#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00075 Uniform title: śaivasiddhāntaparibhāṣā Secondary title: śaivasiddhāntaśaivaparibhāsā Author : śivāgrayogin Description: This e-text is transcribed from the devanagari edition of the Oriental Research Institute (Sanskrit Series no. 90). Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: November 11, 2005 Publisher : Oriental Research Institute, University of Madras Publication year : 1950 Publication city : Madras Publication country : India #################################################### आब्ब्रेविअतिओन्स्: अ = अध्याय अहं = अहंकार किर = किरणागम प = पटल पराशरोप = पराशरोपपुराण प प = पतिपटल पा = पाद पुं = पुंस्तत्त्व पौ = पौष्करागम प्र = प्रमाण ब्र = ब्रह्म मतङ्ग = मतङ्गागम मृ = मृगेन्द्र वा चो सू = वि = विद्या श्वेताश्वतर = श्वेताश्वतरोपनिषद् श्लो = श्लोक सर्व = सर्वज्ञानोत्तर सि सा = सिद्धान्त-सरावलि सू = सूत्र || श्रीः || || श्री गुरुभ्यो नमः || शैवपरिभाषा प्रथमः परिच्छेदः बन्दे तं परमेशानं सच्चिदानन्दलक्षणम् | सृष्ट्यादिपञ्चकृत्येशं पशूनां पतिमव्ययम् || गणेशं षण्मुखं साम्बं चित्सभेशं गुरुं नमन् | शिवभक्तानुमोदाय शैवभाषां वदाम्यहम् || १) इह खलु धर्मार्थकाममोक्षारव्यचतुर्विधपुरुषार्थानां मध्ये मोक्षस्य परमपुरुषार्थत्वात् तस्य च दीक्षादिना पाशापगमे पशौ शिवत्वाभिव्यक्तिरूपस्य पत्यनन्यतासाक्षात्कारेणैव प्राप्यत्वात् तादृशसाक्षात्कारस्यापि पति-पशु- पाशारव्यपदार्थत्रयपरिज्ञानसाध्यत्वात् तत्परिज्ञानस्य च प्रमाणाधीनत्वात्, प्रथममुद्देश-लक्षण परीक्षाभिः प्रमाणं निरूप्यते || २) तत्र नाम्ना पदार्थानां स्वरूपमात्रकीर्तनमुद्देशः, लक्षणमसाधारणो धर्मः, लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा | तत्र प्रमाणानामुद्देशः - प्रत्यक्षानुमानशब्दा इति त्रीणि प्रमाणानि इति | तदुक्तं - प्रत्यक्षमानुमानं च सह शब्देन शाङ्करे इति || ३) तत्र प्रमाणसामान्य लक्षणं तु संशयविपर्ययस्मृतिव्यतिरिक्ता प्रमापर * *? - आत्मचिच्छक्तिरिति तदुक्तं श्रीमत्पौष्करे - संशयादिविनिर्मुक्ता चिच्छक्तिर्मानमुच्यते || इति || (पौ प्र प श्लो ४) ४) तत्र संशयो नाम साधारणधर्मदर्शनात्कोटिद्वयावलम्बिनी बुद्धिः, यथा - स्थाणुर्वा पुरुषो वेत्यादि | विपर्ययस्तु अतस्मिंस्तद्बुद्धिः, यथा - शुक्तिकायां रजतमित्यादि | पूर्वानुभवजनितसंस्कारजन्या बुद्धिः स्मृतिः, यथा - कामुकस्य कामिनी साक्षात्कारादि | एतत्त्त्रितयव्यतिरिक्ता चिच्छक्तिरेव प्रमाणम् || तदुक्तं तत्रैव - द्वायलम्बा संशयो बुद्धिः समानाकारदर्शनात् | विपर्ययोऽन्यथाज्ञानमतद्रूपप्रतिष्ठितम् || अनुभूतार्थविषया मतिः स्मृतिरिहोच्यते | एभिर्विहीना चिच्छक्तिः प्रमाणत्वेन संमता || इति || (पौ प्र प श्लो ५-६) ५) इयं च चिच्छक्तिः पदार्थविषयको बोध एव | तस्याश्च फलं स्वविषये हानोपादानादि | उक्तं च पौष्करे - परं प्रमेयं हानादिव्यापारः फलमिष्यते || इति || (पौ प्र प श्लो ८) तत्रातिव्याप्त्यादिदोषा न सन्तीति तत्रैव प्रतिपादितम् | अत्राव्याप्त्यादिदोषाणां न कदाचन संभवः | प्रत्यक्षादिप्रमाणेषु व्याप्त्या नाव्याप्तिदूषणम् || नातिव्याप्तिश्च मेयेषु नानाभावेष्ववर्तनात् | नान्यथाव्याप्तिरप्यस्ति प्रमाणं चेत्तदीदृशम् || प्रमाणकथनं तेन समीचीनमुदाहृतम् || इति || (पौ प्र प श्लो ९-११) ६) तथागतास्तु प्रमाणमित्थं लक्षयन्ति - प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः | अविसंवादनं-------------------------- || इति || तदसत्; भूतभविष्यद्विषयेष्वनुमानेष्वव्याप्तेः | न ह्यसतोर्भूतभविष्यतोः काचिदर्थक्रियास्ति | स्मृतिज्ञानसविकल्पकज्ञानयोश्चातिव्याप्तेः | न हि ततः प्रवृतो विसंवाद्यते क्श्चित् | न चेष्टापत्तिः | तेषां मते शुद्धवस्तुविषयकत्वेन निर्विकल्पस्यैव प्रमाणत्वात् || ७) पभाकरास्तु - अनुभूतिः प्रमाणं सा स्मृतेरन्या स्मृतिः पुनः | पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते || इति वर्णयन्ति | तदपि नः तत्र पूर्वं पदार्थस्मरणपूर्वकस्य वेदवाक्यार्थज्ञानस्य स्वतः प्रमाण्यं प्रसाध्येदानीं स्मृतिव्यवच्छेदेनानुभूतेः प्रमाणत्वं वदतस्तव पूर्वापरविरोधात् | किं च स्मृतिज्ञानानामात्मस्वात्मांशयोरभिमतं प्रामाण्यं न सिध्येत् स्मृतिज्ञानस्य स्मृतिव्यतिरिक्तत्वासम्भवेनानुभूतित्वाभावात् || ८) अनधिगततथाभूतार्थनिश्चायकं प्रमाणमिति भाट्टाः | यदाहुः - तस्माद्दृढं यदुत्पन्नं न च संवादमृच्छति | ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् || इति || (श्लो वा चो सू श्लो ४०) तदपि न चारुतरम्; यादृच्छिकसंवादिनां दुष्टेन्द्रियाणां बाष्पादिविषयधूमादिलिङ्गविभ्रमाणां भ्रान्तविप्रलम्भकवाक्यानां च प्रामाण्यापत्तेः, सकलवेदाप्रामाण्यप्रसङ्गाच्च | यत्र क्वचन जन्मनि वेदार्थस्य सर्वैरधिगतत्वेनानधिगतपूर्वत्वाभावात् | किंचास्मिन्पक्षे धारावाहिकद्वितीयादिज्ञानानां प्रामाण्यं न स्यात् || ९) नैयायिकास्तु - साधनाश्रययोरन्यतरत्त्वे सति प्रमाव्याप्तं प्रमाणमिति कथयन्ति | यथाहुः - तत्र प्रमाणं प्रमया व्याप्तं प्रमितिसाधनम् | प्रमाश्रयो वा तद्व्याप्तो यथार्थानुभवः प्रमा || इति || तदपि न ; करणानां प्रमेयत्वेन प्रमाणत्वाभावात्, प्रामाण्ये वा दीपादीनामपि तथात्वप्रसङ्गात् | तदुक्तं श्रीपौष्करे - ननु न स्यात्कुतो मानं यत्तत्प्रमितिसाधनम् | तन्न दीपदृगादीनां प्रमाणत्वप्रसङ्गतः | यत्प्रमाणं न तन्मेयं मेयाभावः पुनः स्थितः || मात्यानुमीयते तत्र शब्दादिर्विषयत्वतः | यन्मेयं न हि तन्मानं यतो मानेन मीयते || पश्यामीति दृशा लोके प्रसिद्धिरुपकारतः | न कस्यापि पदार्थस्य यद्विना भवति प्रमा || तदेव मानमेष्टव्यं चक्षुरादि न तादृशम् || इति || (पौ प्र प श्लो ११-१४) १०) चक्षुरादीन्द्रियाणां स्वस्वविषयव्यतिरिक्तविषयग्राहकत्वा- योगात् सर्वग्राहकं किञ्चित्प्रमाणमेष्टव्यम् | तच्च चिच्छक्तिरेव | तदुक्तम् - न चक्षुः शब्दसंवितौ न श्रोत्रं रूपवेदने | सर्वत्र ग्राहिका संवित्सैव मानमतो मतम् || इति || (पौ प्र प श्लो १५) ११) ननु तर्हि सर्वेषां पदार्थानां सिद्ध्यसिद्ध्योर्बुद्ध्यन्वयव्यतिरेकानुविधायित्वात्, तस्याश्च सर्वविषयग्राहकत्वात् बुद्धिरेवात्र प्रमाणमिति चेत्, न; तस्याश्चक्षरादिवत्प्राकृतत्वाविशेषेण चिद्रूपत्वाभावात्, सुखदुःखादिरूपहेतुना तस्या वेद्यत्वाच्च | तस्माद्बुद्धेर्नियमेन प्रमाणत्वं नास्ति उक्तञ्च - यत्सिद्धौ च इयं सिद्धा यदसिद्धौ न किंचन | बुद्धिः सर्वान्तिमत्वेन कस्मान्मानं न चेष्यते || प्राकृतत्वाविशेषेण दृगादेरविशेषतः | असंविदात्मकत्वेन न हि बुद्धेः प्रमाणता || बुद्धिश्च वेद्यते किंच सुखदुःखादिरूपतः | प्रमाणैकान्तता तेन बुद्धेरपि न संमता || इति || (पौ प्र प श्लो १६-१८) १२) ननु प्रमात्रादिप्रमेयान्तसामग्र्यां सत्यामेव प्रमोत्पत्तेः असत्यां च तदनुत्पत्तेः प्रमासामग्र्येव प्रमाणमिति चेत्, न; तथात्वे प्रमातृप्रमेयादिव्यवहारोच्छेदप्रसङ्गात्, प्रमात्रादिव्यतिरेकेण सामग्र्यभावात्, यद्यतो व्यतिरिक्तं तत्ततो भिन्नमिति व्याप्तिव्याकोपाच्च | तस्मात् संशयादिविनिर्मुक्ता चिच्छक्तिरेव प्रमाणमिति सिद्धम् | तथा चोक्तम् - ननु प्रमेयसंसिद्धौ सामग्री केन नेष्यते | प्रमात्रादिघटान्तेषु सत्स्वेव घटनिश्चयात् || तन्न प्रमातृमेयादिव्यवहारविलोपतः | मातृमेयप्रमाणानां तदन्तर्भावतः स्थितेः || तेषां तु व्यतिरेकेण सामग्री न च दृश्यते | यद्यतो व्यतिरिक्तं तत्ततो भिन्नं स्वरूपतः || संशयादिविभिन्ना तु चिच्छक्तिर्मानमिष्यताम् || इति || (पौ प्र प श्लो १९-२२) १३) नन्वात्मचिच्छक्तिः प्रमाणं चेत्त्वन्मतेऽपि चैकस्यैव प्रमाणत्वप्रमातृत्वप्रसङ्गरूपदोषोऽस्तीति चेत्, न; अविद्यारागादिना कलुषिता विषयाभिमुखी चिच्छक्तिः प्रमाणमेव, न प्रमाता | अकलुषिता आत्माभिमुखी चिच्छक्तिः प्रमातैव, न प्रमाणम् | तदुक्तं तत्रैव - चिच्छक्तिश्च परापेक्षो बोध एव न चापरः | न तस्याभिमुखं ज्ञानं माता मानं परोन्मुखम् || इति || (पौ प्र प श्लो ७) १४) तत्र प्रथमं प्रत्यक्षलक्षणमुच्यते | साक्षात्कारिप्रमा प्रत्यक्षम् | तच्च द्विविधम्, निर्विकल्पकसविकल्पकभेदात् | निर्विकल्पकं नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि ज्ञानम् | सविकल्पकं तु नामजात्यादियोजनात्मकं विशिष्टज्ञानम् | उक्तं च तत्रैव - विकल्पयोगात्सा शक्तिरेकापि द्विविधोच्यते | वस्तुस्वरूपमात्रस्य ग्रहणं निर्विकल्पकम् || नामजात्यादिसंबन्धसहितं सविकल्पकम् || इति || (पौ प्र प श्लो २७-२८) १५) तच्च प्रत्यक्षं प्रकारान्तरेण त्रिविधम्, इन्द्रियप्रत्यक्षं, मानसप्रत्यक्षं इन्द्रियान्तःकरणनिरपेक्षचित्प्रत्यक्षं चेति | तदुक्तम् - प्रत्यक्षं त्रिविधं प्रोक्तमक्षमानसचिद्वशात् || इति || पौष्करे च, एतच्चेन्द्रियसापेक्षं निरपेक्षं तथैव च | अन्तः करणसापेक्षमिति त्रिविधमिष्यते || इति || (पौ प्र प श्लो २८) १६) तत्रेन्द्रियान्तःकरणनिरपेक्षं निरस्तबन्धया चिच्छक्त्या आत्मनो नित्यसंबन्धाज्जायमानं स्वात्मापरोक्षज्ञानम् | तदुक्तम् - तत्रेन्द्रियानपेक्षं च सर्वथा त्यक्तबन्धया | चिच्छक्त्यानन्त्ययोगाच्च योगः स्वाभाविको मतः || इति || (पौ प्र प श्लो २९) अन्तःकरणसापेक्षं तु मनसा बाह्येन्द्रियोपनीतार्थानुभवः | तदुक्तं तत्रैव - अन्तःकरणसापेक्षं बाह्येन्द्रियचयेन तु | अन्तःकरणसापेक्षं चिच्छक्तेर्ध्येयसङ्गतिः || इति || (पौ प्र प श्लो ३१) इन्द्रियसापेक्षमपि आच्छादकमलनिवृत्तये इन्द्रियापेक्षया चिच्छक्त्येन्द्रियद्वारार्थवीक्षणम् | तदपि तत्रैव - अन्यच्चेन्द्रियसापेक्षं स्याच्छादननिवृत्तये | इन्द्रियापेक्षया शक्त्या तद्द्वारेणार्थवीक्षणम् || इति || (पौ प्र प श्लो ३०) १७) ननु चिच्छक्तेरिन्द्रियद्वारार्थसंबन्धः प्रत्यक्षमित्युक्तम्, तस्याः स्वनिष्ठाया विषयाभिमुख्याभावात् किंचित्करणं विना तस्या अर्थसंबन्धः कथमिति चेत्, सत्यम्; मलावरणवशात्स्वनिष्ठापि सा कलया व्यञ्जिता अविद्यया विषयाभिमुखीकृता रागेण रञ्जिता च सती अन्तःकरणबाह्येन्द्रियद्वारा आत्मभोगाय बाह्यार्थे प्रवर्तते | १८) न तु परोक्तरीत्या इन्द्रियार्थसन्निकर्षमात्रजन्यज्ञानं प्रत्यक्षम्; चिच्छक्तिसंयोगविहीनस्य तस्याकिंचित्करत्वात् | तदुक्तम् - चिच्छक्तेरर्थसंयोगोऽध्यक्षमिन्द्रियमार्गतः | स्वयमेव हि चिच्छक्तिः पदार्थाभिमुखी न तु || कथं पदार्थसंबन्धस्तस्याः करणमन्तरा | सत्यं मलावृतत्वेन स्वनिष्ठैव प्रतिष्ठिता || कलादिकरणैर्युक्ता युज्यतेऽर्थैर्यदा क्वचित् | तदा प्रत्यक्षमित्युक्तमक्षमर्थे प्रवर्तते || न चेन्द्रियार्थमात्रस्य संयोगोऽध्यक्षमिष्यते | चित्संयोगविहीनानामकिंचित्करता यतः || इति || (पौ प्र प श्लो २३-२६) स्वायंभुवे च - कलोद्वलितचैतन्योऽविद्यादर्शितगोचरः | रागेण रञ्जितश्चापि बुद्ध्यादिकरणैर्युतः || इति || १९) तत्राक्षसंबन्धः षड्विधः, संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति | तदुक्तं पौष्करे - अक्षमात्रेण संबन्धः षड्विधोष्ध्यक्षसंज्ञितः || घटादिद्रव्यविज्ञानं चक्षुस्संयोगमात्रतः | संयुक्तसमवायात्तद्गुणसामान्ययोर्मतिः || संयुक्तसमवेतार्थसमवायाद्गुणत्वधीः | शब्दस्य ग्रहणं श्रोत्रसमवेततया स्थितम् || शब्दत्वं समवेतार्थसमवायात्प्रतीयते | विशेषणतयाभावसमवायाविति स्थितिः || विशेष्यत्वेन वाभावसमवायमतिः स्थिता | इति || (पौ प्र प श्लो ३२-३६) अन्यत्रापि - घटतन्नीलनीलत्वशब्दशब्दत्वजातयः | अभावसमवायौ च ग्राह्याः संबन्धषट्कतः || इति || इति प्रत्यक्षप्रमाणम् || २०) अथानुमानं निरूप्यते | व्याप्तिनिश्चयेन परोक्षार्थप्रमितिरनुमानम् | शब्दज्ञानव्यावत्तये व्याप्तिनिश्चयेनेति पदम् | संशयोत्तरप्रत्यक्षेऽतिव्याप्तिवारणाय परोक्षग्रहणम् | अत्रानुमितिरनुमानमिति भावव्युत्पत्त्या व्याप्तिविशिष्टपक्षधर्मताज्ञा- नजन्यपरोक्षार्थविषयकबुद्धिवृत्त्यवच्छिन्नचिच्छक्तेरेवानुमानत्वम् | तत्करणस्य लिङ्गपरामर्शस्य तु मेयत्वेन नानुमानत्वम् | उक्तं च - अनुमानं दृढव्याप्त्या परोक्षार्थावबोधकम् || इति || (पौ प्र प श्लो ३७) २१) तत्र व्याप्तिर्नाम साध्यसाधनयोरनौपाधिकः सम्बन्धः | तथा चोक्तम् - साधनस्य स्वतः साध्येनान्वयो व्याप्तिरुच्यते || इति || (पौ प्र प श्लो ४१) २२) उपाधिश्च साधनाव्यापकत्वे सति साध्यव्यापकत्वम् | यथा वह्निना धूमे साध्ये आर्द्रेन्धनसंयोगादिः | स हि साध्यस्यधूमस्य व्यापकः, धूमवति सर्वत्र वृत्तेः साधनस्य वह्नेरव्यापकः, वह्निमत्ययोगोलकादाववृत्तेः | अयं च निश्चितोपाधिः | शङ्कितोपाधिस्तु मित्रातनयत्वेन श्यामत्वे साध्येऽदृष्टोपाधिः | इयं च व्याप्तिर्द्विविधा, अन्वयव्यतिरेकभेदात् | सामान्यतः साध्यसाधनयोः संबन्धोऽन्वयव्याप्तिः, यत्र धूमस्तत्राग्निर्यथा महानस इति | तयोर्व्यतिरेकमुखेन संबन्धो व्यतिरेकव्याप्तिः, यथा - यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति | तदुक्तं तत्रैव - सा च व्याप्तिर्द्विधा ज्ञेया व्यतिरेकान्वयात्मिका || सामान्यमुखतो ज्ञेया सान्वयव्याप्तिरुच्यते | साध्यसाधनयोर्व्याप्तिरभावमुखतोऽपरा || इति || (पौ प्र प श्लो ४१-४२) अन्यत्र च - व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते | तयोरभावयोस्तस्माद्विपरीतः प्रतीयते || इति || २३) इदं चानुमानं द्विविधम्, स्वार्थं परार्थं चेति | स्वार्थं स्वप्रतिपत्तिहेतुः | तच्च महानसादौ वह्निधूमयोः व्याप्तिग्रहणानन्तरं पर्वतादौ व्याप्यलिङ्गदर्शनाद्वन्ह्याद्यनुमानम् | यत्तु स्वयं धूमादग्निमनुमाय परं बोधयितु पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानुमानम् | ते चावयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्पञ्च | तत्र पर्वतोऽग्निमानिति प्रतिज्ञा, धूमवत्त्वादिति हेतुः | यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम् | तथा धूमवांश्चायमित्युपनयः | तस्माद्वह्निमानेवेति निगमनम् | एवं पञ्चरूपोपपन्नाद्वाक्यात्परोऽप्यग्निं प्रतिपद्यते | तत्परार्थानुमानम् | तथा चोक्तं श्रीमत्पौष्करे - तच्चेह पञ्चावयवं प्रतिज्ञा हेतुरेव च || दृष्टान्तोपनयावेतौ निगमश्चाथ पञ्चमः | इष्टार्थोक्तिः प्रतिज्ञा तु हेतुस्तद्व्याप्तिमद्वचः || दृष्टान्तो द्विविधोद्युक्तो हेतुस्तद्वत्परीक्ष्यते | दृष्टान्तपक्षयोर्व्याप्तिप्रस्तार उपनयो भवेत् || पुनः प्रतिज्ञानियमो निगमः स्यात्सहेतुकः | इति || (पौ प्र प श्लो ३७-४०) २४) स च हेतुर्द्विविधः, दृष्टसाधनसामान्यतोदृष्टसाधनभेदात् | तत्र आद्यस्त्वक्षयोग्यपदार्थानुमापकः | यथा - कुलालं घटक्रियां च कुत्रचित् दृष्ट्वा अन्यत्रापि घटदर्शनात् कुलालेन निर्मितो घट इति | द्वितीयस्तु प्रत्यक्षायोग्यार्थानुमापकः | यथा - परकीयज्ञानानुमापकं परवाक्यम् | तत्र हि साध्यं परकीयज्ञानं न प्रत्यक्षयोग्यम् | किन्तु साध्यतावच्छेदकज्ञानत्वावच्छिन्नम् | तज्जातीयमात्मीयज्ञानं प्रत्यक्षयोग्यम् | अतः सामान्यतोदृष्टमेव | तथा प्रपञ्चकृत्यं तत्कर्तारं चैकत्र अदृष्ट्वा कार्यत्वसामान्यात् पशुपाशज्ञानागोचरजगत्कर्त्रनुमापकं सामान्यतोदृष्टसाधनम् | एवं पशुपाशमायाकर्मादीनामप्यूह्यम् | तदुक्तम् - दृष्टं सामान्यतोदृष्टमिति तत्साधनं द्विधा | तत्राद्यमक्षयोग्यस्य पदार्थस्यानुमापकम् || अन्यत्सतोऽप्यदृष्टस्य पदार्थस्यानुमापकम् | इति || (पौ प्र प श्लो ४३-४४) २५) यत्र साध्यं वा साध्यजातीयं वा न प्रत्यक्षयोग्यं स शब्दमात्रज्ञातसाध्यकः परोऽपि हेतुः | यथा पूर्वपुण्यानुमापक इदानींतनो भोगविशेषः | स च साध्यः पुण्यादिः शब्दादृते न ज्ञायत इति शब्दमात्रज्ञातः | स च हेतुः पुनस्त्रिविधः, अन्वयव्यतिरेकि- केवलान्वयि-केवलव्यतिरेकिभेदात् | २६) तत्र अन्वयव्यतिरेकी हेतुः पञ्चरूपोपपन्नः, तानि च रूपाणि पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद्व्यावृत्तिः, अबाधितविषयत्वं, असत्प्रतिपक्षत्वं चेति | तत्र सन्दिग्धसाध्यधर्मा पक्षः | निश्चितसाध्यवान् सपक्षः | निश्चितसाध्यधर्माभाववान्विपक्षः | तत्र पक्षधर्मत्वं हेतोः पक्षे पर्वतादौ वर्तनम् | सपक्षे सत्वं तु सपक्षे महानसादौ वर्तनम् | विपक्षाद्व्यावृत्तिः विपक्षे महाह्रदादौ हेतोरवर्तनम् | अबाधितविषयत्वं पक्षे पर्वतादौ वह्न्यादेः साध्यस्य प्रमाणान्तरेण बाधविरहः | असत्प्रतिपक्षत्वं तु साध्यविपरीतसाध्यसाधकहेत्वन्तरविरहः | एवं पञ्चरूपोपपन्न एवान्वयव्यतिरेकी साध्यसाधकः || २७) विपक्षशून्यः केवलान्वयी | सपक्षशून्यः केवलव्यतिरेकी | तावुभौ चतूरूपोपपन्नावेव स्वसाध्यं साधयतः | क्रमेणैषामुदाहरणम् - पर्वतो वह्निमान्, धूमवत्वात्, यथा महानसः | विश्वं कार्यं कर्तृसापेक्षं, कार्यत्वात्, कुलालसापेक्षमृद्वत् | सर्वं कार्यं सदेव, क्रियमाणत्वात्, यन्नैवं तन्नैवं यथा शशशृङ्गमिति || २८) तथा चोक्तम् - अन्वयव्यतिरेकीति केवलव्यतिरेकि च | केवलान्वयिरूपेण क्रमेण परिलक्ष्यते || पक्षधर्मः सपक्षे सन् व्यावृत्तश्च विपक्षतः | अबाधोऽसत्प्रतीपक्षो व्यतिरेकान्वयात्मकः || साध्यधर्मयुतः पक्षः सपक्षस्तत्सधर्मयुक् | तद्विधर्मा विपक्षः स्याद्बाधो मानान्तरोद्भवः || साध्ये द्वयोस्त्रिरूअपत्वं तेन ज्ञानाद्विपक्षता | निर्विपक्षोऽन्वयी हेतुर्निस्सपक्षस्तथापरः || साग्निर्देशः सधूमत्वादन्यो रसवती यथा | केनाप्यध्यासितं विश्वं कार्यं स्याद्वस्तुभावतः || यथा कुलालसापेक्षा मृदित्येषोऽन्वयी पुनः | सदेवोत्पद्यते कार्यं क्रियमाणत्वहेतुतः || असन्न पूर्वं क्रियते धर्मांशः शशशृङ्गवत् | इति || (पौ प्र प श्लो ४४-५०) २९) उक्तानां पक्षधर्मत्वादिरूपाणां मध्ये एकेनापि रूपेण हीना अहेतवः कतिपयरूपयोगाद्धेतुवदवभासमाना हेत्वाभासाः | ते चासिद्धविरुद्धानैकान्तिकानध्यवसितकालात्ययापदिष्टभेदात्पञ्च | तत्रासिद्धलक्षणम् - व्याप्यस्य पक्षधर्मत्वप्रतीतिः सिद्धिरुच्यते | असिद्धिस्तदभावः स्याद्धेतुस्तद्वाननेकधा || इति || ३०) स च स्वरूपासिद्धो भागासिद्ध आश्रयासिद्धो विशेषणासिद्धो विशेष्यासिद्ध उभयासिद्धो हेत्वज्ञानासिद्धोऽधिकरणाज्ञानासिद्धो- ऽन्यतरासिद्धो व्याप्यत्वासिद्ध इति दशविधः | व्याप्यत्वासिद्धोऽपि द्विविधः | एको व्याप्तिग्राहकप्रमाणाभावात्, अपरस्तूपाधिसद्भावात् | अत आहत्यैकादशासिद्धाः | तत्र स्वरूपासिद्धो यथा - घटादयः परमाणुरूपा भवितुमर्हन्ति, नित्यत्वात्, पाञ्चरात्रमते आत्मवदिति | अत्र उभयवादिसंमते अनित्यघटे नित्यत्वहेतुः स्वरूपेणासिद्धः | यथा वा - नित्यः शब्दः, चाक्षषत्वादिति | अत्र चाक्षषत्वं शब्दे पक्षेऽसिद्धम् || भागासिद्धो यथा - अनित्यौ जीवदेहौ, कार्यत्वात् घटवदिति | अत्र कार्यत्वं पक्षीकृतयोर्जीवदेहयोर्मध्ये जीवेऽसिद्धम् | आश्रयासिद्धो यथा - गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवदिति | अत्र गगनारविन्दाश्रयो न संभवति | विशेषणासिद्धो यथा - शब्दो नित्यश्चाक्षषत्वे सति गुणत्वात्, रूपवदिति | अत्र हेतौ चाक्षुषत्वविशेषणमसिद्धम् || विशेष्यासिद्धो यथा - शब्दो नित्यः, प्रमेयत्वे सति द्रव्यत्वात्, घटवदिति | अत्र हेतौ विशेष्यभूतस्य द्रव्यत्वस्यासिद्धिः | उभयासिद्धो यथा - नित्यो घटः, गुणत्वे सत्यतीन्द्रियत्वादिति | अत्र हेतौ विशेषणभूतं गुणत्वं विशेष्यभूतमतीन्द्रियत्वमप्यसिद्धम् | हेत्वज्ञानासिद्धो यथा - देवदत्तो बहुधनः, तद्धेतुभूतादृष्टाश्रयत्वात्, यज्ञदत्तवदिति | अत्रादृष्टाश्रयत्वहेतुरस्माभिरदृष्ट इत्यज्ञानाद्धेतुरज्ञानासिद्धः | अधिकरणाज्ञानासिद्धो यथा - इदानीमिहाकाशे परमाणुः कदाचित् द्रव्यारम्भकः, परमाणुत्वात्, घटारम्भकपरमाणुवदिति | अत्राश्रयस्य आकाशाधिकरणकपरमाणोरज्ञानादाश्रयाज्ञानासिद्धो हेतुः | अन्यतरासिद्धो यथा - अनित्यः शब्दः, कृतकत्वात्, घटवदिति | अत्रान्यतरस्मिन्मीमांसकमते कृतकत्वस्य हेतोरसिद्धत्वादयमन्यतरासिद्धो हेतुः | व्याप्यत्वासिद्धो यथा - सर्वं क्षणिकं, सत्वात्, जलबुद्बदवदिति | अत्र सत्वक्षणिकत्वयोर्व्याप्तिग्राहकप्रमाणाभावादयमाद्यो व्याप्यत्वासिद्धो हेतुः | औपाधिकव्याप्यत्वासिद्धो यथा - गर्भस्थः श्यामः, मित्रातनयत्वात्, प्राचीनमित्रातनयवदिति | अत्र श्यामत्वे साध्ये शाकाद्याहारपरिणतिभेदस्यैवोपाधेर्विद्यमानत्वादौपाधिकव्याप्य- त्वासिद्धोऽयं हेतुः || ३१) अथ विरुद्धः | तल्लक्षणं तु साध्यविपर्ययव्याप्तत्वम्, साधनविपर्ययव्याप्तसाध्यकत्वं वा | यथा - नित्यः शब्दः कार्यत्वात्, व्योमवदिति | अत्र कार्यत्वहेतुः स्वसाध्यविरुद्धेनानित्यत्वेन व्याप्तः | साधनविपर्ययव्याप्तसाध्यकस्तु यथा - अनित्यं मनः, चेतनत्वात्, आत्मवदिति | अत्रानित्यत्वरूपं साध्यं स्वसाधनविपर्ययेणाचेतनत्वेन व्याप्तम् || ३२) अनैकान्तिकः सव्यभिचारो हेतुः | स च द्विविधः | साधारणानैकान्तिकोऽसाधारणानैकान्तिकश्चेति | तत्र प्रथमो यथा - आत्मा नित्यः, प्रमेयत्वादिति | अत्र प्रमेयत्वहेतुः पक्ष आत्मनि सपक्षे मायायां विपक्षे घटादौ च वर्तते | द्वितीयो यथा - भूर्नित्या, गन्धवत्त्वादिति | अत्र गन्धवत्त्वहेतुः सपक्षादात्मनः विपक्षाज्जलादेश्च व्यावृत्तः पक्षमात्रे वर्तते || ३३) साध्यानिश्चायको हेतुरनध्यवसितः | यथा - विश्वं सन्ततं वर्तते, वस्तुत्वादिति | अत्र वस्तुत्वहेतुः स्वसाध्यनित्यवर्तनं न निश्चिनोतीत्यनध्यवसितः | बलवत्प्रमाणान्तरबाधितो हेतुः कालातीतः | स एव बाधित विषय इत्युच्यते | स प्रमाणानां भेदात्पञ्चधा भवति | तत्र प्रत्यक्षबाधो यथा - अग्निरनुष्णः, पदार्थत्वादिति | अनुमानबाधो यथा - विश्वं कार्यं निरुपादानकं, आगन्तुकत्वादिति | आगमबाधो यथा - यागादयः स्वर्गसाधका न भवन्ति, क्रियात्वात्, व्यर्थक्रियावदिति | अर्थापत्तिबाधो यथा - शतवर्षजीवी देवदत्तो गृहेऽसन् बहिरपि नास्ति, प्रत्यक्षेणानुपलभ्यमानत्वादिति | तथा चोक्तं श्रीमत्पौष्करे - हेतूनां दूषणान्यत्र पञ्चोक्तानि शिवागमे | असिद्धिः प्रथमो हेतोः पक्षवृत्तेरनिश्चये || नित्यत्वादणवो हेतुरित्यसिद्धिः स्वरूपतः | विशेषणविशेष्यादेरसिद्ध्या तत्तदात्मिका || वर्तमानो विरुद्धः स्याद्धेतुः पक्षविपक्षयोः | व्यापकोऽव्यापको देशानवच्छिन्नत्वहेतुतः || पक्षादित्रितये वर्तमानोऽनैकान्तिको भवेत् | आत्मा नित्यः प्रमेयत्वादित्यत्रोदाहृतो द्विजाः || साध्याप्रयोजकः पक्ष एवानध्यवसायिकः | सन्तत्या वर्तते विश्वं वस्तुत्वादित्युदाहृतः || कालातीतस्तु साध्यस्य पक्षे मानविरोधतः | निरुपादानकं विश्वं कार्यमागन्तुकत्वतः || इति || (पौ प्र प श्लो ५१-५६) ३४) ये त्वनध्यवसितमनैकान्तिकेऽन्तर्भावयन्ति ते प्रकरणसमं पञ्चम मन्यन्ते | तल्लक्षणं तु यस्य साध्याभावसाधकः समानबलो हेतुरस्ति स सत्प्रतिपक्षः प्रकरणसम इति चोच्यते, यथा शब्दो नित्यः, बाधकप्रमाणरहितत्वात् | स चानित्यः, साधकप्रमाणरहितत्वादिति | तथा चोक्तं श्रीमत्पौष्करे - अबाधोऽसत्प्रतिपक्षः इति | असत्प्रतिपक्षत्वं हेतोर्गुणं ब्रुवता सत्प्रतिपक्षस्य हेत्वाभासत्वं शिवेनैव सूचितम् | पक्षाभासश्चतुर्विधः, कुत्रचित्पक्षाभावात्, कुत्रचित्पक्षधर्मत्वाभावात्, कुत्रचित्पक्षपक्षधर्मत्वयोरुभयोरभावात्, कुत्रचिदुभयोः सत्त्वेऽपि व्याप्त्यभावादिति | ३५) अत्र क्रमेणोदाहरणानि - खपुष्पं सुरभि, पुष्पत्वादिति | अत्र पक्ष एव नास्ति | अनित्य आत्मा, अणुरूपत्वादिति | अत्राणुरूपत्वे पक्षधर्मता नास्ति | शशशृङ्गं सुगन्धि, पार्थिवत्वादिति | अत्र पक्षः पक्षधर्मता चोभावपि न स्तः | पृथ्वी नित्या, चाक्षुषत्वादिति | अत्र पक्षपक्षधर्मत्वयोः सत्त्वेऽपि साध्यसाधनयोर्व्याप्तिर्नास्ति | ३६) एते च पक्षाभासा आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वा- सिद्धेष्वन्तर्भवन्तीति नेह पृथग्लक्षिताः | दृष्टान्ताभासास्तु - अर्थदोषादुक्तिदोषाच्च द्विविधाः | तत्रार्थदोषः साधर्म्यदृष्टान्तस्य साध्यवैकल्यं साधनवैकल्यमुभयवैकल्यं स्वरूपवैकल्यं चेति चतुर्विधः | वैधर्म्यदृष्टान्तस्य तु साध्याभाववैकल्यं साधनाभाववैकल्यं स्वरूपवैकल्यं चेति चतुर्विधः || ३७) यथा - विश्वं कार्यं, प्रत्यक्षत्वात्, अन्वयेन आत्मवदिति, तत्रैव अदृष्टवदिति मायावदिति खपुऽपवदिति च | यथा वा - विमतं कार्यं, अप्रत्यक्षत्वात्, व्यतिरेकेणात्मवत् इति | तत्रैवादृष्टवदिति मायावदिति खपुष्पवदिति च उक्तिदोषोऽप्यन्वयदृष्टान्तस्य च व्यतिरेकदृष्टान्तस्य च व्यत्ययेनोक्तिः, अन्वयव्यतिरेकव्याप्त्योर्व्यत्ययेनोक्तिः, तत्रैव साध्यसाधनयोर्व्यत्ययेनोक्तिः, साध्यस्य साधनतयोक्तिः, साध्यतया साधनस्योक्तिश्चेत्यन्वयानुमाने पञ्चविधः | एवं व्यतिरेकानुमाने चेति दशविधः | यथा पर्वतो वह्निमान्, धूमादित्यन्वयप्रयोगे अन्वयव्याप्तिमुक्त्वा यथा महाह्रद इति, तत्रैव व्यतिरेकव्याप्तिप्रदर्शनानन्तरं यथा महानस इति, तत्रैवान्वयव्याप्तौ यत्र यत्र वह्निस्तत्र तत्र धूमो यथा महानस इति, तत्रैव पर्वतो धूमवान् वह्निमत्त्वादिति साध्यविपर्ययस्य साधनविपर्ययस्य साधनविपर्ययस्य च दृष्टान्तः | एवं शब्दार्थदोषवशादन्वयव्यतिरेकवशाच्चाष्टादश दृष्टान्ताभासाः | एते दृष्टान्ताभासाः तर्कशास्त्रेऽनिरूपितत्वादत्र कथं निरूप्यन्त इति चेत्, यथायथमसिध्यादिषु हेत्वाभासेष्वन्तर्भावयितुं शक्या इति तत्र पृथङ्न निर्दिष्टाः | अत्र तु शैवागमे पृथङ्निर्दिष्टत्वाद्भेदेन कीर्तिताः | तदुक्तं श्रीमत्पौष्करे - अनुष्णो वह्निरित्यादिप्रतिज्ञाते सहेतकम् | पञ्चानामनुमानस्यावयवानां तु पूर्वयोः || वैपरीत्यं समुद्दिष्टं दृष्टान्तस्याधुनोच्यते | नित्य आत्मा विभुत्वेन यथाकाशमितीरिते || दृष्टान्तः साध्यविकलः साधने च तथा भवेत् | इत्यादि || (पौ प्र प श्लो ५८-६०) ३८) एतत्प्रसङ्गाच्छलजातिनिग्रहस्थानानि निरूप्यन्ते | तत्र च्छललक्षणम् - कंचिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः | अनिष्टमर्थमारोप्य तन्निषेधश्च्छलं मतम् || इति || तच्च त्रिविधम् | वाक्छलं सामान्यच्छलमुपचारच्छलं चेति | तत्र वाक्च्छललक्षणम् - अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् || इति || तद्यथा - आढ्योऽयं, नवकम्बलत्वादिति प्रयोगे नूतनार्थतया प्रयुक्तस्य नवशब्दस्य संख्यापरत्वमारोप्य निषेधः | कुतोऽस्य नव कम्बलाः, एक एव कम्बलः प्रत्यक्षसिद्ध इति || सामान्यच्छललक्षणम् - सामान्यच्छलमेतत्स्यादिति सामान्ययोगतः | तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् || इति || अयमहो ब्राह्मणोऽनूचान इति वाक्यं ब्राह्मणस्यान्चानत्वसंभावनामात्रेण कश्चित्प्रयुङ्क्ते | ब्राह्मणत्वस्यानूचानत्वहेतुत्वं तात्पर्यविषयमारोप्य च्छलवादी प्रत्यवतिष्ठते | न ब्राह्मणत्वमनूचानत्वहेतुः, ब्राह्मणब्रुवेष्वनैकान्त्यादिति || उपचारच्छलस्य लक्षणम् - उपचारप्रयोगेषु गौणलाक्षणिकेषु यः | मुख्यार्थासंभवाद्बाध उपचारच्छलं तु तत् || इति || यथा गङ्गायां घोषः, सिंहो माणवक इति प्रयोगे कथं गङ्गायां घोषवासः, कथं वा सिंहो माणवक इति प्रत्यवस्थानम् || अस्य प्रतिवाद्यनुसन्धानापेक्षया वादिना प्रयुक्तस्य च्छलवाक्यस्य प्रतिवादिना अपरिज्ञाने सदस्यैर्वानुद्घाटने प्रतिवादिनो दोषः, तरुद्घाटने वा वादिनो दोष इति || ३९) अथ जातिः | सा च साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्या- वर्ण्यविकल्पसाध्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशय- प्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्य- कार्यसमा इति | अत्र द्वन्द्वान्ते श्रूयमाणः समशब्दः प्रत्येकमभिसंबध्यते | आसां सामान्यलक्षणम् - प्रयुक्ते स्थापनाहेतौ दूषणाशक्तमुत्तरम् | जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम् || इति || तत्र साधर्म्यसमाय वैधर्म्यसमायाश्च जतेर्लक्षणम्- हेतोर्वादिप्रयुक्तस्य स्वमतस्थापनाकृते | साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं तु तत्समे || इति || तत्र साधर्म्यसमा जातिर्यथा - अनित्यः शब्दः कृतकत्वादित्युपसंहारे नैतदेवं, अस्ति ह्याकाशेनापि साधर्म्यममूर्तत्वम्, तद्वन्नित्यः किं न स्यात्, अविशेषादिति || वैधर्म्यसमा जातिर्यथा - पूर्वस्मिन्नेवोपसंहारे घटवैधर्म्यात् श्रावणत्वान्नित्यः किं न स्यादिति | एवमन्येऽपि जातिभेदा ऊह्याः || ४०) निग्रहस्थानलक्षणम् - अखण्डिताहंकृतिना पराहंकारखण्डनम् | निग्रहस्तन्निमित्तस्य निग्रहस्थानतोच्यते || इति || तानि च प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासन्न्यासः, हेत्वन्तरं अर्थान्तरं, निरथकं, विज्ञातार्थं, अपार्थं, अप्राप्तकालं, न्यूनं, अधिकं, पुनरुक्तं, अननुभाषणं, अज्ञानं, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानीति द्वाविंशतिः || प्रतिज्ञाहानिलक्षणम् - कथायां यच्च पक्षादि येन निर्दिष्टमादितः | तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते || सा च साध्यसाधनधर्मिणां तद्विशेषाणां च त्यागात् षड्विधा | तत्र साध्यप्रतिज्ञाहानिर्यथा - अनित्यः शब्दः, ऐन्द्रियिकत्वादित्युक्ते सामान्यमैन्द्रियिकं नित्यं दृष्टमिति अनैकान्तिकत्वेन प्रत्युक्ते तर्हि शब्दोऽपि नित्यः स्यादिति | एवमन्यान्यपि निग्रहस्थानलक्षणान्यूह्यानि || ४१) अथ शब्दप्रमाणं निरूप्यते | आप्तवाक्यजन्यं ज्ञानं शब्दप्रमाणम् | आप्तो नाम यथार्थदर्शी यथार्थोपदेष्टा पुरुषः | तद्वाक्यं तु आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूहः | तेन घटः कर्मत्वमानयनं कृतिः इत्यनाकाङ्कषं, अग्निना सिञ्चेत् इत्ययोग्यं, व्यवहितोच्चरितं च गाम्------ आनय इत्यादि न वाक्यम् | आकाङ्क्षा नाम प्रतिपत्तुर्जिज्ञासा | अनन्वयनिश्चयाभावो योग्यता | अव्यवधानेनोपस्थितिः सन्निधिः | तेनाकाङ्क्षायोग्यतासन्निधिमत्पद- कदम्बकं वाक्यम् | तच्च द्विविधम्, लौकिकं तु नद्यास्तीरे पञ्च फलानि सन्तीत्यादिकम् | वैदिकं तु परमाप्तश्रीमत्सदाशिववाक्यम् | तच्च द्विविधम् | वेदः शैवागमश्चेति | वेदवाक्यं तु प्रसिद्धम् | शैवागमवाक्यं तु मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् इत्यादि | अतो वेदशिवागमयोः परमाप्तसदाशिवप्रणीतत्वात्तावेव यथार्थावबोधकौ | तज्जन्यज्ञानमेव प्रमाणम् || ४२) न तु वेदानामनिर्दिष्टप्रवर्तकत्वादपौरुषेयत्वादत एव नित्यत्वान्महाजनपरिगृहीतत्वाच्च प्रामाण्यमुपपद्यते | आगमानां तु तद्विपरीतत्वात् श्रतिपथगलितानां तन्त्रमार्गे निवेशः इत्यादिआ तत्राउष्ठाए दोषश्रवणाच्च कथं प्रामाण्यमिति चेत्, सत्यम्; निर्दिष्टप्रवकृकाणामार्षाणां मन्वादिस्मृतीनां प्रमाण्यमभ्युप- गच्छतां तदुपास्येश्वरप्रणीतागमेषु कथमप्रामाण्यशङ्का- वकाशः | अथ यद्यपौरुषेयनित्यवेदमूलकतया तासां प्रामाण्यमिति मन्यसे, तदनुपपन्नम्; तथा हि - वेदस्य स्वरूपतो वा नित्यत्वं प्रवाहतो वा? नाद्यः; स्वरूपस्य शब्दात्मकतया उच्चरितप्रध्वस्तत्वेन प्रत्यक्षत एवानित्यत्वदर्शनात्, स एवायं गकार इत्यादिप्रत्यभिज्ञानानां समान्यविषयत्वेन शब्दस्वरूपनित्यतायां प्रमाणत्वाभावाच्च | न द्वितीयः; प्रवाहरूपनित्यताया अध्यापकाध्येतृसम्प्रदायाविच्छेदात्म- कत्वात् प्रपञ्चस्याप्युत्पत्तिविनाशवत्वेन वेदस्यापि तदन्तर्भूतत्वेना- नित्यत्वमेव | तस्मान्नित्यनिर्मलसर्वज्ञपक्षपातरहितयथार्थग्राहका- व्ययपरिपूर्णस्वतन्त्रपशुपाशहन्तृपरमाप्तपरमेश्वरप्रणीतत्वेनैव वेदानामागमानां च प्रामाण्यम् | वेदस्य स्वयंभूत्वनित्यत्वश्रवणात्कथमुत्पत्तिविनाशवत्त्वमिति चेत्तत्तथा न भवति | स्वयंभुपरमाप्तपरमेश्वरप्रणीतत्वेन कार्ये कारणत्वोपचारात् स्वयंभूत्वस्याऽऽप्रलयस्थायित्वेन नित्यत्वस्य च तत्र तत्र श्रवणात् | आगमानां परमेश्वरप्रणीतत्वेन प्रामाण्याभ्युपगमे वामादीनामपि प्रामाण्यप्रसङ्ग इति चेत्सत्यम्; ईश्वरेणैव वैदिककर्माधिकारिणां वेदोपबृंहितानि, षण्मुनिशापग्रस्तद्विजादीनां स्वतन्त्रागमकर्मानुष्ठानद्वारा जन्मान्तरे वैदिकशैवकर्मस्वधिकारसिद्ध्यर्थं असुरादिव्यामोहार्थं चान्यानि वामादीनि मयैव कथितानि; तस्मान्मद्भक्तैः शिष्टैर्वेदविरुद्धानि स्वतन्त्रागमानि न सेव्यानि इत्युक्तत्वात्तत्तदधिकारिणः प्रत्येव तस्य तस्य प्रामाण्यम् | न सर्वान्प्रति | तदुक्तं कामिके - शैवागमोऽपि द्विविधः श्रौतोऽश्रौतश्च स स्मृतः | श्रुतिसारमयः श्रौतः स्वतन्त्र इतरो मतः || अन्यानि चैव शास्त्राणि लोकेस्मिन्मोहनाय वै | वेदवादविरुद्धानि मयैव कथितानि तु || वामं पाशुपतं चैव वातुलं चैव भैरवम् | न सेव्यमेतत्कथितं वेदबाह्यं तथेतरत् || इति || ४३) तस्मात्तन्त्रानुष्ठाननिषेधस्यापि वेदविरुद्धतन्त्रविषयत्वमेव | आगमादन्येष्वार्षेषु दैवतेषु च ज्ञानमोक्षयोः संभवात् तैरेव शास्त्रैः पर्याप्तमिति चेन्न; तेषु प्रकृत्यधोगतानां चतुर्विंशतितत्त्वानामेव निरूपणात् षट्त्रिंशत्तत्त्वातीतपरममोक्षानिरूपणाच्च परस्परविरुद्धत्वाच्च | तस्मात्सर्वज्ञ्यादिविशिष्टपरमेश्वरः प्रणीतागमैरेव ज्ञानमोक्षयोः सिद्धिरिति सर्वमवदातम् | तदुक्तं पौष्करे - अथवा सद्भिरप्राप्ता श्रद्धया शिवगोचराः | अन्ये तु सज्जनायाताः प्रकृत्याद्यवगोचराः || न चार्षं पौरुषैर्वाक्यैः ॠषिभिर्दैविकं तथा | न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मना || तथा रौद्रं न हरिणा न रौद्रेण शिवोक्तकम् | बाध्यमूर्ध्वोर्ध्ववैशिष्ट्यादधोऽधो बाध्यमूर्ध्वतः || शिवागमाविरोधेन शास्त्रं सर्वं व्यवस्थितम् | नान्यशास्त्रविरोधेन तत्संवादितया तथा || शिवशास्त्रं व्यवस्थाप्यं तद्व्यवस्थापकं यतः | यस्य यस्य हि शास्त्रस्य यावती व्याप्तिरिष्यते || तावत्येव भवेद्विप्राः प्रामाण्यं तस्य तस्य च | आप्तोक्तिरागमः सोऽपि परोक्षार्थैकसाधनम् || प्रत्यक्षेणानुमानेन यदि वार्थं सुनिश्चितम् | यो वक्ति सोऽयमाप्तः स्यात्तस्मादाप्ततरः शिवः || सुप्रसन्नेद्रियग्रामः सर्वज्ञः सर्वगोचरः | पक्षपातविनिर्मुक्तो यथार्थग्राहकः सदा || अव्ययः परिपूर्णश्च स्वतन्त्रः पशुपाशहा | प्रमाणमेकं तद्वाक्यं तथ्यं श्रेयोनिधिः सदा || सृष्ट्यनन्तरमेवेशः शुद्धाध्वविषयानणून् | स्वांशुसंस्पर्शनादेव कृत्वा दृक्क्रिययोत्कटान् || सदाशिवोऽपि भगवान्नादरूपतया गतम् | षट्पदार्थमयं ज्ञानमनेकच्छन्द एव च || पूर्वतो दशसङ्ख्यातं शिवभेदं तथापरम् | रौद्रमष्टादशविधं तेभ्योऽवादीत् कृपानिधिः || इति || (पौ प्र प श्लो ७४-७९, ६१-६७) ४४) अत्र प्रमाणशब्देन करणव्युत्पत्या शब्दार्थयोरभेदोपचाराद्वा शब्द उच्यते | सर्वत्र चिच्छक्तेरेव प्रामाण्यसमर्थनात् | तथा चोक्तं श्रीमत्पौष्करे - शब्दस्तु पारम्पर्येण शिवज्ञानानुमापकः || इति || (पौ प्र प श्लो ७४) ४५) पदं नाम वर्णसमूहः | वर्णानां क्षणभङ्गुरत्वात् अर्थप्रत्यायकत्वाभावात् अर्थप्रत्ययनार्थं वर्णेषु स्फोटो नाम कश्चित्पदार्थो नित्योऽङ्गीकरणीयः | इत्थं प्रमाणानां त्रित्वं व्यवस्थितम् | एतेष्वेव त्रिषु प्रमाणेषूपमानादीनां सर्वेषां यथायथमन्तर्भावः | तथा हि - अर्थापत्तिस्तावदनुमानेऽन्तर्भवति | कथम्? अनुपपद्यमानार्थदर्शनादुपपादकार्थान्तरकल्पनमर्थापत्तिः | यथा जीवतो देवदत्तस्य गृहेऽभावमुपलभ्य बहिर्भावकल्पनम् | तदिदमनुपपत्तेरविनाभावरूपतया तज्ज्ञानजन्यमित्यनुमानमेव | अनुपपत्तिर्हि बहिर्भावं विना जीवतो गृहेऽभावस्यासत्त्वम् | सोऽयमविनाभाव एव | गृहे असन् देवदत्तो बहिः सन्, शतवर्षजीवित्वे सति गृहनिष्ठाभावप्रतियोगित्वात् | यन्नैवं तन्नैवम् | यथा अजीवन्यज्ञदत्त इति || ४६) उपमानमप्यनुमानमेव | न पृथक्प्रमाणम् | तथा हि - यदि तावत्सादृश्यज्ञानमुपमानं तदा प्रत्यक्षमेव तत्, अयं तत्सदृश इति प्रत्यक्षेण ग्रहणसंभवात् | यदि त्वेतत्सदृशः स इति ज्ञानमुपमानं तदा स एतत्सदृशः, एतद्गतसादृश्यप्रतियोगित्वात्, यो यत्सादृश्यप्रतियोगी स तत्सदृशः, यथा सम्मत इत्यनुमानमेव | अथ त्वतिदेशवाक्यश्रवणसमनन्तरं तदर्थप्रत्यभिज्ञया तस्य वाच्यत्वपरिच्छेदः तदापि पिण्डगतवाच्यतापरिच्छेदो वाक्यात् | पिण्डगतजातिप्रवृत्तिनिमित्ततापरिच्छेदो लाघवलिङ्गादिति न मानान्तरमुपमानम् || ४७) संभवोऽप्यनुमानान्नातिरिच्यते | सहस्रेषु शतं संभवतीति शतसद्भावनिश्चयो हो संभवः | स च सहस्रस्य शताविनाभावग्रहेण जनित इत्यनुमानमेव | ऐतिग्यमपि यथार्थ चेत् शब्द एवेति सिद्धम् | ४८) अभावोऽपि प्रत्यक्षान्नातिरिच्यते | तथा हि - घटाद्यभाव इन्द्रियेण गृह्यते, तत्प्रतीतेस्तदन्वयव्यतिरेकानुविधानात् | न च वह्न्यादिप्रतीताविवाधिकरणग्रहणतदुपक्षयादन्यथासिद्धं तदनुविधानमिति युक्तम् | निमीलिताक्षस्य त्वगुपनीते घटादौ नीलाद्यभावग्रहप्रसङ्गात् | प्रतियोगिग्राहकेन्द्रियजन्यमधिकरणज्ञानं हेतुरिति चेन्न ; वायोश्चक्षुषा ग्रहणाभावेन तत्र रूपाभावग्रहप्रसङ्गात् | इन्द्रियदोषादिना अभावप्रतीतौ दोषदर्शनादपि तस्या इन्द्रियजन्यत्वमभ्युपेयम् | न चाभावेन संयोगादिसंनिकर्षो नास्तीति कथं तस्यैन्द्रियिकत्वमिति वाच्यम् ; ऐन्द्रियिकत्वानुरोधेन विशेषणतासन्निकर्षकल्पनोपपत्तेः | न चैन्द्रियिकत्वसंनिकर्षकल्पनयोः परस्पराश्रयत्वम् | ऐन्द्रियिकत्वकल्पनायां सन्निकर्षकल्पनाया अनपेक्षितत्वात् | सन्निकर्षो ह्यैन्द्रियिकत्वेऽपेक्षितः | न तु तत्कल्पनापि तत्कल्पनायाम् || ४९) परिशेषोऽप्यनुमानमेव | अयं च दशस्वेतेषु चोरोऽस्ति, एते नव अचोरा इत्युक्ते अयं चोर इति निश्चयः | चोरत्वं अमुकवर्ति, पुरोवर्तिष्वन्यतमवर्तित्वे सति अमुकान्यैतदन्यतमावर्तित्वात्, अमुकत्ववदित्यनुमानमेव | अमुकत्वादौ पूर्वं व्याप्तिग्रहाभावेऽपि सामान्यतो व्याप्तिग्रहसंभवात् | इति सिद्धं प्रमाणत्रैविध्यम् || ५०) एतेषां प्रामाण्यं स्वत् एव गृह्यते उत्पद्यते च | तत्र स्वतो ग्राह्यत्वं नाम बाधानवतारकालीनयावत्स्वाश्रयग्राहकग्राह्यत्वम् | अत्र च प्रमाणं सामग्र्येव | ज्ञानग्राहकेण हि ज्ञानं विषयावच्छिन्नं गृह्यते | विषयश्च विशेषणविशेष्यवत्तत्संबन्धोऽपि | अत एव घटमेव घटतया जानामीत्यनुव्यवसायो दृश्यते | न चैवं प्रामाण्ये संशयो न स्यात्; निश्चिते तदयोगादिति वाच्यम् | निश्चितेऽप्यर्थे ज्ञानस्य दोषजन्यत्वसंशयेन संशयोपपत्तेः | अन्यथा परतस्त्ववादिनोऽपि प्रामाण्यसंशयोऽपि न स्यात् | अर्थतथात्वस्यानुव्यवसायेनानिश्चयेपि व्यवसायेन निश्चयात् | प्रामाण्यसंशयस्य च तत्संशयपर्यवसन्नत्वात् | अन्यथा सुनिश्चितेऽप्यर्थे प्रामाण्यसंशयापत्तेः | उत्पत्तौ स्वतस्त्वं च यावत्स्वाश्रयज्ञानजनकसामग्रीजन्यत्वम् | ज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वमिति | अस्ति चात्रानुमानम् | विमतप्रमा ज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तजन्या न भवति, अप्रमात्वानधिकरणत्वात्, घटवदिति | न च विमतप्रमा, ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात्, अप्रमावदित्यौदयनमनुमानं बाधकमिति शङ्कनीयम् | प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भवति, ज्ञानत्वात्, अप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात्, ज्ञानसामग्रीमात्रादेव प्रमोत्पत्तिसंभवे तदतिरिक्तस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागौरवप्रसङ्गाच्च || ५१) ननु दोषस्याप्रमाहेतुत्वेन प्रमायास्तदभावहेतुत्वं दुर्निवारमिति चेत्, दोषाभावस्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धत्वात् | अप्रमा तु परत एवोत्पद्यते ज्ञायते च | तस्याः ज्ञानसामग्रीव्यतिरिक्तस्य दोषस्योत्पत्तौ हेतुवात् | ज्ञाप्तौ च ज्ञानग्राहकसामग्र्यतिरिक्तस्य मानान्तरस्य ग्राहकत्वसंभवात् | लक्षणं तु विशेष्यवत्त्यप्रकारकज्ञानत्वं, अतद्वति तत्प्रकारकज्ञानत्वं वा | एतादृशं च भ्रान्तिज्ञानं प्राभाकरोक्तरीत्या ग्रहणस्मरणात्मकज्ञानद्वयं न भवति; इदं रजतमिति सामानाधिकरण्यप्रतिभासविरोधात् | न च इदं रजतमित्यत्र ज्ञानं रजतं च शुक्तिकायामनिर्वचनीयमुत्पद्यत इति वाच्यम्, तदुत्पत्तौ सामग्र्या अभावात् | न चासदेव रजतमुत्पद्यत इति वक्तुं शक्यम्; तस्य तुच्छस्य उत्पत्तिप्रतिपत्त्योरयोगात् | न चात्मन्येव रजतं भासत इति वाच्यम्, तथात्वे अहं रजतमिति प्रत्ययप्रसङ्गात् | तस्मादितरासां ख्यातीनां अप्रामणिकत्वादप्रमा अन्यथाख्यातिरेवेति सिद्धम् || इति श्रीमदतिवर्णाश्रमाचार्यशैवपरिपालकशिवाग्रयोगीन्द्रज्ञानशिवा- चार्यविरचितायां शैवपरिभाषायां प्रमाणनिरूपणं नाम प्रथमः परिच्छेदः || द्वितीयः परिच्छेदः १) अथ प्रमेयं निरूप्यते | तच्च त्रिविधम्; पतिः पशुः पाशश्चेति | तदुक्तम् - पतिः पशुः पाश इति पदार्थास्त्रय ईरिताः || इति || तत्र पशूनामस्वातन्त्र्यात् पाशानामचेतनत्वात् पत्युः प्रथममुद्देशः | अनन्तरं चेतनत्वसाधर्म्यात् पशूनाम् | तदनु पाशस्यावशिष्टस्य | ननु - सप्त स्वायंभुवे प्रोक्ताः षट् पौष्करमतङ्गयोः | श्रीमत्पराख्ये पञ्चोक्ताः पदार्थाः रौरवे त्रयः || इति पदार्थस्य नानाविधसङ्ख्यात्वदर्शनात् कथं पदार्थास्त्रय एवेति चेत्, सत्यम्; तेषां पतिपशुव्यतिरिक्तानां पाशपदार्थ एवान्तर्भावात्, अस्मत्सन्तानादिमुनेर्वामदेवस्य रौरवागमप्रधानत्वाच्च तदनुसारेण त्रयः पदार्था इत्युक्तमित्यविरोधः | तत्र पतिशब्देन इन्द्र इत्युक्ते देवेन्द्र इतिवत् भामेत्युक्ते सत्यभामेतिवच्च नामैकदेशे नामग्रहणात्पशुपतिरिति हर उच्यते | ननु सृष्टिस्थितिसंहाररूपकृत्यत्रयस्य ब्रह्मविष्णुरुद्रकर्तृकत्वेन वेदागमपुराणेषु बहुशः श्रुतत्वादत्र हर एक एव पतिरिति कथं निरूप्यत इति चेत्, प्राकृतसृष्ट्यादिकर्तॄणां गुणत्रयाधिष्ठितत्रिमूर्तीनां मध्ये रूद्र एव कर्तेत्युक्तं चेत् शङ्कावकाशः | अत्र मयोक्तं गुणत्रयातीतं त्रिमूर्तीनां कारणात्मकं स्थूलसूक्ष्मशून्यरूपरहितं चिदानन्दैकरूपम् | तच्च गुणनामक्रियारहितमपि योगवृत्त्या ब्रह्मविष्णुरुद्रादिसर्वशब्द- वाच्यं परतत्त्वमिति नात्र शङ्कावकाशः | २) तदुक्तं देवीकालोत्तरे - न स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः || इति || पराख्ये- एको हि नामगैर्भेदः स्थितः स परमेश्वरः | बृहत्वाद्बृंहणत्वाच्च ब्रह्मैव शिवयोगतः || विष्णुः प्रभवशीलत्वात्प्रभवो जगतां प्रभुः | रुजं द्रावयते यस्मात्तेन रुद्रो रुजः क्षयात् || इति || स्कान्दपुराणे सूतसंहितायाम् - विकल्परहितं तत्त्वं ज्ञानमानन्दमव्ययम् | न च नामानि रूपाणि शिवस्य परमात्मनः || तथापि मायया तस्य नामरूपे प्रकल्पिते | शिवो रुद्रो महादेवः शंकरो ब्रह्म सत्परम् || विष्णुनारायणादीनि नामानि परमेश्वरे | कथंचिद्योगवृत्त्या तु वर्तन्ते न तु मुख्यया || इति || ३) तस्य प्रतत्त्वस्य स्वरूपलक्षणं पशुपाशप्रमाणागम्यं निर्मलनिरतिशयस्वप्रकाशज्ञानानन्दात्मकं विभु नित्यं स्वतन्त्रं शिवमिति | तथा चोक्तं श्रीमत्स्वायंभुवे - अप्रमेयमनिर्देश्यमनौपम्यमनामयम् | सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् || इति || एतच्च लक्षणमतद्व्यावृत्त्यैवोक्तमित्येतत्तत्रैवोक्तम् - अप्रमेयमनन्तत्वादनिर्देश्यमलक्ष्यतः | अनौपम्यमसादृश्याद्विमलत्वादनामयम् || सूक्ष्मं चानुपलभ्यत्वाद्व्यापकत्वाच्च सर्वगम् | नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रूवम् | अव्ययं परिपूर्णत्वात् स्वामिभावात्तथेश्वरम् || इति || श्रीमत्पराख्ये च - तत्स्वरूपं भवेदस्य शिवस्य परमात्मनः | चिद्रूपमात्मनो रूपं दृक्क्रियाशक्तिलक्षणम् || इति || देवीकालोत्तरे - आकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये | परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् || इति || श्रीमदचिन्त्ये - नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् | यत्सुखं परमं ज्ञेयं -------------------------------- | इति | स्वसंवेद्यं परं ज्योतिः --------------------------------- | इति च | ४) तस्य पञ्चविधकृत्यकारित्वं तटस्थलक्षणम् | न चानन्तेशादिष्वतिव्याप्तिः | तेषामपि तदभिव्यक्त्या पञ्चविधकृत्यकारित्वेन लक्ष्यत्वात् | तानि पञ्चविधकृत्यानि सृष्टिस्थितिसंहारतिरोधानानुग्रहाः | तदुक्तं श्रीमन्मृगेन्द्रे - जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः | कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि || इति || (मृ प्र २ श्लो ३) ५) अस्य च पत्युः सद्भावे वेदागमावनुमानं च प्रमाणम् | वेदागमौ प्रसिद्धौ | अनुमानं तु - स्त्रीपुंनपुंसकादिभावेन नानाविधं तनुकरणादिकं जगत् सकर्तृकम्, कार्यत्वात्, घटवत् इति | यथा वा विवादाध्यासितं जगत् स्वोपादानवित्कर्तृपूर्वकम्, कार्यत्वात्, घटवदिति | तथा चोक्तं श्रीमच्छिवज्ञानबोधे - स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् | अस्ति कर्ता स हृत्वैतत्सृजत्यस्मान् प्रभुर्हरः || इति || (शिव सू १) श्रीमत्पौष्करे - विवादाध्यासितं विश्वं विश्ववित्कर्तृपूर्वकम् | कार्यत्वादावयोः सिद्धं कार्यं कुम्भादिकं यथा || इति || (पौ पति प श्लो ९२) श्रीमृगेन्द्रे - अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् | कर्तारमस्य जानीमो विशिष्टमनुमानतः || इति || (मृ प्र ३ श्लो १) श्रीमत्पराख्ये च - कर्म चिद्रहितं तस्माद्योजकं तदपेक्षते | योजकः स महेशानः स्वेच्छया बलवान्यतः || इति || अन्यत्राप्युक्तम् - अचेतनस्य मायादेः प्रवर्तकतया पतिः | सिद्धः सर्वार्थवित्कर्ता व्यापकः सततोदितः || इति || श्रीमन्मतङ्गे - धर्मेण साध्यते धर्मी चत्कार्येण कारणम् | कारणेन क्वचित्कार्यं क्वचिदाम्नायदर्शनात् || घटादिधर्मात्कर्तृत्वं कुलाले धर्मिणि स्थितम् || इति || घटादिगोचरक्रियाशक्तिरूपाद्धर्मादित्यर्थः | ६) न चोक्तेष्वनुमानेषु पक्षतावच्छेदकाननुगमः | क्षित्यादित्वस्यैव पक्षतावच्छेदकत्वेन विवक्षितत्वात् | न चाप्रयोजकत्वम्; एतादृशकर्त्रभावे कार्यानुपलब्धेरेव बाधकत्वात् | न च कार्यत्वं स्वरूपतोऽसिद्धम्; सावयवत्वेन कार्यत्वस्य सिद्धेः | नापि शरीरजन्यत्वमुपाधिः; लाघवेन जन्यत्वस्यैव सकर्तृताप्रयोजकत्वात् | उपाधिनिरासादेव तन्निबन्धना व्याप्यत्वासिद्धिरपि न | न चायं हेतुर्विरुद्धः; साध्यविपरीतेनाव्याप्यत्वात् | नाप्यनैकान्तिकः; अकर्तृकतया निश्चिते आत्मादौ कार्यत्वाभावात् | न च कार्यत्ववत्यङ्कुरादावकर्तृकत्वसन्देहेन सन्धिग्धानैकान्तिकत्वमस्त्विति वाच्यम्; साध्याभावसन्देहे सन्दिग्धानैकान्तिकत्वाभावात् | अन्यथा पर्वतादौ वह्न्यभावसन्देहेन धूमादेरपि सन्दिग्धानैकान्तिकत्वप्रसङ्गात् | न च विमतमकर्तृकम्, शरीराजन्यत्वादित्यनेन सत्प्रतिपक्षत्वम्; तस्याप्युपाधिनिरासोक्तिरीत्यैव निरासात् || ७) अयं च कर्ता अवस्थाभेदेन त्रिविधः | शक्त उद्युक्तः प्रवृत्तश्चेति | यदा सर्वं कार्यमुपादाने लीनं तदा तज्जननशक्तिमात्रयुक्तत्वा- च्छक्तः | यदा तु तदीयशक्तिः कार्यजननाभिमुखी तदोद्युक्तः | यदा तु सा जनितकार्या तदा प्रवृत्तशक्तियुक्तत्वात्प्रवृत्तः | तदुक्तं श्रीमृगेन्द्रे - शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते | शक्तेः प्रवृत्तिभेदेन भेदस्तस्योपचारतः || इति || श्रीमत्पौष्करे च - लयादिकोऽप्ययं भेदः शक्तितस्तु ततः स्थितः | बिन्दुक्षोभो यतः शंभोः शक्तेरेव प्रवर्तते || ज्ञानक्रियात्मिका सापि नित्या नित्योदितप्रभा | सा पराभिमुखी सर्वबन्धलेशविवर्जिता || अनन्यान्या शिवात्मैव वस्तुतो मूर्तिरीश्वरी | लयावस्थां यदा प्राप्ता तदोदासीनरूपिणी || कार्याभावादुदासीना साम्यावस्था तदैव हि | विज्ञानक्रिययोः साम्यं यस्मादुद्युक्तकर्तृषु || तदा ह्येतत्करोमीति व्यापारे साम्यमेतयोः | अधिकारे क्रियोद्युक्ता कार्येष्वधिकृता यतः || इति || (पौ पति प श्लो ३८-४२) ८) ननु शिवसमवेतायां शक्तौ किं मानम् ? विमतं करणजन्यम्, कार्यत्वादित्यनुमानमिति चेन्न; ज्ञानेच्छादीनां करणत्वसम्भवेन अर्थान्तरतया अनेन शक्तिसिध्ययोगादिति, मैवम्; ज्ञानेच्छादीनामेव शक्तित्वेन तैरर्थान्तरस्याभावात् | तर्हि तेषां भेदेन शक्तिरपि नानात्वं स्यादिति ऐक्यसिद्धान्तो व्याहन्येतेति चेन्न; ज्ञानेच्छादीनामपि स्वतो भेदाभावात् | एकस्या एव शक्तेर्यदा कार्यानुकूलादृष्टादिपरामर्शित्वं तदा ज्ञानत्वम्, यदा त्वेवं भवत्वित्याकारता तदा इच्छात्वम्, यदा तत्तत्कार्यजनकत्वं तदा कृतित्वमिति ज्ञानादिभेदोपपत्तेः | एवमेक एवायं कर्ता नवधा भिद्यते | तत्र शिवशक्तिनादबिन्द्वाख्याश्चत्वारो निष्कलभेदाः | सदाशिवाख्यः सकलनिष्कल एकः | महेश्वररुद्रविष्णुब्रह्माख्याश्चत्वारः सकलभेदाः | तत्र द्वौ शक्तिभेदौ | अपरे सप्त शिवभेदाः | एवमेकैव तच्छक्तिः बिन्दुशक्तिमनोन्मनीमहेश्वर्युमालक्ष्मीवाणीभेदेन सप्तधा भिद्यते | ९) ननु बिन्दोरवस्थाभेदेन कर्तुः शिवस्य भेद उक्तः, तन्न सङ्गच्छेत; अचेतनस्य बिन्दोः स्वतः प्रवृत्त्ययोगात् | अथ चेदीश्वर एव तत्प्रवृत्तिं कारयति तदा तस्य विकारित्वं स्यादिति चेत्, उच्यते - तत्र कर्तृत्वं द्विविधम्, सङ्कल्पमात्रेण करणेन चेति | तत्र करणापेक्षकर्तृत्वं कुलालादीनाम् | सङ्कल्पोऽपि द्विविधः, मनोव्यापाररूपः सन्निधिरूपश्चेति | तत्र मनोव्यापारेण कर्तृत्व ब्रह्मादीनाम् | शिवस्य तु सन्निधिमात्रेण; न तु विकृतिहेतुबाह्यकरणापेक्षया; निर्मलतया तस्य करणादिरूपोपाधिरहितत्वात् | लोके चोपाधिमतामेव विकारित्वं दृष्टम् | तस्मात्कर्तृत्वेनाविकारित्वं न विरुद्धम् | न च यदि तस्य देहाद्युपधिमत एव कुलालादेः कर्तृत्वदर्शनादिति वाच्यम्; स्वदेहप्रेरणादावुपाध्यभावेऽपि कर्तृत्वदर्शनात् | तत्राप्युपाध्यन्तरस्वीकारेऽनवस्थाप्रसङ्गात् | तस्मात्प्रथमसृष्टौ समस्तोपाधिवर्जितः प्रवृत्ताशेषशक्तिकः शिव एव कर्ताभ्युपेयः | तस्य च पञ्चविधकृत्येषु सूर्यस्य कमलोत्पलनवनीतपङ्कसम्बन्धिषु विकासमुकुलीभावद्रवीकरणशोषणरूपकार्येष्विव सन्निधिमात्रेण कर्तृत्वम् | १०) तथा चोक्तं श्रीमत्पौष्करे - ऋषयः - बिन्द्ववस्थाविशेषेण शिवभेदस्त्वयोदितः | बिन्दोरचेतनत्वेन प्रवृत्तिः स्वत एव न || कर्ता चेत्तत्प्रवृत्त्यर्थं विकारी स्यात्तदा शिवः | एवं विरोध आपन्ने परिहारं वदेश्वर || ईश्वरः - कर्तृत्वं द्विविधं विप्राः ! सङ्कल्पात्करणादपि | न हि सङ्कल्पमात्रेण कुलालैः क्रियते घटः || शिवः सङ्कल्पमात्रेण बिन्दुक्षोभकरः सदा | न व्यापारविशेषेण येनायं विकृतो भवेत् || समस्तोपाधिशून्यत्वान्निर्मलत्वाच्च हे द्विजाः | य एवोपाधिमन्तस्ते विकृताः कर्यजन्मनि || ततश्च नाविकारित्वं कर्तृत्वेन विरुध्यते | समस्तोपाधिशून्यत्वात्कर्तृत्वं नेष्यते कथम् || कर्तृत्वप्रतिबन्धत्वादुपाधेस्तद्वियोगतः | भवेत्प्रत्युत कर्तृत्वं प्राचुर्याय मुनीश्वराः || अदेहस्यापि कर्तृत्वं स्वदेहप्रेरणे यथा | सदेहस्यापि कर्तृत्वं सर्वत्रापि यदीष्यते || तद्देहस्यापि कार्यत्वाद्व्याप्तं कर्त्रन्तरेण तत् | तस्य देहादयोऽप्येवमित्यवस्था न कुत्रचित् || ततः प्रथमसृष्टेस्तु समस्तोपाधिवर्जितः | कर्ता महेश एवेष्टः प्रवृत्ताशेषशक्तिकः || यथार्को दिनचेष्टानां सन्निधेरुपकारकः | तथा सन्निधिमात्रेण बिदधात्यखिलं शिवः || इति || (पौ प प श्लो २७-३७) ११) ननु तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः इत्यादिना शिवस्य मन्त्रशरीरत्वश्रवणात्कथमशरीरत्वमिति चेत्, सत्यम्; अत्र शास्त्रे मननत्राणयोगितया शक्तेरेव मन्त्रशब्देनाभिधानात् तद्वपुः शाक्तम् | ननु शाक्तत्वं शक्त्यारब्धत्वं शक्तिपरिणामत्वं वा ? तथात्वे तस्य निर्विकारत्वनित्यत्वादिप्रतिपादकागमादिविरोधः | तथा च शक्तेरेव कार्यभेदभिन्नाया मूर्धादिभावकल्पनयोपचारेण शरीरत्वाभ्युपगमः | तस्याश्च तदभिन्नत्वान्न वास्तवमस्य शरीरत्वम् | तथा चोक्तं श्रीमृगेन्द्रे - लोके वपुष्मतो दृष्टं कृत्यं सोऽप्यस्मदादिवत् | मलाद्यसम्भवाच्छाक्तं वपुर्नैतादृशं प्रभोः || तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः | ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकम् || ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना | स मूर्धा समदेशत्वानमूर्धा नावयवस्तनोः || तस्य तस्य तनुर्या पूस्तस्या मुषति येन सः | तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः || हृदयं बोधपर्यायः सोऽस्याघोरः शिवो यतः | परिग्रहस्य घोरत्वाद्घोरोक्तिरुपचारतः || वामस्त्रिवर्गो वामत्वाद्रहस्यश्च स्वभावतः | वामं धाम परं गुह्यं यस्यासौ देवगुह्यकः || सद्योऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्योऽभिधानः | सद्योमूर्तिर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः || इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः | तस्या भेदा येऽपि वामादयः स्युस्तेऽपि प्रोक्ताः कृत्यभेदेन सिद्भिः || (मृ प्र ३ श्लो ७-१४) स इत्थं विग्रहोऽनेन कारणेनाहतौजसा | करोति सर्वदा कृत्यं यदा यदुपचर्यते || इति | (मृ प्र ४ श्लो १) १२) न चानन्तेश्वरश्रीकण्ठादीनां शिवभेदानां शरीरित्वेन शिवस्यापि शरीरित्वं स्यादिति वाच्यम्; तत्रापि तेषां शिवभेदत्वस्य तदभिव्यक्ततदधिष्ठातृशिवशक्त्यायत्तत्वात् | अत एवैतेषां मन्त्रेश्वराणुसदाशिवानामपि पतिपदार्थेऽन्तर्भावः | कारकपदार्थस्यापि दीक्षात्मकशिवशक्तिरूपतया तत्रैवान्तर्भावः | १३) अयमेव च जगतो निमित्तम् | तत्समवायिचिच्छक्तेर्मायोपहितत्वेनोपादानत्वमपि | न तु परमाणवो नापि प्रकृतिः नापि केवलमायाद्वयम् | तथा हि - न तावत्परमाणवो जगदुपादानम्; प्रमाणाभावेन तेषामेवासिद्धेः | ननु अनुमानं मानम् | तथा हि - जालसूर्यमरीचिसंस्थं सूक्ष्मं रजः स्वन्यूनपरिमाणद्रव्यारब्धं, कार्यद्रव्यत्वात्, घटवदिति परिदृश्यमानस्य सूक्ष्मरजसः कारणेऽनुमिते तस्य महदारम्भकत्वेन कार्यत्वे चानुमिते तेनैव हेतुना तस्यापि तथाविधद्रव्यारब्धत्वमनुमीयते | तथा च दृश्यमानस्य सूक्ष्मद्रव्यस्य यत् परम्परयारम्भकं स एव परमाणुः | तथाणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं, परिमाणानां तारतम्यत्वात्, महत्परिमाणतारतम्यवदित्यनुमानेनापि परमाणुसिद्धिरिति, मैवम्; समानप्रिमाणदुग्धारब्धैर्दध्यादिभिर- धिकपरिमाणसर्पिराद्यारब्धैर्घृतादिभिश्चाद्यस्य हेतोरनैकान्तिकत्वात् | तत्र तदवयवारब्धत्वे प्रमाणाभावात् | द्वितीयस्य च परिदृश्यमाने परिमाण एव विश्रान्तिसम्भवेन अभिमतार्थासाधकत्वात् | तस्मात्परमाणूनामेवाभावान्न तेषामुपादानत्वम् | नापि प्रकृतिः; तस्या महदाद्यपेक्षया उपादानत्वस्यास्माभिरभ्युपगमात् परमोपादानत्वं तु नास्ति; तस्या कार्यत्वस्य समर्थयिष्यमाणतया उपादेयत्वात् | नापि माया; किं तु तस्या उपादानकोटिनिवेशमात्राभ्युपगमे इष्टापत्तेः | तस्या एवोपादानत्वमित्युपगमस्तु मायाविशिष्टशिवस्योपादानत्वसाधकप्रमाणेन बाधितः | तच्च प्रमाणं पञ्चमीश्रुत्यादिकम् | १४) तथा हि स्कान्दे- शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् | आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् || इत्यपादानपञ्चमी श्रुता | सा च जनिकर्तुः प्रकृतिः (पा सू १-४- ३०) इत्यपादानसंज्ञया उपादानवाचिनो विहिता | अतः सैव पञ्चमी तत्र प्रमाणम् | तथा तत्रैव - सृष्ट्यर्थमैक्षत प्राज्ञो बहुस्यामिति शक्तिमान् || इति बहुभवनसङ्कल्पःश्रूयते | स चोपादानत्व एव घटते | न हि निमित्तमात्रस्य कुलालस्य घटः स्यामिति सङ्कल्पोऽस्ति | एवं देवीकालोत्तरे - भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि || इति सामानाधिकरण्येन निर्देशो वर्तते | स च मृद्घट इत्यादावुपादानोपादेययोरेव दृष्टः, न त्वत्यन्तभिन्नयोर्दण्डघटयोरिति सोऽपि प्रमाणम् | तदुक्तं शिवज्ञानबोधे - अन्यः सन्व्याप्तितो नान्यः --------------------- | ----------------------------------------------------- || इति || (शिव सू २) १५) नन्वेवं निर्विकारत्वप्रतिपादकानि वचनानि व्याहन्येरन्निति चेत्, न; शिवाच्छक्तिमतः प्रभोः इत्यादिवचनानुसारेण मायाद्वयाख्यपरिग्रहशक्तिविशिष्टस्य शिवस्योपादानत्वेऽपि विशेषणीभूतमायाया एव विकारित्वात् | विकारित्वेऽपि केवलस्य निर्विकारत्वाविरोधात् | ननु शिवो नोपादानम्, चेतनत्वात्, पशुवदित्यनुमानेन बाधः प्रतिरोधो वा शिवोपादनत्वबोधकागमस्येति चेन्न; आगमस्यानुमानापेक्षया प्रबलत्वेन तस्यैवानुमानबाधकत्वात् | अन्यथा यागादिक्रिया न स्वर्गसाधनम्, क्रियात्वात्, वृथाचेष्टावदित्यनुमानेन यागादिस्वर्गसाधनताबोधकस्याप्यागमस्य बाधप्रतिरोधाद्यापत्तेः | ननु समवायिकारणस्य नानात्व एव तत्संयोगात्मकमसमवायिकारणं लभ्यते | शिवस्य तूपादानत्वे असमवायिकारणं न लभ्यत इति न तस्योपादानत्वं युज्यत इति चेन्न; भावकार्यस्यासमवायिकारणजन्यत्वनियमे मानाभावात् | प्रत्युत तदभावस्यैवोपादानत्वबोधकागमेन निश्चयात्, शब्दादिकार्येऽसमवायिकारणस्याभावेन व्यभिचाराच्च | न च तत्रापि भेर्याकाशसंयोगादिरसमवायिकारणम्; तद्व्यतिरेकप्रयुक्तस्य कार्यव्यतिरेकस्यादर्शनेन तस्य कारणत्वे मानाभावात् | अन्यथा तत्राकाशपरिमाणस्याप्यसमवायिकारणत्वकल्पनापत्तेः; एकतन्त्वारब्धे सूत्रे व्यभिचाराच्च | न च तत्रापि तन्त्ववयवानामेवारम्भकत्वम्, तेषां च संयोगः सम्भवतीति युक्तम्; मूर्तानां समानदेशताविरोधे तु तन्तुसमानदेशस्य सूत्रस्य निष्पत्ययोगात् | तन्तोरपि सद्भावप्रतीत्या तन्तुविनाशकल्पनाया बाधितत्वात् | एवं च शिवो नोपादानम्, कर्तृत्वात्, कुलालवदित्यनुमानं निरस्तम् | आगमबाधेन तस्याप्यनुत्थानात् | नन्वागमेनापि साक्षादुपादानत्वं न बोध्यते, किंतु तद्व्याप्यत्वम्, कार्येणाभिन्नत्वम्, तल्लयाद्यधिकरणत्वं च | तथा चानयोः सत्प्रतिपक्षत्वमेव स्यादिति नोपादानत्वनिश्चयो युक्तः | न च लयाद्यधिकरणत्वमागमेन बोधितमिति प्रबलमिति युक्तम्; कतृत्वस्यापि तेनैव बोधितत्वात् | यदि चागमबोधितस्य कर्तृत्वसम्बन्धिनः पक्षधर्मत्वस्य बोधेन तदीया व्याप्तिर्बोध्यते तदा लयाद्यधिकरणत्वस्य वा कर्तत्वस्य वा सा बाध्यताम्, विशेषाभावात् | तस्मात्सत्प्रतिपक्षत्वमेव || १६) अत एव नोपादानत्वनिश्चय इति, मैवम्; पञ्चम्याः प्रकृते प्रकृतित्वरूपोपादानत्वबोधकतया साक्षादेवागमेनोपादनत्वबोधनात् | नन्वेवं शिवो निमित्तं न भवेत्, उपादानासमवायिव्यतिरिक्तकारणस्यैव निमित्तशब्दार्थत्वादिति चेन्न; प्रकृतिभावेनोपादानत्ववदनुकूलचिकीर्षादियोगेन निमित्तत्वस्योपपत्तेः | निमित्तलक्षणमपि प्रकृतिभावादन्यादृशोपयोगवत्त्वम् | तच्च चिकीर्षादिनोपयोगवति शिवेऽप्यक्षतमिति शिव एवोपादानं निमित्तं चेति सिद्धम् || १७) नन्वेवम् - निमित्तमीश्वरस्तेषामुपादानं स बिन्दुराट || (पौ तन्त्र प श्लो २८) शिवो निमित्तं प्रकृतिः परापरा कार्यात्मतामस्य समाप्नुते जडा || इत्यादिवचनविरोध इति चेत्, न, एतादृशवचनानां मायावद्विकारितयोपादानत्वं नास्तीत्येवम्परत्वात् | यदपि बहु स्यामिति शक्तिमान्, यावन्ति चान्यान्यहमेव तानि इत्यादिवचनजातं केवलोपादानत्वमात्रपरं, तदपि अन्यः सन्व्याप्तितोऽनन्य इति कार्ये व्याप्तिसत्तालक्षणानुस्यूतिस्फूर्तिपरमिति न कश्चिद्विरोधः || १८) एवं च पतिपदार्थशिवस्य तदधिष्ठितमायायाश्च कार्यभूतप्रपञ्चस्य स्वधर्मसत्तास्फूर्तिप्रियादिरूपतया जडविकारादिरूपतया चोभयोरुपादानत्वम् | शिवस्य तु मायाया अधिष्ठातृतया निमित्तत्वमधिकमिति विशेषः | यथा धूमलक्षणे कार्ये आर्द्रेन्धनवह्न्योरुभयोरुपादानत्वेऽपि धूमकार्ये काष्ठधर्मकृष्णरूपमेव; न तु वह्निधर्मभास्वररूपम्; तथा प्रपञ्चस्य शिवमायोभयोपादानत्वेऽपि न चिदानन्दरूपत्वम् | किं तु जडमायाधर्मप्रकाश्यत्वविकारित्वरूपमिति | तत्र च वह्नेरिव शिवस्य निमित्तत्वमिति न तदुत्कृष्टधर्मवत्त्वम् | न च वह्निरपि धूमे निमित्तमात्रम्, न तूपादानमिति वाच्यम्; अन्यस्योपादानस्याभावेन परमाणुप्रक्रियायाश्च पराकरिष्यमाणत्वेन वह्नीन्धनयोरेवोपादानत्वात् | न च काष्ठमेवोपादानं वह्निस्तु निमित्तमात्रमिति वक्तुं शक्यम् | वह्निधर्मभूतौष्ण्यादेरप्युपलभ्यमानत्वेन ग्राहकतौल्यात् | तस्मान्मायाविशिष्टेश्वरस्य निमित्तत्वमुपादानत्वं च सिद्धम् | १९) तदुपपादकवचनानि वातुले- लिङ्गे सर्वं समुत्पन्नं लयस्तत्रैव चोच्यते | लिङ्गं शंभुरिति ज्ञेयं पीठं शक्तिरुदाहृतम् || योनिलिङ्गप्रकारेण जगत्सृष्ट्यर्थकारणम् | सदा संयोगभावत्वात्कामरूपमुदाहृतम् || लिङ्गे तु जायते तत्र जगत्स्थावरजङ्गमम् | तस्माल्लिङ्गं विशेषेण कर्मरूपमुदाहृतम् || कार्मोदये तु सृष्टिः स्यात् कर्मान्ते संहृतिर्भवेत् | एतत्कर्मेशरूपं तु सृष्टिस्थितिलयावहम् | दक्षिणाङ्गभवो ब्रह्मा हरिः पूर्वाङ्गसम्भवः | हृदयान्नीलरुद्रस्तु शिरसश्शिवसंज्ञकः || महेशस्य सहस्रांशाद्रुद्रदेवसमुद्भवः | एतन्महेशकोट्यंशाद्ब्रह्मविष्णुसमुद्भवः | नेत्रे तु सव्यवामोर्ध्वे सूर्यसोमाग्निसम्भवः | प्राणे वायुः समुत्पन्नः श्रोत्रे कीलादिसम्भवः || आस्ये ज्ञानं समुत्पन्नं गणेशस्तद्गलोद्भवः | षण्मुखो हृदये जातो नाभौ देवाः समुद्भवाः || पञ्चाशत्कोटिदेवाश्च महेशांशसमुद्भवाः | ॠषयश्च तथा कोट्यो रोमकूपसमुद्भवाः || इति || ज्ञानं नाम वेदादिविद्या | २०) नन्वेवमपि शिवस्यैव जगत्कर्तत्वमिति कथम् ? त्वयैवानन्तेश्वरादीनामपि कर्तृत्वाभ्युपगमात् | कदाचित्सृष्ट्य शार्वाः कदाचित्पद्मजोद्भवाः | कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः || इति जगतोऽनियतकर्तृत्वश्रवणादिति चेन्मैवम्; प्रकृतिमायायां सृष्टौ ब्रह्माणमधिष्ठाय तस्यामेव मायायां सृष्टौ पालने च विष्णुमधिष्ठाय पुनश्च तस्यामेव सृष्टिस्थितिसंहारेषु रुद्रमधिष्ठाय अशुद्धमायायां सृष्टिस्थितिसंहारतिरोभावेष्वीश्वरमधिष्ठाय कारणत्वेऽपि शुद्धमायायां सृष्टिस्थितिसंहारतिरोभावानुग्रहेषु साक्षात्सदाशिवस्यैव कर्तृत्वम् || २१) नन्वन्यत्र सृष्ट्यादिकार्यत्रयस्यैव ब्रह्मादित्रयस्य कारणत्वमुक्तम्; न तु पञ्चसु कार्येषु पञ्चेश्वराणामिति चेत्, पञ्चकार्याणां पञ्चेश्वरकर्तृत्वप्रतिपादकानि कामिकाद्यागमवचनानि बहूनि सन्त्येव वेदोपबृंहितपुराणवचनानि चोच्यन्ते | काशीखण्डे - पञ्चानामपि देवानां ब्रह्मादीनां समाश्रयम् | ओङ्कारबोधितं लिङ्गं पञ्चायतनमुत्तमम् || इति || नसिंहपुराणे च - आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं वपुः | आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतःशिवम् || इति || श्रीशंकराचार्यैः सौन्दर्यलहर्यां च - जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति | सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः || (श्लो २४) इत्युक्तत्वात् सिद्धं पञ्चेश्वराणां पञ्चकार्यकर्तृत्वम् | २२) एवं च स्रष्टः परमेश्वरस्य चिच्छक्तेः सूक्ष्मशरीरतया परिग्रहबिन्दुशक्तेः स्थूलशरीरतया स्वदेहप्रवर्तकत्ववत् सृष्ट्यादिप्रवर्तकत्वमवगन्तव्यम् | तदेवं व्यवधानेनाव्यवधानेन वा शिवस्यैव सर्वप्रपञ्चकार्यकर्तृत्वम् | तच्च कार्यं परिणामारम्भसमूहविवर्तवृत्तिभेदेन पञ्चविधम् | तत्र वृत्तिरेव जगत्, न परिणामादिः | तथा हि - न तावज्जगत् परिणामः, पूर्वावस्थापरित्यागेनावस्थान्तरप्राप्तिर्हि परिणामः | यथा पयसः पयस्त्वावस्थापरित्यागेन दध्यादिरूपप्राप्तिः | न चेह पूर्वावस्थापरित्यागोऽस्ति | नाप्यारम्भः, यत्र हि नानाकरणैः परस्परसंयोगेनैकं कार्यमारम्भ्यते तदेवारम्भः, यथा घटादिः | अत्र त्वेकस्या एव मायायाः कारणत्वान्नारम्भपक्षः क्षोदसहः | न च मायाशिवयोः संयोगेनेहाप्यारम्भोऽस्त्विति युक्तम्; तयोस्तुल्यवदुपयोगाभावात् | माया हि विकारितयोपयुज्यते | तदधिष्ठातृतया तु शिव इति | संयोगस्य चरमकारणत्वेन सर्वदा कार्यापत्तेश्च | अत एव न समूहोऽपि; अनेकेषामेव लोम्नां चामरादिरूपसमूहदर्शनात् | प्रकृते च तदसम्भवात् | नापिविवर्तः; तस्य अतत्त्वतोऽन्यथाभावात्मकत्वेन जगतोऽत्यन्तासत्त्वप्रसङ्गात् | तस्माद्यथा पटस्य कुट्यवस्था अहेश्च कुण्डलावस्था अप्रच्युतपूर्वरूपस्यैवावस्थान्तरप्राप्तिरूपत्वाद्वत्तिः तथा जगदपि शिवाधिष्ठितशुद्धाशुद्धमाययोर्वृत्तिरेव || २३) अयं च स्वरूपज्ञप्तिविषयः | नात्यन्तमनवभास्यः | नापि प्रमाणभास्यः; तथात्वे तुच्छत्वजडत्वयोः प्रसङ्गात् | न च मनोरूपप्रमाणजन्यज्ञानविषये जीवात्मनि जडत्वाभावेन व्यभिचारः | तस्य प्रमाणजन्यज्ञानविषयत्वे तदभावे प्रकाशासम्भवेन कदाचिदहं वा नाहं वेति संशयस्य नाहमिति विपर्ययस्य च प्रसङ्गेन स्वप्रकाशत्वस्यैवोपेयत्वेन प्रमाणजन्यज्ञानविषयत्वायोगात् | न च प्रमाणागम्यत्वे शिवस्य प्रागुक्तमनुमानागमवेद्यत्वं व्याहन्येतेति युक्तम्; धर्मिणः स्वप्रकाशत्वेऽपि तद्धर्माणां कतृत्वोपादानत्वादीनां तद्गम्यत्वेन प्रागुक्तस्यानुमानादिप्रमाणगम्यत्वस्योपपत्तेः | इति सिद्धं शिवस्य स्वप्रकाशत्वम् || इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयोगीन्द्रज्ञान- शिवाचार्यविरचितायां शैवपरिभाषायां पतिपदार्थनिरूपणं नाम द्वितीयः परिच्छेदः || तृतीयः परिच्छेदः १) अथ चिद्रूपतया पत्यनन्यः पशुपदार्थो निरूप्यते | तत्र पशुर्नाम देहेन्द्रियादिव्यतिरिक्तो नित्यश्चिदात्मकोऽनेको विभुरनादिमलावृतोऽस्वतन्त्रकर्ता च | अत्र देहेन्द्रियादिव्यतिरिक्त इत्यनेन देहेन्द्रियप्राणबुद्ध्यात्मवादानां निरासः | नित्य इत्यनेन क्षणिकात्मवादस्य चिदात्मक इत्यनेन जडात्मवादस्य अनेक इत्यनेन एकात्मवादस्यविभुरित्यनेनाणुपरिमाणमध्यमपरिमाणात्म वादयोः अनादिमलावृतोऽस्वतन्त्र इत्याभ्यां आत्मेश्वरवादस्य च व्यावृत्तिः | कर्तेत्यनेन साङ्ख्यात्मवादनिरासः | तथा चोक्तम् - अत सातत्यगमने व्युत्पन्ना ज्ञस्वभावतः | परामर्शात्मकाद्धेतोर्गतेर्ज्ञानार्थता यतः || आत्मानो व्यापिनोऽनन्ताश्चिद्रूपाः पशवस्त्रिधा || इति || श्रीमन्मृगेन्द्रे च - नाव्यापको न क्षणिको नैको नापि जडात्मकः | नाकर्ताभिन्नचिद्योगी पाशान्ते शिवताश्रुतेः || इति || (मृ प्र ६ श्लो ७) श्रीमत्पराख्ये च - देहान्योऽनश्वरो व्यापी विभिन्नः समलोऽजडः | स्वकर्मंफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुः || इति || (पराख्यं पशु प श्लो १५) २) ननु कथमात्मनो देहव्यतिरिक्तत्वम्? देहस्यैवात्मत्वात् | तथा हि - यद्यस्मिन् सत्येव दृश्यते तत्तस्य कारणं दृष्टम् | तथा च चतुर्विधभूतपरिणामाद्देहाच्चैतन्यं स्वत एवोत्पद्यते किण्वाद्यणुशक्त्या मदरूपविचित्रकार्यवत् | तस्माद्भूतात्मकाद्देहादेव चैतन्यसम्भवः | तच्चैतन्यमधिष्ठातुमात्मा ईश्वरश्च नापेक्षणीयः, अत एव स्थूलोऽहं कृशोऽहमित्यादिसामानाधिकरण्यप्रत्ययोपपत्तिः | मम देहोऽयमित्यादिप्रत्ययस्तु राहोः शिर इत्यादिवदौपचारिकः; तस्माद्देहातिरिक्त आत्मा नास्तीति चेन्मैवम् | न वयं कारणशक्तिभिः कार्याणां वैचित्र्यं नेति व्रूमः; किं तु विरुद्धात्कारणाद्विरुद्धं कार्यं नोत्पद्यत इति | तथा च जडाद्देहात् कथं प्रकाशरूपचैतन्यसम्भवः | किं च गुणस्य नाशो गुणिनाशाद्विरोधिप्रादुर्भावाद्वा भवति | इह तु मृते देह उभयाभावेऽपि कथं तद्गुणभूतचैतन्यनाशः; देहारम्भकभूतैकदेशप्राणवायुनिर्गमादिति चेन्न; सुप्तौ तत्सद्भावेऽपि ज्ञानानुपलब्धेः | न च करणोपरमात्तदानीं चैतन्यानुपलब्धिरिति वाच्यम्, त्वन्मते करणोपरतिहेतुकर्माभावेन सुप्तावपि चैतन्योदयप्रसङ्गात् | तस्माद्यत्सद्भावे देहस्य चेष्टा, यदभावे तदभावः तच्चैतन्यं देहव्यतिरिक्तं आत्मत्वेनेष्टव्यम् | किं च बाल्ययौवनवार्धकेषु शरीरस्य भेदेन वाल्ये कृतस्य कथं वार्धके प्रतिसन्धानम् | तस्माद्देहात्मवादः प्रत्यक्षेणैव निराकृतः | अत एव मम देहोऽयमित्यादिप्रत्ययदर्शनम् | स्थूलोऽहमित्यादिप्रत्ययस्त्वौपचारिकः | किं च निर्दोषेन्द्रियार्थसन्निकर्षेऽप्यर्थग्रहो न दृश्यते | तत्कस्य हेतोः? व्यासक्तत्वादिति चेत्, हन्त ! तर्हि चित्तव्यसङ्गप्रयोजकः सूक्ष्म आत्मा अभ्युपेयः | ३) एतच्च प्रतिपादितं श्रीमत्पौष्करपराख्ययोः - चैतन्यदर्शनाद्देहे नात्मा चैतन्यको भवेत् | यद्यस्मिन् सति सन्दृष्टं तदिष्टं तस्य कारणम् || कारणत्वाविशिष्टोऽत्र देहश्चैतन्यसाधकः | शरीरघटयोर्योगात् सुरापूपाख्यकार्ययोः || कारणं गुडपिष्टादिरविशिष्टोऽपि दृश्यते | अपूपादसती पूर्वं मदशक्तिस्तदात्मनि || तस्माद्भूतात्मकादेव देहाच्चैतन्यसम्भवः | तच्चैतन्यमधिष्ठातुं किमन्येनात्मनेश्वर || ईश्वरः - केनोक्तं भिन्नकार्याणां वैचित्र्यं नेति शक्तिभिः | विरुद्धात्कारणात्कार्यं विरुद्धं नोपजायते || विरुद्धमपि चैतन्यं जडाद्देहात्कथं भवेत् | किं च यस्य तु यो धर्मस्तन्नाशाद्धर्मनाशनम् || विरोधिगुणसद्भावादथ स्यादन्यथा द्विजाः | देहे सत्यपि चैतन्यं मृते किमिति नेष्यते || यद्भावयदभावाभ्यां चेष्टाचेष्टे भजेत्तनुः | तच्चैतन्यमिति प्रोक्तं व्यतिरिक्तं तु देहतः || किं च बाल्ये च वार्धक्ये यौवने च विभेदतः | शरीरस्यानुसन्धानं कथं बाल्ये कृतस्य च || स तावदनुसन्धत्ते प्राग्भुक्ता सेयमङ्गना | इति तस्माच्छरीरात्मवादोऽध्यक्षनिराकृतः || तस्मात्स्थूलोऽहमित्यादिर्ज्ञेयो राहोः शिरो यथा | किं च देहो ममेत्यादिप्रत्ययोऽस्त्येव पुष्कलः || इति || (पौ पशु प श्लो ६१-७१) भूतानां समुदायेऽपि देहस्याध्यवसायतः | वस्तुग्रहे प्रवृत्तस्य संशुद्धे लोचनेऽपि च || न यतोऽर्थग्रहो ह्यस्य योऽभिप्रेतोऽन्यचेतसः | अतोऽप्यन्यः पुमानस्ति यो जातः शून्यमानसः || दृष्टा बाल्यादिकावस्था तावद्देहे चतुर्विधा | परिणामविशेषेण या विभिन्ना पृथक् पृथक् || अन्यां यां योऽनुसन्धत्ते तामवस्थां गतामपि | सोऽस्मिन्स्मर्ता स्मृतिर्ज्ञानं भिन्नं भूताक्षनिर्गतम् || इति || (पराख्यं पशु प श्लो १९-२०; २२; २४) ४) नन्विन्द्रियाणि ज्ञानहेतव इत्यन्वयव्यतिरेकसिद्धम् | अतो ज्ञातृत्वमपि तेषामेवास्तु | ज्ञात्रन्तरकल्पनायां गौरवात् | न चेन्द्रियाणां नानात्वेन गुणप्रधानभावाभावेन च युगपद्विरुद्धव्यापाराः प्रसज्येरन्निति वाच्यम् | स्वतो गुणप्रधानभावाभावेऽप्येकस्मिन् देहे विद्यमानानां तेषामेकग्रामवासिनामिव कार्यानुरोधेन गुणप्रधानभावोपपत्तेः | मास्तु वा गुणप्रधानभाव इन्द्रियाणाम् | तथापि युगपद्विरुद्धव्यापाराभाव उपपद्यते | मनोरूपसहकारिसाहित्येन प्रबलस्य व्यापारोपपत्तेः | न च तेषां कारणत्वान्न कर्तृत्वमिति वाच्यम् | करणत्वस्यास्माभिरनभ्युपगतत्वेनान्यतरासिद्धत्वात् | न च रूपाद्यपलब्धिकरणत्वेनैव तेषां सिद्धेर्नासिद्धिरिति युक्तम्; सहेतुकत्वानुमानेन तेषां सिद्ध्युपपत्तेः | तस्मान्मूकोऽहं बधिरोऽहमित्याद्यनुभवानुसारेणेन्द्रियाण्येवात्मेति, मैवम् | इन्द्रियाभावेऽपि स्वप्नादौ ज्ञानोपलम्भेन तेषां ज्ञातृत्वायोगात् | किं च श्रोत्रादीनीन्द्रियाणि प्रतिनियतविषयाणि, आत्मा तु सर्वग्राहक इत्यनुभवसिद्धम् | अतस्तैः शब्दादिसर्वविषयग्राहक आत्मा अन्योऽभ्युपगन्तव्यः | किं चेन्द्रियाण्यपि प्रेर्याण्यनुभूयन्ते | न च स्वतन्त्रस्यात्मनः प्रेर्यत्वमस्ति, अतो न तेषामात्मत्वं सम्भवति | अपि च श्रोत्रादीनि न स्वरूपं जानन्ति | आत्मा तु श्रोत्रादिस्वरूपं जानाति | अतो विरुद्धधर्मयोगित्वान्न श्रोत्रादिरात्मा | किं च योऽहं चक्षुषा घटमद्राक्षं सोऽहमिदानीमान्ध्यदशायां तमेव त्वचा स्पृशामीति प्रत्यभिज्ञानमुपलभ्यते | तदिन्द्रियाणामात्मभावे न युज्यते | अन्येनोपलब्धेऽन्यस्य प्रत्यभिज्ञानाभावात् | किं चेन्द्रियाणामात्मत्वे युगपद्विरुद्धव्यापारयोगप्रसङ्गः | न चैकग्रामवासिनामिव कार्यानुरोधेन तेषां गुणप्रधानभावादीति पूर्वोक्तं युक्तम् | असाधारणकार्ये तेषामपि गुणप्रधानभावाभावात् | न च वरगोष्ठीन्यायेन गुणप्रधानभावः | युगपत्स्वस्वभोग्यप्रत्यासत्तिरहितेष्वेव तन्न्यायप्रवृत्तेः | वरेषु ह्येकस्य स्वभोग्यसन्निधाने तद्रहितानामितरेषां गुणभावाभ्युपगमो युज्यते | इन्द्रियेषु युगपत्स्वस्वविषयसन्निकृष्टेषु नैकस्यापि गुणप्रधानभावाभ्युपगमः सम्भवति | तस्मान्न वरगोष्ठीन्यायेनापि गुणप्रधानभावः | नापि मनस्साहित्यप्राबल्यात्कृतो व्यापारयोगः | एकत्र मनस्साहित्यमित्यस्यैव त्वन्मतेऽयुक्तत्वात् | मन्मते हि स्वतन्त्र आत्मा स्वाभिमतग्राहिणीन्द्रिये मनो निवेशयतीति युक्तमेकस्यैव साहित्यम् | त्वन्मते तु इन्द्रियाण्येव स्वतन्त्राणि | तत्परतन्त्रं मनः | न च प्रधानानां तेषां वैमत्ये गुणभूतस्यैकत्रागमनं युक्तम् | न चेन्द्रियमेव मनः समाकर्षति | विनिगमकाभावात् | तस्मादिन्द्रियाणामात्मत्वे युगपद्विरुद्धव्यापारप्रसङ्ग एव | तस्मान्नेन्द्रियाण्यात्मा || ५) अस्तु तर्हि प्राणवायुरात्मा; अहं जीवामीत्यनुभवात् | न चैकस्मिन्देशे प्राणापानादिभेदेनात्मभेदप्रसक्तौ रुचिभेदेन युगपद्विरुद्धव्यापारयोगः स्यादिति युक्तम् | एकस्यैव व्यापारभेदेन प्राणादिसंज्ञाभेदोपपत्त्या प्राणापानादिभेदे मानाभावात् | न च सुषुप्त्यादावपि प्राणादीनां सत्त्वेन ज्ञातृत्वं स्यादिति युक्तम् | इन्द्रियव्यापारविरहेण तद्विरहस्योपपत्तेः | तस्मात्प्राणवायुरेवात्मेति, मैवम् | प्राणवायोरपि देहवन्नियम्यत्वानुभवेन तन्नियामकस्य कस्यचित्परस्यावश्याभ्युपगन्तव्यत्वात् | न च देहादिरेव कार्यनियन्ता | आत्मत्वेनाभ्युपगतस्य तस्य देहनियामकतया तन्नियम्यत्वायोगात् | वायुविशेषगुणस्य सति तस्मिन् ध्वंसायोगेन स्वापेऽपि तस्य ज्ञातृत्वप्रसङ्गाच्च | न चान्तःकरणवर्गस्यात्मत्वम् | तस्याचेतनतया तन्नियम्यत्वात् || ६) नन्वस्तु ज्ञानसन्ततिरात्मा | न च ज्ञानस्य भेदाभावेन सन्तत्ययोगः | घटपटादिज्ञानभेदस्य प्रत्यक्षसिद्धत्वात् | अथ सन्तानिव्यतिरेकेण सन्तानाभावात् सन्तानिनामात्मत्वं वाच्यम् | तच्च न सम्भवति | अन्यानुभूतेऽन्यस्यानुसन्धानाभावेन प्रत्यभिज्ञाद्यभावप्रसङ्गात् | अथ कथं क्षणिकविज्ञानस्यात्मत्वमिति, मैवम् | सन्तानैक्यवशेन प्रत्यभिज्ञाद्यपपत्तेः | यत्सन्तानप्रविष्टस्य हि ज्ञानस्यानुभवितृत्वं तत्सन्तानपतितस्य प्रत्यभिज्ञातृत्वम् | न च सन्तानस्यान्यस्याभावेन कथमैक्यमिति युक्तम् | वृक्षातिरिक्तस्य वनस्याभावेऽपि वनत्वस्य व्यासज्यवृत्तित्वेनैकं वनमितिवत् सन्तानत्वस्यापि व्यासज्यवृत्तितया सन्तानैक्योपपत्तेः | तस्मात्क्षणिकविज्ञानमेवात्मेति | अत्र प्रतिविधीयते | सुषुप्तौ तावज्ज्ञानसन्तानविच्छेदस्तवापि सम्मतः | अन्यथा तत्कालीनजन्यस्मरणादिप्रसङ्गात् | एवं च यत्पूर्वेद्युर्मया दृष्टं तदेवेदमिति प्रत्यभिज्ञा कथं स्यात् | पूर्वज्ञानसन्तानस्य सुषुप्तौ विच्छेदेन सन्तानैक्यस्याप्यभावात् | ननु सन्तानैक्यं मास्तु प्रयोजकम् | देहैक्यं तु भविष्यति | यद्देहसम्बन्धि ज्ञानमनुभवितृ, तत्सम्बन्ध्येव ज्ञानं प्रत्यभिज्ञात्रिति व्यवस्थोपपत्तेरिति चेन्न | त्वन्मते देहस्यापि क्षणिकत्वेन तदेकत्वस्याप्यभावात् | अथ देहसन्तानैक्यं प्रयोजकमिति मन्यसे; एवमपि बालस्याद्यप्रवृत्यनुकलजन्मान्तरानुभूत- स्मरणादेरनुपपत्तेः | तत्र देहसन्तानैक्यस्याप्यभावात् | अत एव जन्मान्तरकृतकर्मफलभोक्तृत्वमपि न स्यात्; अन्येन कृते कर्मण्यन्यस्य फलभोगासम्भवात् | ज्ञानसन्तानैक्यस्य देहसन्तानैक्यस्य वा तद्भोक्तृताप्रयोजकस्याभावात् || ७) नन्वनुभवितुः प्रत्यभिज्ञातृत्वं कर्तुश्च फलभोक्तृत्वं क्व दृष्टम् ? येन स्थायितया आत्मा स्वीकर्तव्यः स्यात् | न च स्थायित्वसिद्धेः पूर्वमैक्यस्य प्रयोजकत्वं भवता ज्ञातुं शक्यते | अतः परस्पराश्रयत्वमत्रेति चेन्न; देवदत्तादन्यस्य यज्ञदत्तादेस्तदनुभूतस्मर्तृत्वस्य तत्कृतकर्मफलभोक्तृत्वस्य चादर्शनेनैक्यस्य प्रयोजकत्वकल्पनायां स्थायित्वसिध्द्युपपत्तेः || ८) ननु सर्वस्यापि क्षणिकत्वान्न स्थायित्वमात्मनः सम्भवति | तथा हि - एकस्य कालद्वयसम्बन्धो हि स्थायित्वम् | स च न सम्भवति; एककालसम्बन्धस्यापरकालसम्बन्धाभावेन व्याप्तत्वात् | नीलस्य पीतत्वाभावेन व्याप्तिग्राहकस्य सहचारग्रहादेः सत्त्वात् | स्थायिनोऽर्थक्रियाकारित्वरूपस्य सत्त्वस्यायोगेन सतः क्षणिकत्वावश्यम्भावाच्च | तथा हि - स्थायिनोऽर्थक्रियाकारित्वं क्रमेण युगपद्वा ? नाद्यः | तस्य तावदर्थक्रियाजननसामर्थ्ये समर्थस्य विलम्बायोगेन क्रमायोगात् | असामर्थ्ये तु सुतरां क्रमासम्भवात् | न च समर्थस्यापि कालान्तरेऽपि न तज्जनकत्वमिति सहकारिसन्निधानानुसारेण क्रमेण कार्यजनकत्वं सम्भवतीति युक्तम् | सहकारिणामतिशयानाधायकत्वेऽसहकारिभ्यो विशेषाभावेनाजनकत्वात् | अतिशयाधानाभ्युपगमे अतिशयस्य बीजाद्यपेक्षयाऽतिरेकेऽनवस्थाप्रसङ्गात् | अनतिरेकेऽङ्कुरजनकस्य बीजस्य तत्कालोत्पत्तिकत्वाङ्गीकारेण क्षणिकत्वाभ्युपगमप्रसङ्गात् | नापि द्वितीयः; युगपत्तावत्कार्योत्पादनसमर्थस्य क्षणान्तरेऽपि सत्त्वे तदापि तावत्कार्योत्पत्तिप्रसङ्गात् | क्षणान्तरेऽसद्भावे त्वस्मन्मतप्रवेशात् | तस्मात्सर्वस्यापि क्षणिकत्वमेव | न चैवं स एवायं घट इति प्रत्यभिज्ञानुपपत्तिः; तस्याः तत्सादृश्यविषयकत्वकल्पनात् | स एवायं दीप इत्यादौ तथा दर्शनात् | तस्मान्न स्थायित्वमात्मन उपपद्यत इति चेन्मैवम् | प्रत्यभिज्ञाया ऐक्यविषयत्वसम्भवेन सादृश्यविषयकत्वकल्पनस्यायुक्तत्वात् | न चोक्तयुक्त्या ऐक्यविषयकत्वासम्भवः ; एकस्यापि वृक्षस्य कपिपुरुषादिनानासम्बन्धवन्नानाकालसम्बन्धोपपत्तेः, स्थायिनोऽपि सहकारिसन्निधानानुरोधेन क्रमिककार्यजनकत्वोपपत्तेश्च | न चातिशयानाधायकत्वे सहकारित्वानुपपत्तिः; तथात्वेऽप्यन्वयव्यतिरेकादिना सहकारित्वोपपत्तेः | तस्मान्न क्षणकज्ञानरूप आत्मा | ९) तदुक्तं श्रीमत्पौष्करे - ऋषयः - यद्यज्ज्ञानं भवेत्सर्वं न तच्चिच्छक्तिसम्भवम् | तत्सर्वं बौद्धमेष्टव्यं विनाशित्वेन हेतुना || ईश्वरः - तन्न बुद्धेर्जडत्वेन ज्ञानोत्पादकता कुतः | अभिव्यञ्जकसम्बन्धात्कादाचित्कतया चितः || क्षणिकत्वं तु नित्याया अपि सद्योऽनुभूयते | यावद्दीपः स्थितस्तावत् पदार्थानां प्रकाशकः || अभिव्यञ्जकहेतूनां सन्तत्यैव प्रवृत्तितः || धारावाहिकधीश्चापि क्षणिकैवानुभूयते | अत एव हि भावानां क्षणिकत्वेन संविदः || क्षणिकत्वं ब्रुवाणानामाशापीडा निवारिता | ऋषयः - सत्त्वेन क्षणिकाभावो नेष्यते किमितीश्वर || अर्थक्रियाकारिता हि सत्ता सा क्षणिकेषु च | क्रमाक्रमविभागाभ्यां स्थिरेषु तदयोगतः || विलम्बकारणायोगात्तथा स्थैर्यक्षतेरपि | अलं स्वतोऽसमर्थस्य सहकारिशतैरपि || अर्थक्रियाकरत्वेन क्षणिकत्वमवस्थितम् | ईश्वरः - क्षणिकत्वे पदार्थानां कार्यकारणताक्षतिः || कार्यकारणरूपेण भवत्कारणतां व्रजेत् | वर्तमानघटत्वेन मृत्पिण्डः कुम्भतां व्रजेत् || अतः क्षणद्वयस्थायी कार्योत्पत्तौ तु कारणम् | तयोरर्थान्तरत्वेन तदुत्पत्तौ तु कारणम् || अन्यथा समकालोऽपि भावः कस्मान्न कारणम् | द्वयोरर्थान्तरत्वेन कालभेदः कथं तयोः || कारणस्य कुतस्त्यो वा विशेषः सहकारितः | कुतो वा घटनिष्पत्तिस्तन्तुभ्यो न भवेद्द्विजाः || कार्यकारणभावोऽतः स्थिरेष्वेव व्यवस्थितः | अर्थक्रियाकरत्वं च स्थायिनां क्रमशः स्थितम् || समर्थस्य सदा कार्यकरत्वनियमेन च | अग्निर्दाहसमर्थोऽपि स्फोटेऽङ्गुलिमपेक्षते || क्रमाक्रमविभागाभ्यां दुराशा क्षणिकत्वधीः | किंच प्रागनुभूता या धीः सेयमुपजायते || क्षणिकत्वे कुतस्तस्याः प्रत्यभिज्ञा हि जायते | क्षणिकत्वं पदार्थानामथ वास्तु जडात्मनाम् || कारणत्रयमात्रं यत् सर्वकार्येष्वपेक्ष्यते | बिन्द्वादयोऽपि ये भावाः समानपरिणामिनः || ज्ञानमेव स्थिरं नित्यं जडवर्गस्य दीपकम् | तस्य क्षणिकता ज्ञेया वस्तूनां क्षणिकत्वतः || इति || (पौ पुंस्त्व प श्लो २१४-२३२) १०) श्रीमत्पराख्ये च - क्षणभङ्गे स्थिते ज्ञाने कस्य कर्मार्जनं भवेत् | न तत्कर्मफलं भोग्यं ज्ञाननाशे निरन्वये || या त्वया वासना प्रोक्ता किं नाविच्छिन्नलक्षणा | भिन्नरूपा यदा सा न तत्क्षणान्तर्गता भवेत् | तत्क्षणेन विनष्टेन सा विनष्टा भवेत्ततः | अविच्छिन्ना स्थिरा चैका नानाज्ञानसमाश्रया || श्रुत्या विचारिता युक्त्या नात्मनो व्यतिरिच्यते | जन्मान्तराङ्गसंयोगे शोकहर्षादिहास्यतः || जातिसंस्मरणेऽप्येवं प्राक्तनानुभवादितः | स्थिरत्वं तत्स्मृतेर्गम्यं स्मृतिर्नानुभवादृते || स्मर्तानुभविता स्थैर्यात्तेन ज्ञाता स्थिरो विभुः || इति || (परा प्र प श्लो ३०-३५) ११) न चैवमात्मा क्षणिकविज्ञानयोगी | ज्ञातृत्वस्य नित्यात्मधर्मत्वात् | न हि लोके नित्योऽनित्यधर्मा दृष्टः | किं च तच्च ज्ञातृत्वं विम्वात्मधर्मत्वाद्विभु, न क्वाचित्कम् | अत एवात्मा सर्वार्थदृक्क्रियः | यदि त्वस्य ज्ञातृत्वं क्वाचित्कं स्यात् तस्यात्मनो विभुत्वं भज्येत | लोके हि धर्मिणो यावती व्याप्तिस्तावती धर्मस्यापि व्याप्तिर्दृश्यते | यथा पटगतं शौक्ल्यं पटमखिलं व्याप्य तिष्ठति | एवमात्मानमपि ज्ञातृत्वं व्याप्य तिष्ठति | न च विषयासन्निधाने ज्ञानस्यानुदय इति वाच्यम् | स्वरूपस्यैव विषयत्वात् | तदुक्तं श्रीमत्पौष्करे - ज्ञातृत्वमपि तन्नित्यं धर्मत्वान्नित्यवस्तुनः | नानित्यधर्मा धर्मी स्यान्नित्य आत्मा मुनीश्वराः || तच्चेह विभुधर्मत्वान्न च क्वाचित्कमिष्यते | नित्यत्वमिव तेनात्मा स्थितः सर्वार्थदृक्क्रियः || ज्ञातृत्वमपि यद्यस्य क्वाचित्कं विभुता कुतः | धर्मिणो यावती व्याप्तिस्तावद्धर्मस्य च स्थितिः || यथा पटस्थितं शौक्ल्यं पटं व्याप्याखिलं स्थितम् | स्थितं व्याप्यैवमात्मानं ज्ञातृत्वमपि सर्वदा || न च निर्विषयं ज्ञानं परापेक्षं स्वरूपतः || इति || (पौ पशु प श्लो १००-१०४) १२) नन्वात्मनो व्यापकत्वे सिद्धे तद्धर्मस्य व्यापकता सिद्ध्येत् | न च तत्सम्भवति | देहादन्यत्रानुपलम्भेनात्मनो व्यापकत्वायोगात् | तत्राणुपरिमाण एवात्मेति पाञ्चरात्रा वर्णयन्ति - वालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते || इति || (श्वेताश्वतर - अध्याय ५, मन्त्रः ९) १३) क्षपणकास्तु प्रदीपप्रभावत्सङ्कोचविकासवानात्मा देहानुरूपपरिमाणवानिति वर्णयन्ति | पक्षद्वयमपि न सङ्गच्छते | आत्मा विभुः, देहादन्यत्र स्थितार्थग्राहकत्वात्, यन्नैवं तन्नैवं, यथा घटः | किं च आत्मा विभुः, सर्वत्रोपलभ्यमानकार्यत्वात्, इति व्यापकत्वसिद्धेः | किं च मध्यमपरिमाणत्व आत्मनो नित्यत्वं न स्यात् | यन्मध्यमपरिमाणं तदनित्यम्, यथा घट इत्यनुमानात् | तस्माद्व्योमवद्व्यापक आत्मा | तद्धर्मभूतमपि ज्ञानं व्यापकम् | तस्मात्प्रत्यक्षत एव निरस्तो वैशेषिकात्मवादः || १४) तथा चोक्तं श्रीमत्पौष्करे - ऋषयः - व्यापकत्वे ह्यणोः सिद्धे धर्मव्यापकता भवेत् | अन्यत्रानुपलब्धस्य देहाद्व्यापकता कुतः || ईश्वरः - न देहपरिमाणत्वमणूनामुपपद्यते | तस्माद्देहादतोऽन्यत्र स्थितार्थग्राहकत्वतः || किं चाभिव्यञ्जको यत्र यत्र देहेन्द्रियादिकम् | तत्र सर्वत्र तत्कार्यदृष्टेर्व्यापकतात्मनः || व्यापकोऽयममूर्तत्वाद्यथा व्योम ततस्तथा | तद्धर्मभूतं ज्ञानं च व्यापकं विषयोन्मुखम् || यन्नित्यरूपं विज्ञानं तच्च निर्विषयात्मकम् | पक्षोऽध्यक्षनिरस्तोऽयं स्वपरग्राहकत्वतः || अणोः प्रत्यात्मसिद्धत्वान्नानुमाध्यक्षबाधिका | नेह ग्राहकता बुद्धेः साधितत्वाज्जडत्वतः || किं चैतद्ग्राहकत्वं च न भेदादात्मनां स्थितम् | स्वरूपं तु ततस्तेषां ग्राहकत्वेन संस्थितेः || न ह्यंशेन पदार्थानां विचारः शोभते क्वचित् | अग्निश्शक्तिं विना कीदृगिति चिन्ता न कुत्रचित् || स्वपरग्राहकस्तस्मात्सर्वदात्मा व्यवस्थितः || इति || (पौ पशु प श्लो १०५-११३) अन्यत्र - व्यञ्ज्कं यत्र यत्र स्याच्छरीरं तत्र तत्र तु | भोगार्थं स्याद्गुणव्यक्तिर्व्यापित्वं तेन गम्यते || इति च || १५) न च साङ्ख्योक्तरीत्या आत्मनामज्ञातृत्वम्; तेषामर्थग्राहकत्वस्य दर्शनात् | न च वाच्यमात्मनो ज्ञप्तिमात्रत्वेऽपि महत्तत्त्वापरपर्यायस्य बुद्धितत्त्वस्य ज्ञातृत्वमिति | तस्य जडत्वेन ज्ञानाभिव्यञ्जकत्वात् | किं च आत्मा स्वपरप्रकाशकोऽनुभूयते | परप्रकाशकत्वं च ज्ञातृत्वमात्मन एव गुणः | बुद्ध्या ऐक्यमापन्नस्यात्मनो ज्ञातृत्वमिति वाच्यम् | बुद्ध्यैक्यसाधकस्याध्यासस्यैवासिद्धेः | किंचाध्यासस्यापि परत्र पूर्वदृष्टावभासत्वेनात्मव्यतिरिक्तस्य ज्ञातृत्वं वक्तव्यम् | तच्च न सम्भवति | बुद्धेर्जडत्वेन ज्ञातृत्वाभावस्योक्तत्वात् | अथ चित्प्रतिबिम्बत्वेन बुद्ध्यादेर्ज्ञातृत्वं, तर्हि बुद्धिरपि चेतना स्यात् | किं च चिद्रपस्य प्रतिबिम्बनमेव न सम्भवति | बुद्धेर्हि परिणामिनो जडस्य प्रतिबिम्बनम् | तस्मात् बुद्धावात्मनः प्रतिबिम्बनं वक्तुं न युज्यत इत्यध्यासेनात्मनः कर्तृत्वं बुद्धिपरिकल्पितम् || १६) तथा चोक्तं श्रीमत्पौष्करे - ज्ञाता चायं न तु ज्ञप्तिमात्रोऽर्थग्राहको यतः | ऋषयः - ज्ञप्त्यात्मैवायमुद्दिष्टो ज्ञातृत्वं महतो मतम् || महानध्यवसायात्मा तन्त्रेऽप्यस्मिन्महेश्वर | ईश्वरः - सर्वे ज्ञातार एवेह दृश्यन्ते प्राणिनः सदा || न बौद्धमेतज्ज्ञातृत्वं युक्तं तस्या जडत्वतः | किं तु बुध्यादिभिर्ज्ञानं व्यज्यतेऽत्र सदैव हि || किं चानुभूयते ह्यात्मा स्वपरात्मप्रकाशकः | परप्रकाशकत्वं च नित्यं नित्यगुणो यतः || ज्ञातृत्वं नैतदद्यासकृतं भवितुमर्हति | अन्यत्र दृष्टधर्माणामन्यत्राध्यास इष्यते || आत्मेतरस्य ज्ञातृत्वासिद्धेर्नाध्यास इष्यते | अथ चित्प्रतिबिम्बेन बुद्ध्यादेर्ज्ञातृता भवेत् || तर्हि चित्प्रतिबिम्बेन बुद्ध्यादिरपि चिद्भवेत् | न चेतनो यतो बुद्धौ चिद्रूपः प्रतिबिम्बितः || न चायं प्रतिबिम्बोऽपि चिद्रूपस्यात्मनो मतः | जडे जडस्य सङ्क्रान्तिर्युज्यते परिणामिनः || बुद्ध्यादेः प्रतिबिम्बोऽपि न स्यादात्मन्यसम्भवात् | अन्योन्याध्यासवादोऽयं कुदृष्टिपरिकल्पितः || इति || (पौ पशु प श्लो ९१-९९) १७) नन्वात्मभेदे किं मानम् ? प्रत्यक्षमिति चेन्न; तस्यामूर्तद्रव्यत्वेन बाह्येन्द्रियाविषयत्वात् | नाप्यहं सुखी अहं दुःखीत्यादिमानसप्रत्यक्षेणात्मभेदसिद्धिः | तत्प्रत्ययस्य भेदप्रयोजकत्वाभावात् | न च आत्मानः परस्परं भिन्नाः, परस्परविरुद्धधर्माश्रयत्वात्, दहनतुहिनवदित्यनुमानं मानमिति वाच्यम्; परस्परविरुद्धधर्माणां तदवच्छेदकोपाधिपरिकल्पिततया आत्मनिष्ठत्वाभावाद्धेतोरसिद्धेः | न ह्येकस्मिन् घटाकाशे रजोधूमादिभिर्युज्यमाने मठाकाशादयोऽपि युज्यन्ते | तस्मात्परिदृश्यमानस्य भेदस्यौपाधिकतयात्मभेदः कथमिति चेत्, उच्यते - आत्मानो भिन्नाः, परस्परविरुद्धजन्ममरणादिधर्मवत्त्वात्, यदेवं तदेवं, यथा घटपटादि | न चात्मनां जन्माद्यभावेन हेतोरसिद्धिः | देहादेरेव जन्माद्यपगमे तत्र चैतन्यमेव न दृश्यते | अतश्चैतन्ययुक्त एव देहादिरुत्पद्यते || १८) ननु नित्यस्य चैतन्यस्य कथमुत्पत्तिः ? यथा तव नित्यानां देहेन्द्रियादीनामुत्पत्तिस्तथात्मनोऽपि सम्भवति | अथैवंरूपेण दहेन्द्रिया दयो न नित्याः, किं तु कारणात्मनेति ब्रूषे तदा ममाप्यात्मानोऽवच्छिन्नरूपेणोत्पत्यादिमन्तः, अनवच्छिन्नास्तु नित्या इति सिद्धमुत्पत्तिलयधर्मकत्वमात्मनाम् | ननु यथा उत्पत्त्यादयो धर्माः कुम्भकलशोदञ्चनादीनां, न तु तदवच्छिन्नस्याकाशस्य | एवमुत्पत्त्यादयो धर्मा देहादीनामेव | न तु तदवच्छिन्नस्यात्मन इति चेन्न; आत्मधर्मस्यैव भोजनगमनादिविषयकस्येच्छादेर्भिन्नत्वे- नैवात्मभेदसिद्धेः | न च तस्याप्यौपाधिकत्वम्; तस्यात्मनो रूपं दृक्क्रियानन्त्यलक्षणम् इति लक्षणाभिधानात् | न च भिन्नतया मेयत्वेनात्मनां मातृत्वं न सिद्ध्येदिति वाच्यम् | मेयत्वमातृत्वयोर्विरोधाभावात् | अन्यथा आत्मानां मेयत्वायोगेन शिवस्य सर्वज्ञत्वं भज्येत | किञ्चैकस्य मुक्तौ सर्वेषां मुक्तिः प्रसज्येत | न चेष्टापत्तिः | प्रपञ्चस्य युगपद्विनाशप्रसङ्गात् | तथाच मोक्षे यत्नोऽपि विफलः स्यात् | तस्माद्भिन्ना एवात्मानः || १९) तथा चोक्तं श्रीमत्पौष्करे - ऋषयः - आत्मानो बहवः प्रोक्ता बहुत्वं केन गम्यते | नाध्यक्षगम्यं तत्तावन्नानुमाविषयं ततः || भेदस्य मेयधर्मत्वान्माता मेयः कथं भवेत् | न हेतुसाधनाभावोऽप्यात्मभेदोपपादकः || सोपाधिकात्मधर्मस्य भेदात्सोपाधिकान्तरे | यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते || न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः | तस्मादेकात्मभावेऽस्मिन् परिहारो विधीयताम् || ईश्वरः - आत्मानो बहवो जन्ममरणादिविभेदतः | जन्मनाशादयो धर्मा दृश्यन्ते भिन्नवस्तुषु || ततस्तु जन्मनाशाद्या आत्मनो भेदकाः स्थिताः | न देहस्यैव जन्माद्या देहाद्यैः सह चात्मनाम् || देहादेर्यदि जन्माद्या न स्याच्चैतन्यदर्शनम् | तद्देहे जातबालानामपि चैतन्यमिष्यते || चैतन्येनावियुक्तः सन् देहादिरुपजायते | जन्मादिभेदवन्तोऽतो देहाश्चिद्भेदसाधकाः || चैतन्यस्येह नित्यस्य कथं जन्मेति चेन्मतिः | अत्यल्पमिदमेते च नित्या देहेन्द्रियादयः || नासतो विद्यते भावो नाभावो विद्यते सतः | तस्मादेकात्मवादोऽयं कल्पितो मूढचेतनैः || ऋषयः - अथाकाशं यथा कुम्भकलशोदञ्चनादिषु | एकमेव स्थितं तद्वद्देहेष्वात्मा व्यवस्थितः || ईश्वरः - तच्चैकरूपमाकाशं नैवं चैतन्यमिष्यते | भोक्तुमिच्छा यदैकस्य गन्तुमिच्छापरस्य च || तदेवमात्मचैतन्यं भिन्नरूपमिव स्थितम् | यद्यभिन्नं तु सर्वेषां भोक्तुमिच्छैकदा भवेत् || ऋषयः - सोपाधिकात्मधर्मस्य भेदादिति ननूदितम् | ईश्वरः - अणोरभेदे संसिद्धे तथा वक्तव्यमग्रजाः || युक्तिभिः साधिते भेदे नासिद्धिस्वीकृतिः शुभा | अत एव घटाकाशे रजोधूमादिभिर्युते || न सर्वे सम्प्रयुज्यन्ते यथान्ये तन्न दूषणम् | भेदस्य मेयधर्मत्वादिति यच्चोदितं पुरा || स च हेतुरसिद्धोऽत्र मेयामेयार्थयोर्धृतः | भेदोऽप्युभयनिष्ठः स्यान्न च मातुरमेयता || शिवस्य मेया ह्यात्मानो न चेत्सर्वज्ञताक्षतिः || इति || (पौ पशु प श्लो ७४-९१) अन्यत्र - स्थितायां सर्वतो मुक्तौ भवोच्छेदः प्रसज्यते | न चास्ति स भवोच्छेदस्तेन ते बहवो मताः || इति || २०) एवं चात्मनो देहाद्यन्यत्वनित्यत्वचिद्रपत्वकर्तृत्वनानात्वानि च सिद्धानि | सर्वज्ञत्वमपि स्वतः सिद्धम् | किञ्चिज्ज्ञत्वं तु मलरूपकारणात् | तदुक्तं तत्रैव - अणोः प्रत्यक्षसिद्धत्वान्नानुमाध्यक्षबाधिका | नेहा ग्राहकता बुद्धेः साधितत्वाज्जडत्वतः || किं चैतद्ग्राहकत्वं च न भेदादात्मनां स्थितम् | स्वरूपं तु ततस्तेषां ग्राहकत्वेन संस्थितिः || न चांशेन पदार्थानां विचारः शोभते क्वचित् | ----------------------------------------------------------- तद्वत् स्वतोऽमी सर्वज्ज्ञाः किञ्चिज्ज्ञत्वं तु कारणात् | निरुद्धं येन सार्वज्ञ्यं स मलः परिपठ्यते || इति || (पौ पशु प श्लो ११०-११२, ११४) २१) नन्वयं साकारो निराकारो वा ? आद्येऽपि दृश्याकारो वा दृश्यादृश्याकारो वा ? नाद्यः | देहमध्येऽन्यस्यादर्शनात्; न द्वितीयः; दृश्यादृश्यत्वयोरेकत्र विरोधात् | काष्ठाग्निवच्छाखाचन्द्रवच्चोभय- मपि कालभेदेन सम्भवतीति चेत्, न; तद्वदेव कदाचिददर्शनप्रसङ्गात् | नापि तृतीयः; सूक्ष्मशरीराव्यतिरेकप्रसङ्गात् | नापि निराकारः; तत्संबन्धेन शरीरे चेष्टाद्ययोगात् | न ह्याकाशसंयोगेन कुत्रचिच्चेष्टा भवति; चेष्टावत्संयोगस्यैव दृतिप्रभृतिषु चेष्टाजनकत्वदर्शनात् | किं चात्मनश्चिद्रूपत्व इन्द्रियाणां वैयर्थ्यमापतेत् | न हि चितो ज्ञातृत्वेऽचित्साहित्यमपेक्ष्यत इति युक्तम् | अपि चात्मनो व्यापकत्वे ललाटादिनियतदेशवृत्तित्वायोगेनावस्थापञ्चकानुपपत्तिप्रसङ्ग इत्यनुपपत्तिपराहृतमात्मस्वरूपमिति; उच्यते - निराकार एवायमात्मा | न चैवं शरीरे चेष्टानुपपत्तिः; क्रियाशक्त्या तदुपपत्तेः न च तस्याः सर्वदा सद्भावेन चेष्टापि सर्वदा स्यादिति वाच्यम्; तस्या आणवावृतत्वेनासत्कल्पतयाभिव्यञ्जकबुद्धिवृत्तिरूपसंरम्भसापेक्ष -तया कार्यस्य कादाचित्कत्वोपपत्तेः | न चैवं संरम्भ एव चेष्टाप्रयोजकोऽस्तु, किं क्रियाशक्त्येति वाच्यम्; संरम्भमात्रस्य जडधर्मतया चेष्टाप्रयोजकत्वानुपपत्तेश्चेतनशक्तेरावश्यकत्वात्- संरम्भोत्पादनाय क्रियाशक्तेरावश्यकत्वाच्च | ज्ञानक्रिययोर्मूर्तित्वोपचारेण मूर्तिमानपि भवति | एवमात्मनश्चिद्रूपत्वेऽपि नेन्द्रियापेक्षानुपपत्तिः | चैतन्यशक्तेर्मलावृतत्वेन तदभिव्यक्तये बुद्धिरूपबोधोत्पादनाय तदपेक्षोपपत्तेः | बुद्धिवृत्तेर्जडत्वेन तदभिव्यक्तचिच्छक्तेरेव प्रकाशकत्वात् | एवं व्यापकत्वेऽप्यस्य न काप्यनुपपत्तिः | जाग्रदाद्यवस्थापरिकरस्य ललाटादिवृत्तित्वेन तदवच्छिन्नस्यापि ललाटादिनियतदेशकत्वोपपत्तेः | सूक्ष्मदेहस्य गतिमत्त्वेन तदवच्छिन्नस्य सकलावस्थस्य परलोकगत्याद्युपपत्तेश्च || २२) तथा हि - आत्मनस्तिस्रोऽवस्थाः | केवलावस्था, सकलावस्था, शुद्धावस्था चेति | तत्र यदा द्विविधेन देहेन प्राणेन्द्रियान्तःकरणैश्च विनाकृतोऽत एवाभिव्यञ्जकविधुरतयाणवावतसङ्कल्पज्ञानक्रिया- शक्तिः किमप्यबुध्यमान आस्ते तदा केवलावस्था | यदा सूक्ष्मदेहेनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमय- कोशैश्चावच्छिन्नस्तदा सकलावस्था | यदा कर्मसाम्ये तन्नियतशक्तिनिपाते च सति गुरुकृपावशाच्छिवानन्दाभिव्यक्तेर्मलत्रयनिवृत्त्या शिवैक्याभिव्यक्तिस्तदा शुद्धावस्था | तत्र सकलावस्थातः केवलावस्थाप्राप्तिसमयेऽवस्थाभेदः पञ्चविधः | नादादिपृथिव्यन्तषट्त्रिंशत्तत्त्वैः सह यदा ललाटस्थः सर्वान् विषयाननुभवति तदा सप्रतिभा जाग्रदवस्था | सैव सकलावस्था | विषयभोजकादृष्टाभावेन प्रेरकाणि शुद्धानि पञ्चतत्त्वानि भोजयितृकाणि सप्ततत्त्वानि पञ्चमहाभूतानि च; एतेषु सप्तदशसूपरतेषु श्रोत्रादीनि पञ्च, वागादीनि पञ्च, मनोबुद्ध्यहङ्कारचित्तानि चत्वारि, शब्दादीनि पञ्च, तात्त्विकानि वचनादीनि पञ्च, प्राणादीनि दश चेत्येतैः सह क्षेत्रज्ञनामक आत्मा पञ्चत्रिंशो यदा मुखे तिष्ठन्नपि प्रेरकभोजयितृकाण्डयोर्निर्व्यापारत्वेनाणवातिशयाज्जाग्रन्नपि विषयान् सम्यङ्न जानाति तदा अप्रतिभा जाग्रत् | सूक्ष्मदेहभोगनिमित्तानि शब्दादीनि पञ्च, वचनादीनि पञ्च, प्राणादीनि दश, मनोबुद्ध्यहङ्कारचित्तानि चत्वारि, एतैः सह पञ्चविंशकः क्षेत्रज्ञनामक आत्मा यदा कण्ठे स्थितो व्यावहारिकविषयान्विहाय तात्कालिकप्रतिभासिकविषयाननुभवति तदा स्वप्नावस्था | स्थूलसूक्ष्मदेहभोगान् त्यक्त्वा यदा हृदये चित्तप्राणवायुभ्यां सह तृतीय आत्मा तिष्ठति तदा सुषुप्त्यवस्था | यदा नाभिस्थाने प्राणवायुना द्वितीय आत्मा तिष्ठति तदा तुरीयावस्था | यदा तु मूलाधारे तत्त्वतात्त्विकादीन् सर्वान्विहाय आत्मैवैक आणवावृतस्तिष्ठति तदा तुर्यातीतावस्था | सैव नित्यकेवलावस्थेत्यादिना केवलावस्था चतुर्विधा || २३) ननु महाप्रलये तत्त्वातात्त्विकादीनां सर्वेषां लीनत्वादात्मनः केवलत्वेनावस्थानं सम्भवतु; इदानीं तत्त्वानामाप्रलयावस्थायिनां विभोरात्मनश्च सत्त्वेऽपि कथं तत्तद्व्यापाराभाव इति चेत्, सत्यं, अग्नेरयसश्च सत्त्वेऽपि संयोजकपुरुषव्यापाराभावाद्यथायसो न दाहक्त्वं तथा विद्यमानानामपि तत्त्वानां भोजकादृष्टाभावप्रयुक्तायाः शिवशक्तिप्रेरणाया अभावान्न विषयभोजकत्वम् | तदुक्तं - अयसाग्नेर्यथा योगो वियोगोऽग्नेर्यथायसा | तत्त्वानामात्मनश्चैव शक्त्या कर्मवशाद्भवेत् || इति || २४) अथ निर्मलजाग्रदाद्यच्यते - अकारोकारकारबिन्दुनादाधिष्ठातृशिवशक्तियोगेन निर्मलान्तःकरण आत्मा हृदये तिष्ठन् सर्वं दृश्यमानं प्रपञ्चं शिवाकारतया वैषयिकसुखं च स्वरूपानन्दतयानुभवति तन्निर्मलजाग्रत् | जाग्रदवस्थाकारणस्याकारस्योकारे वाह्यविषयग्राहकस्य मनसश्चाहङ्कारे लये सति अहङ्कारादिचतुष्टयस्योकारादिचतुष्टयेन सह कण्ठे सोहम्भावनयावस्थानं निर्मलस्वप्नः | स्वप्नावस्थाकारणस्योकारस्य मकारे अहमित्यभिमानकारणस्याहङ्कारस्य च बुद्धौ लये सति बुद्ध्यादित्रयस्य तत्प्रेरकस्यमकारादित्रयस्य च सुषुप्तिस्थानभूततालुमूले देहेन्द्रियवृत्तिरहितवाचामगोचरज्ञेयज्ञातृज्ञानत्रिपुटीरूपेणावस्थान् अं निर्मलसुषुप्तिः | सुषुप्त्यवस्थाकरणमकारस्य बिन्दौ निर्णायकबुद्धेश्च चित्ते लये सति चित्तसहितात्मनो बिन्दुनादाभ्यां सह तुर्यावस्थास्थानभूते भ्रूमध्ये बाह्यान्तःकरणव्यापारराहित्येन ज्ञप्तिमात्रेणावस्थानं निर्मलतुरीयम् | तुर्यावस्थाकारणबिन्दुनादयोः कुटिलायां चित्तस्य च प्रकृतौ लये सति तुर्यातीतावस्थास्थानब्रह्मरन्ध्र आत्मनोऽन्तर्बहिर्व्यापितयैकस्यैव तिष्ठतोऽखण्डाकारसच्चिदानन्दाद्वयपरिपूर्णशिवानन्याभिव्यक्तिः, सैव निर्मलतुर्यातीतम् | तदेव शुद्धावस्था | २५) तदुक्तं सिद्धान्तसारावल्याम् - बाह्यान्तःकरणैरणोः स्वविषयज्ञानं तु जाग्रत्ततः स्वप्नोऽन्तःकरणस्थवृत्तिविषयज्ञानं सुषुप्तिः परम् | देहे त्विन्द्रियवृत्तिहीनमवचोग्राह्या मतिस्तुर्यकं देहाक्षोपरतौ स्वचिन्मतिरथातीतं शिवत्वोदयः || इति || (सि सा - योगपादे श्लो ८) सिद्धान्तबोधे च - जाग्रत्कारणमेवार्णयोगसंवेदनं हृदि | उभयेन्द्रियवृत्त्याथ लीनमाकारवेदनम् || स्वप्नोऽन्तःकरणैरेव केवलैर्गलदेशतः | पूर्वविषयाख्याणुयोगेन संवेदनं यदा || लीनान्तकरणं वृत्तेः सुषुप्तिस्तालुदेशतः | बुन्दूदयस्तु तुर्यं तु भ्रूमध्ये व्यतिरेकतः || कार्यकारणयोरत्र वृत्त्यार्थादेश्च सङ्ग्रहः | सर्वार्थदृक्क्रियावृत्तिहेतोर्नादस्य वेदनम् || तुर्यातीता च रन्ध्रोऽत्र दण्डान्तादेश्च सङ्ग्रहः || इति || २६) तदेवमवस्थाभेदोपेतो मलसम्बद्धचिद्रूपो व्यापकः पश्रुरिति सिद्धम् ; एष च पशुरूपाधिभेदेन त्रिविधः सकलः प्रलयाकालो विज्ञानाकलश्चेति | तत्र सकलो नाम मलोपरुद्धदृक्छक्तित्वे सति तत्प्रसाराय कलादिमत्त्वे सति भोगाय कर्मसम्बद्धः | प्रलयाकलो नाम प्रलये उज्झितकलत्वे सति दीक्षया प्रायश्चित्तेन भोगाद्वा अशुद्धाध्वविषयकर्मपरिक्षयवत्त्वे सति भोक्ष्यमाणमिश्राध्वकर्मणा स्ववशीकृतकलासम्बन्धवान् | विज्ञानाकलो नाम विज्ञानादिना सर्वकर्माणि कलाश्च विहाय दृक्क्रियावरकाणवमलमात्रयुक्तो विज्ञानकेवलः | २७) तथा चोक्तं श्रीमत्पौष्करे - पशवस्त्रिविधा ज्ञेयाः सकलः प्रलयाकलः | विज्ञानाकल इत्येषां शृणुध्वं लक्षणं क्रमात् || मलोपरुद्धदृक्छक्तिस्तत्प्रसृत्यै कलादिमान् | भोगाय कर्मसम्बन्धः सकलः परिपठ्यते || प्राग्वन्निरुद्धदृक्छक्तिः कर्मपाकात्कलोज्झितः | कर्मणैष्यत्कलायोग्यो यस्स च प्रलयाकलः || मलोपरुद्धशक्तित्वाच्छून्यकल्पस्वदृक्क्रियः | तृतीयः पठ्यते तन्त्रे नाम्ना विज्ञानकेवलः || इति || (पौ पशु श्लो २-५) २८) तत्र सकलानामवस्थानमशुद्धमायाधोभागेऽशुद्धाध्वनि | प्रलयाकलानां तु अशुद्धमायामध्यभूतमिश्राध्वनि | विज्ञानकेवलानामशुद्धमायोपरि शुद्धविद्याधोभागे | एतच्चावस्थानं विभुत्वेऽप्युपाधिवशाल्लक्ष्यते | तदुक्तं तत्रैव - मायादावुदरे चान्ते क्रमेणैषां व्यवस्थितिः | अवस्थानं च बन्धेन लक्ष्यतेऽणोर्विभुत्वतः || इति || (पौ पशु प श्लो ६) २९) ननु विज्ञानकेवलानां मलमात्रावृतत्वेन मलस्य च व्यापकतया एकदेशे मायान्ते कथमवस्थानम् ? उच्यते - अशुद्धमायाया भुक्तत्वेन तत्रेच्छाभावाद्भोक्ष्यमाणशुद्धमायायाश्च वुभुक्षितत्वेऽपि तत्प्रापकशिवेच्छाया अभावात्तयोर्मध्येऽवस्थानमित्युक्तम् | ते च शिवेच्छया शुद्धाध्ववर्तिनो भवन्ति | तद्वर्तिनामपि तेषां न सकलत्वम् | किं तु शिवेच्छया अधिकारमलसहितत्वेन केवलं विज्ञानकलत्वमेव | विज्ञानरूपा कला येषामिति विज्ञान कलाः || ३०) तथा चोक्तं श्रीमत्पौष्करे - ॠषयः - विज्ञानकेवलाणूनां बन्धस्तु मल एव हि | मलस्य व्यापकत्वेन मायान्ते संस्थितिः कथम् || ईश्वरः - भद्रं विप्रा महाप्राज्ञाः शुद्धाध्वा यः पुरोदितः | भोक्ष्यमाणतया तस्य भुक्तत्वेनेतरस्य च || अर्थादेव स्थिता मध्ये प्रोक्ता विज्ञानकेवलाः | विज्ञानकेवलाः साक्षात्त एव मुनिपुङ्गवाः || शुद्धाध्ववर्तिनः पश्चाद्भविष्यन्ति शिवेच्छया | अणोर्नियामकत्वेन मायावच्छुद्धवर्त्मनः || तद्वर्तिनो न सकलाः किं तु विज्ञानकेवलाः | अधिअकारमलोपेताः शिवेच्छानुमताः सदा || इति || (पौ पशु प श्लो ७ - ११) ३१) तेषां मायाकर्मराहित्ये हेतुरपि तत्रैवोक्तः - विज्ञानकेवलानं तु सिद्ध्यै युक्तिरिहोच्यते | कलातत्त्वान्तरोधिन्या दीक्षया ज्ञानतोऽपि वा || योगेन भोगतो वाथ सन्न्यासाद्वा परिक्षये | कर्मणां तु तदायत्तमायायाश्च परिक्षयात् || मल एकोऽवशिष्टः स्यात्तस्माद्विज्ञानकेवलाः | बौद्धादिदृष्टिमुक्तानां कैवल्यमपि नेष्यते || यतस्तद्बुद्धितत्त्वोर्ध्वकर्मणामपरिक्षयः | सकला एव ते ज्ञेयाः कलायोगो यतः स्थितः || एवमेवाणवो युक्तिसिद्धाः प्रलयकेवलाः | तत्त्वानामुपसंहारे प्रलयात्कर्मणोऽथ वा || त्यक्तसूक्ष्मबहिर्देहा एष्यद्भोगनिबन्धनैः | अपक्वैः कर्मभिर्युक्ता इष्यन्तां प्रलयाकलाः || सकलास्तु कलायोगात् सूक्ष्मा स्थूला च सा द्विधा | प्रतिपुंनियतं तत्त्वं कलाद्यवनिपश्चिमम् || इति || (पौ पशु प श्लो १२-१८) ३२) विज्ञानकेवलाश्च प्रशान्तकलुषा अप्रशान्तकलुषाश्चेति द्विविधाः | तेषु कांश्चन मलपरिपाकं निरीक्ष्यैव शिवः शुद्धाध्वन्यधिकारे योजयति | कांश्चिद्भोगाख्ये तत्त्वे योजयति | तत्र योजिताश्च तेऽभीप्सितविविधभोगान् भुञ्जानाः पत्युरिच्छयाधिकारेषु प्रवर्तन्ते | ये त्वीश्वरतत्त्वं प्रापिता अधिकारगुणोपेता महान्तश्चक्रवर्तिनो यथापूर्वगुणोत्तरा अष्टावनन्ताद्या विद्येश्वराः | केचन पुनर्विद्याख्यं तत्त्वं प्राप्ताः सप्तकोटिमहामन्त्राः | एतेषां मध्ये यस्य स्वाधिकारे वैराग्यं जायते तं मलपरिपाकानुगुण्येनैवेश्वरोऽनुगृह्य परमां मुक्तिं प्रापयय सादाख्यतत्त्वगतानां पदे ईश्वरतत्त्वगतन्, ईश्वरतत्त्वगतानां पदे विद्यातत्त्वगतान्, तत्रत्यानां पदे मायामस्तकगतांश्च योजयति | ३३) तदुक्तं श्रीमत्पौष्करे - इच्छयैवानुगृह्यादौ शिवो विज्ञानकेवलान् | मलपाकमपेक्ष्यैव कांश्चिच्छुद्धाध्वगोचरे || योजयत्यधिकारेषु कृत्वा दृक्क्रिययोत्कटान् | तत्त्वे भोगाह्वये चान्यान् योजयत्यीश्वराह्वये || अन्यान् विद्याह्वये तत्त्वे सर्वज्ञान्बलशालिनः || सदाशिवगुणोपेता भोगाख्यं तत्त्वमाश्रिताः | मनोऽभिलषितान्भोगान्भुञ्जाना विविधानपि || पतिकृत्याधिकारेषु प्रवृत्ताः पत्युरिच्छया | ये प्राप्तास्तत्त्वमैशानं विशेषेण क्रियाधिकाः || अधिकारगुणोपेता महान्तश्चक्रवर्तिनः | अष्टावनन्तसूक्ष्माद्या यथापूर्वं गुणाधिकाः || अतिसौन्दर्यलावण्या अक्षीणमनसः सदा | विद्याविद्याद्वयं प्राप्ताः सङ्ख्यया सप्तकोटयः || प्रशान्तकलुषाः सर्वे महात्मानोऽमितौजसः | एतेषां यस्य वैराग्यमुपजातं महात्मनः || किमेतेनाधिकारेण श्रेयसः परिपन्थिना | इति तं परमेशानो मलपाकमपेक्ष्य सः || स्वेच्छयैवानुगृह्णाति मुक्तिव्यक्त्यर्थया दृशा | ततो मुक्त्यर्थमासन्नं कनिष्ठं तत्पदे विभुः || नियुनक्त्यनुगृह्यान्यं तत्पदे नियुनक्त्यपि || इति || (पौ पशु प श्लो ४९- ५८) ३४) एवं प्रलयाकला अपिद्विविधाः | पक्वमला अपक्वमलाश्चेति | तत्र शिवः पक्वमलाननुगृहा तेभ्यो भुवनपतित्वं ददाति | प्रलयकालेषु अपक्वमलाः प्राकृतभोगकर्मवशात्पुर्यष्टकदेहयुताश्च सकला भवन्ति | तदुक्तं तत्रैव - स्वेच्छयैवानुगृह्णाति प्रलयाणूनपीश्वरः || इति || (पौ पशु प श्लो १९) अन्यत्र च - प्रलयाकलेषु येषां पक्वे मलकर्मणि व्रजन्त्यन्ये | पुर्यष्टकदेहयुक्तां योनिषु निखिलासु सूक्ष्मकर्मवशात् || कांश्चिदनुगृह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम् || इति || ३५) सकला अपि त्रिविधाः; सांसिद्धिकवैनयिकप्राकृतभेदात् | तत्र सांसिद्धिको नाम पूर्वजन्मनि कृतश्रवणमनननिदिध्यासनोऽनिष्पन्नशिवसाक्षात्कारस्तदर्थं शुकवामदेवजडभरतादिवत्परिगृहीतदेहोऽविच्छिन्ननिदिध्यासनवास- नया शिवावानुग्रहाच्छिवसाक्षात्कारवान् | वैनयिको नाम गुरौ विनयशीलः सन् दीक्षां लब्ध्वा मनोवाक्कायिकशिवधर्मैः शुद्धः लौकिकशिवशास्त्रयोः परिज्ञानवान् | तदनुग्रहप्रकारं दीक्षापरिच्छेदे वक्ष्यामः | प्राकृतो नाम स्वप्नज्ञानवत् ज्ञाताज्ञातबोधः प्रकृतिजन्यदेहेन्द्रियादिष्वात्माभिमानवान् | तदुक्तं श्रीमृगेन्द्रे - विशिष्टधर्मसंस्कारसमुद्दीपितचेतसाम् | गुणः सांसिद्धिको भाति देहापायोऽपि पूर्ववत् || लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः | सम्मार्जितो वैनयिको मनोवाक्तनुचेष्टया || प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवान् || इति || (प्र १०, श्लो २६-२८) ३६) अस्य च सकलस्य बन्धमोक्षप्रकाराववस्थाभेदश्च श्रीमत्किरणे प्रतिपादितः | गरुडः - यद्येवं स पशुस्तावत् कीदृशो बद्ध्यते कथम् | मुच्यते कथमाख्याहि सन्देहविनिवृत्तये || भगवानुवाच - पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणोऽप्रभुः | व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः || तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला | तयोद्बलितसामर्थ्योऽविद्यादर्शितगोचरः || रागेणरञ्जितश्चापि प्रधानेन गुणात्मना | बुद्ध्यादिकरणानीकसम्बन्धाद्बध्यते पशुः || ततो नियतिसंश्लेषात्स्वार्जिते विनियम्यते | कालेन कालसङ्ख्यानकार्यभोगविमोहितः || एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देह संयुतः | मायाभोगपरिष्वक्तस्तन्मयः सहजावृतः || ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः | समे कर्मणि संज्ञाते कालान्तरवशात्ततः || तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा | सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः || शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा | एवं क्रमेण बद्धः स मुच्यते क्रमयोगतः || केवलः सकलः शुद्धस्त्र्यवस्थः पुरुषः स्मृतः | मलिनत्वाच्चितेर्मोक्षः प्राप्यते निर्मलाच्छिवात् || पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि || इति || (किर पशु प श्लो १४-२४) ३७) एतद्भेदोपाधिभूतमलमायाकर्मणां लक्षणं पाशपटले वक्ष्यते | नन्वात्मनि सिद्धे तद्भेदो युज्यते | तत्सद्भावे किं मानम् ? उच्यते; चेष्टमानो देहादिश्चेतनाधिष्ठितो भवितुमर्हति, जडत्वात्, घटवत्; एवं च जडप्रवर्तकत्वेनात्मा सिद्धः | यथा वा ईश्वरकर्तृकं तनुकरणभुवनादिकं कस्यचिदुपभोगाय भवितुमर्हति, जडत्वात्; न चेश्वर एव तदुपभोक्ता, तस्यावाप्तसकलकामत्वात् | नापि भुवनादिकमपि तदुपभोक्तृ; स्वस्यैव भोग्यभोक्तृत्वासम्भवात् | न च वैयर्थ्यम् ; प्रेक्षावत्कार्यत्वात् | तस्मात्पारिशेष्याज्जडेश्वरयोरन्येन तदुपभोक्त्त्रा भवितव्यम् | स चात्मेति सिद्धम् | ३८) तदुक्तं श्रीमत्पौष्करे - ऋषयः - सत्यात्मनि च संसिद्धे प्राक्प्रोक्तं सफलं भवेत् | तत्सद्भावे ततः शम्भो ! प्रमाणमभिधीयताम् || ईश्वरः - प्रवर्तमानो देहादिश्चेतनाधिष्ठितः सदा | स्वतः प्रवृत्तिशून्यत्वाज्जडत्वेन घटादिवत् || यस्तु प्रवर्तकः सोऽयमात्मेति परपठ्यते || इति || (पौ पशु प श्लो ५९-६१) ३९) श्रीमन्मृगेन्द्रे च - कार्यं क्षित्यादि कर्तेशस्तत्कर्तुंर्नोपयुज्यते | न स्वार्थमप्यचिद्भावान्नानर्थ्यं कर्तृगौरवात् || परिशेष्यात्परार्थं तत् क्षेत्रज्ञः स परस्तयोः | परो देहस्तदर्थत्वात् परार्थाः क्ष्मादयो ननु || कायोऽप्यचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते | चेतनश्चेन्न भोग्यत्वाद्विकारित्वाच्च जातुचित् || भोग्या विकारिणो दृष्टाश्चिद्विहीनाः पटादयः || इति || (मृ प्र ६ श्लो. २-५) इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयोगीन्द्र- ज्ञानशिवाचार्यविरचितायां शैवपरिभाषायां पशुपदार्थनिरूपणं नाम तृतीयः परिच्छेदः || चतुर्थः परिच्छेदः १) अथ पाशपदार्थो निरूप्यते | तत्र पाशत्वं नाम शिवानन्दाभिव्यक्तिविरोधित्वम् | तच्चाणवमलस्याच्छादकतया, तिरोधायकशक्तेस्तु तच्चोदयितृत्वेन, बिन्दुमायाकर्मणामपि भोगभोग्यसम्पादनद्वारा वैषयिकसुखादिजनकत्वेन च बोध्यम् | अयं च पाशः पञ्चविधः | आणवं तिरोधायकशक्तिर्बिन्दुर्माया कर्म चेति | तत्र चत्वारः पदार्था जडरूपाः | तिरोधायकशक्तिस्तु चिद्रूपापि पाशानुग्राहकत्वात् पाश इत्युपचर्यते | तत्राणवत्वं नाम आत्मनो दृक्क्रियारोधकत्वम् | अस्य चाणवत्वोक्तिर्विभोरात्मनोऽणुत्वसम्पादनात् | २) नन्वस्य सद्भावे किं मानम् ? न तावत्प्रत्यक्षः, तस्यातीन्द्रियत्वाभ्युपगमात् | नाप्यनुमानम्; तस्य क्वचिदप्यदर्शनेन सहचारग्रहविरहेणान्वयिनोऽसम्भवात् | व्यतिरेकस्योक्तन्यायेन प्रत्यक्षानुमानावगम्यतया तदभावे व्यतिरेकव्याप्तेरग्रहे व्यतिरेकिणोऽप्यनवतारात् | तस्मान्मलसद्भावे न किञ्चिन्मानं पश्यामः | अत्रोच्यते - आत्मा किञ्चिदावृतसार्वज्ञ्यः, किञ्चिज्ज्ञत्वात्, यः किञ्चिदावृतसार्वज्ञ्यो न भवति स किञ्चिज्ज्ञोऽपि न भवति, यथा शिव इति व्यतिरेक्यनुमानेन मलसिद्धिः | न चात्मनां सर्वज्ञत्वे न किंचिन्मानमिति वाच्यम्; तेषां ज्ञानशक्तिः सर्वविषया, ज्ञानशक्तित्वात्, ईश्वरशक्तिवत्, इत्यस्य तत्र मानत्वात् | न चास्याप्रयोजकत्वम्; विषयनैयत्यप्रयोजकस्य तत्तद्विषयसम्बद्धकरणजन्यत्वस्याभावेन नियतविषयत्वायोगात् | स्वाभाविके वा तेषां किञ्चिज्ज्ञत्वे मुक्तौ सर्वज्ञत्वश्रुतिविरोधाच्च | एवं च ज्ञानशक्तेर्न स्वाभाविकसर्वगोचरत्वमित्याच्छादनाधीनमेवाभ्युपेयम् | तच्चाच्छादकजन्यमित्याच्छादक्त्वेन मलसिद्धिः | उक्तं च श्रीमत्पौष्करे - आत्मा मलावृतः सर्वज्ञत्वे किञ्चिज्ज्ञता यतः | न किञ्चिज्ज्ञस्तु यः सोऽयं मलेनापि न संवृतः || यथा शिवस्तथा नायं मलेनैव समावृतः || इति || (पौ पशु प श्लो १२४-१२६) ३) न चाज्ञानेनार्थान्तरत्वम्; विकल्पासहत्वात् | तथाहि - तदज्ञानं ज्ञानाभावः अन्यथाज्ञानं वा ? नाद्यः; अभावस्याकिंचित्करत्वात् | न हि घटाद्यभावाः किंचित्कार्यं कुर्वन्ति | किं च स च ज्ञानाभावः प्रागभावः प्रध्वंसाभावः अत्यन्ताहावो वा ? नाद्यः; कालान्तर एव ज्ञानोदयप्रसङ्गात् | न द्वितीयः; कालान्तरे ज्ञानानुदयप्रसङ्गात् | नापि तृतीयः; बाधात् | नाप्यन्यथाज्ञानम् ; तस्य दोषं विनानुदयात् | किंञ्चेदमन्यथाज्ञानमागन्तुकं स्वाभाविक्ऽम् वा ? आगन्तुकं चेन्नित्यचिच्छक्तेर्बाधकं न स्यात् | नापि द्वितीयः; तस्य स्वाभाविकत्वेऽन्यथात्वायोगात् | ४) तथा चोक्तं श्रीमत्पौष्करे - तदिह ज्ञानमात्रं चेज्ज्ञानाभावः किमज्ञता | अन्यथाप्रतिभासो वा गतिरन्या न विद्यते || ज्ञानाभावोन चाज्ञानं तस्याकिञ्चित्करत्वतः | नाभावोऽपि घटस्येह जलमाहरति क्वचित् || ज्ञानस्य प्रागभावश्चेज्ज्ञानोत्पत्तिः प्रसज्यते | नाप्येतदन्यथाज्ञानं तस्याप्यनुदयात्स्वतः || शुक्तिकारजतज्ञानं न भवेत्पटलं विना | किञ्चैतदन्यथाज्ञानमागन्तुकमथेतरत् || आगन्तुकं चेच्चिच्छक्तेर्बाधक न कदाचन | यद्यनागन्तुकं तर्हि नान्यथाज्ञानमेव तत् || अनित्यमेव तज्ज्ञेयं रजतज्ञानवद्द्विजाः | किञ्चैतदन्यथाज्ञानं न सम्यग्ज्ञानबाधकम् || न दृष्टं शुक्तिकाज्ञानं रजतज्ञानबाधितम् | इति || (पौ पशु प श्लो ११५-१२१) ५) अयं च मलो द्रव्यरूपो भवितुमर्हति; अनेकशक्तिमत्त्वात्, अनलवत् | उक्तं च श्रीमत्पौष्करे - किञ्च द्रव्यं मलोऽनेकशक्तिमत्त्वाद्यथानलः | इति || (पौ पशु प श्लो ११५) अत एवायमात्मनो न गुणः; गुणत्वे गुणगुणिसम्बन्धस्य नित्यत्वात् तस्य निवृत्त्यभावप्रसङ्गेन मुक्तौ तन्निवृत्तिश्रवणविरोधात् | न चाणवसाधकस्यानुमानस्य रागेणार्थान्तरत्वम्; तस्य निर्मले अकिंचित्करत्वात् | यदि निर्मलेऽपि स्यान्मुक्तात्मस्वपि स्यात् | किञ्च बुद्धिधर्मस्य रागस्य प्राकृतत्वेना नित्यतया नित्यायाश्चिच्छक्तेर्बाधकत्वं न सम्भवति | ६) उक्तं च पौष्करे - रागोऽस्ति कारणं सक्तेरिति चेत्किं मलेन तु | सत्यं रागोऽस्ति तद्धेतुर्न स किञ्चित्करोऽमले || अमलेऽपि स चेत्सक्त्यै स्यन्मुक्तेप्यविशेषतः | न हि मुक्तः शिवो वापि भोगासक्तः कदाचन || किञ्चायं प्रत्ययात्मोक्तो रागो बौद्धो यतस्ततः | बुद्धिश्च प्रकृतेः सिद्धा तस्मादेष विनश्वरः || चिच्छक्तेर्नित्यसिद्धाया बाधकः कथमिष्यते || इति || (पौ पशु प श्लो १२७-१३०) ७) नापि कर्मणा अर्थान्तरत्वम्; तस्य चिच्छक्तिसाध्यतया ज्ञानात्मकभोगहेतुतया च तदावारकत्वायोगात् | आवारकत्वे वा तस्य बुद्धिधर्मधर्माधर्मरूपतया बुद्धितत्त्वादूर्ध्वं बन्धकत्वायोगाच्च | किञ्च भोगैकव्यापृतयोस्तयोरावरणे कथं व्यापारः || ८) नन्वेवं तदेव कार्यद्वयसाधकमस्तु; किं पदार्थान्तरकल्पनक्लेशेनेति चेत्, हन्त तर्ह्येकयैव विद्यया समस्तकार्यसंसिद्धौ कार्यभेदादर्शनात्तत्त्वान्तरकॢप्तिर्व्यर्था स्यात् | तस्मान्न चिच्छक्तेरावारकमिति स्थितम् | उक्तं च तत्रैव - कर्मणापि न च ज्ञानबाधः सम्भवति द्विजाः | साध्यत्वात्कर्मणः पुंसः साधकत्वेन संस्थितेः || किञ्च भोगैकहेतुस्तत्कथं भोगस्य बाधकम् | यतो ज्ञानात्मको भोगो न हि तेन तदावृतिः || धर्माधर्मात्मकं कर्म तौ च बौद्धौ व्यवस्थितौ | व्याप्त्यभावात्तयोरूर्ध्वं बन्धकौ सर्वतः कथम् || किं च भोगप्रवृत्तौ तौ व्याप्रियेते कथं वृतौ | अन्यत्रापि प्रवृत्तस्य यद्यप्यत्रापि हेतुता || अनेकतत्त्वसंकॢप्तिः कार्यभेदाद्विहन्यते | तस्मान्न कर्म चिच्छक्तेर्बाधकं संव्यवस्थितम् || किञ्चाभिव्यञ्जकं कर्म चिच्छक्तेर्बाधकं कथम् | इति || (पौ पशु प श्लो १३०-१३५) ९) न च माययार्थान्तरत्वम्; तस्याः कार्यान्तरजनकतया कॢप्तत्वेनावरणरूपकार्यान्तरजनकत्वायोगात् | किञ्च कलाद्यृत्पादनद्वारा दृगादिशक्तिव्यक्तिं प्रति हेतुतया तद्विरुद्धाच्छादनहेतुत्वासम्भवाच्च | उक्तं च तत्र - न च माया मलस्तस्माद्यतः कार्यात्प्रकाशिका | कार्यात्प्रकाशकं यत्तु स्वात्मनाच्छादकं न तत् || यथा प्रकाशकौ दृष्टौ वह्निदीपावुभावपि | न दीपकारणं वह्निः क्वचिदप्यप्रकाशकः || न च माया स्वरूपेण पुंसां कार्यकरी स्थिता | कार्यैरणूपकारित्वाद्यदित्थं तन्न चात्मना || यथा तन्तुः स्वकार्येण पटेनैव न चात्मना || इति || (पौ माया प श्लो ५१- ५४) १०) अत एव न देहस्याप्याच्छादकत्वम्; तस्यापि बुद्धिवृत्त्याद्युत्पादनद्वारा तदभिव्यञ्जकत्वात् | तस्मादात्मनां दृक्क्रियावारकप्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवदेकमना- दिव्याप्याणवमिति सिद्धम् | युक्तं च श्रीमन्मृगेन्द्रे - तदेकं सर्वभूतानामनादिनिबिडं महत् | प्रत्यात्मस्थस्वकालान्तापायि शक्तिसमूहवत् || इति || (मृ प्र ७ श्लो. ४) ११) एतदनुग्राहिका शिवस्य रोधकशक्तिः | तदुक्तम् - तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा | धर्मानुवर्तनादेव पाश इत्युपचर्यते || इति || तथान्यत्र - (सिद्धान्तसारावल्यां) नीहारोऽनादिरेको मनुजसहभवस्ताम्रगा कालिकेव स्वाधीकारान्तनाशिप्रतिपुरुषदृगावारकानेकशक्तिः | पाश्यः शोध्यश्च बोध्यः स तु भवति यतो भोक्तृता पारतन्त्र्यं कर्मादेर्योग एतत्कृतिमनुकलिता रोधयित्रीशशक्तिः || इति || (सि सा श्लो ६) १२) अयं च मलो मोहमदरागविषादतापशोषवैचित्र्याख्यकार्य- भेदात्सप्तधा | तत्र मोहो नामात्मनामनादिः सहजो मदादीनां षण्णां हेतुः जानतामपि वनितादिषु मोहकारी मलः | स्वकीयतया प्राप्तेष्वङ्गनादिष्वतिशयाभिमानो मदः | रागो नाम विषयाभिलाषः | तदलाभे विषण्णत्वं विषादः | ततः प्रलापरूपस्तापः | पुत्रमित्रकलत्रादिभिर्धनादिभिश्च मत्समो नास्तीत्यादिविषयचिन्ता वैचित्र्यम् | तद्विनाशे स्तब्धात्मकत्वं शोषः | १३) उक्तं च पौष्करे - मलोऽपि सप्तधा ज्ञेयो मोहश्चापि मदस्तथा | रागोऽन्यश्च विषादाख्यस्तापः शोषश्च सप्तमः || वैचित्र्यमपि सर्वेषां मलिनानां प्रकीर्तितम् | मोहो नाम मलः पुंसां सहजोऽनादिमानिह || योनिः षण्णां मदादीनां प्रधानत्वाद्द्विजोत्तमाः | यस्मिन्सत्यात्मनो मोहो जानतोप्यङ्गनादिषु || स मोह इति विख्यातो वर्ज्यावर्ज्याविभागतः | प्राप्तामपि स्त्रियं येन स्तौति नास्याः पराङ्गना || दिव्याङ्गनेयमेवेति स मदः परिठ्यते | तदलाभे विषण्णत्वं बाष्पलोचनता यतः || स विषादो मलो नाम प्राणिनामतिदुःखदः | ततस्तापो भवेदन्तःप्रलापात्मातिविस्तरः || स ताप इति विख्यातो मलः शोषो भवेत्ततः | स्तब्धात्मा तु यदा यस्मान्मलोऽतीव सुदुस्तरः || एष बन्धुरियं भार्या मृष्टं चेदं धनं मही | कृतार्थोऽहमतो यद्वा कस्त्राता मामकस्य च || कुटुम्बस्यैवमाद्या तु चिन्ता येन नृणां भवेत् | नानामतिकरः सोऽयं मलो वैचित्र्यसंज्ञितः || सप्तैते सहजाः प्रोक्ता मला मलवतां नृणाम् || इति || (पौ पशु प श्लो १३७-१४६) १४) कः पुनरात्ममलयोः संबन्धः ? समवाय इति चेत्; मलस्य गुणत्वप्रसङ्गः | न चेष्टापत्तिः; गुणस्य जडत्वे गुणिनोऽपि जडत्वप्रसङ्गात् | किं च समवायस्य नित्यतया अनिर्मोक्षप्रसङ्गाच्च | तस्माद्द्रव्यमेव मलोऽयुतसिद्धभावेन गुणवद्भाति | अतस्तयोः सम्बन्धः संयोग एव || १५) ननु युतसिद्धयोः सम्बन्धः संयोग इति संयोगलक्षणात् संयोगोऽपि न सङ्गच्छते | सत्यम्; तस्य जन्यसंयोगलक्षणत्वात् | संयोगमात्रस्य तूपादानोपादेयभावरहितयोर्द्रव्ययोः सम्बन्ध इति लक्षणं द्रष्टव्यम् | तदेवमाणवं तदनुग्राहिका रोधकशक्तिरिति पाशाख्यं सिद्धम् || १६) अथ बिन्दुर्निरूप्यते - शुद्धस्य तादृशानां च तत्त्वानामुपादानं बिन्दुः | सा च जडरूपा भगवतः परिग्रहशक्तिः कुण्डलिन्यपरपर्याया | अत्रैव शिवस्य लयादिरवस्थाभेदो रुद्राणूनां प्रबोधो विमुक्तिश्च | उक्तं च श्रीमत्पौष्करे - लयादिभेदः प्रागुक्तो यदुपाधौ शिवस्य तु || स बिन्दुरिति मन्तव्यः सैव कुण्डलिनी मता | किं च रुद्राणवो येन बध्यन्ते यत्र वा स्थिताः || बिमुच्यन्ते यतो वायं स बिन्दुरिति गम्यताम् | इति || (पौ बिन्दु प श्लो १-३) १७) तत्सद्भावे मानं तु अनन्तेश्वरादिशरीराणि तदाधारभूततत्त्वभुवनादिकं च सोपादानं, कार्यत्वात्, घटवत् इति | न चाश्रयासिद्धिः | कलादिक्षित्यन्तं कार्यं शरीरकर्तृकम्, दुःखानुषक्तकार्यत्वात्, सम्मतवदित्यनुमानेन समस्तमायेयकार्यकरणत्वेनानन्तेशशरीरस्य सिद्धिः | तथा - तच्छरीरं भुवनवृत्ति, शरीरत्वात्, तच्च भुवनं तत्त्वजन्यं, भुवनत्वात् सम्मतवदिति तत्त्वभुवनयोरपि सिद्धिसम्भवात् | न च माययार्थान्तरत्वम्, अनन्तशरीरादेः समस्तमायाकार्यजनकतयैव सिद्ध्या मायाकार्यत्वायोगात् | अन्यथा तत्रापि शरीरान्तरकल्पनाप्रसङ्गात् | तथा अनन्तेशः सविकल्पकज्ञानवानेव सन् कार्यं करोति, प्रयोज्यकर्तृत्वात्, कुलालवदित्यनुमितसविकल्पकज्ञानविषयतया शुद्धशब्दसिद्धौ तद्धेतुतयापि बिन्दुसिद्धिः | न च तदीयसविकल्पकज्ञानविषयत्वमशुद्धस्यैव शब्दस्यास्त्विति वक्तुं युक्तम्; कलादिसृष्टेः पूर्वमशुद्धस्य शब्दस्यासम्भवात् | तथा शुद्धाध्ववर्तिनामवकाशप्रदातृतयापि तत्सिद्धिः | मायेयस्याकाशस्य तत्रावकाशप्रदातृत्वायोगात् | १८) उक्तं च श्रीमत्पौष्करे - किं च मायाद्युपादानं देहेन्द्रियकरं नृणाम् | क्षुब्धं कार्यकरं तस्य कर्तुर्देहेन्द्रियादिकम् || यदुपादानतो जातं स बिन्दुरिति गम्यताम् | किं च शब्दानुसंविद्धा जायन्ते प्रत्यया नृणाम् || न ह्यकारणकाः शब्दाः सम्भवेयुः कदाचन | तेषां यत्कारणं विप्राः ! स बिन्दुर्बहुवृत्तिकः || इति || (पौ बिन्दु प श्लो १२-१४) मायापि नात्रोपादानं मोहकत्वात्स्वतेजसा | यतः प्रबुद्धपुंकायकरणानां न कारणम् || शुद्धाध्ववर्तिनः सर्वे प्रबुद्धाः शिवतेजसा | देहेन्द्रियादिमन्तोऽपि नाबुद्धास्तेषु ते पुनः || किं च कर्मोज्झिताः सर्वे पुद्गलाः शुद्धवर्त्मनि | कथं कर्मानुसारेण माया परिणता सती || तेषां देहेन्द्रियादीनामुपादानं भवेद्द्विजाः | तस्माच्छुद्धाध्वनश्चास्य स्वानुकार्येव कारणम् || इष्यतां कुण्डलिन्याख्यं शुद्धमेतद्द्विजोत्तमाः | सा च कुण्डलिनी शम्भोः शक्तिः शुद्धा जडात्मिका || न तादात्म्यात्स्थिता किं तु वर्तमाना परिग्रहे | शिवे कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता || उपादानत्वतो हेतोः कुलाले मृत्तिका यथा || इति || (पौ बिन्दु प श्लो ६-१२) १९) न चात्र शिवशक्तिरेवोपादानम्; चिद्रूपत्वात् | अचितः खलु परिणामः | ननु चितो विवर्त एवास्तु; तथा च शिवशक्तिरेव तत्तदाकारेण विवर्तत इति चेन्न; तथा सति कार्यजातस्य मिथ्यात्वप्रसङ्गात् | न चेष्टापत्तिः; सर्वप्रमाणसिद्धस्य जगतस्तथात्वानुपपत्तेः | उक्तं च तत्रैव - नात्र शक्तिरुपादानं चिद्रूपत्वाद्यथा शिवः | परिणामोऽचितः प्रोक्तश्चिद्रूपस्य न युज्यते || चितो विवर्त एवेष्टस्तथात्वे कार्यशून्यता | सर्वप्रमाणसंसिद्धं चिद्विवर्तं कथं जगत् || इति || (पौ बिन्दु प श्लो ४-५) २०) अत्र शब्दवृत्तिश्चतुर्धा, सूक्ष्मा पश्यन्ती मध्यमा वैखरी चेति | तत्र ज्ञानैकाश्रया अर्थसामामान्यप्रकाशिका वाणी सूक्ष्मा | मयूराण्डरसवदविभक्तवर्णार्थविशेषबोधनाक्षमा वाणी पश्यन्ती | बुद्ध्युपारूढवर्णा तत्क्रमविशेषोपेता प्राणवृत्त्यगोचरीभूता सैव मध्यमा | प्राणवृत्त्याभिव्यक्ता श्रोत्रग्राह्यार्थविशेषबोधनक्षमा सैव वैखरी | तत्र सूक्ष्मा पश्यन्त्याः, पश्यन्ती मध्यमायाः, मध्यमा वैखर्याश्च कारणं द्रष्टव्यम् | एताश्च वृत्तयोऽणूनां प्रत्ययात्मिकाः | तत्र तिस्रोन्तरेव स्थिताः | अन्या बहिः स्थिता | एते च शब्दाः शुद्धाध्वनि सूक्ष्माः, मिश्राध्वनि स्थूलाः, अशुद्धाध्वनि स्थूलतराः || २१) तदुक्तं तत्रैव - शब्दाश्चतुर्विधास्तेऽपि वैखर्यादिविभेदतः | वैखरी मध्यमाख्या च पश्यन्ती सूक्ष्मसंज्ञिता | वैखरी श्रोत्रविषया स्थूलवर्णपरिग्रहा | स्थानेष्वपि धृते वायौ प्रयोक्तुरुपकारिणी || बुद्ध्य वर्णानुसन्धानपूर्वमर्थस्य वाचिका | प्राणवृत्तिमतिक्रान्ता वागेषा मध्यमाह्वया | वर्णरूपानुसन्धानविरहान्तः समुज्ज्वला | मायूराण्डरसो यद्वन्निर्विशेषार्थधारिका | पश्यन्ती वागियं ज्ञेया तृतीया शिवशासने | सूक्ष्मा चिदेकशरणा निवृत्ताशेषशक्तिका || वैखर्याः कारणं मध्या पश्यन्ती मध्यमां प्रति | पश्यन्त्याः कारणं सूक्ष्मा निर्विकल्पस्वरूपिणी || एताश्च वृत्तयोऽणूनां चतस्रः प्रत्ययात्मिकाः | अन्तरेव स्थितास्तिस्रो बहिरन्या व्यवस्थिता || आगोपालाङ्गनाबालं म्लेच्छाः प्राकृतभाषिणः | अन्तर्जलगताः सत्त्वा नित्यं जल्पन्ति ता गिरः || आभ्यो न परमो बन्ध आभ्यो मुक्तिस्तु नापरा | तन्निवृत्त्यविनाभूतो दृक्क्रियावारको यतः || विविक्तान्मन्वते तेभ्यः पुद्गलाः स्वान्न कुत्रचित् | दुःख्यहं सुख्यहं चेति मतिर्या शब्दताडिता || सूक्ष्माः शुद्धाध्वनि गिरः स्थूला मिश्राध्वनि स्थिताः | अशुद्धाध्वनि ता वाचः स्थिताः स्थूलतराः सदा || इति || (पौ बिन्दु प श्लो २०-३०) २२) किं च निवृत्त्यादिकलाहेतुत्वेनापि बिन्दुसिद्धिः | उक्तं च तत्र - अन्याश्च वृत्तयो बिन्दोर्निवृत्त्यादिकलात्मिकाः | निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || शान्त्यातीता च पञ्चैताः शुद्धमार्गे पुरात्म्काः | मिश्राशुद्धाध्वनोरेतास्तत्त्वाद्याधारिकाः स्थिताः || वस्तुरूपाः कला ज्ञेयाः शब्दरूपाः परोदिताः | शब्दवस्तूभयात्मासौ बिन्दुर्नान्यतरात्मकः || इति || (पौ बिन्दु श्लो ३०-३२) २३) अत्र बिन्द्वारब्धानि शिवशक्तिसदाशिवेश्वरशुद्धविद्याख्यानि पञ्च (?) तत्त्वानि | उक्तं च तत्रैव - वृत्तिस्तत्त्वात्मिका चास्य चतुर्धा संव्यवस्थिता | शिवतत्त्वं सदेशाख्यमैशं विद्याह्वयं तथा || इति || (पौ बिन्दु प श्लो ३३) २४) तत्र शिवतत्त्वे सूक्ष्माभिधाना वाग्वृत्तिः | अत्रैव शान्त्यतीतभुवनानामवस्थितिः | उक्तं च - विकल्पबोधायाणूनां तत्त्वानां स्थितये कलाः | पञ्च तत्त्वानि लोकांश्च मन्त्रादीनसृजच्छिवः || शान्त्यतीता पुराधारं शिवतत्त्वं पुराभवत् || इति || २५) अस्य च शिवाधिष्ठितत्वेन शिवतत्त्वव्यपदेशः | शिवतत्वविकारः शक्तितत्वम् | अत्रैव पश्यन्त्याख्याया वाग्वृत्तेः निवृत्यादिकलानां चावस्थानम् | अस्य च शिवशक्त्यधिष्ठानत्वेन शक्तितत्वपदवाच्यता | शक्तितत्वविकारः सदाशिवतत्वम् | इदमेव मध्यमाभिधानाया वाण्या अधिष्ठानम् | तथा कामिकादितन्त्रभेदकारणानां प्रणवादीनां सामीप्यादिमुक्तिभाजां च तनुभुवनादिकारणम् | ईश्वरतत्वविकारो विद्यातत्वम् | इदमेव वैखर्याख्याया वाग्वृत्तेरधिष्ठानम् | तथा करणभूतानां सप्तकोटिसंख्यानां मन्त्राणां विद्याराज्ञीनां च तनुभुवनादिसम्पादकम् || २६) उक्तं च श्रीमन्मृगेन्द्रे - भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा | रूपिणी नन्दिनी ज्वाला सप्त सप्तार्बुदेश्वराः || विद्याराज्ञ्यः समाख्याता विद्यायां रुद्रसंस्तुताः | तासामुपरि दीप्तश्रीर्देवो विद्याधिपः स्थितः || मन्त्रेशेशचिदाविष्टरुद्रव्यूहाष्टकानुगः | उच्छुष्माश्चम्बराश्चण्डा महावीर्यपदद्रुगाः || रुद्रा गणाश्च दिक्पालाः शास्त्राणि पतयःस्थिताः | ते चानन्तप्रभृतयो गदिता एव नामतः || स्वरूपतश्च ते विप्राः पूर्वं प्रश्नानुषङ्गतः | सदाशिवे पवित्राङ्गः सकलादिपरिच्छदः || देवः सदाशिवो बिन्दौ निवृत्त्यादिकलेश्वराः | नादे ध्वनिः पतिः शक्तौ सर्वश्क्तिमतां वरः || योनिर्विश्वस्य वागीशाः पतयः परतः शिवः || इति || (मृ प्र १३ श्लो १५७-१६२) २७) अन्ये तु पञ्चानामपि शिवद्वारकं लक्षणं वदन्ति | ज्ञानमात्रयुक्तेन परमात्मनाधिष्ठितं तत्वं शिवतत्वम् | क्रियामात्रयुक्तेनाधिष्ठितं शक्तितत्वम् | समप्रवृत्तोभयवताधिष्ठितं सदाशिवतत्त्वम् | अधिकक्रियावताधिष्ठितमीश्वरतत्वम् | अधिकज्ञानवताधिष्ठितं विद्यातत्वमिति | केचित्तु शिवादितत्वपञ्चकमपि साक्षादू बिन्दुकार्यमेवेत्याहुः | एतच्च शिवतत्वादिकं बिन्द्वादिविशिष्टशिवस्य वृत्तिरूपं कार्यम् | न परिणामः; सर्वत्र कारणानुस्यूततया पूर्वावस्थापरित्यागाभावात् | नाप्यारम्भवादः पुञ्जवादो वात्र सङ्गच्छते | एकस्यैव हि शिवस्य कारणत्वेन निश्चितत्वात् | एतच्च वृत्तिरूपं कार्यं कारणात्मनैव सत् | कार्यात्मनापि सत्त्वे तत्वानामवस्थापायरूपप्रलयायोगात् | तत्वव्यपदेशस्त्वाकल्पावथायितया न विरुध्यते | अयं च शुद्धाध्वा न बन्धकः; कर्मान्वयाभावात् || २८) ननु शुद्धाध्ववर्तिनां कथं विचित्रभोगः ? तद्धेतोः कर्मणोऽभावात् | कथं वा ज्ञानोदयः ? तद्धेतोः कलाया अभावात् | कथं वा विषयाभिमुख्यम् ? तद्धेतोर्विद्याया अभावात् | कथं च विषयेष्वासक्तिः ? रागाभावात् | कथं वा भोगेयत्तापरिच्छेदः ? कालाभावात् | कथं च भोक्तृविशेषनियमः ? नियतेरभावात् | उच्यते - सन्ति तावच्छुद्धाध्वनि बैन्दवानि कलादीनि तत्वानि तनुकरणभुवनभोगादयश्च | तत्र यद्यपि भोगवैचित्र्यकारणं कर्म नास्ति, तथापि मलपरिपाकवशाद्विचित्रो भोगः सम्भवति | तथा हि - यस्य प्रकृष्टो मलपरिपाकः स साधाख्ये भोगं भुङ्क्ते | यस्य तु प्रकृष्टतरः स त्वीश्वरतत्वे विद्यातत्वे च | तस्मान्न कर्मात्र भोगकारणम् | किं त्वीश्वरेच्छैव | न च शिवस्यात्र वैषम्यनैर्घृण्ये; तत्र दुःखरूपभोगाभावात् | तस्माच्छुद्धाध्वनि मलपरिपाकाधीनः सुखात्मैव भोगः | २९) उक्तं च श्रीमत्पौष्करे - किञ्च कर्मान्वयाभावाच्छुद्धाध्वानो न बन्धकाः || इति || (पौ बिन्दु प श्लो ४३) तथा - अध्वायं भोग्य उद्दिष्टो भोगो रागादिभिः स्थितः | अत्र तेषामभावेन कथं भोगो महेश्वर || ईश्वरः - अत्रापि कलामुख्यानि सन्ति तत्त्वान्यधो यथा | किन्तु तान्यत्र शुद्धानि बैन्दवानि द्विजोत्तमाः || (पौ बिन्दु प श्लो ५६-५७) तथा - शुद्धान्येतानि तत्त्वानि रुद्राणूनां महात्मनाम् | विचित्रपुरमालाभिः खचितानि महान्ति च || दिव्यश्रीभिर्महाश्चर्यैर्भोगैर्दुःखविवर्जितैः | तनुभोगेन्द्रियाद्यैश्च वर्जितान्युन्नतानि च || इति || (पौ बिन्दु प श्लो ३४-३५) तथा - शुद्धाध्वनि महाभोगः कर्म नास्तीति चोदितम् | कथं तद्वर्तिनां भोगो विचित्रस्तद्वदेश्वर || ईश्वरः - न कर्म भोगवैचित्र्ये कारणं शुद्धवर्त्मनि | मलस्य परिपाको यो विचित्रः सोऽत्र कारणम् || यस्य प्रकृष्टस्तत्पाको भोगतत्त्वे स भोगभुक् | इतरस्त्वीशविद्याख्यतत्त्वयोर्भोगभाग्भवेत् || किं कर्मणात्र विप्रेन्द्रा यत्रेच्छाभोग इष्यते || इति || (पौ बिन्दु प श्लो ४५-४८) तथा - नैवेह शम्भोर्नैर्घृण्यं भवतीह कदाचन || दुःखेषु हि नियुञ्जानो निर्घृणो नापरत्र च | शुद्धेऽध्वनि सुखात्मैव भोग एवं स च स्मृतः || इति || (पौ बिन्दु प श्लो ५२-५३) एतच्च शुद्धतत्वजातं प्रलयाकलसकलानां प्रेरककाण्ड इत्यभिधीयते || ३०) अथ माया निरूप्यते | सा च मयति ददाति विश्वमिति वा, मात्यायाति विश्वमत्रेति वा अन्वर्था || तदुक्तं पौष्करे - मयत्यस्माज्जगद्विश्वं माया तेन समीरिता || इति || (पौ मा प श्लो १) अन्यत्र - माति यत्र जगत्सुप्तौ सृष्ट्वा वा याति सा ततः | माया तेन समाख्याता तत्त्वमुक्तं गुरुत्तमैः || इति || इयमपि कलादेः पृथिव्यन्तस्य कार्यजातस्योपादानभूता जडा भगवतः परिग्रहशक्तिः | सा चैका | बहुत्वे प्रमाणाभावात् | नित्या; मूलकारणत्वात् | अनित्यत्वे प्रलये कर्मणां निराश्रयत्वप्रसङ्गात् | न च बिन्दुस्तदाश्रयः; तस्य कर्मोत्तरत्वात् | नाप्यात्मानः ; तेषां जडत्वप्रसङ्गात् | सा च व्यापिनी; सर्वत्र कार्योपलम्भात् | ३१) तदुक्तं पौष्करे - नित्यैका व्यापिनी वस्तुरूपा कर्माश्रयाशिवा || इति || (पौ मा प श्लो २) श्रीमन्मृगेन्द्रे च - तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् | सहकार्यधिकारान्तसंरोधि व्याप्यनश्वरम् || कर्तानुमीयते येन जगद्धर्मेण हेतुना | तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना || तदचेतनमेव स्यात्कार्यस्याचित्त्वदर्शनात् | (मृ प्र ९ श्लो २-४) तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ || विकृतौ व्यक्तिरूपाणि व्याप्रियन्तेऽर्थसिद्धये || इति || (मृ प्र ९ श्लो १३) तथा पौष्करे - नित्यैषाऽशेषकार्याणां कारणत्वाद्यदन्यथा | न तन्नित्यं यथा तन्तुस्तस्मान्मायाप्यनश्वरा || अनित्यैषा यदीष्येत कर्मणां कुत्र संस्थितिः | न बिन्दुः कर्मणां स्थानं बिन्दुः कर्मोत्तरो यतः || न चात्मनि स्थितिस्तेषां यस्मादात्मा जडो भवेत् || इति || (पौ मा प श्लो २७-२९) ३२) अस्याश्च विचित्रशक्तित्वं विचित्रकार्यजनकतया | अनात्मनि देहादावात्मभ्रमहेतुतया मोहिनीत्वं च | एषा च सर्वेषां सकलानां साधारणी, प्रलये लीनदेहानां तेषां सूक्ष्मस्थूलात्मकदेहादेः कारणम् | उक्तं च पौष्करे - साधारणी च सर्वेषां सकलानां मुनीश्वराः | प्रलये लीनदेहस्य कर्मिणोऽणोरहर्मुखे || देहादेः कारणं माया सूक्ष्मस्थूलात्मकस्य तु || इति || (पौ मा प श्लो २-३) इयंच वस्तुरूपा वस्त्वात्मकस्य जगतः कारणत्वात् | ३३) ननु प्रपञ्चस्य वस्त्वात्मकत्वमसिद्धम्; प्रमाणप्रमेयसम्बन्धानां दुर्निरूपत्वात् | तथा हि - न तावत्प्रत्यक्षम्; प्रमात्रादिभेदरूपस्येतरनिषेधस्य घटमहं जानामीति विधिविषयकप्रत्यक्षविषयत्वाभावात् | अतः प्रमातृभिन्नप्रमेयसद्भावे न प्रत्यक्षं प्रमाणम् | व्याप्तेरपि तन्मूलत्वेनानुमानमपि नात्र प्रमाणम् | प्रत्यक्षादिविरुद्धविषयस्यागमस्य ग्रावप्लवनादिवाक्यवन्न स्वार्थे प्रमाण्यम् | तस्मात्प्रपञ्चसद्भावे न किञ्चिन्मानम् | अस्तु वा प्रमाणप्रेमयसद्भावः; कस्तयोः सम्बन्धः ? न तावत्तादात्म्यलक्षणः सम्बन्धः; तथात्वे स्वप्नज्ञानजनकस्य स्वाप्निकपदार्थस्य सत्यत्वप्रसङ्गः | तस्मात्प्रपञ्चमिथ्यात्वे तन्मूलभूतमायापि मिथ्येति | ३४) अत्रोच्यते - अस्ति तावत्सत्यप्रमेयगोचरं प्रत्यक्षम् | तथा हि - स्थाणुर्वा पुरुषो वेति संशये नायं पुरुषः; स्थाणुरेवेति कोट्यन्तरनिषेधपुरस्सरं जायमानं प्रत्यक्षं कथं न तद्भेदगोचरम् ? न चास्य सविकल्पत्वेन भ्रान्तत्वम्; बाधाभावात् | न हि वक्रकोटरादिमत्वेन स्थाणुत्वे निश्चिते तस्य कदाचिद्बाधः सम्भवति | न च रज्जुसर्पादावेवं बाधाभावः | तस्य सर्वलोकसिद्धत्वात् | किं च रज्जुसर्पयोः साम्येन भ्रान्तिस्तत्र सम्भवति | चैतन्यस्य घटादिरूपतया प्रतीतौ न किञ्चन सादृश्यं पश्यामः | अपि च प्रमेयस्य निर्विकल्पकविषयत्वेऽपि भेदप्रत्यक्षसिद्धिः | अन्यथा अगृहीतभेदस्य पुंसो देवदत्तो ब्राह्मणोऽयमिति व्यावृत्तविषयकमुत्तरं सविकल्पकं कथं जायेत | किञ्च प्रपञ्चमिथ्यात्वगोचरं प्रमाणं मिथ्या वा न वा ? आद्ये प्रपञ्चस्य सत्यत्वं सिद्धम् | द्वितीये तु मिथ्यात्वहेतोस्तत्र व्यभिचारः | तस्मात् प्रपञ्चस्य सत्यत्वं सिद्धम् | न च ज्ञानज्ञेययोः सम्बन्धानुपपत्तिः; विषयविषयिभावस्य सम्बन्धस्य विद्यमानत्वात् | तस्मात्सर्वस्य जगतः सत्यत्वात्तन्मूलभूतमायापि सत्येति सिद्धम् || ३५) तदुक्तं श्रीमत्पौष्करे - न हि प्रपञ्चो वस्त्वात्मा प्रमाणानामभावतः | प्रमेयाभावतस्तद्वत्सम्बन्धाभावतोऽपि च || प्रपञ्चोऽयं प्रमात्रादिभेदात्मा नाक्षगोचरः | यतः प्रत्यक्षमर्थानां विधातृ न निषेधकम् || निषेधमन्तरा भेदो न समस्ति कदाचन | तस्मात्प्रपञ्चसद्भावे प्रत्यक्षं न तु साधकम् || व्याप्तेस्तत्पूर्वकत्वेन नानुमानमपि प्रमा | प्रत्यक्षादिविरुद्धेऽर्थे नागमस्य प्रमाणता || तस्मात्प्रमेयाभावोऽपि प्रमाणाभावतः स्थितः | अस्तु मानं प्रमेयं च सम्बन्धो दुर्लभस्तयोः || न तावज्ज्ञानघटयोर्योगस्तादात्म्यलक्षणः | ज्ञानस्याभ्यन्तरत्वेन घटश्चाभ्यन्तरो भवेत् || नोत्पाद्योत्पादकात्मा प स्वप्नेऽप्यर्थस्तु सन् भवेत् | एवं प्रपञ्चावस्तुत्वे वस्तु माया कथं भवेत् || अस्ति प्रमाणं सद्भावे प्रपञ्चस्य पुरातनम् | प्रत्यक्षं तावदर्थानां प्रमाणं भेदगोचरम् || स्थाणुर्वा पुरुषो वेति सन्देहे स्थाणुरेव सः | पुरुषो नेति भेदात्मा दृश्यते प्रत्ययोऽक्षतः || भ्रान्तोऽयं सविकल्पत्वाद्रज्जुवन्नेष्यतामिति | सर्वेषां सर्वदा कुम्भः कुम्भ एवेष्यतेऽक्षतः || नैवं रज्जुः कदाचित्तु यतः सर्पायते नृणाम् | मालायते तदन्येषां नैवं कुम्भघटादयः || किं चाहिरज्ज्वोस्साम्येन भ्रान्तिरत्रोपपद्यते | चितो घटादिरूपेण प्रतीतौ का समानता || निर्विकल्पाक्षबोधेऽपि भेदात्मा प्रत्ययः स्थितः | अन्यथोत्तरविज्ञानं व्यावृत्तं नोपजायते || अगृहीतार्थभेदस्य तन्नामादिविशेषवत् | किं च येन प्रमाणेन प्रपञ्चाभाव उच्यते || तत्प्रमाणं प्रमाणं वा न वेति परिचिन्त्यताम् | प्रमाणं चेत्प्रपञ्चोऽस्ति तत्तदन्तर्गतं यतः || यद्यप्रमाणं सुतरां भावरूपं जगद्भवेत् | सम्बन्धो ज्ञानघटयोर्ज्ञाप्यज्ञापकलक्षणः || एवं वस्त्वात्मकं विश्वं भवेत्कथमवस्तुजम् | तस्माद्वस्त्वात्मिका माया स्थिता विश्वस्य कारिणी || (पौ मा प श्लो १०-२६) ३६) अस्याः सद्भावे मानं तु, कलादिक्षितिपर्यन्तं तत्त्वजातमविभागेन कारणे कुत्रचित्प्रलीनम्, एकस्य कार्यत्वे सति विभक्तत्त्वात्, बीजे स्कन्धपलाशादिवत्; कलादिकं सोपादानम्, कार्यत्वात्, घटवत्; प्रलयकालीनं कर्म किंचिदाश्रितम्, संस्कारत्वात्, सम्मतवदित्याद्यनुमानानि | न च कालेनार्थान्तरत्वम्; कालस्य वक्ष्यमाणरीत्या विनाशित्वेन तदानीमाश्रयत्वायोगात् | ३७) ननु कर्मणि सिद्धे तदाश्रयत्वेन मायासिद्धिः, तत्सद्भावे किं मानम् ? उच्यते - प्राणिनां सुखदुःखभोगः किंचिदायत्तः, अस्याभाविकत्वात्, पाकजरूपवत्, इष्टापूर्तादिकं फलोत्पत्तिप्राक्क्षणवर्तिव्यापारकम्, तदुत्पत्तिपूर्वं विनष्टत्वे सति तज्जनकत्वात्, कृषिचिकित्सादिवदिति | न चेश्वरप्रसाद एव व्यापारोऽस्त्विति युक्तम्; तस्याविलम्बितत्वेन फलजनकतया समनन्तरमेव फलोत्पत्तिप्रसङ्गात् | उक्तं च पौष्करे - अविशिष्टे तु भोक्तृत्वे भुञ्जते दिवि केचन | केचनावीचिमुख्येषु न स्यादेतदहेतुकम् || यत्तत्र हेतुः कर्मेति मन्तव्यं मुनिपुङ्गवाः | उभयोः कृषिसाम्ये तु कश्चिद्धान्यानि यच्छति || न किंचिदपरस्तस्य कर्म कारणकं द्विजाः || इति || (पौ मा प श्लो ३१-३३) ३८) न च तत्प्रकृतिजन्यमिति वाच्यम्; प्रकृतेर्भोग्यत्वेन भोजकत्वायोगात् | ननु प्राकृतमेव बुद्धिधर्मरूपं कर्म, भावात्मतया भोग्यम्, कर्मात्मकतया भोजकमस्त्विति चेत्, बुद्धिधर्मरूपस्य तस्य भावमात्रात्मकत्वात् | तेषां च साम्याभावेन केनचित्प्रयोजकेन भवितव्यम् | न च स्वयमेव स्वस्य प्रयोजकमिति वाच्यम्; स्वात्मनि क्रियाविरोधात् | तथा चोक्तं पौष्करे - न चात्र प्रकृतिर्हेतुर्भोग्यत्वेन विरोधतः | यद्भोग्यं भोजकं नैकं तस्मात्कर्मान्यदिष्यताम् || प्रकृतेः परिणामो यो बौद्धो भावाष्टकात्मकः | स स्यात्कर्मात्मकोऽन्यस्तु भोग्यः स्यादिति चेन्मतिः || तदप्यसारं भावानां प्रत्ययात्मकता यतः | प्रत्ययास्ते च विविधा दृश्यन्तेऽणुषु सर्वदा || न समास्तत्र केनापि हेतुना भाव्यमग्रजाः | न च स्वयं स्ववैविध्ये हेतवस्त्वनवस्थितेः || इति || (पौ मा प श्लो ३३-३७) ३९) एतच्च कर्म त्रिविधम् | मनोवाक्कायरूपकारणभेदात् | तत्र मनोजन्यमिष्टदेवतानुध्यानपरस्त्रीजिहीर्षादिरूपम् | वाचिकं मन्त्रजपपरापवादादिरूपम् | कायिकं देवतार्चनागम्यागमनादि- रूपम् | तथा तन्न कारणत्रैविध्यात् त्रिविधकर्मकार्यं च सुखदुः- खादिकमाध्यात्मिकादिभेदेन त्रिविधम् | तत्र चित्तप्रसादोद्वेगादिक- माध्यात्मिकम् | चन्दनानुलेपनखड्गघातादिजन्यमाधिभौतिकम् | अभिमतानभिमतवर्षातपादिजन्यमाधिदैविकम् | तथा लौकिकवैदिकाध्यात्मिकाधिमार्गिकमान्त्रभेदेन पञ्चविधं कर्म | तत्र वापीकूपादिनिर्माणाभक्ष्यभक्षणादिजनितं निवृत्तिकलाव्याप्ताध्वावधिभोगस्य तद्धेतुशरीरादेश्च जनकं लौकिकम् | ज्योतिष्टोमाद्यनुष्ठानजनितं प्रतिष्ठाकलाव्याप्ताध्वावधिभोगजनकं वैदिकम् | वैराग्यादिजन्यं विद्याकलाव्याप्ताध्वावधिभोगजनकमाध्यात्मिकम् | योगजन्यं शान्तिकलाव्याप्ताध्वावधिभोगजनकमाधिमार्गिकम् | विज्ञानजन्यं शान्त्यतीतकलाव्याप्ताध्वावधिभोगजनकं मान्त्रम् | तदेतत्पञ्चविधमपि कर्म वैषयिकसुखदुःखादिहेतुतया पाशः | एतत्कर्माश्रयत्वेन सिद्धाया मायायाः साक्षात्परम्परया चा जातानि कलादीन्येकत्रिंशत्तत्त्वानि | तत्र भोगेयत्तापरिच्छेदात्मकस्य कलनस्य हेतुः कालः लवत्रुट्यादिप्रतीतिविशेष्यो मायायाः प्राथमिको विकारः | केचित्तु कलैव प्रथमो विकार इत्याहुः | अयं च सृष्टिकालः स्थितिकालः संहारकालश्चेति त्रिविधः || ४०) नन्वस्य कथं कार्यत्वम् ? एकत्वे सति प्रवाहानादिकार्यजन- कत्वेनानादित्वात् | न च विशेषणासिद्धिः; भेदे मानाभावेन लाघवसहकृतेन मानेन कालसिद्धौ तदेकत्वस्यापि सिद्धेः | अत एव जडत्वे सत्यनेकत्वेन कार्यत्वमस्यानुमीयत इत्यपि न युक्तम्; विशेष्यासिद्धेः | न च पूर्वापरादिभेदः कालेऽनुभूयत इति वाच्यम्; य एव पूर्वः स एवान्यदा पर इति पूर्वापरादिभेदस्यौपाधिकत्वावश्यम्भावात् | तस्मात्कालोऽनादिरेवेति, मैवम्; कालभेदस्यौपाधिकत्वे सर्वत्रोपाधिनैव तत्तत्कार्योपपत्त्या कालस्यैवासिद्धिप्रसङ्गात्, कालस्यैकत्वेऽधिकरणत्वेन तस्य सर्वकार्यहेतुतया कालविशेषव्यतिरेकप्रयुक्तस्य कार्यविशेषव्यतिरेकस्यानुपपत्तिप्रसङ्गाच्च | क्षणलवादिभेदे उपाधेरभावाच्च | तस्मात्कालस्य स्वाभाविक एव भेदः | अत एव जडत्वे सत्यनेकत्वादुत्पत्तिविनाशावपि || ४१) नन्वेवं कथमात्मनां नित्यत्वम् ? नित्यकालवृत्तित्वस्यैव नित्यशब्दार्थत्वादिति चेत्, न; कालावच्छेदराहित्यस्यैव तदर्थत्वेनात्मनां नित्यत्वसम्भवात् | तौक्तं पौष्करे - कलादिभिस्त्रिभिस्तत्त्वैः प्रवृत्तं पुरुषं ततः | लवत्रुट्यादिभिः कालः कलयत्यात्मवृत्तिभिः || ताश्च भौवनदेहोर्ध्वा एव यस्मात्क्रियास्तदा | अतीतवर्तमानेष्यद्वृत्तीनां कारणं तु यत् || स काल इति मन्तव्यो भोग्यार्थोत्पादको नृणाम् || इति || (पौ पाश प श्लो ४७-४९) तथा - काल एको विभुर्नित्य इष्यते कैश्चिदीश्वर | तथा किमिति नेष्टोऽत्र भगवन्वक्तुमर्हसि || ईश्वरः - काल एको यदीष्येत क्रियातो नातिरिच्यते | यस्मात्स्वतः क्रियायास्तु नास्त्यतीतादिरूपता || तस्या एव यदीष्येत सैव कालः प्रसज्यते | ततश्च वर्तमानादिपदार्थानां मुनीश्वराः || वर्तमानादिरूपैस्तु कालैर्भिन्नैर्व्यवस्थितिः | ततश्च नैकः कालोऽयं किंत्वनन्तात्मवृत्तिकः || इति || (पौ पाश प श्लो ५३-५६) तथा - जडत्वे सत्यनेकत्वान्न नित्योऽयं यथा घटः | अनित्यस्य सतस्तस्य विभुत्वं विनिवारितम् || इति || (पौ पाश प श्लो ६१) ऋषयः - अनित्यः काल उद्दिष्टस्तत्कथं नित्यतात्मनाम् | नित्यकालानुवर्तित्वं नत्यत्वं तद्वदेश्वर || ईश्वरः - कालावच्छेदशून्यत्वान्नित्यत्वं कालवत्स्थितम् | न हि कालस्य नित्यत्वं कालवस्त्वनवस्थितेः || इति || (पौ पाश प श्लो ६४-६५) ४२) न च महार्थसंहारे कालस्याप्युपसंहारात्तत्रापि कालान्तरापेक्षेति वाच्यम्; ईश्वरेच्छयैव तदुपपत्तेः | तदुक्तं तत्रैव - ऋषयः - मायोत्थत्वेन कालस्य विनाशित्वं व्यवस्थितम् | कथं महार्थसंहारे नियमः कालतो भवेत् || ईश्वरः - स्वेच्छयैवोपसंहारे नियमं विदधाति सः | ततः क्रियोपसंहारे कालापेक्षा न संमता || प्रलयेऽप्यनुगृह्णाति सृजत्यवति हन्ति च | तिरोदधाति भगवान्न कालापेक्षया सदा || इति || (पौ पाश प श्लो ६८, ७०-७१) ४३) दिक्तु न तत्त्वान्तरं स्यात्; प्रेरकभोगभोग्यकाण्डेषु नियमेनापेक्षाभावात् | ननु किं सर्वात्मना दिशो न सन्त्येव ? न ; तास्तु सूर्याद्युपाधिघटिताः साधारणाः प्रतिपदार्थापेक्षया असाधारणाश्च धर्माधर्मव्यवस्थार्थमङ्गीक्रियन्ते || ४४) नियमनस्य कारणं तत्त्वं नियतिः | इयं च मायाया एव द्वितीयो विकारः | नियमनं तु दुष्कर्मकर्तुस्तत्फलेन योजनम्, सुकृतफलस्याकर्तृसम्बन्धव्यावर्तनम्, तच्छरीरादेः पुरुषान्तरसम्बन्धिभोगाजननं च | इदमेव कार्यं नियतितत्त्वे प्रमाणम् | नियतितत्त्वाभावे हि दुष्कृतफलं न कश्चिदपि भुञ्जीत | परकृतस्यापि सुकृतस्य फलमपरो भुञ्जीत | यज्ञदत्तशरीरमपि देवदत्तस्य भोगं जनयेत् | ४५) ननु दुष्कृतस्य फलजनकत्वनियमात्तदनुपभोगो ह्यप्रसक्त एवा न हि सामग्रीसत्त्वे कार्याभावप्रसक्तिवारणाय तत्त्वान्तरमुपेयते | न च दुष्कृतस्य फलजनकत्वनियमोऽसिद्धः; निषेधकशास्त्रस्यैव तत्र मानत्वात् | एवंसुकृतस्यापि कर्तृगतं फलं प्रत्येव स्वरूपयोग्यत्वादकर्तुः फलभोगोऽप्रसक्तः | अतो न तत्त्वान्तरं तद्वारणायाङ्गीकर्तव्यम् | न हि जलस्य दाहकत्ववारणाय तत्त्वान्तरं स्वीक्रियते | न च तस्य जनकत्वं कर्तृगतफलं प्रत्येवेत्यसिद्धम्; कर्तृगामिफले विहितेनात्मनेपदेन तत्सिद्धेः; कर्ता शास्त्रार्थवत्त्वात् (ब्र सू २-३-३३) इत्यादिन्यायेन तत्सिद्धेश्च | अन्यथा अनुष्ठानस्य वैफल्यप्रसङ्गाच्च | एवं शरीरस्यापि तत्तत्कर्मार्जितत्वेनैव तत्तद्भोगजनकत्वनियम उपपद्यत इति न तदनुरोधेनापि नियतितत्त्वसिद्धिः | तस्मादन्यथासिद्धत्वान्नियमस्य न तादर्थ्येन नियतिरङ्गीकार्येति, मैवम्; दुष्कृतस्य फलजनकत्वनियमेऽपि न कर्तुः फलभोगनियमः; अन्यस्य फलसम्बन्धेनापि तदुपपत्तेः | एवं सुकृतस्यापि फलजनकत्वमात्रं श्रुत्या अवधारितम्, न तु कर्तरि फलसम्बन्धप्रापकत्वमपि | नन्वात्मनेपदादिना फलस्यकर्तृसम्बन्धोऽवधारित इति चेत् - सत्यम् | अत एव तत्कारणतया नियतितत्त्वमुपेयम् | न च कर्मैव तत्रापि जनकम्; कृष्यादेः सस्यादिकं प्रतीव तस्य फलस्वरूपजनन एव चरितार्थत्वात्; पुरुषविशेषसंबन्धप्रापणाय राजाज्ञादेरिव नियतेरप्यपेक्षितत्वात् | एवं शरीरस्यापि तत्तत्कर्मार्जितत्वेऽपि न नियत्यभावे नियम उपपद्यते | राजाज्ञाभावे तत्तत्कृष्यार्जितस्यापि सस्यादेस्तत्तद्भोगजनकत्वदर्शनात् | ननु सर्वमपीदं नियमनं शिवशक्त्यैव भवतीति नियतिर्व्यर्थेति चेन्न; तस्य कॢप्ततत्तत्कारणसाहित्येन तत्तत्कार्यजनकतया केवलायास्तज्जनकत्वायोगात् | तस्मान्नियमनाय नियतितत्त्वमङ्गीकार्यम् || ४६) नन्वातिवाहिकशरीरानुप्रविष्टेऽसाधारणे नियतितत्त्वे नियमनहेतुत्वसद्भावेऽपि साधारणस्य भुवनाद्याधारस्य न तद्धेतुत्वमिति कथं नियतितत्त्वम् ? तत्सद्भावे वा किं मानमिति चेन्न; तज्जातीयत्वेन तस्यापि नियमनजनकत्वात् | तत्सद्भावे त्वागम एव मानम् | तदुक्तं श्रीमत्पौष्करे - समासेनाथ नियतिं शृणुध्वं मुनिपुङ्गवाः | भोगायाभिप्रवृत्तस्य कलाविद्यादिवृत्तिभिः || कर्मणामार्जितानां तु फलापहरणे सति | तद्विनाशे प्रवृत्तेयं नियतिः शिवशासने || न तद्वन्नियमेनापि मलमायाख्यकर्मणाम् | प्रवृत्ता किन्तु तद्युक्तपुरुषस्यैव हे द्विजाः || अपि भोगेष्वनिच्छन्तं नियोजयति सा बलात् | स्वार्जितेष्वेव नेहान्यैरार्जितेषु कदाचन || यदि सा न भवेदन्ये भुञ्जीरन्नार्जितं परैः | राजाज्ञामन्तरा यद्वद्भुञ्जते दस्यवः परैः | आर्जितानि तथैवेयमसामञ्जस्यनाशिका | अनया नियतं तच्च यच्छरीरेन्द्रियादिकम् || अथ चेच्छाङ्करी शक्तिर्या सैव स्यान्नियामिका | सत्यं न सा स्वतः किं तु नियतिव्यवधानतः || तत्सम्बन्धाद्विमुच्येरन् सैव चेन्नियतिर्यदि | न कर्म स्वफलं पुंसां सम्बन्धयितुमर्हति || कर्मत्वात्कृषिवत्तस्मान्नेह कर्म नियामकम् || इति || (पौ पाश प श्लो ७९-८७) ४७) आत्मनो दृक्क्रियारूपचैतन्याभिव्यञ्जकं तत्त्वं कला | अभिव्यक्तिश्चाच्छादकमलनिवृत्तिः | सापि नाच्छादकस्य स्वरूपविनाशः; किं त्वाच्छादनशक्तिविनाशेन तद्विशिष्टशक्तिनिवृत्तिः | शैवालोदकन्यायेन कार्याक्षमत्वम् | एतत्सद्भावे मानं तु चैतन्याच्छादकस्य निवृत्तिः असाधारणकिञ्चिदायत्ता, कार्यत्वात्, संमतवत्, इत्यनुमानम् | अदृष्टादेः साधारणत्वान्न तेनार्थान्तरत्वम् | इयं च पुंसां कर्मानुसारेण मलस्यैकदेशनिवर्तनं करोति | उक्तं च - चैतन्यं ज्ञत्वकर्तृत्वरूपं तद्बलमात्मनः | कलया व्यज्यते तत्तु तस्यैव हि तिरस्कृतम् || सर्वात्मना कला नैतच्चैतन्यं व्यञ्जयत्यणोः | किं तु कर्मानुसारेण कला वृत्त्यैकदेशतः || इति || ४८) ननु दृक्क्रियाशक्त्यभिव्यक्तिर्बुद्धिधर्मेण यत्नेन भवतु; यत्नस्य चाभिव्यञ्जकत्वं त्वयाप्यभ्युपेयम्; अन्यथा मृत्पिण्डादिगोचरयत्नं विनापि कलामात्रेण दृक्क्रियाभिव्यक्त्या कुलालादेर्घटादिकर्तृत्वापत्तेरिति चेन्न; तस्य दृक्क्रियाशक्त्यभिव्यक्त्यनन्तरभावित्वेनाभिव्यञ्जकत्वानुपपत्तेः | तथा हि - मृत्पिण्डादिगोचरो यत्नो मृदादिगोचरेण ज्ञानेन | तदपि मनोव्यापारेण | सोऽपि तद्गोचरेणाधिष्ठानेन | अधिष्ठानं चाभिव्यक्तदृक्क्रियाशक्तिरूपम् | न च तदभिव्यक्तिर्यत्नेन सम्भवति; यत्नस्याप्यभिव्यक्त्यधीनमनोव्यापाराधीनत्वात् | तस्मादन्यत्र यत्नस्य दृक्क्रियाशक्त्यभिव्यञ्जकत्वेऽपि प्राथमिके मनोव्यापारादौ कलाया एव दृक्क्रियाशक्त्यभिव्यञ्जकत्वमभ्युपेयम् | तस्माद् दृक्क्रियाशक्त्यभिव्यक्तये कलातत्त्वमभ्युपेयम् || ४९) कलोद्वलितचैतन्यानां पुंसां विषयेषु प्रवर्तकं तत्त्वं विद्या | बुद्धि संवेदनं सकरणम्, क्रियात्वात्, संमतवदित्यनुमानेनेयं सिद्धा | तदुक्तं श्रीमत्पौष्करे - कलाया कर्तृभूतस्य बुद्धिलक्षणकर्मणः | आलोकने यत्करणं सा विद्या शिवशासने || बुद्धिर्हि कर्म ग्राह्यत्वादात्मनो घटकुड्यवत् | ग्राह्यं करणसापेक्षं दृष्टं रूपादिकं यथा | ततस्तु चक्षुराद्यैश्च क्रमेणार्थे विनिश्चिते | बुद्ध्यन्तैर्निश्चितार्थैस्तां पुमान् संवेत्ति विद्यया || इति || (पौ पाश प श्लो ९-११) ५०) न च मनसा अर्थान्तरत्वम् | तद्व्यापाराधीननिश्चयायत्तत्वात् | बुद्धिव्यापारस्य च बुद्धिसंवेदनायत्तत्वात् | तस्माद्बुद्धिसंवेदनस्य मनोव्यापारात्पूर्वभावितया न तत्र मनो जनकम् | मनसः सङ्कल्पादिमात्रहेतुत्वेनैव सिद्धत्वाच्च | यद्यपि चिच्छक्त्यभिव्यक्तौ बुद्धिप्रकाशो हेतुतयाऽवश्यं कल्पनीयः; तथापि बुद्धिप्रकाशानुकूलेन्द्रियादिगोचरचिच्छक्त्यभिव्यक्त्यादौ विद्यैव हेतुः || ५१) विषयानुरञ्जकं तत्त्वं रागः | तदुक्तं श्रीमत्पौष्करे - कलातो जायते रागः सद्यः पुंसां प्रवृत्तये | अनिच्छन्नहि भुञ्जानो दृश्यते क्वचिदप्यणुः | रागाद्भोग्येषु सक्तत्वाद्भोग्यं भोक्तुमतोऽर्हति || इति || (पौ पाश प श्लो २६-२७) अयं च प्राथमिकेन्द्रियादिव्यापारानुकूलेच्छाशक्त्यभिव्यञ्जकत्वेन सिद्धः | अन्यत्र बुद्धिधर्मस्याभिषङ्गाभिव्यञ्जकत्वेऽपि तत्र रागतत्त्वस्यैव व्यञ्जकत्वात् | तथा बुद्धिधर्मस्याभिषङ्गहेतुत्वेनापि तत्सिद्धिर्द्रष्टव्या || ५२) ननु तत्र सुखादिसाधनताज्ञानमेव जनकम् | न च विरक्तस्य तस्मिन्सत्यपि अभिषङ्गो नोपलभ्यत इति युक्तम्; तत्र तस्य विषयदोषदर्शनादिना तदनुत्पत्तेस्त्वयाप्यभ्युपेयत्वात् | अन्यथा रागतत्वेन तत्र तस्य त्वन्मतेऽप्यभिषङ्गोत्पत्तेरप्रतीकारात् | नियतविषयाभिलाषं प्रति रागतत्वस्य हेतुत्वा योगेन सुखादिसाधनताज्ञानस्यैव हेतुत्वौचित्याच्च | तस्माद्बुद्धिधर्मोऽभिषङ्गो विषयसौन्दर्यायत्तो न रागतत्वाधीन इति, मैवम्; विषयसौन्दर्याधीनस्यापि विषयविशेषाभिषङ्गस्य माञ्जिष्ठकादिरागस्य त्रिफलाकषायाधीनत्ववदिच्छाशक्तिसामान्या- भिव्यञ्जकरागतत्वाधीनत्वात् || ५३) आत्मनः प्रकृतिभोक्तृत्वप्रयोजकं तत्वं पुरुषतत्वम् | इदं च कलादिपञ्चकञ्चुकेनाविद्यया चारब्धम् | एतच्च सकलस्यैवाणोर्भोजकम् | न विज्ञानप्रलयाकलयोः | तयोः कलादिसंस्पर्शाभावात् | न च कलादिकमेव तत्र प्रयोजकमस्तु, किमन्तरा तत्वान्तरेणेति वाच्यम् | तस्य कार्यान्तरजनकतयैव कॢप्तत्वादिहापि तस्यैव प्रयोजकत्वे तत्वसाङ्कर्यप्रसङ्गात्; विज्ञानाकलस्येव सकलस्यापि भोक्तृत्वायोगाच्च | नाप्यविद्यादिः पुंस्त्वप्रयोजकः; कलाद्यभावे पुंसः कर्तृत्वायोगात् | तस्मात्प्राकृताविद्यादिसहितकलाद्यारब्धं प्राकृतभोगप्रयोजकं पुंस्तत्वमभ्युपेयम् | ५४) उक्तं च श्रीमत्पौष्करे - पञ्चकञ्चुकसंयुक्तः प्रकृतिं भोक्तुमुद्यतः | अविद्यादिसमायुक्तः पुरुषः परिकीर्तितः || न विज्ञानाकलस्तेन नापि प्रलयकेवलः | पुरुषाख्यां लभेद्यस्मान्नाविद्यादिविवर्जितः || तस्मात्सकल एवाणुर्लभते पुरुषाह्वयम् | कलादिपञ्चकस्यैव यदि पुंस्त्वे निमित्तता || तदा प्रकृतिभोक्तृत्वं न स्याज्ज्ञानाकले यथा | तथाऽविद्यादिमात्रस्य नापि पुंस्त्वे निमित्तता || कलाद्यभावे कर्तृत्वाभावाद्भोक्ता कथं भवेत् | प्राकृतो यस्त्वविद्यादिः पुंसां पुंस्त्वमलः स्मृतः || तदाक्रान्तः कलाद्याढ्यः पुरुषस्तेन संमतः || इति || (पौ पुं प श्लो १-६) प्रयोगश्च - अणोः प्रकृतिभोगः प्रतिनियतकिञ्चिदायत्तः, कार्यत्वात्, संमतवदिति | इदं च तत्वं प्रतिपुरुषनियतमेव || ५५) ननु दीक्षायां पुंस्तत्वे भुवनान्युक्तानि | कथं तेषां तत्रावस्थानमिति चेदुच्यते | गङ्गायां घोष इत्यादिवद्भोग्यतया पुरुषसन्निकृष्टायाः प्रकृतेर्मस्तक एव तेषामवस्थानसम्भवात् | उक्तं च तत्र - दीक्षायां च पुरा पुंसि भुवनान्युदितानि हि | कथमत्र स्थितिस्तेषां छिन्धि सन्देहजं तमः || ईश्वरः - यत्र लक्षणया वृत्त्या भुवनस्थितिरीरिता | ततस्तत्प्रान्तवर्तिन्यां प्रकृतावेव कल्प्यताम् || गङ्गायां ग्राम इत्युक्ते तत्तटे कल्प्यते तथा || इति || (पौ पुं प श्लो ७-९) एतानि मायादीनि पुरुषान्तानि सप्त तत्त्वानि शुद्धाशुद्धरूपाणि भोजयितृकाण्ड इत्यभिधीयन्ते || ५६) गुणादिपृथिव्यन्तमूलोपादानं प्रकृतिः | इयं च श्रीकण्ठशक्तिक्षोभ्या कलातो जायते | ननु गुणोपादानं न प्रकृतिः; किं तु साम्यावस्थां प्राप्ता गुणा एव | ते च परमकारणम् | कार्यत्वे मानाभावात् | तत् एव महदहङ्कारादयः प्रकृतिविकृतिरूपा जायन्त इति चेन्न; गुणानां जडत्वे सत्यनेकत्वेन कार्यतया परमकारणत्वायोगात् | न च गुणानां नानात्वेऽपि तेषां साम्यमेकमेव | तदेव च प्रकृतिरिति युक्तम्; साम्यस्यैकत्वेऽपि गुणानां नानात्वेनोपादानसापेक्षतया उपादानान्तरस्य कल्पनीयत्वात् | गुणवैषम्ये सति साम्यस्योपादानस्य निवृत्त्या कार्यस्यापि निवृत्तिप्रसङ्गाच्च | तेषां गुणत्वान्न तत्त्वेषु गणना | उक्तं च - गुणादिक्षितिपर्यन्तं तत्त्वजातं यतो भवेत् | तदव्यक्तमिति प्रोक्तं क्षोभ्यं श्रीकण्ठविक्रमैः || ऋषयः - गुणा एव समावस्थां प्राप्ताः प्रकृतिरुच्यते | तत्कथं तदुपादानं प्रकृतिः प्रतिपाद्यते || ईश्वरः - न गुणानां समावस्था प्रकृतिः शिवशासने | अचेतनत्वेनैकत्वाद्गुणानां मुनिपुङ्गवाः || इष्टं कारणपूर्वत्वं तत्तु प्रकृतिसंज्ञितम् || इति || (पौ पुं प श्लो १८-२१) ५७) एतानि कलादिपर्यन्तानि सप्त तत्त्वानि भोजयितृकाण्ड इत्युच्यन्ते | अस्मादेव प्रकृतितत्त्वाद्वैषम्योन्मुखगुणत्रयरूपं ज्ञानोल्लेखमात्रजनकं गुणाव्यक्तापरपर्यायं चित्ताख्यं तत्त्वमुत्पद्यते | चित्तं महान् गुणः अव्यक्तमिति कार्यमायापरपर्यायप्रकृत्यधोभागपर्यायनामानि | अयं च गुणः सत्त्वरजस्तमोभेदेन त्रिविधः | तत्र प्रकाशवृत्तिकं सत्त्वम् | प्रवृत्त्यादिवृत्तिकं रजः | नियमनादिवृत्तिकं तमः | उक्तं च - क्रिया प्रकाशनिष्ठात्मा रजादिगुण ईरितः || तथा - स्थैर्यं धैर्यं तथा दाक्ष्यं मार्दवं लघुतापि च | सन्तोषमार्जवं शौचं व्यवसायः क्षमा स्मृतिः || सौहित्यं परमौत्सुक्यं दान्तिः शान्तिर्दया परा | सत्त्वस्य वृत्तयः प्रोक्ताः रजसश्चाथ कथ्यते || शौर्यं क्रौर्यं महोत्साहः साभिमानः सकल्कता | दार्ढ्यं च निर्दयत्वं च भोगो डम्भो रजोगुणाः || अरतिर्मन्दता दैन्यं पैशुन्यं गुरुता तथा | निद्राधिक्यं मदालस्यं निरोधो मूढता च या | तमसो वृत्तयः प्रोक्ता विभिन्नाः सर्वजन्तुषु | एवं संक्षेपतो विप्रा गुणतत्त्वमुदाहृअतम् || इति || (पौ पुं प श्लो २१; ३७-४१) ५८) यद्यपीन्द्रियतन्मात्रादीनां अहंकाराख्यैकतत्त्वोपादानकत्वेऽपि यथा नैकतत्त्वता तथा गुणानामप्येकतत्त्वता न युक्ता; तथापि सम्भूयैव कार्यकारित्वेन तत्त्वैक्यं युक्तम् | न च सर्वत्र कार्ये सर्वस्य गुणस्य जनकतया इदं सात्त्विकमिदं राजसम् इत्यादिव्यपदेशः कथमिति युक्तम्; तत्तद्वत्तीनां प्रकाशादीनां प्राचुर्येण तस्योपपत्तेः | गुणसद्भावे मानं तु - सुखदुःखमोहादिकं किञ्चिज्जन्यम्; कार्यत्वात्, संमतवदिति | न च विषयविशेषज्ञानेनैव तदुपपत्तिः; एकस्यैव वनितादेर्विषयस्य पुरुषभेदेन सुखदुःखादिजनकत्वात् | तथा हि - चैत्रस्य पद्मावत्यां प्रीतिः, तामविन्दतो मैत्रस्य दुःखम्, तत्सपत्नीनां च मात्सर्यान्मोहः | पद्मावत्यां च सर्वे भावा व्याख्याताः | न च स्वीयत्वपरकीयत्वाभ्यां विशेषः; साधारणेऽपि सङ्गीतादौ पुरुषभेदेन सौमनस्यवैमनस्यादेर्दर्शनात् | न च तथापि गुणक्रियारब्धे विषये कथं पुरुषभेदेन सुखदुःखादिकमिति युक्तम्; यस्य गुणस्य यदा यं प्रत्युद्भवस्तदा तं प्रति तत्कार्यं सुखादिकमुत्पद्यत इति व्यवस्थोपपत्तेः | ५९) अस्मादेव चित्ततत्त्वादुद्भूतसत्त्वं न्यग्भूतरजस्तमस्कं बुद्धितत्त्वमुपजायते | सा बुद्धिर्द्विविधा | अध्यवसायिनी अनध्यवसायिनी चेति | तत्राध्यवसायिन्यां बुद्धौ संस्कारस्यावस्थानम् | एतत्सद्भावे मानं तु इष्टापूर्तादिजनितमपूर्वं किञ्चिदाश्रयकम्, संस्कारत्वात्, संमतवत् | न चात्मनां तदाश्रयत्वम्; विकारित्वप्रसङ्गात् | तथा निश्चयः किञ्चिदायत्तः, कार्यत्वात्, संमतवत् | तथा धर्मज्ञानादयो गोणाः किञ्चिन्निष्ठाः, गुणत्वात्, संमतवत्; तथा स्मृतिजनकसंस्काराश्रयत्वेनापि तत्सिद्धिः | ६०) उक्तञ्च - गुणतत्त्वापरा बुद्धिरभवन्मुनिपुङ्गवाः | रजस्तमोभ्यां न्यग्भूता वृत्तिः सत्त्वेन चोत्कटा || सा बुद्धिरुदिता तन्त्रे विषयाध्यवसायिनी | बोधोऽत्र द्विविधो प्रोक्तो विषयाध्यवसायकः || अन्योऽनध्यवसायात्मा व्यवसायात्मकस्तु यः | सा बुद्धिरितरस्त्वात्मस्वभावो ग्राहकात्मनः || किञ्च प्रपातटाकादिक्रियाः कॢप्ताः फलार्थिभिः | समनन्तरमेवेह न यच्छन्ति फलानि तु || आमुष्मिकत्वात्किं तूर्ध्वं विनष्टा अपि ताः क्रियाः | फलकालानुवर्तित्वात् संस्कारोऽपूर्वसंज्ञितः || कल्प्यते न स पुंसि स्याद्विकारित्वेन हेतुना | कृष्यादेरपि संस्कारो न पुंसि परिदृश्यते || कुर्वन्ति यत्र संस्कारं क्रिया साष्टगुणा मता | एवं ज्ञानादिसंस्कारोऽप्यूह्यतां मुनिपुङ्गवाः || इति || (पौ पुं प श्लो ४२-४९) ६१) ते चाष्टगुणाः धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि | तत्र धर्मज्ञानवैराग्यैश्वर्याणि सात्त्विक्यो वृत्तयः | अवैराग्यं तु राजसम् | अधर्माज्ञानानैश्वर्याणि तामसानि | अत्र धर्मो द्विविधः यमो, नियमश्चेति | तत्र यमः पञ्चविधः, अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता || इति || नियमोऽपि पञ्चविधः, अक्रोधो गुरुशुश्रूषा शौचं संतोष आर्जवम् | इति || ६२) तत्राहिंसा नाम परेषु द्रुह्यत्स्वपि तेषु दुःखानुत्पादनम् | शास्त्रीयहिंसाप्याहिंसा | सत्यं तु आपद्भीतिगतेनाप्यसत्यानुल्लेखः | गुरुदेवताब्राह्मणार्थेऽसत्योल्लेखश्च सत्यम् | अस्तेयं नाम अनीत्या परवित्तस्य स्वीकाराभावः | श्रुतदृष्टविशिष्टवस्तुनस्तृणीकारोऽपि | ब्रह्मचर्यं नाम प्रार्थयन्त्यामपि स्त्रियां मातृवद्बुद्धिः, विकाराभावोऽपि | अपकारेऽपि कालुष्याभावोऽकल्कता | एते च यमाः पञ्च | अक्रोधो नाम ताडनेऽपि कोपाभावः | गुरुशुश्रूषा नाम गुर्वादीनामाज्ञानुपालनम्, नित्यादिकर्मसु श्रद्धा च | शौचं नाम मृदम्भोभिः शरीरशोधनम्, भावशुद्धिश्च | संतोषो नाम लाभालाभयोः समत्वम् | आर्जवं नाम कौटिल्याभावः | एते पञ्च नियमाः | ज्ञानं तु दशविधम् | तन्मुक्तिप्रकरणे वक्ष्यते | वैराग्यमपि व्याध्यादिसकलविषयानुभवतृप्त्याध्यात्मिकादिदुःख - द्रव्यार्जनादिदुःख - स्निग्धवियोग - स्त्रीदोषदर्शनदेहदुष्पूरताप्रति- ग्रहादिशास्त्रज्ञानहेतुकं प्राक्तनपुण्यपरिपाकमात्रहेतुकं चेति दशविधम् | ऐश्वर्यमप्यणिमादिभेदेनाष्टविधम् | तल्लक्षणमप्युदाहरिष्यमाणवचनेषु स्फुटम् | अधर्मोऽपि हिंसा - चौर्य -मिथ्याकथनागम्यागमनापकार - प्रत्यपकार - मात्सर्य - नित्यकर्मादिलोपाशौचासंतोष - कौटिल्यभेदेन दशविधः | अज्ञान-मपि तमो- मोह- महामोह-तामिस्रान्धतामिस्रभेदेन पञ्चविधम् | तत्र तमो नामानात्मन्यात्मभावः | तच्च चार्वाकादिदर्शनभेदेन दशविधम् | मोहो नाम अणिमाद्यष्टैश्वर्यसिद्धौ तत्परत्वप्रतिपत्तिः | महामोहस्तु दिव्यादिव्यभेदेन दशधा भिन्नेषु शब्दादिषु परत्वाध्यवसायः | तामिस्रो नाम दिव्यादिव्यभेदेन दशविधानां शब्दादीनां अणिमाद्यष्टकस्य च नाशात्तापः | अन्धतामिस्रो नाम शब्दादिष्वणिमादिषु च परेण भुज्यमानेषु तदसहनम् | अवैराग्यमप्यतुष्टिवैचित्र्याच्छतविधम् | अनैश्वर्यमप्यष्टविधम् | इदञ्चाशक्तिवशाद्भवति, अशक्तिश्च षट्सप्तत्यधिकशतसङ्ख्याका | एवं च धर्मो दशविधः | ज्ञानमशीतिः | शतसङ्ख्यो विरागः | चतुष्षष्टिविधमैश्वर्यम् | अधर्मो दशविधः | अज्ञानं चतुष्षटिः | अवैराग्यं शतम् | अनैश्वर्यं चतुरशीत्यधिकं शतम् | आहत्य बुद्धेर्वृत्तयो द्वादशाधिकषट्छतसङ्ख्याकाः | ६३) उक्तं च श्रीमत्पौष्करे - धर्मो ज्ञानं च वैराग्यमैश्वर्यं बुद्धिवृत्तयः | त्रयोऽत्र धर्ममुख्यास्तु सात्त्विकाः परिकीर्तिताः || रागस्तु राजसः शिष्टास्तामसाः परिकीर्तिताः | एते धर्मादयश्चाष्टौ भावयन्ति यतस्ततः || लिङ्गाभावाः समुद्दिष्टाः पठ्यन्ते ते क्रमेण तु | धर्मश्च द्विविधस्तत्र यमश्च नियमस्त्विति || चित्तस्य संयमस्तत्र स यमः परिपठ्यते | अशास्त्रीयक्रियात्यागाच्छास्त्रीयेष्वपि कर्मसु || नियमः पठ्यते शास्त्रैर्योऽयमिन्द्रियसंयमः | यमः पञ्चविधोऽहिंसा सत्यमस्तेयमेव च || ब्रह्मचर्यमकल्कत्वं यम एवं तु पञ्चधा | अक्रोधो गुरुशुश्रूषा शौचं संतोष एव च || आर्जवं चेति नियमः पञ्चधा परिकीर्तितः | परेषु दुःखानुत्पादोऽहिंसा द्रोहशतैरपि || सा न हिंसेति विज्ञेया या हिंसा शास्त्रचोदिता | आपदो भीतितो वापि न तथ्यं सत्यमुच्यते || असत्यमपि तत्सत्यं गुरुदेवप्रयोजनम् | अदत्तास्वीकृतिस्त्यागो वित्तस्यान्यायजस्य च || श्रुतस्य परिदृष्टस्य तृणीकारोऽप्यचोरता | कर्मणा मनसा वाचा श्रवणाद्दर्शनादपि || मातृवन्मन्यते नित्यं प्रार्थयन्त्यामपि स्त्रियाम् | तदेव ब्रह्मचर्यं स्याच्छेषा व्रतविडम्बकाः | स्वच्छता समता प्रीतिरपकारशतैरपि || कालुष्यं नोत्सहेद्वैरं सेयमुक्ता ह्यकल्कता | एते पञ्च यमाः प्रोक्ता यतीनां सुशिवात्मनाम् || नित्यं प्रध्वस्तकालुष्यो न कोपस्ताडनादपि | देवानां शिवभक्तानां पित्रोरपि गुरोरपि || आज्ञानुपालनान्नित्यं काम्यनैमित्त्यकर्मणाम् | दानोपवासतीर्थानां श्रूताध्ययनयोरपि || श्रद्धया करणं पुंसां शुश्रूषा परिकीर्तिता | गात्रप्रक्षालनं शौचं मृदम्भोभ्यामुदाहृतम् || सन्तोष उदितस्तन्त्रे लाभेऽलाभे समा मतिः | जानन्नपि च विप्रेन्द्रा जडवन्मूकवत्तथा || निवृत्तः परपीडायाः श्रद्धधानश्च भावतः | आर्जवं तस्य तत्प्रोक्तं नियमस्त्विति पञ्चधा || ज्ञानं बुद्ध्यात्मकं यत्तद् गुणाव्यक्तान्तगोचरम् | तस्मात्कैवल्यसंसिद्धिरिति तत्सिद्धिरुच्यते || अशीतिसंख्यया सा च संक्षेपात्परिकीर्तिता | (पौ पुं प श्लो ४९-६७) ६४) अथ वैराग्यभेदोऽपि संक्षेपेणाधुनोच्यते || व्याध्यादिपीडितस्यास्य स्वदेहेऽपि विरागता | सन्तुष्टः सर्वकार्येषु निःस्पृहत्वाज्जुगुप्सति || आध्यात्मिकादिदुःखेभ्यो वैराग्यं नियतं भवेत् | आर्जने रक्षणे चोरहरणे द्रविणस्य यत् || दुःखं तन्मन्यमानस्य वैराग्यं सहसा भवेत् | स्निग्धाद्वियुज्यमानः सन् रुदन् दुःखेन पीडितः || दुःखस्य कारणं स्नेह इति मत्वा विरज्यति | कामुकस्तु स्त्रियां दृष्ट्वा किञ्चिद्वैराग्यकारणम् || सद्यो वैराग्यमायाति श्रेयसः प्राप्तिकारणम् | सत्यन्ने ध्रियते देहः पानीयादौ च नान्यथा || एकहस्याप्यपाने च ग्लानिं बध्नाति तत्क्षणात् | दुष्पूरोऽयमतो हेतोर्वैराग्यमुपजायते || क्वचित्प्रतिग्रहादिभ्यो वैराग्यमुपगच्छति | अकस्माज्जायते कश्चिद्विरक्तः पुण्यवैभवात् || इत्येवं तुष्टयः प्रोक्ता दशधा शिवशासने | अत्रैवान्तर्गताः सर्वास्तुष्टयोऽन्या द्विजोत्तमाः || एताश्च भूताद्यव्यक्ततत्त्वानां प्रापकत्वतः | संभूय शतसंख्यास्तु तुष्टयः शिवशासने || अथैश्वर्यंविभेदोऽपि लक्ष्यते लेशतोऽधुना | बुद्ध्यात्मनोर्विभागेन स्थितमैश्वर्यमष्टधा || धर्मिणो ज्ञाननिष्ठस्य विरागेच्छोश्च धीमतः | सत्त्वमुत्पादयेद्बौद्धमणोरैश्वर्यमिच्छया || अणिमा परमण्वादेरपि सूक्ष्मतरा स्थितिः | लघिमा शीघ्रवेगित्वं पङ्कादावप्यमज्जनम् || महिमा व्याप्यवस्थानं बृहद्देहेन्द्रियादिभिः | तृतीयं कार्यतः सिद्धमैश्वर्यमणिमादिकम् || प्राप्त्यादयो गुणाः पञ्च योगिनः करणात्मजाः | मनसाभीष्टसंसिद्धिः प्राप्तिर्नाम गुणालयः || निर्माय स्त्रीसहस्राणि क्रीडाप्राकाम्यमाशु या | आज्ञाविधानं ब्रह्मादौ तत्पूजा चेशिता मता || वशीकृतिर्वशित्वं स्याज्जगन्निर्माणमेव च | भुञ्जानस्यास्य धर्माद्यैरबाधे गरिमा मतः || इति || (पौ पुं प श्लो ८७-१०३) ६५) एतच्चैश्वर्यं पार्थिवं पिशाचानामष्टगुणम् | राक्षसानां पार्थिवाप्यं षोडशगुणम् | यक्षाणां पार्थिवाप्यतैजसं चतुर्विंशतिगुणम् | गन्धर्वाणां पार्थिवाप्यतैजसवायव्यं द्वात्रिंशद्गुणम् | इन्द्रस्य पार्थिवाप्यतैजसवायव्याकाशीयं चत्वारिंशद्गुणम् | सोमस्य पार्थिवाप्यतैजसवायव्याकाशीयमानसमष्टाचत्वारिंशद्गुणम् | प्रजापतेस्तु पार्थिवाप्यतैजसवायव्याकाशीयमानसाहंकारिकं षट्पञ्चाशद्गुणम् | ब्रह्मणस्तु पार्थिवाप्यतैजसवायव्याकाशीयमानसाहंकारिकबौद्धं चतुष्षष्टिगुणम् | उक्तं च शिवधर्मोत्तरे - तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम् | तत्सायुज्यगतानां च नराणां तत्समं स्मृतम् || रक्षसां षोडशगुणं पार्थिवाप्यं च तद्द्विधा | एतन्निरवशेषेण यक्षेष्वन्यच्च तैजसम् || गन्धर्वाणां च वायव्यं याक्षं च सकलं स्मृतम् | पाञ्चभौतिकमिन्द्रस्य चत्वारिंशद्गुणं महत् || सोमस्य मानसं दिव्यं यच्चाधः पाञ्चभौतिकम् | सौम्यात्प्रजापतिस्थानमहंकारगुणान्वितम् || चतुष्षष्टिगुणं ब्राह्मं बौद्धमैश्वर्यमुत्तमम् || इति || ६६) तथा श्रीमत्पौष्करे - पिशाचानां यथोद्दिष्टमणिमादिगुणाष्टकम् | रक्षसां द्विगुणं ज्ञेयं यक्षाणां त्रिगुणं भवेत् || चतुर्गुणं तु गान्धर्वमैन्द्रं पञ्चगुणं भवेत् | सोमानां षड्गुणं सप्तगुणं स्यात्तु प्रजापतेः || चतुष्षष्टिगुणं बौद्धमैश्वर्यं ब्रह्मणः स्मृतम् | ततः समासादैश्वर्यं चतुष्षष्टिगुणं मतम् || ततस्त्वैश्वर्यभोगेन विषयेष्वपि संस्थिताः | चरन्ति क्षीणकर्माणः शुचीनां श्रीमतां गृहे || ततो धर्मेण युज्यन्ते भोगनिद्रामदाकुलाः | हिंसायामपि चौर्ये वा मिथ्याकथन एव वा || गुर्वङ्गनाधिगमनेऽप्यपकारप्रतीकृतौ | क्रोधे नित्यादिलोपे वाशौचे वातोष एव वा || अनार्जवे च सततं प्रवर्तन्तेऽन्धदृष्टयः | अधर्मवृत्तयस्त्वेता दशसङ्ख्यास्तु पूर्ववत् || अथाधर्मे प्रवृत्तं तमणुमज्ञानसन्ततौ | नियुनक्ति महेशानो यथा मूढो न पश्यति || तमो मोहो महामोहस्तामिस्रञ्चान्धपूर्वकम् | तामिस्रमिति पञ्चैव मता अज्ञानवृत्तयः || अनात्मन्यात्मभावो यः स तमः परिकीर्तितम् | भूताद्यव्यक्तपर्यन्तं तत्त्वदर्शनभेदतः || दशधा तम उद्दिष्टं मोहस्त्वष्टविधो मतः | अणिमादिषु लब्धेषु परत्वप्रतिपत्तितः || दिव्यादिव्यविभेदेन शब्दादिषु दशस्वपि | परताध्यवसायो यो महामोहः प्रकीर्तितः || शब्दादीनां दशानां च दिव्यादिव्यविभेदतः | अणिमाद्यष्टकस्यापि वैकल्यात्साधनेऽथ वा || प्राप्तानां नाशतस्तापो यस्तामिस्रं प्रकीर्तितम् | शब्दादावणिमादौ च भुज्यमाने परेण तु || तत्सुखाहरणे यत्तत्तामिस्रं चान्धपूर्वकम् | ततश्चाज्ञानभेदोऽयं चतुष्षष्टिविधो मतः || अवैराग्यं च शतधा तुष्टीनां व्यत्ययात्मतः | न जुगुप्सादयः सर्वपदार्थेषु तदा नृणाम् || अष्टभेदमनैश्वर्यमैश्वर्यव्यत्ययात्मकम् | तच्चाशक्त्या भवेत्सा च षट्सप्तत्यधिकं शतम् || अज्ञानातुष्टिरूपत्वाच्चतुष्षष्ट्युत्तरं शतम् | बुध्द्यशक्तिश्च तुष्टिः स्यात्कारणस्यार्कसंख्यया || अशक्तिरेवं संक्षेपात् षट्सप्तत्यधिकं शतम् | इति धर्मादयो भावा बुद्धिस्था वासनात्मना || क्रमेण प्रत्ययात्मानः प्रोक्तास्तद्वृत्तिभेदतः | प्रत्याययन्ति क्षेत्रज्ञं तेन ते प्रत्ययाः स्मृताः || धर्मो दशविधो ज्ञानमशीतिशतसंख्यया | विरागोऽष्टाष्टधैश्वर्यमधर्मो दशधा मतः || अज्ञानं च चतुष्षष्टिरवैराग्यं शतं भवेत् | अष्टसंख्यमनैश्वर्यं षट्त्रिंशच्च चतुश्शतम् || षट्सप्तत्यधिकाशक्तिः संख्यया शतधा मता | संम्भूय वृत्तयो बुद्धेः षट्शतं द्वादशाधिकम् || एवं संक्षेपतः प्रोक्ता बुद्धिर्भावाष्टकात्मिका | अष्टारेऽस्मिन्महाचक्रे पर्यटन्ति पुनः पुनः || पुद्गलास्तेन तेषां तु नान्तं पश्यन्ति पुद्गलाः || इति || (पौ पुं प श्लो १०४-१२८) ६७) ननु धर्मादयो भावाः परस्परविरुद्धाः कथमेकस्मात्कारणाज्जाताः ? उच्यते - धर्मादयः परस्परविरुद्धा न भवन्ति, प्रत्ययात्मकत्वात् | अत एव ज्ञानाभावो नाज्ञानम्; किन्त्वन्यथाज्ञानमेव | ततश्चाधर्मादीनामपि ज्ञानत्वेन सामान्यविशेषभावाद्विरोधाभावः | उक्तं च पौष्करे - अष्टौ धर्मादयो भावा विरुद्धास्तु परस्परम् | गुणाः सत्त्वादयश्चैवमेककारणकाः कथम् || ईश्वरः - न विरुद्धास्तु धर्माद्या यतस्ते प्रत्ययात्मकाः | ज्ञानाभावोऽत्र नाज्ञानमन्यथाज्ञानमेव तत् || तस्माज्ज्ञानविशेषास्ते सर्वे धर्मादयः स्थिताः | न विशेषास्तु सामान्याद्विरुद्धा हि कदाचन || इति || (पौ मा प श्लो ४४ - ४६) ६८) अस्मादेव बुद्धितत्त्वादिन्द्रियाद्यारम्भकं तत्त्वमहंकारः स्वोपधानेन आत्मन्यहंबुद्धिहेतुश्चोत्पद्यते | एतद्व्यापारात्प्राणादीनां संचारः | एतत्सद्भावे मानं तु अहमाकाराध्यवसायः किंचित्कारणकः, कार्यत्वात्, संमतवदित्यनुमानमेव | न च बुद्ध्यैव तुदुपपत्तिः; बुद्धेः कार्यस्याध्यवसायस्य प्रत्यर्थं भिन्नरूपत्वं विषयग्राहकरूपत्वं च, अहमाकाराध्यवसायस्य त्वेकरूपत्वं विषयिग्राहकरूपत्वं चेति, बुद्धिकार्यादध्यवसायादस्य विलक्षणत्वात् | बुद्धेरहमध्यासहेतुत्वे विषयग्रहे सर्वत्राहमुपरागप्रसङ्गाच्च | न च विषयग्रहे आत्मभानसामग्र्यनुप्रवेशाननुप्रवेशाभ्यां तदुपरागानुपरागयोरुपपत्तिः; आत्मनः संयोगस्य सर्वत्रानुप्रवेशेनाननुप्रवेशाभावात् | अस्मन्मते तु अहंकारव्यापाराव्यापाराभ्यामुपरागानुपरागावुपपन्नाविति न काप्यनुपपत्तिः | तदेवमहमाकाराध्यवसायहेतुत्वेनाहंकारसिद्धिः || ६९) तदुक्तं श्रीमत्पौष्करे - अत ऊर्ध्वमहंकारतत्त्वं संक्षिप्य वर्ण्यते | प्रत्यात्मनियतं तच्च प्रसिद्धमहमात्मकम् || मनः पूर्वमधस्तत्त्वं यत एवोपजायते | ऋषयः - प्रत्ययोऽधोऽहमात्मात्र व्यवसायात्मको यतः || बुद्धिरेव ततो भूयात्किमनेन वदेश्वर | ईश्वरः - विषयाध्यवसायो यः प्रत्यर्थं भेदतः स्थितः | अयमित्यात्मकः सर्वो बुद्धिशब्देन गण्यते || अहमात्मैकरूपस्तु सर्वतः संव्यवस्थितः | ग्राहकव्यवसायात्मा बुद्धिरेषा कथं भवेत् || विषयाभिमुखी बुद्धिरहं विषयसङ्ग्रहः | ऐक्यं कथं तयोर्विप्राः कथ्यतेऽत्यन्तभिन्नयोः || ऋषयः - अहंकृदेकमेष्टव्यं सर्वेषां अहमात्मनः | प्रत्ययस्योदयात्तत्किं प्रत्यात्मनियतं भवेत् || ईश्वरः - इदमित्येव सर्वत्र धीस्तावदुपजायते | नैतावता तदेकत्वं वाच्यं प्रत्यक्षबाधतः || किं च सर्वेषु कुम्भेषु कुम्भ इत्येव जायते | सर्वेषां प्रत्ययो वापि कुम्भैक्यं न प्रदृश्यते || प्रत्यात्मनियतोऽहंकृद्गच्छामीति च वर्तते | एकस्यान्यस्य पश्यामीत्येवं बुद्ध्युदयस्तथा || अन्यथैकप्रकाराहंमतिः स्यादुभयोरपि | अहंकारः पृथक्सार्वजनीन इति बुद्ध्यताम् || यद्यभिन्नमहंकृत्स्याद्देवदत्तेऽप्यहंमतिः | अन्यस्य चोपजायेत नात्मैकत्वं ततः स्थितम् || इति || (पौ पुं प श्लो १२९-१४०) ७०) अयं चाहंकारः प्रथमं तावज्जीवनसंरम्भगर्वभेदेन त्रिविधः | तत्र जीवनो नाम पञ्चप्राणवायुधारकः | संरम्भो नाम प्रयत्नः | गर्वो नामाहमिति ग्राहकाध्यवसायः | उक्तं च तत्त्वप्रकाशे - स्यात्त्रिविधोऽहंकारो जीवनसंरम्भगर्वभेदेन इति | मृगेन्द्रे - संरम्भाद्यस्य चेष्टन्ते शरीराः पञ्च वायवः | इति || अन्यत्र च - संरम्भोऽहंकृतो वृत्तिः ------------------------ | इति च || ७१) अयं पुनः सात्त्विकादिभेदेनापि त्रिविधः | तत्र तैजसः सात्त्विकसंज्ञः, राजसो वैकारिकाभिधः, तामसो भूतादिनामा | तत्र तैजसाहंकारात्मनः चक्षुरादीनि पञ्च ज्ञानेन्द्रियाणि चोत्पद्यन्ते | वैकृतादहंकाराद्वागादीनि पञ्च कर्मेन्द्रियाण्युत्पद्यन्ते | भूतादेरहंकाराच्छब्दादीनि पञ्च तन्मात्राण्युत्पद्यन्ते | तत्र सङ्कल्पविकल्पकारणं तत्त्वं मनः | चक्षुरादिनालोचिते अयं ब्राह्मणः इत्यादिनिश्चयः सङ्कल्पः | सम्यग्विशेषणविशेष्यभावेन अर्थकल्पनारूपत्वात् | तादृशेऽर्थे अयं ब्राह्मणो वा क्षत्रियो वा इत्यादिसंशयो विकल्पः | विविधकल्पनारूपत्वात् | तत्सद्भावे मानं तु सङ्कल्पविकल्पप्रत्ययः सकारणकः, कार्यत्वादिति | अयं च नाहंकारिको नापि बौद्धः; बुद्ध्यहंकारयोर्निश्चयाहंप्रत्यययोर्हेतुत्वेन कॢप्तत्वात् | न चायमैन्द्रियिकः; चक्षुरादिदृष्टस्यार्थस्य मानसैव बुद्ध्युपारोहणात् | अन्यथा घटे दृष्टे पटस्यापि निश्चयः स्यात् | न च बुभुत्सैव तन्नियामिकेति वाच्यम् | बुभुत्साया इच्छारूपत्वेन मनोजन्यत्वात् | तस्मात्सङ्कल्पविकल्पकारणत्वेन मनः सिद्धम् || ७२) इदं च मनो महत् | ननु क्रमेणार्थप्रकाशनादण्वेव | महत्त्वे सर्वदा सर्वपदार्थप्रकाशनप्रसङ्ग इति चेन्मैवम् | मनसो महत्त्वेऽपि कर्मवशात्सामग्र्यपेक्षणात्तमसाभिभवादपि ज्ञानस्य क्रमिकत्वोपपत्तेः | किं च मनसोऽणुत्वे अणोरेव पदार्थस्यावभासनं स्यात् | यस्य कारणस्य यावती व्याप्तिस्तावत्येवार्थभासनस्य प्रदीपसूर्यादौ दृष्टत्वात् | न च महताल्पस्य ग्रहणमयुक्तमिति वाच्यम् | विरोधाभावात् | तस्मान्मनो महदिति स्थितम् | तच्च प्रत्यात्मनियतम् | ७३) उक्तं च श्रीमत्पौष्करे - स च त्रिविध उद्दिष्टः प्रथमस्तत्र तैजसः | वैकारिको द्वितीयः स्यात्तथा भूतादिकः परः || सत्त्वेनोत्कृष्टभागो यः स तैजस इहोच्यते | वैकृतो रजसोत्कृष्टो भूतादिस्तमसाधिकः || तैजसादप्यहङ्कारान्मनो बुद्धीन्द्रियाणि च | पञ्च कर्मेन्द्रियाणि स्युरहङ्कारात्तु वैकृतात् || अहङ्कारात्तु भूतादेर्जाता तन्मात्रसंहतिः | यः सङ्कल्पविकल्पात्मा प्रत्ययोऽन्तर्गतो नृणाम् || स नाहङ्कारिको नापि बौद्धो व्यापारभेदतः | स तु मानस एवेष्टस्तन्त्रेऽस्मिन्मुक्तिसागरे || चक्षुषालोकिते ह्यर्थे तमर्थं बुद्धिगोचरम् | विदधातीह यद्विप्रास्तन्मनः परिपठ्यते || अन्यथालोचिते कुम्भे पटेऽपि स्याद्विनिश्चयः | किं च सास्नादिमत्पिण्डे गोशब्दमनुभूय यत् || भूयस्तत्सदृशे दृष्टे गोशब्दोच्चारहेतुकम् | तन्मनः कथ्यते तन्त्रे विकल्पप्रत्ययात्मकम् || केचिन्मनोऽणुमिच्छन्ति क्रमेणार्थविराजनात् | महच्चेत्सर्वदा सर्वपदार्थावगतिर्भवेत् || तदसत् कर्मवशतः क्रमाज्ज्ञानोदयो नृणाम् | सामग्र्यपेक्षातश्चापि तमसाभिभवादपि || मनोऽणु चेदणुद्रव्यग्राहकं सर्वदा भवेत् | यावती ग्राहकव्याप्तिस्तावद्ग्राह्यं च गृह्यते || दीपेन ग्रहणं यद्वत्तथा आदित्यरश्मिभिः | अल्पार्थग्राहकत्वेन मनोऽल्पमिति चेन्मतिः || तदसन्महतोऽप्यल्पग्रहणं परिदृश्यते | महदेव मनस्तत्त्वं प्रत्यात्मनियतं च तत् || इति || (पौ पुं प श्लो १४०-१५३) ७४) एतानि च चित्तबुद्ध्यहंकारमनांसि बाह्यार्थालोचने असामर्थ्यादन्तःकरणानि | तथा च न श्रोत्रादिवद्वर्तमानमात्रग्राहकाणि | अपि तु भूतभविष्यतोरपि ग्राहकाणि | सात्त्विकराजसाहंकारान्यतरप्रभवं तत्त्वमिन्द्रियम् | तच्च द्विविधम् | बुद्धीन्द्रियं कर्मेन्द्रियं चेति | तत्र सात्त्विकाहंकारप्रभवं ज्ञानेन्द्रियम् | प्रकाशकत्वात् | राजसाहंकारप्रभवं कर्मेन्द्रियम् | क्रियाजनकत्वात् | तत्र ज्ञानेन्द्रियं श्रोत्रादिभेदेन पञ्चविधम् | तत्र शब्दग्राहकमिन्द्रियं श्रोत्रम् | स्पर्शग्राहकं त्वक् | रूपग्राहकं चक्षुः | गन्धग्राहकं घ्राणम् | रसग्राहकं रसनम् | उक्तं च श्रीमत्पौष्करे - बुद्धीन्द्रियाणि कथ्यन्ते श्रोत्रं त्वक्चक्षुरेव च | जिह्वा घ्राणं च पञ्चेति सुप्रसिद्धानि तानि च || प्रत्यक्षविषयत्वेन तेषां सिद्धेर्न युक्तयः | कथ्यन्ते तान्यहङ्कारादुपजातानि सात्त्विकात् || इति || (पौ पुं प श्लो १५८, १५९) ७५) ननु श्रोत्राद्यधिष्ठानत्वाभिमतानि कर्णशष्कुल्यादीन्येव शब्दादिग्राहकाणि सन्तु | कृतं श्रोत्रादिभिरिन्द्रियैः | न च प्राप्यकारित्वानुरोधेनाधिष्ठानातिरिक्तमिन्द्रियं स्वीकर्तव्यमिति युक्तम् | त्वगाद्यधिष्ठानस्यैव प्राप्यकारित्वोपपत्तेः | चक्षुःश्रोत्रयोः प्राप्यकारित्वासिद्धेश्च | न चैवं कुड्यादिव्यवहितस्याप्युपलम्भप्रसङ्गः | कुड्याद्यभावस्यापि तत्र हेतुत्वेन कुड्यादिसत्वे तदनुपलम्भोपपत्तेः | स्फटिकाद्यन्तरितस्यापि दर्शनाच्च | प्राप्यकारित्वे शाखाचन्द्रयोर्युगपदुपलम्भायोगाच्च | तस्मादधिष्ठानातिरिक्तमिन्द्रियं नोपेतव्यमिति मैवम् | चक्षुषः प्राप्यकारित्वाभावे कुड्यादिव्यवहितस्याप्युपलम्भप्रसङ्गात् | न च कुड्यं प्रतिबन्धकम् | तस्य साक्षात्प्रतिबन्धकत्वे कुड्याद्बहिः स्थितस्येव कुड्यपुरुषयोर्मध्यगतस्यापि अनुपलम्भप्रसङ्गेन सन्निकर्षविघटनद्वारैव प्रतिबन्धकत्वस्याङ्गीकार्यत्वात् | न च ग्राह्यग्राहकमध्यगतत्वेन तत्प्रतिबन्धकम्; मध्यावस्थानस्यापि सन्निकर्षविघटनायैवापेक्षितत्वात् | अन्यथा अभिमुखस्थितस्येव पश्चाद्भागस्थितस्यापि ग्रहणप्रसङ्गाच्च | ग्रहीतृग्राह्ययोर्मध्ये अन्यस्याभावात् | स्फटिकान्तरितानुपलम्भप्रसङ्गस्तु तवापि समानः | त्वन्मतेऽपि मध्यवर्तिपदार्थस्य प्रतिबन्धकस्य सद्भावात् | अस्वच्छस्य तस्य प्रतिबन्धकत्वे मन्मतेऽपि सन्निकर्षे तस्यैव प्रतिबन्धकत्वं सुवचम् | तस्मात्सन्निकृष्टमेव चक्षुर्ग्राहकम् | न च नयनगोलकस्य घटादिभिः सन्निकर्षः सम्भवतीति तदधिष्ठानकं सङ्कोचविकासधर्मकमन्यदेव चक्षुरङ्गीकार्यम् | न च चक्षूरश्मीनां घटादिसन्निकर्षे अन्तरा पुरुषादिव्यवधानेऽपि तद्ग्रहः स्यात् | सनिकर्षविघटनहेतोराश्रयविनाशस्यान्यतरकर्मणो वा अभावादिति वाच्यम् | गवाक्षपिधाने तदन्तर्गतानां सूर्यरश्मीनां विनाशवदपसरणवद्वा इहापि विनाशापसरणान्यतरसम्भवेन संयोगविघटनस्यैवोपपत्तेः || ७६) ननु श्रोत्रस्य कथं विषयसम्बन्धः ? न च चक्षुर्वृत्तेरिव श्रोत्रवृत्तेर्बहिर्निर्गमेन सम्बन्धोपपत्तिः | दूरदेशस्थस्य तारस्येव मन्द्रस्यपि ग्रहणप्रसङ्गादिति चेन्न | वीचीतरङ्गन्यायेन सन्तत्या कर्णदेशोत्पन्नस्य शब्दस्य ग्रहणोपपत्तेः | न च कर्णदेशोत्पन्नस्येव दूरदेशोत्पन्नस्य श्रोत्रसंयुक्त आकाशे समवायेन ग्रहः स्यादिति वाच्यम् | कर्णावच्छिन्नाकाशसमवायस्यैव ग्राहकत्वात् | नन्वेवं वीचीतरङ्गन्यायेनोत्पत्त्यभ्युपगमे कर्णस्यैव सन्निकर्षसम्भवादतिरिक्तेन्द्रिये मानं नास्तीति चेत्, बधिरस्य सत्यपि कर्णे शब्दानुपलब्ध्या तदधिष्ठानकस्यान्यस्याभ्युपेयत्वात् | तस्मात्कर्णशष्कुल्यवच्छिन्ननभोदेशाधिष्ठानकं श्रेत्रेन्द्रियं सिद्धम् | तच्च वीचितरङ्गन्यायेन सन्तत्या कर्णदेशोत्पन्नशब्दग्राहकमिति | यत्त एवं सति अतिदूरोत्पन्नोऽपि शब्दः सन्तत्या श्रोत्राकाशदेशेऽपि शब्दमुत्पादयेदिति तदसत्; तथात्वे मन्द्रतारशब्दभेदेन समीपदूरग्रहव्यवस्थापि न स्यात् | तस्मान्निमित्ततारतम्यादेकस्यैव बाणस्य यथा दूरसमीपपातित्वं तथा एकः शब्द एव निमित्ततारतम्याद्दरसमीपस्थपुरुषकर्णप्रदेशं प्राप्नोति | एवं कुष्ठादिना त्वगाद्युपघाते स्पर्शाद्यप्रतीत्या तदधिष्ठानमिन्द्रियमङ्गीकार्यम् | कुष्ठादेः स्वतो दोषत्वे मानाभावात् | ७७) नन्वेकमेवेन्द्रियमधिष्ठानभेदेन भिन्नविषयग्राहकमस्तु; कृतमिन्द्रियभेदेन; अन्धबधिरत्वादिव्यवस्थापि तत्तच्छक्तिविनाशेन भविष्यतीति चेन्न | धर्मिग्राहकेणोक्तेन प्रमाणेन भिन्नतयैवेन्द्रियाणां सिद्धेः | अभेदे प्रमाणसिद्धे कथञ्चिच्छक्तिभेदेन व्यवस्थोपपादनीया | न च तत्र प्रमाणमस्ति | तदेवमिन्द्रियाणि भिन्नानि | ७८) तदुक्तं श्रीमत्पौष्करे - ननु गोलकमेवेष्टं चक्षः कैश्चित्सहेतुकम् | सान्तरग्रहणाच्छाखाचन्द्रयोर्युगपत्स्थितेः || स्थूलार्थग्रहणाच्चैव तथा किमिति नेष्यते | ईश्वरः - गोलकादीन्द्रियत्वेन सान्तरग्रहणं मतम् || व्याप्तमेवं हि गृह्येत ग्राहको दीपवन्मतः || गोलकस्य तदव्याप्त्या चाक्षुष्यं दूरवारितम् | पृथ्वर्थग्रहणं यत्तद्व्यापकत्वेन युज्यते || नो चेद्गोलकमात्रस्य भावस्य ग्रहणं भवेत् | एककाले तु शाखेन्द्वोर्ग्रहणं व्यापकत्वतः || वस्तुस्थित्या तु शाखेन्द्वोर्ग्रहणं नैककालजम् | आशुत्वेनाभिमानं तत्सहस्रदलभेदवत् || ऋषयः - ननु गोलकमेवेष्टमाधारत्वेन चक्षुषः | यत्रैवाधारसद्भावस्तत्राधेयो व्यवस्थितः || व्यापकत्वेन या सत्ता सा त्वकिञ्चित्करी मता | व्यापकोऽपि यथा जीवो व्योमदेशे न बोधकः || कथं पुनर्दविष्ठार्थं प्राप्य गृह्णाति लोचनम् | ईश्वरः - तदसत्तैजसत्वेन गोलकस्य बहिष्कृतेः | दीपवत्तत्कृतास्थानं चक्षुर्गृह्णाति नोद्भुतम् || दीपेनोपकृतं चक्षुस्तमसा वार्थसञ्चयम् | ततो गन्धादिनोक्तेन प्रसङ्गो दूरवारितः || चक्षुराधारभूतस्य गोलकस्य प्रवृत्तितः | ननु नायनतेजोभिर्निस्सृतैर्मिलितैरपि || अर्थो गृह्येत तन्नाशुविनाशान्मीलनोत्तरम् | घटान्तस्थस्य दीपस्य प्रभा इव पिधानतः || दृशो गोलकमात्रत्वे ह्यप्राप्तग्रहणं भवेत् | यद्यप्राप्तं च गृह्णीयात्तत्तु स्याद्व्यवधानतः || तस्माद्व्यापकमेष्टव्यं चक्षुर्दूरार्थदर्शने | एवं सति त्वगादेश्च गत्वार्थग्रहणं भवेत् || इति चेत्तन्न वायवादिभूताधिष्ठानगोचरम् | गत्वार्थग्रहणं नैषां किं तु प्राप्तार्थमापकाः || ऋषयः - नेत्रवच्छ्रवणं गत्वा न गृह्णाति यदि ध्वनिम् | दिग्देशोपहितः शब्दः कथमत्रोपगृह्यते || ईश्वरः - तदसद्वेगतः शब्दः सन्तत्या श्रोत्रमागतः | बाणादिपातवत्सद्यो दिग्देशाननुमापयेत् || तदा प्रागनुभूत्यैव भेर्याद्यनुमितिश्च या | गृह्णाति प्राप्तमेवार्थमिन्द्रियाणीत्यतः स्थितिः || नैकमिन्द्रियमेष्टव्यं चक्षूरूपाद्यवेदनात् | इति || (पौ पुं प श्लो १७३-१९१) ७९) नन्वेतानि कथमाहङ्कारिकाणि ? प्रतिनियतगुणग्राहकत्वेन भौतिकत्वस्यैवोचितत्वात् | यथा हि - श्रोत्रादीनि शब्दाद्याश्रयप्रकृतिकानि, तदभिव्यञ्जकत्वात्, यद्यस्याभिव्यञ्जकं तत्तदाश्रयप्रकृतिकम्, यथा कुङ्कुमगन्धाभिव्यञ्जकं घृतमिति, मैवम्; नीलाभिव्यञ्जकेन तदाश्रयपृथिवीप्रकृतिकत्वरहितेन चक्षुषानैकान्तिकत्वात् | नन्वेषां प्रकृतिभेदाभावे कथं विषयप्रतिनियम इति चेत्, न प्रकृतिभेदप्रयुक्तो विषयनियमः | किं तर्हि ? नियतिविशेषप्रयुक्तः | किं च विषयप्रतिनियमः कीदृग्रूपः ? किं यत्प्रकृतिकं यदिन्द्रियं तत्तस्यैव गुणं गृह्णाति नान्यस्येति ? किं वा यदिन्द्रियं यत्प्रकृतिकं तत्तद्गुणमेव गृह्णाति न तु तद्गुणान्यदिति | नाद्यः ; चक्षुषा पृथिवीगुणस्य नीलादेरग्रहप्रसङ्गात् | न द्वितीयः; कर्मसामान्यादेरग्रहप्रसङ्गात् | नन्विन्द्रियाणि तत्तदा- श्रयप्रकृतिकानि, शब्दादिषु पञ्चसु मध्ये तत्तन्मात्राभिव्यञ्ज- कत्वादिति चेत्, न | शब्दमात्रव्यञ्जकत्वादित्यत्र दृष्टान्ताभावात् | एवं रसमात्रव्यञ्जकत्वादित्यत्रापि जलस्य नवशरावादिगन्धव्यञ्जकत्वाद्- दष्टान्ते साधनवैकल्यम् | सर्वत्र वाप्रयोजकत्वमाहङ्कारिकत्व- बोधकागमबाधितत्त्वं च | तस्मान्न भौतिकानीन्द्रियाणि, किं त्वाहङ्कारिकाणीति सिद्धम् || ८०) तदुक्तं श्रीमत्पौष्करे - ऋषयः - यदभिव्यञ्जकं यस्य सजातीयं हि तस्य तत् | यथाभिभूतगन्धस्य निम्बत्वक्चन्दनस्य च || शब्दाभिव्यञ्चकं श्रोत्रमाकाशात्मकमेव तत् | त्वगादेश्चैवमुन्नेयमाहंकारिकता कथम् || ईश्वरः - भौतिकत्वेन मूर्तत्वमिन्द्रियाणां घटादिवत् | ग्राह्यत्वं चेन्द्रियैरन्यैरवस्थानं न कुत्रचित् || किं च मूर्तोपरोधेन मूर्तानां ग्रहणं न हि | स्फटिकान्तर्गतं वस्तु न गृह्णीयात्तु लोचनम् || पानीयान्तर्गतं वापि तस्माच्चक्षुर्न तैजसम् | ऋषयः - यद्येवं सति कुड्यान्तर्निहितस्यापि वस्तुनः || ग्रहणं स्यादमूर्तत्वेनाहंकारोद्भवत्वतः | ईश्वरः - तदसत्तामसत्वेन कुड्यादेर्गतिरोधतः || व्यङ्ग्यव्यञ्जकयोर्यत्तु सजातीयत्वमीरितम् | तदप्यचारु यत्कर्मजात्योर्दृग्विषयत्वतः || रूपैकविषयं नातस्तैजसत्वं च हीयते | तथात्वे तद्दविष्टार्थग्रहणं नोपपद्यते || नाप्राप्तग्रहणं दृष्टं यत्किंचिद्व्यवधानतः | प्राप्तमेवेन्द्रियं सर्वं गृह्णाति त्वग्यथेन्द्रियम् || किं च मूकाद्यनुत्पत्तिर्देहाङ्गत्वे प्रसज्यते | घ्राणाद्यवयवोपेतो मूकादिः परिदृश्यते || ततो व्यापकमेवेष्टं चक्षुर्दूरार्थदर्शने | श्रोत्रादीनि क्रमोक्तानि तद्ग्राह्याः पञ्च च क्रमात् || भूतपञ्चकसम्बन्धशब्दानां ग्राहिका श्रुतिः | ततोऽवशिष्टभूतेषु स्पर्शस्त्वग्ग्राह्य इष्यते || एवमन्येष्वपि ज्ञेयं तद्ग्राह्याः पञ्च च क्रमात् | श्रोत्रत्वग्लोचनादीनां क्रमेणोत्पत्तिरीरिता || इति || (पौ पुं प श्लो १६०-१७२) ८१) कर्मेन्द्रियाणि तु वाक्पादपाणिपायूपस्थानि | तेषां व्यापारास्तु वचनादानविहरणोत्सर्गानन्दाः | ते च सत्यपीन्द्रियाधिष्ठानत्वाभिमते क्वचिन्नोत्पद्यन्ते | तस्मादधिष्ठानातिरिक्तेन्द्रियसिद्धिः | तदुक्तं पौष्करे - कर्मेन्द्रियाणि वाक्पादपाणिगुह्यगुदानि च | वचनादानगमनानन्दोत्सर्जनहेतवः || इति || ८२) तामसाहङ्कारप्रभवं तत्त्वं तन्मात्रम् | तच्च पञ्चविधम् | शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति | तत्र ध्वनित्ववर्णत्वतारत्वमन्द्रत्वादिविशेषहीनं शब्दसामान्यं शब्दतन्मात्रम् | शीतोष्णत्वादिविभागरहितं स्पर्शसामान्यं स्पर्शतन्मात्रम् | शुक्लत्वादिविशेषशून्यं रूपसामान्यं रूपतन्मात्रम् | मधुरत्वादिविभागविधुरं रससामान्यं रसतन्मात्रम् | सुरभित्वादिविशेषानाक्रान्तं गन्धसामान्यं गन्धतन्मात्रम् || ८३) ननु तन्मात्रसद्भावे किं मानम् ? न तावत् आकाशादीनि भूतानि उपादानारब्धानि, कार्यत्वात्, इत्यनुमानं मानम्; तामसाहङ्कारेण परमाणुभिर्वार्थान्तरत्वात्; नापि तारादयो विशेषाः सामान्यपूर्वकाः, विशेषत्वादित्यनुमानम्; खण्डमुण्डादिषु विशेषेषु गोसामान्यपूर्वकत्वाभावेन विरुद्धत्वात् | तस्मात् तन्मात्रसद्भावे मानं नास्तीति, मैवम्; तामसाहङ्कारस्याकाशादिकारणत्वे आकाशादिषूत्तरोत्तरगुणाधिक्यस्यादृष्टमात्रहेतुकत्वं स्यात् | अतो दृष्टहेतुकत्वात् शब्दतन्मात्रादिहेतुकत्वमभ्युपेयम् | एवं ह्याकाशस्य शब्दतन्मात्रारब्धतया शब्दगुणकत्वम् | वायोः शब्दस्पर्शतन्मात्रारब्धतया गुणद्वयकत्वम् | तेजसः शब्दस्पर्शरूपतन्मातारब्धतया गुणत्रयकत्वम् | जलस्य शब्दस्पर्शरूपरसारब्धतया गुणचतुष्टयाधिकरणत्वम् | पृथिव्याः शब्दस्पर्शरूपरसगन्धतन्मात्रारब्धतया गुणपञ्चकाधिकरणत्वं युज्यते | न च तत्तद्गुणाधिकरणपरमाणूपादानतया तत्तद्गुणाधिकरणत्वमेतेषामिति युक्तम्; सूक्ष्मस्य गुणस्यैव कारणत्वसम्भवे गुणाधिकरणस्य सूक्ष्मस्य कारणत्वकल्पनायां गौरवात् | तस्मात्तन्मात्राण्येव भूतानामुपादानत्वेनाभ्युपेतव्यानि | ८४) तदुक्तं श्रीमत्पौष्करे - तन्मात्राण्यपि वर्ण्यन्ते क्रमात्प्राप्तानि सम्प्रति | बाह्येन्द्रियपरिच्छेद्यगुणत्वाद्भूतसंहतिः || प्रत्यक्षत्वेऽस्मदादीनां स्थिता कारणपूर्विका | यत्तत्र कारणम् विप्राः सा तु तन्मात्रसंहतिः || विशेषत्त्वाच्च शब्दादेस्ते च सामान्यपूर्वकाः | यत्तत्रापि च सामान्यं तन्मात्रमिति भावयेत् || एकद्वित्रिचतुःपञ्चगुणास्तन्मात्रसंहतिः | अत एव हि भूतानामभियोगो गुणैः क्रमात् || स्थौल्यसौक्ष्म्यकृतो भेदो भूततन्मात्रयोरिव || इति || (पौ पुं प श्लो २४१-२४५) ८५) तन्मात्ररभ्यं तत्त्वं भूतम् | इन्द्रियग्राह्य(जातीय)गुणाधिकरणं वा | तच्चाकाशादिभेदेन पञ्चविधम् | तत्रावकाशप्रदानव्यापारकं तत्त्वमाकाशः | स्पर्शतन्मात्रानुपादेयत्वे सति शब्दतन्मात्रोपादेयं वा | अस्य च शब्द एव गुणः | गुणत्वं चास्योत्कर्षापकर्षयोगित्वेनानुमेयम् | ननु शब्दस्य भेर्यादिगुणत्वोपपत्तेः कथमाकाशसिद्धिरिति चेन्न; श्रोत्रसन्निकर्षाय शरपातन्यायेन शब्दं प्रत्युपादानत्वेनाकाशसिद्ध्युपपत्तेः भेर्यादिर्नोपादानम्; किन्तु निमित्तमेव | नन्वस्य कथं शब्द एव गुणः ? नीलं नभ इत्यनुभवेन रूपस्यापि सत्त्वात् | निस्पर्शत्वादिना नीरूपत्वानुमानस्य प्रत्यक्षबाधितत्वादिति चेन्न; यस्मिन्नेव प्रदेशे दूरान्नीलोपलम्भस्तत्रैव समीपोपसर्पणेन तदभावोपलब्धेः तज्ज्ञानस्य दूरत्वादिदोषजन्यतया भ्रमत्वनिश्चयात् | न चास्य सकलमूर्तद्रव्याभावत्वेनोपपत्तेस्तत्त्वान्तरत्वकल्पनं निरर्थकमिति वाच्यम्; शब्दगुणस्य निराश्रयत्वप्रसङ्गात् | अभावस्य समस्तभूतावकाशप्रदानगमनागमनाद्याधारत्वरूपभाव- धर्मानुपपत्तेश्च | ८६) तदुक्तं श्रीमत्पौष्करे - महाभूतानि जायन्ते क्रमात्तन्मात्रपञ्चकात् | आकाशं पवनस्तेजस्तोयं भूरिति संज्ञया || गमागमादिव्यापारो यस्मिन्सति नृणां भवेत् | तद्धेतुभूतमाकाशमिष्यतां मुनिपुङ्गवाः || नो चेत्तदवकाशाख्यं विहरेयुः क्व जन्तवः | न हि भूम्यन्तरा दृष्टौ प्राणिनां तु गमागमौ || तस्मादाकाशमेष्टव्यमवकाशस्य कारणम् | किं च तीव्रादयः शब्दा गुण्यपेक्षा गुणत्वतः || गुणी चाकाशमित्युक्तं तच्च नॄणामतीन्द्रियम् | ऋषयः - ननु प्रत्यक्षमाकाशमुत्पतत्खगदर्शनात् || अनक्षं चेन्न दृश्येत पक्षिणो दिवि यद्गतिः | ईश्वरः - एवं चेन्मूर्तमाकाशं स्पर्शादिगुणयोगतः || इत्यादि वदतः पृथ्वीसाधर्म्येणातिशोभते | अन्यस्य कार्येणान्यस्य स्वरूपपरिनिश्चये || आलोकेन हि संयोग आकाशे दृश्यते तयोः | नीलं व्योमेति तन्मिथ्या दूरत्वादिनिबन्धनात् || व्योमानक्षं दविष्टत्वाद्यथा तन्मात्रसंहतिः | ऋषयः - व्योमाह्वयकृतः कश्चिद्भावो नास्त्यवकाशतः || अवकाशश्च पृथ्व्यादेरभावात्मक एव सः | इत्याहुरपरे तत्र समाधानं विधीयताम् || ईश्वरः - अभावो भावधर्मस्तु तथा भावोऽपि तद्गतः | यद्यभावो न तद्ध्र्मो घटाभावः पटस्य च || अभावोऽयं पदार्थस्य धर्मश्चेच्छशशृङ्गवत् | सर्वदानुपलम्भः स्यादिति चैतदचोदनम् || अभावोऽनुपलब्धिर्हि सा च कार्यसमाश्रिता | तद्धेतोः कार्यभूता सा तामसोद्रेकतः स्थिता || अभावः शक्त्यवस्थातो भावकार्यात्मना स्थितिः | भावाभावौ न चैकत्र भावानां तेन संमतौ || मूर्ताभावोऽप्यभावत्वान्मूर्तेष्वेव व्यवस्थितः | तत्कथं तदभावोऽयमवकाशो भवेदिह || यो यस्य धर्मस्तस्येह युक्ता तद्ध्र्मिणि स्थितिः | अवकाशः पुनः सोऽयं व्यापी सर्वत्र दृश्यते || इति || (पौ पुं प श्लो २७९-२९४) ८७) रूपतन्मात्रानारब्धत्वे सति स्पर्शतन्मात्रारभ्यो वायुः | अस्य च शब्दस्पर्शौ गुणौ | ननु शब्दो न वायुगुणः, श्रोत्रग्राह्यत्वात्, यो वायुगुणः स न श्रोत्रेण गृह्यते, यथा स्पर्शः; वायुर्वा न शब्दगुणकः, आकाशेतरत्त्वात्, यः शब्दगुणकः स आकाश इत्यनुमानाभ्यां शब्दस्य वायुगुणकत्वाभावनिश्चयात् कथं शब्दस्य वायुगुणत्वमिति चेन्न; शकशकादिध्वनेर्वायुगतत्वेनोपः लम्भेनानुमानयोः प्रत्यक्षबाधितत्वात् | एवं धमधम, छलछल, खडखडादिध्वनीनामग्न्यादिगतत्वानुभवात्तेजःप्रभृतीनामपि शब्दगुणकत्वम् | अयं च त्वगिन्द्रियजप्रत्यक्षविषयः; वायुं स्पृशामीत्यनुभवादुद्भूतस्पर्शवत्त्वाच्च | न च नीरूपस्य कथं प्रत्यक्षविषयत्वमिति युक्तम्; रूपस्य चाक्षुषतायामेव प्रयोजकत्वात् | ८८) रसतन्मात्रानारभ्यत्वे सति रूपतन्मात्रारभ्यं तेजः | अस्य च शब्दस्पर्शरूपाणि गुणाः | तस्य च यद्यपि प्रकाशस्वभावतया ज्ञानेन्द्रियवत्सात्त्विकाहंकारारब्धत्वमेवोचितम्; तथापि घटाद्यपेक्षया प्रकाशकत्वेऽपि इन्द्रियापेक्षया प्रकाश्यत्वात् परम्परया तामसाहंकारारब्धत्वमुक्तमिति द्रष्टव्यम् | ८९) गन्धतन्मात्रानुपादेयत्वे सति रसतन्मात्रोपादेयं जलम् | अस्य रसोऽपि गुणः | अस्य च शब्दः छलछलः, स्पर्शः शीतो, रूपं शुक्लं रसो मधुरः | कूपादिषु रसभेदप्रतीतेराश्रयभेदकृतत्वात् || ९०) गन्धतन्मात्रारभ्या पृथिवी | अस्याश्च गन्धोऽपि गुणः | अत्र रूपं श्वेतनीलपीतहरितरक्तकपिशभेदभिन्नम् | रसोऽपि मधुराम्ललवणतिक्तकटुकषायभेदभिन्नः | स्पर्शोऽनुष्णाशीतः | गन्धः सुरभिरसुरभिश्च | स च पाकजापाकजभेदेन द्विप्रकारः | अस्याश्च शब्दः खडखडः | एते च प्रकृत्यादयः पृथिव्यन्ता अप्यशुद्धभोग्यकाण्ड इत्यभिधीयन्ते | इन्द्रियादीनां स्वतो भोग्यत्वाभावेऽप्यालोचनादिद्वारा बुद्धौ विषयार्पकत्वेन विषयावच्छिन्नबुद्धिरूपभोग्यसम्पादकत्वेन भोग्यत्वमिति भोग्यकाण्डान्तर्भाव उपपन्नः | ९१) तदुक्तं श्रीमत्पौष्करे - वायवादीनां समुत्पत्तिः क्रमेणैवाभिधीयते | वायुरग्निस्तथा तोयं पृथ्वीत्येतच्चतुष्टयम् || अनिलः स्पर्शतन्मात्रादभवद्व्यूहनात्मकः | उत्क्षेपणादिव्यापारहेतुत्वेनोपकारकः || दशधा वर्तमानोऽन्तःशरीरे सर्वजन्तुषु | प्राणापानसमानादिव्यानोदानादिसंज्ञया || अनलो रूपतन्मात्राज्जायते पक्तिलक्षणः | स च त्रिधा स्थितो लोके गार्हपत्यादिसंज्ञया || अतोऽन्य एव शैवाग्निस्ततो बिन्दूदरान्तरे | यद्यदश्नाति लोकोऽयं तदनेनैव पच्यते || अतोऽयमनलोऽत्यन्तं प्राणिनामुपकारकः | अभवद्रसतन्मात्रात्तोयं सङ्ग्रहणक्रियम् || तोयेनैव प्रतिष्ठास्य स्थिता लोकस्य वस्तुनः | स्वतो धूल्यात्मकत्वेन पृथ्वी चानेन वै दृढा || पृथिवी गन्धतन्मात्रादभवद्धारणक्रिया | नाकाशाज्जायते वायुर्न वायोरग्निसम्भवः || नाग्नेरापस्ततः पृथ्वी धर्मातिशयदर्शनात् | कारणाद्गुणसंक्रान्तिर्युक्ता कार्येषु न स्वतः || व्योम्नः पञ्चगुणत्वं स्यात्तथा सृष्टिक्रमो यदि | तन्मात्रपञ्चकाज्जातं ततो व्योमादिपञ्चकम् || इति || (पौ पुं प श्लो ३४९-३५८) ९२) तथा श्रीमन्मतङ्गे - अभवच्छब्दतन्मात्रं सूक्ष्मं नैवोपलभ्यते | तन्मात्रशब्दः शेषार्थविनिवृत्यर्थमुच्यते || अतोऽन्यत्स्पर्शतन्मात्रं किञ्चिच्छब्दसमन्वितम् | रूपतन्मात्रमप्येवं शब्दस्पर्शसमन्वितम् || ततोऽन्यद्रसतन्मात्रं प्रागुक्तत्रितयान्वितम् | गन्धतन्मात्रमप्येवं चतुष्टयसमन्वितम् || इति || (मतङ्ग अहं प श्लो १०१-१०४) श्रीमन्मृगेन्द्रे च - व्योमप्रभञ्जनाग्न्यम्बुभूमयो भूतपञ्चकम् | शब्दाद्येकोत्तरगुणमवकाशादिवृत्तिमत् || धूननज्वलनप्लावखरत्वावेदिनो गुणाः | शब्दा वायवादिषु व्योम्नि सवर्णप्रतिशब्दगाः || व्यूहोऽवकाशदानं च पक्तिस्तद्ग्रहधारणाः | वायुव्योमहुताशाम्बुधरणीनां च वृत्तयः || इति || (मृ प्र ११ श्लो १७-१९) अन्यत्र - खविशेषगुणः शब्द आश्रयादन्यतः स्थितेः | हेतुर्वैशेषिकोक्तोऽयं हेत्वाभासोऽवगम्यते || कालात्ययोपदिष्टश्च प्रत्यक्षागमबाधतः | पृथिव्यां खडखडः शब्दो जले छलछलोऽनले || धकधकः शकशको वायौ व्योम्नि प्रतिध्वनिः || इति || ९३) श्रीमन्मृगेन्द्रे च - इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये | अशीतोष्णौ महीवायवोः शीतोष्णौ वारितेजसोः || भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा | रूपं त्रिषु रसोम्भस्सु मधुरः षड्विधः क्षितौ || गन्धः क्षितावसुरभिः सुरभिश्च मतो बुधैः | व्यूहोऽवकाशदानं च पक्तिसङ्ग्रहधारणाः || वायुव्योमहुताशाम्बुधरणीनां च वृत्तयः | देहेऽस्थिमांसकेशत्वङ्नखदन्तेषु चावनिः || मूत्ररक्तकफस्वेदशुक्लादौ वारि संस्थितम् | हृदि पक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् || प्राणादिवृत्तिभेदेन नभस्वानुक्त एव ते || इति || (मृ प्र १२ श्लो २६-३०) ९४) एतैश्च कलाद्येकत्रिंशत्तत्त्वैरारब्धानि शरीराणि पुंसां भोगसाधनानि | लोकान्तरगत्यागतिहेतुभूतं तु पुर्यष्टकाख्यं सूक्ष्मशरीरम् | तच्च तन्मात्रपञ्चकमनोबुद्ध्यहंकारात्मकम् | तदुक्तं त्रिशतीकालोत्तरे - शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | मनो बुद्धिरहङ्कारः पुर्यष्टकमुदाहृतम् || इति || एतत्सद्भावेऽनुमानमपि - आत्मनः परलोकगत्यादिकं, किञ्चित्करणसाध्यम्, क्रियात्वात्, स्थूलशरीरक्रियावत् | न चैतद्व्यापकस्यात्मनः स्वतः सम्भवतीति औपाधिकं वाच्यमित्युपाधित्वेन तत्सिद्धिः || तदेवं तिरोधानशक्तिमलबिन्दुमायाकर्मरूपाः पञ्च पाशा इति सिद्धम् || इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयोगीन्द्र- ज्ञानशिवाचार्यविरचितायां शैवपरिभाषायां पाशपदार्थो नाम चतुर्थः परिच्छेदः || पञ्चमः परिच्छेदः १) एतेषां च पाशानामसंस्पर्शे शिवैक्येन शिवानन्दाभिव्यक्ति- लक्षणां मुक्तिं क्रमेणायमात्मा प्राप्नोति | तथा हि - ब्राह्मणः क्षत्रियो वैश्यः सच्छूद्रः सवर्णाद्यनुलोमजातिश्च यदा कर्मसाम्य- मलपरिपाकाभ्यां युज्यते तदा तस्मिन् पारमेश्वरी शक्तिः पतति | तदा तस्य श्रेयोवेदने श्रद्धा जायते | विषयेभ्यश्च दोषदर्शनाद्यधीनं वैराग्यं भवति | एवं सञ्जातवैराग्यः श्रेयोवेदनाय गुरुकुलमुपसर्- पति | तस्माच्च गुरोर्भक्त्याद्यनुमितस्वाधिकारात् समयदीक्षां लब्ध्वा समयिधर्मान् शिवारामपरिपालनशिवालयसंमार्जनशिवपूजोपयुक्त- पुष्पाद्याहरणशिवभक्तपूजाभस्मोद्धूलनत्रिपुण्ड्ररुद्राक्षादि- धारणादीननुतिष्ठति || २) एवमनुतिष्ठतोऽस्य पूर्व मन्दतरतया स्थितः शक्तिपातो मन्दो भवति | तदा अस्य शिवपूजागमाध्ययनादौ श्रद्धा जायते | अनन्तरं तादृशश्रद्धापरिपाकाभिज्ञाद्गुरोरागमाध्ययनशिवपूजाद्यधि- कारभूतां विशेषदीक्षां लभते | तदनन्तरं गुरूपदिष्टागमाध्ययनादौ श्रद्धा जायते | शिवपूजादीन् पुत्रकधर्माननुतिष्ठति | एवमागमोक्तपुत्रकधर्मान् वैदिकांश्च नित्यादीनाचरतोऽस्य पूर्वं मन्दतया स्थितः शक्तिपातस्तु तीव्रो भवति | तदा चातिपक्वमलतया प्रथममापातप्रतिपन्नेषु आगमार्थेषु पूर्वापराविरोधेन तत्त्वजिज्ञासा जायते | अनन्तरं तदभिज्ञाद्गुरोस्तत्त्वज्ञानप्रतिबन्धकर्तृसकलसञ्चितकर्मनिबर्हणीं निर्वाणदीक्षां प्रपद्यते | अनन्तरं स्वात्मनः किञ्चिज्ज्ञत्वादि कर्ममलादिकृतं, शिवैक्येन सर्वज्ञत्वादिकमेव स्वाभाविकमिति गुरूपदेशेन प्रतिपद्यते | अनन्तरं च तमेवार्थं युक्तिभिः प्रतिष्ठाप्य निरन्तरं ध्यायते | एवं निरन्तराभ्यासे तत्परिपाकसहकृतया गुरुकृपया स्वरूपज्ञानमभिव्यज्यते | तस्मिन्नेव क्षणे मलेन च विनिर्मुक्तो भवति | एवं मलविमुक्तोपि प्रारब्धेन कर्मणादेहबन्धमनुभवन्नास्ते | एवं निष्पन्नतत्त्वज्ञानतया तदुत्पादककर्मणोऽनपेक्षितत्वेऽपि कदाचित् तदनुतिष्ठति | कदाचित् तत्परित्यजति | कदाचिन्निबिडमपि कर्मानुतिष्ठति | न च तैर्लिप्यते | एवं प्रारब्धकर्मफलं सुखं दुःखं वानुभवति | तथापि तत्र न सज्जते | न वा विषीदति | एवं स्थितः प्रारब्धभोगान्ते मलकर्मणोरभावेन मायाया अपि देहादिद्वारा बन्धकत्वासम्भवेनैकीभूतः सन् अलौकिकमद्भूतं वाचामगोचरं अखण्डाकारसच्चिदात्मकं शिवानन्दं लभते | इयमेव मोक्षावाप्तिः | एतत्सर्वं क्रमेणोपपाद्यते | ३) तथा हि - दीक्षायां चत्वारो वर्णाः षडनुलोमाश्चाधिकारिणः | अनुलोमाश्च सवर्णादयः | तत्र क्षत्रियायां ब्राह्मणाज्जातः सवर्णः | वैश्यायां तस्मादेव जातो निषादः | तस्मादेव शुद्रायां जातः पारशवः | वैश्यायां क्षत्रियाज्जातो महिष्यः | तस्मादेव शुद्रायां जातो दौष्यन्तः | शूद्रायां वैश्याज्जात उग्रः | एतेभ्यो दशभ्योऽतिरिक्ता दीक्षायां नाधिकारिणः | तेषामागमपुराणादिश्रवणस्य - अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च | वैश्याश्च तारतम्येन ज्ञानाभ्यासेऽधिकारिणः || अस्ति शूद्रस्य शुश्रूषोः पुराणेनैव वेदनम् | अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते || भाषान्तरेण कालेन तेषां सोऽप्युपकारकः | इत्यादिना भाषान्तरश्रवणविधानमुखेन निषिद्धत्वात् | यद्यपि चात्र अन्य शब्द अनुलोमानामप्युपस्थापकः, तथापि जामदग्न्यविदुरादीनामनुलोमानां वेदाध्ययनभागवतश्रवणादेस्तत्र तत्रोक्ततया तदन्यविषयः | एवं च वर्णानुलोमातिरिक्तानामागमाध्ययनं प्रत्यनधिकारे तदङ्गभूतदीक्षायामप्यनधिकार एव | प्रधानाधिकारिण एवाङ्गेऽधिकारात् | यद्यपि शूद्रस्यापि - दीक्षा कार्या हि सर्वेषां तच्छक्तिविधियोगिनाम् | त्रयाणामपि वर्णानां न तु शूद्रान्त्यजातिषु || इति दीक्षायामधिकारो निषिद्धः, तथापि - अमद्यपास्तु ये शूद्राः शौचाचारक्रियादराः | शिवभक्ताश्च ये तेषां दीक्षा कार्यान्यथा न हि || इति निषेधोऽसच्छूद्रविषयतया व्यवस्थापित इति सच्छूद्रस्यैवाधिकारः | ४) तथा मलपरिपाकः कर्मसाम्यं चाधिकारिविशेषणम् | परिपाको मलस्यैव किं त्वनुग्रहकारणम् | इत्यादिवचनात् | तस्य शिष्यस्य विप्रेन्द्राः कर्मसाम्ये सति द्विजाः | शाम्भवी शक्तिरत्यन्तं तस्मिन् पतति चिद्घना || इत्यादि वचनाच्च | तत्र कर्मसाम्यं समबलयोः विरुद्धफलयोः पुण्यरूपयोरपुण्यरूपयोः पुण्यापुण्यरूपयोर्वा युगपत्फलौन्मुख्यम् | इदं च तिरोधानशक्तिनिवर्तनद्वारा अनुग्रहशक्तिनिपाते हेतुरित्यधिकारिविशेषणम् | अतुल्यबलत्वे अविरुद्धफलत्वे च तत्फलभोगस्यावश्यकत्वेन तिरोधानशक्तेर्निवर्तयितुमशक्यत्वान्न तत्र कर्मसाम्यमिति तद्व्यावर्तनाय तुल्यबलत्वं विरुद्धफलत्वं च विशेषणमुपात्तम् | मलस्य परिपाको हि विश्लेषौन्मुख्यावस्थाविशेषः | मलपरिपाकादियुक्ते अधिकारिणि शक्तेः पातोऽपि परिपाकादेः पूर्वं संवतायाः परिपाकादौ सति सुव्यक्तायास्तस्या अनुग्रहौन्मुख्यमेव | अस्य च शक्तिपातस्य संसारविद्वेषमुमुक्षाशिवभक्त्यादीनि चिह्नानि | एतैश्चिह्नैरधिकारिणं ज्ञात्वैव गुरुणा दीक्षा कर्तव्या | गुरुश्च चातुर्वर्णिक एव | तत्र ब्राह्मणो ब्राह्मणादीनां चतुर्णामनुलोमानां च षण्णां गुरुः | क्षत्रियः क्षत्रियादीनां नवानाम् | वैश्यो वैश्यादीनामष्टानाम् | शूद्रः शूद्रस्यैव | आश्रमक्रमेऽपि सन्न्यासी सन्यासिप्रभृतीनां चतुर्णाम् | वानप्रस्थो वानप्रस्थादीनां त्रयाणाम् | गृहस्थो गृहस्थब्रह्मचारिणोः | ब्रह्मचारी तु यदि नैष्ठिकस्तदा सन्न्यासिव्यतिरिक्तानां त्रयाणाम् | | उक्तरूपस्य गुरोरसम्भवे क्षत्रियो ब्राह्मणस्य गुरुः | वैश्योऽपि क्षत्रियस्य | शूद्रस्तु शूद्रस्यैव | न कदाचित् स्वोत्तमवर्णस्य गुरुः | एवमाश्रमक्रमेऽपि वानप्रस्थः सन्न्यासिनोऽपि गुरुः | गृहस्थो वानप्रस्थसन्न्यासिनोरपि | ब्रह्मचारी गृहस्थवानप्रस्थसन्न्यासिनामपि | चातुर्वर्णिकोपि वृत्तवयोयोनिगुणाकारादिसम्पन्नो दोषहीन एव गुरुः | गुरुश्च न पशुत्वयोगी | किं तु निगमागमादिश्रवणमनननिदिध्यासनपरिपाकाधीनसाक्षात्कारेण सम्पन्नशिव भावः | आचार्यमूर्तिमास्थाय चतुर्धा शक्तिपाततः | भगवाननुगृह्णाति स एव सकलानपि || आचार्यः शिव एवाहुः -------------------------- | इत्यादिवचनात् | कुम्भादिष्विव गुरौ सन्निधानेन शिवस्यानुग्रहकर्तृत्वमिति औपचारिकार्थपरिग्रहस्य मुख्यार्थबाधाभावेऽयुक्तत्वात् | एवं विधाद्गुरोरुक्तरूपेणाधिकारिणा प्रथमं समयदीक्षा लब्धव्या || ५) दीक्षासामान्यलक्षणं तु आगमिकनित्याद्यधिकारागम- श्रवणाद्यधिकारान्यतरनिर्वर्तनसमर्थशिवव्यापारत्वम् | तत्र समयदीक्षा विशेषदीक्षा च शिवालयपरिचर्याशिवपूजादिनित्याद्य- धिकारसम्पादिका | निर्वाणदीक्षा तु आगमश्रवणमननाद्यधिकार- सम्पादिका | चातुर्वर्णिकत्वादिनियतव्यापारानुलोमनियतव्यापार- व्यावृत्तये शिवव्यापारग्रहणम् | इयं च दीक्षा चाक्षुष्यादिभेदेन सप्तविधा | तत्र पाशबन्धविमोक्षाभिप्रायेण वीक्षणं चाक्षुषी दीक्षा | तेनैवाभिप्रायेण दक्षिणहस्तेन स्पर्शनं स्पर्शदीक्षा | तदुद्देशेनैव संहितामन्त्रोच्चारणं वाचिकी दीक्षा | अस्य पाशविमोक्षो भवत्विति मनसाभिध्यानं मानसदीक्षा | तदभिप्रायेण शास्त्रप्रदानं शास्त्रदीक्षा | तदुद्देशेनैव शिवे संयोजनं योगदीक्षा | कुण्डमण्डपादियुक्ता हौत्री | सापि द्विविधा, ज्ञानवती क्रियावती चेति | यत्र कुण्डमण्डपादिषु क्रियमाणं कर्म क्रमेण मनसैव निर्वर्त्यते सा ज्ञानवती | इयं च ज्ञानवती दीक्षा शैवसन्न्यासपद्धतौ स्पष्टमुक्ता तत्र द्रष्टव्या | यत्र तु कायव्यापारेण सा क्रियावती | क्रियावत्यपि द्विविधा | निर्बीजा सबीजा चेति | तत्र स्त्रीबालवृद्धव्याधिग्रस्तादीनामसमर्थानां समयाचारसंशोधनेन समयाचारहीना निर्बीजा | इयमपि द्विविधा | सद्योनिर्वाणदा असद्योनिर्वाणदा चेति | यत्र प्रारब्धकर्मणोऽपि विशोधनं सा सद्योनिर्वाणदा | यद्यपि प्रारब्धस्य भोगेनैव तत्र तत्र विनाशः प्रतिपादितः, तथापि स तीव्रवेगप्रारब्धविषयः | प्रारब्धं हि तीब्रवेगमन्दसुप्तभेदेन चतुर्विधम् | तत्र तीव्रवेगयोः भोगं विना न विनाशः | मन्दस्य दीक्षायां संयोजनसञ्जननपूर्वक भोगभोजनेन विनाशः | सुप्तस्य तु भोगभोजनं विनैव नाशः | एवं च यत्र शिष्यगतं तीव्रतरं शक्तिनिपातं तादृशं च मलपरिपाकं मन्दं सुप्तं च प्रारब्धं ज्ञात्वात्यन्तसमर्थेन गुरुणा भोगभोजनेन तद्विना वा विनाशः क्रियते, सा सद्योनिर्वाणदा | यत्र प्रारब्धसंशोधनं नास्ति सा असद्योनिर्वाणदा | समयाचारसमर्थानां क्रियमाणा सबीजा | इयमपि शिवधर्मिणी लोकधर्मिणी चेति द्विविधा | धर्माधर्मयोरुभयोरपि यत्र संशोधनं सा शिवधर्मिणी | अधर्ममात्रस्य यत्र संशोधनं सा लोकधर्मिणी | क्रियावती प्रकारान्तरेण त्रिविधा | समयदीक्षा विशेषदीक्षा निर्वाणदीक्षा चेति | यत्र रुद्रपदे योजनं क्रियते सा समयदीक्षा | यत्रेश्वरपदे योजनं सा विशेषदीक्षा | अनयोरुभयोरपि नास्ति शिखाच्छेदः | यत्र शिवपदे योजनं सा निर्वाणदीक्षा | यत्र निर्वाणदीक्षापूर्वकं सन्न्यासः तत्र त्वस्ति शिखाच्छेदः | निर्वाणदीक्षायामध्वशुद्धिः कार्येति अध्वा निरूप्यते | ६) अध्वा च मन्त्रपदवर्णभुवनतत्त्वकलाभेदेन षड्विधः | तत्र उत्तरोत्तरः पूर्वपूर्वव्यापकः | मन्त्रा एकादश | पदान्येकाशीतिः | वर्णाः पञ्चाशत् | भुवनानि चतुर्विंशत्यधिकद्विशतसंख्यानि | तत्त्वानि षट्त्रिंशत् | कलाः पञ्च | तत्र निवृत्तिकलायां पृथिव्याख्यं तत्त्वमेकम् | कालाग्न्यादीनि अष्टोत्तरशतं भुवनानि | तत्र ब्रह्माण्डकरण्डमध्ये षट् | प्राच्याद्यासु दशसु दिक्षु दश दश | ऊर्ध्वं द्वे | तदेवमष्टोत्तरशतं भुवनानि | सद्योजातहृदयाख्यौ मन्त्रौ | अष्टाविंशतिः पदानि | वर्ण एकः | पदवर्णानां स्वरूपमन्यत्र प्रदर्शितम् | वर्णः पीतः | मण्डलं चतुरश्रम् | गन्धादयो विषयाः | ब्रह्मा कारणम् | प्रतिष्ठाकलायां तत्त्वानि त्रयोविंशतिः | तानि च जलादीनि प्रकृत्यन्तानि | षट्पञ्चाशद्भुवनानि | तानि चामरेशादीनि श्रीकण्ठान्तानि | तानि जलतेजोऽनिलाकाशेषु तन्मात्रेन्द्रियमनोगर्भेऽहङ्कारे बुद्ध्यव्यक्तयोश्चाष्टावष्टौ | शिरोवामदेवौ मन्त्रौ | एकविंशतिः पदानि | वर्णास्त्रयोविंशतिः | वर्णः शुक्लः | मण्डलमर्धचन्द्राकारम् | विषया रसादयः | कारणं विष्णुः | विद्याकलायां तत्त्वानि सप्त | तानि च पुरुषादिमायान्तानि | भुवनानि सप्तविंशतिः | तानि च वामादीन्यङ्गष्ठमात्रान्तानि | तत्र पुरुषे षट् | रागनियतिमायासु पञ्च पञ्च | इतरेषु द्वे द्वे | शिखाघोरौ मन्त्रौ | विंशतिः पदानि | वर्णाः सप्त | वर्णः शोणः | मण्डलं त्रिकोणम् | विषया रूपादयः | कारणं रुद्रः | शान्तिकलायां तत्त्वानि त्रीणि | तानि (शुद्ध) विद्यादीनि सदाशिवान्तानि | भुवनान्यष्टादश | तानि वामादीनि सदाशिवान्तानि | तत्र विद्यायां नव | ईश्वरे अष्टौ | सदाशिव एकम् | तत्पुरुषकवचौ मन्त्रौ | पदान्येकादश | वर्णास्त्रयः | मण्डलं षट्कोणम् | विषयाः स्पर्शादयः | कारणमीश्वरः | शान्त्यतीतकलायां शक्तिशिवाख्ये तत्त्वे | भुवनानि पञ्चदश | तानि निवृत्त्यादीनि अनाश्रितान्तानि | तत्र शक्तितत्त्वे चत्वारि | शिवतत्त्वे एकादश | शिवास्त्रेशाना मन्त्रास्त्रयः | पदमेकम् | वर्णाः षोडश | (शुक्लवर्णः) स्फटिकाभः | मण्डलं वृत्तम् | विषयः शब्दः | कारणं सदाशिवः | तदेवं पञ्चाध्वगर्भितासु कलासु संयोजनादिक्रमेण शुद्धिः कार्या || ७) तदेवं स्थिते समयदीक्षां लब्ध्वा गुरुणा शिक्षितान् समयिधर्माननुतिष्ठेत् | समयिधर्माश्च शिवालयशिवभक्तपरिचर्यादयः त्रिपुण्ड्ररुद्राक्षधारणादयश्च | अस्य च समयिधर्मस्य दासमार्ग इति व्यवहारः | एतच्च त्रिपुण्ड्ररुद्राक्षधारणादिकं न केवलं समयिमात्रस्यानुष्ठेयम् | किं तु सर्वेषामपि नित्यकर्मवन्नित्यतयानुष्ठेयम् | अननुष्ठाने पातकादिश्रवणेनानुष्ठानश्रद्धाप्रशंसया नित्यत्वोक्त्यादिभिश्च तस्य नित्यतया विधानात् | तथा हि - स्कान्दे अकरणे पातकं श्रूयते - त्रिपुण्ड्रोद्धूलनादौ च तन्मानश्रवणेऽपि च | वाञ्छा न जायते येषां ते महापापसंयुताः || इति || वासिष्ठलैङ्गे - येषां भस्मनि विद्वेषो वर्तते हृदये सदा | संकीर्णा तु भवेद्ब्रह्मंस्तेषां वंशपरम्परा | (अ ५ श्लो २६-२७) येषां क्रोधो भवेन्नित्यं ललाटे भस्मदर्शनात् | तेषामुत्पत्तिसांकर्यमनुमेयं विपश्चिता | (अ ५ श्लो २२) ये भस्मधारिणं दृष्ट्वा वाचा निन्दन्ति मानवाः | तेषां शूद्रेण सम्भूतिरनुमेया विपश्चिता | (अ ५ श्लो २३) ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् || तेषाम् चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता | (अ ५ श्लो २४) येषां श्रद्धा मुने नास्ति श्रौतभस्मनि सर्वदा || गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः || (अ ५ श्लो २५-२६) इत्यादिना अननुष्ठातॄणां जन्मसाङ्कर्यं द्विजसंस्काराभावश्च श्रूयते | ८) तथा पराशरोपपुराणे - त्वद्भक्ता ब्राह्मणाः साक्षात्त्रिपुण्ड्रे भस्मकुण्ठने | भवेयुर्विमुखा नित्यं वेदसिद्धे विमुक्तिदे || (अ ३ श्लो ३५) इति तत्परित्यागस्य शापफलत्वं श्रूयते || तथा तत्रैव - वेदोत्कर्षे शिवोत्कर्षे विद्योत्कर्षे तथैव च | त्रिपुण्ड्रोद्धूलनोत्कर्षे श्रद्धा पुण्यवतो भवेत् || अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् | वेदोक्तेनैव मार्गेण त्रिपुण्ड्रे जायते मतिः || (अ. ६ श्लो. २१, अ. ४ श्लो. २७-२८) इति त्रिपुण्ड्रादिश्रद्धा महापुण्यफलत्वेन स्तूयते | तथा तत्रैव - ब्राह्मणो विधिनोत्पन्नं त्रिपुण्ड्रं भस्मनैव तु | ललाटे धारयेन्नित्यं तिर्यग्भस्मावकुण्ठनम् || (अ. ५ श्लो. २५- २६) इति नित्यशब्दयोगेन विधानं दृश्यते आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् | यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारेयत्सदा || भस्मना वेदसिद्धेन त्रिपुण्ड्रं धारयेत्सदा | (पराशरोप अ ५ श्लो २७-२८) इत्यादिना सदाशब्दयोगेन विधानं दृश्यते | किं च तत्रैव - भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहकुण्ठनम् | रुद्रलिङ्गार्चनं चापि मोहतो वापि न त्यजेत् || इति || (पराशरोप अ १० श्लो ४०) स्कान्दे च - त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् | इति त्यागो निषिध्यते | ९) तथा रुद्राक्षधारणमपि अकरणे दोषकीर्तनादिभिर्नित्यम् | तथा हि स्कान्दे - अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् | कुर्वन् विप्रस्तु मोहेन नरके पतति ध्रुवम् || इत्यकरणे दोषः कीर्त्यते | बृहन्नारदीये - बहूनां जन्मनामन्ते महादेवप्रसादतः | रुद्राक्षधारणे श्रद्धा स्वभावादेव जायते || इति श्रद्धायाः पुण्यफलत्वोक्तिः | स्कान्दे - कण्ठे मूर्ध्न्युंपवीते वा कर्णे कारयुगेऽथवा | रुद्राक्षं धारयेन्नित्यं भक्त्या परमया युतः || इति नित्यशब्दः | वायवीये - नाभक्त्या धारयेदक्षान् सदा भक्त्यैव धारयेत् | इति सदाशब्दयोगेन विधानं द्रष्टव्यम् | अयं च समयिधर्मः तज्जन्मनि विशेषनिर्वाणदीक्षाद्यलाभे सालोक्यफलं दत्वा जन्मद्वयव्यवधानेनैकजन्मव्यवधानेन वा मुक्तिं जनयति | शिवधर्मोत्तरे - अथ ये सततं भक्त्या भजन्ति शिवयोगिनः | ते विन्दन्ति महाभोगानन्ते योगं च शाङ्करम् || भोगयोगार्थिभिस्तस्मात्सम्पूज्याः शिवयोगिनः | प्रतिश्रयान्नपानेन शययावस्त्रासनादिभिः || इति यः कुरुते भक्तिं सततं शिवयोगिनाम् | स द्वितीये तृतीये वा देहे योगमवाप्नुयात् || इत्यादिवचनैस्तथा प्रतिपादनात् | एते च समयिधर्मा यद्यपि सर्वेषामपि पुत्रकानां साधकानाञ्च साधारणाः, तथापि तेषामसाधारणधर्मान्तरसत्त्वादेते समयिधर्मा इत्युच्यन्ते | इत्थं समयिधर्मानुष्ठानाद्विशेषदीक्षाधिकारलाभे विशेषदीक्षां कृत्वा शिवपूजागमाध्ययनादिपुत्रकधर्माननुतिष्ठेत् | इत्थं समयदीक्षायां विशिष्टायां विशेषतः | वह्निहोमागमज्ञाने योग्यः सञ्जायते शिशुः || इति प्रतिपादितस्य समययुक्तविशेषदीक्षारूपस्य तदधिकारस्य सद्भावात् | तत्र शिवार्चनं मानसं प्रशस्तम् | तत्राशक्तस्तु पञ्चविधशुद्धिकरणपूर्वकं अभिषेकालङ्करणनिवेदनस्तोत्रपाठनमस्कारादिकं बहिर्यागशब्दाभिधेयं कुर्यात् | तथा वर्णाश्रमधर्मानप्यनुतिष्ठेत् | तेषां तत्त्वज्ञानसाधनत्वात् || १०) नन्वस्तु तेषां साक्षादेव मुक्तिसाधनत्वम् | गौतमधर्मस्कान्दादिषु तथा प्रतिपादनात् | तत्र गौतमधर्मे - यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाः स ब्रह्मणःसायुज्यं सलोकतामाप्नोति इति कर्मणां साक्षान्मोक्षहेतुत्वं प्रतिपादितम् | तथा स्कान्देऽपि - वर्णाश्रमसमाचारादेव मुक्तिर्न चान्यथा | इति || अन्यत्रापि - कर्मणैव हि संसिद्धिमास्थिता जनकादयः | (भगवद्गीता अ ३ श्लो. २०) इति श्रूयते | न च तेषां फलान्तरे उपयुक्तत्वान्मोक्षफले न सम्बन्ध इति युक्तम् | तथा सति कर्मणां ज्ञानफलेऽपिसम्बन्धाभावप्रसङ्गात् | यद्युत्पत्तिवाक्यावगतस्वरूपाणां कर्मणामधिकारवाक्यद्वयेन परस्परानपेक्षया फलद्वयसम्बन्धः संयोगपृथक्त्वन्यायेन बोधयितुं शक्यत इत्युच्यते, तर्हि प्रकृतेऽपि मोक्षफलसम्बन्धोऽपि तथा वक्तुं शक्यत इति समानम् || ११) ननु कमनुष्ठानस्य पुण्यजननद्वारा भोगहेतुत्वं नोपपद्यत इति चेत्, न; भोगकामनयानुष्ठितानां तेषां भोगहेतुत्वेऽपि मोक्षकामनयानुष्ठितानां मोक्षजनकत्वाविरोधात् | अन्यथा तवापि ज्ञानोत्पादाय तदनुष्ठाने तैर्भोगजननप्रसङ्गात् | न चानेकजन्मार्जितानां सञ्चितकर्मणां ज्ञानं विना निवर्तकाभावात् केवलकर्मभिर्न मोक्षः सम्भवतीति युक्तम् | योगादिसम्पादिताणिमाद्यैश्वर्यायत्तेन कायव्यूहपरिग्रहेण भोगद्वारैव तेषामपोह्यत्वात् | वर्णाश्रमसमाचारादेव - इत्यादिना कर्मणोऽपीतरव्यवच्छेदेन कारणत्वस्य प्रतिपादनाद्वचनद्वयाविरोधाय परस्परनैरपेक्ष्येण विकल्पेन साधनत्वस्य कल्पयितुमुचितत्वात् | तस्मात्साक्षात्कर्मणां मोक्षजनकत्वम् | न तु ज्ञानद्वारा इति, मैवम् | ज्ञानतिलके - न दानैर्न तपोयज्ञैर्न होमैर्न यमैर्व्रतैः | न स्नानतीर्थसम्पातैर्लभ्यते परमं पदम् || अनेकैः पापसङ्घातैरनेकैः पुण्यसञ्चयैः | बध्नन्ति सर्वदात्मानं कोशागारक्रिमिर्यथा || इत्यादिना कर्मणां मोक्षहेतुत्वाभावस्य प्रत्युत बन्धहेतुत्वस्य च प्रतिपादनात् | किञ्च मलनिवृत्तिं विना न मोक्षः सम्भवति | शिवानन्दानुभवाच्छादकस्यानुवत्तेः | न चाज्ञानरूपस्य मलस्य ज्ञानेन विना विनिवृत्तिर्युज्यते | ज्ञानेन च तदज्ञानं निवर्तेत न कर्मभिः | ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् || इति शिवधर्मोत्तरे मलस्य ज्ञानमात्रनिवर्त्यताप्रतिपादनात् | ज्ञानाभावे सञ्चितकर्मणां प्रक्षयानुपपत्तेश्च | भोगेन प्रक्षये, पुनः पुनः कर्मार्जनस्यानिवारणात् | कर्मानुष्ठाने आनुषङ्गिकस्याधर्मस्यानिवृत्तेश्च | तस्मान्न केवलकर्मणा मोक्षः || १२) नन्वस्तु तर्हि ज्ञानकर्मणोः समप्राधान्येन समुच्चिततया मोक्षहेतुत्वम् | अत एव न विकल्पप्रयुक्तदोषष्टकमपि | एवञ्च न दानैः इत्यादिनिषेधोऽपि ज्ञानं विना कृतकर्मविषयकतयोपपद्यते | समप्राधान्येन समुच्चये तु - ज्ञानं प्रधानं न तु कर्महीनं कर्म प्रधानं न तु बुद्धिहीनम् | तस्मात्तयोरेव भवेत् प्रसिद्धिः न ह्येकपक्षो विहगः प्रयाति || यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् | एवं तपश्च विद्या च संयुक्तं भेषजं महत् || इत्यादिकं वचनं मानम् | तस्माज्ज्ञानकर्मणी समप्रधान्येन मोक्षसाधनमिति | मैवम् | न कर्म करणीयं हि बहिस्तस्य महात्मनः | ज्ञानामृतेन तृप्तस्य भक्त्या च विवशात्मनः | इति शिवधर्मोत्तरे, न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितौ | (विद्यापादे श्लो ७) इति सर्वज्ञानोत्तरे, न ध्यानं न तपः पूजा न होमो नैव साधनम् | अग्निकार्यादिकार्यं च नैव तस्य महेश्वरि || नियमोऽपि न तस्यास्ति क्षेत्रपीठादिसेवनम् | नार्चनं पितृकार्यं च तीर्थयात्राव्रतानि च || इति देवीकालोत्तरे च सञ्जातज्ञानस्य कर्मनिषेधेन कर्मणां ज्ञनार्थत्वावगमात् | कर्मणां हि ज्ञानवत्साक्षान्मोक्षहेतुत्वे जातेऽपि ज्ञाने तानि कर्तव्यानि स्युः | ज्ञानद्वारा तु साधनत्वे द्वारस्य निष्पन्नतया तदर्थानि कर्माणि न कर्तव्यानीति तन्निषेध उपपद्यते | कर्मणां दृष्टज्ञानद्वारकत्वसम्भवेऽदृष्टद्वारकत्वकल्पनस्या- युक्तत्वाच्च | ज्ञानं प्रधानं इत्यादिवचनमप्युक्तनिषेधपर्यालोच- नया, ज्ञानं प्रधानं, साक्षात्कारणम् | तत्त कर्मणा स्वजनकेन विहीनं चेत् स्वस्यैवानिष्पत्त्या कार्याजनकम् | तथा, कर्म प्रधानं, ज्ञानोत्पादकतया अवश्यापेक्षणीयम् | अत एव द्वारभूतया बुद्ध्या विनाकृतं न जनकम् | अत उभयोः सत्त्व एव मुक्तिर्भवतीति द्वारद्वारिभावसमुच्चयपरतया योजनीयम् | १३) कर्मणां ज्ञानजनकत्वे - वेदानुवचनेनापि यज्ञेनाध्ययनेन च | दानेन तपसा देवास्तथैवानशनेन च || वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः | इति स्कान्दवचनं मानम् | न च वेदानुवचनादेस्तृतीयान्तस्य, प्रधान्येन इच्छतीत्यनेनान्वयादिच्छासाधनत्वमेव; न ज्ञानसाधनत्वमिति युक्तम् | अश्वेन गन्तुमिच्छतीत्यत्र शब्दतोऽप्रधानेऽपि गमनेऽर्थतः प्राधान्यादश्वस्येव वेदानुवचनादेः सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र सू ३-४-२६) इति न्यायेन वेदने सम्बन्धात् | शब्दतः प्राधान्याश्रयणेऽपि तादृशेच्छाद्वारा वेदनसम्बन्धाद्वा लौकिकव्युत्पत्त्याश्रयणेऽपि कर्मणां वेदनसाधनत्वलाभात् | वस्तुतस्तु मीमांसाशास्त्रीयव्युत्पत्त्याश्रयणे तु इच्छतीति पञ्चमलकारस्य वेदानुवचनादिसम्बन्धे विविदिषुं प्रति वेदानुवचनादि विहितमिति कर्मणां वेदनसाधनत्वमस्माद्वाक्यात्प्रतीयत एव | अथवा यस्यैते चत्वारिंशत्संस्काराः इति वाक्यं कर्मणां ज्ञानसाधनत्वे मानम् | संस्कारा हि प्रोक्षणादिजनितसंस्कारवत्स्वतः फलकरणत्वाभावादुपकार्यं फलकरणमपेक्षन्ते | प्रकृते शिवसायुज्यरूपफलकरणं ज्ञानमेव | ज्ञानादेव तु कैवल्यमित्याह परमा श्रुतिः इत्यादिना तस्य फलकरणत्वेनोपस्थितत्वात् | उपस्थितपरित्यागेन अनुपस्थितकल्पने गौरवात् | तस्माच्चत्वारिंशत्संस्कारोपकृतेन ज्ञानेन शिवसायुज्यं भवतीत्येवमर्थकतया संस्कारवाक्यं भवति कर्मणां ज्ञानसाधनत्वे मानम् | तथा यागादीन्यपि कर्मणि ज्ञानोत्पत्तिनिमित्तं तु क्रिया चर्या प्रकीर्तिता इति वचनाज्ज्ञानजनकान्येव | एवं काशीमरणादिकमपि ज्ञानद्वारैव मोक्षसाधनम् | मलस्य ज्ञानमात्रनिवर्त्यत्वेन तेन विना मुक्तेरसम्भवात् | अत एव स्कान्दे - श्रीमद्वाराणसी पुण्या पुरी नित्यं मम प्रिया | यस्यामुत्क्रममाणस्य प्राणैर्जन्तोः कृपाबलात् || तारकं ब्रह्मविज्ञानं ददामि श्रेयसे हरे | इति तस्य ज्ञानसाधनत्वं प्रतिपादितम् | १४) न च तत्र कथं सञ्चितकर्मणां निवृत्तिरिति युक्तम् | ज्ञानेन शिवकृतया दीक्षया वा तेषां निवृत्त्युपपत्तेः | तस्मात् कर्माणि ज्ञानद्वारैव मुक्तिसाधनानि | तेन वैदिकान्यागमिकानि च कर्माणि ज्ञानार्थिना कर्तव्यानि | न केवलं वेदागमयोर्विहितान्येव कर्माणिज्ञानजनकानि; अपि तु यानि तत्र अविहितानि प्रतिषिद्धानि पातकानि तान्यपि शिवाराधनत्वेन कृतानि ज्ञानजनकानि | स्कान्दे - यानि लोके निषिद्धानि कर्माण्यविहितानि च | तानि शंभोः परा पूजेत्येतज्ज्ञानं महामखम् || यानि कर्माणि सर्वाणि निषिद्धानि श्रुतौ स्मृतौ | तानि चाराधनं शंभोरिति ज्ञानं महामखम् || ईश्वरार्थधिया पापान्यपि कर्माणि सुव्रताः | भवन्ति पूतान्यत्यन्तं सत्यमेव न संशयः | आर्द्रं काष्ठं महानग्निः शुष्कं कृत्वा दहेद्यथा | तथेश्वरधिया पापं विशुद्धं ज्ञानदं भवेत् || वैदिकं तान्त्रिकं हित्वा मार्गं स्वप्रज्ञया द्विजाः | सोऽपि यज्ञ इति प्रोक्तो मया वेदार्थवित्तमाः || श्रद्धया सहितं सर्वं श्रेयसे भूयसे भवेत् || इत्यादिना तथा प्रतिपादनात् | अयं च प्रपन्नधर्मः | १५) अप्रपन्नस्य वर्णाश्रधर्मा एवानुष्ठेयाः | एवं पुत्रकधर्माननुतिष्ठतो यदा दैववशेन निर्वाणदीक्षाया असम्भवस्तदा सामीप्यफलमनुभूयान्ते जन्मान्तरे मुक्तिर्भवति | यदा तु तीव्रतीव्रतरशक्तिनिपातयोरन्यतरलाभेन निर्वाणदीक्षां लभते तदा तया सञ्चितकर्मणां निवृत्त्या तत्त्वज्ञानप्रतिबन्धकदूरितविगमेन तत्त्वज्ञानार्थं श्रवणादिकं कुर्यात् | शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशयेत् | दीक्षितस्य च धीरस्य शिवभक्तिपरस्य च || श्रावणीयं न चान्यत्र कथनं हि प्रशस्यते | इति श्रवणाधिकारत्वेन प्रतिपादिताया दीक्षाया निष्पादात् | यद्यप्यधीतागमस्य पदपदार्थव्युत्पत्तिमात्रेणार्थज्ञानं भवति, तथापि तात्पर्यापरिज्ञाने आपाततः पूर्वापरविरोधप्रतिसन्धानेन सन्देहादिकलुषितमेव स्यादित्यकलुषितप्रतिपत्तये तात्पर्यपरिज्ञानरूपं श्रवणमादरणीयम् | एतच्च - यावत्कालं शिवज्ञानं दृढीभवति तस्य तु | तावत्कालं च कर्तव्यं श्रवणादि विशेषतः || इत्यादिना विहितम् | १६) यद्यपि तात्पर्यज्ञानं वाक्यार्थज्ञानजनकतया लोकत एव प्राप्तमिति न विधातव्यम्, तथापि निगमागमादिविचारेणैवायमर्थो निश्चेतव्यो न भाषाप्रबन्धादिविचारेणेतीतरव्यवच्छेदाय विधीयते | तथा चावघातादिविधिवदयं नियमविधिः | न च तत्र नियमदृष्टसाध्यं परमापूर्वमस्तीति नियमविधित्वं युक्तम्; इह तु तत्साध्यं नास्तीति न तद्युज्यत इति वाच्यम् | साक्षात्कारस्य तत्साध्यत्वोपपत्तेः | अत एव भगवता बादरायणेन सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र सू ३-४-२६) इति सर्वादृष्टसाध्यत्वं ज्ञानस्याभिहितम् | एवं श्रवणेन जायमानं ज्ञानं च स्वस्य शिवेनाभेदावगाहि | न तु नियन्तृनियाम्यभावादिना भेदावगाहि | अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः | एवं यो भावयेन्मोहान्न शिवत्वमवाप्नुयात् || शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् | (सर्व वि पा श्लो ३९-४०) इति भेदज्ञाननिषेधपूर्वकं - यः शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा || (सर्व वि पा श्लो ४०) इत्यनेन सर्वज्ञानोत्तरवचनेनाभेदज्ञानस्यैव मुक्तिसाधनतया बोधनात् | इदं चाचार्यमूर्तिस्थाद्गुरोः निर्वाणदीक्षापुरस्सरं श्रवणं सकलानाम् | विज्ञानाकलप्रलयाकलयोऽस्तु निरधिकरणस्य शिवस्यानुग्रहमात्रेण दीक्षा तत्त्वज्ञानं च भवतीति वेदितव्यम् | एवं श्रवणे निर्वृत्ते युक्तिभिस्तदर्थस्यानुचिन्तनरूपं मननमयोग्यतानिरासेन श्रवणप्रतिष्ठार्थं कर्तव्यम् | अनन्तरं च श्रुतस्यार्थस्यानुध्यानरूपं निदिध्यासनं विपरीतभावनानिवृत्तये चित्तैकाग्र्याय च करणीयम् | अनादिजन्मानुवृत्ता विपरीतवासना हि न सकृच्छ्रवणमात्रेण निवर्तते; किं तु ध्यानाहितयैव वासनया | न विपरीतवासनायां सत्यां साक्षात्कारः सम्भवति | तथा चित्तैकाग्र्यं विना न सूक्ष्मवस्तुसाक्षात्कारः | केशादिसाक्षात्कारे तथा दर्शनात् | अतो विपरीतवासनानिवृत्तये चित्तैकाग्र्याय च निदिध्यासनं कर्तव्यम् | श्रवणादिकं च यदा साक्षात्काराय न पर्याप्तं तदा अर्चिरादिद्वारा फलभोगाननुभूय प्रलयसमये शिवानुग्रहे सति तत्र तदैव मुक्तिः | तदा शिवानुग्रहाभावे गुरुणा जन्मान्तरे मुक्तिः | यदा तु पर्याप्तं तदा गुरुकृपापरिपाकेन सूर्यकिरणसन्निधानेनेव स्वात्मज्ञानमभिव्यज्यते | अयमेव साक्षात्कारोदयः फलसाधनमपि || १७) नन्वाच्छादके मले सति कथमभिव्यक्तिः | न च मलनिवृत्त्यनन्तरमभिव्यक्तिरस्त्विति वक्तुं युक्तम् | अभिव्यक्तिसाध्यत्वेन मलनिवृत्तेस्त्वया स्वीकारात् | तस्मादभिव्यक्तिमलनिवृत्त्योः परस्पराश्रयपरिहाराय मलस्य दीक्षानिवर्त्यत्वमेवाभ्युपगन्तव्यम् | युक्तञ्चैतत् | मलस्य द्रव्यत्वेन काचादिदोषस्य चिकित्साव्यापारेणेव शिवव्यापारेणैव निवर्तनीयत्वात् | न चाज्ञानत्वेन मलस्य ज्ञानमात्रनिवर्त्यत्वं युक्तम् | अज्ञानशब्दस्य भ्रान्तिवाचकत्वे वा मलस्य भ्रान्तित्वाभावेन पक्षधर्मत्वाभावात् | एवं ज्ञानाभाववाचकत्वेऽप्यपक्षधर्मत्वमेव | भ्रान्तिहेतुद्रव्यवाचकत्वे तादृशक्रियानिवर्त्यत्वस्यैव दर्शनेन विरोधात् | आणववाचकत्वे तस्यैव पक्षतया सहचारग्रहस्थलाभावात् | तस्मात् साक्षात्कारः फलमेव; न साधनम् | न चैवं फलस्याविधेयतया साक्षात्कारस्य विधेयत्वमनुपपन्नं स्यादिति वाच्यम् | इष्टापत्तेः | श्रूयमाणो विधिस्तु यथा साक्षात्कारो निष्पद्यते तथा यतितव्यमित्येवमर्थकतया योजनीयः | तस्मात् दीक्षैव साधनम् | अत एव - दीक्षैव मोचयत्यूर्ध्वं परं धाम नयत्यपि | इत्यादिकं वचनमपि सङ्गच्छते | तस्मान्न साक्षात्कारः फलसाधनमिति | १८) मैवम् - ज्ञानेन हि तदज्ञानं निवर्त्येत न कर्मभिः | इत्यादिना अज्ञानस्य ज्ञाननिवर्त्यताविधानपूर्वकं कर्मनिवर्त्यतानिषेधात् | अप्रकाशरूपस्य मलस्य प्रकाशेनैव निवर्तनीयत्वाच्च | अप्रकाशरूपस्य तमसः आलोकादिना प्रकाशेन निवृत्तिरनुभूयत इति न सहचारग्रहस्थलस्याभावः | न च द्रव्यत्वेन कर्मनिवर्त्यत्वं ज्ञानानिवर्त्यत्वं वा अनुमातुं शक्यते | अज्ञानान्यत्वस्योपाधित्वे पक्षेतरत्वस्याप्युपाधित्वापत्तेरिति वाच्यम् | आगमबाधितत्वात् | न चाभिव्यक्तिमलनिवृत्त्योः परस्पराश्रयत्वम् | तमोनिवृत्तिप्रकाशयोरिव तदभावोपपत्तेः | तत्रापि हि सति तमसि न प्रकाशोदय इति तमोनिवृत्तिः प्रकाशोदये अपेक्षिता | प्रकाशोदयश्च तमो निवृत्ताविति प्रसक्तः परस्पराश्रयः | स च - सत्येव तमसि उदितेन प्रकाशेन निवर्तते तमः; तमःप्रकाशयोरपि क्षणमात्रमस्त्येव सहावस्थानमिति वा, एककालीनेनापि प्रकाशेन तमोनिवृत्तिर्जायते; जनकत्वं न पूर्वभावित्वम्; किं तु शक्तत्वमिति वा परिहार्यः | तद्वदेवात्रापि परिहारः सम्भवतीति न काप्यनुपपत्तिः | दीक्षैव मोचयति इत्यपि वचनं दीक्षाया आवश्यकत्वमात्रपरम् | न तु ज्ञानव्यवच्चेदपरमिति न तद्विरोधोऽपि | तस्मात्साक्षात्कारेणैव मलनिवृत्तिः | अभिव्यक्तं स्वरूपज्ञानमेव साक्षात्कारः | न तु बुद्धिवृत्त्यादिरूपः | तस्य चेतने अप्रवृत्तेः | कारणाभावाच्च | न च शब्द एव कारणम् | तस्य परोक्षज्ञानजनकत्वस्व भावत्वेनापरोक्षज्ञानजनने सामर्थ्याभावात् न चापरोक्षत्वादौ करणस्वभावो न प्रयोजकः | अपि तु विषयस्वभाव इति वाच्यम् | पुरोवर्तिनि घटे अयं घटः इत्यादिवाक्येनापरोक्षज्ञानजननप्रसङ्गात् | न चेष्टापत्तिः | निमिलिताक्षं प्रति तस्य परोक्षज्ञानजनकतयैव सर्वसम्मतत्वात् | यस्यापि तत्रेन्द्रियसन्निकर्षोऽस्ति तमनिमीलिताक्षं प्रति प्रयोजकत्वेऽन्यस्यापि तदुत्पत्त्यापत्तेः | दशमस्त्वमसीत्यत्रापि शब्दात् परोक्षज्ञानानन्तरं ऐन्द्रियिकमेवापरोक्षज्ञानं जायते | न चैन्द्रियिके ज्ञाने शब्दापेक्षा किमर्थेति युक्तम् | दशत्वसंख्यापूरकतया स्वगतैकत्वस्यापेक्षाबुद्धावभानाद्दशमस्त्वमसीतिवाक्येन स्वगतमपि एकत्वं संख्यापूरकमिति ज्ञापिते युक्तस्तत्साक्षात्कारः | अत एव स्वात्मगतैकत्वस्य तत्संख्यापूरकत्वाभिज्ञं प्रति न तद्वाक्यमुपयुज्यते | तस्माच्छब्दस्य न साक्षात्कारजनकत्वम् | १९) एवमभिव्यक्तस्वरूपज्ञानतया साक्षात्कारान्मुक्तो जीवन्मुक्त इत्युच्यते | अस्य च करणीयं कर्म किमपि नास्ति | तथापि ज्ञानोत्पत्तेः प्राङ्निरन्तरकर्मानुष्ठानवासनाबलात् प्रारब्धनाशाय लोकसंरक्षणाय च कर्मानुष्ठाने प्रवर्तते | न च कर्मभिर्जनितेन पुण्येन सम्बध्यते | न च कर्मणः पुण्यजननसमर्थस्य कथं तदजनकत्वमिति वाच्यम् | अग्निस्तम्भाभिज्ञं प्रति अग्नेरदाहकत्ववदत्र तत्त्वज्ञानिनं प्रति कर्मणोऽप्यजनकत्वस्योपपत्तेः | एवं प्रारब्धभोगार्थ निषिद्धानुष्ठानेऽपि अधर्मस्यानुत्पत्तिरुपपन्ना | कर्मणस्तज्जनकताबोधको निगमागमादिरपि प्रमाणम्; तस्य तत्त्वज्ञानरूपप्रतिबन्धकाभावसहकृतं कर्म तज्जनकमित्येवम्परत्वात् | विहितस्य निषिद्धस्य च सुहृद्दर्हृदोः धर्माधर्म जनकत्वस्य सद्भावाच्च | कर्मकर्तृगतपुण्यापुण्यजनकत्वप्रतिपादकवचनस्य सामान्यविषयस्य विशेषविषयेण तत्त्वज्ञानिना कृतं कर्म तस्य सुहृदि दुर्हृदि वा पुण्यादिकं जनयतीत्येतदर्थप्रतिपादकेन वेदवचनेन सङ्कोचोपपत्तेः || २०) नन्वस्य तत्त्वज्ञानोत्पत्त्यनन्तरमेव सर्वाणि कर्माणि नश्यन्ति | यथा वह्निर्महादीप्तः काष्ठमात्रं च निर्दहेत् | तथा शुभाशुभं कर्म ज्ञानाग्निर्दहति क्षणात् || ---------- ------------------- ----------------- --------------- ---------- ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || (भगवद्गीता अ ४ श्लो ३७) इत्यादिवचनात् | एवं च कर्मणोऽभावाद्भोगोऽपि न सम्भवतीति न तदर्थस्य देहस्यावस्थानं युज्यते | अस्तु वा प्रारब्धकर्मणोऽवस्थानम् | तथापि निवृत्तमलस्यानावृतज्ञानतया कथं वैषयिकसुखदुःखादिभोगः | तस्य रागादिसाध्यत्वात् | निर्मलस्य च रागाद्यभावात् | तस्मात्तत्त्वज्ञानिनो देहावस्थानमयुक्तमिति जीवन्मुक्तिरनुपपन्नेति | मैवम् | प्रारब्धं भोगतो नश्येच्छेषं ज्ञानेन दह्यते | इत्यादिवचनानुसारेण यथा वह्निः इत्यादेः प्रारब्धेतरविषयकत्वं कल्पनीयमित्यतोऽस्त्येव प्रारब्धकर्मणोऽवस्थानम् | तेन तदधीनस्य भोगस्योत्पादनाय देहस्यावस्थानमपेक्षितमेव | न च निर्मलस्य कथं रागाद्यधीनो भोग इत्यपि युक्तम् | रागाद्यभावेऽपि प्रारब्धविनाशाभिसन्धिना भोगोपपत्तेः | अथवा रागादिवासनया भोगः | अत एव प्रारब्धकर्मणोऽपि विनाशे तया वासनयैव भोग उपपद्यते || २१) केचित्तु - नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि | (वासिष्टलैङ्गे अ १० श्लो. ३३) इत्यादिवचनात् सर्वमपि कर्म भोगनाश्यम् | ज्ञानाग्निः इत्यादिकमपि उक्तवचनाविरोधाय कायव्यूहपरिग्रहपूर्वकभोगोत्पादनद्वारक- विनाशपरमेवेति वदन्ति | तन्न युक्तम् | सर्वस्यापि भोगनाश्यत्वे प्रारब्धाप्रारब्धयोर्विशेषाभावेन - प्रारब्धं भोगतो नश्येच्छेषं ज्ञानेन दह्यते | इत्यादिवचनव्याकोपप्रसङ्गात् | नाभुक्तं इत्यादिवचनमपि अनेनैव वचनेन प्रारब्धविषयतया निवेदितमिति न तद्विरोधोऽपि | जीवन्मुक्तलक्षणं तु मायिकदेहादियुक्तत्वे सति निर्मलत्वम् | निर्मलत्वञ्च न मलध्वंसवत्त्वम् | मलस्यैकत्वेनैकमुक्तौ सर्वमुक्तिप्रसङ्गात् | किं तु मलसंयोगध्वंसवत्त्वम् | संयोगस्तु प्रतिपुरुषं भिद्यत इति एकस्य विनाशेऽप्यन्यस्याविनाशान्नोक्तदोषः | अन्ये तु - तत्तदावरणशक्तीनां विभेदेनोक्तदोषं परिहरन्ति | २२) अस्य च जीवन्मुक्तस्य हासक्रन्दनवल्गनादीनि चिह्नानि | यद्यप्येतान्युन्मत्तादिसाधारणानि, तथापि उन्मादादिहेतुकेभ्यस्तेभ्यो विलक्षणानि तत्त्वज्ञानकारुण्यादिजनितान्येतानि चिह्नानि | यथा हि - तत्र शिवशास्त्रोक्तमार्गे विद्यमाने पशुशास्त्रोक्तमार्गमाचरन्त्यज्ञानतो जनाः | अहो! प्रत्यक्षेऽपि विषये इत्थं मोहो जातः - इति ज्ञानं हासजनकम् | ल्पस्य वैषयिकसुखस्याभिलाषेण महद्दुःखमनुभवत्ययं जनः, कथमेतन्निराकरणीयमिति कारुण्यं क्रन्दजनकम् | स्वात्मनः संसारसमुद्रादुत्तीर्णताज्ञानं वल्गनहेतुः | तदुक्तं तत्त्वसारे - धृतिधैर्यसमायुक्तः सदानन्दसमावृतः | हसते नृत्यते चैव क्रन्दते वल्गतेऽपि च || कार्तिकेय उवाच - हसनादि त्वया प्रोक्तं योगीन्द्राणां च चेष्टितम् | तस्यार्थं नैव जानामि किमर्थं कुर्वते प्रभो || ईश्वर उवाच - सुव्यक्तं दूषयित्वा तु विमार्गेण जनो रतः | तं दृष्ट्वा हसते योगी अहो! व्यामोहितं जगत् || ज्ञात्वा भवस्यासद्भावं क्रीडन्ते भवमध्यतः | क्रीडान्तोऽपि न लिप्यन्ते तेन नृत्यन्ति योगिनः || रसलुब्धो यथा मत्स्यो लोहशक्तिं न पश्यति | सुखलुब्धस्तथा लोको यमलोकं न पश्यति || तत्त्वहीनो महद्दुःखं सहतेऽतीव दारुणम् | तेनासौ क्रन्दते योगी दृष्ट्वा दुःखं जनस्य च || अपारस्य समुद्रस्य पारं हि तरितं मया | इति मत्वा च गर्वित्वा वल्गन्ते तेन योगिनः || इति || इत्थमेवागमान्तरोक्तानि चिह्नान्तराणि ज्ञेयानि | एतैश्च चिह्नैः जीवन्मुक्तं विनिश्चित्य तस्मिन् परां प्रीतिं कुर्यात् | न कदाचिदपि द्वेषम् | यतो द्वेषे कृते तदीयनिषिद्धकर्मभिः स्वस्मिन् पापं जायेत | ईदृशे च जीवन्मुक्ते स्वरूपसाक्षात्कारेण निवृत्तावरणतया शिवानन्दः प्रकाशते | तथापि वैषयिकसुखदुःखादिकमपि विक्षेपवशाज्जायेत | अतः परममुक्तिरेव परमः पुरुषार्थः || २३) तस्याश्च परममुक्तेः स्वरूपं वादिनः स्वस्वमत्यनुसारेणान्यथान्यथा वदन्ति | तथाहि - चार्वाकास्तावत् - देहस्यैव दुःखनिदानत्वात् तद्विनाशे दुःखानुत्पत्तेः सकलदुःखनिदानभूतदेहरूपात्मनाश एव मोक्ष इत्याहुः | तन्न | अपुरुषार्थत्वात् | यद्यपि मोक्षदूशायां दुःखमूलस्य विनाशः सर्ववादिसम्मतः, तथापि स स्वयं न पुरुषार्थो भवितुमर्हति | न हि सर्पकण्टकादिनिवृत्तिरेव पुरुषार्थः | दुःखाभाव एव पुरुषार्थ इति चेत् स किं दुःखध्वंसः ? उत दुःखप्रागभावः ? नाद्यः | तदानीं दुःखस्यानुत्पत्तौ तद्ध्वंसाभावात् | उत्पत्तौ च तज्ज्ञानादेव नाश इति पुरुषप्रवृत्तिवैफल्यात् | न द्वितीयः | दुःखप्रागभावस्यानादेः साध्यत्वाभावेन पुरुषार्थत्वायोगात् | अस्तु तर्हि दुःखनिदाननाश एव पुरुषार्थ इति चेत्; न | पूर्वोक्तदोषात् | देहरूपस्यात्मनो भोक्तुः मुक्तिदशायामभावेनाभुज्यमानत्वेनापुरुषार्थत्वाच्च | नावेद्यः पुरुषार्थः इति न्यायात् | पुरुषार्थो हि तत्प्रेप्सुना भुज्यमानः सन्नेव पुरुषार्थः | न च स्वात्मनाशः स्वेन भुज्यते | देहस्य दुःखनिदानत्ववत् सुखनिदानत्वस्यापि सद्भावेन तन्नाशस्योद्देश्यत्वायोगाच्च | शरीरात्मवादश्च पूर्वमेव निरस्तः | एतेन ज्ञानसन्ततिविच्छेदो मोक्ष इति माध्यमिकपक्षोऽपि निरस्तः | ज्ञाननाशस्यानुद्देश्यत्वाच्च | ज्ञानक्षणिकत्ववादश्च पूर्वमेव निरस्तः | विषयोपरागाभावेन निरुपप्लवा ज्ञानसन्ततिर्मोक्ष इति योगाचारमतमप्ययुक्तम् | ज्ञानहेतोः शरीरादेरभावात् | न च विषयावच्छिन्नज्ञान एव शरीरस्य हेतुता | लाघवेन ज्ञानमात्र एव तस्य हेतुत्वात् || २४) साङ्ख्यास्तु - प्रकृतिपुरुषविवेकख्यातौ प्रकृतिकार्यमहदाद्यनुपधानेनावस्थानरूपं कैवल्यं मोक्षमाचक्षते | तथा हि - पुरुषस्य भोगनिमित्तं प्रकृतिर्महदादिसृष्टौ प्रवर्तते | निर्लेपस्य च पुरुषस्य स्वतो भोगासम्भवाद्भोक्तृभूतबुद्ध्यविवेकादेव भोगो वाच्यः | बुद्ध्या च पुरुषस्य विवेकोदयेऽविवेककृतभोगासम्भवेन प्रकृतौ महदादिकार्यानिष्पत्तेस्तदुपधानविरहेणैवावस्थानरूपं कैवल्यं सम्भवतीति | तदयुक्तम् | चैतन्यप्रकाशविरहेण पाषाणताकल्पेऽस्मिन् कैवल्ये सदाशिवादितत्तद्भुवनभोगपरित्यागेन लिप्साया अनुदयात् | सांसारिकदुःखासंस्पृष्टं निरतिशयं सुखं यदि मुक्तौ स्यात्तदा तत्रेच्छा स्यात् | सकलभोगविरोधिकैवल्यमात्रे तु न कस्यापीच्छा उदेतुमर्हति | तस्मान्न कैवल्यं पुरुषार्थः || २५) एतेनात्यन्तिको दुःखोच्छेदो मोक्ष इति नैयायिकमतमप्यपास्तम् | तन्मते मुक्तिदशायामात्मनो विशेषगुणशून्यत्वेन दुःखाभावस्याज्ञायमानत्वेन अपुरुषार्थत्वात् | ननु दुःखाभावस्य स्वरूपेण पुरुषार्थत्वम्, न तु ज्ञायमानतया | न हि दुःखाभावं जानीयाम् दत्युद्दिश्य प्रवृत्तिः | अपि तु दुखं मे मा भूत् दुःखं मे इदानीं जायमानं नश्यतु इत्येवम् | सुखादावपि स्वरूपेणैव पुरुषार्थत्वम् | ज्ञानं तु नान्तरीयकमेवेति चेत्, न, अज्ञायमानस्य दुःखभावस्य मूर्च्छादिसाधारण्येनापुरुषार्थत्वात् | तदुक्तम् - दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते | नहि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः || इति || एतेनात्यन्तिको दुःखसाधनध्वंसो मोक्ष इति नैयायिकैकदेशिमतं चापास्तम् || २६) भाट्टास्तु - नित्यसुखाभिव्यक्तिर्मुक्तिरित्याहुः | तदपि न अभिव्यक्तिर्जन्या अजन्या वा ? आद्येऽपि अभिव्यक्तिरावरणनिवृत्तिर्वा ? ज्ञानं वा ? आवरणनिवृत्तिरिति चेत् तस्यास्मन्मतत्त्वेन तवापसिद्धान्तात् | ज्ञानमिति चेत् यत्कृतं तदनित्यम् इति न्यायेन तस्य विनाशित्वेन मुक्तेरनित्यत्वप्रसङ्गात् | अभिव्यक्तेरजन्यत्वे पुरुषासाध्यत्वेन पुरुषार्थत्वायोगात् || २७) आर्हतास्तु - आत्मनः सततोर्ध्वगमनमेव मोक्षः | तस्योर्ध्वगमनं च बन्धविगमेन भवति | संसारदशायामधोगमनं च स्वतो लघोरपि कर्मबन्धनेनालघुभूतस्य तस्य लोहपञ्जरान्तःस्थितस्यालाबुकस्य जले क्षिप्तस्येव युक्तम् | ऊर्ध्वगमनमपि कर्मबन्धविगमेन लोहपञ्जरविच्छेदेनालाबुकस्येव युक्तमेवेत्याहुः | तदप्ययुक्तम् | आत्मनोऽणुमध्यमपरिमाणयोर्निरस्तत्वेन व्यापकस्य गमनासम्भवात् | ऊर्ध्वगमनस्य सुखदुःखाभावेतरत्वेनापुरुषार्थत्वाच्च | २८) रुद्रविष्णिवन्द्रादिपदप्राप्तिर्मुक्तिरित्यपि न युक्तम्, तस्य विनाशित्वात् | तन्मुक्तित्वप्रतिपादकपुराणादिवचनानामपि गौणमुक्तिपरत्वात् || २९) केचित्तु सत्त्वमुक्तिरेव मुक्तिरित्याहुः | तथा हि पुरुषस्य प्रकृतिभोक्तृत्वमनादि | सादित्वे ततः पूर्वं पुरुषस्यापि सत्त्वे मानाभावेन तस्यापि सादित्वप्रसङ्गात् | न चानादेर्निवृत्तिः कल्पयितुं युक्ता | पुरुषस्यापि निवृत्त्यापत्तेः | ततो मुक्तिदशायामप्यस्यैव भोक्तृत्वम् | इयांस्तु भेदः | यत् संसारदशायां कर्मवशेन दुःखमोहान्तरितसुखरूपा प्रकृतिर्भोग्या; मुक्तौ कर्मणामभावान्निरतिशयानन्दात्मकसत्त्वरूपा प्रकृतिर्भोग्येति | एतदपि भोगजन्यत्वाजन्यत्वविकल्पेन भाट्टमतनिरासेनैव निरस्तम् || ३०) शिवसाम्यमपि न मोक्षः | तच्च साम्यं उत्पत्तिसङ्क्रान्तिसमावेशाभिव्यक्तिभिश्चतुर्धा सम्भवति | तत्र महाव्रतिनः उत्पत्त्या साम्यमुपगच्छन्ति | तथा हि - मुक्तौ तावच्छिवसाम्यमस्ति | तच्च सर्वज्ञत्वादिरूपम् | तच्च तदैवोत्पद्यते | अन्यथा पूर्वमपि तत्प्रसङ्गात् | तस्माच्छिवगुणसदृशगुणोत्पत्त्यैव शिवसाम्यमिति || ३१) पाशुपताः सङ्क्रान्त्या साम्यमुपगच्छन्ति | तथा हि - कस्तूरिकाद्यामोदः पटादाविवेश्वरस्थं सार्वज्ञ्यादिकं मुक्तपुरुषे सङ्क्रामति | तस्माच्छिवगुणसङ्क्रान्त्या साम्यमिति || ३२) कापालिकाः समावेशेन साम्यमुपगच्छन्ति तथा हि - यथा ग्रहाः पुरुषेष्वाविशन्ति तथेश्वरगुणा मुक्तेष्वाविशन्ति | तस्माच्छिवगुणसमावेशेन साम्यमिति || ३३) दौवैकदेशिनः अभिव्यक्त्या साम्यमुपगच्छन्ति | तथा हि - शिवस्येव जीवानामपि सार्वज्ञ्यादिकं पूर्वमेवास्ति | किन्तु संसारदशायां मलरुद्धं न प्रकाशते | मुक्तौ तु मलविगमेनाभिव्यज्यते | तस्मात् स्वीयगुणाभिव्यक्त्या शिवसाम्यमिति || ३४) तत्र उत्पत्तिसाम्यपक्षस्तावदयुक्तः | मुक्तौ ज्ञानोत्पादकशरीराद्यभावान्न तावत्सार्वज्ञ्यस्योत्पत्तिः सम्भवति | तस्योत्पत्तिमत्त्वेऽनित्यत्वप्रसङ्गात् स्वर्गादिभ्यो मुक्तेरविशेषप्रसङ्गाच्च || ३५) सङ्क्रान्तिसाम्यपक्षोऽप्ययुक्तः | तथा हि - किं स्वाश्रयपरित्यागेन आश्रयान्तरप्राप्तिः सङ्क्रमः? उत तदपरित्यागेन ? नाद्यः | ईश्वरज्ञानस्य मुक्ते सङ्क्रान्त्यभ्युपगमे ईश्वरस्य ज्ञानाभावप्रसङ्गात् | नापि द्वितीयः | ज्ञानस्य निरंशत्वेनांशेन सङ्क्रमस्यायोगात् | तथा विज्ञानसद्भावे मानाभावाच्च | शिवज्ञानं नान्यत्र सङ्क्रमते, गुणत्वादित्यनुमानेन सङ्क्रान्त्यभावसाधनाच्च | न चाप्रयोजकत्वम् | गुणपरित्यागेन गुणस्यान्यत्र गमने गुणितादात्म्यभङ्गप्रसङ्गेन गुणत्वस्यैवायुक्तत्वात् | तदुक्तम् - त्यक्त्वा स्वगुणिनं यान्ति न च गुण्यन्तरं गुणाः | गच्छतां च व्यवस्थेयं पदार्थानां विरुध्यते || इति || ननु- निन्दनाद्द्विजसाधूनां पापानामथ सेवनात् | पापं सङ्क्रमते पुंसां स्वपुण्यमपयाति च || क्षमावति त्वनाक्रोशात् पुण्यवद्भिः सह स्थितेः | पुण्यं सङ्क्रमते पुंसां पापं याति ततोऽन्यतः || इति स्मृत्यादौ पुण्यपापादेः सङ्क्रमणं प्रतिपाद्यते | तथा आचार्यनिष्ठज्ञानस्य शिष्ये सङ्क्रमणं श्रूयते स्वायम्भुवादौ आचार्याभिषेके - अद्य संक्रमितो योऽयमधिकारो मया त्वयि | स कर्तव्यस्त्वया तावद्यावत्सङ्क्रमितोऽन्यतः || इति || एवञ्च पूर्वोक्तगुणत्वहेतोर्व्यभिचार इति चेन्न | स्मृत्यादौ पुण्यपापयोः सङ्क्रान्तिप्रतिपादकवचनस्य तज्जातीयोत्पत्तिपरत्वात् | ज्ञानसङ्क्रान्तिप्रतिपादकवचनस्यापि गुरुनियोगेन गुरुवद्व्याख्यानादौ स्वातन्त्र्यप्रतिपादनपरत्वात् | तथा च तत्र न मुख्या सङ्क्रान्तिः | न च कस्तूरिकामोदादेः पटे सङ्क्रान्तिदर्शनाद्व्यभिचारः | तत्रापि कस्तूरिकावयवानामेव सङ्क्रान्तेः | तत्र च गुणत्वाभावेन हेतोरभावात् | न च वह्निगतस्यौष्ण्यस्य जले सङ्क्रान्तिः दृश्यते; अन्यथा जलसम्बन्धे करादौ दाहो न स्यादिति व्यभिचार इति वाच्यम् | तत्रापि जलस्थस्यानुद्भूतरूपवह्नेरेव दाहकत्वात् | तथा च न गुणस्य स्वाश्रयादन्यत्र सङ्क्रम इति सिद्धम् | तस्मात्सङ्क्रान्तिसाम्यपक्षः अयुक्त एव || ३६) नाप्यावेशसाम्यम् | तथा सति भूताविष्टस्येवास्वातन्त्र्यापत्त्या पुरुषार्थत्वायोगात् || ३७) अभिव्यक्तिसाम्यपक्षोऽप्ययुक्तः | ज्ञानक्रियाभिव्यक्त्यात्मनस्तस्य सुखदुःखाभावेतरत्वेन स्वतः पुरुषार्थत्वायोगात् | न च तत्कालीनो दुःखाभावः पुरुषार्थः | तस्य त्वया मोक्षत्वेनानङ्गीकारात् | ज्ञानक्रियाभिव्यक्तेरेव साम्यपदाभिधेयायास्तथात्वेनाभ्युपगमात् | विविधतत्तद्भुवनभोगहानेन तुल्यायव्ययतया तस्य पुरुषार्थत्वायोगाच्च | शिवाद्भिन्नस्य शिवसमस्य मुक्तस्य पारतन्त्र्यनिवृत्तौ शिवस्य सर्वेश्वरत्वविघातापत्तेश्च | मुक्तानां पारतन्त्र्यनिवृत्तौ जगत्कारणशक्तिमत्त्वेन स्वयमपि जगन्निर्माणप्रसङ्गाच्च | किं च मुक्तस्य शिवस्य च भेदकाभावाद्भेदो न युक्तः | शिवसाम्यस्य मुक्तित्वे एकदेशेन साम्यं वा सर्वात्मना साम्यं वा मुक्तिः ? आद्ये बद्धानामपि यत्किञ्चित्साम्यसत्त्वेन बद्धमुक्ताविशेषप्रसङ्गः | द्वितीयेऽपि मुक्तस्य सावयवत्वाभावे निरवयवस्य सार्वज्ञ्यादिगुणवतः स्वतन्त्रस्य च मुक्तस्य तादृशस्य शिवस्य च भेदकाभावेन मुक्तः शिव एव स्यात् | न शिवसमः | मुक्तस्य सावयवत्वाङ्गीकारे सावयवत्वं बैन्दवादिशरीरयोगित्वमेव वाच्यम् | अन्यादृशस्य तस्यासम्भवात् | तथा च मुक्तस्य बद्धस्य चाविशेषप्रसङ्गः | किं च सर्वथा साम्यस्याभेद एव पर्यवसानम् | तस्मान्न शिवसाम्यं मुक्तिः || ३८) किं च शिवैकीभावेन शिवानन्दानुभव एव मोक्षः | तथैव स्वस्मिन् परमशिवाभेदज्ञानस्य मोक्षहेतुत्वेन श्रीमत्सर्वज्ञानोत्तराद्यागमेषु बोधितत्वात् | तथा हि सर्वज्ञानोत्तरे वचनानि - योऽसौ सर्वगतो देवः सर्वात्मा सर्वतोमुखः | सर्वतत्त्वमयोऽचिन्त्यः सर्वस्योपरि संस्थितः || सर्वतत्त्वव्यतीतश्च वाङ्मनोनामवर्जितः | सोऽहमेवमुपासीत निर्विकल्पेन चेतसा || यदेवं निष्फलं ज्ञानं शाश्वतं ध्रुवमव्ययम् | निर्विकल्पमनिर्देश्यं हेतुदृष्टान्तवर्जितम् || अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् | अविभाव्यमसन्देहं तदहं नात्र संशयः || अहमेव परो देवः सर्वमन्त्रमयः शिवः | सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः || मया व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् | अहमेव जगन्नाथो मत्तः सर्वं प्रवर्तते || अनेकाकारसम्भिन्नं विश्वं भुवनसञ्चयम् | शिवाद्यवनिपर्यन्तं तत्सर्वं मयि संस्थितम् || यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा | बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया || अहमात्मा शिवो ह्यन्यः परमात्मेति यःस्मृतः | एवं यो भावयेन्मोहान्न शिवत्वमवाप्नुयात् || शिवोऽन्यस्त्वहमप्यन्यः पृथग्भावं विवर्जयेत् | यः शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा || अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः | सर्वगं सर्वदेहस्थं पश्यते नात्र संशयः || एवमेकात्मभावेन संस्थितस्य तु योगिनः | सर्वज्ञत्वं प्रकल्प्येत विकल्परहितस्य च || योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः || अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः | अविज्ञातः पशुः सोऽसौ सृष्टिधर्मं समाश्रितः || विज्ञातः शाश्वतः शुद्धः स शिवोऽत्र न संशयः | तस्मादात्मा सदा वेद्यः सुविचार्य विचक्षणैः || इति || एतेषां वचनानां गौणार्थतामवलम्ब्य महता प्रयासेन द्वैतपरतया रचितान्येकदेशिनां व्याख्यानान्तराणि न समञ्जसानीति सर्वज्ञानोत्तरव्याख्यानेऽस्माभिः प्रतिपादितम् || ३९) ननु सर्वज्ञेन नित्यमुक्तेन शिवेन किञ्चिज्ज्ञस्य बद्धस्य पशोरैक्यं कथं सम्भवति ? विरुद्धधर्माणां भिन्नेष्वेव सम्भवात् | अन्यथा पशुशिवयोरभेदे पशुधर्मस्य बन्धस्य शिवे, शिवधर्मस्य नित्यमुक्तत्वस्य च पशौ प्रसङ्गः | न चैकस्मिन्नेव बदरीफले कालभेदेन श्यामरक्तरूपयोरिवैकत्रैव सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धधर्मयोः सम्भव इति वाच्यम् | तथा सति शिवस्यैव पशुत्वदशायां बद्धत्वापत्त्या तस्य नित्यमुक्तत्वाभ्युपगमविरोधप्रसङ्गात् | अत एव शिवस्य बद्धमुक्तावस्थाप्रसङ्गेन घटे नष्टे घटाकाशस्य महाकाशैक्यमिव मायादिबन्धापगमे जीवस्य शिवैक्यमिति पक्षोऽपि निरस्तः | नदीनां समुद्रे विलयेन ऐक्यमिव मायादिबन्धविगमे पशूनां शिवे विलयेनैक्यमित्यपि न युक्तम् | लये एकीभावस्य एकीभावे लयस्य चासम्भवात् | लीनस्य मुक्तिरूपपुरुषार्थानुभवायोगाच्च | न च पशूनां लयोक्तिरत्र न स्वरूपलयः, किन्तु पशुत्वावस्थाविलयः; नदीनामपि समुद्रैक्ये नदीभावलय एव, न स्वरूपलय इति वाच्यम् | तथा सति यानि जलानि पूर्वं नदीभावेनावस्थितानि तान्येव प्राक्तनं नदीभावं विहाय समुद्रेणैकीभूतानीत्यनेन किं विवक्षितम् ? किं प्राक्तनजलानि प्राक्तनसमुद्रेण मिलित्वा कञ्चिदवयविनमारभन्त इति विवक्षितम् ? उत एकजातीयतया संश्लेषः ? अथ पूर्वतनभेदलयेनाभेदोत्पत्तिः? आद्ये पक्षे तद्वदेव जीवचैतन्यस्य शिवेन सह मेलनेन कस्यचिदवयविन आरम्भकत्वं स्यात्; न च तथाभ्युपगम्यते | द्वितीयपक्षे शिवजीवयोः संश्लेषसिद्धावपि अभेदासिद्धिः | तृतीयपक्षे भेदस्य नित्यत्वेन नाशायोगः | अभेदस्य च जन्यत्वे विनाशावश्यम्भावेन मुक्तेरनित्यत्वप्रसङ्गः | किं च भेदध्वंसेनाभेदोत्पत्तिपक्षे मुक्तिदशायामेकस्यैव विद्यमानत्वं वाच्यम् | तथा सति मुक्तौ विद्यमानः शिवो वा? जीवो वा ? आद्ये शिवस्यैव सत्त्वेन मुक्तिफलभोक्त्रभावप्रसङ्गः | द्वितीये जीवस्यैव सत्त्वेन शिवाभावेन भोग्यशिवानन्दाभावप्रसङ्गः | तस्माज्जीवस्य न शिवस्वरूपैक्यं सम्भवति | किं तु ताम्रस्य रसगुडिकादिवेधेन कालिमविगमेन स्वर्णताप्राप्तौ स्वर्णैक्योक्तिरिव, विश्वामित्रमुनेस्तपोबलेन क्षत्रियत्वविगमेन ब्राह्मण्यप्राप्तौ ब्राह्मणैक्योक्तिरिव च, जीवस्य ज्ञानबलेन पशुत्वविगमेन स्वगतशिवधर्मभूतशिवत्वाभिव्यक्तौ शिवैक्योक्तिरित्येवाभ्युपगन्तव्यमिति चेत्; उच्यते || ४०) गुणगुणिनोरिव प्रकाशतदाश्रययोरिव च ईषद्भेद एवैक्यम् | अत एव बद्धमुक्तादिव्यवस्थोपपत्तिः | यथा हि - गुणगुणिनोरभेदसत्त्वेऽपि गुणस्य रूपस्यैव धर्मत्वं चक्षुर्मात्रग्राह्यत्वं च, गुणिनो घटादेरेव धर्मित्वं त्वगिन्द्रियेणापि ग्राह्यत्वं चेति व्यवस्थोपपद्यते | तयोर्भेदस्यापि सत्त्वात् | तथैव शिवजीवयोरैक्यसत्त्वेऽपि जीवस्यैव किञ्चिज्ज्ञत्वं बन्धादियोगश्च, शिवस्यैव सर्वज्ञवं नित्यमुक्तत्वादियोगश्चेति व्यवस्थोपपद्यते | शिवजीवयोर्भेदस्याप्यङ्गीकारात् | तच्चैक्यं न मुक्तिदशायामुत्पद्यते | तथात्वे विनाशित्वप्रसङ्गात् | तथा च संसारदशायामप्यैक्यमस्त्येव | किं तु आवरणवशात्तदा अनभिव्यक्तं आवरणापगमे मुक्तावभिव्यज्यते | यथा ह्यरणिप्रभृतिषु काष्ठेषु तादात्म्येना वस्थित एव काष्ठाकारतिरोहितो वह्निः पश्चान्मथनक्रियादग्धावारकगुरु- कठिनद्रवपार्थिवाप्यावयवरूपकाष्ठाकारत्वेनाभिव्यज्यते तद्वत् || ४१) न च तथा सति वस्त्रस्थाप्यावरणभूततन्त्वाकारापगमे सति अभिव्यक्तेरेवोत्पत्तिरूपत्वेन अत्राप्यावरणापगमे अभिव्यक्तेरुत्पत्तिरूपत्व- मेवेति मुक्तेरनित्यत्वप्रसङ्गदोषतादवस्थ्यमिति वाच्यम् | यत्र कारण- रूपाश्रयगतावस्थाविशेषेणावृतं तदवस्थापनयनेनाभिव्यज्यते तत्रोत्पत्तिः; यत्र तु आश्रयगतद्रव्यान्तरेणावृतं तन्निवृत्त्याभिव्यज्यते तत्राभिव्यक्तिरित्युत्पत्त्यभिव्यक्त्योर्भेदाभ्युपगमात् | वस्त्रस्याश्रयभूत- तन्त्ववस्थारूपावरणापगमे अभिव्यक्तेरुत्पत्तिरूपत्वेऽपि प्रकृते आश्रयभूतात्मनि विद्यमानमलरूपद्रव्यान्तरेणावतत्वात् शिवैक्यस्य तदावरणनिवृत्तौ तृणशैवालाद्यपगमे कूपे पूर्वमेव विद्यमान- जलस्येवाभिव्यक्तेरुत्पत्तिरूपत्वाभावान्नानित्यत्वदोषप्रसङ्गः | एतेन शिवैक्यस्य पूर्वमेव सत्त्वे तादर्थ्येन पुरुषप्रवृत्तिवैयर्थ्यमित्येतद- पास्तम् | तदाच्छादकमलनिवृत्तौ कृतिसाध्यत्वपर्यवसानात् | तथा च घटाकाशमहाकाशदृष्टान्तेन नदीसमुद्रदृष्टान्तेन च वेदागमेष्वैक्योक्तिरुक्तेषद्भेदगर्भाभेदरूपतादात्म्यमात्रसा- धर्म्यविषया | न त्वात्यन्तिकाभेदांशपूर्वसिद्धभेदहान्यंशावपि दृष्टान्तदार्ष्टान्तिकयोस्तत्र विवक्षितौ | न हि दृष्टान्तदार्ष्टान्तिकयोस्तत्र सर्वात्मना साम्यं विवक्षणीयम् | तयोरभेदापत्त्या दृष्टान्तदार्ष्टान्तिकभावस्यैवोच्छेदापत्तेः | तथा च न पूर्वोक्तदोषः || ४२) ननु तथापि शिवैक्यमात्रमपि न मोक्षः | तस्य सुखदुःखाभावेतरत्वेन स्वतः पुरुषार्थत्वाभावात् | न चानन्दानुभवेन पुरुषार्थत्वम् | आनन्दसद्भावे मानाभावात् | आनन्दभोगसद्भावे भोगस्याध्यासरूपत्वेन संसारित्वापत्तेः | क्वचिदानन्दादिश्रवणस्य पूर्णत्वादिपरत्वादिति चेत्; न | निस्तत्त्वे निष्कलीभूते विन्दत्यात्मनि यत्सुखम् | निर्विकल्पमचिन्त्यं च हेतुदृष्टान्तवर्जितम् || तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् | निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् || यदा यात्युन्मनीभावं तदा तत्परमं सुखम् | इति सर्वज्ञानोत्तरगतवचनेन सुखस्य प्रतिपादनात् | अत्र दुःखनिवृत्त्यात्मकं सुखमिति केषाञ्चिद्व्याख्यानं सुखशब्दमुख्यार्थपरित्यागे हेत्वभावादनुपपन्नम् || ४३) न च सुखस्य जन्यत्वनियमात् सुखानुपपत्तिः | एवं सति ज्ञानस्याप्यभावप्रसङ्गात् | प्रमाणबलान्नित्यज्ञानाभ्युपगमे नित्यसुखस्याप्यविरोधात् | अत एव सुखभोक्तृत्वे संसारित्वं स्यादित्यपास्तम् | अनित्यसुखभोक्तृत्व एव संसारित्वोपगमात् | अन्यथा ज्ञानादिमत्त्वेन संसारित्वापत्तेः | तस्मान्न नित्यशिवानन्दभोगेन संसारित्वप्रसङ्गः || ४४) न चैवं शिवैक्यापन्नजीवस्यापि सुखस्वरूपत्वेन मोक्षस्वरूपसुखानुभव एवास्तु, किं शिवानन्दानुभवाभ्युपगमेनेति वाच्यम् | यथा रसवदपि रसनेन्द्रियं स्वेतरद्रव्यगतमेव रसं गृह्णाति | न तु स्वगतम् | यथा वा प्रकाशवदपि चक्षुरिन्द्रियं न स्वप्रकाशेन सूर्यादिप्रकाशं गृह्णाति | तथा सति सूर्यादिप्रकाशं विनैव घटादिरूपग्रहणापत्तेः | किं तु सूर्यादिप्रकाशेनैव चक्षुर्गृह्णाति | तथा च सूर्यादिप्रकाशानुभवे चक्षुःप्रकाश उपयुज्यते | तद्वदेव शिवानन्दानुभव एव जीवन्मुक्तस्य ज्ञानानन्दस्वरूपमुपयुज्यते | न तु स्वात्मगतसुखानुभव इति सम्प्रदायः || ४५) एतेन मन्त्रौषधादिवीर्येण विषशक्तिप्रतिबन्धवज्ज्ञानावार- काज्ञानस्यापि ज्ञानेन शक्तिप्रतिबन्धमात्रं क्रियते | न तु ज्ञानेन निवृत्तिः क्रियत इति मतमपास्तम् | तथा सति शिवैक्यालाभात् | लाभे च शिवेऽप्यज्ञानप्रसङ्गात् | शिवागमेषु अज्ञाननित्यत्ववचनानामनादित्वेन बहुकालावस्थायित्वपरत्वात् || ४६) तस्मात्पूर्वोक्तप्रकारेण तत्त्वसाक्षात्कारोदये मलासंस्पर्शे आगामिकर्मास्पर्शे च सति सञ्चितकर्मणां च दीक्षया निवृत्तौ प्रारब्धस्य च भोगेन क्षये मलकर्मोभयाभावेन मायाद्वयस्यागामिशरीराद्युत्पादनशक्तिविलोपेन प्रारब्धकर्मभोगेन वर्तमानशरीरादिनाशे शिवानन्दानुभवविरोधिपाशापगमेन शिवेनैक्यं प्राप्यालौकिकनिरतिशयशिवानन्दानुभवात्मकपरम- मुक्तिं प्राप्नोतीति सिद्धम् || इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयोगीन्द्र- ज्ञानशिवाचार्यविरचितायां शैवपरिभाषायां मुक्तिनिरूपणं नाम पञ्चमः परिच्छेदः || ########### END OF FILE #######