#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00606 Uniform title: śivādvaitadarpaṇa Description: viraśaiva text Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Publisher : Publication year : Publication city : Hooli Publication country : India #################################################### शिवाद्वैतदर्पण श्रीशिवाभ्यां नमः | श्रीशिवाद्वैतदर्पणस्य विषयानुक्रमणिका | अथ प्रथमपरिच्छेदस्थविषयाः | अनुक्रम सऽऽन्ख्या विषयाः पृष्ठे पंक्तौ १ मऽऽन्गलाचरणं १ ७ २ स्वकीयगुरुपरम्परावर्णनं २ १ ३ ब्रह्मसूत्रनिर्माणकारणनिरूपणं ३ ९ ४ अथाऽतो ब्रह्मजिज्ञासा इति सूत्रार्थविचारः ३ १६ ५ सूत्रार्थविचारपूर्वकाधिकारिलक्षणकथनं ४ २ ६ जिज्ञासापदस्य विचारे लक्षणास्वीकारः ५ २ ७ सूत्रोक्तब्रह्मपदस्य घनलिऽऽन्गपर्यायार्थकत्वकथनं ६ २ ८ ब्रह्मणः स्वरूपलक्षणकथनं ६ ३ ९ जन्माद्यस्य यतः इति सूत्रोक्तब्रह्मलक्षणस्य स्पष्टीकरणं ६ ७ १० शक्तिशक्तिमतोर्धर्मधर्मिभावविवक्षणं ६ १९ ११ सच्चिदानन्दानां ब्रह्मधर्माणामनुगतैकशक्तिस्वरूपत्वकथनं ६ २० १२ ब्रह्मनिष्ठचिदचिद्रूपशक्तिद्वयस्यस्वरूपकथनं ८ २ १३ शक्तिविशिष्टब्रह्मणो जगज्जन्मादिनियामकत्वसमर्थनं ९ १ १४ ब्रह्मतन्निष्ठशक्त्योरुपादानभेदस्वीकारः १० १७ (२) १५ शक्तेः परतन्त्रवृत्तित्वकथनं ११ १ १६ शक्तिविशिष्टब्रह्मणः सच्छब्दवाच्यत्वकथनं १३ ४ १७ शक्तेः परिणामित्वनिरूपणं १३ ८ १८ विवर्तवादस्य खण्डनं १४ १ १९ जगतः सद्रूपत्वसमर्थनं १४ ९ २० असद्वा इत्यदिश्रुत्यर्थविचारः १४ ११ २१ परमतनिराकरणपूर्वकशक्तिविशिष्टपरशिवस्यैव- सर्वप्रपञ्चोपादानत्वप्रतिपादनं १६ १ २२ शक्तिविशिष्टपरब्रह्मणो जगदुभयकारणत्वनिरूपणं १७ १३ २३ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यार्थविचारपूर्वक- शक्तिविशिष्टपरशिवस्यैव जगदुभयकारत्वसमर्थनं १७ १४ २४ परशिवस्य परिणामित्वनिराकरणं १८ ६ २५ यदा तमः इति श्रुत्यर्थविचारपूर्वकब्रह्मनिष्ठप्रज्ञाशक्ति- स्वरूपनिरूपणं १८ ९ २६ अन्तर्यामिमहेश्वरतत्त्वनिरूपणं १९ ७ २७ रुद्रतत्वनिरूपणं १९ १३ २८ विष्णुतत्वनिरूपणं १९ १६ २९ चतुर्वक्त्रब्रह्मतत्वनिरूपणं २० २ ३० त्रिमूर्तीनां सृष्टिस्थितिलयकर्तृत्वसमर्थनं २० ७ ३१ शक्तिविशिष्टपरशिवस्य सर्वान्तर्यामित्वकथनं २० १० ३२ शक्तिविशिष्टपरशिवात् जगदुत्पत्तिकथनं २१ ६ (३) अथ द्वितीयपरिच्छेदस्थविषयाः | अनुक्रम सऽऽन्ख्या विषयाः पृष्ठे पंक्तौ १ जीवस्याऽऽन्गपर्यायवाचकत्वकथनं २२ ३ २ जीवस्य स्वरूपलक्षणविचारः २२ ४ ३ जीवानां शक्तिभेदेनानेकत्वकथनं २२ ११ ४ जीवपरिमाणप्रतिपादनपूर्वकतत्स्वरूपकथनं २२ १७ ५ जीवनिष्ठावरणशक्तिस्वरूपनिरूपणं २३ २ ६ कलादिपञ्चतत्वानां स्वरूपकथनं २३ ५ ७ कलादिपञ्चतत्वानां पञ्चकञ्चुकत्वस्वरूपकथनं २३ १३ ८ पञ्चकञ्चुकस्य कारणशरीरत्वकथनं २३ १५ ९ आनन्दमयकोशस्वरूपकथनं २३ १८ १० प्राज्ञवाचकजीवस्वरूपकथनं २३ १९ ११ जीवनिष्ठौन्मुख्यशक्तिस्वरूपनिरूपणं २४ १ १२ प्रकृतितत्वनिरूपणं २४ ४ १३ बुद्धितत्त्वनिरूपणं २४ ७ १४ मनस्तत्वनिरूपणं २४ ८ १५ अहऽऽन्कारतत्त्वनिरूपणं २४ ९ १६ पञ्चज्ञानेन्द्रियस्वरूपकथनं २४ १२ १७ पञ्चकर्मेन्द्रियस्वरूपकथनं २४ १७ १८ पञ्चतन्मात्रस्वरूपनिरूपणं २५ ३ १९ सूक्ष्मशरीरस्वरूपनिरूपणं २५ ९ (४) २० विज्ञानमय-मनोमय-प्राणमयकोशस्वरूपकथनं २५ १२ २१ सूक्ष्मशरीरविशिष्टजीवस्वरूपकथनं २५ १७ २२ पञ्चीकरणनिराकरणपूर्वकत्रिवृत्करणस्थापनं २६ ४ २३ ब्रह्माण्डोत्पत्तिकथनं २७ १२ २४ स्थूलशरीरनिरूपणपूर्वकतद्विशिष्टजीवस्वरूपकथनं २७ २० २५ तुरीयावस्थानिरूपणं २८ ४ २६ तुरीयावस्थाप्रपन्नपरशिवस्य सर्वपदवाच्यत्वसमर्थनं २८ ६ २७ चराचरप्रपञ्चस्य परशिवशरीरत्वकथनं ३२ २ २८ जीवोपाधिभूतस्थूलचिदचिद्रूपशक्तेः सम्बन्धभेदेन वैशिष्ट्यकथन ३४ १७ २९ मलत्रयनिरूपणं ३५ ४ ३० परिष्कृतजीवस्वरूपकथनं ३५ ११ अथ तृतीयपरिच्छेदस्थविषयाः| अनुक्रम सऽऽन्ख्या विषयाः पृष्ठे पंक्तौ १ शिवाद्वैतमित्यत्र विग्रहविचारः ३६ ५ २ शिवजीवयोरत्यन्तभेदनिरासपूर्वकभेदाभेदस्वरूपनिरूपणं ३६ १६ ३ कार्यकारणयोर्भेदाभेदनिरूपणं ३६ १८ ४ भेदाभेदबोधकश्रुतीनां शक्तिविशिष्टशिवाद्वैत- (५) सिद्धान्त एव समन्वयकथनं ३७ ७ ५ शरीरावच्छिन्नानवच्छिन्नरूपेणापि जीवब्रह्मणोर्भेदा- भेदस्वरूपकथनं ३८ १२ ६ परब्रह्मणः स्थ?शब्दवाच्यत्वकथनं ३९ ११ ७ स्थलशब्दवाच्यपरशिवस्य लिऽऽन्गपदवाच्यत्वकथनं ४० ६ ८ जीवस्याऽऽन्गपदवाच्यत्वकथनं ४० ११ ९ जीवस्य शिवभक्तिप्रभावेन श्रीगुरूपसरणक्रमनिरूपणं ४० १२ १० दीक्षात्रयस्वरूपकथनपूर्वकशिष्यस्य शिवाद्वैत- विद्योपदेशक्रमनिरूपणं ४१ ११ ११ लिऽऽन्गाऽऽन्गसामरस्यरहस्यप्रकारवर्णनं ४२ ११ १२ आचारलिऽऽन्गादिषड्विधलिऽऽन्गस्वरूपनिरूपणं ४२ १५ १३ भक्तादिषड्विधांगस्थलस्वरूपनिरूपणं ४३ १७ १४ लिऽऽन्गाऽऽन्गयोरुपास्योपासकत्वकथनं ४४ १२ १५ उपासनाबलेन भ्रमरकीटकन्यायवत् अऽऽन्गपदवाच्य- जीवस्य लिऽऽन्गस्वरूपत्वकथनं ४४ १४ १६ जीवस्य सर्वाऽऽन्गलिऽऽन्गमयत्वकथनं ४५ १ १७ लिऽऽन्गाऽऽन्गगतशक्तिभक्त्योस्तारतम्यनिरूपणं ४५ १० १८ इन्द्रियाणां लिऽऽन्गमुखत्वकथनं ४६ ८ १९ महालिऽऽन्गादिषड्विधलिऽऽन्गानां स्थाननिर्देशः ४६ २० २० लिऽऽन्गार्पणसद्भावकथनं ४८ ६ २१ जीवशरीरस्य मन्त्रलिंऽऽन्गरूपत्वनिरूपणं ४९ ९ (६) २२ प्रतिलोमपरिणामेन पृथिव्यादिपञ्चभूतानां मनसश्च भक्तादिषट्स्थलेषु लयस्वरूपनिरूपणं ४९ १७ २३ भक्तादिषट्स्थलानां आचारादिषड्विधलिऽऽन्गस्थलेषु लयस्वरूपनिरूपणं ५० २ २४ आचारलिऽऽन्गादिषड्विधलिंऽऽन्गस्थलानां घनलिऽऽन्गरूपपरब्रह्माणि लयस्वरूपनिरूपणं ५० १२ अथ चतुर्थपरिच्छेदस्थ विषयाः | अनुक्रम सऽऽन्ख्या विषयाः पृष्ठे पंक्तौ १ तत्त्वमसि इति महावाक्यस्य शक्यार्थलक्ष्यार्थबिचारः ५१ ३ २ सम्बन्धत्रयेण महावाक्यार्थसमन्वयनिरूपणं ५१ १७ ३ पदयोः सामानाधिकरण्यविचारः ५२ १ ४ पदार्थयोर्विशेषणविशेष्यभावसम्बन्धविचारः ५२ ११ ५ लक्ष्यलक्षणभावसम्बन्धनिरूपणं ५३ १८ ६ लक्षणपूर्वक?क्षणाकथनं ५४ १० ७ लक्षणात्रयकथनं ५४ ११ ८ जहल्लक्षणाविचारः ५४ १२ ९ अजहल्लक्षणाविचारः ५५ ४ १० जहदजहल्लक्षणाविचारः ५५ १७ (७) ११ तत्त्वमसि लिऽऽन्गाऽऽन्गसम्बन्ध इति वाक्ययोः समानार्थकत्वसमर्थनं ५६ ५ १२ तत्त्वमसि इति महावाक्यस्य स्तुतिपरत्वार्थ- वादत्वौपचारिकत्वविपर्ययत्वसंशयत्वादिनिराकरणं ५६ १३ १३ महावाक्यस्याखण्डार्थबोधकत्वकथनं ५६ २१ १४ अहंब्रह्मास्मि लिऽऽन्गाऽऽन्गसम्बन्ध इति वाक्ययोः समानार्थकत्वनिरूपणपूर्वकवाक्यार्थविचारः ५७ ७ १५ अहमादिपदानामन्तर्यामिणि शक्तिसद्भावनिरूपणं ५८ १४ १६ लक्षणास्वीकारावश्यकत्वकथनं ५९ १ १७ प्रज्ञानं ब्रह्म इति महावाक्यार्थविचारः ६० १ १८ अयमात्मा ब्रह्म इति महावाक्यार्थविचारः ६१ ७ १९ शक्तिविशिष्टाद्वैतसिद्धान्तस्वरूपवर्णनं ६२ ११ २० ग्रन्थकारस्य स्वकीयप्रशस्तिकथनपूर्वकग्रन्थसमाप्तिः ६३ १ श्रीशिवाभ्यां नमः अशुद्धशुद्धपत्रिका पृष्ठे पंक्तौ अशुद्धः शुद्धः २ १२ वचख्यापकः वचःख्यापकः ४ २ ब्रूयते ब्रूते ५ १ हेतो हेतोः १० ३ परशिस्य परशिवस्य २० ११ कालादि कलादि ६१ १४ चतुष्यात् चतुष्पात् श्रीशिवाभ्यां नमः अशुद्धशुद्धपत्रिका | नं० २ | पृष्ठे पंक्तौ अशुद्धः शुद्धः २३ ४ सूक्ष्मचिच्छक्ति सूक्ष्माचिच्छक्ति ३४ १३ स्थूलचेतना स्थूलाचेतना १० १ प्रदञ्च प्रपञ्च ३७ ६ च्छेदकतयोः च्छेदकयोः ५५ १४ तथाचोक्तं तथाच पृ० १) श्रीगणेशाय नमः| श्रीभगवत्पादशिवानुभवशिवाचार्यविरचितः शिवाद्वैतदर्पणः | अथ प्रथमपरिच्छेदः | ओं नमः श्रीगणेशाय | लोकानां सिद्धिहेतवे || प्रत्यूहव्यूहपाथोधि | सेतवे मूषकेतवे [ऽवृषकेतवेऽ इति पाठान्तरं|] || १ || नमः शिवाय शान्ताय | सच्चिदानन्दरूपिणे || षट्त्रिंशत्तत्त्वबीजाय | साम्बाय परमात्मने || २ || [श्लोकोऽयमधिको मुद्रितः |]पंचाननमुखोद्भूतान् | पंचाक्षरमनूपमान् || पंचसूत्रकृतो वन्दे | पंचाचार्यान् जगद्गुरून् || ३ || वेदव्यासं सूत्रकारं | चैतन्यं वृत्तिकारकं || भाष्यकृन्नीलकण्ठार्यं | आश्रयेऽभीष्टसिद्धये || ४ || पृ० २) गुरवे सर्वलोकानां | भिषजे भवरोगिणां || निधये सर्वविद्यानां | दक्षिणामूर्तये नमः || ५ || श्रीमतो दक्षिणामूर्तेः | गुरोः परंपरागतम् || पूवल्ली सिद्धचैतन्यं | वन्दे चैतन्यरूपिणं || ६ || तत्कराम्भोजसम्भूतं | शिवाचार्यशिरोमणिं || वन्दे वैशेषिकाचार्यं | शिवादित्ययतीश्वरं || ७ || तस्य हस्ताब्जसञ्जातं | षड्दर्शनसुधाकरं || विश्वेश्वरशिवाचार्यं | तं नमामि गुरुं परं || ८ || तस्य श्रीकरकञ्जात | सञ्जातं शिरयोगिनं || नीलकण्ठशिवाचार्यं | प्रणमामि जगद्गुरुं || ९ || यः शम्भोरपरावतारविभवः शैवागमस्थापकः || यो वै वेदचतुष्टयप्रथमसद्व्याख्यावचख्यापकः || यो वैयासिकसूत्रजालजलधौ भाष्यामृतोत्पादकः| स श्रीसद्गुरुनीलकण्ठयतिराड्जीयाज्जगच्चालकः || १० || निगमशिखरसिन्धौ स्वीयपाण्डित्यशैलो- न्मथनजनितभाष्याख्यां सुधां संवितीर्य || भवविषभयभीतान्प्राणिनोऽपूपुपद्यः | स जयति गुणसान्द्रो नीलकण्ठो यमीन्द्रः || ११ || दुर्वादिदर्वीकरनीलकण्ठस्तपः क्रियातर्पितनीलकण्ठः || शास्त्रार्थवादे कृतसिंहकण्ठो जीयात्स साक्षाद्भुवि नीलकण्ठः || १२ || कृपासमुद्रः खलु नीलकण्ठो भवाम्बुधौ मग्नजनोद्दिधीर्षुः || स्वनामधेयाऽऽन्कितभाष्यपोतन्निर्मातुमेवावततार भूमौ || १३ || पृ० ३) तत्स्थापितशिवाद्वैत भाष्यसिंहासनेश्वरम् || श्रीचिद्घनगुरुं वन्दे साक्षाच्चिद्घनरूपिणं || १४ || श्रितजनहृदयाब्जभास्करोऽसौ | कलुषविषद्रूपभेदने कुठारः || करकलितनिजात्मतत्त्वबोधः | स जयति चिद्घनदेवदेशिकेन्द्रः || १५ || तत्कराम्भोजजातेन शिवानुभवयोगिना || शिवाद्वैतदर्पणाख्यः प्रबन्धोऽयं विरच्यते || १६ || अथ परम कारुणिको भगवान् बादरायणः संसारतापसन्तप्तान् जनानुद्धर्तुकामो ज्ञात्वा शिवं शान्तिमत्यन्तपेति [श्वेताश्वतरोपनिषदि ४-१४ |] [तैत्तिरीयोपनिषदि २-१-१ |]ब्रह्मविदाप्नोति परं सत्यज्ञानमनन्तं ब्रह्म [कैवल्योपनिषदि १-९ | ]ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये [श्वेताश्वतरोपनिषदि ३-८ |]तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादि श्रुत्यनुसारेण तेषां मोक्षैकसाधनीभूत ब्रह्मज्ञानसम्पादनार्थं उपनिषत्सारभूतशारीरकसूत्राणि प्रणिनीय तत्रादौ ब्रह्मजिज्ञासां सूत्रयामास ऽ[ब्रह्मसूत्रं १-१-१ |]अथातो ब्रह्मजिज्ञासा इति | [अथाऽतो ब्रह्मजिज्ञासा इत्यत्र अथशब्दस्य आनन्तर्यार्थे विवक्षिते किमानन्तर्यमित्याकांक्षायां धर्मानन्तर्यमुक्त्वा किरूपस्य धर्मस्यानन्तर्यमित्याशंकायां पशुधर्मपतिधर्मभेदेन धर्मस्य द्वैविध्येनाद्यस्य पशुधर्मस्य पतिधर्मसमर्पकत्वेन परम्परया ब्रह्मज्ञानसाधनत्वं पतिधर्मस्य तु साक्षादेव तत्साधनत्वमित्यभिप्रायेणाह ऽअत्र अथशब्दार्थऽ इति | अष्टावरणानि श्रीगुरु-लिऽऽन्ग-जऽऽन्गम-पादोदक-प्रसाद-विभूति-रुद्राक्षमन्त्ररूपाणि भक्ताऽऽन्गानि | पंचाचाराश्च लिऽऽन्गाचार-भृत्याचार- सदाचारशिवाचार- गणाचाररूपा भक्तधर्माः | वैशिष्ट्यन्तु सामानाधिकरण्यसम्बन्धेन तथाच अष्टावरणविशिष्टपंचाचाराणां पतिधर्मत्वेन तत्प्राप्त्यनन्तरमेवब्रह्मजिज्ञासितव्यमित्यर्थः | तथाच क्रियासारे धर्मानन्तर्यमेवातो वाच्यं धर्मोद्विधा मतः पशुधर्मः प्राथमिकः पतिधर्मोद्वितीयकः | अनुतिष्टन् पशोधर्मान् पतिधर्मान् सचार्हति | यथा पिपीलिका वृक्षमूलमाघ्राय तत्फलं | आरुह्य लभते तद्वत्पतिधर्मेकतत्परः | यथा विहऽऽन्गः पक्षाभ्यां फलितं वृक्षमागतः | पश्यन्फलमवाप्नोति तद्वच्छीघ्रं तदर्हति|ऽ इति ||]अत्र अथ शब्दार्थोऽष्टावरण- पृ० ४) विशिष्टपंचाचाररूपपतिधर्मप्राप्त्यानन्तर्यवचनः | अतः शब्दोह्यधिकारसम्पूर्णत्वं ब्रूयते | तथाच [श्वेताश्वतरे ६-२२- २३|]वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितं | नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः | यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः | अधीतवेदाय जितेन्द्रियाय च | प्रतिष्ठिताष्टावरणानुसारिणे || सदा सदाचारयुताय धीमते | देयं शिवाद्वैतमिदं मुमुक्षवे || इत्यादि श्रुत्यागमोक्तेः | पतिधर्मप्राप्त्यनन्तरं यतोऽधिकारपूर्णत्वरूप- पृ० ५) पतिधर्मप्राप्तिः अतो हेतो ब्रह्मणो जिज्ञासा कर्तव्येति शेषः | जिज्ञासापदस्य विचारे [ऽअथाऽतो ब्रह्मजिज्ञासाऽ इत्यत्र अनुवादपरिहाराय शास्त्रेपुरुष प्रवृत्तिसिद्धये च कर्तव्येतिपदमध्याहर्तव्यं जिज्ञासापदेन विचारो लक्षणीय इति ग्रन्थकारस्याशयः | नन्वत्र जिज्ञासापदस्य प्रकृतिप्रत्ययात्मकस्य वाक्यत्वेन लक्षणाऽयुक्ता वाक्ये शक्यभावात् शक्यसम्बन्धरूपलक्षणाया अप्यभवात् इतिचेन्न | प्रत्ययेनजहल्लक्षणया विचारो बोध्यते प्रकृत्त्याच साध्यज्ञानमजहल्लक्षणयोच्यते इति लक्षणाद्वयमेवाऽऽन्गीकरणीयमिति | अत्र केचित्तु प्रकृतिप्रत्ययसमुदाय एकैव लक्षणा | नच शक्यसम्बन्धाभावः समुदायिशक्यसम्बन्धादेव समुदायशक्यसम्बन्धस्याप्युपपत्तेरित्याहुः | तन्न युक्तंव्यासज्यवृत्तिलक्षणाबोधकपदानां तदर्थानां तत्सम्बन्धानां च नानात्वेन लक्षणाया एकत्वासम्भवात् | एवञ्च यत्र वाक्यार्थसंबन्धेन वस्त्वन्तरं पदैर्लक्ष्यते तत्रैव वाक्ये लक्षणा| यथा ऽविषं भुंक्त्वाऽ इत्यादौ | तद्भिन्ना पदलक्षणेति शास्त्रे व्यवहारः | एवं स्थिते प्रकृतेऽपि समुदाये नैकलक्षणा समुदायिनां भेदेन तत्सम्बन्धस्यापि भेदात् | न चैकप्रतीतिजनकत्वेन लक्षणानामेकत्वमिष्टापत्तिः | तथासति अन्यतरलक्षणयैव विचारोपस्थितौ लक्षणाद्वयेनापि तदुपस्थित्यऽऽन्गीकाराद्वैयर्थ्यप्रसंगः | अतः प्रकृतिप्रत्यययोर्द्वयोरपि लक्षकत्वेन लक्षणाद्वयमेवाऽऽन्गीकर्तव्यम् गौरवस्याकिञ्चित्करत्वात् | अत्र ज्ञानाय विचारः कर्तव्य इति ज्ञानं साध्यत्वेनोद्दिश्य साधनं विचारो विधीयते | विचारस्य प्रकृत्यर्थज्ञानं प्रति साधनत्वेनान्वयात् ||]लक्षणा अतो ब्रह्मविचारशास्त्रमारम्भणीयमिति शास्त्रारम्भसूत्राभिप्रायः || १ || पृ० ६) अथ किं ब्रह्म किं तस्य लक्षणमितिचेदुच्यते | घनलिऽऽन्गपर्यायवाचकः षट्स्थलात्मकपरशिव एव ब्रह्म | तल्लक्षणन्तु सूक्ष्मचिदचिद्रूपशक्तिविशिष्टं ब्रह्मेति | जीवात्मन्यतिव्याप्तिवारणार्थं सूक्ष्मेति | सूक्ष्मत्वञ्च स्वभावनिर्मलत्वं तेन निर्मलचिदचिद्रूपशक्तिविशिष्टत्वेऽपि मुक्तात्मनि नाति व्याप्तिः | तस्य शक्तेः स्वभावनिर्मलत्वाभावात् | नच जन्माद्यस्य यतः इति सौत्रतल्लक्षणविरोधः सूत्रेण जगज्जन्मादिकारणत्वस्य लक्षणीकरणादिति वाच्यं | तस्य लक्षणीकरणे जगज्जन्मस्थितिलयतिरोधानानुग्रहेषु एकैककारणत्वस्याप्यनन्यगामित्वेन परस्परनिरपेक्षं लक्षणपञ्चकविवक्षावश्यंभावे गौरवाल्लाघवानुरोधेन निमित्तोपादानोभयसाधारणहेतुहेतुमद्भावसम्बन्धेनानुगतैकलक्षणविव क्षणे जिज्ञासाविषयीभूत ज्ञेयब्रह्मणस्तल्लक्षणानुपपत्तेः | अतः प्रथमं ज्ञेयब्रह्मणः स्वरूपलक्षणविवक्षणावश्यकत्वात् | जगज्जन्मादिकारणत्वस्य तादृशशक्तिव्यतिरेकेणासम्भवाच्चेति प्रथमं सूक्ष्मचिदचिद्रूपशक्तिविशिष्टत्वलक्षणस्वरूपलक्षणस्यैव वक्तुमुचितत्वात् || २ || ननु सच्चिदानन्दत्वमेव तत्स्वरूपलक्षणमस्तु किमनेनानागतलक्षणेनेति चेन्न | शक्तिशक्तिमतोर्धर्मधर्मिभावविवक्षणेनसच्चिदानन्दानां ब्रह्मधर्माणां अनुगतैकशक्तिस्वरूपत्वाभ्युपगमेनैव तन्निर्वाहात् | आनन्दमयाधिकरणभाष्येऽपि पृ० ७) प्रचुरानन्दरूपानन्दमयस्य परब्रह्मधर्मस्य परब्रह्माश्रित परमाकाशरूप परमशक्तिस्वरूपत्वं [श्रीनीलकण्ठशिवाचार्यपादैः स्वीकृतत्वादित्यर्थः | तेषामयंभाष्यसन्दर्भः तद्धेतुव्यपदेशाच्च (ब्र-सू-१-१-१५) कोह्येवान्यात्कः प्राण्यात् | यदेष आकाश आनन्दो न स्यात् एषह्येवानन्दयाति इति सर्वजीवानामानन्दप्रदायकत्वेनानन्दहेतुव्यपदेशादानन्दमयः परशिव एव | स्वयं प्रचुरानन्दविशिष्टोहि परानानन्दयति | यथा प्रचुरविद्याविशिष्टः परान् विद्यावतः करोति | अतः परशिव एवानन्दमयः | प्रचुरानन्दविशिष्टः परशिव आनन्दमय इत्युक्ते परशिवादन्य एव आनन्दमय इत्यवगम्यते ब्रह्मपुच्छं प्रतिष्ठा इति ब्रह्मधारत्वेनास्यावगमात् | अतो जीव एवानन्दमय इत्याशऽऽन्क्याह मान्त्रवर्णिकमेव च गीयते (सू. १-१-१६) इतश्च चिदम्बरशक्तिविशिष्टः परशिव एव आनन्दमयः यो वेदनिहितं गुहायां परमे व्योमङ् इत्यस्मिन्मन्त्रे प्रकृतं अन्योन्तरात्मा आनन्दमयः इति ब्राह्मणे प्रचुरानन्दविशिष्टतया आनन्दमय इति गीयते | मन्त्रब्राह्मणयोरेकर्थत्वात् | इतरथा प्रकृतहानाप्रकृतप्रक्रिया प्रसऽऽन्गात् | अन्तरत्वप्रतिज्ञानादन्यस्य चान्तरस्यानुपदेशाच्च | तथा ब्रह्मविदाप्नोति परं इति मन्त्रेण यत्प्राप्यत्वेन परब्रह्म निर्दिष्टं | तदेवैकं आनन्दमयमात्मानमुपसंक्रामति इति ब्राह्मणे प्रचुरानन्दविशिष्टतया आनन्दमय इति गीयते | अन्यस्य प्राप्यस्याश्रवणात् | इतरथा श्रुतहानाश्रुतकल्पना प्रसज्येत् | अतः परमाकाशरूपः प्रकृत्यात्मा आनन्दमय इति श्रूयते | न विश्वाधिकं निमित्तं परं ब्रह्म यत् सत्यं ज्ञानमनन्तं ब्रह्म इत्युच्यते | तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इत्याकाशादिप्रपञ्चप्रकृतित्वेन श्रुत आनन्दमयः परमाकाशः | परमाकाशरूपत्वमस्य यदेष आकाशो आनंदो न स्यात् इत्यतोऽवगम्यते | ब्रह्मपुच्छं प्रतिष्टा इति ब्रह्म प्रचुरानन्दरूपपरमाकाशस्याधारत्वेनावगम्यते | अत एव स एको ब्रह्मण आनन्दः इति ब्रह्माश्रितत्वेनावगम्यते | पुनरेष एव आनन्दो ब्रह्मेति व्यजानात् | आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते इत्यादिना सकलभूतप्रकृतित्वेनाभिधीयते | तत्र आनन्दो ब्रह्म इत्यानन्दस्य ब्रह्मत्वव्यपदेशस्तु ब्रह्मधर्मत्वेन तदभेदात् | सैषाभार्गवीवारुणी विद्या परमे व्योमन् प्रतिष्ठिता इति ब्रह्मधर्मस्वरूपे परमानन्दरूपे प्रपञ्चप्रकृतौ परमशक्तिपर्याये चिदात्मनि परमे व्योम्नि वारुणी विद्या समाप्तेत्युच्यते | ततो ब्रह्मधर्मस्वभावः प्रकृत्त्यात्मा परमाकाशरूपा परमशक्तिः आनन्दमयः इत्युच्यते | तद्विशिष्टत्वात् तद्धर्मित्वेन प्रतिष्टेत्युच्यते परंब्रह्म | विज्ञानमयश्च तदुपासको जीवः | प्रतिष्टाभूताद्धर्मिणः परशिवस्यब्रह्मणो धर्मभूतस्यानन्दमयस्य शक्त्यात्मनो भेदादर्शनात् आनन्दमय आत्मा ब्रह्मेत्यप्रायेण आनन्दमयोऽभ्यासात् इति सूत्रकारेण सूत्रितं || इति |]भगवत्पादैरेव स्वीकृतत्वात् | नच भवदुक्तलक्षणप्रविष्टचेतनाचेतनात्मकविरुद्धशक्तिद्वयस्यैकत्रासम्भ वेन परस्परनिरपेक्षं सूक्ष्मचिद्रूपशक्तिविशिष्टत्व- सूक्ष्माचिद्रूपशक्तिविशिष्टत्वयोः प्रत्येकलक्षणविवक्षणा- पृ० ८) वश्यंभावे भवन्मतेऽपि गौरवस्य विद्यमानत्वात् सौत्रलक्षणमेव वक्तुमुचितमिति वाच्यम् | अस्मन्मते ब्रह्मधर्मरूपायाः शक्तेश्चिच्छक्तिरूपत्वं तत्प्रतिबिम्बरूपाया अचिच्छक्तिरूपत्वमित्यऽऽन्गीकारेण चिच्छक्ति तत्त्प्रतिबिम्बाचिच्छक्त्योर्ब्रह्मधर्मत्वे विरोधाभावेन शक्तिद्वयं समुच्चित्त्यैकस्यैव सूक्ष्मचिदचिद्रूपशक्तिविशिष्टत्वस्य लक्षणीकरणे तात्पर्यात् || ३ || पृ० ९) ननु भवदुक्तलक्षणस्वीकारे ब्रह्मणो जगज्जन्मादिनियामकत्वादिसिद्धिः कथं सम्भवतीति चेत् श्रूयतां यथा सागरतरऽऽन्गे सम्पन्नजन्मस्थितिलयं फेनबुद्बुदकदम्बकं तद्रूपमेव दृश्यते तथा शक्तिविशिष्टे परब्रह्मणि सम्पन्नजगज्जन्मादिकं तद्रूपमेव तदतिरिक्तं किञ्चन नोपलभ्यते | तथा ह्यथर्वशिरसि निरूपितमीश्वरेण [अथर्वशिरसि प्रथमखण्डे |]अहमेकः प्रथममासं वर्तामि च भविष्यामि च | नान्यः कश्चिन्मत्तो व्यतिरिक्तः इति | ततश्च तेन ब्रह्माहं इत्यादिना विश्वरूपत्वमात्मनः प्रपञ्चितम् | तत्र विश्वरूपत्वे सोन्तरादन्तरं प्राविशत् इत्यनुप्रवेश एव हेतुरुक्तः| अतो ब्रह्मणः स्वापृथक्सिद्धजगज्जन्मादिनियामकत्वस्यार्थतोलाभात् | किञ्च [श्वेताश्वतरोपनिषदि-६-८ |]परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वेताश्वतरोपनिषदि-३-२ |]एक एव रुद्रो न द्वितीयाय तस्थे य इमान् लोकानीशत ईशनीभिः परमशक्तिभिः इत्यादयश्च परब्रह्मणः षट्स्थलात्मकपरशिवस्य स्वाभाविकानन्तजगज्जनन-शासन-पालनशक्तिविशिष्टत्वं श्रुतयो वदन्ति | पृ० १०) किं बहुना सकलचिदचित्प्रदञ्चमहाविभूतिरूपा महासंविदानन्दसत्ता देशकालादिपरिच्छेदशून्या स्वाभाविकी परमशक्तिः परब्रह्मणः परशिस्यासाधारणधर्मरूपेत्युच्यते | तद्व्यतिरेकेण परशिवस्य सर्वज्ञत्व-सर्वशक्तिमत्व-सर्वकारणत्व- सर्वनियन्तृत्व-सर्वोपास्यत्व-सर्वानुग्राहकत्व-सर्वपुरुषार्थहेतुत्वादिकं न संभवति | अतो अचिन्त्यशक्तिविशिष्टस्य तस्य जगज्जन्मादिनियामकत्वे न काप्यनुपपत्तिरिति विभावनीयम् || ४ || ननु [श्वेताश्वतरोपनिषदि-४-५ |]अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः [श्वेताश्वतरोपनिषदि-४-१० |]मायान्तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरं | इति बहुप्रजाजनकत्वं मायापदवाच्यपरप्रकृतिरूपत्वञ्च लोहितादिवर्णानुमितसत्वरजस्तमोरूपायास्तस्याः श्रवणात् तज्जाड्यस्यैव घटादिष्वनुगमदर्शनात् तदानुगुण्येन [छान्दोग्योपनिषदि ६-२-१ |]सदेव सौम्येदमग्र आसीत् इत्यादि कारणपरवाक्येषु श्रूयमाणसच्छब्दवाच्यत्वं तस्या एव सुगमत्वाच्च शक्तिरेव जगदुपादानं प्रतीयते कथं ब्रह्मोपादानमिति चेदुच्यते | ब्रह्मशक्तिश्चेत्युभयमुपादानं कारणपरवाक्येषु श्रूयमाणमुपादानत्वमुभयत्रोपपत्तेः | सन्घटो जडो घट इति सत्ताजाड्युभयधर्मानुगत्युपपत्तेश्च | तत्र ब्रह्म स्वातन्त्र्येणोपादानं शक्तिस्तु पारतन्त्र्येणेत्येतावानेव विशेषः | पृ० ११) [आश्रितं न भवतीत्यनाश्रितं परंब्रह्म तत् अन्तः अवसानं यस्य तत् अनाश्रितान्तं शक्त्यादिपृथिवीपर्यन्तं षट्त्रिंशत्तत्त्वजालं परतन्त्रवृत्ति इति ग्रन्थकारस्याशयः | अत्रेदमवगन्तव्यं शक्त्यादिकं परतन्त्रवृत्ति अनाश्रितान्तत्वात् यत् अनाश्रितान्तं तत् परतन्त्रवृत्ति यथा घटः | ननु शक्त्यतिरिक्ततत्त्वानां तत्परतन्त्रवृत्तित्वमस्तु न तु शक्तेस्तस्याः सर्वोपादानत्वेन सर्वतत्त्वाश्रयत्वादितिचेन्न | शक्तिः क्वचिदाश्रिता धर्मत्वात् यो यो धर्मः स स क्वचिदाश्रितः घटाश्रितघटत्ववत् इत्यनुमानेन शक्तेः क्वचिदाश्रितत्वसिद्धेः | न च शक्तेर्धर्मत्वाभावात्स्वरूपासिद्धिरितिवाच्यं | शक्तिः धर्मरूपा वृत्तिमत्वात् घटत्ववत् इत्यनुमानेन शक्तेर्धर्मरूपत्वात्स्वरूपासिद्ध्यभावात् | न च शक्तिरेव नास्ति कथं तत्राश्रितत्वादिकमनुमीयत इति वाच्यं | चराचरप्रपञ्चस्य शक्तिस्वरूपत्वेन शक्तिर्नास्तीति वक्तुमनौचित्त्यात् | ननु भवन्मते चराचरप्रपञ्चस्य शक्तिस्वरूपत्वं कथमभ्युपेयते तदुपादानरूपाया ब्रह्मनिष्ठशक्तेरेवाभावादिति चेन्न | ब्रह्म जगदुपादानविशिष्टं जगत्कर्तृत्वात् यन्नैवं तन्नैवं यथा घटादि | इत्यनुमानेन जगदुपादानरूपा ब्रह्मनिष्ठा काचिच्छक्तिः साध्यते | न च तदुपादानत्वं प्रधान-परमाणु-कर्म-कालादीनां सम्भवति | तेषामचेतनत्वाज्जगदुपादानत्वासम्भवात् | अस्मन्मते ब्रह्मणि चेतनाचेतनोभयात्मकशक्तिस्वीकारेण चेतनाचेतनोभयात्मकप्रपञ्चरूपकार्यस्याप्युपपत्तेः|]अनाश्रितान्तानां तत्परतन्त्रवृत्तित्वनियमात् | तथाचोक्तं शिवादित्यचरणैः [शक्तिसन्दोहे प्र. १ |]शक्त्यादिच पृथिव्यन्तं जगदेतच्चराचरं | पृ० १२) शिवशक्तिसमुत्पन्नं तन्तुर्लूतोद्भवो यथा | शक्तिमानुच्यते देवः सच्चिदानन्दलक्षणः | धर्मरूपा पराशक्तिः धर्मिरूपः परः शिवः | तस्यानावृतरूपत्वात् पराशक्तिः परात्मनः | सर्वदा तत्स्वरूपेण भाति भानोरिव प्रभा | तादात्म्यमनयोर्नित्यं धर्मधर्मिस्वभावतः | तत्र स्वतन्त्ररूपेण शिवः सच्चित्सुखात्मकः| शक्तिस्तु पारतन्त्रेण विश्वोपादानमिष्यते | इत्यतो [श्वेताश्वतरोपनिषदि ४-५ |]अजामेकां [श्वेताश्वतरोपनिषदि ४-१० |]मायां तु प्रकृतिं विन्द्यात् इति शक्तेरुपादानत्वं प्रतिपादयन्ती भगवती श्रुतिः पारतन्त्रेणैव तस्या उपादानत्वं वदति | अतः पारतन्त्रेणोपादानत्वसिद्ध्या स्वातन्त्रेण ब्रह्मणोप्युपादानत्वं सिद्धमेव | तादात्म्यापृथग्भावान्यतरसम्बन्धेन [कार्यावस्थाश्रयत्वे सति कारणत्वं उपादानत्वं | कार्येऽति व्याप्तिवारणाय विशेष्यदलं | निमित्तकारणेऽतिव्याप्तिवारणाय सत्यन्तं | आश्रयत्वमत्र तादात्म्यापृथग्भावान्यतरसम्बन्धेन | एवं उपादानाश्रयत्वे सति कारणत्वं निमित्तकारणत्वं उपादानेऽतिव्याप्तिवारणाय सत्यन्तं | उपादानाश्रयीभूते भूतलादौ तद्वारणाय विशेष्यदलं | नच भूतलादीनामपि कारणत्वं सम्भवति | तेषां कार्योत्पत्त्यावश्यककार्यनियतपूर्ववृत्तित्वरूपकारणत्वासम्भवात् | अत्राश्रयत्वमीश्वरे तादात्म्यापृथग्भावान्यतरसम्बन्धेन | अन्यत्र यथायथं संयोगादिसम्बन्धेनेति मन्तव्यम् ||]कार्यावस्थाश्रयत्वं हि शक्तेरुपादानत्वं समर्थनीयं | तत्सामर्थ्य- पृ० १३) मानमेव ब्रह्मपर्यन्तमायाति | नित्ययोगे खलु मायिनमित्यत्र मायाशब्दादिनिप्रत्ययः| तथा च शक्तेर्ब्रह्मापृथक्सिद्ध्यैव तदपृथक्सिद्धायाः कार्यावस्थाया अपि ब्रह्मापृथक्सिद्धिसम्भवात् | [छान्दोग्योपनिषदि ६-२-१ |]सदेव सौम्येदमग्र आसीत् इत्यादि श्रुतयस्तु शक्तिः शिवश्च सच्छब्दप्रकृतिप्रत्ययोदितौ | तौ ब्रह्मसामरस्येन समस्त जगदात्मकौ इत्यादिना निमित्तोपादानोभयकारणं प्रपञ्चविलक्षणं शक्तिविशिष्टं षट्स्थलात्मकपरशिवं सच्छब्देन प्रतिपादयन्ति || ५ || यद्यपि ब्रह्माश्रिता सूक्ष्मचिदचिद्रूपशक्तिः स्थूलचिदचिद्रूपशक्त्यात्मकसमस्तचेतनाचेतनरूपप्रपञ्चाकारेण परिणमति नतु ब्रह्म केनाप्याकारेण परिणमति | तथाऽपि तथातथा परिणममानानां ब्रह्माश्रितशक्तीनां ब्रह्मैवायुतसिद्धपर्यवसानभूमिरिति ब्रह्मपर्यन्तमुपादानत्वसिद्धेरप्रत्यूहत्वात् | यत्तुब्रह्म [विवर्तत्वं स्वस्वरूपापरित्यागेन स्वरूपान्तरप्रदर्शकत्वं |]विवर्तमानतया माया [परिणामत्वं स्वस्वरूपपरित्यागपूर्वकस्वरूपान्तरावस्थानत्वं |]परिणममानतयोपादानमिति [तुष्यतु दुर्जनः इति न्यायेन तन्मतप्रक्रियामनुसृत्य निषेधति तन्मन्दमिति | शिवाद्वैते सर्वं वस्तु सदात्मकमिति कार्यकारणभावस्य न काप्यनुपपत्तिरिति भावः |]तन्मन्दं | पृ० १४) सद्रूपे विवार्ताधिष्ठानेऽसद्रूपप्रपञ्चोपादानत्वकल्पनानौचित्त्यात् | नासतो विद्यते भावो नाभावो विद्यते सतः इत्यादिना सदसतोरुपादानोपादेयभावस्य निषेधावगमात् | नहि सद्रूपे विवर्ताधिष्ठाने शुक्तौ असद्रूपरजतोपादानत्वमिष्यते अनुभवविरोधात् | असमानाधिकारणयोस्तयोः कार्यकारणभावासम्भवात् | इतरथा घटंप्रति तन्तोरपि कारणत्वं किं न स्यात् | [विवर्तवादे पुरोवर्तिस्थितशुक्तेः देशान्तरकालान्तरस्थितरजतं प्रत्युपादानत्वस्वीकारे विरोधाभावेन देशकालावच्छेदेन समानाधिकरणयोः पदार्थयोः कार्यकारणभावं परित्यज्य विभिन्नदेशस्थितयोः पदार्थयोः कार्यकारणभावाभ्युपगमात् अत्रापि विभिन्नदेशकालस्थितघटकपालादीनां कार्यकारणभावोऽभ्युपगन्तव्यः | तथा सति देशान्तरकालान्तरस्थितकपालादीनां घटादिकं प्रत्युपादानत्वं स्यात् इति भावः ||]स्याच्च कालान्तरीय देशान्तरीय कपालादीनां घटादिकं प्रत्युपादानत्वं | त्वन्मते कालान्तरीय-देशान्तरीय रजतंप्रति शुक्तेरुपादानत्वस्वीकारात् | तस्मात्सदात्मकोपादेयस्य जगतः सदात्मकमेवोपादानं भवितव्यमिति सदात्मकशक्तिविशिष्टपरशिव एवोपादानं | [तैत्तिरीयोपनिषदि २-७ |]असद्वा इदमग्र आसीत् ततोवै सदजायत इत्यादि श्रुतयस्तु प्रलयावस्थायां स्थूलचिदचिदात्मकशक्तिरूपस्य प्रपञ्चस्य सच्चिदानन्दस्वरूपे षट्स्थलात्मके परशिवे ग्रीष्मकालधरित्रीविलीनतृणादि- पृ० १५) बीजवत् सूक्ष्मचिदचिदात्मकशक्तिरूपेणावस्थानं प्रतिपादयन्ति | तथाचोक्तं शिवादित्यचरणैः [शक्तिसन्दोहे प्र. १ |]असद्वेत्यादिवाक्येषु नासत्वं जगतः स्मृतं | प्रलयेतु चिदानन्दे शिवे परमकारणे | चराचरप्रपञ्चस्य ग्रीष्मे क्ष्मालीनबीजवत् | सूक्ष्मरूपेण कार्यस्य संस्थितिः श्रूयते तदा | कार्यात्मना निषेधो हि न तावत्कारणात्मना | सर्वात्मनात्वसत्वञ्चेदसत्कार्यं ततो भवेत् | न ततः श्रूयते तत्र ततो वै इति वाक्यतः | सत्कार्यजननं प्रोक्तं तस्मात्सर्वं[शिवाद्वैतसिद्धान्ते परिणामवादस्याऽऽन्गीकृतत्वात् एतन्मते समस्तकार्यजातस्य तद्विषयकज्ञानस्य च सत्यत्वमुररीक्रियते | ननु कार्यस्य सत्यत्वमस्तु कथं तद्विषयकज्ञानस्य सत्यत्वमुच्यते ज्ञानस्य भ्रमप्रमासाधारणत्वात् इति चेन्न | ज्ञानस्य भ्रमप्रमासाधारणत्वेऽपि सत्कार्यान्तर्भूतत्वात् तस्यापि सत्यत्वकथने बाधकाभावादिति | तथाहि सादृश्यज्ञानस्य सत्यत्वात् रज्जुसर्पज्ञानं सत्यं | तज्ज्ञानस्य सादृश्यविषयकत्वात् सादृश्यं विना तज्ज्ञानासम्भवाच्च | अऽऽन्गुल्यादिनावष्टब्धनेत्रोद्गीर्णचन्द्रद्वयग्राहकदृक्सामग्रीद्वयस्य सत्यत्वात् द्विचन्द्रज्ञानमपि सत्यं | निमित्तस्य सत्यत्वेन नैमित्तिकस्यापि सत्यत्वाऽऽन्गीकारेण स्वनयनगतपित्तदोषाच्छादितत्वेन शऽऽन्खगतशुक्लिमा न गृह्यते सुवर्णानुलिप्तशऽऽन्खवत् | तस्मात् पीतः शऽऽन्ख इति ज्ञानमपि सत्यमेव | तत्तद्देशसंयोगात् तत्तज्ज्ञानं जायते अत्यन्तशीघ्रत्वेन नान्तरालज्ञानमस्ति तस्मादालातचक्रज्ञानमपि सत्यं | पञ्चीकरणप्रक्रियानुसारेण एकस्मिन् भूतेऽन्येषामंशानामपि सत्त्वात् व्योमांशभूयस्त्वेन न जलार्थसिद्धिरिति मरुमरीचिकाज्ञानमपि सत्यमेव | श्वप्नेतु कालपुरुषं रक्तवस्त्रधरं तथा | गन्धर्वनगरं चैव यः पश्यति विशेषतः | यमलोकं स षण्मासात् प्राप्नोति नात्र संशयः || इत्याद्यनुभवसिद्धपुराणवाक्यानां सत्यत्वात् स्वाप्निकसूक्ष्मप्रपञ्चविषयकज्ञानमपि सत्यं | एवमैन्द्रजालिकज्ञानमपि सत्यमेव तत्कारणीभूतमणिमन्त्रौषधादीनां सत्यत्वात् | एवमप्यन्यदप्यूहनीयं | ननु ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इत्यादिना ब्रह्मातिरिक्तपदार्थानां मिथ्यात्वात् भवदुक्तपदार्थानां मिथ्यात्वं किं नस्यादिति चेन्न | त्वदुक्त्यनुसारेण ब्रह्म मिथ्या असत्यहेतुज्ञानविषयत्वात् प्रपञ्चवत् इत्यनुमानेन ब्रह्मणोऽपि मिथ्यात्वं स्यादतः शिवाद्वैतमतोक्तमेव समीचीनमिति ||] सदात्मकं || इत्यतो ब्रह्मप्रपञ्चयोरुपादानोपादेयभावेन सदात्मकस्य प्रपञ्चस्य सदात्मकं शक्तिविशिष्टं ब्रह्मैवोपादानमिति न कश्चिद्विरोधः || ६ || पृ० १६) यदपि वियदादिप्रपञ्चस्येश्वरतादात्म्यप्रतीतेस्तत्रेश्वर उपादानं तथा अन्तःकरणादीनां जीवतादात्म्यप्रतीतेरत्र जीव एवोपादानमिति तदपि तुच्छं | [मुण्डकोपनिषदि २-३ |]एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापश्च पृथिवी विश्वस्य धारणी इत्यादिश्रुत्त्या कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्य ब्रह्मैवोपादानमिति श्रवणात् | ननु [महानारायणे २-१२ |]विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं इत्यादिना विश्वोत्तीर्ण एव पृ० १७) परमेश्वरो निमित्तभूतः स्वव्यतिरिक्तप्रकृतौ स्वसऽऽन्कल्पेन जायमानं हिरण्यगर्भं सृष्टमनुग्रहदृष्ट्या पश्यतीति श्रवणात् कथमस्य विश्वोपादानत्वं परप्रकृतिरूपत्वेन सम्भवति? नहि घटं निर्मिमाणः कुलालः स्वयमेव मृत्पिण्डीभूय घटं करोति असम्भवात् अतो निमित्तभूतस्य तस्योपादानत्वकल्पनासम्भवात् शक्तेरुपादानत्वकल्पनेनैव कार्यनिष्पत्तिदर्शनात् इति चेदुच्यते | विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं इत्यादिना यथा विश्वाधिकत्वमवगम्यते तथा [महानारायणे २४ |]सर्वो वै रुद्रः [छान्दोग्योपनिषदि २-१४ |]सर्वं खल्विदं ब्रह्म इत्यादिना प्रकृतित्वं विश्वरूपत्वमपि श्रूयते | शतरुद्रीये ङमो हिरण्यबाहवे इत्यारभ्य कुलुञ्चानां पतये नमः इत्यन्तेनविश्वाधिपत्यं ततश्च ङमः पर्णाय च पर्णशद्याय च इत्यन्तेन जगदाकारत्वं श्रूयते | अतो निमित्तभूतः परशिव एवोपादानं | किञ्च [छान्दोग्ये ६-१-२ |]स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्य मतं मतमविज्ञातं विज्ञातमिति इत्यादि श्रुत्या येनादेष्ट्रा निमित्तभूतेन विज्ञातेन चिदचिद्रूपं सर्वं जगद्विज्ञातं भवतीत्यांदेष्टृविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् [छान्दोग्ये ६-१-४ |]यथैकेन मृत्पिण्डेन विज्ञातेन सर्वमिदं मृण्मयं विज्ञातं स्यात् इति तदुपपादकमृत्पिण्डदृष्टान्तानुरोधाच्च ब्रह्मणो निमित्तमात्रत्वे तद्विज्ञानेन सकल- पृ० १८) प्रपञ्चविज्ञानं न सम्भवति तथाहि कुलालज्ञानेन घटादिकार्यं न ज्ञायते किन्तु तदुपादानमृत्पिण्डज्ञानेन अतो निमित्तभूतस्य परशिवस्य स्वापृथक्सिद्धशक्तिपरिणामभूतसर्वप्रपञ्चोपादानत्वस्य निष्प्रत्यूहत्वात् || ७ || यदपि सच्चिदानन्दस्य परशिवस्योपादानत्वस्वीकारे कारणविकृतिरूपपरिणामप्रसऽऽन्गः इत्युक्तं तदयुक्तं सूक्ष्मचिदचिद्रूपशक्तिविशिष्टस्य परशिवस्य कारणत्वं स्थूलचिदचिद्रूपशक्तिविशिष्टस्य तस्य कार्यत्वमिति वदतामस्माकं तत्प्रसऽऽन्गभयाभावात् | तथाहि [श्वेताश्वतरे ४-१८ |]यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी इति श्रुत्या यस्मिन् काले चन्द्रसूर्यादि तेजः शून्यतया दिवारात्रिविभागरहितं नामरूपविशेषशून्यतया स्थूलसूक्ष्मचेतनाचेतनसदसद्व्यक्तिव्यवस्थारहितं सर्वमिदं तमोभूतमवर्तत | तदा शिव एवाद्वितीयः केवलो नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टः स्वप्रकाशः परिशिष्टोऽभवत् | तदक्षरं तदेव तदानीं क्षररहितं नाशरहितं परं वस्तु तत् सवितुरादित्यस्य पूर्वं तेजःप्रदत्वेन वरेण्यं अन्तर्वर्तितेजः तदपि तदेव तस्मात् तादृशात् स्वविलीनस्वेतरनिखिलप्रपञ्चात् अद्वितीयात् पुराणी नित्यशुद्धा तत्कालतमोऽपनोदिनी महास्फुरणरूपा विमर्शमयी प्रज्ञा नामरूपविभागार्हसूक्ष्मचिदचिद्रूपशक्तिः पृ० १९) प्रसृता प्रावर्तत | तथाचोक्तं शिवादित्यचरणैः | [शक्तिसन्दोहे प्र. १ |]शिवादुत्पद्यते शक्तिः इच्छाज्ञानक्रियात्मिका | अप्रमेयगुणोपेता जृम्भते सा शिवाज्ञया इति | अत्रोत्पद्यते इत्यनेन न तावच्छक्तेरुत्पादविनाशशालित्वरूपानित्यत्वं किन्तु घृतकाठिन्यन्यायेन स्वविभागानर्हपरशिवतत्वाद्विभागं प्राप्य विमर्शात्मकप्रज्ञाशक्तिरूपेण परिणमतीति तात्पर्यं || ८ || एतादृशप्रज्ञाशक्तिविशिष्टं परशिवतत्वं सर्वज्ञत्व-नित्यतृप्तत्व- अनादिबोधत्व-स्वतन्त्रत्व-अलुप्तशक्तिमत्व- अनन्तशक्तिमत्वादिधर्मविशिष्टतया अन्तर्यामी जगत्कारणं महेश्वर इत्युच्यते | [श्वेताश्वतरे ४-१० |]मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरं [शक्तिसन्दोहे प्र. १ |]सर्वज्ञतातृप्तिरनादिबोधः | स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च विभोर्विधिज्ञाः| षडाहुरऽऽन्गानि महेश्वरस्य इत्यादि श्रुतेः | सोऽयं महेश्वरः सिसृक्षुः [तैत्तिरीये २-६ |]सोऽकामयत बहुस्यां प्रजायेयेति इति बहुप्रपञ्चभावनया आत्मनो मायालक्षणां इच्छारूपां शक्तिमाश्रयति तदा इच्छाशक्तिविशिष्टः सन् कालरुद्र इत्युच्यते | अथ [तैत्तिरीये २-६ |]स तपोऽतप्यत इति तपः स्वरूपिकाया ज्ञानात्मिकायाः शक्त्याः सकलजीवकर्मानुगुणतत्त- पृ० २०) च्छरीरादिसामग्रीमालोचयति तदा ज्ञानशक्तिविशिष्टः सन् विष्णुरित्युच्यते | अथ स्वसऽऽन्कल्पितसकलकरणविदग्धया क्रियाशक्त्या [तैत्तिरीयोपनिषदि २-६ |]इदं सर्वमसृजत् इतीच्छाशक्तिभित्तौ निखिलजगच्चित्रमुन्मीलयति तदायं क्रियाशक्तिविशिष्टः सन् चतुर्वक्त्रब्रह्मेत्युच्यते | अत एते ब्रह्मविष्णुमहेश्वराः कारणशक्तिविशिष्टत्वात् कारणात्मान इत्युच्यन्ते | तदुक्तं शिवादित्यचरणैः | [शक्तिसन्दोहे | तत्रैते श्लोकाः आदिशक्तिमयं बीजं बीजशक्तिमयं शिवः | सा शक्तिस्त्रिविधा प्रोक्ता इच्छाज्ञानक्रियात्मिका | एतच्छक्तित्रयोपेतो विश्वकर्ता सदाशिवः | तस्येच्छाशक्तिमानीशः ज्ञानशक्तियुतो हरिः | क्रियाशक्तियुतो ब्रह्मा क्रमादेते त्रिमूर्तयः | विश्वस्य कारणात्मानो जाताः साक्षात्सदाशिवात् | पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु | ब्रह्मा सर्गे हरिस्त्राणे ईशः संहरणे तथा इति | अत्र आदिशक्तिमयं बीजं इत्यस्य आदिशक्तिविशिष्टं जगज्जन्मादिकारणं ब्रह्मेत्यर्थः ||]त्रयस्ते कारणात्मानो जाताः साक्षात्सदाशिवात् | पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु | ब्रह्मा सर्गे हरिस्त्राणे महेशो हरणे पुनः | इति | एवमिच्छाज्ञानक्रियाशक्तिरूपप्रज्ञाशक्तिविशिष्टः सदाशिवः [त्तैत्तिरीयोपनिषदि २-६ |]तत्सृष्ट्वा तदेवानुप्राविशत् इति स्वशक्तिपरिणामीभूतकालादिभूम्यन्तत्रिंश- पृ० २१) त्तत्वात्मकस्थूलचिदचिच्छक्तिविशिष्टसकलकार्यजातं सृष्ट्वा स्वयमात्मतया प्रविश्य [तैत्तिरीयोपनिषदि २-६ |]सच्च त्यच्चाभवत् निरुक्तञ्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च | विज्ञानञ्चाविज्ञानञ्च इति सर्वान्तर्यामित्वेन सर्वशरीरकतया स्वसृष्टप्रत्यक्षपरोक्षसाधारणनामयुक्ततद्रहिताधाराधेयचेतनाचेत् अनात्मकसकलप्रपञ्चरूपेण बहुधा परिणतोऽभवत् | तथाचोक्तं कारणागमे ङिवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च | शान्त्यतीतकलेत्येताः स्थिता ब्रह्मादिमूर्तिषु | तया शिवाज्ञया ह्येते वर्तन्ते सुमहोज्वलाः | ब्रह्मणो देवता दैत्या मुनयो मनवस्तथा | स्वेदजाश्चाण्डजाः सर्वे प्राणिनश्च जरायुजाः | तरुगुल्मलतावृक्षाद्यनेकोद्भिज्जकोटयः | गिरयः सरितश्चान्ये समुद्राश्च सरांसि च | सम्भवन्ति क्रमेणैव तस्माच्छिवमयं जगत् | इति अतः सर्वथा जिज्ञासाविषयीभूतज्ञेयब्रह्मणो लक्षणस्य जगदुभयकारणस्वरूपे शक्तिविशिष्टे पट्स्थलात्मके भगवति परशिवे समन्वयेन परशिवतत्त्वात्मकं घनलिऽऽन्गमेव मुमुक्षुभिर्जिज्ञास्यमिति सर्वं समञ्जसम् || इति शिवतत्त्वविवेकः | इति प्रथमपरिच्छेदः || पृ० २२) अथ द्वितीयपरिच्छेदः | अथ को जीवः किं तस्य लक्षणमिति चेदुच्यते | तत्राऽऽन्गपर्यायवाचकोऽहं प्रतीतिविषयो जीवः | तल्लक्षणन्तु स्थूलचिदचिद्रूपशक्तिविशिष्टो जीव इति | [शिवाद्वैतसुधाकरे |]कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः || इत्यभियुक्तसूक्त्या कार्यरूपायाः स्थूलचिदचिद्रूपशक्तेर्जीवोपाधित्वोपगमात् | परमात्ममुक्तात्मनोरतिव्याप्तिवारणार्थं स्थूलेतिशक्तेर्विशेषणं स्थूलत्वञ्च मलत्रयविशिष्टत्वं अत एवाशुद्धत्वमित्यपि व्यवहारः | नच स्थूलचिदचिद्रूपशक्तेरेकत्वं युक्तं | येन तादृशशक्तिविशिष्टजीवस्यापि एकत्वशऽऽन्का समुत्पद्येत | अतः कार्यरूपायास्तस्या अनेकत्वाभ्युपगमेन तद्विशिष्टजीवस्यापि अनेकत्वमभ्युपेयते | उपाधिभेदेन भेदस्वीकारात् | दृष्टञ्चैतदेकस्याः कारणरूपाया मृदः कार्यरूपस्य घटाशरावादिकस्य तद्विशिष्टाकाशस्यापि अनेकत्वं | नन्वेवं सति जीवस्य परिच्छिन्नत्वं स्यात् इति चेदिष्टापत्तिः| तत्तत्स्थूलचिदचिद्रूपायाः शक्तेः परिच्छिन्नत्वात् तद्विशिष्टजीवचैतन्यस्याप्यर्थतस्तल्लाभात् | [श्वेताश्वतरोपनिषदि ५-९x१० |]बालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवः सविज्ञेयः स चानन्त्याय कल्प्यते || ९|| नैव स्त्री न पुमानेष न चैवायं नपुंसकः| यद्यच्छरीरमादत्ते तेन तेन सयुज्यते || १० || इत्यादिश्रुतेश्च || १ || पृ० २३) अथ जीवोपाधिभूता सेयं स्थूलचिदचिद्रूपशक्तिः आवरणशक्तिरौन्मुख्यशक्तिरिति द्विधा भवति | तत्र सूक्ष्मचिच्छक्तिपरिणामरूपा ब्रह्मचैतन्यगोपनानुकूला शक्तिरावरणशक्तिः | गोपनत्वञ्च ब्रह्म नास्ति न प्रकाशते इति व्यवहारयोग्यत्वं | सा च शक्तिः शिवतत्त्वमाश्रित्य कला-विद्या-राग- काल-नियतिभेदेन पञ्चधा भवति | तत्र सर्व कर्तृत्वशक्तिपरिणामरूपा किञ्चित्कर्तृत्वशक्तिः कलाशक्तिः | सर्वज्ञताशक्तिपरिणामरूपा किञ्चिज्ञत्वशक्तिः विद्याशक्तिः | पूर्णताशक्तिपरिणामरूपा अपूर्णताशक्तिः रागशक्तिः | नित्यत्वशक्तिपरिणामरूपा अनित्यत्वशक्तिः कालशक्तिः | व्यापकताशक्तिपरिणामरूपा अव्यापकताशक्तिः नियतिशक्तिः | एवंविधकलादिशक्तिपञ्चकमस्य जीवस्य परशिवशासनादपरिच्छिन्नस्वस्वरूपावरणभूतत्वादावरणशक्तिः अत एव पञ्चकञ्चुकमिति व्यवह्रियते | एतत्पञ्चकञ्चुकं स्थूलसूक्ष्मावस्थाप्रपन्ननिखिलप्रपञ्चस्योपादानकारणत्वात् कारणशरीरं कार्यरूपशक्तेस्तादात्म्यभावापन्नकारणशक्तौ लीनत्वात् सुषुप्तिः| अत एव स्थूलसूक्ष्मावस्थाप्रपन्नसर्वप्रपञ्चस्य लयस्थानं | आनन्दप्रचुरत्वात् आनन्दशक्तिरत एवानन्दमयकोश इति च व्यवह्रियते | एतदुपाधिविशिष्टो जीवः प्राज्ञ इत्युच्यते | [माण्डूक्योपनिषदि ५|]सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतो मुखः प्राज्ञः इति श्रुतेः || २ || पृ० २४) अथ सूक्ष्माचिच्छक्तिपरिणामरूपा तत्तज्जीवसाधारणसुखदुःखादिभोगानुकूला शक्तिरौन्मुख्यशक्तिः | सा च शुद्धचैतन्यरूपपरशिवप्रेरकत्वेन प्रकृतितत्त्वादिपृथिवीतत्वपर्यन्तं चतुर्विंशतितत्वात्मना परिणमति | तत्रेच्छाशक्त्युद्रेकदशापन्नौन्मुख्यशक्तिविशिष्टचैतन्यात् प्रतिबिम्बगत्या सुखदुःखमोहप्रदसत्वरजस्तमसां साम्यावस्थालक्षणं बुद्ध्यादिभूम्यन्तत्रयो विंशतितत्वमूलकारणं प्रकृतितत्वं भवति | सत्वगुणप्रधानतया निश्चयहेतुर्बुद्धितत्वं भवति | रजोगुणप्रधानतया सऽऽन्कल्पविकल्पसाधनं मनस्तत्वं भवति | तमोगुणप्रधानतया ममेदं कर्तव्यमित्यभिमानसाधनं अहऽऽन्कारतत्वं भवति | एतत्त्रितयं शरीरान्तःस्थित्वा सुखादिवेद्यावधानकरणरूपत्वात् अन्तःकरणमित्युच्यते | एवं ज्ञानशक्त्युद्रेकदशापन्नोन्मुख्यशक्तिविशिष्टचैतन्यात् सत्वगुणप्रधानतया शरीरबाह्यलग्नशब्दज्ञानकरणं श्रोत्रं | स्पर्शज्ञानकरणं त्वक् | रूपज्ञानकरणं चक्षुः | रसज्ञानकरणं रसनं | गन्धज्ञानकरणं घ्राणमित्युच्यते | एतद्बाह्यकरणपञ्चकं ज्ञानशक्तिप्रधानत्वात् ज्ञानेन्द्रियमित्युच्यते | एवं क्रियाशक्त्युद्रेकदशापन्नोन्मुख्यशक्तिविशिष्टचैतन्यात् रजोगुणप्रधानतया उच्चारणक्रियाहेतुर्वाक् | दानादानादिक्रियासाधनं पाणिः | गमनागमनादिक्रियासाधनं पादः | भुक्तजीर्णमलपरित्यागसाधनं पायुः | रेतोमूत्रपरित्यागक्रियासाधनं उपस्थकं भवति | एतद्बाह्यकरणपञ्चकं क्रियाशक्ति- पृ० २५) प्रधानत्वात् कर्मेन्द्रियमित्युच्यते | एतत्करणत्रयोदशकं इच्छाज्ञानक्रियाशक्त्यात्मकमिति मन्तव्यम् || ३ || अथ क्रियाशक्त्युद्रेकदशापन्नौन्मुख्यशक्तिविशिष्टचैतन्यात् तमोगुणप्रधानतया आकाशः-आकाशाद्वायुः-वायोरग्निः-अग्नेरापः- अद्भ्यः पृथिवी चोत्पद्यन्ते | [तैत्तिरीयोपनिषदि २-१ |]आत्मन आकाशः सम्भूतः-आकाशाद्वायुः-वायोरग्निः-अग्नेरापः-अद्भ्यः पृथिवी इति श्रुतेः | एतान्येव पञ्चतन्मात्राणि-सूक्ष्मभूतानीत्युच्यन्ते | एतेभ्यः सूक्ष्मशरीराणि-स्थूलभूतानि च सम्भवन्ति | सूक्ष्मशरीराणि भूतसूक्ष्मपञ्चकं-ज्ञानेद्रियपञ्चकं-कर्मेंद्रियपञ्चकं- वृत्तित्रयात्मकमेकमन्तःकरणं पञ्चवृत्तिक एकः प्राणश्चेति सप्तदशावयवात्मकानि एतान्येव लिऽऽन्गशरीराणीत्युच्यन्ते | अत्र ज्ञानेन्द्रियसहितं ज्ञानशक्तिप्रधानं बुद्धितत्वं कर्तृरूपं विज्ञानमयकोशो भवति | ज्ञानेन्द्रियसहितं इच्छाशक्तिप्रधानं मनस्तत्वं करणरूपं मनोमयकोशो भवति | कर्मेन्द्रियसहितं क्रियाशक्तिप्रधानं प्राणतत्वं कार्यरूपप्राणमयकोशो भवति | एतत्कोशत्रयमिलितं सूक्ष्मशरीरमित्युच्यते | एतत्सूक्ष्मशरीरावच्छिन्नो जीवस्तैजस इति व्यपदिश्यते | तैजसस्य सूक्ष्मशरीरमिदं स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात् जाग्रद्वासनामयत्वाच्च स्वप्नः | अत एव स्थूलप्रपञ्चलयस्थानं पृ० २६) ज्ञानशक्तिप्रधानत्वात्ज्ञानशक्तिरत एव विज्ञानादिकोशत्रयात्मकमित्युच्यते || [माण्डूक्योपनिषदि ४ |]स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताऽऽन्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसः | इति श्रुतेः || ४ || स्थूलभूतानि त्रिवृत्कृतानि त्रिवृत्करणं नाम तेजोबन्नानां त्रयाणां मध्ये एकैकं द्विधासमं विभज्य पुनरेकैकभागस्य द्विधाविभागं कृत्वा स्वस्वद्वितीयस्थूलभागं परित्यज्य अन्यदीयस्थूलभागयोरेकैकस्य भागस्य संयोजनं | तथाहि श्रूयते [छान्दोग्योपनिषदि ६-३-२ |]सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति | तासां त्रिवृतं त्रिवृतं एकैकां करवाणि इति | ननु त्रिवृत्करणे कृते तैजसः पृथिव्याद्यात्मकत्वे काठिन्यद्रवत्वादिविशिष्टतयोपलम्भप्रसऽऽन्ग इति चेन्न | अर्धभूयस्त्वात् स्वस्वाश्रितगुणविशिष्टतयोपलम्भात् | एवं शाखान्तरे प्रसिद्धाकाशवायुसृष्टेः श्रुतत्वात् तत्परित्यागानुपपत्तेः | अतस्तच्छ्रुतिविरोधपरिहारायोपसंहारः क्रियते | नच वायवाकाशयोर्व्यवहार एव नास्तीति वाच्यं | महान्वायुर्महन्नभः इति सर्वानुभवसिद्धत्वात् | यत्तु पञ्चीकरणसमष्टिः पञ्चभूतसृष्टिरिति तन्न मनोरमम् | व्यवहारमार्गप्राप्तपञ्चीकृतिर्मुधा पञ्चीकरणस्य कुत्राप्यश्रवणात् | [श्रुतस्य त्रिवृत्करणस्य हानः परित्यागः अश्रुतस्य पञ्चीकरणस्य कल्पनारूपदोष इत्यर्थः |]श्रुतहानाश्रुतकल्पनाप्रसऽऽन्गात् त्रिवृत्करणश्रुतिविरोधाच्च | ननु पृ० २७) श्रुत्यन्तरैकवाक्यतया पञ्चानां भूतानां सृष्टिं प्रक्रम्य तेषां सूक्ष्मतया व्यवहार्यमाणानां व्यवहारसिद्धये त्रिवृत्करणं ब्रुवन्ती श्रुतिः पञ्चीकरणाभिप्रायेति चेन्न | तथासति त्रिवृत्करणेनैव सामञ्जस्ये व्यवहारमात्रसिद्धये श्रुतिविरुद्धपञ्चीकरणकल्पनानौचित्यात् | एवं त्रिवृत्कृतेषु भूतेषु प्रतिनियताश्रया अपि शब्दादयो गुणा यथायथमुत्पद्यन्ते | एतदुक्तं भवति आकाशादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वेन स्वस्वकार्यापेक्षया व्यापकत्वात् कार्यांशसंवलितत्वेऽपि न कार्यगतगुणाश्रयतयाऽभिव्यक्तिः किन्तु स्वस्वगुणाश्रयतयैव तथा कार्याणां स्वकारणापेक्षयाऽल्पत्वात् तेषां कारणभागसम्मिश्रितानां कारणगुणाश्रयतयाऽपि भवत्यभिव्यक्तिरिति || ५ || एवं त्रिवृत्कृतेभ्यो भूतेभ्यश्चतुर्दशलोकानां ब्रह्माण्डस्य तदन्तर्वर्तिचतुर्विधस्थूलशरीराणां तदुचितानां अन्नपानादीनामुत्पत्तिर्भवति | चतुर्दशलोकास्तु भूर्भुवःस्वर्महर्जनस्तपः सत्यमित्येतन्नामका उपर्युपरिवर्तमाना अतलवितलसुतलरसातलतलातलमहातलपातालनामका अधोधोवर्तमानाः | चतुर्विधशरीराणि तु जरायुजाण्डजोद्भिज्जस्वेदजाख्यानि | जरायुजानि मनुष्यपश्वादीनि | अण्डजानि पक्षिपन्नगादीनि | उद्भिज्जानि वृक्षलतादीनि | स्वेदजानि कृमिमशकादीनि | एतत्स्थूलशरीरावच्छिन्नो जीवो विश्व इत्युच्यते | विश्वस्येदं स्थूलशरीरं स्थूलभोगायतनत्वात् स्थूलशरीरं क्रियाशक्ति- पृ० २८) प्रधानत्वात् क्रियाशक्तिरत एव जाग्रत् अन्नविकारत्वाच्चान्नमयकोश इति च व्यवह्रियते [माण्डूक्योपनिषदि ३ |]जागरितस्थानो बहिष्प्रज्ञः सप्ताऽऽन्ग एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः इति श्रुतेः || ६ || एवं स्थूलसूक्ष्मकारणप्रपञ्चानामाश्रयीभूतं सूक्ष्मचिदचिद्रूपशक्तिविशिष्टं यत्परशिवचैतन्यं तत्तुरीयमित्युच्यते | [माण्डूक्योपनिषदि ७ |]प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते इति श्रुतेः | तदेतत्तुरीयचैतन्यं [छान्दोग्योपनिषदि ३|१४| १ |]सर्वं खल्विदं ब्रह्म [महानारायणोपनिषदि १६ |]सर्वो वै रुद्रः इत्यादि श्रुतिप्रतिपाद्यसर्वपदवाच्यं[तुरीयचैतन्यस्य परशिवतत्वस्य सर्वकारणत्वहेतुना सर्वानुप्रवेशस्तावत्सिध्यति तत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतेः | ततः सर्वनियन्तृत्वं सिद्ध्यति अन्तः प्रविष्टः शास्ता जनानां इति श्रुतेः | ततः सर्वशरीरत्वं सिद्ध्यति यः पृथिव्यां तिष्ठन् इत्यन्तर्यामि ब्राह्मणे नियम्यस्य पृथिव्यादेः सर्वस्यापि प्रपञ्चस्य नियन्तृशरीरत्वश्रवणात् | इदमेव जगज्जन्मादिकारणत्वहेतुना परंपरया सिद्ध्यत्सर्वशरीरत्वमिह सर्वात्मत्वं विवक्षितं | इदञ्च शर्वं खल्विदं ब्रह्म इति समानाधिकरणनिर्देशस्य तावदुपपादकं भवत्येव | ब्राह्मणो विद्वान् ब्राह्मणो बृहस्पतिसवेन यजेत इत्यादि लौकिकवैदिकव्यवहारेषु शरीरवाचिशब्दानां शरीरिपर्यन्तत्वदर्शनादितिभावः | स्यादेतत् | पृ० २९) शरीरवाचिनां शरीरिपर्यन्तत्वमसिद्धं तथानुशासनाभावात् | लौकिकवैदिकव्यवहारयोः शरीरात्मभ्रमसिद्धार्थावलम्बनत्वोपपत्तेः | अस्ति च भ्रमसिद्धार्थावलम्बनो वैदिकव्यवहारः उत्ताना वै देवगवा वहन्तीत्यादिः | तथा च पर्यायेण सुरनरतिर्यगादिसर्वदेहेष्वात्मभ्रमवति जीव एव शर्वं खल्विदं ब्रह्म इत्ययं भ्रमसिद्धसार्वात्म्यनिर्देश उपपद्यते नतु परब्रह्मणि सर्वशरीरकत्वमात्रवति तत्तादात्म्यभ्रमरहित इत्याशऽऽन्क्याह यथेति | स्वस्य स्वीयस्य स्वाभिधेयस्य नीलस्येत्यर्थः | तथा च नीलादिशब्दास्तावद्गुणविशिष्टद्रव्यस्यापि वाचकाः नीलमुत्पलमित्यादिसमानाधिकरणव्यवहारदर्शनात् | न च मतुब्लोपात्तन्निर्वाहः | मतुब्लोपानुशासनस्य हि मतुब्लोपेनैव द्रब्याभिधानमिति नाभिप्रायः | शब्दाभावस्य शब्दकार्यकारित्वाभावात् | नापि लुप्तेन स्मृतेन मतुपा तदभिधानमिति तदभिप्रायः | मतुब्लोपस्य सिद्धशब्दान्वाख्यानार्थं वैयाकरणकल्पितत्वेन वस्तुतस्तत्र लुप्तस्य मतुपोऽभावात् | तस्मान्मतुब्लोपानुशासनेनापि नीलादिशब्दानां गुणविशिष्टद्रव्यवाचकत्वमेव सिद्ध्यति | मतुबश्रवणे तल्लोपानुशासनबलात् तदर्थप्रत्ययावश्यम्भावे च सति नीलादिशब्दानामिव तज्जनकत्वपर्यवसानात् किमर्थं तर्हि मतुब्लोपानुशासनं | समानाधिकरणव्यवहारादेव हि नीलादिशब्दानां गुणविशिष्टद्रव्यवाचकत्वं सिद्ध्यति | उच्यते | सन्ति नीलादिशब्दाः केवलगुणवाचका अपि | घटस्य नीलो गुणः इत्यादिव्यधिकरणव्यवहाराणामपि दर्शनात् | तथा च यथा गुणविशिष्टद्रव्यवाचिनां नीलादिशब्दानां निष्कृष्टगुणपरत्वविवक्षायां नैल्यं नीलत्वं नीलिमेति पृ० ३०) भावप्रत्ययः तथा तेषां निष्कृष्टगुणवाचिनां द्रव्यपरत्वविवक्षायां मतुप्प्रत्ययोऽपि भवेत् | दृश्यते हि पुण्यपापादिशब्दानां अयं पुरुषः पुण्यः अयं पापः अस्य पुण्यं अस्य पापं इत्यादिद्विविधव्यवहारदर्शनात् | धर्माधर्मादिमात्रवाचकत्वेन तद्धर्मिपर्यन्तत्वेन च द्विविधानां धर्माधर्ममात्रवाचकानां धर्मिपर्यंतत्वविवक्षायां पुण्यवान् पापवान् इत्यादिर्मतुबन्तव्यवहारः | तथात्रापि तत्प्राप्तौ तद्व्यावृत्यर्थं मतुब्लोपानुशासनं | तेन द्रव्यपर्यन्ता एव नीलादिशब्दा द्रव्येषु प्रयोक्तव्याः गुणमात्रपर्यवसायिनोऽप्यभेदोपचारविवक्षायां प्रयोक्तव्याः | यथा- शाक्षान्नीलगुण एवेयं वनिता नीलिमेवेयं इति कदापि गुणमात्रपर्यवसितानां द्रव्यपर्यन्तत्वविवक्षायां मतुबन्तप्रयोगो नास्तीति सिद्ध्यति | वार्तिककृताऽपि गुणवचनेभ्यो मतुपो लुक् इत्यनुशासनानन्तरं इदमेवं तस्य प्रयोजनमुक्तं अव्यतिरेकात्सिद्धमितिचेत् दृष्टोव्यतिरेकः इति | अत्राव्यतिरेकः अव्यभिचारः ततश्च शुक्लादिशब्दैरभिधीयमानानां गुणानां गुण्यव्यभिचारात् गुणिना सहैवाभिधानात् शुक्लादिशब्दशक्त्यैव गुण्यभिधानसिद्धेर्मतुब्लोपानुशासनं व्यर्थमिति शऽऽन्का | वस्त्रस्य शुक्ल इति गुणाभिधानस्य गुणिव्यभिचारोदृष्टः | अतः केवलगुणाभिधायकशब्दस्य द्रव्यपर्यन्तत्वविवक्षायां ततो मतुपि प्राप्ते लुगनुशासनमिति व्यवहारः | एतेन नीलादिशब्दा गुणमात्रवाचिन एव | अभेदोपचारावलम्बनस्तु नीलमुत्पलं इत्यादिसमानाधिकरणनिर्देशो ङीलिमेवेयं इति निर्देशवदित्यपि शऽऽन्का निरस्ता | गुणविशिष्टद्रव्यवाचिनां नीलादिशब्दानां भावे गुणवाचिनां पृ० ३१) नीलिमादिशब्दानामनिष्पत्तिप्रसऽऽन्गात् | गुणवाचिभ्यो भावप्रत्ययोत्पत्तौ हि तेषां गुणगतधर्मवाचित्वमेव स्यात् | नतु गुणवाचित्वं | एतेनैवाभेदभ्रमशक्तिभ्रमाभ्यां समानाधिकरणनिर्देशनिर्वाहोप्यपास्तः | न चायमभ्रान्तव्यवहारसाधारणो निर्वाहः | ननु तथापि गुणमात्रवाचकानां नीलादिशब्दानां तद्विशिष्टेषु द्रव्येषु लक्षणया समानाधिकरणव्यवहारः सम्भवति | तत्सम्भवे च न तेष्वपि शक्त्यन्तरं कल्पनीयं | गौरवात् | एवञ्च लक्षणानियमार्थं मतुब्लोपानुशासनं | लक्षणीयपरनीलादिशब्दात् भावप्रत्ययेन नीलिमादिशब्दनिष्पत्तिरिति सर्वं सऽऽन्गच्छते | अनयैव दिशा शरीरवाचिनो देवमनुष्यब्राह्मणादिशब्दा अपि आत्मपर्यन्ताः | नच तथा सति शरीरादिशब्दानामप्यात्मपरता स्यादिति वाच्यं | तत्प्रवृत्तिनिमित्तस्य शरीरत्वस्य साक्षात्स्वापृथक्सिद्धाश्रय एव प्रवृत्तिनिमित्तत्वात् | देवमनुष्यादिशब्दानामिव तेषामात्मपर्यन्तप्रयोगाभावेनातिप्रसऽऽन्गवारणार्थं साक्षात्वविशेषणस्यावश्यकत्वात् | तस्मान्नीलादिशब्दानां द्रव्यपर्यन्तत्वदर्शनात् तद्रीत्या प्रपञ्चशब्दानामपि ब्रह्मपर्यन्तत्वं युक्तं | ङीलो घट इत्यादिवत् शर्वो वै रुद्रः इत्यादि प्रयोगदर्शनेन तेषां नीलादिशब्दसमानत्वात् | अत्रेदं बोध्यं | येषां शब्दानां स्वप्रवृत्तिनिमित्ताश्रयमात्रे शक्तिः सम्भवति तेषु नीलादिशब्दन्यायोपन्यासः | येषां शक्तौ तदाश्रये साक्षात्वविशेषणमपेक्षितं तेषां ब्रह्मवाचकत्वं न नीलादिशब्दन्यायेन सिद्ध्यति | किन्तु शर्वो वै रुद्रः इत्यादि सामानाधिकरण्यं बहुभवनसऽऽन्कल्पो नामरूपव्याकरणमिति प्रमाणैः सिद्ध्यति | अतेव ग्रन्थकारेण शर्वपदमपि न केवलं चराचरप्रपञ्चवाचकं अपि तु तद्विशिष्टशिवतत्त्वस्यापि इति नीलारुणादेवमनुष्यादिशब्दानामपृथक्सिद्धाश्रयसामान्यवाचित्वात्ब्रह्म् अणः सर्वशब्दवाच्यत्वं प्रसाधितं | एवञ्च रूपादिशब्दानां साक्षात्बाश्रय एव शक्तिरिति व्यवस्था नीलादिशब्दशक्तिवत् तस्याः घटादिपर्यन्तत्वं माभूदिति तन्मात्रव्यावर्तनार्थेति न तथा नामरूपव्याकरणश्रुत्यादिसिद्धा ब्रह्मणः शक्तिर्व्यावर्तत इति सर्वं समञ्जसम् || ] भवति | यथा नीलपदं पृ० ३२) न केवलं स्वस्यैव वाचकं अपि तु स्वविशिष्टोत्पलस्याऽपि तथा चराचरप्रपञ्चवाचकसर्वपदमपि न केवलं चराचरप्रपञ्चवाचकं अपि तु तद्विशिष्टशिवतत्वस्यापीति अत उक्तं [ब्रह्मणः शरीरलक्षणप्रदर्शनेन सर्वपदवाच्यत्वोपपादकं वायुसंहितावचनमुदाहरति | विग्रहमिति | विग्रहमिति छान्दसो लिऽऽन्गव्यत्ययः | अनेन श्लोकेन सामान्यतः सर्वप्रपञ्चस्य परमेश्वरशरीरत्वं दर्शितं | द्वितीयश्लोकेन विशिष्य चेतनाचेतनात्मकस्य तस्य तच्छरीरत्वं दर्शितं | तस्य द्वितीयार्धे रूपमेव न सन्देहः इत्युक्या प्रपञ्चस्य तच्छरीरत्वं मुख्यमेव न त्वौपचारिकमिति दर्शितं | तदुपपादनार्थं शरीरलक्षणसूचनपूर्वकं प्रपञ्चे तदनुगतिः विश्वं तस्य वशे यतः| इत्युक्त्या दर्शिता | अनेन वश्यत्वरूपं नियम्यत्वं शरीरलक्षणमिति सूचितं | स्वामिनियम्यभृत्यादिष्वतिव्याप्तिवारणार्थं यो यद्व्यापनेन नियच्छति तत्तस्य शरीरमिति तल्लक्षणं विशेषणेन परिष्कर्तुं द्वितीयार्धे विभोरिति विशेषणेन तस्य स्वनियम्यप्रपञ्चव्यापकत्वमुक्तं | तदभिप्रायेणैव तस्य नामाष्टकनिर्वचनमपि सऽऽन्गच्छते | श्हक्तितत्वादिभूम्यन्तं पृथिव्यादि घटादि च | व्याप्याधितिष्ठति शिवस्तस्माद्विष्णुरुदाहृतः || पृ० ३३) इति | स्वामी भृत्यासंसृष्टस्तं नियच्छति | नाविको नावमारुह्य नियच्छन्नपि तदेकदेशे वर्तते | कृत्रिमव्याघ्रः पुमान् व्याघ्राकृतिदारुचर्मादियन्त्रमनुप्रविश्य नियच्छन्नपि न तद्व्याप्याधितिष्ठति हस्तपादादिकं वियुक्तावस्थापन्नं कदाचित्प्रेरणादिनाधितिष्ठन्नपि व्याप्य नाधितिष्ठतीति न तेष्वतिव्याप्तिः | परस्परसंयोगविशेषरूपावस्थाविशेषापन्नं तु हस्तपादादिकं शरीरमेवेति तस्य लक्ष्यत्वात् तत्र नातिव्याप्तिः | प्राणेन्द्रियवर्गस्यापि लिऽऽन्गशरीरान्तर्गतत्वेन लक्ष्यत्वात् तत्रापि नातिव्याप्तिः | संसारिणश्चिच्छक्तिव्याप्त्या स्वशरीरे नियम्यप्रदेशानधिष्ठायैव नियच्छन्ति | मुक्ताश्चिच्छक्तिव्याप्त्यैव विश्वमधिष्ठाय नियच्छन्तीति न क्वाप्यव्याप्तिः | इदञ्च जगज्जन्मादिब्रह्मलक्षणवत् कादाचित्कमुपलक्षणतया लक्षणं न विशेषणतया | अतः सुषुप्तशरीरस्य शरीरत्वापत्तिरिति दोषस्य नावकाशः | न चैवं सति मुक्तौ यावदधिष्ठास्यति चैत्रस्तावतस्तं प्रति संसारावस्थायामपि शरीरत्वापत्तिर्दोषः | इष्टापत्तेः | अत एव मनुष्यादिशरीरमात्रविषयपरिच्छिन्नाहंभावस्य भ्रान्तिरूपत्वमुपपद्यते | इदमेव शरीरलक्षणं सूचयितुं यः पृथिव्यां तिष्ठन् इत्याद्यन्तर्यामिब्राह्मणे परमेश्वरस्य पृथिव्यादिषु बहिरन्तश्च व्याप्तिदर्शनपूर्वकं पृथिव्यादेस्तन्नियम्यत्वमुक्तं | अतः श्रुतानुषक्तसर्वब्रह्मशब्दयोरैकार्थ्यस्यापि न हानिः | प्रपञ्चवाचिशब्दप्रवृत्तिनिमित्तानां साक्षात्परंपरासाधारण्येनापृथक्सिद्धस्वाश्रयमात्रे शब्दप्रवृत्तिनिमित्ततायाः समर्थितत्वेन सर्वशब्दः प्रपञ्चे ब्रह्मणि चाभिधेये प्रवृत्तिनिमित्तभेदाभावात् प्रपञ्चब्रह्मणोरुद्येश्य विधेयभावज्ञापकः | पदयोः प्रथमचरमभावस्तु वाक्यप्रमाणरूपत्वाद्ब्रह्मश्रुत्यनुग्रहाय बाध्यः | शर्वं खल्विदं ब्रह्म इत्युक्तार्थस्य हेतुसमर्पकस्येतिकरणस्य श्रुतित्वेऽपि ब्रह्मश्रुतिगर्भवाक्ये प्रवृत्तिमपेक्ष्य तदर्थस्येतिकरणेन हेतुत्वं वक्तव्यमिति प्रथमप्रवृत्तब्रह्मश्रुत्यनुग्रहाय ब्रह्मणः सर्वशरीरत्वे प्रतिपाद्यमाने तत्समानसंवित्संवेद्यं सर्वस्य ब्रह्मशरीरत्वं तेन हेतुतयोच्यत इति समर्थनीयमित्यलम् ||]विग्रहं पृ० ३४) देवदेवस्य जगदेतच्चराचरं | एतमर्थं न जानन्ति पशवः पाशगौरवात् | विद्येति चेतनां प्राहुस्तथाऽविद्यामचेतनां | विद्याविद्यात्मकं सर्वं विश्वं विश्वगुरोर्विभोः| रूपमस्य न सन्देहो विश्वं तस्य वशे यतः | सत्ये साधौ च सच्छब्दः सद्भिरेव प्रयुज्यते | विपरीते त्वसच्छब्दः कथ्यते वेदवादिभिः | सच्चासच्च जगद्विश्वं शरीरं परमात्मनः || इति | अत्रेदं बोध्यं | एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं भोग्यरूपान्नपानादिकं एतदायतनभूतभूरादिचतुर्दशभुवनानि एतदायतनभूतं ब्रह्माण्डं चैतत्सर्वं | स्थूलप्रपञ्चस्तत्कारणीभूतसूक्ष्मभूतानि सूक्ष्मशरीरजातं चैतत्सर्वं स्थूलाचेतनशक्तिस्वरूपं भवति | एतत्कारणीभूतं बिम्बस्थानीयं कलादिपञ्चकं कारणशरीरजातञ्चैतत्सर्वं स्थूलचेतनशक्तिस्वरूपं भवति | अत एतत्समस्तचेतनाचेतनात्मकप्रपञ्चे व्यापकभावमापन्नेन परशिवेन नियम्यत्वादेतत्सर्वं तच्छरीररूपमेवेति | नचैवं सति परशिवस्य स्थूलचिदचिद्रूपशक्तिविशिष्टत्वे जीवलक्षणातिव्याप्तिरिति वाच्यं | वैशिष्ठ्यस्य सम्बन्धभेदस्वीकारेण तद्दोषवारणसम्भवात् | सम्बन्धस्तु लक्षणे स्वतादाम्यापृथग्भावान्यतरसम्बन्धः | अत्र तु स्वामित्वादिसम्बन्धः इति || ७ || पृ० ३५) एवं स्वतादात्म्यापृथग्भावान्यतरसम्बन्धेन कलादिभूम्यन्तस्थूलचिदचिद्रूपशक्तिविशिष्टत्वात् अस्य जीवचैतन्यस्य सर्वकर्तृत्व-सर्वज्ञत्व-पूर्णत्व-नित्यत्व-व्यापकत्वरूपाः सूक्ष्मशक्तयः सऽऽन्कोचवत्यो भवन्ति | तस्मादस्याप्रतिहतस्वातन्त्र्यरूपेच्छाशक्तिः सऽऽन्कुचिता सती- अपूर्णंमन्यतारूपमाणवमलमित्युच्यते | ज्ञानशक्तिः सऽऽन्कुचितासती सर्वज्ञत्वस्य किञ्चिज्ञत्वाप्तेरन्तःकरणबुद्धीन्द्रियसम्बन्धवशाद्भेदवेद्यप्रथारूप. म् मायीयंमलमित्युच्यते | एवं क्रियाशक्तिः सऽऽन्कुचितासती सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः कर्मेन्द्रियसम्बन्धवशात् शुभाशुभानुष्ठानमयकार्ममलमित्युच्यते | तथाचोक्तं शिवादित्यचरणैः मलोपहतचैतन्यं कलाविद्यासमाश्रयं | रागेणरञ्जितात्मानं कालेन कलितं तथा | नियत्या यमितं भूयः पुंभावेनोपबृंहितं | प्रधानाशयसम्पन्नं गुणत्रयसमन्वितं | बुद्धितत्वसमासीनं अहऽऽन्कारसमावृतं | मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः | संयुतं जीवमित्याहुः संसारावृतलक्षणं || इति | अतो मलत्रयविशिष्टे संसारतापसन्तप्ते जीवे स्थूलचिदचिद्रूपशक्तिविशिष्टत्वरूपलक्षणसमन्वये न कोऽपि दोषावकाश इति सुधीभिरेव विभावनीयम् || इति जीवतत्वविवेकः || इति द्वितीयपरिच्छेदः|| पृ० ३६) अथ तृतीयपरिच्छेदः| एवं सूक्ष्मस्थूलप्रपञ्चाकारशक्त्युपाधिभेदेन शिवजीवयोर्भेदो निरूपितः | इदानीं तयोरभेदात्मकं शिवाद्वैतं निरूप्यते शिवाद्वैतमित्यत्र शिवश्च शिवश्च शिवौ तयोरद्वैतं शिवाद्वैतं इति व्युत्पत्तिबललभ्यं प्रथमशिवपदं सूक्ष्मचिदचिद्रूपशक्तिविशिष्टब्रह्मबोधकं भवति | अपरं शिवपदं स्थूलचिदचिद्रूपशक्तिविशिष्टजीवबोधकं भवति | अद्वैतपदञ्च तयोरभेदबोधकं भवति | तथाच स्वशक्तिपरिणामवशात् मलत्रयसम्बन्धेन शरीरत्रयावच्छिन्नं सत् स्वस्वरूपगोपनावशेन जीवभावमापन्नं यत्परशिवतत्वं तत्स्वशक्तिविकासवशात् मलत्रयापगमेन शरीरत्रयानवच्छिन्नं सत्स्वस्वरूपानन्दरसनिर्भरं स्वयमेव भवतीति न तयोरात्यन्तिकभेदः उपपद्यते इति | तथाचोक्तं चैतन्यमात्मनो रूपं सच्चिदानन्दलक्षणं | तस्यानावृतरूपत्वात् शिवत्वं केन वार्यते || इति || १ || नच विरुद्धशक्तिविशिष्टयोः शिवजीवयोरात्यन्तिकभेद एव प्रतीयते कथं तयोरभेदः उपपद्यते इति वाच्यं | सूक्ष्मचिदचिद्रूपशक्तिविशिष्टशिवस्य कारणत्वं स्थूलचिदचिद्रूपशक्तिविशिष्टस्य तस्य कार्यत्वमिति वदतामस्माकं मते कार्यकारणयोरभेदपर्यवसानेनात्यन्तिकभेदस्य सूदूरपराहतत्वात् | न चोपादानोपादेययोरात्यन्तिकभेदो दृष्टचरः पिण्डत्वेन घटत्वेन पृ० ३७) पिण्डघटयोर्भेदेऽपि मृण्मयत्वेन तयोरभेदबोधस्य सार्वजनीनत्वात् | विशिष्टस्य विशिष्टं प्रति विशेषणस्य विशेषणं प्रति उपादानोपादेयभावाऽऽन्गीकारेण च तत्तच्छक्त्योरप्यभेदबोधसम्भवात् | नच तदवच्छेदकतावच्छेदकतयोः सूक्ष्मत्वस्थूलत्वयोर्भेदेन तद्विशिष्टशक्त्योरपि भेदो युक्तः| चिदचिद्रूपत्वेन तयोरभेदस्यैव पर्यवसानात् | तस्माज्जीवब्रह्मणोरभेदाऽऽन्गीकारे [मुण्डकोपनिषदि ३-१-१| अत्रायमाशयः | द्वा सुपर्णा इति श्रुतौ जीवब्रह्मणोर्भेदः प्रतिपादितो भवति एवं द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेवच इत्यत्रापि | एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन नान्योतोऽस्ति द्रष्टा नान्योतोऽस्ति श्रोता इत्यादौ एक एव रुद्रो न द्वितीयाय तस्थे इत्यत्र यत्र नान्यत्पश्यति नान्यच्छृणोति इत्यादौ च जीवब्रह्मणोरभेदः प्रतिपद्यते इति परस्परश्रुतिविरोधान्न केवलं द्वैतं नाप्यद्वैतं मन्तुं शक्यते अपि तु द्वैताद्वैतरूपशक्तिविशिष्टाद्वैतपक्ष एव मन्तव्यः | तदर्थस्तु शक्तिश्च शक्तिश्च शक्ती ताभ्यां विशिष्टे शक्तिविशिष्टे तयोरद्वैतं शक्तिविशिष्टाद्वैतमिति | अत्र प्रथमशक्तिपदेन सूक्ष्मचिदचिद्रूपप्रपञ्चाकारशक्तिरुच्यते | अपरशक्तिपदेन स्थूलचिदचिद्रूपप्रपञ्चाकारशक्तिरुच्यते | तच्छक्तिद्वयविशिष्टपदेन शिवजीवावुच्येते | तयोरद्वैतं एकत्वमस्तीति सिद्धान्तस्वरूपं अर्थात् सूक्ष्मावस्थापन्नशक्तिविशिष्टस्य-स्थूलावस्थापन्नशक्तिविशिष्टस्य चान्तर्यामिप्रधानभूतन्नियामकं परशिवतत्वमेकमेव तस्य चेतनानां जीवानामन्तर्यामिचेतनरूपत्वात् तदपेक्षया ङान्योऽतोऽस्ति द्रष्टा इत्यादि ङान्यच्छृणोति इत्यादि च श्रुतिवाक्यमुपपद्यते | शरीरेन्द्रियाद्यनेकवस्तुवैशिष्टेऽपि देवदत्त एकेवेदानीं स्वगृहेऽस्तीति व्यवहारस्य प्रवृत्तिवत् एकमेवाद्वितीयं ब्रह्म इत्युपपन्नम् | द्वा सुपर्णा इति तु स्वरसतयैवोपपन्नमिति न कस्या अपि श्रुतेर्विरोध इत्याह विरोधाभावादिति |]द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयो- पृ० ३८) रन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति | द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव च इति भेदप्रतिपादकवाक्यविरोधेन भेदाऽऽन्गीकारे एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन एक एव रुद्रो न द्वितीयाय तस्थे यत्र नान्यत्पश्यति नान्यच्छ्रणोति नान्यद्विजानाति स भूम इत्यभेदविधायकवाक्यविरोधेन चोभयोरप्रामाण्यप्रसक्त्या शक्तिविशिष्टाद्वैतपक्ष एवाऽऽन्गीकरणीयः एतत्पक्षेतु सूक्ष्मस्थूलचिदचित्प्रपञ्चाकारशक्तिविशिष्टयोरभेदमादायाद्वैतवाक्य अनां विशेषणविशेष्यभेदमादायद्वैतवाक्यानामपि प्रामाण्यसिद्ध्याविरोधाभावात् || २ || नन्वस्तु कार्यकारणयोरभेदमादाय तयोरद्वैतसिद्धिः किन्तु शरीरत्रयावच्छिन्नजीवस्य तदनवच्छिन्नेन शिवेनसहाभेदबोधा- [अभेदबोधासम्भवेनेति | यद्यप्यभेदबोधे प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदोऽपि तन्त्रम् | यथा ङीलो घटः इत्यत्र नीलत्वघटत्वयोः | अत एव घटो घटः इत्यादौ नाभेदबोधः इति जीवब्रह्मणोरुपाद्ध्योर्भेदे नाभेदबोधस्य प्रतिकूलः अपि तु उक्तदिशाऽनुकूल एव भवति | तथाऽपि तयोः शरीरेन्द्रियाद्यनेकवस्त्ववच्छिन्नत्वानवच्छिन्नत्वनिबन्धनगतसर्वज्ञत्वकि ञ्चिज्ञत्वयोर्विरुद्धत्वात् भागत्यागलक्षणोपादीयते नीलत्वघटत्वयोर्भिन्नत्वेऽपि विरुद्धत्वाभावान्न तादृशलक्षणापेक्षेत्यग्रे स्फुटीभविष्यति |] पृ० ३९) सम्भवेन तयोरात्यन्तिकभेदस्य दुर्वारत्वादिति चेदुच्यते | [दृष्टान्तपुरःसरेण सऽऽन्गमयति यथेति |]यथा घटमठाद्युपाध्यवच्छिन्नस्याकाशस्योपाधिभेदेन भेदोपपादनेऽपि तदनवच्छिन्नेन महाकाशेन सहाभेदवोधः उपपद्यते | तथा तत्तच्छरीरावच्छिन्नस्य जीवचैतन्यस्य तत्तच्छरीरभेदेन भेदोपपादनेऽपि तदनवच्छिन्नेन शिवचैतन्येन तहाभेदबोध उपपद्यते | तथा च श्रूयते वातुलोत्तरे महद्धटप्रभेदेन यथाकाशः प्रतीयते | प्रतीयते तथाचैकं स्थलं लिऽऽन्गाऽऽन्गभेदतः | अत्रेदं बोध्यं पूर्वोक्तदिशा सच्चिदानन्दस्वरूपं नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टस्वरूपलक्षणं सकलजगज्जन्माद्युपलक्षणं सर्वविलक्षणं सर्वात्मकं यत्परशिवचैतन्यं तत् स्थलशब्देनाभिधीयते श्थीयते लीयते यत्र तत्स्थलं ब्रह्मशाश्वतं श्थाणौ सर्वाश्रयेऽनन्ते सच्चिदानन्दरूपिणि | यस्मिन् ब्रह्मणि लीयेत प्रपञ्चस्तत्स्थलं स्मृतं इत्याद्यागमोक्तेश्च | यदा तत्परशिवचैतन्यं नामरूपविभागार्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं भवति तदा विरूपाक्षत्व-कृष्णपिऽऽन्गलत्व- पृ० ४०) नीलकण्ठत्वादिविशिष्टपञ्चविंशतिलीलामऽऽन्गलस्वरूपस्वभावं भवशिवशर्वमहादेवपरमेश्वराद्यष्टाभिधानवाचकं-सर्वज्ञत्व- नित्यतृप्तत्व-अनादिबोधत्व-स्ततन्त्रशक्तिमत्व-अलुप्तशक्तिमत्व- अनन्तशक्तिमत्वरूपासाधारणधर्मविशिष्टं महेश्वरतत्वमित्युच्यते | यदाऽस्य महेश्वरस्य सर्वज्ञत्वादयः शक्तयः कलारूपेण परिणमन्ति तदेतल्लिऽऽन्गपदवाच्यं भवति | एवं स्थूलचिदचिद्रूपशक्तिविशिष्टो जीवोऽनेकजन्मार्जितसुकृतजन्यस्वकर्मपरिपाकवशेन-विनष्टमलवासनो- नित्यानुष्ठितशिवार्चनशिवाचारादिजनितशिवप्रसादप्रभावेन शुद्धान्तःकरणो यदा जायते | तदाऽस्य जीवस्य किञ्चज्ञत्व किञ्चित्कर्तृत्वादिशक्तयो भक्तिरूपेण परिणमन्ति | तदाऽयं[जीवस्य अंगपदवाच्यत्वमाह अयं जीव इति | अत्रेदं मन्तव्यं | अऽऽन्गपदस्य रूढिशक्त्या शरीरवाचित्वेऽपि यस्य चात्मा शरीरं यस्य चाव्यक्तं शरीरं इत्याद्यन्तर्यामिब्राह्मणेन पृथिव्यादि जीवात्मपर्यन्तस्य सकलस्य वस्तुजातस्य ब्रह्मशरीरत्वबोधनात् जीवात्मनोप्यऽऽन्गपदवाच्यत्वे न काप्यनुपपत्तिरिति | अनयैव दिशा ब्राह्मणेन शरीरेणात्मनो ब्राह्मणत्वब्राह्मणाभेदव्यवहारवत् ब्रह्मणः शरीरभूतेन जीवात्मना ब्रह्मणो जीवाभेदव्यवहारोऽपि नानुपपन्नो भवतीति तत्वं ||] जीवः अऽऽन्गपदवाच्यो भवति | सोऽयं अऽऽन्गपदवाच्यो जीवः शिवभक्तिप्रभावोन्मिषन्माहेश्वरशक्तिपातवशेन शरीरादिभिन्नः प्रत्यगात्माहमित्यात्मानात्मविचारविचक्षणः स्रक्चन्दनवनितादिविषयसुखस्य ज्योतिष्टो- पृ० ४१) मादिजन्यस्वर्गादिसुखस्य च नश्वरत्वं मन्यमानोऽस्मिन् जननमरणादिदुःखकलुषिते संसारेऽसारतामनुभवन् संसारानुरागं परित्यजति | एवं पिण्डतापिण्डविज्ञानसंसारहेयस्थलसम्पन्नोजीवः संसारनाशकं घनलिऽऽन्गपर्यायवाचकं परं ब्रह्म जिज्ञासुः उपहारपाणिः सन् शिवसिद्धान्ततत्वज्ञं शिष्यसन्देहविच्छेदकं सर्वतन्त्रस्वतन्त्रं आचार्यकुलसञ्जातं अष्टावरणविशिष्टज्ञानप्रतिपादकं लिऽऽन्गाऽऽन्गसामरस्यरहस्यबोधकं श्रोत्रियं ब्रह्मनिष्ठं भगवन्तं श्रीगुरुमुपसृत्य तमनुसरति | [मुण्डकोपनिषदि १-२-१२ |]परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं इति श्रुतेः | अथ स करुणासागरः श्रीगुरुः स्वसन्निधिं समागतं सर्वलक्षणलक्षितं स्वशिष्यं परमकृपया शिवदीक्षायां नियोजयन् आदौ हस्तमस्तकसंयोगरूपवेधादीक्षया शिष्यस्य योगाऽऽन्गापरनामककारणाऽऽन्गावच्छिन्ने जीवे भावलिऽऽन्गं संयोज्य पञ्चाक्षरीमहामन्त्रोपदेशरूपमनुदीक्षया भोगाऽऽन्गापरनामकसूक्ष्माऽऽन्गावच्छिन्ने जीवे प्राणलिऽऽन्गं संयोज्य कुण्डमण्डपपञ्चकलशादिस्थापनपूर्वकशिवकलाविन्यासरूपक्रियादीक्. सया त्यागाऽऽन्गापरनामकस्थूलाऽऽन्गावच्छिन्ने जीवे इष्टलिऽऽन्गं योजयित्वा जीवात्मनि षढध्वन्यासपूर्वकशिवलिऽऽन्गमूर्तिं संस्थाप्य लिऽऽन्गे शिष्यप्राणान् समादाय तदिष्टलिऽऽन्ग शिष्यहरते पृ० ४२) निधाय करतलामलकन्यायेन शिष्यहस्तस्थितमिष्टलिऽऽन्गं निर्दिश्य सकलश्रुत्यागमपुराणप्रसिद्धाष्टावरणपञ्चाचारविशिष्टतया घनलिऽऽन्गैक्यरूपमोक्षसाधननिरुत्तरैकोत्तरशतस्थलगर्भीकृतषट्स्थ लप्रतिपादकसिद्धान्तशास्त्रप्रतिपाद्य ज्ञानक्रियापरिभेदेन रूपपदार्थसमर्पणप्रकारीभूताऽऽन्गलिऽऽन्गशक्तिभक्तिहस्तमन्त्र मुखपदार्थानुसन्धानाश्रयषड्भेदभिन्नस्थानावयवीभूतेष्टलिऽऽन्गप्र् आणलिऽऽन्गभावलिऽऽन्गपूजारूपोसनात्रैविध्यकतानमानसत्वेन लिऽऽन्गाऽऽन्गसामरस्यापरनामकशिवाद्वैतविद्यामुपदिशति [मुण्डकोपनिषदि १-२-१३ |]तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यां इति श्रुतेः || ३ || अथ लिऽऽन्गाऽऽन्गसामरस्यरहस्यप्रकारो[लिऽऽन्गाऽऽन्गयोः शिवजीवयोः सामरस्यं एकरसत्वं परस्परनित्यसम्बन्धित्वमितियावत् |] वर्ण्यते | तथाहि सच्चिदानन्दस्वरूपं परशिवतत्वापरनामकं घनलिऽऽन्गं स्वशक्तिपरिणामरूपकलाभेदेन सत्ताकलाविशिष्टं सत् भावलिऽऽन्गं चित्कलाविशिष्टं सत् प्राणलिऽऽन्गं आनन्दकलाविशिष्टं सत् इष्टलिऽऽन्गमिति त्रिविधं भवति | पुनरेतल्लिऽऽन्गत्रयं स्वगतोपाधिभेदेन प्रत्येकं द्विविधं द्विविधं भवति | तत्र भावलिऽऽन्गं शान्त्यतीतोत्तरकलाविशिष्टं महालिऽऽन्गं शान्त्यतीतकलाविशिष्टं प्रसाद- पृ० ४३) लिऽऽन्गमिति द्विविधं भवति | प्राणलिऽऽन्गन्तु शान्तिकलाविशिष्टं जंगमलिऽऽन्गं विद्याकलाविशिष्टं शिवलिऽऽन्गमिति द्विविधं भवति | इष्टलिऽऽन्गं प्रतिष्ठाकलाविशिष्टं गुरुलिऽऽन्गं निवृत्तिकलाविशिष्टं आचरलिऽऽन्गमिति द्विविधं भवति | तथा चोक्तं [वातुलागमे |]घनलिऽऽन्गं महाभासं सच्चिदानन्दलक्षणं | निष्कलं निष्क्रियं शान्तं स्वतन्त्रं स्वप्रकाशि तत् | सर्वेषां स्थानभूतत्वात् लयभूतत्वतस्तथा | तत्वानां महदादीनां स्थलमित्यभिधीयते | स्थाणौ सर्वाश्रयेऽनन्ते सच्चिदानन्दरूपिणि | यस्मिन् ब्रह्मणि लीयेत प्रपञ्चस्तत्स्थलं स्मृतं | स्वशक्तिक्षोभमात्रेण स्थलं तद्विविधं भवेत् | एकं लिऽऽन्गस्थलं प्रोक्तं अन्यदऽऽन्गस्थलं स्मृतं | लिऽऽन्गस्थलं त्रिधा ज्ञेयं भावप्राणेष्टभेदतः | प्रथमं भावलिऽऽन्गं स्यात् द्वितीयं प्राणलिऽऽन्गकं | तृतीयमिष्टलिऽऽन्गं स्यादित्येवं त्रिविधं स्मृतं | एकमेकं स्थलं भूयो द्विविधं द्विविधं भवेत् | महालिऽऽन्गं प्रसादाख्यं भावलिऽऽन्गविभागजं | प्राणलिऽऽन्गाज्जऽऽन्गमाख्यं शिवलिऽऽन्गञ्च भिद्यते | गुरुलिऽऽन्गं तथाचारलिऽऽन्गमिष्टविभागतः | इति || ४ || एवं जीवापरवाचकाऽऽन्गस्थलं स्वगतभक्त्युपाधिभेदेन विशुद्धभक्तिविशिष्टं योगाऽऽन्गं विचारभक्तिविशिष्टं भोगाऽऽन्गं विधेयभक्तिविशिष्टं त्यागाऽऽन्गमिति त्रिविधं भवति | पुनरेतदऽऽन्गत्रयं स्वगतभक्त्युपाधिभेदेन प्रत्येकं द्विविधं द्विविधं भवति | तत्र पृ० ४४) योगाऽऽन्गं समरसभक्तिविशिष्टं ऐक्यस्थलं आनन्दभक्तिविशिष्टं शरणस्थलमिति द्विविधं भवति | भोगाऽऽन्गं अनुभवभक्तिविशिष्टं प्राणलिऽऽन्गिस्थलं अवधानभक्तिविशिष्टं प्रसादिस्थलमिति द्विविधं भवति | त्यागाऽऽन्गं नैष्ठिकाभक्तिविशिष्टं माहेश्वरस्थलं श्रद्धाभक्तिविशिष्टं भक्तस्थलमिति द्विविधं भवति | तदुक्तं अऽऽन्गस्थलं तथा प्रोक्तं आचार्यैः सूक्ष्मदर्शिभिः | योगाऽऽन्गं प्रथमं प्रोक्तं भोगाऽऽन्गञ्च द्वितीयकं | त्यागाऽऽन्गञ्च तृतीयं स्यात् इत्येवं त्रिविधं स्मृतं | योगाऽऽन्गमैक्यं शरणस्थलमित्युभयं भवेत् | प्राणलिऽऽन्गी प्रसादीति द्वयं भोगाऽऽन्गमिष्यते | माहेश्वरस्थलं भक्तस्थलमित्युभयस्थलं | त्यागाऽऽन्गं भवतीत्येव प्रोच्यते तत्वदर्शिभिः | इति || ५ || एवमत्रानुग्राहकत्वाल्लिऽऽन्गस्थलमुपास्यं अनुग्राह्यत्वादंगस्थलमुपासकं भवति | उपासनाया द्वैतभावनिवृत्तिहेतुत्वात्तयोरुपास्योपासकभावमापन्नयोर्लिऽऽन्गाऽऽन्गयोर्भ्र मरकीटक१न्यायेनाभेद[यथा भ्रमरध्यानासक्तः कीटः भ्रमर एव भवति तथा शिवध्यानासक्तो जीवः शिव एव भवतीति मोक्षदशायां तयोरभेद एवेति भावः | तथा चोक्तं यथा भ्रमरयोगेन कीटोऽपि भ्रमरायते | मानवः शिवयोगेन शिवः सञ्जायते तथा || श्हिवयोगरतो योगी शिव एव न संशयः || इत्याद्यागमोक्तेः ||] एव स्थास्यति | न च शरीरत्रयावच्छिन्नस्य अऽऽन्गपदवाच्यजीवस्य शरीरत्रयानवच्छिन्नेन लिऽऽन्गपदवाच्यशिवेन पृ० ४५) सह कथमभेदः स्थास्यतीति वाच्यं | शर्वेष्वऽऽन्गेषु सर्वत्र सर्वदा सर्वतोमुखं | लिऽऽन्गं गुरूपदेशेन सुप्रतिष्ठितमात्मनि | प्रकाशति ततोऽमुष्य चेतनस्य निरन्तरं | इति वातुलोत्तरवचनेन श्रीमद्गुरुणा दीक्षात्रयेणास्य[तनुत्रयगतानादि मलत्रयमसौ गुरुः | दीक्षात्रयेण सन्दग्ध्वा लिऽऽन्गत्रयमुपादिशत् इति दिव्यागमे ||] जीवस्य मलत्रयमपनोद्य शरीरत्रये स्थापितलिऽऽन्गत्रयसम्बन्धात् सर्वाऽऽन्गलिऽऽन्गमयत्वेनास्य सर्वेन्द्रियेषु सर्वशरीरेषु च सर्वं लिऽऽन्गमयमेव भवतीति कुतोऽस्य शरीरत्रयावच्छिन्नत्वशऽऽन्कावकाशः | यथा कलारूपेण शरीरत्रयावच्छिन्नमपि लिऽऽन्गं तदनवच्छिन्नं भवति | तथा भक्तिरूपेण शरीरत्रयावच्छिन्नमप्यऽऽन्गं तदनवच्छिन्नं भवति | तथा च श्रूयते | श्हक्तिरेव स्मृता भक्तिर्भक्तिरेव हि स सदा| शक्तिभक्त्योर्न भेदोऽस्ति परमार्थनिरूपणे || शक्तिः प्रवृत्तिराख्याता निवृत्तिर्भक्तिरीरिता | शक्त्या प्रपञ्चसृष्टिः स्यात् भक्त्या तद्विलयो मतः | शक्तिर्वैचित्र्यतो रूपं नीरूपमपि याति हि | भक्तिर्वैचित्र्यतो रूपमपि नीरूपतामियात् | प्रपञ्चवृध्यपेक्षा हि शक्तेः स्वाभाविको गुणः | प्रपञ्चसंक्षयापेक्षा भक्तेः स्वाभाविको गुणः || अधोमुखी भवेच्छक्तिः भक्तिरूर्ध्वमुखी भवेत् | समाया शक्तिराख्याता निर्माया भक्तिरीरिता | अपि तर्कप्रमाणाभ्यां शक्तेर्भक्तिर्गुणाधिका| उपास्यत्त्वं भवेच्छक्त्या भक्त्योपासकता भवेत् | तस्माल्लिऽऽन्गस्थले पृ० ४६) शक्तिर्भक्तिरऽऽन्गस्थले स्थिता | लिऽऽन्गस्थलं शिवः साक्षात् जीवात्माऽऽन्गस्थलं भवेत् | लिऽऽन्गांगस्थलयोरैक्यं शिवजीवैक्यमेव हि || इति || ६ || ननु भवदुक्तरीत्या जीवस्य सर्वाऽऽन्गलिऽऽन्गमयत्वं कथमुपपद्यते शरीरत्रयस्य यत्किञ्चित्स्थाने लिऽऽन्गत्रयस्य योजनादिति चेदुच्यते | शरीरत्रयस्य यत्किञ्चित्स्थाने लिऽऽन्गत्रयस्य योजनेऽपि तल्लिऽऽन्गत्रयं महालिऽऽन्गादिभेदेन षड्विधं भूत्वा सर्वाऽऽन्गमावृत्य तिष्ठति | एवं क्रमेण सर्वेन्द्रियेष्वपि तत्तल्लिऽऽन्गस्य योजनमवगन्तव्यं | तदुक्तं आचारलिऽऽन्गं घ्राणाख्यं भक्तस्थलसमाश्रयं | निवृत्तिकलयोपेतं गन्धग्रहणसाधनं | गुरुलिऽऽन्गन्तु जिह्वाख्यं माहेशस्थलसंश्रयं | प्रतिष्ठाकलयोपेतं रसग्रहणसाधनं | शिवलिऽऽन्गन्तु नेत्राख्यं प्रसादिस्थलसंश्रयं | विद्याकलासमोपेतं रूपग्रहणसाधनं | त्वगाख्यं चरलिऽऽन्गन्तु प्राणलिऽऽन्गिस्थलाश्रयं | शान्त्याख्यकलयोपेतं स्पर्शग्रहणसाधनं | प्रसादलिऽऽन्गं श्रोत्राख्यं शरणस्थलसंश्रयं | शान्त्यतीतकलोपेतं शब्दग्रहणसाधनं | मानसन्तु महालिऽऽन्गं ऐक्यस्थलसमाश्रयं | शान्त्यतीतोत्तरोपेतं सर्वग्रहणसाधनं | एवं कर्मेन्द्रियाऽऽन्गेषु क्रमाल्लिऽऽन्गस्य योजनं | ज्ञातव्यं योगिभिः सर्वं तत्तल्लिऽऽन्गामुभावतः || इति || ७ || अत्र यद्यपि महालिऽऽन्गादिषड्विधलिऽऽन्गानां स्थानानि तु ब्रह्मरन्ध्रादिषड्विधचक्राण्येव तत्तच्चक्रेष्वेव तेषां प्रत्यक्षयोग्य- पृ० ४७) त्वात् तथापि तत्तच्चक्रस्थितान्यऽपि लिऽऽन्गानि तत्तदिन्द्रियद्वारा तत्तत्पदार्थानुसन्धातृरूपत्वात् तत्तदिन्द्रियाणां तत्तल्लिऽऽन्गमुखत्वेन व्यपदिश्य लिऽऽन्गस्वरूपत्वमुपवर्णितं | अयमेव क्रमः केनोपनिषदि ओं केनेषितं पततिप्रेषितं मनः इत्युपक्रम्य श्ह्रोत्रस्य श्रोत्रं मनसो मनः इत्यादिनेन्द्रियाणां तत्तल्लिऽऽन्गमुखत्वमुपवर्ण्य यद्वाचानभ्युदितं येन वागभ्युद्यते | तदेव ब्रह्मत्वं विद्धि नेदं तदिदमुपासते इत्यादिना तत्तत्पदार्थानुसन्धातृरूपोपास्यवस्तुविधानेनोपदर्शितः | वातुलोत्तरेऽपि [अत्र घ्राणस्य घ्राणमाचारलिऽऽन्गस्य मुखमुच्यचे इत्यादिनाघ्राणेन्द्रियादीनां आचारादिलिऽऽन्गमुखत्वमुच्यते | न तु लिऽऽन्गरूपत्वं अनित्याचेतनानामिन्द्रियाणां नित्यचेतनरूपलिऽऽन्गस्वरूपत्वासम्भवात् | ननु तेषां लिऽऽन्गस्वरूपत्वाभावेऽपि लिऽऽन्गस्थानत्वेनोपवर्णने न काप्यनुपपत्तिः ततेव तेषां लिऽऽन्गमुखत्वमप्युपयुज्यते इति चेन्न | आधारादिषड्विधचक्राण्येव आचारादिषड्विधलिऽऽन्गस्थानानीति ग्रन्थकारेणानुपदमेवोक्तत्वात् | अतः घ्राणस्य घ्राणं इत्यत्र घ्राणस्य घ्राणपदोपलक्षितस्याधारचक्रस्थितस्याचारलिऽऽन्गस्य घ्राणं घ्राणेन्द्रियं मुखमुच्यते इत्यर्थो ग्राह्यः | पूर्वोदाहृत आचारलिऽऽन्गं घ्राणाख्यं इति वाक्येऽपि उपलक्षणविधयैव घ्राणपदस्याचारलिऽऽन्गेऽन्वयः न तु विशेषणविधया| अयमेवार्थः केनोपनिषदि स्पष्टीकृतः इत्यवधातव्यम् |]घ्राणस्य घ्राणमाचारलिऽऽन्गस्य मुखमुच्यते | जिह्वायाश्च तथा जिह्वा गुरुलिऽऽन्गमुखं भवेत् | चक्षुसश्च तथा चक्षुः पृ० ४८) शिवलिऽऽन्गमुखं भवेत् | त्वचस्त्वक्चररूपस्य लिऽऽन्गस्य मुखमुच्यते | मुखप्रसादलिऽऽन्गस्य श्रोत्रं श्रोत्रस्य कथ्यते | हृदयं हृदयस्यैव महालिऽऽन्गमुखं भवेत् | एवं लिऽऽन्गमुखं ज्ञेयं तत्तदऽऽन्गे प्रतिष्ठितं इति विस्तरेण प्रपञ्चितं विस्तरभयान्नेह लिख्यते || ८ || एवं जाग्रत्स्वप्नसुषुप्त्यात्मकावस्थात्रयसम्बन्धेन स्थूलसूक्ष्मकारणशरीरावच्छिन्नो विश्वतैजसप्राज्ञरूपो जीवः स्वगुरुणा दीक्षात्रयेण शरीरत्रये योजितलिऽऽन्गत्रयान्तर्भूतषड्विधलिऽऽन्गेभ्यस्तत्तत्पदार्थार्पणानुसन्धान द्वारा घनलिऽऽन्गैक्यरूपमहानन्दमनुभवतीति | तथा च रुद्रेणात्तमदन्ति रुद्रेण पीतं पिबन्ति रुद्रेणाघ्रातं जिघ्रन्ति तस्मात्प्रशान्तमनसा ब्राह्मणाः इत्यादि श्रुतेः | तत्र भक्तस्तावदाचारलिऽऽन्गस्य क्रियाशक्तियुक्तस्य श्रद्धाभक्त्या सुचित्तहस्तेन गन्धपदार्थं धृत्वा नकारमन्त्रमनुस्मरन् घ्राणेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा आनन्दी भवति | माहेश्वरो हि गुरुलिऽऽन्गस्य ज्ञानशक्तियुक्तस्य नैष्ठिकाभक्त्या सुबुद्धिहस्तेन रसपदार्थं धृत्वा मकारमन्त्रमनुस्मरन् रसनेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा आनन्दी भवति | प्रसादी तु शिवलिऽऽन्गस्येच्छाशक्तियुक्तस्य सावधानभक्त्या निरहऽऽन्कारहस्तेन रूपपदार्थं धृत्वा शिकारमन्त्रमनुस्मरन् नेत्रेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वा आनन्दी भवति | प्राणलिऽऽन्गी तु आदिशक्तियुक्तस्य जऽऽन्गमलिऽऽन्गस्य अनुभव- पृ० ४९) भक्त्या सुमनोहस्तेन स्पर्शपदार्थं धृत्वा वाकारमन्त्रमनुस्मरन् त्वगिन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वानन्दी भवति | शरणस्तु पराशक्तियुक्तस्य प्रसादलिऽऽन्गस्य आनन्दभक्त्या सुज्ञानहस्तेन शब्दपदार्थं धृत्वा यकारमन्त्रमनुस्मरन् श्रोत्रेन्द्रियमुखे समर्प्य तत्प्रसादभोगी भूत्वानन्दी भवति | ऐक्यस्तु चिच्छक्तियुक्तस्य महालिऽऽन्गस्य समरसभक्या सद्भावहस्तेन तृप्तिपदार्थं धृत्वा प्रणवमन्त्रमनुस्मरन् मनोमुखे समर्प्य तत् प्रसादभोगी भूत्वानन्दी भवति | एवं समर्पितवतो जीवस्य ज्ञप्ते ब्रह्मणि विश्रमितत्वात् ओंकारो वदनं देवि | नमः कारौ भुजद्वयं | शिकारो देहमध्यस्तु वायकारौ पदद्वयं | पीठं पादादि जान्वन्तमानाभेर्मध्यमीरितं | हृदयान्तं वर्तुलं स्यात् कण्ठान्तं गोमुखं स्मृतं | भ्रूमध्यान्तं लिऽऽन्गकण्ठो मस्तको लिऽऽन्गमस्तकः || इति वाक्यात् तत्तच्छरीरस्याऽपि मन्त्रलिऽऽन्गरूपत्वं सिद्धं तथापि यावच्छरीराधिवासस्तावत् क्रियाज्ञानसमुच्चयेनोपासनाविधानात् शरीरवियोगपर्यन्तं लिऽऽन्गाऽऽन्गसामरस्याचरणमव्याहतमेवेति मन्तव्यम् || ९ || एवं पृथ्व्या भक्ताऽऽन्गत्वात् सा तत्रैव लीना भवति चिद्धृतिरूपत्वात् | अपां माहेश्वराऽऽन्गत्वात् तास्तत्रैव लीना भवन्ति चिदाप्यायनरूपत्वात् | तेजसः प्रसाद्यऽऽन्गत्वात् तत्तत्रैव लीनं भवति चिदुज्वलनरूपत्वात् | वायोः प्राणलिऽऽन्ग्यऽऽन्गत्वात् स तत्रैव लीनो भवति स्वतन्त्रतालक्षणस्पन्दनरूपत्वात् | व्योम्नः शरणाऽऽन्गत्वात् तत्तत्रैव लीनं भवति चिद्व्याप्तिरूपत्वात् | वेद्य- पृ० ५०) संस्कारविशिष्टबिन्दुरूपमनस ऐक्याऽऽन्गत्वात् तत्तत्रैव लीनं भवति चिदानन्दरूपत्वात् | एवं रीत्या भक्तस्याचारलिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति गन्धपदार्थानुसन्धानसम्बन्धित्वात् | माहेश्वरस्य गुरुलिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति रसपदार्थानुसन्धानसम्बन्धित्वात् | प्रसादिनः शिवलिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति रूपपदार्थानुसन्धानसम्बन्धित्वात् | प्राणलिऽऽन्गिनो जऽऽन्गमलिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति स्पर्शपदार्थानुसन्धानसम्बन्धित्वात् | शरणस्य प्रसादलिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति शब्दपदार्थानुसन्धानसम्बन्धित्वात् | ऐक्यस्य महालिऽऽन्गाऽऽन्गत्वात् स तत्रैव लीनो भवति सर्वपदार्थानुसन्धानसम्बन्धित्वात् | एवं आचारलिऽऽन्गं गुरुलिऽऽन्गे लीनं भवति इष्टलिऽऽन्गसम्बन्धित्वात् | गुरुलिऽऽन्गं शिवलिऽऽन्गे लीनं भवति इष्टप्राणसम्बन्धित्वात् | शिवलिऽऽन्गं जऽऽन्गमलिऽऽन्गे लीनं भवति प्राणलिऽऽन्गसम्बधित्वात् | जऽऽन्गमलिऽऽन्गं प्रसादलिऽऽन्गे लीनं भवति प्राणभावसम्बन्धित्वात् | प्रसादलिऽऽन्गं महालिऽऽन्गे लीनं भवति भावलिऽऽन्गसम्बन्धित्वात् | महालिऽऽन्गं घनलिऽऽन्गैक्यलोलीभूतं भवति सच्चिदानन्दस्वरूपत्वात् | एवं पिण्डादिज्ञानशून्यान्तैकोत्तरशतस्थलानां क्रमोप्यनुसन्धनीयः| स चास्मत्कृतशिवानुभवसिद्धान्ते विस्तरेण प्रतिपादित इत्यत्रैव विरम्यते | इति शिवाद्वैतविवेकः | इति तृतीयः परिच्छेदः || पृ० ५१) अथ चतुर्थपरिच्छेदः | एवं पूर्वोक्तदिशा तत्त्वमस्यादिमहावाक्यार्थशोधनमपि सिद्धं भवति | तथाहि नामरूपविभागार्हसूक्ष्मचिदचिद्रूपशक्तिस्तद्विशिष्टं सर्वज्ञत्वादिधर्मविशिष्टं चैतन्यं नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं शुद्धचैतन्यं चैतत् त्रयं अहिकुण्डलवदेकत्वेन प्रतीयमानं सत् तत्पदवाच्यार्थो भवति | नामरूपविभागार्हसूक्ष्मचिदचिद्रूपशक्तितद्विशिष्टसर्वज्ञत्वादिधर्मिक् अचैतन्ययोराधारभूतं यन्नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं शुद्धचैतन्यं तत् तत्पदलक्ष्यार्थो भवति | एवं स्थूलचिदचिद्रूपशक्तिस्तद्विशिष्टं किञ्चिज्ञत्वादिधर्मिकचैतन्यं नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं शुद्धचैतन्यं चैतत् त्रयं त्वंपदवाच्यार्थो भवति | स्थूलचिदचिद्रूपशक्तितद्विशिष्टकिश्चित्ज्ञत्वादिधर्मिकचैतन्ययोराधारब् हूतं यन्नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं शुद्धचैतन्यं तत् त्वंपदलक्ष्यार्थो भवति | इदं तत्त्वमसीति महावाक्यं शिवजीवयोर्विरुद्धधर्मविशिष्टयोः साक्षादैक्यप्रतिपादकत्वाभावेऽपि लक्षणयासम्बन्धत्रयेणैकार्थं प्रतिपादयन्ति | सम्बन्धत्रयञ्च पदयोः सामानाधिकरण्यं पदार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्मतद्धर्मयोर्लक्ष्यलक्षणभावश्चेति | तत्र पदयोः सामानाधिकरण्यञ्च पृ० ५२) भिन्नप्रवृत्तिनिमित्तयोः[प्रवृत्तिनिमित्तं शक्यतावच्छेदकमित्यर्थः |] पदयोरेकस्मिन्नर्थे वृत्तिः | तच्च सोऽयं देवदत्त इत्यस्मिन् वाक्ये तत्कालतद्देशवैशिष्ट्यं तत्पदप्रवृत्तिनिमित्तं | एतत्कालैतद्देशवैशिष्ट्यं अयंपदप्रवृत्तिनिमित्तं | तथा च भिन्नप्रवृत्तिनिमित्तयोः सोऽयं पदयोरेकस्मिन् देवदत्तपिण्डे तात्पर्यसम्बन्धः | तद्वत् तत्त्वमसीतिवाक्येऽपि सूक्ष्मचिदचिद्रूपशक्तिवैशिष्ट्यं तत्पदप्रवृत्तिनिमित्तं | स्थूलचिदचिद्रूपशक्तिवैशिष्ट्यं त्वंपदप्रवृत्तिनिमित्तं | तथा च भिन्नप्रवृत्तिनिमित्तयोः तत्त्वंपदयोरेकस्मिन्नामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टे शुद्धचैतन्ये तात्पर्यसम्बन्धः सामानाधिकरण्यमिति || १ || पदार्थयोव्यावर्तकव्यावर्त्यभावसम्बन्धो[व्यावर्तकं विशेषणं व्यवच्छेदकमिति यावत् व्यावर्त्यं विशेष्यं व्यवच्छेद्यमिति भावः | तयोर्भावो विशेषणविशेष्यभावः स एव सम्बन्धः सम्बन्धवदुभयनिरूपणीयत्वात् इत्यभिप्रायेण विशेषणविशेष्यभावसम्बन्धं सदृष्टान्तमाह | स चेति |] विशेषणविशेष्यभावसम्बन्धः| स च सोऽयं देवदत्त इत्यत्र अयंपदवाच्यो सोऽसावेतत्कालैतद्देशविशिष्टो देवदत्तपिण्डो अयं स इति तच्छब्दवाच्यात् तत्कालतद्देशविशिष्टाद्देवदत्तपिण्डात् भिन्नो नेति यदा प्रतीयते तदा तच्छब्दार्थस्याऽयंपदवाच्यार्थनिष्ठभेदव्यावर्तकतया विशेषणं अयंपदार्थस्य व्यावर्त्यत्वाद्विशेष्यत्वं | पृ० ५३) तथा स इति तत्पदवाच्यस्तत्कालतद्देशविशिष्टो देवदत्तपिण्डः सोऽयमित्ययंपदवाच्यात् एतत्कालैतद्देशविशिष्टादस्माद्देवदत्तपिण्डात् भिन्नो नेति यदा प्रतीयते तदाऽयंशब्दवाच्यस्य तत्पदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तत्पदार्थस्य व्यावर्त्यत्वाद्विशेष्यत्वं | तथा चायमेव स स एवायं इत्यन्योन्यभेदव्यावर्तकतया सोऽयं पदार्थयोः परस्परं विशेषणविशेष्यभावः | तद्वदत्रापि तत्त्वमसीति महावाक्ये यत्त्वं पदवाच्यं स्थूलचिदचिद्रूपशक्तिविशिष्टं चैतन्यं तत् तत्पदवाच्यात् सूक्ष्मचिदचिद्रूपशक्तिविशिष्टचैतन्यात् भिन्नं नेति यदा प्रतीयते तदा तत्पदार्थस्य त्वंपदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं त्वंपदार्थस्य व्यावर्त्यत्वात् विशेष्यत्वं | तथा तत्पदवाच्यं यत् सूक्ष्मचिदचिद्रूपशक्तिविशिष्टं चैतन्यं तत् त्वंपदवाच्यात् स्थूलचिदचिद्रूपशक्तिविशिष्टचैतन्यात् भिन्नं नेति यदा प्रतीयते तदा त्वंपदार्थस्य तत्पदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तत्पदार्थस्य व्यावर्त्यत्वाद्विशेष्यत्वं | तथा च त्वं तदसि तत्त्वमसि इति तत्त्वंपदार्थयोः परस्परं भेदव्यावर्तकतया विशेषणविशेष्यभावसम्बन्धोऽवगन्तव्यः || २ || लक्ष्यलक्षणभावसम्बन्धस्तु प्रत्यगात्मतद्गतधर्मयोः लक्ष्यलक्षणभावसम्बन्धः| असाधारणधर्मप्रतिपादकं वाक्यं लक्षणवाक्यं तत्प्रतिपाद्यमवशिष्टं लक्ष्यम् | तथा च सोऽयं देवदत्त इत्यस्मिन्वाक्ये सोऽयं पदयोस्तदर्थयोर्वा विरुद्धतत्कालतद्देश- पृ० ५४) विशिष्टत्वैतत्कालैतद्देशविशिष्टत्वयोः परित्यागेनाविरुद्धदेवदत्तत्वविशिष्टदेवदत्तपिण्डेन सह देवदत्तत्वविशिष्टदेवदत्तवाचकशब्दस्य लक्ष्यलक्षणभावसम्बन्धः | तद्वत् तत्त्वमसीतिमहावाक्ये तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धसूक्ष्मस्थूलचिदचिद्रूपशक्तिविशिष्टत्वपरित्यागेन तत्त्वंपदाभ्यां लक्ष्याविरुद्धनामरूपविभागनर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टचैतन्ये न सह तत्त्वंपदयोर्लक्ष्यलक्षणभावसम्बन्धः | [तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा इत्यभिप्रायेणाह | इयमेव इति ||]इयमेवभागलक्षणेत्युच्यते | अत्र तत्त्वंपदयोस्तदर्थयोश्च त्यक्तविरुद्धांशयोर्लक्षणत्वं अखण्डपरशिवचैतन्यस्य लक्ष्यत्वमिति मन्तव्यम् || ३ || तत्राभिधेयाविनाभूतप्रवृत्तिर्लक्षणा[मानान्तरविरोधेन मुख्यार्थस्यापरिग्रहे | मुख्यार्थेनाविनाभूते प्रवृत्तिर्लक्षणेष्यते || इति शक्यार्थसम्बन्धस्यैव लक्षणात्वमिति भावः |] | सा च त्रिधा जहल्लक्षणा-अजहल्लक्षणा-जहदजहल्लक्षणा चेति | वाच्यार्थमशेषतः परित्यज्य तत्सम्बन्धिन्यर्थान्तरे वृत्तिर्जहल्लक्षणा | सा च गऽऽन्गायां घोषः इति वाक्यवदत्र न सऽऽन्गच्छते तत्र तु गऽऽन्गाघोषयोराधाराधेयभावलक्षणस्य वाक्यार्थस्याशेषतो विरुद्धत्वात् वाक्यार्थमशेषतः परित्यज्य तत्सम्बन्धिन्यर्थान्तरे तीरे लक्षणाया युक्तत्वात् जहल्लक्षणा सऽऽन्गच्छते | अत्र तु पृ० ५५) सूक्ष्मस्थूलप्रपञ्चाकारशक्तिविशिष्टचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य भागमात्रे विरोधात् भागान्तरमपि परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा न सऽऽन्गच्छते || ४ || वाच्यार्थपरित्यागेन तत्सम्बन्धिनिवृत्तिरजहल्लक्षणा | सा च शोणो धावति इत्यादिवाक्यवत् अत्र न सऽऽन्गच्छते | तत्र शोणगुणगमनलक्षणस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्षणया तद्विरोधपरिहारसम्भवादजहल्लक्षणा सऽऽन्गच्छते | अत्र तु सूक्ष्मस्थूलप्रपञ्चाकारशक्तिविशिष्टचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य विरुद्धत्वात् तदपरित्यागेन तत्सम्बन्धिनो यस्य कस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासम्भवादजहल्लक्षणा न सऽऽन्गच्छते | तस्माज्जहदजहल्लक्षणयैव महावाक्यार्थबोध इति | तथा चोक्तं गुरुचरणैः [शिवाद्वैतसुधाकरे |]एकात्मकत्वाज्जहती न सम्भवेत् | तथाऽजहल्लक्षणता विरोधतः | सोऽयं पदार्थाविव भागलक्षणा | युज्येत तत्त्वंपदयोरदोषतः | इति महावाक्यार्थबोधने जहदजहल्लक्षणैव स्वीकृता || ५ || तत्र वाच्यार्थैकदेशपरित्यागेनैकदेशवृत्तिर्जहदजहल्लक्षणा सा च यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालैतत्कालादिविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधात् विरुद्धतत्कालैतत्कालादिविशिष्टांशं परित्यज्याविरुद्धदेवदत्तांशमात्रं पृ० ५६) लक्षयति | तथा तत्त्वमसीति वाक्यं तदर्थो वा सूक्ष्मस्थूलप्रपञ्चाकारशक्तिविशिष्टचैतन्यैकत्वलक्षणस्य वाक्यार्थांशे विरोधात् विरुद्धसूक्ष्मस्थूलांशं परित्यज्याविरुद्धनामरूपविभागानर्हसूक्ष्मचिदचिद्रूपशक्तिविशिष्टं शुद्धचैतन्यमात्रं लक्षयति तथा चोक्तं तत्पदेनोच्यते लिऽऽन्गं त्वंपदेनाऽऽन्गमीरितं | अनयोरैक्यभावोऽयं सम्बन्धोऽसिपदेन च | इति वाक्यानुसन्धानं भासते यस्य सन्ततं | गुरूपदेशाल्लिऽऽन्गाऽऽन्गसम्बन्धीति स उच्यते || एवं लिऽऽन्गाऽऽन्गसम्बन्धभावना यस्य विद्यते | स योगी स च सर्वज्ञो जीवन्मुक्तः स उच्यते | लिऽऽन्गाऽऽन्गपदवाच्यार्थं हित्वा सम्यग्धिया पुनः | लक्ष्यार्थं लक्ष्ययित्वा तं सोहमेवेति चिन्तयेत् | लिऽऽन्गाऽऽन्गपदसम्भूतसम्यग्धीजन्ममात्रतः | अविद्यासहकारेण नाभूदस्ति भविष्यति || इति || ६ || न चेदं तत्त्वमसीति वाक्यं त्वमिन्द्रोऽसीति वत् स्तुतिपरं | नवकृत्वोऽभ्यासवैयर्थ्यप्रसऽऽन्गात् | नहि स्तुतिः पुनःपुनः परिचोदनापूर्वकं क्वचिदभ्यस्यते | अत एव नार्थवादोऽनन्यशेषत्वात् | नह्यस्मिन्प्रकरणेऽन्यत् किञ्चित्प्रधानवाक्यमुपलभ्यते यच्छेषत्वेनेदमर्थवादरूपं भवेत् | नापि राजपुरुषे राजायम् इति वत् औपचारिकमप्रमितभेदयोरैक्यस्यौपचारिकत्वानुपपत्तेः | नापि विपर्ययः संशयो वात्र सम्भवति श्रुतेः स्वतः प्रामाण्यात् | तस्मात्तत्त्वमस्यादिवाक्यं अखण्डार्थनिष्ठं अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणवाक्यत्वात् पृ० ५७) सोऽयं देवदत्त इति वाक्यवत् | तदेवं पदयोरखण्डार्थनिष्ठत्वेन सामानाधिकरण्यं वाच्यार्थांशे विरोधात् विना लक्षणां न सऽऽन्गच्छते | तथा चोक्तं तत्त्वंपदार्थे लिऽऽन्गाऽऽन्गरूपेऽन्योन्यविरुद्धकं | उपाधिकृतवाच्यार्थं त्यक्त्वा सच्चित्सुखात्मकं | लक्ष्यार्थमविरुद्धं यच्छिवं तदिति या मतिः | सा सम्बन्ध इति प्रोक्ता वेदान्तागमवेदिभिः || इति || ७ || [घनलिऽऽन्गापरनामकपरशिवचैतन्यप्रतिपादकस्य तत्त्वमसीतिवाक्यस्य अर्थं सप्रपञ्चमभिधाय इदानीं यजुर्वेदानुभववाक्यार्थो वर्ण्यते अहं ब्रह्मास्मीति ||]अहंब्रह्मास्मीत्यत्र पूर्वोक्ततत्त्वमसीति महावाक्यगतत्वंपदगृहीतस्थूलचिदचिद्रूपशक्तिविशिष्टो जीवोऽहंपदेनोच्यते | तथा तत्पदगृहीतसूक्ष्मचिदचिद्रूपशक्तिविशिष्टः परशिवो ब्रह्मपदेनोच्यते | एवं असिपदोक्तं तयोरैक्यमेवात्रास्मिपदेनोच्यते | तथा च परोक्षावबोधिततत्त्वमसीति महावाक्यार्थ एवापरोक्षेणाहं ब्रह्मास्मीत्यखण्डवाक्येनानुभूयते[श्रीगुरुमुखान्नवकृत्वस्तत्त्वमस्यादि वाक्यश्रवणात् देहाद्यहऽऽन्कारान्तजडपदार्थसकलदृश्यविलक्षणप्रत्यगात्मनः शुद्धेन परशिवेन सहैकत्वबोधानन्तरं कश्चिदधिकारी लब्धावसरं सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दैकरसं अनुभवेन जिज्ञासुराचार्योपदिष्टं अहं ब्रह्मास्मि इति वाक्यार्थमनुस्मरन् घनलिऽऽन्गैक्यरूपं स्वात्मानन्दमनुभवतीत्यर्थः ||] इति | तदुक्तं लिऽऽन्ग- पृ० ५८) रूपो महादेवः सच्चिदानन्दलक्षणः | अऽऽन्गरूपोहि जीवात्मा भवभावनियन्त्रितः | तत्पदेनोच्यते सद्भिः लिऽऽन्गरूपः सदाशिवः | त्वंपदेनाऽऽन्गरूपो हि जीवः संसारलक्षणः | त्वमर्थोऽऽऽन्गस्वरूपो यः सोऽहंशब्दार्थ एव हि | त्वमहंपदलक्ष्यार्थश्चिद्रूपः परमेश्वरः | त्वमहंपदवाच्यार्थस्यैव देहादिवस्तुनः | न ततच्छब्दार्थतश्चैव विरुद्धत्वात् सदैव हि | त्वमहंपदलक्ष्यार्थो जीवात्माचाऽऽन्गरूपकः | अशिवश्चेत्सदानन्दस्ततो नैव विलोकयेत् इति | वस्तुतो लक्ष्यार्थमादाय तत्त्वमसीति महावाक्येन परोक्षावबोधितलिऽऽन्गाऽऽन्गसामरस्यमेव अहंब्रह्मास्मीत्यखण्डवाक्येन लक्ष्यार्थतयाऽपरोक्षेणानुभवन् परमानन्दस्वरूपः शिवोऽहमिति भावनया जीवन्मुक्तो भवतीति | तदुक्तं एवं लिऽऽन्गाऽऽन्गसम्बन्धभावना यस्य विद्यते | स योगी स च सर्वज्ञो जीवन्मुक्तः स उच्यते || इति || ८ || अत्र यद्यपि अहमादिपदानामन्तर्यामिणि स्वात्मवृत्तिभ्यामेव प्रवृत्तिनिमित्तप्रयोगोपाधिभ्यां वृत्तावपि तयोस्तस्मिन्परंपरासम्बन्धघटकस्वात्मशिवसम्बन्धरूपतया स्वात्मशिवयोर्नियम्य नियामकभावस्याऽपि अन्तर्यामिपर्यन्तेभ्योऽहमादिपदेभ्यः प्रतीतिर्भवत्येव | अतोऽहमादिपदानां प्रपन्नप्रयुक्तानां अन्तर्यामिणि परशिवे शक्तिसत्वे बाधकाभावात् लक्षणा पृ० ५९) अयुक्ता | [परशिवस्य जीवान्तर्यामितया जीवानाञ्च तच्छरीरतया अहं मनुष्यः अहं देवः इति गोरोऽहं श्थूलोऽहं इत्यादिवत् अहमादिशब्दानां अन्तर्यामिणि शक्तिः सिद्ध्यतीति जीवब्रह्मणोरभेद एव प्रतीयते तर्हि किमर्थं वाच्यार्थपरित्यागेन लक्ष्यार्थमादायाभेद उपपाद्यते| किमर्थञ्च जीवब्रह्मणोः स्वरूपत एव भेदसिद्धौ स्थूलसूक्ष्मचिदचिद्रूपशक्तिद्वयं तयोर्भेदोपपादनाय परिगृह्यते इत्याशऽऽन्क्य परिहरति तथापीति| तथा च सच्चिदानन्दस्वरूपस्य सर्वशक्तिमतः सर्वज्ञस्य परशिवस्य चेतनाचेतनात्मकं सर्वं जगत् तादात्म्येनाभिमानविषयीभूतमिति परशिवः सर्वात्मक इत्युच्यते | जीवानान्तु चिद्रूपाणामेव स्थूलचिदचिद्रूपशक्त्यात्मकं तत्तच्छरीरमात्रं तादात्म्येनाभिमानविषयीभूतमिति जीवास्तत्तच्छरीरात्मकाः पृथक्पृथक्मेदवन्त इत्युच्यन्ते | परशिवस्य सर्वाभिमानित्वात् सर्वशक्तिविशिष्टत्वाच्च सर्वमेव जगत् स यथेच्छति तथा कर्तुं शक्नोति | तथा चोक्तं गीतायां शर्वतः पाणिपादञ्च सर्वतोक्षिशिरोमुखं | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्नामयन् सर्वभूतानि यन्त्रारूढानि मायया इति | जीवानां तु स्वस्वशरीराभिमानित्वात् अल्पशक्तिविशिष्टत्वाच्च स्वेच्छाप्रयत्नाभ्यां स्वस्वशरीरमात्रचेष्टने शक्तिर्भवति असति बाधके | अतः सर्वमेतदुपाधिकृतमिति उपाधिपरित्यागेन शुद्धचैतन्यरूपपरशिवस्वरूपमेव निजस्वरूपं भवतीति शिष्याणां सुबोधार्थमेव | वाच्यार्थपरित्यागपूर्वकलक्ष्यार्थमादाय महावाक्यार्थवर्णनं कृतमिति | अस्मिन् सिद्धान्ते उपाधीनां नाद्वैतसिद्धान्तोक्तमिथ्यात्वं किन्तु कार्यावस्थापन्नस्य कारणरूपतयावस्थानत्वरूपानित्यत्वमिति बोध्यम् ||]तथापि सर्वात्मकस्य परशिवस्य तादात्म्येन चिदचिद्रूपशक्त्यात्मकं सर्वं जगदभिमानविषयं | जीवानान्तु चिद्रूपाणां स्थूलचिदचिद्रूपशक्त्यात्मकं तत्तच्छरीरमात्रमभिमानविषयमिति अभिमानविषयीभूततत्तदुपाधिपरित्यागपूर्वकलक्ष्यार्थमादाय महावाक्यार्थबोधः शिष्याणां सुबोधार्थमेवेति मन्तव्यम् || ९ || पृ० ६०) [ऐतरेयोपनिषदि ३-३ |]प्रज्ञानं ब्रह्म इत्यत्र प्रज्ञानपदेन येन[ऐतरेयोपनिषदि ३-१ |] वा पश्यति येन वा श्रुणोति येन वा गन्धानाजिघ्रति इत्यादिना तत्तदिन्द्रियमुखेन तत्तत्पदार्थानुसन्धातृरूपषड्विधलिऽऽन्गात्मकत्वमुपवर्ण्य [ऐतरेयोपनिषदि ३-२ |]यदेतधृदयं इत्यारभ्य शर्वाण्येतानि प्रज्ञानस्य नामधेयानि भवन्ति इत्यन्तेन षड्विधलिऽऽन्गसमष्टिरूपं भावलिऽऽन्ग प्रतिपादितं | ब्रह्मपदेन [ऐतरेयोपनिषदि ३-३ |]एष ब्रह्मैष इन्द्रः इत्यारभ्य शर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं इत्यन्तेन समस्तचेतनाचेतनात्मकजगतस्तद्रूपत्वं प्रतिपाद्य पुनः प्रज्ञा प्रतिष्ठा इत्यनेन तन्निष्ठासाधारणधर्मरूपां सूक्ष्मचिदचिद्रूपशक्तिस्वरूपां प्रज्ञाशक्तिं उपवर्ण्य प्रज्ञानं ब्रह्म इत्यनेन परशिवतत्वं पृ० ६१) प्रतिपादितं | तदुक्तं [शिवाद्वैतसुधाकरे |]यदिन्द्रियमुखेनेदं श्रुणोति व्याकरोति च | ईक्षते रंसते चैवं जिघ्रतीदं स्वभावतः | तत्परं भावलिऽऽन्गाख्यं प्रज्ञानेन प्रकीर्तितं | यद्विष्णुमुख्यदेवेषु मनुष्यपशुपक्षिषु | चैतन्यमेकं तत् ब्रह्म तल्लिंगं चित्सुखात्मकं इति | तस्माद्भावलिऽऽन्गरूपमेव षट्स्थलात्मकपरब्रह्मेति वाक्यार्थबोधः|| १० || [माण्डूक्योपनिषदि ३ |]अयमात्मा ब्रह्म इत्यत्र अयमात्मपदाभ्यां अऽऽन्गुलिना निर्दिश्यमानायंपदवाच्यो जाग्रत्स्वप्नसुषुप्त्यात्मकावस्था त्रयनिबन्धनस्थूलसूक्ष्मकारणशरीरावच्छिन्नत्यागाऽऽन्गभोगाऽऽन्गयोगाऽऽ न्गापरनामको जीव उच्यते | ब्रह्मपदेनावस्थात्रयविरहितं यत्तुरीयावस्थाप्रपन्नं शरीरत्रयानवच्छिन्नं इष्टलिऽऽन्गप्राणलिऽऽन्गभावलिऽऽन्गसमष्टिरूपं घनलिऽऽन्गात्मकपरशिवतत्त्वमुच्यते | तथा च माण्डूक्योपनिषदि ओं [माण्डूक्योपनिषदि ३ |]इत्येतदक्षरमिदं इत्यारभ्य अयमात्मा ब्रह्म सोयमात्मा चतुष्यात् इत्यन्तेन मूलप्रणवरूपेण ब्रह्मस्वरूपप्रतिपादनद्वाराऽयंपदविशेषितजीवात्मनो ब्रह्मगतचतुर्विधरूपान्तर्गतत्वं सामान्येन प्रदर्श्य तदेव पुनः जागरितस्थानो बहिष्प्रज्ञः इत्यारभ्य आनन्दभुक् चेतो मुखः प्राज्ञस्तृतीयः पादः इत्यन्तेन जाग्रदाद्यवस्थात्रयनिब- पृ० ६२) न्धनशरीरत्रयावच्छिन्नत्वेन त्रैविध्यमुपवर्ण्य एष सर्वेश्वर एष सर्वज्ञः इत्यारभ्य प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यन्तेनास्य तुरीयावस्थाप्रपन्नशरीरत्रयानवच्छिन्नघनलिऽऽन्गरूपषट्स्थलात्मकप रशिवतत्वस्वरूपत्वं प्रतिपादितं तदुक्तं [श्रीचिद्धनगुरुभिरित्यर्थः |]गुरुचरणैः [शिवाद्वैतसुधाकरे |]शरीरत्रयसम्बन्धात् अवस्थात्रयसंयुतः | अऽऽन्गवाच्यो हि जीवात्मा अयमात्मेति कथ्यते | शरीररहितः साक्षादवस्थात्रयवर्जितः | तुरीयो लिऽऽन्गवाच्यो हि शिवो ब्रह्मेति कथ्यते | तस्माल्लक्षणया जीवो शिव एव न संशयः | इति निश्चित्य मनसा शिवोऽहमिति चिन्तया | शिवजीवैक्यरूपेण परमानन्दमाप्नुयात् | इति | तस्मात्समस्तश्रुत्यागमस्मृतीतिहासपुराणप्रसिद्धाष्टावरणपञ्चाचार विशिष्टतयाऽशेषविश्वाभेदमयपूर्णाहं विमर्शनात्मकलिऽऽन्गाऽऽन्गसामरस्यरहस्यप्रतिपादके शिवशक्तिजीवेति त्रिपदार्थसामरस्यनिधानभूते ज्ञानक्रियायोगचर्यापादप्रतिपादके कामिकादिवातुलान्ताष्टाविंशतिदिव्यागमसारसर्वस्वे शक्तिविशिष्टाद्वैतापरवाचके शिवाद्वैतसिद्धान्ते एव महावाक्यानां समन्वय इति सर्वं समञ्जसम् || इति महावाक्यार्थविवेकः || इति चतुर्थपरिच्छेदः || शिवभक्तिशिवाचारशिवार्चासक्तचेतसां || स्वस्वरूपावबोधार्थं दर्पणो रचितो मया || १ || पृ० ६३) इति श्रीपरमहंसपरिव्राजकाचार्यवर्य-सर्वतन्त्रस्वतन्त्र- पदवाक्यप्रमाणपारावारपारीण-परशिवापरावतार- पुव्वल्लीपुरवराधीश्वरश्रीमद्भगत्पादश्रीनीलकण्ठशिवाचार्यप्रति. स्ठापितश्रीशिवाद्वैतभाष्यसिंहासनाधीशपूव्वल्लीपञ्चवर्णमहाम ठाधिष्ठितश्रीभगवत्पादचिद्धनशिवाचार्यकरकञ्जातसञ्जातश्रीम च्छक्तिविशिष्टाद्वैतसिद्धान्तपयः पारावारराकासुधाकरश्रीशिवानुभवशिवाचार्यविरचितश्रीशिवाद्वैतद् अर्पणः सम्पूर्णः | सर्वं शिवार्पणमस्तु | ########### END OF FILE #######