#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00058 Uniform title: śivāgamādimāhātmya Main title: śivāgamādimāhātmyasaṅgrama Author : jñānaprakāśa - śālivāṭipuranivāsi Manuscript : IFP transcript 1059 copied from a ms belonging to g. swaminatha gurukkal, tiruvadudurai. MS l no. 154 a Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0 February 13, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || शिवागमादिमाहात्म्यम् || नमो ----------------------- बिन्दवे शाश्वताय च | गुरवे च गणेशा ------------------------------------- || केचिन्निरीश्वरवादिनां मतमवलम्ब्य स्मृतीनामकृतकत्वेन प्रामाण्यं शिवागमानां कृतकत्वेन प्रामाण्यं नास्ति यद्यस्त्यपि कथञ्चि * * * * श्रुतिपथगलितानां मानुषाणामिति दुर्बुद्धयो * * * * * | * * * * * * भूत्वा पञ्चभिस्तैर्मुखैरपि | वेदादिग्रन्थजालं यत् तत्सर्वमवदत् प्रभुः || अदृष्टविग्रहाच्छान्नात् शिवात्परमकारणात् | नादरूपं विनिष्क्रान्तं * * * सर्वमिति स्थितमिति पौष्करशिवागमश्रुतेश्च | पुनरङ्गानि * * * मीमांसा न्यायविस्तरः | पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश || आयुर्वेदो धनुर्वेदो गान्धर्वं चेत्यनुक्रमात् अस्त्रशास्त्रं परं तस्मात् विद्या ह्यष्टादश स्मृताः | अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् || प्. २) आदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः | अष्टादश पुराणानि कथितानि समासतः || तेषां सर्गान्तरेष्वेव द्वापरे दर्शको मुनिः | व्यासो यथा महादेवः कामिकादिप्रकाशकः || अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदस्य यथा देवो महेश्वरः || इति वायव्यसंहिता धर्मसंहिता सूतसंहिता श्रुतिभिश्च यथा कामिकादीनां शिवेनैव प्रणयनात् | प्रामाण्ये यथापि नारायणावतारेण व्यासेन प्रणयनात् प्रामाण्येऽपि असाववशिष्ट इति सूतसंहिता प्रतिवचनाच्च | वेदानां शिवागमानां च परमाप्तपरशिवकृतकत्वेनैव प्रामाण्यम् | नाकृतकत्वेन | कालिदासादिवाक्यवद्वर्णपदवाक्यरचनावत्वात् | सत्कार्यतया वेदाः नित्या इति चेच्छिवागमाश्च | नासतो विद्यते भावो नाभावो विद्यते सत इति वचनात् | तथेव्यभिव्यक्तिकर्तृत्वं शिवस्य सिद्धमित्यकृतकत्वं वाऽस्तु | तदुक्तं सूतसंहितायां - वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः | अभिव्यक्तिमपेक्ष्यैव प्रणतेत्युच्यते बुधैरिति || प्. ३) तथा सहस्रनामव्याख्यायां कृतागमायेत्यत्र कृताः प्रणीता आगमाः कारणकामिकाद्यास्तन्त्रविशेषा येन सः कृतागमस्तथा चोक्तः - कामिकाद्या वातुलान्ताः शिवेनोक्ताः शिवागमा इत्यलङ्कारदीक्षितेन व्याख्यातम् | ततः शिवकृतकत्वेनैवोभयोः प्रामाण्यम् | तदुक्तं चतुर्वेदार्थतात्पर्यसंग्रहे - वेदाः प्रमाणमिति संगिरमाण एव दिव्यं तवागममवैति जनः प्राणम् (प्रमाणम्) | त्वद्ध्यानवाक्यविषयौपयिमे(कैः) पदार्थै * * * * कलितविग्रहमा च मूलात् || कल्पाः प्रमाणमृषिभिर्यदि नः प्रणीताः किं नः प्रमाणमृषिणां महतां महर्षे शक्यं न वक्तुं परिग्रहदूषितानि तन्त्रान्तराणि भवता शिवकर्तृमन्तीति || वायव्यसंहितायां च- अजाताशेषदोषेण सर्वज्ञेन शिवेन * | * * णीतममलं वाक्यं तत् प्रमाणं न संशयः || तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता | यथार्थं पुण्यपापेषु तदश्रद्धो व्रजत्यध इति || प्. ४) ततः परस्परं वेदानामिव परस्परोपबृंहणत्वमन्तरा स्वतन्त्रत्वेनैवोभयेषां प्रामाण्यं | तदुक्तं मतङ्गे - प्रमाणमेकं तद्वाक्यं तथ्यमीश्वरभाषितम् | इति | पौष्करेऽपि - प्रमाणमेकं तद्वाक्यं तथ्यं श्रेयोनिधिः सदेति | तथा व्याख्यातं सूतसंहितायां विद्यारण्यस्वामिभिरपि शिवपूजाप्रक्रमे - वैदिकी तान्त्रिकी चे * द्विजेन्द्रास्तान्त्रिकी तु सा | तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हीति || अत्र वेदतन्मूलस्मृतिपुराणादिप्रतिपादितप्रकारा वैदिकी | तदनपेक्षशिवप्रोक्तकामिकाद्यागमप्रतिपादितप्रकारा तान्त्रिकी | तत्र तान्त्रक्या अधिकारिविशेषमाह | तान्त्रिकस्यैवेति | तत्रोदितकुण्डमण्डलादिपुरस्सरदीक्षादिसंस्कृतस्यैवेत्यर्थ इति | तथा हि | न हि परस्परं वेदानामिव स्वतन्त्रप्रयुक्तशिवागमानां वेदबाह्यत्वम् | वेदसारमिदं तन्त्रमिति वेदोत्कृष्टवेदविशेषत्व * * समुक्तत्वात् | तदुक्तं शैवपुराणसंभववायव्यसंहितायां - भगवञ्च्छ्रोतुमिच्छामः शिवेन परिभाषितम् | प्. ५) वेदसारं शिवज्ञानं संश्रुतां (संश्रुतानां) विमुक्तय इति | मकुटे च - वेदसारमिदं तन्त्रं तस्माद्वैदिक आचरेत् | वेदान्तार्थमयं ज्ञानं सिद्धान्तं परमं शुभम् || ऊर्ध्वस्रोतोद्भवं श्रेष्ठमष्टाविंशतितन्त्रकम् | वेदसारार्थदं ज्ञेयमन्यत्त्वन्यार्थसाधनमिति || सुप्रभेदे - शैवं पाशुपतं सोमं लाकुलं च चतुर्विधम् | तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् || कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् | तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु || तदन्यद्रौद्रमाख्यातं तन्त्रं पाशुपतादिकमिति | कामिके च - सिद्धान्तं वेदसारत्वादन्यद्वेदवहिष्कृतम् | सिद्धान्ते विहिताचारो वैदिकाचार उच्यते || कर्त्तव्यं चेदनुष्ठेयं शैवकर्माविरोधि यत् | विरुद्धं चेत् परित्याज्यं न तु शैवं परित्यजेत् || संग्राह्यं वैदिकं सर्वं शैववाक्याविरोधि यत् | शैवं वैदिकमेवोक्तं वैदिकं शैवमेव च || प्. ६) वैदिकान्तर्बहिर्भूतं शैवं शैवात्तदप्यधः | तथापि वैदिकाच्छ्रेष्ठं शैवं तस्मात् परं नहि || सिद्धान्तं कामिकादि स्यात् नास्मात्परमनुत्तमम् | शैवं तु मूलभूतं स्यात् चतुर्वेदास्तदुद्भवाः || तथापि वैदिकं वेदसारमित्यादिवाक्यतः | शैवं प्रोक्तं च सर्वत्र तदर्थैक्यान्मुनीश्वरा इति || ननु वेदसारं श्रौतमस्वतन्त्रं तन्त्रमन्यत् | पुनरवेदसारमश्रौतं कामिकादिकं स्वतन्त्रं तन्त्रमन्यत् | तदुक्तं वायव्यसंहितायां - शैवागमोऽपि द्विविधः श्रौताश्रौतश्च संस्मृतः | श्रुतिसारमयश्रौत स्वतन्त्र इतरो मतः || स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः | कामिकादिसमाख्याभिः सिद्धः सिद्धान्तसंज्ञितः || श्रुतिसारमयोऽन्यस्तु शतकोटिप्रविस्तरः | परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यत इति || तदेवं स्थिते कथं कामिकादिकं वेदसारमिति मकुटादिषूक्तम् | सत्यम् | श्रौतत्वापादकं वेदसारत्वं द्विप्रकारम् | तत्र प्रथमं शैवपाशुपतप्रतीततन्त्रवैदिकपाशुपतप्रमेयप्रविस्तारकशतकोटिप्र विस्तरे कस्मिंश्चिदद्य प्. ७) यावदष्टसिद्धा स्वतन्त्रं तत्र दृष्टं वेदसारत्वं वेदानुसारित्वम् | द्वितीयसिद्धान्तप्रमेयप्रविस्तारकपदार्थादिप्रविस्तरे स्वतन्त्रतन्त्रे कामिकादिके दृष्टम् | वेदसारत्वं तु न हि दध्यादेर्नवनीतादिवद्वेदादुत्पन्नत्वं वेदानुसारित्वं वेदव्याप्यत्वं वा | अन्यच्च किञ्चिदुक्तमपि | वेदानुसारित्वं वेदार्थस्वीकारत्वमित्यर्थः | तत्त्वेन वेदव्यापकत्वात् | तदुक्तं वायव्यसंहितायां - यदुक्तमन्यथास्त्रेषु विद्यते तच्छिवागमे | न दृष्टं यच्छिवज्ञाने तदन्यत्र न विद्यत इति || कामिके च - सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः | अन्यथास्त्रेषु --------------------------------------------- || अष्टाविंशतितन्त्राणि सिद्धान्तमिति कीर्त्तितमिति | चिन्त्यविश्वे च - शैवं पाशुपतं ज्ञेयं सर्वतत्त्वैकनायकम् | सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् || जन्मान्तरतपोभिश्च सन्मार्गज्ञानसंभवमिति | अरुणाचलमाहात्म्ये च - नास्ति शोणाद्रितः क्षेत्रं नास्तिपञ्चाक्षरान्मनुः | नास्ति माहेश्वराद्धर्मो नास्ति शास्त्रं शिवागमादिति || प्. ८) किं तु प्रमाणविरोधस्य स्वतः प्रमेयविरोधमूलत्वात् | परस्परं वेदानामिव कथञ्चित् क्वचित्किञ्चिदेकात्मवादादिप्रमेयप्रदेशप्रतिपादनप्रकारविरोध- मात्रपरित्यागेन वेदविहितविधिनिषेधकत्ववैधुर्येण बहुशोऽर्थैक्यादविरोधवेदाचारवेदार्थस्वीकारेण शैववेदविशारदानिति सुप्रभेदकृते स्वातन्त्र्येण वेदाधिगतानधिगतार्थगन्तृत्वलक्षणवेदजनकवेदविशेषशिवागम नामशिववेदत्वमेव वेदसारत्वमिति पर्यवसितार्थः मनुष्यजनकमनुष्यत्वविशेषब्राह्मणत्ववत् | तदुक्तं मोक्षकारिकासु - पाशदृष्टिविरोधाय प्रवृत्तमपि मानताम् | न जहाति यतश्चेद्यां पाशास्तस्येह सर्वतः || न च स्वगोचरे तासां बाधते तत्प्रमाणताम् | तासु वर्णाश्रमाचारा न ह्यनुज्ञानवच्च तत् || न चान्येन प्रमाणेन संरुद्धस्तस्य गोचर इति | विशोरपि च कर्त्तव्यं पत्युं प्रेरणपूर्वकमिति च | मोहशूरोत्तरे च - पुराणं साध्यते वेदैरागमैश्च तदुक्तयः | सामान्यं च विशेषं च शैवं वैशिष्टिकं वच इति || प्. ९) वृद्धाचलमाहात्म्ये च - एतास्तु मूर्त्तीः परमेश्वरस्य वृद्धाचलेशालयमण्डपेषु | स्थानेषु संस्थाप्य चकार पूजां शिवागमप्रोक्तविशेषमार्गैरिति || पुनरत्रायं विवेकः | बहुधा वेदविरुद्धार्थप्रतिपादकत्वमेव वेदबाह्यत्वं न सर्वधा | तथात्वे शिवशास्त्रेतरचार्वाकादिसर्वशास्त्राणामपि यथाकथञ्चिद्विरुद्धार्थप्रतिपादकत्वमस्तीति न सर्वधा * * बाह्यानीति यथानुरूपं प्रमाणानि सफलान्येव | तदुक्तं शिवागमे गुरुकृतौ च - चार्वा * * भूतसंसिद्धा(ः) स्मार्तास्तन्मात्रसंहतौ | वैशेषिकास्त्वहङ्कारे मानसाश्चेन्द्रिया अपि || बुद्धितत्त्वे स्थिता बौद्धास्ततत्त्वे न्यायवा * * || आर्हतास्तु गुणे तत्त्वे प्रकृतौ पाञ्चरात्रकाः | वेदान्तज्ञाश्च सांख्याश्च योगिनः पुरुषे स्थिताः || शैव पौराणिका रागे सोमा विद्यापदे स्थिताः | कापालास्तु कलानिष्ठाः काले कालेश्वरा(ः) स्थिताः || * * * शाः कलान्तस्थाः पृथक् तस्मान्न चोदिताः | पाशुपतास्तु मायायां विद्यायां तु महाव्रताः || प्. १०) प्रवाहेश्वरकास्त्वीशे प्रयोज्यकर्तृका अपि | ये सदाशिवतत्त्वस्थाः शिवसंबन्धवादिनः | शक्तौ शाक्ताः शिवे शैवाः सामा * * स्मृता बुधैः | सिद्धान्ती शिवसायुज्य सिद्धिमनु * रि स्थित इति | तदिदमेव शिवसायुज्यमपीदृगुक्तम् - नाम्नश्छेदोऽपवर्गो न च पशुशिवयोरैक्यमत्रापवर्गो नाविद्याग्रासहानिर्न च गुणविलयो नापि पाषाणमुक्तिः | यद्बोधानन्दरूपं त्रिमलविगमने व्यक्तमात्मस्वरूपं तत् सायुज्येन वाच्यं शिवसदृशविभुः शैवतन्त्रेऽपवर्गः || इति || ततः साक्षान्महर्षित्वेन श्रुतिसिद्धशिवकृतकत्वेनैव शिवशास्त्रस्य सामान्यार्षसूत्रशास्त्रादेरुत्कृष्टत्वं चानुक्त्वा सिद्धम् | तस्मात् सूतसंहितादिके - अधः स्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवः परः | ऊर्ध्वस्रोतोद्भवाद्धर्मात् स्मार्तधर्मो महत्तरः || स्मार्तेभ्यः स्रौतधर्माश्च वरिष्ठा मुनिसत्तमा इति | क्वचिदर्थमन्यथोक्तमपि तदुक्तिरमलशिवमहावाक्येन बाध्यते | शिवागमस्य वेदादुत्कृष्टत्वमीशानमुखादुत्पत्तिश्रुतेः | प्. ११) तदुक्तं श्रीमद्धालास्यमाहात्म्ये - शिवज्ञानानि दिव्यानि कारिकादीनि भूसुराः | श्रीमद्धालास्यनाथस्य संभवन्त्यूर्ध्ववक्त्रतः || पुनः स देवदेवस्य पुरुषाख्येन वक्त्रतः | एकविंशतिभेदेन युक्तं ऋग्वेदमब्रवीत् || यजुर्वेदं चैकशतं ------------------------------ | सहस्रभेदसहितं सामवेदं तु वामतः || अथर्वं नवधा भक्तं सद्योजातेन चाब्रवीदिति | श्रीकामिके च - ईशानवक्त्रादूर्ध्वस्थ * * * * कादिकम् | ऋग्यजुस्सामाथर्वाश्च पुरुषाद्य * * * * || * * * मन्त्रतन्त्राख्यं सदाशिवमुखोद्गतम् | सिद्धान्तं गारुडं वामं भूततन्त्रं च भैरवम् || ऊर्ध्वपूर्वकुबेराप्ययाम्यवक्त्राद्यथाक्रममिति | तस्मादाप्तपरमात्मोभयाप्तप्रणीतानां चार्वाकादिशैवसिद्धान्तानां सर्वेषां शास्त्राणां प्रत्यक्षादिप्रमाणानामिव यथानुरूपमधिगतानधिगतार्थगन्तृत्वेन बाध्यबाधकसामान्यविशेषव्याप्यव्यापकतटस्थलक्षणस्वरूप- साध्यसाधकसावधिनिरवधि प्रामाण्यं सिद्धम् | न हि स्वस्थमतमेकैकं प्रमाणम् | तथा स्वीकारे - प्. १२) सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा | अथोभावपि सर्वज्ञौ मतिभेदस्तयोः कथमिति निर्वक्तुमशक्यत्वात् | सर्वाणि शास्त्राणि अप्रमाणानि स्युरित्यनिष्टं जगदान्ध्यमापतेत् | ततः सर्वाणि शास्त्राणि स्वस्वावधिप्रमाणान्येव | तथा साधितं श्रीरामकण्ठशिवाचार्येण रौरववृत्तिविवेके | तदुक्तं च पौष्करे - अन्योऽपि मार्गो वेदादिः पशुपाशार्थदर्शकः | स्वोक्ततत्त्वावधिव्याप्तिर्ब्रह्मविष्ण्वादिकर्तृकः || इति || परत्वान्मोक्षमार्गस्य स्थितस्वर्गादिभोगदः | न चार्षं पौरुषैर्वाक्यै ऋषिभिर्दैविकं तथा || न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मना | तथा रौद्रं न हरिणा न रुद्रेण शिवात्मकम् || बाध्यमूर्ध्वोर्ध्ववैशिष्यादधोऽधो बाध्यमूर्ध्वतः | शिवागमाविरोधेन शास्त्रं सर्वं व्यवस्थितम् || नान्यशास्त्राविरोधेन तत्संवादतयाथवा | शिवशास्त्रं व्यवस्थाप्यं तद्व्यवस्थापकं यतः || प्. १३) यस्य यस्य हि शास्त्रस्य यावती व्याप्तिरिष्यते | तावत्येव भवेद्विप्राः प्रामाण्यं तस्य तस्य चेति || सूतगीतायामपि सूचितम् - तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता | सा सुवन्द्या सुसेव्या च वन्दनीया च वैदिकैः || राजा तु वैदिकान् सर्वान् तान्त्रिकानखिलानपि | असङ्कीर्णतया नित्यं स्थापयेन्मतिमत्तमः || अन्नपानादिभिर्वस्त्रैः सर्वान् राजाभिरक्षयेदिति | ननु पूर्वं वेदादिकं सर्वं शास्त्रं शिवकर्तृकमित्युक्तम् | इदानीमन्योऽपि मार्गो वेदादिब्रह्मविष्ण्वादिकर्तृक इति | ब्रह्मविष्ण्वादिकर्तृकमित्युक्तम् | महान् विरोधः | सत्यम् | वेदादिकं सर्वं शास्त्रं शिवशास्त्रं च महामायायां नादात्मना प्रथमं शिववक्त्रतः वर्णपदवाक्यरचनात्मना पुनः साधिकरणनिरधिकरणशिवकृतमिति न कोऽपि विरोधः | तदुक्तं श्रीमत्कामिके - लौकिकं वैदिकं चैव तथाध्यात्मकमेव च | अतिमार्गं च मन्त्राख्यं तन्त्रमेकमनेकधा || प्. १४) सिद्धान्तं मन्त्रतन्त्रं स्यादतिमार्गं ततो वरम् | अध्यात्माय ततो नीचं तस्माद्वैदिकमेव च || वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्च देवताः | सद्यो वाममहाघोरपुरुषेशानमूर्तयः || प्रत्येकं पञ्चवक्त्राः स्युस्तैरुक्तं लौकिकादिकम् | सद्यमन्त्राद्विनिष्क्रान्तो ब्रह्मा नामाखिलार्थदृक् || तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारि * * | शब्दशास्त्रमलङ्कारं निरुक्तं छन्द एव च || कौ * * भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् | आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च || लोकायतं तथा सांख्यमर्हतो मतमेव च | मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं * * || धाममन्त्राधिपो विष्णुः कारणेशो द्वितीयकः || तेन वैदिकमुद्दिष्टमष्टादशपुराणकम् || धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् | रुद्रो घोराद्विनिष्क्रान्तस्त्वध्यात्मं च प्रणीतवान् || न्यायवैशेषिकं सांख्यं * * * * * रं च प्रणीतवान् | ईश्वरः पुरुषाज्जातस्त्वनिमार्गं प्रणीतवान् || प्. १५) पञ्चार्धं लाकुलं चान्यत्तथा पाशुपतं मतम् | सदाशिवोऽपि भगवान् मन्त्रतन्त्रमपालयत् || उक्तानि प्रतिषिद्धानि पुनः सम्भाषितानि च | सापेक्षनिरपेक्षाणि शिववाक्यान्यनेकधा || ऊर्ध्वस्रोतोद्भवं सर्वमनन्तादीनबोधयत् | तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने || आदावभूद्द्विधा ज्ञानमधिकारविभेदतः | परापरेण भेदेन पतिपाशात्मदर्शकम् || शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् | वेदाद्यपरविज्ञानं पशुपाशार्थदर्शकम् || यथाविधिक्षणं चक्षुः क्षपायां नृबिलालयोः | तथा विलक्षणं ज्ञानं एवमेतत् परापरम् || ज्योतिर्ज्ञानरतं वेदपुराणाहितचेतसा | तत्सिद्धपुरुषार्थेषु कृतयत्नं परित्यजेत् || कामिकादिशिवज्ञानं वेदार्थज्ञानमेव च | समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेदिति || पुनस्तत्रैव - गारुडं भूततन्त्रं च भैरवं वाममन्त्रकम् | कापालं पाञ्चरात्रं च लाकुलं कुलशास्त्रकम् || प्. १६) इतिहासं षडङ्गं च ऋग्यजुस्सामसंज्ञकम् | अथर्वणं तथा बौद्धमर्हतो मतमेव च || ऊर्ध्वस्रोतोद्भवाच्छास्त्रादपशान्तमुखक्रमात् | कामिकादिशिवज्ञानं मूर्धा भगवतः सदा || इतराणि महेशस्य हृत्कण्ठाद्यङ्गकानि वै | पूर्वपक्षतया तानि कथितानीह शम्भुना || हेयोपादेयवस्तूनां निर्णये परमार्थतः | तत्सर्वमधरीकृत्य शिवसिद्धान्त ईरित इति || तथा महाभारते च वेदादेः साधिकरणशिवकृतकत्वमुक्तम् | युगान्तेऽन्तर्हितान् वेदान् इतिहासान् महर्षयः || लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवेति | वायव्यसंहितायां च- आम्नायसिद्धमखिलं धर्माश्रमिणामिह | ब्रह्मणा कल्पितं पूर्वं ममैवाज्ञापुरस्सरौ || स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः | नात्यन्तफलभूयिष्ठक्लेशायाससमन्वितः || तेन धर्मेण महता श्रद्धां प्राप्य सुदुर्लभाम् | वर्णिनो ये प्रपद्यन्ते मामनन्यसमाश्रयाः || प्. १७) तेषां सुखेन मार्गेण धर्मकामार्थमुक्तये | वर्णाश्रमसमाचारो मया भूतः प्रकल्पितः || तस्मिन् भक्तिमतामेव मदीयानां तु वर्णिनाम् | अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी ममेति || अतः श्रुतिपथगलितानां मानुषाणां तु तन्त्रमित्युक्तं तन्त्रं न शिवागमः | तथा कृते शिवादधीतशिवतन्त्राणां सनकादीनां श्वेतोपमन्युकृष्णार्जुनमार्कण्डेयप्रभृतीनां च श्रुतिपथगलितार्थश्रुत्यनधिकारित्वप्रसङ्गात् | तेषां चाधीतशिवागमत्वमुक्तं स्कान्दे सम्भवकाण्डे - एतस्मिन्नन्तरे देवः कैलासे रजताचले | सनकादिमुनीन्द्रेभ्यस्त्रिपदार्थार्थसम्मितम् || रहस्यमागमाम्नाख्यं सिद्धान्तं कथयंस्थित इति | उपदेशकाण्डे च - पुरा ब्रह्मात्मजाः पुण्याः सनकश्च सनातनः | सनन्दनश्च भगवान् सनत्पूर्वकुमारकः || चत्वारो ऋषयः शम्भोः पूजां पुण्यां विधाय च | प्रसन्नेन ततो वेदाच्छिवेनाध्यापिताः खलु || आगमांश्च पुराणानि सेतिहासानि सुव्रताः | शिवार्चनपरा नित्यं शिवयोगेन पावनः(नाः) || शिवज्ञानाग्निना दग्धमहापातकसञ्चया इति | शिवपुराणे काञ्चीपुरमाहात्म्ये च - सनत्कुमारः पप्रच्छ साञ्जलिः कमलासनम् | भगवन् सकला वेदाः साङ्गोपाङ्गाः ससंहिताः || शिवागमास्तथा सर्वे व्ययिता भवतो मुखादिति | स्कान्दे स्वेतारण्यमाहात्म्ये (श्तारण्य-), पुण्डरीकपुरमाहात्म्ये - व्याघ्रपादसुतो यत्र पुरा स्नात्वा महामुनिः | शिवागमस्य वै पारं गतोऽप्राप्यं सुरैरपि || यस्य शिष्योऽभवत् कृष्णस्तत्तीर्थं नवमं स्मृतमिति | उपदेशकाण्डे च- पुनश्च वसुदेवस्य दैवक्यां कृष्णरूपधृक् | जज्ञे विष्णुरमेयात्मा भृगुमाप नियन्त्रितः || तत्राभ्यर्च्य महादेवं कृत्वा शत्रुजयं पुनः | उपमन्यु समासाद्य विधिना तेन दीक्षितः || शैवमुख्यस्ततो तीर्थं (-ततस्तीर्थं) भक्त्याराध्य च शङ्करम् | भूभारमपनीयाथ विष्णुलोकं जगाम स इति || तत्रैव बाणासुरं प्रति शिववचनं - तमाह पूर्ववन्नैष जेतुं शक्यस्त्वयासुर | इदानीं मम भक्ताग्न्यादुपमन्योर्महात्मनः || प्. १९) शिवदीक्षास्य शिवागमानां पानं च शैवाचार्यत्वमेव च | लब्ध्वा च परमं योगं शिवसारूपतां (-रूप्यतां) गतम् || यस्य नाम्ना वनमिदं कथितं सवनत्रये | अवनायास्य भक्तस्य श्वेतनाम नृपस्य त्विति || निर्वृत्तं शिवागमविशारदात् - भस्मधारी च सततं वीर्यवान् भक्तिसंयुत इति | तत्रैव - सोऽपि संप्राप्य नित्यत्वं मार्कण्डेयो महामुनिः | स्वगृहं प्राप्य परया प्रीत्या पित्रोः समावसत् || अनन्यसदृशो लोके शिवशास्त्रविशारदः | शिवागमार्थविज्ञानसंपन्नोऽद्यापि वर्तत इति || किं तु श्रुतिपथगलितानां मानुषाणां तु तन्त्रमित्यत्र तन्त्रं नादरूपं विनिष्क्रान्तं शास्त्रं सर्वमिति श्रुतेर्नादात्मा शिवकृतवर्णपदवाक्यरचनात्मना शम्भुपदोपलक्षितश्रीरीश्वरप्रेरितमाया रुद्रकृतं वामादितन्त्रमिति मतिमदूह्यम् | तदुक्तं कामिके - वामं पाशुपतं चैव लाकुलं चैव भैरवम् | न सेव्यमेतत् कथितं वेदबाह्यं तथेतरमिति || प्. २०) सूतसंहितावृत्तौ च विद्यारण्यस्वामिभिः शिवागमोदाहरणं स्वीकृत्य लिखित्वा गुरुणा चोपदिष्टोऽपि तन्त्रसंबन्धवर्जित इत्यत्र | तन्त्रसंबन्ध इति | कापालं लाकुलं वाममित्यादिवेदविरुद्धागमसंसर्गरहित इति व्याख्यातम् | तथा हालास्यमाहात्म्ये विक्रमपाण्ड्यचरिते पाण्ड्यस्य वेदबाह्यशास्त्राणि परित्यज्य शिवशास्त्रस्य श्रवणं श्रुतम् | प्रसृता वैदिका धर्माः सर्वतः क्षितिमण्डले | वेदबाह्यमना ये च ते गच्छन्ति सुदूरतः || सदा शैवानि शास्त्राणि पुराणानि शुभानि च | शृणोति विद्वद्वक्त्रेभ्यः सावधानश्च सादरमिति || तथा शिवागमस्य पूज्यत्वमुक्तं वायव्यसंहितायां - मन्नामनिरता वाणी वाङ्मतां (वाग्मिनां) मम नेतरा | लिङ्गैर्मच्छासनोद्दिष्टैस्त्रिपुण्ड्रादिभिरङ्कितः || ममोपचारनिरतः कायः कायो न चेतरः | मदिज्याकर्म विज्ञेयं बाह्यं यादिनोच्यते || मदर्थे देहसंशोषस्तपः कृच्छ्रादिनो मतः | जपं पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च || प्. २१) रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् | ध्यानं मद्रूपचिन्तार्थं नान्यदर्थं * * * यः || ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनमिति | तथा यथाकथञ्चित्सामान्यविशेषत्वविलक्षणत्वेऽपि उभाभ्यां वेदान्तसिद्धान्तमार्गाभ्यामसंशयं मोक्षप्राप्तिरस्ति | तदुक्तं स्कान्दे चिदम्बरमाहात्म्ये - वेदान्तनिष्ठिता ये तु ज्ञानिनो वीतकल्मषाः | मदागमपरा ये च ज्ञानपादैर्व्यवस्थिताः || उभयेऽपि च विन्दन्ति सायुज्यमतिदुर्लभम् | उभयेषु च मार्गेषु कर्म ब्रह्मपरेषु च || वेदागमप्रसिद्धेषु ये न तिष्ठन्ति पापिनः | चतुर्विधैश्च ते दण्ड्या दण्डैः शास्त्रप्रचोदितैरिति || उभयेऽपि च विन्दन्ति सायुज्यमतिदुर्लभमिति श्रुतेरयं विवेकः | सिद्धान्तानुसारिणो वेदान्तिनोऽपि वेदान्तज्ञत्वेऽपि प्रकृत्यूर्ध्वशिवागममात्रसिद्धरागादिशिवतत्त्वान्तपदार्थ- ज्ञानार्थं मोक्षार्थं च शिवदीक्षावन्तः सन्तः सद्यः सत्यशिवसायुज्यं विन्दन्ति | शिवदीक्षाराहित्ये वेदान्तज्ञत्वेऽपि न साक्षाद्विन्दन्तीति | तदुक्तं सूतसंहितायां - प्. २२) स्थापयित्वा गुरुः शिष्यं मण्टपस्य तु मध्यमे | ग्रन्थिच्छेदं पुनः कुर्यात् (कुर्याद्) गुरुक्तेनैव वर्त्मना || कृते कारुणिकेनैवमाचार्येण द्विजोत्तमाः | महादेवो महानन्दो महाकारुणिकोत्तमः || स्वात्मभूतां परां शक्तिं प्रेरयत्येव सुव्रताम् | प्रसन्ना सा महादेवी महाकारुणिकोत्तमा || शिष्यस्यात्मनि चिद्रूपे स्वयं पतति निर्मला | महादेवस्य भक्तश्चेत् शिष्यः सद्गुरुभक्तिमान् || तस्य शिष्यस्य विप्रेन्द्राः कर्मसाम्ये मतिद्विजाः | शाम्भवी शक्तिरत्यर्थं तस्मिन् पतति चिद्धने || तस्य प्रसादयुक्तस्य विद्या वेदान्तवाक्यजा | दहत्यविद्यामखिलामन्तस्सूर्योदयो यथा || शक्तिपातविहीनोऽपि सत्यवाक् गुरुभक्तिमान् | आचार्याच्छ्रुतवेदान्तः क्रमान्मुच्येत बन्धनात् || शक्तिपातप्रकारस्य रहस्यांशश्च कश्चन | मया नोक्तो रहस्यत्वात् राज्ञा भङ्गभयादपीति || अत्राप्ययं विवेकः | शक्तिर्दीक्षाकर्मसंपादयित्री सती ततः पूर्वं सामान्यरूपिणी पतति, पश्चाद्दीक्षाकर्मणि प्. २३) कर्मणि साक्षाद्दीक्षात्मिका सती विशेषरूपिणी पतति | तथा पतती शक्तिः | तस्माद्वैदिकमार्गेण मलनाशो न विद्यते | शैवागमोक्तमार्गेण दीक्षया मोक्ष एव हीति || देव्यामतवचनात् मलमौढ्यात्मिकामविद्यां क्रमतो दहति | दीक्षानन्तरं वेदान्तवाक्यजा विद्या पृथिव्यादिप्रकृत्यन्ततत्त्वविषयात्मनात्मन्यात्मज्ञानादिरूपं प्रकृतिजामविद्यां क्रमतो दहति | पश्चात् सिद्धान्तवाक्यजा विद्या रागतत्त्वादिशिवतत्त्वान्ततत्त्वविषयां तथाभूतां मायाजामविद्यां क्रमतो दहतीति तावत्कालं प्रकृतेरूर्ध्वं पुरुषतत्त्वभुवनं प्राप्य महाभोगं भुञ्जतीति तात्पर्यम् | तदुक्तं सर्वज्ञानोत्तरादिके - तामसं जिनभक्तानां पौरुषं ब्रह्मवादिनाम् | नासतो विद्यते भावो नाभावो विद्यते सतः || तस्मादेकात्मवादोऽयं कल्पितो मूढचेतनैः | इत्यद्वैतग्रहाविष्टाः प्रलपन्ति दयालुभिः || गुरुभिः प्रतिबोध्यन्ते सिद्धान्तागमदायिभिः | अद्वैतबलमाश्रित्य ये विशृङ्खलवृत्तयः || प्. २४) तेषामद्वैतनिष्ठां पुंस्तत्त्वे विलयो भवेत् | वेदान्तज्ञाश्च सांख्याश्च योगिनः पुरुषे स्थिता इति | क्वचित्कथञ्चिद्वेदोपबृंहणत्वेन शिवागमानां सौम्यत्वमुक्तं तन्न पारमार्थिकम् | किन्तु सौम्यत्वं स्वाभाविकम् | तदुक्तं कामिके - तथा पाशुपतं सोमसिद्धान्ताख्यं च लाकुलम् | गारुडं भैरवं वामं भूततन्त्रं च यामलम् || कापालं पाञ्चरात्रं च बौद्धमप्यार्हतं तथा | बृहस्पतिमतं सांख्यं योगं वैघानसस्तथा || वेदान्ताख्यं च मीमांसा पुराणं धर्मशास्त्रकम् | वस्तुशास्त्रं तथा सूत्रं षडङ्गमितिहासकम् || तथा वेदाश्च चत्वारो यत्तत्र परिचोदितम् | सर्वं रौद्रं समादिष्टं सिधान्तं सौम्यमिष्यते || रौद्रैश्च स्थापितं यच्च विष्ण्वादिप्रतिमादिकम् | तत्सर्वं शैवमापाद्य शैवः समर्चयेत् || लिङ्गाद्यमादिशैवेन स्थापितं पूजितं तु वा | तद्रूपं पूजितं तैश्चेद्राष्ट्रं राजानमेव हि || प्. २५) तद्ग्रामं ग्रामसंस्थांश्च सर्वा हन्ति न संशयः | यजनं त्रिविधं प्रोक्तं उत्तमं मध्यमाधमम् || केवलं शिवमन्त्रैस्तु यजनं चोत्तमं भवेत् | वैदिकैः शिवमन्त्रैश्च यजनं मध्यमं भवेत् || केवलं वैदिकैर्मन्त्रैर्यजनं चाधमं भवेत् | केवलं शैविकैर्मन्त्रैर्यजेदात्मार्थमुत्तमम् || शैवमन्त्रसमो मन्त्रो नास्तीति भुवनत्रय इति | स्कान्दे युद्धकाण्डे कुमारविश्वरूपप्रदर्शनाध्याये - शब्दजालमशेषं तत् कर्णदेशे समाश्रितम् | आस्यमध्ये स्थिता वेदा देवदेवस्य भूसुराः || अक्षराणि च दन्तेषु जिह्वायां तु शिवागमाः | सप्तकोटिमहामन्त्रा ओष्ठमध्ये व्यवस्थिता इति || चिदम्बरमाहात्म्ये - इति देवान् समाहूय ध्वजं वृषभलाञ्छितम् | पुरं प्रदक्षिणीकृत्य सभेशस्य तु सन्निधौ || दृढमारोपयामासुरागमोक्तेन वर्त्मनेति | शिवपुराणे * * * नाथमाहात्म्ये - शिवार्चनं तपो मुख्यं वेदागमनिरूपितम् | तपस्सिद्धिप्रदस्थानं पुण्डरीकपुरं महदिति || प्. २६) शिवपुराणे एकाम्रनाथमाहात्म्ये इन्द्रस्य शिवपूजाप्रकरणे - ब्र * * श्शिवतन्त्रोक्तैर्व्रतहोमजपादिभिः | प्रत्यहं प्रीणयामास कामाक्षीरमणं शिवमिति || शिवपुराणे विरिञ्चिमाहात्म्ये - शिवनायक इत्यासीच्छिवभूसुरनायकः | कामिकाद्यागमार्थज्ञः साक्षादिव महेश्वर इति || शिवपुराणे कालहस्तिमाहात्म्ये - सुवर्णमुखरीस्नातो जापागमिकान्मनून् | प्रायश्चित्तविधानेन प्रसन्नात्मा स भूसुरः || यथातन्त्रं प्रयुज्येशं यवौ भूयस्तपोवनमिति | शैवपुराणे पुण्डरीकमाहात्म्ये - शिवशास्त्रं लिखित्वा यो ददाति शिवयोगिने | रौद्र भक्तिसंयुक्तः शिवसायुज्यमाप्नुयादिति || हालास्यपुरमाहात्म्ये - महालिङ्गस्य पूजार्थं शिवसृष्टिद्विजोत्तमान् | गङ्गातीरस्थनिरतान् समाहूय महीपतिः || सिधान्तैः कामिकाद्यैस्तु महालिङं निरन्तरम् | पूजयन्त्विति संप्रार्थ्य वृत्तिं तेभ्यः प्रदाय चेति || प्. २७) पुनस्तत्रैव - गङ्गातीर्थस्य सलिलैर्हेमकुम्भसुसंभृतैः | शिवागमोक्तैर्विधिभिरभिषिञ्चत् सहोत्सवमिति || वेदारण्यमाहात्म्ये कुलेश्वरवैभवे - आगमोक्तेन मार्गेण पूजयामासुरादरात् | सुधारूपं महेशानं शङ्करं शशिभूषणमिति || शिवपुराणे रामेश्वरमाहात्म्ये - मन्त्रैरागमिकैस्तैस्तैर्महितं रामपूजितम् | रामेश्वरेति लिङ्गं तु तदाप्रभृति पप्रथ इति || आगमादिपदनिर्वचनं चोक्तमंशुमदादिके | आगतं शिववक्त्रात्तु गतं च गिरिजामुखे | मतं च ऋषिभिः सर्वैर्यस्य आगम ईरितः || तत्त्वमागम्यते येन आगमो वेति च स्मृतः | ततोऽतिविपुलानर्थां स्तत्त्वमन्त्रसमाश्रितान् || त्राणं च कुरुते पुंसां तेन तन्त्रमिति स्मृतमिति | इति शिवागममाहात्म्यं समाप्तम् || दीक्षामाहात्म्यम् तदित्थं भूतं शिवशास्त्रं प्रोक्तप्रकारं दीक्षितैरेव श्रोतव्यं पठितव्यं च | दीक्षाविहीने तु ज्ञानादिकं सर्वं व्यर्थं स्यात् | प्. २८) ज्ञानादेरस्वातन्त्र्याद्दीक्षाङ्गत्वेनैव ज्ञानादिकं मोक्षसाधनं नान्यथा तदुक्तम् (तस्य तेन तदङ्गत्वं) तस्य तेन तदङ्गत्वं दीक्षा सातोङ्गिनी भवेत् | शिवदीक्षां तु मुक्त्वैकां सपत्राव्याहतां पराम् || ज्ञानतो योगतश्चापि चर्यातश्च न मुच्यते | ज्ञानादीनां तु सामर्थ्यं तत्रापि स्वर्न विद्यते || बालबालीशवृद्धस्त्री भोगिनां सरुजां तथा | ज्ञानादिना न मोक्षोऽस्ति तस्माद्दीक्षैव मोचिनीति || केवलं ज्ञानादेव मोक्ष इत्यत्रापि ज्ञानशब्दस्य दीक्षादिरेवार्थः | तदुक्तं सुप्रभेदे - अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः | तस्यादौ शिवसृष्टिश्च शृणुष्वैकाग्रमानसः || ज्ञानं प्रवर्त्तते वत्स क्लान्तिनिर्णाशनाय च | अध्वश्रेणिविनाशाय शिवव्यक्तिकराय च || अन्धकारवदज्ञानं ज्ञानं दीपवदुच्यते | ज्ञेयं भास्करवत्प्रोक्तं पश्चाद् ज्ञानं विनश्यति || पाशजालानि विच्छेद्य दीक्षादिर्ज्ञानमुच्यते | पशुपाशपतित्वं च ज्ञानेनाश्रयते बुधः || प्. २९) ज्ञानेनैव तु कैवल्यप्राप्तिस्तत्र न संशय इति | दीक्षा च दीक्षाकर्मण्यभिव्यक्ताना | विनेज्यानलकर्मादिमनोव्यापारमात्रतः | दीक्षाज्ञानवती प्रोक्ता सम्यक्तत्त्वावबोधिका || इज्यानलवती या तु क्रियाकौशल्यसंभवा | क्रियावत्यथ सानेका निर्बीजाथ सबीजिका || कालोत्तरे - दीक्षा क्रियावती प्रोक्ता ब्राह्मणादिचतुष्टये | पुनर्हौत्री त्रिधा प्रोक्ता --------------------------- || वामने - शाम्भवी चैव शाक्ती च मान्त्री चेति शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || नासाग्राच्छुलिका यावत् तत्त्वज्ञानदृशा गुरुः | गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि || सद्यः संजायते चात्र पाशोपक्षेयकारिणी | सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा || तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः | यथा स्यान्निर्वृत्तिः सद्यः सैव तीव्रतरा मता || प्. ३०) तीव्रा तु जीवतोऽत्यन्तं पुण्यपापविशोधिका | शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य च || गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा | मान्त्री क्रियावती दीक्षा कुण्डमण्डपपूर्विका || मन्दमन्दतरोद्देशात् कर्त्तव्या गुरुणा बहिः | ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् || योऽन्यथा कुरुते मोहात् स विनश्यति दुर्मतिरिति | एका ज्ञानवती प्रोक्ता द्वितीया तु क्रियावतीति च || श्रीमच्चिन्त्यविश्वसादाख्ये प्रोद्धृत्योक्त्वा पुनः - एवं मान्त्री क्रिया दीक्षा संपन्नो गुणसत्तमः | स एव योगदीक्षायामधिकारी च नान्यथा || पूर्वदीक्षासमायुक्तशिष्याणामुत्तमं तथा | प्रणवं शक्तिसंभूतं शाम्भवं त्रिविधं भवेत् || शाक्ती शाम्भवदीक्षा च क्रियते तत्त्वया मया | अन्यैराणवदीक्षा तु मन्दतीव्रादिभेदतः इति च प्रोक्तम् | अन्यैरपि योगबलवद्गुरुभिः क्रियादीक्षामन्तरापि अतिपक्वेऽतिदरिद्रे वा मन्त्रादिवैकल्यकृतक्रियादीक्षे वा शाक्तिशाम्भव्योरेकतरास्वान्तरितान्या च कार्येति गुरवः | प्. ३१) यथाकथञ्चित्कृताभ्यासयोगिभिरपि गुरुभिर्मन्त्रक्रियाभावना साङ्गोपाङ्गसाकल्यवत्या क्रियादीक्षया दीक्षितस्य कृतस्य करणासंभवादिति न्यायात्तदेतत्क्रिया दीक्षाङ्गतया सद्यः समुच्चरितप्रासादमन्त्रसमुद्धृतिकृतशिवयोजनषाङ्गुण्योदय- शिवत्वाभिव्यक्तिसंपादिका तन्मन्त्रमन्त्रात्मिका सती सह संक्षिप्ता शाक्ती शाम्भवी च सहकार्येत्यप्यर्थोऽन्तः स्फुरति | तदेत्तत्त्रिविधदीक्षाविहीनः पशुः | तदुक्तं - चतुर्वेदधरो विप्रः शिवदीक्षाविवर्जितः | दुष्टचाण्डालभाण्डेषु यथा भागीरथीजलम् || कोटिविप्रसमः शूद्रः शिवदीक्षासमन्वितः | सुदुर्लभं शिवज्ञानं तदभ्यासश्च सुदुर्लभः || सुदुर्लभमिदं ज्ञात्वा शिवे भक्तिं समाचरेदिति || इति शिवदीक्षामाहात्म्यं समाप्तम् || शिवभक्तमाहात्म्यम् ततः शिवशास्त्रं शिवदीक्षया दीक्षितैश्चतुर्वर्णैरेव पठितव्यम् | तदुक्तं सुप्रभेदे - साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम् | प्. ३२) शुद्धशैवमिदं तन्त्रं न देयं न प्रकाश्यकम् || दीक्षितस्यैव धीरस्य शिवभक्तिपरस्य च | श्रावणीयं न चान्यत्र कथनं हि प्रशस्यते || चतुर्णां शुद्धशैवानां दीक्षया प्रापयेच्छिवम् | लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु || अध्ययनं चाध्यापनं यजनं याजनं तथा | शिवमुद्दिश्य यद्द्रव्यं दत्तं तद्दानमेव च || प्रतिग्रहं ततो वाथ तस्य षट्कर्म उच्यते | शिवसद्भावयुक्तस्य शुद्धशैवस्य धीमत || इति || मकुटे - निर्वाणदीक्षितानां तु दातव्यं शिवयोगिनाम् | अन्येषां तु न दातव्यमिदं तन्त्रमनुत्तममिति || काञ्चीपुरमाहात्म्ये च - ब्राह्मणं वेदविद्वांसं शिवभक्तं जितेन्द्रियम् | भूतिरुद्राक्षसंपन्नं शिवपूजापरायणम् || आगमार्थपरिज्ञाननिरतं शिवधर्मिणम् | क्षत्त्र्यं वैश्यमपि वा शूद्रं वा प्रतिलोमजम् || अनुलोमोद्भवं वापि साक्षादाम्रेशसंश्रयम् | भक्त्या वित्तानुसारेण गृहक्षेत्रधनादिभिः || प्. ३३) वासयेदधिका * * शे चरणाम्भोजभक्तितः | प्रतिष्ठया तु देवानां यत्फलं तदुदीरितम् || तत्फलं सकलं लब्ध्वा मुच्यते भवसागरादिति | शैवपुराणे - इदं हि शिवभक्ताय शिवशास्त्रावलोकिने | शिवदीक्षाविशुद्धाय प्रकाश्यं मुनिपुङ्गवा इति | तथा किरणवृत्तौ भगवता रामकण्ठाचार्येण | अत एवास्य निर्वाणदीक्षा संपन्नेति प्रतीयते | नादीक्षितानां श्रवणाधिकार इति वक्ष्यतीत्युपक्रम्य यदवाप्य नराः सर्व इत्यत्र सर्व इति ब्राह्मणाः क्षत्त्र्या वैश्याः शूद्रा म्लेच्छादयोऽपि हीति श्रुत्यधिकारिण एव गरुत्मतोऽधिकारप्रक्रमतः सर्वपदस्यानियतार्थत्वादिति व्याख्यातम् | न तु दीक्षाविहीनैः पठितव्यम् | तदुक्तं कामिके - दीक्षाविहीना विप्राद्यास्त्रिवर्णाः शुद्रजातयः | पठन्ति शिवशास्त्रं चेद्राजराष्ट्रं विनश्यति || चिन्त्यविश्वे - विप्राद्यदीक्षितेनैव शिवज्ञानं न लेखयेत् | अदीक्षितसकाशे तु नाध्येतव्यं विशेषत इति || प्. ३४) वीरतन्त्रे - नादीक्षितैस्तु श्रोतव्यं न देयं न प्रकाश्यकम् | शिष्याणां चैव दातव्यं समासात् कथयामि त इति || अन्यत्र च - पशुना लेखयेन्नैव शिवज्ञानं प्रयत्नतः | न समीपे पशूनां च कुर्यादध्ययनं बुध इति || चतुर्वर्णेष्वपि दीक्षिता एव श्रेष्ठाः | तदुक्तं शैवपुराणे - गतं शूद्रस्य शूद्रत्वं द्विजत्वं ब्राह्मणस्य च | शिवसंस्कारसंबन्धाज्जातिभेदो न विद्यते || शिवदीक्षाभिजातस्य पूर्वजातिं न चिन्तयेत् | संप्रतिष्ठितलिङ्गे तु न यथापूर्वभावनेति || शिवधर्मे - स्थावरं जङ्गमं चैव द्विविधं लिङ्गमिष्यते | स्थावरं स्थापितं लिङ्गं जङ्गमं दीक्षितं विदुः || जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत् | तस्माल्लिङ्गद्वयं प्राज्ञो नावमन्येन सर्वदेति || श्रीमत्मतङ्गे - शिववच्छिव * * * * * * शिवकाङ्क्षिभिः | संस्कृताश्च शिवैर्मन्त्रैर्गुरुणा मन्त्रमूर्त्तिना || प्. ३५) वागीशीगर्भसंभूतास्सर्वे प्राप्तवरा नराः | यथोक्तशिवसंस्कारपवित्रीकृतमूर्तयः || सर्वे समानधर्माणस्तथाप्येष विधीयत इति || कामिके - इन्धनं वह्निसंयोगाद्वृक्षनाम न विद्यते | गतं शूद्रस्य शूद्रत्वं द्विजत्वं ब्राह्मणस्य तु || शिवसंस्कारसंबन्धाज्जातिभेदो न विद्यत इति | अन्यत्र च - काञ्चनं राजतं ताम्रं लोहं चेति चतुष्टयम् | तत्प्रयाति सुवर्णत्वं रसभेदप्रभावतः || रससिद्धं यथा ताम्रं न भूयस्ताम्रतां व्रजेत् | ज्ञानसिद्धस्तथा देही न भूयः शूद्रतां व्रजेत् || यथा शुक्तिगतं तोयं मौक्तिकं जायते ध्रुवम् | न पुनस्तोयतां याति मौक्तिकत्वं न मुञ्चतीति || ज्ञानलक्षणसमुच्चये - वागीशी जननी यस्य व्योमव्यापी पिता शिवः | मन्त्रैः शिवाध्वरे जातः स शुद्रः स्यात् कथं त्विति || मृद्भावना घटादीनां संस्कारान्न कदा यथा | तथैव पाशहानाच्च न प्राकृत्यस्तु जातयः || प्. ३६) नराणां शिवसंस्कारात् शिवत्वं न भवेद्यदि | न भवेयुस्तदा नूनं द्विजदेवादिदेशिकाः || मन्त्रसंस्कारदीक्षाभिः संस्कृतं गुरुणा सदा | चराचरं प्रपद्येत शिवत्वं तत्क्षणाद् ध्रुवमिति || चिन्त्यविश्वे - शिवलिङ्गे शिलाबुद्धिं कुर्वाण इव पातकी | श्रेष्ठत्वं विद्यते तस्य दीक्षया तु विशेषतः || यस्य चित्तं भवेल्लीनं तस्य जात्यादि न स्मरेत् || यस्य चित्तं भवेल्लीनं तस्य जात्यादि न स्मरेत् | शूद्रजातिं समुद्धृत्य स्वाहान्तेनैव मूलतः || स्कन्दकालोत्तरे - जात्युद्धरणहोमं तु एकैकं तु शतं शतम् | दहेद्वै शूद्रजातिं तु अनलेन तु षण्मुख || सच्छूद्रत्वं योजयित्वा क्रियां वै षोडशं कुरु | साक्षाद्विप्रत्वमापन्ने पश्चाद्दीक्षां कुरुष्वथ || त्रैवर्णिकानामेवं तु कारयेद्विधिना बुध इति || कामिके - नमो वौषट् च शूद्रस्य प्रणवादिविवर्जितम् | निर्वाणदीक्षितो यस्तु प्रणवेन तु योजयेदिति || प्. ३७) मकुटे च - निर्वाणदीक्षितेन्द्रे प्रणवं तु नियोजयेदिति | सुप्रभेदे - यतीनां शुद्धशैवानां मर्त्यमाहेश्वरात्मनाम् | विशेषभोजनं दानं कुर्यात्तत्रैव शक्तित इति || अदीक्षिता यद्यपि शिवभक्ता मुक्तभक्तीतरेऽप्यश्रेष्ठा भवन्ति | शिवभक्तलक्षणमुक्तमुपदेशकाण्डे - शिवभक्ता महात्मानः सन्ति देवेषु केचन | दैत्येषु यातुधानेषु यक्षगन्धर्वभोगिषु || मुनीश्वरेषु मर्त्येषु ब्राह्मणेषु नृपेष्वपि | ऊरुजेष्वपि शूद्रेषु संकरेष्वपि सर्वशः || वर्णाश्रमव्यवस्थाश्च नैषां सन्ति मुनीश्वराः | केवलं शिवरूपास्ते सर्वे माहेश्वराः स्मृताः || अतिवर्णाश्रमाः प्रोक्ताः सर्ववेदेषु सत्तमा इति | वायव्यसंहितायां - एवमष्टविधं लिङ्गं यस्मिन् म्लेच्छेऽपि वर्तते | स विप्रेन्द्रे मुनिः श्रीमान् स यतिः स च पण्डितः || न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपियः | तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहमिति || प्. ३८) वासिष्ठलैङ्गे - शिवेति वाचं यो नित्यं चण्डालोऽपि वदेन्मुदा | सह तेन वदेद्वाचं सह तेन वसेत् सदेति || वृद्धाचलमाहात्म्ये च - चिह्नैर्युतो विप्रवरश्च विद्वान् यदि श्वपाकोऽपि स एव भक्तः | नान्यश्चतुर्वेदधरोऽपि पूज्यो देयं च तस्मै सशिवस्वरूपः || उपदेशकाण्डे - पापिष्ठस्यापि वै मुक्तिर्भस्मरुद्राक्षधारिणः | इति सर्वत्र वेदेषु पुराणेष्वागमेष्वपि || वहुधा गण्यते लोके सर्वैरपि महात्मभिरिति | भक्तिलक्षणं चोक्तं सूतसंहितायां - शिवज्ञानैकनिष्ठानां शिवज्ञानस्य सुव्रत | दूषकस्य शिरच्छेदः शिवभक्तिः प्रतीयते || लेखनं शिवविद्यायाः प्रदानं पुस्तकस्य च | शिवभक्तिरिति प्रोक्ता शिवशास्त्रविशारदैरिति || किरणे - भोज्यमन्नं त्रयाणां तु शूद्रान्नं न कदाचन | प्. ३९) शौचाचारसमायुक्ताः शूद्रा ये मद्यपाः शुभाः || रुद्रार्चनपरा भक्ता भोज्यन्ते भोग्यजानपीति | इति शिवभक्तमाहात्म्यम् समाप्तम् || आदिशैवादिमाहात्म्यम् कामिके - ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् | द्विविधं गोत्रमत्रोक्तं दीक्षोत्थं जातिजं तथा || कौशिकः काश्यपश्चैव भरद्वाजोत्थ गौतमः | अगस्त्योऽत्रिर्वसिष्ठस्तु जमदग्निश्च भार्गवः || अङ्गिराश्च मनुश्चाद्यो द्विविधाश्च प्रकीर्तिताः | शिवसृष्टिसमोपेता मुनयस्तद्विवर्जिताः || शिवसृष्ट्यन्विताश्चैते पञ्चवक्त्रेषु दीक्षिताः | शिवेन तत्कुलोत्थाः स्युः शैवाः सान्तानिका द्विजाः || आदिशैवास्तु ते ज्ञेयाः सर्वानुग्राहकाः स्मृताः | प्. ४०) सुप्रभेदे - दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् | परार्थमादिशैवानामात्मार्थसहितं भवेत् || कामिके - वृत्त्यर्थं ये शिवं विप्राः सामान्यास्त्वर्चयन्ति चेत् | षाण्मासात् पतनं यान्ति यस्मात्तान् परिवर्जयेत् || शिवदीक्षाविशुद्धस्य शिवविप्रस्य धीमतः | शिवाज्ञावशतस्तस्य परार्थे ज्ञानदोषदा || शिल्पे - शिवार्चनं शैवशिवद्विजानां वैघानसं पूजनमेव विष्णोः | तथार्चयेदन्यमहीसुरश्चे - च्चण्डालकं देवलकं वदन्ति || अन्यत्र - अदीक्षितस्तु विप्राणां षाण्मासं पूजयेद्यदि | षाण्मासात्पतनं यान्ति स वै देवलकः स्मृतः || वीरतन्त्रे - (वृ)भूत्यर्थं सर्वदा कालमादिशैवः शिवं यजेत् | तच्च स्वधर्मानुष्ठानं न दोषाय प्रकल्पते || प्. ४१) अदीक्षितश्चतुर्वेदी शिवलिङ्गं तु न स्पृशेत् | दीक्षितश्चापि यो विप्रो व्रत्यर्थं तु न पूजयेत् || आत्मार्थपूजनं कुर्यात् परार्थं नैव पूजयेत् | वीरतन्त्रे - अदीक्षितश्चतुर्वेदी शिवपूजां न कारयेत् | वृत्त्यै च ये पूजयन्ति दीक्षाविधिविवर्जिताः || षाण्मासात्पतनं यान्ति ते वै देवलकाः स्मृताः | त्रीणि वर्षाणि वृत्त्यर्थं स्थिरलिङ्गेषु दीक्षितः || पूजयेद्यदि विप्रस्तु स वै देवलकः स्मृतः | शैवरत्नाकरे - अदीक्षितश्च यो विप्रश्चतुर्वेदपरोऽपि वा | संस्पर्शेद्यदि वा लिङ्गं श्वानो वा स्पृशिते यदि || अदीक्षितश्च यो विप्रः कुर्याल्लिङ्गस्य पूजनम् | अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः || चतुर्वेदेष्वहङ्कारी शिवलिङ्गं तु पूजयेत् | राजराष्ट्रा विनश्यन्ति तस्य ग्रामो विनश्यति || योऽर्चयेत् मन्त्रपूर्वं तु सर्वे देवलकः स्मृतः | प्. ४२) योगजे - अदीक्षितश्चतुर्वेदी परार्थपूजां न कारयेत् | सन्ताने - अदीक्षितोऽपि यो विप्रः षाण्मासं तु शिवं स्पृशेत् | सोऽपि देवलकः प्रोक्तो स नार्हो देवपूजने || दीक्षितश्चापि यो विप्रो वृत्त्यर्थं वत्सरत्रयम् | पूजयेद्यदि देवेशं सोऽपि देवलको भवेत् || मकुटे - विप्रक्षत्रियविट्शूद्रा दीक्षिताश्च प्रवेशकाः | आत्मार्थयजनं कुर्युर्न कुर्युस्तु परार्थकम् || अंशुमति - विप्रक्षत्रियवैश्याश्च शूद्राश्चैव तु दीक्षिताः | आत्मार्थयजनं कुर्युर्न कुर्युस्तु परार्थकम् || चातुर्वर्णोद्भव * णामर्चनं तु विशेषतः | कामिके - शिवाय शिवविप्रेभ्यो दद्याद्गां दक्षिणान्विताम् | दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा || तत्रैव परार्थयजनं कार्यं शिवविप्रेण नित्यशः | धार्मिकः कथ्यते नित्यमादिशैवो द्विजोत्तमः || प्. ४३) अन्येषां स्वार्थमेवं स्यात् कुर्युश्चेत्कर्तृनाशनम् | शिवसृष्टिं विना ये तु जायन्ते ब्रह्मणो मुखात् || ते सामान्या ने तेषां तु परार्थेष्वाधिकारिता | यदि मोहेन कुर्वीरन् राज्ञो राष्ट्रस्य नाशनम् || तत्रैव - तस्मात्परार्थमात्मार्थं * * पनं * * पनं तथा | शिवविप्रेण कर्तव्यमन्येषां स्वार्थमेव हि || परार्थमपि कुर्याच्चेल्लोभेन नृपतेस्तदा | तद्राष्ट्रस्य विनाशः स्यादचिरेण न संशयः || तत्रैव - विपरीतक्रियां दृष्ट्वाप्यौदासीन्यात् करोति यः | स राजा क्षयमाप्नोति नात्र कार्या विचारणा || तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना | शैवागमपरिज्ञानपारगेण क्रियावता || क्रिया निर्वर्त्यमाना स्यात् स्वस्वराष्ट्राभिवृद्धये | तत्रैव - शान्तिकं पौष्टिकं कर्म कार्यं राज्ञां विशेषतः | अन्येषामपि सर्वेषामाभिचारादिकं तु वा || प्. ४४) विधेयं धर्मानुष्ठेन सान्तानिकपरेण तु | तेनैवानुष्ठितं कर्म कामदं सर्वदा नृणाम् || तत्रैव - आदिशैवेन कर्त्तव्या न चान्यैश्च विशेषतः | अन्यश्चैव कृता चेत्तु निष्फला सा भवेत्तथा || तत्रैव - आदिशैवस्य कर्त्तव्यमात्मार्थं च परार्थकम् | स्थापनं यजनं चैव आदिशैवार्हकं भवेत् || अन्येन यत् कृतं कर्म आभिचारमिति स्मृतम् | तत्रैव - आदिशैवेन कर्त्तव्यं प्रतिष्ठाद्यर्चनान्तकम् | अन्यथा कारयेद्यस्तु निष्फलं तदवाप्नुयात् || सुप्रभेदे - चर्यापादे तु यन्नोक्तं सामान्यश्वेतवच्चरेत् | तच्च बोधायने सूत्रे दृष्ट्वा कर्म समाचरेत् || तस्माद्बोधायनेनोक्तं तेषां सूत्रमुदीरितम् | आदिशैवा इमे प्रोक्ताः संक्षेपान्न तु विस्तरात् || योगजे - आदिशैव इति प्रोक्तः स शिवब्राह्मणो गुरुः | प्. ४५) देशिकः साधकश्चैव तस्य पर्यायवाचकाः | आदावेव तु शैवत्वादादिशैव इति स्मृतः | शिवेन दीक्षितत्वाच्च शिवब्राह्मण उच्यते || सर्वेषां तु गुरुत्वाच्च गुरुरित्यभिधीयते | देश आदिश्यते येन स देशिक इति स्मृतः || लिङ्गस्थापनयोग्यत्वात् स्थापको नाम कीर्त्तितः || तत्रैव - आदिशैव इति प्रोक्तः स शिवब्राह्मणो गुरुः | आदिशैवेन दीक्ष्याः स्युर्महाशैवा न शैवकाः || महाशैवं तु विप्राणां नृपाणामनुशैवकम् | वैश्यानां भोगशैवं चान्तरशैवं तु शूद्रकम् || आदिशैवादिशैवानामादिशैवो गुरुर्भवेत् | कामिके - आदिशैवकुले जातः श्रेष्ठः स्यात् स्थापनादिषु | विप्रादयश्चतुर्वर्णा अपि यो * * * कर्मणि || दीक्षायां सर्वमर्त्यानां प्रतिष्ठा परमथोत्सवे | स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने || व्याख्यानादौ च युक्तः स्यात् स्वार्थे वाथ परार्थके | सर्वदेवार्चने चैव आदिशैवो गुरुर्मतः || प्. ४६) मकुटे च - चतुवर्ण्यस्य (चा-) दीक्षायां विशेषब्राह्मणो गुरुः | विप्रक्षत्रियविट्शूद्रादीक्षिताश्च प्रवेशकाः || आत्मार्थयजनं कुर्युर्न कुर्युस्तु परार्थकम् | ऊर्ध्वशैवेन कर्त्तव्यमात्मार्थं च परार्थकम् || ऊर्ध्वशैव इति प्रोक्तः स शिवब्राह्मणो गुरुः | कारणे - पञ्चशैवाः समाख्याताः सिद्धान्ते तु प्रजापते | प्रथमोऽनादिशैवः स्यात् स शैवस्तु सदाशिवः || आदिशैवो द्वितीयस्तु शिवश्वेतः स उच्यते | आदौ सदाशिवेनैव दीक्षितस्त्वादिशैवकः || कौशिकः काश्यपश्चैव भरद्वाजोऽथ गौतमः | अगस्त्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः || कौशिकः शिवमूर्त्या तु दीक्षितः शिवगोचरः | काश्यपस्त्वीश्वरेणैव शिवागोचरसंस्थितः || ईशानेन भरद्वाजो दीक्षितो ज्योतिगोचरः | गौतमो ब्रह्ममूर्त्या तु सावित्री गोचरः स्मृतः || अगस्त्यश्चोर्ध्ववक्त्रेण दीक्षितो व्योमगोचरः | ऋषीणां चैव पञ्चानां गोचरत्वं प्रकीर्त्तितम् || प्. ४७) आदिशैवा इमे प्रोक्ता गोचरं कुलमुच्यते | कुलेष्वेतेषु सञ्जाता स्थापनादिक्रियार्हकाः || सदा प्रवर्तकास्त्वेते आदिशैवा इति स्मृताः | तृतीयस्तु महाशैवः स शैवो विप्र उच्यते || चतुर्थमनुशैवं च नृपवैश्यौ तु तौ स्मृतौ | पञ्चमोऽन्तरशैवस्तु स शूद्रश्चेति कथ्यते || शिवस्त्वनाश्रितः प्रोक्त आदिशैवस्तमाश्रितः | आदिशैवाश्रिताः प्रोक्ता महाशैवानुशैवकाः || स्वायम्भुवे - सिद्धान्तेषु समाख्याता पञ्चशैवाश्चतुर्मुख | अनादिशैवः प्रथमो ह्यादिशैवो द्वितीयकः || तृतीयस्तु महाशैवश्चतुर्थश्चानुशैवकः | कृष्णस्त्वान्तरशैवः स्यात् प्रोच्यते तेऽधुना क्रमात् || स शिवो नाश्रितः प्रोक्तश्चादिशैवस्तमाश्रितः | अनाद्याद्यादिशैवाश्च दीक्षितास्त्वादिशैवकाः || महाशैवादयस्त्वन्ये ते विप्राद्याः प्रवेशकाः | प्राप्ता प्रविश्य यस्मात्तु शिवतां चतुरानन || तस्मात् प्रवेशकेत्युक्ताश्चाम्रलेपनतवाम्रवत् | प्रवेशकेति नामापि सामान्यं तेषु पद्मज || प्. ४८) सुप्रभेदे - मर्त्यानां मलनाशाय तेषां मुक्त्यर्थमेव च | परार्थपूजनार्थाय परेषां शोधनाय च || स्थापनप्रोक्षणं दीक्षाविधानकरणाय च | ये शिवान्निर्मितास्तेन शिवेन परमात्मना || ते शैवा ब्रह्मवक्त्राच्च मत्यलोकं गता(ः) क्रमात् | काश्यपादिकनामैश्च ऋषिरूपैश्च कीर्त्तिताः || आदौ शिवत्वमस्तीति आदिशैवा उदीरिताः | शिवेन दीक्षिताः श्वेतास्ते शिवब्राह्मणाः स्मृताः || सव्योमाः परमाचार्याः विप्रोत्तमशिवोत्तमाः | द्विजोत्तमोत्तमाश्चैव शिवः श्वेताः शिवात्मजाः || तेषां पर्यायनामानि संक्षेपात् कथितानि ते | तत्रैव - अनुशैवांस्तु वक्ष्येऽहं दीक्षिताः ब्राह्मणास्त्विमे | अनुशैवाः क्रमेणोक्ता अन्तराश्च ततः शृणु || क्षत्रियाद्यास्त्रयो वर्णाः शैवास्तेऽन्तरसंज्ञकाः | आदिशैवानुशैवैर्वा दीक्षा संपद्यते क्रमात् || एवमन्तरशैवानां लक्षणं च समासतः | तेषामन्तरशैवानामनुशैवो गुरुर्भवेत् || प्. ४९) तेषां चैवानुशैवानामादिशैवो गुरुर्भवेत् | सर्वेषां गुरुरित्युक्तः शिवः श्वेतः शिवात्मकः || पूर्वं ब्रह्ममुखेष्वेव श्वेत * * समुद्भवः | ततः श्वेताः समुत्पन्नाः सामान्यश्वेतकाः स्मृताः || शिवसृष्ट्या समुद्भूता ब्रह्मवक्त्रचतुष्टयात् | ये भूमौ ब्राह्मणा जातास्ते शिवब्राह्मणाः स्मृताः || शिवसृष्ट्या विना यस्माज्जायन्ते केवलं मुखात् | सामान्यब्राह्मणांस्तांस्तु दीक्षया प्रापयेच्छिवम् || तत्रैव - ततस्तु दीक्षितान् शिष्यान् ब्राह्मणादिक्रमेण तु | आचार्यलक्षणोपेतः शिवसिद्धान्तवत् सुधीः || आदिशैवः सुसंसृष्टः सर्वेषां च गुरुत्तमः | वीरागमे - विप्रक्षत्त्रियविट्शूद्रा दीक्षिताश्चापि देशिकैः | आत्मार्थयजनं कुर्यान्न कर्तव्यं परार्थकम् || कारणे - महाशैवानुशैवाश्च तथैवान्तरशैवकाः | आत्मार्थयजनं कुर्युर्न कुर्युर्न कुर्युस्तु परार्थकम् || प्. ५० सुप्रभेदे - दीक्षितानां द्विजादीनामात्मार्थमनुलोमिनाम् | परार्थमादिशैवानामात्मार्थं च समर्चनम् || तत्रैव - अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् | फलपाकविधिं ज्ञात्वा शिवभक्तिर्भवेद्यदा || * * प्रवर्तते पुंसा लिङ्गसंस्थापने रतिः | आचार्यं पूर्वमन्विच्छेन्मूर्त्तिपांस्तदनन्तरम् || आदिशैवकुलोद्भूतः पञ्चगोचरसंस्थितः | सर्वशास्त्रार्थतत्त्वज्ञः शिवज्ञानविशारदः || ईदृग्भूतस्तु यो विद्वान् स्थापनादी न कारयेत् | स एव स्थापको वत्स नेतरः सर्वधा विभोः || अनुशैवादिभिर्नैव स्थापनादी न कारयेत् | कर्मिणामादिशैवस्य कर्त्तव्यं स्थापनादिकम् || अन्यथा तु कृते राज्ञस्त्वभिचारकमेव तत् | न तद्गृह्णीत देवेशो न फलं जायते यतः || तत्रैव - आदिशैवाङ्गकैर्युक्तान् विधिज्ञान् मन्त्रसंयुतान् | शिवव्रतधरान् मुख्यान् शैववेदविशारताम् || प्. ५१) शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च | स्थापनादिक्रियाः सर्वास्त्वादिशैवेन कारयेत् || दीक्षामाज्ञां च सर्वेषां कारयेद्विधिचोदितः | कामिके - गुरुर्मूर्तिधरैः सार्धं होमकर्मसमारभेत् || पूर्वोक्तभूषणोपेतस्त्वादिशैवकुलोद्भवः | तत्रैव गौरीकल्याणपटले - शिवद्विजकुलोद्भूतः समधीतशिवागमः | सोष्णीषश्चोत्तरीयश्च धृतः सर्वाङ्गलक्षणः || ध्यात्वोद्धृत्योदकं दद्यात् कराभ्यां करकेण च | तत्रैव शताभिषेकपटले - ब्राह्मणं क्षत्रियं वैश्यं शूद्रं चैव मयापि वा | अनुलोमसमुद्भूतं विशेषात् भूपतिं द्विजाः || राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् | तत्तज्जातिसमुद्भूतां स्त्रियं वा शिवविप्रजः || पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् | तत्रैव - स्नात्वा समाप्य सन्ध्याद्याः कृतनित्यो गुरुत्तमः | पञ्चगोचरसंजातः सोष्णीषः सोत्तरीयकः || प्. ५२) पञ्चाङ्गभूषणोपेतो द * णो हृष्टमानसः | तत्रैव नैमित्तिकपूजापटले - उपयुक्तं महद्द्रव्यं यागे स्वर्णाम्बरादिकम् | आचार्यायैव दातव्यं * * गोचरवर्तिने | स्वायम्भुवे - योगपूजाविधानज्ञः शिवद्विजकुलोद्भवः | पूजां कृत्व तु विधिवन्नटेशस्य विशेषतः || सुप्रभेदे - आचार्य आदिशैवस्तु सकलीकृतविग्रहः | पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः || कर्षयेच्छिवमन्त्रेण प्रागुदक्प्रणवान्महीम् | कामिके - यस्य राज्ञः शिवज्ञानव्याख्यानं वर्तते द्विजाः | तद्राष्ट्रं वर्धते नित्यं स नराधिप ऊर्जितः || राजराजगुरुत्वे च सेनापत्येऽन्यकर्मणि | पुरोहितत्वे सर्वस्य राजकार्यस्य दर्शने || शुद्धशैवो भवेद्योग्यः स चेत् शान्तानिकेश्वरः | प्. ५३) तत्रैव - सृष्ट्यनन्तरकाले ये दीक्षिताः कौशिकादयः | शिवेन तत्कुलोत्थाः स्युः शैवाः सन्तानिका द्विजाः || सान्तानिकाश्च विज्ञेयाः सर्वानुग्राहका मताः | चीर्णा चर्याव्रते वा तद्वियुक्तास्तु वा मताः || शिवद्विजकुलोत्था ये ते वै माहेश्वरा जनाः | वीरतन्त्रे - शिवद्विजास्तु विप्रेन्द्रा आदिशैवा इति स्मृताः | कश्यपः काश्यपश्चैव भारद्वाजोऽत्रिरेव च || गौतमश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः | तेषामृषीणां विप्रेन्द्र जातानां च पुनः पुनः || शिवद्विजानां दीक्षादौ ----------------------------- | मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते || कामिके - उत्सवाद्यङ्गकॢप्तं च देवतावाहनादिकम् | तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् || अनेकनरनिर्वर्त्यं कथमेकः करोत्यहो | * * * महाप्राज्ञाः समाधिं कथयाम्यहम् || प्. ५४) नित्यनैमित्तिके काम्ये यत्कर्मैकालयस्थितम् | एकाचर्येण कर्तव्यमेति साधूदितं मया || देशिकस्यास्य पुत्रो वा पौत्रो वा तस्य बान्धवः | तद्दीक्षितास्तदादेशभया विभ्रा * * न्नराः || आदिशैवकुले जाताः ब्राह्मणः क्षत्रिया विशः | शूद्रा ये वानुलोमास्ते गन्धर्वा नर्तकादयः || रूद्रकन्याश्च मद्दास्यस्तदाज्ञापालका यदि | तैरप्यनुष्ठितं कर्म देशिकानुष्ठितं भवेत् || सूक्ष्मे - आदिशैवेन कर्तव्यं प्रतिष्ठास्थापनादिकम् | अनुशैवादयः सर्वे आत्मार्थविषये क्रमात् || समयीपुत्रकश्चैव साधको मूर्त्तिधारकः | गुरोराज्ञावशात् कुर्याद्देशान्तरगतो यदि || योगजे - भवेत् कर्मान्तरे विघ्न आचार्येऽप्यगुणे यदि | तस्य पुत्रेण शिष्येण कर्तव्यं तदनुज्ञया || कारणे - गुरुणाकरणस्यैव विरोधे सति तत्र तु | सा क्रिया तस्य शिष्येण कर्तव्या तेन शास्त्रतः || प्. ५५) कामिके - शिवाश्रितस्य तत्प्रोक्तं ब्राह्मणस्य शिवागमे | क्षत्रियादित्रयाणां च नार्चनं तु परार्थकम् || कामिके - तस्मात्परार्थमात्मार्थमात्मार्थस्नपनं तथा | शिवविप्रेण कर्तव्यमन्येषां स्वार्थमेव हि || परार्थमपि कुर्याच्चेल्लोपेन नृपतेस्तदा | तद्राष्ट्रस्य विनाशः स्यादचिरेण न संशयः || वीरतन्त्रे - आदिशैवकुले जातः स वै देशिक उच्यते | आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् || अन्यथा कारयेद्यस्तु अभिचाराय चैव हि | तत्रैव - तेषामृषीणां वंशेषु जाता ये तु शिवद्विजाः | पुनर्दीक्षां न कुर्वन्ति कर्तव्यां * * त्तु निष्फला || कारणे - उत्सवं कारयेत्पश्चाद्यावत्सप्तदिनावधि | एकाहमुत्सवं वापि कारयेद्देशिकोत्तमः || प्. ५६) आरम्भादन्तमेवं तु एकदेशिकता भवेत् | आचार्यस्य अभावे तु मूर्तिपेन तु कारयेत् || यागोपकरणं सर्वं देशिकाय प्रदापयेत् | अन्यत्र - आदिशैवान्वयोद्भूतः शिवदीक्षाभिषिक्तकः | पञ्चगोचरसम्भूतः शैवानुष्ठानतत्परः || ईदृशं गुरुमासाद्य प्रणयेत् स्थापनादिकम् | मूर्तिपास्तादृशाः प्रोक्ताश्चानयेद्धोमकर्मणि || कामिके - सिद्धान्तशास्त्रतश्चैव शिवविप्रैर्यथाक्रमम् | शास्त्रान्तरैश्च यत्स्थाप्य लिङ्गं तदुभयात्मकम् || पूजनीयं नृपग्रामयजमानाभिवृद्धये | शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च || शैवाः सर्वेषु * * न्ति ये गृहस्था द्विजोत्तमाः | यामले मान्त्रतन्त्रे च कापाले पाञ्चरात्रके || बौद्धे वा चार्हते चैव लागुडे वैदिकेऽपि च | अन्येष्वपि च मार्गेषु तत्तच्छास्त्रोक्तमार्गतः || शैवाः कुर्वन्ति दीक्षाद्यं तल्लिङ्गस्थापनादिकम् | तदेवं सान्तानिकशिवद्विजाः सर्ववर्णपूज्यानां ब्राह्मणानां प्. ५७) च परार्थपूजानिषेधवचनानि प्रदर्शितानि | तथापि क्वचित्सुप्रभेदाजितागमादिके कथञ्चिद्भक्तिप्रकर्षाकृष्टविधे शिवदीक्षितानां महाशैवानां परार्थपूजा प्रतिपादिता | यथा सुप्रभेदे - दीक्षया प्रापिता यस्मादनुशैवास्तु कीर्त्तिता इत्युपक्रम्य स्वार्थं वा तु परार्थं वा पूजयेत्तु विशेषतः | अजिते - शिवाश्रितस्य तत्प्रोक्तं ब्राह्मणस्य शिवागमे | क्षत्रियादित्रयाणां च नार्चनं तु परार्थकम् || हालास्यमाहात्म्ये - दीक्षाविहीना विप्राश्च महालिङ्गस्य तस्य तु | अर्चनायामनर्हाश्च क्षत्रियाश्चापि दीक्षिताः || ते सर्वे कारयामासुरन्यैरन्यैस्तु भूसुरैः | अन्यत्र - तन्मध्ये वै पुनर्दीक्षां शैवमासाद्य पूजकाः | कर्तुमात्मपरार्थं ते पूजामर्हन्ति वै द्विजा इति || प्. ५८) ततोऽयमत्र विवेकः | वैदिकी शैवी चेति पूजा द्वेधा | तत्र शैवी परार्थपूजा वैदिकेषूक्ता यद्यपि प्रोक्तप्रकारेण परिपाकदीक्षामुमुक्षुविषयाप्यर्चनाङ्गशिवदीक्षितानामेव महर्षिमहाशैवानां केवलं वैदिकी परार्थपूजा च | केवलं वैदिकानां बोधायनसूत्रोक्तप्रकारेण कर्तव्या यद्यपि शिवागमोक्तशिवदीक्षाविधुरत्वेनादीक्षितानां वैदिकपाशुपतादिषूक्तप्रकारेण कथञ्चिच्छिवदीक्षितानामेव | सर्वधा नादीक्षितानां कर्षणादिप्रतिष्ठान्तोत्सवादिप्रायश्चित्तान्तकर्मणां शिवागमसापेक्षत्वेनादीक्षितानां शिवागमेऽनधिकारात् | तत्सापेक्षत्वं च वेदोपबृंहणे सूतसंहितादिपुराणे प्रोक्तम् | आगमेनैव शास्त्रेण प्रोक्तलक्षणलक्षितम् | आदावश्रद्धया विप्राः शिवलिङ्गं समाहिताः || ब्रह्मोत्तरखण्डे - आगमोक्तेन विधिना पीठमामन्त्रयेत् सुधीः | स्मृतौ च - केचिद्वेदविदश्चापि तान्त्रिकेणाध्वना सुरान् | अभ्यर्च्य सिद्धिमायान्ति काङ्क्षन्तश्च ततः फलम् || प्. ५९) तथैव वैदिकपरार्थमीमांसायां श्रीमदापदुद्धारणदीक्षितैरपि शिवागमशिवदीक्षासापेक्षत्वं सूचितम् | प्रधानप्रकृष्टकर्माधिकारिभिः साकल्येन प्रवृत्ते सत्यप्रधानेन तथाभूतं कर्म न कार्यस्तथा कृतं कर्मप्रोक्तसर्वदोषकृत्तथा मीमांसान्यायाच्च पूजासु शिवतान्त्रिकीपूजा मुख्या | तत्र मुख्याधिकारिणां शिवब्राह्मणानामभावे वैदिकेन वैदिकीं शिवपूजां कथञ्चिद्राजा कारयेत् | वैदिकपरार्थपूजाप्रकारश्च पौराणिकः प्रोल्लिख्यते | कलिदोषेण मर्त्यानां महामोहो भविष्यति | वेदमार्गरतिः शुद्धा न भविष्यति सर्वधा || वेदबाह्येषु मार्गेषु श्रद्धां कुर्वन्ति सन्ततम् | अल्पायुषो भविष्यन्ति दरिद्राश्च विशेषतः ||| आधिव्याध्यस्त्रशस्त्राद्यैर्व्याघ्रचोरादिभिस्तथा | त्यक्तवर्णाश्रमाचारा नष्टोपायविशेषतः || भूयो भूयो भविष्यन्ति विवशात् सर्वयोनिषु | मामुक्तलक्षणं साम्बं राजराष्ट्रविवर्धये || प्रतिष्ठाप्य नदीतीरे प्रणवेनैव केवलम् | गन्धपुष्पादिभिर्दिव्यैः सार्वभौमो भवेद्ध्रुवम् || प्. ६०) विचित्रमालयं कुर्यात् प्राकारैर्गोपुरैर्युतम् | नृत्तगीतादिकं दद्यात् त्रिसन्ध्यं शुद्धमोदनम् || षण्मुखं वायुकोणे च नैऋते च विनायकम् | स्थापयित्वार्चयेन्नित्यं राजराष्ट्राभिवृद्धये || द्विजैराराधनं कार्यं राजराष्ट्राभिवृद्धये | राजा विजयमाप्नोति तत्रैव मम पूजनात् || आयुरारोग्यसम्पन्नो भवेन्मुक्तो भविष्यति | शत्रवश्च विनश्यन्ति देवि राज्ञो न संशयः || धनधान्यसमृद्धं स्यात् राष्ट्रं सर्वत्र सर्वदा | काले कालेऽभिवृद्धिः स्यात् सर्वत्र मम पूजया || वर्णाश्रमसमाचारनिरताः सर्वमानवाः | भविष्यन्ति न सन्देहस्तत्र मामर्चयेत्ततः || इति | तदेवं शिवब्राह्मणव्यतिरिक्तब्राह्मणानामपि कथञ्चित्परार्थपूजा भाषितापि गौणवृत्त्येति मन्तव्या | इति शैवाचार्यमाहात्म्यं समाप्तम् || अथ चतुर्वर्णशैवाचार्यविधिरुच्यते | तदुक्तं शैवपुराणे - शिवशास्त्रसमायुक्ताः पशुशास्त्रपराङ्मुखाः | ब्राह्मणादिचतुर्वर्णा आचार्यास्तु प्रकीर्तिताः || प्. ६१) कामिके - स्वार्थेऽष्टौ चललिङ्गस्य प्रतिष्ठायां त्रयस्त्विमे | शूद्रोऽपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञक इति || सुप्रभेदे - ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्रकुलोद्भवाः | आचार्यास्ते तु विज्ञेया नान्येषां तु कदाचनेति || तत्रैव जातिनिर्णये - ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्त्तिताः | एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेदिति || सर्वज्ञानोत्तरे - ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः शुद्धास्तु साधकाः | स्ववर्णादानुपूर्व्येण आचार्याश्च षडाननेति || चिन्त्यविश्वे - विप्रादिषु चतुर्ष्ववमनुलोमादिषट्सु च | एतेषां दशजातीनामाचार्यत्वं विधीयत इति || सर्ववर्णानतो विप्रः क्षत्रियस्त्रितयं गुरुः | वैश्यशूद्रौ द्वयं चैकं दीक्षयेद् दृक्क्रियार्थवित् || ब्राह्मणः सर्वजातीनां सदानुग्राहकः स्मृतः | स्वजातिपूर्वमाचार्यास्त्रयः शेषा नृपादय इति || प्. ६२) तथा षट्सहस्रिकायां - चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् | ब्राह्मणादिचतुष्कस्य द्विजोऽनुग्राहकृन्मतः || त्रयाणां क्षत्रियो द्वाभ्यां वैश्यः शूद्रस्त्वयोनिजे | एवं चानुग्रहः कार्यश्चतुर्भिरपि देशिकैरिति || किरणे गरुडः - मध्ये वर्णचतुष्कस्य गुरुत्वं कस्यचिद्वद | ईश्वरः - चतुर्णामपि वर्णानामाचार्यत्वमिहोदितम् | ब्राह्मणादिचतुष्कस्य द्विजोऽनुग्राहकृन्मतः || त्रयाणां क्षत्रियो द्वाभ्यां वैश्यः शूद्रस्त्वयोनिज | इति | पुनः कामिके च - नित्यादित्रितयं कार्यं चतुर्भिरत(वि) चारतः | वैश्वदेवं तथा सन्ध्यां शूद्रस्त्यक्त्वात्ममयीमिति || कालोत्तरे - अभिषिक्तोऽयमेवं हि ब्राह्मणः क्षत्रियोऽथवा | वश्यो वाप्यथ शूद्रो वा प्रतिष्ठाद्यधिकारिणः || ननु चतुर्थविषयगुरुत्वप्रतिपादकप्रदर्शवचनानां प् ६३) नैष्ठिकशूद्रविषयत्वमस्तु | न तु गृहस्थविषयत्वम् | तदुक्तं कामिके - शूद्रोऽपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके | बाणलिङ्गे क्षणे वापि स्थापको यदि नैष्ठिकः || शूद्रस्यापि गृहस्थस्य नित्येऽष्टावेव योग्यता | अभिषेकेऽप्ययोग्योऽयं किं पुनः स्थापनादिष्विति || सत्यं श्रोतुरभिप्रेताधीनमिदं वचनं क्वाचित्कम् | अन्यथापि भूयासामिति न्यायादपार्थकमेव | तथा च वाक्यविदः - विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् | सधर्मत्वं लौकिके - त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् | ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेदित्यादि पुराणविप्रतिपत्तिपरिहारे तत्र भवता स्कान्दरातेनाप्युक्तोऽयं न्यायः आर्षेण वा विप्रतिषिद्धं मार्यं संयुक्तेन नेतव्यं युज्यमानं नेतव्यमल्पं बहुना तथैव सतां प्रवृत्त्या पथिकेन चान्यदिति | शूद्रगृहस्थानां गुरुत्वं सिद्धमेव | नैष्ठिकस्त्वधमो ज्ञेय इत्यादिनैष्ठिकस्याधमत्ववचनमप्युक्तन्यायेन परिहरणीयः | तदुक्तं पराख्ये - प्. ६४) गृहस्थः सर्ववर्णेषु श्रेष्ठो गुरुरुदाहृतः | नैष्ठिकस्त्वधमो ज्ञेयो भौतिकस्तु विशेषत इति || कालोत्तरे - चतुर्णामपि वर्णानां लिङ्गिनां गृहिणामपि | आचार्यत्वं शिवेनास्मिन् सिद्धान्ते प्रतिपादितमिति || उत्तरकामिके - चातुर्वर्ण्यगृहस्थानामाचार्यत्वं विशेषतः | अथवा ब्रह्मचारीणामाचार्यत्वं विशेषत इति || षट्सहस्रिकायां - शृणु षण्मुख तत्त्वेन भोगमोक्षौ यथास्थितौ | ब्रह्मचारी गृहस्थश्च द्विविधो देशिकोत्तमः || दीक्षाप्रतिष्ठयोरेतौ उभावप्यधिकारिणौ | किं तु मोक्षैकयुक्तानां विभूतिविमुखात्मनाम् || ब्रह्मचारी गुरुर्ज्ञेयो गृहस्थश्चोभयात्मनाम् | गृहस्थादितरेषां तु नास्ति भोगाधिकारिता || त * * ग्रणी गुरुः कार्यो भोगमोक्षोभयार्थिभिरिति | तथा सन्ताने - गृहस्थश्चोत्तमो विद्यात् ब्रह्मचार्यधमो भवेदिति | प्. ६५) सुप्रभेदे - गृहस्थश्चोत्तमो ज्ञेयो भौतिकब्रह्मचार्यपीति | वीरतन्त्रे - * * त्तमं विद्यादथवा ब्रह्मचारिणः | सान्तानिकगृही श्रेष्ठो गृहस्थस्तदभावतः || भौतिको ब्रह्मचारी वा देशिको गृहमेधिनाम् | नैष्ठिको नैष्ठि * * स्यात् भुक्तौ मुक्तौ क्रमान्मत इति | किरणे - सान्तानिको गुरुः प्रोक्तो गृहस्थो देशिकोत्तमः | गृहस्थं चोत्तमं विद्यात् अथवा ब्रह्मचारिणम् || गृहस्थो देशिकः श्रेष्ठो भोगमोक्षप्रसिद्धय इति | कामिके - सृष्ट्यनन्तरकाले ये दीक्षिताः कौशिकादयः | शिवेन तत्कुलोत्थाः स्युः शैवाः सान्तानिका द्विजाः || सान्तानिकगुरुः श्रेष्ठो गृहस्थस्तदभावतः | भौतिको ब्रह्मचारी वा देशिको गृहमेधिनाम् || नैष्ठिको नैष्ठिकेषु स्यात् भुक्तिमुक्तिक्रमान्मतः | भुक्तिमुक्तिप्रसिद्ध्यर्थं गृहस्थो गुरुरिष्यते || प्. ६६) तत्रैव - महापुरस्य सौम्यायामभिषिञ्चेद्द्विजानथ | पूर्वायां क्षत्रियान् ब्रह्मन् वैश्यान् दिशि यमस्य तु || शुद्रांस्तु पश्चिमाशायां सर्वान् वा * * * त् स्थितानिति | सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते || वर्णावर्णविचारो यः स नरः पातकी भवेदिति || इति चातुर्वर्णशैवाचार्यमाहात्म्यं समाप्तम् || चातुर्वर्णसन्यासविधिः चिन्त्यविश्वे - यतयस्त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा | विद्वानिति त्रिधा प्रोक्तास्तेषां लक्षणमुच्यते || तपोनिष्ठस्तपस्वीति तस्य वृत्तिस्तु सुव्रत | नाध्येतव्यं न संकल्पो न श्रोतव्यं कदाचन || शिष्याणां संग्रहं चैव नैव विद्याप्रकाशकः | न वदेत् संस्कृतां भाषां न दण्डी न कमण्डलुः || लिङ्गमक्षकमभ्यर्च्य भक्तिमात्रेण संयुतः | एकाकी वृक्षमूले वा वने वा जनवर्जिते || प्. ६७) जनाद्भीतिसमायुक्तो वसेद्बाहूपधानकः | वसनं येन केनापि तथैवाशनपानकम् || पाणिपात्रोदरोपानो याचितान्नेन जीवनम् | इत्युक्तस्तु तपस्वी स्यात् साधको याति नामवान् || विदुषोश्च यतेर्वापि वर्तनं नन्दिकेश्वर | अध्यापनं चाध्ययनं श्रवणं चिन्तनं तथा || एतच्चतुष्टयं तस्य विदुषोश्च विशेषतः | विद्वद्यतेर्विशेषोऽस्ति व्याख्यानं चिन्तनं भवेत् || सदाचार्याभिषेकेण युक्तो विद्वत्समाख्यकः | यतीनां त्रिविधं प्रोक्तं शैवानां चतुराश्रमे || आश्रमाणां च भेदोऽस्ति निष्ठाभेदो न विद्यते | * कद्वयं फलं भुङ्क्ते मोक्षः साधारणस्तयोः || सूतसंहितायां किरणादिके च भङ्ग्यन्तरेण नामानि वृत्तानि खननदहनव्यवस्थादीनि च द्रष्टव्यानि सुप्रभेदे - ब्राह्मणादिचतुर्वर्णाः काश्यपादिसमुद्भवाः | परमेशप्रसादेन अधिकारे नियोजिताः || गोचरं गोत्रसूत्रं च संक्षेपेण वदाम्यहम् | गोचरं शिवचिह्नं हि गोत्रं स्वमुनिवर्गकम् || प्. ६८) सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् | शिवः शिखा तथा ज्योतिः सावित्रीचेति गोचराः || एतच्चतुर्थनामानि शैवानां शिवशासने | गोचरमि * * तच्चिह्नं च चतुर्विधम् || काश्यपः कौशिकश्चैव भारद्वाजोऽथ गौतमः | एते चतुर्विधा ज्ञेयाः संप्रोक्ता मुनयस्त्विह || व्रतं हि द्विविधं प्रोक्तं सामान्यं च विशेषतः | ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः || चतुराश्रम एवं हि सामान्यविधिचोदितम् | चतुर्णां गोचराणां तु समनेतच्छिवागमिति || कालोत्तरे च - शिवः शिखा तथा ज्योतिः सावित्रीति चतुष्टयम् | शैवं कुलं शिवाज्जातं शक्तेर्जातं शिखाकु * * || बिन्दोर्ज्योतिष्कुलं जातं नादात् सावित्रमेव च | दीक्षाकाले यदा मन्त्रो लीयते च शिवादिषु || तत्तद्द्वारवशाज्जातं क्रमात् कुलचतुष्टयम् | क्रमादेतं तु विज्ञेयं ब्राह्मणादिचतुष्टये || शुद्धजात्युदये नश्येत् प्राकृतं यत् कुलं स्थितम् | कृतयुगे ब्राह्मणसन्यासी श्रेष्ठः | त्रेतायुगे क्षत्रियसन्यासी च श्रेष्ठः | प्. ६९) द्वापरयुगे वैश्यसन्यासी श्रेष्ठः | कलियुगे शूद्रसन्यासी श्रेष्ठः इत्यादिकं ब्रह्माण्डपुराणादिके विद्यमानं द्रष्टव्यम् | सर्वज्ञानोत्तरे - द्वावेवाश्रमिणौ शौ * व गृहस्थब्रह्मचारिणौ | लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि || कालोत्तरे - वानप्रस्थयतीनां तु गुरुत्वं नेष्यते सदा | सुप्रभेदे - भावद्रव्याग्निसन्त्यागाद्येते सन्यासिनो यदा | दीक्षास्थापनयोस्तस्मादेतेनैवाधिकारिण इत्यादिनिषेधवचनात् कथं कथयन्ति सन्यासिनां गुरुत्वमिति चेत् | सत्यम् | आणवी नाम क्रिया दीक्षां विना शाक्ती शाम्भवीति दीक्षा द्विविधा | तस्यां ज्ञानवतीदीक्षायां कथञ्चित् क्वाचित्कं गुरुत्वमस्त्येव | तदुक्तं सन्यासदीपिकायां - परहंसयतीनां च तपः सन्यासिनां च यौ | अनयोराग्निकार्येषु योग्यत्वं न विधीयते | होमं विना तयोरेवमभिषेकं विधीयते | इति शैवसन्यासविधिः समाप्तः || प्. ७०) शिवपूजाधिकारविधिः || रौरवे - श्वेतवर्णं भवेद्विरे क्षत्रिये रक्तवर्णकम् | पीतवर्णं भवेद्वैश्ये कृष्णवर्णं तुरीयके || ज्ञानसारे - श्वेतं रक्तं तथा पीतं कृष्णवर्णं चतुर्विधम् | भूसुरादिचतुर्णां तु वर्णानां लिङ्गकं क्रमात् || अथवा कृष्णवर्णं तत् सर्वजात्यर्हकं भवेत् | कालोत्तरे - अभावात् कृष्णवर्णं तु सर्वजातिषु सिद्धिदम् | तत्रैव - सर्वार्थसिद्धिदं कृष्णं चतुर्वर्णहितावहम् | सर्वेषामथवा श्वेतबाणलिङ्गं विमुक्तिदम् || सूक्ष्मे - ब्राह्मणस्य तु वस्वश्रं क्षत्रियस्य षडश्रकम् | वैश्यस्य चतुरश्रं स्यात् शूद्रस्यैव तु वृत्तकम् || सर्वजातिषु कर्त्तव्यं पीठं वृत्तं विचक्षणः | प्. ७१) विद्यासारसंहितायां - र - लिङ्गं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् | रत्नलिङ्गं क्षत्रियाणां महाराज्यप्रदं भवेत् || स्वर्णलिङ्गं तु वैश्यानां महाधनपतिप्रदम् | शिलालिङ्गं तु शूद्राणां महदैश्वर्यदं विदुः || स्फटिकं बाणलिङ्गं च सर्वेषां सर्वकामदम् | स्त्रीणां तु पार्थिवं लिङ्गं सभर्तॄणां विशेषतः || विधवानां निवृत्तानां रसलिङ्गाद्यनुक्रमम् | बाल्ये वा यौवने वाथ वार्धके वाथ सुव्रताः || शुद्धस्फटिकलिङ्गं तु स्त्रीणां वै सद्यभोगदम् | अंशुमति - विप्रक्षत्रियवैश्याश्च शूद्राश्चैव तु दीक्षिताः || आत्मार्थमर्चनं कुर्युर्न कुर्युस्तु परार्थकम् | चातुर्वर्णोद्भवस्त्रीणामर्चनं च विशेषत इति शिवपूजाधिकारविधिः समाप्तः || शिवादिनिन्दादोषप्रतिपादकं वचनं सुप्रभेदे ज्ञानपादे - देवद्रव्यापहारश्च शिवशास्त्रविदूषकः | प्. ७२) पितृघातश्च ब्रह्मघ्ना एवमाद्यस्त्वनेकशः | यातनास्थानमाश्रित्य पतन्ति नरकार्णवे || उपदेशकाण्डे - एताः षडपि शम्भ्वादीन् शिवस्थानान्यपि द्विजाः | वेदान् विभूतिरुद्राक्षमागमानपि शङ्करान् || तथा शिवपुराणानि शिवशम्बरकान् परान् | विनिन्दयति मूढात्मा शिवद्रोही स ईरितः || विनिन्दकस्य निकटे वर्तनं श्रवणं तथा | वीक्षणं स्पर्शनं तस्य तेन सम्भाषणं तथा || तद्वाक्यश्रवणं तद्वत् शिवद्रोहः स ईरितः | ब्रह्माण्डादिसकलपुराणसारे विरूपाक्षमाहात्म्ये पूर्वभागे - शिवशास्त्रं शिवाचारं शिवमन्त्रं शिवोञ्चयम् | शिवलोकं शिवज्ञानं शिवध्यानं शिवार्चनम् || शिवशक्तिं शिवस्तोत्रं शिवक्षेत्रं शिवागमम् | लघु कुर्वन्ति ये पापास्तान्निबीडतानिशम् || शैवं पाशुपतं कालामुपं कापालधारिणम् | यदि हन्याज्जगत्पूर्वं हतं तेन दुरात्मना || प्. ७३) स्कान्दे काशीखण्डे विष्णुं प्रति शिववचनम् - ममाश्रमरतांश्चान्ये ये निन्दन्ति नराधमाः | ब्राह्मणादिचतुर्वर्णान् शिवास्त्रकवचान्वितान् || पाषण्डास्ते सुरश्रेष्ठ भविष्यन्ति न संशयः | तेषां तप्तं हुतं जप्तं स्नानं ध्यानादिपूजनम् || भस्मनीव हुतं हव्यं सर्वं भवति निष्फलम् | ममाश्रमरता द्वेष्टि यः समाद्वेष्टि माधवम् || ममाश्रमरतांस्तौति यः स मां स्तौति निर्मलम् | * चान्यथा करिष्यन्ति त्वं मायामूढ * * || * * * * * * * * ब्रह्मेन्द्रार्कादिदेवताः | समर्थाः स्युः परित्राणे पातुकान्नरकार्णवे || स्वच्छन्दे - ब्राह्मणा क्षत्रिया वैश्याः शूद्राश्चान्येऽथवा प्रिये | सर्वे ते समधर्माणः शिवधामनियोजिताः || सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः | एकपङ्क्तिभुजः सर्वे * * वतु वरानने || मन्त्रमेतत् समाहृत्य प्राग्जातिं न ह्युदीरयेत् | पुत्रकाणां साधकानां तथा समयिनामपि || प्. ७४) प्राग्जात्युदीरणाद्देवि प्रायश्चित्तीतरोभवत् | दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य तु || पितामहस्य पक्षैकं नरके पच्यते तु सः | ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च परमेश्वरी || आश्रमत्वे युक्ताश्च ते सर्वे शिवा स्थिताः | अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः || नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् | काशीखण्डे - शिवनिन्दारतो मूढः शिवशास्त्रविनिन्दकः | तस्य नो निष्कृतिं दृष्ट्वा क्वचित् शास्त्रेऽपि केनचित् || सूतसंहितायां च - अस्ति चेद्ब्रह्मविज्ञानं स्त्रियो वा पुरुषस्य वा | वर्णाश्रमसमाचारास्तस्य नास्त्येव सर्वदा || न विज्ञायात्मविज्ञानं सवर्णाश्रममास्तिकाः | जहाति यः स मूढात्मा ----------------- स | इति | मनुस्मृतौ - त्रिपुण्ड्रं भस्मना धार्यं नित्यमेव द्विजादिभिः | --------------------------------------------------- याति सः | --------------------------------- दत्तं यथा फलमिति || प्. ७६) वृद्धाचलमाहात्म्ये च - स्नाने वा जपहोम * * * तिथौ देवार्चना तयोर्दीक्षा श्राद्धकयोः कृतौ स भवितो रुद्राक्षमालाधरः | आयुः कर्म च वैदिकं च सकलस्योदक्षयन् तत्फलं नो चेद्व्यर्थमिदं भवत्ययमहो पापोऽनवद्यो भवेदिति || अंशुमति - त्रिपुण्ड्रेण विना श्राद्धं त्रिपुण्ड्रेण विनाहुतिः | त्रिपुण्ड्रेण विना दानं राक्षसं तत्प्रकीर्तितमिति || अतः शिवागमप्रोक्तविशेषाचारतत्पराः | नराः श्रेयांसि भूयांसि विन्दन्तीति निश्चितम् || इति शालिवाटिपुरनिवासि- ज्ञानप्रकाशगुरुविरचितशिवागमादिमाहात्म्यसङ्ग्रहः समाप्तः || श्रीमद्देवशिखामणिगुरुभ्यो नमः | श्रीमत्षण्मुखगुरवे नमः || ########### END OF FILE #######