#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00254 Uniform title: śaivasiddhāntaparibhāṣāmañjarī Author : vedajñāna Manuscript : IFP/EFEO transcript T0171 Description: Transcribed from IFP transcript T0171 which is copied from a manuscript belonging to śiva śri elukarai nātthu namabi sadāśivapaṇḍita sivācāryar maṭhādhipati ṭirueehengodu. See Muktabodha IFP/EFEO on-line catalog for bibliographic details at www.muktabodha.org . Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: April 4, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || शिवमयम् || शुभमस्तु || शैवसिद्धान्तपरिभाषामञ्जरी निगमज्ञान शिवाचार्यविरचिता शैवसिद्धान्तपरिभाषामञ्जरी उपोद्घातः | वन्दे कल्पकविघ्नेशं श्रितपश्चिमगोपुरम् | फलोपहारसन्तुष्टमिष्टानां तुष्टिकारणम् || १ || श्रीमत्तिल्लवनाधीशं सातकुंभसमाचरे | भजामि भूमिभृत्कन्यां लालितानन्दनृत्तनम् || २ || व्याघ्रपादं तथा शेषं स्वर्णवर्माणमेव च | श्रीमद्व्याघ्रपुराधीशं भक्तानेतान् भजाम्यहम् || ३ || श्रीमद्व्याघ्रपुरावासं पूजितं शिवयोगिभिः | आगमग्रन्थरत्नोदैः अपूर्णमठमन्दिरम् || ४ || वेदज्ञानगुरुश्चेति भुवि विघ्नान्तमाख्यया | सर्वागमरहस्यज्ञं स्मरामि शिवयोगिनम् || ५ || प्. २) लक्षिते शक भूताब्दे मन्दभाग्येति संख्यया | विष्यन्ति मे हायने च तार्तीयीकहृतौ सुधीः || ६ || देवज्ञानाभिधानोऽसौ शैवं शास्त्राब्धिपारगः | कालहस्तीश्वरेणात्र प्रविष्ठां प्रापितः परम् || ७ || तन्नामधारिणं तस्य शिष्येण गुणशालिनः | एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवादिभिः || ८ || संख्याभिः कथ्यते भाषामञ्जरी मञ्जुलोक्तिना | अनुगृह्णन्तु तामेतां सन्तः संश्रितवत्सलाः || ९ || क्वचिदुद्देशः प्रोक्तः क्वचिल्लक्षणया सह | घनदृष्टं शिवज्ञाने तदन्यत्र न विद्यते || १० || इत्युपोद्घातः || अथ परिभाषा मञ्जरी ब्रूमः | आदिमध्यान्तनिर्मुक्त स्वभावविमल प्रभुः | सर्वज्ञः परिपूर्णश्च शिवो ज्ञेय शिवागमे || १ || अप्रमेयमनिर्देश्यमनौपम्यमनामयम् | सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् || २ || प्. ३) शिवतत्वमिति प्रोक्तं सर्वाध्वोपरि संस्थितम् | एकैव खलु चिच्छक्तिः शिवस्य समवायिनी || ३ || सैव मुक्तिक्रियाभेदात् सदाशिवतनुर्मता | तया धृतं जगत्सर्वं एकयाऽनेकरूपया || ४ || एक एव शिवस्तद्वत् शक्तिरप्यविकारिणी | लयभोगाधिकारेषु तौ न तन्मात्ररूपिणी || ५ || एकोह्यनेक शक्ती च दृक्क्रियोश्चादकोमलः | पुंसान्तुषकंबुकवत्ज्ञेया ताम्राश्रितकालिमा || ६ || ? अङ्कुरं वास्तुयागञ्च पर्यग्निकरणं तथा | मण्टपस्यार्चनं चैव समित्परिधि विष्टरम् || ७ || प्रणीता प्रोक्षणं पात्रं आधारपरिषेचनम् | परिस्तृणादिमन्त्रान्तं एक एव समाचरेत् || ८ || एकाचार्येण कर्तव्यं मूर्तिहोमादिकं विना | एकेन वर्तमानायां क्रियायां करणं विना || ९ || साचानेन कृतं चेत्तु तत्स्यादाचार्य सङ्करम् | वैगुण्यात्करणस्यैव विरोधे सति यत्र तु || १० || सा क्रिया तस्य शिष्येण कर्तव्यं तेन शास्त्रतः | अथान्येन कृतं चेत्तु कर्ता नाशो न संशयः || ११ || प्. ४) अधुना सकलादीनां स्थापनक्रममुच्यते | सहितस्थापनं यत्र एकदेशिकमाचरेत् || १२ || अङ्कुरादि प्रतिष्ठान्तं एकाचार्येण कारयेत् | अन्यथा चेन्न कर्तव्यं राजा राष्ट्रं विनश्यति || १३ || इति प्रथम वर्गः || अथ द्वितीय वर्गः || ब्रह्मद्वयं समुद्दिष्टं शब्दब्रह्म परञ्च यत् | परं ताच्छिवमुद्दिष्टं ब्रह्मशब्देन शब्दितम् || १ || शब्दब्रह्ममयं यत्तत् सदाशिवमिति स्मृतम् | सदा शिवमनुः साक्षात् प्रणवं स्याज्जनार्दन || २ || सर्वकारण भूतोऽसौ देवदेवः सदाशिवः | तस्यापि कारणत्वेन संस्थितस्स परश्शिवः || ३ || वाङ्मनोऽतीत रूपत्वात् परत्वेन स कथ्यते | तस्मात्कारणभूतो यस्स एवाऽत्र शिवस्मृतः || ४ || एक एवाद्वयं ब्रह्म द्विविधं परिपाठ्यते | परापर विभागेन परन्तु द्विविधं पुनः || ५ || प्. ५) लौकिकं वैदिकञ्चैव शब्दब्रह्म प्रशस्यते | परञ्च द्विविधं प्रोक्तं स गुणं शुद्धमित्यपि || ६ || ब्रह्माङ्गं स्थूलरूपञ्च सूक्ष्ममोङ्काररूपकम् | सूक्ष्मरूपं शिवं प्रोक्तं स्थूलरूपं सदाशिवम् || ७ || कर्तृत्वं द्विविधा विप्राः सङ्कल्पात्करणादपि | न सङ्कल्पेन मात्रेण कुलालैः क्रियते घटः || ८ || शिवसङ्कल्पमात्रेण बिन्दुक्षोभकरस्सदा | करणञ्च न शक्त्यस्य शक्तिन्नाचेतना तथा || ९ || विषया नियमादेकं बोद्धा इत्ये च तत्तदा | ज्ञानशक्ति क्रियाशक्ति शक्तिद्वयमिति स्मृतम् || १० || ज्ञानशक्त्या विजानाति क्रियायः कुरुते जगत् | शिवसृष्टि तथा पूर्वा पशुसृष्टिद्वितीयका || ११ || शुद्धदेह समायुक्ता शिवसृष्टिरुदीरिता | मलैरावृतशुद्धात्मा पशुसृष्टिः प्रकीर्तिता || १२ || मायातो द्विविधा सृष्टिः स्थूल सूक्ष्मा च कीर्तिता | दृक्क्रिया व्यञ्जिका तात्वी सामान्यं भुवनात्मिका || १३ || कालस्तु द्विविधो ज्ञेय स्थूल सूक्ष्मोपलक्षितः | लौकिक स्थूल एवोक्त सूक्ष्मश्चित्रात्मयोगिनाम् || १४ || प्. ६) ज्ञानद्विविधमाख्यातं परं वाचा परं स्मृतम् | परञ्चैवावबोधाख्यं अपरं शास्त्रमुत्तमम् || १५ || आद्यावभूद्विधाज्ञानं अधिकारद्विभेदतः | परापरविभागेन पतिपश्वर्थदर्शकम् || १६ || शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् | वेदाद्यं परविज्ञानं पशुपश्वर्थदर्शकम् || १७ || यथा विलक्षणं चक्षुः क्षपायां नृबिडालयोः | तथा विलक्षणं ज्ञानं परापर विभेदतः || १८ || परोक्षञ्चापरोक्षञ्च द्विविधं ज्ञानमिष्यते | परोक्षं स्थावरं प्राहुः अपरोक्षन्तु सुस्थिरम् || १९ || महेशपादे गम्यं यत् परोक्षञ्च प्रवर्तते | अपरोक्षं मुनिश्रेष्ठात् अनुष्ठानाद्भविष्यति || २० || द्विविधं कर्मभोज्यार्थं धर्माधर्मात्मकं पशोः | आभोगस्थायि यद्विद्यात् फलद्वयविरोधि च || २१ || तच्चरीरद्विधा प्रोक्तं स्थूलसूक्ष्मं तथैव च | सूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् || २२ || जननं मरणञ्चैव जन्मना जायते यतः | एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया || २३ || प्. ७) सूक्ष्मस्य लक्षणं वक्ष्ये समासाच्छृणु तत्वतः | प्रतिपुंश्च नियतं तत्वं कलाद्यवनि पश्चिमम् || २४ || जीवं तृणजलूकेव देहाद्देहं विशेत्क्रमात् | संप्राप्योत्तरमंशेन देहं त्यजति पौर्विकम् || २५ || पशूनां स्थूलसूक्ष्मांश्च पन्नगांश्चाण्डजातिवत् | योनिभेदाश्च योगीनां परकायप्रवेशयेत् || २६ || सूक्ष्मदेहे पशु स्थित्वा ततः स्थूलस्वरूपयुक् | जाग्रतादियुदोऽवस्थः कर्मणा भोगभुक् स्थितः || २७ || एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु | कालान्तरवशाद्याति मानुष्यमति दुर्लभम् || २८ || मानुष्येऽपि च विप्रत्वं यस्संप्राप्त सुदुर्लभम् | शरीरं द्विविधं प्रोक्तं पुंस्त्वञ्च स्त्रीत्वमेव च || २९ || लिङ्गेन लाञ्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलाञ्छितम् | लिङ्गमीशमयं प्रोक्तं योनिः शक्तिमयं स्मृतम् || ३० || तस्माद्वै शिवशक्तिस्तु सर्वमेतच्चराचरम् | स्थूलञ्च सूक्ष्मकञ्चैव द्विविधं समयं भवेत् || ३१ || स्थूलं बाह्यमिति प्रोक्तं सूक्ष्ममभ्यन्तरं स्मृतम् | साधाराऽथ निराधारा साधारा साकलस्य तु || ३२ || प्. ८) निराधाराह्वया तेषां एवं दीक्षा द्विधा मता | कुर्यान्निरोधापेक्षेण द्विधा शक्तिनिपातनात् || ३३ || शिव एवाऽनुगृह्णाति विज्ञाना प्रलया कलौ | या क्रिया क्रियते साधु निराधारेति कीर्तिता || ३४ || गुरुमूर्ति समास्थाय मन्दतीव्राति भेदतः | शक्त्या शंभुश्च कुरुते सा दीक्षा साधिकारिणी || ३५ || क्रियावती द्विधा ज्ञेया निर्बीजाऽथ स बीजिका | तत्र निर्बीजिका या सा योज्या स मधि पुत्त्रयोः || ३६ || स बीजाऽथ भवेद्दीक्षा साधका चार्ययोरथ | अथ निर्बीजिका दीक्षा प्रोक्ता सा द्विप्रकारिका || ३७ || एकनिर्वाणदा सद्यो द्वितीया देहपाततः | प्रारब्धसञ्चिता गामी कर्मजालं विशोध्यति || ३८ || यथां त्यन्तविरक्तानां सद्यो निर्वाणदो भवेत् | स बीजा च द्विधा भिन्ना प्रथमा शिवधर्मिणी || ३९ || शिखाखण्डन संयुक्ता दीक्षा सा शिवधर्मिणी | अधर्ममात्र संशुद्धा द्वितीया लोकधर्मिणी || ४० || गृहीणां लौकिकी ज्ञेया लिङ्गीनां शिवधर्मिणी | शिखाच्छेदो न चा त्रास्ति दीक्षा सा लोकधर्मिणी || ४१ || प्. ९) विशेषद्विविधं प्रोक्तं बाह्यमभ्यन्तरं तथा | जन्म वै द्विविधं प्रोक्तं दीक्षा प्रणवसंज्ञकौ || ४२ || नैष्ठिको नैष्ठिकांश्चैव गृहस्थो दीक्षयेत् क्रमात् | भौतिकस्तु गृहस्थश्च नान्यदीक्षां समाचरेत् || ४३ || ब्रह्मचारी गृहस्थश्च द्विविधो देशिकोत्तमः | दीक्षा प्रतिष्ठयोरेता उभावप्यधिकारिणौ || ४४ || किन्तु मोक्षैव युक्तानां विभूतिविकलात्मनाम् | ब्रह्मचारी गुरुज्ञेयो गृहस्थश्च द्वयार्थिनाम् || ४५ || लोकानुग्रहकर्तारे परिब्राड् तापसौ न हि | समत्वं कर्मणां नात्र निमित्तं तदनुग्रहे || ४६ || परिपाकोमलैक्येव किन्त्वनुग्रहकारिणम् | यावत्सोन्मलिनी शक्तिः शिवरागेण संयुता || ४७ || नव तद्यतिते जाढ्या नित्यानुग्राह शालिनी | यथा पुमान् विभुं नित्यो विनिष्टः शिवतां गतः (वतः) इति || ४८ | एवं शक्ति निपातोऽपि प्रोच्यते सोपचारतः | द्विविधोऽपि तिरोभावो स्थानप्राप्ति क्वचिद्भवेत् || ४९ || तत्र स्थितस्य तस्येह वासना सैव जायते | तद्युक्तस्य विमोक्षस्य आत्मनाद विकल्पिकः || ५० || प्. १०) अनेन क्रमयोगेन तिरोभावं गतो भवेत् | ज्ञानाभिव्यक्तये व्यक्तं व्यक्तं तत्वमणं प्रति || ५१ || व्यक्तोऽसौ शिववद्भाति शिवं एव तनुक्षये | शिवरुद्रात्मकं तत्र द्विविधं परिकीर्तितम् || ५२ || कामिकादीनि दशकं शिवभेदं प्रकीर्तितम् | विजयाद्यष्टदशकं रुद्रभेदं प्रकीर्तितम् || ५३ || शिवरुद्रात्मकं तन्त्रं अष्टाविंशति संहिता | संहिता स्याच्चतुष्पादं युक्ता कामिकपूर्विका || ५४ || आत्मशुद्धि ततः कुर्यात् द्विविधं परिकीर्तितम् | आत्मनस्तु शरीरं स्यात् आत्मसंज्ञाऽत्र कथ्यते || ५५ || तयोस्तु शुद्धिरित्यात्मा शुद्धिरेषा प्रकीर्तिता | पञ्चभूत समालब्धं शरीरं सर्वदेहिनाम् || ५६ || तस्मात्तेषु कृता शुद्धिः देहशुद्धिरिति स्मृता | भूतांशेषु शरीरेऽस्मिन् मित्रभावा स्थितावपि || ५७ || व्यच्छेदस्थितं तेषां शुद्ध्यर्थं परिकल्पयेत् | शुद्धिर्मन्त्रात्मिका यस्मात् तस्मान्मन्त्रेण शोधयेत् || ५८ || मन्त्रो द्विरूपो विज्ञेयो वाच्यवाचकभेदतः | वाग्रूपो वाचकः प्रोक्तो वाच्यस्त्वर्थात्मकस्मृतः || ५९ || प्. ११) वाच्यवाचकयोश्चैव तदर्थकं विदिष्यते | खेटके भूतले वापि सौरपूजां समारभेत् || ६० || सृष्ट्यर्थं चैव मुक्त्यर्थं पूजा च द्विविधा भवेत् | द्विविधं पूजनं प्रोक्तं स्थावरं जंगमं तथा || ६१ || नागरादि विमानेषु स्थापितं तत् परार्थकम् | जंगमं पूजयेन्नित्यं आत्मार्थे तु विशेषतः || ६२ || सापेक्षं निरपेक्षञ्च द्विविधं शिवपूजनम् | चललिङ्गे तु सा पेक्षा स्थण्डिले निरपेक्षकः || ६३ || चलञ्च द्विविधं प्रोक्तमंगप्राधानिकंत्त्विति | चित्रादि प्रतिमादीनामर्चनं तत्तदग्रके || ६४ || पूजितं चांगमित्युक्तमन्यत्प्राधानिकं मतम् | वह्निकार्यं द्विधा ज्ञेयं कुण्डं वा स्थण्डिलेपि वा || ६५ || अग्राकृतिर्यथा कुण्डं सर्वकामार्थसाधनम् | स्थण्डिलं सर्वकामार्थं सिद्ध्यर्थञ्च विशेषतः || ६६ || स्थावरं जंगमं चैव द्विविधं लिङ्गमुच्यते | स्थावरं स्थापितं लिङ्गं जङ्गमं दीक्षितं विदुः || ६७ || जंगमस्यावमानेन स्थावरं निष्फलं भवेत् | तस्माल्लिङ्गद्वयं प्राज्ञो नावमान्येत सर्वदा || ६८ || प्. १२) कृत्वावमानतो मोहात् अन्यस्तु नात्र संशयः | मण्डूकं परमशायीति पदं तद्विविधं भवेत् || ६९ || मण्डूकं देवमानञ्च वास्तुनान्तु शिवं भवेत् | देवीनाञ्चैव वास्तुनां शुभं परमशायिकम् || ७० || विपरीतकृतं चेत्तु राजाराष्ट्रं विनश्यति | द्विधा बालालयं प्रोक्तं प्रथमञ्च द्वितीयकम् || ७१ || ग्रामे वा नगरेवाऽपि पत्तने राजधानिके | एतेष्वन्यदेशेषु मूलस्थानस्य यत्पुरा || ७२ || वास्तुनिर्देशनस्यान्ते कल्पितं प्रथमं भवेत् | पुनः प्रासादकरणे भिन्ने छिन्ने नवीकृते || ७३ || विश्लेषे च तथा पीठे लिङ्गे च प्रतिमासु च | यत्कृतं तद्वितीयाख्यं तरुणालयमुत्तमम् || ७४ || अन्ये तु सर्वकर्माणि सामान्यमिति भाषितम् | द्वितीयाख्यं प्रकर्तव्यं मासपक्षादिभिर्विना || ७५ || द्वितीयमिति विज्ञेयं तद्भेदं दशधा विदुः | खड्गे च मूलबिम्बे च दर्पणे प्रतिबिम्बके || ७६ || कुंभे च स्थण्डिले चैव मण्डले पादुके तथा | पटे वा भित्तिचित्रे वा बालबिंबार्थकं गृहेत् || ७७ || प्. १३) स्वयमुद्भूतलिङ्गे वा दैविके चार्षकेऽपि वा | गाणवे लोहजे चैव नदीप्रस्रवणादिषु || ७८ || एवमादिषु लिङ्गेषु नैव कार्यघटस्थितिः | सप्ताहन्तञ्च पक्षाहं मासान्तञ्चेद्घटस्थितिः || ७९ || तदूर्ध्वं कुंभसंस्थञ्चेत् देवेशः सर्वदोषकृत् | पञ्चाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं भवेत् || ८० || मासं कनीयसं प्रोक्तं घटस्थं चैव बुद्धिमान् | नित्यं नवजलं योज्य पूजयेत्पूर्ववत्क्रमात् || ८१ || कामकोष्ठाग्रके वापि गौरीबालगृहं नयेत् | देवबालगृहे वाऽपि स्थापयेद्बालरूपिणीम् || ८२ || वेदोक्तमखिलं कर्म देव्याश्चापि समाचरेत् | मन्त्रभेदो भवेत्तत्र क्रियाभेदेन विद्यते || ८३ || संपूज्य शिवपूजांते बलिहोमादिकं विना | पृथक् बालगृहं चेत्तु देवपूर्वोक्तमार्गतः || ८४ || समभ्यर्च्य महादेवीं मंत्रेणैव तु देशिकः | देवी बालप्रतिष्ठा चेद्देवस्य तरुणालये || ८५ || देवालयं समापाद्य गौरीं संस्थापयेद्बुधः | देवीं विहाय देवो वा देवी वा केवला यदा || ८६ || प्. १४) शतृभिः संगृहीता चेत् स्थितस्यैवानुरूपतः | समापाद्येतरं तस्य प्रतिष्ठां च समाप्य च || ८७ || कल्याणं कारयेदंते विधिना देशिकोत्तमः | बालस्थानं विना यत्र पुत्रपौत्रविनाशनम् || ८८ || तस्मात्सर्वप्रयत्नेन बाललिङ्गं प्रकल्पयेत् | यागहोममथो वक्ष्ये देव्या संस्थापनोत्तरम् || ८९ || स्थापनं द्विविधं प्रोक्तं क्रियाख्यं योगभेदकः | क्रमाद्देवन्तु निर्माय सह देवीं विधानतः || ९० || स्थाप्यते यत्र तत्प्रोक्तो क्रमाख्यं स्थापनं हरेः | पूर्वं देवन्तु निर्माय देव्या सह विधानतः || ९१ || स्थाप्य देवं ततो देवीं कृत्वा कालान्तरेऽपि च | स्थाप्यते विधिना शक्ति स्थापनोक्तेन यत्र तु || ९२ || स्थापनं तद्भवेद्योगं स्थापनानन्तरो यतः | गौरीसंस्थापनात्पूर्वं शिवसंप्रोक्षणं भवेत् || ९३ || तदा बालालयाद्गौरीं समाकृष्य शिवालये | देवाग्रे मण्टपे स्थाप्य पूर्वमार्गेण देशिकः || ९४ || पूजयित्वा विधानेन पश्चात्कल्याणमाचरेत् | नित्यागमंतुकं नित्यं द्विविधं संप्रकल्पितम् || ९५ || प्. १५) दिनं प्रत्यर्चयेन्नित्यं यजेन्मासं प्रति प्रति | विशेषं यजनं यत्तत् आगमं नित्यमुच्यते || ९६ || नैमित्तिकं द्विधा ज्ञेयं नैमित्यांगन्तुकं तथा | कर्षणादि प्रतिष्ठान्तं नैमित्तिकमिति स्मृतम् || ९७ || अन्यानि सर्वकर्माणि नैमित्यांगन्तुकं स्मृतम् | काम्यञ्च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा || ९८ || बाह्यं सिद्धिप्रदं कर्म आत्मार्थञ्चान्तर स्मृतम् | अब्दं प्रति विशेषेण मार्गशीर्षे तु मासके || ९९ || सिद्धिद्वयं यथा कामि तत्काले शिवमर्चयेत् | तत्पूजा द्विविधा ज्ञेया नित्यनैमित्तिकेति च || १०० || वैदिकं शैवमित्येवं व्रतं हि द्विविधा भवेत् | त्रैवर्णिकानां कर्तव्यं उपवीतानि वैदिकम् || १०१ || शिवदीक्षा प्रधानन्तु शिवमित्युक्तमुत्तमम् | वाग्देवियोनिजातत्वात् शिवपुत्रस्तु कारणात् || १०२ || विप्रादि दशवर्णानां योगत्वमुपजातये | स्वशास्त्रोक्तप्रकर्तव्यं परशास्त्रं विवर्जयेत् || १०३ || व्रतपूजादिकं यच्च परोक्तं परिवर्जयेत् | प्रतितंत्रविरोधेन योऽर्थस्संगृह्य तत्र तु || १०४ || प्. १६) तद्गुरो युक्तिदौर्बल्यात् विज्ञेयं वाग्विडम्बनम् | यत्र यत्र यथान्यायं येन येन च वर्त्मना || १०५ || यदत्र शक्यते नेतुं तत्तथैव विचार्यताम् | यथा विरोधतः सर्वं यदि तन्त्रं शिवात्मकम् || १०६ || तथा चार्येण कर्तव्यं नान्यथा मुनिपुंगव | कर्तव्यं चेदनुष्ठेयं शैवधर्म विरोधि यत् || १०७ || विरुद्धं चेत्परित्याज्यं नतु शैवं परित्यजेत् | संग्राह्य वैदिकं शैवं शैववाक्यविरोधि यत् || १०८ || ब्रह्मचारी द्विधाज्ञेय भौतिको नैष्ठिकः परम् | विद्याव्रत समाप्ते तु गृहीत्वा तस्य वर्त्मना || १०९ || द्वितीयो नैष्ठिकः प्रोक्तो देहान्तं तस्य वर्त्मना | उदासीनस्साधकश्च गृहस्थो द्विविधो भवेत् || ११० || कुडुंबभरणायुक्तस्साधकोऽसौ सुखी भवेत् | ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्या धनादिकम् || १११ || एकाकी विचरेद्यस्तु उदासीनस्स मोक्षकः | त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते || ११२ || अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी | अपुत्रस्य जगच्छून्यं अपुत्रस्य कुतस्सुखम् || ११३ || प्. १७) पुत्रेण लोकां जयति श्रुतिरेषा सनातनी | अपत्नीकस्सपत्नीको द्विविधश्शिवतोषणे || ११४ || वने वासोऽग्नि चिवनं कंदमूलफलाशनम् | गृहस्थस्य व्रतं यत्तत् सपत्नीकस्तथैव च || ११५ || ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितः | सुभूमौ वचने वापि कुशे वा शयनेऽथवा || ११६ || सर्वेषु चेन्द्रियार्थेषु सङ्गमन्तु विवर्जयेत् | कृत्वा स्नानं त्रिकालेषु देवाग्निगुरुपूजनम् || ११७ || वने तु वासयेन्नित्यं फलमूलादि भक्षणम् | अवस्था द्विविधा प्रोक्ता शुद्धाशुद्धविभेदतः || ११८ || जाग्रादि द्विविधा ज्ञेय भवमोक्ष गतिप्रदा | भवप्रदाऽधोमुखी स्यात् ऊर्ध्वा मोक्षप्रदायिनी || ११९ || अपराधो द्विधा ज्ञेय स्वकृतैश्च परैः कृतः | एकैकन्तु द्विधा ज्ञेय अकामाकाम भेदतः || १२० || स्वेष्टलिङ्गे साधकैस्तु परेणैव कृतो यदा | द्विगुणं स्वकृते प्राहुः प्रायश्चित्त विशुद्धये || १२१ || साधकेभ्यो देशिकस्य शोधनद्विगुणं मतम् | भौतिकाज्जन्माध्वरीणां शोधनद्विगुणं मतम् || १२२ || प्. १८) प्रकाशं तिमिरं चैव स्थूलसूक्ष्मं तथैव च | अन्तिकञ्च तथादूरं हेयोपादानमेव च || १२३ || नित्यनैमित्तिकञ्चैव परञ्चापरमेव च | संहृतञ्च प्रकीर्णञ्च सत्यञ्चासत्यमेव च || १२४ || सञ्चासञ्च सुरश्रेष्ठ कर्तृहर्तृ तथैव च | (सच्चासच्च सुरश्रेष्ठ कर्तृहर्तृ तथैव च) | इति पाठः | हृद्यं चैव तथा हृद्यं अद्यश्वञ्च तथैव च || १२५ || वाच्यं च वाचकं यत्तत् आधाराधेयमेव च | शीतमुष्णञ्च यत्प्रोक्तं सुखदुःखं तथैव च || १२६ || पवित्रञ्चापवित्रञ्च मृदुतीक्ष्णं तथैव च | रागद्वेषञ्च जन्तूनां यत्नालस्यं तथैव च || १२७ || उन्नतञ्चानतञ्चैव संपच्चासंपदे तथा | सुस्थितं दुस्थितञ्चैव चलञ्चाचलमेव च || १२८ || सर्वमेतत्स एवेश तस्मादन्यं न विद्यते || १२८ || इति द्वितीयवर्गः समाप्तः || अथ तृतीयवर्गः || पशुःपशः पतिश्चैव त्रिपदार्थ उदाहृतः | पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मलदूषितः || १ || स मूढो नित्यसंसारी किञ्चिज्ञो निश्वरो क्रियः | आत्मनो व्यापिकोऽनन्ता चिद्रूपा शव स्मृताः || २ || सकलाकलभेदेन एकद्वित्रिमलाः क्रमात् | माया कर्ममलच्छिन्नस्सकलस्सोऽभिधीयते || ३ || साष्टौ कलादियोगो येत एव सकला मता | मल कामावृतो यस्तु स भवेत्प्रलयाकलः || ४ || मलैकबन्धसंबद्धो विज्ञानकल उच्यते | कलातत्वोध्व भुवने कैवल्यं संभवेत्पशोः || ५ || महामाया च माया च प्रकृतिश्च विशेषतः | उपादानत्रयं एतत् कारणं तमुदाहृतम् || ६ || सा च कुण्डलिनी शंभोश्शक्तिश्शुद्धा जडात्मिका | स्थूल सूक्ष्मा परेत्येव महामाया भवेत्त्रिधा || ७ || भुज्यादि भोज्यजननी प्रकृतिः पुरुषस्य सा | सूक्ष्मकालादि तत्त्वानां अविभाग स्वरूपिणी || ८ || जननी मोहिनी माया सर्वशुद्धाध्वकारणा | मंत्रयोनिः परा माया नित्या कुण्डलिनी तु या || ९ || प्. २०) उपादानं शरीराणां विद्या विद्येश्वरात्मनाम् | शुद्धेध्वनि शिवः कर्ता प्रोक्तोऽनन्तो सिते प्रभुः || १० || अशुद्धेऽध्वनि रुद्रस्तु कर्त्तां त्रिविध इष्यते | सदाशिवो महेशश्च रुद्रश्चेति त्रिधा मता || ११ || शिवदेह इति प्रोक्तो विद्यादेहस्स उच्यते | निमित्तमीश्वराख्यं यत् तद्दृष्टं सह कारणम् || १२ || उपादानञ्च यत्सूक्ष्मं सर्वकार्येषु संहितः | तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी || १३ || स्थूलकार्यस्य सूक्ष्माभिः स्थिता न्यग्रोधबीजवत् | सूक्ष्मा शुद्धाध्वनिगरां स्थूलमिश्राध्वसंस्थिता || १४ || अशुद्धाध्वनि तापा च स्थिता स्थूलतरा स्थिरा | तत्र शब्दास्त्रियोद्वानः त्रयश्चार्थ समीरिताः || १५ || मन्त्राध्वा च पदाध्वा च वर्णाध्वाश्चेति शब्दिताः | भुवनाध्वा च तत्वाध्व कलाध्वार्थतः क्रमात् || १६ || ज्ञात्वेतास्तु कला सम्यक् स्थूलसूक्ष्मविमिश्रकाः | स्थूलात्पञ्च भूताय अधिष्ठात्री यथा तथा || १७ || सर्वाध्वा व्यापिका पूर्वा(सूक्ष्मा) सादाख्यभुवनात्परः | समिश्रका निवृत्याद्या लोके शक्तिः कलात्मिकाः || प्. २१) शरीरं त्रिविधं प्रोक्तं स्थूललिङ्गपरं स्मृतम् | स्थूलं भूतशरीरञ्च सूक्ष्मं पुर्यष्टकं भवेत् || १९ || परं बिन्दुसमुत्पन्नं त्रिविधं समुदाहृतम् | आणवं चैव मायेयं कर्मेयं स्यात् मलत्रयम् || २० || आणवं सहजं प्रोक्तं तुषकंबुकवत्क्रमात् | सहजं मलसंबद्धं केवलं तमुदाहृतम् || २१ || शक्तिकाचन बध्नाति कलाद्यवनि लक्षिताम् | मायेयं तद्विजानीया पुण्यपापाख्यकर्मजम् || २२ || मायेयमाणवं कर्म एतावदनुबन्धनम् | कर्मेयं त्रिविधं दृष्ट्वा दृष्टजन्मोपभोग्यकम् || २३ || आयुर्योगगलूच्यादि सिद्धमन्त्रप्रभावतः | तज्जन्मन्येव फलदो दृष्टभोगं न मुच्यते || २४ || स्वराज्यवीचिभोग्ये यौ देहान्ते पुण्यपाप्मनाम् | अदृष्टवेदनीयं तत् कर्मोक्तं शिवदर्शने || २५ || तथा नियति कालोपभोग्यं चेति समासतः | अद्यात्ममधिभूतञ्च आदिदैविकमेव च || २६ || त्रिविधं दुःखमाप्नोति तेषां भेदमनेकधा | अधर्मो भेदविज्ञेया चित्तवृत्तिप्रभेदतः || २७ || प्. २२) स्थूलसूक्ंआ सुसूक्ष्मा च कोटिभेदैरनेकधा | स्वापे विभागमभ्येति तत्सृष्टावुपयुज्यते || २८ || मायायां वर्तते चांते ना मुक्तं क्षीयतेति च | प्रारब्धं सञ्चितं कर्म आगामि च त्रिधा भवेत् || २९ || इच्छानिच्छा परेच्छा च प्रारब्धं त्रिविधं भवेत् | कञ्चुकत्रिविधं विद्धं कालेन कलितं शनैः || ३० || नियत्या लिङ्गितं याति प्राङ्मनावोपवर्त्मना | सृष्टिकालः स्थितेः काल संहारश्च त्रिधा मता || ३१ || त्रिषु कालेषु वर्तन्ते अतीतानागतं ततः | (वर्तमानाख्ये का कालमुच्यते पृथक् ||) प्रति यदा शेषसमाप्तन्तु तदादितमिति स्मृतम् || ३२ || सापेक्षकञ्च यत्काले तदानागमुच्यते | असमाप्तं यदारब्धं वर्तमानमुदाहृतम् || ३३ || सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् | सम्यक् ज्ञानं तपो मौनं स्मृतिर्मेधा धृति क्षमाः || ३४ || उत्साहो निश्चयं दैर्घ्यं एवं वै सात्विको गुणाः | दर्पं महदहंकारं विषादा प्रियवाचकम् || ३५ || प्. २३) उद्वेगं मात्सरं प्रोक्तं राजसं गुणमुच्यते | आलस्यं मोहनिद्रा च चापल्यं हीनवृत्तिकम् || ३६ || पापिष्ठं परनिन्दा च तामसं गुणमुच्यते | प्रकृते गुणतत्वन्तु भिद्यते न च तत्वतः || ३७ || अव्यक्तगुणसाम्यन्तु प्रधानं परिपठ्यते | विभक्तगुणसाम्यन्तु गुणतत्वमिहोच्यते || ३८ || देवत्वं सात्विकात्यादि मनुष्यत्वं हि राजसात् | तिर्यक्त्वं तामसः प्रायात् इत्येषा त्रिविधा गतिः || ३९ || सत्वं रजः क्रिया हेतुः तमस्त्वावरणात्मकम् | अहंकारत्रिधा प्रोक्तं जीवसंरंभगर्वकम् || ४० || संरंभोऽहङ्कृतिर्व्यक्ति अन्योर्थ प्रत्ययो परः | पञ्चकर्मकृतो वायो जीवनाय प्रवर्तकः || ४१ || न देवग्रामसामान्य वृत्तिः संरंभ इष्यते | कः कर्ता क्रियते तस्य यत्कृतं जगतो मया || ४२ || स एवाहं विभक्तात्मा तत्वज्ञानांग उच्यते | स च त्रिविधमुद्दिष्टः प्रथमस्तत्र तेजसः || ४३ || वैकारिका द्वितीयं स्यात् तथा भूताधिकः परः | सत्वेनोत्कृष्टभावो य स्वतेजस इहोच्यते || ४४ || प्. २४) वैकृतो राजसोत्कृष्टो भूताधिस्तमसाधिकः | भूतानामादि भूतत्वात् भूतादिरिति कथ्यते || ४५ || केवलस्सकलश्शुद्ध त्र्यवस्थः पुरुषस्मृतः | शुद्धावस्थानमात्मानं शिववक्तुं न संशयः || ४६ || तीण्यवस्थादयो ज्ञात्वा पुनर्जन्म न विद्यते | अचेतनस्य मायादेः प्रवर्तकतया पतिः || ४७ || सिद्धिः सर्वार्थकृत्कर्ता व्यापकस्सततो दितः | साधकानां हितार्थाय स्वेच्छया गृह्यते तनुम् || ४८ || तच्छरीरं त्रिधा ज्ञेयं निष्कलञ्चोभयात्मकम् | सकलञ्च तथा शास्त्रो त्रिभेदं विद्यते क्रमात् || ४९ || परं निष्कलमित्युक्तमपरं सकलं स्मृतम् | परापरं तथा प्रोक्तं भवेत्सकलनिष्कलम् || ५० || परापरं यथा ध्यात्वा स मुक्तः पाशहा भवेत् | लयभोगाधिकारञ्च त्रिभेदं विद्यते क्रमात् || ५१ || शतोद्युक्तप्रवृत्तिश्च कर्ता त्रिविध इष्यते | शक्तो प्रवृत्तिभेदेन भेदस्तस्योपचारतः || ५२ || ईशस्सदाशिवश्शान्त इति नाम्ना त्रय स्मृतः | शिवस्सदाशिवश्चैव महेशश्च त्रिधा स्मृतः || ५३ || तत्त्वमूर्तिप्रभावश्च त्रिभेदो विद्यते क्रमात् | शिवादि तत्वमित्युक्तं मूर्तिस्सदाशिवादयः || ५४ || तयोर्योगेन यद्रूपं तद्रूपं भावमुच्यते | हरिणी जननी चैव रोधयन्त्री त्रिधा मता || ५५ || हरिणी या शिवस्योक्ता सर्वाभरणशालिनी | अथवाऽपरसंस्थानं नयेदाहृत्य पुद्गलम् || ५६ || यस्मादस्मादियं शक्तिर्हरिणीत्युच्यते बुधैः | जननी जगतोर्जन्म स्वभावस्यादिति द्युतिः || ५७ || रोधयित्र्यण सङ्घस्य प्रलये नियमस्थितम् | भोगेष्वपि च तस्यापि विदधाति यतस्तथा || ५८ || एतास्तु शक्तयस्तिस्र शरीरकरणात्मिकाः | नित्यसिद्धि विभोर्विप्रा यत एव स्वकं बलम् || ५९ || इच्छा ज्ञानक्रिया चैव शक्तित्रयमुदाहृतम् | ज्ञानशक्त्या विजानाति क्रियाया कुरुते जगत् || ६० || शिवे च सर्वजज्ञानं अकारुण्ये तदा हृतम् | तिस्रस्तु शक्तयो ज्ञेयाः कारणस्याव्ययात्मना || ६१ || वामज्येष्ठा च रौद्री च शक्तयस्समुदाहृतः | रौद्री शक्तिः समावेशात् ब्रह्मविष्ण्वादि पूर्वकः || ६२ || प्. २६) सर्वकृत्येषु यत् ज्ञानं व्यापित्वं येन सान्वयम् | निखिलज्ञानयोगित्वात् सर्वज्ञः परमेश्वरः || ६३ || आगमेनापि सर्वज्ञो गुणमाहात्म्य दर्शनात् | यथा विकासयत्येव रविपद्मानि भानुभिः || ६४ || समन्तविकसत्येव स्वस्वकर्मानुरूपतः | अचेतनत्वात् प्रकृते राज्ञत्वात्पुरुषस्य च || ६५ || जगच्च कर्ता सापेक्ष सर्वञ्चावयव स्मृतः | ममेव जगतः कर्ता महादेवो महेश्वरः || ६६ || पाश्यपाशयिता पाशत्रयमेव व्यवस्थितम् | साध्यसाधन भावोक्त्या यथावत्प्रकटं भवेत् || ६७ || पशवस्त्रिविधा ज्ञेया परापरविभेदतः | शिवस्सदाशिवश्शान्तो गुरवाः परमा मताः || ६८ || अनन्तश्री शिवश्चोमास्कन्दो विष्णुस्वधिस्तुषात् | परापरे वरे देवा मुनयो त्रिगुरुत्तमाः || ६९ || ब्रह्मा शिवश्चोग्रज्योति सद्यो ज्योति वृहस्पतिः | पादान्तैराकण्ठाद्या शिवशास्त्रप्रवर्तकः || ७० || अपरे च स्वगुर्वन्तगृहस्थो ब्रह्मचारिणः | चोदको बोधकश्चैव मोक्षदञ्च तृतीयकः || ७१ || प्. २७) शिववत् पूजयेत्सर्वान् यतस्ते मोक्षदा नृणाम् | या प्रेरयति च ज्ञानं शिवे परमकारणे || ७२ || प्रेरणात्प्रेरकं प्राहुः गुरुद्वौतेय उत्तमः | दीक्षागुरुर्मोक्षदस्तु बोधकः शास्त्रदर्शकः || ७३ || बोधकस्तु प्रयत्नेन पूजितव्यस्तथैव हि | चोदकादि विभेदेन यथा गुर्वादि भेदतः || ७४ || दीक्षामात्रो गुरुः कर्ता व्याख्याता चैव देशिकः | आचार्यश्च प्रतिष्ठादौ परशिष्यावबोधने || ७५ || आचार्यस्सद्गुरुः स्वामी त्रिविधं गुरुरूपकम् | आचार्यो बालशिक्षार्थमन्त्रबोधन सद्गुरुः || ७६ || मोक्षोपदेशं कुर्वन्ति स स्वामी चेति कथ्यते | शांभवी चैव शाक्ती च मन्त्री चेति शिवागमे || ७७ || दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना | गुरुरालोकमात्रेण स्पर्शनाद्भाषणादपि || ७८ || सद्यः सञ्जायते ज्ञानं सा दीक्षा शांभवी स्मृता | शक्तिज्ञानवती दीक्षा शिष्यदेहं प्रविश्य च || ७९ || गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा | मंत्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका || ८० || प्. २८) मानं प्रमाणमुन्मानं त्रिविधं परिकीर्तितम् | मानमयाममित्युक्तं प्रमाणं विस्तरं भवेत् || ८१ || उन्मानं नाहमित्युक्तं त्रिधा मानमुदाहृतम् | मानाङ्गुलन्तु प्रथमं मात्राङ्गुल्यद्वितीयकम् || ८२ || देहलब्ध तृतीयन्तु अङ्गुलं त्रिविधं भवेत् | परमाणुरधश्चैव पिशुकेशाग्र एव च || ८३ || लिक्षायुका यवास्तत्र क्रमशोऽष्टगुणैर्युतम् | मानांगुलमिति प्रोक्तं ततो मात्राङ्गुलं शृणु || ८४ || आचार्यदक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे | पर्वदीर्घसमं नाहं नाहं त्रिविधमुच्यते || ८५ || प्रासादमण्टपादौ तु प्राकाराणान्तु गोपुरे | ग्रामाद्यक्षेत्रगण्येषु मानाङ्गुलविधानतः || ८६ || मात्राङ्गुलेन कर्तव्यं ग्रहाश्च स्रुक् स्रुवादिकम् | अन्यमानं न कर्तव्यं कर्तव्यं चेत्तु निष्फलम् || ८७ || देहलब्धाङ्गुलेनैव प्रतिमादीनि कारयेत् | उत्तमादि विभेदेन देहलब्धं त्रिधा भवेत् || ८८ || अङ्गुष्ठतर्जनीयुक्तं प्रादेशमिति कीर्तितम् | अङ्गुष्ठानामिका युक्तं विधस्तिरिति चोच्यते || ८९ || प्. २९) कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञकम् | प्रादेशश्च विधस्तिश्च गोकर्णश्च इमे त्रयः || ९० || यज्ञादिके प्रयोक्तव्यं प्रासादादौ न दापयेत् | मध्यमाङ्गुष्ठसंयुक्तं तत्तालमिति कथ्यते || ९१ || प्रासादादौ प्रयोक्तव्यं तालगण्येन बुद्धिमान् | प्रतिमायास्तु दुत्सेधं तालगण्येन भाजयेत् || ९२ || चतुर्विंशत् शतञ्चैव उत्तमं दशतालकम् | विंशच्छतं मध्यमन्तु कन्यसं षोडशादिकम् || ९३ || द्वादशाधिकशतं यावत् तालोत्तमं भवेत् | अष्टाशतं चतुश्शतं मध्यमं कन्यसं तथा || ९४ || शतं षण्णवतिश्चैव नवद्युत्तरकं द्वयम् | अष्टतालमिदं प्रोक्तं त्रिविधं पूर्ववत्ततः || ९५ || इत्येवं भागहीनं स्यादेकतालान्तमेव हि | त्रिविधं दशतालेन त्रिमूर्तीनां प्रकीर्तितः || ९६ || त्रिविधं नवतालेन देवानां योषितामपि | अष्टतालेन मर्त्यानां सप्ततालेन रक्षताम् || ९७ || षट्तालेन तु गंधर्वान् पञ्चतालं गणाधिपः | वामनस्य तथैव स्यात् चतुस्तालन्तु भूतकान् || ९८ || प्. ३०) त्रितालं कीनराणान्तु यक्षाणां तु द्वितालकम् | अण्डजातं तथैकस्य पिशाचानां विशेषतः || ९९ || भक्ता वितानुसारेण कुर्यात्प्रासादसञ्चयम् | अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः || १०० || तस्मात्त्रिभागं वित्तस्य जीवनार्थमथात्मनः | भागद्वयञ्च धर्मार्थं यतो नित्यं हि जीवितम् || १०१ || भक्त्या वित्तानुसारेण अल्पवित्तोपि मानवः | वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः || १०२ || न तत्फलमवाप्नोति प्रलाभाक्रान्तमानसः | प्रासादं त्रिविधं प्रोक्तं नागरादि विभेदतः || १०३ || नागरं द्राविडं चैव वेसरञ्च त्रिधा मतम् | कण्ठादारभ्य वृत्तं यत् तद्वेसरमिति स्मृतम् || १०४ || ग्रीवादारभ्य चाष्टाश्रं विमानं द्राविडाख्यकम् | सर्वं वै चतुरश्रं यत् प्रासादं नागरं त्विदम् || १०५ || लिङ्गमानवशाद्गेहं त्रिविधं वक्ष्यतेऽधुना | नागरे नागरं लिङ्गं वेसरे वेसरं तथा || १०६ || द्राविडे द्राविडं चैव त्रिधा लिङ्गमुदाहृतम् | द्विजस्य नागरं प्रोक्तं द्राविडं क्षत्रियस्य तु || १०७ || प्. ३१) वेसरं वैश्यशूद्राणां जातिभेदमिति स्मृतम् | ईशः पितामहश्चैव विष्णुस्तत्राधिदैवतम् || १०८ || नागरं पुंविमानञ्च द्राविडं स्त्रीत्वमेव च | नपुंसकं वेसरञ्च त्रिधा प्रासादमुच्यते || १०९ || पादव्यवस्थितं प्रोक्तं प्रतिबन्धासनं भवेत् | वर्तमानस्य लिङ्गस्य स्थितं प्रासादकं कुरु || ११० || पादव्यवस्थितं लिङ्गं प्रतिबन्धासनं भवेत् | शिवाधिकानां लिङ्गानां आसीनं तत्र कारयेत् || १११ || त्रैराशिकस्य लिङ्गस्य शयनं प्रासादमुच्यते | पादं व्यवस्थितं प्रोक्तं प्रतिबन्धासनं भवेत् || ११२ || पद्मबन्धन्तु शयनं ज्ञेयः पादविभेदतः | आर्षकं स्थानकं चैव स्वायंभुवमथार्हतम् || ११३ || मानुषं राक्षसं बाणं गाणवं शयनं भवेत् | दैविकं यानवं प्रोक्तमेवं लक्षणमुच्यते || ११४ || चतुरश्रस्य पीठस्य स्थितलिङ्गमिहोच्यते | सुवृत्तमानसंप्रोक्तमष्टाश्रं शयनं भवेत् || ११५ || एकद्रव्यकृतं शुद्धं मिश्रं द्विद्रव्य निर्मितम् | त्रिद्रव्यनिर्मितं यत्तु सङ्कीर्णं तत्प्रकीर्तितम् || ११६ || प्. ३२) एकद्रव्येण निर्माणं धाम स्वायंभुवादिषु | तस्यैव जीर्णता काले तमेव बन्धयेद्दृढम् || ११७ || अन्यद्रव्यकृतं चेत्तु राजा राष्ट्रं विनश्यति | शिरस्थूपि गलं मञ्जं पादाधिष्ठानमंशकम् || ११८ || उपांगं कूटशालौ च प्रत्यंगं नासि पञ्चरम् | हेमादि स्थूपिपर्यन्तं स्थूललिङ्गमिति स्मृतम् || ११९ || स्थूललिङ्गं विमानं स्यात् सूक्ष्मलिङ्गं सदाशिवम् | बलिपीठं भद्रलिङ्गं लिङ्गत्रयमुदाहृतम् || १२० || देहं प्रासादमित्युक्तं देही लिङ्गमिति स्मृतम् | उभयोरन्तरं नास्ति तस्मादित्थं प्रभावयेत् || १२१ || अथवाऽन्य प्रकारेण स्थूललिङ्गं सदाशिवम् | अन्तर्लिङ्गे शिवं ज्ञेयं भावयेद्देशिकोत्तमः || १२२ || व्व्यापकं व्याप्तिरूपेण लिङ्गमेव विमानकम् | विमानहीने यत्कर्मं तत्कर्म निष्फलं भवेत् || १२३ || तस्मात्सर्व प्रयत्नेन विमानस्थापनान्वितम् | यथा तु विहितं कर्म हर्म्यमण्टपगोपुरम् || १२४ || प्राकारादि व्यवस्थानमिति लिङ्गवशात्कुरु | स्वायंभुवं बाणलिङ्ग दैविकं चार्षकं तथा || १२५ || प्. ३३) सिद्धविद्याधरश्चापि स्थापितं यन्महात्मभिः | तेषां लिङ्गवशाद्विद्वान् प्रासादं परिकल्पयेत् || १२६ || अतः पौर्षलिङ्गस्य प्रासादं कथ्यते मया | पूर्वस्मिन् स्थापिते तस्मिन् अज्ञाते पूर्वमन्दिरे || १२७ || लिङ्गमानवशेनैव प्रासादं परिकल्पयेत् | त्रिविधं लिङ्गमित्युक्तं व्यक्ताव्यक्तोभयात्मकम् || १२८ || व्यक्तं तत्सकलं ज्ञेयमव्यक्तं निष्कलं मतम् | ज्ञानज्योतिर्मयं लिङ्गं व्यक्ताव्यक्तमिति स्मृतम् || १२९ || चलं चलाचलञ्चैव अचलञ्च त्रिधा भवेत् | चलं निजात्मनि पूज्यं बाणलिङ्गं चलाचलम् || १३० || गोपुरादीनि यत्तत्र अचलं तत्प्रशस्यते | अनन्तस्य शिरः कंपात् कालाग्नेः कोपमुच्यते || १३१ || तत्कोपात् विस्फुलिङ्गानां त्रिधा स्वायंभुवं भवेत् | निर्मूलञ्च समूलञ्च सुपूर्वकमिति स्मृतम् || १३२ || निर्मूलञ्च जले मग्नं समूलं पर्वताश्रयम् | आप्तवाक्यं सुपूर्वं स्यात् स्वायम्भुवमिति स्त्रिधा || १३३ || नाना चिह्न समायुक्तं नानावर्ण समायुतम् | कर्कशं सुषिराद्यैश्च नियतं दृश्यते भुवि || १३४ || प्. ३४) नागेष्वापि च सर्वत्र एवमेव हि कीर्तितम् | शिरसोद्वर्तनं तद्वत् सूत्रवर्तनमेव च || १३५ || नाहोत्सदादिमानञ्च न कदाचित्प्रदृश्यते | पीठप्रासादिकं तस्तु लिङ्गमानाद्विधीयते || १३६ || स्वयं भूतमिति प्रोक्तं सर्वलोकसुखावहम् | दृश्यभागमधस्तात्तु मूललिङ्गं न शोधयेत् || १३७ || मोहादज्ञानतो वापि रुद्रं खात्वा निरीक्षते | कर्तृश्च ग्रामवासीनां राज्ञस्यान्नाशयेत्तु तत् || १३८ || तस्मान्मूलं न वीक्षेत पूर्वांशस्य वशात्कुरु | चित्रं चित्रार्धकं चैव चित्राभासमिति स्त्रिधा || १३९ || सर्वावयवसंपूर्णं चित्रं तद्दृश्यमुच्यते | अर्धावयव संदृश्यं मध्यचित्रमिहोच्यते || १४० || पादे भित्तौ च धो लिख्यं चित्राभासमिति स्मृतम् | आसनं संप्रवक्ष्यामि शृणु चारुवनानल || १४१ || अखण्डखण्डतुण्डं हि त्रिविधं भेदमुच्यते | पातालादि परांतं स्यात्तदखण्डं प्रशस्यते || १४२ || वसुदादि वनान्तं स्यात् एतत्खण्डमिति स्मृतम् | शक्त्यादीनि शिवान्ता स्यात् तत्तुण्डमिति कीर्तितम् || १४३ || प्. ३५) अखण्डं निष्कले कल्प्यं खण्डतुण्डौ तु बिम्बके | क्षणिके चललिङ्गे च तुण्डमेवं प्रकल्पयेत् || १४४ || अखण्डं स्थापितं लिङ्गं खण्डन्तु प्रतिमा भवेत् | भित्तिचित्रादिकं चैव तुण्डलिङ्गं प्रशस्यते || १४५ || सर्वमंत्रं समुच्चार्योपांशुर्वाचक मानस | उपांशुयजने प्रोक्तं वाचिकं होमकर्मणि || १४६ || मानसं मन्त्रजप्ते तु सर्वमन्त्रमुदा स्मृतम् | यजनं त्रिविधं प्रोक्तमुत्तमं मध्यमाधमम् || १४७ || केवलं शिवमंत्रैस्तु यजनं चोत्तमं भवेत् | वैदिकैश्शिवमंत्रैस्तु यजनं मध्यमं भवेत् || १४८ || केवलं वैदिकैर्मन्त्रैः यजनञ्चाधमं भवेत् | तस्मात्तु शैविकैर्मन्त्रैः यजेदात्मार्थमुत्तमम् || १४९ || उत्तमं मध्यमञ्चैव अधमञ्चार्चनं भवेत् | केवलैश्शुद्धशैवोक्तै मन्त्रैरुत्तममुच्यते || १५० || मध्यमञ्चैव वेदार्थैरधमं वैदिकैर्मतम् | शैवमन्त्रसमं मंत्रं नास्तीति भुवनत्रये || १५१ || तत्रापि मूलमन्त्रन्तु बीजात्मा श्रेष्ठ उच्यते | वैदिकं मिश्रकं शैवमग्निकार्यं त्रिधामतम् || १५२ || प्. ३६) केवलं विहितैर्मन्त्रैर्विहिते वैदिको भवेत् | मंत्रैर्वैदिकशैवस्तु विहितो मिश्र उच्यते || १५३ || केवलं शिवमन्त्रैस्तु विहितं शैव उच्यते | वैदिकं ब्राह्मणानान्तु राज्ञां वैदिकतन्त्रिकः || १५४ || तान्त्रीकं वैश्यशूद्राणां सर्वेषां तान्त्रिकन्तु वा | मन्त्रन्तु त्रिविधं ज्ञेयं मालाबीजं पदक्रमात् || १५५ || शुद्धं मिश्रञ्च सङ्कीर्णं मन्त्ररूपं त्रिधा भवेत् | शुद्धमेकाक्षरं मन्त्रं मिश्रमेकाक्षरं भवेत् || १५६ || सङ्कीर्णमन्त्रं बहुधा मन्त्ररूपं त्रिधा भवेत् | ह्रस्वदीर्घप्लुता मात्र एकद्वित्रि क्रमाद्विदुः || १५७ || एकमात्रे भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते | त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनंत्त्वर्धमात्रकम् || १५८ || ह्रस्वं बिन्दुगतं दीर्घं ब्रह्मरन्ध्रगतं प्लुतम् | द्वादशान्तसमायुक्तं प्रासादं मन्त्रशुद्धये || १५९ || ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् | आप्यायते प्लुतञ्चैव बिन्दुना मूर्ध्नि भूषितम् || १६० || स्थूलदेहास्त्रयः प्रोक्तवश्योच्चाटनमारणे | प्लुतं हि सदा वश्यं कुरुते नात्र संशयः || १६१ || प्. ३७) दीर्घश्चोच्चाटयेत्क्षिप्रं षट्कारेण नियोजितः | आदावंते व ह्रस्वस्य षट्कारो मारणे हितः || १६२ || आदावंतेव हृदयं अकर्षस्संप्रकीर्तितः | ब्राह्मणी ह्रस्वनी प्रोक्तं दीर्घस्यांगानि षण्मुख || १६३ || अनुस्वरो भवेन्मन्त्रं सर्वेषाञ्चोपरि स्थितम् | स्थूलसूक्ष्मपरं ज्ञत्वा कर्म कुर्याद्यथेप्सितम् || १६४ || स्थूलं शब्दमयं प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् | चिन्ताया सहितं यत्तु तत्परं परिकीर्तितम् || १६५ || स्थूलसूक्ष्मपरश्चेति प्रासादः कथितो मया | प्रासादं येन बुध्यन्ति तेन बुध्यन्ति शङ्करः || १६६ || प्रासादं येन जानन्ति पञ्चमन्त्रमहातनुम् | अष्टत्त्रिंशत्कलायुक्तं न स आचार्य उच्यते || १६७ || प्रासादं सम्यगज्ञात्वा ये दीक्षा कुरुते गुरुः | अधस्थाच्छिष्यमात्मानं न दग्धे नात्र संशयः || १६८ || प्रासादाब्जशिवान्तस्थैर्यस्तु दीक्षां करोति हि | आचार्यस्सह शिष्यैस्तु शिवसायुज्यतां व्रजेत् || १६९ || कर्षणादि क्रियास्सर्वा मन्त्रेणैव प्रकीर्तिताः | तस्मान्मन्त्रक्रियार्थत्वात् मन्त्रं हित्वा क्रिया न हि || १७० || प्. ३८) मंत्रेण देवतां स्थाप्यं मन्त्रेण यजनादयः | स्नानमाचमनं मन्त्रैः मन्त्रेणाहुतिर्तर्पणम् || १७१ || प्रायश्चित्तादिमंत्रेण दीक्षामंत्रेण चैव हि | मन्त्रेण तु अणिमादीनि सालोकादि च संभवेत् || १७२ || मन्त्रेण पादकादीनि सर्वपापविनिर्गतः | माननं सर्ववेदित्वात् त्राणसंसारसागरात् || १७३ || माननत्त्राणधर्मत्वात् मन्त्रमित्यभिधीयते | शुद्धं केवलसंमिश्रं आत्मार्थं त्रिविधं भवेत् || १७४ || शुद्धं वा शक्तिरहितं केवलं शक्तिसंयुक्तम् | सौरादि चण्डपर्यन्तं मिश्रं चेत्तु प्रकीर्तितम् || १७५ || केवलं सहजं मिश्रं यजनं त्रिविधं क्वचित् | केवलं लिङ्गमेकं स्यात् सहजं पञ्चबेरकम् || १७६ || महेश्वरादिबेराणां सहितं मिश्रमुच्यते | गणेश स्कन्दबेरञ्च शक्तिश्च वृषभं तथा || १७७ || लिङ्गेनैव समायुक्तं सहजं चेति कीर्तितम् | सहजेन समायुक्तं महेशं नृत्तमूर्तिनम् || १७८ || काम्यार्थं यानि बेराणि सहितं मिश्र उच्यते | जितेन्द्रियार्चितं शुद्धं शैवं केवलमर्चयेत् || १७९ || प्. ३९) आचार्यो मिश्रकञ्चैव केवलं शुद्धमर्चयेत् | स्थिरलिङ्गे सदाकार्यं सिद्धिकामैः प्रयत्नतः || १८० || भुक्तिमुक्तिप्रदं पुंसां चललिङ्गे शिवार्चनम् | शुद्धं मिश्रा च संकीर्णा परार्थे तु त्रिधा मता || १८१ || शुद्धा हविः प्रदानान्तमिश्रा नित्योत्सवान्तका | सङ्कीर्णा शुद्धनृत्तान्तं पूजात्त्रिविधमुच्यते || १८२ || प्रातः मध्याह्नसायेषु या पूजा क्रियते जनैः | शुद्धमिश्रा प्रकूर्वीत सङ्कीर्णेव विशेषतः || १८३ || संपत्स्था पथ सर्वासु चोपसंध्यासु सर्वथा |? मिश्रसङ्कीर्णयोः प्राप्तिः नेष्यते तत्र जाननः || १८४ || ता संध्या चैव पूजा स्यादिति शास्त्रस्य निश्चयः | शुद्धं मिश्रञ्च सङ्कीर्णं पूजा च त्रिविधं भवेत् || १८५ || शुद्धं स्वायंभुवं लिङ्गं मिश्रं मानुषकेपि च | सङ्कीर्णं पञ्चमूर्तीनां परार्थं त्रिविधा मता || १८६ || स देशपूजनं मोक्षं धनार्थं विष्णुपूजनम् | दुर्गाशतृजयार्थञ्च विशेषात्पुत्रकाम्यदम् || १८७ || काम्यदं स्कन्दपूजा च पञ्चबेरार्चनात्फलम् | आत्मार्थं पूजयेद्विद्वान् यथा शक्त्यानुरोधतां || १८८ || प्. ४०) दीपान्तञ्च हविष्यान्तमात्मार्थे तु परार्थके | दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् || १८९ || बल्यन्तं शान्तिकं प्रोक्तं पूजा च त्रिविधं भवेत् | सावश्यं दीपतोयान्तं सौभाग्यं हविषान्तकम् || १९० || सौम्यं नित्योत्सवान्तन्तु पूजा च त्रिविधा भवेत् | दीपान्तमर्चनं प्रोक्तं फलं वै कन्यसत्रयम् || १९१ || होमान्तं बीजयं प्रोक्तं उत्सवान्तन्तु शान्तिकम् | स्तोत्रान्तं पौष्टिकं प्रोक्तं फलं वै कन्यसत्रयम् || १९२ || सौख्यन्तु मुक्तिवृद्धिं स्यात् चुलुकान्तं श्रियावहम् | प्राणाग्निहोत्रसफलं नवधा चैव तत्फलम् || १९३ || दीपान्तञ्च निवेद्यान्तं बल्यन्तं कन्यसत्रयम् | होमान्तमुत्सवान्तञ्च स्तोत्रान्तं मध्यमत्रयम् || १९४ || सौख्यञ्च चुलुकोदान्तं प्राणाग्निहोत्रमेव च | उत्तमत्रयमाख्यातं पूजाफलमहर्द्धिदम् || १९५ || शुद्धञ्च विकटञ्चापि बहुचारी तथैव च | त्रिविधा नृत्तभेदास्तु कथिता नृत्तवेदिभिः || १९६ || पूजांते शुद्धनृत्तन्तु सर्वलक्षणसंयुतम् | रुद्रकन्या प्रकर्तव्या नान्येषान्तु कदाचन || १९७ || प्. ४१) ध्वजाङ्कुरन्तु प्रथमं द्वितीयं चोत्सवाङ्कुरम् | तीर्थांकुरतृतीयन्तु तृतीयञ्चोत्सवाङ्कुरम् || १९८ || प्रथमञ्च द्वितीयञ्च मङ्गलाङ्कुरमुच्यते | तृतीयं चोत्सवाङ्गं स्यात् अङ्कुरं त्रिविधं भवेत् || १९९ || उत्सवं त्रिविधं प्रोक्तं केतुरोहणपूर्वकम् | भेरीताडनपूर्वञ्च अङ्कुरार्पणपूर्वकम् || २०० || ध्वजारोहणपूर्वं स्यात् उत्सवं त्रिगुणे दिने | भेरीताडनपूर्वन्तु तद्दिने द्विगुणं मतम् || २०१ || अङ्कुरार्पणपूर्वन्तु नवाहन्तु विधीयते | शिवोत्सवारंभकाले तु नेष्टमन्योत्सवं गुह || २०२ || अन्यदेवोत्सवे काले महादेवोत्सवं कृतम् | पुरारब्धान्यदेवानां उत्सवं न च दोषभाक् || २०३ || तस्मिन् शिवोत्सवे मध्येत्त्वारब्धस्सर्वदोषभाक् | शिवाङ्गञ्चान्ययागञ्च एककाले कृतं यदि || २०४ || विफलं तदवाप्नोति उत्सवं चैकवास्तुनि | ध्वजञ्चान्यं न कर्तव्यं कर्तव्यं वृषभध्वजम् || २०५ || देवकल्याणकाले तु नृकल्याणं न कारयेत् | कारयेद्यदि मोहेन व्याधिरोग भयं भवेत् || २०६ || प्. ४२) नित्यनैमित्तिकञ्चैव काम्यञ्चेति त्रिधा | दिवसं प्रत्यनुष्ठेयं तं नित्यमिह कथ्यते || २०७ || स्नपनोत्सवशान्त्यादि कर्म नैमित्तिकं मतम् | दीक्षा चैव प्रतिष्ठा च नैमित्तिकमिदं भवेत् || २०८ || अणिमादि प्रसिद्ध्यर्थं काम्यं वैश्यादिकं भवेत् | काम्यञ्च सिद्धयो ज्ञेया सिद्धयो बहुधा स्मृताः || २०९ || कन्यसं भूपतिस्त्वं च मध्यमं बलिसिद्धयः | उत्तमं खेसरत्वञ्च श्रेष्ठदेवसमानतः || २१० || विद्यते बहुधैर्कैकं विद्येशत्वादि भेदतः | विद्येशत्वञ्च रुद्रत्वं ब्रह्मत्वं वैष्णवं पदम् || २११ || या कार्ये अमरेशादि रुद्रस्थानेषु यत्सुखम् | अपरं तत्परं विद्यादनन्तादि पदस्थितः || २१२ || नित्यनैमित्तिकं काम्यं त्रिविधं स्नपनं मतम् | नित्यनैमित्तिके कुर्यात् प्रत्यवायजिगांक्षया || २१३ || काम्यार्थ काम्यकर्मेष्टं निषिद्धं न समाचरेत् | कर्तव्यं वा न कर्तव्यं इति संदेहसंगतौ || २१४ || करणेऽभ्युदये ज्ञेयो करणे दोष इत्यते | तस्मात्तावत्तु शैवोक्तं कर्तव्यमन्यशास्त्रतः || २१५ || प्. ४३) प्रशस्तं नोदितं तत्र शास्त्रान्तरमथाश्रयेत् | तद्वितानुपपन्ने च तत्रा पृष्ठ विधीयते || २१६ || प्रायश्चित्तादिकेनुक्ते स्वशास्त्रे परशास्त्रतः | वर्तमाने तु शास्त्रार्थे तदङ्गं स्रुक् स्रुवादिकम् || २१७ || स्वशास्त्रसिद्ध वा ग्राह्यं अथ शास्त्रान्तरोदितम् | एवमादिकमालोच्य कारयेद्ये नृपोत्तमाः || २१८ || साऽचिरेण तु कालेन सकलाधिपतिर्जयेत् | तस्याप्यायुषमारोग्यं मनसा कल्पितं च यत् || २१९ || सर्वं तस्य भवेत्तस्य शिवे भक्तिश्च जायते | विपरीतक्रियां दृष्ट्वाप्यौदासीन्यं करोति यः || २२० || स राजा क्षयमाप्नोति नात्रकार्या विचारणा | तस्मादाचार्य युक्तञ्च पञ्चगोचरवर्त्मना || २२१ || शैवांगं परिविज्ञान परागेण क्रियावता | क्रिया नृवृत्तनीया स्यात् स्वस्वराष्ट्राभिवृद्धये || २२२ || गुरोर्गुरुतरोर्ग्राह्य शिवशास्त्र विशारदः | तेनैव स्नपनाद्यन्तु कारयेत् मुनिसत्तमः || २२३ || नित्यनैमित्तिकं काम्यमाचार्यस्योदितं त्रयम् | गुरुणापि त्रयं कार्यं स्थापनेन विना सुतम् || २२४ || प्. ४४) नित्यादि त्रितयं कार्यं व्याख्यानं देशिकेन तु | नित्यं काम्यं साधकस्य स्वशास्त्रोक्तं षडानन || २२५ || समयी पुत्रकाभ्यान्तु नित्यमेवं प्रकीर्तितम् | प्राक्सन्ध्या संयुतस्तस्य विशिष्टस्याह्निकं द्वयम् || २२६ || निर्वाणं दीक्षितस्यात्र संध्यात्रयमुदाहृतम् | आचार्यस्य विशेषेण अर्द्धरात्रौ विधीयते || २२७ || परापरपरञ्चैव अपरञ्च त्रिधा मता | एकैव वस्तुत शैवी या शक्ती निर्मला परा || २२८ || अविना भाविनी शंभोः शुचेरुष्णमिलं प्रभोः | तयात्मशिवयोस्सन्धि शिवबोधपरापरा || २२९ || संध्येत्त्वुदीरिता सेयं पुनश्चैव त्रिधा मता | यास्तु क्रिया दृगिश्चाख्यशक्तयश्शुद्धवर्त्मनि || २३० || ताभिरात्मस्वसादाख्यो शिवानां शक्तिभिस्सह | सा संध्या बिन्दुनादान्तं शमना शक्तिकामिनी || २३१ || एता कर्मवशात्प्रोक्त संध्यः तिस्रः परात्पर | निर्वाणदीक्षितैर्ध्यायहृत्फालकपिलेषु च || २३२ || पराख्या या समाख्याता सा तुर्यो जनान्तका | गुणत्रयान्विता ब्राह्मी वैष्णवी शांकरी तथा || २३३ || प्. ४५) एताश्च शक्तयस्त्रिस्रस्संध्या ज्ञेया मनीषिभिः | अपरे वै समाख्यात समश्चैव पुत्रकैः || २३४ || हृद्बिन्दु ब्रह्मरन्ध्रेषु भावनीया इमे क्रमात् | एवं संध्यास्तदाश्चण्ड च साक्षिणः सर्वकर्मणाम् || २३५ || उत्तमं मध्यमञ्चैव अधमञ्च गुणस्त्रयः | आदित्या वसवोरुद्रा साध्याश्च मरुतस्तथा || २३६ || विश्वेदेवाश्च पितरमातरो ग्रहदेवताः | अंगिराश्चाश्विनी देवास्तथा स्त्रिदेवता गणाः || २३७ || लोके नक्षत्राणि चा * * * * * च पक्षदा | तत्वानां पतयश्चैव उत्तमाः परिकीर्तिताः || २३८ || सिद्धाश्च मेषयो नाग असुरा राक्षसा अपि | यक्ष विद्याधरश्चैव प्रजानां पतयस्तथा || २३९ || मर्त्याश्चैव रोहिण्या गणास्ते मध्यमा स्मृताः | भूता प्रेता पिशाचाश्च कुश्माण्डा प्रथमा अपि || २४० || स्कन्दबालग्रहश्चैव त्रैहलाश्चैव भैरवः | किन्नराश्चैव वेताला अपस्मारगृहादयः || २४१ || योगिन्यैश्चैव डाकिन्याश्शाकिन्याश्चैव कालिका | लिहिन्याश्चैव सर्वेषु जघन्याः परिकीर्तितः || २४२ || उत्तमा मध्यमाश्चापि परिवारेषु संमितः | रुद्रालयोन्ददा प्रोक्ता परिवारेषु कीर्तिताः || २४३ || शान्तिं सौम्यञ्च रौद्रञ्च त्रिविधं स्नानकं स्मृतम् | जर्जोप्सु संपदस्य त्र्यङ्गुलं चरणा स्मृतम् || २४४ || तद्वै विषमपादस्य अग्रं नवाङ्गुलं मतम् | तत्पार्ति द्वयमध्यात्तु परिज्ञेय विभागकम् || २४५ || ऋज्वाख्यं विधि वैशान्तं सौम्यवामप्रसारितः | रौद्रं तद्वत्यया ज्ञेया मनयोर्लक्षणं समम् || २४६ || तत्राद्यमोक्षदं प्रोक्तं द्वितीयं भोगमोक्षदम् | रौद्रं निवृत्तिं रागाणां स्थानमार्गप्रदर्शितम् || २४७ || आनन्दं त्रिविधं ज्ञेयं परं चैवापरं तथा | परात्परतरञ्चैव त्रिविधं परिकीर्तितम् || २४८ || वामदक्षिण सिद्धान्तं त्रिविधाश्शुद्धशैवकम् | मूलावतारतंत्राणि शास्त्रं यत् वामशैवकम् || २४९ || स्वच्छन्दादिभि शास्त्राणि दक्षिणं शैवमुच्यते | कामिकादीनि तन्त्राणि सिद्धान्तं शैवमुच्यते || २५० || विभक्तयस्तथा सप्त प्रत्येकञ्च त्रिधा मता | एकद्विबहुसंख्यानः प्रयोक्तव्याः क्रमेण तु || २५१ || प्. ४७) पुलिङ्गं चैव स्त्रीलिङ्गं नपुंसकं तृतीयकम् | लिङ्गार्थमात्रे प्रथमा तथा च मन्त्रणोदिता || २५२ || शेषाः कर्माणि कारेण संप्रधाने प्रकल्पयेत् | अपदाने च संबन्धे तथा निर्द्धरुनो हिताः ? || २५३ || विषये सप्तमी योज्य ज्ञात्वा चार्थस्य सङ्गतिम् | षष्ठ्यर्थे सप्तमी योज्य सप्तम्यर्थे तु सा पुनः || २५४ || अनेन क्रमयोगेन व्यवहारं समाचरेत् | अर्थानुसारतो योज्यः कारकास्सप्त कर्मभिः || २५५ || श्रुतेनानुमितेनैव तथाद्याहरतस्सदा | व्याख्या कार्या प्रयत्नेन पदे वाक्ये समाहितः || २५६ || यथार्थहीनं लोकेऽस्मिन् वचनं संप्रवर्तते | अपशब्दस्तु तत् ज्ञेयं संस्कृतं प्राकृतेपि च || २५७ || गमकाश्चैव सप्ताश्च ऋषिकं देवभाषितः | आगमाद्यपशब्दानि वर्णयन्ति विदुर्बुधः || २५८ || संस्कृते विकृतेनानेन मृदुना ललितेन च | अविद्यारागवाक्येन संसारक्लेशहेतुना || २५९ || यत् श्रुत्वा जायते पुण्यं पापादीनां परिक्षयः | विशिष्टमपि तद्वाक्यं विज्ञेयमतिशोभनम् || २६० || प्. ४८) प्रथमो मध्यमश्चैव चोत्तमः पुरुषस्त्रिधा | वचनत्रययोगेन प्रत्येकं कवयो विदुः || २६१ || नामप्रयोगे प्रथमा ततो युग्मादि मध्यमः | अस्मदुत्तमशब्दे तु धातुमादौ निरुपयेत् || २६२ || अर्थतः प्रतिपदिकं कर्णिकं वस्फुटान्तिकम् | वर्तमानादि कार्येषु प्रयोगं चात्र निर्दिशेत् || २६३ || आत्मने पदनिर्देशं परस्मै उभयात्मकम् | व्यञ्जनानि स्वराश्चैव संधयोऽथ विभक्तयः || २६४ || नामा ख्यातोपसर्गाश्च पादतस्तद्धितस्तथा | तैरङ्गं विविधानैस्तु नाना धातुविवक्षितम् || २६५ || पादबन्धा प्रकर्तव्य वृत्तबन्धन्तु चूर्णिका | विभक्त्यन्तपदं ज्ञेयं शब्दशास्त्रविशारदैः || २६६ || निर्बन्धाक्षर संयुक्तं पदच्छेद समन्वितम् | निर्बन्धन्तु पदं ज्ञेयं प्रमाणं नियतात्मकम् || २६७ || षड्विंशति पदानीह पदैच्छन्दांसि संख्यया | समं चार्धसमञ्चैव तथा विषयमेव च || २६८ || छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते | अङ्घयोर्यस्तु चत्वारस्तुल्यलक्षणलक्षितः || २६९ || प्. ४९) तच्छंदशास्त्रतत्वज्ञा समवृत्तं प्रचक्ष्यते | प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् || २७० || तृतीयस्तु यवद्वृत्तं तदर्धं सममुच्यते | यस्य पादचतुष्केपि लक्ष्मभिन्नं परस्परम् || २७१ || तदाहुर्विषमं वृत्तं छन्दशास्त्रविशारदाः | अतिबन्धपदश्छेदं तदा चानियताक्षरम् || २७२ || अर्थापेक्षाक्षरपदं ज्ञेयचूर्णपदं बुधः | पद्यं गद्यञ्च मिश्रञ्च तत्त्रिधैव व्यवस्थितम् || २७३ || पद्यं चतुष्पदी तच्च वृत्तं जातीरिति द्विधा | अपादं पदसन्दर्भं ज्ञात्वा तत्क्रियते कविः || २७४ || गद्यपद्यात्मिका वाणी चंपुरित्यभिधीयते | स्त्रीपुंनपुंसकं काव्यं तेषां भेदमुदाहृतम् || २७५ || पुंकवित्वं प्रशस्तञ्च मध्यमं रमणीयकम् | क्लीबं चैवाधमं ज्ञात्वा तत्क्रियते कविः || २७६ || मनो कवित्वं पुंज्ञेयं भयौ स्त्री भयहारिणौ | अन्ये गणाश्च ते सर्वे क्लीबास्ते ते प्रकीर्तिताः || २७७ || अथ चेन्द्रियसापेक्षं निरपेक्षं तथैव च | अन्तःकरण सापेक्षं प्रत्यक्षं त्रिविधं भवेत् || २७८ || प्. ५०) तत्रेन्द्रियानपेक्षञ्च सर्वथा त्यक्तबन्धय | चिच्छक्त्यास्सर्वभावानां योगस्वाभिविको मतः || २७९ || अन्यद्वेन्द्रिय संपेक्षं स्याच्छाटननिवृत्तये | इन्द्रियापेक्षया शक्त्या तद्वारेणार्थवीक्षणम् || २८० || अन्तःकरणसापेक्षं चिच्छक्तेः ध्येयसंगतिः | अन्वयव्यतिरेके च केवलव्यतिरेकि च || २८१ || केवलान्वथ चेत्येतत् क्रमेण परिलक्ष्यते | पक्षिधर्मसपक्षासद्व्यावृत्तश्च विपक्षितः || २८२ || अपायो स प्रतिपक्षो व्यतिरेक्यान्वयात्मकः | साध्यधर्मयुतः पक्षस्सपक्षस्समधर्मयुक् || २८३ || तद्विधर्मो विपक्ष स्यात् साध्यमानान्तरोद्भवम् | सन्ध्यान्वयो स्त्री रूपत्वं प्रेता सत्प्रतिपक्षता || २८४ || निर्पापक्षोन्वयी हेतुः निस्सपक्षस्तथा परः |? सां निर्देशः समूधूत्वादन्यो रसपतिर्यथा || २८५ || कोप्यधिष्ठितं विश्वं कार्यस्याद्वमन्तु भावता | यतयस्त्रिविधा ज्ञेय तपस्वी विवर्षस्तथा || २८६ || विद्वानिति त्रिधा प्रोक्तास्तेषां लक्षणमुच्यते | तपोनिष्ठास्तपस्वीति तस्य वृत्तिस्तु संवृत || २८७ || प्. ५१) नाध्येतव्यं न सङ्कल्पो न श्रोतव्यं कदाचन | शिष्याणां संग्रहं चैव नैव विद्याप्रकाशनम् || २८८ || न वदेत्संस्कृतां भाषां न दण्डी न कमण्डलुः | लिङ्गं क्षणिकमभ्यर्च्य भक्तिमात्रेण संयुतः || २८९ || एकाकी वृक्षमूले वा मौने वा मौनवर्जिता | अनाद्भीति समायुक्ते वसेद्बाहूपधानकः || २९० || वसनं येन केनापि तथैवाशनपाशनम् | पाणिपात्रोत पात्रे वा याचितानेन जीवनम् || २९१ || इत्युक्तस्तु तपस्वी स्यात् साधको यति मानवान् | विदुषोश्च यतेश्चापि वर्तनं नन्दिकेश्वर || २९२ || अध्यापनञ्चाध्ययनं श्रवणं चिन्तनं तथा | एतच्चतुष्टयं तस्य विदुषोश्च विशेषतः || २९३ || विद्वद्यतेर्विशेषोस्ति व्याख्यानं चिन्तनं भवेत् | सदाचार्याभिषेकेण न मुक्तोद्यत्समाख्यकः || २९४ || यतीनां त्रिविधं ज्ञेयं शैवानां चतुराश्रमे | आश्रमाणान्तु भेदोस्ति निष्ठा भेदो न विद्यते || २९५ || एक फलद्वयं भुङ्क्ते मोक्षार्थधारणस्तयोः || २९५ || || इति तृतीयवर्गः || प्. ५२) || अथ चर्थवर्गः || सर्वेष्वेव हि शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम् | पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् || १ || पशुरात्मा स्वतन्त्रश्च चिन्मात्रामलदूषितः | समूढो नित्यसंसारी किञ्चिज्ञोऽनिश्वरो क्रियः || २ || गुणभूता स्मृता पाश धर्मा धर्मौ मलस्मृतौ | सहजा सर्वजन्तूनां ताम्रकालिकवत्स्थितौ || ३ || ईश्वरो व्यञ्जकस्तेषां भवेत्कर्मानुरूपतः | पतिस्सदाशिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः || ४ || शिवं तस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः | वैखरी मध्यमाचान्या पश्यन्ती सूक्ष्मसंज्ञका || ५ || वैखरी श्रोत्रविषय सविकल्पा तु मध्यमा | निर्विकल्पा तृतीया च आद्यां करणमन्तिमा || ६ || वैखर्याः करणं मध्य पश्यन्ती मध्यमां प्रति | पश्यन्त्याः करणं सूक्ष्मा निर्विकल्पा स्वरूपिणी || ७ || प्. ५३) मात्राश्च वृत्तयोसूनां चतस्रः प्रत्ययात्मकः | अन्तरावस्थितास्तिस्रो बहिरन्या व्यवस्थिताः || ८ || नादस्सूक्ष्मो भवेद्बिन्दुः पश्यन्ती मध्यमाक्षरम् | सङ्घोषं घोषरहितं बिन्दुक्षोभयं चतुष्टयम् || ९ || मातृका वैखरी ज्ञेय नादाद्या सुशिवादयः | सैषा चतुर्विधा वृत्ति निवृत्यादि कलाश्रयः || १० || पञ्चधा भिद्यते भूयः कलाद्या बिन्दुवृत्तयः | ऋग्यजुस्सामाथर्वण वेदाश्चत्वार ईरिताः || ११ || मीमांसन्याय शास्त्रञ्च पुराणस्मृतिरित्यपि | चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै || १२ || आयुर्वेदोऽर्थवेदैश्च धनुर्वेदैस्तथैव च | गांधर्ववेदश्चेत्येवं उपवेदाश्चतुर्विधाः || १३ || मीमांसा सर्ववेदार्थ पुरुषार्थ प्रवर्तकम् | धर्मश्रमानुरूपेण धर्माधर्मविभागतः || १४ || धर्मशास्त्रमनुष्ठेयं धर्माणान्तु नियामकम् | हेतु लिङ्गौषधस्कन्धैरायुरारोग्य दर्शकम् || १५ || आयुर्वेदोह्यनुष्ठानं सर्वेषां तेन वर्तनम् | अर्थवेदोन्नपानादि प्रधानमुत तत्परः || १६ || प्. ५४) दक्षिणाज्यपुरोडाशं चरुसंपादनादिभिः | तत्पालनात् चतुर्वक्त्र पुरुषार्थ प्रसादकम् || १७ || धनुर्वेदो भवेत्तत्र परिबन्धिनिरासकः | सप्तस्वरप्रयोगं हि सामगन्धर्ववेदयोः || १८ || उपाङ्गान्युपवेदाश्च प्रत्येकं प्रवदन्ति हि | बौद्धमार्हतनञ्चैव पाञ्चरात्रञ्च शैवकम् || १९ || समयं चतुर्विधं स्यात्तु तत्तद्भेदमनेकधा | शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् || २० || सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् | वामादि शास्त्रभेदेषु ये दीक्षां वर्तिते क्रमात् || २१ || वामी च दक्षिणी मिश्री सिद्धान्ती चेति कीर्तिता | वामां हि शांभवं शास्त्रं दक्षिणं भैरवात्मिकम् || २२ || मिश्रं यामलमित्युक्तं सप्तमात्रप्रधानकम् | सिद्धान्तं सर्वसारं हि शुद्धशैवमिति स्मृतम् || २३ || वामञ्च दक्षिणञ्चैव मिश्रकञ्च त्रिधा अमी | शैवबाह्यास्समाख्यातास्ते तु शैवेप्यपूजिताः || २४ || शैवं चतुर्विधं प्रोक्तं सिद्धान्तं द्विविधं भवेत् | कर्मान्तमेवं ज्ञानान्तं शैवमूर्ध्वं परं स्मृतम् || २५ || चर्या चैव क्रिया चैव कर्मणां साधनं भवेत् | चर्या क्रिया योगयुक्तं ज्ञानिनश्च भवेत्तदा || २६ || शैवं परात्परं ज्ञेयं सर्वतन्त्रैकनायकम् | सर्वतन्त्रमयं ज्ञेयं सर्वमन्त्रमयं भवेत् || २७ || जन्मान्तरतपोभिश्च सन्मार्गज्ञानसंभवम् | देशिको मंत्रवृत्तिश्च पुत्रकः समयी च सः || २८ || चत्वार एते शैवास्युः यतिनो वृत्तिनोऽपि वा | सर्वेषामेव वर्णानां शिवमन्त्रनिषेवणम् || २९ || शिवधर्मे शिवेनोक्त धर्मकामार्थमुक्तये | ब्रह्मणक्षत्रियो वैश्यो स्त्रीशूद्रोवाश्रमी तथा || ३० || गृहस्थो भिक्षुकश्चैव ब्रह्मचारी तथैव च | वानप्रस्थश्च इत्येते आश्रमाश्च उदाहृताः || ३१ || चत्वारो गोचराश्शंभोः साक्षान्मूर्तिसमुद्भवाः | शिवगोत्रं शिखागोत्रं ज्योतिर्गोत्रं तृतीयकम् || ३२ || सावित्रीगोत्रमित्येते शैवगोत्रं चतुष्टयम् | लोकानुग्रहकर्तारो शैवा ज्ञेया न चेतरे || ३३ || शुद्धादिकारणोद्भूतस्तेन ज्ञानक्रियान्विताः | दधीची स्थापितं स्थानं गोविदारमिति स्मृतम् || ३४ || प्. ५६) स्थानमामर्दकं नाम श्रीदूर्वासनिषेवितम् | तस्माद्विनिर्गतं स्थानं रणभद्रञ्च गोलकम् || ३५ || एतत्स्थान समुद्भूताः शैवास्ते च चतुर्विधाः | ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा || ३६ || एतेषामपि सन्यासो योग्यमुख्ये विधीयते | सन्यासाश्रममत्यन्तमुत्तमं दीक्षितो भवेत् || ३७ || तस्माद्ब्रतमुक्तिस्तु नास्ति कैवल्यकारिणम् | दीक्षाख्य ज्ञानसंस्पर्शात् लोके मुक्तिमुखा द्विजाः || ३८ || नित्यनैमित्तिकं काम्यं विमलञ्च चतुर्विधम् | दानं पात्रे प्रदातव्यं न पात्रेप्यणुमात्रकम् || ३९ || दानं फलमनुद्दिश्य सर्वदा यत्प्रदीयते | तद्दानं नित्यमित्युक्तं देवदेवेन शंभुना || ४० || दानं पापविशुद्ध्यर्थं श्रद्धया यत्प्रदीयते | प्रोक्तं नैमित्तिकं दानं ऋषिभिर्वेदवादिभिः || ४१ || पुत्रार्थं साधनार्थं वा स्वर्गार्थं वा यतो विना | यद्दानं दीयते भक्त्या काम्यमित्यभिधीयते || ४२ || हरस्य प्रीणार्थञ्च शिवभक्त्या प्रदीयते | दानं तद्विमं प्रोक्तं केवलं मोक्षसाधनम् || ४३ || प्. ५७) स्थपतिग्रहिणं सूत्र पक्षकिं तक्षकिं तथा | स्थापकेनोदितं (सर्वं) शिवशास्त्रेण निर्दिशेत् || ४४ || विश्वकर्माख्य नामा च पुत्रस्थपतिरुच्यते | मयस्य तनयस्तस्य सूत्रग्राहीति कीर्तितः || ४५ || अष्टा देव-ऋषेः पुत्रो वर्धकीति प्रकथ्यते | मानोः पुत्रस्तक्षकाख्यो स्तपत्यादि चतुष्टयः || ४६ || प्रासादादि प्रकर्तव्य सोपीह स्थपति स्मृतः | सूत्रग्राही च मानज्ञो द्रव्ययाञ्चो च वर्धकी || ४७ || तनुकरणयोग्यो यस्त्वसौ दक्षक उच्यते | छेद्ये च छेदयेत्सर्वान् भेद्ये तु द्रव्यभेदकः || ४८ || मध्यैस्तु वेदये द्रव्य शिल्पिकर्मस्त्रिधा भवेत् | स्थपतिस्सूत्रग्राही च प्रासादात्प्रतिमादिकान् || ४९ || कुर्यात्तदक्षिमोक्षादीन् दक्षकेन समाचरेत् | शेषे तु वर्जयेत्तत्र मन्त्रकर्मसु सर्वदा || ५० || शेषा तु शिल्पिकार्ये तु स्थपनैस्तु नियोगतः | स्थविरे ते शिल्पिकार्ये स्थापकस्यानुसारतः || ५१ || स्थपतिः शास्त्रकर्मज्ञो कृतकर्माभिजात्यवान् | न हीनाङ्गोऽतिरक्ताङ्गो धर्मिष्ठः सत्यवाचकः || ५२ || प्. ५८) फलज्ञानान्वितः साधु दृढबन्धुरतद्रुतः | ईदृशं शिल्पिनं ग्राह्यं प्रारभेत्सर्वकन्तकम् || ५३ || लिङ्गं चतुर्विधं ज्ञेयं स्थावरं शास्त्रचोदितम् | दैविकं चार्षकं चैव गाणवं मानुषं तथा || ५४ || एवं चतुर्विधं लिङ्गं दैविके लक्षणं शृणु | दीर्घाकारं भवेल्लिङ्गं निम्नोन्नतसमन्वितम् || ५५ || रेखकोटरसंयुक्तं मुखे धारा यथोन्नतम् | पर्वताग्रं कृतं रन्धं बहुग्रन्थिशिखायुतम् || ५६ || कराभ्यां संपुटाकारं ब्रह्मसूत्रविवर्जितम् | इत्येते लक्षणैर्युक्तं दैविकं लिङ्गमुच्यते || ५७ || मूलस्थूलं भवेल्लिङ्गमग्रस्थूलं तथैव च | मध्यस्थूलन्तु लिङ्गन्तु नालिकेरफलाकृतिम् || ५८ || कदलीफलसङ्काशं बिल्ववृक्षफलाकृतिम् | तल्लिङ्गमार्षमाख्यातं ब्रह्मसूत्रविवर्जितम् || ५९ || कुश्माण्डफलसंकाशं मातुलुङ्गफलाकृतिम् | उर्वारुकफलाकारं कपित्थफलसन्निभम् || ६० || तथा तालफलाकारं गाणवं लिङ्गमुच्यते | द्वारं वा गर्भमानं वा हस्तमानं यथापि वा || ६१ || प्. ५९) शिल्पिशास्त्रोक्तमानं वा छत्राकारशिरोदयम् | एतद्वर्णं शिरो स्निग्धं ब्रह्मसूत्रसमन्वितम् || ६२ || इत्येते लक्षणैर्युक्तं लिङ्गं मानुषमुच्यते | प्रथमं सर्वतो भद्रं द्वितीयं वर्तमानकम् || ६३ || शैवाधिक्यं तृतीयन्तु त्रैराशिकं चतुर्विधम् | एवं चतुर्विधं लिङ्गं महालिङ्गमितीरितम् || ६४ || एकैकन्तु चतुर्भेदं एकैकन्तु चतुर्विधम् | चतुष्षष्टिविधं लिङ्गं समासात्परिकीर्तितम् || ६५ || सहस्रधारालिङ्गन्तु चतुर्मूर्त्यादि लिङ्गकम् | महालिङ्गमिति प्रोक्तं धारालिङ्गं सहस्रकम् || ६६ || नागरं सर्वतो भद्रं द्राविडं वर्तमानकम् | शिवाधिक्यं वेसरञ्च त्रैराशिकन्तु मिश्रकम् || ६७ || क्रमाच्चतुर्विधं लिङ्गं स्थापयेद्विधिपूर्वकम् | धारालिङ्गसहस्राणि मिश्रके स्थापयेद्बुधः || ६८ || आसनं शयनं स्थानं यानकञ्च चतुर्विधम् | यानन्तु देविकादीनां मातुष्यं स्थानकं विदुः || ६९ || स्वायम्भुवमथासीनमन्येषां शयनं भवेत् | वर्तमानस्थितं लिङ्गमासनञ्च शिवाधिकम् || ७० || प्. ६०) यानं त्रैराशिकं ज्ञेयं शयनं समखण्डकम् | शिरसोद्वर्तनं तत्र चतुर्विधमिदं भवेत् || ७१ || कुक्कुटाण्डसमं चैव छत्राकारं तथैव च | खण्डेन्दु सदृशाकारं बुद्बुदाकारमेव च || ७२ || विप्राणां बुद्बुदाकारं चित्राकरन्तु भूभृताम् | विशां खण्डेन्दुसदृशं शूद्राणां कुक्कुटाण्डवत् || ७३ || छत्राकारन्तु सर्वेषां भजेल्लिङ्गं शिरो नृणाम् | सर्वविप्रस्य निर्दिष्टं छत्राकारत्रयं नृपे || ७४ || विशां खण्डेन्दुसदृश द्वयमेवं प्रकीर्तिताः | शूद्राणामेकमेवोक्तं कुक्कुटाण्डनिभं हरे || ७५ || दीपान्तञ्च हविष्यन्तं बल्यन्तं ताण्डवान्तकम् | दशोपचारदीपान्तं हविष्यन्तञ्च षोडशम् || ७६ || बल्यन्तं पञ्चविंशच्च षट्तृंशत्ताण्डवान्तकम् | आवाहनादि पाद्यादि तथैवाचमार्घ्यकम् || ७७ || स्नानं गन्धञ्च पुष्पञ्च धूपदीपविसर्जनम् | दशोपचारमित्येवं दीपान्तन्तु शिवार्चनम् || ७८ || आवाहनं तथा स्थाप्य पाद्यमाचमनार्घ्यकम् | स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् || ७९ || प्. ६१) धूपदीपनिवेद्यञ्च नमस्कारविसर्जनम् | षोडशैवोपचारञ्च हविष्यन्तन्तु पूजनम् || ८० || आवाहनं तथा स्थाप्य स्वागतञ्चानुमान्यकम् | पाद्यमाचमनीयार्घ्यं नववस्त्रोत्तरीयकम् || ८१ || भूषणं गन्धपुष्पञ्च धूपदीपं तथैव च | नीराञ्जनञ्च भस्मा च चामरं तालवृन्तकम् || ८२ || दर्शनं दशमुद्राणां पञ्चावरणपूजनम् | नैवेद्यं होमकर्मञ्च बलिदानञ्च पञ्चधा || ८३ || जपस्तोत्रप्रमाणञ्च नृत्तगीतञ्च तालकम् | उदकञ्चाप्यमुद्वाहं षट्त्रिंशदुपचारकम् || ८४ || अङ्गप्रत्यङ्ग साङ्गञ्च उपांगं चतुरो भवेत् | शिरोवक्तञ्च हृदयमङ्गञ्चेति प्रकीर्तितम् || ८५ || वक्षः कण्ठस्तनौ बाहून् नाभिगुह्योदरस्तथा | ऊरुजानुद्वयञ्चैव प्रत्यंगं चेति कीर्तितम् || ८६ || नेत्रनासाग्रकर्णौ च पाणिपादतलाङ्गुली | जटामकुटकञ्चैव साङ्गं चेति प्रकीर्तितम् || ८७ || आसनाभरणादीनि उपाङ्गमिति कीर्तितम् | सकलानान्तु सर्वेषां कर्तव्यो बालबिंबके || ८८ || प्. ६२) तरुणा प्रतिमां वापि पीठं वा चेष्टका मयम् | जान्वन्तं कन्यसंप्रोक्तं वाह्वन्तं मध्यमं भवेत् || ८९ || तन्मानमुत्तमं प्रोक्तं बालबिंबस्य लक्षणम् | प्रतिमां वापि पीठं वा देवाग्रे स्थापयेद्बुधः || ९० || मन्त्रभेदो भवेदत्र क्रियाभेदो न विद्यते | प्रत्यङ्गादीनि सर्वेषां छिन्नभिन्ने च संभवे || ९१ || पूर्वलक्षणयन्मानं तन्मानं योजपोत्ततः | रहस्यं कल्पयेत्तत्र पुनस्सन्धानमाचरेत् || ९२ || उमास्कन्दादिदेवानां शक्त्यायुधविहीनके | पूर्ववत् शक्तिसहितं कल्याणं कारयेद्बुधः || ९३ || प्रमादात् जीर्णिते काले पूजा नैवेद्यकादिभिः | उत्सवादीनि सर्वाणि कृतञ्चेद्राक्षसास्पदम् || ९४ || जीर्णं यथा च देहीति त्यक्त्वाऽन्यं परिगृह्यते | तस्मात्सर्वप्रयत्नेन जीर्णमुद्धृत्य कारयेत् || ९५ || सावनं चान्द्रनक्षत्रं सौरं चैव चतुष्टयम् | दर्शान्तः पौर्णमान्ते च चान्द्रमासः प्रकीर्तितः || ९६ || सौरं राश्यन्तकं मानं सावनं त्रिंशद्दिनं मतम् | अश्विन्यादि च पौर्णान्तं मासनक्षत्रमीरितम् || ९७ || प्. ६३) आयुर्दाय विपाकौ च प्रायश्चित्तादिका क्रियाः | सावनेनैव कर्तव्य भृत्यानां वेदनं तथा || ९८ || सौरमासे विधेयं स्यात् साल्यं पावनोत्सवम् | सावनं चान्द्रनक्षत्रं मासेषु शक्तिमंगलौ || ९९ || एता चतुर्विधा मासतीर्थोद्दिश्यं शिवोत्सवम् | मुक्तिदं चान्द्रमासे तु नक्षत्रं पापनाशनम् || १०० || प्रजावृद्धिकरं सौरं सावनं शान्तिकं स्मृतम् | तिथिप्रधानतीर्थान्तं चान्द्रमासोक्तमुत्तमम् || १०१ || मासर्क्ष पूर्णचन्द्रेण संयुक्तं प्रतिमासके | सावने चोत्सवं ज्ञेयं सा प्रतिष्ठोत्सवं गुह || १०२ || मासे मासे तथा न्यूनं मासर्क्षं सममेव तु | ज्ञात्वा परिहरेत्तद्वत् स तीर्थर्क्षेश्चेद्विजोत्तमः || १०३ || तीर्थर्क्षे द्वे तु संप्राप्ते चैकमासे परं वरम् | नेष्टं प्रथमर्क्षे तु अन्यर्क्षे तीर्थमाचरेत् || १०४ || कृतं चेत्पूर्व ऋक्षे तु तत्कर्ता च विनश्यति | तस्मात्सर्वप्रयत्नेन तीर्थमन्यर्क्षमाचरेत् || १०५ || चतुर्विधं भवेद्वाद्य मातोद्यमिति कीर्तितम् | ततञ्च विततञ्चैव घनं सुषिरमेव च || १०६ || प्. ६४) ततं वीणादिकं प्रोक्तं विततं मुखादिकम् | घनञ्च कांस्यतालाद्यं वंशादिसुषिरं तथा || १०७ || मनश्चतुर्विधं प्रोक्तं तस्य भेदमिदं शृणु | संसृष्टञ्च बलिम्नश्च विक्षिपेच्च गतागतिः || १०८ || विषयान् गृहमानोऽपि विज्ञेयत्वमधिगच्छति | न च तैर्युज्यते ज्ञानं तत्संसृष्टिमुदाहृतम् || १०९ || न मनो नापि मन्तव्यो न मन्ता च विभाव्यते | स्वलीनो विषयैर्मुक्त एकीभूत सुषुप्तिवत् || ११० || ज्ञानो विशिष्यते यस्मात् इन्द्रियार्थपरायणः | त्रिकालमाकुलो नित्यं स तु विक्षिप्त उच्यते || १११ || अज्ञानात् गच्छति ज्ञानं ज्ञानादज्ञानमेव च | चलते यस्य दोर्बल्यात् तस्यासौ च गतागतिः || ११२ || स्वलीनश्चोत्तमस्तत्र गुणातीतो निरामयः | मध्यमस्स तु विज्ञेयस्संहृष्टस्सात्विको मतः || ११३ || मध्यमश्चाधमश्चैव राजसो गतिरागतिः | तामसस्स तु विक्षिप्त चतुर्थो ह्यधमो यतः || ११४ || ध्याता ध्यानं ततो ध्ययं यद्वा ध्यानप्रयोजनम् | एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवत् || ११५ || प्. ६५) ज्ञानवैराग्य संपत्तौ श्रद्धधानक्षमान्वितः | शिवभक्तस्सदोत्साही ध्यातोयं पुरुषस्मृतः || ११६ || ध्याचिन्तायां स्मृतोध्यातु शिवचिन्ता मुहुर्मुहुः | ज्ञानेन परिशुद्धेन ज्ञानध्यानमिति स्मृतिः || ११७ || सकलस्स तनुश्शान्तस्सर्वज्ञस्सर्वगः प्रभुः | नानारूपविकल्पेन ध्येयस्सिद्ध्यर्थमीश्वरः || ११८ || विमुक्तिः प्रत्ययं पूर्वं ऐश्वर्यञ्चाणिमादिकम् | इत्येते द्विविधं ज्ञेयं शिवध्यानप्रयोजनम् || ११९ || सन्मार्गादि क्रमेणापि चतुर्विधमिहोच्यते | सन्मार्गस्सह मार्गञ्च पितृमार्गं तथा परः || १२० || दासमार्गी चतुर्थे च क्रमाद्वै शिष्यमुच्यते | चर्यामार्गं दासमार्गं पुत्रमार्गं क्रमाद्विदुः || १२१ || सहमार्गं योगपादं सन्मार्गं ज्ञानमेव च | दासमार्गं शिवो ध्यानं लिङ्गबिंबालयादि कृत् || १२२ || शैवनृत्तनटी स्तोत्र गानकृद्रोहिमर्दकः | पुत्रमार्गी शिवार्चादि जपहोमपरायणः || १२३ || प्रवेशकः शिवज्ञानीत्त्वौपदेशिक एव वा | सहमार्गी भवेत्सैव शैवागमविशारदाः || १२४ || प्. ६६) पुत्रीकृतजनश्चैव चार्यास्सान्तानिकाश्च सः | सन्मार्गीत्युक्त संसारी समत्वशुचिमत्वयुक् || १२५ || सदृकी निरहंकारी शिवज्ञानकृतश्श्रमः | एतच्चतुर्विधं मार्गं सालोक्यादि फलप्रदम् || १२६ || सालोक्यं चैव सामिप्यं सारूप्यं सायुज्यकं तथा | ध्यानाल्लोकन्तु संप्राप्य सालोक्यं तद्विधीयते || १२७ || तद्देशस्य समीपस्थं सामीप्यमिति चोच्यते | तत्तद्द्रूपस्य संप्राप्तिः तत्सारूप्यमिति स्मृतम् || १२८ || शिवे संयोजिते रूपं सायुज्यमिति गद्यते | गलिते सर्वदा बन्धे विमुक्ते चाणवे बले || १२९ || सर्वत्र द्योतिकाशक्ति शिवस्येव विजृंभते || १२९ || || इति चतुर्थ वर्गः || || अथ पञ्चमवर्गः || सकलो निष्कलश्चैव तथा सकलनिष्कलः | सूक्ष्मभिन्ने (कल) कलश्चेति पञ्चधावस्थितश्शिवः || १ || प्. ६७) कलैश्शान्त्यादिभिर्युक्तो सकलः परिपठ्यते | निष्कलः केवलो बिन्दोरध्यापि सकल निष्कलः || २ || ज्वालिन्यादि समायुक्तः सूक्ष्मोसौ बिन्दुरुच्यते | स्वरैर्षोडशभिर्भिन्नो भिन्नात्मा बिन्दुरीरितः || ३ || व्यापयेद्भुवनं सर्वं व्यापयेत्सह देहिषु | अवस्थितञ्च सर्वत्र तेनासौ सकलस्मृतः || ४ || कालाकालपरहितस्सर्वत्र समतांगतः | निष्प्रपञ्चो निराभासो विमलो निष्कलश्शिवः || ५ || व्योमस्थनिष्कलं तत्वं वाच्यवाचकवर्जितम् | निदानकलयातीतः स वै निष्कल उच्यते || ६ || यत्तत् परतरं रूपं मन्त्रदेहमतीव तत् | परं तत्तु विजानीयात् रूपं सकलनिष्कलम् || ७ || परमाणुः स सूक्ष्मोऽसौ हृदि मध्ये व्यवस्थितः | प्रेरते च जगत्सर्वं स वै सूक्ष्मः प्रकीर्तितः || ८ || अकारादिक्षकारान्तं रूपं मन्त्रकलात्मकम् | भिद्यते यस्तु बहुधा सकलो भिन्न उच्यते || ९ || पदार्थ पञ्चकं विद्धि अस्मिन् ज्ञाने परेरिते | पशुवागीश्वरो विद्ययोनिमुक्तिरिभान्तिम || १० || प्. ६८) रौरवे च तथा पञ्च पदार्थास्समुदीरिताः | प्रथमं शिवसादाख्यं अमूर्तिन्तु द्वितीयकम् || ११ || तृतीयं मूर्तिसादाख्यं चतुर्थं कर्तृनामकम् | पञ्चमं कर्म सादाख्यं इति सादाख्यपञ्चकम् || १२ || लिङ्गपीठप्रकारेण कर्मसादाख्यलक्षणम् | नादं बिन्दुरिति ज्ञेयं बिन्दुपीठमुदाहृतम् || १३ || नादबिन्दुयुतं रूपं कर्मसादाख्यमुच्यते | चत्वारि कर्तृरूपादि केवलं नादमुच्यते || १४ || पञ्चसादाख्यशेषेण मूर्त्यादीनां समाश्रितम् | कर्तृसादाख्यरूपं हि स मूर्त्यादीन् समाश्रितम् || १५ || कर्मरूपं क्रमेणैव कर्तृकादीन् समाश्रितम् | कर्मेशं पूर्ववक्त्रं स्यात् कर्तुस्सव्याननं भवेत् || १६ || पश्चिमाननमूर्तिं स्यात् अमूर्तिं चोत्तराननम् | ऊर्ध्वन्तु शिवसादाख्यमेवं पञ्चाननं विदुः || १७ || सन्ततं शिवभावत्वात् सादाख्यमिति कीर्तितम् | स्वयम्भुश्शिवसादाख्यं बाणलिङ्गममूर्तिकम् || १८ || मानुषं कर्मसादाख्यं दैविकं कर्तृनामकम् | महेशं मूर्तिसादाख्यं पञ्च सादाख्यमुच्यते || १९ || प्. ६९) मूर्तिब्रह्मं तथा पूर्वं तत्वब्रह्मं द्वितीयकम् | भूतब्रह्मं तृतीयन्तु पिण्डब्रह्मं चतुर्थकम् || २० || पञ्चमन्तु कलाब्रह्मं पञ्चब्रह्मं प्रकीर्तितम् | साकल्यादिति यत्पञ्च मूर्तिब्रह्मं तदुच्यते || २१ || सर्वेषाञ्चैव तत्वानां शिवतत्वं प्रभु स्मृतम् | तस्माच्छुद्धादिचात्मानं तत्वब्रह्मं प्रकीर्तितम् || २२ || प्रथमं मांसबीजं स्यात् द्वितीयो मेदसोद्भवम् | तृतीयो षष्ठभेदन्तु चतुर्थं सप्तमं तथा || २३ || पञ्चमं पञ्चमं विद्यात् पञ्चभौतिकमुच्यते | मांसं वै पार्थिवं बीजं मेदसो आप उच्यते || २४ || षष्ठ तेजो विनिर्दिष्टं सप्तमं मारुतात्मकम् | पञ्चमं व्योमबीजं स्यात् भूतब्रह्म प्रकीर्तितम् || २५ || प्रणवादि चतुर्थ्यन्तं स्वनामपदमध्यगम् | नमस्कारान्त संयुक्तं सद्यादीत्युच्यते क्रमात् || २६ || शिवार्णे जीववर्णानि संयोगात्पिण्डमुच्यते | कर्मेशं पिण्डरूपत्वात् पिण्डब्रह्मेप्युदाहृतम् || २७ || ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कला | अघोरस्य कलाश्चाष्टौ वामदेवे त्रयोदश || २८ || प्. ७०) अष्टौ सद्यकला ज्ञेय कलाब्रह्म प्रकीर्तितः | मूर्तितत्वं तथाभूतं पिण्डं चेति कला तथा || २९ || पञ्च ब्रह्माणि चैतानि सर्वकार्येषु योजयेत् | मन्त्रब्रह्मं क्रियाब्रह्मं तत्वब्रह्मेति च स्मृतम् || ३० || बीज ब्रह्म मुखब्रह्म पञ्चब्रह्मेति कीर्तितम् | ईशानं पुरुषं चैवाप्यघोरं वाममेव च || ३१ || सद्योजातमिति प्रोक्तं मन्त्रब्रह्मेति च स्मृतम् | आवाहनस्थापनञ्च सान्निध्यं सन्निरोधनम् || ३२ || अवकुण्ठनमित्युक्तं क्रियाब्रह्म इति स्मृतम् | ब्रह्मविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ३३ || एते पञ्चविधा प्रोक्ता तत्व ब्रह्म इति स्मृतम् | लकारञ्च वकारञ्च रकारञ्च यकारकम् || ३४ || हकारं बीजमित्युक्तं बीजब्रह्म इति स्मृतम् | सद्यं वाममघोरञ्च पुरुषेशानमेव च || ३५ || एते पञ्च विधाःप्रोक्ता मुखब्रह्ममिति स्मृतम् | इत्येते पञ्च भेदत्वात् पञ्चब्रह्ममुदाहृतम् || ३६ || शान्त्यातीताश्च शान्त्यश्च विद्या स्थिति निवृत्तयः | भुवनानि महत्तेजो संज्ञा पञ्च लभेच्छिवः || ३७ || प्. ७१) ईशानः पुरुषोघोर वामजातार्थिकां क्रमात् | एतास्सदाशिवावस्था भोगस्थानस्समाश्रितः || ३८ || पञ्चमूर्तिमयी शुभ्रा नित्या सकलनिष्कलः | मूर्तिस्सदाशिवज्ञेय सर्वकार्यप्रवर्तिका || ३९ || एवं मन्त्रास्तु पञ्चैते तैर्निबन्धतनुश्शिवः | वस्तुतस्तु न भिन्नास्ते यातोऽनन्य स्वशक्तितः || ४० || शिवास्त्रं क्षुरिकास्त्रञ्च तथा पाशुपदास्त्रकम् | व्योमास्त्रं चैवाघोरास्त्रं पञ्चास्त्रञ्चेति कीर्तितम् || ४१ || षडक्षरं शिवास्त्रं स्यात् क्षुरिकावर्णमष्टकम् | नवार्णं पाशुपदं ज्ञेयं व्योमास्त्रन्तु दशाक्षरम् || ४२ || चत्वारिंशदघोरास्त्र एवं पञ्चास्त्रमुच्यते | मोक्षदञ्चाभ्यवृद्धिञ्च काम्यं शान्तिकपौष्टिकम् || ४३ || मोक्षं पञ्चाक्षरं विद्यात् अभिवृद्धिषडक्षरम् | काम्यमष्टाक्षरं विद्यात् शान्तिकन्तु नवाक्षरम् || ४४ || पौष्टिकं दशबीजं स्यात् मन्त्रं पञ्चविधं स्मृतम् | एते पञ्च विधाः प्रोक्ताः मन्त्राः पञ्चाक्षरादयः || ४५ || मन्त्रमेवं समाख्यातं मन्त्रन्यासमथ शृणु | लिङ्गस्य स्थापने काले तत्वमन्त्राश्च विन्यसेत् || ४६ || प्. ७२) कुंभेष्वन्तर्गतान् मन्त्रान् लिङ्गात् पूर्णाश्च ताश्च हि | तयोर्योगक्रियावस्था सा प्रतिष्ठा प्रकीर्तिता || ४७ || प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमारभेत् | प्राणमन्त्रमिति प्रोक्तं प्रकृतिं मूर्तिरुच्यते || ४८ || मन्त्रमूर्तिसुसंयोगात् देवसान्निध्यकारणम् | तस्माद्वै मन्त्रमूर्तिश्च लिङ्गमध्ये तु विन्यसेत् || ४९ || मूर्ध्नि प्रविन्यसेच्छुद्धं मूलं स्यात् सूत्रमध्यमे | तत्वं सव्ये तु विन्यस्य दादिं वामे तु विन्यसेत् || ५० || आत्मानं सूत्रमूले तु विन्यसेत्तु विचक्षणः | मन्त्रन्यासमिति प्रोक्तं तत्त्वन्यासमिहोच्यते || ५१ || कर्मेशं पुरतोन्य स्यात् कर्तृसव्ये तु विन्यसेत् | मूर्तिश्चैवापरेन्यस्यादमूर्तिश्चोत्तरे न्यसेत् || ५२ || ऊर्ध्वे तु शिवसादाख्यं पञ्चतत्वानि विन्यसेत् | पञ्चमूर्तिमयं देवं सर्वकारणकारणम् || ५३ || अष्टत्त्रिंशत्कलोपेतं मध्ये तु सकलीकृतम् | आवाहयेत्ततो देवं स पञ्चाक्षरमंत्रतः || ५४ || षडक्षरेण मंत्रेण स्थापयेत्तु विचक्षणः | अष्टाक्षरेण मन्त्रेण सान्निध्यकरणं कुरु || ५५ || प्. ७३) रोधनन्तु नवार्णेन दशबीजेन पूरय | पाद्यं गन्धादिकं दद्यात् ब्रह्माङ्गैस्सह बुद्धिमान् || ५६ || सकलस्थापने काले तद्बीजं हृदि विन्यसेत् | क्रियाशरीरमित्युक्तं मन्त्रं जीवमिति स्मृतम् || ५७ || क्रियाक्रमप्रयोगेन शिवसान्नित्य कारणम् | तस्माज्जीवशरीरञ्च ज्ञात्वा कर्म समाचरेत् || ५८ || प्रथमञ्चात्मशुद्धिं स्यात् द्वितीयं स्थान शोधनम् | तृतीयं द्रव्यशुद्धिं स्यात् चतुर्थं मन्त्रशोधनम् || ५९ || पञ्चमं लिङ्गशुद्धिं स्यात् उच्यते पञ्च शुद्धयः | अनन्ताख्यासनं पूर्वं सिंहासनमतः परम् || ६० || योगासनत्तृतीयन्तु पद्मासनमतः परम् | पञ्चमं विमलं प्रोक्तं कल्पयेदुपरि क्रमात् || ६१ || अष्टासनसमायुक्तमनन्तासनमुच्यते | धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् || ६२ || राजवर्तिनिभास्सर्वे सिंहासनमुदाहृतम् | शुद्धकर्मवदाकारं योगासनमिति स्मृतम् || ६३ || वामादि शक्तिनवकं पद्मासनमिति स्मृतम् | गणांबिकामुत्तरे तु महादेवीञ्च पूर्वतः || ६४ || प्. ७४) तन्नो गौरी तु याम्ये च वारुणीति प्रचोदयात् | एताभिश्शक्तिभिस्सार्धं कल्पयेद्विमलासनम् || ६५ || चतुरश्राववृत्तञ्च पिण्डिकाभेदमुच्यते | एकैकं पञ्चधा प्रोक्तं चतुरश्रादि भेदतः || ६६ || भद्रा यक्षी च वज्री च श्रीकरा विजयेति च | पद्मा चक्रा तथा वेदी सौम्या रम्या च पञ्चमी || ६७ || आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरी | निरात्मा परमात्मा च कथयामि यथार्थतः || ६८ || प्रधान सममाश्रित्य सुखदुःखविवर्जितः | इदं तस्मिन् स्थितो देवी तदात्मा सैव उच्यते || ६९ || पुर्यष्टकसमायोगात् चर्यते सर्वयोनिषु | अन्तरात्मा स विज्ञेयो निर्बन्दस्तु शुभाशुभैः || ७० || बुद्धिकर्मेन्द्रियैर्युक्तो महाभूत समावृतः | बाह्यात्मा तु तदा देवी निष्ठया भोगभुक् सदा || ७१ || भूतभावविनिर्मुक्तास्तत्वाकर्ममलोन्वितः | मलकर्मैकयुक्तात्मा मायाधर्ममतिः कृतः || ७२ || निरात्मा तु तदा देवी प्रोच्यते प्रभुख्ययः | आत्मानमन्तरात्मानं परमात्मानमेव हि || ७३ || प्. ७५) तत्वा चैव भूतामा आत्मभूता प्रकीर्तितः | आत्मानं दण्डमध्यस्थं अन्तरात्मा तदनन्तरम् || ७४ || परमात्मा पद्ममध्यस्थं तत्वात्मा पार्श्वदक्षिणम् | भूतात्मा वामपार्श्वे तु पञ्चात्मा स्थानमेव च || ७५ || भूतात्मा योनिजं विद्वान् अन्तरात्मा दहेत्पुनः | तत्वात्मा अमृतं पूर्वं शुद्धात्मा चान्तयेत्पुनः || ७६ || सकलः सूक्ष्मदेहस्तु प्रलयाकल एव हि | विज्ञानकेवलश्शुद्धं पञ्चावस्थः पुमांस्मृतः || ७७ || पञ्चकञ्चुकसंयुक्तः पुरुषः परिकीर्तितः | न विज्ञानकलास्तेन नापि प्रलयकेवलः || ७८ || पुरुषार्थान् लभेद्यस्मात् अविद्यादि विवर्जितः | तस्मात्सकल एवायं लभते पुरुषाह्वयम् || ७९ || पुष्णन्ति प्रकृतिं यस्मात् तस्मात्पुरुष उच्यते | मलकर्म महामायमायोर्थमखिलं जगत् || ८० || तिरोधानकरी शक्ति पाशत्वेनाथ पञ्चकः | उल्कावृत्तिं तदन्तेषु स्थित्वा स्थित्वा तदाज्ञया || ८१ || लोकत्रयञ्च निमिषां आत्मा कुर्याद्गतौ गतिः | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिरनन्तरम् || ८२ || प्. ७६) शान्त्यतीतेति पञ्चैते नाददेशे समुद्भवाः | कला विद्या च रागश्च कालो नियतिरेव च || ८३ || पञ्चैतानि च तत्वानि मायेयाति द्विजोत्तमः | अन्नप्राणमनोज्ञान मया कोशास्तथात्मनः || ८४ || आनन्दमयकोशाश्च पञ्चकोशा इतीरिताः | अन्नमादिमयं देवीत्त्यन्योन्यं सूक्ष्मरूपकम् || ८५ || आत्मयुक्तस्य रूपस्य मायोपादानकारणम् | आत्मत्त्वेन भ्रमन्त्यत्र वादिनं कोशपञ्चके || मनोविकारे विहिता इत्यानन्दो मयो विदुः | गृह्णात्यन्नमयात्मानं देहो लोकायतः खलु || ८७ || देहैः परिणतं प्राणं मयमप्योतहता विदुः | विज्ञानमयमात्मानं बन्धा गृह्णन्ति नापरम् || ८८ || आनन्दमयमात्मानं वैदिकाः केचिदूचिरे | अहङ्कारात्मनातीतं प्राहुः प्रायो मनोमयः || ८९ || ज्ञानसंस्कारसंज्ञानां वेदानां रूपयोरपि | समूहस्कन्धशब्दार्थं तत्तत्सन्तति वाचकः || ९० || ज्ञानसन्ततिरेवात्र विज्ञानस्कन्ध उच्यते | संस्कारस्कन्ध इत्युक्तो वासनानन्तसन्ततिः || ९१ || सुखदुःखात्मिका बुद्धिः तदपेक्षात्मिकं ततः | वेदानां स्कन्ध इत्युक्तो संज्ञा स्यात्स्कन्धनाम यत् || ९२ || रूपस्कन्धो भवेद्यत्र मूर्तिभूतस्य सन्ततिः | आमपक्वमलं गर्भं मूत्राशयेति पञ्चकम् || ९३ || अवस्था पञ्चकस्तस्य मलरुद्ध स्वदृक्क्रियः | वितन्यक्षाणि पुंसार्धां न स्वयं सोपि शंभुना || ९४ || मुखे जाग्रमिति ज्ञेयं स्वप्नन्तु हृदयान्तिकम् | हृदयादि समारभ्य नाभ्यान्तन्तु सुषुप्तिकम् || ९५ || तस्मादधस्तु तुर्यन्तु तुर्यातीतन्तु लिङ्गकम् | जाग्रादि स्वप्नमेवं हि प्रवर्तकमिहोच्यते || ९६ || पञ्चत्रिंशति जाग्रे स्यात् स्वप्नेस्मिन् पञ्चविंशतिः | सुषुप्तौ मूर्तिसंज्ञस्यात्तुर्ये युग्मं यथा क्रमम् || ९७ || तुर्यातीते भवेदेकं आत्मानं तत्र संस्मरेत् | किन्तु गुह्यमिदं वक्ष्ये शृणुत्वं नन्दिकेश्वर || ९८ || स्थूलं सूक्ष्मं सुसूक्ष्मञ्च अतिसूक्ष्मं ततोऽधिकम् | स्थूलं जाग्रमिति ज्ञेयं सूक्ष्मं स्वप्नमिहोच्यते || ९९ || सुषुप्तिस्तु सुसूक्ष्मं स्यात् अतिसूक्ष्मन्तु तुर्यकम् | ततोऽधिकमतीतं स्या देवं पञ्चविधं स्मृतम् || १०० || प्. ७८) जाग्रादि पञ्चावस्थायामतीतं ज्ञानरूपकम् | सद्गुरोरूपदेशेन प्रकाशेनैव निश्चयः || १०१ || ब्रह्मचर्यजपो मौनं क्षान्तिराहारसंगमः | इति पाठभेदः (क्षान्तिनाहरलासवम् |) इत्त्येतत्तपसो रूपं सुघोरं पञ्चलक्षणम् || १०२ || आदिशैव महाशैवानु शैवान्तरशैवकाः | अवान्तरश्च पञ्चैते शैवप्रोक्तास्समासतः || १०३ || शिवशक्ति सदा शान्तमीश्वरस्तु तथैव च | अनादिसंज्ञ शैवास्ते महाशैवानथ शृणु || १०४ || अनन्तादि शिखण्ड्यान्ताष्ट विद्या महेश्वराः | मन्त्रेश्वराश्च मन्त्राश्च महाशैवैस्सदेशजाः || १०५ || मायाद्यवनिपर्यन्तं तत्वप्रादेषु संस्थिताः | रुद्रत्वनन्तशिष्यास्ते आदिशैवाः प्रकीर्तिताः || १०६ || ब्रह्मविष्ण्वादयो देवाः दैत्यां किं पुरुषस्तथा | ऋषयस्सिद्धगंधर्व यक्षो रक्षोरगादयः || १०७ || श्रीकण्ठशिष्यास्ते सर्वे उमादेव्यादि शक्तयः | अनुशैवा इमे प्रोक्ता अन्तरान् शृणु तान्व्रतम् || १०८ || प्. ७९) ब्राह्मणादि चतुर्वर्णाः परमेशप्रसादतः | दूर्वासोऽगस्त्य ऋषिकाः दधीचिमुनिवंशजाः || १०९ || अवान्तर इमे प्रोक्ताः शैवो शिवपदानुगाः | अथ शैव समाख्यात कारेण तु शिवागमे || ११० || प्रथमोऽनादि शैवस्तु स एवस्तु यदा शिवः | आदौ सदाशिवेनैव दीक्षितास्त्वादि शैवकाः || १११ || कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः | अगस्त्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः || ११२ || तृतीयस्तु महाशैवः स शैवो विप्र उच्यते | चतुर्थस्त्वनुशैवश्च नृपो वैश्य इति स्मृतः || ११३ || पञ्चमोऽवान्तरश्चैव स शूद्रश्चेति कथ्यते | लौकिकं वैदिकञ्चैव तथाध्यात्मिकमेव च || ११४ || अतिमानञ्च मन्त्राख्य तन्त्रभेदस्तु पञ्चधा | लौकिकं ज्योतिषं ज्ञेयं वैदिकं न्यायमेव च || ११५ || अध्यात्मवैदिकं प्रोक्तमतिमार्गन्तु रौद्रकम् | मन्त्राख्यं शुद्धशैवन्तु पञ्चवक्त्रसमुद्भवाः || ११६ || शास्त्रनिर्णयकन्याय कलापमुनिपुंगवः | सूत्रं भाष्यं वार्तिकञ्च व्याख्याप्रकरणं तथा || ११७ || प्. ८०) पञ्चग्रन्थित्व मे देही ग्रन्थानां तद्विदो विदुः | अल्पाक्षरमसंदिग्धं सारवद्विश्वतो मुखम् || ११८ || अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः | यत्र बीजमिवारूढो महामंत्रार्थपादपः || ११९ || आलाप मूल सूत्रं तदथशब्दाद्यलङ्कृतम् | सूत्रार्थो वर्ण्यते यत्र वाक्यैस्सूत्रानुसारिभिः || १२० || स्वीपदानी च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः | (स्थापदा) इति पाठभेदः | पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना || १२१ || आक्षेपञ्च समाधानं व्याख्यानं पञ्चलक्षणम् | उक्तानुक्तद्विरुक्तादि चिन्ता यत्र प्रवर्तते || १२२ || तद्ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञो मनीषिणः | शास्त्रैकदेश संसिद्धं शास्त्रकार्यान्तरे स्थितम् || १२३ || आहुः प्रकरणं नाम शास्त्रभेद विचक्षणः | सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च || १२४ || वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् | पाठकृत्वा तु कर्तव्याः पदच्छेदस्तु धीमता || १२५ || प्. ८१) पदार्थोक्तिस्ततश्चैवमन्वयार्थ मतः परम् | समासमिति विज्ञेयं श्रवणं पञ्चधा स्मृतम् || १२६ || सहायस्साधनोपायो विभागो देशकालयोः | विभक्ते च प्रतीकार सिद्धः पञ्चांगमित्यपि || १२७ || परो महांस्तथा दिव्यो दिव्यादिव्यस्तथैव च | अदिव्यश्चेति पञ्चैते संबन्धाः परिकीर्तिताः || १२८ || तच्चैह पञ्चावयवं प्रतिज्ञो हेतुरेव च | दृष्टान्तोपनयावेतौ निगमश्चाथ पञ्चमः || १२९ || इष्टार्थोक्ति प्रतिज्ञास्तु हेतुस्तद्व्याप्ति मद्वचः | दृष्टान्तस्तद्विधाद्युक्त हेतुस्तद्वत्प्रतीक्षते || १३० || दृष्टान्तपक्षयोर्वापि प्रस्तारोपनयो भवेत् | पुनः प्रतिज्ञा नियमो निगमस्य स हेतुकः || १३१ || हेतूनां भूषणं न्यत्र पञ्चोक्तानि शिवागमे | असिद्धः प्रथमाहेतोः विरुद्धश्च द्वितीयकः ||१३२ || अनेकान्तस्तृतीय स्यात् तुर्यं प्रकरणं तथा | कालस्सत्यपदिष्टैस्तु पञ्चमः परिकीर्तितः || १३३ || प्रतिष्ठा स्थापनञ्चैव स्थिति स्थापनमेव च | आस्थापनं चतुर्थन्तु प्रोक्तमुत्थापनं तथा || १३४ || प्. ८२) प्रतिष्ठा पञ्चधाज्ञेयं प्रोच्यते तद्विनिर्णयः | यत्र ब्रह्मशिलामध्ये लिङ्गमादौ विधाय च || १३५ || अव्यक्तमुखलिङ्गं वा पीठबन्धनपूर्वकम् | क्रियते सा प्रतिष्ठा स्यात् स्थापनं कथ्यते पुनः || १३६ || धातुरत्नमयं लिङ्गं बाणं लोहमथापि वा | स्थाप्यते पिण्डिका मध्ये स्थापनं तदुदीरितम् || १३७ || अभिन्नपिण्डिका लिङ्गे स्फाटिकादौ विधीयते | मनसा यत्र संस्कार स्थितस्थापनमुच्यते || १३८ || चतुर्हस्तादिकं लिङ्गं व्यक्तं लिङ्गमथापि वा | संस्कार क्रियते यत्र तदास्थापनमीरितम् || १३९ || व्यङ्ग्यादि दोषदुष्टं यत् लिङ्गमुद्धृत्य यत्नतः | अन्यसंस्थापिते यत्र तदुत्थापनमुच्यते || १४० || अण्डजं मुण्डजं चैव रोमजं चर्मजं तथा | वामजं शयने पञ्च तल्पस्त्वेते प्रकीर्तिताः || १४१ || अण्डजं चात्र बोद्धव्यं पक्षीपञ्चसमुद्भवम् | कार्पासेन कृतं यत्तु मुण्डजं तत्प्रकीर्तितम् || १४२ || आविकादिमृगाणान्तु रोमजं रोजं स्मृतम् | चर्मजं व्याघ्रसिह्मादि कौशेयं वामजं स्मृतम् || १४३ || प्. ८३) सोमास्कन्दन्तु पूर्वं स्यात् सुखासनमतः परम् | कल्याणसुन्दरञ्चैव चन्द्रशेखरमेव च || १४४ || गङ्गाधरञ्च पञ्चैते सृष्टिमूर्तिरुदाहृताः | वृषभवाहनञ्चैव अर्धनारीश्वरं तथा || १४५ || किरातश्चैव वीरेशं भिक्षाटनमतः परम् | एते वै पञ्चमूर्तिस्तु स्थितिमूर्तिरुदाहृताः || १४६ || इरक्षण विरक्षण द्विरक्षण विचक्षणम् | हस्तमेनेन नामानि स लक्षण समन्वितम् || १४७ || इरक्षणं नवहस्तं स्यात् द्विरक्षणं दशहस्तकम् | द्विरक्षणं रुद्रसंख्यायां विचक्षणं रविसंख्यकम् || १४८ || सलक्षणं पञ्चसंख्यायां प्राकारं पञ्चधा भवेत् | प्राकारां परितः कुर्यात् प्रासादस्य प्रमाणतः || १४९ || प्रासादस्य तु विस्तारं तद्दण्डमिति कथ्यते | दण्डार्धेन कृतं यत्तदन्तर्मण्डलमेव च || १५० || एकदण्डान्तर्हारे तु मध्यहारे द्विदण्डतः | चतुर्दण्डप्रमाणे तु कृतमर्यादिकं स्मृतम् || १५१ || महामर्यादिभित्ति स्यात् सप्तदण्डप्रमाणतः | एवं प्राकारमाख्यातं गोपुरस्य विधीयते || १५२ || प्. ८४) मण्डले द्वारशोभा च द्वारशाला च हारके | प्रासादमध्यहारायां मर्यादौ हर्म्यमुच्यते || १५३ || गोपुरन्तु महामर्ये एवं पञ्चविधं स्मृतम् | जगज्जन्मस्थिति ध्वंसतिरोभावविमुक्तयः || १५४ || पञ्चकृत्यानि मेतानि तादृशस्य विमोहितः | इदमेव परं दिव्यं ताण्डवं परिकीर्तितम् || १५५ || कर्मयज्ञस्तपो यज्ञजपञ्च ध्यानमेव च | ज्ञानयज्ञस्ततः प्रोक्त इति यज्ञस्य पञ्चकम् || १५६ || अथ पूजाग्निकार्याद्यैर्भेदैर्बहुविधैस्ततः | कर्मयज्ञस्समाख्यातः तपश्चान्द्रायणादिकम् || १५७ || स्वाध्यायश्च जपः प्रोक्तः शिवमन्त्रस्य संज्ञया | ध्यानयज्ञस्समाख्यात शिवचिन्ता मुहुर्मुहुः || १५८ || अध्यापनञ्चाध्ययनं व्याख्याश्रवणचिन्तनम् | इति पञ्चप्रकारेण ज्ञानयज्ञाः प्रकीर्तिताः || १५९ || वरिष्ठस्सर्वयज्ञानां असंख्यातैर्महागुणैः | यस्मात्तस्माद्विशुद्धोयं अपवर्गफलप्रदाः || १६० || मार्ज्यमाणो यदा नित्यं दर्पणे निर्मलो भवेत् | ज्ञानाभ्यासात् तदा पुंसां बुद्धिर्भवति निर्मला || १६१ || प्. ८५) यज्ञैर्देवत्वमाप्नोति तपोभिः ब्राह्मणः पदम् | ध्यानेन विविधान् भोगान् ज्ञानान्मुक्तिमवाप्नुयात् || १६२ || आचार्यस्साधकश्चैव पुत्रकस्समयी च | माहेश्वरेण पञ्चैते पूर्वं पूर्वगुणाधिकाः || १६३ || ब्राह्मणादि क्रमेणापि ज्ञात्वा वै शिष्यमादरात् | पूजयेद्देवकल्याणे पवित्रारोहणादिके || १६४ || सर्वेषामपि चैतेषां देशिको मुख्य ईरितः | देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः || १६५ || देशिकाज्ञा ममाज्ञा च समैवोक्तं शिवागमे | तस्मादादौ तु सर्वेषां पूजनीयो यथार्हकम् || १६६ || समयस्थाद्विशेषस्य श्रेष्ठं तस्मात्तु पुत्रकः | पुत्रकात्साधकश्श्रेष्ठात् तस्मादाचार्य सत्तमः || १६७ || रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् | भस्मं चैवादिशैवानां पञ्चमुद्राः प्रकीर्तिताः || १६८ || सिद्धान्ते दीक्षिता ये तु व्रतस्था ब्राह्मणादयः | पञ्चमुद्रधरास्सर्वे भवन्ति क्वचिदागमे || १६९ || आसनं योगपट्टञ्च वेणुतण्डकमण्डलुः | अक्षसूत्रञ्च पञ्चैते योगीनां योगपञ्चकम् || १७० || प्. ८६) कुण्डिकाकुण्डलञ्चैव उरगं च शिखामणिः | रोमयज्ञोपवीतञ्च पञ्चमुद्रा महाव्रते || १७१ || हेमाङ्गुलीयकटकं केयूरं कुण्डलं तथा | हेमयज्ञोपवीतञ्च पञ्चांगभूषणं तथा || १७२ || नर्तको मर्दकश्चैव गायको वंशिकस्तथा | तथा मौरविकश्चैव पञ्चाचार्याः प्रकीर्तिताः || १७३ || चातुर्वर्णानुलोमार्था नाट्यवेदक्रमश्रमाः | भावनागेयनृत्तादि वाद्यज्ञानविशारदाः || १७४ || नवनाटससंज्ञाश्च मद्भक्ता वीतकल्मषाः | तेषु श्रेष्ठ इति प्रोक्ता नर्तको नर्तशास्त्रवित् || १७५ || स्वतन्त्रगानकृद्वीणा मन्त्रगानादितत्पराः | पञ्चाचार्याश्च मत्कन्य देवदास्यश्च वादकाः || १७६ || क्रमेणैषाञ्च वैशिष्यं स्वस्वकर्म गदीरितम् | अनुक्तानामतोऽन्येषां तत्तत्कर्मानुसारतः || १७७ || नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा | इति गोमातः पञ्च शिवलोकव्यवस्थिताः || १७८ || क्षीरं दधिघृतं चैव गोमूत्रं गोमयं तथा | पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् || १७९ || प्. ८७) अलाभे च दधिक्षीरं क्षीरालाभे भवेद्दधि | गोमूत्रं गोमयालाभे तदलाभे तु गोमयः || १८० || पञ्चगव्येषु यत्न स्यात् अलाभे यद्घृतं भवेत् | दीक्षान्ते च प्रतिष्ठान्ते पवित्रान्ते च कारयेत् || १८१ || पञ्चगव्यविधानेन ब्रह्मकूर्चं प्रकल्पयेत् | यः पिबेच्च ततो भक्त्या शिवसायुज्यतां व्रजेत् || १८२ || अष्टम्याञ्च चतुर्दश्यां कृष्णपर्वणि चादरात् | शिवप्रियं विशेषेण शिवपूजां समाचरेत् || १८३ || क्षीरं दधिघृतं क्षौद्रं शर्कराद्यैर्कुशोदकैः | पञ्चामृतमिति प्रोक्तं पञ्चपातकनाशनम् || १८४ || खण्डाभावेक्षुसारञ्च मध्वभावे घृतं पिबेत् | कोष्ठं पात्रञ्च मंत्राणि पूर्ववत्परिकल्पयेत् || १८५ || कदलीपनसं चैव नालिकेरफलं तथा | आम्रकं मातुलुङ्गञ्च एते पञ्चफला स्मृताः || १८६ || कननोद्धारदहना पूरणाशुद्धवालुकैः | गोष्पदस्पर्शनान्तञ्च पञ्चैते स्थानशुद्धयः || १८७ || गन्धपुष्पञ्च धूपञ्च दीपनैवेद्यमेव च | पञ्चोपचार एते स्युः दीपान्तं वापि संमतम् || १८८ || प्. ८८) गर्भादानं पुंसवनं सीमन्तं जातकर्म च | वह्नेस्तु नामकरणं पञ्चसंस्कारकं भवेत् || १८९ || अथातः संप्रवक्ष्यामि पञ्चप्रत्ययकं स्मृतम् | शुभं पाशप्रत्ययञ्च पशुप्रत्ययकं तथा || १९० || प्रत्ययन्तु ततः पश्चात् तालपत्रस्य लेखनम् | कुंभसर्पविधिश्चैव पञ्चप्रत्ययमीरितम् || १९१ || सत्यानृतविशुद्ध्यर्थं प्रत्ययं कारयेद्बुधः | अङ्गारे सूर्यवारे च कारयेद्देशिकस्सदा || १९२ || सत्यमुद्दिश्य यद्द्रव्यं धर्मार्थाय निवेदयेत् || १९२ || || इति पञ्चमवर्गः || || अथ षष्ठवमवर्गः || पतिर्विद्या तथा विद्या पशुपाशश्च कारणम् | तन्निवृत्ता इति प्रोक्त पदार्थः षट्समाचरेत् || १ || पशूनां भुक्तिमुक्त्यर्थं आप्तः पशुपति स्मृतः | लयभोगाधिकाराख्यं स्त्रितत्वोक्ति निदर्शनात् || २ || प्. ८९) पदार्थः पतिनामासौ प्रथमः परिकीर्तितः | भोग्यभोक्तृत्वसंबन्ध मायाधारसुरञ्चिते || ३ || क्रियाज्ञानात्मिका ये च ये च धर्म पथौ स्फुटाः | शक्त्याख्यस्संपदार्थोयः द्वितीयः परिभाष्यते || ४ || ये भूता भावतत्वाख्य मायाता क्षुरिकास्सदा | सपदार्थं त्रिपर्वोयं तृतीयश्शिवसाधने || ५ || यो स्वतन्त्रपशुर्भोक्ता क्षेत्रीपशुपुमांस्फुटम् | पदार्थपशुनामासौ चतुर्थो मुनिपुंगव || ६ || धर्माधर्म विपाकाख्या स्थितौ भोक्तुमिहागताः | साध्यसाधनभावेन संस्थिता ये परस्परम् || ७ || पञ्चमस्स तु बोद्धव्यो पदार्थो भोगसंज्ञकः | ये मन्त्रः शुद्धमार्गस्था शिवभट्टाकरादयः || ८ || मुक्ताश्च शक्तिपूर्णा स्युः ये चार्था परिविस्मृताः | पादत्रयेषु सोपानः संसारोद्धारकारणम् || ९ || षष्ठोभ्यभिहितस्तन्त्रे पदार्थपरमेश्वरे | प्रत्यक्षमनुमानञ्च शब्दश्चोपमया सह || १० || अर्थापत्तिरभावश्च षट्प्रमाणमिति स्मृतम् | अक्षादिकारणैर्दृश्यं प्रत्यक्षं तदिहोच्यते || ११ || प्. ९०) लिङ्गेन लिङ्गविज्ञान मनुमानमिति स्मृतम् | आप्तोक्तिर्वचनैर्गम्यं शब्दश्चेत्तमुदाहृतम् || १२ || तत्सादृश्याद्यथा गम्या ह्युपमा चेति कीर्तिताः | दिवा भोजनमस्तीति रात्रौ नास्तीति गम्यते || १३ || भ्रान्त्याभावे स्वयं ज्ञानं अभावमिति कीर्तितम् | एवमादि प्रमाणैस्तु दुर्लक्ष्यं तच्छिव स्मृतम् || १४ || अङ्गषड्भेदमित्युक्तं तस्मात् षडङ्गमुच्यते | षडङ्गमङ्गभेदानि भेदाः षट्त्रिंशति स्मृतः || १५ || शिवांगं चैव भूताङ्गं कूटाङ्गञ्च तथैव च | विद्याङ्गञ्चैव शक्त्यांगं सामान्याङ्गं तथैव च || १६ || शिवांगे तु यजेद्देवं स्थापनादीनि सर्वथा | भूताङ्गैस्तु यजेद्देवं स्थापनादि सर्वशः || १७ || भूताङ्गैस्तु च वै वत्स पादादि भूतशोधनम् | अणुनामानि संयोज्य भूताङ्गैश्च समाचरेत् || १८ || कूटाङ्गैश्चैव विद्याङ्गैः प्रायश्चित्तन्तु कारयेत् | शक्तीनां स्थापने काले शक्त्यङ्गैस्तु समाचरेत् || १९ || अन्येषां सर्वदेवानां सामान्याङ्गैस्तु योजयेत् | नमस्स्वाहा तथा वौषट् हुं षट् फट् च जायतः || २० || प्. ९१) क्रूरजाति युता क्रूराश्शान्तास्युश्शान्तजातयः | हुं फट् जातिषु क्रूरे तु शेषाश्शान्ता प्रकीर्तिताः || २१ || भूतात्माह्यन्तरात्मा च तत्वात्मा जीवसंज्ञकः | मन्त्रात्मा परमात्मेति षड्विधेन व्यवस्थितः || २२ || भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः | मन्त्रात्मा मन्त्रयो ज्ञेयं अन्तरात्मा गिरान्वितः || २३ || भोक्ता तु सुखदुःखानां प्रकृतिस्थो गुणान्वितः | जीवस्तु जीवनं तेषां एभिर्मुक्तः परस्मृतः || २४ || स स्वयं मनसा युक्त इन्द्रियैस्सह युज्यते | इन्द्रियाणि ततोऽर्थेषु नित्यमेव प्रवर्तते || २५ || सत्वं प्रकाशकं भावं रजो रागात्मकं गुह | ततो मोहात्मकं भावं उत्पादयति देहिनाम् || २६ || एवं विधोपभूतात्मा पुरुषं इति चोच्यते | योऽन्तरे वर्तते शब्दः तस्य वाच (प्र)वर्तकः || २७ || प्राणापानसमायोगात् सोत्तरात्मा प्रकीर्तितः | सूक्ष्मा वै पञ्च तन्मात्रं मनोऽहङ्कारमेव च || २८ || बुद्धिरष्टगुणा ज्ञेय गुणाव्यक्तञ्च पौरुषम् | कलाकालस्तथा माय विद्याविद्येश्वरश्च यत् || २९ || प्. ९२) सदाशिवं तथा तत्वं अष्टाविंशान्तमेव च | एतेषामेव संयोगात् तत्त्वात्मा पुरुष स्मृतः || ३० || देहं सर्वगतस्सूक्ष्मः पुराणो शाश्वतो ध्रुवः | व्यापकस्सर्वतत्वानां अजोव्यक्तस्सनादिनीम् || ३१ || अश्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितः | समूढो नित्यसञ्चारी किञ्चित्ज्ञो निश्वरो क्रियः || ३२ || योधस्यैव भवेन्मन्त्रो वाच्यवाचकभेदतः | स्थूलसूक्ष्मपरस्यैह मन्त्रात्मा पुरुषस्मृतः || ३३ || स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् | चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् || ३४ || स्थूलञ्च वाचिकं विद्धि सूक्ष्मो योगञ्च गच्छति | परः परमनिर्वाणि यः प्राप्य न निर्वते || ३५ || इति मन्त्रात्मकः पुरुषः प्रोक्तस्सर्वार्थ साधकः | सर्वज्ञस्सर्वगश्शान्तस्सर्वात्मा सर्वतोमुखः || ३६ || अतीन्द्रियो निरालंब स सूक्ष्मश्शाश्वतोऽव्ययः | सुनिष्कलो निराकारो नाव्ययो व्यापको ध्रुवः || ३७ || निरौपम्योप्रमेयश्च परमात्मा प्रकीर्तितः | सर्वकामप्रदो ह्यात्मा ह्येकोपि बहुधा स्थितः || ३८ || प्. ९३) मरणादीनि कार्याणि निर्मितानीश्वरेण तु | आयुष्यं विभवं कर्मं विद्या च निधनं सुखम् || ३९ || षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशेत् | अस्थिस्तु युग्ममज्जा च पितृकं त्रयमेव च || ४० || त्त्वक्मांस श्रोणितं चैव मातृकं त्रिकमेव च | इदं षट् कौशिकं प्रोक्तं शरीरान्ते तु जायते || ४१ || लिङ्गमीशमयं प्रोक्तं योनिश्शक्तिमयं स्मृतम् | तस्माद्वै शिवशक्तिस्तु सर्वमेतच्चराचरम् || ४२ || बोद्धक्षपण चार्वाकौ सांख्याकेकौ तथैव च | मीमांसा चेति कथ्यन्ते दर्शनानि च षड्बुधैः || ४३ || वारुणञ्च तथाग्नेयं मंत्रं मानसमेव च | वायव्यं चैव माहेन्द्रं स्नानं षड्विधमीरितम् || ४४ || वारुणं वारिणा स्नानमाग्नेयं भस्मना भवेत् | सद्योजातादिभिर्मन्त्रैः अंभोभिरभिषेचनम् || ४५ || मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि | मनसा मूलमन्त्रेण प्राणायामपुरस्सरम् || ४६ || कुर्वीत मानसं स्नानं सर्वत्र विहितं हि तत् | गोसङ्घमध्यगं कुर्यात् तत्खुरोद्घातरेणुभिः || ४७ || प्. ९४) पवमानेति मन्त्रेण स्नानं तद्वर्मणा तथा | सूर्यांशुवर्षसंपर्को प्राङ्गुखेनोर्ध्वबाहुना || ४८ || माहेन्द्रस्नानमीशेन कार्यं सप्तपदाविधिः | छर्दितेप्युदिते सूर्ये स्मश्रुकर्मणि मैथुने || ४९ || दुस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते | प्रातस्सन्ध्या जपो होम स्वाध्यायपितृतर्पणम् || ५० || वैश्वदेवातिथेः पूजा षट्कर्माणि दिने दिने | पूजाकाले जपे होमे मलोत्सर्गे विशेषतः || ५१ || स्नानभोजनकाले च मौनं षट्सु विधीयते | अथ गोदेहसंभूत षडङ्गविधिना शिवः || ५२ || लिङ्गे संपूजितश्शीघ्रं नराणां सुप्रसीदति | गोमयं रोचनं मूत्रं क्षीरं दधिघृतं गवाम् || ५३ || षडङ्गानि पवित्राणि सर्वसिद्धिकराणि च | गवां मूर्धसि गङ्गाद्याः वेदयन्त्यो स मन्त्रकाः || ५४ || संस्थितस्सर्वदेवाश्च तामसाङ्गानि संश्रितः | तस्माद्गोदेहजैष्षड्भिः मूत्राद्यै रोचनान्तकैः || ५५ || शिवप्रियैर्विशेषेण शिवपूजां समाचरेत् | मधुरात्रौ तथा तिक्त कषायौ लवणस्तथा || ५६ || प्. ९५) कटुश्चेतिह कथ्यन्ते भूतजास्तां रसासु षट् | सूर्योपस्थानमात्मेज्य लिङ्गाग्निगुरुपुस्तकम् || ५७ || इति नित्यं समाख्यातं षडाधारं शिवार्चनम् | अनन्तधर्मज्ञानञ्च वैराग्यैश्वर्यकं तथा || ५८ || पद्मं चैव षडेतानि षडुत्थमिदमासनम् | गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् || ५९ || वीरं योगासनं चैव प्रोक्तं षड्विधमासनं | स्वस्तिकं सर्वतो भद्रं गौरीतिलकमेव च || ६० || पार्वतीकान्तमप्येवं लिङ्गाब्जं स्वस्तिकं तथा | लतालिङ्गोद्भवञ्चेति मण्डलं षड्विधं स्मृतम् || ६१ || प्रागग्रमुदगग्रञ्च पञ्चसूत्रं प्रसारयेत् | लिङ्गमेकं पदं विद्धि त्रिपदं पीठमेव हि || ६२ || चतुर्लिङ्गसमायुक्तं मुखं वर्णैश्च भूषयेत् | तन्मध्ये श्वेतवर्णन्तु भोगमोक्षफलप्रदम् || ६३ || एवं स्वस्तिकमाख्यातं सर्वतो भद्र उच्यते || ६३ || अष्टाष्टांशे पङ्कजं वेदभागे बाह्ये वीथीं व्योमतः वीतयुक्तम् | षड्भागस्याचारमिन्द्रादिदिक्षु कोणे षट् षट् सर्वतो भद्रमीरितम् || ६४ || प्. ९६) सर्वतो भद्रमेव हि भोगमोक्षफलप्रदम् || ६५ || गौरीतिलकममलं सूत्रैस्सप्तदशात्मकैः | मध्यवेदपदं श्वेतं चतुर्लिङ्गं चतुर्दिशि || ६६ || लिङ्गपीठञ्च कमलं कर्णं कमलपीठकम् | चतुष्षष्टि युगान्तेऽत्र चतुःषड्भिः पदैः क्रमात् || ६७ || मुखे वर्णैश्च संभूष्य देवीवेदपदेः पुनः | विदिक्षु कर्णपुष्पाणि भिन्नवर्णैः प्रकल्पयेत् || ६८ || प्रत्येकं सर्वकोणेषु पञ्चविंशत्पदैः क्रमात् | नानाविधैः प्रकर्तव्य लतावर्णैर्मनोरमैः || ६९ || गौरीतिलकमाख्यातं भोगमोक्षफलप्रदम् | प्रागग्रमुदगग्रञ्च द्वात्त्रिंशत्पदसंयुतम् || ७० || तस्य मध्ये तु नलिनं अष्टाष्टपदसंयुतम् | तद्बहिः त्रीधैः पीठैः तद्बाह्येन विधानतः || ७१ || निर्गमञ्च विवर्णं स्यान्नानाचित्रैर्विचक्षणः | अन्यानि पद्मपर्यन्तं श्वेतवर्णैश्च भूषितम् || ७२ || लिङ्गानि कृष्णवर्णानि द्वाराणि मुखवर्णकैः | एतच्च पार्वतीकान्तं सर्वकर्मसु योग्यकम् || ७३ || प्. ९७) षड्विंशत् सूत्रविन्यासं पूर्वाग्रं चोत्तराग्रकम् | नन्दनन्दपदं मध्ये पद्माकारं समालिखेत् || ७४ || बाह्ये वीथिसमायुक्तं पदमेकं चतुर्दिशि | मध्यमे श्वेतपद्मं स्यात् श्यामवर्णन्तु वीथिका || ७५ || द्वारे द्वारे विशेषेण नानावर्णैर्विचित्रयेत् | हेमं कृष्णं सुरक्तञ्च सितवर्णमयं तथा || ७६ || लिङ्गे वर्णे प्रकूर्वित विचित्रेण समाहितः | अष्टलिङ्गद्विरष्टौ तु वर्णभेदं विधीयते || ७७ || कोणे कोणे विधिः प्रोक्तं श्वेताब्जन्तु विधीयते | प्रोक्षयेत्कुशतोयेन शंखसन्निभमुद्रया || ७८ || मण्डलस्य तु नाम्ना तु लिङ्गाम्बुजमिति स्मृतम् | शालिपिष्टादिकार्पास सूत्रेण च पदं न्यसेत् || ७९ || पूर्वादि पश्चिमान्तन्तु त्र्यस्त्रिंशत्पदं न्यसेत् | दक्षिणोत्तर सूत्रन्तु त्रयस्त्रिंशद्भवेत्पुनः || ८० || पुनर्विंशति संयुक्तं सहस्रपदपङ्क्तिकम् | षट्त्रिंशैकपदस्तत्र मध्ये पद्मं प्रकल्पयेत् || ८१ || अष्टपत्रसमायुक्तं कर्णिकाकेसरोज्वलम् | तत्त्रिभागैकभागेन कारयेत्केसराणि वै || ८२ || प्. ९८) कर्णिकापीतवर्णेन रक्तवर्णेन केसरान् | मूले तत्र तदग्रे च श्वेतवर्णेन लेखयेत् || ८३ || कर्णिकावीतसंयुक्ता श्वेतरक्तसमन्विता | दलाष्टकं तथा रक्ता रेखा श्वेतेन लेखयेत् || ८४ || कृष्णेनास्यान्तकं ज्ञेयं वृत्तं श्वेतमिति स्मृतम् | पूर्वे कुंकुमलिङ्गन्तु दक्षिणे कृष्णलिङ्गकम् || ८५ || उत्तरे हेमलिङ्गन्तु श्वेतलिङ्गन्तु पश्चिमम् | आग्नेयादि तद्वर्ण लतया कृतभावयेत् || ८६ || लता लिङ्गोद्भवं ह्येवं मण्डलं परिकल्पितम् | विप्राणां सर्वतो भद्रं गौरीलता नृपस्य तु || ८७ || वैश्यानान्तु लतालिङ्गं शूद्राणां स्वस्तिकं भवेत् | मण्डलं मासपूजा च वसन्तादि च षड्रु तु || ८८ || वसन्तश्च तथा ग्रीष्म ततः प्रावृट् च तत्परः | हेमन्तः शिशिरश्चेति कथिता ऋतवश्च षट् || ८९ || वसन्ते स्वस्तिकाब्जञ्च ग्रिष्मे स्यात्सर्वभद्रकम् | प्रावृड्भद्रमाख्यातं लिङ्गाब्जं स्वस्तिकं तथा || ९० || शरदेव तु हेमंते पार्वती कान्तमण्डलम् | पद्मं स्वस्तिकमाख्यातं शशिरे तु विशेषतः || ९१ || प्. ९९) मेषादि मीनपर्यन्तं एकाहे सति पूजनम् | षट्कमण्डलमाराध्य द्रव्याण्यप्यधिवासयेत् || ९२ || महामण्डलसंज्ञन्तु शिवस्य हृदयङ्गमम् | पवित्रारोहणे शस्तं दीक्षायाञ्च विशेषतः || ९३ || सर्वान् कामानवाप्नोति महामण्डलपूजनात् | लिङ्गाब्जन्तु यजेद्धीमान् व्रतानाञ्च समर्पणे || ९४ || लिङ्गोद्धारे च कर्तव्यं प्रायश्चित्ते विशेषतः | अथाचार्याभिषेकार्थं नवनाभं प्रकल्पयेत् || ९५ || काम्यानामपि सर्वेषां नवनाभं फलप्रदम् || ९५ || चन्द्राश्विन्यौ स्थाणुशितांशुयुग्मं शैवं कुंभे मूर्ध्नि कर्णे च कण्ठे | पादौ पादाधारकेऽष्टांशकुंभे- ष्वे * * * सर्गस्याच्चैकभूमिम् || ९६ || || इति षष्ठमस्सर्गः || || अथ सप्तमस्सर्गः || स्वयंभुर्दैविकं चैव दिव्यं मानुषमार्षकम् | राक्षसं बाणलिङ्गञ्च सप्तधा लिङ्गमुच्यते || १ || प्. १००) मलोऽपि सप्तधा ज्ञेयो मोहाश्चापि मदस्तथा | रागोऽन्यश्च विषादाख्यस्तापश्शेषस्तथैव च || २ || वैचित्र्यमपि सर्वेषां मलिनानां प्रकीर्तितम् | मोहो नाम मलं पुंसां सहजोऽनादिमानिह || ३ || यो निषण्णमदादीनां प्रधानत्वाद्विजोत्तमः | यस्मिन् स्यादात्मनो मोहो जायतेप्यङ्गनादिषु || ४ || स मोह इति विख्यातो वर्ज्यावर्ज्यविभागतः | प्राप्तामपि स्त्रियां येन स्थितिना स्यात्पराङ्गना || ५ || दिव्याङ्गनेयमेवेति सा मदः पठ्यते बुधैः | येन निर्भर्स्यमानोपि तस्य मानोपि भूरिश || ६ || प्राप्तामशक्तसन्त्यन्तु स रागं परिपठ्यते | तदभावे विषण्णत्वं वाष्पलोचनता यतः || ७ || स विषादमलोनाम प्राणिनामति दुःखतः | यतिस्तापो भवेदन्तः प्रलापात्मनि विस्तरः || ८ || स ताप इति विख्यातो मलश्शेषा भवेत्ततः | मध्यात्मा तु यदा यस्यां मलादित्व सुदुस्तरम् || ९ || एषबन्धरियं भार्य मृषा चेद्रथनं महत् | कृतार्थोहमतो यद्वा कस्त्राता मामकस्य च || १० || प्. १०१) कुटुंबस्यैवमाद्या तु चिन्ता येन नृणां भवेत् | नानाभ्रान्तिकरैः सोयं मलो वै चित्रसन्नृतः || ११ || सप्तैते सहजा प्रोक्त मलं मलवता नृणाम् | सत्स्वेतेष्वपि ये पाश मायाताः क्षयिताः कलाः || १२ || तदुद्बलितवीर्येण भुङ्क्ते प्रकृतिजान् गुणान् | प्रथमं प्राणविषुवं मन्त्रस्य विषुवं तथा || १३ || नाडिका विषुवं पश्चात् प्रशान्तविषुवं तथा | पञ्चमं शान्तिविषुवं कालस्य विषुवं तथा || १४ || सप्तमं शिवचैतन्यं लयाख्यं विषुवं विदुः | प्रणवं हृदयं मन्त्र विषुवं ब्रह्मरन्ध्रकम् || १५ || नाड्यान्तद्वादशान्तन्तु प्रसान्तं कुण्डली तथा | शक्त्यन्तं समना शक्ती कालश्चैवोन्मनान्तकम् || १६ || तत्वन्तु विषुवं प्रोक्तं नाड्यसंज्ञमतः परम् | शिष्यात्मप्राणमनसां संयोगाः प्राणसंज्ञकम् || १७ || आत्मनोदरमध्ये तु लयं सञ्चिन्त्यया हितः | तत्कारोकारवर्णादीन् संयोगञ्च वियोगता || १८ || हृदयादि बिलान्तन्तु विषुवं मन्त्रसंज्ञकम् | मेढ्रोर्ध्वे कन्धनाभिश्च हृदयं कण्ठकूपतः || १९ || प्. १०२) कण्ठस्याग्रं भ्रुवोर्मध्यं ललाटं ब्रह्मणो बिलम् | शक्तिश्च द्वादशान्तञ्च दशग्रन्थिमनुक्रमात् || २० || मूलमन्त्रं त्रिशुद्धेन हित्वा नादं प्रवर्तते | नादनाडी समायोगात् तन्नाडीविषुवं मतम् || २१ || अकारोकारवर्णौ च मकारं बिन्दुसंज्ञकम् | नादनादान्तसंज्ञौ वा त्यक्त्वा ब्रह्मादिषु क्रमात् || २२ || सप्तमे शक्तिमध्ये तु शिष्यात्मानं लयं नयेत् | प्रशान्तं तद्विजानीयात् प्रशान्ते क्रियगोचरम् || २३ || शक्तिमध्ये गते नाद समानान्तं प्रसर्पति | तच्छक्तिविषुवं प्रोक्तं उन्मन्यकालसंज्ञकम् || २४ || साधिकारे परो धाम्नि विषुवं तत्वसंज्ञकम् | इदं सप्तविधं ध्यात्वा विषुवं देशिकोत्तमः || २५ || तदूर्ध्वे चिद्घना शक्तेर्नित्ये सर्वगुणान्विते | मनसः कारणातीते पुनरावृत्तिवर्जिते || २६ || आत्मानं विलयं नीत्वा शनैः पूर्णानि पातयेत् | सदाशिवस्य देहस्य क्रीडतो याः पुरोदिताः || २७ || चतस्त्रो मूर्तयस्सेका स्नानवाच्यमुमुक्षवः | योगवीर्यबलोपेत दीक्षया वा नियोजिताः || २८ || रमन्ती सूक्ष्मविभव यथा विद्धि मुनीश्वराः | सदाशिवसमास्सर्वे न चैते कारणेश्वराः || २९ || न शिवत्वमनुप्राप्तास्तेषां धर्मोच्यतेऽधुना | सामीप्याश्शान्तिनिलयाः ज्ञानकेवलिनो मताः || ३० || काम्याश्चैव निवृत्तिश्च मूर्तिकेवलिन स्मृताः | सादाख्ये चैव ये तत्वे संस्थिताः परमाणवः || ३१ || मूर्तिकेवलिनस्तेऽपि रोषा रुद्राः प्रकीर्तिताः | मोक्षः सप्तप्रकारोयं विभागेनोपवर्णिताः || ३२ || एभ्यः एकः परस्सूक्ष्मः कार्यकारणगोचरः | अतीतः परिपूर्णश्च स्वतन्त्रः सर्वतो मुखः || ३३ || एको निरीश्वरस्वस्थ षडन्येशेस्वरा मताः | पञ्चकृत्यानि कुर्वन्ति पत्युराज्ञा नियोगतः || ३४ || तस्मिन् सृष्ट्यादि सङ्कल्प समं तेषां तथा भवेत् | नैच सङ्कल्प्य वैषम्यं तेषां तत्वेध्व भावतः || ३५ || येऽपि तत्पदमापन्नाश्शैवस्साद्धनयोगतः | तेऽपि स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् || ३६ || महेन्द्रो मलयस्सह्य शक्तिमान् रक्षापर्वतः | विन्ध्यश्च पारियात्राश्च सप्तैते कुलपर्वताः || ३७ || प्. १०४) लवणेक्षु सुरासर्पि दधिदुग्धजलैः क्रमात् | समुद्रास्सप्त विख्यात द्विगुणाचोत्तरोत्तराः || ३८ || जंबुशाककुशक्रौञ्च शाल्मलीर्हेमपुष्पकरान् | सप्तद्वीपास्समाख्याता समुद्रान्तरिता महत् || ३९ || शाके शाकाग्रमस्तुङ्गे शाकस्संज्ञनिबन्धनः | कुशे हृत्काञ्चनं कोशे स्वयंभुविधि यक्षति || ४० || क्रौञ्चे क्रौञ्चहतो दत्यः क्रौञ्चाद्रौ हेमकुन्दरे | क्रौञ्चेन युध्वा सुचिरं चित्रमायीं सुमायिना || ४१ || स चैलस्तस्य दैत्यस्य खातचित्रेण कर्मणा | केतु नामागमुक्तस्य नाम्ना क्रौञ्चंतमुच्यते || ४२ || शाल्मले शाल्मलीवृक्षो हैमस्तंभ सहस्त्रिकः | प्रियोमराणां तत्केतुः सतदाख्या निबन्धनः || ४३ || गोमेदे गोमतिं नाम राजभृद्गो सवेद्यतः | याज्यो भद्वह्निकल्पानां मौनध्यानमनोकुले || ४४ || एतेषु हरियज्ञाय प्रवृत्तेषु भ्रशून् गुरून् | वव्रे तं गौतमः कोपात् असपत् सोममक्षयम् || ४५ || यज्ञवाटे स्यता गावो दग्धा कोपाग्निना मुनेः | तन्मेदसा महिच्छिन्ना गोमेदस्सन्ततो भवेत् || ४६ || प्. १०५) नदी पुष्करिणी नाम हेमपुष्करमण्डिताः | तत्पा स पुष्करद्वीपः ख्यापितस्सुरसेवितः || ४७ || अग्निधृतसमाख्यातो जंबूद्वीपे वरानने | शाके मेधातिथिर्नाम वसुश्च कुश संज्ञिते || ४८ || क्रौञ्चे च राजा ज्योतिष्मान् साल्मल्यां दुंदुमान् स्मृतः | गोमेधे हव्यवाहस्तु वसवः पुष्करो तथा || ४९ || त्रेतायुगसमं कालं शाकगोमेधवासिनाम् | आदित्यस्याश्वनामानि प्रत्येकं वच्मि सांप्रतम् || ५० || गायत्री च वृहत्युष्णिक् बृहती पङ्क्तिरेव च | अनुष्टुप् तृष्टुपित्युक्तं छन्दांसि हरयो हरे || ५१ || श्वेतश्च हरितश्चैव जीमूतो लोहितस्तथा | वैद्युतो मानसश्चैव सुप्रभोभ्राणि सप्त वै || ५२ || आवाह प्रवहश्चैव तथैवानुवहः परः | संवाहो विवहस्तस्मात् ऊर्ध्वं स्यात्तु परावहः || ५३ || तथोपरि वहश्चोर्ध्वं वायोर्वै सप्त नेमयः | मृगपक्षीव पशवः चतुर्थस्य सरीसृपः || ५४ || स्थावरान्मानुषं देवं सप्तैवेति हि योनयः | ऊर्ध्वपुच्छन्तु यद्ध्रस्वं मृगं विद्याद्विनायकम् || ५५ || प्. १०६) अधो दीर्घश्च ये पुच्छा पशुजातिरुदीरिताः | द्विपक्षः पक्षमित्याहुः सरीसृपमुरप्लवम् || ५६ || वाचा वदन्ति ये वर्णास्तें नरास्तीति कीर्तिताः | स्थावरं स्थापितं प्रोक्तं देवयोन्यजगं तथा || ५७ || मागध्यवन्तिका प्राच्य शूरसैन्यस्य मागधिः | बाह्विका दाक्षिणात्याश्च सप्तभाषा प्रकीर्तिताः || ५८ || खननोद्धारदहनं पूरणं गोनिवासिनम् | विप्रोच्छिष्टञ्च गव्यञ्च सप्तैते स्थानशुद्धयः || ५९ || शिलायान्तु शिलाघर्षे भूमिर्वा सप्त शुद्धये | इष्टिका च सुधा चैव प्रादेशमवटं त्यजेत् || ६० || आवाहनार्घ्यपात्रेषु स्नाने चाचमने तथा | निवेद्य विसर्जने चैव वारिसप्तसु योजयेत् || ६१ || पूजाचक्रं प्रवक्ष्यामि यथावदनुपूर्वशः | स्नानाचार्यो फणीकर्मी समयी समयाधिपः || ६२ || देशाधिपस्वदेशी च सप्तैते चक्रनायकः | पञ्चवक्त्रसमायुक्तं सप्तजिह्वा विराजितम् || ६३ || हिरण्या कनका रक्ता कृष्णा तदनु सुप्रभा | अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः || ६४ || प्. १०७) ऊर्ध्वे स्तिस्रस्थितास्तिस्रः शेषाः प्रागादितः क्रमात् | व्रतांगान् संप्रवक्ष्यामि यथावदनुपूर्वशः || ६५ || मेखला दन्तकाष्ठञ्च अजिनंत्र्यायुषं तथा | संध्यामग्ने रूपासञ्च भिक्षां वै सप्तमं विदुः || ६६ || मेखलादीनि सप्तैते ब्रह्मचारी समाचरेत् | नियन्तृकाणि दृष्टाणि दीक्षाकाले वरानने || ६७ || भूतेशं पाशुपत्यञ्च गणांश्चैव गणेश्वरम् | उन्मत्तकोसिधानञ्च व्रतेशं सप्तमं स्मृतम् || ६८ || सप्तैतानि च दृष्टाणि व्रतानि ब्रह्मचारिणाम् | अष्टका पर्वणि श्राद्धं श्रावण्यां श्रावणी तथा || ६९ || चैत्री चाश्वयुजी ज्ञेय सप्तैते पाकयज्ञकाः | आधेयञ्चाग्निहोत्रञ्च दर्शं चैव ततः परम् || ७० || पौर्णमासि तथा ज्ञेय चातुर्मास्यं तथैव च | पशुबन्धः समुद्दिष्ट सौत्रामाणिरितः परम् || ७१ || हविर्यज्ञः समाख्यातः सप्तैते पावन स्मृताः | अग्निष्टोमममान्याग्नि कार्ये षोडशकं स्मृतः || ७२ || वाजपेयातिरात्रञ्च अप्तोर्यामस्तु सप्तमः | सोमयज्ञाः समाख्यात दीक्षाकाले विशोधयेत् || ७३ || इह सप्त पदार्था स्युः जीवाजीवस्त्रयस्त्रयः | संवरे निर्जरश्चैव बन्धमोक्षावुभावपि || ७४ || स्याद्वादलाञ्छितश्चैव सर्वेनैकान्ति तत्वतः || ७४ || || इति सप्तम वर्गः || || अथ अष्टमवर्गः || समलिंगं वर्तमानञ्च शैवाधिक्यञ्च स्वस्तिकम् | सर्वतो भद्रलिङ्गञ्च सर्वदेशिकमेव च || १ || धारालिङ्गं मुखलिङ्गञ्च लिङ्गमष्टविधं भवेत् | पीठनामानि वक्ष्यंते सांपृतं ते शचीपते || २ || प्रथमा तु कलानाम द्वितीया च पयोधरम् | तृतीया तु भवेद्वापि चतुर्थी वज्रसंज्ञिता || ३ || इन्द्राख्यः पञ्चमी ख्यात षष्ठा चैवामृता भवेत् | संवर्तः सप्तमी केश नान्दिकाख्या तु चाष्टमी || ४ || लिङ्गमानञ्च गर्भञ्च द्वारस्तम्भञ्च तालकम् | हस्ताङ्गुलञ्च कर्तारस्त्वष्टधा दीर्घमुच्यते || ५ || आचार्यः शिल्पिकर्तॄणां इष्टमानेन कारयेत् | प्. १०९) सर्वावयवदृश्यत्वात् प्रतिमाणिति चोच्यते || ६ || यत्र या स्थापिता धाम्नि प्रतिमास्तत्र कल्पिताः | द्वारतः पादतो वापि मानार्था परिकल्पयेत् || ७ || बेरोत्सेधगुणांशे तु व्योमांशमिदमासनम् | रत्नलिङ्गेष्ठभेदं स्यात् लोहजं च तथैव च || ८ || माणिक्कञ्च प्रवालञ्च वैडूर्यं स्फटिकं तथा | वज्रं मरतकं नीलं पुष्यरागन्तु रत्नजम् || ९ || माणिक्कं श्रीप्रदं ज्ञेयं प्रवालं वश्यदं भवेत् | वैडूर्यं पुत्रसंसिध्यै स्फटिकं सर्वसिद्धिदम् || १० || धनधान्यप्रदं नीलं पुष्यरागन्तु भोगदम् | आकर्षणं स्यान्वज्राख्यं पुष्टिं स्यान्मरतकं तथा || ११ || मौक्तिकं सर्वसिद्धिः स्यात् रत्नजानां फलं भवेत् | अंगुलादिविधस्त्यन्तं कुर्याल्लिङ्गन्तु रत्नजम् || १२ || आयामसदृशं नाहं शिरोद्वर्तन संयुतम् | स्वप्रमाणेन कर्तव्यं रत्नलिङ्गस्य पीठिका || १३ || एवं रत्नजमाख्यातं लोहजं लिङ्गमुच्यते | सौवर्णं रजतं ताम्रं कांस्यं चैवारकूटकम् || १४ || प्. ११०) अयसं सीसकञ्चैव त्रपुकं चैव लोहजम् | सौवर्णं श्रीप्रदं ज्ञेयं रजतं राजसिद्धिदम् || १५ || ताम्रं पुत्रप्रदं चैव विद्वेषं कांस्यमेव च | उच्चाटनं द्वारकूटं क्षपाकरमथायसम् || १६ || सीसकं रोगहरणं त्रिपुरायुष्यवर्धनम् | अनन्तश्चैव सूक्ष्मश्च शिवोक्तमेकनेत्रकः || १७ || एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः | अनन्तादि शिखण्ड्यन्ता नष्टविद्येश्वरान्यजेत् || १८ || भवश्शर्व तथेशानः पशुपत्युग्रकौ यथा | रुद्रभीमो महादेवः कीर्तितास्त्वष्टमूर्तयः || १९ || स्थानेष्वेतेषु ये रुद्रा प्यायन्ति प्रणमंति च | तेषामष्टतनुर्देवो ददाति परमं पदम् || २० || सूर्यो जलं दही वायुर्वह्निराकाशमेव च | दीक्षितो ब्राह्मणश्चन्द्र इत्येते चाष्टमूर्तयः || २१ || शब्दस्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः | बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् || २२ || पुरी मूर्तौ भूतमात्रे खेन्तश्च गुणकारणम् | कलादिकञ्च मायेद्वे तनुवर्गाष्टकामिका || २३ || प्. १११) अथात्मैकगुणानष्टौ प्रवक्ष्यामि समासतः | दया वै सर्वभूतेषु क्षान्तिश्च अनसूयता || २४ || शौचं चैव अनायासो मङ्गल्यञ्च ततः परम् | अकार्पण्या स्पृहाश्चैव अष्टावात्मगुणा स्मृताः || २५ || शिष्यान् सुसमयान्ब्रूयात् देवदेवस्य चाग्रतः | शिवशास्त्रमपि त्वं हि दीक्षितो प्रविशेत्सदा || २६ || आचार्य ज्येष्ठयेश्च्छायां लिङ्गच्छायां न लङ्घयेत् | तथेश्वरविमानस्य छायां चैव न लंघयेत् || २७ || नार्या दीक्षा विना भार्यो योषिद्भिर्नैव संगमम् | निर्माल्यन्तु न भुञ्जीत शिवभक्तान्न निन्दयेत् || २८ || इत्यष्टौ समयानेतान् दीक्षितस्य प्रकाशयेत् | अथ बुद्धेर्विकासोऽथ सुधर्मेणानुदीयते || २९ || यत् ज्ञानञ्च वैराग्यं ऐश्वर्यञ्च तथा परम् | अधर्मश्च तथा ज्ञानमवैराग्यमनैश्वरम् || ३० || भोक्तुं भोगाभिलाषेण बुद्धिरष्टगुणेरिताः | अणोरध्यवसायेन प्रयुक्ताऽध्यवसायिनी || ३१ || लोकस्य व्यवहारार्थं मृतस्थाल्यादयोरथ | वस्तुनिश्चाप्य भेदोपि व्यक्तिभेदात्पृथक् पृथक् || ३२ || प्. ११२) अमरेशश्च प्रभासश्च नैमिशः पुष्करस्तथा | आषाढी दण्डिमुण्डी च भारभौती भवान्तिकः || ३३ || लकुलीशश्च विख्यात गुह्याष्टकमुदाहृतम् | श्रीपर्वतो हरिश्चन्द्रो जप्यश्चार्द्राति केश्वरः || २४ || मध्यमेशो महाकालो केदारो भैरवस्तथा | एतद्गुह्यादि गुह्यञ्चाप्यष्टकं परिकीर्तितम् || ३५ || गया चैव तु कुरुक्षेत्रं नखालं नखलं तथा | विमलश्चाष्टहासञ्च माहेन्द्रं भीममष्टकम् || ३६ || अति गुह्याष्टकं नाम सर्वपापप्रमोचनम् | छगलण्डद्विरण्डञ्च माकोटमण्डलेश्वरम् || ३७ || कालाञ्जरश्शंकुकर्ण स्थूलेश्वर स्थलेश्वरः | पवित्राष्टकमित्येते महपुण्यविवर्धनम् || ३८ || वस्त्रपादो रुद्रकोटि रविमुक्तो महालयः | गोकर्णो भद्रकर्णश्च स्वर्णाक्षश्चाथ दीप्तिमान् || ३९ || स्थाण्वीश्वरञ्च विख्याता त्रिषु लोकेषु विश्रुतः | स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेत्रं महोदयम् || ४० || अतिगुह्याष्टका रुद्रास्त्विति गुह्याष्टकास्तथा | गुह्याद्गुह्याष्टकश्चैव पवित्राष्टक एव च || ४१ || स्थाण्.वष्टकाश्च पञ्चैते नियोद्भूमि वासिनः |? अनुग्रहाय लोकानां लिङ्गभूतां प्रतिष्ठिताः || ४२ || तेषामेव समीपस्थं यद्यत्तोयं षडानन | तत्तीर्थं परमं पुण्यं तत्र स्नात्वा शिवं व्रजेत् || ४३ || रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत् | अत्र यान्ति मृतास्सर्वे रुद्रस्य परमं पदम् || ४४ || पञ्चाष्टकमिदं ज्ञेयं रुद्रक्षेत्रस्य लक्षणम् | द्यानाद्यापथं कूपं उद्यानं दैवतालयम् || ४५ || स्थानेष्वेतेषु यः कुर्यात् सोऽक्षयं फलमाप्नुयात् | अष्टा षष्टिमहाक्षेत्रं स्वयंभूस्थानं विधीयते || ४६ || देवालयं प्रभाञ्चैव सभास्थाने मठं तथा | तपस्समाधिजपतां देवानामर्चन्तु यत् || ४७ || अक्षययं फलमाप्नोति नात्रकार्या विचारणा | विवाहमष्टधा प्रोक्तं शिवेन परमात्मना || ४८ || ब्राह्मञ्च दैविकञ्चैव प्राजापत्यं तथार्षकम् | पञ्चमं त्त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा || ४९ || पैशाचं चाष्टधा ज्ञेयं उच्यन्ते तानि वै बुधाः | वयसो वृत्तिसपन्न वृत्तारुपाहि (संपदां) जान्यजां || ५० || प्. ११४) कन्यां दत्वा समाहूय गोभूमि स हिरण्यकाम् | तद्ब्रह्ममिति निर्दिष्टं विवाहेषूत्तमं स्मृतम् || ५१ || यज्ञेषु ऋत्विजश्चैव कन्यादानन्तु दैविकम् | विप्रस्य वसुशीलस्य विवाहापेक्षितस्य च || ५२ || होमकर्म स्वयं कृत्वा वस्त्राभरणकन्निकाम् | विधिपूर्वन्तु यद्दत्तं प्राजापत्यमिति स्मृतम् || ५३ || स्वरूपं कन्यकां चैव दत्वा गोमिथुनद्वयम् | अथ गोमिथुनैकं वा विवाहमार्षकं स्मृतम् || ५४ || आरोप्या भरणं कन्यां याच्य माता मुहुर्मुहुः | धनं दत्वा तु बन्धुभ्यः कन्यासंग्रहणन्तु यत् || ५५ || तथा सुरमिति ज्ञेयं विद्वद्भिरुदितं मतम् | उभयोरपि संवादे स्त्रीपुंसौ यदि रागतः || ५६ || दानं तस्यैवमित्युक्तं गान्धर्वमिति पठ्यते | कृत्वा युद्धमहद्घोरं वयवन्दनताटनैः || ५७ || अपहृत्य बलात्कन्यां रुदन्तीं राक्षसंत्विदम् | कन्यां सुप्तां प्रमत्ताञ्च चौर्यादपहृतन्तु यत् || ५८ || पैशाचमिति (विज्ञेयं) प्राक् पञ्चोदकपूर्वकम् (ख्यातं) | तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः || ५९ || प्. ११५) कर्तव्यमासुरं वापि त्रीणि चान्यानि वर्जयेत् | गर्भं पुंसवनं चैव सीमन्तं जातकर्म च || ६० || नामनिष्क्रमणं चैव अन्नंप्राशनचौलकौ | एतैर्निवृत्तितो देवी ततस्वं जायते द्विजः || ६१ || पृथक् तन्त्रेण वा कार्यं अष्टाङ्गं देशिकोत्तमः | मेदिनी संग्रहं बालस्थापनं प्रथमेष्टिका || ६२ || गर्भमूर्धेष्टका धाम लिङ्गसंस्थापनं तथा | संप्रोक्षणं क्रमेणैव चाष्टाङ्गमिति कीर्तितम् || ६३ || पाद्यमाचमनं चार्घ्यं गन्धपुष्पञ्च धूपकम् | दीपञ्चाथ निवेद्यञ्च अष्टाङ्गं संप्रकीर्तितम् || ६४ || अष्टाङ्गेन समायुक्तं पूजयेत्परमेश्वरम् | आपक्षीर कुशाग्राणि तण्डुलास्समनस्तिलाः || ६५ || अर्घ्योष्टाङ्गमिति प्रोक्तं यवैस्सिद्धर्थकैस्सह | आवाहनार्घ्य पात्रेषु स्नाने धूपे विलेपने || ६६ || नैवेद्ये च विसर्गे च पुष्पमष्टसु योजयेत् | अर्कपङ्कजविल्वञ्च नंद्यावर्तञ्च पाटली || ६७ || करवीरं चंपकञ्चैव नीलोत्पलमठाष्टकम् | मकुटे मूर्ध्नि कण्ठे च हृदये नाभिगुह्यके || ६८ || प्. ११६) जानुके पादुके चैव अष्टपुष्पं तथार्चयेत् | आसनं मूर्तिमूलाङ्गैः नेत्रहीनाष्टपुष्पिका || ६९ || दरिद्राणामनाथानां बालस्त्रीवालिशेषु च | भोगीनां व्याधितुष्टानां तथा ध्यानार्पितात्मनाम् || ७० || शिवशास्त्रानुरक्तानां नानासिद्धिहितात्मनाम् | अनुरक्तविरक्तानां कथिताऽष्टपुष्पिका || ७१ || निर्माल्यो वासनारम्भे स्नानारम्भे तदन्तके | धूपकाले हविष्यादौ हविष्यान्ते तथैव च || ७२ || नृत्तोत्सवान्ते नृत्तान्ते घण्टामष्टसु ताडयेत् | रुद्रक्षेत्रे हृदा नद्यां कुलिरे तु स केहले || ७३ || वृषस्यैव तु शृङ्गे तु गजदन्तेऽष्टमृद्भवेत् | घोषो खस्वनश्शब्द स्फोटो नादो ध्वनिस्तथा || ७४ || झंकारोर्ध्वकृतिश्चैव शब्द एवाष्टमस्मृतः | प्रत्ययानां तुलादीनां अष्टकं परिकीर्तितम् || ७५ || तुलानापो विषं कोशं तप्तमाषस्ततः परम् | तण्डुलानुपदश्चेति दिव्यानामष्टकं क्रमात् || ७६ || शिवालयेषु सर्वेषु दुर्गासूर्यालयेषु च | विनायकगुहस्थान नदीमध्येषु तीरयोः || ७७ || प्. ११७) तटाकतीरे वा कुर्यात् नृपब्राह्मणसन्निधौ | सर्वेषामपि कालस्य द्वारसूर्यादि वारयोः || ७८ || यमनियमासनं चैव प्राणायाममतः परम् | प्रत्याहारस्ततो ध्यानं धारणा च समाधिकम् || ७९ || अष्टांगमिति विज्ञेयं योगीनां योगसाधनम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्मता || ८० || शौचसन्तोदकं तत्र तपस्वाध्यायमेव च | ईश्वरप्रणिधानञ्च नियमं पञ्चधा भवेत् || ८१ || गोमुखं स्वस्तिकादीनि आसीनं परिकीर्तितम् | कृत्वा चैवकमेतेषां ततो योगं समाचरेत् || ८२ || योगार्थं तस्य पूर्वे तु प्राणायामत्रयं कुरु | रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं तथा || ८३ || कुंभकन्तु निरोधेन प्रणवेनाभ्यसे त्रयम् | इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः || ८४ || यावत्तावत्स्थितिर्भूतः प्रत्याहारस्स उच्यते | आधारेषु च संकल्प्य यथा वस्तु स्वरूपकम् || ८५ || आधारे धारणं प्रोक्तं आधेयन्तु समाधिकम् | योगाष्टाङ्गो विजानीयात् सर्वदुःखनिवारणम् || ८६ || प्. ११८) अणिमा महिमा चैव लघिमा गरिमास्तथा | प्राकाम्यञ्च तथेशित्वं वशित्वं शिवतत्वतः || ८७ || यथेस्तयत्यजेत्स्थूलं अणुमात्रं शरीरतः | अणुमात्रं लभेद्यस्मात् अणिमेत्यभिधीयते || ८८ || सहस्त्रैव यथा गत्वा मूलवर्णप्रदेशकम् | स्वेच्छया लभते यस्मात् तस्मात्सा लघिमा स्मृताः || ८९ || भूमौ वनोपमी कृत्य पूज्यते स्तोत्रवासिभिः | सर्वत्र पूज्यते यस्मात् तस्मात्सा महिमा भवेत् || ९० || सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता | प्राकाम्यन्तु शरीरेषु प्राकाम्यन्तु प्रवेशिता || ९१ || सूर्यादिभवनप्राप्तिः तदीशित्वमुदाहृतम् | यदीशत्वा तु तत्रैव तद्वीशित्वं विधीयते || ९२ || शिवसायुज्यसामीप्यात् तच्छिवत्वमिति स्मृतम् | अणिमाद्यष्टमासिद्धिं लभेद्योगी विशेषतः || ९३ || सर्वज्ञत्वं विभुत्वञ्च जगत्कर्तृत्वमेव च | निर्मलत्वञ्च नित्यत्वं सर्वानुग्राहकं तथा || ९४ || ऐश्वर्यत्वं प्रभुत्वञ्च शिवस्याष्टगुणास्तथा || ९४ || || इति अष्टमवर्गः || प्. ११९) || अथ नवमवर्गः || निष्कलन्तु चतुर्भेदं सकलन्तु तथा भवेत् | कलाकलद्विमिश्रं यत् तस्मात्सकल निष्कलम् || १ || पुष्पन्तु सकलं विद्यात् गन्धस्तत्र तु निष्कलम् | परं निष्कलमित्युक्तं अपरं सकलं भवेत् || २ || परापरं तथा प्रोक्तं सकलं निष्कलं भवेत् | निष्कलन्तु लयस्थानं सकलंत्वधिकारकम् || ३ || उभयं भोगमेवं स्याल्लयभोगाधिकारवान् | परात्परं यथा ज्ञात्वा स मुक्ताः पाशहा भवेत् || ४ || नवतत्वमिदं प्रोक्तं भक्तानां मुक्तिदायकम् | शिवश्शक्तिर्नादबिन्दुः सादाख्येश्वररुद्रकाः || ५ || विष्णुर्पितामहस्तेषां एकैकोद्भवमुच्यते | शिवतत्वात्सहस्रांशात् शक्तितत्वसमुद्भवः || ६ || तस्माच्चैव सहस्रांशात् नादतत्वसमुद्भवः | तस्माच्चैव सहस्रांशात् बिन्दुतत्वसमुद्भवः || ७ || तस्माद्दशैकभागेन तत्वं सादाख्यमुद्भवम् | तस्माद्दशैकभागेन ईश्वरस्य समुद्भवम् || ८ || प्. १२०) ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते | ईश्वरस्य तु कोट्यंशात् विष्णोश्चैव समुद्भुवः || ९ || ईश्वरस्य तु कोट्यंशात् ब्रह्मणश्च समुद्भवः | ईश्वरस्सृष्टिसंहार रक्षणेषु प्रभुस्मृतः || १० || ब्रह्मणस्सर्वमुत्पन्नं विष्णुना सर्वपालनम् | जगतां सर्वसंहारं शिवेन परमेष्ठिनः || ११ || यद्वत् शंभोः समुत्पन्ना तद्वत् शक्तेः समुद्भवः | आधारं प्रथमं प्रोक्तं स्वाधिष्ठां द्वितीयकम् || १२ || तृतीयं मणिपूरं स्यात् चतुर्थन्तु अनाहकम् | पञ्चमन्तु विशुद्धाख्यं कण्ठमूले तु योजयेत् || १३ || क्रिया पद्मं तालुमूले दिव्यामृतयुतः परम् | कोदण्डद्वयमध्यस्यात् सप्तमं ज्ञानबिंबकम् || १४ || ललाटं चाष्टमं प्रोक्तं चन्द्रबिंबे द्वयान्वितम् | तदूर्ध्वे ब्रह्मरन्ध्रं स्यात् नवाधारमिहोच्यते || १५ || नवाधारस्थितान् देवान् यावदावनुपूर्वशः | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || १६ || शान्त्यतीता क्रियाशक्ति ज्ञानशक्तिस्तथैव च | इच्छाशक्तिः पराशक्ति नवधारेषु भावयेत् || १७ || प्. १२१) आत्मतत्वञ्च विद्याञ्च शिवतत्वमनन्तरम् | महेश्वरञ्च सादाख्यं बिन्दुञ्च तदनन्तरम् || १८ || नादन्तु शक्तिदान्तन्तु क्रमादेतानि भावयेत् | मरीची भृग्वंगिरसः पुलस्त्य पुलहक्रतुः || १९ || दक्षश्चात्त्रिवसिष्ठश्च सो सृजद्योगविद्यया | नवब्राह्मण इत्येतान् पुराणेषु वदन्ति हि || २० || अथ पूर्वोक्त संख्यानां पावकानां विशेषतः | नामरूपञ्च वै तेषां पयोगासनमेव च || २१ || क्रमाद्वक्ष्ये महासेन नवधा तु प्रजा(य)पते | शिवाग्निं प्रथमं विद्यात् वृद्ध्याग्निञ्च द्वितीयकम् || २२ || तृतीयं गार्हपत्यन्तु तुर्यमाहवनीयकम् | पञ्चमं दक्षिणाग्निन्तु यौवनाग्निन्तु षष्ठमम् || २३ || सप्तमं केवलाग्निन्तु बालाग्निञ्चाष्टमो भवेत् | सामान्याग्निञ्च नवमं अग्निभेदाः प्रकीर्तिताः || २४ || नामभेदं समाकार्यमंशुरूपं यथाक्रमम् | सदाशिवस्य हृदयं शिवशक्ति स्वरूपकम् || २५ || उभयोरन्तरं नास्ति वायुरंबरयोरिव | शिवशक्तिपरा योगात् माताशक्तिपितामहः || २६ || प्. १२२) तस्मात्सर्वप्रयत्नेन अग्निरुद्भवमुच्यते | प्रतिष्ठोत्सवकालेषु दीक्षाकाले तथैव च || २७ || बालाग्निरुत्सवार्थन्तु प्रतिष्ठार्थन्तु यौवनम् | नित्याग्निं योजयेद्वृद्धमन्यत्रापि यजेद्बुधः || २८ || विवाहादि शुभे कार्ये गार्हपत्यमुदाहृतम् | पितृयुक्तेषु कृत्येषु दक्षिणाग्निं प्रकल्पयेत् || २९ || देवकार्येषु सर्वेषु भवेदाहवनीयकम् | शैवाग्निं कल्पयेद्विप्र शृणु तस्मिन् समाहितः || ३० || पञ्चवक्त्रयुतं रक्तं सप्त जिह्वा विराजितम् | दशहस्तं त्रिणेत्रञ्च सर्वाभरणभूषितम् || ३१ || रक्तवस्त्रपरीधानं पंकजोपरि संस्थितम् | बद्धपद्मासनासीनं दशायुध समन्वितम् || ३२ || कनका बहुरुपा च अतिरिक्ता ततः परम् | सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी || ३३ || ऊर्ध्ववक्त्रे स्थितस्तिस्रो शेषा प्रागादि दिक् स्थिताः | देवको पितृया गार्हपत्यं स्याद्दक्षिणानलम् || ३४ || ततस्स्वाहवनीयं हि तेषां मन्त्रप्रकीर्तिताः | रक्तवर्णद्विनेत्रञ्च एकवक्त्रं चतुर्भुजम् || ३५ || प्. १२३) शुक्लवस्त्रसमायुक्तं सर्वाभरणभूषितम् | त्रिपादयुक्तं तेष्वेकं कुञ्चितोर्ध्व व्यवस्थितम् || ३६ || दक्षिणाभयहस्तञ्च वामे वरदसंयुतम् | सृक्स्रुवौ द्वितयं हस्ते धारणन्तु प्रशस्यते || ३७ || मेषारूढोग्ररूपं स्यात् ससूक्तिसहितास्तथा | एवं गार्हपत्याग्नेः स्वरूपं कथ्यते बुधः || ३८ || वक्ष्येत्वाहवनीयाग्नि रूपमुद्भवपूर्वकम् | दक्षिणाग्ने सहस्रांशात् उद्भूतस्य चतुर्मुख || ३९ || द्विमुखञ्च त्रिपादञ्च नासिकाद्वयसंयुतम् | त्रिमेखलसमायुक्तं षण्णेत्रं पिङ्गलप्रभम् || ४० || चतुःशृङ्गवृषारूढं बालार्कसमकेशयुक् | सप्तजिह्वा समायुक्तं दक्षवामक्रमेण तु || ४१ || सव्यवक्त्रे चतुर्जिह्व वामवक्त्रे त्रयं तथा | सव्यभागे वेदहस्तं अग्निजिह्वापसव्यके || ४२ || सृक्स्रुवं चाक्षमाला च स शक्तिः सव्यहस्तके | तोमरं व्यजनञ्चैव घृतपात्रन्तु वामके || ४३ || एवंत्त्वाहवनीयाग्नेः दक्षिणाग्नेरथोच्यते | द्विमुखं षड्भुजं सूत्रं सितञ्चासितवक्त्रकम् || ४४ || प्. १२४) जटामकुटसंयुक्तं षण्णेत्रं पिङ्गलप्रभम् | रौद्रदृष्टं महाकायं किञ्चित्प्रहसिताननम् || ४५ || सव्येऽभयं सृजं खड्गे धारितञ्चाभयङ्करम् | वरदं कूर्चकापालं वामांशे धारिणं पुनः || ४६ || उक्षारूढं त्रिपादन्तु स्वाहासहितरूपकम् | गार्हपत्यो गृहस्थानां पितॄणां दक्षिणानलम् || ४७ || दैवैस्त्वाहनीयन्तु चान्येषामपि संस्थितम् | बालश्च यौवनो वृद्धः क्रमेण परिकीर्तिताः || ४८ || दक्षिणाग्निस्वरूपन्तु यौवनाग्निमथोच्यते | दक्षिणाग्नेः सहस्रांशात् केवलाग्निसमुद्भवः || ४९ || द्विनेत्रं द्विभुजं दण्डो वरदाभयसंयुतम् | शुक्लवस्त्रपरीधानं श्वेतवर्णसमद्युतिः || ५० || केवलाग्निरिति ख्यातो बालाग्निश्चाथ कथ्यते | केवलाग्ने सहस्रांशात् महानस समुद्भवः || ५१ || एकवक्त्रो द्विबाहुश्च मेषारूढवृषन्तु वा | रक्तांबरसमायुक्त स्त्रिशिखा च समन्वितः || ५२ || चतुशृङ्गं त्रिणेत्रञ्च स्रुवं स्याद्दक्षिणे करे | प्रसारितकरोपेता सिताङ्गो दर्विहस्तकः || ५३ || प्. १२५) महानसमिति ख्यातो व्यक्तरूपं पितामह | शृङ्गारहासकरुण वीररौद्रभयानकः || ५४ || बीभत्साहुतशान्ताश्च नवनाट्यरसास्तथा | शृङ्गारो जायते हास्ये रौद्राश्च करुणारसः || ५५ || वीराच्चैवोद्भुतो ज्ञेयो बीभत्सा च भयानकः | शान्ता स्वतन्त्र इत्युक्तो रसभावस्तु नर्तकैः || ५६ || विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः | आनीयमानस्वाद्यत्वं स्थायीभावो रसस्मृतः || ५७ || आनन्दताण्डवं पूर्वं कालीनृत्तमतः परम् | संध्याताण्डवसंज्ञन्तु मुनिग्रहणमतः परम् || ५८ || गौरीताण्डवसंज्ञन्तु ततः संहारताण्डवम् | त्रिपुरताण्डवं पश्चात् भुजङ्गललितं तथा || ५९ || भिक्षाटनं ततः पश्चात् इत्येते नव ताण्डवम् | निर्माल्योद्वासनारम्भे स्नानारंभे तदन्तके || ६० || धूपकाले हविष्यादौ अन्त्ये नित्योत्सवान्तिके | नृत्तान्ते च महाघण्टां नवकाले तु ताडयेत् || ६१ || || इति नवमः सर्गः || प्. १२६) || अथ दशम वर्गः || दमिदाज्यचरुं लाजान् सर्षपांश्च यवस्तिलान् | वेणुमुद्गश्च शालिश्च दशद्रव्यमिहोच्यते || १ || शमी वा सद्यमन्त्रेण आज्यं वामेन (जू)यते (भू) इ पा | अघोरेण चरुं हुत्वा लाजं च पुरुषेण तु || २ || सर्षपन्त्वीशमन्त्रेण यवं हृदयमन्त्रतः | तिलान्वै शिखया हुत्वा वैणवं कवचेन तु || ३ || मुद्गन्तु नेत्रमन्त्रेण शालिमस्त्रेण होमयेत् | अष्टोत्तरशतं वापि पञ्चाशत्पञ्चविंशतिः || ४ || हुत्वा चैव समायुक्तं द्रव्यं प्रति विशेषतः | द्रव्यान्ते चैव मन्त्रान्ते व्याहृतिं जुहुयाद्बुधः || ५ || कुर्यादध्ययनं तत्र चत्वारो वेदपारगः | प्रासादमन्त्रं जप्त्वा तु स्तोत्रं जप्त्वा विशेषतः || ६ || समिदर्काङ्गुलीनश्च कन्याङ्गुलन्तु मध्यमम् | कलाङ्गुलोत्तमं प्रोक्तं समिदायामलक्षणम् || ७ || कत्वं कर्षार्धकं चैव कर्षद्वित्रयमेव च | उत्तमादि क्रमेणैव घृताहुतिमथाचरेत् || ८ || प्. १२७) स्रुवपूर्णप्रमाणेन व्याहृतिं जुहुयात्ततः | स्रुगावटेन संपूर्णं पूर्णाहुतिमथाचरेत् || ९ || ततः पूर्णाहुतिं दद्यात् शिवमन्त्रेण देशिकः | ततो वह्निं समभ्यर्च्य परिषिच्यार्थमापयेत् || १० || प्रधानहोमस्वाचार्यो विधिना होममाचरेत् | तस्य पुत्रास्तु शिष्यो वा कुर्यादन्यत्र होमयेत् || ११ || होमान्ते तु हविर्दध्यात् होमादाहुतिभिर्भवेत् | प्राणोपानश्च व्यानश्च उदानस्समनाय च || १२ || नागः कूर्मः कृकश्चैव देवदत्तधनञ्जयः | दश वायुरिति ज्ञेय तथा नाडी दश शृणु || १३ || इडा च पिङ्गला चैव सुषुम्ना च तथैव च | गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी || १४ || अलंपूषा कुहुश्चैव शङ्खिनी दशनाडिका | इत्येते सर्वनाडीनां प्रधाना दश नाडयः || १५ || इडादिनाड्यस्तत्र शरीरे व्यावृतस्तथा | नाडिमध्ये ततो वायुः सञ्चारे क्रमशस्तथा || १६ || कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तितः | अष्टवर्तुलमेवन्तु कुण्डली नागसुप्तवत् || १७ || प्. १२८) नाभेरूर्ध्वं भवेत्पद्मं तटाकाब्जन्तु पूर्ववत् | तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः || १८ || तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निमण्डलम् | तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभः || १९ || वामपार्श्वे इडानाडी पिङ्गला दक्षनाडिका | सुषुम्ना मध्यमे नाड्यां यावदङ्गुष्ठकास्तथा || २० || गान्धारी दक्षिणे नेत्रे हस्तिजिह्वा च वामके | पूषा वै दक्षिणे कर्णे यशस्वी वामकर्णके || २१ || अलंपूषा तु मेढ्रान्तं कुहुश्चैव गुदे स्थितः | शङ्खिनी नाडिमध्ये तु दशनाडी व्यवस्थितः || २२ || अशेषा नाड्यस्सर्व चक्रवद्व्यावृतास्तनुम् | चक्रवद्व्यावृतो यस्मात् नाडी चक्री मिहोच्यते || २३ || शूलं परशुहस्तञ्च खड्गपाशं तथोत्पलम् | घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधः || २४ || एकतालप्रमाणन्तु भूतानामुपरि स्थितम् | भूतावभूतमानेन कारयेत्सर्वमानकैः || २५ || यद्वर्णमायुधस्योक्तं तद्वर्णं नाम तद्भवेत् | एवं दशायुधं प्रोक्तं सदाशिवकरे धृतम् || २६ || प्. १२९) सर्वमंगलकार्येषु उत्सवे यानकर्मणि | पूजयेत्तु विशेषेण लोकपालायुधं तथा || २७ || अथा हिं सादया सत्यं तिस्रश्चेन्द्रियनिग्रहम् | दानमित्यातपो ध्यानं दशकं धर्म लक्षणम् || २८ || देहपाशनतो वक्ष्ये * * * * * * * * | * * * * * * * * * * * * * * * * || अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्मता | अक्रोधे गुरुशुश्रूष शौचं सन्तोषमार्जवम् || २९ || एवं दशविधो धर्म येनोक्तो धर्मकृत्तमैः | गोभूतिलहिरण्याज्य वासोधान्यगुलानि च || ३० || रौप्यं लवणमित्याहुर्दशधान्याननुक्रमात् | ज्ञानवैराग्यमैश्वर्यं तपस्सत्यं क्षमा धृतिः || ३१ || स्रष्टत्वमात्मसंयोज्य अधिष्ठातृत्वमेव च | अव्ययानि दशैतानि नित्यं तिष्ठति शंकरे || ३२ || दश दीक्षाविधानेन शिक्षाणामक्षसंभवः | स्नानभूतिप्रकाशेन साक्षान्मोक्षप्रकाशकम् || ३३ || प्. १३०) प्रथमं तत्वरूपाणि द्वितीयं तत्वदर्शनम् | तृतीयं तत्वशुद्धिञ्च चतुर्थं तत्वरूपकम् || ३४ || पञ्चममात्मसंदर्शं षष्ठमञ्चात्मशोधनम् | सप्तमं शिवरूपाणि अष्टमं शिवदर्शनम् || ३५ || नवमं शिवयोगञ्च दशमं शिवरूपकम् || ३६ || || इति दशमस्सर्गः || पुण्डरीकपुरवासि निगमज्ञानशिवयोगिशिष्यः निगमज्ञानदेव विरचितायां पर्यायमञ्जर्याख्या निघण्डुः संपूर्णः || ########### END OF FILE #######