सिद्धान्त शेखरे- सन्त्रायते यन्नरकात्पुमांसं- वज्राभिधानाच्च ततः पवित्रम् || एतच्च पवित्रं केचित् आचार्या अभियुक्ता नित्यमिति वदन्ति | केचिदभिरुचित कामनया क्रियमाणं काम्यमिति | केचित्तु, निमित्ते सति-क्रियमाणं नैमित्तिकमिति | अपरे दोषपरिहारकत्वात्, प्रायश्चित्तमिति | अन्येतु- समस्त विधिविच्छिद्रपूरणेशमखं प्रति इति-मन्त्रार्थानुसारेण विधिपूरणमिति | तथोचोक्तं पवित्र निर्यये लक्षणद्वया ध्यापकाघोरशिवाचार्यैः- अधिकारस्वरूपनिर्णये विकल्पान् वदन्ति गुरवः | प्. ९१) केचिन्नित्यमिति | केचिन्नैमित्तिकमिति | केचित्काक्यमिति | केचित्प्रायश्चित्तमिति | केचिद्विधेः पूरणमिति \\ एवं विकल्पान् प्रदर्श्य सिद्धान्तमाह- नित्याङ्गत्वान्नित्यमेतत्पवित्रम् इति दर्शपूर्णमासवदस्यापि नित्यविधिशिष्टत्वेन चातुर्मास्य विधिश्रवणात् नित्यत्वमेव | तथा हि- तत्र प्रथमं न तावत् काम्यमिदम् | कामनया अननुष्ठेयत्वात् | विधिछिद्र पूरणमेव कामनेति चेत् | इदमेव शिरो वेष्टनया नासिका ग्रहणम् | नित्यविधिपूरकत्वेन नित्याङ्गत्वाद्दर्शपूर्णमासवन्नित्यमित्येव वक्तव्यम् | तथाचोक्तमघोरशिवाचार्यै- यथा सोमयागानन्तरमन्वहमग्निहोत्रहवनं कुर्वतो विधि च्छिद्रपूरणार्थं दर्शपूर्णमासोष्ठिः नित्याङ्गत्वेन क्रियते | तथैवेदं मन्तव्यमिति | षट्सहस्रकालोत्तरेऽपि- अतो नित्याङ्गमेवाहुः पवित्रारोहणन्तु यत् || इति || नापि नैमित्तिकम् | दीक्षाप्रतिष्ठयोरेव नैमित्तिकत्व विधानात् | तदुक्तं षट्सहस्रकालोत्तरे- स्नानं पूजा जपो होमो ध्यानं चैव तु पञ्चमम् | एवं नित्यं सदा कुर्यान्नित्याङ्गं प्रोच्यते पुनः || प्. ९२) अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि | पञ्चदश्यां व्यतीपाते सङ्क्रान्तौ चोत्तरायणे || मासवृद्धौ दिनध्वंसे षडशीतिमुखेष्वपि | रविन्दुग्रहणे चैव द्विगुणार्चा जपादिका || न्तियाङ्गमागमे चोक्तं नैमित्तिकमथोच्यते | दीक्षा चैव प्रतिष्ठा च नैमित्तिकमिदं द्विधा || तथा च मोहसूरोत्तरे- इति नित्यं त्रिधाख्यातं शृणु नैमित्तिकं ततः | इत्यादिना पवित्र नैमित्तिकत्वस्याप्यघोरशिवाचार्यैः परिहार उक्तः यथा-सत्यं, प्रत्यहमनुष्ठेयत्वाद्विष्णुस्वापस्यापि निमित्तमात्रेण कर्तुं योग्यत्वाच्च | यद्वा निमित्तमेव नैमित्तिकमिति स्वार्थिक कप्रत्ययान्तो नैमित्तिक शब्दः इति | ननु, उपरागस्नानादिवदकरणे- नियमेन क्रियाङ्गत्वात्कार्यो दोषोऽन्यथा || इति किरणोक्तेः प्रत्यवाय श्रवणान्नैमित्तिकमेवेति चेत् हन्त! क्रियाङ्गत्वादित्यनेनैव नित्याङ्गत्वं सिद्धम् | नापि प्रायश्चित्तम् | प्रायश्चित्तं तावत् क्रियावैकल्यरूपे सत्येव द्वारे कर्तव्यम् | द्वाराभावे द्वारिण एवाभावात् | अस्य प्रोक्तकालेष्ववश्यं कर्तव्यत्वोक्तेः | अत एव यिधेः पूरणमिति न पञ्चमः पक्षोऽपि | तस्य नित्याङ्गपक्ष एवान्तर्भावात् न पक्षान्तरत्वम् | एवं प्. ९३) काम्यादिपक्षाणां परास्तत्वात् नित्यपक्ष एव सुस्थः | एतत्पवित्रस्वरूपन्तु सिद्धान्तशेखरे प्रदर्शितम् \\ पवित्रको वासुकि नाम कोन्यः- सर्पौ सगर्भ्यौ तपसा समर्च्य | शतं समार्धेन समाश्च दिव्या- वरप्रदं चक्रतुरम्बिकेशम् || कण्ठेन मूर्ध्ना भुजगौ गृहीत्वा- पवित्रकं प्राह हरस्तदाहिम् | प्रत्यब्दमेतन्नकरोति सूत्रं- यस्तस्य पूजा फलमस्तु ते तत् || इति प्रसिद्धं व्रुवते पवित्रं- नैमित्तिकं केचिदिदन्तु नित्यम् || इति || अथास्य कालविधानमाह- मूलम्- आषाढादि त्रिमासाश्शिवमतगदिताः श्रेष्ठमध्याधमास्युः- पक्षे शुक्ले च कृष्णे भवति शिवतिथिश्चाष्टमी भुक्ति मुक्तयोः | एते ग्राह्ये च भानोरूदयविलयगे चेत्पवित्रं क्रमात्स्यात्- षष्ट्याद्यावासपूर्वा नियमविधियुतैर्वर्जयित्वाधिमासम् || १९ || प्. ९४) आषाढादिति | आषाढादि त्रिमासाः-आषाढ श्रावण भाद्रपदास्तिस्रो मासाः क्रमेण श्रेष्टमध्याऽधमाः-एतेष्वसम्भवे आश्वयुज कार्तिकौ वा ग्राह्य वा ग्राह्यौ | तदुक्तं कामिके- आषाढादि त्रिमासाश्च ज्येष्ठमध्यमकन्यसाः | अश्विनी कृत्तिका मासावथवा सम्प्रकीर्तितौ || इति || सूक्ष्मे- आषाढादि त्रिमासेषु तुला वृश्चिक एव च | न्यूनादि पूरणार्थं च पवित्रारोपनं कुरु || इति || मृगेन्द्रे- श्रावणे तदुपान्ते वा नभस्ये वाश्विमासि वा || इति || किरणेतु- चतुरो वार्षिकान्मासान्नियमेन नयेत् खग || इति || तथाचांशुमत्तन्त्रे- पवित्रारोहणं वक्ष्ये श्रूयतां रविसत्तम | मनसा कर्मणा वाचा यन्यूनं कर्मणामपि || पतनात्त्त्रायते यस्मात् पवित्रं तदिहोच्यते | स्वसिद्धं सर्वसिद्धं च द्वयं शस्तं पवित्रकम् || आत्मार्थयजने कुर्यात्स्वसिद्धिरिति चोच्यते | परार्थे चार्चयेद्धीमान् सर्वसिद्धिरिति स्मृतम् || प्. ९५) एतेषां सर्वसिध्यै च पूजां वक्ष्ये यथाक्रमम् | आषाढे श्रावणे मासे प्रोष्ठामासे तथैव च || अश्विनी कृत्तिकामासे पवित्रारोपणं कुरु | पूर्वपक्षे चतुर्दश्यामेवाषाढे पवित्रकम् || अन्येषु सर्वमासेषु पक्षयोस्सितकृष्णयोः | चतुर्दश्यामथाष्टम्यां पवित्रं विधिवत्कुरु || कृतीकादीपतः पश्चानाचरेत्तु पवित्रकम् | मेषादि मिथुनार्केषु यदादर्शद्वयं भवेत् || अब्दान्तरे तदावश्यं मिथुनार्के हरिस्वपेत् | कर्कटाख्यादिके वापि यदा दर्शद्वयं भवेत् || अब्दान्तरे तदावश्यं कर्कटान्ते हरिस्वपेत् | शेते विष्णुस्तदाषाढे भाद्रे च परिवर्तते || कार्तिके स प्रबुद्ध्येत शुक्लपक्षे हरेर्दिने | ते मैत्रश्रवणोपेते पावने परिकीर्तिते || आषाढाऽसितपक्षेषु मैत्रश्रवणरेवती | आदिमध्यावसानेषु भवेयुर्द्वादशीषु चेत् || ते पावनास्तथा योगाः कथ्यन्ते रविसत्तम | आषाढ शुक्ल द्वाश्यां पौर्णमास्यामथापि वा \\ सुप्ते हरौतु कर्तव्यं पवित्रारोहणं शिव || इति || प्. ९६) सिद्धान्तशेस्ररे- रवौ गते कर्कटकाख्य राशिं- सुप्ते मुरारौ मलमास वर्ज्यम् | आषाढमासे प्रवरं पवित्रं- तच्छ्रावणे मध्यममन्यदन्त्यम् || इति || अथ पक्षतिथिनियममाह-शुक्लेकृष्णे पक्षे-शुक्लपक्षे कृष्णपक्षे च, शिवतिथिः-चतुर्दशी, अष्टमी-पक्षमध्या, भुक्तिमुक्त्योर्विषये ग्राह्ये | भुक्तिविषये- शुक्लपक्षः, मुक्तिविषये- कृष्णपक्षोपि ग्राय इत्यर्थः तथा च- सिद्धान्तशेखरे- आषाढमासे शुभदा वलर्क्षा- चतुर्दशी स्यादपरातु नेष्टा | चतुर्दशी स्याच्छुभदाष्टमी च- शुक्लाथ कृष्णा तु विमुक्तिहेतुः || इति || कामिके च- पूर्वपक्षे चतुर्दश्यामेवाषाढे पवित्रकम् | इतरेषु च मासेषु पक्षयोः शुक्लकृष्णयोः \\ चतुर्दश्यामथाष्टम्यां पवित्रं विधिना चरेत् || इति || अनेन आषाढमासे शुक्लपक्ष एव ग्राह्यः | अन्यत्र पक्ष द्वयमपि ग्राह्यम् | एवं बुभुक्षुमुमुक्ष्वोरुभयोरपि शुक्लपक्ष एव ज्यायान् | मुमुक्षोस्त्वसम्भवे कृष्णपक्षोपि ग्राह्यः | तथा च कामिके- शुक्लपक्षे ग्रहस्थस्य यतेरुभयपक्षयोः || इति || एवमेवाघोरशिवाचार्यैरपि प्रत्यपादि | ननु चतुर्दश्यष्टम्योर्दिनद्वयसम्बन्धे कदा कार्यमिति चेत्-तत्राह- एतेग्राह्ये- इति | एते चतुर्दश्यष्टम्यौ, भानोः- सूर्यस्य, उदय विलयगे चेत्-क्रमात्पवित्रं स्यात् | अयमर्थः-शुक्लपक्षे उदयकालव्यापिनी ग्राह्या | कृष्णपक्षेत्वस्तस्य प्यापिनी | तथैवाघोर शिवाचार्यैर्मार्कण्डेयवचनमुदाहृतम् | यदाह मार्कण्डेयः- सा तिथिस्तदहोरात्रं यस्यामस्तमितो रविः | तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् || शुक्लपक्षे तिथिर्ज्ञेयायस्यामभ्युदितो रविः | सा तिथिः सकला ज्ञेया त्रिमुहूर्तन्तु सा भवेत् || इति वचनात्तावता कालेनोदयास्तमयव्यवस्था तिथिषु प्राधान्येन स्थितेति पक्षान्तरमाह, षष्ट्याद्यावास पूर्वा इति | स पूर्वाः पूर्वतिथियुक्ताः षष्ट्याद्यावाग्राह्याः | तथा चोक्तं सुप्रभेदे- प्. ९८) शिवपूजापरैः कार्या पवित्रारोहणक्रिया | आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः || प्रोष्ठमासेऽश्वयुङ्मासे कृष्णपक्षेऽथवा पुनः | द्वितीयादि चतुर्थ्यादि षष्ट्यादि च विशेषतः || अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् | अष्टम्यादि दशम्यादि द्वादश्यादि च वा पुनः || चतुर्दश्यन्तकं कार्या पवित्रारोहणक्रिया | सप्ताहं चैव पञ्चाहं त्रयाहं वापि कारयेत् || सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते | आर्द्रायां रोहिणीयुक्ते कारयेत्तत्पवित्रकम् || इति || सिद्धान्तशेखरे- षष्टी तृतीया सह सप्तमी च नारायणी चाथ वरास्सपूर्वाः || इति || नारायणी तिथिः-द्वादशी | तदुक्तं-पञ्चदशतिथिनामपि देवताभिधानं तत्रैव- अग्न्यात्मभू हैमवतीभवक्तृ- व्यालाग्नि भू भास्कर शम्भु दुर्गाः | यमेन्दु गोविन्त मनोमवेशः- स्वधाभुजो वासारपाः क्रमाच्च || इति || प्. ९९) एतच्च पवित्रं पूर्वेद्युरेवाधिवास्य देवायामन्त्रणपवित्रं दत्वा परेद्युर्नित्यपूजान्ते शुद्धपवित्रं देयम् | एवमेवाघोरशिवाचार्यैः प्रतिपादितं पद्धत्याम् \ सुप्रभेदेऽपि- कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् || इति || मोहसूरोत्तरे- सप्तम्यां वा त्रयोदश्यां सूक्तं गन्धपवित्रकम् | अष्टम्यां वा चतुर्दश्यां कर्तव्यं शुद्धसंज्ञितम् || इति || नियमविधियुतैः-देशिकैरिति शेषः | एतत्पवित्राङ्गभूत नियमस्य कालविशेषो मृगेन्द्रेऽपि प्रतिपादितः | यथा- स्तुत्वा प्रणम्य नियम प्रतिज्ञां श्रावयेज्जनैः | अज्ञातस्तु तामेव निर्वहे दिष्टसिद्धये || चतुर्मासं त्रिमासं वा द्विमासं मासमेव वा | मासार्धं सप्तरात्रं वा पञ्चरात्रं त्र्यहं दिनम् || क्रियापर्यवसानं वा विद्ध्याद्भोजनं तथा || इति || श्रीमत्पौष्करेपि- आपत्स्वपि च कर्तव्यं पञ्चरात्रं त्रिरात्रकम् || इति || अथ वर्ज्यमासमाह- वर्जयित्वाधिमासं - इति | अधिमासलक्षणं प्. १००) मोहसूरोत्तरे- दर्शद्वयं भवेद्यत्र रवि सङ्क्रान्ति वर्जितम् | अधिमासस्सविज्ञेयो विष्णुस्स्वपति कर्कटे || इति || पर्वद्वयमिति पाठेऽपि पर्व शब्देनामावस्यैवोच्यते | अधिमासस्य वर्ज्यत्वमपि मोहसूरोत्तरे- दीक्षादिस्थापनं चैव पवित्रादि शतक्रतो | अधिमासे न कुर्वीत यहीच्छे च्छुभमात्मनः || इति || तथा गौरीपवित्रं विषयीकृत्यान्यदेवानामपि पवित्रारोपण कालोशुमत्तन्त्रे प्रतिपादितः | यथा- अथ गौर्याः पवित्रं च वक्ष्येहं तद्दिवाकर | समयाचारनिष्ठानां पुंसां भोगापवर्गदम् || स्वतः प्रधानादेवी चेत् पृथक्कार्यं पवित्रकम् | शिवेन तहिता सा चेत् किन्तु तेन सहाचरेत् || तपने मिथुनं प्राप्ते द्वादश्यां शुक्लपक्षके | हरिः शेते ततः कुर्याद्यदा मेषादि राशिषु || षट्स्विहात्र भवेद्दर्शद्वयं कर्कटके तदा | निद्राति स्वथिथौ विष्णुस्तत्स्वापानन्तरं मतम् || तत्रास्ति दर्शयुग्मं चेत् श्रावणेमासि तन्नयेत् | शुक्राद्यस्तमये कुर्या दुत्सवं च पवित्रकम् || प्. १०१) प्रतिष्ठा नैव कर्तव्या दीक्षा च रविसत्तम | प्रथमा पावकस्योक्ता द्वितीया ब्रह्मणस्थितिः || अम्बिकायास्तृतीया तु चतुर्थीस्याद्गंणेशितुः | शेषस्य पञ्चमी प्रोक्ता षष्ठीस्कन्दस्य कीर्तिता || सप्तमी सप्तसप्तेश्च ह्यष्टमूर्ते रथाष्टमी | दुर्गा देव्यास्तु नवमी यमस्य दशमी तिथिः || इन्द्रस्यैकादशी प्रोक्ता द्वादशी कमलापतेः | त्रयोदशी तु मारस्य शङ्करस्य चतुर्दशी || पितॄणां पञ्चदश्येवं पवित्राय प्रकीर्तिताः | बुभुक्षोः शुक्लपक्षे तु मुमुक्षोः कृष्ण पक्षके || तिथिष्वेतासु कुर्वीत तत्तद्देवोदितासु च || इति || कालोत्तरे- चतुर्दश्यामथाष्टम्यां सर्वसाधारणम् स्थितम् | भौतिकानां विशेषेण शुक्लपक्षे विधीयते || इति || अत्र च पवित्रविषये बहूक्तम् | तत्सर्वमघोर शिवाचार्यैः प्रतिपादितमिति दिक् अथ अनध्ययनकालः किरणागमोक्त एव लिख्यते | यथा गरुडः- प्. १०२) अनध्यायस्त्वया देव सूचितो नोदितो मम | केषु वाध्ययनं कार्यं केषु बाहस्सु नेष्यते || श्रीभगवान्- पूर्णा रिक्ताष्टमी भूता चतुर्थी प्रतिपच्च या | तिथिष्वेतासु कर्तव्ये श्रवणाध्ययने नहि || व्यतीपाते च सङ्क्रान्तौ तिसृष्वप्यष्टकासु च | सन्ध्यास्वशनिनिर्घोषे वह्नेर्दाहे दिशामपि || अकस्मात्तापसे सिद्धे मृते महति राजनि | तारकोल्का निपाते च धूमकेतोः प्रदर्शने || नीहरेतिचले वायौ तथाऽकाल प्रवर्पणे | कृकलासाखु मण्डूकमार्जारे चान्तरीकृते || अनध्यायो भवेत्सर्वं त्रिरात्रं दान पूजनम् | चन्द्रार्क ग्रहणे तदत्तथा चैत्रोत्सर्वे खग || अन्येऽपि क्षणिकाः प्रोक्तास्तच्छृणुष्व समाहितः | तपस्वि जनसम्मर्दे गोगजाश्वप्रमर्दने || मृत तूर्यध्वनौ युद्धे समीपे स्त्रीप्ररोदने | दृष्टे नृपे तथाक्रूरे कारुकाणां च दर्शने || सुदूरादागते मित्रे दृष्टेऽन्यस्मिंश्च बान्धवे | क्षणिकानध्ययानाहुः कार्या वार्तान्तरान्ततः || प्. १०३) अनध्यायो भवेत्पञ्चरात्रं पूतप्ररोपणे | अनध्यायोऽखिलो ज्ञेयश्चोद्यस्स्वार्थार्चनादिभिः || इति || एवं नित्यकालमभिधाय नैमित्तिककालं तावदाह | तत्र प्रथमं मासपूजाकालं प्रदर्श्यते- मूलम्- सूक्ष्मस्थूल इति द्विधानिगदितो मासस्तु सौराह्वयः- सूक्ष्मो मेषमुखोऽपरोऽथ कथितो मार्गादि पुष्यादितः | मासर्क्षे शिवभेऽयने च विपुवे पर्वोपरागद्वये- पातक्रान्ति नृपर्क्षकादिषु यजेद्द्रव्यैस्तदुक्तैश्शिवम् || २० || सूक्ष्मस्थूल इतीति, सौराह्वयः-सूर्य सङ्क्रान्तिप्रधानोमासः सूक्ष्मस्थूल भेदेन द्विधानिगदितः | आगमेरिति शेषः | आगमादिषु सौरमासस्यैव प्रसश्तत्वात् सौरमास एवात्रोक्तः | तथाचोक्तं कामिके- सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम इष्यते | सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते || इति || तथा च भारद्वाजीये- शशिमासश्च सौरश्च विज्ञेयौ च विशेषतः | चान्द्रेण व्यवहारार्थं सौरेण शुभकर्मसु || इति || प्. १०४) ज्योतिषेऽपि- मृगादि राशिद्वय भानु योगान्- षट् चर्तवस्स्सुश्शिशोरो वसन्तः | ग्रीष्मश्च वर्षश्च शरश्च तद्व- द्धेमन्त नामा कथितस्तु षष्ठः || इति || अत एवाघोर शिवःचार्यैरपि सिद्धान्तितो यथा- अथो मकरादि राशीनां सौरे माघादि संज्ञात्वेन सर्वत्र संश्रवणादुत्तरायण् सम्भवानामृतूनां शिशिरादित्वेन श्रवणात् तेषु शिशिरादयस्त्रयो रवेरुदगयनं शेषा दक्षिणायनमित्यादि वेदवचनात् ऋतुस्तैरयनं त्रिभिः इति निघण्टुकारवचनाच्च ऋतुमध्येऽयनानुपपत्तेः संञाशब्दानां रुढितया सिद्धेश्च माघादि संज्ञा मकरादि राशि षट्क एवेति निश्चितमिति | तस्मात्सौरमास एव श्रेष्ठः तत्र च सूक्ष्म स्थूल स्वरूप भेदेन द्वैविध्यमाह | मेषमुखः मेष मासादिमासः सूक्ष्म इत्युच्यते अपस्स्थूल मासस्तु मार्गादु पुष्पादितः-मार्गशीर्ष मासादिः पुष्य मासादि वा | तदुक्तमंशुमत्तन्त्रे- मासं द्विविधमाख्यातं स्थूलं सूक्ष्मं दिवाकर | मार्गशीर्षकमासादि स्थूलमित्यभिधीयते || प्. १०५) मेषादि मीन पर्यन्तं सूक्ष्ममेवं प्रकीर्तितम् | तैष्यादि मार्गपर्यन्तं केचित्पक्षं दिवाकर || इति || एवं च सूक्ष्मस्थूल भेदेन द्विविधमासमध्ये स्थूलमासेनैव मासपूजादिकं सर्वं कर्तव्यम् | तथा चोक्तमंशुमत्तन्त्रे- सर्वं स्थूलेन कर्तव्यं स्थूलकालविधिं शृणु || इति || सूक्ष्मतन्त्रे च- अथातः संप्रवक्ष्यामि मासपूजाविधिं परम | मासं द्विविधमाख्यातं स्थूलं सूक्ष्ममिति स्मृतम् || स्थूलं वै चापमासादि वृश्चिकान्तमिति स्मृतम् | उदयाद्युदयान्तञ्च यल्लग्नं परिवर्तते || तत्सूक्ष्ममिति विज्ञेयं सूक्ष्ममासं प्रभञ्जन | स्थूले वा सूक्ष्ममासे वा मासपूजा विधीयते || इति || अत एवामरकोशकरेण मार्गशीर्षेसहामार्ग इत्यारभ्य बाहुलोर्जौ कार्तिकिको इत्यन्तेत स्थूलमास एव प्रतिपादितः | तत्रापि कालविशेषमाह | मासर्क्षे-तत्तन्मासनक्षत्रेषु | मासनक्षत्राणि चन्द्रज्ञाने प्रतिपादितानि | यथा- चित्रा विशाखा मूलं च चोत्तराषाढमेव च | श्रविष्ठा प्रोष्ठपाश्विन्यः कृत्तिकार्द्रा पुनर्वसू | मघा चोत्तरनक्षत्रं मेषादि द्वादशस्वपि इति || प्. १०६) आचार्यैः मासनक्षत्रेषु विशेष उक्तः-यथा- चित्रादि द्वन्द्वतारैः परिणतशशिगैश्चैत्रमासादि मासाः | ज्ञेयाः कन्या तुलाब्जे धृति भरणि कराण्युक्तमेवं क्रमेण || मास्यर्के सप्तविंशत्यडुगण मुदितं तेषु यत्पर्वयुक्तं | तस्मिन्मासाख्य पूजा विधिवदभिहिता सर्व सम्पत्समृध्यै || इति || शिवभे-आर्द्रायां अयने-दक्षिणायनोत्तरायणयोः | विषुवे-मेष तुला सङ्क्रान्त्योः पर्व-पञ्चसु वा पूर्णिमादर्शयोरेव वा | पञ्चपर्वाणि कालादर्शे- चतुर्दश्यष्टमी पक्षद्वये दर्शश्च पूर्णिमा | सङ्क्रान्तिश्चेति पर्वाणि पञ्चाप्राहुर्महर्षयः || इति || उपरागद्वये-चन्द्रसूर्यग्रहणयोः पाते-व्यतीपाते, क्रान्तिषु-मेषादि सङ्क्रान्तिषु, नृपर्क्षकाणि-राजजन्म नक्षत्राणो, आदि-शब्देन युद्धारम्भादि | एतेषु कालेषु तदुक्तैः-तत्तन्मासोक्तैः, द्रव्यैः-घृतादिभिः शिवं यजेत् | तदुक्तं अंशुमति- तत्तन्मासर्क्षके कुर्यान्नृपाणां जन्मऋक्षके | कर्तुर्जन्मदिनेवापि चार्द्रायां जन्ममासके || अयने वुषुवे चैव ग्रहणे चन्द्रसूर्ययोः | पर्वद्वये च सङ्क्रान्तौ व्यतीपाते दिवाकर | अयनाद्युक्त कालेषु तन्मासद्रव्यकैर्यजेत् || इति || प्. १०७) तथा च सूक्ष्मे- युद्धारम्भावसाने तु ह्ययने विषुवे तथा | कर्तुर्जन्मानुकूलर्क्षे मासर्क्षे चाऽथ वा पुनः || पुण्यकाले विशेषेण मासपूजां प्रकल्पयेत् || इति || तत्तन्मासद्रव्याण्यंशुमत्तन्त्रे प्रतिपादितानि | यथा- मार्गशीर्षे घ्टं प्रोक्तं पुष्ये क्षौद्रं प्रशस्यते | सघृतं कम्बलं कुम्भे तपस्ये दधि कीर्तितम् || मधुमासे दमनकं माधवे गन्धपूजनम् | फलपूजा शुक्रमासे क्षीरेणाषाढपूजनम् \\ नभोमासे शर्करा च नभस्येऽपूप पूजनम् | अन्नपूजा तुलामासे कार्तिके दीपपूजनम् || द्रव्यक्रममिति प्रोक्तं तत्सङ्ख्यां च ततः शृणु || इत्यादि प्रतिमासं पाद्यद्यष्टविंशत्युपचारा तत्रैव प्रतिपादिताः || यथा || पाद्यमाचमनं चार्घ्यं स्नाननं वासश्च चन्दनम् | भूषणं पुष्पकं चैव धूपदीपं निवेद्यकम् || व्यजनं चैव पानीयं मुखवासं तथैव च | रागं गीतं च नृत्तं च तालं वाद्यक्रमं तथा || मन्त्रं पत्रविधानं च मण्डलं कुण्डमेव च | विश्वधानिश्च समिधो होमश्चैव जपस्तथा | द्रव्याण्येतानि सर्वाणि वक्ष्येऽहन्तु पृथक् पृथक् || इति || सूक्ष्मे च- मार्गशीर्षे घृतं प्रोक्तं पुष्ये क्षौद्रं प्रशस्यते | सघृतं कम्बलं माघे फाल्गुने दधि कीर्तितम् || चैत्रे दमनकं प्रोक्तं वैशाखे गन्धपूजनम् | फलपूजा ज्येष्ठमासे क्षीरेणाषाढ पूजनम् || श्रावणे शर्करापूजाऽपूषैः प्रोष्ठपदेऽर्चनम् | आश्विने त्वन्नपूजा स्याद्दीपदानं च कार्तिके || स्थापयेत्तु क्रमेणैव पूजयेन्मूललिङ्गवत् | पाद्यमाचमनं चार्घ्यं स्नानं वस्त्रं विलेपनम् || भूषणं चैव पुष्पं च धूपदीपं निवेद्यकम् | वह्नेरायतनं चैव समिदाहुतिकं जपः || पानीयं मुखवासं च गेयं नृत्तं च वाद्यकम् | पत्रं मन्त्रविधानं च कल्पयेत्तान् पृथक् पृथक् || इति || धृतादिपूजाफलं च सूक्ष्मे- घृतपूजाफलं च सूक्ष्मे- घृतपूजातु मोक्षाय क्षौद्रमायुर्विवर्धनम् | घृतकम्बल यागश्च क्षेमारोम्यकरो भवेत् || द्रधि पुत्रप्रवृद्धिस्स्याद्दमनं श्रीकरं भवेत् | मालोक्यं लभते गन्धात्फलमिष्टार्थ सिद्धिदम् || प्. १०९) शत्रुनाशकरं क्षीरं गुलं प्रीतिफलप्रदम् | अपूपं धनलाभार्थमन्नादि कामदम् || ब्रह्महत्यादि दोषघ्नं दीपदानं प्रभञ्जन || इति || एवं सामान्यतो मासपूजाकालमभिधाय तिथिद्वयादि जनित विषये तन्निर्णयमाह \ मूलम्- मासेज्या समये द्विवारमुदिते त्वेकत्रमासे द्वयोः- कर्तव्या दिवसद्वये यदि दिवा प्रोक्तातिरिक्ते शुभा | पूर्वस्मिन्नथ पुण्ययोग सहिते सङ्क्रान्तिराहूदयौ- त्यक्त्वा पूर्वदिनेऽधिवास्य परतो नित्यार्चनान्ते भवेत् || २१ || मासेज्येति-एकत्रमासे-एकस्मिन्नेवमासे मासेज्यायाः-मासपूजायाः समये-मासनक्षत्रादि प्रोक्तकाले | द्विवारमुदिते-मासाद्यन्तयोः प्राप्तेसति द्वयोः-उभयोरपि कर्तव्या | तथाचोक्तमंशुमत्तन्त्रे मासपूजापटले- अयनाद्युक्तकालेषु तन्मासद्रव्यकैर्यजेत् | एकामासे द्विनक्षत्रे द्वयोरपि च पूजयेत् || इति || ननु उभयस्य अशास्त्रार्थत्वदिति व्रीहि यव यागवदन्य तर पक्ष एव स्वीकार्यः अन्यथा मीमांसाविरोधात् | इति चेत् न द्वयोरपि च पूजयेदिति शिव वाक्येन आवश्यकत्वोक्तेः प्राबल्यात् | दिवसद्वयेसति यस्मिन् दिवसे दिवाप्रोक्त कालोऽतिरिक्तः तस्मिन् दिवसे शुभा कार्येत्यर्थः | तत्र गुणोपसंहारन्यायेन | द्विवारे खण्डिते ऋक्षे यस्मिन्वारे दिवाधिकम् | तस्मिन् तीर्थोत्सवं कुर्यात्समे पूर्वं विशिष्यते || इति न्यायेन अङ्गीकार्यमिति भावः | अथ पूर्वस्मिन्दिने पुण्ययोग सहिते व्यतीपात पौर्णमास्यादि योगयुक्ते सति तस्य दुर्लभत्वात् पूर्वस्मिन्नेव कार्या | तदुक्तं कामिके- तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते || इति || वारद्वयगते ऋक्षे तिथौवा योगसम्भवे || इति च || सङ्क्रान्ति राहूदयौ- सङ्क्रान्तिः मेषादि सङ्क्रान्तिः राहूदयं- सोमसूर्योपरागः एतौ त्यक्त्वा -एतद्वयं यस्मिन्दिने सम्भवति तद्दिनं त्यक्त्वा पूर्वत्रचेत् परं ग्राह्यं परत्रचेत् पूर्वं ग्राह्यमित्यर्थः | तथाचोक्तमाचार्यैः - नम्मर्क्ष तीर्थर्क्षक मास भानि- यद्येकमासे पुनरुद्भवन्ति | पुनर्भवेष्वेव हि कर्म कार्य- तथैव सङ्क्रान्त्युपराग जर्जम् || इति || प्. १११) तयोरपि प्रत्येकं विशेषपूजाकालत्वादिति भावः अपरिहार्यत्वेन समावेशनिर्णयस्तु उत्तरत्र प्रतिपाद्यते | अथ प्रोक्तकाल एव पूजाप्रकारमाह | पूर्वदिनेऽधिवास्य-अधिवासनाख्यं कर्म कृत्वा अपरेद्युः नित्यपूजान्ते कर्तव्या तदुक्तमंशुमत्तन्त्रे- आचार्यश्शिष्यसंयुक्तः स्नानं कृत्वा विचक्षणः | अहतेनैव वस्त्रेण चाच्छाद्य सुसमाहितः || तत्तन्मासोक्तकं द्रव्यं सम्पाद्य विधिवद्बुधः | निर्दिष्ठ दिवसात्पूर्वरात्रौ दीपावसानके || यागगेहं प्रविश्याथ अधिवासनसमारभेत् || इत्यादि || अपूषं चन्दनं चैव चाऽग्नं पुष्पं फलं तथा | सद्योधिवासनं कुर्यादन्येषां पूर्वरात्रके || किञ्चिदस्मिन्विशेषोऽस्ति शृणुष्व रविसत्तम | प्रातःसन्ध्यावसाने वा चोपसन्ध्यावसानके || अन्नपूजां ततः कृत्वा विधिवद्देशिकोत्तमः | मध्याह्नयजने काले चान्नलिङ्गं विसर्जयेत् || तत्काले स्नपनं कुर्यादन्नलिङ्गं जले क्षिपेत् | अश्नीयात्कामतो यस्तु रौरवं नरकं व्रजेत् || इति || सायाह्नयजने काले चान्नलिङ्गं विसर्जयेत् || इति च || प्. ११२) एवं मासपूजाकाले प्रतिपादिते तत्तन्मासेषु नवनैवेद्यादि विशेष पूजानां काल निर्णयाय तत्तदागम वचनान्येवोदाह्नियन्ते | कालोत्तरे- अथातस्सम्प्रवक्ष्यामि नव नैवेद्यलक्षणम् | कन्याकुम्भकुलीरेषु चापमासे च वर्जयेत् || इति || भीमसंहितायाम्- प्रोष्ठपादे तथामाघे चाषाढे मार्गशीर्षके | वर्जयेत्तु प्रयत्नेन शेषाश्च शुभदा स्मृताः || प्रशस्तश्शुक्लपक्षस्तु कृष्णपक्षस्तु निन्दितः || इति || कालोत्तरे- सितपक्षे द्वितीया च तृतीया पञ्चमी तथा | सप्तम्येकादशी चैव दशमी च त्रयोदशी || एताश्च तिथयश्शस्ता हस्तश्रवणरेवती | आदित्यः पुष्य मैत्राश्वि चित्रस्त्रीण्युत्तराणि च || सोम प्रजापती मूल विशाखा वसुवारुणाः | एते च शुभदाः प्रोक्ता मीनाजालि कुलीरजाः || अशक्यराशयश्चैते चान्ये सर्वे शुभप्रदाः | लग्ने च दशमे चैव षष्टिर्वै चाष्टमेषु च | चतुर्थे तु शुभो जीवष्षष्ठे च दशमे तथा || प्. ११३) एकादशे च दशमे शुभाः शुभकराः स्मृताः | षष्ठे च दशमे चैव द्वादशे सप्तमेऽपि च || मृगाङ्कः शुभदः प्रोक्तो नवमे द्वादशे तथा | षष्ठे च दशमे लघ्ने सप्तमेऽन्यग्रहाश्च वै || अशुभास्त्विति विध्यातास्त्वन्येषु शुभदास्स्मृताः | बुधभार्गव सोमाख्या वाराश्श्रेष्ठतमास्स्मृताः || सुमुहूर्तं विनिश्चित्य कारयेदङ्कुरार्पणम् || इति || अजिते- नवनैवेद्य कालस्तु भवेन्मासत्रयेऽपि च | न तन्माघे तु चेष्ठ स्याद्धस्ते च गुरुशुक्रयोः | चैत्रफाल्गुनयोश्चाऽपि पूर्वपक्षे शुभे दिने | शुभर्क्षे शुभयोगे च शुभलग्ने सुरोत्तम || इति || शिवरात्रिकालमाह | यथा कामिके- माघमास्यासिते पक्षे विद्यते या चतुर्दशी | तद्रात्रिश्शिवरात्रिः स्यात्सर्वपुण्यशुभावहा || इति || कुमार तन्त्रे- तन्मासे कृष्णपक्षे तु विद्यते या चतुर्दशी | तद्रात्रिश्शिवरात्रि स्यात्सर्व पुण्य शुभावहा || प्. ११४) रात्रौ यामद्वयदर्वाक् घटिकैका महानिशि | तस्यां चतुर्दशी यस्मिंस्तद्रात्रिश्शिवरत्रिका || मुख्या त्रयोदशी मिश्रा पर्वविद्धाधमा मता | मध्यमा शिवरात्रिः स्यादहोरात्रं चतुर्दशी || तस्यां पूज्यो महादेवस्त्वात्मनो हितकाङ्क्षिभिः || इति || ईश्वर उवाच- कौशिकेदं शतं सत्यं मत्पूज्यायाश्चतुर्गुणम् | अप्येकदन्त सेनान्यो पूजया तोषयाम्यहम् || इति || चिन्त्यागमे- एकमासे द्विपक्षे तु चापरे वृतमाचरेत् | रात्रौ चैव त्वहोरात्रं कृष्णायान्तु चतुर्दशी || भवेद्रात्रौ महादेवि पूजायाञ्चोत्तमोत्तमम् | दिवा त्रयोदशी युक्तं तद्रात्रौ तु चतुर्दशी || भवेद्देवस्य तद्रात्रौ यजनं चोत्तमं भवेत् | भवेत्रयोदशी पूर्वं रात्र्यादौ दशनाडिकाः || पश्चाद्विंशति नाड्यश्च चतुर्दश्यास्तिथेर्भवेत् | तद्रात्रौ शिवरात्रिः स्यान्मध्यमन्तु शिवाप्रिये || भवेच्चतुर्दशी पूर्वं रात्रौ विंशति नाडिकाः | शेषं पर्वयुतं पश्चाद्व्रतं कन्यसमाचरेत् || इति || प्. ११५) एवं चार्धरात्र एव ब्रह्मविष्ण्वोः कलहनिवारणाय महालिङ्ग प्रादुर्भावादर्धरात्र व्यापिनी चतुर्दश्येव ग्राह्या | वृद्धिक्षयवशात् तदभावे प्रदोषव्यापिनी ग्राह्या | नतु त्रयोदशी भगाकारा लिङ्गकारा चतुर्दशी | इति च-दर्शविद्धां विवर्जयेत् | इत्याद्यनेकागम स्मृति वचनैस्त्रयोदशी विद्धायाः परिग्राह्यत्वोक्तेः अमाविद्धायाः वर्ज्यत्वोक्तेश्च कथमिदमिति चेत् सत्यम् | अमावेधनिषेधस्य दिनद्वयेप्यर्धरात्रव्याप्तिविषयत्वात् | दिनद्वयेप्यर्धरात्र व्याप्त्यभावे अर्धरात्रवत् प्रदोषव्याप्तेः परमेश्वरस्य नटनसमयत्वेन तद्व्यापिनी ग्राह्या | एवं च न कुत्रापि स्मृत्यागम विरोधः | केचित्तु एकादश्यां दशमीवेधवत् चतुर्दश्यां दर्शवेधमेव न सहन्ते | स्कान्दे ईशान संहितायाम्- तिथ्यन्ते पारणां कुर्याद्बन्धुपुत्रादि संयुतम् | एवमेव वृतं कुर्यात्प्रति संवत्सरं व्रती || द्वादशं वार्षिकं कुर्याच्चतुर्विंशाब्दिकं तथा | सर्वान्कामानवाप्नोति प्रकारं वच्मि मानवः || तिथ्यन्ते पारणां कुर्याद्दिवा वा यदि वा निशि | पूर्वेद्युरेकदाश्नीयाद्दन्तधावन पूर्वककम् || इति || प्. ११६) वसन्त पूजाकालमाह- उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् | विशेषस्नपनोपेतं विशेष यजनान्वितम् || इति || अजिते- वसन्तं तत्प्रवक्ष्यामि समासेन जनार्दन | मधु माधवयोर्मासोः पूर्णायामहनि स्मृतम् || तस्मिन्काले शुभे लग्ने कारयेद्विधिपूर्वकम् || इति || वातुले- चैत्र वैशाखयोर्मासोः त्रयोदश्यां समाचरेत् | शुक्लपक्षे शुभर्क्षे च सुवारे सुमुहूर्तके || प्रतिसंवत्सरं कुर्यादिमं लोक सुखावहम् || इति || सूक्ष्मे- फाल्गुने चैत्रमासे च वैशाखे च विशेषतः | नवाहे वाऽथ सप्ताहे पञ्चाहे वा त्र्यहेपि वा || एकाहे वाऽथ कर्तव्यं वसन्ताख्यं तदुत्सवम् | तत्तन्मासर्क्षके कुर्याद्वसन्तं चोत्सवं क्रमात् || इति || पूरकर्मविधिः कालोत्तरे- आषाढमासके चैव पूरकर्म समाचरेत् | राष्ट्रग्राम नृपाणां च त्वायुः श्री कीर्तिं सिद्धिदम् || प्. ११७) पर्वयुक्तं तथोत्कृष्टमपरं मध्यमं भवेत् | पक्षे वारद्वये प्राप्ते त्वधिकं गृह्य बुद्धिमान् || पक्षद्वये समं प्राप्ते ह्मपरं गृह्य देशिकः | एवमृक्षं गृहीत्वा तु देवीं सम्यक्समाचरेत् || इति || कृत्तिकादीपविधिः कामिके- दीपावलिं प्रवक्ष्यामि शृणुध्वं विप्रसत्तमाः | मासेतु कृत्तिकाख्ये च नक्षत्रे कृत्तिकाह्वये || पूर्णायां वाऽथ तद्योगस्सर्वकाम प्रसिद्धये | ख्यस्तमनवेलायां दीपारोहण मारभेत् || कर्तुरष्टम राश्यादि लग्नदोष निरीक्षणम् | विष्टि वैनाशिकर्क्षादि प्रेक्षणं नाऽत्रसम्मतम् || रवेतस्तमयात्पूर्वं याम पादावसानकम् | कालस्तदूर्ध्व यामार्धपर्यन्तः काल इष्यते || एवं निश्चित्य कालन्तु कारयेदङ्कुरार्पणाम् || इति || कामिक तन्त्रसारे- यां तिथिं समनुप्राप्य चोदयं यात् भास्करः | सा तिथिस्सकला शुक्लपक्षे कृष्णे द्विजोत्तमाः || यां तिथिं समनुप्राप्य चास्तं यति दिवाकरः | सा तिथिः सकला ज्ञेया नक्षत्रेप्येवमेव तु || प्. ११८) वृश्चिकस्थे दिवानाथे सप्तमस्थे निशाकरे | कृत्तिकाधिष्ण्य संयोगे रात्रौ दीपान् प्रकल्पयेत् || इति || रौरवे- वृश्चिकेर्कगते चन्द्रे चाग्नि-ऋक्ष समन्विते | सम्पूर्णमासि वा रात्रौ कृत्तिका दीपमाचरेत् || इति || स्वायम्भुवे- कृत्तिकाख्ये च मासे तु तदृक्षे तिथि संयुते | उत्तमाइ त्रयं प्रोक्तं तद्भेदं शृणु सुव्रत || तन्मासे चैव कर्तव्यं योगयुक्तं विशेषतः | एकामासे द्विपक्षे तु पर्वयुक्तं समाचरेत् || तस्मिन् पर्वणि तत्रैव कृत्तिकर्क्षयुतं यदि | तत्र दीपः प्रकर्तव्यो विशेषः कश्चिदस्ति हि || वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे | पर्व युक्तं विना द्वौतु चापरे वृतमाचरेत् || पक्ष-ऋक्ष समायुक्तमुत्तमन्तु प्रशस्यते | मध्यमं वैश्यविज्ञेयं चतुर्थे चाधमं भवेत् || एवं क्रमेण कर्तव्यं धनधान्यादि वृद्धिदम् | सामान्यमुत्तमं प्रोक्तं सर्वप्राणि तमोपहम् || इति || प्. ११९) तत्रैव तिथिनिर्णय प्रकरणे- कृत्तिका सहिता पूर्णा सुखदा राजराष्ट्रयोः | भरणी सहिता रोगहरिणी रोहिणी युता || सर्व सौख्यकरी ज्ञेया चन्द्रदैवत्य संयुता | सुभिक्षकारिणी प्रोक्ता फलमेवं प्रकीर्तितम् \\ तस्मात्सर्वप्रधानं स्यात्पर्वयुक्ते निशाकरे | दीपोत्सवो विधातव्यं पर्वहीने कृते यदि || राजराष्ट्राभिचाराय तस्मात्पर्वणि कारयेत् || इति || अजिते- और्जे मासि च राकायां नक्षत्रे वह्निदैवते | तस्मिन्प्रदोष काले तु कृत्तिकादीपमाचरेत् || केवलं पौर्णमास्यान्तु प्रदोषे वा समाचरेत् || इति || आर्द्रावृत विधि.ः-यथा कामिके तन्त्रसारे- मार्गशीर्षक मासे तु चार्द्रायां वृतमाचरेत् | आर्द्रायां पर्वसंयुक्तमयुक्तं चार्द्रमेव च || विशेषेण तु चार्द्रायामुत्तमन्तु प्रचक्षते | आर्द्रायामष्ट नाडिषु चान्त्यर्क्षे वृतमाचरेत् || अष्टनाडीर्विना ऋक्षं पूर्वाह्ने वृतमाचरेत् || इति || प्. १२०) सन्ताने- मार्गशीर्षे च मासे तु चार्द्रानक्षत्रपूजनम् | पर्वणा संयुतं योगयुक्तं चेदुत्तमं भवेत् || आदित्यास्तमनात्पूर्वं यामं यामार्धमेव वा || तद्दिनं पर्वसंयुक्तं मध्यमं तदुदाहृतम् | ऋक्षमस्तमयान्तं हि पर्व वा येन केनचित् || अधमं त्विति विख्यातं निश्चित्यैवं प्रकल्पयेत् | पर्व हीने दिने पूर्णे तदा ऋक्षप्रधानकम् || खण्डिते सति नक्षत्रे द्वयोर्नाड्यधिकं भवेत् | समं चेदपरं ग्राह्यं सर्वमङ्गलकारणम् || इति || अंशुमति- मार्गशीर्षकमासे तु चार्द्रायां पर्वसंयुते | पर्वयुक्ते वियुक्ते वा चार्द्रायां वृतमाचरेत् || दिनाधिके तथा न्यूते तदृक्षे तु समाचरेत् | आर्द्रायामष्टनाडिषु त्वन्त्यर्क्षे वृतमाचरेत् || अष्टनाडीर्विना ऋक्षं पूर्वाह्ने वृतमाचरेत् | यदृक्षमष्टनाड्यूनं तदृक्षं निष्फलं भवेत् || इति || प्. १२१) स्वायम्भुवे- मार्गशीर्षकमासे तु चार्द्रायां वृतमाचरेत् | आर्द्रायां पर्वयुक्तं चेतुत्तमन्तु प्रशस्यते || पर्वयुक्तं विना चेत्तु चार्द्रा नक्षत्रमेव वा | एकमासे द्विनक्षत्रे त्वन्त्यर्क्षे वृतमाचरेत् || वारद्वयं च सम्प्राप्य पर्वयुक्तं प्रधानकम् | आदित्योदयमारभ्य चैकद्वित्रि विनाडिका || पर्वयुक्तं गृहीत्वा तु तथा ऋक्षान्तमेव हि | कर्तव्यमष्टनाडी च तद्द्वारं गृह्य बुद्धिमान् || अष्टनाडि विहीनं चेत्तत्पूर्वे वृतमाचरेत् | तत्पूर्वे पूर्ववत्कुर्यादङ्कुरार्पणमुत्तमम् || मृगशिर्षाख्य नक्षत्रे त्वधिवासनमारभेत् || इति || सूक्ष्मे- अथ विघ्नेशयजनं शृणु त्वं तत्प्रभञ्जन | मार्गशीर्षकमासे तु प्रचेताष्षष्टि संयुते || षष्टियुक्ते वियुक्ते वा तद्दिने वृतमाचरेत् | विघ्नेशं पूजयेद्धीमान् गन्ध पुष्पादिना सह || इति || प्. १२२) योगजे- आर्द्रा-ऋक्षस्य पूर्वेतु वाम्बु युक्ते वियुक्तके | दिने च दशमे तस्मात्क्रमेण वृतमाचरेत् || तथा- चापं प्राप्ते दिवानाथे रौद्रात्पूर्वं दशाह्निके | षष्ट्यां वा शत-ऋक्षे वा विघ्नेशं सम्यगर्चयेत् || इति || प्रदोषकालविधिमाह- यत्र दिवसे निशामुखे रात्र्यादौ त्रयोदशी द्व्येकार्ध यामा द्वियामा एकयामा अर्धयामा ततो हीना वा द्विघटिकैक घटिका वा दृश्यते तत्र प्रसोषाख्यकाले पक्षद्वये-शुक्लपक्ष कृष्णपक्षयोरपि गिरिशं यजेत् | माघमासे तु शुक्लपक्षे विशेषाद्गिरिशं यजेत् | तदुक्तमंशुमति- प्रदोषस्य विधिं श्रूयतां रविसत्तम | सर्वपापहरं पुण्य सर्वदोषविनाशनम् | प्रदोषकाले कर्तव्यं यजनं च विशेषतः | त्रयोदशीदिने सायं क्षीराब्धिमथनोद्भवम् || कबलीकृतवान् रौद्रं कालाग्नि सदृशं विषम् | देवानां च हितार्थाय वृषमारुह्य सत्वरम् || तस्मिन्काले मया पीत गरलं लोकरक्षया | करोति मम यः पूजां सर्वपापैः प्रमुच्यते || प्. १२३) तस्मात्सर्वप्रयत्नेन शिवपूजां समारभेत् | त्रयोदशीयुतं सायं सर्वदोषापहं स्मृतम् || सितासित त्रयोदश्यां यजनं वृषपूर्वकम् | उदयाद्युदयान्तं च त्रयोदश्युत्तमं भवेत् || भास्करोदयमारभ्य यावदस्तमनान्तकम् | तद्दिने यजनं कुर्यान्मध्यमं चेति कीर्तितम् || सप्तविंशति नाड्यन्तं यजनं चाधमं भवेत् | दिवसापरतः कालद्व्येकयामा त्रयोदशी || अर्धयामा भवेत्सा च द्व्येकनाडी त्रयोदशी | तद्दिनस्यावसाने तु प्रदोष इति निश्चयः || तस्मादह्वोष्टमे भागे चाद्ये मध्ये तदन्तके | दृश्यतेत्र त्रयोदश्यां शिवं सम्पूजयेद्बुधः || माघे शुक्लत्रयोदश्यामुत्तमोत्तममिष्यते | तद्दिने यजनं कुर्यात्सर्वमासफलं लभेत् || इति || स्वायम्भुवे- आरभ्यास्तमनं भानोस्सत्रिपाद त्रिनाडिकाः | प्रदोष इति निर्दिष्टस्तत्र शम्भुं समर्चयेत् || प्. १२४) रवेरस्तमयादूर्ध्वं त्रयोदश्यधिका यदा | प्रदोषपूजा तत्रैव कर्तव्या काम्यसिद्धये || इति || अंशुमत्तन्त्रे- वृषादिस्नानपर्यन्तं घटिकैका विधीयते | नैवेद्याद्युत्सवान्तं च पञ्च नाड्यः प्रकीर्तिताः || धूपादि वृषपर्यन्तं त्रिपादन्तु विधीयते | प्रदोषयजनान्ते तु सायरक्षा समाचरेत् || एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् || इति || अथ गर्भाधानादि षोडशकर्मणां कालमभिधातुं प्रथमं गर्भाधानकालमाह- मूलम्- सावित्र वेधो हरि वरुणानि- पौष्णानुराधोत्तर मारुतानि | गुर्विन्दु सम्योशनसान्तु गर्भा- धाने प्रशस्तानि दिनांशकादि || २२ || सावित्रेति-सावित्रः-हस्तः | वेधाः-रोहिणी हरिः-श्रवणं | वारुणं- शतभिषक् | पौष्णं-रेवती | अनूराधा-प्रसिद्धा | उत्तरा- उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः | मारुतः-स्वाती | एतानि दशनक्षत्राणि गुर्विन्दुसम्योशनसां-बृहस्पति चन्द्र बुध शुक्राणां दिनांशकादि च-आदि शब्देन द्रेक्काण होरादयो गृह्यन्ते | एतानि गर्भाधाने प्रशस्तानि ग्राह्याणि | तथाचोक्तं वीरतन्त्रे गर्भाधानपटले- रोहिणी रेवती हस्तश्श्रवणञ्चानुराधकम् | स्वाती शतभिषक् चैव चोत्तरत्रयमेव च || सौम्य जीव सितेन्दूनां द्रेक्काण दिवसांशकाः || इति || राशिविधेस्तत्रानुक्तत्वात् अनुक्तमन्यतो ग्राह्यम् इति न्यायेन कालविधानोक्त हित्वा कर्कटकं नृयुग्म मबलां इति वचनेन कर्कटक मिथुन कन्या विहाय शेषा नव राशयो ग्राह्याः | तिथयश्च रिक्ता वर्जयित्वा अन्ये ग्राह्याः | नृसिंहस्तु- छिद्रांश्च नवमीं हित्वा पुंसवने मताः || इत्युक्तवान् | तत्र अष्टशुद्धिरप्यपेक्षणीया | तथोक्तं वसिष्ठेन- अष्टमस्था ग्रहास्सर्वे नेष्टास्तेष्युश्शुभाऽशुभाः || एवं सम्यक् परीक्ष्यैव कुर्यात्पुंसवन क्रियाम् || इति || अथ पुंसवनकालमाह- मूलम्- व्यक्ते तु गर्भेऽथ तृतीयमासे पुष्पे हरौ पुंसवनं विदध्यात् | प्. १२६) शुद्धेऽष्टमे भार्गवजीव सम्य निशाकराणामुदये प्रशस्तम् || व्यक्त-इति-गर्भे व्यक्ते सति | अथ तृतीयमासे पुंसवनं विदध्यात्, कुर्यात् | अत्र नक्षत्रमाह | पुष्ये हरौ श्रवणे च | अष्टमे-अष्टमस्थाने शुद्धे सति च भार्गवसौम्य निशाकराणामुदये च पुंसवनं विदध्यात् | तथा चोक्तं वीरतन्त्रे- अथ पुंसवनं वक्ष्ये शृणु तत्वं तपोधन | मासद्वयान्ते कर्तव्यं सर्वालङ्कार संयुतम् || पुष्ये वा श्रवणे वाऽपि कुर्यात्पुंसवनं बुधः | गुरु शुक्र बुधेन्दूनामुदयं शस्तमेव वा \\ चन्द्रोदयं प्रशंसन्ति ग्रहा नेष्टास्तु चाष्टमे || इति || ननु पुंसवने चन्द्रोदयस्य शस्तत्वे रात्रावपि कर्तव्यत्वं प्रतीयते | अतः कथमिदं ज्योतिपाचार विरोधादिति चेत् सत्यम्-आगम बलादेव रात्रावपि कर्तव्यम् | अतएव तस्मिन्नेव प्रकरणे-उत्तरत्र- ध्रुवं येनेत्यरुन्धत्यामिति ध्रुवं दर्शयेत्ततः | न दृश्येत तदा विप्र पश्येद्धेम सराजतम् || इति प्रतिपादितत्वाच्च रात्रावपि कर्तुं शक्यते एव || प्. १२७) विरोधो यत्र दृश्येत ज्योतिषोक्तागमोक्तयोः | ज्योतिषोक्तं विहायैव ह्यागमोक्तं समाचरेत् \\ इति बोधायनवचनस्य सावकाशत्वम् \\ अथ सीमन्तकालमाह- मूलम्- वेधः पौष्णादिति मृगशिरो हस्त विष्णूत्तरार्ये- ष्वृक्षेष्वार्यैरिह निगदितं शैव सीमन्तकर्म | तुर्ये षष्ठेऽपि च शुभतिथौ मासि सिंहालिवर्ज्ये लग्ने शुद्धाष्टमयुजिःहरावष्टमे विष्णुपूजा || वेध इति-तत्र प्रथमं सीमन्ते नक्षत्राण्याह | वेधः-रोहिणी पौष्णं-रेवती अदितिः-पुनर्वसु मृगशिरः हस्तौ प्रसिद्धौ विष्णु-श्रवणं उत्तरा-उत्तरफल्गुन्युत्तराषाढोत्तर प्रोष्ठपदास्तिस्रः | आर्यः-पुष्यः एतेषु दशसु नक्षत्रेषु शैव सीमन्ताख्यं कर्म आर्यैः-अभियुक्तैश्शैवाचार्यैः इह निगदितं-उक्तम् || तथाचोक्तं वीरतन्त्रे- रोहिण्यां चैव पुष्ये च उत्तरेषु पुनर्वसौ | हस्ते श्रवण रेवत्योर्मृगशीर्षे तथैव च || सीमन्तोन्नयनं कुर्याच्छुभांशे शुभलग्नके || इति || प्. १२८) अथ मासविधिमाह- तुर्ये-चतुर्थे षष्ठे वा मासि शुभतिथौ-रिक्त पक्षच्छिद्र दर्शव्यतिरिक्त तिथौ | तथा चोक्तं वीर तन्त्रे- सीमन्तं च प्रवक्ष्यामि शृणुष्व कमलासन | मासे चतुष्टये प्राप्ते षष्ठे वा मासि कारयेत् || इति || अथ लग्नविधिमाह - सिंहालिवर्ज्ये - सिंहः प्रसिद्धः अलि-र्वृश्चिकः | एतदुभयव्यतिरिक्ते | शुद्धाष्टमयुजि-अष्टमशुद्धियुक्ते | तदुक्तं वीरतन्त्रे- सिंह वृश्चिक वर्ज्येस्यादष्टमे ग्रहवर्जिते || इति || अथ विष्णुबलेः कालमप्यत्रैवाह- हरावष्टमे विष्णु पूजा - इति अष्टमे- अष्टमे मासि हरौ-श्रवण नक्षत्रे विष्णुपूजा-विष्णुबलिनाम कर्म कार्येति शेषः | विष्णोर्बलिं च वक्ष्यामि श्रोणायां हि करोति तत् || इति || अथ जातकर्मणः जननक्षणएवावश्य कर्तव्यत्वेन तत्कालस्य दुर्निरूपत्वात् तत्कालं सिद्धवत्कृत्य नामकरणकालमाह- मूलम्- जाते पुत्रे प्रमुदितमना जातकर्माशुकृत्वा स्वाती श्रोणादिति शतभिषक् सौम्य मूलोत्तरेषु | प्. १२९) आर्ये पौष्णाम्बुज भव करे ष्वादधीत प्रशस्तं नामाचार्यो विधिवदथवैकादशे द्वादशेह्नि || जात इति-पुत्रे जाते-जातमात्रे सति प्रमुदितमनाः-स्वत एव हर्षोन्मेषतरङ्गितान्तःकरणस्सन् पितॄणां बन्धन मोक्षात् वंशाभिवृध्यङ्कुरोत्पादनाच्चेति भावः | आशु - तत्क्षण एव जातकर्म कृत्वा तत्पुण्यकालानन्तरमनुपदमेवाऽशौच-स्पर्शादिति भावः | तदुक्तं वीर तन्त्रे- जातकर्म विधिं वक्ष्ये धर्मकामार्थसाधनम् | अथ जातं कुमारं च दर्शयेद्धृदयेन तु | अस्त्रेणैव तु मन्त्रेण नाभिं छित्वा विशेषतः || इत्यादि || अथ नामकरणनक्षत्राण्याह-स्वाती- प्रसिद्धा श्रोणा-श्रवणं आदितिः- पुनर्वसुः शतभिषक्-प्रसिद्धं | सौम्यः-मृगशिराः | मूलं- प्रसिद्धं उत्तरा-उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः आर्य- पुष्यः पौष्णः-रेवती अम्बुज-भवः-रोहिणी करः-हस्तः एतेषु त्रयोदश नक्षत्रेषु विधिवत्-आगमोक्तक्रियासहितं प्रशस्तम् | आगमोक्तं नाम आदधीत कुर्यात् | तदुक्तं वीरतन्त्रे- प्. १३०) वक्ष्यामि नामकरणं शृणुष्व कमलासन | उत्तरा रेवती हस्त शतभिषङ्मूल पुष्यकम् || पुनर्वसु श्रवणं स्वाती रोहिणी मृगशीर्षकम् | एतानि चैव ऋक्षाणि प्रसस्तं नामकर्मणि || इति || पुत्रस्य देवतोद्देश नामकर्म च कारयेत् | प्रथमन्तु महादेवो द्वितीयन्तु महेश्वरः || तृतीयं शङ्करश्चैव चतुर्थं वृषभध्वजः | पञ्चमं कृत्तिवासास्तु षष्ठं वै कामनाशनः || सप्तमं देवदेवेशः श्रीकण्ठश्चाष्टमं स्मृतः | नवमं चेश्वरः प्रोक्तो दशमं पार्वतीप्रियः || रुद्रश्चैकादशं चैव द्वादशन्तु शिवःस्मृतः | तानि द्वादशनामानि कृत्तिकादिषु बुद्धिमान् || शिवान्तं मुक्तिनामानि वाचयेदग्निसन्निधौ || इति || वीरतन्त्रे- स्वस्तिमूर्ध्निं च जप्त्वा तु युग्माक्षरं शिवान्तकम् | शङ्करो मार्गशीर्षे तु पुष्ये शम्भुरिति स्मृतम् || माघे महेश्वरो नाम महादेवस्तु फाल्गुने | चैत्रे तु स्थाणु नाम स्याद्वैशाखे तु शिवस्तथा || प्. १३१) ज्येष्टे पशुपतिर्नाम चाषाढे चोग्रनामकम् | श्रावणे शर्वनाम स्याद्भाद्रपदे त्रियम्बकः || आश्विने चेश्वरो नाम कार्तिके रुद्रनामकम् | अथवा सर्वमासेषु गुरोर्नाम तु वाचयेत् || इति || सुप्रभेदे कन्यकानामकरणे विशेष उक्तः | यथा- शिवमन्त्रं समुच्चार्य कन्यायाश्शक्ति नामतः | अम्बिका पार्वति गौरी भवानी च सुरार्चिता || दाक्षायणी हैमवती महादेवी हरप्रिया | उमा शिवकरी चेति गिरिजा द्वादशैव तु || शक्तिनाम इति ख्यातं कृत्तिकादिषु योजयेत् || इति || ननु अंशुमत्सूक्ष्मतन्त्रादिषु स्थूल सूक्ष्म भेदेन मासानां मार्गशीर्षप्रभृतित्वेन चैत्रप्रभृतित्वेन सर्वकर्मसु कीर्तनात् वीरतन्त्रे च मार्गशीर्षादित्वेनैव नामकरणादि निर्देशात् सुप्रभेदोक्त कृत्तिकादीति वचनं विरुद्धमिति चेत् न कृत्तिकादीत्यत्र कृत्तिका आदिः येषामिति अतद्गुणसंविज्ञान बहुव्रीहिणा मार्गशीर्ष मेवोक्तमिति न कश्चिद्विरोधः | एवं नक्षत्रमार्गेण नामकरणकालमभिधाय पक्षान्तरमाह- अथवेति- एकादशे द्वादशे वा अह्नि-दिवसे नामकरणं कुर्यात् | तथा च सुप्रभेदे- प्. १३२) उत्थापनमिदं प्रोक्तं नामनिर्देशनं शृणु | एकादशे द्वादशेऽह्नि नामनिर्देशनं क्रमात् || इति || एवं नामकरणकालमुक्त्वा उपनिष्क्रामणकालमाह | मूलम्- अश्विश्रोणादिति वसुमरुन्मैत्र चित्रोत्तरेन्दु- ब्राह्मे पौष्णे सवितृवरुणार्येषु निष्क्राम कर्म | शुद्धे सम्यक् दशमनिलये सन्मुहूर्ते सुलग्ने- मासे तुर्ये विधिवदुदितं मङ्गलं बालकानाम् || २५ || अश्वीति-उपनिष्क्रामकर्मणः प्रथमं नक्षत्राण्याह-अश्वी- प्रसिद्धः श्रोणा-श्रवणं अदितिः-पुनर्वसुः वसु-श्रविष्ठा मरुत्-स्वाति मैत्रं-अनुराधा चित्रा-प्रसिद्धा उत्तरा-उत्तरात्रयं | इन्दुः-मृगशिराः ब्रह्मा-रोहिणी पौष्णं-रेवती सवितृ-हस्तः वरुणः-शतभिषक् आर्यः-पुष्यः एतेषु षोडशनक्षत्रेषु मङ्गलं निष्कार्मकर्म-उपनिष्क्रामणाख्यं कर्म बालकानां उदितं-उक्तम् | तथा चोक्तं वीरतन्त्रे- अश्वी मृगशिरश्चैव रेवती च पुनर्वसुः | श्रवणं च श्रविष्ठा च हस्त स्वात्यनुराधकम् || प्. १३३) चित्रा तथोत्तराश्चैव शतमिपग्रोहिणी तथा | पुष्यश्चैव तु नक्षत्रं शस्तं नैष्कृमणे ततः || इति || अथ मासविधिमाह-तुर्येमासे-चतुर्थमासे तदुक्तं तत्रैव- नैष्क्रामणविधिं वक्ष्ये चतुर्थे मासि चेप्तते || इति || अथ मुहूर्तनिर्णयमाह- सन्मुहूर्ते विषमगुलिकादिदोष रहिते सुलग्ने - पापक्रान्ति पापेक्षणादि रहिते लग्ने दशमनिलये-दशमस्थाने सम्यक् शुद्धे | तदप्युक्तं वीरतन्त्रे- दशमस्था ग्रहाः सर्वे नेष्ठाश्चैव प्रयत्नतः | शुभे मुहूर्ते माङ्गल्ये चाग्निमुखं च कारयेत् || इति || अथान्नप्राशन कालमाह- मूलम्- मासे तु षष्ठे महिते मुहूर्ते- शशाङ्क देवेर्डित वारुणेषु | अश्वि प्रजेशे दशमे विशुद्धे- ऽन्नप्राशनं कर्म शिशोर्विदध्यात् || २६ || मास इति - तत्र प्रथमं मासविधिमाह- प्. १३४) मासे तु षष्ठे महिते मुहूर्ते || इति || तदुक्तं सुप्रभेदे- षण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् | नोच्छिष्टस्पर्शनं बाले सुमुहूर्ते शुभेदिने || इति || अथ नक्षत्राण्याह - शशाङ्क - मृगशिराः देविडितः - पुष्यः वारुणं - शतभिषक् अश्वी - प्रसिद्धं प्रजेशः - रोहिणी एतेषु पञ्चसु नक्षत्रेषु अन्नप्राशनं - अन्नप्राशनाख्यं कर्म शिशोर्विदध्यात् | तथा चोक्तं वीरतन्त्रे- षष्ठे मासि तु सम्प्राप्ते त्वन्नप्राशनमेव च | अश्वी मृगशिरश्चैव शतभग्रोहिणी तथा || पुष्यश्चैव तु नक्षत्रं प्रशस्तं चान्नभोजने || इति || अथ शुद्धिस्थानमाह - दशमे विशुद्धे - इति तदुक्तं तत्रैव- दशमस्था ग्रहास्सर्वे नेष्टा एव प्रयत्नतः || इति || अथ चौलकालमाह- मूलम्- वर्षे तृतीये वसुपौष्णपुष्य पुनर्वसू सौम्य कराश्विमेषु || प्. १३५) त्वाष्ट्रे हरावष्टम धाम्नि शुद्धे- कुर्यात्सनान्दीमुख चौलकर्म || २७ || वर्ष इति - तत्र प्रथमं वर्षविधिमाह- वर्षे तृतीये इति तदुक्तं वीरतन्त्रे- चौलकर्मविधिं वक्ष्ये चायुरारोग्यवर्धनम् | वर्षे तृतीये सम्प्राप्ते शुभनक्षत्रसंयुते || इति || तथा सुप्रभेदे - त्रिवर्षे शुभनक्षत्रे सुतिथौ चोत्तरायणे | इति | अथ नक्षत्राण्याह- वसु-श्रविष्ठा पौष्ण-रेवती पुष्य-पुनर्वसू-प्रसिद्धौ सौम्यं-मृगशिराः करः-हस्तः अश्विभं-अश्विनी त्वाष्ट्रं- चित्रा हरिः- श्रवणं एतेषु नवनक्षत्रेषु चौलकर्म कुर्यात् | तदुक्तं वीरतन्त्रे- चित्रा श्रविष्ठा हस्ताश्वि रेवती श्रवणं शुभम् | पुष्यः पुनर्वसुश्चैव मृगशीर्षं तथैव च || एते वै शुभदा प्रोक्ताः || इति || अथ शुद्धिस्थानमाह-अष्टमधाम्नि शुद्धे | इति | तथा चोक्तं वीरतन्त्रे-अष्टमे ग्रहवर्जिते इति | प्. १३६) सनान्दीमुख चौलकर्म-नान्दीमुखं श्राद्धपूर्वकं चौलकर्म कुर्यात् | तच्च पूर्वेद्युरेव कर्तव्यम् | तथा चोक्तं सुप्रभेदे- तद्दिनात्पूर्वदिवसे कृत्वा नान्दीमुखं पुनः | चौलोपनयने चैव समावर्तनके तथा || पाणिग्रहे च तेषां वै पूर्वे नान्दीमुखं स्मृतम् || इति || अथ उपनयन कालमाह- मूलम्- विप्रक्षत्रविशां क्रमेण समये गर्भाष्टमादावृतौ- मध्वाद्ये विधिमैत्रवायवदितिभत्वाष्ट्रेन्दु सावित्रभे | कुर्यादुत्तरभत्रये वृषयुगे कन्याकुलीरे धनुः- मीने चाष्टमशुद्धिभाज्युपनयं त्वाषोडशाब्दादिकात् || २८ || विप्र-इति-विप्रक्षत्रविशां ब्राह्मण क्षत्रिय वैश्यानां क्रमेण गर्भाष्टमादौ समये-आदिशब्देन गर्भैकादश गर्भद्वादशौ गृह्येते | तदुक्तं वीरत्रन्त्रे- उपनीतिं प्रवक्ष्यामि त्वायुरारोग्यवर्धनम् | गर्भाष्टमे तु विप्राणां राज्ञामेकादशे ततः || द्वादशेषु तु वैश्यानामिति प्. १३७) सुप्रभेदे विशेष उक्तः- जात संवत्सरादूर्ध्वे पञ्च षट्सप्तवत्सरे | अष्टमे वा नवाब्दे वा कर्म ज्ञानस्वरूपकम् || ब्रह्मवर्चसमायुष्यं श्रीप्रदं च विशेषतः || इति || सुप्रभेदे- वृतान्ते च प्रकर्तव्यं वसन्ते चोत्तरायणे || इति || अथ नक्षत्राण्याह | विधिः-रोहिणी मैत्रं-अनूराधा वायुः-स्वाती आदितिभं-पुनर्वसु स्वाष्ट्रं-चित्रा इन्दुः-मृगशिराः सावित्रभं-हस्तः उत्तरभत्रयं-उत्तरत्रयम् | एतेषु दश नक्षत्रेषु उपनयनं कुर्यात् || तदुक्तं वीरतन्त्रे- रोहिण्यां हस्तचित्रे च चोत्तरास्वनुराधके | स्वाती मृगशिरश्चैव पुनर्वस्वः प्रकीर्तिताः || इति || अथ लग्नविधिमाह-वृषः-वृषभः युगं-मिथुनं कन्या-प्रसिद्धा कुलीरः-कर्कटकः धनुर्मीनौ च प्रसिद्धौ | एतेषु षड्राशिषु अष्टमशुद्धिभाजि-अष्टमशुद्धियुक्तेषु कर्तव्यम् || तथाचोक्तं वीरतन्त्रे- वृषे च मिथुने चैव कन्यायां कर्कटे तथा | धनुर्मीनोदये शस्तमष्टमे ग्रहवर्जिते || इति || प्. १३८) अथ प्रोक्तकालेषु दैववशादिनाऽकरणे कदाकार्यमित्याशङ्क्याह | आषोडशाब्दादिकात् - इति षोडशवर्षपर्यन्तं ब्राह्मणस्योपनयनकालः | तदप्युक्तं वीरतन्त्रे- षोडशाब्दावधिश्चैव ब्राह्मणानां भवेततः || इति || अत्र ब्राह्मणानां इति वचनेन क्षत्रिय वैश्ययोः बोधायनोक्तै कविंशद्द्वाविंशद्वत्सरौ ग्राह्यौ | ब्राह्मणस्य षोडशवर्षतिक्रमे प्रायश्चित्तं प्रतिपादितम् | सुप्रभेदे यथा- अथवा षोडशाब्दान्तमौपनायन माचरेत् | षोडशाब्दादतीते तु चोद्दालं वृतमाचरेत् || द्विमां यावकं भुक्त्वा मासं क्षीरन्तु पाययेत् | आमिक्षिकामर्धमासं भक्षयेत्तदनिन्दितम् || तप्ते पयसि दधि च यत्तु साऽमिक्षिका स्मृता | कृष्णायाः कपिलाया वा चाष्टरात्रं वृतं त्विह || अयाचितं तु षड्रात्रं त्रिरात्रमुदकं तथा | उपवासमहोरात्रमतीते द्वापरे युगे || एकमुक्तं च कर्तव्यमुद्दालक मनुत्तमम् | स्नानं वा चाश्वमेधान्ते व्यत्यस्तं मे विनायक || प्. १३९) गर्भाधानादिकं कर्म पूर्ववत्कारयेत् क्रमात् | वृतान्तेऽथ प्रकर्तव्यम् || इति || अथ विवाहकालमाह- मूलम्- माघ प्रोष्ठपदातिरिक्त निखिलामासाः पुनारोहिणी- पौष्णत्र्युत्तर पैत्रसौम्य पवनानूराघ हस्तासुराः | शुद्धे सप्तमधाम्नि सिंहयमगो कन्यातुलाकर्कटाः- कोदण्डं घट इत्यतोर्ध्व वदनाश्शस्ता विवाहे बुधैः || २९ || माघेति-तत्र प्रथमं मासविधिमाह-माघ प्रोष्ठपदातिरिक्त निखिलाः- माघ भाद्रपद व्यतिरिक्ताः सर्वे मासाः विवाहे शस्ताः | तथोक्तं सुप्रभेदे- सर्वमासे विवाहस्स्यान्माघप्रोष्ठविवर्जिते || इति || अथ नक्षत्राण्याह-रोहिणी-प्रसिद्धा पौष्ण-रेवती त्र्युत्तराः- उत्तरफल्गुन्युत्तराषाढोत्तर प्रोष्ठपदास्तिस्रः पैत्रः-मघा सौम्यं- मृगशिराः पवनः-स्वाती अनूराधा हस्तौ च प्रसिद्धौ असुरः-मूलं | एतान्येकादशनक्षत्राणि विवाहे ग्राह्याणि | प्. १४०) तदुक्तं वीरतन्त्रे- स्वाती मूलानुराधा च मघा मृगशिरास्तथा | रेवती हस्तरोहिण्यश्चोत्तरेषु शुभं त्रिषु || इति || अथ शुद्धिस्थानमाह-शुद्धे सप्तमधाम्नि-इति तदप्युक्तं वीरतन्त्रे- सप्तमे ग्रहवर्जिते इति | अथ लग्नविधिमाह-सिंहः-प्रसिद्धः यम-मिथुनं गो-वृषः कन्यातुला कर्कटाः-प्रसिद्धाः कोदण्डं-धनुः घटः-कुम्भः एतेऽष्टौ राशयश्च ऊर्ध्ववदना उर्ध्वमुखाराशयश्च विवाहे शस्ताः | तदुक्तं कालविधाने- श्रेष्ठास्तौलियमाङ्गना घटधनुर्गोकर्कि कण्ठीरवा- मध्यास्सौम्ययुतास्ततोर्ध्ववदनास्सर्वे विवाहे || इति ऊर्ध्ववदनलक्षणन्तु- सूर्याधिष्ठितराश्युपक्रमतया यस्तिर्यगूर्ध्वाननम् || इति || तत्र आगमेषु राशीनां सम्यगनुक्तत्वात् ज्योतिषोक्ता एव गृहीताः परस्परविरोधाभावादावश्यकत्वेन अनुक्तमन्यतो ग्राह्यम् इत्यागमवचनेन च ग्राह्यत्वात् | परस्परविरोधाभावश्चोपोद्धात एव प्रतिपादितः | दोष एव न तु शास्त्रदोष इति | अथ दीक्षाकालमाह- प्. १४१) मूलम्- शक्तेः पातं विदित्वा गुरुरसकृदथो प्राप्तशिष्यस्य चिह्नैः- प्रोक्तक्षेत्रेषु दीक्षाविधिमिह विदधीतोत्तमे मध्यमे वा | मासे वेधो मघेन्दु श्रवणकरमरुत्षौष्णमूलोत्तरार्या- दित्यार्द्रा मित्रभेषु स्थिरयुगभवने नास्ति कालो मुमुक्षोः || ३० || शक्तेरिति-अथोक्तलक्षणो गुरुः प्राप्तशिष्यस्य-शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् | इति न्यायक्रमेण प्राप्त शिष्यस्य चिह्नैः स्वेदादिलक्षणैः शक्तेःपातं-शक्तिनिपातं विदित्वा | तथाचोक्तं सिद्धान्तशेखरे- शक्तिपातविभेदानां लक्षणं वक्ष्यते ततः | अधर्म धर्मयोस्साम्ये जाते शक्तिः पतत्यसौ || ज्ञानात्मिका पराशक्तिः शम्भोर्यस्मिन्निपातिता | तस्यैव क्रियते दीक्षा स मुक्तो नाऽत्र संशयः \\ तत्पातलक्षणं वक्ष्ये तारतम्येन देहिनाम् | देहपातस्तदा कम्पः परमानन्दहर्षणे || स्वेदो रोमाञ्च इत्येते शक्तिपातस्य लक्षणम् || इति || पुनश्चैतस्य तीव्रतर मन्द मन्दतर भेदेन चातुर्विध्यमागमेषु प्रतिपादितम् | ततो दीक्षां कुर्यादिति सम्बन्धः | तत्र प्रथमं देशविशेषमाह-प्रोक्तक्षेत्रेषु-आगमैराचार्यैश्च उक्तक्षेत्रेषु | तथा चिन्त्यविश्वे- महेन्द्रे मलये सह्ये पारियात्रे हिमालये | विन्ध्ये च मन्दरे चैव श्रीगिरौ हिमपर्वते || गङ्गातीरे च कालिन्द्यां नर्मदा तुङ्गभद्रयोः | सरस्वत्यां भीमरथ्यां कावेरी कन्यकातटे || वाराणस्यादि पुण्येषु क्षेत्रेदेशेषु वा तथा | सुमुद्रगाया नद्याया तीरे शुद्धे महाह्रदे || पुष्पोद्यानेऽथवा रम्ये क्षीरवृक्षसमीपतः | प्रासादे वा मठे चैव श्रोत्रियस्य गृहेऽथवा || शुद्धे देशे मनोरम्ये मृत्स्नाधिकतले समे || इति || तथा च पूर्वाचार्यैः- उद्यानेषु शिवालयेषु सरितां तीरेषु पद्मालये- काञ्चद्यां व्याघ्रपुरे पयोधिसविधे जल्पेश्वरे पर्वते | गोकर्णेपि गुरोर्गृहे स्वभवने श्रीकालहस्तीश्वरे- दीक्षां शक्तिनिपातिनो गुरुवरः कुर्यात् स्थलेशे तथा || प्. १४३) अथ मासविधिमाह- उत्तमे मध्यमे वा मासे-तदुक्तं कारणे निषेधमुखेन मासविधानम् | पूर्वभाद्रपदे माघे चाषाढे मार्गशीर्षके | दीक्षां न कारयेद्धीमान् नान्यमासेषु कारयेत् || इति || सिद्धान्तशेखरे- शरत्काले च वैशाखे दीक्षां श्रेष्ठफलप्रदा | फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा तु मध्यमा || आषाढे माघमासे च कनिष्ठा समुदाहृता | निन्दिता श्रावणे चैत्रे पुष्ये भाद्रपदे तथा || इति || लक्ष्मणीय पद्धतौ- निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा | विषुवेऽप्ययनद्वन्द्वेप्याषाढ्यां दमनोत्सवे || दीक्षाकार्येषु कालेषु पवित्रे शुक्लपर्वणि | शुक्लपक्षे शुभा दीक्षा कृष्णेप्यापञ्चमीदिनम् || चतुर्धी नवमी कृष्णचतुर्दश्यष्टमी तथा | तिथयोऽशुभदाश्शेषाश्श्रेष्ठाश्शुक्रबृहस्पती || बुहश्च शुभदा वाराश्शुभयोगे शुभाः परे || इति || १४४) वीरतन्त्रे- द्वितीया पञ्चमीवापि षष्ठी चापि विशेषतः | द्वादशी वा गृहीतव्या त्रयोदश्यथवा भवेत् || एता वै तिथयः प्रोक्ता वारानपि शृणुष्व तु | सोमश्शुक्रो बुधो जीवो वाराश्श्रेष्ठतमामताः || इति || अथ नक्षत्राण्याह-वेधाः-रोहिणी | मघा-प्रसिद्धा इन्दु-मृगशिराः | श्रवणं-प्रसिद्धम् | उत्तराः-उत्तर फल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्त्र्स्रः | आर्यः-पुष्यः | आदित्यः पुनर्वसु | आर्द्रा-प्रसिद्धा | मित्रं-अनुराधा | एतेषु पञ्चदशनक्षत्रेषु दीक्षां विदधीत | तथोक्तं कारणे- पूषा रोहिण्यथादित्यः श्रवणश्चाश्विनी मधा | सावित्रं त्वाष्ट्रवायव्ये नैर्-ऋतं मित्र एव च || तिष्यस्त्रीण्युत्तराण्यार्द्रा तथा शिष्यत्रिजन्मकम् | नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सूरिभिः || इति || सिद्धान्तशेखरे- रोहिणी मृगशीर्षं च मघा पुष्य पुनर्वसुः | हस्तस्वात्यनुराधा च श्रवणं रेवती तथा || उत्तरत्रितयं मूलं नक्षत्राणि चतुर्दश | शुभान्येतानि दीक्षायां शुभयोगे शुभं परम् || प्. १४५) वीरतन्त्रे- रोहिणी श्रवणार्द्रे च श्रविष्ठा तिस्र उत्तराः | पुष्यश्शतभिषक्चैव दीक्षानक्षत्रमुच्यते || इति || सिद्धान्तशेखरे योगा उक्ताः-यथा- योगाश्चाष्टादश श्रेष्ठाश्शुभदैश्च स्वनामभिः || इति || अथ लग्नविधिमाह | स्थिरयुतभवने - इति स्थिरराशौ उभयराशौ च | तदुक्तं वीरतन्त्रे- वृषभं वाऽथ सिंहञ्च वृश्चिकं कुम्भमेव च | मिथुनं वाऽपि कन्यां वा धनुर्वा मीनमेव वा || एते च राशयः प्रोक्ताश्चराशीश्च वर्जयेत् || इति || कारणे च- राशयश्च स्थिराश्श्रेष्ठा मध्यमाश्चोभयात्मकाः | चराश्च नैधनस्थाने ग्रहास्सर्वे विवर्जिताः || इति || अत्र आचार्य शिष्ययोरानुकूल्यमप्यपेक्षणीयम् | तदुक्तं लक्ष्मणीये- आचार्य शिष्ययोरानुकूल्यन्तु शुभदं भवेत् || इति || शुक्र बृहस्पत्योः केन्द्रगतत्वे बलवत्वे च सकलदोष निवारकत्वं सिधान्तशेखरे प्रत्यपादि | यथा | प्. १४६) शुक्रे लग्नगते प्रौढे केन्द्रस्थे वा बृहस्पतौ | सर्वे दोषाः शुभं यान्ति शम्भुनैवमुदाहृतम् || इति || एवं कालविशेष परीक्षानियमो वुभुक्षोरेव | मुमुक्षोस्तु कालनियमो नास्तीत्याह | नास्तिकालो मुमुक्षोः || इति || तथाचोक्तं सिद्धान्तशेखरे- करणानि च लग्नानि योगग्रहबलं तथा | ज्योतिश्शास्त्रं विदित्वैव दीक्षां कुर्याद्बुभुक्षुषु || मुमुक्षोः सर्वदा दीक्षा कालदिनियमो न हि || इति || दीक्षाभेदास्त्वस्माभिः तत्तदधिकार्यनुरोधेन दीक्षामण्डल पद्धतौ सम्यग्विवेचिताः || अथेत्थं नैमित्तिक भागमभिधाय काम्यभागमभिदधानः प्रथममुत्सवकालमाह | ननु उत्सवस्य नित्यनैमित्तिक काम्यभेदेन त्रैविध्यस्य मूलागमैः पद्धतिकारैश्च प्रतिपादितत्वात् कथं काम्यभागे विवेचनमुचितमेतस्य इति चेत्-उच्यते-नित्यनैमित्तिकोत्सवयोस्तत्तत्कालनिर्णयादेव निर्णयस्य सिद्धत्वात् काम्योत्सवस्यैव पर्यालोचनविषयत्वात् अत्रैव विवेचनमुचितमेतस्य | तथाचोक्तं योगजे- नित्यं नैमित्तिकं काम्यमुत्सवं त्रिविधं स्मृतम् | नित्यं नित्योत्सवं कुर्यान्नैमित्तिकं विशेषतः || प्. १४७) यथेष्टं काम्यमित्युक्तं चोत्सवं त्रिविधं भवेत् || इति || तत्र तीर्थनिर्णय पूर्वकत्वादुत्सवविधानस्य तन्निश्चयपूर्वकं तावदाह तथाचोक्तं कामिके- तीर्थमादौ विनिश्चित्य तत्पूर्वे त्रिगुणेपि वा | द्विगुणे तद्दिने वाऽपि ध्वजारोहणमारभेत् || इति || मूलम्- मास्येकत्र तु तीर्थभद्वयगतावन्त्यं सुयोगान्वितं- पूर्वञ्चेदिदमेव वासरयुग प्राप्तेऽधिकं त्वह्नि यत् | साम्ये पूर्वमथाम्बुधौ तिथिरतोन्यत्रर्क्षमित्थं गुरुः- मासर्क्षादि विविच्य तन्नवविधं कुर्यान्महेशोत्सवम् || ३१ || मास्येकत्र तु इति-एकत्र मासि-एकस्मिन्नेव मासि तीर्थभद्वयगतौ- तीर्थनक्षत्रद्वयप्राप्तौ सत्यां अन्त्यं-अन्त्यर्क्षमेव तीर्थर्क्षं ग्राह्यमिति शेषः | पूर्वं स्योगान्वितं चेत् सङ्क्रान्त्युपरागव्यतिरिक्त पुण्यकालादि योगयुक्तं चेत्-इद.-पूर्वमेव ग्राह्यम् | तदुक्तं कामिके- तीर्थर्क्षद्वय सम्प्राप्तावेकमासे परं वरम् | तत्रापि योगयुक्तं चेत् पूर्वं सङ्ग्राह्यमेव च || इति || प्. १४८) स्वायम्भुवे- तीर्थनक्षत्रयुग्मे तु मास्येकस्मिन् समागते | पूर्वं त्यक्त्वा परं ग्राह्यं पूर्वं योगयुतं यदि || तत्र तीर्थं विधातव्यम् || इति तथा ज्योतिषे च- जन्मर्क्ष तीर्थर्क्ष गतानि भानि- यद्येकमासे पुनरुद्भवन्ति | पुनर्भवेष्वेव हि तीर्थभं स्या- त्तथैव सङ्क्रान्त्युपरागवर्जम् || सङ्क्रान्त्युपरागयोरपि प्रत्येकं नैमित्तिकोत्सवकालत्वादिति भावः | यद्यपरिहार्यत्वेन उभयोस्समावेशः तदा तत्कर्तव्यता च मासपूजावसरे प्रतिपादिता | वासरयुगप्राप्ते तीर्थर्क्षे सति अह्नि-दिवसे यदधिकं तदेव ग्राह्यम् | साम्ये सति पूर्वमेव ग्राह्यम् | तदुक्तं कामिके- पूर्वाह्ने वाऽपराह्ने वा तिथि-ऋक्षसमन्विते | समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् || नक्षत्रमधिकं त्वह्नि सङ्ग्राह्यं तिथिरेव वा | वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे || इति || प्. १४९) स्वायम्भेवे च- तथैव तीर्थनक्षत्रे वारद्वयगते सति | दिवाधिके प्रकर्तव्यमलं पर्वयुतं यदि || तदेव बलत्तीर्थं श्रेष्ठं मध्याह्नकालगम् | पूर्वाह्नगन्तु मध्यं स्यादधमं त्वपराह्नगम् || कालत्रये यदा पर्वयोगस्तत्र विधीयते | यदृक्षमुदयव्यापि तद्ग्राह्यमुपवासरे || सर्वव्रतेषु तीर्थे तु मध्याह्नव्यापि शंसितम् || इति || ज्योतिषे च- द्विवारे खण्डिते ऋक्षे यस्मिन्वारे दिवाधिकम् | तस्मिन् तीर्थोत्सवं कुर्यात्समे पूर्वं विशिष्यते || इति || अथ समुद्रतीर्थविषये तिथिरेव प्रधानतया स्वीकर्तव्येत्याह | अथाम्बुधौ तिथिः-इति अतः समुद्रादस्मादन्यत्र नदीतटाकादौ ऋक्षं- नक्षत्रमेव प्राधान्येनाङ्गीकर्तव्यम् | तथाचोक्तं कामिके- तिथिप्रधानं सामुद्रमन्यदृक्ष प्रधानकम् | तिथिनक्षत्रसंयोग युक्तं दुर्लभमुच्यते || इति || इत्थं गुरुः मासर्क्षादि तीर्थनक्षत्रं विविच्य निश्चित्य मास प्. १५०) नक्षत्राणि चन्द्रज्ञाने प्रतिपादितानि यथा- चित्रा विशाखा मूलं च चोत्तराषाढमेव च | श्रविष्ठा प्रोष्ठपाश्विन्यः कृत्तिकार्द्रा पुनर्वसुः | मघा चोत्तरनक्षत्रं मेषादि द्वादशस्वपि || इति || मासर्क्षादीत्यादिशब्देन प्रतिमासमार्द्रा प्रतिष्ठर्क्षादयो ग्राह्याः | तथा च चन्द्रज्ञाने सर्वमासेषु कर्तव्यमार्द्रातारान्तमेव वा || इति || भीम संहितायाम्- प्रतिमासमथारभ्य तदृक्षे चोत्सवान्तकम् | प्रतिष्ठोत्सवमेतद्धि तस्मात्प्रत्यब्दमाचरेत् || यजमानस्य नक्षत्रं ग्रामादीनां तथैव च | लिङ्गस्थापन नक्षत्रं तथा चैवावनद्वयम् || अमावास्यान्त तीर्थं वा सर्वमासेषु कारयेत् | सूक्ष्मे- पर्वयुक्तमयुक्तं वा मासर्क्षन्तु प्रधानकम् | चतुर्दश्याममायां च षष्ट्यष्टम्यां विशेषतः || इति || चन्द्रज्ञाने- कृष्णाष्टम्यन्तकं ज्येष्ठं गाधे षष्ट्यन्तकं भवेत् | अमायां पूर्णिमायां वा चान्यपुण्यदिनेषु वा \\ प्. १५१) राज्ञां जन्मदिने युद्धे यजामानस्य जन्मनि | प्रतिष्ठादिवसे तीर्थं कल्पितं भुक्तिमुक्तिदम् || इति || कामिके- राज्ञां जन्मावसानर्क्षमभिषेकर्क्षमेव वा | माघमासे तु षष्ट्यन्तं पर्वान्तं सर्वमासके || विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् | भूताष्टम्यन्तमन्येषां स्वस्वतिथ्यवसानकम् || इति || तत्रैव पुनरुत्सवविषये विशेष उक्तः- यस्मिन्मासे तु यदृक्षे पूर्वं तीर्थमनुष्ठितम् | तस्मिन्मासे तु तदृक्षे पश्चादपि समाचरेत् || इत्थं तीर्थनक्षत्रं निश्चित्य नवविधं महेशोत्सवं कुर्यात् | तथा च सूक्ष्मे- शैवं गौणं भौतिकं च भौवनं दैविकं तथा | पैतृकं चैव कौमारं सावित्रं चान्द्रमेव च || शैवमेकाहमित्युक्तं त्र्यहं गौणं तथोच्यते | पञ्चाहं भौतिकं प्रोक्तं सप्ताहं भौवनं स्मृतम् || नवाहं दैविकं प्रोक्तं रुद्राहं पैतृकं स्मृतम् | त्रयोदशाहं कौमारं पक्षं सावित्रमेव च || प्. १५२) चान्द्रं सप्तदशाहं स्यादुत्तमादि क्रमात्ततः | शैवं गौणं भौतिकं च कन्यसत्रयमुच्यते || भौवनं दैविकं चैव पैतृकं मध्यमत्रयम् | कौमारं चैव सावित्रं चान्द्रं वै चोत्तमत्रयम् || एवं नवविधः प्रोक्तः उत्सवः क्रमशो बुध | एतेषान्तु क्रमं वक्ष्ये शृणु त्वं तत्प्रभञ्जन || वृद्धिदं विजयं सौख्यमेकाहं त्रिविधं स्मृतम् | तत्पूर्वरात्रिसंयुक्ते सायङ्काले समारभेत् || प्रातःकाले तु तीर्थं स्यादेकाहे च बलिद्वयम् \ एवं वै वृद्धिदं प्रोक्तं विजयं च ततः शृणु || तद्दिनस्य च रात्रौ तु चोत्सवं कारयेत्ततः | बलिमेकं समापाद्य प्रभाते तीर्थमाचरेत् || एवं वै विजयं प्रोक्तं सौख्यकं च ततः शृणु | तद्दिनस्य तु पूर्वाह्ने मध्याह्ने वाऽपराह्नके || यानमेकं समापाद्य त्वन्ते तीर्थं समाचरेत् | एकाहं वृद्धिदादिस्यात् त्र्यं च शृणु सुव्रत || निर्दिष्टदिवसात्पूर्वे साह्याह्ने तु समारभेत् | त्रिदिनं चोत्सवं कुर्याद्बलिः कौशिक संख्यया || प्. १५३) चतुर्थेऽहनि सम्प्राप्ते प्रभाते तीर्थमाचरेत् | तद्दिने चास्त्रयागन्तु सायाह्नसमये बुधः || उत्सवन्तु समारभ्य बलीनां तु चतुष्टयम् | तृतीये दिवसे चैव तीर्थकर्म समाचरेत् || नित्यपूजावसाने तु त्रिदिनं चोत्सवं कुरु | त्रयाहेषु च यानान्ते जलक्रीडां समाचरेत् || एवं त्रयाहमित्युक्तं पञ्चाहं च ततः शृणु | सायङ्काले समारभ्य तत्पूर्वदिवसे युतम् || यानं कुर्याद्विशेषेण दशधा बलिमाचरेत् | षष्टेहनि प्रभाते तु तीर्थं कुयात्तु देशिकः || यथानिर्दिष्टदिवसे सायाह्ने तु समारभेत् | वसुसङ्ख्या बलिं दद्यात्पञ्चाहे तीर्थमाचरेत् || एतत्कन्यसमित्युक्तं मध्यमं च ततः शृणु | यथा निर्दिष्टदिवसात् पूर्वरात्रौ समारभेत् || होमं कुर्यात्तु तद्रात्रौ चतुर्दश बलिं चरेत् | चूर्णोत्सवं चाष्टमेह्नि कौतुकं तीर्थमाचरेत् || प्. १५४) रात्रौ निर्दिष्टदिवसे चोत्सवन्तु समाचरेत् | होमं बलिं च यानं च तद्रात्रौ कारयेद्बुधः || भानुसङ्ख्या बलिं कुर्यात्सप्ताहे तीर्थमाचरेत् | निर्दिष्ट दिवसादिस्यात्पूर्वाह्णे वाऽपराह्णके || केवलं भ्रमणं कुर्यादन्ते तीर्थं समाचरेत् | भौवनं त्विति विख्यातं दैविकं च ततः शृणु || निर्दिष्टदिवसात्पूर्वे सायङ्काले समारभेत् | स्मृतिसङ्ख्या बलिं दद्याद्दशमे तीर्थमाचरेत् || दैविकं त्विति विख्यातं पैतृकं च ततः शृणु | तद्दिनात्पूर्वदिवसे चास्त्रयागं समाचरेत् || द्वाविंशतिबलिं कुर्यात्तीर्थं च द्वादशाहके | विद्धिदं त्विति विख्यातं विजयं च ततः शृणु || यथा निर्दिष्टदिवसे साये चोत्सवमारभेत् | रुद्राहे कौतुकं तीर्थं विंशद्बलिमथाचरेत् || पूर्वोक्तयानमार्गेण केवलं चोत्सवं कुरु | ब्राह्मिकं त्विति विख्यातमन्त्ये तीर्थं समाचरेत् || मध्यमत्रितयं प्रोक्तं चोत्तमत्रितयं शृणु | तत्पूर्वदिवसे विद्वानस्त्रयागं समाचरेत् || प्. १५५) चतुर्दशाहे तीर्थं स्यात् षड्विंशद्बलिमाचरेत् | एतद्वै वृद्धिदं प्रोक्तं विजयं शृणु सुव्रत || तद्दिने चास्त्रयागःस्याच्चतुर्विंशद्बलिं ददेत् | त्रयोदशाहे तीर्थं स्याद्विजयन्तु प्रकीर्तितम् \\ केवलं भ्रमणं कुर्यादन्ते तीर्थं समाचरेत् | कौमारं त्विति विख्यातं सावित्रं च ततः शृणु || तत्पूर्वरात्रिमारभ्य त्रिंशद्बलिमथाचरेत् | षोडशेऽह्नि प्रकर्तव्यं तीर्थकर्म विशेषतः || तद्दिने चास्त्रयागः स्यादष्टाविंशद्बलिं ददेत् | पक्षाहे कौतुकं तीर्थं विजयस्य प्रभञ्जन || नित्यपूजावसाने तु यानमेकं समाचरेत् | तीर्थकर्म तदन्ते तु ब्राह्मिकं त्विति कीर्तितम् || सावित्रं त्विति विख्यातं शृणु चान्द्रं प्रभञ्जन | तत्पूर्वदिवसे विद्वानस्त्रयागं समाचरेत् || चतुस्त्रिंशद्बलिं दद्यात्तीर्थमष्टादशेऽहनि | एतद्वै वृद्धिदं प्रोक्तं विजयं च ततः शृणु || तद्दिनस्य तु सायान्हे चोत्सवन्तु समाचरेत् | द्वात्रिंशद्बलिंदानं च तीर्थं सप्तशेऽहनि || प्. १५६) यानमेकं समापाद्य चान्ते तीर्थं समाचरेत् | ब्रह्मोत्सवमिति प्रोक्तमाद्यन्तं शृणु सुव्रत || इति || एवमुत्तमादि भेदेन त्रिविधानां पुनश्च तथैव प्रत्येकं त्रिविधानां नवविधानामुत्सवानां शैवादीनां शैवस्य त्रैविध्यादितरेषां प्रत्येकं द्वैविध्येन च एकविंशतिभेदाः प्रतिपादिताः | पुनश्चोत्सवाङ्गानां त्रैविध्येन नवविधत्वं ध्वजभेर्यङ्कुरादित्येन च त्रैविध्यं तत्रैव प्रतिपादितम् | तद्यथा- यानं चावभृतारोहमुत्सवाङ्गं त्रिधा स्मृतम् | एकैकं त्रिविधं प्रोक्तमादिमध्यावसानकम् || उत्सवं त्रिविधं प्रोक्तं ध्वजभेर्यङ्कुरादिकम् | ध्वजमारोपयेत्पूर्वं पश्चाद्भेरीन्तु ताडयेत् || अङ्कुराण्यर्पयेत्पश्चात् ध्वजारोहणपूर्वकम् | भेरीं सन्ताडयेत्पूर्वं ध्वजमारोपयेत्ततः || अङ्कुराण्यर्पयेत्पश्चाद्भेरीताडन पूर्वकम् | अङ्कुराण्यर्पयेत्पूर्वं भेरीघोषस्ततः परम् || पताकारोहं पश्चादङ्कुरार्पण पूर्वकम् | पताकारोहं पश्चादङ्कुरार्पण पूर्वकम् | आद्ये तु त्रितये चैव न ध्वजारोहणक्रिया || भौवने दैविके चैव ध्वजारोहणमारभेत् | नवाह त्रितये वापि सप्ताह त्रितयेऽपि वा || इति || प्. १५७) कामिके- ध्वजारोहणपूर्वं स्यादुत्सत्वं त्रिगुणे मतम् | भेरीताडन पूर्वं चेत्तद्दिने द्विगुणे मतम् || अङ्कुरार्पणपूर्वन्तु तद्दिने कारयेद्बुधः || इति || सूक्ष्मे च उपाङ्गक्रियाक्रम उक्तः | तद्यथा- केत्वङ्कुरस्तु प्रथमं द्वितीयं वृषयागकः | प्रदक्षिणं तृतीयं स्याच्चतुर्थं दण्डशोधनम् || पञ्चमं केतुकर्माख्यं कलशास्नान पष्ठकम् | सप्तमं दण्डपूजा च त्वष्टमं चास्त्रपूजनम् || नवमं भेरियागश्च दशमं देवताह्वयः | एकादशार्चनं नित्यं द्वादशन्तु बलिभ्रमः || त्रयोदशं वास्तुशुद्धिस्तत्परं चोत्सवाङ्कुरः | रक्षाबन्धस्ततः प्रोक्तष्षोडशं यागकर्म तु || हुतं सप्तदशं विद्धि बलिक्रममतः परम् | एकोनविंशद्यानं स्यात्तत्परं परिवेषकम् || नीराजनं त्वेकविंशत्परं नृत्तावलोकनम् | यात्रार्थस्नपनं पश्चाद्विशेष यजनं परम् || प्. १५८) तीर्थाङ्कुरः पञ्चविंशत्षड्विंशत्तिर्थ कौतुकम् | तीर्थाधिवासनं चैव तीर्थकर्म ततः परम् || नवविंशच्चावभृथं त्रिंशत्पूर्णाहुतिस्ततः | यागकुम्भाभिषेकं च द्वात्रिंशत्स्नपनं परम् || महाहव्यादिपूजा च दक्षिणादानमेव च | अवरोप्य ध्वजं पश्चात्पैशाचाख्यबलिः परम् || एवं षट्त्रिंशदंशेन चोत्सवः परिकीर्तितः | विघ्नेशं पूजयेद्धीमान् क्रियां प्रति क्रियां प्रति || इति || एवं साङ्गानामनेकविधानामुत्सवानां मध्ये देशकालद्रव्यानुरोधेनान्यतममुत्सवं विदध्यात् | इति सङ्क्षेपः || अथ स्नपनकालमाह | मूलम्- पञ्चम्यां नवमीतिथौ शिवतिथौ पर्वद्वये सङ्क्रमे- सूर्येन्दुग्रहणेऽयने च विषुवे स्यात्पङ्क्ति वृध्याफलम् | दीक्षास्थापन सोत्सवाध्वरविधौ सम्प्रोक्षणोत्पातयोः- जन्ममर्क्षे मनुसाधनादिषु घटैस्संस्नापयेच्छङ्करम् || ३२ || पञ्चम्यामिति-शिवतिह्तिः-चतुर्दशी पञ्चमी नवमी चतुर्दशीषु पक्षयगतास्वपीत्यर्थः | पर्वद्वये-पौर्णमास्यमावास्ययोः सङ्क्रमे- मेषादिसङ्क्रमेषु सूर्येन्दुग्रहणे-चन्द्र-सूर्योपरागेषु अयने- कर्कटकमकर सङ्क्रान्त्योः विषुवे-मेष तुलासङ्क्रान्त्योः स्तेषु कालेषु शङ्क्रं घटैः पञ्चनवादि सङ्ख्याकैः कलशैः संस्नापयेत् | तत्फलन्तु क्रमात् पङ्क्ति वृध्या-दशवृध्या भवति | पुनः कालविशेषमाह | दीक्षा-समय विशेष निर्वाणादयः स्थापनं-शिवलिङ्गादिस्थापनं उत्सवः-शैवादि नवविधोत्सवः अध्वरविधिः-अग्निष्टोमादिः सम्प्रोक्षणं- आवर्तनावर्तादि उत्पातः-अतिवृष्ट्यनावृष्टि भूमिकम्पादिः जन्मर्क्ष- यजमान जन्मनक्षत्रं मनुसाधनं-मन्त्रपुरश्चरणादिकं आदिशब्देन राजाभिषेक मङ्गलादि | एतेषु च कालेषु शङ्करं स्नापयेत् | तदुक्तं सुप्रभेदे- पञ्चम्यां च नवम्यां चतुर्दश्यां च पर्वणोः | सङ्क्रान्तौ विषुवे चैव त्वयने ग्रहणे तथा || पञ्चम्याद्युपरागान्तं दशवृध्युत्तरं फलम् | दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके || यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि | कर्तव्यं जन्मनक्षत्रे मङ्गले मन्त्रसाधने || राजाभिषेकसमये मरणान्तेऽथ जन्मनि | अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निभित्तके || प्. १६०) भूमिकम्पे दिशांदाहे ज्वरमार्यादि पीडने | सर्वरोगसमुतपन्ने शत्रुभिः पीडनेऽपि च | प्रायश्चित्तादि कालेषु शिवं संस्नापयेद्गुरुः || इति || भीमसंहितायां- अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | षडशीति मुखे सर्वसङ्क्रान्तौ चोत्सवान्तके || इति || अजिते- पवित्रादौ प्रतिष्ठायां कृत्तिकादीपरोहणे | नवनैवेद्यकाले च घृतस्नानोत्तरे तथा प्रायश्चित्तेषु सर्वेषु जीर्णोद्धारविधौ तथा || इति || तथा सिद्धान्तशेखरे- स्नपनस्य विधिं वक्ष्ये शिवसिद्धान्त चोदितम् | त्रिविधं तत्समुद्दिष्टं प्रत्येकं त्रिविधं पुनः || पञ्चभिर्नवभिर्हीनं पञ्चविंशति कुम्भकैः | मध्यमेकोन पञ्चाशदेकाशीति घटं तथा || अष्टोत्तरशतं श्रेष्ठं द्विशतं षोडशाधिकं | अष्टोत्तरसहस्रार्थं सहस्रं नवधोदितम् || प्. १६१) नित्ये नैमित्तिके काम्ये क्रमात्तत्रितयं मतम् | अष्टम्यां च चतुर्दश्यां पञ्चम्यां सोमवासरे || दर्शे च पूर्णमासे च सङ्क्रान्तौ ग्रहणे तथा | पुण्यकालेषु सर्वेषु पवित्रे दमनोत्सवे || प्रतिष्ठायां चतुर्थेह्नि मासे पूर्णे च वत्सरे | कर्तुर्नृपस्य जन्मर्क्षे युद्धोद्योगे जयेसति || पट्टाभिषेकसमये दीक्षायामभिषेचने | अनावृष्टौ ज्वरे चैव दुष्टग्रहनिपीडिते || प्रायश्चित्ते तथोत्पाते घृतकम्बलकादिषु | शान्तिकर्मणि सर्वत्र माङ्गल्ये मन्त्रसाधने || एवमादिषु कालेषु विदध्यात्स्नपनं बुधः || इति || स्नपनक्रियाप्रकारस्त्वस्माभिः स्नपनपद्धतौ सम्यक् प्रतिपादितस्तत एवावधार्यः || अथ शीतकुम्भविधिकालमाह- मूलम्- दुर्भिक्षे दुर्निमित्ते ज्वरमुखजभये मारिकायाः प्रवृत्तौ- भूकम्पे दिग्विदाहादिषु विजयविधौ वर्षहेतोस्तपस्ये | प्. १६२) चैत्रे वैशाखमासे नृपति जनन भे मास-ऋक्षे च दर्शे- पञ्चम्यादौ च शीतांशुकवि गुरुदिनेष्वाचरेच्छितकुम्भम् || ३३ || दुर्भिक्ष इति-दुर्भिक्षे-क्षामादिसमये दुर्निमित्ते-दुःखहेतु भूतशकुनादि दर्शने ज्वरमुखजभये-ज्वरादिजनितभये आदिशब्देन अपस्मारमसूरिकादौ मारिकायाः प्रवृत्तौ-महामार्याख्यरोगोद्भवे- भूकम्पे दिग्विदाहादिषु उत्पातेष्विति शेषः | विजयविधौ शत्रुविजयविषये वर्षहेतोः-वृष्टिनिमित्तं एतेषु कालेषु शीतकुम्भमाचरेत् | तथा चोक्तं सूक्ष्मे- शीतकुम्भविधिं वक्ष्ये शृणु त्वं तत्प्रभञ्जन | वर्षार्थं च जयार्थं च विशेषाज्ज्वरनाशनम् || दुर्भिक्षे दुर्निमित्ते च महामारी प्रवर्तने | भूमिकम्पे दिशांदाहे प्रतिसूर्यप्रदर्शने || एवमादिषु कालेषु शीतकुम्भं समाचरेत् || इति || योगजे- अथ वक्ष्ये विशेषेण शीतकुम्भविधिक्रमम् | ज्वरापस्मारनाशाय वसूर्यामुष्णदाहके || सर्वरोगविनाशाय वर्षार्थं च प्रकल्पयेत् || इति || प्. १६३) अजिते- शीतकुम्भविधिं वक्ष्ये शृणु देवारिसूदन | दिव्यान्तरिक्ष भौमानामद्भुतानां विनाशनम् || ज्वरमारी प्रशमनमनावृष्टिहरं परम् || इत्यादि || अथ मासविधिमाह- तपस्ये-फाल्गुने चैत्रे वैशाखे मासे च नृपतिजनन मे राज्ञां जन्मनक्षत्रे मास ऋक्षे-चित्रादि मासनक्षत्रे | अथ तिथिविधिमाह-दर्शे पञ्चम्यादौ आदि शब्देन चतुर्दश्याम् अथ वाराण्याह-शीतांशु कवि गुरुदिनेषु-सोम शुक्र बृहस्पति वासरेषु शीतकुम्भमाचरेत् | तथा चोक्तं सूक्ष्मे- चैत्र मासे च वैशाखे फाल्गुने वा विशेषतः | राज्ञां च जन्मनक्षत्रे मास-ऋक्षेऽथवा पुनः || चतुर्दश्याममायां च पञ्चम्यां वा विशेषतः | अथ शुक्रेन्दुवारेषु गुरुवारे समाचरेत् || इति || अथ जन्मनक्षत्र पूजाकलमाह- मूलम्- भानावुत्तरदिग्गते शुभतिथौ क्रुरापमृत्योर्जये- शत्रूपद्रवनाशने ग्रहजपे सर्वेष्टसिद्धावपि | राज्ञां जन्मदिनेऽभिषेकसमयेऽप्यायोधनाध्यन्तयोः- सद्योगैर्युतवासरेषु रचयेञ्जन्मर्क्ष पूजां गुरुः || ३४ || प्. १६४) भानाविति-उत्तरदिग्गते-उत्तरायणगते भानौ-सूर्ये शुभतिथौ- शुभदिवसे क्रूरापमृत्योर्जये-दारुणापमृत्युनाशने शत्रूपद्रवनाशने- शत्रुपीडापरिहारे | ग्रहजये-भूतप्रेतादि दुष्टनिग्रहे सर्वेष्टसिद्धौ राज्ञां जन्मदिने-जन्मनक्षत्रे अभिषेक समये-पट्टभिषेक समये आयोधनाद्यन्तयोः-युद्धारम्भाव सानयोः सयोगैः-व्यतीपातादि पुण्यकालैः युतवासरेषु-युक्तदिनेषु | एतेषु कालेषु गुरुः जन्मर्क्षपूजां रचयेत् | तदुक्तमंशुमत्तन्त्रे- अतः परं प्रवक्ष्यामि जन्मर्क्षस्य विधिक्रमम् | उत्तरायणकालेषु शुभवारे समाचरेत् || सर्व शत्रुक्षयकरं सर्वोपद्रवनाशनम् | अकालमृत्युशमनं दुष्टग्रह विनाशनम् | राजाभिषेकसमये तस्य जन्मदिनेऽपि वा || रणारम्भेऽवसाने वा योगयुक्तदिनेऽपि वा | जन्मर्क्ष यजनं कार्यं सर्वाभीष्ट समृद्धये || इति || एतदनुष्ठानप्रकारश्च तत्रैव द्रष्टव्यः || अथ वारपूजाकालमाह- मुलम्- वर्षार्थेऽप्यपमृत्यु नाशनविधौ मारीविनाशे तथा- स्याद्दुष्टग्रहपीडने जयविधौ भीमस्य शत्रोरपि | राज्ञां शत्रुजये ज्वरादिशमने ग्रामादि शान्तौ तथा- कर्तुर्वाञ्छित सिद्धये समुदितं वारार्चनं त्वागमे || ३५ || वर्षार्थ इति-वर्षाद्यर्थेषु-वारार्चनं वारपूजा आगमे-समुदितम् | तथाचोक्तमंशुमत्तन्त्रे- वारपूजाविधिं वक्ष्ये श्रूयतां रविसत्तम | अपमृत्यु विनाशार्थं महामारीविनाशनम् || वर्षार्थं च जयार्थं च ग्रहपीडादि नाशनम् | ग्रामशान्तिकरं प्रोक्तं नृपाणां विजयो भवेत् || कर्तुर्वाञ्चाफलं सिध्येद्द्वारपूजाफलं त्विदम् | सौरवारं समारभ्य मन्दवारान्तमाचरेत् || प्रातःसन्ध्यार्चनान्ते तु कर्तव्यं वारपूजनम् || इति || एतदनुष्ठान प्रकारश्च तत्रैव प्रतिपादितः | अथ नक्षत्रपूजाकालमाह- मूलम्- राजाभिषेकसमये नृपजन्म-ऋक्षे मध्येप्युपान्तिम तिथावपि पक्षयुग्मे | युधावसान समयेऽप्यथ योगयुक्ते- नक्षत्रयाग उदितस्सकलार्थसिध्यै || ३६ || प्. १६६) पक्षयुग्मे-शुक्लपक्षकृष्णपक्षयोः मध्ये-अष्टम्यां उपान्तिमतिथौ-चतुर्दश्यां योगयुक्ते-पुण्यकालादि योगयुक्ते एतेषु कालेषु सकलार्थ सिध्यै नक्षत्रयाग उदितः-नक्षत्र यजनं कर्तव्यम् | तथा चोक्तमंशुमत्तन्त्रे- वक्ष्ये नक्षत्रयजनं श्रूयतां रविसत्तम | महाभूतप्रशमनं परसेना पलायनम् || सर्वशुत्रुक्षयकरं सकलाभीष्टसिद्धिदम् | अकालमृत्यु शमनमवग्रह विनाशनम् || राजाभिषेक समये तस्य जन्मदिनेऽपि वा | चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि \\ रणानामवसाने वा योगयुक्तदिनेऽथ वा | नक्षत्रयजनं कार्यं सकलाभीष्ट सिद्धये || तत्प्रकारस्तत्रैव प्रतिपादितः | अथ भद्रपूजाकालमाह- मासे सर्वत्र भूमीपतिजननदिने मास-ऋक्षेषु चार्द्रा- शोणर्क्षे पर्वयुग्मे हिमरुचि तपनोपप्ल्वे सङ्क्रमेषु | अष्टम्यां पर्वपूर्वेऽयन विषुवयुगे पुण्यकालेन्यतो वा- प्राग्रात्रावाधिवास्यामलविधिनियतो भद्रपूजां विदध्यात् || ३७ || मासे सर्वत्र-सर्वेषु मासेषु भूमीपतिजनदिने-राज जन्मनक्षत्रेषु आर्द्राश्रवणयोः पर्वयुग्मे-पूर्णिमामावास्ययोः हिमरुचि तपनोपप्लवे- चन्द्रसूर्योपरागयोः सङ्क्रमेषु-मेषादि द्वादश सङ्क्रान्तिषु अष्टम्यां- पक्षमध्ये पर्वपूर्वे-चतुर्दश्यां अयनविषुवयुगे- दक्षिणायनोत्तरायणयोः-मेष तुलासङ्क्रान्त्योः अन्यतः पुण्यकाले-अन्येषु पुण्यकालेष्वपि अमलविधिनियतो गुरुरिति शेषः प्राग्रात्रौ-पूर्वरात्रावेव अधिवास्य-अधिवासन कर्म कृत्वा भद्रपूजां विदध्यात् || तथा चोक्तमंशुमत्तन्त्रे- भद्रपूजां प्रवक्ष्यामि श्रूयतां रविसत्तम | आयुरारोग्य जयदं पुष्टिश्रीकीर्तिवर्धनम् || सर्वमङ्गल माङ्गल्यं सर्वाभीष्ट फलप्रदम् | अकालमृत्यु शमनमपस्मार विमोचनम् || लोके दुर्भिक्षनाशःस्यात्तद्ग्रामे तु विशेषतः | वर्षार्थं च जयार्थं च राज्ञां चैव विशेषतः || प्. १६८) कर्तुरायुष्करं चैव सर्व सम्पत्सुखावहम् | भद्रपूजां तु यः कुर्यात् सकलं भद्रश्नुते || सर्वमासेषु कर्तव्यं राज्ञां जन्मदिनेऽपि वा | तत्तन्माससर्क्षके वापि आर्द्रायां श्रवणेपि वा || पर्वद्वये च सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः | अष्टम्यां वा चतुर्दश्यामयने विषुवे तथा || यजमानेच्छयावापि पुण्यकाले विशेषतः | निश्चित्य दिवसात्पूर्वरात्रौ दीपावसानके || इत्यादि || अथ च्छन्नपूजाकालमाह- मुलम्- मासे सर्वत्र वारास्सितशनितपनाः श्रेष्ठमध्याधमाः स्युः- मध्योपान्त्ये तृतीया तिथिरपि नवमी दर्श एते तु वर्ज्याः कर्तुर्जन्मानुकूलर्क्ष दिवस उदयात्सत्रिपाद त्रिणाड्यां- प्रातर्नित्यार्चनान्तेऽभिमत गणपतेश्छन्नपूजां विदध्यात् || ३८ || मासे सर्वत्र-एतेषु मांसेषु सित शनि तपना वाराः-शुक्र शनैश्चर भानुवाराः क्रमेण श्रेष्ठमध्याधमाः-उत्तम मध्यमाधमाः स्युः || अथ वर्ज्यतिथि मुखेन तिथिविधिमाह-मध्योपान्त्ये-अष्टमी चतुर्दश्यौ तृतीया नवमी दर्शः एते च वर्ज्याः स्युः | अन्ये ग्राह्या इत्यर्थः कर्तुः जन्मानुकूलर्क्ष दिवसे-सम्पत्क्षेम साधक मैत्रपरममैत्रदिनेषु उदयात्- सूर्योदयात् सत्रिपाद त्रिणाड्यां प्रातर्नित्यार्चनान्ते-प्रातः काल पूजानन्तरं अभिमत गणपतेः-षोडशगणपतीनां मध्ये स्वेष्टमूर्ते छन्नपूजां कुर्यात् || तदुक्तमंशुमत्तन्त्रे- छन्नपूजाविधिं वक्ष्ये विघ्नेशस्य विशेषतः | आयुरारोग्य जयदं पुत्रपौत्र विवर्धनम् || सर्वकाम प्रसिध्यर्थं सार्वभौम प्रदायकम् | पर संहार एवस्यात् कर्तुरायुष्करं परम् || तस्मात्सर्वप्रयत्नेन छन्नपूजां समाचरेत् | सर्वमासेषु कर्तव्यं यजमानेच्छया सह || उत्तम शुक्रवारं तु मध्यमं सौरिवारकम् | अधमं चार्कवारन्तु अन्यवाराणि वर्जयेत् || नवमी च तृतीया च अष्टमीं च चतुर्दशी | तिथीनामधमा प्रोक्ताः अमावास्यां च वर्जयेत् || कर्तुर्जन्मानुकूलं च कालनिर्णयमेव च | ग्रामादि स्थापने मूर्तिर्विशेषाच्छङ्करालये || प्. १७०) स्वतन्त्रं परिवारं वा विघ्नेशयजनं परम् | भास्करोदयमारभ्य त्रिपादेन त्रिनाडिका || नित्यपूजावासाने तु छन्नपूजां समाचरेत् | बालश्च भक्तो वीरश्च शक्तिश्च ध्वजपिङ्गलौ || उच्छिष्टरक्तौ क्षिप्रश्च हेरम्बो लक्ष्मीपूर्वकः | विजयो नृत्त ऊर्ध्वश्च महाहारिद्रनामकौ || षोडशानां गणेशानां नामैवं परिकीर्तितम् | विप्रादि शूद्रपर्यन्तं मूर्तिभेदस्स उच्यते || बालादि युगमूर्तिस्तु भूसुराणां विधीयते \ इतराण्येवमेव स्यात् भूषादीनां विशेषतः || अथ क्षीरस्नानमाह- युद्धारम्भे शत्रुसम्पीडने वाऽ- नावृष्ट्यादावुष्णमारी प्रवृत्तौ | रोगोत्पत्तौ चाचरेदागमोक्तं- क्षीरस्नानं देशिकश्शङ्करस्य || आगमोक्तं क्षीरस्नानमाचरेत् तदुक्तं वीरतन्त्रेपितामहः- कीदृशानि विधानानि क्षीरस्नानस्य शङ्कर | एतत्सर्वं समासेन चक्तुमर्हस्ति मे प्रभो || प्. १७१) ईश्वरः- तत्सर्वं क्रमशो वक्ष्ये श्रूयतां चतुरानन | अनावृष्ट्यादि कालेषु ज्वरमारी प्रवर्तने | महारोग समुतपत्तौ युद्धारम्भे तथैव च \\ शत्रुभिः पीडने काले क्षीरस्नानं विधीयते | उत्तमं कापिलं क्षीरं || इत्यादि || अथ घटस्नानकालमाह- मूलम्- राज्ञोभिषेक जननर्क्ष युतेपि काले- चाद्यन्तयोरपि युधो भजनादिकाले | अन्यत्र मङ्गलदिनेपि च पूर्वसन्ध्यां- कृत्वा चरेत्परशिवस्य घटाभिषेकम् || ३९ || राज्ञः अभिषेक जननर्क्षयुते-पट्टाभिषेक नक्षत्रयुक्ते जन्मनक्षत्रयुक्ते वा काले युधः-युद्धस्य आद्यन्तयोश्च भज नादिकाले- दीक्षापूर्वकं प्रथमं शिवार्चनादि स्वीकारकाले अन्यत्र मङ्गलदिने- अन्येषु मङ्गलकालेषु वा पूर्वसन्ध्यां कृत्वा-प्रातःकालपूजानन्तरं परशिवस्य घटाभिषेकाख्यं कर्म कुर्यात् || तदुक्तं सूक्ष्मे- घटस्नानं प्रवक्ष्यामि शृणु त्वं तत्प्रभञ्जन | सर्वरोगविनाशार्थं महामारी विनाशनम् || प्. १७२) अपमृत्यु विनाशार्थं राष्ट्रदुर्भिक्षनाशनम् | जयार्थं चैव श्रेयोऽर्थं सर्वसिद्धिकरं शुभम् || नृपाणां जन्मनक्षत्रे अभिषेकर्क्ष एव वा | भजनारम्भसमये युद्धारम्भावसानके || अन्यस्मिन्मङ्गले काले यथा कर्तुर्मनोरमे | निश्चित्यदिवसात्पूर्वे भूसुरान् भोजयेत्ततः || तद्दिनेचैव कर्तव्यं पूर्वसन्ध्यावसानके || इत्यादि || अथ घृतधारा कालमाह- मूलम्- स्यादाश्विनप्रभृति मासचतुष्टयेपि- मासर्क्ष जन्मदिनयोरपि पुण्यकाले | अत्यद्भुतेऽद्भुत दिनेऽसितपक्षमध्ये- धाराघृतस्य विधिवद्गिरिशे विधेया || ४० || आश्विन प्रभृति मास चतुष्टये-आश्वयुज कार्तिक मार्गशीर्ष पुष्यमासेषु मासर्क्ष जन्मदिनयोः-मासनक्षत्र जन्म नक्षत्रयोः पुण्यकाले-अयन विषुवोपरागादिषु अत्यद्भते-महाद्भुते अद्भते दिनेषु-केवलाद्भुतदिनेषु असितपक्षमध्ये-कृष्णाष्टम्यां एतेषु कालेषु गिरिशे-परमेश्वरे घृतधारा-घृतधाख्यं कर्म विधेया स्यात् | प्. १७३) तदुक्तं सूक्ष्मे- घृतधाराविधिं वक्ष्ये शृणु त्वं तत्प्रञ्जन | श्रीकरं विजयं पुण्यमायुरारोग्य वर्धनम् || अपमृत्युविनाशार्थं सर्वशत्रुनिवारणम् | वर्षार्थं च जयार्थं च ज्वरापस्मार नाशनम् || सर्वरोग विनाशार्थं महापातकनाशनम् | अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः || पुष्यमासेऽश्वयुङ्मासे धनुर्मासे च कार्तिके | मासनक्षत्र जन्मर्क्षे शान्त्यह्नि पुण्य ऋक्षके || महाद्भतेऽद्भते चैव कृष्णाष्टम्यां विशेषतः | एवामादिषु कालेषु घृतधारां समाचरेत् || इति || अथ अष्टमीपूजाकालमाह- मूलम्- कृष्णाष्टमी तु परया यदि पूर्वया वा- विद्धा शिवस्य यजने निशिपूर्वयामे | ग्राह्यैव साम्यविषये सति पूर्वविद्धा- मासेषु मार्गमुखतस्त्रिपुरां जयान्ते || ४१ || कृष्णाष्टमी-कृष्णपक्षाष्टमी निशिपूर्वयामे-परया-नवम्या वा पूर्वया-सप्तम्या वा विद्धा यदि चैव शिवस्य यजने-पूजायां ग्राह्या साम्यविषये-दिवसद्वयेपि निशि पूर्वयामयोस्समा चेत् पूर्वविद्धैव- सप्तमीविद्धैव ग्राह्या | तत्र न्यूनाधिकपक्षे अधिकैव ग्राह्येति भावः | इयं च पूजा सर्वमासेषु कर्तव्या तत्राप्यारम्भ नियममप्याह मार्गमुखतः-मार्गशीर्षमारभ्य चाष्टमीपूजायाः कारणमाह | त्रिपुरां-पुर त्रयस्य जयान्ते-विजयावसानविषये | तथाचोक्तमंशुमत्तन्त्रे- अष्टम्याराधनं वक्ष्ये श्रूयतां रविसत्तम | सर्वलोकहितं पुण्यं सर्वैश्वर्यप्रदायकम् || इष्टकाम्यार्थ सिध्यर्थं भोगमोक्षप्रदायकम् | सर्वशत्रुक्षयकरं सर्वपाप विनाशनम् || वृतानामुत्तमं ज्ञेयं कृष्णाष्टम्यां यजेच्छिवम् | मार्गशिर्षकमासे तु कृष्णपक्षेऽष्टमीतिथौ || पुरत्रय जयान्ते तु उष्णशान्त्यर्थ कारणम् | रात्रौ प्रथमयामे तु सर्वदेवैस्सुपूजितम् || कपिलाया घृतेनैव क्षीरेणैवाभिषेचयेत् | स्तुत्वा द्वादशभिर्नाम्नैः सम्पूज्यपरमेश्वरम् || एवं क्रमेण सम्पूज्य कृष्णाष्टम्यां महावृतम् | अहोरात्राष्टमी मुख्या परविद्धा च मध्यमा || प्. १७५) पूर्वविद्धाऽधमा प्रोक्ता चाष्टम्यां शिवमर्चयेत् | प्रदोषे च कलामात्र मष्टमी सम्प्रगृह्यताम् || एकमासे द्विपक्षे तु चाष्टमी सम्प्रशस्यते | तन्मासमधिकं चोक्त्वा द्विपक्षे च शिवं यजेत् || यन्मासे चाष्टमी हीना तन्मासादूर्ध्व मासके | स्वतिथिद्वय सम्प्राप्ते हीनमासार्धकं यजेत् || पूर्वे तु चापराष्टम्यामपरे पूर्वमर्चयेत् | अस्तमयं समारभ्य सार्धेन सप्तनाडिका || पूर्वया परया विद्धा चाष्टमी दृश्यते यदि | तस्यां प्रथमयामे तु चाष्टम्यां हि महावृतम् || पूर्वविद्धैव कर्तव्या बुधैः कृष्णाष्टमी तिथिः | सायं सन्ध्यार्चना युक्तं घृतस्नानं विशेषतः || इत्यादि \\ अथ मौक्तिक ग्रहण कालमाह- मूलम्- चैत्रे चोर्जतपस्ययोरपसिते पक्षे नवम्यादि षट्- कृष्णे चेच्चतुरस्थिन् भृगुमुखं त्यक्त्वा च वारत्रयम् वेधः पुष्यमघोत्तरराश्वि सवितृश्रोणासु योगे शुभे- मेषे कक्र्यलि सिंहभेषु च घटे कुर्वीत मुक्ताग्रहम् || ४२ || प्. १७६) तत्र प्रथमं मासविधिमाह-चैत्रे-चित्रामासे | ऊर्ज तपस्ययोः- कार्तिक फाल्गुन मासयोः | अथ तिथिवारौ निषेधमुखेनाह-सिते पक्षे- शुक्लपक्षे | नवम्यादि षट् तिथिन्-नवम्यष्टमी चतुर्थी द्वितीया तृतीया पर्वाख्यान् षट् तिह्तीन् | कृष्णे-चेत्-कृष्णपक्षे चेत्-चतुरस्तिथीन्-अष्टमी नवमी त्रयोदश्यमावास्याख्यान् भृगुमुखं वारत्रयं च-शुक्रशनैश्चरादित्य वारांश्च त्यक्त्वा अन्ये ग्राह्या इत्यर्थः | अथ नक्षत्राण्याह-वेधः-रोहिणी | पुष्य-प्रसिद्धः | मघा-प्रसिद्धा | उत्तर- उत्तरफल्गुन्युत्तराषाढोत्तरप्रोष्ठपदास्तिस्रः | अश्वि-अश्विनी | सवितृ-हस्तः | श्रोणा-श्रवणं | एतेषु नवनक्षत्रेषु | अथ योगविधिमाह-योगेशुभे- शुभयोगे आगमोक्त वज्राद्यष्टादश योगेषु | लग्नान्याह-मेषे | कर्कि- कर्कटकः | अलि-वृश्चिकः | सिंहं-सिंहलग्नं घटः-कुम्भः | एतेषु पञ्चसु राशिषु मुक्ताग्रहं-मौक्तिक ग्रहणाख्यं कर्म कुर्वीत | तथाचोक्तं सूक्ष्मे- मौक्तिकग्रहणं वक्ष्ये श्रूयतां तत्प्रभञ्जन | फाल्गुने चैत्रमासे वा कार्तिके वाऽपरेपि च || पूर्वपक्षे प्रशस्तं हि चापरे वा प्रकीर्तितम् | पूर्वपक्षे गृहीतं चेदष्टमीं नवमीं तथा || प्. १७७) द्वितीयां च तृतीयां च चतुर्थीं पर्व एव च | वर्जयेत्तु प्रयत्नेन शेषं सङ्गृह्य बुद्धिमान् | कृष्णपक्षे गृहीतं चेत् षष्ठीं चैकादशीं तथा || अष्टमीं नवमीं चैव दर्शञ्चैव त्रयोदशीम् | वर्जयेत्तु प्रयत्नेन अन्ये च तिथयो मताः \\ अथवान्यप्रकारेण ऋक्षेण ग्रहणं मतम् | आश्वयुग्रोहिणीचैव पुष्यञ्च मघमेव च || उत्तर त्रितयं चैव हस्तश्रवणमेव च || एतद्दृक्षं गृहीतव्यमन्यदृक्षन्तु कन्यसम् | शुक्रवारं च मन्दं च आदित्यं वर्जयेत्क्रमात् || वज्रसिद्धिस्तथाचैव परिघश्शिव एव च | सिद्ध्रस्साध्यश्शुभश्शुभ्रो ब्राह्मो माहेन्द्र एव च || आयुष्मान् प्रीतिरेवञ्च सौभाग्यं शोभनस्तथा | धृतिश्शूलं च कर्तव्यं गण्डो वृद्धिरिहोच्यते || एते च शुभदाः प्रोक्ताश्चान्य योगांश्च वर्जयेत् | मेषश्च कर्कटश्चैव सिंहो वृश्चिक एव च | कुम्भश्चैव शुभा ज्ञेयाश्चान्यराशींश्च वर्जयेत् || प्. १७८) एवं कालविधानज्ञस्तत्काल इदमारभेत् || इत्यादि || निश्चित्य दिवसात्पूर्वे प्रातःसन्ध्यावसानके | अथ मृगमदाभिषेक कालमाह- मूलम्- राजर्क्षे षडशीतिके शिवहरि ब्रह्मर्क्षकेष्वष्टमी- दर्शादित्यशशिग्रहेषु च तथा चैत्रेतु चित्रर्क्षके | फाल्गुन्यामपि फाल्गुने मृगमदैस्स्नानं शिवस्योदितं- सर्वाभीष्टफलप्रदं विजयपदं सर्वाध्वरेज्याफलम् || ४३ || राजर्क्षे-राज्ञां जन्मनक्षत्रे षडशीतिके-मिथुन कन्या धनुर्मीन मासादिमदिवसेषु || तदुक्तं निश्वास कारिकायाम्- मिथुनं कन्यका चैव धनुर्मीनं तथैव च | षडशीतिमुखान्येवमपराः परिकीर्तिताः || शिवहरि ब्रह्मर्क्षकेषु-आर्द्रा श्रवण रोहिणीषु अष्टमी-दर्शादित्य शशिग्रहेषु च चैत्रेतु-चित्रर्क्षके-चैत्रमासे चित्रा नक्षत्रे तथा फाल्गुन मासि फल्गुनी नक्षत्रे-एतेषु कालेषु शिवस्य मृगदैस्स्नानमुदितम् आगमैरितिशेषः | तत्फलान्याह सर्वाभीष्टफलप्रदं विजयदं सर्वाध्वरेज्याफम् सकल यजन फलप्रदं च भवति | तथा चोक्तमंशुमत्तन्त्रे- प्. १७९) वक्ष्ये मृगमदस्नानं श्रूयतां रविसत्तम | कीर्तिदं विजयं पुण्य मारोम्यश्रीप्रदं ततः || सर्वदानफलं चैव सर्वयज्ञेषु यत्फलम् | सर्वतीर्थेषु यत्पुण्यं सर्वदेवार्चनन्तु यत् || तत्फलं कोटिगुणितं स्नानं मृगमदेन तु | फाल्गुने मासि फल्गुन्यां चित्रायां चैत्रमासके || नृप जन्मर्क्षके वापि षडशीति मुखेष्वपि | ब्रह्मविष्णुशिवर्क्षेषु चाभावास्याष्टमी तथा || ग्रहणादि महाकाले स्नानं कुर्यान्मृगम्मदैः || इति || अथ शङ्खाभिषेककालमाह- ईशस्यामृत सिद्धयोगदिवसे दर्शे रवेः सङ्क्रमे- जन्मर्क्षेपिच पक्षमध्यमतिथौ शैवेतिथौ देशिकः | शङ्खैरुत्तम मध्यमाघममुखैरेकोन पञ्चाशता- सर्वेष्टाय शतेन वा दशशतैर्वा स्नापयेच्छकङ्करम् || १४४ || स्पष्ठोऽर्थः | तथाचोक्तमंशुमत्तन्त्रे- शङ्खाभिषेचनं वक्ष्ये श्रूयतां रविसत्तम | आयुश्री मृत्युजयदं व्याधिनाशं रिपुक्षयम् || प्. १८०) धर्मार्थकाममोक्षार्थं पुत्रपौत्र विवर्धनम् | शान्तिकं पौष्टिकं प्रोक्तं सर्वपाप विनाशनम् || तस्मात्सर्वप्रयत्नेन शङ्खतोयाभिषेचनम् | रोहिण्यां शनिसंयोगे गुरुपुष्ये तथैव च || आदित्य हस्त संयुक्ते भृगु रेवति संयुते | कुजाश्विनी समायुक्ते बुधानूराध एव च || सोम वैष्णव संयुक्ते यजमानानुकूलतः | अष्टम्यां च चतुर्दश्याममायामपि सङ्क्रमे | यजमानस्य जन्मर्क्षे कुर्याच्छङ्खाभिषेचनम् || शङ्खं त्रिविधमित्युक्तं पुमान्नारी नपुंसकम् | मूलस्थूलं भवेन्नारी चाग्रस्थूलं नपुंसकम् || मूलमग्रसमं चैव पुल्लिङ्गमिति निश्चितम् | शङ्खं चतुर्विधं ज्ञेयं ब्राह्मणादि क्रमेण तु || लघुश्चालिकसद्भावं दीर्घाग्रं पृष्ठतस्समम् | उदरं पूर्णयित्वा तु ब्रह्मशङ्खमिहोच्यते || क्षत्रियं शङ्खमेवं च ईषत्पीतप्रभं तथा | मूलं दीर्घं लघुश्चैव वैश्यशङ्खमिति स्मृतम् || शूद्रशङ्खं लघुश्चैव दीर्घाग्रं ह्रस्वपृष्ठकम् | शङ्खलक्षणमित्युक्तं शङ्खोद्भवमतः परम् || प्. १८१) ताम्रपर्ण्युद्भवं शङ्खं उत्तमं चेति कीर्तितम् | गङ्गायां मध्यमं चैव नर्मदायान्तु कन्यसम् || एवं त्रिविधमित्युक्तं शङ्खरूपमिहोच्यते | दक्षिणावर्त शङ्खन्तु जातिश्रेष्ठमिहोच्यते | तच्छङ्खं मध्यमे स्थाप्य अन्यांश्च परितो न्यसेत् || पूर्वोक्तलक्षणं चैव चाढकेनैव पूरयेत् | तदर्धं मध्यमं चैव तदर्ध मधमं भवेत् || दक्षिणावर्तकं शङ्खं स्वप्रमाणं विधीयते | पुच्छाग्रे हेमरत्नादि भूषितं जातिसुन्दरम् || सहस्रशङ्खं संस्थाप्य उत्तमं चेति कीर्तितम् | शङ्खानां शतसङ्ख्यानां स्थापनं च क्रमेण तु || शङ्खमेकोन पञ्चाशत्कन्यसं चैवमेव च || इत्यादि || अथ काम्यार्थपूजाकालमाह- मूलम्- रोहिण्यामनिलोत्तरेषु गुरुमे हस्ते च मैत्रर्क्षके- सोमादित्य बुधसुरेडित दिनेष्वादित्य सोमग्रहे | पञ्चम्यामथ पर्वणोश्च भजने मासर्क्षमासान्तयोः- पक्षोपान्तिम मध्ययोरयनयोः काम्यार्थपूजां चरेत् || ४५ || तत्र प्रथमं नक्षत्राण्याह-रोहिण्यां | अनिलः-स्वाती | उत्तर- उत्तरत्रितये | गुरुभे-पुष्ये | हस्ते | मैत्रर्क्षके-अनूराधायां | सोमादित्यबुहादुरेडितदिनेषु-असुरेडितः-शुक्रः | आदित्यसोमग्रहे- सूर्यचन्द्रोपरागयोः भजने-दीक्षा पूर्वक प्रथम शिवपूजासमये मासर्क्ष-चित्रादि द्वादश नक्षत्राणि मासान्त-मासान्तदिवसाः एतेषु पक्षोपान्तिम मध्ययोः-चतुर्दश्यष्टम्योः अयनयोः- मकरकर्कटसङ्क्रान्त्योः एतेषु कालेषु काम्यार्थपूजां चरेत् | तथा चोक्तांशुमत्तन्त्रे- काम्यार्थयजनं वक्ष्ये श्रूयतां रविसत्तम | आयुः श्रीकीर्तिजयदं व्याधिनाशं रिपुक्षयम् || अपमृत्युविनाशार्थं सर्वपापक्षयावहम् | इष्टकाम्यार्थ सिध्वर्थं पूजाकालविधिं शृणु || रोहिण्यनिलपुष्यर्क्षे हस्तोत्तरेषु मित्रभे | रविवारे सोमवारे तथैव बुधशुक्रयोः || अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | अष्टम्यां च चतुर्दश्यां पञ्चम्याञ्च द्विपर्वणि || कर्तुस्तु जन्मनक्षत्रे भजने मास-ऋक्षके | मासान्ते सङ्क्रमे वापि अन्यपुण्यदिनेपि वा || इत्यादि || प्. १८३) अथ मुकुटारोपणकालमाह- मूलम्- याते तथोदगयनं द्युमणौ तु राज- ग्रामानुकूल यजमान शिवर्क्षकेषु | आद्यन्तयोरपि युधो मुकुटं शिवाय- दद्याद्दिनेषु महतेषु सिते च पक्षे || द्युमणौ-सूर्ये उदयगयनं याते उत्तरायणं गतेसति राजग्रामानुकूल यजमान शिवर्क्षकेषु-राजानुकूल-ऋक्षे ग्रामानुकूलऋक्षे यजमान जन्मर्क्षे शिवर्क्षे-आर्द्रायां च युधः- युद्धस्य आद्यन्तयोश्च महितेषु-प्रशस्तेषु दिनेषु सितपक्षे-शुक्लपक्षे | शिवाय मुकुटं दद्यात् | तदुक्तं सूक्ष्मे- मुकुटारोपणं वक्ष्ये शृणुत्वं तत्प्रभञ्जन | आयुरारोग्यफलदं पुत्रपौत्र प्रवर्धनम् || सर्वसिद्धिकरं पुण्यं शत्रुनाशकरं परम् | उत्तरायणकाले तु शुक्लपक्षे शुभेदिने || राजग्रामानुकूलर्क्षे देवनक्षत्रकेऽपि वा | युद्धारम्भावसाने वा यजमानादिनेऽपि वा || मुकुटारोपणं कुर्याद्विधिनानेन बुद्धिमान् || इति || मुकुट लक्षणं च तत्रैव प्रतिपादितम् | प्. १८४) मुकुटस्य विधिं वक्ष्ये शृणुत्वं तत्सदागते | तल्लक्षणं त्रिधा प्रोक्तं किरीटं च करण्डकम् || तटामुकुटमेतेषु जटामुकुट लक्षणम् | वक्ष्यते निष्कलस्यापि सकलस्य च साम्प्रतम् || स्वर्णसङ्ख्याविधानं च श्रेष्ठमध्याधम क्रमात् | त्रिसहस्रं सत्रिशतं सत्रित्रिंशति निष्ककम् || त्रिगुञ्जैस्त्रिशतं सत्रित्रिंशन्निष्कं त्रिगुञ्जयुक् | सत्रिंशच्छत निष्कन्तु त्रिगुञ्जैश्शिवमलिषु || शतं विना तु तन्मानं सोमास्कन्दादि मौलिषु | तन्मानं द्विगुणं वाऽथ त्रिगुणं वा विधीयते | तत्तत्सङ्ख्या विधानेन शुद्ध जम्बूनदं ग्रहेत् || इत्यादि || अथ षट्सहस्र कालोत्तर प्रतिपादिताः केचन काम्यवृत विशेषकालास्सङ्क्षिप्य लिख्यन्ते | यथा भूतपति वृतम्- फाल्गुने चैव भूतायां तस्माद्भूतपतिं यजेत् | अष्टम्यां च चतुर्दश्यां वृतान्युक्तानि पूर्वतः || तानि सर्वाणि तेनैव वृतान्येव कृतानि तु || प्. १८५) स्कन्दवृतम्- चैत्रशुक्लात्समारभ्य कर्तव्यमधुनोच्यते | उपोष्य शुचिना षष्ठ्यां विशेषात्षण्मुखं यजेत् || मातृवृतम्- चैत्रशुक्लनवम्यान्तु मातृवृतं समाचरेत् | चतुष्षष्टिस्तु सम्पूज्या भैरवेण समन्विताः || नवम्यां पूजयेद्यस्तु मासि चाश्वयुजे तथा | अखण्डित प्रभावस्तु भवेद्वै नात्रसंशयः || अनङ्ग वृतम्- चैत्रशुक्ल त्रयोदश्यां अनङ्गन्तु पटे लिखेत् | पुष्पमण्टप मध्ये तु रम्योद्याने तु पूजयेत् || पुमान् कामितमाप्नोति सर्वस्यैव प्रियो भवेत् | सौभाग्यं प्राप्नुयान्नारी इहलोके परत्र च \\ मासि मासि यजेद्वाथ यथानुक्रयोगतः | मासि भाद्रपदे यत्नादनङ्गं पूजयेत्सदा || गौरीवृतम्- गौरीवृतमथो वक्ष्ये स्त्रीणां सौभाग्यवर्धनम् | चैत्रशुक्लतृतीयायां गौरीवृतं समाचरेत् || प्. १८६) सूर्यवृतम्- अथ वक्ष्ये विशेषेण सूर्यवृतमनुत्तमम् | नक्षत्रतिथियोगं च ग्रहयोगमथ शृणु || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि | अश्विनी रोहिणी पुष्य मधास्तिस्रस्तथैव च || श्रवणं रेवती चैव यदा भवति षण्मुख | भास्करश्चन्द्रश्चादित्यः कविस्सोमसुतो गुरुः || नक्षत्रानुक्रमेणैव यदिस्युस्तिथयः शृणु | अश्विनीत्यादि वारेषु यदिशुक्लचतुर्दशी || तस्यां विशेषतः कार्यं शिवस्य परमात्मनः | अङ्गमार्गं रोचनाय रतेः पुष्यैः प्रपूजयेत् || इत्यादि || अथ चन्द्रवृतम्- अष्टम्यां रोहिणी स्यात्तु तदा चन्द्रवृतं चरेत् | शिवं सम्पूज्य विधिवत् स्नानैः पञ्चामृतादिभिः || विलेपनन्तु चन्द्रेण चन्दनेन तु वाहितम् || इत्यादि || भूमिवृतम्- शुक्लपक्षे चतुर्दश्यां यदितिष्यार्कसम्भवः | पूजयेत्स्पूर्वाविधिना चोपवासेन शूलिनम् || प्. १८७) कुङ्कुमैश्चाङ्गरागैस्तु गन्धपुष्पैः प्रपूजयेत् | पायसं सघृतं देयं प्रस्थमात्रप्रमाणतः || भूमिदानं प्रकर्तव्यंशिवभक्ताय यत्नतः | अनेन वृतमुख्येन पृथ्वीपतित्वमाप्नुयात् || एतद्भूमिवृतं नाम वृथ्वीपालस्तु कारयेत् | देववृतत्- बृहस्पति मघायोगश्चतुर्दश्यां यदा भवेत् | उपोष्य पूजयेत्तस्यां देवदेवं महेश्वरम् || महास्नान प्रकारेण महावतीं पुरस्सरम् | अङ्गारकं चन्दनेन शुक्लपुष्पैः प्रपूजयेत् || धूपन्तु चलनं देयं लघुना चन्द्रसम्मितम् | सितवस्त्राणि चाश्वं च प्राचार्याय प्रदापयेत् || जातीफलैः प्राशनं च रात्रौ जागरणं हितम् | एतद्देववुतं नाम आयुःश्रीकीर्ति वर्धनम् || राजराजेश्वर वृतम्- बुहे स्वात्यात्मको योगः यदाष्टम्यां प्रजायते | उपोषितस्तु विधिना महास्नान पुरस्सरम् || पूजयेत्तु विरूपाक्षमङ्गारकं च तत्समम् || इत्यादि || प्. १८८) राजराजेश्वरपदं प्राप्नुयाद्रोणमहर्षणम् | राजराजेश्वरं तेन वृतमेतत्प्रकाशितम् || महावृतम्- शुक्लश्रवण योगस्तु यदाष्टम्यां प्रजायते | चतुर्दश्यामथोवत्स महावृतं समाचरेत् || उपोषितस्तु विधिना महास्नानं समाचरेत् || इत्यादि || पितॄन् पितामहं चैव तथैव प्रपितामहान् | पुत्रान् पौत्रान् प्रपौत्रांश्च शिवलोकं नयेत्फलम् || इदं महावृतं तस्मात्कर्तव्यं पृथ्वीश्वरैः | विश्वरूपवृतम्- रेवती चन्द्रयोगस्तु सिताष्टम्यां यदा भवेत् | भूतायां वा महासेन तदा वृतमिदं शृणु || इत्यादि || यान् यान् कामयते मन्त्री तांस्तान् कामानवाप्नुयात् | विश्वरूपमिदं तेन वृतमेतदुदाहृतम् || कुशोदकप्राशनं च रात्रौ जागरणं ततः || इत्यादि || नक्षत्रतिथियोगेन तिथीनां ग्रहयोगतः | पुनरेव प्रवक्ष्यामि वृतानि तु यथास्थितम् || प्. १८९) पुत्रवृतम्- रोहिण्यां चाष्टमीयोगो यदाभवति तत्ततः | विशेषपूजा कर्तव्या पुत्रकामैः प्रयत्नतः || सर्वकामवृतम्- पुष्यशुक्ल चतुर्दश्यां गुरुयोगो यदा भवेत् | अथवा सोमसंयोगे विशेषात्पूज्य शङ्करम् || पायसं घृतसम्मिश्रं शिवाय विनिवेदयेत् | धूपदीपोपहाराद्यैः पूर्ववत्पूजयेच्छिवम् || प्राशनन्तु घृतं कार्यं सर्वकामप्रदं वृतम् | शिववृतम्- आदित्यरेवती योगश्चतुर्दश्यां यदा भवेत् | अष्टम्यां वा महायोगाच्छिवं सम्पूज्य पूर्ववत् || चन्द्रवृतम्- अष्टमी मृगसंयोगात्तदा चन्द्रवृतं चरेत् | प्रागुक्तेन विधानेन शिवं सम्पूज्य यत्नतः || दधिक्षीरन्तु नैवेद्यं प्राशनं क्षीरमेव च | कीर्तिमारोग्य मैश्वर्यं प्राप्नुयान्नानृतं वचः || प्. १९०) भौमवृतम्- अश्विनी भौमसंयोगश्चतुर्दश्यां यदा भवेत् | अष्टम्यां रोहिणीयोगे तदा भौमवृतं चरेत् || सम्पूज्य परया भक्त्या शिवं पञ्चोपचारतः | रक्तोत्पलप्राशनं च साम्राज्यं प्राप्नुयात्सुत || बुधवृतम्- रोहिणी बुधसंयोगश्चतुर्दश्यां यदा भवेत् | अष्टम्यां वा महासेन बुधवृतं समाचरेत् || शिवः पूज्यो विधानेन महास्नानपुरस्सरम् | महावर्तिसमोपेतं प्राशनं पायसं घृतम् || पुत्रार्थदारपशवो वर्धन्ते तस्य नान्यथा | गुरुवृतम्- रेवती गुरुसंयोगश्चतुर्दश्यां यदा भवेत् | अष्टम्यां तिष्यसंयोगाद्गुरुवृतं समाचरेत् || प्राशनं कपिलाज्यन्तु ब्राह्मीरससमन्वितम् | वागीशत्वमवाप्नोति घृतस्यास्य प्रभावतः || शुक्रवृतम्- श्रवणं भार्गवयुतं चतुर्दश्यां यदा भवेत् | गुरुवृतं तदा सिद्धं पुनर्वस्वष्टमी यदा || प्. १९१) सम्पूज्य परमेशानं यथाविभवविस्तरैः | प्राशनं मधुनैवात्र महाधनमवाप्नुयात् || शनिव्रतम्- भरणी शनियोगस्तु चतुर्दश्यां यदा भवेत् | अग्नियोगस्तथाष्टम्यां तदावृतमिदं चरेत् || शिवं सम्पूज्य विहिवत्प्राशनं दधि-एव च | शनिरेकादशस्थो हि फलं यच्छति शोभनम् || विरुद्धश्शोभनो वत्स तदर्थं तु वृतं चरेत् | हेमयुग्मं प्रवालं च काकरं शुद्धमेव च || शङ्खं सतारं लोहं च क्रमाद्यत्नेन दापयेत् | यथा सम्भवतो वत्स आचार्याय प्रदापयेत् || इति ग्रहवृत प्रकरणम् || अथ कृष्णाष्टमी वृतारम्भः || कार्तिकेयः- वृतानि सविशेषाणि मासिमासि वद प्रभो | यावद्धै वत्सरं कृत्स्नं प्राणिनां स्नेहवत्सलम् || ईश्वरः- कृष्णाष्टम्यां मार्गशीर्षे नक्तभोजी यदा भवेत् | शङ्करं नाम वै रुद्रं भवान्या सह पूजयेत् || प्. १९२) ईश्वरं बिन्दुना देवीं महाशङ्करनामतः | स्वमन्त्रोपरि पूजान्तु विशेषेण तु कारयेत् || अप्तोर्यामस्य यज्ञस्य फल शतगुणं लभेत् | गोमूतं चुलुकं पीत्वा हविष्यान्नं तु कारयेत् || शम्भुरुद्रं च शर्वाण्या पौपे सम्पूज्य पूजयेत् | शिवभक्तांस्तु सम्पूज्य कृष्णाष्टम्यां शिखिध्वज || आचार्यपूजां निर्वृत्य गोधृतं त्रिफलं पिबेत् | हविष्यान्नं ततो भुक्त्वा वाजपेयफलं लभेत् || माघमासीश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् | अम्बिकासहसंयुक्तं पूर्ववन्मन्त्र संयुतम् || शैवाचार्यान् पूजयित्वा क्षीरं प्राश्य फलत्रयम् | गोमेधशतपुण्यन्तु प्राप्नुयाद्विधिना सुत || फाल्गुनस्यासिताष्टम्यां महादेवं समर्चयेत् | मालिन्या तु समायुक्तं नित्यकृत्यादनन्तरम् || शिवभक्ताय भूर्देया तिलानां प्राशनं शुभम् | राजसूर्यायुतफलं लभेरन् शिवयोगिनः || चैत्रे स्थाणुं मृडानीं च कृष्णाष्टम्यां प्रपूजयेत् | सुवर्णकृतभूषाद्यैर्वित्तशाठ्यं विना सुत || प्. १९३) ईषद्दग्धं यवं प्राश्यमश्वमेधायुतं फलम् | वैशाखे शिवनामानं शक्त्या सह यदार्चयेत् || पूर्व्केतेन विधानेन शिवभक्तं तदार्चयेत् | कुशोदं च सम्प्राश्य नरमेधायुतं फलम् || ज्येष्ठे पशुपतिं पूज्य पार्वत्या सहितं तदा | नित्यं निर्वृत्य तत्रैव सम्पूज्य विधिना सुत || गोविषाणोदं प्राश्य गोमेधफलमाप्नुयात् | आषाढे चोग्ररुद्रन्तु मनोन्मन्या सहार्चयेत् || कुशोदकन्तु सम्प्राश्य राजसूयफलं लभेत् | श्रावणे शर्वंनामानं वामाशक्त्या सहार्चयेत् || पद्मोदकन्तु सम्प्राश्य सर्व यज्ञफलं लभेत् | मासि भाद्रपदेऽष्टम्यां त्र्यम्बकं नाम पूजयेत् || ज्येष्ठाशक्ति समायुक्तं प्रागुक्तेन विधानतः | प्राशयेद्बिल्वपत्रन्तु गुरुपूजादनन्तरम् || सम्यक्क्रतुशतं तेन कृतं भवति नान्यथा | मासि चाश्वयुजे पूज्य ईश्वरं कान्तया सह || प्. १९४) रत्नोदकेन सम्प्राश्य पौण्डरीकायुतं लभेत् | कार्तिके मदनारातिं मनोन्मन्या सहार्चयेत् || गुरुं सम्पूज्य विधिवत्प्राशयेच्च गवां दधि | अग्निष्ठोमायुतं तेन इष्टं भवति षण्मुखं || वर्षान्ते भोजयेद्विप्रान् शिवभक्ति परायणान् | भूमिकुञ्जर यानैश्च रत्नद्रविणविस्तरैः || पूजयेत्परया भक्त्या वृतानां यो गुरुर्भवेत् | वित्तशाठ्यान्महासेन न तत्फलमवाप्नुयात् || || इति कृष्णाष्टमी वृतम् || पिष्टवृतम्- पौषमासे तु सम्प्राप्ते पक्षयोरुभयोस्सुत | चतुर्दश्यामथाष्टम्यां पौर्णमास्यामथापि वा || नित्यं निर्वृत्य विधिवत्ततः काम्यं समाचरेत् | विशेषपूजा तत्रैव कर्तव्या शुद्धचेतसा || नैवेद्यं यावकप्रस्थं षण्डक्षीराज्य संस्कृतम् | रुद्रसख्यास्तु वै विप्रान् भोजयेच्चैव रक्षयेत् || वितस्तिमात्रां प्रकृतिं यवपिष्टविनिर्मिताम् | सशृङ्ग खुरलाङ्गूलां कृतभूषान्तु कारयेत् || प्. १९५) शिवाय तु प्रदातव्या वृतस्य गुरवे ततः | सुवाहनसमायुक्ता वृतपुण्यमतः शृणु || सूर्यकोटि प्रतीकाशैर्विमानैस्सार्वकामिकैः | रुद्रवृन्द समाकीर्णैः रुद्रकन्या समावृतैः || वृषभस्यन्दनैर्युक्तो नानागीतरवान्वितः | त्रिःसप्तकुलसंयुक्तो यात्यसौ यत्रशङ्करः || यावत्तद्रोमसङ्ख्यातं तत्प्रसूतिः कुलेष्वपि | तावद्युग सहस्राणि रुद्रलोके महीयते || सामीप्यन्तु समासाद्य सायुज्यं यान्ति चान्ततः | अनेन विधिना माघे प्रस्थपिष्टमयं यवैः || समाप्य च विहानेन चक्रवर्तिपदं लभेत् | फाल्गुने तु तथा वज्रं निवेद्य तत्फलं लभेत् || चैत्रे शक्तिं पिष्टमयीं निवेद्य च शिवाग्रतः | समुञ्चति ब्रह्महत्यां शिवलोकमवाप्नुयात् || वैशाखे मासि दण्डास्त्रं शिवस्याग्रे निवेदयेत् | हस्तार्धपिष्टजं कार्यं पूजान्ते तु निवेदयेत् || मुच्यते पञ्चपापेभ्यो रुद्रलोके महीयते | ज्येष्ठे पिष्टमयं खड्गं शिवाय विनिवेदयेत् || प्. १९६) मुच्यते स कृतघ्नत्वाद्रुद्रलोकं च गच्छति | आषाढे पिष्टजं पाशं शिवाय विनिवेदयेत् || मुच्यते दुष्कृतैस्सर्वैरिह जन्मनि सञ्चितैः | ध्वजं पिष्टमयं यस्तु शिवस्याग्रे निवेदयेत् || श्रावणे तु विधानेन सोक्षयं मोक्षमाप्नुयात् | मासो भाद्रपदे यस्तु गदां पिष्टमयीं ददेत् || निधिशत्वन्तु सम्प्राप्य शिववलोके महीयते | मासि चाश्वयुजे शूलं हस्तार्धं पिष्टसम्भवम् || शिवाय पुरतो देय भ्रूणहत्यां व्यपोहति | कार्तिके तु तदा चक्रं शिवस्याग्रे निवेदयेत् || सप्तजन्म कृतं पापं दहत्यग्निरिवेन्धनम् | मासे वै मार्गशीऋषे तु कमलं पिष्टसम्भवम् || शिवाय विधिना देयं सर्वैश्वर्यमवाप्नुयात् | सर्वेषां चैव नक्तन्तु वृतानां कीर्तितं मया || नित्यपूजान्तु निर्वृत्य काम्यपूजान्तु कारयेत् | दरिद्राणामनाथानां वृतानि शृणु लेशतः || कार्तिकन्तु समारभ्य एकभुक्तन्तु कारयेत् | यावदाश्वयुजान्तन्तु तस्य पुण्यफलं शृणु || प्. १९७) दिव्यं वर्षशतं सार्धं रुद्रलोके महीयते | कार्तिकन्तु समारभ्य यावदाश्वयुजावधि || सन्ध्याकाले चरेन्मौनं यावत्तारानुवीक्षणम् | प्रयाति रुद्रलोकन्तु देहान्ते बन्धुभिस्सह || मोदते तत्र भुवने दिव्यं वर्षायुतत्रयम् | तदन्ते प्राप्नुयाद्योगं शिवत्वेन ध्रुवं यजेत् || कार्तिकन्तु समारभ्य यस्तु नक्तेन वर्वते | यावदाश्वयुजान्तन्तु तस्य पुण्यफलं शृणु || वर्षायुतयुतं तत्र रुद्रलोके वसत्यलम् | तदन्ते ज्ञान योगेन सर्वैश्वर्यफलं लभेत् || कार्तिके- - - - - - - - - - - - - - - - - - - - - - - - - - रेत् | निराहारामथो मौनं प्रतिमासं तमावधि || रुद्रलोके वसेत्सोऽपि ब्रह्मणां मनुसङ्ख्यया | उभयोश्च चतुर्दश्यां निराहारेण वर्तते || कार्तिकन्तु समारभ्य यावदाश्वयुजावधि | रुद्रलोके- - - - - - - - - - - - - - - - - - - - - - - - - -श्शिवम् || कार्तिकन्तु समारभ्य वावत्संवत्सरावधि | प्. १९८) शुक्लाष्टम्यां सोपवासं तस्य पुण्यफलं शृणु || रुद्रलोके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश | केदार वृतमाह | कामिके- अथ वक्ष्ये विशेषेण केदारवृतमुत्तमम् | कन्यायामर्कसञ्चारे मलमासासि वर्जयेत् || प्रोष्ठपयास्सिते काले विद्यते या चतुर्दशी | तद्दिने च वृतं कुर्यात्केदारं चेति कीर्तितम् || पर्वयुक्तं वियुक्तं वा वृतानामुत्तमोत्तमम् | सद्यः फलमवाप्नोति गौतमेन प्रचोदितम् || मध्याह्ने च यथाप्राप्तं तद्दिने शिवमर्चयेत् | तेन प्रीतेन मनसा गौरीकोपश्च शाम्यति || प्रोष्ठपत्पूर्वफल्गुन्यां केदां चेति कीर्तितम् | चतुर्दशी समायुक्तं गौरीव्रतमनुत्तमम् || पुत्रं पौत्रं च लभते आयुःकीर्ति विवर्धनम् | ज्ञानवैराग्यसिद्ध्यर्थं सोऽन्ते शिवपदं वृजेत् || एवं वै कृष्णपक्षे तु योष्टम्यन्तं - - - - - - - - - - | - - - - - - - - - - - - - - तस्माच्छतगुणं फलम् || प्. १९९) एवं कृष्णचतुर्दश्यां फलन्तु सितवद्भवेत् | द्वाभ्यां सहस्रगुणितं फलं प्राप्नोति मानवः || मासि मासि वृतं कार्यं प्रयत्नाच्छिवमिच्छता | फलं वाप्य- - - - - - - - - - - - - - - - - - - - - - - - - || कुङ्कुमागरु ताम्बूलश्चन्द्रमासन वाहनम् | तत्र चाभरणं रम्यं शययां वा मनसेप्सितम् || मासि मासि शिवस्याग्रे न्यस्तव्यं शिवमिच्छता | अक्षययतामवाप्नोति यावद्ब्रह्मा दिशो दश || वृतं कृत्वा फलं यस्तु शिवाय विनिवेदयेत् | - - - - - - - - - - - - - - - - - - - शाश्वतं तेन चाप्यते || || इति वुतविशेषकालः || मूलम्- इत्थं कामिक कारणाजित मुखानामथ्य शैवागमा- म्भो राशीन् व्यरचि क्रियापटुधियां प्रीत्यै सुराणामिव | हृद्यं कालविवेचनामृतमिदं संलब्धमेतत्सदा- माभूत्तैरसुरैरिवातिकुटिलैर्दोषैकदृग्भिः खलैः || ४७ || इति श्री निगमज्ञान शिवाचार्य विरचितश्शैवकाल विवेकः समाप्तः | प्. २००) व्याख्या- अरुणगिरि महेशाशेष शैवागमेक्षा- विमलतर मनीषोन्मेष भाषा विशेषः | ललितपद निगुम्भेष्वेक एव श्रुतोऽसा- विति गणपति भट्टस्सादरं व्याक्यदेनम् || इति श्रीवत्सकुलतिलक गणपति भट्ट विरचिता शैवकालविवेक व्याख्या समाप्ता || || ओ म् शम् || श्रीः अनुबन्धः देशकालाधिकारः ईशानशिवगुरुदेवपद्धतौ-सिद्धान्तसारे-क्रियापादे षड्विंशे पटले- अथ लिङ्गप्रतिष्ठायै प्रासादकरणं प्रति | कर्षणादि क्रियाचक्रं ज्ञेयं तल्लिख्यतेऽधुना || गुणवद्देशकालाप्तिरवेक्ष्यास्मिन् विशेषतः | सुक्षेत्रे चोदिते काले बीजमुप्तं हु रोहति || जलसेकादिभिः कृत्यैरभिष्टफलदं च तत् | कर्षणादि क्रियासिद्धे प्रासादे लक्षणान्विते || विशिष्टदेशे काले च विधिनैव प्रतिष्ठिते | लिङ्गे करोति सान्निध्यं शिवः कर्तुश्च भूतये || अत्रोत्तरायणः कालो नियतः कर्षणादिके | मासाश्चानधिकाः पक्षः शुक्लस्तु तिथयः शुभाः || पर्वरिक्ताष्टमी विष्टिप्रतिपद्वर्जितास्तु याः | करणानि विना विष्टिं शकुनिं च चतुष्पदम् || नागकिंस्तुघ्नकौ हित्वा शस्तानि सुखदानि च | चन्द्रज्ञगुरुशुक्राणां वाराद्रेक्काणकांशकाः || प्. २०२) शस्ता गुरुज्ञकाव्यानां होराश्चोदय दृष्टयः | पापानामंशदिवस द्रेक्काणोदय दृष्टयः || होराश्चाशोभनाः सर्वे ग्रह (स्त्वो ?स्त्वा) य गताः शुभाः | त्रिषष्ठाय गताः पापाः नेष्टोऽन्यत्र शुभावहः | सर्वेऽप्यष्टमगानेष्टाः शुक्रस्तत्रापि शोभनः || द्वितीयपञ्चगश्चन्द्रो ज्ञः सप्तनवपञ्चगः | द्विसप्तपञ्चन्द्रो ज्ञः सप्तनवपञ्चगः | द्विसप्तपञ्चनवमे गुरुश्चैते शुभावहाः || सौम्यादित्याश्वितिष्याणि हस्तपौष्णे त्रिरुत्तराः | रोहिणी श्रवणं स्वाती मैत्रं चेष्टानि भानि वै || ग्रहमुक्तं ग्रहयुतं ग्रहेणाकाङ्क्षितं त्यजेत् || तद्यथा-उल्कापातं सूर्यात् दशये नक्षत्रे भूकम्पः | सप्तमे ब्रह्मदण्डः | पञ्चदशे मोघम् | एकविंशके शुक्रात् सप्तमे नक्षत्रे मृत्युः राहोरेकादशमे च | शनैश्चरयुक्तनक्षत्रात् दशमषष्ठविंशति (खा ? भा) नि च खण्डनक्षत्राणि वर्ज्यानि | बुधादष्टममष्टादशकं चतुर्विंशे त्रिकं च महाकण्ठकाख्यानि | भौमात् || भौमात् पञ्चमसप्तमनवमचतुर्दश त्रिकभानि ज्वालाग्नि गुरोर्नवमं रोगाख्यं च वर्ज्यम् | अपि च-अश्वे चित्रे च रोहिण्यां घनिष्ठायां तथोत्तरे | अर्कादियोगो दग्धाख्यो ज्येष्ठायां चापि पूषभे || प्. २०३) द्वादश्येकादशी तद्वत् पञ्चमी च द्वितीयया | षष्ट्यमी च नवमी दग्धाः सूर्यादिभिर्युताः | अनूराधा वैश्वदेवं शतभाश्वीन्दुसर्षभम् || हस्तं चार्कादिसंयोगोअन्मृत्युयोगा भवन्ति हि | मघाविशाखाथार्द्रा च मूला शतभिषक् तथा \| रोहिणी चोत्तराषाढा विषयोगास्त्विनादिभिः | अर्केऽग्नि पञ्चमीयोगः सोमे चित्राद्वितीयया || भौमेच रोहिणी पूर्णा बुधे याम्येन सप्तमी | गुरौ ज्येष्ठा प्रतिपदं शुक्रे षष्ठी च वैष्णवम् || शनौ पौष्णाष्टमी योगो मृतयोगस्त्यजेदिमान् | प्राजापत्यं तृतीयायां सौम्यं षष्ट्यांतु तिष्यभम् || दशम्यां द्वादशी मैत्रं पञ्चम्यां श्रवणं तथा | सप्तम्यां पौष्ण (भा?भं) याम्यमष्टम्यां चोग्रसंज्ञिताः || चित्रा विशाखा चाग्नेयमजैकपदवैष्णवे | शतोडुमच्चाहिर्बुध्न्यमश्विना भरणी तथा || रोहिण्यार्द्रादितीशानि शून्यान्वृक्षाण्यजादिषु | मासेष्वेतानि वर्ज्यानि क्रमात् द्वादश भान्यपि || निष्कम्भशूलगण्डाश्चाप्यतिगण्डोऽथ वज्रकम् | व्याघातश्चैषु योगेषु त्रिपञ्चर्तुरसैर्मितम् || प्. २०४) नवापि नव हित्वैत्षां घटिकाः शुभदाः पराः | विष्कम्भशूलयोरादौ मध्ये गण्डातिगण्डयोः || व्याघात वज्रयोरन्ते त्यजेदुक्तास्तु नाडिकाः | व्यतीपातञ्च परिघं वैधृतिं चाखिलं त्यजेत् || यावदर्कारयोर्मूलं मूलात् तत्संख्यतारकम् | दग्धं च कण्टकं स्थूणं प्रतिष्ठादिषु वर्जयेत् || सर्वाश्वि पित्र्यपौष्णानि ज्येष्ठा मूलं परस्परम् | याम्यहिर्बुध्निमैत्राणि पुष्य पूर्वाप्यभान्यपि || श्रोणा प्रजेशशतभ हस्तार्द्रा स्वातयो मिथः | पादभं पादभाविद्धमर्धर्क्षं चार्धमाहतम् || ग्रहैरेषु स्थितैरेषां वेधं ज्ञात्वा विवर्जयेत् | नाना (रा!यो)गे यथासङ्ख्यं पक्षयोस्तिथियोजिते || मुनिसंख्या विभक्तेऽस्मिन् ज्ञेयाः श्रीदिवसादयः | श्रीदिवसो वधदिवसो धनार्णवश्चैव सप्तैते | कलिश्च कालकर्णी च वधसंज्ञश्च वर्जितः || यमो नागः मनः पारः खलश्चेति प्रसंख्यया | नन्दादिषु क्रमान्नाडीस्तिथिरूपाह्वयास्त्यजेत् || प्. २०५) हारी सानुर्मयो नेत्रं सूनुर्मौनी कपिः पटुः | हरो हरी नरः संज्ञा मान्यो मृत्युः पटुर्नरिः || मग्ना सेनामयास्थेयं योग्या संज्ञार्थिनां मृदः | दूरे जरामुनिश्चेति ऋक्षरूपांश्च वर्जयेत् || अश्विन्यादिषु नक्षत्रेषु वाक्य संख्य घटिकान्ते घटिका द्वयं वर्ज्यम् घटिकाद्वयमृक्षान्ते दिनान्ते पञ्चनाडिकाः | मासान्ते द्विदिनस्त्याज्यमयनान्ते दिनत्रयम् || पक्षं संवत्सरान्ते च प्रतिष्ठादिषु वर्जयेत् | नागोनाभिर्वरः कोपो नीलो नीरं नगो नगः || अरं दया स्वरः क्रूरः पापोभूयो नयो भयम् | नारी प्रिया नरो नीप्रं नारं देयं द्वयो हयः || वारं दिशा वरश्चेति प्रोक्ताः स्युर्विषनाडिकाः | कृत्तिकादिषु वाक्यान्ते चरस्रो नाडिकास्त्यजेत् || अर्धप्रहारमपि वेसरमन्दगीतैः शम्भुर्गुरुः पथिजनैर्यम कण्टकं च | साक्षाच्छिवं गुरुपदैर्गुलिकं च विद्यात् | सूर्यादि वारादिवसाष्टमभागयुक्त्या || ब्रह्माण्याद्यास्तु योगिन्यः पार्थरम्भाम्बुशान्तिदैः | वेद्याः प्रागादि ख्यादि वह्निदुर्गादिकं तिथौ || प्. २०६) भूपरिग्रहयात्रादौ शिलास्वीकरणादिषु | योगिन्यभिमुखं यात्रां परिहृत्य व्रजेत्सदा || अमावास्यादिकानां तु तिथीनां दशकत्रिके | तिथयो नन्ददिक्संख्यास्त्वाकाशं च रसातलम् || आकाशे चापि पाताले शुभकर्म न कारयेत् | दोषानेतांस्तथान्यांश्च ज्योतिःशास्त्रविनिश्चितान् || पञ्च दोषांश्च चक्रार्धं षडशीतिमुखं तथा | ग्रहणे विषुवे तद्वत् संक्रान्तीश्चायने त्यजेत् || सर्वदोषवियुक्तं तु स्वतो न सुलभं दिनम् | लग्नं वातो बहुगुणं स्वल्पदोषं समाश्रयेत् || दोषाणां शतसाहस्रं लग्नस्थःशमयेद्गुरुः | शुक्रः पञ्चसहस्राणि बुधः पञ्चशतानि च || तस्माच्छुभे बलवति लग्नस्थे कर्षणादिकम् | कुर्यात्स्थानविवृध्यर्थं कर्तुः कारयितुस्तथा || सम्भवे शुभयोगानां कुर्वीत स्थापनादिकम् | तद्यथा-मूलं द्वितीया चार्केण श्रोणा प्रतिपदिन्दुना || कुजे तृतीयाहिर्बुध्न्यं कृत्तिकासु बुधेऽष्टमी | गुरावदिति पञ्चम्यौ चतुर्थ्यां भृगुफल्गुनी || प्. २०७) शनिः स्वातिश्च सप्तम्यां योगाः स्युरमृताः शुभाः | हस्तसौम्याश्विमैत्राणि पुष्यं पष्णं च रोहिणी || सूर्यादिवार संयुक्ताः सिद्धयोगाः शुभाः स्मृताः || उक्तं चान्यैः- ज्वलनपवनचित्रा रेवतीवारुणानां फणिहरनि-ऋतीनामेकमेकं क्रमेण | यदि रविकुजयोर्वा योगमभ्येति नन्दा स भवति परयोगः कर्मणां सिद्धिहेतुः || इति || तस्माच्चोदित मासपक्षतिथि करणनक्षत्र वारदिवस योग शुभग्रहांशक होराद्रेक्काण निरीक्षणोदयानां समस्तानां व्यस्तानां वा यथासम्भवं गुणवति काले कर्षणादीनि प्रतिष्ठान्तं कर्माणि विदध्यात् || इति देशकालाधिकारः | ########### END OF FILE #######