#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00079 Uniform title: śivārcanacandrikā Author : appayadīkṣita Description: E-text transcribed from the Devakottai series. Notes: E-text transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 13, 2007 Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1922 Publication city : Devakottai Publication country : India #################################################### श्रीः || || श्रीगणेशायनमः || || शिवार्चनचन्द्रिका || यस्याहुरागमविदः परिपूर्णशक्ते रंशे कियत्यपि निविष्टममुं प्रपञ्चम् | तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय || अवश्यकार्यं शैवानामात्मार्थशिवपूजनम् | तच्च वैदिकमिश्राभ्यामेतेषां शैवमुत्तमम् || तदप्यशक्तिकाच्छुद्धात् मिश्रात्सौरादिकादपि | सशक्ति केवलं श्लाष्यं संक्षिप्तं भुक्तिमुक्तिदम् | तस्मादात्मार्थयजनं शम्भो रंबिकया सह | संगृह्य दर्शयिष्यामि सर्वदिव्यागमोद्धृतम् | दिव्यागमार्थसाङ्कर्यमैकतंत्र्यान्नदोषकृत् | किन्तु पाशुपतार्थं च साङ्कर्यं तेषु दोषकृत् | तेष्वप्येकं समाश्रित्य ग्राह्यमन्यदपेक्षिते | इत्येतन्मानुषे लिङ्गे नतु स्वायंभुवादिषु || एकागमावलंबेऽपि प्रविहाय तदीरितम् | (प्रशस्तमित्यारभ्यार्चनाङ्गमपेक्षितमित्यन्तं पुस्तकांतरे नास्ति |) प्रशस्तमन्यतो ग्राह्यमित्युपादिशदीश्वरः || प्राशस्त्यस्योभयोस्साम्येऽप्यर्चनाङ्गमपेक्षितम् | तत्रोक्त (अन्यत्रोक्तमिति ) मन्यतन्त्रोक्तं सममित्यप्युपादिशत् || तस्माद्दिव्यागमेभ्योऽसौ अखिलेभ्यस्समुद्धृतैः | अपेक्षितांशैः क्रियते श्रीशिवार्चनचन्द्रिका || आचम्य भस्मरुद्राक्षविभूषितकलेवरः | सकलीकृत्य सस्कुर्यात्सामान्यर्घ्यं यथाविधि | शुद्धविद्यात्मकं ध्यात्वा शिवपूजानिकेतनम् | तद्वारेऽनुत्तरे कुर्यात् द्वारपालार्चनं क्रमात् || (प्. २) विघ्नत्रयं समुत्सार्य प्रविश्यास्त्रादिपूजनम् | कृत्वा पूजोपकरणं सकलं सन्निधापयेत् | देवस्य दक्षिणे भागे (पावकेचोत्तरामुखं) पावकस्योत्तरामुखम् | विहितासनमास्थाय पञ्चशुद्धिं समाचरेत् | आदित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते | उत्थाय धौतांघ्रिकरः कृतभस्मावकुण्ठनः || हृदि सामान्यसमयी चिन्तयेत्परमेश्वरम् | विशिष्टसमयी बिन्दौ मूर्ध्नि निर्वाणदीक्षितः || आचार्यबोधकश्चैनं (साधकश्चैतमिति) द्वादशान्ते विचिन्तयेत् | नामानि चास्य हृद्यानि चरित्राणि च कीर्तयेत् || विण्मूत्रोत्सर्जनं कुर्यात् गत्वा देशं यथोचितम् || उदङ्मुखोऽहस्सन्ध्यासु रजन्यां दक्षिणामुखः | प्राक्प्रत्यग्वदनो यद्वा दिनपूर्वापरार्धयोः | उदङ्मुखस्तु मध्याह्ने रजन्यां दक्षिणामुखः | नभोविण्मूत्रदिक्चन्द्र (सूर्येंद्रधनुस्ताराभिदर्शनमिति) सूर्यताराग्निदर्शनम् || (देवालयद्विजाश्वत्थ) देवगोमुनिविप्रस्त्रीसम्मुखं च विवर्जयेत् | तृणैःपायु मयज्ञार्है रिज्याद्यनुपयोगिभिः || लोष्टाद्यैर्वा न सत्पुष्पपर्णकाष्ठफलादिभिः | अधोदृष्टिः प्रजननं गृह्णन्वामेन पाणिना | जलाभ्याशमुपागम्य शौचं कुर्वीत मृज्जलैः | एका लिङ्गे गुदे पञ्च दश वामकरे मृदः | षष्ठं च पृष्ठे चाग्रे च करयोस्सप्त मृत्तिकाः || वाल्मीके वृक्षमूले च गृहे मार्गे जलान्तरे | ऊषरे मूषिकोत्खाते गोव्रजे देवतालये || वापीकूपतटाकादिमूले च सिकतास्थले || वीथ्यां श्मशाने कीटास्थितुषाङ्गारादिदूषिते | पांसुले परशौचार्धशिष्टमृत्कीर्णभूतले || हलोत्खाते च जबाले शर्करे नाहरेन्मृदम् || शुद्धभूमौ च मृतग्राह्या व्यपोह्योपरि मृत्तिकाम् | यथा स्यात् शौचपर्याप्ता नावशिष्येत वा यथा || प्रथमं पायुशौचं स्यादर्धप्रसृतिमानतः | तदर्धमानतः पश्चात्तदर्धेन ततः परम् || (प्. ३) आर्द्रामलकमानं स्यान्मूत्रशौचेतु मृत्तिका | द्विगुणं मृत्तिकाशुक्ल्ये त्रिगुणं दारसङ्गतौ || एतच्छौचं गृहस्थस्य भावशुद्ध्यै ततोऽधिकम् | ब्रह्मचार्यादिकानां तु क्रमात् द्वित्रिचतुर्गुणम् || यस्य यावद्दिवाशोचं तदर्धं निशि तस्य तत् | तदर्धमातुरे चोक्तमातुरार्धं वनाध्वनि || आगुल्फ चरणौ मृद्भिः करावामणिबन्धकौ | संक्षाल्य क्षालयेत्पश्चादाजान्वाकूर्परं जलैः || धाराशौचं न कर्तव्यं शौचशुद्धिमभीप्सता | चुलकैरेव कर्तव्यं हस्तौ शुद्धिविधानतः || शौचे मृज्जलदानार्थं कर्तव्यौ परिचारकौ | सव्यहस्तगृहीता च क्षेप्या मृद्वामहस्तके || कुर्याद्वादश गण्डूषान् पुरीषोत्सर्जने कृते | कुर्वीत चतुरो मूत्रे भोजनान्ते तु षोडश || (प्राङ्मन्त्रीति) प्राङ्मुखः क्षालयेत्पादौ हस्तौ वक्त्रमुदङ्मुखः | (प्राङ्मुखोवाथकुर्वीतेति) उदङ्मुखः प्राङ्मुखो वा ततस्त्वाचमनं चरेत् || || दन्तधावनविधिः || हृन्मन्त्रेण ततो ग्राह्यं दन्तकाष्ठं त्वगन्वितम् | अपर्वाग्रसमच्छेदमाद्यमग्रे च कूर्चितम् || कनिष्ठिकासमस्थौल्यं सूक्ष्मं वा दन्तसौक्ष्म्यतः | अष्टांगुलं नैष्ठिकानां भोगिनां द्वादशांगुलम् | वर्णानां दशकं चाष्टसप्तांगुलिकमेव च || षडंगुलं प्रहीणानां नारीणां चतुरंगुलम् | जंब्बाम्लककुभाशोक कपित्थवकुलोद्भवम् || प्लक्षौदुम्बरफुल्लांघ्री जाजीचम्पकशंखजम् | अतिमुक्तकदंबोत्थमपामार्गं च भोगिनाम् | ग्राह्यमेतच्च शैरीष चिरिबिल्वकरञ्जकम् | श्रीपर्णदारुनिर्गुण्डी सारसं खादिरायते || अक्षक्षीरिधवरैण्डवटाश्वत्थाग्रशिग्रुजम् | अकुलीशेलुवानीर धात्री (निम्बशरोद्भवमिति) चोदुम्बरोद्भवम् || खर्जूरनालिकेरोत्थं पालाशं तालवंशजम् | तृणपर्णपिशाचोत्थमिष्टकाङ्गारभस्मजम् | अंगुलीच विवर्ज्यानि सुवर्णादिकृतं तथा || प्रतिपन्नवमीषष्ठी द्वादशी पञ्चपर्वकम् | उपवासदिनं जन्मत्रयं च शनिवासरम् || भानुवारंव्यतीपातं ग्रहणश्राद्धवासरम् | सूर्योदयानन्तरं च विवर्ज्यं दन्तधावनम् || अलाभे दन्तकाष्ठानां निषिद्धदिवसेषु च | गण्डूषैर्द्वादशावृत्तैर्दलैर्वा शोधयेद्रदान् | जिह्वानिर्लेहनं कुर्याज्जिह्वामलविशोधनैः || फालाक्षिश्रोत्रनासास्यरेतोविण्मूत्रगात्रजम् | करपादगतं यद्वच्छोद्ध्यं तत्सकलं मलम् || नासिकाश्रोत्रनेत्रादिक्षालनेन विशुध्यति || एवं मलानि संशोध्य वारुणस्नानमाचरेत् | अशेषमालिन्यहरं दुस्वप्नादिविनाशनम् || || अथ स्नानविधिः || विधिवदाचान्तः कृतकरन्यासः प्राणानायम्य दर्भान्धारयन् || अमुकस्थे रवौ मासि तिथौ वारे सरिद्वरे | स्नानं देव करिष्यामि त्वत्पूजार्थं प्रसीद मे || इति विज्ञाप्य शुद्धभूमि मष्टांगुलपर्यन्तं हुंफडन्तास्त्रेण खात्वा तेनैव मन्त्रेण मृदमुद्धृत्य तद्वस्तुनि मृदं मूलमन्त्रेण नमोन्तहृदयेनवाऽदाय नमोन्तहृदयेन प्रथममुद्धृतया मृदा खातमापूर्य नमोन्तशिरसा सरित्सरस्तटाकादितीरे विशुद्धे निक्षिपेत् | सरिदादीनां दक्षिणतीरं स्नानार्थ मतिप्रशस्तम् | ततो हुंफडन्तास्त्रेण मृदमभ्युक्ष्य नमोन्तशिरसा मृदमस्त्रेण मूलादीन्युद्धृत्य नमोन्तकवचेन तां त्रिधा विभज्य नाभ्यादिपादान्त मेकांशेन प्रक्षाल्य द्वितीयमंशं सप्तवार मस्त्रमन्त्रजप्तमस्त्ररश्मिसम्पर्काद्दीप्तं विभाव्य सर्वमङ्गं तेनालिप्य जलं प्रविश्य जलमस्त्रेणालोड्यांगुष्ठाभ्यां कर्णौ तर्जनीभ्यामक्षिणी मध्यमाभ्यां नासिके च दृढं पिधाय प्रणवं मूलसहितं वा जपन् हृदये ज्वलदस्त्रं देहं तत्तेजःपुञ्जपिञ्जरच्छविं विभावयन् जले निमग्नो यावच्छक्ति अवतिष्ठेत | अथवा मृदं द्वेधा विभज्य अस्त्रजप्तेन एकेन भागेन सर्वमङ्गमालिप्य स्नायात् | (प्. ५) तदेतन्मलस्नानम् | यद्वा- वक्ष्यमाणविधिस्नानार्थमेव मृदाहरणम् | मलस्नानं तु हरिद्रामलकादिपिष्टैरेव कार्यम् | अत्र रेतोविण्मूत्रनासिकामुखचक्षुश्रोत्रनखपादमलरूपाणां शारीरमलानां शौचादिमलस्नानान्तकर्मान्तर्गतैः मृद्दन्तकाष्ठहरिद्रामलकादिघर्षणैरुदकसेचनेश्च शुद्धिः | (शुद्धिर्वामूर्ध्निनिषिच्यजलादुत्तीर्याचम्यार्थिनको) वाचिकमलस्नानं स्नानकालिकैः प्रणवादिजपैः | मलस्नानमस्त्रमन्त्रस्नानादिभिः | ततो जलादुत्थाय आदित्यं निरीक्ष्य अस्त्रेण मूर्ध्नि निक्षिप्य जलादुत्तीर्याचम्याविरक्तो द्विजश्चेद्वैदिकसन्ध्या मुपास्य संक्षेपतः शैवीमपि सन्ध्यामुपासीत | विरक्तो द्विजश्चतुर्थश्च शैवीमेवोपासीत || || संक्षिप्तशैवसन्ध्याप्रकारः || अस्त्रमन्त्रेण शिरसि त्रिवारमंगुल्यग्रगतैर्जलबिन्दुभिः प्रोक्ष्य शिवास्त्रायविद्महे कालानलाय धीमहि | तन्नश्शस्त्रः प्रचोदयात् | इत्यस्त्रगायत्र्या सूर्यमण्डलस्थाय अस्त्राय त्रिवारमर्घ्यं दत्वा यथाशक्त्यस्त्रगायत्रीं जपेत् | यद्वा अस्त्रसन्ध्यास्थाने हृदये ज्वलन्तमस्त्रमन्त्रं ध्यायेत् | ततो विधिस्नानार्थं बिन्दुस्थानाद्गंगादितीर्थानां मध्ये एकतमं तीर्थं अंकुशमुद्रया वौषडन्तहृदयेनाकृष्य उद्भवमुद्रया नमोन्तहृदयेन पुरतस्संस्थाप्य तेनापूरितं सरित्तटाकादिकं सञ्चिन्तयेत् | तदनु विधिस्नानार्थं स्थापितमृद्भागमादाय नाभिदघ्नजलं प्रविश्य | नदीषु प्रवाहाभिमुखोऽन्यत्र प्राङ्मुख उदङ्मुखो वा मत्स्यमण्डूकादिवासभूत जलदोषपरिहारार्थं हस्तमात्रं चतुरश्रं शिवतीर्थं पुरतः परिकल्पयेत् | तत्रायं क्रमः मृद्भागं वामकरे पूर्वयाम्यसौम्यदिक्षु त्रिधा विभज्य पूर्वं सप्तवारावृत्तेनास्त्रमन्त्रेणाभिमन्त्र्य याम्यमष्टवारावृत्तेन कवचान्तैरङ्गैर्वा सौम्यं दशवारावृत्तेनास्त्रमन्त्रेण शिवेनचाभिमन्त्र्य तत्रास्त्रजप्तं प्. ६) हुंफडन्तास्त्रेण नाराचमुद्रया पूर्वादिषु सर्वासु दिक्षु क्षिपेत् | एवं दिग्विघ्नानामधिपस्य इन्द्रस्य दिशि स्थितस्य मृद्भागस्य दिक्षु क्षेपेण तत्तद्दिग्वस्थिताः सर्वे विघ्नाश्शमं यांति | तदनु शिवजप्तमृद्भागार्धं मूलेन जले शिवतीर्थसिध्यर्थं निक्षिप्य तदपरार्धं शिवतीर्थसमानसिध्यर्थं मूलमन्त्रकृतेन बाहुपरिभ्रमणेन समन्तान्निक्षिपेत् | एवं सोमदिशि स्थापितो मृद्भागः केवलममृतमयस्सन्शिवमन्त्रेण लोलनात् क्षरतीति तत्तीर्थममृतमयं भवति | इत्थं शिवतीर्थं परिकल्प्य विधितस्स्नायात् | तदर्थं प्रथमं ब्रह्माङ्गजप्तेन मृद्भागेन सर्वमङ्गं लिपेत् | धर्मराजदिशि स्थितस्य मृद्भागस्य संस्पर्शनात्सर्वपापक्षयो भवति | अतष्षण्मुखीकरणमुद्रया श्रोत्रादिद्वाराणि पिधाय शिवतीर्थमध्ये निमज्ज्य शिवमन्त्रं ध्यायन्नन्तर्जले यावच्छक्ति अवतिष्ठेत | अन्तर्जले सर्वाङ्गनिमज्जनमुत्तममर्द्धाङ्गनिमज्जनं मध्यमं मुखमात्रनिमज्जनं कनीयः | ततो जलादुत्थाय वामदक्षिणहस्तौ सोमसूर्यात्मकौ शक्तिशिवौ वा विचिन्त्य ताभ्यां कृतया कुम्भमुद्रया वौषडन्तसहिताभिमंत्रितैः जलैश्शिरस्यभिषिच्य हुंफडन्तास्त्रेण विघ्नशमनार्थं जलं दिक्षु विदिक्षु च विनिक्षिप्य तत्तीर्थजले शिवतीर्थसिद्ध्यर्थं निक्षिप्य तदपरार्द्धं शिवतीर्थसीमनि संहारमुद्रया उपसंहरेत् | इत्थं सरिदादिकं गत्वा स्नातुमशक्तौ गृह एव शुद्धे गोमयलिप्ते भूभागे पीठस्यः शीतजलपूरितैश्शिवमन्त्रजप्तैः नवभिरष्टभिः पञ्चभिर्वा कुम्भैस्स्नायात् | राजानः स्त्रीबालरोगिणः प्रवासिनश्च शीतोदकस्नानाशक्तौ उष्णोदकेनस्नानं कुर्युः || शिरसिस्नानाशक्तौ कण्ठस्नानादिकं कुर्युः | राजानश्चेत् शिवपूजार्थं शिवस्नपनोक्तसर्वोपचारस्नानसहितस्नानविधानात् सुवर्णपीठे स्थित्वा सुवर्णकुम्भाहृतैर्जलैश्शङ्खादिमङ्गलवाद्यघोषपुरस्सरं स्नानं कुर्युः | तदनु शुद्धमृदुवस्त्रेण देहसम्मार्जनं धौतवस्त्रद्वयपरिधानं आचमनं सकलीकरणं भस्मस्नानं त्रिपुण्ड्रधारणमित्येतत्सर्वं निर्वर्त्य सन्ध्यां वन्देत् || शैवसन्ध्याप्रकारः || || तत्प्रकारः || प्.७) संहितया गायत्र्यावा त्रिः प्राणानायम्य हौं नेत्राभ्यां नम इत्यंगुष्ठाभ्यां नेत्रयोर्दिव्यमुद्रां विन्यस्य नमोन्तमूलेन जलं निरीक्ष्य तेनैव सन्ताड्य वौषडंतकवचेनाभ्युक्ष्य वौषडंतहृदयेनांकुशमुद्रया बिन्दुस्थानाद्गङ्गादीना मेकतमं तीर्थमाकृष्य नमोन्तहृदयेनोद्भवमुद्रया तत्तीर्थं जले निक्षिप्य मूलेनाभिमन्त्र्य हुंफडन्तास्त्रेण संरक्ष्य नमोन्तकवचेनावकुण्ठ्य वैषडन्तशक्तिमन्त्रेण धेनुमुद्रया अमृतीकुर्यात् | अथ संध्यां ध्यायेत् | संध्या त्रिविधा ब्राह्मी वैष्णवी रौद्रीति | तत्र रक्तस्रग्वसनारक्ता रक्तालङ्कारशोभिता | हंसासनसमासीना यज्ञसूत्रजटाधरा || चतुर्भुजाचतुर्वक्त्रा लोचनाष्टकभूषिता | अक्षमालां स्रुचं सव्ये वामे दण्डं कमण्डलुम् || दधाना ब्रह्मदेवत्या प्रातस्सन्ध्या त्रिधा च सा | प्रातःकालेऽल्पनक्षत्रे सुबाला मुक्तिदा प्रभुः || प्रातस्तु लुप्तनक्षत्रे भुक्तिमुक्तिप्रदायिनी | ज्ञानशक्तिस्वरूपा सा मध्यमा बाल्यमाश्रिता || भुक्तिप्रदायिनी भानोरर्द्धमण्डलदर्शने | क्रियाशक्तिस्वरूपा सा प्रौढा बाल्यं समाश्रिता || सुवर्णपङ्कजासीना सितवस्त्रादिभूषिता | वनमालोपवीताभ्यां भूषिता च द्विलोचना || एकवक्त्रा चतुर्हस्ता दक्षिणे सगदांबुजा | शङ्खचक्रधरा वामे मद्ध्या सन्ध्या तु वैष्णवी || सा च द्वितीया यामस्य तुर्यभागे त्रिधा भवेत् | आद्यांशे मुक्तिदा सा च किञ्चिदुद्भिन्नयौवनां | मध्यांशे मध्यतारुण्या वागीशी भुक्तिमुक्तिदा || ज्वालाभिधा तृतीयांशे मुक्तिदा प्रौढयौवना | वृषपङ्कजमध्यस्था त्रिणेत्रा चन्द्रशेखरा | शार्दूलचर्मवसना मेघश्यामलविग्रहा | त्रिशूलाक्षधरा सव्ये वामे साभयशक्तिका || सायं सन्ध्या स्मृतारौद्री त्रिविधासापि पूर्ववत् | आरक्तार्ककरे काले किञ्चिच्चलितयौवना | वामाभिधाना सारौद्री ध्यातॄणां मुक्तिदायिनी | प्. ८) यौवनार्धच्युताऽर्धार्के ज्येष्ठाख्या भुक्तिमुक्तिदा || भुक्तिदास्तमिते सूर्ये रौद्र्याख्या गतयौवना | एवं नवविधास्संध्याश्शिवशास्त्रे शिवोदिताः || साक्षिभूतास्समस्तस्य पूजिता वांछितप्रदाः || ब्राह्मी हृत्पङ्कजगता वैष्णवी बिन्दुमध्यगा | ब्रह्मरन्ध्रगता रौद्र्यस्स्वस्वकालेषु चिन्तयेत् || प्रातस्सन्ध्या समयिनो मध्यमा च विशेषिणः | निर्वाणदीक्षितस्यैव संध्यात्रितयमिष्यते || तत्र यस्स्यात्सप्तकलाप्रासादप्रवणो बुधः | सबिन्दुशक्तिस्समनास्थानत्रितयवर्तिनीः | मृणालतन्तुवत्तन्वी रारक्तश्वेतचामराः || ध्यायेत्क्रियादृगिच्छाख्याः प्रासादोच्चारपूर्वकम् || यस्य तु द्वादशकले प्रासादे निष्ठितामतिः | तेन सन्ध्या परा चिन्त्या या निशीथे विभाव्यते || नाभ्यादिद्वादशान्तान्तं ततो (नासा) नाभ्यवसानकम् | गमागमवती तुर्या निरूपा मेचकाऽथवा || ज्ञानिनां तु वरा सन्ध्या शिवबोधस्वरूपिणी | द्वादशांतस्थितं शंभुं चन्द्रिकेन्दुमिवाश्रिता || एकैव वस्तुतस्सन्ध्या शिवशक्तिस्वरूपिणी | कालाधिकारिभेदेन सैव भिन्ना त्रिधा मता || सन्ध्याचिन्तनमेवेदं सन्ध्यावन्दनमुच्यते | अङ्गमस्य प्रधानस्य यदन्यन्मार्जनादिकम् || एवं कृतसन्ध्योपासनादिकर्मणा शिवपूजा समारम्मणीया || तत्रायं क्रमः-ततोंगुष्ठमीशान मनामिका ममृतकलां च ध्यात्वा अंगुष्ठयुक्तयाऽनामिकया चक्षुषी नासिके शोत्रे अंसौ हृदयं नाभिं शिरश्च क्रमेण आदित्यस्तृप्यतु विष्णुस्तप्यत्विति भावयन्नेव स्पृशेत् | एवं कृते शिवतेजस्संपर्कात् क्षुभितानामिकामृतप्रवाहतृप्ताः नेत्राद्यधिष्ठातारस्सूर्यादयो विष्णवन्ता देवाः कर्तुरधिष्ठानोपब्रह्मिका भवन्ति | तदनंतरं शरीरगतपञ्चत्रिंशत्तत्वशुद्ध्यर्थं चिन्मात्राचमनं कुर्यात् || तत्रायं विशेषःसुवर्णवर्णं पद्माक्षमालास्रक्कुण्डिकालंकृतकरचतुष्टयं प्. ९) चतुर्वक्त्रमात्मतत्वरूपं ब्रह्माणं ध्यायामीति आत्मतत्वध्यानपूर्वकं हां आत्मतत्वायस्वधेति प्रथममाचामेत् | अनेन स्वशरीरे पृथिव्यादिमायांते एकत्रिंशत्तत्वशुद्धिं भावयेत् | ततो नीलवर्णं चक्रबाणकमलचिन्मुद्राशङ्खकार्मुकं कमण्डल्वभयमुद्रांकितकराष्टकमेकवक्त्रं विद्यातत्वरूपं विष्णुं ध्यायमीति विद्यातत्वपूर्वकं हि विद्यातत्वाय स्वधेत्याचामेत् | अनेन शुद्धविद्येश्वरसदाशिवाख्यत्रितत्वशुद्धिं भावयेत् | ततस्फटिकवर्णं पद्माक्षमालाशूलकमण्डलुधरकरचतुष्टयं पञ्चवक्त्रं शिवतत्वरूपं रुद्रं ध्यायामीति शिवतत्वज्ञानपूर्वकं हुं शिवतत्वायस्वधेत्याचामेत् | अनेन शक्तितत्वशुद्धिंभावयेत् | ततोऽस्त्रमन्त्रेण ओष्ठं द्विः प्रमृज्य हृन्मन्त्रेण नेत्रादीन्स्पृशेत् | अन्यत्तु तत्तद्देवतातृप्तिध्यानादिकं पूर्ववत्कुर्यात् || इत्याचमनक्रमः || ततोऽभिषिच्य देवेशं निवेश्य कमलासने | तत्रासनं च मूर्ति च विद्यादेहं च पूजयेत् || आवाह्याथ महादेवं संपूज्य स्थापनादिभिः | मनसा स्नापयित्वा च दद्याद्वस्त्रोपवीतकम् || ततस्सम्पूज्य देवेशं गन्धपुष्पविभूषणैः | धूपं दीपञ्च दत्वाऽथ कुर्यादावरणार्चनम् | नैवेद्यं मुखवासञ्च तांबुलं च समर्पयेत् || धूपमारात्रिकां दत्वा पवित्रञ्च समर्पयेत् | धारयित्वा सितं भस्म दर्पणाद्यैः प्रपूजयेत् || बलिं दत्वाऽथ पाद्याद्यैः गन्धपुष्पैश्च पूजयेत् | जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम् || अष्टपुष्पिकयाऽभ्यर्च्य विशेषार्घ्येण पूजयेत् || पराङ्मुखार्घ्येणोद्वास्य शिवं सावरणादिकम् | काले शिवं हृदि ध्यायन् अश्नीयात्तन्निवेदितम् || एवं संक्षिप्य कथितः शिवपूजाविधिक्रमः | विविच्य दर्शयिष्यामो नातिसंकोचविस्तरम् || तत्र तावदाचमनमुच्यते | हिं शिरसे नमः | आजानुपादा वा मणिबन्धञ्च पाणिं प्रक्षाल्य प्राङ्मुख उदङ्मुखोवा कुक्कुटासनस्थः पाणिद्वयं जानुनी अन्तरा निधाय पाणिद्वयेऽपि कनिष्ठिकादिषु अङ्गुलीषु हां हृदयाय नमः | (प्. १०) हों शिरसेनमः | हूं शिखायैनमः | हैङ्कवचायनमः | हौं नेत्रत्रयायनमः | हः अस्त्रायफडिति विन्यस्य दक्षिणपाणिं गोकर्णाकृतिं कृत्वा तेन माषमज्जनार्हं जलं गृहीत्वा संवीक्ष्यांगुष्ठकनिष्ठिके मुक्त्वा तज्जलं शुक्लपक्षे सोमरूपं कृष्णपक्षे सूर्यरूपं च विचिन्त्य तत्प्राशनेन रसनाग्रस्थिताया भारत्यास्तृप्तिः स्वस्यांतर्देहशुद्धिञ्च ध्यात्वा अन्तरान्तरा हस्तप्रक्षालनपूर्वकं ब्रह्मतीर्थेन स्वधांतेन मूलमन्त्रेण त्रिराचामेत् | ततस्स्वस्याननशुद्धिं ओष्ठसंपुटस्थितायाः प्रणवदेवतायाः शुद्धिंविभावयन् अंगुष्ठमूलेन द्विरोष्ठौ द्विवारं मार्जयेत् || अथ भस्मधारणम् || चतुर्विधं भस्म कल्पमनुकल्पमुपकल्पमकल्पञ्चैति | तत्र व्याध्यादिरहितां सवत्सां गां संपूज्य तदीयं गोमयं भूमावपतितं आकाशस्यमेव गृहीत्वा पिण्डीकृत्य विशोष्य पञ्चब्रह्ममन्त्रैश्शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य यत्संपादितं यच्चाग्निहोत्रे समुद्भूतं तदुभयं कल्पम् | वने शुष्कं गोमयं गृहीत्वा शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य संपादितमनुकल्पम् | अटवीगृहे गोवासे इष्टकापाकादिषु दावाग्न्यादिभिर्दग्धंभस्मगृहीत्वा वस्त्रेण संशोद्ध्य गोमूत्रेण पिण्डीकृत्य पुनश्शिवाग्नौ दग्धं मूलेन शोधितमुपकल्पम् | मन्त्रादिहीनं ब्राह्मणैःस्त्रीशूद्रादिभिर्वा शुचि गोमयं गृहीत्वा संपादितं (श्रोत्रियागारचुल्यादिवह्नौदग्धमिति) श्रोत्रियागारचुल्ल्यादिभ्योगृहीतं वा यत्तदकल्पम् | अकल्पञ्चेत्तद्गृहीत्वाऽस्त्रमन्त्रेण दिग्बन्धनं कृत्वा हों ईशानमूर्ध्नेनमः | हें तत्पुरुषवक्त्रायनमः | हुं अघोरहृदयायनमः | हिं वामदेवगुह्यायनमः | हं सद्योजातमूर्तयेनमः | हां हृदयायनमः | हीं शिरसेनमः | हूं शिखायैनमः | हैं कवचायनमः | (प्. ११) हौं नेत्रायनमः | हः अस्त्रायनमः | हां निवृत्तिकलायैनमः | ह्रीं प्रतिष्ठाकलायैनमः | ह्रूं विद्याकलायै नमः | ह्रौं शान्तिकलायैनमः | हौं शान्त्यतीतकलायैनमः | इति पञ्चब्रह्मषडङ्गेन कलामन्त्रैस्संशोधयेत् | एवं भूतस्य भस्मनो धारणं द्विविधं उद्धुलनं त्रिपुण्ड्रं च | उद्धूलनमपि द्विविधम् | मलस्नानरूपं विधिस्नानरूपं च | अम्भसास्नातस्य द्विविधेऽपि भस्मस्नाने अधिकारः | तदशक्तौ कण्ठपर्यन्तं कटिपर्यन्तं जानुपर्यन्तं वा संक्षाल्य क्षालितांगान्यार्द्रवस्त्रेण संमृज्य वस्त्रान्तरं परिधायाचम्य ततोहुंफडंतास्त्रेण दक्षिणपादांगुष्ठोत्थितवह्निना देहगतबाह्यमलमात्रं दग्धं विचिन्त्यवह्निसंबन्धक्षुभित बिन्दुस्थानस्थितशक्तिमण्डलस्रवदमृतप्रवाहेण शरीरमाप्लावयेत् | अथ मनसा मूलमन्त्रन्नादान्तमुच्चरन्नेव तत्संपर्कक्षुभितशक्तिपरिसृतबहुलामृतधारया देहमभिषिक्तं भावयेत् | इदं मानसस्नानमशुचित्वशङ्कायां सदासर्वत्रविधेयम् | अथवा तामेव शक्तिं गोरूपां ध्यात्वा तत्पुच्छकिरणामृतप्रवाहेण शरीरमाप्लावयेत् | एतद्भावस्नानम् | गङ्गायमुनादिदिव्यजलैर्वा शरीरं प्रोक्षयेत् | तत्क्षेत्रमृत्तिकारजोभिर्वा पञ्चब्रह्मषडङ्गमूलमन्त्रैर्देहंस्पृशेत् | एषामेकतमप्रकारं कृत्वा पञ्चब्रह्मषडङ्गमूलमन्त्रमेकवारं त्रिवारं वा जपेत् | ततः प्राग्वदाचमनद्वयं कृत्वा संभावितसकलबाह्याभ्यन्तराशुद्धिनिरासकं भस्मस्नानं कुर्यात् || तत्क्रमः || गोब्राह्मणदेवताग्निगुरुविद्यासन्निधिं परिद्धृत्य म्लेच्छान्त्यजकृतस्नदर्शनादिरहिते मार्गभिन्ने शुचौ देशे प्राङ्मुख उदङ्मुखो वा | निवेश्य कल्पानुकल्परूपं मुष्टिमात्रं विप्रादिक्रमेण निष्कसार्धनिष्कद्वयसार्धनिष्कद्वयप्रमाणं वा भस्मादाय नैर्-ऋतकोणे तद्राक्षसांशं निरस्याकल्पं भस्म चेद्दिग्बन्धनपूर्वकं (प्. १२)पञ्चब्रह्मषडङ्गमन्त्रैस्संशोद्ध्य चतुर्विधमपि भस्म सप्तवारं हुंफडन्तास्त्रेणाभिमन्त्र्य तेन विरक्तश्चेत्पादादारभ्यमस्तकान्त मविरक्तश्चेन्मस्तकादारभ्य पादान्तं दक्षिणांगुष्ठतर्जन्यप्रगृहीतेन स्वल्पेन भस्मना तद्गम्यकरपादव्यतिरिक्ताङ्गसंस्पर्शरूप मुद्धूलनं कुर्यात् | तदेतन्मलस्नानम् | ततष्षडङ्गमन्त्रजप्तेन भस्मनेशानादिपञ्चब्रह्ममन्त्रैः मूर्द्धहृदयगुह्यपादावर्यवानां सद्योजातमन्त्रेणवांऽसयोस्तदितरसर्वाङ्गानां च दक्षिणहस्तेन च तदगम्याङ्गानां वामहस्तेन चोद्धूलनं कुर्यात् | अवशिष्टं भस्म मूलेन कुंभमुद्रया शिरस्यभिषिञ्चेत् | एवं सर्वाङ्गोद्धूलनं ब्राह्मणः कुर्यात् | क्षत्रियादयः क्रमेण ललाटे चतुरश्रत्र्यश्रवृत्तानि कृत्वा कण्ठादधो नाभेरूर्द्ध्व मुद्धूलयेयुः | शूद्रः उद्धूलनं वर्जयित्वा वक्ष्यमाणत्रिपुण्ड्रात्मकमेव वा भस्मस्नानं कुर्यात् | तदेतत्तपस्विव्यतिरिक्तशूद्रविषयम् | अत एव ज्ञानरत्नावल्याम् - तपस्वी चेद्विधिवद्भस्मसङ्गृह्य तेनस्नानमाचरे दित्यादिना मलस्नानविधिस्नानयोरधिकारिविशेषेण तपस्विनामुक्तम् | एवं क्षत्रियवैश्यावप्यतपस्विनौ त्रिपुण्ड्रात्मकमेव वा भस्मस्नानं कुर्याताम् | ब्राह्मणादयञ्चत्वारोवाऽप्युद्धूलनाशक्तौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्युः | केवलत्रिपुण्ड्रात्मकभस्मस्नानाभिप्रायेणैव केषुचिदागमेष्वपि विप्रादिक्रमेण निष्कंनिष्कार्द्धं तदर्द्धं तदर्द्धं चेति भस्मप्रमाणमुक्तम् | इदं च विधिस्नानरूपं दीक्षितगृहस्थैस्सन्ध्यात्रयेऽपि जलसंयुक्तं कार्यम् | स्त्रीभिर्यतिभिश्च जलवर्जितं व्रतिवानप्रस्थकन्यकादिभिर्दीक्षाहीनैश्च मध्याह्नात्प्राग्जलसंयुक्तं परतोजलवर्जितञ्च कार्यम् | एवं भस्मस्नानानुष्ठाने वस्त्रांतरं परिधायाचामेत् | अपिधाय वा केवलमाचामेत् || त्रिपुण्ड्रविधिः || || अथ त्रिपुण्ड्रम् || प्. १३) तच्च वर्णानां क्रमेण सप्तपञ्चचतुस्त्र्यंगुलं सर्वेषां वा ललाटे हृदि वाह्वोश्चतुरंगुलं अवयवान्तरेष्वेकांगुलमित्यादिनानागमोक्तपक्षाणां मध्ये पूर्वाचारप्राप्तं कञ्चित्पक्षं परिगृह्य ललाटादिषु स्थानेषु तर्जनीमध्यमानामिकाभिस्तिसृभिरंगुलिभिः कर्तव्यम् | ललाटे मध्यमानामिकांगुष्ठैर्वा कर्तव्यम् | त्रिपुण्ड्रं सान्द्रवलित्रयं व्यक्तञ्च यथाभवति तथा कर्तव्यम् | त्रिपुण्ड्रधारणं च भस्मस्नानञ्च त्रिवक्त्रं त्रिहस्तं त्रिपादं त्रिणेत्रं भस्मरूषितं ताण्डवं कुर्वन्तं रौद्रं रक्तपुष्पालंकृतं भस्मदेवं ध्यात्वा कर्तव्यम् | त्रिपुण्ड्रस्थाने कुलाचारप्राप्तं चतुरश्रार्द्धचन्द्रदीपं त्रिपुण्ड्रांतरं वा धारणीयम् | सर्वञ्च पुण्ड्रं केवलभस्मना चन्दनयुक्तभस्मना जलसिक्तेन कार्यम् | ललाटे यादृशं पुण्ड्रं तादृशं ललाटहृदयांसनाभिषु पञ्चसु स्थानेषु शिवमहेश्वररुद्रविष्णुपितामहदैवत्यं शिरोललाटगलांसहृदयनाभिपृष्ठेष्वष्टसु स्थानेषु ब्रह्मवाणीलक्ष्मीविष्णुशिवसूर्याग्निचन्द्रदैवत्यं ललाटकन्धरांसबाहुकूर्परमणिम्रन्धवक्षः कुक्षिनाभिपार्श्वद्वयपृष्ठेषु षोडशस्थानेषु शिवमहेश्वरादिपञ्चकवामादिनवकाश्विद्वयदैवत्यं शिरोललाटनेत्रकर्णनासावक्त्रगलांसकूर्परमणिबन्धहृदय- पार्श्वनाभिगुह्यद्वयस्फिगूरुजानुजङ्घापादरूपेषु द्वात्रिंशत्स्थानेषु अष्टमूर्त्यष्टविद्येश्वराष्टदिक्पालाष्टवसुदैवत्यं करपादांगुलिपङ्क्तिभिस्सह षट्त्रिंशत्स्थानेषु शिवशक्तिमहेश्वरसदाशिवशुद्धविद्यामायाविद्याकलारागकालनिय ति पुरुषप्रकृत्यहङ्कारबुद्धिमनश्श्रोत्र त्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायुपस्थशब्दस्पर्शरूपरसगन् धाकाशवायुवह्निसलिलपृथिवीभूततत्वदेवताकं देशकालाद्यपेक्षया यथावसंभवं कर्तव्यम् | षट्त्रिंशत् स्थानपक्षे शिवाद्याकाशान्ततत्वानि वृत्ताकाराणि स्फटिकसूर्यकान्त चन्द्रकान्तगोक्षीर (प्. १४) विद्रुमहरिताञ्जनेन्द्रायुधेन्द्रकोपमेघपद्मराग विद्रुमेन्द्रनीलकुंकुमजपाकुसुमेन्द्रायुध सूर्यकान्तकनक दुर्वा हरिद्रा करवीर कालमेघनीलमणि मौक्तिक मणिक्ककनकस्फटिकवर्णानि कृष्णं चतुरश्रं वायुं वृत्तं त्र्यश्रं वह्निं सितमर्द्धचन्द्राकारं जलं पीतं चतुरश्रं पृथिवीतत्वञ्च विभाव्य हां शिवतत्वरूपाय शिवायनम इत्यादिमन्त्रैस्तत्तत्स्थानेषु पुण्ट्राणि धारयेत् | एवं पक्षान्तरेष्वप्यूहनियमेव | तत्तत्पूर्वाचारप्राप्तनानादिव्यागमस्मृतिपुराणाद्युक्तस्थान- संख्यादिव्यान्तरदेवतान्तरयुक्तानि वा पुण्ट्राणि धारणीयानि | इति भस्मधारणक्रमः || || रुद्राक्षधारणविधिः || अथरुद्राक्षधारणम् | तदपि भस्मधारणवत् शिवपूजायां नित्यम् | रुद्राक्षञ्च ब्राह्मणादिभिः क्रमेण श्वेतरक्तपीत कृष्णवर्णं ग्राह्यम् | उक्तवर्णालाभे ब्राह्मणैश्चतुर्विधमपि धारणीयम् | रक्तादिवर्णत्रयं क्षत्रियैः | पीतादिद्वयं वैश्यैः | शूद्रैस्तु कृष्णमेव धार्यम् | सर्वं वा सर्वैर्यथालाभं धार्यम् | शिरसि कण्ठे कर्णयोर्बाह्वोंर्मणिबन्धयो रुरसि च स्वशिरःप्रमाणाद्युचितसंख्याविशेषयुक्तं वा | शिरसि चत्वारिंशत् कण्ठे द्वात्रिंशत् कर्णयोः प्रत्येकं षट्वाह्वोःप्रत्येकं षोडशमणिबन्धयोः प्रत्येअं द्वादश वक्षसि अष्टोत्तरशतमित्येवं अष्टचत्वारिंशदधिकशतद्वयसंख्याकं वा | शिखायामेकमित्येकाधिकं वा | शिखायामेकं मस्तके षट्त्रिंश द्वक्षसि पञ्चाशत् साष्टशतमुपवीतं कण्ठकर्ण बाहुमणिबन्धे पूर्ववदिति पञ्चनवत्युत्तरद्विशतसंख्याकं वा | शिरसि अष्टोत्तरशतसंख्या नाभ्यन्तमालिकात्रयं कण्ठकर्णवक्षो बाहुमणिबन्धे पूर्ववदिति द्व्यशीत्युत्तरपञ्चशतसंख्याकं वा धारणीयम् | वज्रमाणिक्यवैडूर्य प्रवालमौक्तिकरूपपञ्चरत्नसहितरुद्राक्षधारणं ज्वरग्नहपि शाच मेह कुष्ठभगन्धरकुमारग्रहापस्मारनिवारकं मकुटकुण्डलकर्णिकाहारकेयूरकटकोदरबन्धादिषु (प्. १६) तद्धारण मपमृत्युविनाशकं आयुश्श्रीकीर्तिवर्द्धनमन्यत्र रुद्राक्षधारणात् | शिखायां तद्धारणं कोटिगुणफलं कर्णयोः कण्ठे भुजयो रुत्तरोत्तरदशगुणफलं हस्तयोरपरिमितफलं | एकवक्त्रस्य रुद्राक्षस्य शिखायां सङ्गोप्य धारणं ब्रह्महत्यादोषशस्त्राग्नि चोरवृष्ट्यादिमहाभयहरं आयुश्श्रीकीर्तिवर्द्धनं भुक्तिमुक्तिकरं सर्वसिद्धिप्रदञ्च | द्विवक्त्रं गोहत्यादोषहरम् | त्रिवक्त्रं स्त्रीहत्यादोषहरम् | चतुर्वक्रमगम्यागमनाभक्ष्यभक्षणदोषहरम् | पञ्चवक्त्रं सर्वपापहरम् | षड्वक्त्रं दक्षिणकरे धृतं भ्रूणहत्याहरम् | सप्तवक्त्रं सुवर्णस्तेयगोहत्यादोषहरम् | विषहरञ्च | अष्टवक्त्रं गुरुतल्पदोषहरं सर्वकूटव्यवहारदोषहरञ्च | नववक्त्रं वामकरे धृतं च लक्षकोटिमहापातकदोषहरम् | दशवक्त्रं ग्रहपिशाचवेतालब्रह्मराक्षससर्पसिंहव्याघ्रादिभयहरम् | एकादशवक्त्रं शिखायां धृतं सहस्राश्वमेधशतवाजपेयशतसहस्रगोदानफलप्रदञ्च | द्वादशवक्त्रं कण्ठदेशेधृतं बहुदक्षिणगोमेधाश्वमेधफलप्रदमैश्वर्याभिवृद्धिकारि दंष्ट्रिशृङ्गिन्वोराग्निभयहरं सर्वपापक्षयकरञ्च | त्रयोदशवक्त्र मतुलभोगप्रदं रससाधनधातुवादघुटिकादि सिद्धिकरं पितृमातृभ्रातृस्त्रीवधदोषहरम् | चतुर्दशवक्त्रं सर्वकार्यसिद्धिकरं सकलव्याधिपापहरं ज्ञानयोगसिद्धिकरञ्च | मूर्द्धभुजकण्ठकर्णव्यतिरेकेणान्येष्वङ्गेषु क्षयवृद्धिसुतकस्त्रीसङ्गतिमलमूत्रोत्सर्जनमत्स्यमांसलशुनकतक- शिप्रुश्लेष्मातकभक्षणादिसमयेषु रुद्राक्षधारणं वर्जयेत् | रुद्राक्षदानकल्पोक्तप्रकारेण तद्दानं सर्व वेदपुराणाद्ध्ययनसर्वयज्ञदानानुष्ठानसर्वतीर्थाभिगमन- फलप्रदं सर्वरोगहरं शतलिङ्गस्थापनशतलिङ्गदानसहस्रश्रीमूर्तिदानसहस्रकन्धा- दानफलप्रदं पुत्रमित्रादिसहितसकलैश्वर्यभोगप्रदं शिवसायुज्यदं प्रतिग्रहीतुरपि शिवभक्तस्य तावत्फलदञ्च | पौर्णमास्यमावास्यासंक्रान्त्युपरागजन्मनक्षत्रादिदिवसेषु रुद्राक्षधारणं सर्वपापक्षयकरम् | (प्. १६) पूजाकाले रुद्राक्षधारणमीशानमन्त्रेण शिरसिकार्यं कर्णयोस्तत्पुरुषमन्त्रेण कण्ठादिष्वघोरमन्त्रेण वक्षसि व्योमव्यापिमन्त्रेण || || सकलीकरणप्रकारः || अथ करन्यासाङ्गन्यासरूपं सकलीकरणम् | तत् त्रिविधम् - गृहस्थानां सृष्टिन्यासरूपं ब्रह्मचारिणां स्थितिन्यासरूपं यतिवानप्रस्थानां संहारन्यासरूपं | इह सृष्टिन्यासरूपमुच्यते - करौ गन्धादिलेपितौ कृत्वा वामकरतलं तत्पृष्ठं च मणिबन्धात्समारभ्य दक्षिणपाणिना हः अस्त्राय फडिति प्रतिमार्जनं अस्त्रमन्त्रेण द्विःपरिमृज्य तेनैव मन्त्रेण दक्षिणकरतलं तत्पृष्ठञ्च वामकरेणैकवारं प्रमृज्य करावामणिबन्धमस्त्रतेजसा व्याप्तौ सञ्चिन्त्य संपुटीकृत्यांगुष्ठद्वयमद्ध्ये अमृतरूपं शक्तिमण्डलं ध्यात्वा तेनामृतेन हांशक्तयेवौषडिति कवचद्वयमाप्लाव्य योजितांगुष्ठद्वयकर्णिकेकरसंपुटकमले ओं हां शिवासनायनमः इति विन्यस्य तन्मध्ये ओं हां हं हां शिवमूर्तयेनम इति तेजोमयीं स्थिरविद्युन्निभां सितवर्णां शिवस्य सूक्ष्ममूर्ति विन्यस्य हों ईशानमूर्ध्ने नमः इत्यंगुष्ठयोस्तर्जनीभ्यां विन्यस्य तर्जन्यादिषु कनिष्ठान्त मंगुष्ठाभ्यां हें तत्पुरुषवक्त्राय नम इत्यादि चतुरोमन्त्रान्विन्यस्य हां हौं विद्यादेहायनम इत्यंगुष्ठाभ्यां करतलयोरष्टत्रिंशत्कलामयं सदाशिवात्मकं स्थूलं विद्यादेहं विन्यस्य नेत्रेभ्योनम इति नेत्रं करतलयोर्विन्यस्य हां हौं शिवायनम इति अंगुष्ठानामिकाभ्यां सदाशिवदेहव्यापकं शिवमावाहयेत् | ततः कनिष्ठिकादिषु हां हृदयायनम इत्यादि नेत्रमन्त्रव्यतिरिक्तान् पञ्चमन्त्रान्क्रमेण विन्यस्य वामदक्षिणकरौ तदितरकराभ्यां कवचायनम इति अवकुण्ठ्य करद्वयं संयोज्य वौषडन्तमूलेन परमीकुर्यात् | न्यस्तानां हृदयशिरश्शिखादीनां कलानाञ्च भिन्नभिन्नवर्णानामावाहितपरमशिवतेजसाऽतिधवलेन तत्तदूर्णताप्तिभावनं परमीकरणम् | ततः अङ्गन्यासं कुर्यात् || प्.१७) दक्षिणांगुष्ठानामिकाभ्यां हां शिवासनायनम इति देहमध्ये हृदि वा मूलाधारात् समुद्भूतं श्वेतं शिवस्यासनपङ्कजं विन्यस्य ओं हां हां हां शिवमूर्तये नम इति नाभीकन्दादि हृदयादि वा भ्रूमध्यपर्यन्तं तेजोमयीं शिवस्य सूक्ष्ममूर्तिं विन्यस्य मुष्टिं बध्वाऽङ्गुष्ठेन ईशानमन्त्रं मूर्ध्नि विन्यस्य अङ्गुष्ठयुक्ततर्जन्यादिभिर्वक्त्रे हृदि गुह्ये पादयोश्च तत्पुरुषमन्त्रादीन् क्रमेण विन्यस्य, भ्रूमध्यादिब्रह्मरन्ध्रान्तं हां हौं विद्यादेहायनम इति विद्यादेहं विन्यस्य नेत्रमन्त्रं नेत्रेषु मध्यमांगुलिभिस्तिसृभिर्विन्यस्य तस्मिन्नंगुष्ठानामिकाभ्यां हां हौं शिवायनम इति परमशिवमावाहयेत् | ततो हृदयशिरश्शिखास्थानेषु स्वांगुष्ठयुक्तकनिष्ठिकानामिकामध्यमाभिर्विन्यस्य कण्ठप्रावरणत्वेन स्तनमध्यान्तं कवचतर्जनीभ्यां विन्यस्य हस्ततलयोरस्त्रमनामिकांगुष्ठाभ्यां त्रिवारं विन्यसेत् | सर्वेऽप्येते मन्त्रा नमोन्ताः | अस्त्रमन्त्रस्तु हुंफडन्तः | ततो हुंफडन्तास्त्रमन्त्रेण तालत्रयपुरस्सरं दिग्बन्धनं कृत्वा कवचेनावेष्ट्य वौषडन्तमूलेन महामुद्रां प्रदर्शयेत् | मस्तकादिपादान्तं हस्ताभ्यां संस्पर्शनं महामुद्रा | ततश्शिवसमानरूपता मात्मनश्चिन्तयेत् | इत्थं कृताङ्गन्यासो बद्धपट्टशिरोवेष्टनमस्तकत्राणकंकटककरगृहीतास्त्रभीषणो भट इव क्षुद्राणामप्रधृष्योभवतीति सकलीकरणम् | अथ सामान्यार्घ्यपात्र मस्त्रमन्त्रेण प्रक्षाल्य बिन्दुस्थानस्रवदमृततया भावितेन शुद्धजलेन हां हृदयाय वौषडिति आपूर्य हां हृदयायनम इति सप्तवारमभिमन्त्र्य कवचेनावकुण्ठ्य गन्धपुष्पादिभिरभ्यर्च्य धेनुमुद्रां प्रदर्शयेत् | इदं सामान्यार्घ्यजलं शिवमपहाय अन्येषां द्वारपालादीनां साधारणम् || || द्वारपालार्चनम् || अथ द्वारपालार्चनम् | तस्यायं क्रमः - अस्त्रपञ्जरमध्यस्थं आत्मानं भावयन् पृथिव्यादिमायान्तमेकत्रिंशत्तत्ववर्गं मनसाऽतिलङ्घ्य शिवपूजामन्दिरं (प्. १८) वृत्ताकारं रक्तवर्णशुद्धविद्यातत्वात्मकं भावयन् भोगमोक्षकामः पूर्वद्वारे द्वारपालानर्चयेत् | कीर्तिविजयसौभाग्यकामः दक्षिणद्वारे | केवलं मोक्षकामः पश्चिमद्वारे | उदग्द्वारे तु पूजा न कर्त्तव्या | सामान्यार्घ्योदकेन द्वारमस्त्रमन्त्रेण संप्रोक्ष्य बहिर्द्वारपालानर्चयेत् | ते च गणपत्यादयः | तत्र द्वारस्योर्द्ध्वोदुम्बरमुखे दक्षिणवामभागयोर्मध्ये च गणपतिसरस्वतीमहालक्ष्म्यः उपविष्टाः | वामदक्षिणव्यवस्था च देवमपेक्ष्य द्वारे प्रविशन्तं पूजकमपेक्ष्य वा ग्राह्या | द्वारस्य बहिःप्रदेशे दक्षिणपार्श्वे नन्दी दक्षिणपार्श्व एव नन्दिन उत्तरभागे गङ्गा वामपार्श्वे महाकालः वामपार्श्व एव तस्य दक्षिणभागे यमुना च स्थिताः | हां गणपतये नमः | श्यामवर्णं ततोक्षसूत्रपाशाङ्कुशान् पुष्करेण बीजापूरञ्च धारयन्तं गणपतिं पूजयामि | हां सरस्वत्यै नमः | श्वेतवर्णा मक्षमालापुस्तकधरां वीणावादनव्यापृतकरद्वयां सरस्वतीं पूजयामि | हां महालक्ष्म्यै नमः | श्रीफलकमलाभयवरधारिणीं उभयपार्श्वस्थितगजयुगलहस्तोद्धृत हेमकुम्भामृत धाराभिषिच्यमानां महालक्ष्मीं पूजयामि | हां नन्दिने नमः | अरुणजटामकुटधरं त्रिशूलाक्षमालातर्जनीमुद्गरधारिणं स्थूलदेहं नन्दिनं पूजयामि | हां गङ्गायै नमः | धवलवर्णां मकरवाहना ममृतकलशचामरधारिणींगङ्गां पूजयामि | हां महाकालाय नमः | कृष्णवर्णं दंष्ट्राकरालभ्रुकुटीभीषणस्थूलदेहं शूलकपालमुद्गरतर्जनीमुद्राधारिणं महाकालं पूजयामि | हां यमुनायै नमः | श्यामवर्णां कूर्मवाहनां चामरामृतकलशधारिणीं यमुनां पूजयामि | तत्तत्स्थानेषु पूजयेत् | सर्व एते द्वारपालाः गङ्गायमुनेविना त्रिणेत्राः | सर्वेचेते द्वारसमानमुखाः | श्लोकैः कवाटोद्धाटनप्रार्थनापूर्वक मस्त्रमन्त्रेण कवाटमुद्धाट्य | हौं शिवायनम इति नेत्रयोर्विन्यस्य | दिविस्थितान् विघ्नान् दिव्यध्यानदृष्टिसन्त्रस्तान् कृत्वा | नभोगतान् विघ्नान् तर्जन्यंगुष्ठोक्षिप्तपुष्पसन्त्रस्तान् कृत्वा | (प्.१९) भूमिगतान् विघ्नान् दक्षिणपार्ष्णिघातत्रयत्रस्तान् कृत्वा | अस्त्राय हुंफडिति मन्त्रेण त्रिविधान् विघ्नानुत्सारयेत् | अथ द्वारस्य देहलीशाखां वामांसंश्रितो दक्षिणां देहलीमस्पृशन् दक्षिणपादेन शिवमन्दिरं प्रविश्य | हां अस्त्राय नमः | अग्निवर्णं चतुर्वक्त्रं शक्तिशूलाभयवरान्वितकरचतुष्टयं जटामकुटालंकृत मर्धेन्दुशेखरं सकलविघ्ननिवारकं अस्त्रं पूजयामीति देहलीमध्ये शिवमन्दिराभिमुखतया स्थितं अस्त्रराजं प्रीत्या परावृत्य तदभिमुखः पूजयेत् | राजा ब्रह्माणं परावृत्य तदभिमुखः पूजयेत् | ततः हां ब्रह्मणे नमः | कनकवर्णं सश्मश्रुचतुराननं तुन्दिलं दण्डाक्षवलयस्रक्कमण्डलुधारिणं वास्त्वधिपतिं ब्रह्माणं पूजयामीति | ब्रह्माणमपि देहलीमध्य एव पूजयेत् | ततो द्वारस्याभ्यन्तरे दक्षिणपार्श्वे हां नन्दिकेश्वराय नमः | रक्तवर्णं त्रिणेत्रं चन्द्रकलालंकृतजटामकुटं मृगपरशुनमस्कारमुद्रान्वितकरचतुष्टयं बाहुमूले वेत्रं कट्यां क्षुरिकां च धारयन्तं भस्मरुद्राक्षधारिणं वानरास्यं नन्दिकेश्वरं पूजयामीति द्वारस्याभ्यन्तरदक्षिणे पार्श्वे पूजयेत् | हां सुं सुयशायै नमः | श्यामवर्णा मुत्पलालंकृतदक्षिणकरांसुयशादेवीं पूजयामीति द्वारस्याभ्यन्तरे सुयशादेवीं पूजयेत् | ततश्शिवं प्रदक्षिणीकृत्य निर्-ऋतिकोणे ब्रह्माणं पूजयेत् | पूजाचैतेषां आसनदानावाहन स्थापन सन्निधान सन्निरोधन पाद्याचमनार्घ्य गन्धपुष्.पधूपदीपदानान्तं नैवेद्यताम्बूलदानान्तं वा प्रत्येकं कर्तव्या | अशक्तौ मध्य एव सर्वेभ्यो द्वारपालेभ्यो नम इति गन्धपुष्पादिभिः पूजयेत् | द्वारपा देवदेवस्य द्वारं रक्षत यत्नतः | निर्वार्य विघ्नसङ्घात मित्याज्ञा पारमेश्वरीति शिवाज्ञां श्रावयेत् | इदञ्च द्वारपालार्चनं आत्मार्थपूजायामागमभेदेन विहितप्रतिषिद्धत्वात् तद्विकल्पकमिति नवैकल्यम् | तदकरणे नप्रत्यवायः करणे अभ्युदयः षोडशिग्रहन्यायेन || प्.२०) अथ पूजोपकरणं सर्वं शिवाग्रे सन्निधाप्य देवस्य दक्षिणभागे आग्नेयभागे वा उत्तराभिमुखः स्थित्वा रुचिरं स्वस्तिकं वाऽभ्यस्तमासनमास्थाय पञ्चानामात्मस्थानद्रव्यमन्त्रलिङ्गशुद्धीनां मद्ध्ये प्रथममात्मशुद्धिं कुर्यात् | अयमूर्द्ध्वोदुंबरादिषु गणपत्यादिपूजाप्रकारो यथोक्तलक्षणशिवमन्दिरसद्भावे आत्मशुद्धेः पूर्वं कर्तव्यः | तद्ध्येवं विहितम् | गृहस्येशानदिग्भागे शिलामयं पक्वेष्टकामयं शुद्धदारुमयं मृन्मयं वा चतुरश्रमायतं वृत्तं पूजागृहं वा यजमानमध्यांगुलिपर्वतृतीयपर्वान्तरालमध्यपर्वदैवत्यरूप उत्तममध्यमाधमभेदभिन्नांगुलिचतुर्विंशत्याख्यहस्तमानेन त्रिपञ्चसप्तनवत्रयोदशसप्तदशविंशत्येकविंशतिद्वात्रिं- शद्धस्तान्यतमप्रमाणमेकं द्विभूमं त्रिभूमं वा पूजागारं निर्माय तत्पञ्चधा विभज्य तन्मद्ध्यभागे शिलासुधे वर्जयित्वा मृन्मयी मिष्टकांचितां वा चतुष्कोणस्तंभयुक्तां स्तंभरहितां वा षोडशांगुलोत्सेधां अष्टादशांगुलोत्सेधां वा वेदिकां विरचयय तदुपरि पश्चिमभागे एकतालविस्तारायामं पञ्चांगुलोत्सेधं गर्भगृहस्थानीयदेशं तस्य पूर्वभागे तादृशायामविस्तारोत्सेधमर्द्धमण्टपस्थानीयदेशं च कृत्वा तस्य पूर्वभागे पञ्चतालायामं चतुस्तालविस्तारमष्टांगुलोत्सेधं वेरमण्टपस्थानीयदेशं च कल्पयेत् | तत्र गर्भगृहस्थानीयदेशे सौवर्णं राजतं ताम्रं दारुमयं वा चतुरश्रमायतं वृत्तं वा पेटकं स्थापयेत् | वेरमण्टपस्थानीयदेशे द्विहस्तायत मेकहस्तविस्तृतं वा द्वादशांगुलोच्छ्रायं वा कमलभूषितपेटकं विन्यस्य तदुपरि नमनीं तन्मानां प्रसार्य तन्मध्ये जीवगजदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि सुवर्णादिरचितं पद्मपीठं पश्चिमभागरचितप्रभामण्डलसहितं पूर्वाभिमुखं स्थापयेत् | पूजामण्टपञ्च प्रकीर्णकुसुमधूमामोदचन्दन चर्चावितान मुक्तादामध्वजपताकादर्पण प्रदीपादिभिरलंकुर्वीतेति | एवं विधपूजामण्टपाभावे शिवपूजास्थानमेव तादृशं पूजामण्टपं मनसि भावयेत् | शिवपीठसमीपोपविष्टः तत्रैव द्वारपालार्चनमात्मशुद्धेः पूर्वं पश्चाद्वा कुर्यात् || इति द्वारपालार्चनम् || || आत्मशुद्धिप्रकारः || प्.२१) अथ आत्मशुद्धिः | सा द्विविधा | पूजकजीवस्य शिवभावापादनात्मिका जीवशुद्धिरूपा पूजकदेहस्य शिवदेहत्वापादनात्मिका देहशुद्धिरूपा च | तत्रायं जीवशुद्धिप्रकारः | त्रिः प्राणानायम्य देहान्तर्गतमशुद्धवायुं रेचकत्रिप्राणायामेनास्त्रमन्त्रेणोत्सार्य बाह्यवायुनोदरं प्रपूर्य पादांगुष्ठद्वयादारभ्य यावन्मूलाधारं द्विधाभूतां तत ऊर्द्ध्वमाब्रह्मरंध्रमेकीभूता मधोमुखैः पद्ममुकुलैः युक्तां शरीरान्तरालेतिसूक्ष्मां विद्युल्लेखामिव भास्वरा मन्तस्सुषिरयुक्तां सुषुम्नानाडीं संचिन्त्य तन्मध्ये हूमिति शिखाबीजं ज्वलन्तं संचिन्त्य हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रेष्वधोमुखतया स्थितानि पद्ममुकुलानि पूरककुंभकरेचकैर्विकसितोत्तंभितोर्द्ध्वमुखीकृतानि भावयित्वा मूलाधारप्रदेशे दीपशीखावत् ज्वलन्तं हूङ्कारं हुंफडिति सन्ततोच्चारणेन ऊर्द्ध्वमुद्गच्छन्तंध्यायन् तेन पञ्चापि ब्रह्मादिग्रन्धीन्पद्मनालग्रंधीन् भिन्नान् भावयित्वा हुंकारं प्रतिनिवृत्य वायुं विरेचयेत् | पुनरपि हूङ्कारं मूलाधारे ध्यायन् पूरकवायुनोपसंहृतसर्वशरीरव्यापकचैतन्यं हृत्पङ्कजाश्रितं पूर्यष्टकरूपसूक्ष्मदेहान्वितं जीवं पूर्यष्टकादादाय स्फुरत्तारकाकारमतिसूक्ष्ममेकाकिनं हामिति हृदयबीजसंपुटितं कृत्वा हूङ्कारं मूर्ध्नि निवेश्य कुंभकं कृत्वा वायुमूर्द्ध्वं प्रवर्तयन् संहारमुद्रया तमादाय द्वादशान्तपर्यन्तं नीत्वा तदुपरि स्थितेपरमशिवे योजयेत् | एवं च जीवः स्थूलसूक्ष्माशुद्धदेहोपाधिनिर्मुक्तः शिवसायुज्यप्राप्तनिर्मलज्ञानक्रियाशक्तियुक्तः शुद्धोभवति | यद्वा जीवं द्वादशान्तपर्यन्तं नीत्वा हृदयकमल (हृ*य-) एव शक्तिमण्डलसंपुटितं कृत्वा भूतशुद्धिसमयकर्तव्यदेहदाहतो रक्षेत् | तत्रायं क्रमः हृत्कमलकर्णिकोपरि हां सूर्यमण्डलाय नमः | हां सोममण्डलाय नमः | हां अग्निमण्डलाय नमः | (प्.२२) हां शक्तिमण्डलाय नम इति विन्यस्य हां हं हां आत्मने नमः इति देहव्यापकं जीवात्मानमादायोपसंहृतव्यापकरूपं स्फुरत्तारकाकारं सञ्चिन्त्य तं शक्तिमण्डलस्योपरि विन्यस्य तस्योपरि च शक्तिवह्निसोमसूर्यमण्डलानि क्रमेण विन्यस्य ऊर्द्ध्वाधस्थितशक्तिमण्डलद्वयविनिस्सृतामृतपरिप्लुतं भावयेत् | एवं जीवस्य रक्षामात्रं कर्तव्यम् | तस्य दीक्षाकाल एव शुद्धत्वान् प्रतिदिवसं पूजासमये शुद्धिर्नापेक्षितेति || || देहशुद्धिप्रकारः || अथ देहशुद्धिः | साद्विविधा सूक्ष्मदेहशुद्धिः स्थूलदेहशुद्धिश्च | तत्र शब्दस्पर्शरूपरसगन्धबुद्ध्यहङ्कारमनोरूपपुर्यष्टकात्मक- सूक्ष्मशरीरशुद्ध्यर्थं हृत्कण्ठतालुभ्रूमद्ध्यब्रह्मरन्ध्रस्थितेषु ब्रह्मादिषु कारणपुरुषेषु ब्रह्मणि शब्दस्पर्शौ प्रविलापयामि | रसंविष्णौ प्रविलापयामि | रूमगन्धौ रुद्रे प्रविलापयामि | बुद्ध्यहङ्कारौत्वीश्वरे प्रविलापयामि | मनस्सदाशिवे प्रविलापयामीति सूक्ष्मशरीरांशान् शब्दादीन् प्रविलापयेत् | ततः स्थूलशरीरशुद्ध्यर्थं स्वशरीरे पादादि द्वादशान्तस्थानेषु स्थितानि वश्यमाणस्थानाकृतिरूपादियुक्तानि पञ्चमहाभूतानि ध्यात्वा पृथिवीमप्सु प्रविलापयामि | अपोऽग्नौ प्रविलापयामि | अग्निं वायौप्रविलापयामि | वायुमाकाशे प्रविलापयामि | आकाशं पराशक्तौ प्रविलापयामि | पराशक्तिं परशिवे प्रविलापयामीतिभावयेत् | इयं स्वकारणेषु पृथिव्यादिप्रविलापनरूपा भूतशुद्धिः | अन्यातत्तत्गुणक्षपणरूपा | गुणक्षपणरूपा च द्विविधा | प्रत्येकशोधनरूपा परस्परशोधनरूपा च | तत्राद्यायथा-पादाद्यारभ्य जानुपर्यन्तं चतुरश्रं पीतवर्णं कठिनस्वभावं वज्रलांछितं हामिति हृदयवीजेन पार्थिवबीजसहितेन युक्तं ब्रह्मणा कारणेश्वरेणाधिष्ठितं निवृत्तिकलारूपं पार्थिवमण्डलं भावयामीति विचिन्त्य हां निवृत्तिकलायै हुंफडिति मन्त्रेण पञ्चभि रुद्धातैः पृथिव्या गन्धरसरूपस्पर्शशब्दगुणानुत्सारयेत् | (प्. २३) ततोजान्वादिनाभिपर्यन्तमर्धचन्द्राकारं श्वेतवर्णं द्रवस्वभावं पद्मलांछितं हीमिति शिरोवीजेनाप्यवीजसहितेन युक्तं कारणेश्वरेण विष्णुनाऽधिष्ठितं प्रतिष्ठाकलारूपमाप्यमण्डलं भावयामीति विचिन्त्य ह्रीं प्रतिष्ठाकलायै हुंफडिति मन्त्रेण चतुर्भिरुद्धातै रपां रसरूपस्पर्शशब्दगुणानुत्सारयेत् | ततो नाभ्यादिकण्ठपर्यन्तन्त्र्यश्रं रक्तवर्णं पचनस्वभावं स्वस्तिकलांछितं हूमिति शिखामन्त्रेणाग्निबीजसहितेन युक्तं रुद्रेण कारुणेश्वरेणाधिष्ठितं विद्याकलारूपमग्निमण्डलं भावयामीति विचिन्त्य हूं विद्याकलायै हुंफडिति मन्त्रेण त्रिभिरुद्धातैरग्निगतान् रूपस्पर्शशब्दगुणानुत्सारयेत् | ततः कण्ठादि भ्रूमध्यपर्यन्तं षडश्रं कृष्णवर्णं चलनस्वभावं षड्बिन्दुलांछितं हैमितिकवचमन्त्रेण वायुबीजसहितेन युक्तं महेश्वरेण कारणेश्वरेणाधिष्ठितं शांतिकलारूपं वायुमण्डलं भावयामीति विचिन्त्य ह्रौं शान्तिकलायै हुंफडिति मन्त्रेण द्वाभ्यामुद्धाताभ्यां वायोःस्पर्शशब्दगुणावुत्सारयेत् | ततो भ्रूमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णं आकाशस्वभावं बिन्दुशक्तिलांछितं हः इति अस्त्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठितमाकाशमण्डलं भावयामीति विचिन्त्य हौं शान्त्यतीतकलायै हुंफडिति मन्त्रेण एकोद्वातेन आकाशस्य शब्दगुणमुत्सारयेत् | एतानि पृथिव्यादिमण्डलालि हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रगतानि विभाव्यशोधयेत् | इति प्रत्येकशोधनप्रकारः || परस्परशोधनेत्वयं विशेषः - सर्वाणि पृथिव्यादिमण्डलानि तत्तत्शोधनसमये पादादिमूर्धान्तव्यापकानि भावयेत् | पृथिवीशोधने तद्गुणपञ्चकोत्सारणानन्तरं पृथिवीं स्वविरुद्धवायवभिभूतां वायवाकारापन्नां वायुशोधनसमये वायुं स्वविरुद्धपृथिव्यभिभूतं पृथिव्याकारापन्नञ्च भावयेत् | एवं जलानलावपि तत्तद्गुणोत्सारणानन्तरं स्वविरुद्धानलजलाभिभूतावनलजलाकारापन्नौ भावयेत् | आकाशगुणोत्सारणानन्तरमाकाशं (प्.२४) नित्यत्वव्यापकत्वशुद्धत्वादितद्विरुद्धगुणयुक्तपरशक्त्यात्मकपर- माकाशाभिभूतं तदाकारापन्नं शुद्धस्फटिकनिर्मलं भावयेदिति | इत्थं महाभूतानां प्रत्येकशोधनेन परस्परशोधनेनवा गुणक्षयात् क्षीणशक्तिकस्य भूतसमुदायात्मकस्य शरीरस्य शोषं विभाव्य पादांगुष्ठोत्थितेन शिवशक्त्यधिष्ठितेन कालाग्निना हः अस्त्राय हुंफडिति मन्त्रेण शरीरं दग्धं निरवशेषं निवृत्यादिकलामात्रशेषं शरीरगतदोषमात्रं वा दग्धं भावयित्वा द्वादशान्तस्थितशक्तिमण्डलस्व(ख्र)वदमृतवर्षेणाप्लावयेत् | एवं शरीरशोपार्थमुक्तशक्तिप्रकारं शरीरारम्भकभूतगुणोत्सारणं कृत्वा वा स्थूलशरीरं पृथिव्यादिपञ्चभूतबीजं मायाक्षेत्रविनिक्षिप्तं धर्माधर्ममूलमिन्द्रियशाखोपशाखं शब्दादिविषयालोचनपल्लवं भावप्रपञ्चकुसुमं सुखदुःखफलं पुरुषविहंगोपभोग्यमूर्द्ध्वमूलमधश्शाखं वटवृक्षं विभाव्य प्राणायामं कुर्वन् षण्मात्रेण पूरकपूर्वार्धेन ह्लामित्युच्चारपञ्चकयुक्तेन पत्रपुष्पफलरहितं स्तब्धं विचिन्त्य पूरकापरार्धेन ह्रीमित्युच्चारचतुष्टययुक्तेन स्निग्धपत्रपुष्पफलोपेतं विभाव्य एकस्मिन्नेवोद्धातेन द्वादशमात्रेण कुम्भकेन ह्रूमित्युच्चारत्रययुक्तेन सव्यपादांगुष्ठोत्थितेन कालाग्निना शुष्कं दग्धं विभाव्य रेचकपूर्वार्धेन ह्येमित्युच्चारद्वययुक्तेन भस्मीभूय दिक्षु विप्रकीर्णं विभाव्य रेचकापरार्धेन हौमित्येकोच्चारयुक्तेन स्फटिकनिर्मलं शुद्धव्योमरूपं चिन्तयित्वाऽमृतेनाप्लावयेत् | एवं देहदाहं कृत्वा यथोक्तसंख्यैरुद्धातैस्तत्तद्गुणोत्सारणपर्यंतामेव वा गुणोत्सारणादिभावनां विना पृथिव्यादिकं बन्धकत्वान्निवृत्तं भवतीत्यनुसंधानपूर्वकं तत्तत्स्थानेषु वायुमनोधारणापर्यन्तमेव वा भूतशुद्धिं कुर्यात् | उद्धातशब्देन उद्धन्यते उत्सार्यते अनेनेति व्युत्पत्त्या भूतगुणानां तदशुद्धेर्वा उत्सारणसाधनमुच्यते | तत्तत्कलामन्त्रोच्चारणपूर्वकं पूरकं कृत्वा सुषुम्नया यावद्वादशान्तं प्राणवायोरूर्द्ध्वप्रवर्तनरूपं कर्म | तच्च पूरकं कृत्वा कुंभककाले प्राणवायोरूर्द्ध्वं प्रेरणं कृत्वा तं प्रतिनिवर्त्य दक्षिणनाड्या तद्रेचकपर्यन्तम् | (प्.२५) एवं च एकैकस्मिन्नुद्धाते पूरकाद्यास्त्रयस्त्रयः प्राणायामा इति पृथिव्यां पञ्चानामुद्धातानां पञ्चदशप्राणायामास्संपद्यन्ते | जलादिषु द्वादश नव षट्त्रयश्च भवन्ति | एकैकस्मिंश्च रेचकादिरूपे प्राणायामे द्वादशमात्राकालः | ततश्चैकैक उद्धातः षट्त्रिंशन्मात्राकालो भवति | यद्वाधारणार्थे कुम्भकप्राणायाम एव द्वादशमात्राकालनियमः | पूरकरेचकयोर्यथासंभवं कालो ग्राह्यः | जानुमण्डलमद्रुतमविलंबितमेकवारं प्रदक्षिणीकृत्य अंगुलिस्फोटनकालो मात्राकालः | त्रिःप्रदक्षिणीकृत्य अंगुलिस्फोटनकाल इति तु सिद्धान्तशेखरादिषुक्तम् | अयञ्च कनिष्ठोमात्राकालः | द्विगुणो मध्यमः | त्रिगुण उत्तमः | इत्थं कालविशेषावच्छिन्नप्राणवायुप्रवर्तनात्मकमुद्घातमनपेक्ष्य तत्तद्गुणसमसङ्ख्यकलामन्त्रोच्चारणेन तत्तद्गुणोत्सारणानुसन्धानरूपां वा एकवारं तत्तत्कलामन्त्रोच्चारणेन तत्तत्कलातत्वभुवनवर्णपदमन्त्रयुक्तानां पार्थिवमण्डलादीनां स्वात्मानंप्रति प्रतिबन्धकत्वनिवृत्यनुसन्धानात्मकपाशच्छेदमात्ररूपं वा भूतशुद्धिं कुर्यात् || पार्थिवादिमण्डलानि च निवृत्तिप्रतिष्ठाविद्याशान्ति शान्त्यतीतकलामयानि शरीरे पादादि जान्वादि नाभ्यादि कण्ठादि भ्रूमध्यादि च स्थितानि | हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्राश्रितानि वा शतकोटियोजन परिमाणमारभ्य उत्तरोत्तरदशगुणपरिमाणानि चतुरश्रार्धचन्द्र त्रिकोण षडश्र वृत्तरूपाणि वज्रपद्मद्वय स्वस्तिक षड्बिंद्वेकबिन्दुलांछितानि पीतरक्तश्वेतकृष्णधूम्रवर्णानि कठिनद्रवोष्णचलनावकाशस्वभावानि गन्धादिपञ्चचतुस्त्रिद्व्येकगुणानि ब्रह्मविष्णुरुद्रमहेश्वरसदाशिवाधिष्ठितानि बिन्दुयुक्तलकारवकाररेफयकारहकाररूपैः पार्थिवादिबीजैर्युक्तानि भावनीयानि | तत्र निवृत्तिकलायां पृथिवीतत्वमेकं अष्टोत्तरशतं भुवनानि ककार एकोवर्णः अष्टाविंशतिपदानि सद्योजातहृदयाख्यौ द्वौ मन्त्रौ | प्रतिष्ठाकलायां जलादिप्रकृत्यन्तानि (प्. २६) त्रयोविंशतितत्वानि षट्पञ्चाशत्भुवनानि खादिमान्ताश्चतुर्विंशतिवर्णाः द्वात्रिंशत्पदानि वामदेवशिरस्समाक्यौ द्वौ मन्त्रौ | विद्याकलायां पुरुषादिमायांतानि सप्ततत्वानि सप्तविंशतिभुवनानि यादिसान्तास्सप्तवर्णाः एकविंशतिपदानि अघोरशिखाख्यौ द्वौ मन्त्रौ | शान्तिकलायां शुद्धविद्या महेश्वरश्चेति द्वे तत्वे अष्टादशभुवनानि हक्षौ वर्णौ द्वादशपदानि पुरुषकवचाख्यौ द्वौ मन्त्रौ | शान्त्यतीतकलायां सदाशिवशक्ती द्वे तत्त्वे पञ्चदशभुवनानि स्वाष्षोडशवर्णाः एकं पदं मूलेशानास्त्राख्यास्त्रयोमन्त्राः | एवमेकादशमन्त्रात्मको मन्त्राध्वा | व्योमव्यापी मन्त्रगतचतुर्नवतिपदात्मकः पदाध्वा | पञ्चाशद्वर्णात्मकः वर्णाध्वा | निवृत्यादिपञ्चकलात्मकः कलाध्वा | एवं सकलाध्वगर्भाणि पृथिव्यादिमण्डलानि विभावनीयानि | यद्वा - संक्षेपेण सर्वाध्वगर्भत्वं विभावनीयम् | तद्यथा - सद्यादिपञ्चमन्त्रात्मको मन्त्राध्वा | जाग्रत्स्वप्नसुषुप्तितुर्यतुर्यातीतरूप पञ्चावस्थात्मकः पदाध्वा | पादादि हृदयादि वा पार्थिवमण्डलादिस्थानपञ्चकरूपो भुवनाध्वा | अकारादिवर्णत्रयबिन्दुनादात्मको मूलमन्त्रपञ्चवर्णात्मको वा वर्णाध्वा | पञ्चकलात्मकः कलाध्वेति | एवं वा सर्वाध्वगर्भाणि विभाव्य प्रागुक्तप्रकारेण संस्थानवर्णस्वभावलांछनबीजमात्रयुक्तानि वा विभाव्य शोधनीयानि | एवं पृथिव्यादिप्रविलापनरूपा तत्तद्गुणक्षेपणेन देहदाहरूपा देहगतबाह्याभ्यन्तरदोषमात्रदहनरूपा गुणक्षपणं विना केवलदेहदाहरूपा दाहं विना केवलतत्तद्गुणक्षपणरूपा बन्धकत्वनिवृत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपा च भूतशुद्धिः | सर्वाऽप्येषा सोद्धाता निरुद्धाता चेति द्विविधा | तत्तद्गुणक्षपणं च प्रत्येकशोधनरूपं परस्परशोधनादिमन्त्रेण चेति द्विविधम् | सर्वाध्वगर्भत्वेनसंस्थानं च द्विविधं | भूतचिन्तनमपि सर्वाध्वगर्भत्वेन संस्थानादिमात्रेणचेतिद्विविधं | (प्. २७) सर्वाध्वगर्भत्वचिंतनञ्च प्रपञ्चेन संक्षेपेणचेति द्विविधं | एवमुक्तप्रकारासुभूतशुद्धिषुपूर्वाचारदेशकालाद्यनुसारेणया काचिद्भूतशुद्धिरनुष्ठेया | एवं भूतशुद्ध्यात्मिकादेहशुद्धिरुक्ता | तत्वशुद्ध्यात्मिकां देहशुद्धिं कुर्यात् | यथाप्रकृत्यहङ्कारबुद्धिमनः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूप रसगन्धाकाशवायुवह्निसलिलभूमितत्वभूतमरूपमशुद्धमात्म तत्वं स्थूलदेहं मायाकलाविद्यारागकालनियतिपुरुषतत्वरूपं शुद्धाशुद्धं विद्यातत्त्वं सूक्ष्मदेहं शिवशक्तीश्वरसदाशिवशुद्धविद्यातत्वरूपं शुद्धं शिवतत्त्वं परदेहञ्च विभाव्य स्थूलदेहं सूक्ष्मदेहे तत्परदेहे च प्रविलापयेत् | उक्तप्रकाराणामन्यतमशोधनानुष्ठानानन्तरं हौं शान्त्यतीतकलायै नम इत्यादिभिर्मन्त्रैस्सूक्ष्मपञ्चकलामयस्य शुद्धसूक्ष्मशरीरस्य सृष्टिं पञ्चभिः कलामन्त्रैरेव स्थूलपञ्चकलामयस्य स्थूलदेहस्य सृष्टिं च तत्तध्वंसनपक्षे विभाव्य हां शक्तये वौषडिति शक्तिमण्डलस्रुतामृतधारयाऽप्लावयेत् | ततोहृत्कमलकर्णिकायां हाभाधारशक्तये नमः | हां धर्मासनाय नमः | हां ज्ञानाय नमः | हां वैराग्याय नमः | हामैश्वर्याय नमः | हां पद्माय नम इति मध्याग्नेयादिकोण चतुष्टयमध्येषु षडुत्थासनं विन्यस्य तत्र पुनस्स्थूलसूक्ष्मदेहात्मिकामविभक्तकरचरणादिरूपां मूर्ति हां हं हां आत्ममूर्तये नम इति विन्यस्य हौं विद्यादेहायनम इति अष्टत्रिंशत्कलारूपं सदाशिवरूपं ध्यात्वा शिवायनम इति द्वादशान्तस्थ परमशिवसायुज्यं निर्मलज्ञानक्रियाशक्तिकं यजमानमूर्तिरूपं जीवात्मानं तत्रावाह्य हृदयादिस्थानेषु हृअदयादिमन्त्रान्विन्यस्य मूलेन परमीकृत्य वौषडन्तशक्तिमन्त्रेण द्वादशान्तस्थितशक्तिमण्डलस्रुतबहुलाभूतधारयाऽभिषिञ्चेत् | ततो दण्डमुण्डकलाश्रीकण्ठादिन्यासान्कुर्यात् || तत्रायं क्रमः - शिवासनमव्यक्तां शिवमूर्तिञ्च हृदये विन्यसेत् | (प्.२८) होमीशानमूर्ध्ने नम इति समुष्टिकांगुष्ठाग्रेण मूर्ध्नि | हें तत्पुरुषवक्त्राय नम इत्यंगुष्ठतर्जनीभ्यां मुखे | हुमघोरहृदयाय नम इति अंगुष्ठमध्यमाभ्यां हृदये | हिं वामदेवगुह्याय नम इत्यंगुष्ठानामिकाभ्यां गुह्ये | हं सद्योजातमूर्तये नम इत्यंगुष्ठकनिष्ठिकाभ्यां पादे | होमीशानायोर्द्ध्ववक्त्राय नमः | हें तत्पुरुषाय पूर्ववक्त्राय नमः | हुं अघोराय दक्षिणवक्त्राय नमः | हिं वामदेवाय उत्तरवक्त्राय नमः | हुं सद्योजाताय पश्चिमवक्त्राय नम इत्यूर्द्ध्व पूर्वदक्षिणोत्तरपश्चिमस्थानेषु पूर्वोक्तप्रकारेण तत्तदंगुलिभिर्विन्यसेत् | एवं दण्डवक्त्रभंगिन्यासानन्तरं सशक्तिकाः कलाशक्तिरहिता वा वक्ष्यमाणस्थानेषुदीक्षितब्राह्मणः न्यासं कुर्यात् | क्षत्रियवैश्यौ युगान्तरे न्यासं कुर्याताम् | तदितरेशक्तीरेवन्यसेषु | यथा हें शशिन्यैनमः | हों अङ्गदायै नमः | होमिष्टदायै नमः | हों मरीच्यै नमः | हों ज्वालिन्यै नमः | इत्यूर्द्ध्वपूर्वदक्षिणोत्तरपश्चिममूर्धसु समुष्टिकांगुष्ठमुद्रया न्यसेत् | हें शान्त्यै नमः हें विद्यायै नमः | हें प्रतिष्ठायै नमः | हें निवृत्यै नमः | इति पूर्वदक्षिनोत्तरपश्चिमवक्त्रेषु अंगुष्ठतर्जनीभ्यां न्यसेत् | हुं तमायै नमः | हुं मोहायै नमः | हुं क्षुधायै नमः | हुं निद्रायै नमः | हुं मृत्यवे नमः | हुं मायायै नमः | हुं भयायै नमः | हुं तारायै नमः | इत्यंगुष्ठमध्यमाभ्यां हृदयकण्ठांसद्वयनाभिजठरपृष्ठवक्षस्सु न्यसेत् | हिं रजायै नमः | हिं रक्षायै नमः | हिं रत्यै नमः | हिं पाल्यै नमः | हिं कामायै नमः | हिं संयमायै नमः | हिं क्रियायै नमः | हिं बुद्ध्यै नमः | हिं कार्यै नमः | हिं धात्र्यै नमः | हिं ब्राह्मण्यै नमः | हिं मोहिन्यै नमः | हिं मनोन्मन्यै नमः | इत्यंगुष्ठानामिकाभ्यां मूलाधारगुह्यवृषणोरुद्वयजंघाद्वयस्फिग्द्वयकटिदक्षिणपार्श् वेषु विन्यसेत् | हां सिद्ध्यै नमः हं ऋद्ध्यै नमः | हं दूत्यै नमः | हं लक्ष्म्यै नमः | हं मेधायै नमः | हं कान्त्यै नमः | हं स्वधायै नमः | हं धृत्यै नमः | इत्यंगुष्ठकनिष्ठिकाभ्यां पादद्वयकरद्वघ्राणशिरोबाहुद्वयेषु न्यसेत् | नमस्स्वाहादिजातिषट्कयुक्तमङ्गन्यासं च कुर्यात् | (प्.२९) यस्यावसरोऽस्ति मतिक्षोभश्च न भवति स श्रीकण्ठादिन्यासषडध्वन्यासादिकमपि कुर्यात् | एवं जीवशुद्धि देहशुद्धिपूर्वकन्यस्तमन्त्रतनुस्वरूपेण विग्रहेण च शिवरूपतां प्राप्तः शिवार्चनयोग्यो भवति | ना शिवश्शिवमर्चयेदित्यामनन्ति | एवं जीवदेहशुद्धिकरणाशक्तौ न्यासमात्रं कुर्यात् | न्यासस्यापि कृत्स्नस्य करणाशक्तौ दण्डन्यासमात्रं षडङ्गन्यासमात्रं वा कुर्यात् | तावतैव देहात्मनोश्शुद्ध्याशिवरूपतापत्त्या च शिवार्चनयोग्योभवति || एवं कृताङ्गन्यासोऽन्तर्यागं कुर्यात् || || अन्तर्यागक्रमः || तस्यायं क्रमः - अन्तर्हृदयावकाशे दिव्यरत्नमयं शिवार्चनमण्डपं मनसा सङ्कल्प्य तत्र शिवार्चनोपयुक्तानि सर्वाणि द्रव्याणि मनसोपनीय विशोद्ध्य द्वादशान्तस्थितचन्द्रमण्डलगलदमृतधारयाऽर्घ्यपात्रादिपू- रणं तत्संस्कारञ्च कृत्वा द्वारपालार्चनं विधायवक्ष्यमाणप्रकारेणगणेशगुरुबन्दनानुज्ञाप्रार्थना- पूर्वकं माणिक्कवर्णनाभिकन्दसमुत्थितनीलवर्णनालञ्चातिधवल- वर्णाष्ठदलहृदयकमलकर्णिकाकारसंस्थितकुण्डलिनीशक्तिरूप- बिंद्वात्मके पीठे श्रवणांगुष्ठसंयोगाधिगम्यनादरूपं दीपशिखाकारलिङ्गं विचिन्त्य पीठे वक्ष्यमाणप्रकारेण शक्त्यादिशक्त्यन्तं शिवासनमभ्यर्च्य लिङ्गे शिवमूर्ति विद्यादेहं चाभ्यर्च्य तत्र परमशिवमावाहनादिक्रमेण ध्यात्वाऽन्तस्संस्कारैरभ्यर्च्य द्वादशान्तस्थितबहुलामृतधारयाभिषिच्य वस्त्राभरणादिभिः वैराग्यचन्दनेन चालंकृत्याहिंसापुष्पं समर्प्य यामित्यादिप्रकारेण अहिंसेंद्रियनिग्रहक्षमादान ज्ञानतपस्सत्यभावरूपैरष्टभिः पुष्पैः अभ्यर्चयेत् | ततो मनसि पात्रे प्राणमग्नि महङ्कारधूपशिखां च सङ्कल्प्य धूपं दद्यात् | शिवज्ञानमेव दीपं सङ्कल्प्य दद्यात् | ंइस्सिन्ग् पगे नो. ३०-३१ प्.३२) स्य वामभ, निवेश्य वस्त्रपूतशुद्धजलपरिपूर्णजलपात्रं च दक्षिणभागेनिवेश्य आत्मार्चनाधरेणपूजार्थं गन्धपुष्पादिकं शिवार्थद्रव्येभ्यः पृथग्निवेश्य अर्घ्यपाद्याचमनीयजलानि पूरयेत् | चत्वार्यर्घ्याणि || सामान्यार्घ्यं विशेषार्घ्यं निरोधार्घ्यं पराङ्मुखार्घ्यमिति | द्वारपालावरणदेवतादीनां सामान्यार्घ्यं शिवस्यार्घ्यकालेषु विशेषार्घ्यं शिवस्यैव निरोधनसंस्कारसमये निरोधार्घ्यं विसर्जनसमये पराङ्मुखार्घ्यम् | चतुर्णामेतेषामर्घ्याणां चत्वारि पात्राणि दशपलप्रमाणेन वा पञ्चपलप्रमाणेन वा सार्धद्विपलप्रमाणेन वा यथा सम्भवप्रमाणेन वा सुवर्णरजतताम्रान्यतमद्रव्येण वा पञ्चपर्वोन्नतानि पञ्चपर्वविवृतानि वृत्ताकाराणि चतुरश्राकाराणिवा बहिरष्टदलपद्मांकितानि एकांगुलिप्रमाणानि अंगुलचतुर्थांशघनानि उक्तप्रकारादर्धप्रमाणानिवा तदर्धप्रमाणानिवा अर्घ्यपात्राणि ग्राह्याणि | (सुवर्णाद्यभावे शुक्तिखड्गशृङ्गशिलादारुनालिकेरकरंकादिनिर्मिता निवानवमृत्पात्ररूपाणि वा पलाशाब्जकदलीदलादिकृतपर्णपुटरूपाणि वाऽर्घ्यंपात्राणि ग्राह्याणीति पुस्तकान्तरेऽधिकं वर्तते) पाद्याचमनपञ्चगव्यपञ्चामृतगन्धधूपदीपपात्रघण्टा- दीन्यपि पूर्वोक्तदशपलादिप्रमाणेनैव कर्तव्यानि | तत्र पाद्यपात्रं षडंगुलविस्तारं चतुरंगुलोत्सेधं चतुरंगुलविस्तारोत्सेधपादं चतुरंगुलनासिकं एकांगुलोष्ठं तदर्धमानं तदर्धमानंवा कर्तव्यम् | (आचमनपात्रं) पाद्यक्षे?पपात्रमष्टांगुलोत्सेधं षोडशांगुलविस्तारं चतुरंगुलोत्सेधमष्टाङ्गुलविस्तारपादयुक्तं एकाङ्गुलोष्टमुक्तप्रकारार्धप्रमाणं तदर्धप्रमाणं वा वृत्तकङ्कणयुक्तपार्श्वद्वयं कर्तव्यम् | आचमनपात्रं द्वादशांगुलोत्सेधं विस्तारकुक्षिकं षडंगुलविस्तारेण षडङ्गुलोत्सेधेनवा पादेन युक्तं द्व्यंगुलत्र्यंगुलोत्सेधकण्ठं एकांगुलोष्ठं त्र्यंगुलविस्तारमुख मैच्छिकप्रमाणमुकुलाकारवितानसंयुक्तं चतुरंगुलप्रमाणत्रिवक्त्रयवप्रमाणरन्ध्रमूलप्रभृतिक्रमापचित परिमाणनासिकायुक्तं तदर्धपरिमाणं वा कर्तव्यं यद्वा पाद्याचमनीयपात्रे अप्यर्घ्यपात्रदेववृत्ताकारेकर्तव्ये | प्. ३३) आचमनक्षेपपात्रमपिपाद्यक्षेपपात्रवत्कर्तव्यम् | अर्घ्यपाद्याचमनाधारयंत्रिकास्तु त्रिपदीरूपाः त्रिवक्त्रपादसंयुक्ताः अष्टांगुलोत्सधोः पादादूर्द्ध्वभागे वलयस्याधस्तात्सिंह्मवक्त्रांकिताः कर्तव्याः | सुवर्णाद्यसंभवे पाद्यादिपात्राण्यपि अर्घ्यपात्रवत् शिलादारुमयपत्रपुटादिरूपाणि ग्राह्याणि | तत्र सामान्यार्घ्यद्रव्याणि तिलतण्डुलाः | विशेषार्घ्यस्य एलालवङ्गकर्पूरतिंवूजातिफलमुरव्रीहितिलावा जलक्षीरकुशाग्रतण्डुलसुमनस्तिलयवसिद्धार्थावा दर्भदूर्वादिव्रीहितिलक्षरिनीरसिद्धाद्धार्थावायवसिद्धार्थंव्यतिरि क्तादर्भादयष्षड्वादर्भसिद्धार्थजलतिलाश्चत्वारो वा दूर्वाकुङ्कुमकर्पूरास्त्रयो वा द्रव्याणि | निरोधार्घ्यस्य दर्भदूर्वायवतण्डुलसिद्धार्थाः पञ्चद्रव्याणि | तिलसहिताष्षट्पराङ्मुखार्घ्यस्य द्रव्याणि | पाद्यस्यदूर्वाचन्दनसिद्धार्थोशीरह्रीबेरकुङ्कुमानि षड्वा | तान्येव कुंकुमं विना पञ्चवा | दूर्वासिद्धार्थचन्दनोशीराणि चत्वारिवा ह्रीबेरचन्दनोशीराणि त्रीणि वा द्रव्याणि | आचमनीयस्य एलालवङ्गकर्पूरजातीकोष्ठतिंबुत्रिफलचन्दनोशीराणि-एकादशवा- एलालवङ्गकर्पूरतिंबूमुरजातिफलानिषड्वा एलालवङ्गकर्पूरह्रीबेरजातिफलानि पञ्चवा एलावङ्गकर्पूराणि त्रिणिवा द्रव्याणि | एलादीनि चार्घ्यादिद्रव्याणि प्रत्येकं उत्तममध्यमादिभावेन अशीतिचत्वारिंशद्विंशतिदशपञ्चव्रीहिपरिमितानि देयानि || || पाद्यादिपूजा || अथपाद्यादिपूजाविधानमुच्यते | पाद्याचमनीयसामान्यार्घ्यविशेषार्घ्यनिरोधार्घ्यपराङ्मु- खार्घ्यपात्रत्रिपदीर्देवस्यपुरतो वामादिक्रमेण विन्यस्य तासां पादेषु ब्रह्मविष्णुरुद्रान् वलयेष्विडाधारशक्तिं चाभ्यर्च्य पाद्यादिपात्राण्यस्त्रमन्त्रेण संक्षाल्य त्रिपदीषु विन्यस्य अस्त्रमन्त्रेण वौषडन्तहृदयमन्त्रेण वा शुद्धतोयेनापूर्य | कवचमन्त्रेण पाद्यादिद्रव्याणि तत्तत्पात्रेषु निक्षिपेत् | द्रव्यालाभे शुद्धोदकपूरणमात्रं कुर्यात् | (प्.३४) ततः पाद्यादिपात्राणि बिंद्वन्तं समुद्धृत्य बिन्दुप्रसृतामृतधारामयेन गङ्गादिसकलतीर्थोदकेनापूर्णानि भावयित्वा यन्त्रकाणामुपरिस्थापयेत् | अथवा बिन्दुस्थानादङ्कुशमुद्रयादिव्यामृतमयं गङ्गादितीर्थमाकृष्य संहारमुद्रया तमादाय वौषडन्तहृदयेनोद्भवमुद्रया यन्त्रकांतस्थेष्वेव पाद्यादिपात्रेषु विनिक्षिपेत् | ततो विशेषार्घ्यजले शिवासनमूर्तिपञ्चब्रह्मविद्यादेहनेत्र मूलाङ्गानि विन्यस्य मूलेन गन्धपुष्पाक्षतैस्संपूज्य ब्रह्माङ्गमूलैरभिमन्त्रयेत् || केवलं वा ब्रह्माङ्गमूलैरभिमन्त्रयेत् | निरोधार्घ्यं ब्रह्मभिः पराङ्मुखार्घ्यमङ्गैस्सामान्यर्घ्यमस्त्रमन्त्रेणाभिमन्त्रयेत् | पाद्याचमनीये ब्रह्मभिरङ्गैरस्त्रेण वा अभिमन्त्रयेत् | ततोऽस्त्रेण दिग्बन्धनं कृत्वा कवचेनावकुण्ठनं कृत्वा वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदर्श्यामृतीकुर्यात् | पाद्यादिपराङ्मुखार्घ्यपर्यन्तेषु त्रिपदीविन्यासाद्यमृतीकरणान्तं प्रत्येकं काण्डानुसमये न वा कुर्यात् | अथ पराङ्मुखार्घ्यसमीपे शङ्खपूजाकर्तव्या | प्रस्थमानिकाः कुडवजलपूरणीयाश्श्ङ्खा उत्तममध्यमकनीयांसः तथा मूलाग्रमूलस्थूलाग्रस्थूलाः पुंस्त्रीनपुंसकरूपाः शङ्खार्घ्यमूलेवसुंधरा वलये सूर्यः कुक्षौ विष्णुः पार्श्वे चन्द्रमाः धारायामघोरः मुखेसप्ततीर्थानि च सन्ति | तथापि शङ्खो बहिर्मूलाग्रयोरस्थिवदशुचिरितितयोर्हेमरत्नादिभूषितः कर्तव्यः | एवं भूतं शङ्खंदग्धन्तुषशोधितास्त्रमन्त्रक्षालितं पूर्ववदर्चितायान्त्रिपाद्यांविन्यस्य विशेषार्घ्यवत्पूजयित्वा आत्मानं शिरसि तत्तोयैस्त्रिवारमभिषिञ्चेत् | एवं बहुपात्रसंपादनतत्पूजनाशक्तौ निरोधार्घ्यपराङ्मुखार्घ्ये निरोधार्घ्यजलेनैव कर्तव्ये | विशेषार्घ्यजलेनैव वा अर्घ्यपात्रत्रयमपि कर्तव्यम् | एवं पाद्याचमनीयद्वयमपि विशेषार्घ्येणैव कर्तव्यम् | विशेषार्घ्यस्यापि पात्रान्तराभावे शङ्खजलेनैव पाद्याचमनद्वय मर्घ्यत्रयं च कर्तव्यम् | आवरणदेवताद्यर्थं सामान्यार्घ्यमात्रं पात्रान्तरे संस्कार्यम् | (प्.३५) एवं पात्रसङ्कोचपक्षे यदीयजलेन उपचारान्तरं क्रियते तदीयमेव पात्रमादाय तत्संस्काराः कर्तव्याः | अन्यदीयसंस्कारा अपि वा परिधौ यूपधर्मवदविरुद्धाः कर्तव्याः | अथवा नित्यं विषुवायनोपरागादिषु कर्तव्यम् || || पञ्चगव्यविधिः | अथ पञ्चगव्यविधानमुच्यते - देवस्य पूर्वभागे ईशानादिभागे वा द्विहस्तमात्रं हस्तमात्रं वा चतुरश्रं गोमयेनोपलिप्य चतुर्भिः प्राचीनैश्चतुर्भिरुदीचीनैश्च सूत्रैः प्रत्येकं तालप्रमाणानि नवकोष्ठान्युद्धृत्य प्रतिकोष्ठं आढकं तदर्द्धमानान् व्रीहीन् तदर्द्धमानान् तण्डुलान्कुशान्वा प्रसार्य उत्तराभिमुखः प्रतीचीं दिशं पञ्चसंख्यैरुदगग्रैः प्रागग्रैश्च दर्भैः परिस्तीर्य परितः पुष्पैरलङ्कृत्य शिवतत्वायनमः | सदाशिवतत्वाय नमः | विद्यातत्वायनमः | पुरुषतत्वाय नमः | कालतत्वाय नमः | पृथिवीतत्वाय नमः | जलतत्वाय नमः | वायुतत्वाय नमः | प्रकृतितत्वाय नमः इति मद्ध्यपूर्वदक्षिणोत्तरपश्चिमाग्नेयनै-ऋतमारुतैशानकोष्ठानि संपूज्य सौवर्णानि कांस्यानि अभिन्नाकृष्णनवमृन्मयानि वा पात्राणि संक्षाल्य नवसु कोष्ठेषु संस्थाप्य सुप्रतिष्ठपात्राय नमः | सुशान्तपात्राय नमः | तेजोमयपात्राय नमः | रत्नोदकपात्राय नमः | अमृतपात्राय नमः | अव्यक्तपात्राय नमः | सूर्यपात्राय नमः संयुक्तपात्राय नमः | अव्यक्तपात्राय नमः इति प्रागुक्तकोष्ठक्रमेण पात्राणिसंपूज्य | ताम्रवर्णायाः क्षीरं त्रिकुडवं मध्यपात्रे शुक्लवर्णायाः दधि द्विकुडवं पूर्वपात्रे कपिलवर्णायाः घृतं कुडवं दक्षिणपात्रे श्यामवर्णायाः गोर्मूत्रं प्रस्थं उत्तरपात्रे, कृष्णवर्णायाः गोमयं कुडवं प्रमाणं पञ्चकुडवजलसंयुक्तं वस्त्रपूतं पश्चिमपात्रे कपित्थफलप्रमाणानितदर्द्धप्रमाणानि तदर्धप्रमाणानिवा तण्डुलामलकहरिद्रापिष्टा न्याग्नेयनैर्-ऋतवायव्यकोणपात्रेषु (प्.३६) कुशोदकं षट्त्रिंशत्पञ्चविंशतिद्वादशञ्च तदर्धकृतेन प्रदक्षिणं दर्भं वायव्यपरिवीतेन हस्तमानेन तालमानेन वा द्व्यङ्गुलग्रन्थिना चतुरङ्गुलाग्रेण कूर्चेन संयुक्तमाढिकमानकं गन्धदूर्वायुक्तमैशानकोणपात्रे च हृदयेन प्रक्षिप्य क्षीरादिगोमयान्तानि पञ्चगव्यानि क्रमात्पञ्चचतुस्त्रि द्वयेकसंख्यैरीशानादिमन्त्रैश्शालिपिष्टं हृदयेनामलकं शिरसा हरिद्रां कवचेन कुशोदकं षड्वारावृत्तब्रह्मपञ्चकेनाभिमन्त्रयेत् | तदनन्तरं गोमयं गोमूत्रे तदुभयं घृते तत्त्रयं दध्नि तच्चतुष्टयं क्षीरेच हृदयमन्त्रेण निक्षिप्य तत्रैव कुशोदकं मूलमन्त्रेण क्षिपेत् || पञ्चब्रह्मषडङ्गैरभिमन्त्र्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुमुद्रां प्रदर्श्य गन्धपुष्पैरभिपूज्यास्त्रमन्त्रेण धूपदीपौ प्रदर्श्य मूलेनाभिमन्त्रयेत् | || पञ्चामृतविधिः || अथ पञ्चामृतविधानमुच्यते - तत्पूजा पञ्चगव्यपूजायाः प्राग्भागे कर्तव्या | तत्र पात्रपूजापर्यन्तं पूर्वम्ध्यादिपश्चिमान्तेषु क्षीरदधिघृतमधुशर्कराः प्रत्येकं प्रस्थमानाः पादोनप्रस्थमानावा प्रस्थार्द्धमानावाऽग्नेयादिकोणेषु यथासंभवं कदलीपनसाम्रफलानीशानकोणे कुशोदकवद्गन्धोदकं तत्तत्स्थानस्थितानामभिमन्त्रणं पूर्ववत् | शर्करा गोमयवज्जलयुक्ता | संयोजनन्तु नास्ति | अथवा संयोजनयुक्तपञ्चामृतविधानं कुर्यात् | तस्यायं क्रमः - पूर्ववदुपकॢप्ते व्रीहिमये स्थण्डिले पूर्वादिदिक्षु मद्ध्येच पञ्च कोष्ठानिशानदिशि अष्टदलपद्मञ्च विलिख्य शिवनियतिकालव्यक्ताव्यक्तसुमङ्गलानामभिः षड्भिर्मद्ध्यादिक्रमेण तानिसंपूज्य तेषु षट्पात्राणि अमृतसोमविद्यारत्नोदक सुधाप्रीत सुरप्रीतनामभिस्संपूज्य पूर्वोक्तक्रमेण मद्ध्यादिपात्रेषु पञ्चामृतानि ऐशानकोणपात्रे नालिकेरोदकञ्च निक्षिप्य तानि पञ्चगव्य (प्.३७) कुशोदकवदभिमन्त्र्य शर्करादीनि गोमयादिवत् क्रमेण क्षीरे संयोज्य कुशोदकवन्नालिकेरोदकं च संयोजयेत् | ततस्समृद्धं कदलीफलं मूलाभिमन्त्रितं क्षिप्त्वा मूलेन मर्दयेत् | पञ्चगव्यवद्गन्धपुष्पाद्युपचरांश्च कुर्यात् | पञ्चगव्याद्यर्थ मुक्तद्रव्याभावे दधिक्षीरेपरस्परङ्गोमयगोमूत्रे च परस्परं प्रतिनिधिः | शर्कराया इक्षुरसः | पञ्चगव्याद्युक्तपात्रद्रव्यपरिमाणालाभे गोमयमङ्गुष्ठार्धमानं गोमूत्रघृतदधिक्षीरकुशोदकान्येकद्वित्रिपञ्चैकपलानि ग्राह्याणि | पञ्चामृते क्षीरादीनि देवस्य लिङ्गसेकार्हाणिग्राह्याणि | गवामुक्तवर्णानामभावे निर्दोषायास्सवत्साया रोगगर्भरहिताया गोः क्षीरादीनि ग्राह्याणि | क्षीरं वत्सलालाजलास्पृष्टं दध्यमथ्यङ्गोमयमाकाशस्थं घृतं गोमूत्रं च वस्त्रपूतं ग्राह्यम् || || स्नपनोदकविधानम् || अथ स्नपनोदकविधानुमुच्यते-शुद्धं जलकुम्भमाद्गाय शिवाल्लब्धानुज्ञः प्रशस्तवर्णगन्धरसनदीतटाकं देवखातादिशुद्धतीर्थं गत्वा तज्जलं ब्रह्माङ्गैरंभिमन्त्र्यास्त्रसंक्षालितं कुंभं वस्त्रपूतेन तेन हृदयमन्त्रेणापूर्य आहृत्य देवस्य दक्षिणभागे स्थापयित्वा एलोशीरलवङ्गकर्पूर वारिपाटलोत्पल पद्मकरवीरादिवासितं कुर्यात् | इदं पञ्चगव्यपञ्चामृतस्तपनोदकसंविधानं आत्मशुद्धेर्द्वारपालार्चनाच्चप्रागेव कर्तव्यं | स्नपनोदकं सूर्यरहितेकालेनाहर्तव्यं | पुष्.पाहरणमपि पूजकेनस्वयमेवकर्तव्यं | अशक्तौ समयालाभे च पुष्पोदकाहरणं गन्धघर्षणनैवेद्यपाकादिवत्स्नातैर्वाशुद्धवस्त्रैः पवित्रपाणिभिःपरिचारकैः करणीयं | छिन्नेपिष्ट इति न्यायसाम्यात् | एवं सकलमपि वक्ष्यमाणोपयोगद्रव्यजातं सन्निधाप्य तस्यशुद्धिं कुर्यात् || || द्रव्यशुद्धिः || तत्रायंक्रमः - अङ्गुष्ठानामिकास्पृष्टेन चक्षुषा मूलेन निरीक्ष्यमाणं दृक्क्रियेच्छात्मकैरर्कवह्निसोमनेत्रेः क्रमात् शुष्कं दग्धममृताष्लावितं च भावयेत् | ततश्शुद्ध्यर्थमस्त्रमन्त्रेण पताकया प्रोक्ष्य चिच्छक्त्यभिव्यक्त्यर्थं अस्त्रमन्त्रेणैव मध्यमांगुल्या ताडयेत् | ततोवौषडन्तकवचेन तत्सर्वं विशेषार्घ्यजलेन शङ्खजलेन वा कुशपुष्पैरभ्युक्षन् ताडितात्पाषाणाद्वह्निस्फुलिङ्गादिवत्द्रव्यजाता चिदग्निस्फुलिङ्गानामुद्गतिं ध्यायेत् | एवं निरीक्षणादिसंस्कारचतुष्टयेन द्रव्यजातमशुद्धेन मायारूपेण परित्यक्तं शुद्धचिच्छंक्त्यात्मकं शिवयोग्यतार्हं भवति | ततस्सद्योजातेन गन्धं वामदेवेन वस्त्रं अघोरेणाभरणं तत्पुरुषेण नैवेद्यमीशानेन पुष्पं हृदयमन्त्रेणान्यानि शिवार्थद्रव्याणि आवरणपूजाद्यर्थद्रव्याणि चाभिमन्त्रयेत् | ततस्सर्वंद्रव्यजातमस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्य शिवार्थं कल्पित मेतत्सर्वं शिवात्मकमेवेति भावयन् गन्धपुष्पधूपदीपैः हृदयास्त्रमन्त्राभ्यां पूजयेत् | ततस्स्वशरीरस्यार्घ्यजलबिन्दुमस्त्रेण निक्षिप्य स्वासने शिवासनायनम इति पुष्पन्दत्वा स्वदेहे शिवमूर्तिं विन्यस्य फाले चन्दनतिलकं कृत्वा | स्वशिरसि पुष्पं स्वाहान्तमूलेन स्वशिरस्येवार्घ्यं च दद्यात् | (मूलमन्त्रं दशवारं जपेदित्यधिकं पुस्तकान्तरे वर्तते ||) इत्थमात्मनि पशुबुद्धिं त्यक्त्वाशिववन्निर्मलज्ञानक्रियाश्शुद्धोऽहमिति भावन्नेवात्मानं पूजयेत् | इति द्रव्यशुद्धिः || यद्यप्यात्मशुद्धिः प्रागभिहिता | तथाऽपि पूजाकर्तृकतया द्रव्यान्तरवत्पूजोपकरणत्वेन प्रविष्टस्य तस्य द्रव्यान्तरवदेव गन्धादिभिः पूजयेदिति तदन्तद्रव्यशुद्धिः || || मन्त्रशुद्धिप्रकारः || अथ मन्त्राणां दन्तताल्वोष्ठव्यापारजन्यमायिकाशुचिरूपनिर्हरणार्थं ऐश्वर्याधिकारि मलतिरोहितफलप्रदानसामर्थ्यादिनां तेषां सामर्थ्योन्मीलनार्थं च शुद्धिः कर्तव्या | तत्प्रकार उच्यते - हृद्यञ्जलिं बद्ध्वा बिन्द्वन्तब्रह्मरन्ध्रान्तशिखान्तं ह्रस्वदीर्घप्लुतप्रणवादिनमोन्ततया क्रमेण त्रिवारं शनैर्मूलमन्त्रोच्चारणं कुर्यात् | ततो ब्रह्माङ्गादीनामपि तथैवोच्चारणं कुर्यात् | इत्थं मन्त्रशुद्धिंविधाय तदनन्तरं परिवारदेवतासद्भावे तदर्चनं कुर्यात् | कथं परिवारदेवतासद्भावः सशक्तिककेवलपूजने | इत्थं सूक्ष्मोक्तानि शुद्धकेवलमिश्राख्यान्यशक्तिकसशक्तिकसौरादिचण्डान्तशिवपूजन मंशुमदुक्तेन केवलसहजमिश्रभेदेन प्रत्येकं त्रिविधानि | अंशुमति केवलं नामपरिवारदेवतारहितलिङ्गपूजनम् | सहजन्नाम वृषभगणेशस्कन्दपार्वतीरूपपरिवारचतुष्टयसहितलिङ्गपूजनम् | मिश्रंनाम महेश्वरनृत्तमूर्ति दक्षिणामूर्त्यादिभिरपि सहितस्य लिङ्गस्य पूजनम् | एवं केवलशुद्धं सहजशुद्धं मिश्रशुद्धं केवलकेवलं सहजकेवलं मिश्रकेवलं केवलमिश्रं सहजमिश्रं मिश्रमिश्रं चेति नवविधानि पूजनानि भवन्ति | तत्र शिवपूजारम्भात्प्राक् सूर्यपूजां तदनन्तरं चण्डपूजां च विधाय लिङ्गे शक्तिं विना केवलं शिवमावाह्य परिवारदेवतारहितस्य तस्य पूजनं केवलशुद्धम् | परिवारचतुष्टयसाहित्येन प्रागुक्तपूजनं सहजशुद्धम् महेश्वरादिभिरपि सह प्रागुक्तपूजनं मिस्रशुद्धं | आद्यन्तयोस्सूर्यादि चण्डपूजां विहाय लिङ्गे सशक्तिकं शिवमावाह्य परिवारार्चनं विना तत्पूजनं केवलकेवलम् | उक्तपूजनमेव परिवार चतुष्टयार्चनसहितं सहजकेवलम् | महेश्वराद्यर्चासहितं मिश्रकेवलम् | आद्यन्तयोस्सूर्यचण्डपूजा सहितं सशक्तिकस्याशक्तिकस्यया परिवारदेवतारहितस्य लिङ्गे पूजनं केवलमिश्रम् | (प्. ४०) देवपरिवारचतुष्टयार्चनसहितं सहजमिश्रम् | महेश्वराद्यर्चादिभिरपि सहितं मिश्रमिश्रमिति | एवञ्च केवलकेवले परिवाराभावेऽपि सहजकेवले मिश्रकेवले च परिवारसद्भावात् मन्त्रशुद्ध्यनन्तरं केवले परिवारार्चनकथनं युक्तमेव | तत्र वृषभं देवस्य पूर्वभागे पश्चिमाभिमुखमर्चयेत् | गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तरदिक्ष्वर्चयेत् | पार्वत्या दुर्गारूपतयाऽर्चने दक्षिणाभिमुखत्वेनार्चयेत् | पौराणिकास्तु सूर्यगणेशविष्णुदुर्गारूपं परिवारदेवताचतुष्टयमाहुः | वृषभादिचतुष्टयेऽप्यारोग्यादिफलकामनायां परिवारदेवतामध्ये सूर्यादिपूजनमपि कर्तव्यमेव | वृषभस्य वामभागे सूर्यः देवस्य दक्षिणभागे दक्षिणामूर्तिः पश्चिमेस्कन्दस्य वामे विष्णुः उत्तरभागे देव्याः प्राग्भागे नृत्तमूर्तिः | एन्वमन्येषामपि कामन्याऽर्चनीयानामागमोक्तानि स्थानानि द्रष्टव्यानि || || लिङ्गशुद्धिः || अथ लिङ्गशुद्धिः - गर्भगृहे स्थितं देवस्य पेटक मुद्घाट्यतदग्रे स्थितं चतुर्भुजं त्रिणेत्रं वराभयच्छत्रचामरकरं भीमरुद्रमभ्यर्च्य | निशाचरान्तकृद्देव देवस्य यजनार्थकम् | शुद्धद्वारस्य सव्येतु गच्छत्वं हि प्रसीदमे || इति संप्रार्थ्य पेटकमद्ध्ये स्थितं देवं ओं नमोदेवदेवेशसर्वलोकैकनायक | उत्तिष्ठस्नानकर्मार्थमात्मरक्षार्थमेवचेति संप्रार्थ्य लिङ्गं हस्ताभ्यां संगृह्य वस्त्रं विसृज्य प्रागेव षडुत्थासनेनार्चितायां स्नानवेद्यां सुवर्णरजतकांस्यत्रपुसीसक्षीरवृक्षान्यतमनिर्मितायां उपानपद्मजगतीकंपकण्टकं पजगतीपद्मव्राजिनयुक्तायां वृत्ताकारायां मध्योन्नतायामुपरिप्रसारितवस्त्रयां विन्यस्य लिङ्गे पूर्वेद्युरर्चितां पूजां हृदयमन्त्रेण संपूज्य शिरसीशानक्रमेण स्वाहान्तमूलेन सामान्यार्घ्यजलेनार्घ्यन्दत्वा धूपदीपौ प्रदर्श्य अंगुष्ठादिकनिष्ठान्तैः ईशानादिपञ्चकं विन्यस्य कनिष्ठिकानामिकामध्ये पुष्पं संगृह्य अंगुष्ठतर्जनीभ्यां (प्.४१) लिङ्गमस्तकात्पूजां हृदयेनावरोप्य तत्पुष्पं लिङ्गमूर्ध्नि विन्यस्य निर्माल्यमीशानदिशि हृदयेनशुद्धपात्रेनिधाय अस्त्रेणलिङ्गं पाशुपतास्त्रेण पीठं प्रक्षाल्य सामान्यार्घ्यजलेन स्वाहान्तं हृदाऽभिषिञ्चेत् | एवं कृते पूर्वपूजासमाप्तौ लिङ्गपीठविन्यस्तमन्त्रोपसंहारानन्तरं लिङ्गपीठयोरासक्ताः पूजकस्य भुक्तिमुक्तिप्रतिबन्धकविघ्ना निरस्ता भवन्ति | लिङ्गञ्च हृदयाम्बुस्नपनेन शुद्धं पुनः मन्त्रविन्यासयोग्यं भवति | इति लिङ्गशुद्धिः || ततश्शिवशक्तिभ्यां नम इति लिङ्गमुद्रां प्रदर्श्य आसनमूर्तिमूलैरष्टपुष्पिकया वा संपूज्य धूपदीपौ प्रदर्श्य सुवर्णरजतताम्रमयशंखशुक्तिगोशृङ्गान्यतमपात्रेण चतुरंगुलदीर्वया गोशृङ्गाग्रप्रमाणया धारयाऽभिषिच्य हस्तयन्त्रोद्भवतैलेन गोघृतेनवाऽभ्यज्य पिष्टचूर्णादिभिर्विरुक्ष्यकोष्णतोयेनाभिपिच्य शिरसि पुष्पमारोप्य पञ्चगव्य प्रत्येक पञ्चामृतफलरससंयुक्तपञ्चामृतैरन्तरान्तराशिरश्शिखा- नेत्रैः पुष्पधूपदीपसमर्पणपूर्वकमस्त्रमन्त्रेण घण्टां ताडयन्नभिषिञ्चेत् | एवं फलोदकादिभिस्सिञ्चेत् | तत्र फलोदकं नाम सुगन्धिजलं वित्वक्पनसनारिकेलखण्ड सत्वग्दाडिमीबीजपूरपुन्नागलिकुचनारङ्गचूतकदलीफलोपेतमुद- कम् | यवनीवारव्रीहिमुद्गसिद्धार्थ सौगन्धिकहेमशालिबीजसहितमुदकं बीजोदकं | तेनाभिषिच्य मूलबीजेन गन्धपुष्पधूपदीपैरर्चयेत् | स्फटिकमुक्ताफलमाणिक्कविद्रुमगोमेदकपुष्पराग गारुडेन्द्रनीलसहितमुदकं रत्नोदकं | तेनाभिषिच्य वर्णमन्त्रेण गन्धादिभिरर्चयेत् | चन्दनागरुकस्तूरी कुंकुमकर्पूरमनश्शिलैलाकुष्ठतक्कोललवङ्गोशीरचम्पकमुकुल- चूर्णसहितमुदकं गन्धोदकं | तेनाभिषिच्य गन्धपुष्पधूपदीपनैवेद्यानि नाममन्त्रेण समर्पयेत् | चम्पकमल्लिकाकेतकीपाटलकुन्दपुन्नागनन्द्यावर्तजातीमन्दारकरवी रपद्मोत्पलगिरिपुष्पयुक्तं ह्रीबेरदमनकादिमिश्रितमुदकं पुष्पोदकं | तेनाभिषिच्य शिवमन्त्रेण गन्धपुष्पधूपदीपं दद्यात् | ततो नाममन्त्रं समुच्चरन्शुद्धेनान्नेन शनैश्शनैरभिषिच्य तदन्नंलिङ्गमभितस्थितं (प्.४२) लिङ्गाकृतिं कृत्वा गन्धपुष्पधूपदीपपायसांश्च तांबुलादि च दत्वा तदन्नं प्रक्षाल्यलिङ्गमूर्ध्नि मूलबीजं न्यस्य घन्धपुष्पधूपदीपं दत्वा ब्रह्ममन्त्रैरालभ्य धेनुमुद्रां वध्नीयात् | इदमन्नाभिषेचनमपमृत्युनिवारकम् | अयमायुरारोग्यराजराष्ट्राभिवृद्धिदंसकलवशीकरणं सर्वशांतिकरं च | ततो जलार्चनं च कुर्यात् | निरीक्षणादिसंस्कृतेन शुद्धजलेन हेमरजतताम्रयज्ञवृक्षजान्यतमपात्रं प्रपूर्य तन्मध्ये लिङ्गं संस्थाप्य दूर्वातिलाक्षतान्दत्वा गन्धपुष्पधूपदीपैरर्चयेत् | इदं जलार्चनं | ततस्समुद्धृत्य संमृज्य पूर्ववत् स्नाननैवेद्यं विन्यस्य नालिकेरेक्षुरसादिभिरपि यथासंभवमभिषिञ्चेत् | शिवस्य घृताभ्यङ्गेन वर्षकोटिसहस्रार्जितं पापं नश्यति | मासं घृताभिषेकेण त्रिसप्तकुलोपेतस्य शिवपदप्राप्तिर्भवति | करयन्त्रोद्भवतिलतैलाभिषेकेण शिवपदप्राप्तिर्भवति | क्षीराभिषेकेणायुतसालङ्कारगोदानफलप्राप्तिर्भवति | दधिस्नपनेन सर्वपापक्षयपूर्वकं शिवलोकप्राप्तिर्भवति | मधुस्नपनेन सर्वपापक्षयपूर्वकं वह्निलोकप्राप्तिर्भवति | इक्षुरसस्नपनेन विद्याधरलोकप्राप्तिर्भवति | कर्पूरागरुतोयेन शिवपदप्राप्तिः | गन्धचन्दनतोयेन गन्धर्वलोकस्य पुष्पोदकेन सूर्यलोकस्य हैमोदकेन कुबेरलोकस्य रत्नोदकेन इन्द्रलोकस्य कुशोदकेन ब्रह्मलोकस्य प्राप्तिरित्यादि द्रष्टव्यम् | तत्र द्रव्यालाभे वस्त्रपूतेन शुद्धेन तोयेनाभिषिंचेत् | तेनापि सर्वकामसमृद्धवरुणलोकप्राप्तिरुक्ता || ततोधाराभिषेचनं कुर्यात् | तच्चात्मार्थपूजायां द्वादशांगुलविस्तारमेकांगुलोत्सेधं यवत्रयघनमुत्तमम् | सप्तांगुलविस्तारमर्धांगुलोत्सेधं यवद्वयमात्रघनं मध्यमं | पञ्चांगुलविस्तारं पादांगुलोत्सेधं यवमात्रघनमधमं | तत्सुवर्णेन रजतेन ताम्रेण वा चतुरश्रं वृत्तं वा कर्त्तव्यं | चतुरश्रं चेन्नवकोष्ठानिविलिख्य मध्यकोष्ठस्य मध्ये रन्ध्रमेकं परितोष्टौ मद्ध्यकोष्ठस्यैव रेखायां महादिक्षु चत्वारि पूर्वादिकोष्ठेषु प्रत्येकं द्वादशरन्ध्राणि चेत्येवमुत्तमपात्रस्यैकाधिकान्यष्टोत्तरशतं रन्ध्राणि कुर्यात् | (प्.४३) मद्ध्यकोष्ठस्यमद्ध्यरन्ध्रमेकं परितो वाष्टौ पूर्वादिकोष्ठेषु त्रीणित्रीणि रन्ध्राणीत्येवं मद्ध्यमपात्रस्य पञ्चविंशतिरन्ध्राणि कुर्यात् | वृत्तं चेदष्टदलपद्मं विलिख्य कर्णिकाया मद्ध्ये परितश्च नवरन्ध्राणि प्रतिदलं द्वादशरन्ध्राणि दलेभ्यो बर्हिर्वृत्ते महादिक्षु चत्वारिचोत्तमपात्रस्य कुर्यात् | इतरपात्रयोरष्टदलपद्मे चतुरश्रवत् द्रव्याणि द्रष्टव्यानि | एवंभूतं पात्रं देवस्योपरि हस्तधृतं कृत्वा शङ्खजलेनापूर्य हस्ताभ्यां धारयन् मूलेन धाराभिरभिषिंचेत् | एवमभिषेकार्थानिप्राक्संस्कृतपञ्चगव्यादिव्यतिरिक्तानि तैलादीन्यस्त्रेणसंप्रोक्ष्यकवचेनावकुण्ठ्यास्त्रेण संरक्ष्य हृदयबीजेनाभिषेचने विनियोजयेत् | एवं प्रपञ्चेनाभिषेकं कर्तुमशक्तश्शुद्धजलेनाभिषेचयेत् | ततो मूलेन मन्त्रपुष्पं दत्वा मन्त्रान्नं निवेद्य शुद्धमृदुवाससा शनैस्संमृज्य पद्मपीठे स्थापयेत् | तत उत्थाय शिवंप्रदक्षिणीकृत्य निर्-ऋतिकोणस्थितवास्त्वधिपति ब्रह्मस्थानादुत्तररूपं शिवमन्दिरस्य वायुकोणं गत्वा तत्र श्यामवर्णं दन्ताक्षसूत्रपाशांकुशान्करैः पुष्करेण बीजपूरञ्च धारयन्तं दक्षिणाभिमुखमुपविष्टं गणपतिमावाहनादिसर्वोपचारैस्संपूज्य || (श्लो) शिवार्चनं गणेशान निर्विघ्नं कुरुमेसदेति प्रार्थयेत् | ततः प्राग्भागे शिवखेटकस्योत्तरदिशारूपे श्रीफलकमलाभयधारिणीं त्रिणेत्रां शिवशक्तिरूपां दक्षिणाभिमुखीमुपविष्टां महालक्ष्मीं तथैव संपूज्य मातश्शिवार्चनद्रव्यसमृद्धिं कुरुमेसदेति प्रार्थयेत् | ततः प्राग्भागे शिवमन्दिरस्येशानकोणरूपे सदाशिवानन्तश्रीकण्ठांबिकागुहविष्णुधातृरूपान् प्रसन्नवदनान्योगपट्टधरान्व्याख्यामुद्राक्षसूत्रविराजितकर- द्वयान् गौरवर्णान्दक्षिणामुखमुपविष्टान्सप्तगुरुन्वाशिवादिस्वरूपगुरु- पर्यन्तान्सर्वान्गुरून्वा तथैव सर्वोपचारैस्संपूज्य शिवादिगुरवो मह्यमनुज्ञां दातुमर्हथ | शिवार्चनं करिष्येहं युष्मद्दर्शितमार्गतः इति प्रार्थयेत् || गुरुस्थाने श्रीगुरुपादुकाभ्यां नम (प्.४४) इति पादुकेवा पूजयित्वा गणपतिमहालक्ष्मीगुरुपादुकानां पूजानन्तरं सर्वान्प्रणम्य क्षितितलनिहितनिश्चलजानुः बद्धांजलिः गणनाथांविके स्वामिपादुके मां जगद्गुरो | यजन्तमनुजानीत यथासंपन्नकारकमिति युगपत्प्रार्थयेत् | अथ तेम्यस्सकाशात्पुत्र शिवं यजस्वेति अनुज्ञालाभं भावयित्वा देवस्याग्नेयकोणे दक्षिणभागे वा रुचिराद्यासने स्थितः प्रत्येकं दशमात्रैः पूरककुंभकरेचकैस्सहितं प्राणायामत्रयं कृत्वा स्वेष्टफलाभिसन्धिपूर्वकं यथाशक्ति शिवार्चनं करिष्ये इति सङ्कल्प्य पूजामारभेत् || तत्र प्रथमं (शिवासनार्चनमिति) शिवार्चनं | तच्चकन्दनालग्रन्थिदलकेसरकर्णिकाविभक्तकमलरूपं क्षित्यादिशुद्धविद्यान्तद्वात्रिंशत्तत्वपर्यन्तोच्छ्रायं उपरिस्थितयामूर्त्यासहनिवृत्यादिशांतिकलापर्यन्तोच्छ्रायं | तदुपरिशन्त्यतीतकलाप्रमाणोविद्यादेहः | तत्स्वरूपपरिज्ञानार्थं निवृत्यादिकलाप्रमाणं तदन्तर्गततत्वस्वरूपञ्चविविच्यते | निवृत्यादिकलाशतकोटियोजनप्रमाणब्रह्माण्डरूपा | तत्रैकं पृथिवीतत्वं | तदुपरिसहस्रकोटियोजनप्रमाणा प्रतिष्ठाकला | तत्र जलादिभूतचतुष्टयगन्धादितन्मात्रपञ्चककर्मेन्द्रियपञ्चक- ज्ञानेन्द्रियपञ्चकमनोहङ्कारबुद्धिप्रकृतिरूपाणि त्रयोविंशतितत्वानि | तदुपरि अयुतकोटियोजनप्रमाणाविद्याकला | तत्र पुरुषरागनियति कलाविद्याकालमायारूपाणि सप्ततत्वानि | तदुपरि लक्षकोटियोजनप्रमाणाशान्तिकला | तत्र शुद्धविद्यामहेश्वरश्चेति द्वेतत्वे | तदुपरि दशलक्षकोटियोजनप्रमाणाशान्त्यतीतकला | तत्र सदाशिवश्शक्तिश्चेति द्वेतत्वे | तदुपरि अप्रमेयं शिवतत्वं निवृत्तिकलात्मकं प्रथिवीतत्वं यावत्कन्दं प्रतिष्ठाकलाविद्याकलान्तर्गतानि जलादिकालान्तान्येकोनत्रिंशत्तत्वानि यावन्नालः | जलादिकालान्ततत्वेषु स्थितानि पञ्चसप्ततिभुवनानि कण्टकाः | तत्तद्भुवनान्तर्गतप्राणिनां बुद्धिधर्माः पञ्चाशत्भुवननालान्तर्गतसूत्राणि | विद्याकलायामेव (प्.४५) कालस्योपरि स्थितं मायातत्वं पद्मनालग्रन्धिः | शान्तिकलायां स्थितं शुद्धविद्यातत्वदलकेसरकर्णिकात्मकं पद्मं | शुद्धविद्याया उपरि स्थितं महेश्वरतत्वं यावत् शिवस्य सूक्ष्ममूर्तिः शान्त्यतीतकलायां स्थितं सदाशिवशक्तितत्वद्वयं यावद्विद्यादेहः | नाले स्थितानि भुवनानि च जलानलवायुगगनाहङ्कारबुद्धिप्रकृतिषु प्रत्येकमष्टावष्टौ भुवनानीति षट्पञ्चाशत् पुरुषे षट् रागे पञ्च नियतौ द्वे कलायां द्वे विद्यायां द्वे काले द्वे इति पुरुषादिकालान्तेषु भुवनानि एकोनविंशतिरित्येवं पञ्च सप्ततिभुवनानि कण्टकाः | तमोमोहमहामोहतामस्रान्धतामिस्ररूपाः पञ्चविपर्ययाः | ऊहश्शब्दोध्ययनं दुःखत्रयविघातस्मुहृत्प्राप्तिर्दानं चेत्यष्टौसिद्ध्यः | आध्यात्मिकाः प्रकृत्युपादानकालभागाख्याश्च | तिस्रो विषयाः परमकृताबाह्याः पञ्चेति नवचतुष्टयः अन्धत्वमूकत्वादय एकादशेन्द्रियविधाः अनूहादयस्सप्तदशप्रागुक्तसिद्धिबुद्धिविधाश्चेत्यष्टाविंशतिशक्त- यः इति पञ्चाशद्भावाः नालसूत्राणि | अत्र कन्दनालादियोजनप्रमाणसमये मतान्तरं प्रदर्श्यते | निवृत्तिकलात्मकं पृथिवीतत्वं पूर्ववच्छतकोटियोजनमेव | पृथिवीतत्वाद्दशगुणं जलं, जलतत्वाद्दशगुणोवह्निः, वह्नितत्वाद्दशगुणो वायुः, वायोर्दशगुणं व्योम, ततोदशगुणोऽहङ्कारः, अहङ्काराद्दशगुणा बुद्धिः, बुद्धेर्दशगुणं गुणतत्वम् | एवं गुणतत्वपर्यन्तं दशंसख्ययावृद्धिः | अतः परं मायातत्वपर्यन्तं शतसङ्ख्यया वृद्धिः | गुणतत्वाच्छतगुणा प्रकृतिः | प्रकृतेश्शतगुणोरागः | रागाच्छतगुणा नियतिः | नियतेश्शतगुणा विद्या | ततश्शतगुणा कला | ततश्शतगुणः कालः | ततश्शतगुणा माया | शुद्धविद्येश्वर सदाशिवानां सहस्रसङ्ख्ययावृद्धिः | मायायास्सहस्रगुणा शुद्धविद्या | शुद्धविद्यायास्सहस्रगुण ईश्वरः | ईश्वरात् सहस्रगुणस्सदाशिव इति | ततौ लक्षसङ्ख्ययावृद्धिः | सदाशिवतत्वाल्लक्षगुणा शक्तिरिति | ततश्शिवतत्वमप्रमेयम् | इदं च मतं प्रकृतेः पूर्वं गुणतत्वमङ्गीकृत्य प्रकृतेरनन्तरं पुरुषतत्वमनङ्गीकृत्य च प्रवृत्तम् | (प्.४६) तथाचाहुः - (श्लो) क्ष्मातत्वं शतकोटियोजनमपः प्रारभ्यं गौणान्तकं पङ्क्त्या तद्गणनात्तथा प्रकृतितो मायावसानं शतात् | साहस्राच्च सदाशिवावधि ततश्शक्त्यन्तकं लक्षतस्तस्योर्द्ध्वं सशिवोऽप्यमेयविभवो बिन्दोरधिष्ठायकः इति || एवं सति नालः कियद्योजनसंख्यो जात इति चेत् असंख्ययोजन एव | तथाऽपि किञ्चित्प्रकारमारोप्य योजनसङ्ख्या प्रदर्श्यते - एकत्वमारभ्य उत्तरोत्तरं दशगुणवृद्धौ क्रियमाणायां विंशतितमं स्थानं परार्धसङ्ख्या | स सर्वान्तिमसङ्ख्या | विंशतेश्च स्थानानामेतानि नामानि | एकं दश शतं सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदं पद्मं खर्वं निखर्वं बृन्दं महापद्मं शङ्खो महाशङ्खस्समुद्रो महासमुद्रो मध्यं परार्द्ध इति || तथाचाहुः - एकं पङ्क्तिशते सहस्रमयुतं लक्षं प्रपूर्वायुतं कोटिश्चार्बुदकं च पद्मक मथो खर्वं निखर्वं तथा | बृन्दं चैव महासरोजमपरश्शंखस्समुद्रोऽन्तिमो मध्यं चैव परार्धसंज्ञकमिमां सङ्ख्यां विदुः पण्डिताः इति || एवञ्च शतकोटिसङ्ख्यामेकत्वस्थाने निवेश्य जलतत्वादीनां सङ्ख्याक्रियते | शतकोटिर्नाम पद्मसङ्ख्या | ततश्च पद्मयोजनं पृथिवीतत्वम् | एकयोजनं जलतत्वं, दशयोजनं तेजस्तत्वं, शतयोजनं वायुतत्वं, सहस्रयोजनं गगनतत्वं, अयुतयोजनमहङ्कारतत्वं, लक्षयोजना बुद्धिः, प्रयुतयोजनं गुणतत्वं, कोटियोजनं ततः परं शतसंख्यया वर्द्धनीयत्वात् एकान्तरितसंख्याग्राह्या | यथा प्रकृतिः पद्मयोजना, रागो निखर्वयोजनः, नियतिर्महापद्मयोजना, विद्या महाशङ्खयोजना, कलासमुद्रयोजना, कालः परार्धयोजन इति | एवञ्च जलादिकालान्ततत्वसमुदायरूपो नालो दशशत सहस्रायुत लक्षप्रयुत कोटिपद्म निखर्वमहापद्म महाशङ्खमहासमुद्रपरार्धाख्यत्रयोदशसङ्ख्यासमुदाय- सङ्ख्येययोजनापरिमितोभवति | पद्मसङ्ख्यायामेकतत्वरूपता मनारोप्य परार्धाधिके सङ्ख्यासद्भावमारोप्य गणनेतु नालः खर्व निखर्व बृन्द महापद्म शङ्ख महाशङ्ख समुद्रमध्यदशगुणितपरार्ध (प्.४७) सहस्रगुणितपरार्ध लक्षगुणितपरार्ध कोटिगुणिपरार्धरूपत्रयोदशसङ्ख्यासमुदायसङ्ख्येययोजनोच्छ्रा यो भवति | नालान्तर्गतानामपि भुवनानामाधारणं गन्धादिपञ्चक कर्मेन्द्रियपञ्चक ज्ञानेन्द्रियपञ्चकमनसां पृथग्योजनसङ्ख्या नास्तीति मताश्रयाणां तेषु योजनसङ्ख्या नगणिता | अथ तेषामपि (भुवनाधारतया) पृथग्योजनसङ्ख्यामाश्रित्य मतान्तरं प्रदर्श्यते || पद्मयोजनपरिमाणात् भूतत्वाज्जलादिमनोन्तानां विंशतेस्तत्वानामुत्तरोत्तरं दशगुणा वृद्धिः | अहङ्कारबुद्ध्योश्शतगुणा | प्रकृतेस्सहस्रगुणा | पुरुषस्यायुतगुणा | नियतिकालयोर्लक्षगुणा | रागविद्याकलानां दशलक्षगुणा | मायायाः कोटिगुणा | शुद्धविद्यायाः दशकोटिगुणा | ईश्वरस्य शतकोटिगुणा | सदाशिवस्य सहस्रकोटिगुणा | शक्तेरयुतकोटिगुणा | शिवतत्वस्य नास्ति योजनसङ्ख्या इति | पुरुषमायामध्यवर्तितत्वानां पञ्चानामूर्ध्वाधरभावे क्रमभेदमाश्रित्येदं मतान्तरं प्रवृत्तम् | अस्मिन्मते क्षित्यादिमनोंतानि एकविंशतितत्वान्युत्तरोत्तरं दशगुणवृद्ध्या क्रमादेकदशशत सहस्रायुत लक्ष प्रयुतकोट्यर्बुद पद्मखर्व निखर्व बृन्दमहापद्मशंखमहाशङ्ख समुद्र महासमुद्र मद्ध्य परार्ध दशपरार्ध योजनानि | अहङ्कारबुद्धी शतगुणवृध्या क्रमात् सहस्रगुणित लक्षगुणित परार्धयोजने | प्रकृतिस्सहस्रगुणवृद्ध्याऽर्बुदगुणितपरार्धयोजना | पुरुषस्ततोऽयुतगुणवृद्ध्याबृन्दगुणितपरार्धयोजनः | नियतिकालौ लक्षगुणवृद्ध्या क्रमात् महासमुद्रगुणितसहस्र परार्धगुणितपरार्धयोजनौ | रागविद्याकलारतु दशलक्षगुणवृद्ध्या क्रमात् पद्मपरार्धगुणितमहाशंख परार्धगुणितशत परार्धहतपरार्धगुणित परार्धयोजनाः | एवंचास्मिन्पक्षे जलादि कलांत तत्वसमुदायरूपो नालो दशादिशतपरार्धाहत परार्धगुणितपरार्धपर्यन्तैकोनत्रिंशत्संख्यासमुदाय (प्.४८) संख्येय योजनापरिमितो भवति | अस्मिन्तत्ववृद्ध्याश्रयणेनप्रवृत्ते पक्षद्वयेऽपि नालात् ग्रन्थेः पद्मस्य चातिदैर्घ्यं स्यात् | तथाहि - अत्र प्रथमपक्षे तावत् नालान्तर्गतेषु तत्वेषु काल-एकः परार्धयोजनः | कलातच्छतांशपरिमितैव | विद्यानियतिपूर्वकपूर्वतत्वानि तच्छतांशपरिमितानीति नालः किञ्चिदधिकैकपरार्धयोजनः | मायारूपोग्रन्थिस्तु शतगुणितपरार्धयोजनः | कालाच्छतगुणत्वान्मायायाः पद्मं लक्षगुणितपरार्धयोजनम् | पद्मरूपायाश्शुद्धविद्याया मायापेक्षया सहस्रगुणितत्वा दित्थं पक्षान्तरेऽपि ग्रन्थिपद्मयोजनदैर्घ्यं स्यात् | एवं कन्दप्रभृति नालापेक्षयाग्रन्थेः पद्मस्य च दैर्घ्यं न लौकिकपद्मच्छायानुकारि नवनाभिकन्दादिहृत्प्रदेशांतर्हृत्पद्मच्छायानुकारि | अथः कलावृद्धिपक्षाश्रयणमेव शिवासनपद्मभावनायामनुकूलम् | इदञ्च कमलं अनन्तासन सिंहासन योगासन पद्मासन विमलासनरूप पञ्चासनगर्भम् | तत्रपृथिवीतत्वपरिमितकन्द एवाधारशक्तिः | जलादिकालान्त तत्वपरिमितो नाल एव तदुपरिस्थितपद्ममुकुलसहितस्सन् आधारशक्तिरूप क्षीरोदसमुत्थितफणामणिमण्डलसहित भुजङ्गमाकृतिशालि विद्येश्वराष्टकान्तर्गतानन्तरुद्रैतदुभय मनन्तासनमुच्यते | नालाद्यवधि जलतत्वप्रभृति गुणतत्वपर्यन्तं नालं परितःस्थितं सिह्मासनम् | तत उपरि ग्रन्थिपर्यन्तं योगासनम् | तदुपरि दलकेसररूपं पद्मासनम् | कर्णिकैव विमलासनम् | कर्णिकोपरिस्थितगुणत्रय मण्डलत्रयतत्वत्रयात्मकं वा | यद्यप्यनन्तः सहस्रफणामण्डितः सर्पत्वेनोक्त इति तस्य भोगदण्ड एवोर्द्ध्वाकारस्थितो नालः, सङ्कुचितं तत्फणामण्डलमेवात्र मुकुलं, नतु तद्व्यतिरेकेण पद्ममस्ति, तथाऽपि तदेव विकासध्यानदशायामष्टदलपद्मरूपेण भावनीयमिति पद्मासनमुच्यते | यद्वा वृत्ताकारं कोटिसूर्याभं सिंहासनादधस्थित मनन्तभोगिरूपमनन्तपङ्कजरूपं नालादन्यदेवानन्तासनं वृत्ताकारमुपर्युपरिस्थितानन्त वासुकि तक्षक कार्कोटक पद्म महापद्म शङ्खगुलिकाख्याष्टमहानागरूपं वा | (प्.४९) अथवा एवमनन्तासनं भावनीयम् - सिह्मासनस्याधस्ताद्वृषासिह्मभूतकुञ्जराकार धर्मादिपादचतुष्टयस्य अधर्मादिफलकचतुष्टयस्य मञ्चस्योपरि फणपञ्चकेन पुच्छेन च सहितः फणामद्ध्ये पुरुषाकारः क्षौमवस्त्रपरीधानस्सर्वाभरणभूषितः वराभयधरकरद्वयो नागराजः | तंपरितः पूर्वादिदिक्षु अनन्ताद्याः गुलिकान्ता एकफणाः कृताञ्जलिपुटा नागराजा ईक्षमाणा महानागाः नागराजस्यशिरसिप्रफुल्लाष्टदलयुक्तं अनन्तपङ्कजमिति | अत्रादिमपक्षमेवावलंव्य शिवासनस्यार्चनाक्रमः प्रदर्श्यते | हामाधारशक्तये नमः | शतकोटियोजनप्रमाणब्रह्माण्डाकारपृथिवीतत्व परिमाण शिवासनपद्मकन्दरूपां धवलवर्णां पाशांकुशाभयवरधारिणीमाधारशक्ति पूजयामि | अनन्तासनाय नमः | जलादिकलान्ततत्वपरिमाणनालरूपं मायाग्रन्थिसहितमेकादशसहस्रकोटियोजनोच्छ्रायं वा दशशतसहस्रायुत लक्षप्रयुत कोट्यर्बुद पद्मखर्व निखर्व बृन्दमहापद्म शङ्खमहाशङ्खसमुद्र महासमुद्र मध्यपरार्ध दशशतगुणितपरार्धसहस्रगुणितपरार्धलक्षगुणितपरार्धार्बुदगु णित बृन्दगुणितपरार्ध महासमुद्रगुणितपरार्ध सहस्रपरार्ध गुणितपरार्ध पद्मपरार्ध गुणित परार्ध गुणितपरार्ध महाशङ्खपरार्धगुणितपरार्ध शतपरार्धाहतपरार्धगुणितपरार्ध पद्मपरार्धाहतपरार्धगुणितपरार्धरूपत्रिंशत्सङ्ख्यागुणित पद्मसङ्ख्यासमुदाय सङ्ख्येययोजनोच्छ्रायं वातदुपरि सहस्रफणामण्डलरूपाब्जमुकुलालंकृतमेकवक्त्रं चतुर्भुजं हृदये नमस्कारमुद्रासहितमनन्तरुद्ररूपमनन्तासनं पूजयामि | हां शिवासनपद्मनालकण्टकेभ्यो नमः | पृथिवीकन्दोद्गतशिवासनपद्मनालावयवेभ्यो जलादिकलान्ततत्वाश्रितामरेश प्रभासनैमिशपुष्कराषाडिडिंडिमुण्डि भारभूतल शुद्धीश्वर हरिश्चन्द्र श्रीशैल जप्येश्वर आम्रातकेश्वर मद्ध्यमेश्वर महाकाल केदार भरव गया कुरुक्षेत्र नाखल कनकखल विमलेश्वर अट्टहास महेन्द्र भीमेश्वर अविमुक्त वस्त्रापदरुद्रकोटि (प्. ५०) महालय गोकर्ण भद्रकर्ण स्वर्णाक्ष स्थाणुच्छगलण्ड द्विरण्ड महाकोट मण्डलेश्वर कालाञ्जन शंकुकर्ण स्थूलेश्वर स्थलेश्वर पैशाच राक्षस यक्षगन्धर्व ऐन्द्र सौम्य प्राजापत्य ब्राह्माकृतकृत भैरव ब्रह्मवैष्णवकौमार नाल श्रीकण्ठ वामदेव भीमोग्र भव ईशान एकवीर प्रचण्ड उमापति अज अनन्त एकशिव कोधचण्ड द्युति संवर्त शूर पञ्चान्तक एक वीर शिखेद नामधेय सप्ततिभुवनरूपान् कण्टकान्पूजयामि | हां सूत्रेभ्यो नमः | पञ्चविपर्ययाष्टसिद्धि नवतुष्ट्यष्टाविंशति शक्तिरूप पञ्चाशद्भावनात्मकानि शिवासनपद्मनालसूत्राणि पूजयामि || एवमनन्तासनात्मकनालपूजानन्तरं नालं परितः स्थितं सिह्मासनं योगासनं च पूजयेत् | हां धर्माय नमः | शिवासनस्याग्नेयकोणे पादरूपं सिंहाकारं जलादिगुणतत्वपर्यन्तोन्नतं आग्नेयाभिमुखं विवृतास्यं परिवृत्तकन्धरं वायव्यकोणसिंहावलोकिनं कोटिसिंहपरिवारितं कर्पूरवर्णं धर्मं पूजयामि | हां ज्ञानाय नमः | शिवसिंहासनस्य नै-ऋतकोणपादरूपं सिंहाकारं जलादिगुणपर्यन्तोन्नतं नै-ऋताभिमुखं विवृतास्यं परिवृत्तकन्धरं ईशानकोणसिंहावलोकिनं कोटिसिंहपरिवारितं कुंकुमवर्णं ज्ञानं पूजयामि | हां वैराग्याय नमः | शिवसिंहासनस्य वायव्यकोणपादरूपं सिंहाकारं जलादिगुणतत्वपर्यन्तोन्नतं वायव्याभिमुखं विवृतास्यं परिवृत्तकन्धरमाग्नेय कोणसिंहावलोकिनं कोटिसिंहपरिवारितं सुवर्णवर्णं वैराग्यं पूजयामि | हामैश्वर्याय नमः | शिवसिंहासनस्येशानकोणपादरूपं सिंहाकारमैशानाभिमुखं जलादिगुणतत्वपर्यन्तोन्नतं विवृतास्यं पूर्ववृत्तकन्धरं नै-ऋतकोणसिंहावलोकिनं कोटिसिह्मपरिवारितं मेघवर्णमैश्वर्यं पूजयामि | हामधर्माय नमः | शिवसिंहासनस्य पूर्वफलकरूपं श्वेतकृष्णवर्णं पुरुषाकारं दक्षिणशिरसगुत्तरपाद मधोमुखमधर्मं पूजयामि | हामज्ञानाय नमः | (प्. ५१) शिवसिंहासनस्य दक्षिणफलकरूपं श्वेतरक्तवर्णं पुरुषाकारं पूर्वशिरःपश्चिमपादं अधोमुखमज्ञानं पूजयामि | हां अवैराग्यायै नमः | शिवसिंहासनस्य पश्चिमफलकरूपं रक्तपीतवर्णं पुरुषाकारं उत्तरशिरसं दक्षिणपादमधोमुखमवैराग्यं पूजयामि | हामनैश्वर्याय नमः | शिवसिंहासनस्य उत्तरफलकरूपं पीतकृष्णवर्णं पुरुषाकारं पश्चिमशिरसं पूर्वपादमधोमुखमनैश्वर्यं पूजयामि | तदनन्तरं हां शिवसिंहासनाय नमः इति समस्तं सिंहासनं संपूज्य योगासनं पूजयेत् || तस्य श्वेतरक्तपीतकृष्णवर्णानि भूतरूपाणि कृतत्रेताद्वापरकलियुगान्याग्नेयादिपादत्वेन अव्यक्तनियतिकलाकालान् स्फटिककालमेवदाडिमीपुष्पभिन्नाञ्जनवर्णान्पूर्वादिफलकत्वेन चाभ्यर्च्य हां शिवयोगास?चमध्यफलकरूपाय श्रीमहाविष्णवे नमः इति मध्ये नीलवर्णं त्रिणेत्रं शङ्खचक्रवराभयकरं विष्णुं पूजयेत् | ततो रजोगुणारुणाय तमोगुणतूलभरितायमायारूपाय अधश्छदाय नमः | इति योगासनस्य ऊर्ध्वमेखलाया अधोभागप्रसारितं शयनीयरूपमधश्छदनं नै-ऋतकोणे संपूज्य | हां सत्वगव्रणधवलिताय शुद्धमायारूपोर्ध्वच्छदनाय नमः | इति मेखलाया उपरि शयनीयोत्तरच्छदनरूपमूर्ध्वच्छदनं नै- ऋतकोणे च संपूज्य हां शिवयोगासनायनम इति समस्तं योगासनं पूजयेत् | योगासनविमलासने विना त्र्यासनात्मकमेव शिवासनमिति पक्षे शिवासनमेव मायाग्रन्थिपर्यन्तोन्नतं भावयित्वा तत्पादफलकार्चनानन्तरमाग्नेयादिकोणेषु स्थित तदीयफलकद्वय सन्धानकीलत्वेन कृतयुगादिचतुष्टयमभ्यर्च्य तन्मध्ये फलकत्वेनैव श्रीमहाविष्णुं पूजयित्वाऽधश्छदनमूर्ध्वच्छदनं च पूजयेत् | ततोऽनन्तफणामण्डलरूपं पद्ममुकुलं विकसितं भावयित्वा तस्य दलकेसरा नर्चयेत् | हां शिवासनपद्मदलेभ्योनमः | अष्टविद्येश्वररूपाणि धवलवर्णानि शिवासनपद्मस्य दलानि पूजयामि | (प्. ५२) हां केसरेभ्योनमः | मूले सुवर्णवर्णानि मध्ये विद्रुमवर्णानि मुक्ताफलाकृतिशिरोलङ्कृतानि चतुष्षटिकलारूपाणि वामादिशक्तिसहिताष्टरुद्ररूपाणिवा केसराणि पूजयामि | केसराणामष्टरुद्ररूपत्वपक्षे अष्टावष्टौ केसराण्येकैकरुद्रत्वेन भावनीयानि | अथवा फणारूपदलसहस्रयुक्तस्य अनन्तपङ्कजस्य केसराण्यपि सहस्रं सन्ति | तानि सर्वाणि पञ्चविंशत्युत्तरशतसङ्ख्ययाऽष्टधा विभज्य वामाद्यष्टरुद्ररूपेण पूजनीयानि | कर्णिकासहितान्यष्टावेववा केसराणि तथा पूजनीयानि | अयं न्यायोऽष्टविद्येश्वररूपतया पूजनीयेषु दलेष्वपि योजनीयः | हां कर्णिकायै नमः | विमलां शक्तिरूपां कनकवर्णां शिवासनपद्मकर्णिकां पूजयामि | हां बिजेभ्योनमः | वामादिनवशक्तिरूपाणि वा पञ्चाशद्वर्णरूपाणि वा शिवासनपद्मकर्णिकाबीजानि पूजयामि | ततस्सर्वावयवयुक्तं पद्मं विभाव्य हां पद्मासनाय नमः इति संपूज्य हां पद्ममुद्रायै नमः इति पद्ममुद्रां प्रदर्शयेत् | ततः पूर्वादिप्रादक्षिण्येनाष्टस्वष्टसु केसरेषु वामादीरष्टौ शक्तीरेकैकशः पूजयेत् | वामायै नमः | ज्येष्ठायैनमः | रौद्र्यै नमः | काल्यै नमः | कलविकरिण्यैनमः | वलविकरिण्यै नमः बलप्रमथिन्यै नमः | सर्वभूतदमन्यै नमः | अरुणवक्त्राश्चामरधारिणीश्शिवासनन्यस्तैकहस्ताश्शिवाभि- मुख्येन केसरेषु स्थिता वामादिशक्तिः पूजयामि | मनोन्मन्यैनमः | स्फटिकवर्णां पाशाङ्कुशाभयवरधारिणीं शिवासनपद्वकर्णिकायामीशानदिशि मध्ये-ईशानदिशि वा स्थितां मनोन्मनीं पूजयामि | ततस्साधिपतिकानि सूर्यसोमाग्निशक्तिमण्डलान्युपर्युपरि पूजयेत् | हां सूर्यमण्डलाय नमः | कोटिसूर्यप्रतीकाशं शिवपद्मासनदलाग्रव्यापकं सूर्यमण्डलं पूजयामि | हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः | पञ्चमत्क्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् | (प्. ५३) तप्तचामीकराभासं नमोमुद्रासमन्वितम् || सृष्टिकारण (सृष्टिकारणमात्मतत्वेति) कारणमात्मतत्वरूपिणं सूर्यमण्डलाधिपतिं ब्रह्माणं पूजयामि | हां सोममण्डलायनमः | शिवासनपद्मकेसराग्रव्यापकं कोटिशीतांशुशीतलं सोममण्डलं पूजयामि | हां सोममण्डलाधिपतये विष्णवे नमः | मेघश्यामं शङ्खचक्रनमस्कारमुद्रान्वितकरचतुष्टयं स्थितिकारण (स्थितिकारणं सोम) कारणं सोममण्डलाधिपतिं विष्णुं पूजयामि | हां अग्निमण्डलायनमः | शिवासनपद्मकर्णिकाग्रव्यापकं वह्निमण्डलं पूजयामि | हां वह्निमण्डलाधिपतये रुद्रायनमः | माणिक्कवर्णं शूलानलनमोमुद्रान्वितकरचतुष्टयं लयकारण (लयकारण शिव) कारणं शिवतत्वरूपिणं वह्निमण्डलाधिपतिं रुद्रं पूजयामि | विमलासनं कर्णिकाव्यतिरिक्तमिति पक्षे आग्नेयाद्यैशानान्तं गुणत्रयं दक्षिणाद्युत्तरान्तं मण्डलत्रयं नैर्- ऋत्यादिवायव्यान्तं तत्वत्रयं च पूजयित्वा हां विमलासनायनमः इति समस्तमिदं विमलासनं पूजयेत् || तदनन्तरं मध्ये हां शक्तिमण्डलाय नमः | धवलवर्णं मण्डलत्रयव्यपकमिच्छाशक्तिरूपशक्तिमण्डलं पूजयामि | हां शक्तिमण्डलाधिपतये महेश्वरायनमः | स्फटिकवर्णमष्टहस्तं खड्गत्रिशूलबाणाक्षमालाकमण्डल्वभयकरारविन्दधारिणं शक्तिमण्डलाधिपतिं महेश्वरं पूजयामि | ततस्समस्तं शिवासनं विभाव्य तदुपरि हां शिवासनायनम इति ज्ञानशक्त्यात्मकं शिवासनं पूजयेत् | अस्यामासनपरंपरायामाधारशक्तिमात्मार्थपूजायां ब्रह्मशिलास्थानीये पद्मपीठे पूजयित्वाऽनन्तप्रभृति शक्तिमण्डलान्तं लिङ्गवेदिकायामुपर्युपरि लिङ्गनाभिपर्यन्तं पूजयेत् | एवं प्रत्येकं शिवासनावयवपूजनाशक्तौ (प्. ५४) साङ्गोपाङ्गं शिवासनं विभाव्य हां शिवासनायनम इत्येवं पूजयेत् | अयमनेकासनगर्भशिवासनार्चनप्रकारः | यद्वा - आवाहने पद्ममनन्तं स्नाने विमलमर्चने योगासनं नैवेद्ये वस्त्रादिष्वन्येषूपचारेषु सिंहासनं च कल्पयेत् | अथवा सिह्मासनं स्नाने अनन्तं वस्त्रे पद्ममाभरणगन्धपुष्पेषु विमलं नैवेद्ये योगमन्योपचारेषु च कल्पयेत् | एवं शिवासनं संपूज्य हां हं हां शिवमूर्तयेनम इति लिङ्गनाभेर्महेश्वरतत्वात्मिकां शिवस्य मूर्ति स्थिरविद्युन्निभां दण्डाकारामविभक्तावयवां संपूज्य लिङ्गदैर्घ्ये होमीशानमूर्ध्ने नम इत्यादिमन्त्रैर्दण्डभङ्ग्या मूर्द्धादिपादान्तमीशानादि विन्यस्य सशक्तिकमशक्तिकं वा तत्तत्स्थानेष्वष्टत्रिंशत्कला न्यसेत् | शूद्रश्शशिन्यादिशक्तीरेव न्यसेत् | ततश्श्रीकण्ठादिन्यासञ्च विदध्यात् | एवं सदाशिवदेहसिद्ध्यर्थं न्यासान्कृत्वा हां हौं विद्यादेहायनम इति विभक्तावयवं सदाशिवं विद्यादेहं पूजयित्वा तत्स्वरूपं प्रपञ्चेन ध्यायेत् || क्षित्यादिशुद्धविद्यान्ते कन्दनालदलैर्युते | कर्णिकाकेसरैर्युक्ते सूर्यबिंबादिभूषिते || ईश्वरान्तिकया मूर्त्या स्थिरविद्युत्प्रकाशया | अविभक्तावयवया भ्राजमानोपरिस्थले || क्षित्यादीश्वरतत्वान्ते मूर्त्याकथितया सह | नानापट्टकुटीकोटियोजनोन्नतशालिनि || पद्मेस्थितं महापद्मकोटियोजनसंमितम् | बद्धपद्मासनासीनं समुपासेत्सदाशिवम् || यद्वा कूटाङ्गकोटी कटकनटनटी नाट्य नव्यान्नपान ध्याना (द्विद्यात्मकङ्कनकमितेति) विद्यानकानीनकमितशतकोट्युन्नतैर्योजनौघैः | तेजोर्मूर्त्यन्तकन्दप्रभृतिषु दशधा सप्तधा च प्रभिन्नैः सङ्ख्यातव्यप्रमाणैस्सरसिरुहवरे योगवीठे निषण्णम् || प्. ५५) दशोत्तरप्रयुतपरार्धयोजनां विवृद्धकाविषयपरार्धयोजनाम् | समुन्नतिं समुपगतं समाश्रये सदाशिवं सरसिरुहासने स्थितम् || पद्मं कन्देऽथ नाले क्रमिकदशगुणा विंशतौ तस्य वृद्धि र्येकैकद्वित्रिषुस्याच्छतमुखदशलक्षान्तभंग्याऽथ वृद्धिः | ग्रंथौ कोट्याथ पद्मप्रभृतिषु दशकोट्येति संख्याभिराहिः संख्यातैर्योजनौघैर्महिमजुषि महायोगपीठे स्थितं वा || तदुपरि शतकोटियोजनौघ प्रथित महेश्वरतत्वमानमूर्तैः | लसितमुपरि तत्सहस्रकोट्या तदयुतकोटिदिशा च वृद्धिभाजम् || पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् | दक्षिणे शूलवज्रासिपरश्वभयमुद्रिकाः || वामे च दधतं नागपाशघण्टानलांकुशान् | अथवा वरखट्वाङ्गशूलभीशक्तिपञ्चकम् || रुचकं डररुं सर्वं नीलांभोजाक्षमालिकाम् | अस्योर्ध्ववक्त्रं देवस्य बालभावमनोहरम् || प्रसन्नमूर्ध्वाभिमुखं निर्मलं स्फटिकप्रभम् | पूर्ववक्त्रं महेशस्य नि(निक्षिप्तेति)ष्टप्ताष्टापदप्रभम् || सर्वेण स्तिमितं सौम्यं संप्राप्तनवयौवनम् | दक्षिणं वदनं शंभोर्नीलाञ्जनचयप्रभम् || भ्रूकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् | दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् || चन्द्रापीडज्वलत्केशं विलसत्प्रौढयौवनम् | उत्तरं वक्त्रमीशस्य नवविद्रुमसुप्रभम् || प्. ५६) ललाटतिलकोपेतं नीलालकविभूषितम् | प्रलोभनं त्रिनयनं चन्द्राभरणभास्वरम् || पार्वतीवदनाकारसलीलभ्रूलतान्वितम् | पश्चिमं चण्डसङ्काशं नृपलक्षणलक्षितम् || चन्द्रावतं सरुचिरं ध्यानस्तिमितलोचनम् | इति ध्यात्वा पुनरपि ध्यायेद्देवं सदाशिवम् || इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयम् | ज्ञानचन्द्रकलाचूडं दशदिग्बाहुमण्डलम् || पञ्चब्रह्मात्मवदनं पञ्चसादाख्यवक्त्रकम् | श्रीमत्पञ्चाक्षराकारवदनांसोरुशोभितम् || समस्ततन्त्ररूपं च वर्णब्रह्मकलामयम् | निवृत्या जानुपर्यन्तमानाभेश्च प्रतिष्ठया || आकण्ठं विद्यया सिद्ध माललाटं तु शान्तया | तदूर्द्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् || एवं पञ्चकलारूपमिदं सादाशिवं वपुः || चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारुणी | एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी || अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा | कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्वजविधारिणी || पाशभृत्पञ्चवदना शान्यतीता शशिप्रभा | सर्वाः पद्माक्षमालाभ्यामभयेन विराजिताः || चतुर्भुजास्त्रिणेत्राश्च पिनोन्नतपयोधराः | आसां पश्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः || मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः | प्. ५७) तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः || चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम् | भुवनाध्वा स सञ्चिन्त्यो रोमबृन्दात्मना विभोः || पञ्चाशद्रुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना | असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः || रुधिरात्मा तु मन्त्राद्ध्वा विचिन्त्यः पार्वतीपतेः | पदाध्वा चिन्तनीयस्स्यात् सिरामांसतया प्रभोः || पृथिव्यादीनिषट्त्रिंशत् तत्वान्यागमवेदिभिः | उक्तान्यमीभिस्तत्वाध्वा शुक्लमज्जास्थिरूपभृत् || नास्य देहेऽस्थि रुधिरं न मांसं नास्ति किञ्चन | प्रतिबिंबमिवादर्शे शक्रचापमिवांबरे || ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः | तथाऽपि कल्पनामात्रं कलावाऽप्यध्वनामिदम् || ब्रह्मस्वीशे मूधानं पुरुषेण चतुर्मुखीम् | हृदयादीम्यघोरेण गुह्यादीनि तु वामतः || सद्योजातेन तु ध्यायेत् पादादीनि जगत्पतेः | पञ्चवक्त्राः स्मृतास्सर्वे दशदोर्दण्डभूषिताः || खड्गखेडधनुर्बाणकमण्डल्वक्षसूत्रिणः | वराभयोपेतकराश्शूलपङ्कजपाणयः || अघोरो घोर एतेषु तदन्ये सौम्यविग्रहाः | एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः || त्वत्तद्ब्रह्मकलाभेदैर्विचिन्त्याङ्गानि कल्पयेत् | ईशानस्य कलाः पञ्चमूर्द्धात्मकतां गताः || प्. ५८) चतुर्मुखतया ध्येयाश्चतस्रः पुरुषस्य ताः | अष्टावघोरस्य कलास्समस्ता जगतीपते || हृत्कण्ठोऽम्सौ नाभिकुक्षी पृष्ठं वक्ष इतीरिताः | वामदेवस्य तु कलास्त्रयोदश शिवोदिताः || गुह्योरुजानुजंघास्फिक्कटिः पार्श्वे तथा मताः | सद्योजातस्यतु कला वसुसंख्याः प्रकीर्तिताः || पादौ करौ नासिके च शिरोबाहू च ता मताः | अष्टत्रिंशत्कला देवाः तिणेत्राश्च चतुर्मुखाः || वराभयपरश्वेणविलसत्करपङ्कजाः | तत्तद्ब्राह्य समाकारवर्णायुधभृतोऽथवा || एतेषां वामभागेषु शशिन्याद्याश्च शक्तयः | पाशांकुशाभयवरैर्ध्यातव्यास्सुस्मिताननाः || श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान् | प्रभोरवयवान्ध्यायेत् न्यासविन्यासवर्त्मना || स्मरेत्सशक्तिकान् रुद्रानर्धनारीश्वराकृतीन् | सिन्दुरकांचनप्रख्य वामदक्षिणपार्श्वकान् || पाशाङ्कुशाक्षवलय वरमुद्राविराजितान् | प्रसन्नवक्त्रकमलान् विश्ववांछितदायकान् || कामिकं पादकमलं योगजं गुल्फयोर्युगम् | चिन्त्यं पादांगुलीरूपं कारणं प्रसृतिद्वयम् || अजितं जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः | गुह्यबीजात्मकं सूक्ष्मं सहस्रं भ्रुकुटीतटम् || पृष्ठभार्गोऽशुमानस्य नाभिश्रीसुप्रभेदकम् | प्. ५९) विजयं जठरं प्राहुर्निश्वासं हृदयात्मकम् || स्वायम्भुवं स्तनद्वंद्वमनलं लोचनत्रयम् | वीरागमः कण्ठदेशो रौरवं श्रवणद्वयम् || मकुटं मकुटं तन्त्रं बाहवो विमलागमः | चन्द्रज्ञानमुरश्शंभोर्बिंबं वदनपङ्कजम् || जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्द्वयम् | सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयम् || यज्ञोपवीतं शर्वोक्तं हारस्रक्पारमेश्वरम् | किरणं रत्नभूषास्य वातुलं वसनात्मकम् || एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् | शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् || विशुद्ध शिवसादाख्यं विद्युद्बृन्दमिवांबरे | विश्वतस्फुरित ज्योतिर्विद्यादूर्ध्वं मुखं विभोः || अमूर्तिमथ सादाख्यं मूलस्तम्भ इति श्रुतम् | ज्योतिस्तम्भमयं लिङ्गं स्मरेदस्योत्तरं मुखम् || ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम् | मूर्तिस्नादाख्यमित्युक्तं ध्यायेत्पश्चिममानकम् || शूलञ्च परशुं वज्रमभीतिं दक्षिणैः करैः | पाशं वह्निं च घण्टां च वरं वामैः करैरपि || दधानं कर्तृसादाख्यं चतुर्वक्त्रांबुजोज्वलम् | लिङ्गमध्ये समुद्भूतं संस्मरेद्दक्षिणाननम् || पञ्चवक्त्रं दशभुजं पीठं लिङ्गे समुद्गतम् | प्रसिद्धं कर्तृसादाख्यं पुरारेः पूर्वमाननम् || प्. ६०) पञ्चब्रह्माण्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिमान् | वक्त्रपद्मान्विभोर्ध्यायेदीशान प्रभृति क्रमात् || हृदयं हृदये शुभ्रं शिरश्शिरसि पिङ्गलम् | शिखां शिखापदे रक्तां कवचं पार्श्वयोः स्थितम् || नेत्रे तु श्यामलं नेत्रं करेऽस्त्र मसितं स्मरेत् | चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः || वराभये कपालञ्च शूलश्च दधतं करैः || अङ्गदेवाः स्मृतास्सौम्यनेत्राग्रेतूग्रविग्रहे | त्रिशूलस्त्रिगुणः प्राहुः परशुस्सत्यनिष्ठिताः || खड्गप्रतापोवज्रश्च शंभोश्शक्तिरभेद्यता | वह्नेस्संहारिणी शक्तिः शक्तिर्नागे प्रधृष्यता || मलमाया कर्मपाशो घण्टानादस्वरूपिणी | अभयं पालिनी शक्तिर्नियमंत्वंकुशं विदुः || इच्छाज्ञानक्रियारूपा स्त्रिशूलं शक्तयोमताः | उक्तास्ता एव खट्वाङ्गं शुद्धतत्त्वप्रवर्तिका || बीजपूरमिति प्रोक्ता जगद्बीजप्रवर्तिका | डमरुक्षोभसंपन्नमायातत्वप्रवर्तिका || काकोदरः कला मुख्या कार्यजातप्रवर्तिका | मनःप्रवर्तिकाशक्तिरिन्दीवरतया मता || अक्षमाला तु सा ज्ञेया इन्द्रियाणां प्रवर्तिका | शक्त्यायुधात्मिका शक्तिर्दुष्टसंहारकारिणी || वरो भोगप्रदा शक्तिरभयं मोक्षदायिका | इत्थं दशायुधधरं कोटिशीतांशुशीतलम् || प्. ६१) द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् | षड्त्यंगुलपरिच्छिन्नजटामकुटमण्डितम् || तत्सव्यकोटिविन्यस्तत्र्यंगुलार्धेन्दुशेखरम् | तद्वामकोटिविश्रान्तबिद्वाकृत्यमरापगम् || त्रिपुण्ड्रार्धेन्दुभूयन्त्रदीपचन्द्राकृतिं क्रमात् | ईशानाद्यैर्मुखं पुण्ड्रान्धारयन्तमजांतिमैः || ध्यायेत्तद्वामभागे तु दिव्यरूपां मवोन्मनीम् | जपाकुसुमसङ्काशां शुभ्रवस्त्रविभूषिताम् || सर्वाभरणसंपूर्णां पीनोरुजघनस्तनीम् | सहस्रपद्मनीलाब्जवरदाभयधारिणीम् || एवं मनोन्मनीयुक्तं साक्षाद्देवं सदाशिवम् | लिङ्गेऽपि भावयन्नग्रे लिङ्गबुद्धिं परित्यजेत् || नेत्रत्रयेषु विन्यस्य हौं नेत्रेभ्य इति क्रमात् | आवाहयेत्परशिवं सदैवं हृदयांबुजे || अथावाहनक्रमः - अप्रमेय मनिर्देश्य मनूपम मनामयम् | सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् || भवन्तं भवताऽदिष्टो मन्त्रेणाभिनमाम्यहम् || इति विज्ञाप्य ऋजूर्ध्वकायो मनश्चक्षुर्निरोधनपूर्वकमिडया वायुमापूर्य कुंभकं कृत्वा हृदि पुष्पसंपूर्णमञ्जलिं निधाय दृढमावाहनमुद्रां बद्ध्वा स्वशरीरे मूलाधारस्थितं मन्त्रमयं परमशिवं ज्योतिस्समाकृष्य मूलाधारप्रभृति स्थितं हकारमतिलंघ्य हृदयपर्यन्तं नीत्वा हृत्कण्ठतास्वादिस्थानस्थित पृथिव्यादिपाशजालब्रह्मादिकारणेश्वरसहिताकारादिद्वादशक- लाश्च क्रमेण तत्तदनुसन्धानपूर्वकमतिलंघ्य द्वादशान्तपर्यन्तमुच्चारयन्नेव पुष्पाञ्जलिमपि द्वादशान्तपर्यन्तं नीत्वा मन्त्रमयं ज्योतिर्द्वादशान्तस्थितपरमशिवेन संयोज्य अविश्रान्तं (प्. ६२) परमामृतस्यन्दिबिन्दुरूपं तत आनीय भ्रूमध्यगतशिवमण्डपविश्रान्तं संभाव्य शरदिन्दुसहस्रवद्भाव्य हृद्देशेऽञ्जलिं धारयन् वायुमपि पिङ्गलया विरेव्य वायुना सह परमशिवं ज्योतिः पुष्पाञ्जलिमध्यप्रापितं विभाव्य हां हौं शिवायनम इति सदाशिवस्य ब्रह्मरंध्रे योजयेत् | उक्तार्थविशदीकरणाय मूलमन्त्र तदीयहकार तत्कलाद्वादशस्थानानि प्रदर्श्यन्ते || यद्देहमध्यस्थानं मूलाधारं ततः प्रभृति ब्रह्मरन्ध्रपर्यन्तं तालचतुष्टयप्रमाणं देहान्तर्गतम् | तत- ऊर्द्ध्वं तालप्रमाणं शिखास्थानम् | तत्र मूलाधारस्थितचतुर्दलकमलकर्णिकायां प्रासादमन्त्रस्योत्थानम् | ततः प्रभृति नाभिपर्यन्तं मृणालसूक्ष्मो विद्युत्प्रभो हकारः | नाभेरूर्ध्वं द्वादशांगुलपर्यन्तं विद्युद्द्युतिरकारयुक्तो हकारः | ततः पञ्चचतुरंगुलप्रमाणं हृत्पद्मम् | तत आरभ्य शिखाग्रपर्यन्तं द्वादशकलास्थानानि | तत्रचतुरंगुल व्याप्तिमानौकार स्त्रिमात्रस्समूढांगारपुञ्जद्युतिः | स च निवृत्तिकलया पृथिव्यादिप्रकृत्यन्तैः चतुर्विंशतितत्वैश्च सहितेन ब्रह्मणाऽधिष्ठितः | तदूर्ध्वं कण्ठस्थानस्थिताष्टांगुलप्रमाण षोडशदलपद्मव्याप्तिमा नूकारः द्विमात्रस्समसमयसमुदितचन्द्रसूर्यद्युतिः | स प्रतिष्ठाकलया पुरुषादिकालान्तैष्षड्भिस्तत्वैश्च सहितेन विष्णुनाऽधिष्ठितः | तदूर्ध्वं तालुमूलस्थितचतुरंगुलप्रमाणचतुर्दलपद्मव्याप्तिमान्मकारः एकमात्रो विद्युद्वर्णः | स विद्याकलया मायातत्वेन च सहितेन रुद्रेणाधिष्ठितः | तदूर्ध्वं भ्रुमध्यस्थितद्व्यंगुलप्रमाणद्विदलपद्मव्याप्तिमान् बिन्दुवृत्ताकारोऽर्द्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्वाभ्यां च सहितेन महेश्वरेणाधिष्ठितः | तदूर्ध्वं ललाटमध्ये अर्धमात्रा ऊर्द्ध्वाग्रा अर्धचन्द्राकृतिः पादमात्रा? चन्द्रवर्णा | तदूर्ध्वं ललाटे निरोधी सचोर्ध्वाग्रत्रिकोणाकृति रष्टांशमात्त्रो धूम्रवर्णः | तदूर्ध्वं शिरसि नादः | स दण्डाकृतिरुभयतोबिन्दुद्वययुक्तः षोडशांशमात्रो माणिक्कवर्णः | ततोब्रह्मरन्ध्रे नादान्तः (प्. ६३) स दक्षिणामुखहलाकृतिः दक्षिणपार्श्वस्थबिन्दुयुक्तः द्वात्रिंशात्ममात्रो विद्युद्वर्णः | एवं बिन्दुस्थानात् भ्रूमध्या दैकादशांगुलस्थितब्रह्मरन्ध्रपर्यन्ते स्थाने स्थितानामर्धचद्रनिरोधि नादनादान्तानां चतुर्णामपि शान्त्यतीतकला सदाशिवतत्वाभ्यां च सहितस्सदाशिव एवाधिष्ठाता | ब्रह्मरन्ध्रादूर्ध्वमेकांगुलस्थानस्थिता शक्तिस्सर्वमुखहलाकृतिर्वामपार्श्वस्थविन्दुसहिता चतुष्षष्ट्यंशमात्रा | ततः त्र्यङ्गलस्थाने स्थिता व्यापिनी त्रिशूलाकृतिर्दक्षिणपार्श्वस्थबिन्दुसहिताऽष्टाविंशत्यधिकशतां- शमात्रा | तदूर्ध्वं चतुरङ्गुलसमानबिन्दुद्वयान्तर्गतकुब्जरेखायुगलान्तरालस्समंजुरे खामधिषट्पञ्चाशदधिक द्विशततमांशमात्रा | तदूर्द्ध्वं चतुरंगुलस्थितोन्मनीबिन्द्वधिष्ठानकतदूर्ध्वप्रसृत दण्डाकाररेखात्मिका मनोमात्रा | अत्र ब्रह्मरन्ध्रादूर्ध्वमेकत्रिचतुरंगुलक्रमेण द्वादशागुलपर्यन्तशिखास्थाने उपर्युपरि स्थिताश्शक्तिव्यापिनीस्समनोन्मनीश्शतकोटिसूर्यप्रभाः अनाहतशिवेनाधिष्ठिताः | ताश्च चतस्रोऽपि मिलिताः परमाकाशा उच्यन्ते | एवमकारश्चतुरंगुलः | उकारोऽष्टांगुलः | मकारश्चतुरंगुलः | बिन्दुर्द्व्यंगुलमर्धचन्द्रनिरोधि नादनादान्ता एकादशांगुलं शक्ति व्यापिनी समनोन्मना द्वादशांगुलव्याप्नुवत्येकचत्वारिंशदंगुलं द्वादशानामपि कलानां व्याप्तिस्थानम् | ततश्च मूलाधारात् द्वादशान्तपर्यन्त मुक्तमानेषु तत्तत्स्थाने हकारमकारयुक्तहकार मौकारमूकारं वृत्ताकारं बिन्दुमूर्द्धाग्रार्धवृत्ताकारमर्धचन्द्र मूर्ध्वत्रिकोणाकारं निरोधिनं बिन्दुद्वयमध्यगतदण्डाकारं नाददक्षिणपार्श्वस्थित बिन्दुसहितोर्ध्वाग्र दक्षिणामुखहलाकारं नादान्तं वामपार्श्वस्थितबिन्दुसहितोर्ध्वाग्रवाममुखहलाकारां शक्तिं दक्षिणपार्श्वस्थितां बिन्दुसहितोर्ध्वाग्रत्रिशूलाकारां व्यापिनीं बिन्दुद्वयान्तरालगतकुब्जरेखाद्वयमध्यस्थित ऋजुरेखाकृतिं समानां बिन्द्वधिष्ठानकोर्ध्वाग्र ऋजुरेखाकृतिमुन्मनां च हृदयादिस्थानस्थितकलातत्वकारणेश्वरैस्सह (प्. ६४) क्रमेण पूर्वपूर्वत्यागेन झटिति मनसा विचिन्त्य तदुपरि परमाकाशसरित्समुद्भूतकोटिसूर्यसमप्रभ कोटिशीतांशुशीतलाष्टत्रिंशत्कलात्मक केसरोज्वल प्रणवकर्णिकापञ्चाक्षरबीजाढ्य परमानन्दमधुभरित मुक्तभृङ्गनिषेवित चिच्छक्तिरूप सहस्रदलकमलमध्यगतं सद्यस्समुद्यदनेककोटि शारदशशाङ्कसङ्काशप्रकाशं परमानन्दजलधिं निष्कलं परमशिवं मनसाऽवगाहेत | एवं भावनापुरस्सरं परमशिवं मूलेनानीय हृदयमन्त्रेणावाहनमुद्रया सदाशिवहृदयांबुजंप्रापप्यास्थापनमुद्रयातस्मिं संस्थाप्य सन्निधानमुद्रया स्वामिमुखीकृत्य स्वागतंते महादेवेति विज्ञाप्य वत्स सुस्वागतमितिदेवेनोक्तं मनसा विभाव्य स्वागतार्घ्यं दत्वा सन्निरोधनमुद्रया सन्निरुध्य स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् | तावत्वं प्रीतिभावेन लिङ्गेऽस्मिन्सन्निधी भव इति हृद्यंजलिबन्धपूर्वकं संप्रार्थ्य शिवस्यानुमतिं भावयित्वा निरोधार्घ्यं प्रदाय कालकण्ठ्या हुंफडन्तास्त्रेण विघ्नानुत्सार्य शिवं कवचेनावकुण्ठ्य हृदयशिरश्शिखाकवचानि तत्तन्मन्त्रैर्देवस्य हृदयादिस्थानेषु विन्यस्य हृदयादिकराङ्गविन्यासरूपसकलीकरणानन्तरं पुष्पमारोप्य मूलेन परमीकृत्य धेनुमुद्रयाऽमृतीकुर्यात् | अत्रावाहनं शिवस्य सदाशिवदेहप्रापणम् | स्थापनं सदाशिवस्य हृदंबुजे स्थापनम् | सन्निधापनं स्वाभिमुखीकरणं | सन्निरोधनं यावत्पूजासमाप्ति सन्निधानप्रार्थनम् | अवकुण्ठनं भक्तेषु प्रकाशार्थं विघ्नानामप्राप्त्यर्थं च कवचेनाच्छादनम् | सकलीकरणं हृदयादिपञ्चाङ्गन्यसनम् | परमीकरणं शुक्लपीतरक्तासितरक्तवर्णानां हृदयादीनां शिवैकत्ववर्णानुसंधानम् | अमृतीकरणं विग्रहस्य शिवस्यचाभेदेन प्रतिपत्तिः | ननु विश्वव्यापकस्य शिवस्य कथमभिमतदेशप्रापणरूपमावाहनमुच्यते | अचिन्त्याद्भुतानन्तशक्तिवात्म?शिवस्यव्यापकत्वमव्यापकत्व मप्यस्तीति तच्छिवस्य देशान्तरप्रापणरूपमुपपद्यते | यद्वा- व्यापकस्यापि (प्. ६५) जीवस्य शरीरावच्छेदोपाधिकत्वमिवशिवस्यापि मन्त्रतैजोवच्छेदोपाधिवदभिमतदेशान्तरप्राप्तिर्नविरुध्यते | अथवा दारुणिव्याप्तस्याग्नेर्मथनक्रियया क्वचिदभिव्यंजनवदभिमतदेशप्रापणभावनारूपया क्रियाया शिवलिङ्गाभिमतदेशे शिवस्याभिव्यञ्जनमेवावाहनम् | ननु सर्वत्र नित्योदितचिदानन्दप्रकाशरूपस्य परमशिवस्य किमिदमभिव्यञ्जनमुच्यते | यथा स्वयं प्रकाशमानस्याप्यंगारवह्निपुञ्जस्य भस्मच्छन्नस्य भस्मनिरासकफुत्कारक्रिययाऽभिव्यञ्जनं एवं स्वयंप्रकाशमानस्यापि परमशिवस्य पूजकमनसोविषयान्तरेषु मनोव्यापारेण तं प्रति च्छन्नस्यानन्यमनस्कविहितावाहनक्रियापूर्वकमभिमतदेशे लिङ्गादौ यावद्विसर्जनं कर्तव्यस्य तत्तदुपचारसमर्पणार्थ मनुसन्धानसन्तानस्योक्रमणमेवाभिव्यञ्जनम् | अथवा शिवपुराणोक्तप्रकारेण सदाशिवहृदयांबुजे परशिवस्योमासहायचिदानन्दमयदिव्यविग्रहाविर्भावभावनैवावा हनम् || तत्प्रकारः प्रदर्श्यते || लिङ्गे सदाशिवं ध्यात्वा निश्चलेनान्तरात्मना | अष्टत्रिंशत्कलान्यासं कृत्वा स्वस्यां तनौ यथा || अभ्यर्च्य गन्धपुष्पाद्यैस्त्यक्त्वा लिङ्गात्मतामतिम् | तस्यां मूर्ती मूर्तिमन्तं शिवं परमकारणम् | प्राणस्थानं सदेशस्य चिन्तये दंयया सह || ब्रह्माविष्णुश्च रुद्रश्च तथाऽन्ये च सुरासुराः | तपोभिरुग्रैरद्यापि यस्य दर्शनकांक्षिणः || यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् | सह भूतेन्द्रियैस्सर्वः प्रथमं संप्रसूयते || कारणानां च योधाता ध्याता परमकारणम् | न संप्रसूयतेऽन्यस्मात्कुतश्चन कदाचन || प्. ६६) सर्वैश्वर्येण संपूर्णो नाम्ना सर्वेश्वरस्स्वयम् | सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगाः || सर्वोपरि कृतावासस्सर्ववासश्च शाश्वतः | षड्विधांध्वमयस्यास्य सर्वस्य जगतः पतिः || उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः | अनन्तमहिमांभोधि रपरिच्छिन्नवैभवः || अशेषविषयामोघशुद्धबुद्धिविजृंभणः | आत्मशक्त्यमृतास्वादप्रमोदभरलालसः || अनन्तानन्दसन्दोहमकरन्दमधुव्रतः | अखण्डजगदण्डानां पिण्डीकरणपण्डितः || औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः | अतुलस्सर्वभूतानां राजराजो महेश्वरः || अप्राकृतशरीरं त मतिमन्मथरूपिणम् | घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् || सर्वलक्षणसंपन्नं सर्वावयवशोभनम् | रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् || शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् | चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् || वरदाभयहस्तं च मृगटंकधरं हरम् | सर्वोपमानवर्गस्य दवीयांसं विभावयेत् || ततस्संचिन्तयेत्तस्य वामभागे महेश्वरीम् | उत्फुल्लोत्पलपत्राभविस्तीर्णायतलोचनाम् || प्. ६७) पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्द्धजाम् | नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् || अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् | तनुमध्यां पृथुश्रोणिं वीतसूक्ष्मतरांबराम् || सर्वाभरण संपन्नां माणिक्यतिलकोज्वलाम् | विचित्रपुष्पसंकीर्णकेशपाशमनोहराम् || सर्वतोनुगुणाकारां किंचिल्लज्जानताननाम् | हेमारविन्दं विकसद्दधानां दक्षिणे करे || दण्डवच्चापरं हस्तं न्यस्वासीनां सहासने | भुक्तिमुक्तिप्रदां देवीं सच्चिदानन्दरूपिणीम् || सदाशिवेश्वरहरश्रीशद्रुहिणमातरम् | समस्तगौरीलक्ष्यादिशक्तिचक्रस्य नायिकाम् || एवं देवं च देवीं च विचिन्त्य द्व्यष्टहायनौ | भक्त्योपचारवर्गेण क्रमेण परिपूजयेत् || एवं सदाशिवस्य हृदयांबुजे सांबशिवविग्रहाविर्भावनापक्षे तस्य सदाशिवहृदयांबुजे अवस्थापनं स्वाभिमुखीकरणम् | इत्यादि सर्वमुपपद्यतेतराम् | शरीरशरीरिणोरभेदप्रतिपत्तिरूपममृतीकरणं तु सांबशिवविग्रहाविर्भावपक्ष एवोपपद्यते | स्वाभिमते लिङ्गादावायाहिते सदाशिवविग्रहे पूजार्थमभिव्यक्तिं प्रार्थयमानस्य पूजकस्यानुग्रहार्थं शिवाभिन्नसच्चिदानन्द एवाचिन्त्याद्भुततदीपशक्तिमहिम्ना करकमौक्तिकाद्याकारेण जलबिन्दुरिव सकलावयवसंपूर्णसांबशिवविग्रहाकारेणाभिव्यज्यत इति शिवपुराणादिमर्यादा | एवं चिदानन्दाकारपरमशिवविग्रहप्रभाधवलितरूपादेव नानावर्णाष्टत्रिंशत्कलामयस्यापि सदाशिवविग्रहस्य स्फटिकवर्णत्वभावनोपपद्यते | (प्. ६८) सदाशिवस्य तत्पुरुषादिवक्त्रणां पीतनीलसितारुणवर्णत्वं तु पूर्वादिदिक्पतीनामिन्द्रयमवरुणकुबेराणां तत्तत्कार्योपयोगिपीतनीलसितारुणवर्णस्थिरीकरणार्थं तत्तद्वर्णानुकरणप्रयुक्तम् | एवंरूपे परमशिवस्यावाहने क्रियमाणे ऊर्ध्वाभिमुखस्य सदाशिवेशानवक्त्रस्य तत्पुरुषवक्त्रवदाविसर्जनं प्राङ्मुखत्वं भावनीयम् | आवाहनाद्यमृतीकरणान्तसंस्कारं सांबसदाशिवविग्रहाभिव्यक्तिपक्षे सदाशिवमूर्तिमध्य एव कर्तव्यम् | तत्रैव परमशिवस्यांविकायाश्च प्रत्येकं पदार्थानुसमयक्रमेण पाद्याद्युपचाराश्च कर्तव्याः | सदाशिवमूर्तौ परमशिवचैतन्यमात्रावाहनपक्षे तदावाहनान्तरं पाद्यादि | मनोन्मनीमूर्तौ अंबिकां चावाहनादिभिस्संस्कृत्य पाद्याद्युपचारैः पूजयेत् || पाद्यादिप्रकारः || वामहस्तेन सत्रिपदीकं पाद्याचमनार्घ्यपात्रमुत्क्षिप्य पाद्यमीश्वरतत्वान्तमाचमनं सदाशिवतत्वान्तमर्घ्यं शिवतत्वान्तञ्च विभाव्य पाद्यादिकं पूजकस्येश्वरसदाशिवतत्वप्रापकं च ध्यात्वा मूलाधारा दुत्थितं प्रासादादिमन्त्रं पाद्यादिक्रमेण भ्रूमध्यब्रह्मरन्ध्रद्वादशान्तपर्यन्तमुच्चरन्तं विभावयन् हां हौं शिवायेति मन्त्रक्रमेण नमस्स्वाहास्वधान्तमुच्चारयन् सद्योजातादिक्रमेण सपुष्पेणोत्तानेन दक्षिणकरांगुष्ठमध्यमानामिकाग्रेण श्रीपादयोस्सव्यवामक्रमेण पाद्यं मुखेषु तत्पुरुषादिक्रमेणाचमनं मूर्धस्वीशानादिक्रमेणार्घ्यं च दद्यात् | सुगन्धि पुष्पं ज्ञानमयं शिवसायुज्यहेतुं च ध्यात्वा मन्त्रं द्वादशान्तोपरिस्थितशिवपर्यन्तमुच्चरन्तं विभाव्य वौषडन्तमन्त्रेण मूर्द्धस्वीशानादिक्रमेण निवेदयेत् | अंबिकाया अपि पाद्यादिकं तंत्रतत्रैव समये पदार्थानुसमयेन दद्यात् | एवं गन्धादिष्वपि द्रष्टव्यम् | तत्र शिवयै नमश्शिवायै स्वधेत्यादयो मन्त्रा इति विशेषः | ततः स्वाहान्तमूलेन (प्. ६९) धूपदीपौ पूर्वोक्तप्रकारेणाचमनार्घ्ये च शिवाभ्यां दत्वा अस्त्रमन्त्रेणापि वस्त्रेण पिण्डिकाधोभागं वामहस्तेन स्पृशन्नेव दक्षिणहस्तेन पुष्पं गृहीत्वा तेन पुष्पेण पूर्वार्चितमपोह्य तत्पुरुषं च विसृज्य पूर्वोक्तप्रकारेणाभ्यङ्गादिकं सर्वं मनसा विभाव्य हां शिवतत्वायनम इति अर्घ्योदकबिन्दुना संस्नाप्य पूर्ववत्पाद्याचमनार्घ्याणि दत्वा स्वाहान्तमूलेन वस्त्रद्वयमुपवीतद्वयं च सा चमनं दत्वा हामात्मतत्वाधिपतये शिवायनमः | हां विद्यातत्वाधिपतये शिवाय नमः | हां शिवतत्वाधिपतये शिवायनमः इति पुष्पाञ्जलित्रयं शिवायै नम इति देव्यै पुष्पाञ्जलिञ्च कृत्वा संभावितैर्मनसा विभावितैश्च हेमांबरकटकमकुटकर्णिकाङ्गदकेयुरादिभिराभरणैर्नमोन्त- मूलमन्त्राभ्यामलङ्कृत्य गन्धपुष्पाणि समर्पयेत् | तत्र गन्धं हिमजलघृष्टसमभागगोरोचनाकुङ्कुमचन्दनैलाकर्पूरकृष्णागरु दारुकुष्ठकस्तूरिकाक्षोदोवा | समभागचन्दनागरुकर्पूरकुंकुमपत्रजलोशीरक्षोदोवा | समभागेनतदर्धेन तदर्धेनवा कर्पूरेणयुक्तचन्दनागरुकुष्ठकुकुंमक्षोदोवा | समभागचन्दनागरुकर्पूरकुकुमं क्षोदोवा | समभागचन्दनकर्पूरमृगमदकुकुंमक्षोदोवा | फलस्य निष्कप्रमाणांशेन यथासंभवमात्रेण कर्पूरादियुक्तचन्दनक्षोदोवा | केवलचन्दनक्षोदोवा | केवलबिल्वखण्डक्षोदोवा | केवलकृतमालखण्डक्षोदोवा | सर्व एव गन्धाश्शिवस्याति प्रियकराः | केवलजलघृष्टकेवलदेवदारुगन्धोऽपि कल्पपर्यन्तं शिवलोकप्राप्तिकरः केवलबिल्वखण्डोऽपि अत्र महदैश्वर्यंप्रदाय परत्र शिवप्राप्तिकरः | केवलकृतमालगन्धोऽपि दीर्घमायुः प्रदाय परत्र गाणापत्यप्राप्तिकरः | एवंभूताश्चन्दनगन्धाः फलतोद्विगुणाः | शुक्लागरुश्चन्दनात् षट्गुणः | ततः कृष्णागुरुर्द्विगुणः | तस्माच्चतुर्गुणं कुंकुमम् | तत्र प्राग्गणितप्रकारेण कर्पूरादियोगेन भूयान्विशेषः | एवंभूतेषु गन्धेषु संपन्नं गन्धमर्घ्यपात्रोक्तलक्षणपात्रे निधाय देवस्यानुलेपनोचितानि ललाटादीन्यङ्गानि (प्. ७०) भावयन् लिङ्गपीठिकापर्याप्तं लिङ्गपर्याप्तं यथालब्धं वा गन्धं हृदयमन्त्रेण समर्पयेत् | ततो विंशत्यंगुलविस्तारे अष्टांगुलोत्सेधे अष्टांगलोत्सेधविस्तारपादे पार्श्वद्वयगताष्टांगुलनाले नालपादरहितपिधानसंयुते तदर्धप्रमाणे वा सुवर्णादिमये पत्रादिरचिते वा पात्रे निहितैर्मुकुलपतितशीर्णाघ्रातसजन्तुकाङ्गसंस्पृष्टलूतातन्तुवेष्टित पर्युषितवस्त्रसमाहृतत्वादिदोषरहितैस्सम्यक्शोधितैः मोचितवृन्तैः प्रशस्तपुष्पैः मूलमन्त्रेण मृगमुद्रयाऽर्चयेत् | प्रशस्तानि च पुष्पाणि द्रोणवत्पुन्नागमंदारनन्द्यावर्त श्रियावर्तकरवीरार्कवकुल कुरवकलोध्रशतपत्र धुत्तूरपलाशपाटलं चंपककृतमालकर्णिकार मुनिमातुलिङ्गार्जुन प्रियंगुदेवदारु तमालाग्निगन्धमरुवकाशोकभद्रापराजिता कतलकल्हार रक्तोत्पलनीलोत्पल कुसुम्भकुंकुम गिरिपुष्पकुशापामार्गभृङ्गराजपूगसरलकोविदार कदम्बाम्रमधूक जम्बूहेमाकुलिगुञ्जामुसलीवेजिकाजाजी मल्लिकापट्टिकामालती लक्ष्मीनिर्गुण्डीविष्णुक्रान्तिकदलीशारिबादेवताली द्विकण्ठी ग्रन्धिपर्णी प्रभृतीनि | एतेषु शुभ्रवर्णानि पुष्पाणि सात्विकानि मुक्तिप्रदानि | अरुणवर्णानि राजसानि भोगप्रदानि | पीतवर्णानि मिश्राण्युभयप्रदानि सर्वकार्यसिद्धिकराणि पुत्रपौत्रवृद्धिकराणि च | कृष्णवर्णानि निलोत्पलव्यतिरिक्तानि तामसानि वर्जनीयानि | तान्यप्यतसीकूरंड विष्णुक्रान्तादीनि विशेषविहितानि पुष्टिप्रदानि | तत्र सर्ववर्णानि पुष्पाणि समाहृत्याभ्यर्चनमुत्तमम् | कृष्णवर्णैर्विना मध्यमम् | सितरक्तादिभिर्वर्णैरेकवर्णैश्च पुष्पैरर्चन मुत्तरोत्तरं कनिष्ठम् | मालिकास्तु प्रत्येकमेकैककवर्णैः पुष्पैर्निर्मिताः श्रेष्ठाः | अनेकवर्णपुष्पनिर्मिता मध्यमाः | पत्रपुष्पनिर्मिताः कनिष्ठाः अर्क करवीरपुष्प बिल्वपत्र गन्धपत्रिका पुण्डरीक शतपत्र सहस्त्रपत्र बक धुत्तूर द्रोणापामार्ग कुश शमी कृतमाल शङ्ख व्याघ्री सदाभद्रा कृष्णानि निर्गुण्डी (प् ७१) बृहती श्वेतार्क बृहद्द्रोण नीलोत्पलान्युत्तरोत्तरं सहस्रगुणफलानि | तत्रार्कपुष्पं दशसुवर्णदानतुल्यम् | नीलोत्पलं सहस्र सुवर्णपुष्पार्चनतुल्यम् | तुलसी कृष्णतुलसींद्रवल्ली विष्णुक्रांती श्यामा प्रियंगुनृपपुण्ड्रपुष्पादीनि अर्कसमानानि | नन्द्यावर्तविजयंशतपत्र मन्दार चूतमधुक श्वेतगिरिकर्णीमालती कदली शारिबादिपुष्पाणि करवीरसमानि | लक्ष्मी सहदेवी नागदंति चंपकादीनि बिल्वपत्रसमानि | पाटलवकुलादीनि पद्मसमानि | जातिमल्लिका मधूर शङ्खनाग सूर्यावर्त सिंहकेसर महाभद्रादिपुष्पाण्यपामार्गसमानि | जपा कदम्ब पुन्नाग पुष्पादीनि द्रोणसमानि | अशोकश्वेतमन्दारपुष्पाणि यवगोधूम नीवार शालिवेणु तिलक मुद्गनिष्पावोशीरमापांकुराणि सप्तदिनप्रवृद्धानि च कृतमालपुष्पसमानि | वज्रपद्मरागमरकतमौक्तिकेन्द्रनील महानील सूर्यकान्तेन्दुकान्तानि पुष्पाणि सहस्रसुवर्णपुष्पाणि करवीरनीलोत्पलसमानि | नीलोत्पलं सर्वोत्तममिति सर्वागमसिद्धम् | क्वचिदागमे करवीरमन्यत्र वकपुष्पमपरत्र गिरिपुष्पं सर्वोत्तर मित्युक्तम् | पद्मं सर्वोत्तममिति केचित् | कालविशेषेण पुष्पविशेषप्राशस्त्यम् | यथा - कदम्ब चम्पक कल्हार पुन्नाग कुश बृहती पुष्पाणि वसन्त ऋतौ शिवपूजायामश्वमेधफलप्रदानि | ग्रीष्मे पाटली मल्लिकाशतपत्रपुष्पाणि अग्निष्टोमतुल्यानि | प्रावृषि कमल मल्लिकापुष्पाण्यश्वमेधसदृशानि | शरदि धुत्तूर कल्हार सुजात नीलोत्पलानि सत्रयागफलप्रदानि | हेमन्ते करवीर सुजातनीलोत्पलानि शतक्रतुसमानि | शिशिरे कर्णिकारपुष्पं सर्वक्रतुफलप्रदम् | तथा ज्येष्ठादिषु द्वादशसु मासेषु अर्कबिल्वापामार्ग द्रोणनीलोत्पल पङ्कजकृतमाल बृहती व्याघ्र शमी चम्पक पाटली पुष्पाणि प्रशस्ततमानि | तथा नन्द्यावर्त श्रियावर्तश्वेतार्क श्वेतकमल पलाश पुन्नाग मालती पट्टिकारक्तागस्त्य वकुल लक्ष्मी द्विकण्ठी वेजिकापाटल पलाशाशोक कदली शंखिनी पुष्पाणि प्रातःकालपूजायां प्रशस्ततमानि | (प्. ७२) द्रोणकरवीर कृतमाल धुत्तूर व्याघ्री बृहती पाटलकमलोत्पल चंपककुरण्डपुष्पाणि मध्याह्नपूजायां | चम्पकधुत्तूरमालतीमल्लिकावेजिकबलकर्णिसहभद्रा भद्रामसल्यतसीशमीशंखपुष्पाणि गन्धपत्रञ्च सायङ्कालपूजायां | जाती नीलोत्पलकनककदम्ब स्थलकमल केतकपूग पुन्नाग दन्ति ह्रीबेरं बिल्वपत्रं चार्धरात्रपूजायाम् | कदम्बकनक जातीपुष्पाणि रात्रावेवसमर्पणीयानि | माधव्यानन्दयूधिका मदयंतिका शिरीषसर्ज बन्धूक विहितकुमुद डाडिम लाङ्गली श्रीपर्णी कार्पास निम्ब कूश्माण्ड शल्मली शिन्दितवोट गिरिवट मत्स्याक्षि कपित्थतिंतृणी पुष्पादीनि वर्जनीयानि | केतकीनिषे धोऽर्धरात्रव्यतिरिक्तविषयः | कदम्बनिषेधो दिवाविषयः | गिरिकर्णिकानिषेधोनीलगिरिकर्णिकाविषयः | किंशुकनिषेधः कण्टककिंशुकविषयः | एवं जपावकुलादीनामपि क्वचिद्विहितानामागमान्तरे निषेधस्य फलभेदानु सारिणा पूजाभेदेन वा तत्तत्पूर्याचारप्राप्ततत्तदागमानुसारिपूजाभेदेन वा पूजनीयमूर्तिभेदेन वा व्यवस्था द्रष्टव्या | निषिद्धान्यपि पुष्पाणि मण्टपालंकारादिषु ग्राह्याणि | पत्रेषु बिल्वतुलसी कृष्णतुलसी दर्भ दूर्वापामार्ग करवीर नन्द्यावर्त शमीसहा धातकी विष्णुक्रान्ति भद्रा महाभद्रा जातीजम्बुकबदरोदुंबर चूत पलाशमुनिद्वय टङ्कोलकोरंड गिरिकर्णीद्वय रुद्रवर्णी भूपत्म ह्रीबेर मदनमरुवकद्रोणद्वय सिन्दुवार शंखिनी गोक्षुर वकुल कृतमालादिपत्राणि प्रशस्तानि | पुष्पेषु नीलोत्पलवत्पत्रेषु बिल्वपत्रं प्रशस्ततमम् | तुलसीद्वयं प्रशस्ततरम् | येषां पुष्पाणि प्रशस्तानि तेषां पत्राण्यपि प्रशस्तान्येव | पद्म नीलोत्पल कुटज चंपक जाति करवीर नन्द्यावर्त श्रियावर्तबिल्व बृहतीद्वय पाटलीपुष्प बिल्वपञ्चक तुलसीद्वय दूर्वागस्त्य गन्धपत्राकारं शिवपुष्पपत्रेषु स्वाभिमतं यत्किंचित्पत्रपुष्पाकारं वा सौवर्णपुष्पं पत्रञ्चातिप्रशस्तम् | अञ्जलिपूरकैस्सुवर्णपुष्पैर्विद्यादेहशिवावाहनं अष्टोत्तरशतेन प्. ७३) एकाशीत्या पञ्चाशता पञ्चविंशत्या वा सुवर्णपुष्पैः प्रतिदिनमर्चनं चासङ्ख्येयफलदम् | सुवर्णपुष्पसंपादनाशक्तौ सुवर्णशकलैर्वा रजतपुष्पैर्वाऽर्चनीयम् | सुवर्णपुष्पस्य नास्ति निर्माल्यदोषः | वत्सरादूर्ध्वं तन्निर्माल्यम् | वत्सरादूर्ध्वमपि पञ्चगव्येन संशोध्य पुनरर्चनीयम् | एवं नीलोत्पल पलाश वक्र करवीर गिरिपुष्प बिल्वपत्र तुलसीनामपि नास्ति निर्माल्यत्वम् | पुष्पाणि पत्राणि च स्वारामसम्भवान्युत्तमानि | वन्यानि कृतानि परारामोद्भवानि पूजाकाले याचितानि पुष्पाणि उत्तरोत्तरमपकृष्टानि | देवारामोद्भवानि तु वर्जनीयान्येव | पुष्पालाभे यानि पुष्पाणि शिवार्हाणि तेषांपत्रैरेवार्चनीयम् | पत्राणामप्यलाभे तेषां फलैरर्चनीयम् | फलेषु च बीजपूर जंबीर कदली डाडिमादीन्यर्चनायामतिप्रशस्तानि | फलानामप्यलाभे तिलतण्डुल सिद्धार्थैरर्चनीयम् | कृष्णतिलैश्शिवार्चनं सकलपातकहरम् | एवं मूलमन्त्रेण पुष्पादिभिरभ्यर्च्य हां शिवासनाय नमः | हां हं हां शिवमूर्तये नमः | हां हौं शिवाय नमः | हों ईशानमूर्ध्ने नमः | हें तत्पुरुषवक्त्रायनमः | हुं अघोरहृदयायनमः | हिं वामदेवगुह्याय नमः | हं सद्योजातमूर्तये नमः | इत्यासनमूर्तिं मूलैः पञ्चब्रह्मभिश्चाष्टपुष्पिकयाऽभ्यर्च्य हां हृदयायनमः | इत्यादिभिरंगैरभ्यर्चयेत् | ततो नाम्ना सहस्रेण शतेनवाऽर्चयेत् | तदवसराभावे शर्वाय क्षितिमूर्तयेनमः | भवाय जलमूर्तये नमः | रुद्राय तेजोमूर्तयेनमः | उग्राय वायुमूर्तये नमः | भीमाय अकाशमूर्तये नमः | पशुपतये यजमानमूर्तये नमः | ईशानायसूर्यमूर्तयेनमः | महादेवाय सोममूर्तये नमः | शिवाय नमः | महेश्वराय नमः | रुद्राय नमः | विष्णवे नमः | पितामहाय नमः | संसारवैद्याय नमः | सर्वज्ञाय नमः | परमात्मने नमः | इति नामाष्टकेन वाऽर्चयेत् | प्रभवेनमः | शंभवेनमः | उमापतये नमः इति नामत्रयेण वाऽर्चयेत् | नमोनीलकण्ठायनम इति नाम्नैकेनाभ्यर्च्य (प्. ७४) यथासंभवं पुष्पमालिकाभिरलंकुर्यात् | मालिकाश्च शतादिसुवर्णपुष्परचिताः सहस्रादिनीलोत्पलरचिताः करवीरसितांभोज विजयासितपाटल पुन्नाग श्वेतमन्दार नागकेसर चंपकरचिताश्च प्रशस्ताः | ताश्च विचित्रपुष्पांतररचितमालिकाश्च उमाधारपार्श्वयोस्समृद्धा बद्धव्याः | लिङ्गमौलौ हस्तेमणिसुवर्णानिर्मितं पुष्पनिर्मितं वा एकद्वित्रिचतुरभूमिक मिंडाख्यं प्रवृत्तदाम समर्पणीयम् | एवं पुष्पोपचारानन्तरं धूपदीपोपचारः || तत्प्रकारः - सुवर्णरजतताम्रारकूटान्यतमनिर्मितं चतुरंगुलायतं तदर्धमानोत्सेधमष्टांगुलोष्ठं पश्चाद्भागे पद्मदलाङ्कित द्व्यंगुलकण्ठ द्व्यंगुलोन्नत सुवृत्तखुराकारपादं द्व्यंगुलानाहेन पूर्वोक्तलक्षणपादयुक्तेन वक्त्रनालेन समन्वितं अनेकसुषिरेणैकसुषिरेण वा कमलमुकुलाकृतिना पिधानेनान्वितं धूपपात्रं निर्मलेनांगारवह्निनाऽपूर्य तस्मिन्धूपद्रव्यं निक्षिप्य धूपपात्रंपिधाय निरीक्षणादिभिस्संस्कृत्य गन्धपुष्पैरभ्यर्च्य धूपमुद्रां प्रदर्श्य धूपपात्रं दक्षिणहस्तेनादाय वामहस्ते शुद्धकांस्यनिर्मितां चतुःपञ्चषडंगुलान्यतमोत्सेधां तावदायामां तावन्मानजिह्वां तत्त्रिगुणानाहा मर्धांगुलोष्ठाभुपपट्टिकायुक्तामेकांगुलद्व्यंगुल सार्धद्व्यंगुलशिखरामर्धांगुलकण्ठां त्र्यंगुलानाहां त्रिचतुःपञ्चषडंगुलदैर्घ्यनालामुपरिशूलपद्मवृषभशङ्ख- चक्रान्यतमचिह्नयुक्तां घण्टां घोषयन्नेव देवस्य घ्राणसमीपे ओं हां हौं शिवाय धूपं स्वाहेति धूपं प्रदर्श्य तदुपरि धूपपात्रमुद्धृत्य तद्भ्रामयन्नेव किरीटे बिन्दुद्वयान्वितपार्श्वदण्डाकारं नादं मुखवृत्ते बिन्दुदेहे हकारं बाह्नो रौकारं पादयोरूकारं च धूपपात्रभ्रमणेन भावयेत् || धूपद्रव्यम् - कर्पूरागरु चन्दनतक्कोलजातिफल लवङ्गसिल्हक मांसीमुस्तापत्रचूर्णं यक्षकर्दमाख्यम् | चन्दनागरुकर्पूरैला लवङ्गत्वक्पत्रपुष्प सिल्हक जटामांसीचूर्णं प्राजापत्यनामकम् | चन्दनागरु कर्पूर (प्. ७५) कस्तूरी लवङ्गत्वक्सिल्हक सिता मुस्ताचूर्णं विजयाख्यम् | कर्पूर कृष्णागरुह्रीबेर कुंकुमकुन्दुरूत्तुरुष्कविसचन्दनचूर्णं क्रमादेकद्वित्रिचतुःपञ्चषट्सप्तभागमधुमिश्रं शीतांशुनामकम् | चन्दनागरु कर्पूरसिल्हक सर्जरसकुष्ठमुस्ताचूर्णं कल्याणनामकम् | चन्दनागरुकस्तूरी मुस्तासिल्हक चूर्णममृताख्यम् | तक्कोलपूगकर्पूरजातीफल लवङ्गचूर्णं सुगन्धाख्यम् | एवमादीनि पृथक्पृथङ्नाम्ना प्रसिद्धानि धूपद्रव्याणि | इत्थं चन्दनागरुकर्पूर कुष्ठ गुग्गुलुचूर्णं घृतमधुयुक्तं चन्दनागरुकर्पूरकुष्टचूर्णं शर्कराघृतमधुयुक्तं कर्पूरागरुचन्दननिर्यासचूर्णं कुंकुमा देकचतुष्षट्सप्तभागमगरुनिर्यासचन्दनचूर्णं क्रमादेकद्वित्रिचतुर्गुणमीषत्कर्पूरमिश्रितं मधुयुक्तमगरुचन्दनोशीरचूर्णं मधुयुक्तं कुष्ठचन्दनचूर्णं घृतयुक्तं गुलबिल्वपत्रचूर्णं गुग्गुलुचूर्णंघृतयुक्तं केवलमेव वा गुग्गुलुनिर्यासचन्दनागरुसौगन्धिकान्यतमचूर्णं च धूपद्रव्यमिति || तत्र केवलगुग्गुलुधूपः सप्तजन्मकृतपापहरः | चन्दनधूपस्सर्वपापहरः | सौगन्धिकधूपस्सर्वकार्यार्थसाधकः | कृष्णागरुधूपस्सर्वपापहरः | श्वेतागरुधूपो मुक्तिप्रदः | लाक्षाकस्तूरीधूपः चतुर्वेदाध्यायिसद्ब्राह्मणजन्मप्रदः | घृतमिश्रगुग्गुलुधूपोमासार्धसमर्पितः कल्पकोटिसहस्रपर्यन्तं शिवपुरभोगस्य सार्वभौमजन्मत्वप्रापकः | द्विसहस्रफलंमहिषाक्ष गुग्गुलुधूपः तालवृक्षचूर्णेन सहितः शिवसायुज्यप्रदायकः | ईशानादिमुखपञ्चके क्रमात् शीतारि कृष्णागरु शुक्लागरु सौगन्धिक गुग्गुलुधूपाः प्रशस्ताः || एवं धूपोपचारानन्तरं दीपोपचारः - तस्य पात्रं धूपपात्रोक्तपादनालसहितं त्र्यंगुलप्रमाणं गजोष्ठाकारञ्च | वर्तिका कर्पूरमयीवस्त्रखण्डमयी तंतुखण्डमयी कार्पासमयीवा चतुरंगुलदीर्घा चतुस्त्रिद्व्येकांगुलज्वालानुगुणपरिणाहा कार्या | वस्त्रखण्डादिमयी चेत् उत्तमादिक्रमेण सति (प्. ७५) संभवे कर्पूरागरुचन्दनचूर्णादिगर्भा कार्या | तत्र च कपिलाघृतमुत्तमम् | गवांतरघृतं मध्यमम् | अजाघृतं तिलतैलमधमम् | उष्ट्रमहिष्यादिघृतं वृक्षबीजादिभवं च वर्जनीयम् | यद्वा - गोघृतमात्रमुत्तमम् | अजाघृतं महिषीघृतं च मध्यमम् | पूतिगन्धनिंवकरजेरंडादितैलं वर्जनीयम् | तैलमात्रमधमम् | एवमुक्तलक्षणपात्रविहितवर्त्यारोपितं दीपं निरीक्षणादिभिस्संस्कृत्य पुष्पैरभ्यर्च्य दीपमुद्रां प्रदर्श्य दीपमुद्धृत्य घण्टां घोषयन्नेव हां हौं शिवाय दीपं स्वाहेति नेत्रेषु प्रदर्श्य धूपपात्रवत् किरीटादिपादान्तं तद्वर्णविन्यासभावनया दीपमात्रं भ्रमयेत् | ततश्शिवायाचमनीयमर्घ्यं च दत्वा देवं सन्तुष्टं ध्यात्वा भगवन्नाज्ञां देहि भोगांगानि पूजयामिति विज्ञाप्य आवरणपूजां कुर्यात् || अथ आवरणार्चनम् || पञ्चब्रह्मषडङ्गैश्च प्रथमावरणम् | विद्येश्वरैर्द्वितीयम् | गणेश्वरैस्तृतीयम् | लोकपालैश्चतुर्थम् | तदायुधैः पञ्चमम् | एतानि पञ्चावरणानि शिवासनपद्मस्य कर्णिकायां शिवमभ्यर्च्य तस्यदलमूलेषु दलमध्येषु दलमध्याग्रयोर्मध्येषु दलाग्रेषु तदधोभागेषु च पूजयेत् | यद्वा - शिवासनपद्मदलमूलरूपेषु लिङ्गमूलभागेषु तद्दलाग्ररूपेषु पीठोपरिदेशाग्रभागेषु पीठकण्ठे पीठपादे ब्रह्मशिलास्थानीये पद्मपीठे चार्चयेत् | होमीशानमूर्ध्ने नमः | स्फटिकवर्णं त्रिशूलाभयपाणि मुमासहितमीशानं पूजयामि | हें तत्पुरुषवक्त्राय नमः | कनकवर्णं पीतांबरोपवीतं मातुलङ्गाक्षसूत्रधारिणं गौरीसहितं तत्पुरुषं पूजयामि | हुं अघोरहृदायाय नमः | मेघवर्णं वभ्रुश्मश्रुशिरोरुहं दंष्ट्राकरालवदनं सर्पवृश्चिककपालमालाभरणं खट्वाङ्ग कपालखेटक पाशान्वितवामकरचतुष्टयं त्रिशूलपरशुखड्गदण्डान्वितदक्षिणकरचतुष्टयं गङ्गासहितमघोरं पूजयामि | हिं वामदेवगुह्याय नमः | अरुणमरुणवस्त्रमाल्योपवीतं खड्गखेटधरं गणांबिकासहितं वामदेवं पूजयामि | (प्. ७७) हं सद्योजातमूर्तये नमः | धवलवर्णं धवलस्रग्गन्धभूषणोष्णीपांबरधरं वराभयकर मंबिकासहितं सद्योजातं पूजयामि इति क्रमादीशानेंद्रयमकुबेरवरुणादि दिक्ष्वीशानादितत्तत्पूजावेलायां ऊर्ध्ववक्त्रहृदयगुह्यपादरूप तत्तत्स्थान मंकुशमुद्रयाकृष्य दीपात्प्रवर्तितप्रदीपरीत्याऽभिन्नान्भावयित्वाऽर्चयेत् | ईशानाद्याः पञ्चापि शूलटङ्काभयमनोहरकरचतुष्टया वा ध्यातव्याः | एवमागमान्तरप्रसिद्धान्यपि तेषां ध्यानानि द्रष्टव्यानि | हां हृदयायनमः | हिं श्रिरसे नमः | हुं शिखायै नमः | हैं कवचायनमः | हौं नेत्रत्रयायनमः | हः अस्त्राय नमः | इति चन्द्र चामीकर सिन्दूर भृङ्गविद्युदग्निवर्णान् पद्मासनस्था नर्धेन्दुजटामकुटधारिणश्चतुर्वक्त्रान् प्रतिवक्त्रं त्रिलोचनान् कपालशूलवरदाभयहस्तान् वामिनी नीलिनी चक्रिणी शङ्खिनी खड्गिनी गङ्गिनी शक्तिसहितान् हृदयशिरश्शिखाकवचदेवान् पूजयामीति हृदयशिरश्शिखादितत्तत्स्थानेर्भ्योऽकुशमुद्रयासमाकृष्याग्नेयनैर् -ऋतवायव्येशान कोणस्थदलेषु पूर्वादिचतुर्दला न्यग्रेष्वस्त्रं च पूजयेत् | ईशानदले ब्रह्मस्वीशानं अङ्गेषु नेत्रे शिरसि च क्रमेणोत्तरोत्तरदिक्स्थतया पूजयेत् | अथवा कर्णिकायां देवस्य पुरस्तादीशानं नेत्रञ्च पूजयेत् | नेत्रमस्त्रवद्दिक्षु वा पूजयेत् || अथद्वितीयावरणम् - अनन्ताय भूमिसहितायनमः | सूक्ष्माय स्वाहासहिताय नमः | शिवोत्तमाय स्वधासहितायनमः | एकनेत्राय क्षांतिसहिताय नमः | एकरुद्राय पुष्टिसहिताय नमः | त्रिमूर्ताय श्रीसहितायनमः | श्रीकण्ठाय कीर्तिसहिताय नमः | शिखण्डिने मेधासहिताय नमः | इतिं हेमाग्निमेघ भृङ्गेषु हिम विद्रुम स्फटिकवर्णान् वरदाभयज्ञानरुद्राक्षमालाधारिण स्त्रिणेत्रान् शिवज्ञानावतारकान् स्वस्वशक्तिसहितान् विद्येश्वरान् पूजयामीति पूर्वाद्यैशानादिक्रमाद्दिगिदिक्षु पूर्वादीशानकोणान्तेषु वा पूजयेत् | (प्. ७८) कुण्डलीसहिताय नन्दिकेश्वराय नमः | अरुणवर्णं त्रिशूलाक्षसूत्रवराभयकरं कुण्डलीसहितं नन्दिनं पूजयामि | पद्मिनीसहिताय महाकालाय नमः | पीतकृष्णवर्णं वभ्रुश्मश्रुशिरोरुहं शूलकपालखड्गखेटधारिणं पद्मिनीसहितं महाकालं पूजयामि | ह्रादिनीसहिताय भृङ्गिणे नमः | श्वेतवर्णं निर्मांसविग्रहं दण्डाक्षसूत्रधरशिखं शिवावलोकनतत्परं ह्रादिनीसहितं भृङ्गिगं पूजयामि | भृङ्गिणी सहिताय गणपतये नमः | रत्नाङ्ग पाशांकुश दन्तपक्वाम्रफलधारिणं भृङ्गिणीसहितंगणपतिं पूजयामि | भद्रासहिताय वृषभाय नमः | स्फटिकवर्णं धर्मस्वरूपं शिवध्यानपरं भद्रासहितं वृषभं पूजयामि | देवयानीसहिताय स्कन्दायनमः | कनकवर्णं वालवेषं शक्तिकुक्कुटवराभयहस्तं देवयानीसहितं स्कन्दं पूजयामि | अम्बिकायै नमः | श्यामवर्णां सिह्मवाहनां शूलादर्शकरद्वया मुमां पूजयामि | रूपिणीसहिताय चण्डेश्वराय नमः | भेववर्णं चतुर्वक्त्रं कमण्डल्वक्षसूत्रशूलपरशुधारिणं सर्पकङ्कणोपवीतं रुपिणीसहितं चण्डेश्वरं पूजयामि | इति पूर्वादीशानकोणपर्यन्तमर्चयेत् | यद्वा - वृष नन्दि गणेश महाकल स्कन्द भृङ्गिगौरीचण्डान् नन्दिगणपति महाकाल भृङ्गिवृष स्कन्दगौरी चण्डान्वा पूर्वादिक्रमेणे पूजयेत् | अथवा गौरी चण्डेश्वर नन्दि महाकाल गणेश वृष भृङ्गि स्कन्दावा गौरीचण्डेश्वर महाकाल वृषभ गणेश स्कन्दनन्दि भृङ्गिणोवा उत्तरादिक्रमेण पूजनीयाः || उमावृषभगणपति नन्दीश महाकालभृङ्गि चण्डस्कन्दाः कुबेरशक्र यमवरुण निर्- ऋतिवायवीशानादिदिक्षु वा पूजनीयाः | एतेषां ध्यानभेदाश्च तत्तदागमप्रसिद्धा द्रष्टव्याः || एवं गणेश्वरैस्तृतीयावरणं संपूज्य लोकपालैश्चतुर्थावरणमर्चयेत् | इन्द्राय शचीसहिताय नमः | सुवर्णवर्णमैरावतारूढं वज्रांकुशवराभयपाणिं शचीसहितमिन्द्रं पूजयामि | अग्नये स्वाहासहिताय नमः | रक्तवर्णं (प्. ७९) कमण्डल्वक्षसूत्रशक्तिवरमुद्रान्वितं मेषारूढं स्वाहासहितमग्निं पूजयामि | यमाय कालकंठीसहिताय नमः | कृष्णवर्णं दण्डपाशवराभयवारिणं महिषारूढं कालकण्ठीसहितं यमं पूजयामि | दाहिनीसहितायनैर्-ऋतायनमः | रक्तवर्णं खड्गखेटकवराभयधारिणं भूतारूढं दाहिनीसहितं नैर्- ऋतं पूजयामि | वरुणाय भोगिनीसहिताय नमः | चन्द्रवर्णं पाशकमलवराभयकरं मकरारूढं भोगिनीसहितं वरुणं पूजयामि | वायवे घोरासहिताय नमः धूम्रवर्णं ध्वजकमलवराभयधारिणं मृगारूढं घोरासहितं वायुं पूजयामि | कुबेराय गंभीरिणीसहिताय नमः | स्वर्णवर्णं गदानिधिवराभयकरं खर्वविग्रहं मनुष्यारूढं गंभीरीणीसहितं कुबेरं पूजयामि | ईशानाय हर्षिणीसहिताय नमः | चन्द्रवर्णं शूलपाशवराभयकरं त्रिणेत्रं वृषभारूढं हर्षिणीसहितमीशानं पूजयामीति प्रागादिक्रमेण पूजयेत् | ब्रह्मणे सावित्रीसहितायनमः | सुवर्णवर्णं चतुर्वक्त्रं कमण्डल्वक्षसूत्रस्रुग्दण्डधारिणं हंसारूढं सावित्रीसहितं ब्रह्माणं पूजयामि | विष्णवे लक्ष्मीसहितायनमः | विद्युद्वर्णं सहस्रफणालंकृतमनन्तरूपं शङ्खचक्रगदाकमलधारिणं कूर्मारूढं लक्ष्मीसहितं विष्णुं पूजयामीति || इन्द्रेशानमध्ये निर्-ऋतिवरुणमध्ये च विधातृवैकुण्ठौ पूजयेत् | यद्वा यमस्य उत्तरभागे कुबेरस्य दक्षिणभागे च तौ पूजयेत् || अथलोकपालायुधैः पञ्चमावरणम् - प्रसन्नात्मशक्तिसहिताय वज्रायनमः | नानावर्णधरं दृढकर्कशविग्रहं वज्रमूर्धानं दीप्तं प्रसन्नात्मशक्तिसहितं वज्रं पूजयामि | शक्तये नमः | अरुणवर्णां वराभयकरां शिरसा शक्ति विभ्राणां योषिदाकारां शक्तिं पूजयामि | कोपात्मशक्तिसहिताय दण्डाय नमः | कृष्णवर्णं वराभयकरं लोहितलोचनं दण्डमूर्धानं कोपात्मशक्तिसहितं दण्डं पूजयामि | गुणात्मशक्तिसहिताय खड्गाय नमः | श्यामवर्णं (प्. ८०) वराभयकरमर्धलोचनं खड्गालंकृतमूर्धानं गुणात्मशक्तिसहितं खड्गं पूजयामि | कोमलात्मशक्तिसहिताय पाशाय नमः | किंशुकपुष्पवर्णं नाभेरधो भुजङ्गाकारं तदूर्द्ध्वं पुरुषाकृतिं सप्तफणोपेतमूर्धानं कोमलात्मशक्तिसहितं पाशं पूजयामि | विषात्मशक्तिसहिताय ध्वजायनमः | पीतवर्णं वराभयकरं विवृतास्यं मूर्ध्निध्वजान्वितं विषात्मशक्तिसहितं ध्वजं पूजयामि | गदायैनमः | पीतवर्णां योषिदाकारां गदोपेतशिरसं गदां पूजयामि | विकृतात्मशक्तिसहिताय शूलाय नमः | श्यामवर्णं त्रिषूलांकितमस्तकमञ्जलियुतं विकृतात्मशक्तिसहितं त्रिशूलं पूजयामि | महात्मशक्तिसहिताय पद्माय नमः | शङ्खवर्णं पद्मकोशांकितमूर्धानं महात्मशक्तिसहितं पद्मं पूजयामि | मङ्गलात्मशक्तिसहिताय चक्राय नमः | श्यामवर्णं शतारचक्रांकितमस्तकं मङ्गलात्मशक्तिसहितं चक्रं पूजयामि | इमे चावरणदेवाश्शिवाभिमुखाश्शिवमंबिकां च भक्त्यावीक्षमाणाः स्वासनेषूपविष्टा ध्येआः | द्विभुजाश्चतुर्भुजाश्चैते हस्ताञ्जलिपुटावाध्येयाः | एवं पञ्चावरणपूजाशक्तौ पञ्चब्रह्मषडङ्गरूपमेकमावरणमर्चयेत् | तेषां च ब्रह्मषडङ्गदेवानामावाहनस्थापनसन्निधान सन्निरोधन पाद्याचमनार्घ्यपुष्पदानाख्यं संस्काराष्टकं कार्यम् | यद्वा - आवाहनादि संस्काराष्टकं समुदितमेव स्मृत्वा प्रत्येकमर्घ्यमात्रं दत्वा पूरणतया ब्रह्मान्तं तत्तदर्घ्यावसाने क्रमेण सुरभिपह्मत्रिशूलमकरस्रगाख्यमुद्राः प्रदर्श्याङ्गानां नमस्कारमुद्रां प्रदर्शयेत् | पञ्चब्रह्मषडङ्गपूजनाशक्तौ केवलं ब्रह्मावरणमात्रमङ्गावरणमात्रं वाऽर्चयेत् | अथवा - तत्तत्स्थाने वामादिशकिं पूर्वादिदिक्ष्वभ्यर्च्य सदाशिवस्यांके वामभागे स्थितां मनोन्मनीमभ्यर्चयेत् | इत्थमावरणार्चनानन्तरं शिवमष्टपुष्पिकयाऽभ्यर्च्याचमनार्घ्याणि दत्वा मूलमन्त्रेण पुष्पं समर्पयेत् | शिवस्यावरणभावकृतशोभासिद्धये पञ्चब्रह्मषडङ्गादीनां शिवपृथग्भावेनार्चनायां (प्. ८१) प्रसक्तस्य पूजातामसत्वदोषस्य परिहाराय शारदशशाङ्ककोटिसङ्काश परमामृतस्यन्दि परमशिवमयूखजालमग्नतया सर्वानप्यावरणदेवान् परमशिवेनैकवर्णान् परमशिवापृथग्भूतान् भावयेत् | ततश्शिवे धेनुमुद्रां महामुद्रां च प्रदर्श्य गन्धपुष्पैः घण्टामस्त्रमन्त्रेणाभ्यर्च्य सावरणाय देवाय धूपदीपौ प्रदर्शयेत् | एवमावरणार्चनं कर्तव्यं न कर्तव्यं वेति विकल्पितं केषुचि दागमेष्वात्मार्थपूजायां भोगाङ्गपूजनस्य निषिद्धत्वात् || अथ नैवेद्यविधिः || तत्र व्रीहिशालि प्रियंगु नीवार गोधूम वैणव यवाः प्रशस्ताः | तत्र व्रीहयः कनिष्ठाश्शालयो मध्यमाः इतरे श्रेष्ठाः | तत्रापि प्रियंगुनीवार गोधूम वैणवानि शतसहस्रलक्षानन्तफलान्युत्तरोत्तरं प्रशस्तानि | यद्वा शालयःश्रेष्ठाः यववैणवादयो मध्यमाः व्रीहयः कनिष्ठाः | सिततण्डुलाश्शालयः इतरेव्रीहय इति भेदः | आत्मार्थपूजायां कुडवादि चतुर्द्रोणपर्यन्तमुत्तरोत्तरं प्रशस्तम् | पञ्चविंशत्युत्तरद्विशतसङ्ख्यैः व्रीहिभिरेका शुक्तिरुच्यते | शुक्तिद्वयं तलं तलद्वयं प्रकुञ्चम् | प्रकुञ्चद्वयं प्रसृतिः प्रसृतिद्वयं कुडवम् | कुडवद्वयमञ्जलिः | अञ्जलिद्वयं प्रस्थम् | प्रस्थद्वयं पात्रम् | पात्रद्वयमाढकम् | आढकद्वयं शिवम् | शिवद्वयं द्रोणम् | अथवा गुञ्जाद्वयं माषः | माषविंशतिर्निष्कम् | निष्काष्टकम् पलम् | पलचतुष्टयं पादः | पादचतुष्टयं प्रस्थम् | प्रस्थचतुष्टयमाढकम् | तच्चतुष्टयं द्रोणम् | द्रोणचतुष्टयावधिकान् नैवेद्यार्थं कल्पितान् केशकीटादि विरहितान् निर्मुक्त तु ष कम्बुकणा नखण्डा नतिधावल्यशालि तण्डुलान् प्रशस्तवर्णगन्धरसैर्वस्त्रपूतैर्जलैर्मुहुर्मुहुर्निष्पीडनपूर्वकं षट्कृत्वष्षडङ्गमन्त्रैस्संक्षाल्य सम्यग्वालुकादीन् संशोध्य पाकभाण्डे निहितेषुतेष्वधिकर्धावधिकं (प्. ८२) जलं प्रक्षिप्य गोमयोपलिप्ते प्रोक्षिते पक्षिदर्शनादिरहिते परिश्रिते बहिष्कृताद्यगोचरे महानसे हृदयमन्त्रार्चितायां चुल्ल्यां वामदेवमन्त्रेण उद्धृतं पाकभाण्डं हृदयमन्त्रेणारोप्य अघोरेणाग्निं विन्यस्य मुखेन प्रदीप्य यथाऽन्न मपक्वं मतिपक्वं च न भवति तथा सावधानं पचेत् | एवं शुधान्नपाकः | तण्डुलद्विगुणक्षीरेण तण्डुलार्धमुद्गसहितेन वा तण्डुलत्रिगुणक्षीरेण तण्डुलचतुर्थांशमुद्गसहितेन तदुचितगुलकदलीफलयुतेन वा पायसान्नपाकः | तण्डुलचतुर्थांशमानतिलपूर्णेन तिलार्धमानेन तिलचतुर्थांशमानेन वा घृतेन च कृसरान्नपाकः | अथवा तण्डुलार्धमुद्गचूर्णमिश्रैः किञ्चिल्लवणचूर्णयुतैश्च कृसरान्नपाकः | प्रत्येकं तण्डुलार्धप्रमाणाभ्यां क्षीरगुडाभ्यां तदर्धप्रमाणेन घृतेन च गुलान्नपाकः | अथवा तण्डुलद्विगुणक्षीरेण तण्डुलार्धगुलसहितेन गुलार्धघृतसहितेन गुलान्नपाकः | स्थवा तण्डुलत्रिगुण क्षीरेण तण्डुलत्रितयांशमुद्गसहितेन तण्डुलचतुर्थांशगुलमिश्रेणकदलीफलयुतेन च गुलान्नपाकः | तण्डुलचतुर्थांशैस्तत्तृतीयांशैस्तत्समैर्वा मुद्गैर्नालिकेरखण्डयुतैस्तद्रहितैर्वा मुद्गान्नपाकः | शुद्धान्नपायसान्न कृसरान्न गुलान्न मुद्गान्नान्युत्तरोत्तरं सहस्रगुणफलानि | एवं दधिमिश्रितं मधुमिश्रितं चान्नं प्रशस्तम् | एतेष्वनेकं एकं वा यथा विभवं कार्यम् | नैवेद्यस्याष्टमांशेन षोडशांशेन वा मुद्गाढकी माप राजमाप विष्पाव कुलत्थाद्यन्यतमेन कर्तव्यं | एवं मुद्गाद्याश्च सति संभवे निस्त्वग्विदलरूपा ग्राह्याः | शाकानि प्रस्थान्ननैवेद्यस्य पलद्वयप्रमाणेन एकपलप्रमाणेन वा कदली पनस कुश्माण्डोर्वारुक कारवल्लि व्याघ्री बृहतीद्वय कोशातकीद्वय चूत नालिकेर फलादीनि शिशुकन्द वल्लीकन्द सूरणकन्दाद्यन्यानि च प्रशस्तरसगन्धा न्यार्द्राणि शुष्काणि वा यथार्हं लवण मरीचि जीरक एला चूर्ण शर्करादि सकलसंस्कारोपेतानि घृतभर्जितानि कार्याणि | प्. ८३) आम्लेन घनतक्रेण लवणमरीचि जीरककुलुत्थ सिद्धार्थचूर्ण शर्करासहितं चोष्यं कार्यम् | माष मुद्गगोधूम शालिपिष्टादि विकारास्समृद्धशर्करोपेताः कर्पूरैलादिचूर्णैर्वासिता बहवोऽपूषाः पानकादयश्च कार्या | नैवेद्यस्य षोडशांशं द्वात्रिशांशं चतुष्षष्ट्यंशं वा घृतम् | घनदथि? अष्टमांशम् | सर्वत्र क्षीरदधिघृतानि गव्यान्येव ग्राह्याणि | स्थालिकास्सुवर्णेन रजतेन ताम्रेण शुद्धकांस्येन वा कर्तव्याः | अष्टचत्वारिंशदंगुलायामाः एकांगुलोत्सेधाः अंगुलघनोष्ठवत्यश्चेदुत्तमाः | उत्तमोत्तमादिक्रमेण तु षट्त्रिंशदंगुलप्रभृति द्वादशांगुलपर्यन्तायामा नवयवप्रभृत्येकपवपर्यन्तमानोष्ठवत्य ओष्ठप्रमाणायामेवत्रवत्य स्तद्रहितावा नवांगुलायामा स्तदर्धमानाश्चातिजघन्याः | सर्वाश्च पादरहितास्सुवृत्ताकाराः कर्तव्याः | स्थालिकाधारत्रिपाद्यः पूजनीयलिङ्गपीठिकोत्सेधपर्यन्तमुन्नताः प्रकर्तव्याः | नैवेद्यं च सर्वंशिवदीक्षासंस्कृतैः शुद्धवस्त्रैर्भस्मरुद्राक्षभूषितैः पवित्रधारिभिः परिचारकैः कारयेत् | तथा भूषिताभिः स्त्रीभिर्वा कारयित्वा द्रव्यशुद्धिकाले पूजकस्तण्डुलक्षालनादिमन्त्रान्जपेत् | यदि कृतं नैवेद्य मपक्व मतिपक्वं कालातिपाता दतिशीतलं नरैर्लंघितं वा स्यात् तदाऽन्यत्पक्वं निवेदनीयम् || अथनैवेद्यसमर्पणम् - देवस्य पाद्यमाचमनीयमर्घ्यं च दत्वा देवस्य पुरतो गोमयेन चतुरश्रं मण्डलं परिकल्प्य पिष्टादिचूर्णैरलंकृत्यशुद्धान्नपायसान्नादिपूरिताः कदलीनालिकेर चूत पनसद्राक्षा खर्जूरादिफलिर्लड्डुककस्तूरिकापिष्टक मोदकादिभिरपूपैः कदलीपनसादिशाकैरार्द्रकोर्वारुकादिहारितैश्चूतनारंगाद्युपदं शैर्मुद्गविदलादिसूपैश्चवलयाकारसोपानक्रमेण निबद्धैर्भूषिताः मद्ध्ये क्षीरदधिघनैरलंकृताः सद्योघृताभिषिक्ताः शर्करादधिक्षीर प्. ८४) फलरसादिविकारैर्नानाविधपेयचोष्यलेह्यैः क्षीरदधिनवनीतघृतैरेलाचंपकमुकुल कर्पूर मृगमद लामज्ज पाटलीपुष्पादिवासित सुशीतल स्नपनकलशाहृताढकतदर्ध तदर्धप्रमाणेन पानीयेन परिपूरितैश्चषकैः परितः परिष्कृताः शिवस्य शिवायाश्च नैवेद्यस्थालिकाः सदाशिवस्य मनोन्मन्याश्च परिवारदेवतानामावरणदेवतानां च नैवेद्यस्थालिकाश्च निधाय स्थालिकानामुपरि पत्रं विन्यस्य हृदयेन प्रोक्ष्य तालत्रय दिग्बन्धनावकुण्ठन धेनुमुद्रा विरचष्य अन्नमुद्रां पर्वतमुद्रां प्रदर्श्य पूर्वविन्यस्तं पत्रमुद्धृत्यास्त्रेणपरिषिच्य हृदयेन प्रत्येकमापोशनं दत्वासपुष्पया मृगमुद्रया पूर्वं गणपतये नैवेद्य तत्पुष्पं विसृज्य हस्तप्रक्षालनं कृत्वा हां हौं शिवाय स्वधेति शिवाय नैवेद्यं पञ्चवारं त्रिवार मेकवारं वा नैवेद्यदानाभिनपवत्या सपुष्पवा मृगमुद्रया नैवेद्यं दत्वा सदाशिवादिक्रमेण सर्वेभ्योऽपि पृथक्पृथक् नैवेद्यं दद्यात् | पृथक् पात्रासंभवे सर्वासां परिवारावरणदेवतानामेकस्मिन्नेव पात्रे नैवेद्यमानीय प्रत्येकं निवेदयेत् | ततश्शिवाय सुगन्धिपानीयं प्रदाय नमोन्तमूलेन पुष्पं समर्प्य द्रव्यजातं संपूर्णं विभाव्य स्वधान्तमूलेनाचमनं दत्वा देवस्य सव्यवामहस्तयोरुद्वर्तनार्थं कर्पूरादिसहितं चन्दनं दत्वा हस्तप्रक्षालनगण्डूष पादक्षालनादि भावयेत् | सर्वाणि च निर्माल्यान्युद्धृत्य सदाशिवनिर्माल्यं प्रागीशदिशि विन्यस्तगन्धपुष्पनिर्माल्याभ्यां सह ऐशान्यां दिशि चण्डेशाय निवेदयेत् || अथ सदाशिवः केन वक्त्रेण भुङ्क्ते ऊर्ध्ववक्त्रेण | भक्ष्यभोज्यान्नपानादि लेह्यं चोष्यमनेकधा | ऊर्ध्ववक्त्रे प्रदातव्यं यत्किंचिदिह चोदितमिति सर्वज्ञानोत्तरवचनात् | भक्ष्यंभोज्यं च पेयं च लेह्यं चोष्यं च पञ्चधा | ऊर्ध्ववक्त्रे प्रदातव्यं हृदयेन षदाननेति द्विशतिवचनाच्च | अथवा पञ्चभिरपि वक्त्रैर्भुङ्क्ते | पञ्चवक्त्रेषु नैवेद्यमूर्ध्ववक्त्रेऽथवा पुनः (प्. ८५) रिति पञ्चसु वक्त्रेषु प्रत्येकनैवेद्यविधानस्यापि दर्शनात् | ऊर्ध्ववक्त्रे नैवेद्यदानं च तदूर्ध्ववक्त्रं पूजाकाले दक्षिणामुखीभूतं विभाव्य कर्तव्यम् | देवस्य दिश्युत्तराभिमुखतया पूजकस्य स्थितत्वात् | स्थण्डिले चरलिङ्गे च साधकाभिमुखश्शिवः | प्रत्यवग्क्त्रस्सकुंभादौ स्थिरे द्वाराभिसम्मुख-इति चरलिङ्गार्चने देवस्य पूजकाभिमुखत्वश्रवणात् | एवंचात्मार्थपूजायां शिवस्य साधकाभिमुखत्वसिद्ध्यर्थं हृदयगुह्यपादावयवा अपि दक्षिणदिक्स्था एव | यानि तु पूजकस्य शिवाभिमुखावस्थानपरिहारवचनानि न प्राच्यामग्रतश्शंभोर्नोत्तरे योषिदाश्रये | न प्रतीच्यां यतः पृष्ठं तस्माद्दक्षं समाश्रयेदित्यादीनि, तानि पूर्वाभिमुखस्थिरलिङ्गविषयाणि | चरलिङ्गपूजायां स्थण्डिले चरलिङ्ग च साधकाभिमुखश्शिव इति विशेषवचनदर्शनात् | अग्नौ वा निरृतौ वाऽपि स्थित्वा देवं प्रपूजयेदिति वचनानुसारेण पूजकस्याग्नेयदिगवस्थाने शिवस्य पूजकाभिमुखत्वं न लभ्यत इति चेत् सत्यं | तदपि वचनं स्थिरलिङ्गविषयमेव | स्थिरलिङ्गं सर्वसाधारण्येन लोकानुग्राहकत्वाच्च चतसृषु दिक्षु स्वेष्टमुखमिति यस्यां दिशिद्वारं तद्दिगभिमुखं भवति | तत्र हृच्चरणैस्सार्ध मूर्द्ध्वमुखं तद्वाराभिमुखं | द्वारस्याभिमुखं चोर्द्ध्ववक्त्रं तत्र प्रकल्पयेदिति वचनात् | यस्यां दिशि भवेद्वारं तां प्राचीं परिकल्पयेदिति वचनाच्च | अथवा ऊर्ध्ववक्त्रमेकमेव हृद्गुह्यचरणैस्सह द्वाराभिमुखं भवति | तत्पुरुषादिवक्त्राणि तु पूर्वादिदिक्ष्वेव व्यवस्थितानि न तु द्वारभेदेन भिद्यन्ते | प्रासादस्य द्वारम्भवतु यथा काष्ठया कामं | तत्पुरुषादिमुखानि न जहति पूर्वादिदिक्संस्थामिति वचनात् | इदं तत्पुरुषादिवक्त्रविषये पक्षद्वयमपि कामिकसंमतम् | अत एव तत्र पश्चिमद्वारार्चने द्वारस्याभिमुखं चोर्ध्ववक्त्रं देहं प्रकल्पयेदित्युपक्रम्यपुरुषं पूर्वदेशे वा पश्चिमे वाऽथ चिन्तयेत् | दक्षिणे वोत्तरेवाऽपि बहुरूपं विचिन्तये || उत्तरे (प्. ८६) दक्षिणे वाऽपि वामदेवं स्मरेत् गुरुः | पश्चिमे पूर्वदेशे वा सद्यवक्त्रं स्मन्न्यसेत् इत्युक्तं || तत्रैव दक्षिणद्वारार्चनेऽप्युक्तम् - अघोरं पुरुषं वाऽपि दक्षिणे सम्यगर्चयेत् | अघोरंवाऽथ सद्यं वा पश्चिमे तु समर्चयेत् | सद्यवक्त्रं तु वामं वा सौम्यदेशे समर्चयेत् | पुरुषं वाऽथ वामं वा पूर्व देशेसमर्चयेत् इति || सर्वमपि स्थिर मुत्तराभिमुखं पूजनीयम् | लिङ्गं वा प्रतिमा वा क्रियतेऽन्यद्वा यया ककुभा | तस्यां तस्यां यज्वा यजेत शिवमुत्तराभिमुख इति वचनात् | तत्र मुख्यपूर्वाभिमुखलिङ्गपूजायां मुख्याग्नेयदिशि स्थितस्य पूजकस्य मुख्यमुत्तराभिमुखत्वमेव घटते | नच देवस्य वामभागे नैर्-ऋतदेशे देव्या निविष्टत्वात्तत्र पूजकस्योपस्थितौ नोत्तरे योषिदाश्रय इति निषेधप्रसङ्गः | कामिके पश्चिमद्वारार्चनपटले वामे वा दक्षिणेवाऽपि स्थापनीया मनोन्मनी | देवसंमुखसंयुक्ता द्विहस्तैकमुखान्वितेति पश्चिमाभिमुखलिङ्गपूजायां दक्षिणभागेऽपि देवीनिवेशनस्यांगी कृतत्वेन नैर्-ऋतदिक्स्थितस्य पूजकस्य देवदक्षिणभागनिविष्टदेवीभावनोपपत्तेः | एवं दक्षिणदिग्रूप गौणपूर्वाभिमुखलिङ्गपूजायां नैर्- ऋतदिग्रूपगौणाग्नेयदिशिस्थितस्य प्राचीरूपगौणोत्तराभिमुखत्वं उत्तरदिग्रूपगौणपूर्वाभिमुखलिङ्गपूजायामीशानदिग्रूपगौणा ग्नेयदिशि स्थितस्य प्रतीचीरूपगौणोत्तरवक्त्रत्वं च घटते | एवं पूजकाभिमुखत्वनियमो न विहन्यते | सर्वत्रात्मार्थपूजाप्रकरणे उत्तराभिमुखो भूत्वा रुचिरासनसंस्थित इत्यादिविधानात् | तत्रायं विशेषः - पापक्षयार्थिभिर्मुक्त्यर्थिभिश्च मुखानां दिश्यवस्थामाश्रित्याघोरवक्त्रमभिमुखत्वेन भावनीयम् | न विभोः पुरतस्तिष्ठेत् न पश्चात् स्त्र्यन्तिकेऽपि च | अघौघध्वंस मोक्षार्थं दक्षे दक्षस्थितोऽर्चयेत् || हिमं मरुच्च शीतञ्च पद्मं निर्दहते यथा | तथाऽघोरः प्रशान्तोऽपि पापनिर्दाहकारकः || महानपि यथा दन्ती यन्तारमनुवर्तते | तस्मादाप्तेन वचसा उत्तराभिमुखो यजेत् || इत्यघोरमुखस्य (प्. ८७) सकलपापहरत्वेन प्रशंसादर्शनात् | अजातमिममेवैकं मत्वाजन्मनि भीरवः | रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणामुखम् | इति वायुसंहितायां दक्षिणमुखस्य मुक्तिप्रदत्वेन प्रशंसादर्शनात् | भोगपूर्वकमोक्षार्थिभिस्तु तत्पुरुषमुखस्य द्वाराभिमुख्यन्यायेन साधकाभिमुख्यन्यायेन वा साधकाभिमुख्यपक्षमाश्रित्य तत्पुरुषमुखमभिमुखत्वेन भावनीयम् प्रसन्नत्वं यदीशस्य स्तेमित्वं पुरुषस्य च | चण्डत्वं बहुरूपस्य मुक्तिस्थित्यन्तहेतुकम् इति तत्पुरुषमुखस्य स्थितिहेतुत्वश्रवणात् | सर्वथाऽप्यूर्ध्ववक्त्रस्य दक्षिणाभिमुखत्वं स्थितमेव | एवञ्चावाहनादिकृतं देवस्याभिमुख्यमप्यात्मार्थपूजायामाञ्जस्यं लभते | अन्यथा परार्थपूजायामिव तदूर्द्ध्वमुखस्य ऊर्ध्वाभिमुखत्वत्यागमात्रपरतया कथंचिन्निर्वाह्यं स्यात् | परार्थपूजायां लोकानुग्रहप्रयोजनायां विशिष्य पूजकाभिमुख्यं नापेक्षितमिति युक्तं तत्र द्वाराभिमुखस्यैव कथञ्चित् गौणाभिमुख्यसमर्थनम् | इह तु साधकानुग्रहार्थायामात्मार्थ पूजायांस्थण्डिले चरलिङ्गे चेतिवचनबलादाञ्जस्येन संभवत्साधकाभिमुख्यं किमित्युपेक्षितमिति केषांचिन्मतम् | अन्येत्वाहुः आत्मार्थपूजायामूर्ध्ववक्त्रं हृत् गुह्यचरणैस्सह तत्पुरुषवक्त्रं च पूर्वाभिमुखमेव | अंशुमदादितन्त्रेष्वात्मार्थपूजाप्रकरण एव न विभोः पुरतस्तिष्ठेन्नपश्चात् स्त्र्यंतिकेऽपि च | न योषित्सन्निधौ नाग्रे नपृष्ठेस्वामिनोभवेदित्यादिवचनानां पठितत्वेन तेषां परार्थपूजाविषयतया नेतु मशक्यत्वात् | साधकाभिमुख्यवचनस्य दीक्षाप्रकरणे पठितत्वेन ततो नित्यपूजायां साधकाभिमुख्यालाभात् | नच दीक्षायां चरलिङ्गपूजाप्रसक्त्यभावात् चरलिङ्गे साधकाभिमुख्यवचनस्य नित्यपूजाविषयत्वमेवेति वाच्यम् | दीक्षायामपि चरलिङ्गार्चने दोषाभावात् | तस्मान्निरपवादात् नप्राप्यामग्रत इति वचनात् नित्यनैमित्तिककाम्ये सर्वाधिकारणः सदाशिवः पूर्वाननो लक्ष्मीप्रत्यक्प्रष्टकलातनुरिति लक्ष्मीकेशवसंवादे दीक्षादिषु घटेशस्य (प्. ८८) प्रतीच्यां चिन्तयेद्गुरुम् | ईशं तत्पुरुषं शान्तं नित्ये नित्ये पुराननमिति मुखबिंबे ध्यायेत् सदाशिवं नित्यं प्राङ्मुखेशास्यवक्षसाम् | दीक्षादौ कलशाधारं तमेव प्रत्यगाननमिति बृहद्भार्गवादिषु च सदानित्यशब्दाभ्यां विशेषविहितदीक्षादिव्यतिरिक्तेषु सर्वेष्वपि नित्यनैमित्तिक काम्येष्वीशान पुरुषमुखयोः प्राङ्मुखत्वश्रवणा देतेषां वचनानां द्वाराषिमुखत्व नियतस्थिर लिङ्गप्रहाणेन चरलिङ्गादिविषयावश्यं भावाच्चात्मार्थपूजायां नित्यनैमित्तिककाम्यरूपायां शिवस्य पूर्वाभिमुखत्व मौत्सर्गिकम् | दीक्षादिनैमित्तिकेषु विशेषवचनैर्दक्षिणमुखत्वादिरूप स्तदपवाद इति | इदं चान्यदाहुः | ईशानतत्पुरुषमुखयोर्मध्येऽपि सदाशिवस्तत्पुरुषमुखेनैव भुङ्क्ते | द्वारं पश्चिममेवं तु नैवेद्यं पूर्ववक्त्रकमिति सूक्ष्मवचनादीशानवक्त्रस्य शिरोरूपतया तत्र नैवेद्यदानस्य लोकविरुद्धत्वाच्चेति || अस्तु तत्पुरुषमुखेन भुङ्क्ते इत्यपि कश्च्न पक्षः | नतु तेनैवेति नियमः | भक्ष्यभोज्यान्नपानादीत्यादिप्रागुदाहृत विषमवचनैरूर्ध्ववक्त्रे महासेन आहुतिं संप्रदापयेदित्यादिवचनैश्चोर्द्ध्वमुखेनापि भोजनावगमात्, पञ्चवक्त्रेषु नैवेद्यमिति वचनेन ततो हविप्रदानं स्यात् पञ्चवक्त्रेषु चैव हि ईशानस्य तु शुद्धान्नं गौडं तत्पुरुषे ततः | कृषरं दक्षिणे वक्त्रे मुद्गान्नं च तथोत्तरे | पश्चिमे पायसं चैव स्वस्व नाम्ना समाहितः || दापयेत्स्वस्वदिग्भागे ईशानस्याग्रतो भवेत् | अलाभे पञ्चहविषामग्रे शुद्धान्नमिष्यते इति प्रतिवक्त्रन्नैवेद्यभेदप्रतिपादकवचनजातेन च पञ्चभिर्वक्त्रैर्भोजनाच्च | नह्यागमानामविशिष्टे प्रामाण्ये कस्यचिदर्थोऽनुष्ठेयो नान्यस्येति युक्तम् | तस्मात्तत्तदागमवचनप्राप्तपक्षत्रयस्यापि विकल्प इत्येव युक्तम् | ननु नैवेद्यदानमुद्रया शिवे नैवेद्यं समर्पयता पूजकेन किं शिवस्य हस्ते तत्समर्पणीयं उत तत्तद्वक्त्र एव | अत्रापि विकल्प एव | उत्तरत्र अमृतीकृत्य गोस्तन्या निवेद्य कृसुमं न्यसेत् | निवेद्यदक्षिणे हस्ते दद्यात्पानीयमुत्तममिति (प्. ८९) दक्षिणहस्ते नैवेद्यसमर्पणश्रवणात्, ऊर्द्ध्ववक्त्रे तु दातव्यं यत्किञ्चिदिह चोदितम् | ऊर्द्ध्ववक्त्रे महासेन आहुतिं संप्रदापयेदिति वक्त्रे समर्पणश्रवणाच्च | एवंचात्र योग्यतानुसारेण व्यवस्थितोविकल्पः | यद्धृदयादिसंमिते पुरुषवक्त्रे निवेदितव्यं द्रवद्रव्यवर्जं भक्ष्यभोज्यादि तत्सर्वं परित्यक्ताभयमुद्रे वामहस्ते समर्पणीयम् | यद्वक्त्रान्तरे निवेदनीयं यच्च पानीयादिद्रवद्रव्यजातं तत्सर्वमग्निहोत्राहुतिवत् सूक्ष्मरसरूपेण स्थालिकाभ्यो निर्गत्य तत्तद्वक्त्रपर्यन्तं नैवेद्यमुद्रया सहागतं सम्भावयता साक्षात्तद्वक्त्र एव समर्पणीयमिति | एवञ्च हस्ते समर्पणसंभवाद्धस्तोद्वर्तनस्य न वैफल्यम् | पूजकहस्तेन तद्वक्त्रे नैवेद्यप्रक्षेपाभावात् पूजकहस्तस्य न निर्माल्यसङ्करप्रसङ्गः || इति नैवेद्यविधिः || तांबूलदानम् || अथ मुखवासं ताम्बूलं च निवेदयेत् | भोजनान्तरं मुखे वासार्थं यद्दीयते तन्मुखं वासयतीति व्युत्पत्या मुखवासम् | तच्च एलालवङ्ग तक्कोल जातीफल कर्पूरचूर्णं हिमजलपिष्टंगुलकोकृतमित्युक्तम् | एलालवङ्गांकित तक्कोल जातीफल कर्पूरचूर्णमीषन्मधुसितायुक्तं केवलं वा पञ्चसौगन्धिकाख्यमुत्तमम् | केवलं कर्पूरजातीलवङ्गतक्कोलचूर्णं वा मध्यमम् | प्रस्थनैवेद्यस्य द्विधाकृतमृदुक्रमुकखण्डानि षट्चत्वारिंशद्वेवापत्राणिं क्रमुकफलापेक्षया चतुर्गुणानि त्रिगुणानि द्विगुणानि वा शुभ्राणि खण्डितमूलाग्राणि शिलाचूर्णं चेतिसर्वमिदं संगृह्य कर्पूरादिसहितं सुपक्वसंस्कृतनालिकेरमातुलिङ्गफलयुक्तं तांबूलं निवेदयेत् | ततोमूलमन्त्रेण विशेषार्घ्यं दत्वा एकत्रिपञ्चसप्तनवावृत्तियुक्तदीपं प्रदर्श्यत्रिताल पञ्चताल नागचक्रपद्म पुरुषमृग गजारूढदेवेन्द्राद्याकृतिपात्र निहितान् दीपानपि यथा विभवं प्रदर्श्यारात्रिकं कुर्यात् || प्. ९०) आरात्रिक विधिः || तत्प्रकारः - सुवर्णरजतताम्रकांस्यान्यतमनिर्मिते चतुर्विंशत्यंगुलिमाने तदर्ध तत्तृतीयांशमानया स्वमानपञ्चमोत्सेधा यवद्वया यामोत्सेधपट्टिकया कर्णिकया शोभिते ततो बहिरष्टदलयुक्ते परितः कर्णिकामानोष्ठसहिते सुवृत्ताकारे पात्रे कर्णिकायां मध्ये परितश्च कृतेषु सहजेषु शालिपिष्टमयेषु वा दीपासनेषु कर्पूरादिमयीं वर्ति निधाय नवपञ्च वा दीपान् मध्य एव एकं वा दीपमारोप्य त्रिपाद्यां विन्यस्य निरीक्षणादिभिस्संस्कृत्य, नव चेन्मध्ये सूर्यं दिक्षु गुरुशुक्रबुधचन्द्रान् विदिक्षु भौमशनिराहुकेतून्, पञ्चचेन्मध्ये वह्निं दिक्षु गगनवायुजलपृथिवीः, एकश्चेत् वह्निं चाभ्यर्चयेत् | यद्वा - नवपञ्चैकदीपेषु वामादिशक्तीः पञ्चब्रह्माणि शिवं चार्चयेत् | एवं गन्धपुष्पधूपदीपैरभ्यर्च्य दिग्बन्धनमस्त्रेण कृत्वा सुरभिमुद्रां प्रदर्श्य पाणिभ्यामुद्धृत्य देवस्य शिरसि हृदये पादयोश्च त्रिर्भ्रामयित्वा सुवर्णादिनिर्मितैर्वृत्ताकारैश्चतुरश्राकारैर्वा मुकुलाग्रशालिनालयुक्तैस्सहजशालिपिष्टकृतान्यतरदीपासनयुक्तैर्दी- पासननिहितकर्पूरादिवर्तिष्वारोपितदीपैर्नीराजनपात्रैर्नीराजनान्यपि निरीक्षणादिभिस्संस्कृतान्यारात्रिकवत् भ्रामयित्वा भूमौ विन्यस्यास्त्रेण निर्वापयेत् | निराजनपात्राणि त्रिविधानि | प्रादेशमात्रविस्तारं यवद्वयघनमष्टांगुलनालं तदनुसारिमुकुलमुत्तमम् | तस्य मध्ये एकं दीपासनं पञ्चस्वावृत्तिषु क्रमान्नवपञ्चदश एकविंशतिः सप्तविंशतिः त्रयस्त्रिंशदिति षडुत्तरशतं दीपाः | यद्वा क्रमादावृतिष्वष्टौ चतुर्दश विंशतिः षड्विंशतिः द्वात्रिंशद्दीपासनानीति एकोत्तरशतंदीपाः | उत्तमपात्रार्धमानं पात्रं मध्यमम् | अस्य मध्ये एकं चतुर्ष्वावरणेषु अष्टौ त्रयोदशाष्टादश त्रयोविंशतिर्दीपासनानीतित्रिषष्टिर्दीपाः | मध्यमादर्धमानं कनिष्ठम् | अस्य मध्ये एकं त्रिष्वारणेषु षट्दश चतुर्दशदीपासनानीति एकत्रिंशद्दीपाः | (प्. ९१) अथ दर्पणच्छत्रचामर व्यजनतालवृन्तानि क्रमादीशानादिमन्त्रैस्समर्प्य तद्दिवसार्जितवाङ्मनः कायदोषपरिहाराय शिवसायुज्यप्राप्तये च दूर्वाकुशाक्षतबिल्वपत्रसहितपुष्पाञ्जलिं हां हौं शिवतत्वाधिपतये शिवायनमः | हां हौं विद्यातत्वाधिपतये शिवाय नमः | हां हौं आत्मतत्वाधिपतये शिवाय नमः | इति त्रिवारं समर्पयेत् | मुमुक्षुश्चेदात्मतत्वादिक्रमेण अथवा सर्वतत्वाधिपतये शिवायनम इति सकृदेववा समर्पयेत् | ततः पूजया सन्तुष्टं स्वाभिमुखीकृताञ्जलिपुटसकलभोगाङ्गसेव्यमानं यागमन्दिरद्वारबाह्यस्यब्रह्मोपेन्द्रमहेन्द्रचन्द्रसूर्यादिस्तूयमा न मपारकरुणामृतसमुद्रं भक्तजनसकलाभीष्टप्रदञ्च शिवं ध्यात्वा पूजासाद्गुण्यार्थं यथाशक्ति श्रीमत्पञ्चाक्षरजपं कुर्यात् || पञ्चाक्षरजपविधिः || श्रीमत्पञ्चाक्षरस्याथ प्रकारः प्रतिपाद्यते | गुरूपदिष्टमार्गेण गोपनीयः प्रयत्नतः || शिवासनपद्मस्य दक्षिणदले अघोरमूर्तेर्दक्षिणभागे | तप्तचामीकरप्रख्यां पीनोन्नतपयोधराम् | चतुर्भुजां त्रिणयनां बालेन्दुकृतशेखराम् || पद्मोत्पलधरां सौम्यां वरदाभयपाणिकाम् | सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् || सितपद्मासनासीनां नीलकुञ्चितमूर्धजाम् | श्रीमत्पञ्चाक्षरींविद्यां मनसावाहनादिभिः || गन्धपुष्पैर्धूपदीपैर्नैवेद्येन च पूजयेत् | सुखासने समाविष्टो रक्षिताक्ष उदङ्मुखः | नासाग्रन्थस्तद्दृङ्मौनी विदध्यादात्मरक्षणम् || प्. ९२) स्रवत्पीयूषसङ्घातप्लाविताशेषदिक्तटम् | स्मरेदूर्द्ध्वमधस्ताच्च चन्द्रमण्डलसंयुतम् || बिंबसंपुटमध्यस्थं सुधाधारापरिप्लुतम् | स्वदेहं चिन्तयेच्छाक्तैस्सुधावर्षैस्सुधात्मकम् || आत्मरक्षा भवेदेषा सुरैरपि न भिद्यते | आत्मरक्षां विधायेत्थं मन्त्ररक्षामथाचरेत् || रेचयेदुदराद्वायुं दक्षनाड्याऽस्त्रमन्त्रतः | इडया पूरयेद्बाह्यात् शंभुना वायुनोदरम् || अपानमूर्द्ध्वमुत्कृष्य प्राणापानौ निरुद्ध्य च | कुंभेन मनसा वायुं सुषुम्नायां नियोजयेत् || सुषुम्नामध्यसंस्थायां हृद्देशेशिवसंयुजि | मन्त्रन्नियोजयेन्मन्त्री चिच्छक्तौ मन्त्रमातरि || मन्त्राक्षराणि मणिवत् प्रभावन्मन्त्रदेवताम् | गमागमंप्रयोगेन स्मरन्मन्त्रं जपेत्सुधीः || वाच्यवाचकसंबन्धं जपेत्तद्गतमानसः | मन्त्ररक्षा भवेदेषा संहिता सुररक्षिता || इत्थं विदित्वा यत्नेन जपकर्म समाचरेत् | जपकर्मक्रमस्सोऽथ सुस्पष्टं प्रतिपाद्यते || नाभ्यादिद्वादशान्तान्तं सोमसूर्याग्निरूपिणीम् | आनन्दरूपिणीं शक्तिं सुषुम्नान्तर्गतां पराम् || आधारचक्रमारभ्य बोधयित्वाऽनिलेन ताम् | ब्रह्माणं केशवं रुद्रमीश्वरं च सदाशिवम् || प्. ९३) हृत्कण्ठतालुभ्रूब्रह्मरन्ध्रस्थानेषु तान्क्रमात् | त्यक्त्वा त्यक्त्वाऽस्त्रमन्त्रांशं विद्युल्लेखानिभं बुधः || मन्त्रं नादान्तमुच्चार्य मूलाधारगतं पुनः | गमागमप्रयोगेण जपेत्साष्टशतं तथा || अष्टाविंशतिमष्टौ वा गुरुणा च यथोदितम् | इत्थं कृत्वा जपं मन्त्री शिवसायुज्यमाप्नुयात् || जपश्चाभ्यन्तर्याऽकारादिक्षकारान्तवर्णमालारूपया बाह्यया रुद्राक्षादिनिर्मितया वा कर्तव्या | तन्त्रान्तर्या जपप्रकारः कथ्यते | ब्रह्मरन्ध्रे धवलाष्टदलचतुरश्रयंत्रमुपरि श्रितं पद्मं भावनीयम् | तस्य कर्णिकायां व्योम तत्पूर्ववर्णं चतुर्दशस्वरविसर्जनीयसमुदायरूपं बीजं केसरेष्वष्ट स्वरद्वंद्वानि दलेषु कादयः पञ्चपञ्च वर्णाः चतुरश्रयन्त्रस्य दिक्षु सुधाबीजं विदिक्षु च सप्तमो वर्णः | एवं रूपंमातृकं पद्मं भावनामात्रेण विशेषपरोगमृत्युहरम् | ततो द्वारक्रमंचानुद्गतवायुसंधुक्षितमूलाधाराग्निशिखया कुण्डलिनीशक्त्या सह सुषुम्नारन्ध्रं प्रविश्य ब्रह्मरन्ध्रपर्यन्तमुद्गतेडास्पृष्टात्तस्मान्मातृकापद्मात्स्यंदि- तां क्षकाराद्यकारान्तवर्णपङ्क्तिरूपाममृतबिन्दुसन्ततिं ब्रह्मरन्ध्रप्रभृति मूलाधारपर्यन्तं व्याप्यावतिष्ठमानां भावयेत् | या कुण्डलिनी शक्तिः मूलाधाराग्निशिखासामरस्येन प्रकाशमानसुषुम्नामार्गेण ब्रह्मरन्ध्रपर्यन्तमुद्गता सैव मातृकापद्मविद्रुतामृतबिन्दुस्यंदि सन्ततिसांमरस्येनामृतायमाणा परमानन्दरूपिणी मातृकाशक्तिरितिभावयेत् | तदाहुः - प्रकाशमानां प्रथमप्रयाणे प्रतिप्रयाणे त्वमृतायमाणाम् | अन्तःपदव्या मनुसञ्चरन्तीमाणन्दमुद्रामवलोकयामः इति || ब्रह्मरन्ध्रस्थितमातृकापद्मप्रभृत्यकारादिक्रमेण मूलाधारपर्यन्तं व्याप्य स्थितायां मातृकारूपायां शक्तावकारादिभिरष्टभिर्वर्णैरेकोवर्गः ऌकारादिभिरष्टाभिरन्यः ककारादिभिः पञ्चभिः पञ्चभिर्वर्णैस्सप्तवर्गाः | (प्. ९४) नववर्गाः क्रमादादित्यसोमबुधगुरुशुक्रांगारकशनिराहुकेतुरत्नरूपाः | माणिक्कवैडूर्यकपुष्यरागवज्रप्रवालगुलिकावलवैरिरत्नैः | गोमेतकैर्मरकतैश्च कृताऽक्षमाला श्लाघ्या नवग्रहमयाखिलवर्णपूर्णा || एनामक्षमालां हृत्पुण्डरीकमध्यागतदीपाकारपरमेश्वरप्रभारूपशब्दैः प्राख्यशक्तिनिस्सृतां विभावयेत् || तदग्रे मूलमन्त्रे नवरत्नमयकल्पलताग्रे पुष्पात् विनिस्सृतं विभाव्य क्षकारं मेरुं कृत्वा लकारादिक्रमेणाक्षमालायां मूलमन्त्रस्य गमागमौ विभावयेत् | तस्यांमन्त्रस्यारोहणभावनयां मन्त्रस्य शिरसि लकारादिसहितवर्णान् विसर्जनीयसहितान् विन्यस्य अवरोहणभावनायां मन्त्रस्य अकारादिवर्णान् बिंद्वन्ताविन्यस्य जपं कुर्यात् | एवं कृते शतं मन्त्रस्यावृत्तयो भवन्ति | तदनन्तरं षोडशस्वरवर्गस्पर्शवर्गपञ्चकान्तस्थवर्ग ऊष्मवर्गाष्टके क्रमेण मन्त्रं विन्यस्याष्टधा मन्त्रमावर्तयेत् | एवमष्टोत्तरशतशङ्ख्यजपः कृतो भवति | जपारंभकाले च मूलमन्त्रेण तस्य परदेवतां मणिना प्रभामिव समरसीभूतां मूलमन्त्रेणसह तदीयान्नकारादिवर्णान् पीतकृष्णधूम्रपीतरक्तवर्णान् तद्देवतारूपतया तत्समरसीभूतान् ब्रह्मविष्णुरुद्रेश्वरसदाशिवांश्च विभावयेत् | हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रेषु क्रमेण नकारादिवर्णैस्सह ब्रह्मादीन्परित्यजेत् | अयमर्थस्सर्वोऽपि प्राक् लिखितश्लोकेषु संक्षेपेणसूचितः | एवमाभ्यन्तराक्षमालया जप्तुमशक्तः प्रागुक्तक्रमेण जपारम्भकाले मन्त्रं मातृकाशक्त्यारूढं विभाव्य मन्त्रमातृकाक्षराणि विभाव्य केवलमेव मन्त्रं रुद्राक्षादिकृतबाह्याक्षमालया गणयन् जपेत् || तत्प्रकारः - उत्तमादिक्रमेणामलक बदर चणकप्रमाणैरवक्त्रैस्त्रिवक्त्रैश्चतुःपञ्चषट्सप्ताष्टनवदशैका- दशवक्त्रैर्वा एकसङ्ख्यवक्त्रैर्भिन्नसङ्ख्यवक्त्रामिश्रितैरष्टोत्तरसङ्ख्यैश्चतुः- पञ्चाशत्सङ्ख्यैस्सप्तविंशतिसङ्ख्यैर्वा सुवर्णरजतादिमये (प्. ९५) क्षौमपट्टादिमयेवासूत्रे परस्परमुखसंयोजनेन परस्परपुच्छसंयोजनेन च स्यूतैर्मेरुसहितैः वर्णानुगुणरुद्राक्षैर्निर्मितां सद्योजातादिमन्त्रैः प्रत्मेकं शतवारावृत्तैः क्रमेणाभिमन्त्रितमेरुकां शिवपूजाक्रमेणावाहनादिभिः पूजितां जपारम्भकाले हुंफडंतास्त्रमन्त्रेण प्रोक्षितां हृदयेन गन्धपुष्पादिभिर्मालामुद्रापरदर्शनेन च पूजितां दक्षिणहस्तगृहीतां वस्त्रसंगोपितामक्षमालां वाचिकजपे मध्यमायां निधाय तर्जन्यगुष्ठाभ्यां, उपांशुजपे अनामिकायां निधायमध्यमांगुष्ठाभ्यां, मानसजपे कनिष्ठिकायां निधायानामिकांगुष्ठाभ्यां च गणयेत् | बुभुक्षु रक्षमाला मधोनयेत् | मुमुक्षुरूर्द्धं नयेत् | मेरुलङ्घनदोषे प्रायश्चित्तमघोरसहस्रजपः | तद्दोषास्पर्शनायमेरुरहीनाक्षमाला कर्तव्या | एवमक्षमालायाः पादयोः पतनेऽप्यघोरसहस्रजपः | भूमौ तस्याः पतने तत्रिंशज्जपः | वाससि पतने तच्छतजपः | जपारंभकाले एकं पुष्पं दक्षिणहस्तस्य कनिष्ठिकामध्ये कृत्वा जप्तव्यम् | रुद्राक्षमालिकया जपेतु तद्ग्रहणे सौकर्पाय दक्षिणहस्तेन गृहीतं पुष्पं वामहस्ते निधाय जप्तव्यम् | अद्रुतविलंबितसावधानजपं समर्प्य वामकरतले अस्त्रकवचहृदयान्युपर्युपरि विन्यस्य तदुपरि जपकाले धृतं पुष्पंनिधाय हृदयकवचास्त्रैस्संपुटीकृत्य अस्त्रेणसंरक्ष्य कवचेनावकुण्ठ्य दक्षिणहस्ते पुनर्गृहीत्वा हृत्प्रदेशे निधाय पूर्णचन्द्रोपमं जपं तद्गतं ध्यायन् भूनिवेशितदक्षिणजानुर्भूत्वा हां गुह्यातिगुह्यगोप्तात्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवति मे येनत्वत्प्रसादात् त्वयिस्थिते || हां हौं शिवायस्वाहा | श्रीपरमशिव जपं त्वयिनिक्षिपामीति जपमर्घ्यांबुचुलकेन साक्षतकुशपुष्पेण शिवस्य वरदहस्ते निवेदयेत् | अयं भुक्तिमुक्तिसाधकस्य स्वकृतजपस्य विस्मयं सङ्कीर्तनकर्मनाशजलसंस्पर्शादिभिर्विनाशशङ्कया तत्संरक्षणाय शिवहस्तेनिक्षेपः | मन्त्रश्लोकस्यायमर्थः | गुह्याति गुह्यादीनां मन्त्रतत्वादीनां गोप्ता त्वमेव | अतस्सर्वगोप्तृत्वादस्माकं जपमपि गृहाण | यस्मिन्जपे त्वयिस्थिते त्वत्प्रसादादस्माक प्. ९६) भुक्तिमुक्तिर्भवत्येव | तस्मान्मयि कृपया तत्गृहाणेति | ततः हां यत्किंचित्कर्म हे देव सुकृतं चैव दुष्कृतम् | तन्मेशिवपदस्थस्य भुक्ष्व क्षपय शङ्कर || हां हों शिवाय स्वाहा | परमशिवायमे सुकृतंदुष्कृतं च निवेदयामीति सुकृतदुष्कृतात्मकं सर्वं कर्म प्रागुक्तक्रेमेण चुलकोदकेन निवेदयेत् | तत्र सुकृतजातस्य भोगार्थस्य मोक्षान्तरायपरिहारार्थस्य संरक्षणार्थं निवेदनीम् | दुष्कृतजातस्यक्षपणार्थम् | अतस्सुकृतं भुंक्ष्व पालय | दुष्कृतं क्षपय नाशयेति योजना | भोगनिष्पृहस्य केवलमुमुक्षोस्तु मोक्षान्तरायपरिहारार्थं स्कृतमात्रमेव भुक्ष्वेति पालनप्रार्थना | भोगार्थसुकृतस्य शिवपूजायामङ्गफलत्वेनानुषंगिकस्य मानुषादिहिरण्यगर्भानन्दान्तभोगप्रापकस्य विषयेभ्यो जुगुप्समानं केवलं मुमुक्षुंप्रति एते वै निरयास्तात स्थानस्यपरमात्मनः इति पुराणोक्तरीत्या नरकप्रापकस्य दुष्कृतरूपतया क्षप्रणपार्थनैव | यद्यपि पालनार्थे भुजिधातोः परस्मैपदितयाभुनक्षीतिपरस्मैपदिनाभाव्यम् | तथाऽपि मन्त्ररूपेश्लोके वैदिकमन्त्रेषु रक्षस्वेतिप्रयोग इव छान्दसोऽयं व्यत्ययो बहुलमित्यात्मनेपदप्रयोगः | यद्वा भुंक्ष्वेति भोग- एवोच्यते, नतु पालनम् | सकृतशब्देन च केवलमुक्त्यर्थिनः पूजकस्य यदनिष्टं भोगार्थसुकृतं तदेवाच्यते, नतुभुक्त्यर्थमपेक्षितम् | तद्भोगश्शिवस्यराज्ञो राजभोगवत् स्वाधीन व्यवहारः | नतु स्वयमेव भोजनम् | स्वाधीनव्यवहारश्च पूजकस्य प्रियेषु ज्ञातिषु तस्य यथाकथंचित् सुहृत्सुवानिवेशनम् | मुमुक्षोरनपेक्षितं सुकृतं शिवस्तस्य ज्ञातिसुहृद्भ्यः प्रयच्छतीतिश्रुतिप्रसिद्धिः | यद्यपि तस्य दुष्कृतं तद्विषद्भ्यः प्रयच्छतीत्यपि श्रुतिप्रसिद्धिरस्ति | तथाऽपि शिवपूजकः सर्वमष्टमूर्तेश्शिवस्य रूपं मन्यमान स्तान्नद्वेष्टीति तेन स्वदुष्कृतस्य स्वस्मिन्फलाजनकत्वरूपं क्षपणमेव प्रार्थयितुमुचितमिति तत्प्रार्थना मन्त्रे निबद्धा | ततः शिवोदाता शिवो भोक्ता शिवस्सर्वमिदं जगत् | शिवो यजति सर्वत्र यश्शिवस्सोऽहमेव तु || हां हौं शिवायस्वाहा (प्. ९७) परमशिवमात्मानं तुभ्यं निवेदयामीति प्रागुक्तरीत्या चुलकोदकेन निवेदयेत् | अत्र मन्त्रश्लोके सोहमिति भागेन स्वस्य शिवस्य च शरीरशरीरिभावः प्रतिपाद्यते | शिवस्य नियामकत्वेन शरीरित्वात् स्वस्य नियम्यत्वेन शरीरत्वाच्च शरीरशरीरिभावे सोऽहमिति सामानाधिकरण्यम् | धर्मज्ञस्सुन्दरो राजेतिवत् | एवेति तदयोगव्यवच्छेदः | यश्शिव इति | यः परममंगलवाची शिवशब्दः रूढ्या त्रिवेधेनाप्याणवमायिककर्मरूपेण मलेनास्पृष्ट इति अनादिमलसंश्लेषप्रागभावात् स्वभावतः | शिव इत्युच्यते सद्भिश्शिवतत्वार्थ वेदिभिरित्यादिषु प्रसिद्ध इत्यर्थः | अथवा शीङ्स्वप्न इति धातो रौणादिकेन वन्प्रत्ययान्तत्वह्रस्वत्वनिपातेन शेते सामरस्येन वर्ततेऽस्मिन् कल्याणगुणजातमिति व्युत्पत्त्या परस्परविरुद्धौदार्यमाधुर्यविशेषज्ञत्वनिरतिशयत्वसहिष्णुत्वादि- समाश्रयणीयेत्वापयोगिसकलकल्याणगुणरत्नाकर इति | नास्तियद्यदकल्याणं तत्तदस्य कदाचन | कल्याणं सकलं चास्ति परमात्मा शिवोयतः इत्यादिषु प्रसिद्ध इत्यर्थः | अथवा हिं सिधातोस्सिंहशब्दो वशकांतौ शिवःस्मृतः | वर्णव्यत्ययतस्सिद्धः कश्यपः पश्यकोपथेतिनिपातेन वष्टिशिवमिच्छतीति व्युत्पत्त्यासर्वभूतहिताशासितेति | समेधयति यन्नित्यं सर्वार्थानामुपक्रमे | शिवमिच्छन्मनुष्याणां तस्माद्देवश्शिवःस्मृतः इत्यादिषु प्रसिद्ध इत्यर्थः | अथवा शिवशब्दाच्छुभवाचिनः तत्करोतीतिणिचि पचाद्यचि णेरनिटीति णिलेपे च सति शिवं करोति सर्वेषामिति व्युत्पत्त्या सकलभूतहितकर्तेति | समाभवंति मे सर्वे दानवाश्चामराश्च ये | शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुरा इत्यादिषु प्रसिद्ध इत्यर्थः | अथवा श्यैञ्गतावितिधातोरौणादिकेनवन्प्रत्ययस्याकारयकारलोपस्य च निपाताभ्यामयते प्राप्यते इति व्युत्प्रत्या भोगमोक्षार्थिभिः भजनीय इति | यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गमाः | पूर्णेन्दुवदना नार्ग्रश्शिवपूजाविधेः फलम् || सर्वमन्यत्परित्यज्य शिव एव शिवंकरः | प्. ९८) परो ध्येयोऽथ देवेशस्समाप्ताऽथर्वणो श्रुतिरित्याषु प्रसिद्ध-इत्यर्थः | अथवा यद्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गा दघमाशुहंति तत् | पवित्रकीर्ति तमलङ्घ्यशासनं भवानहोद्वेष्टि शिवं शिवेतर-इत्यादिषु सकलदुरितहरत्वेनानुशिष्टस्य शिवशब्दस्य वाच्योयः प्रसिद्ध इत्यर्थः | शिवोयजति सर्वत्रेति | सर्वेष्वपि लोकेषु शिव एव यजति धर्माधिकारित्वेनावतिष्ठते | कर्मवश्यसकलजीवात्मकः स एव नियन्तेत्यर्थः | शिवस्सर्वमिदं जगत् | भूतभौतिकसकलजडप्रपञ्चात्मकः तन्नियामक इत्यर्थः | भोक्ता प्रपन्नानां पालयिता | दाता प्रपन्नानां प्रामादिकेपातकाद्यन्तराये सतितस्य शोधयिता | एतानि विशेषणानि शिवे स्वात्मनिवेदनतदङ्गोपयुक्तानि | तथाहि - नियम्यस्य पूजकस्य नियामकस्य शिवस्य च नियतनियम्यनियामकभावरूपशरीरशरीरिभावेन शिवंप्रतिपूजकस्य तवाहमस्मीत्यनुसंधानमेवात्मनिवेदनम् | तदिह सोहमेवेत्यत्र तत्पदोक्तेशिवे अहंपदेन स्वशरीरकत्वं एवकारेण तदयोगव्यवच्छेदकार्थ केन तस्यनियतत्वं चानुसंधानविषयरूपं तदुपपादकमभिहितम् | अस्य चात्मनिवेदनस्य साङ्गपञ्चकत्वमाहुः - आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यविवर्जनम् | रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा || (प्. ९८) कार्पण्यमिति | तत्र सर्वभूतानुकूल्याचरणतत्प्रातिकूल्यवर्जनरूपाङ्गद्वयोपपाद- कं सर्वोऽपि जीववर्गः पूजकं प्रति शरण्यस्य शिवस्य शरीरमित्येतदभिहितम् | तेन प्राणिमात्रे शिवपूजकेन राजशरीरे भृत्य-इवानुकूल्येन वर्तितव्यं तत्प्रातिकूल्यं च वर्जनीयमिति लभ्यते | अत एवोक्तं वायुसंहितायां शिवस्य मूर्त्यष्टकनिरूपणप्रकरणे- आत्मा तस्याष्टमी मूर्तिश्शिवस्य परमात्मनः | व्यापिकेतरमूर्तीनां विश्व तस्मात् शिवात्मकम् || सर्वोपकारकरणं सर्वानुग्रहणं तथा | सर्वाभयप्रदानं च शिवस्याराधनं विदुः || देहिनो यस्य कस्यापि क्रियते यदि निग्रहः | अष्टमूर्ते रेनिष्टं तत्कृतमेव न संशयः इति || रक्षिष्यतीति विश्वासे तु सर्वैरपि विशेषणैः (प्. ९९) उपपादकमभिहितम् | अहमेवेत्युक्तं स्वशरीरकत्वं तावत् स्वरक्षणविश्वासोपपादकम् | कोहि स्वशरीरं न रक्षेत् | शिवशब्दोक्तमुक्त विश्वासविरोधिरागद्वेषादिहेतुमलराहित्यं समाश्रयणीयत्वोपयोगि सकलकल्याणगुणशालित्वं सकलभूतहिताशंसितृत्वं सकलभूतहितकर्तृत्वं हितविरोधिसकलदुरितनिवर्तकशिवशब्दवाच्यत्वमित्येतत्सर्वमपि तदुपपादकंशिवोयजति सर्वत्र शिवस्सर्वमिदंजगत् इति विशेषणद्वयोक्तं चेतनाचेतनात्मकसकलप्रपञ्चनियन्तृत्वरूपं सर्वेश्वरत्वमपि तदुपपादकम् | सर्वेश्वरोहि तद्भक्ताभिलषितदानसमर्थ इति विश्वसितुं शक्यः | पालनार्थात् भुजिधातोः दैप्शोधन इति घातोश्च ताच्छील्यार्थकत्वेन भोक्ता दातेति विशेषणद्वयेनाभिहितं भक्तरक्षकस्वभावकत्वं तदीयप्रामादिकमहापातकादिसकल दुरितनिवर्तकस्वभावकत्वञ्च तदुपपादकमिति स्पष्टमेव | गोप्तृत्ववरणेऽपि भोक्तृत्वमेवोपपादकम् | स्वयमेव रक्षकस्वभावः कथं रक्षकोभवेति प्रार्थितो नरक्षेत् | तु शब्देन देवतान्तरनिरपेक्षत्वरूपकार्पण्योपपादकं स्वस्य देवतान्तराणां च नियम्यनियामकभावराहित्यरूपन्तु शब्देनोक्तमिति विवेकः || एवं त्रिभिश्चुलकोदकैर्जपक्रियात्मसमर्पणानन्तरं पञ्चब्रह्मषडङ्गमन्त्रानपि मूलमन्त्रदशांशसंयोगेन जप्त्वा शिवमष्टपुष्पिकया पुष्पाञ्जलित्रयेण चाभ्यर्च्य पुरतः कृताञ्जलिबन्धः स्थित्वा स्तोत्रमपि विज्ञापयेत् | पञ्चावरणस्तोत्रैरन्यैरपि श्रुतिस्मृतिपुराणागमादिदृष्टैः पूर्वाचार्यकृतैःस्तोत्रैर्वा यथा संभवं स्तुवीत | स्वकृतस्तोत्रं श्रुतितुल्यमिति पौराणिकाः || प्रदक्षिणविधिः || एवं स्तुत्वा पुष्पाञ्जलिसमर्पणपूर्वकं साष्टाङ्गं प्रणम्य प्रदक्षिणत्रयं कृत्वा पञ्चवारं प्रणम्य पुनः प्रदक्षिणं कुर्यात् | पूजासाफल्यसिद्ध्यर्थं प्रदक्षिणमावश्यकम् | (प्. १००) पदात्पदान्तरं गच्छेत् करौ चलनवर्जितौ | स्तुतिर्वाचा हृदिध्यानं चतुरङ्गं प्रदक्षिणम् | आसन्नप्रसवा नारी तैलपूर्णं यथा घटम् | वहन्तीशनकैर्याति तथा कुर्यात् प्रदक्षिणम् || तत् प्रदक्षिणम् त्रिविधम् || सव्यमपसव्यं सव्यापसव्यं चेति | देवं स्वस्य दक्षिणभागे कृत्वा क्रियमाणं सव्यम् | तद्विपरीतमपसव्यम् | उभयमिलितं सव्यापसव्यम् | त्रिविधमपि इन्द्रदिगादीन्द्रदिक्पर्यन्तं कर्तव्यम् | सव्यापसव्यं सोमसूत्रस्थानादि सोमसूत्रस्थानान्तं वा कर्तव्यम् | तत्र सव्यं ब्रह्मचारिणामपसव्यं यतीनां सव्यापसव्यं गृहिवानप्रस्थयोरिति कश्चन पक्षः | सव्यं साधारणमपसव्यं यतीनामेव सव्यापसव्यं दीक्षितानामेवेत्यपरः पक्षः || प्रणामविधिः || प्रणामश्चतुर्विधः | अष्टाङ्गः पञ्चाङ्ग्स्त्र्यङ्ग एकाङ्गश्च | अष्टाङ्गोद्विविधः | दण्डप्रणामः केवलप्रणामश्च | पद्भ्यां कराभ्यामुरसा शिरसा वाचा क्रियमाणो दण्डप्रणामः | पादद्वयेन करद्वयेनोरसा शिरसा वाचा मनसा धिया दृष्ट्या च क्रियमाणो दण्डप्रणाम इति पक्षान्तरम् | अत्र मनसेत्यनन्यमनस्कत्वमुच्यते | धियेति शिवमहिमानुसन्धानरूपस्तोत्रं विविच्यत इति भेदः | पादद्वयेन जानुद्वयेन करद्वयेन उरसा शिरसा मनसा वाचा दृष्ट्या च क्रियमाण इत्यपि पक्षान्तरम् | पादद्वयेन बाहुद्वयेन उरसा शिरसा मनसा वाचा दृष्ट्या च क्रियमाण इत्यपि कश्चन पक्षः | शिरसा हस्त्वाभ्यां कर्णाभ्यां चिबुकेन बाहुभ्यां च भुवं संस्पृश्य क्रियमाणः केवलप्रणामोऽष्टाङ्गः | शिरसा हस्ताभ्यां जानुभ्यांच भुवं स्पृष्ट्वा क्रियमाणः पञ्चाङ्गः | शिरो हस्तौ बाहू च जानुनि निधाय क्रियमाणः पञ्चाङ्ग इति पक्षान्तरम् | (प्. १०१) शिरसि हस्ताभ्यामञ्जलिबन्धनं त्र्यङ्गनस्कारः | केवलं शिरसैवानमनमेकाङ्गनमस्कारः | एते प्रणामा देशकालबलाद्यपेक्षया यथा संभवं विनियोक्तव्याः || अग्निकार्यविधिः || इत्थं परमेश्वरं स्तुतिप्रदक्षिणनमस्कारैस्सन्तोष्य स्वामिन्नग्निकार्यं करोमीति विज्ञाप्य शिवादाज्ञां गृहीत्वा सामान्यार्घ्यकरोऽग्न्यगारं गत्वा निरीक्षणादिचतुस्संस्कारैश्शुद्धे हस्तमाने मृत्सिकतान्यतरनिर्मितेस्थण्डिले अरणिसूर्यकान्तादिनिर्मितं श्रोत्रियागागारसमाहृतं वाऽग्निं प्रज्वाल्य हुंफडन्तास्त्रेण क्रव्यादांशमग्निं निर्-ऋतिकोणे निरस्य मूलेनाग्निं निरीक्ष्य हुंफडन्तास्त्रेणप्रोक्षणताडने विधाय वौषडन्तकवचेनाभ्युक्ष्य हां हं हां वह्निमूर्तयेनम इति संहारमुद्रया वह्निचैतन्यं पूरकवायुना हृत्पुण्डरीकस्थितेन वह्निना संयोज्य तत्सहितं सुषुम्नामार्गेण द्वादशान्तं प्रापयय परमशिवसंपृक्तं कृत्वा रेचकेन पिङ्गलया निस्सार्य हां ह्रूं वह्निचैतन्याय नम इति तमुद्भवमुद्रया ज्वलदग्नौ निक्षिपेत् | तदनु सयोजातादिमन्त्रैर्नमोन्तैः पञ्चभिरग्निं संपूज्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्य कवचेनावकुण्ठ्यास्त्रेणसंरक्ष्य हृदयेनाभ्यर्च्य पारमेश्वरवीर्यमिति विभाव्य वागीश्वरीं वागीश्वरं च समरसावीशदिग्गतौ ध्यात्वा वागीश्वरीगर्भनाड्या मात्मसंमुखं वागीश्वरेण तद्वीर्यं क्षिप्यमाणं विभावयेत् | ततः स्वाहान्तमूलेनाहुतिपञ्चकं दत्वा हां शिवाग्निंस्त्वं हुताशनेतिनाम कृत्वा गर्भाधानादिपञ्चसंस्कारादिसंस्कृतमग्निंविभाव्य पितरौ हृदाऽभ्यर्च्य विसृज्य सामान्यार्घ्यजलेन वौषडन्तकवचेन कुण्डं मेखलां च संप्रोक्ष्यमेखलायादिक्षु पूर्वोत्तराग्रान्दशदर्भान्कवचेनास्तीर्यमेखलायाः पूर्वदक्षिणपश्चिमोत्तरदिक्षु ब्रह्मविष्णुरुद्रानन्तान्समभ्यर्च्य अग्न्यर्मकं रक्षतेति विज्ञाप्य | (प्. १०२) पञ्चवक्त्रयुतं रक्तं सप्तजिह्वाविराजितम् | दशहस्तं त्रिणेत्रञ्च सर्वाभरणभूषितम् || रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् | बद्धपद्मासनासीन दशायुधसमन्वितम् | शिवाग्निं ध्यात्वा तस्योर्ध्ववक्त्रे कनका बहुरूपाऽतिरिक्तेति जिह्वात्रयं पूर्वादिवक्त्रेषु सुप्रभाकृष्णारक्ताहिरण्मयीति जिह्वाचतुष्टयं ध्यायेत् | ततोहामग्नयेनम इति संपूज्य हां ह्रूमग्नये स्वाहेति तिलाहुतिपञ्चकं हुत्वा | अग्ने त्वमैश्वरं तेजः पावनं परमं यतः | तस्मात्त्वदीपहृत्पद्मे स्थाप्य सन्तर्पयाम्यहमित्यग्निं विज्ञाप्याग्नेः हृदयकमले आसनमूर्तिसदाशिवावाहनपूर्वकं सर्वोपचारैस्संपूज्य अग्निवक्त्रैश्शिववक्त्रेसन्निधानंविभाव्य स्वाहान्तमूलेन समिदन्नाज्यलाजसर्षपतिलादिभिश्शतं तदर्धं वा यथाशक्ति हुत्वा ब्रह्माङ्गानां दशांशाहुतिं हुत्वा हौं शिवाय वौषडित्यूर्ध्ववक्त्रे पूर्णाहुतिं दत्वा स्वाहान्तमूलेन चरुं ग्रासत्रयपरिमितं हुत्वा ब्रह्माङ्गानामेकैकाहुतिं हुत्वाऽचमनं प्रदाय चन्दनतांबूलानिदत्वा भस्मपाद्याष्टपुष्पिकया संपूजयेत् | आज्याद्यभावे पत्रपुष्पादिभिर्वा जुहुयात् | ततः स्तोत्रप्रदक्षिणनमस्कारैस्सन्तोष्य पराङ्मुखार्घ्यं दत्वा शिवमुत्थाप्य लिङ्गस्थे शिवे संपूजयेत् | ततः परिस्तरणदर्भान्संगृह्याग्रमध्यमूलान्याज्यसिक्तानि कृत्वा एकं दर्भं समादाय शेषमग्रप्रभृति दहेत् | तमेकं दर्भमग्नौ निक्षिप्य तद्भस्मना ललाटे तिलकं कुर्यात् | तद्भस्मधारणमायुश्रीकीर्तिवर्धनं विजयारोग्यकरञ्च | ततस्तस्य दक्षिणभागे चतुरश्रं मण्डलं कृत्वा मण्डलात् प्राग्भागे पूर्वाद्युत्तरान्तासु महादिक्षु रुद्रमातृगणयक्षा नीशानादिकोणेषु ग्रहासुरराक्षसनागान् मण्डलमध्ये ईशानाग्नेयनैर्-ऋतकोणेषु नक्षत्रराशिविश्वदेवान् वायुवरुणदिशोर्मध्ये क्षेत्रपालञ्चाभ्यर्च्यार्घ्यं दत्वा जलमिश्रान्नेन रुद्रादिभ्यो बलिं दत्वाऽचमनं दद्यात् | रुद्रादीनामभ्यर्चने नमोन्तास्तत्तन्नाममन्त्राः | बलिदाने स्वाहान्ताः | क्षेत्रपालस्यैकवचनमन्येषां (प्. १०३) बहुवचनमिति भेदः | ततः प्राग्भागे चतुरश्रमण्डले इन्द्रादिविष्ण्वन्तानां लोकपालानां बलिं दद्यात् | ततोमण्डपाद्बाह्यांकणे गोमयमण्डले वायसादिभ्यस्समयभेदिभ्यः स्वाहा | अग्न्यादिभ्यः स्वाहा | सर्वेभ्योग्रहवास्तुदेवेभ्यः स्वाहा | इति पृथक्पृथक् बलिं दत्वाश्वभूतपतितप्रेतादिभ्योऽप्येकं बलिंदद्यात् | यद्वा - संक्षिप्य सर्वोद्देशेन ये रुद्रारुद्रकर्माणो रौद्रस्थाननिवासिनः | (सौम्याश्चैवतु ये केचित् सौम्यस्थाननिवासिनः |) मातरो रुद्ररुपाश्च गणानामधिपाश्च ये || विघ्नभूतास्तथाऽन्ये च दिग्विदिक्षु समाश्रिताः | सर्वे सुप्रीतमनसः प्रतिगृह्नंत्विमंबलिम् || सिद्धिं जुषन्तु नः क्षिप्रंभयेभ्यः पांतुमांसदेति मन्त्रेणैकंबलिंक्षिपेत् || सर्वमिदं बलिकार्यमग्निकार्याधिकारिणैव कर्तव्यं न सर्वैः | अग्निकार्याधिकारे सत्यपि होमोपकरणवैकल्ये तदशक्तौवा होममन्त्रान् होमसङ्ख्यापेक्षया दशगुणावृत्त्या जपेत् | ततश्शिवज्ञानपूजां कुर्यात् || शिवज्ञानपूजाविधिः || शिवज्ञानानि कामिकादयो दिव्यागमाः | तत्र कामिकं त्रिभेदं परार्द्धग्रन्थम् | योगजं पञ्चभेदं लक्षग्रन्थम् | सूक्ष्म मेकतन्त्रं पद्मग्रन्थम् | सहस्रं दशभेदं शङ्खग्रन्थम् | अंशुमान् द्वादशभेदं पञ्चलक्षग्रन्थम् | सुप्रभेदमेकतन्त्रं त्रिकोटिग्रन्थम् | विजयमष्टभेदं त्रिकोटिग्रन्थम् | निश्वासमष्तभेदं कोटिग्रन्थम् | स्वायम्भुवं त्रिभेदं सार्धकोटिग्रन्थम् | अनलमेकतन्त्रं त्रिंशत्सहस्रग्रन्थम् वीरतन्त्रं त्रयोदशभेदं लक्षग्रन्थम् | रौरवं षट्भेदमष्टार्बुदग्रन्थम् | मकुटं द्विभेदं लक्षग्रन्थम् | विमलं षोडशभेदं लक्षग्रन्थम् | प्रोद्गीतं षोडशभेदं त्रिलक्षग्रन्थम् | ललितं त्रिभेदमष्टसहस्रग्रन्थम् | सिद्धं चतुर्भेदं सार्धकोटिग्रन्थम् | सन्तानं सप्तभेदं षट्सहस्रग्रन्थम् | शर्वोक्तं पञ्चभेदं द्विलक्षग्रन्थम् | पारमेश्वरं सप्तभेदं द्वादशलक्षग्रन्थम् | (प्. १०४) किरणं नवभेदं पञ्चकोटिग्रन्थम् | वातुलं द्वादशभेदं लक्षग्रन्थम् | एवमष्टाविंशतिभेदा दिव्यागमाः | परार्धशङ्खपद्मषट्पञ्चाशत्सहस्राधिकैः षडुत्तरषष्ट्यालक्षन्यूनं पद्मंचेत्येतावत्संख्या ग्रन्थाः | तदुपभेदाः अष्टोत्तरद्विशतसङ्ख्याः | इत्थंभूतान् सर्वानपि दिव्यागमान् यथालाभं कतिचिद्वा एकं वा तत्रापि स्वपूजोपयोगिसंहितामात्रं वा लक्षणशालिषु पुस्तकेषु लेखयेत् | पुस्तकेषु द्वाविंशत्यंगुलदीर्घं चतुरंगुलविस्तारं पुस्तकं लक्ष्मीभद्रम् | एकविंशत्यंगुलदीर्घं त्र्यंगुलविस्तारं श्रीरक्षम् | विंशत्यंगुलदीर्घं पवहीनत्र्यंगुलविस्तारं चन्द्रकान्तम् | इदमुत्तमत्रयम् | अष्टादशांगुलदीर्घं अर्धाधिकांगुलद्वयविस्तारं नलिनम् | सप्तदशांगुलदीर्घं त्रियवाधिकांगुलत्रयविस्तारं श्रीनिवासम् | षोडशांगुलदीर्घं द्वियवाधिकांगुलद्वयविस्तारं श्रीभद्रम् | इदं मध्यमत्रयम् | पञ्चदशांगुलदीर्घं यवाधिकांगुलद्वयविस्तारं लक्ष्मीनिवासम् | चतुर्दशांगुलदीर्घमंगुलद्वयविस्तारं उमाभद्रम् | त्रयोदशांगुलदीर्घं यवहीनांगुलद्वयविस्तारं वीरभद्रम् | एवंविधेषु पुस्तकेषु यजमानस्ययान्यनुकूलानि पत्रीयचतुष्टयांशतृतीयांशयोर्मद्ध्येमद्ध्यगतसिषिरवन्ति कारयित्वा यवोदरमानैः कार्पाससूत्रैराबध्नीयात् | एतेषां शिवज्ञानपुस्तकानां पूजनाय शिवस्य दक्षिणपश्चिमे वायव्यभागे वा त्रस्त्रिंशद्धस्तप्रभृतिषु त्रिहस्तपर्यन्तेषु परिमाणेष्वन्यतमपरिमाणवद्विद्याकोशगृहं कृत्वा सुगन्धिचन्दनाद्यनुलिप्तभित्तिकस्य तस्य मध्ये नागदन्तादिरचितं सुवर्णरेखादिचित्रितं विद्यासिह्मासनं निधाय तत्र दुकूलादिकमास्तीर्य तन्मध्ये स्वर्णरूप्यताम्रकांस्यारकूतलोहदारु वेणुविदलिकादिकृतां विद्यारत्नकरण्डरूपां मञ्जूषां निधाय तस्यां पुस्तकानि निदद्ध्यात् | तेषु सर्वेभ्यश्शिवज्ञानेभ्योनमः इति गन्धपुष्पधूपदीपनैवेद्यैस्संपूज्य || सर्वज्ञानप्रदं शम्भुं सर्वाज्ञानविघातकम् | कायेन मनसा वाचा विद्यापीठाश्रयंभजे इति स्तुत्वा नमस्कुर्यात् | पुस्तकालाभे (प्. १०५) चतुरश्रमण्डले अष्टदलपद्मं तदावारकमष्टादशदलपद्मं च लिखित्वा कर्णिकायां हौं शिवायनमः | हां वागीशायनमः | इति वागीश्वरसहितं शिवं संपूज्य पूर्वादिषु दशसु दलेषु कामिकादीन् सुप्रभेदान्तान् शिवेनाधिकरणान्तरनिरपेक्षेण साक्षान्निर्मिततया शैवसंज्ञान दिव्यागमान् संपूज्य अष्टादशसु दलेषु विजयादिवातुलान्तान् अनादिरुद्राद्यधिकरणेन शिवेन निर्मिततया रौद्रसंज्ञान् पूजयेत् | अथ गुरुं स्वपीष्ठस्थं गत्वा तस्य पादौ प्रक्षाल्य शिवबुद्ध्या गन्धादिभिस्संपूज्य पुष्पाञ्जलित्रयं कृत्वा साष्टाङ्गं त्रिः प्रणम्योत्थाय भूमौ जानुनी न्यस्य कृताञ्जलिपुटः क्षमस्वेति ब्रूयात् | यदिमधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पं वनान्तरे | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् इति शास्त्रमनुसृत्याधिकज्ञानार्थमन्यं गुरुमाश्रयति, तथाऽपि पूर्वगुरुमपि यथापूर्वं पूजयेत् | ततश्शिवसमीपमागत्याष्टपुष्पिकया शिवं संपूज्य विशेषार्घ्यं दत्वा प्रणामपुरस्सरमभितः प्रार्थनां कृत्वा न्यूनं बाऽप्यधिकं वाऽपि यन्मया मोहतः कृतम् | सर्वं तदस्तु संपूर्णं त्वत्प्रसादात् प्रहोममेति संप्रार्थ्य | अपराधसहस्राणि क्रियन्तेऽहर्निशं मया | दासोऽयमिति मां मत्वा क्षन्तव्यं भक्तवत्सल || स्वामिन्क्षुद्रेण दासेन मलीमसधिया मया | कदर्थितो वायद्भक्तिवशात् प्रीतः क्षमस्वतदिति विज्ञापयेत् | ततस्सद्योजातादिक्रमेण पञ्चसुशिरस्सुशिवमभ्यर्च्यास्त्रादिहृदयान्तान्यंगानि च प्रातिलोम्येन संपूज्य पूर्ववद्यथेष्टमूर्ध्वमुखोभवेति संप्रार्थ्य हां हौं शिवाय साङ्गाय पराङ्मुखार्घ्यं स्वाहेति पराङ्मुखार्घ्यं दत्वा सद्यादीनि ब्रह्माण्यस्त्रादीन्यङ्गानि च गर्भावरणरूपाणि देवस्यांगेषु योजयेत् | अन्येभ्योऽपि तत्तदावरणदेवेभ्यः पराङ्मुखार्घ्यं दद्यात् | हुंफडन्तास्त्रेण करद्वयांगुष्ठतर्जन्यग्राभ्यामूर्द्ध्वं पुष्पं प्रक्षिपन्नाराचमुद्रया मन्त्रानुत्थाप्य हां हं हां शिवमूर्तयेनमः | इति दिव्यमुद्रया शिवस्य हृदयस्थाने संयोज्य तेषां (प्. १०६) तत्र लयं विभावयेत् | तदनु गुरुगृह विद्यापीठ सप्तगुरु महालक्ष्मी गणपति द्वारपालेभ्योऽपि पराङ्मुखार्घ्यं दत्वा स्वस्वमन्त्रेणतान्विसर्जयेत् | ततः परिवारदेवेभ्योपि पराङ्मुखार्घ्यं दत्वा प्रत्येकं सपुष्पैर्वस्त्रैराच्छाद्य अस्त्रमन्त्रेण पेटकस्य पार्श्वेषु निदद्ध्यात् | ततश्शिवमन्त्रं समुच्चार्य पद्मपीठाल्लिङ्गमादाय दुकूलादिभिस्संवेष्ट्य पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन् रक्षेति शिवाज्ञां विज्ञाप्य पिधानं कुर्यात् | ततः मिश्रपूजां कुर्यात् | प्रागकृतचण्डपूजश्शिवस्योद्वासनानन्तरमावाहनादिसर्वोपचार- सहितां चण्डपूजां कुर्यात् || इत्थं प्रातर्मध्याह्नसायार्धरात्रिषु प्रातरादिषुकालेषु वा प्रातरादिकालद्वये वा प्रातःकालमात्रेवा घटिकात्रयेण पूजा कर्तव्या | संक्रान्त्युपरागाष्टमीचतुर्दश्यादिव्यतिरिक्तकालेषु बुभूक्षुणा रात्रौ पूजा वर्जनीया | तेनापि त्रिकालपूजा क्रियतेचे दस्तमयं समारभ्य घटिकात्रयमध्ये सायङ्कालपूजा समापनीया | मुमुक्षोस्तु नकालनियमः | यद्वा बुभुक्षोरपि न कालनियमः | यथासंभवकाले तु यथासंभवनाडिकाः | आत्मार्थयजनं कुर्याद्यथाशक्त्यनुरोधत इत्यप्यागमदर्शनात् | एवं प्रपञ्चोपचारान् कर्तुमशक्नुवन् षोडश पञ्चोपचारान् कुर्यात् | आवाहनासन पाद्यार्घ्याचमनस्नान वस्त्रोपवीत गन्धपुष्प धूपदीप नैवेद्य मुखवास स्तोत्रसहितप्रणामप्रदक्षिणसहितविसर्जनानि षोडशोपाचराः | यद्वा- आसनावाहन पाद्याचमनार्घ्यस्नान वस्त्र गन्धपुष्प नैवेद्य तांबूल धूपदीपारात्रिक भस्म चुलकोदकानि षोडशोपचाराः | आवाहनासन पाद्याचमनार्घ्य स्नान वस्त्रगन्धपुष्पनैवेद्यानि दशोपचाराः | गन्धपुष्पधूपदीपनैवेद्यानि पञ्चोपचाराः | यद्यपि पार्थिवं गन्धपुष्पाद्यं कन्दमूलफलादिकम् | आप्यं वारि पयो वस्त्रं दधि गोमुत्रकादिकम् || आग्नेयं हेमरत्नादि दीपमाभरणादिकम् | वायव्यं चामरं धूपं व्यजनं तालवृन्तकम् || नाभसं गेयवाद्याद्यं वीणावेणुस्वनादिकम् | (प्. १०७) एते पञ्चोपचारास्तु कथिताश्शास्त्रवेदिभिरिति पञ्चोपचाराः प्रपञ्चेन दर्शिताः | अथाप्यशक्तानां गन्धादिनैवेद्यान्तोपचारा एव क्रमात् पार्थिव नाभस वायव्य तैजसाप्याः पञ्चोपचाराह् | सर्वोपचाराश्शिवस्यावाहनवत् निश्वासोच्छ्वासरूपचन्द्रार्कगतिनिरोधेन कर्तव्याः इत्यागमप्रसिद्धेः केषुचि दुपचारेषु मात्रागणनेन कालनियमोऽप्यागमेषु दर्शितः | आवाहने द्वादश मात्राः | पाद्ये पञ्च | आचमने तिस्रः | अर्घ्ये एकम् | गन्धे षट् | धूपे द्वादश | द्विपे षट् | नैवेद्ये चतुर्विंशतिः | आरात्रिके सप्त | नीराजने षोडश | भस्मार्पणे सप्त | छत्रे पञ्च | चामरे दश | व्यजने तिस्र इति | एवं चन्द्रार्कगतिनिरोधेन क्रियमाणेषूपचारेषु तत्तन्मन्त्राः मनसैव जप्तव्याः | मन्त्राश्च प्रासाद शिवमन्त्र पञ्चब्रह्म षडङ्गरूपास्तत्तदुपचारेषु यथाविधि विनियोक्तव्याः | तत्रावाहनपाद्य वस्त्र विलेपनभूषणदर्पणच्छत्रचामर तालवृन्त जपस्तोत्र नमस्कोरष्वन्येषु च विशेषोक्तिरहितेषूपचारेषु मन्त्रान्ते नमश्शब्दः | अर्घ्यस्नानधूपदीपनैवेद्यपानीयमुखवासनीराजनपवित्रजपपू- जासमर्पणेषु स्वाहाशब्दः | मार्जन सेचन पुष्पपूर्णाहुतिषुवौषट्शब्दः | मलस्नानशोधन पाशच्छेदन प्रोक्षण ताडनभेदन विघ्ननिवारणेषु हुंफट्शब्दः | रक्षायां फट्शब्दः | आचमनेस्वधाशब्दः | एवमुक्तनियमैः पञ्चोपचारानपि कर्तुमशक्तः केवलमष्टपुष्पिकयाऽर्चयेत् | आसने प्रथमं पुष्पं दातव्यं शुद्धचेतसा | मूर्तिध्यानं हृदा कार्यं पुष्पेणैवापरेणतु || पञ्चपुष्पप्रदानेन पञ्चाङ्गानि प्रकल्पयेत् | शिवं तथाऽष्टमेनैव कथिताचाष्टपुष्पिका | पञ्चाङ्गानिमूर्द्धादीनि पञ्चब्रह्माणि नेत्रवर्जितानि हृदयादीनि वा | एतानि चाष्टपुष्पाणि सर्वसाधारणानि तु | सर्वसिद्धिप्रदानीह तथा सर्वाश्रमेषु च || सर्वेषां चैव वर्णानां सर्वसाधारणानि च | एककालं द्विकालं वा त्रिकालं वा प्रपूजयेत् || प्रातर्मध्याह्नसमये तथा चास्तमिते रवी | (प्. १०८) पूजयेत्परया भक्त्या अष्टपुष्पविधानतः || दरिद्राणामनाथानां बालस्त्रीबालिशेषु च | भोगिनां व्याधिजुष्टानां तथा ध्यानार्पितात्मनाम् | शिवशास्त्रानुरक्तानां नानासिद्धिहितात्मनाम् | अनुरक्तविरक्तानां कथितासाऽष्टपुष्पिका इति कालोत्तरवचनात् | भोगो राज्यपरिपालनम् | तद्वन्तो भोगिनः तेषां राज्यपरिपालनं कुर्वतामित्यर्थः | राज्यपरिपालनेन बहुषु शिवस्थानेषु शिवभक्तानां गृहेषु च शिवपूजाप्रवर्तनेन बहुपुण्यं लभ्यते | शिवशास्त्रानुरवतानां तद्व्याख्यानतदध्ययननिरतानामित्यर्थः | शिवशास्त्रव्याख्यानेन हि लोके यथावत् शिवपूजाप्रवर्तनेन बहुपुण्यं लभ्यते | तदध्ययनेन चाग्रे स्वयं यथावद्बहुकालपूजनेन बहुपुण्यं लभ्यत इति || कपिलापूजाविधिः || इति शिवपूजां समाप्य कपिलापूजां कुर्यात् | यथा कपिलां गां नन्दा सुभद्रासुरभि सुशीला सुमनस्संज्ञां पञ्चगोत्ररूपायै कपिलायैनम इति गन्धपुष्पादिभिरभ्यर्च्य सौरभेयि जगन्मातर्देवानाममृतप्रदे | गृहाण वरदे ग्रासमीप्सितार्थं च देहिमे इति ग्रासं दत्वा वन्दिताऽसि वसिष्ठेन विश्वामित्रेण हह्नुना | कपिले हरमे पापं यन्मया दुष्कृतं कृतमिति संप्रार्थ्य गावो ममाग्रतो नित्यं गावः पृष्ठत एव मे | गावो मे हृदयेचापि गवां मध्ये वसाम्यहमिति जपेत् | एतं नरो जपेन्मन्त्री त्रिसंध्यं नियतश्शुचिः | विमुक्तस्सर्वपापेभ्यश्शिवलोकं प्रपद्यते || परार्थालयदर्शनम् || ततः परार्थालयसमीपस्थःपूजान्ते शिवालयं गत्वा तत्सेवामपि कुर्यात् | (प्. १०९) तत्रायं क्रमः - देवालयसमीपं गत्वा गोपुरद्वारबाह्ये वा बलिपीठस्य बाह्ये वा स्थूललिङ्गात्मकस्य विमानस्य नमस्कारं कुर्यात् | ततो भद्रलिङ्गस्य बलिपीठस्य ध्वजस्तम्भस्य वृषभस्यापि नमस्कारं कृत्वा | (श्लो) अन्तः प्रवेशे शिवदर्शने च शिवार्चनेतत्फलसिद्धिलाभे | देह्यभ्यनुज्ञां भगवन् प्रसन्नस्त्वत्पादपद्मप्रणतायमह्यमिति वृषभं संप्रार्थ्य बलिपीष्ठाग्रदेशे साष्टाङ्गं शिवं प्रणमेत् | देहं वस्त्रेणाच्छाद्य न प्रणमेत् | शिवस्याग्रपृष्ठ वामभाग गर्भगृहेषु च न प्रणमेत् | प्रत्यङ्मुखे चोत्तरदिङ्मुखे च लिङ्गे वामभागे प्रणमेत् | प्रणम्यच देवस्य पुरतः पुष्पाञ्जलिं क्षिपेत् | ततः प्रदक्षिणं कुर्यात् | गर्भगृहेप्रदक्षिणमर्चकस्यैव | अन्तर्मण्डले प्रदक्षिणं दीक्षितानामेव | अन्तर्हारादिषु सर्वेषाम् | तत्रान्तर्हारे प्रदक्षिणमेकगुणम् | मध्यहारेत्रिगुणम् | मर्यादायां चतुर्गुणं | महामर्यादायां पञ्चगुणं | क्षेत्राववौषडगुणं | एवं बलकालाधिकारानुरूपेप्रदेशे एकविंशतिंपञ्चदशवा सप्तवापञ्चवात्रीणिवा प्रदक्षिणानि कुर्यात् | अत्यन्तमनवसरे एकं प्रदक्षिणं वा कुर्यात् | एवं प्रदक्षिणं कुर्वन् गर्भगृहेन्तर्मण्डले च संभावितं सोमसूत्रलङ्घनं न कुर्यात् | तल्लङ्घनवर्जनार्थं गर्भगेहे सोमसूत्रप्रभृति सव्यापसव्यमेव कर्तव्यम् | ततोबहिरन्तर्मण्डलमात्रे सव्यापसव्यम् | तत्वैन्द्रादि सोमसूत्रादि वा कार्यमिति प्रागुक्तम् | प्रदोषेतु वृषादिचण्डनाथान्तं वृषभं सोमसूत्रकम् | पुनर्वृषं चण्डनाथं नालदेशस्य पार्श्वतः || पुनः प्रयायाच्चण्डञ्च तथैव वृषपृष्ठकम् | एवं सव्यापसव्यं तु प्रदक्षिणमिहोच्यते || आद्यन्तं वृषदेवस्य चतुस्स्थानमुदाहृतम् | त्रिचण्डस्थानसंयुक्तं द्विस्थानं सोमसूत्रकमित्युक्तप्रकारेण कर्तव्यम् | सोमसूत्रं च प्रासादाद्बहिर्नालप्रदेशे प्रासादविस्तारमानं तदर्धमानं वा | तस्य लङ्घने दोषः | सूत्राद्बहिर्लंघने तु नदोषः || तदभ्यन्तरेऽपि सङ्कटे तृणादिकमन्तर्धाय लङ्घनीय | तृणैः काष्ठैस्तथा पर्णैः पाषाणैर्लोष्टकादिभिः | अन्तर्धानं पुनः कृत्वा सोमसूत्रं तु लङ्घयेत् इति वचनात् | क्वचिदपसव्यस्य (प्. ११०) निषेधो दृश्यते | सोमसूत्रद्वयं यत्र तत्र वा विष्णुमन्दिरम् | अपसव्यं न कुर्वीत कुर्यादेव प्रदक्षिणमिति || ततो द्वारपालं नन्दिकेश्वरं च नमस्कृत्य तत्तदनुज्ञयाऽन्तः प्रविश्य विघ्नराजं पुष्पाञ्जलिविकिरणमस्तकाहतिपूर्वकं नमस्कृत्य मण्डपं प्रा?पस्य देवदेवं नमस्कृत्य मस्तके हृदये वाऽञ्जलिं बद्ध्वा यथाधिकारं वैदिकागमिक पौराणिक लौकिक द्राविडादि स्तोत्रैः स्तुवीत | तत्राचार्यस्यैव गर्भगृहं प्रविश्य सेवा | इतरेषां ब्राह्मणानामर्धमण्डपं प्रविश्य | क्षत्रियाणामर्धमण्डपद्वारमुखेऽवस्थाय | वैश्यानां वृषाग्रे | शूद्राणां वृषपृष्ठे | वैश्यशूद्राणां वृषाग्रे वृषपृष्ठे च गोमयेन चतुरश्रमण्डलं कृत्वा तत्रैव पुष्पाञ्जलिर्दातव्यः | एवं नृत्तमूर्त्यादीनामपिपुष्पोपहारपूर्वकं प्रणामः कार्यः | एवं प्रणामानन्तरं चण्डेश्वरं प्रणमेत् | इत्थं पीठादिचण्डान्तनमस्कारानन्तरं देवालये संभावितानामपराधानां क्षालनाथ देवस्य सन्निधौ यथाशक्ति देवस्यमूलमन्त्रं जप्त्वा देवस्य पृष्ठीकरणं विना निर्गच्छेत् | अपराधाश्च शिवालयमध्ये वाहनारोहण सोपानहसंचारगोपुरप्रतिमाच्छायालंघन निर्माल्यस्पर्श तल्लङ्घन शिवबलिपीठमध्यसञ्चार प्रमदास्पर्श रागपूर्वकतद्वीक्षण वृथाहास गानभाषण सोत्तरीयप्रदक्षिणनमस्कारैकहस्तनमस्कार वामभागादिनमस्काराकालनमस्कारप्रभृतयः | एतेषु संभावितान् वर्जनीयानपराधान् क्षमाप्य निर्गच्छेत् | एवं शिवं सेवमानेने ग्रामभूषणादिपत्रपुष्पपर्यन्तेन द्रव्येणवा संमार्जनादिना शरीरव्यापारेण वा देवालयोपकारपर्यवासायिवाङ्मात्रेण वा कैङ्कर्यं कृत्वैवसेवनीयम् | प्रतिदिनं सेवायामशक्तश्चेत् अष्टम्यादिषु सेवेते | अष्टम्यामष्टभिर्दिवसैः पर्वणि पक्षेण संक्रान्तौ मासेन च कृतस्य पापस्य क्षयः | प्रदोषे त्रिविधकरणार्जितानां महत्तराणामपि पापानां क्षयः | विषुवायनोपरागमहोत्सवादिषु सेवया शिवपदप्राप्तिः | ततः गृहमागत्य यथावसरं स्वल्पमात्रं वा सिद्धान्तशास्त्रश्रवणं तदभ्यासं वा दीक्षितैस्सहादीक्षितसन्निधिं परिहृत्य कुर्यात् | (प्. १११) नप्रकाश्यमिदं ज्ञानमभक्तानां वरानने | रक्षणीयं प्रयत्नेन तस्करेभ्यो यथाधनमिति वचनात् | अथ मध्याह्नसमये प्रपञ्चेन संकोचेनाष्टपुष्पिकामात्रेण वा पूजयेत् | कुतश्चिद्वैकल्यात् परिगृहीतलिङ्गार्चनालाभे तुल्यानुष्ठायिना परेणार्चिते लिङ्गे संक्षेपेणाष्टपुष्पिकामात्रं कुर्यात् | प्रणवो मातृका माया व्योमव्यापी षडक्षरम् | प्रासादोऽघोरमन्त्रश्च सप्त साधारणामताः | एवं यथाकथंचित् शिवमभ्यर्च्य काले भोक्तुमिच्छन् सर्वस्मादपि पाकादग्र्यमुद्धृत्य तत्रार्धं शिवाय निवेद्य अर्धेन यथाधिकारं वैदिकं शैवं च होमं कुर्यात् | वैदिको वैश्वदेवहौमः | शैवः चुल्लीहोमः || चुल्लीहोमः || तस्यायं क्रमः | (बुद्धिमिति) चुल्लीं निरीक्षणादिभिस्संशोद्ध्यतत्राग्निं पूरककुंभकाभ्यां बिन्दुनाभिस्थानाभ्यां सहैकीकृत्य भौतिकबैन्दवजाठराग्नित्रयं रेचकेन निस्सार्य पिङ्गलया चुल्लिकाग्नौ निक्षिप्य तदनन्तरं अग्नये नमः | सोमाय नमः | सूर्याय नमः | बृहस्पतये नमः | प्रजापतये नमः | सर्वेभ्यो देवेभ्यो नमः | सर्वेभ्यो विश्वेभ्यो नमः | अग्नये स्विष्टकृते नमः | इत्यग्नावाग्नेयादिपूर्वान्तमग्न्यादीन् संपूज्यस्वाहान्तैस्तत्तन्मन्त्रैर्हुत्वा तान्विसर्जयेत् || निर्माल्यभोजनम् || ततो निवेदितं तच्छेषं वा भुंजीत | शिवनिवेदितभोजने फलवचनानि बहूनि श्रूयन्ते - मदीयभुक्तनिर्माल्यं पादांबु कुसुमं दलम् | धर्ममर्थं च कामञ्च मोक्षं च ददते क्रमात् इति || तन्निषेधवचनान्यपि श्रूयन्ते न धारयेत् क्वचिच्छंभोर्निर्माल्यं नच भक्षयेदित्यादीनि | एतेषां शिवदीक्षासहित तद्रहितविषयत्वेन व्यवस्था | निर्माल्यं निर्मलं शुद्धं निर्मलत्वा दनिन्दितम् | (प्. ११२) तस्मादभोज्यं निर्माल्यमशुद्धै रशिवात्मकैः || जिह्वाचापल्यसंयुक्तश्शिवसंस्कारवर्जितः | शिवनिर्माल्यभोजी चेत् रौरवं नरकं व्रजेदिति शिवपुराणवचनादिति केचित् | कामिकादिसिद्धान्ततन्त्रेषु दीक्षितानामेव समयाचारविधानेन निर्माल्यं नच भुञ्जीतेति शिवभक्तान्नं न निन्दयेदित्यादीनि निषेधवचनानि निर्माल्यभक्षणेऽघोरं प्रमादादयुतंजपेदिति प्रायश्चित्तविधानानि च श्रूयन्ते | अतः स्वाद्यानिचादनीयानि पेयान्यन्यानि यानि च | देयानि तानि वै शंभो रश्नीयाद्दासभावतः इत्यादिपुराणवचनानि वैदिकपौराणिकपाशुपतादिविहित शिवसंस्कारेण ये दीक्षितास्तेषामेव शिवनिर्माल्यं ग्राह्यम् | नतु कामिकादिसिद्धान्ततन्त्रेण दीक्षितानमिति केचित् | कामिक एव- अशुद्धात्माऽशुचिर्लोभान्मद्भुक्तं पावनं परम् | भक्षयन्नाशमाप्नोति रसभोक्ता यथाद्विजः || मल्लिङ्गधारिणोलोके देशिका मत्परायणाः | मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु इति वचनात्, उपवाससहस्राणि प्राजापत्यशतानि च | शिवप्रसादसिद्धस्य कोट्यंशेनापि नोसमाः इत्यादिवातुलागमप्रभृतिवचनदर्शनाच्च | सिद्धान्ततन्त्रे दीक्षितानामपि शिवनिवेदितं प्रशस्तमेव | शिवनिर्माल्यनिषेधप्रायश्चित्तवचनानि तु देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् | चण्डभुक्तबहिःक्षिप्तमिति पञ्चविधनिर्माल्यविषयाणि | कामिके देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् | चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं षड्विधं भवेत् || ग्रामादीशस्य देवस्वं देवद्रव्यं पटादिकम् | नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् || चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिरिति निर्माल्यषाड्विध्य निर्माल्योपभोगदोषसंकीर्तन तत्प्रायश्चित्तोपदेशानन्तरमेव निवेदिताख्यनिर्माल्यस्वीकारानुमत्यर्थ मशुद्धात्माऽशुचिर्लोभादित्यादिसार्धश्लोकद्वयस्य पठितत्वात् | एवञ्च सिद्धान्ततत्रे.षु शिवनिवेदितनिषेधवचनानि (प्. ११३) तदुक्तशिवदीक्षारहितविषयाणीत्यपरे || सुप्रभेदे - सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् | पशुनां च गजानां च जलेवाऽथ विनिक्षिपेत् || अथवा वह्निना दह्याद्भूमौ वा खातयेद्बुधः इति सदाशिवनिर्माल्यस्य मनुष्यमात्रसाधारण्येनाभोज्यत्वं प्रत्तिपाद्य तस्यभूवन्हिगोगजादिष्वेव प्रतिपत्तिवर्णनाअच्च सदाशिवनिर्म्लायं दीक्षितानामप्यभोज्यमेव | तेषां शिवनिर्माल्यं प्रशस्तमिति वचनानि तु सकलनिर्माल्यविषयाणि | प्रतिमासु च सर्वासु न चण्डोऽधिकृतोभवेदि ति सकलेषु चण्डाधिकारनिषेधात् | कार्णेसकलानां च नैवेद्यं सर्वेषां भोजनं भवेदिति सकलनैवेद्यानुमतिवर्णनात् | तदपि शिवदीक्षितैस्तत्परिचारकैरेव भोक्तव्यम् | सुप्रभेदे - सदाशिवस्य निर्माल्यमित्याद्युक्त्यनन्तरं सकलानां तु निर्माल्यं परिचारकभोजनम् | तदप्यन्यजनानां तु भोजने दोषकृद्भवेत् इत्युक्तत्वादित्यपरे | सदाशिवनिर्माल्येष्वपि मनुष्यादिस्थापितशिवलिङ्गार्पितेष्वेव निषेधः | नतु चरलिङ्गादिषु | तेषु चण्डाधिकाराभावात् | बाणलिङ्गे चरे लोहे रत्नलिङ्गे स्वयंभुवि | प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् || लिङ्गेस्वायंभुवेबाणे रत्नजेरसनिर्मिते | सिद्धप्रतिष्ठितेलिङ्गेन चण्डोधिकृतोभवेत् | इति च वचनादित्येके | चललिङ्गादिषु चण्डाधिकारो नास्तीति वचनानि वैदिकपौराणिक वामदक्षिणतन्त्रादिविषयाणि | नतु कामिकादिसिद्धान्तविषयाणि | स्थिरेचरे तथा रत्ने मृद्दारौशैलकल्पिते | लोहचित्रमये बाणे स्थितश्चण्डोनियामकः || सिद्धान्तेनेतरे तन्त्रे नवामे नच दक्षिणे इति || अव्यक्तव्यक्तलिङ्गेषु मण्डले स्थण्डिलेऽनले | चरे स्थिरे तथा रत्ने मणिचित्रादिके तथा || गन्धान्नसंभवे लिङ्गे मृद्भस्मफलकल्पिते | तथा पुष्पमये लिङ्गे चण्डपूजा नियामिकेति च कालोत्तरादिषु विशेषदर्शनात् | अतो निर्माल्यविधिनिषेधयोश्चरस्थिरादिविषयत्वेननव्यवस्था | किन्तु निर्माल्यविशेषविषयत्वेन | तांबूलं भस्म तैलं च गन्धपुष्पमपूपकम् | फलादि भक्षणद्रव्यं - निर्माल्यमिति (प्. ११४) नोच्यत इति वचनादितिकेचित् | कामिके - स्वेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः | नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेदिति चरुदृष्टान्तवचनात् | कारणे - स्फाटिकं बाणलिङ्गञ्च स्थापितं चरमेव वा तन्निवेदितनिर्माल्यं न निर्माल्यं प्रकल्पयेत् || बालानां युवतीनां च भोजनं बलवर्द्धनमित्यनिर्माल्यत्वप्रतिपादनाच्च चरलिङ्गादिनिवेदितान्नमपि भोज्यमेव | किन्तु पूजकस्य न भोज्यम् | नैवेद्यं भ्रातृपुत्राणामित्यादिविशेषवचनात् | तांबूलादिमात्रस्य ग्राह्यत्ववचनं तु मनुष्यादिस्थापित लिङ्गविषयमित्यपि केचित् | नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्द्ध्वतः | निवेद्यं मह्यमुच्छिष्टं भुङ्क्ते प्रत्यहमादरात् || सोऽयं मत्सदृशः प्रोक्तः चरुद्रव्यस्तथाभवेदिति कामिके निवेदनकर्तुरपि तदुच्छिष्टभोजनप्रतिपादनात्पूजकस्यापि शिवनिवेदितं भोज्यमेव | तस्य निवेदितभोजननिषेधवचनानि तु संहाररुद्रादिनिवेदितविषयत्वेनयोज्यानीत्यपि केचनवदंति | सदाशिवमूर्तौ परमशिवावाहनपुरस्सरं तत्पूजानिरूपणावसान एव तन्निवेदितनिषेधस्यदिव्यागमेषुबहुशश्श्रवणात् विधिनिषेधसहस्रशबलितं सर्वविधमपि शिवनिर्माल्यंवर्जनीयमित्येवयुक्तम् | श्रूयते च महान्दोषःश्रूयते च महाफलम् | फलं तत्रपरित्याज्यंदोषोहिबलवत्तर इति वचनात् | नचकामिके - पत्रंपुष्पं फलं तोयमन्नं पाद्यमथौषधम् | अनिवेद्य नभुञ्जीत भगवन्तं सदाशिवमित्यनिवेदितभोजनेऽपि निषेधःश्रूयते इति वाच्यम् | तस्यातिथिसत्काररहितभोजननिषेधवत्तच्छेषभोजनविधिपरत्व- संभवात्, अन्नाद्यमौषधं तोयं पत्रं पुष्पं फलादिकम्, | शिवाय दत्वातच्छेषं भोज्यं भुञ्जीत बुद्धिमानितिं सिद्धान्तशेखरे तथैवप्रतिपादनाच्चेत्येवमितरेवर्णयन्ति | एवं निर्माल्यविधिनिषेधवचनानां विचारे नव पक्षास्संपन्नाः | शिवसंस्काररूपदीक्षावतामेव शिवनिर्माल्यानुमतिरन्येषान्तन्निषेध इत्याद्यः पक्षः | शिवसंस्कारवत्स्वपि वैदिकदीक्षावतामेवात्याश्रमिप्रभृतीनां तदनुमतिः नतुकामिकादिसिद्धान्ततन्त्रोक्तदीक्षावतां (प्. ११५) तन्निषेधतद्भक्षणप्रायश्चित्तविधानदर्शनादिति द्वितीयः पक्षः | निवेदितव्यतिरिक्तपञ्चविधनिर्माल्यविषय एव निषेधप्रायश्चित्तोपदेशः | निवेदितं तु तेषामपि ग्राह्यमिति तृतीयः पक्षः | निवेदितमद्ध्येऽपि शिवलिङ्गनिवेदितनिषेधात् सकलनिवेदितमेव ग्राह्यमिति चतुर्थः पक्षः | शिवलिङ्गनिवेदितं न सर्वनिषिद्धं, किन्तु मनुष्यादिप्रतिष्ठापित स्थिरलिङ्गनिवेदितमेव | चरलिङ्गादिनिवेदितन्तुग्राह्यम् | तत्र चण्डाधिकाराभावादिति पञ्चमः पक्षः | कामिकादिगत निवेदितनिषेधतदनुमतिवचनानां स्थिर चरादिविषयतया न व्यवस्था, कामिकादिसिद्धान्तमार्गे चरादिपूजायामपि चण्डसद्भावात् | किन्तु अन्नादिविषयो निषेध | फलापूपतांबुलादिविषयाऽनुमतिरिति व्यवस्था | तदितरेषुविशेषवचनसद्भावादितिषष्ठःपक्षः | चरलिङ्गादिनिवेदितमन्नादिकमपिग्राह्यमेव | किन्तु भ्रात्रादिभ्योदेयं, नतु पूजकेनभोक्तव्यमिति सप्तमःपक्षः | शिवार्पणबुद्ध्याशिवनिवेदितं पूजकेनापि भोज्यमित्यष्टमः पक्षः | फलनिषेधवचनयोर्निषेधवचनस्य बलीयस्त्वात् सर्वस्यापिशिवनिर्माल्यस्यवर्जनमेव युक्तमिति नवमःपक्षः || एतेषु नवमः पक्षस्तावदत्यन्तमयुक्तः | शिवनिर्माल्यस्वीकारे महाफलप्रतिपादकानां बहूनां दिव्यागमपुराणादिवचसामप्रामाण्यप्रसङ्गात् | नह्यार्षेषु वचनेषु वर्णमात्रमप्यप्रामाण्यं सहते | नितरां शिववाक्येषु | येष्वर्थवादकतया प्रामाण्योपपादनमपि महते प्रत्यवायायेति सर्वदिव्यागमघण्टाघोषः | श्रूयते च महान्दोष इत्यादि वचनं तु यत्र विधिनिषेधयोरुभयोरप्यन्यत्रप्रामाण्यावकाशः तत्र तयोः द्वयोः क्वचिन्मेलने निषेधोबलीयानित्येतत्परम् | यथाद्वादश्यामामलकप्राशस्त्यवचनप्रामाण्यमर्कवारमेलनर हितद्वादश्यां सावकाशं अर्कवारे तन्निषेधवचनप्रामाण्यं द्वादशीमेलनरहितेऽर्कवारे सावकाशम् | द्वादश्यर्कवारमेलने सत्यामामलकफलनिषेधवचनद्वयप्राप्तौ निषेधवचनं बलीय इति | फलवचनानां सर्वथैवाप्रामाण्योपपादकं निषेधवचनानां बलीयस्त्वंतु प्रामाणिका नाद्रियन्ते | अतो विधिनिषेधवचनानां विषयव्यवस्थाप्रदर्शनमेव युक्तम् || (श्लो) तां तु प्रदर्शयिष्यामः पूर्वदर्शितवर्त्मना | सर्वागमाविरोधेन सर्वशैवानुमोदिनीं || शैवानां भोजनं त्रिविधम् | शिवपूजासमाप्तौ बाह्यकुण्डे शिवाग्निकार्यवत् तदनन्तरं शिवाग्निकार्यान्तरमात्मभोजनमिति भावनयैकम् | नैवेद्यसमये निवेद्यमानद्रव्याणां रूपार्पणात्मकं शिवे निवेदनस्यारम्भमात्रकृत् मात्मभोजनं तु शिवाय तद्रुच्यर्पणात्मकनिवेदनपूरणमिति भावनया द्वितीयम् | प्रथमं निवेदनसमय एव परस्वदादियागीयहविरिव सूक्ष्मरूपतया नैवेद्यं रुच्यासह शिवेन उपभुक्तमेवात्मभोजनं शिवदासस्य कर्म तदुच्छिष्टस्वीकरणरूपमिति भावनया तृतीयम् | तत्राद्यं सुप्रभेदे वह्निकार्यपटलेप्रपञ्चितम् - अग्निकार्यस्य चान्ते तु प्राणाग्नौहोममाचरेत् | तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते || गृहेवाऽपि प्रकर्तव्यं प्राणाग्नियजनं परम् | तत्स्थानं गोमयालिप्तं शुद्धं कृत्वा विशेषतः || पिष्टचूर्णैरलंकृत्यसवितानं सदीपकम् | सौवर्णं राजतं ताम्रं कांस्यं वा कदलीदलम् | पात्रमेतत् तु सङ्ग्राह्यंशोधयित्वा यथार्हकम् || पात्रेऽशेषाणि संयोज्य स्वात्मस्थं शिवमर्चयेत् | आत्मातु यजमानोऽसौ बुद्धिस्तत्पत्निकास्मृता || केशरोमाणिदर्भास्स्युर्जिह्वाद्या यज्ञपात्रकम् | हृत्पुण्डरीकवेद्यां तमन्तस्थाग्नौ सुपूजयेत् || रोमदर्भान्परिस्तीर्य प्रणवं शिवसंयुतम् | उच्चार्य परिषिच्याथ शिवेनोद्भुक्ष्य मन्त्रवत् || शिवमन्त्रं जले जप्त्वा ब्रह्माण्यंगान्यनुक्रमात् | शिवं ध्यात्वा शिवायेति जलं पीत्वा हृदा पुनः || शिवाय जुहुयादीशमन्त्राद्यैर्ब्रह्मपञ्चभिः | मध्यमानामिकांगुष्ठैरादायान्नं शनैःशनैः || यच्चामृतेत्यादि नैव जलं पीत्वा विशेषतः | पञ्चाहुतीश्च जुहुयात् प्राणमन्त्रैस्तु पञ्चभिः || पात्रसंस्पर्शनं कृत्वा प~श्चाद्भुञ्जीत साधकः | आचम्य च विधानेनादित्याभिमुखसंस्थितः || उदरं शिवमन्त्रेण सव्येनाभिमृशेत्ततः | दक्षिणांगुष्ठकेनांभः (प्. ११७) पादांगुष्ठे तु दक्षिणे || स्रावयेत्तु शिवं स्मृत्वा हृन्मन्त्रं तु समुच्चरन् | चुलकोदकमेतत्स्यात् स्वात्मनः पादमूलतः || प्राणाग्निहोत्रमित्येवं नित्यमेतदुदाहृतम् | अग्निकार्यमिदं प्रोक्तं शृणुत्वं कुण्डलक्षणमिति || इदं भोजनमनिवेदितान्नेनैव कर्तव्यम् | तदर्थमनिवेदितान्नसधावः परार्थपूजायामेकभागं निवेद्यं स्यादेकभागं हुतं भवेत् | एकभागं तु बल्यर्थं शेषमाचार्यभोजनमिति आगमवचनैर्दर्शितः | आत्मार्थपूजायां पाकादर्धं समुद्धृत्य तस्यार्धं शंभवेऽर्पयेत् | अग्नावर्धेन जुहुयात् तद्विविधिश्च निगद्यत इत्यादि चुल्लीहोमप्रकरणागमवचनैर्दर्शितः | द्वितीयभोजनं तु वातुलोत्तरेदर्शितम् - रूपं समर्प्य द्रव्यस्य रुचिमप्यर्पयेच्छिवे | उभयार्पणहीनं चेत् नैवेद्यं निष्फलं भवेत् || तत्तत्प्रसादभोगान्तं नैवेद्यार्पणमुच्यते | प्रसाददानहीनं चेत् नैवेद्यमपि निष्फलमित्यादिना | इदमारब्धासमाप्त निवेदनक्रियेणान्नेन कर्तव्यम् | नैवेद्योपचारसमये देवस्य पुरतो यन्नैवेद्यं निहितं तस्य तदानीं रूपार्पणेनारब्धा निवेदनक्रिया रुच्यर्पणपर्यन्तमनुवर्तत इति तदेवारब्धासमाप्तनिवेदनक्रियमन्नम् | तच्च देवपित्राद्युद्देशेन दत्तमग्नं तत्समर्पणबुद्ध्येव पूजकश्शिवसमर्पणबुद्ध्या भुञ्जीत | तत्तृतीयं भोजनं | मल्लिङ्गधारिणो लोके देशिकामत्परायणाः | मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु || स्वाद्यानिचादनीयानि पेयान्यन्यानि यानि च | देयानितानिवै शंभो रश्नीयाद्दासभावतः || दासमार्गप्रपन्नाये शैवे पाशुपते स्थिताः | तैरेव पेयंभोज्यं चाघ्रातव्यं च मुमुक्षुभिरिति कामिकागमादिषु प्रसिद्धमिदं भोजनं निवेदितेनैव कर्तव्यम् | देवस्य पुरतो मुमुक्षुभिर्नैवेद्योपचारसमये यन्निहितं तत्तदानीमेव सूक्ष्मरूपेण रुच्यासह शिवेनोपभुक्तमिति निवेदितमुच्यते | तदेव शिवोच्छिष्टं शुश्रूषार्थं ब्राह्मणदास्यं प्रपन्नश्शूद्रस्तदुच्छिष्टमिव शिवदास्यं प्रपन्नः भुञ्जीत | एवं च शिवनिर्माल्ये यानि सामान्यतो निषेधवचनानि तानि शिवदास्यभावनारहितपशुरूपमनुष्यमात्रविषयाणि | (प्. ११८) यानि तु दीक्षितान् शिवदास्यभावनावत एवाधिकृत्य तन्निषेधवचनानि तानि निवेदितातिरिक्तपञ्चविधनिर्माल्यविषयाणीति व्यवस्थाद्वयं प्राचीनैरेव दर्शितम् | अत्र द्वितीयव्यवस्था निर्माल्ये षड्विधे भोज्यमेकमेव निवेदितमित्याद्यागमप्रसिद्धा | प्रथमव्यवस्था शिवपुराणे स्पष्टं प्रपञ्चिता | तत्रहि - अनर्हं मम नैवेद्यं पादांबु कुसुमं दलम् | इतीश्वरेण कथितमिति केचिन्महर्षयः || वदन्ति तत्कथं स्वामिन यथार्थं कथयस्वमे इति जैमिनिप्रश्ने - देवदेवस्य वचसोविषयस्तत्र जैमिने | ये वीरभद्रशपिताश्शिवभक्तिपराङ्मुखाः || शंभोरन्येषु देवेषु ये भक्ता ये न दीक्षिताः | ये शुद्धकर्मिणश्शम्भोरन्यत्र समबुद्धयः || तेषामनर्हमीशस्य तत्प्रसादचतुष्टयमिति व्यासवचनं दृश्यते | अन्यानि चादीक्षितानामभक्तानां शिवनिर्माल्यमयोग्य मित्यर्थे कामिकादिप्रसिद्धानि वचनानि प्रागुदाहृतानि | ननु शिवनिर्माल्यं सकलपातकहरं सकलव्याधिनिवर्तकमखिलयज्ञफलप्रदमशेषतीर्थस्नानतुल्यं भुक्तिमुक्त्येकसाधनमिति शिवशास्त्रज्ञैरुद्धुष्यते | भक्तिदीक्षारहितैर्नभक्ष्यं नस्प्रष्टव्यमित्यप्युच्यते | कथमेतदुपपद्यते | तथा सकलपापनिवर्तनशक्त्यादियुक्तं सर्वप्रायश्चित्तादिवच्छिवनामकीर्तनवद्वा सर्वसाधारणीभवितुमेव हि योगयम् | कथं केषांचित् परिहरणीयं स्यात् | अतश्शिवनिर्माल्यं निकृष्टमित्येव केषांचित् परिहरणीय मासीदिति कुतो न भवति | हरदत्ताचार्यैरपि सममुक्तरीत्योत्कर्षापकर्षसाधारण्येनैवोक्तम् - उत्कर्षतः परिहरत्यपकर्षतो वा का वासना भवति कस्य कृते न विद्मः | यद्दीक्षितस्य पतितस्य च तुल्यरूपं प्रत्यादिशन्ति मुनयः कमनीयमन्नम् || चण्डाल चण्डिलचितानल शौण्डिकानां गोब्राह्मण ज्वलनदीक्षितयोषितां वा | स्पर्शःकथंभवति भावनया निषिद्धः स्पृष्टेषु वा शिवकथा विहिता विशुद्धिः || वर्ज्यान्नमाहुरपि दीक्षित मग्निकल्पं भोज्यान्नमेव कृतराजपरिक्रयं तम् | शङ्खास्थि पावनमपावनमस्थि नॄणामित्थं (प्. ११९) स्थिते वचनमत्र परायणं नः इति || तस्माद्विविच्येदं कथनीयमिति | किमुत्कर्षतः शिवनिर्माल्यं केषांचित्परिहरणीयं अपकर्षतोवेति | उच्यते | शिवनिर्माल्यं सकलपापहरत्वादिसर्वोत्कृष्टगुणशालीत्यत्र तावन्नविवादावकाशः | येषु पुराणागमेषु केषांचित्तन्निषेधं कृतः तेष्वेव तथाविधगुणशालीत्यपि प्रतिपादितत्वात् | श्रूयन्ते हि पुराणागमेषु वचनानि - पादोदकं च निर्माल्यं भक्त्या धार्यं प्रयत्नतः | न तं स्पृशन्ति पापानि मनोवाक्कायजान्यपि || भक्षये द्यो नरो भक्त्या पवित्रमिति शंसितः | शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति || मत्प्रसादोदकं पुष्पं सदाधार्य मिहाश्रितैः | रोगिभिश्च विशेषेण विषदिग्धैश्च यत्नतः || स्वेष्टलिङ्गे च यद्दत्तञ्चरुवत्तन्नसंशयः | राजसूयसहस्रस्य फलं प्राप्नोति नारद || पृथूदकं महातीर्थं गङ्गा च यमुनानदी | नर्मदा सरयूर्विप्रास्तथा गोदावरीनदी || सदासन्निहितास्त्वेताश्शंभोः स्नानोदके मुने | शंभोस्स्नानोदकं सेव्यं सर्वतीर्थमयं हि तत् || अयुतं योगवां दद्याच्छ्रोत्रियायाहिताग्नये | मम पादजले स्नात्वा तत्फलं समवाप्नुयात् इत्यादीनि च || वैद्यशास्त्रे च - निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः | क्षयकुष्ठज्वरश्वासैर्मुच्यते किल्विषैरपि इति || रामायणेऽपि - तत्र देवर्षिगन्धर्वा वसुधातलवासिनः | भवांगपतितं तोयं पवित्रमिति पस्पृशुरिति || भागवतेऽपि - किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तदवकीर्यजटाःश्मशाने | तन्माल्यभस्मनृकपालवसत्पिशाचैर्ये मूर्द्धभिर्दधति तच्चरणावसृष्टमिति || एवं परमपावनस्यापि शिवनिर्माल्यस्य स्पर्शे केषांचिन्निषेधश्शिवलिङ्गस्पर्शे निषेध इव तेषामनधिकारप्रयुक्तं एव | यथाहिं पूर्वं लौकिकशिलाविशेषरूपमपि शिवलिङ्गं प्रतिष्ठासंस्कारेण निरस्तमायाविकारभूताशुद्धरूपं चिन्मयं जातमिति तदनन्तरमदीक्षितानामस्पृश्यमासीत्, एवं निर्माल्यमपि निरीक्षणादिसंस्कारबृन्देन तथाभूतं जातं तदनन्तरं शिवेन स्वोपभोगयोग्यमित्युग्र (प्. १२०) भुक्तञ्चेत्यतिविशुद्धं जातमतस्तेषामस्पृश्यमासीत् | एतदभिप्रायेणोक्तं वातुलोत्तरे - सुप्रतिष्ठितलिङ्गेषु न यथापूर्वभावना | तथा शिवप्रसादस्य पूर्वनामनसंस्मरेत् इति || एवं भूतं शिवनिर्माल्यं दीक्षया विधूतकल्मषाणां छिन्नपाशानांशिवभक्तानामेव शिवलिङ्गमिव स्पृश्यं तदा ज्ञया भोज्यं च | ते हि शिवभक्ताश्शिवदीक्षया प्रतिदिवसपरिचीयमानभूतशुद्धिदंडमुण्डकलान्यासेन च शिवलिङ्गवच्छिवनिर्माल्यवच्चाप्राकृतरूपास्संपन्नाः | हस्तपादादिसाधर्म्याद्रुद्राद्रान्ममवपुर्धरान् | प्राकृता नेव मन्त्रानो नावजानाति बुद्धिमान् इति वायुसंहितावचनात् | यत्तुसकलपापहरत्वादिगुणवत्वे सर्वप्रायश्चित्तवत्किमिति सर्वसाधारणं न जातमिति शङ्कितं तदप्येतेन निरस्तम् | अतिशुद्धशिवनिर्माल्यस्पर्श एवान्येषामनधिकारस्योक्तत्वात् | नहि ब्रह्महत्यादिमहापातकहरमिति अघमर्षणादि वैदिकसूक्तं वेदश्रवणेऽप्यनधिकारिणामत्रैवर्णिकानां साधारणं भवति नच तावतावैदिकसूक्तस्य कश्चिदपकर्षः | किंचोत्कर्ष एव | तदभिप्रायेणैव पुराणोष्वीश्वरवचनं अशुद्धात्माऽशुचिर्लोभान्मद्भुक्तं पावनं परम् | भक्षयन्नाशमाप्नोति शूद्रोह्यध्ययनादिव इति || यत्तु शिवनामवदतिविशुद्धमपि शिवनिर्माल्यं सर्वसाधारणं किमिति न जजातमिति शङ्कितं तत्र द्रूमः | अति विशुद्धमप्राकृतमपि शिवनाम शिवाज्ञया सर्वसाधारणं जातम् | तद्घटितं वैदिकं पञ्चाक्षरं जीवरत्नमपि | तथाहि वायुसंहितायाम् - कलौ कलुषिते काले दुर्जयेदुरतिक्रमे | अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे || क्षीणेवर्णसमाचारे संकरे समुपस्थिते | सर्वाधिकारे संदिग्धे निश्चिते वा विपर्यये || गुरूपदेशेविहितेगुरुशिष्यव्यतिक्रमे | केनोपायेन मुच्यन्ते भक्तास्तव महेश्वरे त्यंबिकायाः प्रश्ने | शिववचनम् - आश्रित्यपरमां विद्यां हृद्यां पञ्चाक्षरीं मम | भक्त्या च भावितात्मनो मुच्यन्ते कलिजानराः || मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः | दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् || बद्धानां (प्. १२१) वक्रमनसा मपि मत्प्रवणात्मनाम् || ममपञ्चाक्षरीविद्या संसारभयतारिणी | मयैव मसकृद्देविप्रतिज्ञात्ं धरातले || पतितोऽपि विमुच्येत मद्भक्तो विद्ययाऽनयेति || पुनश्च - कर्मयोग्यो भवेन्मर्त्योऽपतितो यदि सर्वथा | कर्मायोग्येन यत्कर्म कृतंतन्नरकायहि || ततः कथं विमुच्येत पतितोविद्ययाऽनयेति अंबिकाप्रश्ने | शिववचनम् - सत्यमेतत् त्वया प्रोक्तं तथाऽपि शृणु सुन्दरि | रहस्यमिति मत्वैतत् गोपितं यन्मया पुरा || स्वकर्मपतितोमर्त्यः पूजयेद्यदि मोहतः | नारकी स्यान्नसन्देहो मम पञ्चाक्षरं विनेति || एवं शिवाज्ञयासर्वसाधारण्यापादनादेवेदमाज्ञासिद्धमित्यपि तत्र व्यवहृतम् | तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् | आज्ञासिद्धमसंदिग्धं वाक्यमेतच्चिवात्मकमिति || तस्मादतर्कनीयश्शिवनाम्नो महिमेति तस्यपतित चण्डालादिसाधारण्यं युक्तमेवेत्यलं प्रपञ्चेन || प्रकृतमनुसरामः || यत्तु सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनमित्युदाहृतं, तच्चण्डसमर्पितसदाशिवनिर्माल्यविषयम् || कामिके - निर्माल्यं तु समानीय चण्डेशाय निवेदयेत् || यतो निर्मलतां याति तन्निर्माल्यं प्रकीर्तितम् || चण्डस्याचमनं दत्वा निर्माल्यं तु विसर्जयेत् || अगाधेऽम्भसिवाऽग्नौ वा गवां वा विनिवेदयेदिति चण्डसमर्पणानन्तरमेव जलादिषु प्रतिपत्तिविधानात् | तत्रैव - चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः इति, देवस्वं चण्डभोज्यं वा नान्यभोगाय कल्प्यत इति च चण्डद्रव्यस्य सर्वाभोज्यत्वप्रतिपादनेन तावन्मात्रस्यैव जलादिषु प्रतिपत्यपेक्षत्वाच्च | नन्वेवं सति सर्वमपि शिवलिङ्ग निर्माल्यमभोज्यमेवेत्युक्तं भवति | लेह्यचोष्यान्नपानादि तांबूलंस्रग्विलेपनम् | निर्माल्यं निखिलं तुभ्यं प्रदत्तं तु शिवाज्ञयेति चण्डसमर्पणमन्त्रलिङ्गानुसारेण सर्वस्यापि शिवनिर्माल्यस्यचण्डायसमर्पणीयत्वावगमादिति केचित् | मैवम् | कामिके - परार्थपूजायाम् ऐशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात् | तस्मै समर्पयेत्सर्वं निर्माल्यं यत्प्रकल्पितमिति सर्वस्व (प्. १२२) निर्माल्यस्य चण्डेशाय समर्पणीयत्वपक्षमुक्त्वा लिङ्गमूर्ध्निस्थमित्येके पिण्डिकास्थमथापरे | ऐशान्यांपिण्डिकास्थं वा बाह्येचण्डगृहेनयेदिति गन्धपुष्पनिर्माल्यैकदेशसमर्पणपक्षस्याप्युक्ततया तन्न्यायेननिवेदितान्नेऽप्येकदेशसमर्पणपक्षांगीकारोन्नयनात् | अन्यत्रच - शिवोपभुक्तं स्रग्गन्धमन्नपानादिकं तथा | निवेदितमिति प्रोक्तं सर्वपापहरं परम् || निर्माल्ये षट्विधे भोज्यमेकमेव निवेदितमिति चण्डद्रव्यात्पृथक्निवेदितसद्भावस्य तद्भोज्यतायाश्च साक्षादेव प्रतिपादनाच्च | आत्मार्थपूजायां तु नैतच्छङ्कावकाशः | कामिक एव शिवपूजानिरूपणानन्तरं अन्ते चण्डेश्वरं यजेदित्युपक्रम्य वाणे लोहे चले सिद्धे न चण्डेशस्स्वयंभुवीति चण्डपूजानिषेधात् | अजितेऽप्यात्मार्थपूजायाम् - न द्वारिपूजा कर्तव्या न चण्डेशनिवेदनम् | नाममन्त्रहविस्तत्र न नित्योत्सवमेव च इति तत्प्रतिषेधात् | यदि तु प्रागुदाहृतकालोत्तरवचनानुसारेण चण्डपूजाक्रियते, तथाऽपि न दोषः | अंशुमति चण्डेशार्चनपटले - केवलंसहजं चैव स्वतन्त्रं च त्रिधामतम् | आत्मार्थ केवलं प्रोक्तं मण्डले तु समर्पयेत् || यामाङ्गं सहजं ज्ञेयं चण्डरूपं प्रतिष्ठितम् | ग्रामाङ्गं चेत् स्वतन्त्रंस्याच्चण्डेशस्यार्चनं त्रिधेति चण्डेशार्चनत्रेविध्यमुपक्रम्यात्मार्थयजनान्तचण्डपूजायां - विलेपनं च दानं च दत्वा तन्मूलमन्त्रतः | नैवेद्यं चैवतांबूलं तन्मूलेनैव दापयेदिति पृथगेव गन्धपुष्पादिकमुक्त्वा केवलस्यार्चनं प्रोक्तं सहजस्यार्चनं शृणु | अन्तर्मण्डलदेशे तु मण्डलस्य च गोचरे || चण्डेशं स्थापयेद्विद्वान्निर्माल्येनैवचार्चयेदिति यामाङ्गचण्डेश्वरपूजायामेव निर्माल्यसमर्पणस्योक्तत्वात् | सिद्धान्तसारावलयामपि चण्डपूजाप्रकरणे - नैवेद्यं तद्विधानोक्तं दत्वा तांबूलसंयुतम् || यामाङ्गश्चेच्छिवेनोपमुक्तं चापि निवेदयेदित्युक्तत्वाच्च | सदाशिवस्यनिर्माल्यं चण्डेशायसमर्पयेदिति आत्मार्थपूजागतसूक्ष्मवचनानुरोधेन चण्डेशाय निर्माल्यसमर्पणपक्षेऽपि नदोषः | परार्थपूजोक्तरीत्या तदेकदेशसमर्पणसंभवात् | (प्. १२३) स्मृतिनिबन्धनेषु च - विष्वक्सेनाय दातव्यं नैवेद्यञ्च शतांशकम् | पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय चेतिनिवेदितशतांशस्य चण्डांशस्यैव चण्डभागत्वप्रतिपादनाच्च | एवं सदा शिवस्य निर्माल्यमिति सुप्रभेदवचनस्य कामिकवचनाद्यनुसारेण यत्सदाशिवनिर्माल्यं चण्डेशाय समर्पितम् तन्मनुष्याणांनभोज्यमित्यर्थः || अथवैवं तदभिप्रायः | शिवस्य निर्माल्यं शिवदास्यभावरहितानां पशुप्रायाणां केवलमनुष्याणां नभोज्यम् | अतः काम्यतया परार्थपूजायामात्मार्थपूजायां वा समृद्धमहाहविर्निवेदने सति तावद्भोजनासमर्थानां देवालये परिचारकाणां पूजकगृहवासिनामन्येषां च शिवदीक्षावतां शिवभक्तानामलाभे तेभ्योदत्तावशिष्टं यथाकथञ्चिन्मनुष्यमात्रेन दातव्यम् | किंतु गोगजेभ्यो देयम् | अगाधेऽम्भस्यग्नौवा क्षेप्तव्यं भूमौ वा खातव्यमित्येतत्परम् | यथाऽश्वमेधादिक्रतुषु - ऋत्विजां हविश्शेषभक्षणसामर्थ्या भावे - ऋत्विग्भ्योदत्तावशिष्टंहविरनुपनीतेषु वर्णान्तरेषु नदातव्यम् | किंतूपनीतेषु ब्राह्मणादिषुदातव्यमग्नौ वाक्षेप्तव्यमित्येतत्परं हविश्शेषान्भक्षयितु मृत्विजश्चेन्न शक्नुयुः | विप्रेभ्यस्संप्रयच्छेयुः क्षिपेयुर्वा हुताशन इति वचनम् | यथा वा ब्राह्मणोच्छिष्टभोक्तृतद्दासशूद्राभावे तदुच्छिष्टमप्सुक्षेप्तव्यं भूमौ वा खातव्यमित्येत्परमशक्तौभूमौ निखने दप्सुवा प्रवेशयेदितिवचनम् | एतदभिप्रायेणैवोक्तं हरदत्ताचार्यैः - यद्ब्राह्मणस्त्वमसिनाकसदां निकाये तुभ्यं निवेदितमभोज्यमिति स्मरन्ति | उच्छिष्टमीश्वर विशिष्टमपि द्विजानां भूमौ निखेयमथवाऽम्भसिमज्जनीयमिति | अस्य श्लोकस्य उच्छिष्टभोक्तृदाससद्भावेऽपि तदुच्छिष्टं भूमौ निखेय मंभसिवा मज्जनीयमिति न तात्पर्यम् | उच्छिष्टमन्नं दातव्यंशीर्णानि वसनानिचेति दासेन प्रपन्नाय शुश्रूषुशूद्रायोच्छिष्टदानस्मरणात् || जीर्णान्युपानच्छत्रवासः कूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्चेति शुश्रूवुशूद्रधर्मस्मरणाच्च | एवमेव तुभ्यं निवेदितं भोज्यमित्यत्रापि (प्. १२४) शिवनिवेदितभोजनार्हस्य शिवदास्यं प्रपन्नस्यालाभे यस्मैकस्मैचिन्नदातव्यं किन्तु खननादिनैव तत्प्रतिपादनायमिति तात्पर्यम् | इत्थमनेन श्लोकेनाचार्यै रुत्कर्षत एव निर्माल्यं दासातिरिक्तैः परिहार्यं नत्वपकर्षत इति विभावितमेव | उत्कर्षत इत्याद्यनन्तरश्लोकैस्तु शिवोत्कर्षनिरूपणग्रन्थे तत्प्रसादोत्कर्षनिरूपणं नोपयोगीति विभावनाय प्रौड्यासममुक्तरीतिरवलंबिता | यानितु स्वेष्टलिङ्गसमर्पितमपि भ्रातृपुत्रभगिन्यादिभ्य एव देयमित्येवं प्रतिपादितानि तान्यग्निकार्यरूपभोजनकर्तृशिवार्चकविषयाणि | तेन तत्स्वयंभोक्तुमशक्यम् | शिवाग्निकार्यरूपस्वभोजनेनैव प्रसङ्गात् (कॢप्ति इति कोशान्तरे) आपत्तिरूपस्वकार्यस्यापि सिद्धेः | अदीक्षितेभ्यस्तु तद्दानंप्रतिसिद्धं इष्ट्यादि हविश्शेषवदुपेक्षादोषपरिहाराय न्यायतो भक्षणेनैव प्रतिपादनीयम् | दीक्षितानाञ्च तद्भोजनं महाफलप्रदम् | अतः केभ्यो देय मित्याकांक्षायां स्वगृहदीक्षावत्वेऽपि येऽग्निकार्यानधिकारिणः स्त्रीबालादयस्तेभ्योदेयमित्येवं पराणि | यत्तु कामिके - निर्माल्यलंघनं कृत्वा दक्षिणस्यायुतं जपेत् लङ्घनेन समस्स्पर्शस्समे विक्रयभक्षणे इति लङ्घननिर्माल्यस्पर्शेऽपि दीक्षितानां प्रायश्चित्तविधानम् | यच्च - यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा | पादोनं तत्र पूर्वोक्तं स्पर्शलंघनभक्षण इति निर्माल्यतद्भक्षयितृस्पृटस्य स्पर्शे प्रायश्चित्तविधानं तत्र सर्वत्रापि निर्माल्यपदं बहिः क्षिप्तनिर्माल्यविषयम् | तस्मिन् प्रायश्चित्तप्रकरणे देवस्वं देवताद्रव्यं नैवेद्यं निवेदितम् | चण्डद्रव्यं च निर्माल्यं निर्माल्यं षड्विधं भवेदिति बहिः क्षिप्ते विशिष्य निर्माल्यसंज्ञाकरणात् | पिण्डिकास्थं न निर्माल्यमपिदेवे विसर्जितमितिदेवविसर्जनानन्तरमपि बहिः क्षेपर्यन्तस्पर्शप्रायश्चित्त प(पी)रिहाराय प्रायश्चित्तप्रकरणे देवस्वं देवताद्रव्यमिति पदैर्निर्माल्यत्वाभाववर्णनाच्च | अन्यथा प्रायश्चित्तविधानगतनिर्माल्यशब्दानां (प्. १२५) सर्वनिर्माल्यविषयत्वे तत्र बहिःक्षिप्तेति विशिष्य निर्माल्यसंज्ञाकरणस्य वैयर्यप्रसङ्गात् | विसर्जनानन्तरमपि बहिः क्षेपपर्यन्तं निर्माल्यत्वाभाववर्णनस्यासामञ्जस्यप्रसङ्गाच्च | देवभूम्यादिस्पर्श तत्संस्पृटस्पर्शेषु दोषभावेन स्पर्शप्रायश्चित्तगतनिर्माल्यशब्दानां विशेषविषयत्वावश्यंभावाच्च | बहिः क्षिप्तञ्च तदुच्यते यन्महाहविर्निवेदनादिषु भक्तपरिचारकेभ्यो दत्तावशिष्टं गोगजादिभ्यो बहिर्नीतं जलादिषु क्षिप्तं बहिर्बल्यर्थं दत्तंवा | तत्सर्वं वचनबलाद्धूपोपस्थानानन्तरंधूपवद स्पृश्यमेव नन्वेवं तर्हि तत्र निर्माल्यभक्षणादिप्रायश्चित्तोपदेशानां बहिः क्षिप्तमात्रविषत्वे देवस्व देवताद्रव्यनिवेद्यचण्डद्रव्याणां भक्षणादिषु प्रायश्चित्तविधानं नलभ्यत इति चेन्न | तत्रैव निर्माल्यभक्षणोपेक्षणदानविक्रयलंघनस्पर्शेषु निर्माल्यतद्भक्षयितृ स्पृष्टभक्षणलंघनस्पर्शेषु च प्रायश्चित्तविधानानन्तरं देवायतनवस्त्वन्यद्देवग्रामादिसंभवम् | व्रीह्यादि येन केनैवोपाधिनाऽदायभक्षणम् || करोति यस्स संमूढोमलिनःस्तेनकृन्मत इत्यादिना देवस्व देवताद्रव्यनिवेद्यचण्डद्रव्याणां भोगदानयोः पृथगेवस्तेयप्रायश्चित्तवर्णनात् | सूक्ष्मागमे - निर्माल्यस्य निवेद्यस्य लङ्घने दानकर्मणि | चान्द्रायणं चरेत्तत्तुयोनागानां विनिक्षिपेदिति निर्माल्यात्पृथक् निवेद्यग्रहणादपि प्रायश्चित्तोपदेशगतनिर्माल्यशब्दानां विशिष्य निर्माल्यसंज्ञिक बहिः क्षिप्तमात्रविषयत्वं ज्ञायते | अन्यथा तेषां षड्विधनिर्माल्यपरत्वे निवेदनस्यापि तदन्तर्भूततया प्राक् निवेदनग्रहणं व्यर्थं स्यात् | यत्तु कामिक एव - स्नानपानीयदुग्धाद्यैर्यदि सिक्तो भवेत्तदा | स्नायात् प्रक्षालयेत् द्वेधानाभे रूर्द्ध्वमधस्तथा || चललिङ्गेऽप्ययं न्यायो विहितो यज्ञमन्दिरे इति शिवस्याभिषेकसमये अभिषेकजल दुग्धदध्यादिकरण सेकेनाप्यूर्द्ध्वतदधोगात्र विभागेन स्नानप्रक्षालन विधानं तत् शिवाभिषेकजलादिबिन्दूनामर्चकं प्रति अपवित्रताभिप्रायेण न भवति | शिवाभिषेकजलादिप्राशस्त्यस्य प्राक्प्रपञ्चितत्वात् | (प्. १२६) किन्तु तदनन्तरमर्चकेन करिष्यमाणं शिवस्य गन्धविलेपनादिकं तन्निर्माल्यसंसिक्तगात्रेण कर्तुमयुक्तम्, गुरोरभ्यङ्गस्नपनं कृतवता तत्तैलबिन्दुसंसिक्तगात्रेण शिष्येण गुरोर्गन्धविलेपनादिकमिवेत्याभिप्रायेण | एवमन्यान्यप्येवं संभावितानि वचनानि नेतव्यानि | तदित्थमग्निकार्यबुद्ध्या भुञ्जानेर्निवेदितशेषं भोक्तव्यं | दास्यबुद्ध्या भुंजानैर्निवेदितं भोक्तव्यमिति व्यवस्था निरवद्या | तथा च वायुसंहितायामपि दर्शितम् - ततस्स्वयञ्च भुञ्जीत शुद्धमन्नं यथासुखम् | निवेदितं वा देवेशे तच्छेषं वाऽत्मशुद्धये || श्रद्दधानो न लोभेन न चण्डाय समर्पितम् | गन्धमाल्यादि यच्छान्यत्तत्राप्येष समो विधिः || न तु तत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षण इति || निवेदितं भुञ्जानः स्वहृत्पुण्डरीकान्तरवह्निमध्यगतशिवभावनया स्वस्य शिवाग्निकार्य रूप (शिवस्याज्ञाकर्तृतामिति) शिवपूजाकर्तृतामभिप्रेत्य श्रीशिवोऽहमिति बुद्धिं न कुर्यात् | किन्तु शिवदास्यबुद्धिमेव कुर्यादित्यर्थः | एवं निवेदितान्नभोजनं कुर्वता प्राणाहुतयोऽपि निएवेदिते नैव कर्तव्याः प्राणाग्निहोत्रं यः कुर्याच्चिवस्यैव प्रसादतः | अश्वमेधायुतं पुण्यं सिद्धे सिद्धे भवेन्नरः इति शिवपुराणवचनात् || भोजन विधिः || अथभोजनविधिः || स्वाहान्तैः स्वसूत्रोक्तमन्त्रैःहुत्वातान्विसर्जयेत् | एवमग्निकार्यं निर्वर्त्यधौतांघ्रिकरस्समाचान्तश्शिभक्तैस्सदाचारैस्सहितो हीनजातीयानदीक्षितानेकपक्तौ परिहरन् भोजनस्थानमासाद्य पीठे प्राङ्मुख उपविश्य चतुरश्रेण हस्तमानेनाचार्यपुत्रसाधकसमयिक्रमेण चतुस्त्रिद्व्येकरेखाङ्कितपरितोभस्मरेखांकितेन मण्डलेन भूषितभूतले सुवर्णरजतताम्रलोहान्यतमनिर्मितं (प्. १२७) कांस्यनिर्मितं वा सप्तधा भस्मना शोधितमघोराभिमन्त्रितं तदभावे कदलीपलाशपद्मचूतमधूकाद्यनिन्दितपत्रं वा पात्रं निवेश्य तत्र घृतेनोपस्तिर्य परिवेषितं द्विरभिघारितं सव्यञ्जनं शुद्धमन्नमस्त्रेण संप्रोक्ष्यत्र्यक्षरमृत्युञ्जयपूर्वकेण मृत्युञ्जयाय वौषडिति मन्त्रेण सप्तवारमभिमन्त्र्य यथावर्णं परिषेचनादिकं कृत्वाग्रासार्द्धमात्रेणान्नेन नागकूर्मक्रकर देवदत्तधनंजयेभ्यः उपप्राणवायुभ्यः स्वाहेति स्वस्यदक्षिणभागे गोमयोपलिप्ते मण्डले दद्यात् | ततस्सव्यहस्तकनिष्ठिकया स्रवणेन नागादिभ्यश्चुलकोदकं दत्वा माषमज्जनार्हं शिवष्टजलममृतमन्त्रेण प्राश्य प्राणाहुतिपञ्चकं कुर्यात् | तेन प्राणापानव्यानोदानसमानानां क्रमेण तदावाहितानामात्मभूतयोनयः पातालतलवासिनः पितरो देवा इत्येतेषां च तृप्तिं भावयेत् | ततो यथाकिञ्चिदुच्छिष्टान्नमादाय नरकवासिभ्यः स्वाहेति भूमौ दत्वा उत्तरापोशनानन्तरं तच्छेषजलं कनिष्ठांगुल्यानि स्राव्य हस्तोद्वर्तनादि शुद्धाचमनान्तं कर्म कृत्वा भुक्तदोषशुद्ध्यर्थं दक्षिणकरांगुष्ठजलेन दक्षिणपादांगुष्ठाग्रस्थकालाग्निरुद्रं सेचयेत् | अनिवेदितभोजिनां तु भोजने विशेषः प्रागेव सुप्रभेदोदाहरणेन दर्शितः | निवेदितभोजिनामनिवेदितभोजिनाञ्च भोजनकालादन्यत्र यदन्यदौषधतांबूलपानीयादि भोज्यं गन्धपुष्पादि भोग्यं वोपतिष्ठते, तत्सर्वं मनसा वा देवाय समर्प्यैव भोक्तव्यम् | पत्रं पुष्पं फलं तोय मन्नपानाद्यमौषधम् | अनिवेद्यनभुञ्जित भगवन्तं समाहित इति कामिकवचनात् | उपभोगाय पुरतो वस्तु यद्यदुपस्थितम् | तत्तत्समर्प्य देवाय विदधीतात्मसात्ततः इति वातुलवचनाच्च | यत्तु - अन्नाद्यमौषधं तोयं पत्रं पुष्पं फलांदिकम् | शिवस्य दत्वा तच्छेषं भोज्यं भुञ्जित बुद्धिमानित्यौषधांदेर्निवेदितशेषस्य भोजनविधानं, तत् कार्यार्थमनिवेदितभोजनं कुर्वतो भोजनमध्यग्राह्यौ षधादिनि?यम् | अन्यत्र शिवदासानां शिवोच्छिष्टमेव ग्राह्यम् | किञ्च भक्तेन यत्किञ्चित्फलमुद्दिश्यया क्रिया लौकिकी वैदिकी वा कर्तुमिष्यते सा सर्वाऽपि (प्. १२८) शिवराधनरूपेति भावेन कर्तव्या | तत्तत्क्रियाजन्यसुखमपि शिवस्तद्भोक्तेति शिवे समर्प्यतद्भुक्तभवे सुखं मया भुज्यत इति भावेन भोक्तव्यम् | एवं विनैव स्वयत्नमुपनताश्शब्द स्पर्शरूपरसगन्धाख्या विषयाश्च शिवसमर्पण पूर्वकं तदुच्छिष्टबुद्ध्यैवस्वेन्द्रियैरनुभवितव्याः | तत्तद्विषयानुभवजन्यंसुखमपि तदुच्छिष्टबुद्ध्यैवभोक्तव्यम् | या या क्रिया विधातव्या प्रस्तुता जायते पुरः | तां तां कुर्यान्महादेवसमर्पितधिया सुधीः || इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् | कृत्वा प्रसादं भोक्तव्यं तदिन्द्रियमुखेनचेतिवातुलश्रवणात् || (प्. १२८) तदर्थं च भक्तेन सदा सावधानेन भाव्यम् | संयोगेषु वियोगेषु सावधानोनिरन्तरम् | गच्छन्तिष्ठन्स्वपन्जाग्रद्भुञ्जानो मैथुनेरतः | यश्शिवार्पितचेतस्कोभक्तिमांस्तु न चान्यथेतिबृहत्कालोत्तरे श्रवणात् | एवं क्रियासमर्पणपूर्वकं क्रियां कुर्वतः विषयसमर्पणपूर्वकं विषयाननुभवत स्तत्तज्जन्यसुखसमर्पणपूर्वकं सुखं भुञ्जानस्य च सावधानस्य भक्तस्य पूर्वजन्मवासनान्ते क्वचित् क्वचित् प्रमादान्निषिद्धक्रियां कुर्वतोऽपि निषिद्धविषयाननुभवतोऽपि निषिद्धसुखंभुञ्जानस्यापिनपापलेपोभवति | किंतु सर्वं शिवसमाराधनमितिभावयतस्सर्वमपि शिवप्रीतय एव भवति | तत्रात्मभोगार्थं नृत्तावलोकनहर्म्योपवनदीर्घिकादिक्रीडारूपां क्रियामारभमाणस्तत्तत्क्रियासमये संभावितानां वाक्पाणिपादपायूपस्थरूपकर्मेन्द्रियव्यापारसाध्यानां श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणरूप ज्ञानेन्द्रियजन्यतत्तद्विषयसाध्या- नाञ्च सुखानां समर्पणार्थं स्वकीये श्रोत्रादिज्ञानेन्द्रियपञ्चके वागादिकर्मेन्द्रियपञ्चके च क्रमेणाधिष्ठातृत्वेन सन्निहितानामीशानादीनां श्रोत्रादिवागादीनि स्वकीयश्रोत्रादिष्वैक्येनानुसंधाय तत्तदिन्द्रियव्यापारसाद्ध्यसुखान्यैशानादि मूर्तीरधिष्ठात्राशिवे नानुभूयमानानि विभाव्य तान्येव सुखानि शिवोच्छिष्टबुद्ध्यास्त्रयं भुञ्जित | अयत्नोपनमद्विषयसुखसमर्पणं तत्तद्विषयोपभोगसमयेषु सावधानेन कर्तुमर्हसि? प्रातर्वाशिवपूजावसाने वा भविष्यद् एतत् समयपर्यन्तं भावितायत्नोपनमच्छन्द *?स (प्. १२९) गन्धात्मकविषयानुभवतज्जन्यसुखानिशिवायार्पयामीति युगपदेवार्पयेत् | एवं युगपद्विषयार्पणं हृदयादिषु वा हृदयादिस्थानभावितस्यसांबशिवस्य श्रोत्रादिषु वा, हृदयादिस्थानभावितस्य सदाशिवस्य क्रमादीशानादिमुखगतश्रोत्रादिषु वा स्वकीयश्रोत्राद्यैक्येन संहितेष्वीशानादीनां श्रोत्रादीषु वा कर्तव्यम् | सर्वत्रापि समर्पणे नमोन्तशिवमन्त्र एवमन्त्रः | तस्य च शिवायेदं नममेति अर्थो भावनीयः | सचार्थोमकारस्य जीववाचक्रस्य षष्ठ्यन्ततया लभ्यत इति सर्वमेतदतिरहस्यम् | एवं प्रतिदिनंप्रातश्शिवचिन्तनंशक्यस्नानविभूतिरुद्राक्षधारण- संध्योपासनपूर्वकं त्रिकालं द्विकालमेककालं वा चत्वारिंशता षोडशभिर्दशभिः पञ्चभिरुपचारैरष्टपुष्पिकामात्रेण (-मान्नेण) वा शिवं पूजयन् यथावसरंशिवशास्त्राण्यधीयानश्शिवकथास्समाकर्णयन् भोजनकाले शिवाग्निकार्यबुद्ध्या शिवनिवेदितशेषं वा शिवदास्यबुद्ध्या शिवनिवेदितं वा स्वीकुर्वन् अन्यत्तांबूलपानीयगन्धपुष्पादिभोग्यजातं शिवसमर्पितं जानन् चिकीर्षितं कर्मजातं तत्फलरूपाणां सुखानां शिवोपभोग्यत्वं विभाव्य शिवाराधनबुद्ध्या कुर्वाणः ष्वयत्नमनपेक्ष्य उपनतानपि विषयान् तत्तद्विषयोपस्थितिसमयेषु युगपद्वा शिवार्पितान्विदधानः सर्वाण्यपि सुखानि शिवोच्छिष्टबुद्ध्यैवानुभवन् बहिर्लौकिककार्यविचारकालेप्यनन्तशिवनामानुसन्धानेन सफलयन्नन्तरध्वनि गमागमाभ्यां विहरंतीं निरतिशयप्रकाशामभूतरूपिणीमानन्दलेखामपि समयेष्वाकलयन् पञ्चाक्षरपरदेवतामशेषोपनिषदन्विष्यमाणचरणांबुजमखिल देवतासार्वभौम मपारकररुणांबुधि माश्रितरक्षाधुरन्धरमंबिकयासह निजहृदयजलरुहकुहरे विहरमाणमानन्दसन्दोहमूर्ति परमशिवमनवरतमन्तर्दृशावलोकयन् इष्टबन्धुभिस्सह सुखमासित् || वेलूरधीशचिनयोम्मविभोरुदारे चित्ते च धाम्नि चिरादभिवर्धमानाम् | प्. १३०) अर्चाविधां पशुपते रमराभिनन्द्या मित्थं समाचकलमीश्वरशासनेन || सद्राजयोगनिजचंचुरनाहताज्ञा- शक्त्यादिसारसमुदञ्चितदिव्यतेजाः | आवाहनक्रमकलानिपुणोऽतिधीरः श्रीबोम्मभूपतिलकश्शिवपूजकस्स्यात् || करोतु ज्वरकण्ठेशस्स्वकीयार्चनचन्द्रिकाम् | आकल्पस्थायिनीमेनां द्युस्थले चन्द्रिकामिव || हरिः ओम् || शुभमस्तु | गुरुभ्योनमः || भजामिज्वरकण्ठेश मृत्युञ्जयपदांबुजम् | यदाश्रितो नग्वव्याजाद्भाति जैवातृकस्सदा || शिवार्चनाचन्द्रिका समाप्ता || ########### END OF FILE #######