#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00209 Uniform title: śivadharma Manuscript : IFP/EFEO 860 copied from R2442 G.O.N.L., Madras Description: IFP transcript 860 copied from ms no R2442 belonging to G.O.N.L. , madras.) This zivadharma differs from the text of the same name in transcript no. 72. There the colophon reads: śrīśivadharmaśāstre nandiproktethe colophon of this version reads simply śrīśivadharmaśāstre Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 5, 2010 Internet publisher : Muktabodha Indological Research InstituteWeb publisher Muktabodha Publication year : 2010 Publication city : Publication country : United States #################################################### शिवधर्मः ओं महागणपतये नमः || हरिः ओं || अविघ्नमस्तु | श्रीगुरुभ्यो नमः || ओं नमः शिवाय || सर्वाकारमशेषस्य जगतः सर्वदा शिवम् | गो ब्राह्मणनृपाणां च शिवं भवतु सर्वदा || शिवमादौ शिवं मध्ये शिवमन्ते तथैव च | सर्वेषां शिवभक्तानामनुगानां च नाश्शिवम्? || मेरुपृष्ठे सुखासीनमृषिसंघैः समावृतम् | लोकानुग्रहकं शान्तं सर्वज्ञं नन्दिकेश्वरम् || तेषां मध्ये समुथाय मुनिर्ब्रह्मसुतोत्तमः | सनत्कुमारः सुतपाः पृच्छतिस्मयया विधि || भगवन् सर्वधर्मज्ञ शिवधर्मपरायण | श्रोतुकामः परं धर्ममिमे सर्वे समागतम् || अग्निष्टोमादयो धम्रा यज्ञाः बहुवित्तकृतान्विताः | नात्यन्तफलभूयिष्ठा बह्वायाससमन्विताः || न शक्यास्ते यतः कर्तुमल्पवित्तैर्द्विजातिभिः | सुखोपायमतो ब्रूहि सर्वकामार्थसाधकम् || हिताय सर्वसत्वानां शिवधर्मं सनातनम् | येन सिद्धाः सुरादैत्या गन्धर्वोरगराक्षसाः || ऋषयः किन्नरायक्षास्तथा किं पुरुषादयः | गणाश्च विविधान्यान्ये शिवधर्मपरायणाः || यं सम्पूज्यनरास्सर्वे तद्भक्ताश्शिवधर्मिकाः | श्रीनन्दिकेश्वर उवाच श्रूयतामभिधास्यामि सुखोपायं महाफलम् | परमं सर्वधर्माणां शिवधर्मं सनातनम् || शिवेन कथितं पूर्व पार्वत्याष्षण्मुखस्य च | गणानां देवमुख्यानामस्माकं च विशेषतः || अज्ञानार्णवमग्नानां सर्वेषां प्राणिनायम् | शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः || यैरयं शान्तचेतस्कैश्शिवभक्तैश्शिवार्थिभिः | सं सेव्यते परोधम्रस्ते रुद्रा नात्र संशयः || ग्रामे वा यदिवारण्ये जले वापि स्थलोऽपिवा | यत्र वा दृश्यते लिङ्गं सर्वतीर्थानि तत्र वै || प्. २(५) एककालं द्विकालं वा त्रिकालं नित्यमेव वा | ये स्मरन्ति विरूपाक्षं ते रुद्रा नात्रसंशयः || कीर्तयिष्यन्ति ये रुद्रास्सकृदप्याशु ते नराः | सर्वपापैः प्रमुच्यन्ते सर्वजन्मकृतैरपि || येऽर्चयन्ति सदारुद्रं न ते प्रकृतिमानुषाः | रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्रसंशयः || जातेन देहिना येन नार्चितोभगवाञ्छिवः | स चिरं संचरत्यस्मिन् संसारे दुःखसागरे || तस्य चित्तम् महाच्छिद्रं सम्भोगस्स्वार्थमूकता | यः क्षणं वा मुहूर्तं वा शर्वमेकं न चिन्तयेत् || दुर्लभं प्राप्यमानुष्यं येऽर्चयन्ति सदाशिवम् | तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः || भवभक्तिपराये तु भवं प्रणतचेतसा | भवसंस्मरणोद्युक्तास्तेन दुःखस्य भागिनः || भवनानि मनोज्ञानि विभ्रमा भरणाः स्त्रियः | धनञ्चादृष्टपर्यन्तं शिवपूजा विधेः फलम् || ये वाञ्छन्ति महाभोगान् राज्यं वा त्रिदशालये | तेऽर्चयन्तु सदा कालं हरस्य चरणाम्बुजम् || सौभाग्यकान्तिमद्रूपं सत्वं त्यागप्रभावतः | शौर्यं च जगतिख्यातिं शिवमर्चयतो भवेत् || नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् | नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् || शिवधर्मस्य सारोऽयं शिवे भक्तिः सुनिश्चला | सा चाष्टांगी शिवेनोक्ता कार्या नित्यं प्रयत्नतः || श्रीभगवानुवाच मद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् | स्वयमभ्यर्चनं भक्त्या ममार्थेचांगचेष्टितम् || मत्कथाश्रवणे भक्ति स्वरनेत्रांगविक्रिया | ममानुस्मरणं नित्यं यश्च मांनोपजीवति || भक्तिरष्टविधाप्येषा यस्मिन् म्लेच्छेऽपि वर्तते | सविप्रेन्द्रो मुनिः श्रीमान् सयतिस्सचपण्डितः || न मे प्रियश्चतुर्वेदी मद्भक्ताः खपचोऽपि यः | तस्मै देयं ततो ग्राह्यं स च पूज्यो यथाह्यहम् || पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | प्. ३(६) तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || अर्चयेतनरो नित्यं यो मां समयमास्थितः | स मां पर्वतदुर्गेषु मार्गमाणो विनश्यति || यो मां सर्वगतं पश्येत् सर्वं च मयिसंस्थितम् | तस्याहं नित्यमात्मस्थः स च नित्यं मयि स्थितः || सुदुर्लभा शिवे भक्तिर्दुर्लभं च शिवार्चनम् | सुदुर्लभं शिवे दानं शिवहोमश्च दुर्लभः || सुदुर्लभं शिवज्ञानं तदभ्यासोऽति दुर्लभः | सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् || सुदुर्लभा तयोः प्राप्तिस्तदभ्यासोऽति दुर्लभः | सुदुर्लभमिदं ज्ञात्वा शिवे भक्तिं समाश्रयेत् || लाभस्तेषां मनुष्याणां ये शिवं शरनं गताः | एषा दिवा च रात्रौ च नित्या शिवगतास्मृतिः || नमस्कारादिसंयुक्तं शिव इत्यक्षरद्वयम् | जिह्वाग्रे वर्तते यस्य सफलां तस्य जीवितम् || इत्येष वः समासेन शिवधर्मोऽखिलः क्रमात् | निर्दिष्टः प्रथमाध्याये शेषस्यैव प्रविस्तरः || य इमं पठते नित्यं शृणुयाद्वापि भक्तितः | विमुक्तः सर्वपापेभ्यः शिवलोके महीयते || डाकिन्यो विविधाकारा रक्षांसि प्रेतनायकाः | न तस्य पीडां कुर्वन्ति तथा चान्येऽपि हिंसकाः || शत्रवो नाशमायान्ति सर्वरोगैर्न बाध्यते | सर्वरोगैर्न बाध्येत आपदो न स्पृशन्तितम् || धनमायुर्यशो विद्यां प्रभावमतुलं व्रजेत् | (ल) शुभान्युपचयं यान्ति नित्यं पूर्णगुणान्विताः || इति श्रीशिवधर्मशास्त्रे भक्तिलक्षणं नाम प्रथमोध्यायः || द्वितीयोऽद्यायः सनत्कुमार उवाच लिङ्गार्चनविधिं पूर्णं श्रोतुमिच्छामि तत्वतः | त्वत्प्रसादाद्विशेषेण भगवन्नन्दिकेश्वर || यत्पुण्यं स्थापिते लिङ्गे कृते यच्च शिवालये | संमार्जने च यत्पुण्यं यत्पुण्यमुपलेपने || प्. ४(७) नीराज्जनौषधीबीजस्नानमङ्गलवादने | यत्पुण्यमर्च्यदानेन तोयस्नानेन यद्भवेत् || पञ्चगव्यपयस्नाने दधिस्नाने च यत्फलम् | घृतस्नानेन यत्पुण्यं घृताभ्यंगेन यद्भवेत् || मधुस्नानेन यत्पुण्यं पुण्यमिक्षुरसेन च | उद्वर्तनान्तरस्नाने कुशपुष्पोदकेन च || सौवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः | कर्पूरागरुतोयेन शुद्धतोयेन यद्भवेत् || विलेपनैश्च गन्धाद्यैर्विलिप्तेन च यद्भवेत् | तालवृन्तप्रदानेन प्रदाने चामरस्य च || मुक्तापुष्पार्चनैश्चैव मालाभिर्लिङ्गपूरणे | पुष्पमण्टपिकायाश्च पुष्पमालावलम्बने || पूजाभक्तिविशेषैश्च वेद्यामालावलम्बने | पुष्पजातिविशेषेषु धूपेष्वपि च यत्फलम् | ग्रामखेटपुराणां च देशदानेन यत्फलम् | तत्पालनापहारेण पुण्यापुण्यं च यद्भवेत् || यतीनामन्नपानादिमात्रोपकरणानि च | दत्वा किं लभते पुण्यं कृत्वा वा तत्प्रतिश्रयम् || तत्संस्कारे तथा तेषां प्रत्युत्थानाभिवादने | तत्संस्कारे तथा तेषां प्रत्युत्यानाभिवादने || यदप्यन्यद्भवेत् सूक्ष्ममज्ञानान्नप्रचोदितम् | तत्सर्वं कथयास्माकं भक्तानामनुकम्पया || इति श्रीशिवधर्मशास्त्रे द्वितीयोऽध्यायः || तृतीयोध्यायः नन्दिकेश्वर उवाच त्वमतीवशिवे भक्तः पद्मयोनिसुतोत्तम | तेजते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः || पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे | विवादः सुमहानासीद्ब्रह्मविष्ण्वोः परस्परम् || अहं कर्तास्म्यहं कर्ता न मत्तोऽन्यो जगत्प्रभुः | एवमाहहरिं ब्रह्मा ब्रह्माणं च हरिस्तथा || तयोर्दर्पापहारार्थं प्रबोधार्थं च देवयोः | मध्ये समभवल्लिंगमैश्वरं तैजसं परम् || ज्वालामालावृतं दिव्यं मप्रमेयमनौपमम् | प्. ५(८) योजनायुतविस्तीर्णं स्थितं तद्विमलेऽम्भसि || ज्वालाभिर्मोहितौ तस्य लिंगस्य सुरसत्तमौ | तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ || गतावूर्ध्वमधस्तस्य संप्रधार्य परस्परम् | अधोपलब्धये विष्णु रगादूर्ध्वं पितामहः || अदृष्ट्वा तमधश्चोर्ध्वं तौसमेत्य परस्परम् | कृतांजलिपुटौ भूत्वा लिङ्गं तुष्टावतुस्तदा || अनादे देवदेवेश विद्येश्वर महेश्वर | सर्वज्ञ ज्ञानविज्ञान प्रदानैक नमोऽस्तु ते || बहुरूपमहारूप सर्वरूपोत्तमोत्तम | पशुपाशार्णवातीत वरप्रद नमोऽस्तु ते || स्वभावनिर्मला भोग सर्वव्यापिन् महेश्वर | योग योगिन् महायोगिन् योगेश्वर नमोऽस्तु ते || निरञ्जन निराधार स्वाधार निरूपप्लव | प्रसन्नपरमेशाय योगेश्वर नमोऽस्तु ते || जिह्वाचापलभावेन मोहितौ नौक्वते स्तुतौ | तत्क्षन्तव्यः नौपम्यकस्ते स्तौति गुणार्णवम् || लिङ्गोत्पत्तिस्तवं पुण्यं यः शृणोति सदानरः | सर्वपापविनिर्मुक्तः शिवलोके महीयते || लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेशसंमितम् | समाधिस्तोत्रसम्पन्नौ दृष्टवन्तौ शिवात्मकम् || नैवतत्काञ्चनं रौप्यं ताम्रं स्फाटिकमौक्तिकम् | लक्षमात्रं स्थितं शान्तं केवलं तच्छिवात्मकम् || तयोस्तुष्टो महादेवः प्रादाद्वरमनुत्तमम् | कारणत्वमनुज्ञाप्य तत्रैवान्तरधीयत || प्राञ्जलिः प्रणतो विष्णुः ब्रह्मापि ब्रह्मतत्परः | पूर्वं लिङ्गं समभ्यर्च्य त्वत्तत्कार्याणि चक्रतुः || ब्रह्मा ब्रह्माक्षरैर्दिव्यैर्लिङ्गं पूजयते सदा | गन्धपुष्पादिभिर्नित्यं विष्णुः पूजयते शिवम् || ततः प्रभृति ब्रह्माद्याः प्रतिष्ठाप्यसुरासुराः | तल्लिङ्गानुकृतिं लिङ्गं पूजयनृषयस्तदा || परं गरुडं शरीरं च लिङ्गं क्षेत्रमनादिवत् | यदाद्यमैश्वरं तेजस्तल्लिङ्गं पञ्चसंज्ञितम् || प्. ६(९) कल्पान्ते तस्य लिङ्गस्य दीयन्ते सर्वदेवताः | दक्षिणे लीयते ब्रह्मा वायतश्च जनार्दनः || हृदये चैव गायत्री सर्ववेदोत्तमोत्तमा | मूर्ध्निलीयन्ति वै वेदाः सषडङ्गपदक्रमाः || जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् | उत्पाद्यते पुनस्तस्मात् ब्रह्माद्यं सचराचरम् || आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका | आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते || लिङ्गमित्थं प्रतिष्ठाप्य सर्वदेवभवोद्भवम् | स्थापितं तेन सर्वं स्यात् पूजितञ्च न संशयः || प्राञ्जलिः प्रहितो विष्णु ब्रह्मापि ब्रह्मतत्परः | ब्रह्मा पूजयते नित्यं लिङ्गं शैलमयं शुभम् || तस्य संपूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् | शक्रोऽपि देवराजेन्द्रो लिङ्गं मणिमयं शुभम् || नित्यमर्चयते भक्त्या तेन शक्रत्वमाप्तवान् | लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा || तेनासौ धनदो देवो धनदत्वमाप्तवान् | विश्वेदेवा महात्मानो रौप्यलिङ्गं मनोहरम् || यजन्ते विधिवद्भक्त्या तेन विश्वत्वमवाप्नुवन् | वायुः पूजयते नित्यं लिङ्गं पित्तलसंभवम् || वायुत्वं तेनसंप्राप्तमनौपम्य गुणावहम् | इन्द्रनीलमयं लिङ्गं विष्णुरर्चयते सदा || विष्णुत्वं प्राप्तवांस्तेनाद्भुतैकं सनातनम् | वसवः का* तं लिङ्गं पूजयन्ति विधानतः || महात्मानो वसुत्वं हि * * * * महोदयम् | अश्विनौपार्थिवं लिङ्गं यजन्ते तु विधानतः || तेन तावपि नौ देवौ दिव्यदेहगतावुभौ | स्फाटिकं वृद्धिमल्लिङ्गं वरुणोर्चयते सदा || वरुणत्वं हि संप्राप्तं तेन ऋध्या समन्वितम् | लिङ्गमन्नमयं पुण्यमग्निर्यजति भावितः || अग्नि त्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् | ताम्रं लिङ्गं सदा कालं भक्त्या देवो दिवाकरः || प्. ७(१०) अर्च्यतेन सदाकालं प्राप्तं सूर्यत्वमुत्तमम् | मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा || तेन सोऽपि संप्राप्तः सोमत्वं सततोज्ज्वलम् | प्रकलकमयं लिङ्गं यजंते पन्नगोत्तमाः || तेन नागाः सुभोगाढ्याः प्रयास्यन्ते परं पदम् | कृष्णायसमयं लिङ्गं पूजयन्त्यसुरोत्तमाः || राक्षसाश्च महात्मानः तेनतेऽमितविक्रमाः | त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ते || तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् | त्रैलोहिकं सदालिङ्गं यजन्ते गुह्यकादयः || तेन भोगफलोपेताः प्रयान्तीश्वरमन्दिरम् | वज्रलोहमयं लिङ्गं यजन्ते मातरस्सदा || मातृत्वं प्राप्यताः सर्वाः प्रयान्ति परमं पदम् | एवं देवाः सगन्धर्वाः सयक्षोरगराक्षसाः || पूजयन्ति सदाकालमीशानं सुरनायकम् | तेन पूजयते नित्यं सर्वं लिङ्गे प्रतिष्ठितम् || तस्मात् सदार्चयेल्लिङ्गं यदीच्छे च्छ्रेय आत्मनः | लिङ्गो देवो महादेवः साक्षादेव व्यवस्थितः || अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् | यो न पूजयते मोहाल्लिङ्गं त्रिभुवनेश्वरम् || न च स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् | यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेश्वरम् || स स्वर्गमोक्षराज्यस्य क्षिप्रं भवति भाजनम् | तस्मादेकमनाभूत्वा यावज्जीवं प्रतिज्ञया || अर्चयन्ति महादेवमापन्नोऽपि सदाबुधाः | वरं प्राणपरित्यागः शिरसो वा परिच्छदे || नत्वै वा पूज्यभुञ्जीयात् भगवन्तं त्रिलोचनम् | एवं निर्वहते यस्तु यावज्जीवं शिवार्चनम् || आयुष्यं बलमारोग्यं स रुद्रो नात्रसंशयः | न हि लिङ्गार्चनादन्यत् पुण्यमभ्यधिकं क्वचित् || इति विज्ञाय यत्नेन पूजनीयः सदाशिवः | यो लिङ्गद्वेष्टिसंमोहात् सर्वदेवनमस्कृतम् || नरोनरकगामी स्यात् तस्य संभाषणादपि | प्. ८(११) लिङ्गमित्थं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः || यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु | सर्वयज्ञतपोदान तीर्थवेदेषु यत्फलम् || तत्फलं कोटिगुणितं स्थाप्यलिङ्गं लभेन्नरः | यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् || सर्वकामोदितं पुण्यं कोटि कोटि गुणं लभेत् | मातृतः पितृतश्चैव यस्य चोद्वहते स्त्रियः || कुलैकविंशमुत्तार्य शिवलोके महीयते | भुक्त्वा तु विपुलान् भोगान् प्रलयेसमुपस्थिते || ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते | अथ चेद्राज्यमाकांक्षेज्जायते स भवान्तरे || सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् | यः कृत्वा पार्थिवं लिङ्गमर्चयेत् स वैदिकम् || इहैव धनवान् छ्रीमान्नन्ते रुद्रञ्च जायते | सन्ध्यायां योर्चयेल्लिङ्गं कृत्वा बिम्बेन पार्थिवम् || दशैकादशिकं यावत् तस्य पुण्यफलं शृणु | अनेनैव तु देहेन रुद्रः संचरतेक्षितौ || पापहा सर्वमर्त्यानां दर्शनस्पर्शनादपि | उद्धृत्यदिविसंस्थाप्य कुलानामेकविंशतिः || सहायैः सहितो नित्यं मोदतेदिविरुद्रवत् | यः श्रीवृक्षमयं लिङ्गं सर्वगन्धोपशोभितम् || कुसुमैश्च सुगन्धैश्च फलैश्च विविधैस्तथा | भक्ष्यभोज्यान्नपानैश्च घृतदीपसमायुतम् | तस्य दक्षिणपार्श्वे तु विन्यसेदगरुं बुधः || दद्यात् पश्चिमभागे तु शोभनां तु मनाश्शीलाम् | उत्तरे चन्दनं दद्यात् हरितालं तु पूर्वतः || एवं वित्तानुसारेण कृत्वा विभवविस्तरम् | कृष्णपक्षे चतुर्दश्यां शिवाय विनिवेदयेत् || सकृदप्येव यः कश्चिल्लिङ्गं कुर्याद्द्विजोत्तमः | यत्फलं लभते तस्य तन्मे निगदतः शृणु || सर्वपापविनिर्मुक्तः सर्वोपद्रववर्जितः | निष्कलः सर्वगोभूत्वा प्रविशेच्छिवमव्ययम् || पांसुना क्रीडमानोऽपि लिङ्गं कुर्यात्तु यो नरः | प्. ९(१२) प्रत्यान्ते लभते राज्यमसपत्नमकण्टकम् | सूक्ष्मेणापि प्रयोगेणामेयं पुण्यसञ्चयम् || शिवमर्चयतो यस्मात् तस्मान्नित्यं समर्चयेत् | तस्मात्सर्वप्रयत्नेन शृणुयाद्भावितात्मनः || पापकञ्चुकमुत्सृज्य प्राप्नोति परमं पदम् || इति श्रीशिवधर्मशास्त्रे नन्दिप्रोक्ते लिङ्गोत्पत्तिर्नामतृतीयोध्यायः || अथ चतुर्थोऽध्यायः नन्दिकेश्वर उवाच शिवभक्ता महोत्साहाः शिवार्चनपरायणाः | सर्वलक्षणसम्पन्नाः सर्वार्थान् साधयन्ति ते || सर्वद्वन्द्व सहाधीराः नित्यमुद्युक्त चेतसः | परोपकार निरताः गुरुशुश्रूषणे रताः || आर्जवामार्दवाः स्वच्छा अनुकूलाः प्रियंवदाः | अमानिनो बुद्धिमन्तस्त्यक्त स्पर्धागतस्पृहाः || शान्ताः स्मितमुखाः भद्रा नित्यं स्वागतवादिनः | अल्पवाचोऽल्पवक्तारः शूरास्त्यागविशारदाः || शौचाचारेण सम्पन्ना दया दाक्षिण्यगोचराः | डम्भमात्सर्यनिर्मुक्ताः याथा तथ्यविभाषिणः || संविभागपराः प्राज्ञाः अशठाश्चाप्यकुत्सिताः | विषयेष्ववनिर्लेपाः पद्मपत्रमिवांभसः || नदीनानापिमलिना न च रोषवशानगाः | भवन्ति भावितात्मानः सुस्निग्धाः साधुसेविताः || न पाणिपादवाक्चक्षुः श्रोत्रशीर्षोदरैर्बुधाः | चापलानि न कुर्वन्ति सर्वसंगविवर्जिताः || रुद्रात्मानो रुद्रपराः रुद्रांशा रुद्रभाषिताः | इत्याचारसमायुक्ता भवन्तिभुविमानवाः || एकान्तं भक्तिमास्थाय परापरविभूतये | पूजनीयः शिवो नित्यं गुणेष्वेतेषु वर्तता || सर्वेषामेव पात्रार्णामतिपात्रं महेश्वरः | पतनात् त्रायते यस्मात् दतीवनरकार्णवे || किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् | आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति || तस्य पात्रस्य महात्म्याद्दानमण्वापि चाक्षयम् | तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभैः || शिवेदत्तं हुतं जप्तं पूजाबलि निवेदनम् | एकान्तात्यन्तफलदं तद्भवेन्नात्र संशयः || प्. १०(१३) एकान्तात्यन्तफलदं तद्भवेन्नात्रसंशयः | भक्त्या वित्तानुसारेण कुर्यात्प्रासादसञ्चयम् || अल्पे महति वा पुण्यं फलमाढ्यदरिद्रयोः || वित्तशाठ्येन यत्कुर्यात् फलमाढ्योऽपि यो नरः | तत्तत्फलमवाप्नोति प्रलोभाक्रान्तमानसः || तस्मात्त्रिभागं वित्तस्य जीवनायप्रकल्पयेत् | भागद्वयं च धर्मार्थे अनित्यं जीवितं यतः || भक्त्या प्रचोदितः कुर्यात् अल्पवित्तोऽपि यो नरः | महाविभवसारोऽपि न कुर्याद्भक्तिवर्जितः || सर्वस्वमपि यो दद्यात् शिवे भक्तिविवर्जितः | न तेन धर्मभागीस्यात् भक्तिरेवात्र कारणम् || न तत्तपोभिरत्युग्रैर्न च सर्वैर्सहामखैः | गच्छेछिवपुरं दिव्यं मुक्त्वाभक्तिं शिवात्मिकाम् | मृदादीष्टकशैलं वा यः कुर्यात्तु शिवालये || त्रिसप्तकुलसंयुक्तः शिवलोके महीयते || मृण्मयात् कोटिगुणितं पुण्यं स्याद्दारुभिः कृतैः | कोटि कोटिगुणं पुण्यं मृत्काष्ठादिष्टकामये || द्विगुणं द्विगुणं पुण्यं शैलजे स्याच्छिवालये | मृच्छैलयोः समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः || तत्र तत्र गतः कुर्याः पुण्यं शैलेष्टकामयम् | नवं पुराणरहितं तस्यां कुर्याछिवालयम् || अष्टेष्टकसमायुक्तं यः करोति शिवालयम् | विधूतपापसंघातः सोऽपि गच्छेच्छिवालयम् || क्रीडमानोऽपि यः कुर्यात् बालभावाच्छिवालयम् | रुद्रलोके भवेत् सोऽपि विमानं सर्वगामिकम् || दिव्यमालापरिक्षिप्तं दिव्यगन्धर्वशोभितम् | डोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् || मुक्तादामवितानेन शोभितं सूयसप्रभम् | अप्सरोगणसङ्कीर्णं सर्वकामसुखप्रदम् || तत्रोषित्वा महाभोगै वर्षकोट्ययुतं सुखी | क्रमादागत्यलोकेऽस्मिन् राजा भवति धार्मिकः || पश्यन् परिहरन् जन्तून् मार्जन्यामृदुसूक्ष्मया | शनैः संमार्जनं कुर्याच्चान्द्रायणफलं लभेत् || प्. ११(१४) नाहारवशजीर्णाया वन्ध्यायाः क्षीरवत्सजम् | रोगार्तनवसूताया गोभ्यो गोमयमाहरेत् || स्वसंस्थं गोमयं गृह्य स्थाने वा पतितं शुभे | उपर्युपरिसन्त्यज्य प्रत्यग्रं जन्तु वर्जितम् || वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् | पश्यन् परिहरन् जन्तून् चान्द्रायणफलं लभेत् || यः कुर्यात्सर्वकार्याणि वस्त्र पूतेन वारिणा | स मुनिः समहासाधुः स योगी सशिवं व्रजेत् || क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः | न क्षरेतमहादानमभयं सर्वदेहिनाम् || नैरन्तर्येण यः कुर्यात्पक्षं संमाजनार्चनम् | युगकोटिशतं साग्रं रुद्रलोके महीयते || तस्यान्ते स चतुर्वेदः सुरूपः प्रियदर्शनः | आढ्यः सर्वगणोपेतो राजा भवतिधार्मिकः || सम्पर्केणापि यः कुर्यात् नरः कर्मशिवालये | सोऽपि देहत्रयात् ज्ञानं प्राप्यशान्तिमवाप्नुयात् || रुद्रदेवनिकायेषु कश्चिज्ज्ञानमवाप्नुयात् | कश्चिदेव तु मेदिन्यां लब्ध्वा ज्ञानं विमुच्यते || तावद्भ्रमति संसारे दुःखशोकपरिप्लुतः | न भवन्ति शिवेभक्ता यावत् सर्वेऽपि देहिनः || समासक्तं यथा चित्तं जन्तोर्विषयगोचरे | यदिनामशिवोऽप्येवं को न मुच्येत बन्धनात् || यः कुर्यात् कुट्टिमाभूमिं दर्पणोदर सन्निभाम् | नानावर्णविचित्रां वा विचित्रकुसुमोज्ज्वलाम् || क्वचित्कलशविन्यस्तां पङ्कजाद्युपशोभिताम् | मनोभिरम्यां सुस्निग्धां शिवयतनसंसदि || यावद्धस्ता भवेद्भूमिः समन्तादुपशोभिता | तावद्युगसहस्राणि शिवलोके महीयते || सुधाप्रलिप्तं यः कुर्यात् सर्वयत्नैः शिवालयम् | तावत्पुण्यं लभेत्सोऽपि यावदायतने कृते || प्रत्यब्दं यः प्रकुर्वीत शंभोरायतनं बुधः | धवलं क्षीरसुधया यथाशोभं च वर्णकैः || यावन्त्यब्दानि कुरुते धवलं तच्छिवालयम् | प्. १२(१५) तावद्युगसहस्राणि शिवलोके महीयते || कारयेच्चित्रशास्त्रज्ञैर्यत्नाच्चित्रं शिवालये | रुद्रावतारक्रीडादिप्रयोगैरागमोदितैः || तावत्तद्रूपरूपाणि सुरूपाणि तु लेखयेत् | तावद्युगसहस्राणि रुद्रलोके महीयते | खण्डस्फुटितसंस्कारं यः प्रकुर्याच्छिवालयम् || आरामावसयाभ्यां च लभते मौलिकं फलम् | नास्तिरुद्रसमो देवो नास्ति रुद्रसमोगुरुः || नास्तिरुद्रसमं ज्ञानं नास्तिरुद्रसमं तपः | निर्धूतमलपंकाय स्वभावामलमूर्तये || सितभस्मांगदेहाय देवेशाय नमोस्तु ते | नीलकण्ठाय शर्वाया जाया व्यक्तमूर्तये || बहुरूपाय कान्ताय शाश्वताय नमोस्तु ते | पराय परमेशाय सप्तांगायमहात्मने || अतीतगुणसंघाय विश्वेशाय नमोस्तु ते | महाभोगीन्द्रहाराय पिङ्गलोचनचारवे || विचित्र चरिताढ्याय अनन्ताय नमोस्तु ते | सर्वप्रणतदेहाय स्वयमप्रणतात्मने | पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने || ब्रह्मेन्द्रविष्णुवन्द्यायोत्पत्तिस्थिति हेतवे | भुक्तिमुक्ति प्रदानाय संस्कृताय नमोस्तु ते || वामाय वामरूपाय वामाचाराय भामिने | वामकान्ताय वामायेशानाय नमोऽस्तु ते || य इदं कीर्तयेत्पुण्यं प्रासादाध्यायमुत्तमम् | सर्वदोषविनिर्मुक्तो गाणापत्यमवाप्नुयात् || इति श्रीशिवधर्मशास्त्रे प्रासादाध्यायश्चतुर्थः || अथ पञ्चमः नन्दिकेश्वर उवाच लिङ्गमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः | स्नानकाले प्रकुवीत जयशब्दादिमङ्गलम् || त्रिशूलशंखवज्राब्ज श्रीवत्सस्वस्तिकादिभिः | हैमरौप्यादिपात्रस्यैः कल्पितैर्गोमयादिभिः || नानावर्णकसंयुक्तैरक्षतैस्तिलतण्डुलैः | प्. १३(१६) सिद्धार्थैर्दधिसंमिश्रैर्यथा शोभं प्रकल्पयेत् || दूर्वापद्मप्रदीपाद्यैश्चूताश्वत्यादिपल्लवैः | ओषधीभिश्च मेध्याभिः सर्वबीजैर्यवांकुरैः || अष्टम्यादिषु सर्वेषु दिवसेषूत्सवेषु च || पर्वकालेषु पुण्येषु पुष्यपौर्णिमपर्वणि | शंखभेर्यादिनिर्घोषैर्महद्भिर्गेयसंयुतैः || कुर्यान्नीराजनं लिङ्गैः शिवमुद्दिश्यमङ्गलैः | यावत्पर्वाणि कुरुते भक्त्यानीराजनं शिवे || तावद्वर्षसहस्राणि रुद्रलोके महीयते | स्नानकाले त्रिसंध्यं च यः कुर्याद्गेयवादितम् || नृत्तं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु | यावन्त्यहानिकुरुते गेयं नृत्तादि वा शतम् || तावद्युगसहस्राणि रुद्रलोके महीयते | कपिला पञ्चगव्येन कुशवारियुतेन तु || स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत् स्मृतम् | एकाहमपि यो लिङ्गे ब्रह्मस्नानं समर्चयेत् (समाचरेत्) || स विधूयाशुपापानि रुद्रलोके महीयते | कपिलापञ्चगव्येन विधिनासकृदा चरेत् || स्नानं शतगुणं ज्ञेयमितरस्मान्नसंशयः | देवाग्निकार्यमुद्दिश्य देहशुद्धिं च शाश्वतीम् | कपिलामाहरेत्तस्मान् मुनिदेवादिवब्दिताम् || कपिलां यः पिबेच्छूद्रः शिवकार्यार्थनिर्मिताम् | सपच्येत महाघोरे सुचिरं नरकार्णवे || वर्षकोटिसहस्राणि यत्पापं समुपार्जितम् | कल्पकोटिसहस्रं तु यत्पापं समुपार्जितम् || घृतस्नानेन तत्सर्वं दहत्याग्निरिवेन्धनम् | कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः || कुलैकविंशमुद्धृत्य शिवलोके महीयते | अयुतं योगवां दद्यात् दीग्ध्रीणां वेदपारगे || वस्त्रादिहेमयुक्तानां क्षीरस्नानस्य तत्फलम् | सकृदाढकेन पयसा यो लिङ्गं स्नापयेन्नरः || राजतेन विमानेन सोमलोकं सगच्छति | स्नाप्य दध्ना सकृल्लिङ्गं विष्णुलोके महीयते || मधुना स्नापयित्वा तु चन्द्रलोके महीयते | प्. १४(१०) स्नापयेत्तिलतैलेन हस्तयन्त्रोद्भवेन च | श्वेतपीतकपिष्टैर्वा वायुलोके महीयते | स्नानमिक्षुरसेनापि यो लिङ्गं सकृदाचरेत् || लभेद्वैद्याधरं लोकं सर्वकामसमन्वितम् | फलोदकेन यो लिङ्गं सकृत्स्नापयते नरः || उत्सृज्य पापकलिलां पितृलोके महीयते | सितेनभस्मनास्नाप्य सकृल्लिङ्गं प्रमोदते || चन्द्रांशुनिर्मलः श्रीमान् शिववत्सोममण्डले | वस्त्रपूतेन तोयेन लिङ्गं स्नापयते सकृत् || स सर्वकामतृप्तात्मा वारुणं लोकमाप्नुयात् | कुशोदकेन यो लिङ्गं भक्त्यास्नापयते सकृत् || काञ्चनेन विमानेन ब्रह्मलोकं सगच्छति | गन्धचन्दनतोयेन स्नापयेत्सकृदीश्वरम् || गन्धर्वलोकमाप्नोति गन्धर्वैश्च सपूज्यते | पुष्पोदकेन सावित्रं कौबेरहेमवारिणा || रत्नोदकेन चाप्यैन्द्रं लोकं प्राप्य समोदते | पाटलोत्पलपद्मानि करवीराणिसर्वदा || स्नानकालेंबुयोज्यानि क्षीराणि सुरत्रीणि च | एषामेकतरस्नानं त्रिःकृत्वा भक्तितः शिवे || विधूयपापकलिलं शिवलोके महीयते | कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत्सकृत् || सर्वपापविनिर्मुक्तः शिवलोके महीयते | मन्त्राष्टशतजप्तेन विमलेनांभसा शिवम् || स्नापयित्वा सकृद्भक्त्या शिवलोके महियते | कुलैकविंशमुद्धृत्य शिवलोके महीयते || पितॄनुद्दिश्य यो लिङ्गं स्नापयेच्छीतवारिणा | तृप्ताः स्वर्गं प्रयास्यन्ति पितरोनरकादपि || लिङ्गं शीताम्बुना स्नाप्य धारोष्णपयसा ततः | स्नाप्य पश्चाद् घृतेनापि घृतमेव विशिष्यते || एतत् स्नानत्रयं कृत्वा पूजयित्वा च भक्तितः | अश्वमेधसहस्रस्य फलमाप्नोति मानवः || मृत्कुम्भात्ताम्रजैः कुम्भैः स्नानं शतगुणोत्तरम् | प्. १५(१८) रौप्ये लक्षान्तरं पुण्यं हेमेकोट्याधिकं फलम् | लिङ्गस्य दर्शनं पुण्यं दर्शनात् स्पर्शनं तथा || स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतःपरम् | इहामुत्रकृतं पापं घृतस्नानेन देहिनाम् || क्षपये च्छंकरो यस्मात् तस्मात् स्नानं समाचरेत् | दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत् || सहस्रं क्षमते दध्ना घृतेनाप्ययुतं क्षमेत् | नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् || एकविंशत्कुलोपेतो वसेच्छिवपुरे सुखी | स्नानं फलशतं ज्ञेयमभ्यङ्गः पञ्चविंशतिः || फलानान्ते सहस्रं तु महास्नानं प्रकीर्तितम् | घृतस्नान घृताभ्यंगे कुर्याल्लिङ्गं विरूपणम् || यवगोधूमजैश्चूर्णैः क्षालयेद्गन्धयोजितैः | सुखोष्णेनाम्भसा चापि स्नापयेदन्तरान्तरे || घर्षयेद्विल्वपत्रैश्च तद्वत्पीठं च शोधयेत् | दशधेनु सहस्राणि यद्दत्वा लभते फलम् || तत्फलं लभते सर्वं लिङ्गस्योद्वर्तने कृते | अर्घ्यं पुष्पफलोपेतं यः शिवाय निवेदयेत् || दशवर्षसहस्राणि शिवलोके महीयते | आपः क्षीरं कुशाग्राणि घृतं दधिसतण्डुलम् || तिलाः सिद्धार्थकाश्चैवमर्घ्यमष्टाङ्गमुच्यते | गन्धोदकेन संमिश्रं मुदकार्घ्याच्छतोत्तरम् || पञ्चगव्यसमायुक्तमर्घ्यं शतगुणं भवेत् | योऽर्घ्यमष्टांगमापूर्य लिङ्गमूर्ध्निनिवेशयेत् || दशवर्षसहस्राणि रुद्रलोके समोदते | यवतण्डुलसव्रीहिमाषैरक्षतमादिशेत् || घृतं विनाक्षतं ग्राह्यमिति केचिद्व्यवस्थिताः | दारवेणार्घ्यपात्रेण दत्वार्घ्यं यत्फलं भवेत् || तस्माद् दशगुणं पुण्यं मृत्पात्रेण प्रकीर्तितम् | ताम्रपात्रार्घ्यदानेन पुण्यं शतगुणोत्तरम् || पलाशपद्मपत्राभ्यां ताम्रपात्रसमं भवेत् | रौप्यपात्रेण विज्ञेयमर्घ्यं लक्षगुणोत्तरम् || सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणोत्तरम् | प्. १६(१९) एवं स्नानार्घ्यनैवेद्यं बलिपूजादिषु क्रमात् | पात्रान्तरविशेषेण तत्फलं चोत्तरोत्तरम् || रौप्यपात्रप्रदानेन तस्माच्छतगुणं शिवे | फल(शत)कोटिसुवर्णस्य यो दद्याद्वेदपारगे || शिवाय रौप्यं यो दद्यात् तस्य पुण्यं ततोऽधिकम् | हेमपात्राणि यो भक्त्या शिवाय विनिवेदयेत् || न शक्यं तस्य तद्भक्तुं पुण्यानन्त्यं विशेषतः | तुल्यं शिवे फलं प्रोक्तं दानादाढ्यदरिद्रयोः || तयोरप्यधिकं तस्य यः शिवे भावनाधिकः | विभवेसति यो मोहात् न कुर्याद्विधिविस्तरम् || नैव तत्फलमाप्नोति प्रलोभाक्रान्तमानसः | तस्मात् पत्रैः फलैपुष्पैस्तोयाद्यैश्चैव यत्कृतम् || तदनन्तफलं ज्ञेयं भक्तिरेवात्रकारणम् | लिङ्गस्या लेपनं कृत्वा दिव्यगन्धैः सुगन्धिभिः || वर्षकोटिशतं दिव्यं रौद्रलोके महीयते | गन्धानुलेपनात् पुण्यं द्विगुणं चन्दनस्य तु || चन्दनाच्चागरुज्ञेयं पुण्यमष्टगुणोत्तरम् | कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते || तस्माच्छतगुणं पुण्यं कुंकुमस्य विधीयते | चन्दनागरुकर्पूरैरश्लक्षणपिष्टैः सकुङ्कुमैः || लिङ्गं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि | संवीज्यतालवृन्तेन लिङ्गं गन्धैः प्रलेपितम् || दशवर्षसहस्राणि वायुलोके महीयते | भक्त्यानिवेद्यरुद्राय तालवृन्तं सुशोभनम् || दशवर्षसहस्राणि रुद्रलोके महीयते | मायूरव्यजनं दत्वा शिवायातीवशोभनम् | वर्षकोटिशतं पुण्यं रुद्रलोके महीयते | शिवायचामरं दत्वा मण्डीमण्डविभूषितम् || हेमरूप्यादिदण्डं वा तस्य पुण्यफलं शृणु | चामरासक्तहस्ताग्र दिव्यस्त्रीपरिवारितः || महाभोगविमानस्थश्चिरं शिवपुरे वसेत् | इत्यर्चना प्रचारेणानन्तं पुण्यसञ्चयम् || सनत्कुमारः पुऽपैः कतिविधैः पूजा कर्तव्या कथयस्व मे | प्. १७(२०) श्रीनन्दिकेश्वर उवाच पुष्पैरारण्यसंभूतैः पत्रैर्वा गिरिसंभवैः || अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः | आत्मारामोद्भवैश्चापि पुष्पैः संपूजयेच्छिवम् || पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः | तपश्शीलगुणोपेते पात्रे वेदस्य पारगे || दशदत्वा सुवर्णानि यत्फलं कुसुमेष्ट तत् | अर्कपुष्पेपिचैकस्मिन् शिवाय विनिवेदिते || दश दत्वा सुवर्णानि यत्फलं तदवाप्नुयात् | एवं पुष्पविशेषेण फलं तदधिकं भवेत् || एवं पुष्पान्तरे ज्ञेयं फलं स्यात् तन्निबोधत | अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते | बिल्वपत्रसहस्रेभ्यः पद्ममेकं विशिष्यते | पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते || बकपुष्पसहस्रेभ्यो ह्येकं धुत्तूरकं वरम् | धत्तूरकसहस्रेभ्यो बृहत्पुष्पं विशिष्यते || बृहत्पुष्पसहस्रेभ्यो द्रोणपुष्पं विशिष्यते | द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते || अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते | कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते || शमीपुष्पसहस्रेभ्यो श्रीमन्नीलोत्पलं वरम् | सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम् || नीलोत्पलसहस्रेण यो मालां संप्रयच्छति | शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | वसेच्छिवपुरे श्रीमान् शिवतुल्यपराक्रमः | शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम् | तत्फलस्यानुरूपेण शिवलोके महीयते || शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते | करवीरसमाज्ञेया जातीविजयपाटला || श्वेतमन्दारकुसुमं करञ्जेन्द्रतरुद्भवम् | वैभीतकानिपुष्पाणि तत्पत्राणि च वर्जयेत् || दुर्गन्धान्युग्रगन्धीनि कुसुमानि विवर्जयेत् | प्. १८(२१) गन्धवन्त्यपवित्राणि यानि कान्यपि वर्जयेत् || गन्धहीनमपिग्राह्यं पवित्रं यत्कुशादिकम् | सात्विकं तद्धिकुसुमं पवित्रं नामतत्समम् || कनकादीनि शस्तानि रात्रौ देयानिशङ्करे | दिवाशेषाणि पुष्पाणि दिवात्रान्तुमल्लिका || प्रहरन्तिषु ते जाति करवीरमहर्निशम् | केशकीटोपबद्धानि शीर्णपर्युषितानि च || स्वयं पठितपुष्पाणि त्यजेदुपहतानि च | मुकुलैर्नार्चयेद्देवं पक्वान्नं न निवेदयेत् || फलं क्वचितविद्धं च यत्नात् पक्वं परित्यजेत् | अलाभेन तु पुष्पाणां पत्राण्यापि निवेदयेत् || पत्राणामप्यलाभेन फलान्यपि निवेदयेत् | पलानामप्यलाभेन तृणगुल्मोषधीरपि || ओषधीनामप्यलाभेन भक्त्याभवतिपूजितः | प्रत्येकमुक्तपुष्पेषु दशसौवर्णिकं फलम् || स्रङ्निबद्धेषु तेष्वेव द्विगुणं फलमुच्यते | सुगन्धैर्मुक्तपुष्पैश्च यो लिङ्गं संप्रपूजयेत् || मालाभिर्वापि सुघनैस्सोऽनन्तं फलमाप्नुयात् | बिल्वपत्रैरखण्डैर्यः सकृल्लिङ्गं प्रपूजयेत् || सर्वपापविनिर्मुक्तः शिवलोके महीयते | धुर्त्तूरकैश्च यो लिङ्गं सकृत्पूजयते नरः || स गोलक्षप्रदानस्य (शिवं प्राप्य) फलं प्राप्य शिवं व्रजेत् | बृहती कुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् || गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् | मल्लिकोत्पलपद्मानि जातीपुन्नागचम्पकाः || अशोकश्वेतमन्दार कर्णिकारबकानि च | करवीरार्कमन्दारशमीतगरुकेसराः || कुशापामार्गकुमुदकदम्बद्रोणजा अपि | सौगन्धिकासनानांगबिन्दुशैवलिकार्जुनाः || तुलसी कुरवकोलनागवञ्जुलसंभवाः | नन्द्यावर्ताश्च शम्याक तिलकं नवमालिका || तरुपुन्नागदन्ती च मालती कुटजादयः | पुष्पैरेतैर्यथा लब्धैर्योनरः पूजयेच्छिवम् || स यत् फलमवाप्नोति तदेकाग्रमनाः शृणु | प्. १९(२२) सूर्यकोटिप्रतीकाशैर्विमानैस्सार्वगामिकैः | पुष्पमालापरिक्षिप्तैर्गीतवादित्रनादितैः || तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः | रुद्रकोट्यासमाकीर्णैर्देवदानवदुर्लभैः || दोधूयमानश्चामरैस्तु स्तूपमानः सुरासुरैः | गच्छेच्छिवपुरं दिव्यं यत्र वा रुचितं भवेत् || एतैर्वा पीहकुसुमैः जलस्थलरुहैः शिवम् | संपूज्यप्रोक्षितैर्भक्त्या शिवलोके महीयते || शिवस्योपरियः कुर्यात् सुघनं पुष्पमण्टपम् | शोभितं पुष्पमालाभिरापीठान्तं प्रलम्बिभिः || अत्युच्चकैर्महायानैर्दिव्यगन्धोपशोभितैः | सर्वोपरिचरः श्रीमान् नास्ते शिवपुरे सुखी || अनेकाकारविन्यस्तं कुसुमैर्गूहकं शिवे | यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्ज्वलम् || सपुष्पकविमानानां सहस्रपरिवारितः | दिव्यस्त्रिसुखसंभोग क्रीडारतिसमन्वितः || अक्षयं मोदते कालमतिरस्कृतशासनः | शिवादिसर्वलोकेषु यत्रेष्टं याति तत्र सः || पूजादिभक्तिविन्यास रचनादिषु सर्वतः | फलमेतत्समासेन ज्ञेयं वित्तानुसारतः || मालाभिर्वेष्टयेद्वेदिं लिङ्गं सम्पूज्ययत्नतः | लिङ्गं वेदिर्भवेद्देवी लिङ्गं साक्षान्महेश्वरः || तयोः संपूजनात्स्यातां देवी देवश्च पूजितौ | स्वयमुत्पाद्यपुष्पाणि यः शिवं पूजयेत् स्वयम् || तानि साक्षात् सुगृह्णाति तद्भक्त्या सततं शिवः | तावद्वर्षसहस्राणि रुद्रलोके महीयते || यः प्रकुर्याच्छिवाराममाम्रविल्वादिशोभितम् | जातीविजयराजाकं करवीराब्जर्ककुब्जकैः || पुन्नागनागवकुलैरशोकोत्पलचम्पकैः | कदलीहेमपुष्पाद्यैः तस्य पुण्यफलं शृणु || यावत्तत्पत्रकुसुमं नीजसूतीफलानि च | तावत् वर्षसहस्राणि रुद्रलोके महीयते || लाक्षा प्राण्यंगनिर्मुक्तं धूपं दद्यात् सकृत् सकृत् || शिवे || प्. २०(२३) चतुर्वेदि गृहे जन्म प्राप्नोति सततं सुखी | कृष्णागरुं सकर्पूरं धूपं दद्यात् सकृच्छिवे || नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु | कल्पकोटिसहस्राणि कल्पकोटिशतानि च || भुङ्क्ते शिवपुरेभोगान् तस्यान्ते स महीपतिः | गुग्गुलुं घृतसंयुक्तं साक्षाद् गृह्णाति शङ्करः || मासार्धमासदानेन शिवलोके महीयते | कृष्णपक्षे चतुर्दश्यां यः साज्यं गुग्गुलुं दहेत् | अपराधसहस्रैकमिहामुत्रकृते शिवः | क्षमतेशंकरो यस्मात् तस्माद्देयं शिवे सदा || देवदारुं नमेरुं च सर्जं श्रीवासकृन्द्रतः | श्रीफलं चाज्यसंमिश्रं दत्वाप्नोति परां श्रियम् || एभ्यस्सुगन्धधूपं तु षड्सहस्रगुणोत्तरम् | अगरुर्दशसाहस्रं द्विगुणं चासितागरुः || गुग्गुलुः दशसाहस्रं सघृतो द्विगुणं भवेत् | प्रयच्छेद्गुग्गुलुं नित्यमाज्ययुक्तं विशेषतः || द्वेसहस्रे फलानान्तु महिषाक्षस्य गुग्गुलोः | दग्ध्वाब्दमाज्यसंमिश्रं शिवतुल्यः प्रजायते || नमेरुं घृतसंयुक्तं दग्ध्वा बिल्वमथापिवा | अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः || शोधयेत् पापसंयुक्तं पुरुषं तु न संशयः | कृष्णागरुर्दहेत् पापं तुषाग्निरिवकाञ्चनम् || योऽन्तः शिवपुरं सर्वं सुसुगन्धैः प्रलेपयेत् | कवाटद्वारकुड्यादितिर्यगूर्ध्वं सवैदिकम् || वासयेत्पुष्पमालाभिः धूपैश्चापिसुगन्धिभिः | यः कुर्यात्सकृदप्येवं पुण्यं तदवधारय || सर्वकामसुसंपूर्णैर्महायानैरनेकशः | आपूरयन् दिशः सर्वाः आयोजनसुगन्धिभिः || कल्पकोटिशतं दिव्यं शिवलोके महीयते | तस्यान्ते धर्मशेषेण त्रैलोक्याधिपतिर्भवेत् || ऋतावृतौ तु यः कुर्यात् देवगन्धैः शिवालयम् | स समस्तकुलोपेतः शिवलोके महीयते || त्रिवृच्छुक्लं सुपीतं वा पट्टसूत्रादिनिर्मितम् | दत्वोपवीतं रुद्राय भवेद्वेदान्तगो नरः || प्. २१(२४) वासांसि सुविचित्राणि सारवन्ति मृदूनि च | धूपितानि शिवे दद्यात् द्विद्वैकानि नवानि च || यावत्तद्वस्त्रतन्तूनां परिमाणं विधीयते | तावद्वर्षसहस्राणि रुद्रलोके महीयते || त्रुटिमात्रं तु यो दद्यात् द्धेमं लिङ्गस्य मूर्धनि | इन्द्रस्यार्धासनी तावत् यावदिन्द्राश्चतुर्दश || एवमेवानुसारेण फलं ज्ञेयं समासतः | सर्वेषां हेमपात्राणां मकुटानां च सर्वशः || योऽर्कपर्णपुटं मधुपर्कस्य मन्त्रितम् | निवेदयीत शर्वाय सोऽश्वमेधफलं लभेत् || शालीतण्डूलकप्रस्थं कुर्यादन्नं सुसंस्कृतम् | शिवाय तच्चरुं दद्याच्चतुर्दश्यां विशेषतः || हारिद्रं कृसरं शुक्लं पायसं याचकं तथा | गुलखण्डाज्यसंमिश्रमेवमाद्यं निवेदयेत् || यावन्तस्तण्डुलास्तस्मिन्नैवेद्यपरिसंख्यया | तावद्वर्षसहस्राणि शिवलोके महीयते || गुलखण्डकृतानां च भक्षाणां विनिवेदने | घृतेन पालितं तस्मादन्नानां तच्चतुर्गुणम् || मार्जितापानकाद्यानां भक्ष्यार्थं फलमिष्यते | तदर्धं सलिलस्यापि वासितस्य निवेदने || मातुलुङ्गफलाद्यानि सुपक्वानि निवेदयेत् | शिवायतत्फलं तस्य यद्भक्षाणां निवेदने || घृतदीपप्रदानेन शिवायशतयोजनम् | याम्यं तमोलंघयित्वा विमानं सूर्यसन्निभम् || पञ्चसौगन्धिकोपेतं ताम्बूलं यो निवेदयेत् | शिवाय गुरवे चैव तस्य पुण्यफलं शृणु || सुगन्ध तेजास्तेजस्वी सर्वावयवशोभितः | वर्षकोटिशतं दिव्यं शिवलोके महीयते || यः कुर्यात्कार्तिकेमासि शोभनां दीपमालिकाम् | घृतेन च चतुर्दश्याममावास्यां विशेषतः || सूर्यायुतप्रतीकाशतेजसा भासयेद्दिशः (यन्दिशः) | तेजोराशिर्विमानस्थः कुलमुद्धृत्य सर्वतः | यावत्प्रदीपसंख्यानां घृतेनापूर्यवोधितः | प्. २२(२५) तावद्युगसहस्राणि रुद्रलोके महीयते | दीपवृक्षान् समुद्वोध्य शिवस्या यतने शुभान् || पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः | स्थानदीपं समुद्बोध्य लोहगुच्छं शिवालये || दत्वा कार्यासयुक्तं तु शिवलोके महीयते | शिरसा धारयेद्दीपं सर्वरात्रं शिवाग्रतः || ललाटेवायहस्ताभ्यामुद्युक्तश्च तथोरसि | सूर्यायुतप्रतीकाशैर्विमानैरूपशोभितैः || कल्पायुतशतं दिव्यं शिवलोके महीयते | शिवस्य पुरतो दद्याद्दर्पणं चारुनिर्मितम् | पर्यन्तशोभितं कृत्वा श्वेतमाल्यैश्च चन्दनैः | चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् || कल्पायुतसहस्राणि शिवलोके महीयते | कृत्वा प्रदक्षिणं भक्त्या शिवस्या यतनं नरः || अश्वमेधसहस्रस्य सुखेन लभते फलम् | नमस्कारः स्मृतो यज्ञ सर्वयज्ञोत्तमः शिवे || नमस्कृत्वा महादेवमश्वमेधफलं लभेत् | प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्पयेत् || स यां गतिमवाप्नोति नतां क्रतु शतैरपि | सर्वयज्ञोपवासेषु सर्ववेदेषु यत्फलम् || स्तुति जप्योपहारेण शिवे तत्फलमाप्नुयात् | श्वेतं महाध्वनं दद्यात् कृत्वा वै पञ्चरंगिकम् || किङ्किणीरवकोपेतं मयूरछत्र शोभितम् | सशतेन विमानानां सर्वदेवोपरिस्थितः || मन्वन्तरसहस्रैकं मोदते दिविरुद्रवत् | ध्वजमालाकुलं कुर्याद्यः प्रसादं शिवालये || महाध्वजाष्टकं वापि दिग्विदिक्षुनिवेदयेत् | सविमानसहस्रेण दिव्यध्वजसुशोभिना | कल्पायुतशतं साग्रं मोदते दिविरुद्रवत् | शरच्चन्द्रांशु विमलं मुक्ताजालोपशोभितम् || मणिदण्डमयं च्छत्रं दद्याद्वा काञ्चनादिना | सच्छत्रेण विचित्रेण धार्यमाणेन शोभिभिः || विमानैः शतसंभोगैश्चिरं शिवपुरे सुखी | यदिन्येद्राज्यमाकांक्षेत् स देही कालपर्ययात् || प्. २३(२६) भुङ्क्तेसमुद्रपर्यन्तामेकच्छत्रां वसुन्धराम् | यः शृंखला समायुक्तां महाघण्टां महास्वनाम् || कांस्यलोहमयीं वापि निबध्नीयाच्छिवालये | घण्टाकर्णगणः श्रीमान् शिवस्यातीववल्लभः || शिवतुल्यबलोभूत्वा शिवलोकेवसेच्चिरम् | भेरीमृदंगपटहतिमिलामरवादिकम् || वंशकांस्यादिवादित्रं यः शिवाय निवेदयेत् | सविमानैर्महाभोगैर्वंशवीणादिभिः स्वनैः || युगायुतशतं साग्रं शिवलोके महीयते | स्त्रीसंगीत(क)दानेन सनादेन विशेषतः || यथेष्टमैश्वरे लोके मोदते कालमक्षयम् | महं महास्वनं दत्वा शंखयुग्मं शिवालये || युगकोटिमहाभोगैः शिवलोके महीयते | विमानं सितपद्माभं मध्ये करकभूषितम् || विचित्रमेकवर्णं वा नववस्त्रादिशोभितम् | लम्बकैःसूत्रदामैश्च घण्टाचामरभूषितम् || शिवस्योपरि यो दद्यात् पुरतो वापि कल्पयेत् | रुद्रवत् सर्वलोकेषु युगकोटिं स मोदते || शिवस्योपरि यो दद्यात् सर्वरत्नोपशोभितम् | किंकिणीरवकोपेतं चन्द्रकैश्चोपशोभितम् || मण्टपं मौक्तिकं श्रीमत्तस्य पुण्यफलं शृणु | कोटिकोटिविमानान्तं सर्वकामसमृद्धिभिः || आभूतसंप्लवं यावत् तावच्छिवपुरे वसेत् | शर्वस्या यतनं कुर्यात् ववस्त्रपूजोपशोभितम् || दुकूलपट्टदेवांगैर्वस्त्रैर्वा वर्णकान्वितैः | वस्त्रादिपट्टतन्तूनां परिसंख्या तु यावती || तावद्युगसहस्राणि शिवलोके महीयते | शिवं स्तुत्वा जगत्सर्वं वृष्टिद्वारेण धार्यते || यत्संधाय जगत्पुण्यमग्निकार्येण तद्भवेत् | यः कुर्यादिष्टकागारं रुद्राग्नेरतिशोभनम् || सकृत्तत्राग्निकार्येण शिवसायुज्यमाप्नुयात् | शिवाग्निकार्यं यः कुर्यात् कुर्यादायुष्यमात्मनः || मुच्यते पृथुभिः पापैः सितेन शिवभस्मना | कृत्वा शिवालयस्यान्ते दशमण्डलिकानि तु || सर्वोपहारसंयुक्तं तेषां नित्यं बलिं हरेत् | प्. २४(२७) पुष्पधूपजलोपेतं ताम्रपात्रं प्रकल्पयेत् | रुद्रमातृगणादीनां दिक्पतीनां च सर्वतः || यः कुर्यात् सकृदप्येवं दशदिक्षु बलिक्रियाम् | दशवर्षसहस्राणि शिवलोके महीयते || रौद्रं सन्ध्याबलिं कृत्वा नित्यं पर्वसु वा निशि | कल्पायुतशतं साग्रं शिवलोके महीयते | दधिभक्तमयं लिङ्गं हेमपात्रादिषु स्थितम् | पुष्पधूपार्चितं कृत्वा वितानोपरिशोभितम् || शिरसाधारयन् पात्रं शनैर्गच्छन् प्रदक्षिणम् | शिवायतनपर्यन्तं शंखभेर्यादिभिः स्वनैः || दर्पणध्वजमालादिर्गेयनृत्तादिशोभितैः | छत्रचामरधूपाद्यैर्यष्टिदीपादिभिस्तथा || तच्छेषदधिभक्तेन लिङ्गस्य पुरतः स्थितः | पुष्पाक्षतविमिश्रेण सर्वदिक्षुबलिं हरेत् || एतेन मातरो रुद्राश्शिवोमाषण्मुखादयः | शान्तिं जुषन्ति सुप्रीता रौद्रेण बलिना सदा || शिवमाल्यापनयनं पूजान्ते तु प्रमार्जनम् | एकैकमेकं तुल्यं स्याच्चान्द्रायणफलेन तु || शिवमण्डलकं कृत्वा हस्तमात्रं शिवाग्रतः | अवकीर्याक्षतैः पुष्पैः पत्रैर्वाप्यथकेवलैः || सुरूपः सुभगः श्रीमान् तेजस्वी वेदवित्सुखी | चतुर्वेदि गृहे जन्म सकृत्कृत्वा लभेन्नरः || एवं स्वस्तिकपद्माद्यैर्भूमिशोभां शिवालये | कृत्वा वर्णकपिष्टाद्यैस्तस्माच्छतगुणं भवेत् || शिवयज्ञोपकरणं दत्वाल्पं यदि वा बहु | एवं वित्तानुसारेण शिवलोके महीयते || शिवमुद्दिश्य यद्दत्तं सर्वकारणकारणम् | तदनन्तफलं दातुर्भवतीति किमद्भुतम् || यद्यदिष्टं विशिष्टं च न्यायेन च यदागतम् | तच्छिवाय निवेद्यं स्याद् भक्त्यानन्यफलार्थिभिः || कर्मशाठ्येन यः कुर्यान्मूल्येनापि शिवालये | सोऽप्यशाठ्योदिवं याति कर्मणापापवर्जितः || कूपारामान्नपानाद्यैः शिवायतनकर्मणि | उपयुक्तानि भूतानि खननोत्पाटनादिषु || अकामतोऽपि सर्वाणि स्यावराणि चराणि च | प्. २५(२८) दिवं यान्ति न सन्देहः प्रसादात् परमेष्ठिनः || लिङ्गार्धशतं साग्रं शिवक्षेत्रं समन्ततः | देहिनां तत्र पञ्चत्वं शिवसायुज्यकारणम् || मनुजैः स्थापिते लिङ्गे क्षेत्रमानमिदं स्मृतम् | स्वयं भूते सहस्रं स्यादार्षे च स्यात्तदर्धकम् || पापाचारोऽपि यस्तस्मिन् निवसेत शिवाश्रमे | सयाति परमं स्थानं तस्माच्छिवपुरं स्मृतम् || तस्मादावसयं कुर्याच्छिवक्षेत्रसमीपतः | शिवलिङ्गसमीपस्थं यत्तोयं पुरतश्शुभम् || शिवगङ्गेति तज्ज्ञेयं तस्मिन् स्नात्वा शिवं व्रजेत् | यः कुर्याद्दीर्घिकांवापि कूपं वापि शिवाश्रमे || त्रिसप्तकुलसंयुक्तं शिवलोके महीयते | शिवादन्यत्परित्यज्य शिवैकाहितमानसः || शिवपूजाविधिं कुर्याद्यदीच्छेच्छ्रेय आत्मनः | त्वरितं जीवितं याति त्वरितं याति यौवनम् || त्वरितं व्याधिरभ्येति तस्मात् पूज्यः सदाशिवः | यावन्नाभ्येति मरणं यावन्नाक्रमते जरा | यावन्नेन्द्रियवैकल्यं तावत्पूजयशङ्करम् || न शिवार्चनतुल्योऽन्यो धर्मोऽस्तिभुवनत्रये | इति विज्ञाय यत्वेन पूजनीयः सदाशिवः | ये भक्ता देवदेवेशं शिवं शान्तमजं प्रभुम् || पूजयन्ति सदाभक्त्या तच्चित्तास्तपसि स्थिताः | इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् || संपूज्य पशुभर्तारं प्रहृष्टेनान्तरात्मना | कृताञ्जलिपुटो भूत्वेदं स्तोत्रमुदाहरेत् || शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमम् | शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवम् || शाश्वतं शोभनं शुद्धं शासकं दोष शोषकम् | विश्वं विश्वेश्वरेशानं शङ्करं प्रणमाम्यहम् || सर्वपापहरं नाथं सर्वरोगहरं वरम् | सर्वदुःखहरं नित्यं नमाम्यार्तिहरवरम् || अस्थानस्थानसंस्थानं स्थितस्थितिविभावनम् | स्थिरमात्रस्थयोगस्थं स्थाण्वीशं प्रणमाम्यहम् || ईशानपरमं देवमीशानं मन्त्रनायकम् | ईशानं सर्वभूतानामीशानं प्रणमाम्यहम् | प्. २६(२९) सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः | रुद्रस्य तनयो देवो नायकोऽथ विनायकः || करोतु शान्तिकंक्षेमं कर्मसिद्धिञ्च मे सदा | इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः || रक्ताम्बरधरश्श्रीमान् कृष्णाङ्गोनागभूषणः | अक्षमाला शिरोग्रस्तः स्वयं विष्णुरिव स्थितः || पापापनोदमतुलमलक्ष्मीमलनाशनम् | करोतु मे महाकालः शान्तिं प्रीतेन चेतसा || शंखकुन्देन्दुवर्णाभः कण्ठे मरतकप्रभः | चतुर्मुखाश्चतुर्बाहुस्त्रिणेत्रस्सर्वतोज्ज्वलः | करोतु मे महाशान्तिं प्रीतः प्रीतेन चेतसा || क्षितेः पतिर्वृषोदेवस्सर्वधर्मोत्तमोत्तमः | ईशं वहतिपृष्ठेन तस्माद्धर्मो जगत्पतिः || वृषोवृषधरश्श्रीमान् करोतु मम शान्तिकम् | सर्वज्ञः सर्वसदृशः सर्वगःश्शर्वजः प्रभुः || शमनः शत्रुसैन्यानां शास्ताशान्तिं करोतु मे | करोतु मे महाशान्तिं प्रीतः प्रीतेन चेतसा || पीतवस्त्रपरीधाना कन्यारूपास्वलंकृता | गणमाताम्बिका त्र्यक्षा शान्ता गौरी सुरेश्वरी || सर्वसिद्धिकरा देवी प्रसादपरमा वरा | शान्तिं करोतु मे माता सिद्धिं चाशुप्रयच्छति(तु) || स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी | धनुश्चक्रप्रहरणा खड्गपट्टसधारिणी || आतर्जनोद्यतकरा सर्वोपद्रवनाशिनी | सर्वमङ्गलमाता मे शिवमाशुप्रयच्छतु || निर्मांसेन शरीरेण स्नास्वस्थिसुनिबन्धनः | अतिसूक्ष्मोतिविक्रान्तस्त्र्यक्षोभिः किरिटिर्वरः || रुद्रात्मनो रुद्रवीर्यो रुद्रैकगतमानसः | सोविमेशान्तभावेन शिवमावहतुध्रुवम् || प्रचण्डगणसैन्येशो महाटंकाक्षधारकः | अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो महान् || प्रचण्डपापहरणो ब्रह्महत्यादिशोधकः | करोतु मे महायोगी कल्याणानां परम्पराम् || पद्मासनो हेमनिभश्चतुर्वदनपङ्कजः | कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः || शिवध्यानैकपरमश्शिवार्चनरतस्सदा | ब्रह्मशब्देन दिव्येन ब्रह्माशान्तिं करोतु मे || तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः | प्. २८(३०) श्यामः पीताम्बरधरो वनमालाविभूषितः | यज्ञदेवोत्तमो देवो माधवो मधुसूदनः || कृष्णनीलाञ्जनाकारश्शिवयोरसिलक्षणः | शिवप्रसादसम्पन्नश्शिवध्यानपरायणः || शिवार्चनरतो नित्यं विष्णुश्शान्तिं करोतु मे | पद्मरागप्रभा देवी चतुर्वदनपङ्कजा || अक्षमालार्पितकरा कमण्डलुधरा शुभा | ब्रह्माणी सौम्यवदना शिवपूजापरायणा || शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा | (हिमशैलन्निभा देवी चतुर्वदनपङ्कजा | अक्षमालार्पितकराकमण्डलुधराशुभा || ब्रहाणी सौम्यवदना शिवपूजापरायणा | शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा||) हिमशैलनिभा देवी महावृषभवाहिनी | त्रिशूलहस्ता वरदा नागाभरणभूषिता || रुद्रभक्ता महादेवी रुद्रार्चनरता सदा | चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी || आर्तिं हरतु मे प्रीता महादेवी महेश्वरी | मयूरवाहिनी देवी सिन्दूरारुणविग्रहा || शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता | रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा || कौमारी वरदा देवी शान्तिमाशुकरोतु मे | शंखचक्रगदाहस्ता श्यामा पीताम्बराशुभा || चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता | शिवार्चनरता नित्यं रुद्रैकगत मानसा || शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी | वराहथोणा विकटा वराहवरवाहिनी || श्यामावदातविपुला शङ्खचक्रगदाधरा | तर्जयन्ती सदाविघ्ना नर्चयन्ती सदाशिवम् || वाराही वरदा देवी क्षेमारोग्यं ददातु मे | ऐरावत गजारूढा वज्रहस्ता महाबला || नेत्राणां तु सहस्रेण भूषिता कनकप्रभा | सिद्धगन्धर्वनमिता वरालंकारभूषिता || ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे || प्. २८(३१) श्यामः पीताम्बरधरो वनमालाविभूषितः | यज्ञदेवोत्तमो देवो माधवो मधुसूदनः || कृष्णनीलाञ्जनाकारश्शिवयोरलिलक्षणः | शिवप्रसादसम्पन्नश्शिवध्यानपरायणः || शिवार्चनरतो नित्यं विष्णुश्शान्तिं करोतु मे | पद्मरागप्रभा देवी चतुर्वदनपङ्कजा | अक्षमालार्पितकरा कमण्डलुधरा शुभा || ब्रह्माणी सौम्यवदना शिवपूजा परायणा | शान्तिं करोतु मे प्रीता ब्रहमशब्देन सर्वदा || हिमशैलन्निभा देवी चतुर्वदनपङ्कजा | अक्षमालार्पितकरा कमण्डलुधरा शुभा || ब्रह्माणि सौम्यवदना शिवपूजापरायणा | शान्तिं करोतु मे प्रीता ब्र्हमशब्देन सर्वदा ||) हिमशैलनिभा देवी महावृषभवाहिनी | त्रिशूलहस्तावरदा नागाभरणभूषिता || रुद्रभक्ता महादेवी रुद्रार्चनरता सदा | चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी || आर्तिहरतु मे प्रीता महादेवी महेश्वरी | मयूरवाहिनी देवी सिन्दूरारुणविग्रहा || शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता | रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा | कौमारी वरदा देवी शन्तिमाशुकरोतु मे || शंखचक्रगदाहस्ता श्यामा पीताम्बरा शुभा | चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता || शिवार्चनरता नित्यं रुद्रैकगतमानसा | शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी || वराहथोणा विकटा वराहवरवाहिनी | श्यामावदातविपुला शङ्खचक्रगदाधरा || तर्जयन्ती सदा विघ्नानर्चयन्ती सदा शिवम् | वाराही वरदा देवी क्षेमारोग्यं ददातु मे | ऐरावत गजारूढा वज्रहस्ता महाबला || नेत्राणां तु सहस्रेण भूषिता कनकप्रभा | सिद्धगन्धर्वनमिता वरालंकारभूषिता | ऐन्द्री देवी सदाकालं शान्तिमाशुकरोतु मे || प्. २९(३२) ऊर्ध्वकेशोत्कटाक्षामा निर्मांसास्नायुबन्धना | करालवदनाघोरा खड्गपट्टसधारिणी || कपालमालिनी देवी क्रूरा खट्वांगधारिणी | आरक्तपिङ्गनयना गजचर्मावकुण्ठिता || नाना नागोपवीताअंगी प्रेतस्थाननिवासिनी | शिवारूपेणघोरेण शिवारावभयङ्करी || चामुण्डी चण्डरूपेण महारक्षां करोतु मे | आकाशमातरो देव्यस्तथालोकैकमातरः || भूतानां मातरस्सर्वास्तदन्या देवमातरः | सर्वमातृगणा देव्यस्सायुधाव्यग्रपाणयः || जगद्व्याप्यावतिष्ठन्ति बलिकामा महोदया | रुद्रभक्ता महादेवीर्या रुद्रार्चन परायणाः || शान्तिं कुर्वन्तु मे नित्यं मातरस्सुरपूजिताः | ये रुद्रा रौद्रकर्माणी रौद्रस्थान निवासिनः || स सौम्याश्चैव ये केचित् सौम्यस्थाननिवासिनः | मातरो रौद्ररूपाश्च गणानामधिपाश्च ये | विघ्नभूतास्तथाचान्ये दशदिक्षुसमाश्रिताः || सर्वेसुप्रीतमनसः प्रतिगृह्णन्तु मद्बलिम् | सिद्धिजुषन्तु मे नित्यं भयेभ्यः पातुमां सदा || ऐन्द्र्यां दिशि गणाये तु वज्रहस्ता महाबलाः | सुश्वेताक्षाः श्वेतान्निभास्तथा वै श्वेतलोहिताः || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | रुद्रार्चनपराः क्षेमं शान्तिं कुर्वन्तु मे सदा || आग्नेयां ये गणास्सर्वे स्रुवहस्ता निषङ्गिणः | सुरक्ताक्षारक्तनिभास्तथा वै रक्तलोहिताः || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | रुद्रप्रणामपरमाः शान्तिं कुर्वन्तु मे सदा | याम्यां दिशिगणा ये तु सततं दण्डपाणयः || सुकृष्णाक्षाः कृष्ण निभास्तथा वै कृष्णलोहितः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || ते रुद्रार्चितचेतस्काः शिवं कुर्वन्तु मे सदा | नैर्-ऋत्यां तु गणा ये तु राक्षसाः खड्गपाणयः || सुनीलाक्षानीलनिभास्तथा वै नीललोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || प्. ३०(३३) परमेशार्चनरता रक्षां कुर्वन्तु मे सदा | अपरस्यां गणा ये तु सततं पाशपाणयः || सुश्यामाक्षाश्श्यामनिभास्तथा वैश्यामलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || शिवभक्तिपरास्सर्वे क्षेमं कुर्वन्तु मे सदा | वायव्यां तु गणा ये तु सततं ध्वजपाणयः || सुधूम्राक्षा धूम्रनिभास्तथा वै धूम्रलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || शिवभक्ता महात्मानः कुर्वन्तु मम शान्तिकम् | उत्तरस्यां गणा ये तु सततं निधिपाणयः || सुपीताक्षाः पीतनिभास्तथा वै पीतलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || शिवभक्तिरमास्सर्वे क्षेमं कुर्वन्तु मे सदा | ऐशान्यां तु गणा ये तु सततं शूलपाणयः || सुसूक्ष्माक्षाः सूक्ष्मनिभास्तथा वै सूक्ष्मलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || ऐशानं प्रणता देवं शान्तिं कुर्वन्तु मे सदा | अधोभागे गणा ये तु सततं चक्रपाणयः || सुपीताक्षाः पीतनिभास्तथा वै पीतलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || शिवभक्तिपराः कुर्युरलक्ष्मीमलनाशनम् | ऊर्ध्वभागे गणा ये तु सततं पद्मपाणयः || सुपद्माक्षाः पद्मनिभास्तथा वै पद्मलोहिताः | दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः || शिवपूजासमुद्युक्ता अशुभं नाशयन्तु मे | एते गणा महात्मानो महाबलपराक्रमाः || शिवं सम्पूज्य यत्नेन बलिमेषां विनिक्षिपेत् | ततः प्रीता महात्मानः शान्तिमायुर्बलं श्रियम् || प्रयच्छन्त्याशुमर्त्यानां भक्तानां तु विशेषतः | अमरावती तु नगरी पूर्वभागे व्यवस्थिता || विद्याधरगणाकीर्णा सिद्धगन्धर्वसेविता | रत्नप्राकाररचिता महारत्नोपशोभिता || तत्र देवपतिः श्रीमान् वज्रहस्तो महाबलः | नेत्राणां तु सहस्रेण शोभनेन विराजिता || प्. ३१(३४) ऐरावतगजारूढो हेमवर्णो महाद्युतिः | देवेन्द्रः सततं हृष्टः परमेशार्चने रतः || शिवध्यानैकपरमः शिवभक्तिपरायणः | शिवभक्तैस्तथान्यैश्च देवैरिवसहानुगैः || शिवप्रणामपरमः करोतु मम शान्तिकम् | आग्नेययां दिशिभागे तु पुरी तेजोवती शुभा || नानावर्णगणाकीर्णा रत्नज्वालासमुज्ज्वला | तत्र ज्वालापरीतांगो दीप्तांगारसमद्युतिः | भूतिकृद्देहिनां देवो ज्वलनः पापनाशनः || शिवपूजापरोद्युक्तः शिवस्मरणभावितः | शान्तिं करोतु मे देवस्तथा पापपरिक्षयम् || वैवस्वती नामपुरी दक्षिणेन व्यवस्थिता | सुरासुरशतानीक पितृरक्षोरगालया || तत्रेन्द्रनीलसंकाशो रक्तान्तायतलोचनः | महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः || श्रीमान्यमो महातेजाः शिवपूजापरायणः | शिवपूजासमासक्तः क्षेमारोग्यं ददातु मे || नैर्-ऋत्यां तु दिशोभागे पुरीकृष्णवती शुभा | महारक्षोगणाकीर्णा पिशाचप्रेतसंकुला || तत्रजीमूतसंकाशो रक्तस्रग्वस्त्रभूषणः || खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः | रक्षेन्द्रोनिर्-ऋतिर्नित्यं शिवपूजापरायणः || करोतु मे महाशान्तिं शिवभक्तिसमुद्यतः | पश्चिमे तु दिशोभागे पुरी शुद्धवती शुभा | नानानागगणाकीर्णा नानाकिंनरसेविता | तत्र मौक्तिकसंकाशः परिपिङ्गललोचनः || शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः | वरुणः परयाभक्त्या शिवैकाहितमानसः | रोगशोकार्तिसन्तापं निर्नाशयतु मे सदा || वायव्यदिग्विभागे तु पुरी गन्धवती शुभा | ऋणिसिद्धगणैर्जुष्टा हेमप्राकारतो रणा || तत्र ताम्रेण देहेन कृष्णपिंगललोचनः | परव्याप्तान्तराधीनो ध्वजयष्ट्या युधोद्यतः || पवनः परमोदेवः परमेश्वरभावितः | क्षेमारोग्यं बलं शान्तिं करोतु विजयं तथा (मम) || महोदया नामपुरी उत्तरेण महोज्ज्वला | प्. ३२(३५) अनेक यक्षसंकीर्णा नानारत्नोपशोभिता | तत्र देवो गदा हस्तश्चित्रस्रग्वस्त्र भूषणः | ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः || कुबेरो वरदश्श्रीमान् हरपादार्चने रतः | शान्तिं करोतु मे प्रीतः शान्तश्शान्तेन तेजसा || यशीवती नाम पुरी ऐशानीं दिशमाश्रिता | नानागणसमाकीर्णा नानारत्नकृतालया || तेजः प्राकारपर्यन्ता निरौपम्य गुणान्विता | तत्र मौक्तिकसंकाशः शशाङ्ककृतशेखरः || त्रिणेत्रश्शान्तरूपात्मा अक्षमाला धरो हरः | ईशानः परमोदेवः सर्वदेवोत्तमोत्तमः || सोऽपि सर्वात्मभावेन शान्तिमाशुकरोतु मे | भूर्लोके च भुवर्लोके स्वर्गलोकेवसन्ति ये || देवादिव्यप्रदायुक्ताः शान्तिं कुर्वन्तु मे सदा | महर्लोके जनर्लोके तपोलोके च ये स्थिताः || तेऽपि प्रमुदिता देवाः शान्तिं कुर्वन्तु मे सदा | सत्यलोके च ये देवाः सुप्रभोज्ज्वलविग्रहाः || शिवभक्तास्सुमनसः शान्तिं कुर्वन्तु मे सदा | तपोलोके च ये देवाः भासयन्तो दिशो दश || शिवैकाहितचेतस्काः शमयन्तु महाभयम् | जनलोके च ये देवाः धौतचामीकरप्रभाः || ईश्वरं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा | महर्लोके च ये देवा विमानोज्वलसंस्थिता || भवप्रणामपरमाः भयं निर्नाशयन्तु मे | स्वर्लोकस्याश्च ये देवा दीप्तिमन्तो महाबलाः || शङ्करं प्रणता नित्यं कुर्वन्तु विजयं मम | भुवर्लोके च ये देवा भासमन्तो दिशोदश || शिवैकाहितचेतस्काः शमयन्तु महाभयम् | गिरिकन्दर्दुर्गेषु भूर्लोके निवसन्ति ये || रुद्रार्चनपरादेवा रक्षां कुर्वन्तु मे सदा | शरच्चन्द्रांशु गौरेण देहेनामल चेतसा | सरस्वती शिवे भक्ता सर्वान् कामान् ददातु मे || चारुचामीकरच्छाया सरोजकरपल्लवा | शिवभक्त्याधियां देवी श्रीर्विभूतिं ददातु मे || वारुणा मुखचन्द्रेण विचित्रकनकोज्ज्वला | सदा देवी शिवेभक्ता सर्वान् कामान् ददातु मे || प्. ३३(३६) हारेण सुविचित्रेण भास्वत्कनकमेखला || अपराजितारुद्रभक्ता करोतु विजयं मम | सिन्धूरारुणवर्णश्च रक्तायतविलोचनः || सहस्रकिरणः श्रीमान् सप्तसप्तिकवाहनः | गभस्तिमाली भगवान् शिवभक्त्यार्चने रतः || करोतु मे महाशान्तिं ग्रहपीडानिवारणम् | जगदाप्यायनकरो ह्यमृताधारशितला || सोमः सौम्ये न भावेन ग्रहपीडां व्यपोहतु | पद्मरागेण देहेन देवः पिंगललोचनः || अङ्गारकस्तुसततं रुद्रपूजापरायणः | रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमानसः || ग्रहपीडाभयं सर्वं निर्नाशयतु मे सदा | कुंकुमच्छविना श्रीमान् देहेन परिमण्डलः || शिवभक्तो बुधोऽप्येवं ग्रहपीडां व्यपोहतु | तप्तचामीकरच्छायः सर्वज्ञानकृतालयः | बृहस्पतिः सदाकालमीशानार्चनतत्परः | सोऽपि मे शान्तचित्तेन परमेणसमाहितः || ग्रहपीडां विनिर्जित्य करोतु विजयं मम | हिमकुन्देन्दुवर्णाभः सुरदैत्येन्द्रपूजितः | शुक्रः शिवार्चने नित्यं ग्रहपीडां व्यपोहतु | भिन्नाञ्जननिभच्छायः संरक्तनयनद्युतिः || शनैश्चराश्शिवेभक्तो ग्रहपीडां व्यपोहतु | नीलजीमूतसंकाशः सैंहिकेयो महाबलः || शिवपूजापरोराहुर्ग्रहपीडां व्यपोहतु | भिन्नाञ्जननिभः श्रीमानुल्काहस्तो महाबलः || धूम्रज्वालाकुलो दीप्तः शिवार्चनरतस्सदा | केतुः सुशान्तचित्तेन ग्रहपीडां व्यपोहतु || धूम्रवर्णः सदाक्रूरो मृत्युपुत्रो महाबलः | शिवार्चनरतः केतुः ग्रहपीडां व्यपोहतु || एते ग्रहा महात्मानश्शिवार्चनपरायणाः | शान्तिं कुर्वन्तु मे हृष्टास्सदाकालं हितैषिणः || कृत्तिका परमादेवी रोहिणी रुचिरानना | श्रीमन्मृगशिरोभद्रा आर्द्रा च परमोज्ज्वला || पुनर्वसुस्तथा पुष्या आश्लेषा तु महाबला | नक्षत्रमातरोह्येता प्रभामालावदास्तिताः || प्. ३४(३७) महादेवार्चनरता महादेवानुभाविताः | पूर्वभागे स्थिता ह्येताश्शान्तिं कुर्वन्तु मे सदा || मखा सर्वगुणोपेता पूर्वफल्गुन्यनूपमा उत्तरा फल्गुनीश्रेष्ठा हस्तचित्रे तथोत्तमे || स्वाती विशाखा वरदा * * दक्षिणसंस्थिताः | अर्चयन्ति सदाकालं देवं त्रिणयनं परम् || ममापि शान्तिकं ह्येताः कुर्वन्तु शिवचोदिताः | अनूराधा तथा ज्येष्ठा मूला ऋद्धिबलान्विताः || पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा | अभिजिन्नामनक्षत्रं श्रवणः परमोज्वलः || एताः पश्चिमतो दीप्ताः राजन्ते चारुमूर्तयः | ईशानं पूजयन्त्येताः सार्वकालं सुभाविताः | शान्तिकर्मे प्रयच्छन्तु विभूतिं च समाहिताः || धनिष्ठाशतभिषा चैव पूर्वाभद्रपदा तथा | उत्तराभद्ररेवत्या वश्विनी च महर्धिका || भरणी च महावीर्या नित्यमुत्तरतः स्थिताः | शिवार्चने सदोद्युक्ताः शिवध्यानैक तत्पराः || शान्तिं कुर्वन्तु मे नित्यं सदाकालं शुभोदयाः | मेषो मृगाधिपः सिंहो धनुर्दीप्तिमतांवरः || पूर्वेण भासयन्त्येते शिव योगपरायणाः | शुभाः कुर्वन्तु ते नित्यं हरपादार्चने रताः || कन्या च वृषभो देवो मकरश्च महर्धिकाः | एते दक्षिणभागे तु पूजयन्ति सदा शिवम् | भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा | मिथुनं तु तुलाकुम्भः पश्चिमेन व्यवस्थिताः | शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा | कर्कटो वृश्चिकोमीनः एते उत्तरतः स्थिताः || यजन्त्ये ते सदा कालं रुद्रं भुवननायकम् | शान्तिं कुर्वन्तु मे नित्यं रुद्रज्ञानविधायिनः || ऋषयः सप्तविख्याताः ध्रुवान्ताः परमोज्ज्वलाः | शिवप्रसादसम्पन्नाश्शान्तिं कुर्वन्तु मे सदा || कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः | मनुर्दक्षो वसिष्ठोऽथ मतंगः पुलहः क्रतुः || नारदो भृगुरात्रे यो भरद्वाजोंगिरा मुनिः | प्. ३५(३८) वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ पुनर्वसुः || दूर्वासाशृश्यशृङ्गश्च तृणबिन्दुर्विमण्डकः | दण्डी च पिप्पलादश्च याज्ञवल्क्योऽथ गौतमः || मार्कण्डेयो जामदग्न्यः पुलस्त्यस्सौमरिः शुभः | अगस्त्यो जैमिनिर्व्यासो मरीचिर्जहुरेव च | शालङ्कायन इत्याद्या ऋषयोऽथ तपस्विनः || शिवध्यानार्चनरताः शान्तिं कुर्वन्तु मे सदा | ऋषिपत्न्यो महाभागा ऋषिकन्या कुमारकाः || शिवार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा | सिद्धास्स्मृद्धतपसो गन्धर्वाप्सरसां गणाः || विद्याधरा महात्मानो गरुडश्च महर्धिकः | महेश्वरपराह्येते महेश्वरपरार्चनाः || सिद्धिमाशुप्रयच्छन्तु आशीर्वादपरायणाः | नमुचिर्दैत्यराजेन्द्रश्शङ्कुकर्णो महाबलः || महानादोऽथविख्यातो दैत्यः परमवीर्यवान् | हाटकेश्वरदेवस्य नित्यं पूजापरायणः || बलं वीर्यं च मे क्षिप्रं प्रयच्छन्तु महर्धिकाः | महाजंभोह्यग्रीवः प्रह्लादो दैत्यराट् प्रभुः | तारकोऽग्निमुखो दैत्यः कालनेमिर्बलिस्तथा || एते दैत्या महात्मानश्शिवसद्भावभाविताः | पुष्टिं तथा बलं वीर्यं प्रयच्छन्तु सुरारयः || विरोचनो हिरण्याक्षः सुपर्वा च पुलोमकः | मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा || भावेन परमेणापि यजन्ति परमं शिवम् | सततं च शुभात्मानः पुष्टिं कुर्वन्तु मे सदा || दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः | कुमारा ये च दैत्यानां शान्तिं कुर्वन्तु तेऽपि मे || आरक्ते न शरीरेण रक्तान्ता यतलोचनः | अनन्तो नागराजेन्द्रः शिवपूजार्चनेरतः || महापापविषं हत्वा शान्तिमाशु करोतु मे | सुश्वेतेन शरीरेण सुश्वेतमणिशेखरः | चारुभोगकृताटोप हरचारुविभूषणः || वासुकिर्नामनागेन्द्रश्शिवपूजा परोमहान् | सर्वनागविषं हत्वा क्षेमारोग्यं ददातु मे || प्. प्. ३६(३९) अतिपीतेन देहेन विस्फुरद्भोगसम्पदा | तेजसा चातिदीप्तेन नृतस्वस्तिकलाञ्छनः || नागराट् तक्षकः श्रीमान् नागकोट्यासमावृतः | करोतु मे महाशान्तिं सर्वदोषविषापहाम् || अतिकृष्णेन देहेन स्फुरद्विकटमस्तकः | कण्ठरेखा त्रयोपेतो घोरदंष्ट्रा युधोद्यतः || कार्कोटको महानागो विषदर्पबलान्वितः | विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे || पद्मवर्णेन देहेन चारुपद्मायतेक्षणः | पद्मबिन्दुकृताभासो ग्रीवायां शुभलक्षणः || ख्यातः पद्मो महानागो हरपादार्चने रतः | करोतु मे महाशान्तिं महापापविषक्षयम् || पुण्डरीक निभे नैव देहेनामिततेजसा | शंखशूलाब्जरुचिरैः भूषितौ मूर्ध्नि सर्वदा || महापद्मो महानागो नित्यं पशुपतौरतः | विनिर्जित्यविषंघोरं शान्तिमाशु करोतु मे || श्यामो देहेन हारेण श्रीमान् कमललोचनः | विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया || शंखपालश्रियादीप्ताश्शिवपादाब्जपूजकः | महाविषं महाघोरं हत्वाशान्तिं करोतु मे || अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः | दीप्तभोगकृता टोपः शुभलक्षणलक्षितः || गुलिकोनागराजेन्द्रो नित्यं हरपरायणः | अपहृत्यविषंघोरं करोतु मम शान्तिकम् || अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः | गिरिकन्दरदुर्गेषु ये नागा दिविसंस्थिताः | पाताले ये स्थिता नागाः सर्वेऽप्यत्रसमाहिताः | हरपादार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा || नागिन्यो नागकन्याश्च तथा नागकुमारकाः | शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा || य इदं नागसंस्थानं कीर्तयेच्छृणुयादपि | तं च नागनहिंसन्ति विषं नाक्रमते सदा || चिन्तितं लभते नित्यं तथा पापक्षयो भवेत् | सिद्धिं चापि प्रयच्छन्ति सर्वविघ्नविवर्जिताम् || प्. ३७(४०) सुरभी देवी गोलोके वसती शुभलक्षणा | सततं क्षीरधाराढ्या ब्रह्मर्षिगणपूजिता || गोगणैर्गोवृषैर्नित्यं प्रहृष्टा परिवारिता | शिवभक्तासदाशान्ता शान्तिमाशुकरोतु मे || एते च गोगणाः सर्वे गोवृषाश्च महौजसः | शिवभक्ता महात्मानः शान्तिं कुर्वन्तु मे सदा || गङ्गापुण्यप्रदा देवि यमुनानर्मदा नदी | गोमती तापिकापेण्णा वरुणादेविकावरा || सर्वभूतपतिं देवं परमेशं महेश्वरम् | पूजयन्ति महानद्यः शिवसद्भाव भाविताः || शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् | सिद्धिं चाशुप्रयच्छन्तु सर्वविघ्नविवर्जितम् || चन्द्रभागा महापुण्या नदीगोदावरी शुभा | सरयू गण्डकी श्रेष्ठा कौशिकी च सरस्वती || एता नद्यो महाभागा शिवपादार्चने रताः | शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः || नैरञ्जना नाम नदी शोणश्चापि महानदः | मन्दाकिनी च परमा तथा सन्निहिताः शुभाः || एताश्चान्याश्चवैवह्न्यो भुवि दिव्यन्तरिक्षगाः | रुद्रार्चनपरा(नित्यं)नद्यः कुर्वन्तु मम शान्तिकम् || गुह्यानि यानि तीर्थानि आसमुद्रसरांसि च | कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु || महावैश्रवणो यक्षो यक्षराजोमहर्धिकः | यक्षकोटिपरीवारो यक्षसंख्येयसंयुतः || महाविभवसम्पन्नो हरपादार्चनेरतः | हरध्यानैकपरमो हरपादानतोत्तमः || शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः | माणिभद्रमहायक्षो मणिरत्नविभूषितः || मनोहरेण हारेण कण्ठलग्नेन राजता | शिवगानरतो नित्यं शिवपादाब्जपूजकः || शान्तिं करोतु मे नित्यं सर्वदोषनिवारणः | यक्षिणी यक्षकन्याभिः परिवारितविग्रहः || रुद्रार्चनपरोभक्तः करोतु मम शान्तिकम् | सुवीरस्तु महायक्षो मणिकुण्डलभूषितः || प्. ३८(४१) ललाटे हेमपट्टेन काञ्चनेन विराजता | बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः || शिवपूजापरोनित्यं करोतु मम शान्तिकम् | चाण्डिको नाम यक्षेन्द्रः कर्णिका कटकोज्ज्वलः || मकुटेन विचित्रेण केयूराभ्यां विभूषितः | यक्षकन्यासमायुक्तो यक्षसंख्येयसंयुतः || हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् | श्रीमान् विभण्डको यक्षो नानारत्नविभूषितः || चारुकुण्डलयुग्मेन कर्णौ नित्यं विराजतः | यक्षेश्वरो यक्षपतिर्यक्षसेनापतिर्विभुः || हरपादरतः श्रीमान् करोतु मम शान्तिकम् | धृतराष्ट्रो महायक्षो यक्षरक्षोऽधिपः प्रभुः || दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः | शिवभक्तः शिवध्यानश्शिवपूजापरायणः || शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् || पूर्णभद्रो महायक्षः सर्वालंकारभूषितः || रत्नसम्पन्नपट्टेन हैमेनापि विराजता | यक्षकोटिसहस्रैस्तु परिवारितविग्रहः || रुद्रप्रणामपरमो रुद्रभक्तिपरः सदा | रुद्रार्चनसमुद्युक्तः करोतु मम शान्तिकम् || विरूपाक्षस्तु यक्षेन्द्रः श्वेतवासा महाद्युतिः | चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः | विभूषितः सदाकालं वरदानैकतत्परः | रुद्रपूजा परोभक्तः करोतु मम शान्तिकम् || अन्तरिक्षगता यक्षा ये यक्षाः स्वर्गसंस्थिताः | गिरिकन्दरदुर्गेषु ये यक्षा भुवि वासिनः || पातालवासिनो यक्षा नानारूपोद्यतायुधाः | शिवभक्ताः सुमनसः शिवपूजासमुत्सुकाः || शान्तिं कुर्वन्तु मे हृष्टाः शान्ताश्शान्तिपरायणाः | यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः || यक्षकन्या महाभागाः शिवार्चनपरायणाः | शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमद्भुतम् (मुत्तमम्) | सिद्धिं चाशुप्रयच्छन्तु नित्यमेवसमाहिताः || पर्वताः सर्वतस्सर्वे पर्वत्यश्च महर्धिकाः || प्. ३९(४२) शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा | समुद्राः सर्वतस्सर्वे ये चान्ये सागरः भुवि || रुद्रार्चनरतानित्यं कुर्वन्तु मम शान्तिकम् | राक्षसाः सर्वतस्सर्वे राक्षसाघोररूपिणः || राक्षसा ये महावीर्या राक्षसा ये महाबलाः | स्वर्गस्था राक्षसा ये तु अन्तरिक्षे च राक्षसाः || पाताल राक्षसा ये तु नित्यं रुद्रार्चने रताः | शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः || भैरवं यस्य रूपन्तु प्रेतभस्मावकुण्ठितम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || नित्यमुज्वलवेषेण योगिन्योऽथ महाबलाः | अनेकरूपधारिण्यो डाकिन्यश्च महर्धिकाः || रुद्रप्रणामपरमा रुद्ररूपार्चनेरताः | रुद्रैकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् || अन्तरिक्षे गतायाश्च डाकिन्यः स्वर्गसंस्थिताः | पातालभूतलेयाश्च गिरिदुर्गेषु संस्थिताः || तृतीयं लोचनं यस्य त्रिशूलं भस्मभासुरम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || सर्वे भूता महारूपास्सर्वे भूता महोज्ज्वलाः | सर्वे भूताः स्थिताः सौम्याः सर्वे भूतामनोजवाः || अन्तरिक्षे च ये भूता ये भूतादिविसंस्थिताः | पातालभूतले भूता भूताभूतिविदायिनः || खट्वांगं यस्य विमलं त्रिशूलं करपल्लवे | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || शूराः प्रेतगणाः सर्वे ये प्रेताः सर्वतो मुखाः | अति दीप्ताश्च ये प्रेताः ये प्रेता रुधिराननाः || अन्तरिक्षे च ये प्रेताः ये प्रेतास्स्वर्ग वासिनः | पातालो भूतले प्रेताः ये प्रेताः कामरूपिणः || श्मशाननिलयं यस्य ऋषभो यस्य वाहनम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || ये पिशाचा महावीर्या ऋद्धिमन्तोऽमितप्रभाः | नानारूपधराः सर्वे च गुणवत्तराः || अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः | भूतले ये पिशाचाश्च बहुरूपा मनोजवाः || प्. ४०(४३) चन्द्रार्धं मस्तके यस्य यस्य भस्मविभूषणम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || अपस्मारग्रहास्सर्वे सर्वे चाविज्वरग्रहाः | गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये || अन्तरिक्षे ग्रहा ये तु स्वर्गे ये च ग्रहोत्तमाः | भूपाताले गृहे ये तु ये ग्रहाः सर्वतोदिशम् || कण्ठं यस्य महानीलं भूषणं यस्य पन्नगम् तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || इति देवादयः सर्वे शिवज्ञानविधायिनः | कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा || जयात्मयोगसंस्थाय जय संशुद्धबुद्धये | जयदानैक शूराय जयेशाय नमोऽस्तु ते || जयोत्तमाय देवाय जय कल्याणकारिणे | जयप्रकटदेहाय जयजप्याय ते नमः || जयलक्ष्मी विधानाय जयकान्ति विधायिने | यज वाक्यविधुष्टाया जिनाय नमो नमः || जय त्रिशूलहस्ताय जयखट्वाङ्गधारिणे | जय निर्जितरूपाय जय रूपाय ते नमः || जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे | जय देवादिदेवाय महादेवाय ते नमः || जय त्रिभुवनेशाय जय विख्यातकीर्तये | जय वीराय शर्वाय जय कीर्ते नमोऽस्तु ते || जय निर्मलदेहाय? जय सर्वार्थकारिणे | जय मन्मथनाशाय शानाय नमोस्तु ते || इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादपि | विधूयसर्वपापानि शिवलोके महीयते || कन्यार्थी लभते कन्यां जयार्थी लभते जयम् | अर्थकामोलभेदर्थं पुत्रकामो लभेत् सुतम् || विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् | गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् || यो यं प्रार्थयते कामं मानवः श्रवणादिह | तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् || श्रुत्वा ध्यायमिदं पुण्यं संग्रामं प्रविशेन्नृपः | स विजित्यापिताञ्छत्रून् कल्याणैः परिपूर्यते || अक्षयं मोदते कालमतिरस्कृतशासनः | व्याधिभिर्नाभिभूयेत पुत्रपौत्रप्रतिष्ठितः || शान्त्यध्यायमिदं पुण्यं यदुद्दिश्यपठेन्नरः | प्. ४१(४४) तस्य रोगानबाधन्ते वातपित्तादिसंभवाः || नाकाले मरणं तस्य सर्वैश्चापि न दश्यते | विषं नाक्रमते देहे न जडान्धत्वमूकता || नोपसर्गभयं तस्य न चोत्पातभयं भवेत् | नाभिचारकृतो दोषः विलिप्येत कदाचन || सर्वकामसमृद्धात्मा यः पठेच्च दिने दिने | नित्यमूर्जितसत्वः स्यादज्ञाप्यस्य निवेदनम् || वरेण्यं सर्वतीर्थानां गंगादीनां समन्ततः (विशेषतः) | तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह || दशानां राजसूयानामग्निष्टोमशतस्य च | श्रवणात् फलमाप्नोति कोटि कोटि गुणोत्तरम् || अवध्यः सर्वदेवानामन्येषाञ्च विशेषतः | जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः || गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः | शरणागतघाती च मित्र विस्रम्यघातकः || कष्टपापसमाचारः पितृहा मातृहा तथा | श्रवणादस्य पापेन मुच्यते सर्वपातकैः || शान्त्यध्यायमिदं पुण्यं न देयं कस्यचित् | दातव्यं शिवभक्तेभ्यः शिवेन कथितं पुरा || सर्वकामसमृद्ध्यर्थं ये पठन्ति दिने दिने | तेभ्यः पुण्यमिदं देयमात्मनः शिवमिच्छता || इति शिवधर्मशास्त्रे षडक्षर शिवार्चन जपोवासफलप्रकरणेन सहशान्त्यध्यायष्षट्कः || अथ सप्तमः नन्दिकेश्वर उवाच ये स्मरन्ति सदाकालमीशानं पूजयन्ति ये | रुद्रलोकात् परिभ्रष्टा विज्ञेयास्तेगणेश्वराः || अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः | शिवलिङ्गाचनस्यै ते कोट्यंशेनापि नार्हतः || सदा यजति सोयज्ञैस्सदा दानं प्रयच्छति | सदा स वायुभक्षः स्यात् सदा यो वार्चयेच्छिवम् || यः शिवं पूजयेन्नित्यं प्रणमेद्वापि भक्तितः | तस्य योगञ्च मोक्षञ्च शिवः प्रीतः प्रयच्छति || यः कुर्यादर्चनं मासमेकाहारो जितेन्द्रियः | स यत्फलमवाप्नोति न तत् सर्वैर्महामखैः || पौर्णमास्याममावास्या चतुर्दश्यष्टमी तथा (षु च) | स्नापयित्वाम्भसालिङ्गं सर्वयज्ञफलं लभेत् || प्. ४२(४५) कृष्णपक्षे त्रयोदश्यामुपोष्य परमेश्वरे | प्रातर्मध्याह्नयोः पूजां चतुर्दश्यां समाचरेत् || पञ्चगव्यं सपीत्वादौ हविर्भुञ्जीतवाग्यतः | दशानामश्वमेधानां फलं प्राप्नोति मानवः || पौष्यकृष्णाष्टमी योगे पूजयित्वा च शङ्करम् | प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः || ब्रह्मचारी शुचिर्भूत्वा त्रिसन्ध्यं योऽर्चयेच्छिवम् | ससप्तकुलमुद्धृत्य शिवलोके महीयते || दानोपवासनियमैः पूजा जागरभोजनैः | महास्नानादिविधिना शिवं पर्वसुपूजयेत् || यत्पर्वयावतः कालात् भवत्तत्रार्च्यशङ्करम् | तावत्कालार्चनात्पुण्यं यत्तत्पर्वार्चनाल्लभेत् || तस्मात् पर्वसु यत्नेन यथाविभवविस्तरैः | पूजनीयः शिवो नित्यं महापुण्यजिगीषया | नैरन्तर्येणषण्मासं विधिना पूज्यशङ्करम् || पुण्यं तदेव सकलं लभते विषुवार्चनात् | एवमेव तु विज्ञेयं ग्रहणे चोत्तरायणे || दिनाच्छिद्रेषु संक्रान्तौ षडशीति मुखेषु च | मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शङ्करम् || कार्तिक्यां तल्लभेत्पुण्यं पौर्णमास्यां शिवार्चनात् | पुण्यमेवञ्च फाल्गुन्यामाषाढ्यामेवमेव तु || चातुर्मास्यार्चनं ह्येतत् महापुण्यफलप्रदम् | माघे मासे समुद्युक्तः त्रिसन्ध्यं योऽर्चयेच्छिवम् || लभेत्षाण्मासिकं पुण्यं माघे नैव न संशयः | यथा माघे तथाषाढे मासे चैव तु कार्तिके || त्रिषु पुण्यं समं ज्ञेयं मासे ह्येतेषु यत्कृतम् | चातुर्मास्य कृतं पुण्यं पुष्यमासार्चनाल्लभेत् || चैत्रफाल्गुनयोः पुण्यं द्विमास जनितं भवेत् | चतुर्दश्याममावास्यां पौर्णमास्यां च पाक्षिकम् || पुण्यमष्टगुणं ज्ञेयमष्टम्यां योर्चयेच्छिवम् | यः प्रदद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे || एकाहं योऽर्चयेल्लिङ्गं तस्य पुण्यं ततोऽधिकम् | मासे मासे तु यो श्नीयात् यावज्जीवं सकृन्नरः || यश्चार्चयेत् सकृल्लिङ्गं सममेतन्नसंशयः | एतेन क्रमयोगेन फलं विद्धि दिने दिने || ज्ञेयं संवत्सरस्यापि यावद्यत्कालमर्चयेत् | प्. ४३(४६) यः पुनस्संगमुत्सृज्य शिवमब्दं प्रपूजयेत् || नैरन्तर्याच्छतगुणं तत्पुण्यं तत्प्रवर्धते | पञ्चाशद्गुणितं पुणमब्दार्धं योऽर्चयेच्छिवम् || ऋतावृतौ तदर्धं स्यान् मासे मासे तदर्धकम् | मासार्धमपि यो लिङ्गं नैरन्तर्येण पूजयेत् || पुरुषोत्तमः सविज्ञेयो नैरन्तर्यं हि दुष्करम् | प्रातरुत्थाय यो लिङ्गं भक्त्यासंपूजयेच्छिवम् || कपिलानां शतं दत्वा यत्पुण्यं तदवाप्नुयात् | मध्यं दिनकरे प्राप्ते यो लिङ्गं प्रतिपूजयेत् || संपूर्णां पृथिवीं दत्वा यत्पुण्यं तदवाप्नुयात् | वारुणी माश्रिते सूर्ये यः शिवं सम्यगर्चयेत् || गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् | यो लिङ्गमर्धरात्रे तु शुचिः स्नात्वा प्रपूजयेत् || अग्निष्टोमशतस्यासौ धर्मतो लभते फलम् | एवं पर्वसु वेलाषु स्ववेलास्वपि शङ्करम् || संपूजयेन्नरो भक्त्या सर्वान्कामानवाप्नुयात् | शिवलिङ्गं महापुण्यं सर्वदेवनमस्कृतम् || यः स्पृशेदपि वा नित्यं न स पापैः प्रलिप्यते | न तद्भूयः प्रपश्यन्ति योनिसङ्कर संकटम् || क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमाश्रिताः | काञ्चनं मेरुमात्रं च सर्वां दत्वा वसुंधराम् || सागरानन्नपूर्णांश्च तल्लिङ्गार्चयतुः फलम् | मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणाम् || ईश्वरं वैद्यमासाद्य नश्यते दुष्टरोगवत् | शिवार्चनरतो नित्यं महापातकसंभवैः || दोषैः कृतैर्नलिप्येत पद्मपत्रमिवाम्भसा | छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जगत् || यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते | सर्वावस्था गतो वापि प्रयान्ति परमां गतिम् (युक्तां वा सर्वपातकैः) || (शिवमिष्ट्वा नरः सोऽपि) सरित्समुद्रतीरेषु वनेषु पवनेषु च | गिरिशृंगेषु तुङ्गेषु (गह्वरो पवनेषु च) तीर्थायतनसंश्रये || (पुष्करिण्यां तटाकेषु) यत्र वा रमते बुद्धिस्तत्रैव शिवमर्चयेत् | सर्वयज्ञेषु यत्पुण्यं तल्लभेन्नात्र संशयः || यः पुनः स्थानसंकल्पमुत्सृज्य शिवमर्चयेत् | सोऽश्वमेधफलं सर्वं लभते नात्र संशयः || प्. ४४(४७) सोश्वमेधफलं सर्वं लभतेनात्र संशयः | अयं विनापि मन्त्रेण पुण्यराशिः प्रकीर्तितः || स्यादयं मन्त्रसंयुक्तं पुण्यं शतगुणाधिकम् || तस्मान्मन्त्रेण शर्वाय स्नानगन्धफलादिकम् || क्षितिगोरत्नवस्त्रादि होमाद्यं च निवेदयेत् | ज्ञेयो नमः शिवायेति मन्त्रः सार्वार्च्य साधकः || सर्वमन्त्राधिकश्चायंमोंकाराद्यष्षडक्षरः | शिवेनान्तर्बहिर्यस्माद्माप्तं सर्वं चराचरम् || जगदेकं च कुरुते तस्मादोमिति संस्मृतः | अयमर्धश्चतसृभिः मात्राभिः परिगीयते || ब्रह्माहरिश्च रुद्रश्च मात्रास्ति(स्रे)स्य कीर्तिताः | दक्षिणांगोद्भवो ब्रह्मा हरिर्वामाङ्गसंभवः || हृदयान्नीलरुद्रश्च ब्रह्मविष्णुप्रबोधकः | जगत्सृष्टिकरो ब्रह्मा विष्णुर्लोकविमोहकः || जगत्सृष्टिकरो ब्रह्माविष्णुर्लोकविमोहकः | अनुग्रहपरोनित्यन्नीलरुद्रः शिवात्मकः || त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्मकर्मभिः | तिस्रोमात्राः शिवस्यैताः सर्वलोकप्रपूजिताः || एता एव त्रयोलोकास्त्रयो वेदाग्नयस्तायः | त्रयोगुणास्त्रिवर्गश्च यच्चान्यज्जगतिस्थितम् || अर्धमात्रा परोरुद्रः शिवः कारणकारणम् | तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम् || सर्वज्ञः कारणः शुद्धो नमस्कार महामखः | नमस्कारात्मयज्ञेन तस्मात् संपूजये च्छिवम् || अज्ञानमशिवत्वं स्यात् सर्वदुःखालयं यतः | स्वभावात्तदवाप्तं हि तस्माद्रुद्रः परः शिवः || नमः शिवाय शान्ताय कारण त्रय हेतवे | निवेदयामि चात्मानं मत्वैकमनसा पुनः || उक्त्वों नमः शिवायेति मुच्यते सर्वपातकैः | यस्मात्तस्मात्तदामन्त्रमोंकाराद्यमनुस्मरन् || सर्वदा सर्वकार्येषु क्षुतनिष्ठिवनादिषु | यात्यों नमः शिवायेति शिवमुक्त्वा शिवं पदम् || यः स्वपन् प्रतिबुध्यंश्च प्रयाणान्ते च स स्मरन् | सदों नमः शिवायेति स गच्छेत् परमांगतिम् || शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये | संसारस्थूलबंधानां मुद्वेष्टन करो भवेत् || प्. ४५(४८) अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेद्देवमीशानं न स पापैः प्रलिप्यते || स्मरणादेवरुद्रस्य पापसंघात पञ्जरम् | शतधा भेदमायाति गिरिर्वज्रहतो यथा || सर्वेषां शिवभक्तानामरोषार्थ प्रसिद्धये | मन्त्र माह शिवः सारमशेषार्थनिबन्धनम् || सद्बीजं सर्वविद्यानामाद्यं ब्रह्म परात्परम् | सर्वार्थसाधकं मन्त्रं शिवसूत्रं षडक्षरम् || भाष्यमस्यैव सूत्रस्य सर्वज्ञानानि शम्भुना | पश्चात् परापराणीह प्रव्यक्तं गदितानि तु || तस्मादनेनमन्त्रेण प्रकुर्वीत शिवार्चनम् | सन्ध्यायां च जपेदेनं सर्वपापविशुद्धये || गृहाच्छतगुणं पुण्यं सन्ध्यायां च जलाशये | शिवदक्षिणमूर्तौ तु तत्पुण्यमयुताधिकम् || तस्माच्छिवालये सन्ध्यामाचरेच्छान्तमानसः | शिवमन्त्रेणसततं सर्वकामप्रसिद्धये || यस्तुसर्वत्रसंपूज्य सविशेषं सविस्तरम् | अश्वमेधायुतं पुण्यं लभते नात्रसंशयः || सरित्समुद्रतीरेषु वनेषू पवनेषु च | यस्तमर्चयते भक्त्या तस्य पुण्यं ततोधिकम् || जितेन्द्रियश्शान्तमनाश्शिवमन्त्रेण योऽर्चयेत् | न तस्य शक्यते पुण्यं वक्तुं वर्षशतैरपि || गता वच्छक्यते वक्तुं यस्मिन् देशे वसेदयम् || सोऽपि देशो भवेत्पूतः किं पुनस्तस्य बान्धवाः | येभ्यो यमन्नमश्नाति येस्तस्य परिचारकाः || तेऽपीह तत्समायस्मात् तैर्विनानशिवार्चनम् || न तत्र देशे दुर्भिक्षं न चमरिः प्रवर्तते | नाकाले म्रियते राजा पूज्यते यत्र शङ्करः || यः शिवं पूजयेन्नित्यं मन्त्यजोऽपि जितेन्द्रियः | एवं भावसमायुक्तस्सोऽपि गच्छेत् परांगतिम् || नोपनीत सहस्रेभ्यो ब्रह्मचारी विशिष्यते | ब्रह्मचारीसहस्रेभ्यो वेदाध्यायी विशिष्यते || वेदाध्यायि सहस्रेभ्यो ह्यग्निहोत्री विशिष्यते | अग्निहोत्रिसहस्रेभ्यो यज्ञयाजी विशिष्यते || यज्ञयाजिसहस्रेभ्यो सत्रयाजी विशिष्यते | सत्र याजिसहस्रेभ्यः सर्वविद्यान्तपारगः || प्. ४६(४९) सर्वविद्यान्तविद्भश्च शिवभक्तो विशिष्यते | तस्मादेवं शिवं भक्त्याभ्यर्चयेच्छान्तमानसः || शिवभक्तो जितक्रोधः शिवज्ञानपरायणः | मैत्रः कारुणिकोयस्तु सप्राप्नोति सदाशिवम् || पुण्यप्रायेषु मैत्र्यैव मुदिता पुण्यशालिषु | अपुण्यवत्सु चोपेक्षा सर्वेषां च वदेच्छिवम् || इत्येवं पञ्चधा चित्तं भावयित्वा यजेच्छिवम् | संपूज्यपशुभर्तारं प्रहृष्टेनान्तरात्मना || ध्यानं कुर्याद्ययोद्दिष्टं सर्वपापनिकृन्तनम् | इष्ट्वा तु परयाभक्त्या भगवन्तं त्रिलोचनम् || कृताञ्जलिपुटो भूत्वा स्तोत्रमेतज्जपेन्नरः | नमस्ते ज्ञानरूपाय सर्वज्ञानैक हेतवे || ज्ञानविज्ञानतत्वाय नित्यं ज्ञानतमाय ते | सूक्ष्माय सूक्ष्मरूपाय सूक्ष्मज्ञानैक हेतवे || सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमायते | दिव्याय दिव्यदिव्याय दिव्यरनयैकहेतवे | दिव्यानामपि दिव्याय नमो दिव्यतमाय ते || पराय परमेशाय परमार्थैक हेतवे | परापरविमुक्ताय नमः परतमाय ते || पूज्याय पूज्य पूज्याय सर्वपूज्यैक हेतवे | पूज्यानामपि पूज्याय नमः पूज्यतमायते || नित्याय नित्यरूपाय नित्यसंभोग हेतवे | नित्यानामपि नित्याय नमो नित्यतमायते || दीप्ताय दीप्तदीप्ताय सर्वदीप्त्येक हेतवे | दिप्तानामपि दीप्ताय नमोदीप्ततमाद्यते | साराय सारभूताय सर्वसारैक हेतवे || साराणामपि साराय नमः सारतमायते | शक्ताय शक्तिरूपाय सर्वशक्त्यैक हेतवे || शक्तानामपि शक्ताय नमः शक्ततमायते | शुद्धाय शुद्धरूपाय सर्वशुद्ध्यैक हेतवे || शुद्धानामपि शुद्धाय नमः शुद्धतमायते | कालाय कालरूपाय सर्वकालैक हेतवे || कालानामपि कालाय नमः कालतमायते | सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे || मन्त्राणामपि मन्त्राय नमो मन्त्रतमायते | व्योमप्रमाणरूपाये शानाय नमो नमः || व्योमप्रमाण योगाय पुरुषाय नमो नमः | व्योम प्रमाणभासाया घोराय नमो नमः || प्. ४७(५०) व्योमप्रमाणवामाय वामेशाय नमोस्तु ते | व्योमप्रमाणभोगाय भोगेशाय नमोस्तु ते || व्योमप्रमाणमोक्षाय मोक्षेशाय नमोऽस्तुते || व्योमप्रमाणविश्वाय विश्वेशाय नमोस्तु ते || एककाय द्विकायाय बहुकायाय ते नमः | कायासंख्येय युक्ताय त्र्यम्बकाय नमो नमः || एकवक्तद्विवक्त्राय बहुवक्त्राय ते नमः | वक्त्रासंख्येययुक्ताय परमेशाय ते नमः || एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः | जिह्वासंख्येय युक्तायत्रिणेत्राय नमो नमः | व्योमप्रमाणसत्याया जिताय नमो नमः || व्योमप्रमाणकामाय कामेशाय नमो नमः | व्योमप्रमाणदिव्याय दिव्येशाय नमो नमः || व्योमप्रमाणकालाय कालेशाय नमो नमः | व्योमप्रमाणधर्माय धर्मेशाय नमो नमः || एकदंष्ट्रद्विदंष्ट्राय बहुदंष्ट्राय ते नमः | दंष्ट्रासंख्येय युक्ताय त्र्यम्बकाय नमो नमः || एक कण्ठ द्विकण्ठाय बहुकण्ठाय ते नमः | कण्ठासंख्येय युक्ताय नीलकण्ठाय ते नमः || एक हस्त द्विहस्ताय बहुहस्ताय ते नमः | हस्तासंख्येययुक्ताय नित्यं रुद्राय ते नमः || एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः | नेत्रासंख्येय युक्ताये शानाय नमोऽस्तु ते || नमस्तेऽस्तु महादेव नमस्तेऽस्तु महेश्वर | नमस्तेस्तु महायोगिन् नमस्तेस्तु महाबल || नमस्तेस्तु महेशाय नमस्तेऽस्तु महोत्तम | नमस्तेऽस्तु महारूप नमस्तेऽस्तु सदाशिव || नमस्तेऽस्तु महाशुद्ध नमस्तेऽस्तु सदोज्ज्वल | नमस्तेस्तु महादेव नमस्तेऽस्तु सदा भव || नमस्ते भगवन् शान्त नमस्ते भगवन् ध्रुव | नमस्ते भगवद्दीप्त नमस्ते भगवन् हर || अजिताय नमस्तुभ्यं भस्मांगाय नमोस्तु ते | सर्वात्मने नमस्तुभ्यं विश्वेशाय नमोस्तु ते || सर्वज्ञाय नमस्तुभ्यं सर्वांभाय नमोस्तु ते | अनन्ताय नमस्तुभ्यमनाथाय नमो नमः(स्तु ते) || प्. ४८(५१) अव्यक्ताय नमस्तुभ्यं शाश्वताय नमोस्तु ते | संपूज्याय नमस्तुभ्यं वरदाय नमोस्तु ते || इति स्तवे न यः कश्चित् संस्तुनोति महेश्वरम् | स विहायाशु पापानि रुद्रलोके महीयते || भोगार्थी लभते भागान् राज्यार्थी राज्यमाप्नुयात् | कन्यार्थी लभते कन्यां योगार्थी योगमाप्नुयात् || मुच्यते व्याधिभी रोगी दुःखी दुःखात् प्रमुच्यते | बन्धनान्मुच्यते बद्धो यशोर्थी कीर्तिमाप्नुयात् || यान् यान् चिन्तयते कामांस्तांस्तान् प्राप्नोति भावितः | शैवं पदमवाप्नोति नित्यं पठति यो नरः || इति श्रीशिवधर्मशास्त्रे दानधर्मोध्यायः सप्तमः || अथाष्टमः श्रीनन्दिकेश्वर उवाच पृथिव्यां यानितीर्थानि पुण्यान्यायतनानि च | लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं समर्चयेत् || स स्नातस्सर्वतीर्थेषु स सर्वोपरिसंस्थितः | यः पूजयेन्महापुण्यं लिङ्गं सर्वार्थसिद्धिदम् || शतेन स्थापितं लिङ्गं सहस्रेण न चालयेत् | दुःस्थितं सुस्थितं वापि शिवलिङ्गं न चालयेत् || घृताभिषेकं यः कुर्यात् अहोरात्रं शिवस्य तु | सूक्ष्मद्वारेण कुम्भेन पुष्यमासे समुद्यतः || गीतनृत्तोपचारेण शंखवादित्र निस्वनैः | कुर्याज्जागरणं चात्र प्रदीपाद्युपशोभितम् || समस्तपापनिर्मुक्तः समस्तकुलसंयुतः | समस्तकामसंपूर्णः समस्तगुणसंयुतः || ज्वलद्भिस्समहायानैरसंख्येयैरनुत्तमैः | युक्तः शिवपुरे नित्यं मोदते शिववत् सुखी || ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च | घृताभिषेकं यः कुर्यान्महापुण्यमवाप्नुयात् || घृताभिषेकं यः पश्येदासमाप्ते रूपोषितः | विधूयसर्वपापानि शिवलोकं सगच्छति || एकः पूजयते भक्त्या भक्त्या चान्यः प्रपश्यति | तुल्यमेवफलं ताभ्यां भक्तिरेवात्रकारणम् || यः कुर्यात्पर्वकालेषु महायात्राप्रवर्तनम् | शिवस्य रथयात्रां वा नगरान्तः प्रदक्षिणम् || महाचित्रध्वजैश्छत्रैः किंकिणीखनान्वितैः | वितानध्वजमालाभिः घण्टाचामरदर्पणैः || प्. ४९(५२) शंखभेर्यादितुमुलैः गीतनाट्यादिसंकुलैः | लेख्यैर्दारुमयैर्यन्त्रैर्मातृरक्षोगणादिभिः || उदगाग्नेययन्त्रैश्च बह्वाश्चर्यैरनेकशः | स्त्रीडोलायन्त्रचक्रैश्च महाचक्राष्टलम्बनैः || उदध्यापानखाताद्यै महासत्रसमायुतम् | महाजनपदाकीर्णं यथाविभवविस्तरम् || सर्वदानप्रपुण्यानि सर्वयज्ञफलानि च | अत्युग्रतपसां पुण्यं सर्वतीर्थफलानि च || लब्ध्वानखरः श्रीमान् शिवयात्रा प्रवर्तनात् | शिवलोके महाभोगैः शिववन्मोदतेचिरम् || तस्यान्ते देवराजत्वं सुचिरं कालमाप्नुयात् | जम्बूद्वीपाधिपः श्रीमान् तस्यान्ते स महीपतिः | आलिङ्गवेदिपर्यन्तं यो दद्याद् घृतकम्बलम् | घृतधाराफलं तस्य माघे पौर्णे तु पर्वणि || मन्वन्तरशतं साग्रं शिवलोके महीयते | सम्यक् प्रोक्षणकं कृत्वा शिवलोकमवाप्नुयात् | सुरूपः सुभगश्श्रीमान् परिभ्रष्टोऽत्र जायते || रूपं पिष्टमयं कृत्वा त्रिणेत्रं रत्नभूषितम् | श्रुत्वोपवीतसंयुक्तमेकपादं विशेषतः | दन्तेषु मौक्तिकं तस्य प्रवालमधरोष्ठयोः || दद्याद्वज्रं च नेत्राभ्यां वैडूर्यं वाप्यसंभवे || हेमं रौप्यं च हस्ताभ्यां ताम्रं पादे प्रकल्पयेत् | अण्डजैः फेनजैर्वस्त्रैर्विचित्रैः परिवेष्टयेत् || सुगन्धैश्चित्रवर्णैश्च पुष्पैरपि विभूषयेत् | विविधैः भक्ष्यभोज्याद्यैः बलिं तत्रोपकल्पयेत् || भोजयेच्छिवभक्तांश्च विप्रान् भक्त्या च तर्पयेत् | प्रीयतां मे शिवो नित्यमुक्त्वा चोत्थापयेद् द्विजान् || तैरेवसान्द्रं विप्रेन्द्रैस्तद्रूपन्तु शिवालये | नीत्वा समर्चयेद्वेद्यां शिवलिङ्गसमीपतः || सर्वयज्ञफलं प्राप्य सर्वदानफलानि च | सुरूपो रूपदानेन शिवलोके महीयते || भोजनं घृतसंपूर्णं मधुनोपरिशोभितम् | दद्यात् कृष्णतिलानां च प्रस्थमेकं च मागधम् || द्विगुणं तण्डुलानाञ्च पृथक्प्रस्थन्तु दापयेत् | गन्धैः पुष्पैस्तथा धूपैः नववस्त्रैश्च वेष्टयेत् || सर्वभक्षान्नपानैश्च बलिं चैव निवेदयेत् | प्. ५०(५३) अर्चयित्वा विधानेन पौर्णमास्यां विशेषतः | युगायुतसहस्राणि शिवलोकेमहीयते || पुण्यक्षयादिहागत्य समृद्धे जायते कुले | मेधावी सुभगः श्रीमान् वेदवेदांगपारगः | ताम्रपात्रं पयः पूर्णं कृत्वा चान्तःस्थकाञ्चनम् || प्रच्छाद्योपरिपद्मेन गन्धपुष्पार्चितं महत् | शिवभक्तं द्विजं सम्यक् भोजयित्वा विधानतः || प्राच्यां समुद्गते सोमे प्रतीच्यां च रवौगते | पौर्णमास्यां सवैशाख्यां गृह्यपात्रं शिवाग्रतः || प्रीयतां मे महादेवः सोममूर्तिर्जगत्पतिः | तस्मैविप्रायतत्पात्रं मर्पयेद्भक्तितश्शनैः || एतत्सोमव्रतं नाम कृत्वा रुद्रान्तिकं व्रजेत् | रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरोनरः | पूर्वाभ्यासेन ते नैव पुनः शिवपुरं व्रजेत् || आषाढे पौर्णमास्यां तु शिवं संपूज्य यत्नतः(भक्तितः) | उपवीतीसितादद्यात् शिवभक्तांश्च भोजयेत् || पुनरेव च कार्तिक्यां पूज्यशंभुं क्षमापयेत् | यतीनां दक्षिणां दद्यात् सूत्रवस्त्रादिशोभिताम् || यः कुर्यात् सकृदप्येवं चातुर्मास्य पवित्रकम् | कल्पकोटिशतंसाग्रं शिवलोके महीयते || पुण्यक्षयात्परिभ्रष्टश्चतुर्वेदी प्रजायते | इच्छया वा भवेद्राजा गुणवीर्यसमन्वितः || भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् | मुखवाद्येन तत्पुण्यमुभयं लभते नरः || तदेव पुण्यगीतस्य नृत्तस्य च विशेषतः | तदेव जयशब्दस्य हस्ततालस्वने तथा || योगां पयस्विनीं दद्यात् तरुणीं वृषसंयुताम् | शिवाय तेन दत्तं स्यात् जगत्सर्वं चराचरम् || वृषभं परिपूर्णांगमुदारञ्च शशिप्रभम् | गोमतीं धूर्वहं वापि यथेष्टं विनिवेदयेत् || यावन्ति देहरोमाणि तत्प्रसूति कुलेषु च | तावन्मृगसहस्राणि शिवलोके महीयते || स्नानाग्निकार्यमुद्दिश्य सुरूपां सुपयस्विनीम् | कुलीनां कपिलां दत्वा दत्तं भवति गोशतम् || भयकान्तार दुर्गेभ्यः कपिलात्रातिमातृवत् | यत्नेन कपिलां तस्मात् शिवाय विनिवेदयेत् || प्. ५१(५४) शिवस्नानादिकार्यार्थमुत्पन्नं कपिलाघृतम् | तस्मात्तत्रैवसंयोज्य कपिलाशुभमिच्छता || कपिलां यः पिबेच्छूद्रः शिवसंस्कारवर्जितः | सप्रयाति महाघोरं नरकं यातनाकुलम् | हुतशेषं पिबेद्विप्रः स्वर्गास्यादन्यथा पशुः || गाञ्च लभ्यनमस्कृत्य यः कुर्यात्तां प्रदक्षिणम् | प्रदक्षिणी कृता तेन सप्तद्वीपावसुन्धरा || गवां हुंकारशब्देन दर्शनस्पर्शनेन च | पापं प्रणश्यते यस्मात् पश्येत् स्पृशेत च ताम् || कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम् || सततं बालवत्साभिर्गोभिः श्रीरिभिरिवस्वयम् | यानि तीर्थानि मेदिन्यामासमुद्रात् समन्ततः || गवां शृङ्गोदकस्नानात् कलां नार्हति षोडशीम् | गवामस्थिनलंघेत * * मृतं न वर्जयेत् || यावत् पिबति तद्गन्धं तावत् पुण्यैः प्रपूर्यते | गवां कण्डूयनाद्धूपात् गो प्रदान फलं लभेत् || तुल्यं गो शतदानेन भयरोगादिपालनम् | तृणोदकादि संयुक्तं यः प्रदद्याद्गवादिकम् || स गोमेधसमं पुण्यं लभते नात्र संशयः | बहुनात्र किमुक्तेन गावः पाल्याः प्रयत्नतः || गावो दैन्यात् सदारक्ष्याः पोष्याग्राह्याश्च सर्वदा | ये ताडयन्ति ते पापाः सर्वलोकस्यमातरः || क्रोशयन्ति च संमोहात् तैराकृष्टमिदं जगत् | ताडयेद्यदि वा मर्त्यो यश्चाक्रोशेन्नराधमः || नरकाग्नौ स पच्येत गोनिश्वाससमीरिते | सपलाशेन दग्धेन तनुनाशं निवर्तयेत् || गच्छां वेति च तां ब्रूयात् मा मातरितिवारयेत् | हलोत्सर्गं च यः कुर्यात् पक्षयोरुभयोरपि || द्वादश्यां पञ्चदश्यां च चतुर्दश्यष्टमीषु च | तस्य गावो वृषाविष्ण शिवोमाः सर्वदेवताः || शान्तिं जुषन्ति सुप्रीताः स्वर्गमायुर्बलं श्रियम् | दास्यन्ति च सदा नित्यं कल्याणं भद्रमेव च || एवं यो वर्तते गोषु ताडनाक्रोशवर्जितः | महतीं श्रियमाप्नोति रुद्रलोकं स गच्छति || गो ब्राह्मणार्थमुद्युक्तः प्राणैर्यदि वियुज्यते | प्. ५२(५५) प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः || ब्राह्मणांश्चैव गावश्च कुलमेकं द्विधाकृतम् | एकत्रमन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति | गोभिर्यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः || गोभिर्वेदास्समुत्तीर्णाः सषडंगपदक्रमाः | शृंगमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ | शृंगाग्रे सर्वतीर्थानि स्थावराणि चराणि च | शिरोमध्ये महादेवः सर्वदेवपतिः स्थितः || ललाटाग्रे स्थिता देवी नासावंशेषु षण्मुखः | कम्बलाश्वतरौनागौ नासापुटसमाश्रितौ || कर्णयोरश्विनौ देवौ चक्षुषी राशिभास्करौ | दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः || सरस्वती च हुंकारे यमयक्षौ तु गण्डयोः | सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः || ऋक्षाणि ककुदिद्यौश्च साध्यश्चोरस्रिसंस्थितः | चतुष्पात् सकलो धर्मः स्वयं जंघासुसंस्थितः || रुद्रैकादशकं पृष्ठे वसवः सन्धिषु स्थिताः | खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः || खुराणां पश्चिमाग्रेषु गणोह्यप्ससां स्थितः | रुद्रैकादशकं पृष्ठे वसवः सन्धिषु स्थिताः || श्रोणीतटस्थाः पितरो मातरो योनिमाश्रिताः | आदित्यारश्मयो वालाः पिण्डीभूता व्यवस्थिताः || उदाने पृथिवी सर्वा स शैलवनकानना | साक्षाद् गंगा च गोमूत्रे गोमये यमुना स्थिता | अष्टाविंशद्देव कोट्यो रोमकूपेषु संस्थिताः || चत्वारः सागराः पूर्णाः गवां ये च पयोधराः | एतद्वः कथितं सर्वं यथा गोषुप्रतिष्ठितम् || गोषुदत्तं हुतं भुक्तं गोषु सर्वं चराचरम् | तस्माद् गावो न हिंस्याः स्युः पालनीयास्तु सर्वदा | गावः स्तुत्याश्च वन्द्याश्च गावो मां पान्तु नित्यशः || ब्रह्मणा ब्रह्मशब्देन स्तूयते प्रणवेन यः | स शिवः शाश्वतो नित्यं गोषुमारिं व्यपोहति(तु) || योर्च्यते सततं भक्त्या विष्णुना प्रभविष्णुना | स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु || लम्बोदरेण देवेन गजवक्त्रेण योर्चितः | प्. ५३(५६) स शिवः शास्वतो देवो गोषुमारिं व्यपोहतु || सर्वरोगहरेणापि रविणा यः प्रपूज्यते | स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु || श्रीमान् यो रुचिरांगेण घण्टाकर्णगणेन यः | नित्यं प्रणम्यते भक्त्या हृष्टे नानन्यचेतसा || स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु | इत्युपद्रवसंयुक्तां गोषुमारीं व्यपोहतु || नित्यं रुद्रबलोपेतो रुद्रशक्ति समन्वितः | घण्टाकर्णगणो देवो गोषुमारिं व्यपोहतु || घण्टाकर्णगणोदेवश्शिवज्ञानविधायकः | शिवतेजोनुभावेन गोषुमारीं व्यपोहतु || शिवाय देवदेवाय महादेवाय भामिने | रुद्राय स्थाणवे नित्यं हरायोग्राय ते नमः || परमेशाय सिद्धाय सर्वसिद्धिप्रदायिने | त्र्यम्बकाय महेशायातिशान्ताय ते नमः || अभिमन्त्र्यसदातोयमेतैर्मन्त्रैर्यथाक्रमम् | प्रोक्षयीत गवां देहं ततश्शान्तिर्भविष्यति || इमां यः पठते गोषु रोगार्तासु विशेषतः | गो सावित्रीं महापुण्यां ततः शान्तिर्भविष्यति || यः समुत्थाय सततं गो सावित्रीमिमां पठेत् | गवां चोत्सर्गकाले तु प्रस्थाने वा समागमे | आयुष्मान् बलवाञ्छ्रीमान् गोमानर्थपतिर्भवेत् || दोहान्ते च शिवस्थानं स गच्छेन्नात्रसंशयः | प्रभूततोयंषु बृहत्तृणेषुसपुंगवान्नित्यमरोगवत्साः | चरन्तु गावः सुखिता वनेषुक्षीरं प्रयच्छन्तु सुखं स्वपन्तु || यो लंकृत्यशिवायाश्च मुत्तमां विनिवेदयेत् | सोश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् || सुविनीतां स्त्रियं वापि पुरुषं वा निवेदयेत् | नरमेधस्य यज्ञस्य फलं षड्गुणमाप्नुयात् || निवेदयी तयो भक्त्या भद्रन्नागमलंकृतम् | शिवायपर्वे दिवसे तस्य पुण्यफलं शृणु || मत्तैरैरावतप्रख्यैः गजैर्युक्तैः सुशोभनैः | क्रीडते स महायानैः शतसंख्यैरनेकधा || कल्पकोटिसहस्राणि कल्पकोट्य युतानि च | रुद्रलोके ततश्चान्ते भवेदिन्द्रः सुराधिपः || प्. ५४(५७) भवेदिन्द्रसमः श्रीमान् रूपवीर्यबलान्वितः | यः शिवायजलोपेतां सर्वसस्य प्ररोहिणीम् | महीं महीपतिर्दद्यात् तस्य पुण्यफलं शृणु || यावद्दण्डा भवेद्भूमिर्मीयमानासमन्ततः | तावत्सकल्पसंख्यानं रुद्रलोके महीयते || एवं सर्वत्रविज्ञेयं फलं दण्ड प्रमाणतः | ग्राम खेटपुरक्षेत्र विषयादि निवेदयेत् || सर्वसस्यफलोपेतं सर्वबाधाविवर्जितम् | ग्रामं शिवाय यो दद्यात् तस्य पुण्यफलं शृणु || सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत्फलम् | सर्वदानेषु यत्पुण्यं ग्रामदानेन तद्भवेत् || सूर्यकोटिप्रतीकाशैर्दिव्यस्त्रीकोटिसंयुतै || युगकोटिशतानीकैः सर्वकामसमन्वितैः || विमानैग्रामदानेन त्रिसप्तकुलसंयुतः | यथेष्टमैश्वरे लोके क्रीडते कालमक्षयम् | पुण्यं नगरदानस्य ग्रामदानाच्छताधिकम् | देशदानेन चानन्त्यं न शक्यं तत्प्रकीर्तितुम् || रत्नान्नपानगोश्वद्रिं सर्वं भूमौ प्रजायते | तस्मात् तु भूमिदानेन सर्वदानफलं लभेत् | योन्यदत्तां स्वदत्तां वा हरेद् भूमिं तु मानवः | प्रपच्यतेऽक्षयं कालं नरकेषु क्रमेण सः || सर्वन्तु भूमिहारेण हृतमेव न संशयः | भूमिहर्ता भवेत्तस्मानरकेष्वामहीक्षयात् || देवस्वानिहरन्तीह नरानरकनिर्भयाः | ब्रह्मस्वानि च ये मोहात् पच्यन्ते नरकेषु ते || देव ब्रह्मस्व पुष्टानि वाहनानि महीपतेः | युद्धकाले नारीष्यन्ते सैकताः सेतवो यथा || भूमिप्रदो वसेत् स्वर्गे यावत्कालं च संख्यया | तस्माच्छतगुणं कालं तद्धृत्वा नरके वसेत् || विंशत्यष्टौ च याः कोट्यो नरकाणां सुदारुणाः | क्रमेण तेषु पच्यन्ते देव ब्रह्मस्व हारिणः || कालान्तेषु समुत्तीर्णा वृक्षकीटादियोनिषु | भ्रमन्ति सुचिरं कालं क्षुत्पिपासादिपीडिताः || एवं भ्रमन्ति सुचिरं ईश्वरायोपजीविताः | प्. ५५(५८) केनचिच्छिवभक्तेन शिवार्चायतनादिषु | ततो विधूतपात्मानस्तेनराश्शिवतेजसा || दिवं प्रयान्ति संत्यज्य शरीरं यातनात्मकम् || इति श्रीशिवधर्मशास्त्रे शिवप्रदानफलोऽष्टमः || अथ नवमः || श्रीनन्दिकेश्वर उवाच अतः परमिदं पुण्यं वक्ष्यामि मुनिसत्तम | पुण्यातिशयसंयुक्तं सर्वदेवैरनुष्ठितम् || (वरुणादित्यसोमाग्नि मरुद्धनदनारदैः |) विष्णुना ब्रह्मणादेव्या स्कन्देन्द्राभ्यां यमेन च | वरुणादित्यसोमाग्नि मरुद्धनदनारदैः || धर्मश्रीशुक्रनक्षत्र विलोपीतं शनैश्चरैः | विश्वामित्र वसिष्ठात्रिबृहस्पति बुधादिभिः || श्वेतागस्त्यदधीचाद्यैस्सर्वैश्च मुनिपुङ्गवैः | भृङ्गिमातृमहाकाल चण्डेश्वरगणाधिपैः || वृषवासुकि कार्कोट गुलकानन्ततक्षकैः | पद्मशङ्खमहापद्मैरन्यैश्चापि महोरगैः || सिद्धैर्यक्षैः किं पुरुषैर्वसुभिश्च महात्मभिः | अप्सरो दैत्यगन्धर्व रक्षोभूतगणैरपि || शिवागतिर्यथा प्राप्ता सर्वगत्यतिशायिनी | मया चेशप्रसादेन तथा शृणु विधिं परम् || सितचन्दनतोयेन स्नाप्यलिङ्गं प्रलीप्य च | श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च || पङ्कजैर्विमलैः सौम्यै विच्छिद्रे पुष्पिते सिते | मध्येकेसरजालस्य स्थाप्यलिङ्गं कनीयसम् | अङ्गुष्ठमात्रं विधिवत् सर्वगन्धमयं शुभम् || स्थाप्य दक्षिणमूर्तौ तु बिल्वपत्रैस्तदर्चयेत् | अगरुं दक्षिणे पार्श्वे पश्चिमे तु मनः शिलाम् | उत्तरे चन्दनं दद्यात् हरितालं च पूर्वतः || कुसुमैश्च सुगन्धैश्च विचित्रैश्चापि पूजयेत् | धूपं कृष्णागरुं दत्वा सघृतं वापि गुग्गुलुम् || वासांसि च सुसूक्ष्माणि विकेशानि निवेदयेत् | पायसं घृतसंयुक्तं घृतधीपांश्च दापयेत् || सर्वं निवेद्यमन्त्रेण ततो गच्छेत् प्रदक्षिणम् | प्रणम्य मूर्ध्ना देवेश मुत्यायान्ते क्षमापयेत् | सर्वोपहारसंयुक्तं तच्चलिंगं निवेदयेत् || शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः || प्. ५६(५९) अनेन विधिनादेवाः सर्वे देवत्वमागताः | देवी देवत्वमापन्ना गुहः स्कन्दत्वमागतः || ब्रह्मा ब्रह्मत्वमापन्नो हरिर्विष्णुत्वमागतः | एवं योऽर्चयते नित्यं लिंगं सर्वगन्धमयं सकृत् || सर्वपापविनिर्मुक्तः शिवलोके महीयते || एतद्व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् || भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् | चिरपर्युषितं माल्यं शिवस्यो(स्या)पनयेत्तु यः || गो सहस्र प्रदानस्य फलं तस्य न संशयः || इति श्रीशिवधर्मशास्त्रे लिङ्गमहाव्रतं नाम नवमोध्यायः || दशमोध्यायः नन्दिकेश्वर उवाच चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः | योऽब्दमेकं न भुञ्जीत शिवार्चनरतः शुचिः || यत् पुण्यमक्षयं प्रोक्तं सततं रात्रयाजिनाम् | सत्यादिषु च यत्पुण्यं यत्पुण्यमृतुगामिनाम् | अग्निहेत्रे तु यत् पुण्यं यत् पुण्यं यज्ञयाजिनाम् || तत्पुण्यं सकलं तस्य शिवलोकं च गच्छति | पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु यत्नतः || अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते | द्वेपञ्चम्यौ तु मासस्य द्वे च पर्तिपदौ नरः || सोपवासः सुगन्धश्च शयीत प्रियया सह | शेते निश्चल चित्तश्च रति प्रीति विवर्जितः || शिवानु स्मृतिशीलश्च तस्य पुण्यफलं शृणु | दिव्यवर्षसहस्रं तु दिव्य वर्षशतं तथा || तपस्तप्तं महत्तेन भवेदेवमसंशयः || शिवभक्ति सुप्रीतात्मा यद्यपि स्यात् सपापकृत् | शिवलोके वसेन्नित्यं शिववत्संवृतोगणैः || कृष्णाष्टम्यां तु नक्तेन या च कृष्णाचतुर्दशी | इह भोगमवाप्नोति परत्र च शिवां गतिम् || योऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु | ब्रह्मचारी जितक्रोधश्शिवार्चाजपतत्परः || संवत्सरान्ते विप्रेन्द्रान् शिवभक्तान् समाधिना | भोजयित्वा ततो ब्रूयात् प्रीयतां भगवाञ्छिवः || भोजयेद्यस्तु विद्वांसं कपालव्रतधारिणम् | भोजितास्तेन देवेश ब्रह्मविष्णुमहेश्वराः || कपालपूर्णमशनं भैक्षं यो यस्य गृह्णते | कुलं तस्योद्धरत्येव दशपूर्वान् दशावरान् || प्. ५७(६०) पादार्घ्याचमनीयानि गन्धपुष्पैः समन्ततः | अर्चयेद्व्रतिनं दृष्ट्वा पश्चाद्भैक्षेण तर्पयेत् || पूजितैस्तैश्शिवः साक्षात् पूजितो नात्र संशयः | अवमतैरवमतः स्यात् स्वयं वै परमेश्वरः || श्र(शु)द्धया परयायुक्ता कपाले यत्प्रयच्छति | तत् तस्य फलते दानं व्रजेच्छतसहस्रधा || एवं विधिसमायुक्तः शिवलोकं स गच्छति | न च मानुष्यकं लोकमध्रुवं प्राप्नुयान्नरः || उपवासात् परं भैक्षं भैक्षात्परमयाचितम् | अयाचितात् परं नक्तं तस्मान्नक्तेन वर्तयेत् || दैवैर्भक्तन्तु पूर्वाह्णे मध्याह्णे मुनिभिस्तथा | अपराह्णे तु पितृभिः सन्ध्यायां गुह्यकादिभिः || सर्ववेलामतिक्रम्य नक्तमुत्तम भोजनम् | वामाचारो महादेवो नक्तेनोद्धरते नृणाम् || हविष्यं भोजनं स्नानं सत्यमाहारलंघनम् | अग्निकार्यमधश्शययान्नक्तभोजीसमाचरेत् || कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्तं विधानतः | मार्गशीर्षस्य मासस्य शङ्करं ह्येवमर्चयेत् || पित्वा शक्त्या तु गोमूत्रमनाहारो निशिस्वपेत् | अतिरात्रस्य यज्ञस्य फलमष्टगुणं लभेत् || माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् | निशिपीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् || एवं पौष्ये च संपूज्य शम्भुनामानमीश्वरम् | कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् || निशि पीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् | फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् || राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् | चैत्रे च स्थाणु नामानं कृष्णाष्टम्यां प्रपूजयेत् || यवांश्च भर्जितान् प्राश्य सोऽश्वमेधाष्टकं लभेत् | वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् | पीत्वा पुरुषमेधस्य फलमष्टगुणं लभेत् || ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् | गवां लक्षप्रदानस्य यत्फलं तदवाप्नुयात् || आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् | सौत्रामणेस्तु यज्ञस्य फलमष्टगुणं लभेत् | श्रावणे शर्वनामानमिष्ट्वार्कन्निशि भक्षयेत् || प्. ५८(६१) वर्षकोटिशतं दिव्यं रुद्रलोके महीयते | मासे भाद्रपदेऽष्टम्यामीश्वरं नाम पूजयेत् || गन्धपुष्पैस्तु रात्रौ तु पीत्वा वै तण्डुलोदकम् | पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् || कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि | अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् || वर्षान्ते भोजयेद्विप्रान् शिवभक्तिपरायणान् | पायसे घृतसंयुक्तं मधुनासुपरिप्लुतम् || शक्त्या हिरण्यं वासांसि भक्त्यातेभ्यो निवेदयेत् | निवेदयीत रुद्राय गां च कृष्णां पयस्विनीम् || वर्षमेकं चरेदेवं नैरन्तर्येण यो नरः | कृष्णाष्टमीव्रतं नाम तस्य पुण्यफलं शृणु | सर्वपापविनिर्मुक्तः सर्वैश्वर्य समन्वितः || वसेच्छिवपुरे नित्यं नेहयाति कदाचन | पुण्येष्वेवं हि सर्वेषु विषुवग्रहणादिषु || दानोपवासहोमाद्य भक्षयं जायते कृतम् | प्रतिमासं प्रवक्ष्यामि सिव व्रतमनुत्तमम् || धर्मार्थकाममोक्षार्थं नरनार्यादि देहिनाम् | पुष्यमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् | जितेन्द्रियः सत्यवादी शालिगोधूमगोरसैः || पर्वयोरष्टमीं तस्मादुपवासेन यापयेत् | त्रिसन्ध्यमर्चयेदीशमग्निकार्यञ्च भक्तितः || भूमिशयया च मासान्ते पौर्णमास्यां घृतादिभिः | कृत्वास्नानं महापूजां शिवमन्त्रैः प्रकल्पयेत् || नैवेद्यं यावकप्रस्थं क्षीरं सिद्धं निवेदयेत् | भोजयेच्च द्विजानष्टौ शिवभक्तान् सदक्षिणम् || दद्याच्छिवायमिथुनं कपिलां वा निवेदयेत् | अलङ्कृतां सुरूपाञ्च तस्य पुण्यफलं शृणु || सूर्यकोटिप्रतीकाशैर्विमानैस्सार्वका(गा)मिकैः | रुद्रकन्यासमाकीर्णैर्महावृषभसंयुतैः || सङ्गीत नृत्तवाद्यैश्चाप्सरोगणशोभितैः(भिः) | दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः || त्रिणेत्रः शूलपाणिश्च शिवैश्वर्यसमन्वितः | या या च्छिवपुरं दिव्यं यत्रास्ते शङ्करः स्वयम् || यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च | तावद्युगसहस्राणि सुखी शिवपुरे वसेत् || प्. ५९(६२) एकविंशत्कुलैः सार्धं भोगान् भुक्त्वायथेप्सितान् | ज्ञानयोगं समासाद्य तत्रैव सविमुच्यते || योगाद्दुःखान्तमाप्नोति ज्ञानाद्योगः प्रवर्तते | शिवधर्माद्भवेज्ज्ञानं शिवधर्मः शिवार्चनात् || इत्येष वः समाख्यातः संसारार्णववर्तिनाम् | शिवमोक्षक्रमोपायः शिवार्चननिषेविणाम् || माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् | कृसरं घृतसंयुक्तं भुञ्जानस्संयतेन्द्रियः || सोपवासश्चतुर्दश्यां भवेदुभयपक्षयोः | शिवायपौर्णमास्यां तु प्रदेयं घृतकम्बलम् || कृष्णं गोमिथुनं चात्र सुरूपं विनिवेदयेत् | शेषं कृत्वा यथेद्दिष्टं पूर्वोक्तं लभते फलम् || इन्द्रनीलप्रतीकाशैर्विमानैश्शिखिसंयुतैः | गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् || सांप्राप्ते फाल्गुने मासे यः कुर्यान्नक्तभोजनम् | श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः || चतुर्दश्यामथाष्टम्यामुपवासरतो भवेत् | पौर्णमास्यां महास्नानं पञ्चगव्यघृतादिभिः || वल्मीकाग्रादि मृद्भिश्च गोमूत्रैर्गोमयादिभिः | त्वग्भिश्च क्षीरवृक्षाणां धातुगन्धादिभिर्भवेत् | दद्याद् गोमिथुनं भक्त्या ताम्राभं परमेष्ठिने || शेषमन्यद्यथोद्दिष्टं कृत्वाप्नोति महत्फलम् || पद्मरागप्रतीकाशैर्विमानैर्मार्गसंयुतैः | गत्वा शिवपुरं रम्यं पूर्वोक्तान् लभते गुणान् || चैत्रमासे शुभे प्राप्ते यः कुर्यान्नक्तभोजनम् | पौष्टिकं पयसायुक्तं भुञ्जानः संयतेन्द्रियः || दद्याद्गोमिथुनं चात्र पाटलं समलङ्कृतम् | शिवाय तत् सुरूपञ्च शेषं पूर्ववदाचरेत् || प्राणान्ते च परं स्थानं प्रयाति शिववद्वशी | स्वच्छमौक्तिकसंकाशैरिन्द्रनीलोपशोभितैः || जीवं जीवकसंयुक्तैर्विमानैः सुमनोरमैः | वैशाखमासे संप्राप्ते यः कुर्यान्नक्तभोजनम् || शाल्यन्नं पयसायुक्तं भुञ्जानः संयतेन्द्रियः | गोष्ठशायी शिवध्यायी निशायामेववस्त्रयुक् || नियमं च यथोद्दिष्टं सामान्यं सर्वमाचरेत् | इन्द्रनीलप्रतीकाशै विमानैस्सार्वकामिकैः || प्. ६०(६३) गत्वा शिवपुरं दिव्यं मोदते कालमक्षयम् | वैशाखे पौर्णमाष्यां तु कुर्यात् स्नानं घृतादिभिः || शिवालयं कृतं दद्यात् श्वेतं गोमिथुनं शुभम् | हंस कुन्देन्दु सङ्काशैर्विमानैस्समलङ्कृतम् || सुश्वेतवृषभासक्तैः प्रयाति शिवमन्दिरम् | सर्वातिशययुक्ताभिः स्त्रीभिस्संपरिवारितः || नीलोत्पलसुगन्धाभिः क्रीडते कालमक्षयम् | ज्येष्ठमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् || शाल्यन्नं पयसाधौतमजाक्षीरेणसंयुतम् | निराशनं निशार्धं स्याद् दिवागां समनु व्रजेत् || हितकारी गवां नित्यमहङ्कारविवर्जितः | पौर्णमाष्यां च पूर्वोक्तं कुर्यात्स्नानादिकं विधिम् || देयं गो मिथुनं चात्र धूम्रवर्णमलङ्कृतम् | नीलोत्पलदलप्रख्यैर्महायानैरनौपमैः || महासिंहनिबद्धैश्च क्रीडते कालमक्षयम् | आषाढे मासिसंप्राप्ते यः कुर्यान्नक्तभोजनम् || गुलखण्डाज्यसंमिश्रं सक्तुमद्यात्सगोरसैः | दद्याद् गोमिथुनं गौरं शिवायालङ्कृतं शुभम् || सामान्यं च विधिं सर्वं प्रकुर्यात् प्राक्प्रचोदितम् | शुद्धस्फटिकसंकाशैर्यानैस्सारसवाहनैः || अणिमादिगुणैर्युक्तः शिववद्विचरेदयम् | संप्राप्ते श्रावणेमासि यः कुर्यान्नक्तभोजनम् || क्षीरषष्टिकभक्तेन सर्वभूतहितेरतः | श्वेताग्रपादपौण्ड्रञ्च दद्याद् गोमिथुनं शिवे || सामान्यमखिलं कुर्यात् विधानं यत्प्रकीर्तितम् | सुविचित्रैर्महायानैर्विचित्रैश्च नियोजितैः || गत्वा शिवपुरं दिव्यं पूर्वोक्ताल्लंभते गुणान् | प्राप्तेभाद्रपदे मासि यः कुर्यान्नक्तभोजनम् || हुतशेषहविर्भोजी वृक्षमूलाश्रितो दिवा | रात्रौ चायतने सुप्त्वा सर्वभूतानुकम्पकः || नीलस्कन्धं वृषंगाञ्च शिवाय विनिवेदयेत् | दिवाकरकरप्रख्यैर्वज्रवैडूर्यशोभितैः || चक्रवाकसमायुक्तैर्विमानैस्सर्वकामिकैः | गत्वा शिवपुरं दिव्यमरासुरवन्दितम् || क्रीडते स महातेजा भोगैर्यावदाभूतसंप्लवम् | श्रीमदाश्वयुजेमासि यः कुर्यान्नक्तभोजनम् || प्. ६१(६४) घृताशनं प्रयुञ्जानः प्रसन्नात्माजितेन्द्रियः | वृषभं नीलकण्ठाभमुरोदेशे समुन्नतम् || विमुच्यदद्याद्रूद्राय गामेकां समलङ्कृताम् | विधिशेषमशेषेण पूर्वोक्तञ्च समाचरेत् || प्रयाणान्ते शिवस्थानं प्रयाति शिववद्वशी | स्वच्छमौक्तिकसङ्काशैर्विमानैस्सार्वकामिकैः || जीवं जीवकसंयुक्तैरिन्द्रनीलोपशोभितैः | गत्वा शिवपुरं शैवं पूर्वोक्ताल्लंभते गुणान् || शुशुभे कार्तिकेमासि यः कुर्यान्नक्तभोजनम् | क्षीरादन्नं प्रभुञ्जानः सत्यवादी जितेन्द्रियः || दद्याद्गोमिथुनं चापि कपिलाज्वलनप्रभम् | पूर्वोक्तं च विधिं कुर्याच्छिवतुल्यगुणो भवेत् || कल्पानलशिखा प्रख्यैर्महायानैर्मनोरमैः | महासिंहकृताटोपैश्शिववच्चष्टते वशी | मार्गशीर्षे शुभेमासे यः कुर्यान्नक्तभोजनम् | यवान्नं पयसायुक्तं भुञ्जानस्संयतेन्द्रियः || दद्याद् गो मिथुनं दिव्यं पाण्डरं समलङ्कृतम् | शिवाय सर्वं पूर्वोक्तं विधानं समुपाचरेत् || श्वेतपद्मसमैर्यानैः श्वेताश्ववरसंयुतैः | गत्वा शिवपुरं दिव्यं शिवतुल्यबलो भवेत् || अहिंसासत्यमस्तेयं ब्रह्मचर्यं क्षमाशमः | त्रिःस्नानञ्चाग्निहोत्रं च भूशयया नक्तभोजनम् || पक्षयोरूपवासेन चतुर्दश्यष्टमीं वसेत् | इत्येवमादि नियमा नाचरेच्च शिवं प्रति | शिवभक्ता च या नारी ध्रुवं सा पुरुषो भवेत् || स्त्रीत्वमप्युत्तमं सा चेत् कांक्षते शृणु तद्व्रतम् | उमामहेश्वरं नाम सदा प्रीति विवर्धनम् || अवियोगकरं शान्तं धर्मकामार्थसाधनम् | पौर्णमास्याममावस्यां चतुर्दश्यष्टमीषु च || नक्तमब्दं प्रकुर्वीत हविष्यं ब्रहमचारिणी || उमामहेश्वरप्रख्यं हैमं कृत्वा सुशोभनम् | राजतं वाथवर्षान्ते स्नापयित्वा घृतादिभिः || गन्धमाल्यैरलंकृत्य वस्त्रयुग्मैः सुशोभनैः | भक्ष्यैर्भोज्यैरशेषैश्च वितानध्वजचामरैः || भोजयेच्छिवभक्तांश्च दीनानाथांश्च भोजयेत् (तर्पयेत्) | स्वशक्त्यादक्षिणां दत्वा शिवमन्तेक्षमापयेत् || प्. ६२(६५) ताम्रकांस्यादिपात्रं वा सितवस्त्रावकुण्ठितम् | कृत्वाचायतनं मध्ये प्रतिमामुपकल्पयेत् || शिरसा धार्यतत्पात्रं वितानच्छत्रशोभितम् | ध्वजशंखादिविभवैः शिवस्यायतनं नयेत् || लिङ्गमूर्तेर्महेशस्य व्रतमेतन्निवेदयेत् | तद्वेद्यां स्थापयेत्पात्रं रूपशोभा समन्वितम् || ततः प्रदक्षिणी कृत्य प्रणिपत्यक्षमापयेत् | समाप्यैवं व्रतं पुण्यं शृणुयावत्फलं लभेत् || द्वादशादित्यसङ्काशैर्विमानैस्सर्वकामिकैः | यथेष्टमैश्वरे लोके रुद्रैः सार्धं प्रमोदते || कल्पकोटिसहस्राणि कल्पकोटि शतानि च | सा तस्यान्ते महाभोगैर्विष्णुलोके महीयते || ततः कर्मावशेषेण सर्वकामसमन्विता | ब्रह्मलोकं समासाद्य परमंसुखमाप्नुयात् || ब्रह्मलोकात्परिभ्रष्टा श्रीरिवप्रतिपूजिता | प्राजापत्यमवाप्नोति लोकं लोकनमस्कृता || भोगांस्तनसुखं भुक्त्वा सोमलोके वसेत् सुखम् | सोमादैन्द्रं पुनर्लोकमासाद्यैन्द्रं पतिं लभेत् || इन्द्रलोकाच्चगान्धर्वं सालोक्यं प्राप्यमोदते | गन्धर्वराजपतिना सार्धं भोगैरनेकधा || महारत्नप्रभैर्दीप्तैरूपशोभितमद्भुतम् | यक्षलोकं च संप्राप्य यथाकामं प्रमोदते || यक्षलोकपरिभ्रष्टा क्रीडते मेरुमूर्धनि | स्थानानि लोकपालानां क्रमादागत्यमोदते || आलोकालोकपर्यन्ते सर्वस्मिन् क्षितिमण्डले | यत्र क्वचित् सुखं दिव्यं तदशेषमवाप्नुयात् || एवं सा सर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् | क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् || युवानं रूपसंपन्नमशेषपृथिवीपतिम् | धर्मकामार्थमोक्षज्ञमित्थमासाद्यमोदते || ततः सा धर्मशेषेण भवतीश्वरभाविता | स्वकर्मवासनायोगात् पुनः प्रारभते शुभम् || शुभाच्च पुनरप्येवं यात्यायति सहस्रशः | यावन्नाप्नोतिनिर्वेदं तावद्भ्रमति कर्मणा || यावद्विवेकोवैराग्यं वैराग्याज्ज्ञानसंभवः | ज्ञानात् प्रवर्तते योगो योगाद् दुःखान्तमाप्नुयात् || प्. ६३(६६) याष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी | वर्षमेकं न भुञ्जीयात् महाभोगजिहीर्षया || वर्षान्ते प्रतिमां कृत्वा पूर्ववद्विधिमाचरेत् | स्नानाद्यत्तद्व्रतं प्राप्ता पूर्वोक्तान् लभते गुणान् || जाम्बूनदमयैर्यानैश्चतुर्द्वारैरलङ्कृतैः | गत्वा शिवपुरं दिव्यमक्षयं भोगमाप्नुयात् || शिवादिसर्वलोकेषु भोगान् भुक्त्वा यथेसितान् | क्रमादागत्यलोकेऽस्मिन्राजानं पतिमाप्नुयात् || यातामुपवसेदब्दं कृष्णामेकां पतिमाप्नुयात् || यातामुपवसेदब्दं कृष्णामेकां चतुर्दशीम् | वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् || पीतानुलेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् | पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत् | सप्तभूमैर्महायानैस्तप्तचामीकरप्रभैः | युगकोटिशतं साग्रं शिवलोके महीयते || शिवादिसर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् | क्रमादागत्य लोकेऽस्मिन् यथेष्टं पतिमाप्नुयात् || यामावास्यां निराहारा भवेदब्दं सुयान्त्रित | शूलं पिष्टमयं कृत्वा वर्षान्ते विनिवेदयेत् | शिवाय राजतं पद्मं सुवर्णकृतकर्णिकम् | भक्त्या विन्यस्य तन्मूर्ध्नि शेषं पूर्ववदाचरेत् || कामतोऽपि कृतं पापं ब्रूणहत्यादियत्कृतम् | तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः || महापद्मविमानेन नरनारी समाकुलम् (समन्विता) | युगकोटिशतं साग्रं शिवलोके महीयते | शिवलोकादि लोकेषु भुक्त्वा भोगान् यथेप्सितान् || इमं लोके क्रमात् प्राप्य राजानं पतिमाप्नुयात् | पौर्णमास्यामुपवसेदब्दमेकं दृढव्रता | वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् || सुविचित्रैर्महायानैर्दिव्यगन्धमयैः शुभैः | युगकोटिशतं साग्रं शिवलोके महीयते | यथेष्टमैश्वरे लोके भुक्त्वाभोगानशेषतः || क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् | या कार्तिकं शुभं मासं मेकभुक्तेन यापयेत् || क्षमाहिंसादि नियमैः संयुक्ताब्रह्मचारिणी | गुलाज्यमिश्रं पिण्याकं मासान्ते विनिवेदयेत् || प्. ६४(६७) अष्टम्यां च चतुर्दश्यांमुपवासरता भवेत् || इन्द्रनीलप्रतीकाशैर्विमानैस्सार्वकामिकैः | वर्षायुतशतं साग्रं शिवलोके महीयते | यथावत्सर्वलोकेषु भोगानासाद्य सर्वतः | क्रमादागत्यलोकेष्मिन् यथेष्टं प्रतिमाप्नुयात् || इत्येवं सर्वमासेषु विधिस्तुल्यः प्रकीर्तितः | एकभुक्तोपवासस्य फलं च सदृशं विदुः || क्षमासत्यं दयादानं शौचमिन्द्रियनिग्रहः | शिवपूजाग्निहवनं सन्तोषास्तेय भावनम् || सर्वव्रतेष्वयं धर्मः सामान्याद्दशधा स्मृतः | विशेषमपि वक्ष्यामि प्रतिमासं व्रतं प्रति || मार्गशीर्षे शुभेमासे वृषभं पिष्टनिर्मितम् | गन्धमाल्यैरलङ्कृत्य शिवाय विनिवेदयेत् || वृषयुक्तैर्महायानैर्वरभोगसमन्वितैः | वर्षायुतशतं साग्रं शिवलोके महीयते || सर्वदेवनिकायेषु संप्राप्यविपुलं सुखम् | क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् || पौष्यमासे पिनाकं तु गन्धमाल्यैरलंकृतम् | ताम्रकांस्यादिपात्रे वा कृत्वा दद्यात् पिनाकिने || महापुष्पकयानेन दिव्यगन्धप्रवाहिना | वर्षायुतशतं साग्रं रुद्रलोके महीयते | भुक्त्वा तु विपुलान् भोगान् अशेषपुरसंभवान् | संप्राप्यैवं क्रमाल्लोकान् यथेष्टं पतिमाप्नुयात् || माघेरथं चाश्वयुक्तं गन्धमाल्यानुशोभितम् | पिष्टलिङ्गसमायुक्तं कृत्वा यतनमानयेत् || महारथोपमैर्यानैः श्वेताश्ववरसंयुतैः | वर्षायुतशतं साग्रं शिवलोकेमहीयते || सर्वामरनिकायेषु प्राप्यभोगान् यथेप्सितान् | क्रमादागत्य लोकेऽमिन् यथेष्टं पतिमाप्नुयात् || फाल्गुने प्रतिमां पैष्टीं कृत्वा नृतसमन्विताम् | गन्धमाल्यैरलंकृत्य स्थापयेदीश्वरालये || यानैरप्रतिमैर्दिव्यैर्गेयनाट्यसमन्वितैः | कुलैर्वर्षायुतं साग्रं शिवलोके महीयते || सर्वामरनिकायेषु प्राप्यभोगात् सुदुर्लभान् | संप्राप्तेऽस्मिन् क्रमाल्लोके यथेष्टं पतिमाप्नुयात् || चैत्रे भवं कुमारं च कृत्वा पैष्टमलंकृतम् | स्थाप्यपात्र्यां यथोक्तायां मानयेच्छिवमन्दिरम् || प्. ६५(६८) शरदिन्दुप्रतीकाशैर्विमानैः सार्वकामिकैः | वर्षायुतशतं साग्रं शिवलोके महीयते || कर्मक्षयादिहागत्य पुत्रपौत्रसमन्विता | अभीष्टं पतिमाप्नोति लभेद्भोगान् सुदुर्लभान् || तण्डुलाढकपिष्टेन कृत्वाकैलासपर्वतम् | ईश्वरोमासमायुक्तं सर्वधातुविभूषितम् || कन्दरैर्निचितं(च्छीद्रै)चित्रैर्लवणप्रस्तसंयुतम् | सर्वरत्नसमायुक्तं स्थापयेदीश्वरालये || कैलासव्रतमित्येवं वैशाखे या समाचरेत् | कैलासकल्पैस्साधारैश्शिवलोके महीयते || शिवादिसर्वलोकेषु भुक्त्वाभोगानशेषतः | क्रमादागत्यलोकेऽस्मिन् नगेन्द्रेमोदते चिरम् || लिङ्गं पिष्टमयं कृत्वा ज्येष्ठमासे सवैदिकम् | भक्त्या संपूज्यगन्धाद्यैर्वस्त्रयुग्मेन वेष्टयेत् || उपशोभाविशेषैश्च तत्र जागरमाचरेत् | प्रतिपात्रे प्रतिपाद्यैर्नीत्वा चायतनेन्यसेत् || शुद्धस्फटिकसङ्काशैर्विमानैस्सार्वकामिकैः | वर्षकोट्यायुतं दिव्यं रुद्रलोके महीयते || भुक्त्वा भोगान् यथाकाममशेषपुरसंभवान् | क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् | गृहं पिष्टमयं कृत्वा चाषाढे सप्तभूमिकम् || सर्वबीजरसैश्चापि संपूर्णं शुभलक्षणम् | गृहोपकरणैर्युक्तं मुसलोलूखवादिभिः || सर्वरत्नादिभिश्चान्यैर्दासी शययाद्यलंकृतैः | एतैः पिष्टमयैः सर्वैः प्रदीपाद्युपशोभितैः | सर्वभक्ष्यसमायुक्तं गन्धमाल्यैरलंकृतम् || कृष्णरक्तसितैः पीतैर्ध्वजवस्त्रोपशोभितम् | चतुर्विधेन चरुणा संयुक्तं सर्वपैस्तथा || आषाढे पौर्णमास्यां तु गृहं स्थाप्य शिवाग्रतः | सर्वोपकरणोपेतं प्रणिपत्यन्यवेदयेत् || सप्तभौमैर्महायानैः सर्वभोगपरिप्लुतैः | वर्षकोटिशतं साग्रं शिवलोके महीयते || भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुत्तमान् | प्राप्नोति सर्वभोगाढ्यं सप्तभौमं गृहं भुवि || सर्वधातु समाकीर्णं विचित्रध्वजशोभितम् | निवेदयीत शर्वाय श्रावणे तिलपर्वतम् || प्. ६६(६९) स्वच्छेन्द्रनीलसङ्काशैर्यानैरप्रतिमैः शुभैः | वर्षकोटिशतं दिव्यं रुद्रलोकेमहीयते || संप्राप्यविविधान् भोगान् मनसश्च यथेप्सितान् | क्रमाल्लोकमिमं प्राप्य राजानं पतिमाप्नुयात् || कृत्वा भाद्रपदे मासे शोभनं शालिपर्वतम् | सुवर्णवस्त्रसंयुक्तं शिवायविनिवेदयेत् || सचित्रैर्महायानैस्सर्वभोगसमन्वितैः | वर्षकोटिशतं साग्रं रुद्रलोकेमहीयते || संप्राप्यविविधान् भोगाननेकपुरसंभवान् | क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् || कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् | सुवर्णं वस्त्रसंयुक्तं शिवाय विनिवेदयेत् || सुविचित्रैर्महायानैर्वरभोगसमन्वितैः | वर्षकोटिसहस्राणि रुद्रलोके महीयते || रुद्रलोकादिलोकेषु भुक्त्वाभोगान्यथेप्सया | संप्राप्तास्मिन् क्रमाल्लोकान् राजानं पतिमाप्नुयात् || धनधान्यादिसंयुक्तं सर्वबीजरसान्वितम् |(दिभिः) सर्वधातु समायुक्तं सर्वरत्नोपशोभितम् | शृङ्गैश्चतुर्भिस्संयुक्तं वितानच्छत्रशोभितम् || गन्धमाल्यैश्च धूपैश्च प्रदीपैश्चोपशोभितम् | विविधैर्गीतवृत्तैश्च शंखवीणादिभिः स्वनैः || ब्रह्मघोषैस्तथा पुण्यैर्मङ्गलैश्च विशेषतः | महाध्वजाष्टभिर्युक्तं नानाकुसुममण्डितम् || नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् | तस्य मूर्ध्निशिवं कुर्यात् सर्वदेवसमायुतम् || दैत्यगन्धर्वसिद्धैश्च सुरभूतगणैस्तथा | विद्याधराप्सरोनागैः ऋषिभिश्च विशेषतः || शालिपिष्टमयं सर्वं रूपं कुर्याद्विचक्षणः | देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् || एवं सर्वेषु देवेषु कुर्यादस्त्राण्यथाक्रमात् || शिवस्य महतीं पूजां कुर्याच्चरुसमन्वितम् | पूजयेत् सर्वदेवांश्च दशदिक्षुबलिं हरेत् || द्विजांश्च भोजयेत्सर्वान् शिवभक्तान् सदक्षिणम् | दीक्षितान् व्रतिनश्चान्यानमुगम्यतु साधकान् || आचार्यानुमते साध्वी नमेन्मेरुमुपस्थितम् | सर्वारम्भसमायुक्तं यथाविभवविस्तरम्(कल्पितम्) || निवेदयीत रुद्राय कार्तिकेनगमुत्तमम् | या कुर्यात् सकृदप्येवं तस्याः पुण्यफलं शृणु || प्. ६७(७०) सर्वागमेषु यत्पुण्यं कथितं मुनिभिः पुरः | तत्पुण्यं कोटिगुणीतं माप्नुयात् सा न संशयः || महारत्नप्रभैर्यानैस्सर्वकामसमन्वितैः | नृत्तगीतादिवाद्यैश्चाप्सरोगणसेवितैः(शोभितैः) || सूर्यकोटिसमप्रख्यैर्विमानैर्मेरुसन्निभैः | नरनारीसमाकीर्णैर्दिव्यगन्धवहैः शुभैः || देवदानवगन्धर्वैः स्तूयमाना गणाधिपैः | स्वच्छन्दा सर्वगाभूत्वा प्रयातीश्वरमन्दिरम् || कल्पकोटिशतं दिव्यं मोदते सा महातपाः | एवं सर्वेषु लोकेषु भोगान् भुक्त्वा यथेप्सितान् || पुण्यक्षयादिहागत्य महीपाल प्रिया भवेत् | सुरूपा सुभगा नित्यं भवेदीश्वरभाविता || यद्यत्कार्यं समुद्दिश्य नरनारीनपुंसकाः | पूजयन्ति शिवं भक्त्या तत्तदेवाशु जायते || मृण्मयं दारुजं शैलं पैष्टिकं वा सुकलिमतम् | कृत्वा गृहं महं वापि यथा विभवसंभवम् || सर्वोपकरणोपेतं सर्वधान्यैः प्रपूरितम् | शिवायेत्थं गृहं दत्वा सर्वकामानवाप्नुयात् || उक्त्वैकभक्तं हेमन्ते मासमेकं सुयन्त्रिता | मासान्ते च रथं कृत्वा चित्रवस्त्रोपशोभितम् || श्वेतैश्चतुर्भिस्संयुक्तं वृषभैस्समलंकृतम् | शोभितं ध्वजयूपाद्यैः छत्रचामरदर्पणैः | तण्डुलाढकपिष्ठेन कृत्वा लिङ्गं स वैदिकम् || विन्यस्य रथमध्ये तु पूजयेत् कृतलक्षणम् | तद्रात्रौ रथमार्गेण शंखभेर्यादिभिः स्वनैः || भ्रामयित्वा शनैः पश्चाच्छिवायतनमाप्नुयात् (न येत्) | तत्र जागरपूजाभिः प्रदीपाद्युपशोभितैः | प्रोक्षणीय प्रदानैश्च क्षपयेतशनैः क्षमाम्(ण) || प्रभाते स्नापनं कृत्वा तद्भक्तानां च भोजनम् | दीनानाथान्धकेभ्यश्च यथाशक्त्या च दक्षिणाम् || रथशोभासमायुक्तां शिवाय विनिवेदयेत् | भुक्त्वा च बान्धवैः सार्धं प्रणम्येशं गृहं व्रजेत् | सर्वव्रतानां परमंमस्मिन् धर्मसमाप्यते | व्रतं शिवरथं नाम सर्वकामार्थसाधकम् || सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | सर्वं शिवरथे नैव सा पुण्यफलभाग्भवेत् || सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः | त्रिसप्तकुलजैः सार्धं शिवलोके महीयते || प्. ६८(७१) भुक्त्वा च विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् | कल्पकोट्ययुतं साग्रं कल्पान्ते स महीपतिम् || युवानं रूपसम्पन्नं भर्तारं भोगसंयुतम् | लभते कुशलं नित्यं राजानं रतिलालसम् | पञ्चतूली समायुक्तां मृद्नींखट्वांसुशोभनाम् | सर्वोपकरणोपेतां शिवशययां प्रकल्पयेत् | शिवं देवी युतं कृत्वा पैष्टमस्यां निवेदयेत् || शिवज्ञानार्थतत्वज्ञमाचार्यं विनयान्वितम् | संपूज्यगन्धपुष्पाद्यैर्वस्त्रालंकारचामरैः | भक्ष्यभोज्यैरशेषैश्च ततः शययां निवेदयेत् || तत्रोर्णातूलतन्तूनां परिसंख्या तु यावती | तावद्वर्षसहस्राणि शिवलोके महीयते || शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः | क्रमादागत्यलोकेऽस्मिन् सिंहासनपतिर्भवेत् || दशगावस्सवृषभा वृषभैकादशी स्मृता | शिवाय विनिवेद्यैतामवधारयतत्फलम् || तत्रैकादशतुल्यात्मा बलभोगादिभिर्गणैः | शिवादिसर्वलोकेषु यथेष्टं मोदते सुखी || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | भुक्त्वा तु विपुलान् भोगान् अशेष पुरसंभवान् || तदन्ते ज्ञानमासाद्य प्रसादात् परमेष्ठिनः | विमुच्यमोहकलिलं स्वात्मन्येवा नु(व)तिष्ठति(ते) || वृषभं गोशतं दद्यात् शिवायातीवशोभनम् | त्रिसप्तकुलजैस्सार्धं शृणुयात् फलमाप्नुयात् || सूर्यकोटिसमप्रख्यैः सर्वकामसमन्वितैः | महायानैरसंख्यातैःरमरासुरपूजितैः || शतरुद्रबलश्चैव वीरभद्र इवापरः | गत्वाशिवपुरं दिव्यमशेषाधिपतिर्भवेत् | भुक्त्वा तु विपुलान् भोगान् प्रलये सर्वदेहिनाम् | देहकञ्चुकमुत्सृज्य स कैवल्यमवाप्नुयात् || सर्वज्ञः सर्वपरमः शुद्धः स्वात्मन्यव स्थितः | सर्वगः परिपूर्णश्च शिववत्पतिरव्ययः || यो दद्यादुभयमुखीं शिवाय सुशोभनाम् | सप्तद्वीपां क्षितिं दत्वा यत्फलं तदवाप्नुयात् || पादद्वयं शिरोर्धं च यथावत्सस्यनिर्गतम् | तथा गौः पृथिवी ज्ञेया तद्दातास्यान्महीपतिः || इति श्रीशिवधर्मशास्त्रे उपवासविधिसमयमुखी दानविधिर्दशमोध्यायः || एकादशोऽध्यायः नन्दिकेश्वर उवाच सर्वेषामेववर्णानां शिवाश्रमनिषेविणाम् | शिवधर्मः शिवेनोक्तो धर्मकामार्थमुक्तये || ब्राह्मणः क्षत्रियो वैश्यः स्त्रीशूद्रो वा शिवाश्रमी | वानप्रस्थो गृहस्थो वा यच्चान्यो वा शिवाश्रमी || स्वाश्रमादुत्तरे कुर्यात् पुष्पारामं सुशोभनम् | अन्यागारसमायुक्तमैशान्यामीश्वरालयम् || प्रदेशा संभवे कुर्याद्यत्रस्यात् संभवो भुवि | शिवाद्दक्षिणतः कुर्यात् तद्भक्ताभ्यागतालयम् || त्रिसन्ध्यमर्चयेदीशमग्निकार्यं च भक्तितः | द्विसंख्यमेककालं वा पूजयेद्भक्तितः शिवम् || असंपूज्य शिवं मोहात् न भुञ्जीतकदाचन | एष धर्मः परोज्ञेयश्शेषो भवति मानवः | कार्यातिपातसंरोध व्याधिविद्रविणादिषु || मनसा पूजयेद्भक्त्या वाचिकैर्वा जपादिभिः | शिवाग्रमाश्रितैः पूजा कर्तव्या यत्नतः सदा || मनसा पूजयेद्योगी पुष्पैर्वारण्यसंभवैः | शिवार्थं पुष्पहिंसा या न भवेत्सतु हिंसकः || शिवार्चाग्नि परो नित्यं तद्भक्तो तिथि पूजकः | पर्वमैथुनवर्जी स्यात् श्रीमान् शिवगृहाश्रमी || देवाग्न्यतिथिभैक्षार्थां पचेन्नैवात्मकारणात् | आत्मार्चयः पचेन्मोहात् नरकार्थं स जीवति | देवार्थं पचनं येषां सन्तानार्थं च मैथुनम् | स्वर्गार्थं जीवितं तेषां नरकार्थं विपर्यये || वित्तात् तृतीयभागेन प्रकुर्वीत शिवार्चनम् | प्रकुर्वीत तदर्धे न यतो नित्यं हि जीवितम् || न्यायो पार्जितवित्तः स्यादन्यायान् परिवर्जयेत् | अन्याये नार्चितैर्द्रव्यैः नरकार्थं स जीवति | यः शिवब्रह्मचारी स्यात् स शिवार्चाग्नि तत्परः || भवेज्जितेन्द्रियः शान्तो नैष्ठिको भौतिकोऽपि वा | सर्वसङ्गविनिर्मुक्तः कन्दमूलफलाशनः | शिववैखानसो ज्ञेयः शिवार्चाग्निपरो वने || निर्गतः सर्वसंगेभ्यः शिवध्यानरतः सदा | ज्ञेयः शिवयतिश्चैव भस्मनिष्ठो जितेन्द्रियः || रुद्राक्षगणहस्तः स्यात् जटां चैकाञ्चमस्तके | लिङ्गं शिवाश्रमस्थानां भस्मनैव त्रिपुण्ड्रकम् || हस्ते मूघ्न्युपवीते वा रुद्राक्षं धारयेत् तु यः | सोर्ध्वगः सर्वभूतानां रुद्रलोकन्तु गच्छति || प्. ७०(७३) रुद्रभक्तैः शिरस्येका धार्या रुद्रजटा सदा | ध्वंसिनी दुष्टसत्वानां रुद्रत्वं च तथाप्नुयात् || सितेन भस्मना कुर्यात् त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् | सर्वपापविनिर्मुक्तः शिवेनसहमोदते | रुद्राग्नेर्यद्वलं वीर्यं तद्भस्मपरिकीर्तितम् || ध्वंसनं सर्वदुष्टानां सर्वपापविशोधनम् | योगीसर्वांगिकस्नानमापादतलमस्तकम् || त्रिसन्ध्यमाचरेन्नित्यमाशुयोगमवाप्नुयात् | यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः || कुलैकविंशमुत्तार्य स गच्छेत्परमां गतिम् | भस्मस्नानं जलस्नानमसंख्येयगुणाधिकम् || तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् | सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्फलं लभते सर्वं भस्मस्नानं समाचरेत् || महापातकयुक्तो वा युक्तो वा सर्वपातकैः | भस्मनापरमं स्नानं पवित्रं नैव विद्यते || उक्तैवं मुनिदेवेभ्यः स्नातो देवः शिवः स्वयम् | तया प्रभृति ब्रह्माद्याः मुनयश्च शिवार्थिनः || सर्वं सर्वं सुयत्नेन भस्मस्नानं प्रचक्रिरे | तस्मादेतच्छिवस्नानमाग्नेयं यः समाचरेत् || अनेनैव शरीरेण स रुद्रो नात्र संशयः | दुश्शीलः शीलयुक्तो वा यो वा को वा फलार्थिभिः || भूतिशासनसंयुक्तः सपूज्योराजपुत्रवत् | गुणवत्पात्र पूजायानस्याच्छासनपूजनम् || शासनं पूजयेत्तस्मादविचारं शिवज्ञया | शिवाज्ञा पूजनात् साक्षाच्छिवो भवति पूजितः || अविकल्पमतिस्तस्मात् पूजयेच्छिवशासनम् | छद्मनापि हि यो धत्ते भूतिशासनमैश्वरम् | सोऽपि यां गति माप्नोति न तां क्रतु शतैरपि || आचम्यतोयविधिना निर्लेपः शिवभस्मना | गन्धलेपविशुद्धार्थं नित्यमद्भिरुपस्पृशेत् || गन्धलेपविहीनो हि पि भावदुष्टेन शुध्यति | ष्टो भावशुद्ध्या भवेच्छुद्धिः शुद्धभावस्ततो भवेत् | स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसे || पञ्चस्नानानि विप्राणां विहितानि विशुद्धये | वारुणं वारुणस्नानमाग्नेयं भस्मना भवेत् || प्. ७१(७४) वृष्ट्या सातपया दिव्यं वायव्यम् रजसा गवाम् | मानसं ध्यानमन्त्रादि विहितं विश्वयोनिना || उदकुम्भसहस्रेण मृद्भाराणां शतेन च || आमृत्यो आचरन् शौचं भावदुष्टो न शुद्ध्यति || भावपूतं भवेच्छौ चं वस्त्रपूतं जलं पिबेत् || दृष्टिपूतं न्यसेत् पादं सत्यपूतं वचो वदेत् | जलाकलापधारी स्यात् पक्षादावपनं भवेत् || यथैव पुण्यं दीक्षायां तत्पुण्यं पवने भवेत् | जटीमुण्डीशिखीवापि भिक्षाशी विगतस्पृहः || मौनी भूतानुकम्पी च यतिश्शान्तिमतिर्भवेत्(श्चरेत्) | माधूकरं चरेद्भैक्षमेकान्नं परिवर्जयेत् | उपवाससमं भैक्ऽमेकान्नं गृहीणां स्मृतम् || यः सर्वसङ्गनिर्मुक्तः शूद्रश्शिवपरायणः | सोऽपीहवपनं कृत्वा योगीन्द्रानुचरो भवेत् || वसेदायतने नित्यं स गणः शिवधार्मिकः | पुष्पारामैककर्मात्मा पुष्पपालक्रियापरः || त्रिस्नानपूजासंयुक्तः कौपीनाच्छादकः सदा | योगिनां भक्तियोगेन योगस्थानमवाप्नुयात् | शिवध्यानपराश्शान्ताश्शिवभक्तिपरायणाः || भावपूताश्शिवस्यैते शिवाश्रमसमाश्रिताः | महाव्रताष्टकं धार्यमीशेनोक्तं शिवार्थिनाम् || सर्वव्रतानां परममस्मिन् धर्मस्समाप्यते | शिवेभक्तिस्सदाक्षान्तिरहिंसा सर्वदाशमः || सन्तोषस्सत्यमस्तेयं ब्रह्मचर्यं तथाष्टमम् | यथासंभवपूजाभि कर्मणामनसागिरा || शिवेभक्तिः सदाकार्या तद्वच्च शिवयोगिषु | स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् || भयदारिद्र्यदुःखेभ्यः (रोगेभ्यः) तेषां कुर्यात् प्रियाणि च | शिवस्य परिपूर्णस्य किं नामक्रियते नरैः | यत्कृते शिवभक्तानां तच्छिवस्य कृतं भवेत् || सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः | ते च प्रयत्नादाराध्यास्तेषां सन्निहितो हरः || महेश्वरस्य यो भक्तः शिवार्चनरतः सदा | आज्ञां कृत्वा यथान्यायमश्वमेधफलं लभेत् | नित्यं शिवकथासक्तो नित्यं शिवपरायणः || अर्चयित्वा यथान्यायं गाणापत्यमवाप्नुयात् || प्. ७२(७५) शिवाश्रमगतं भक्त्या शिवभक्तं प्रपूजयेत् || स्वागतासनपाद्यार्घ्यैर्मधुपर्कादि भोजनैः | यः स्वागतं नमस्कारं कुर्याद्वाप्यभिवादनम् || दशवर्षसहस्राणि सोऽग्निलोके महीयते | प्राप्ताय शिवभक्ताय यो दद्यात् स्वयमासनम् || विंशद्वर्षसहस्राणि पुरन्दरपुरे वसेत् | शिवभक्ताय शान्ताय पादौ प्रक्षाल्यभक्तितः || घृताभ्यंगं ततो दत्वा विष्णुलोके महीयते (लोके वसेन्नरः) | प्राप्ताय शिवभक्ताय पाद्याचमनपूर्वकम् | योऽर्घ्यं निवेदयेद्भक्त्या सूर्यलोकं स गच्छति || शिवभक्तद्विजं प्राप्तं मधुपर्काद्युपक्रमात् | भोजयित्वा यथान्यायं शिवलोके महीयते || श्रान्तं संवाहनं कृत्वा सोमलोके महीयते | प्रतिश्रयप्रदानेन हैमं स्वर्गे गृहं भवेत् (लभेत्) || जलं सुशीतलं दत्वा सर्वकामानवाप्नुयात् | लभेद्दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम् || मृदुशययाप्रदानेन सिंहासनपतिर्भवेत् | यो दद्यादम्भसा स्नानं वारुणं लोकमाप्नुयात् || स्वेदबिन्दुपरीतांगमध्वगं श्रमकर्शितम् | संवीज्यतालवृन्तेन वायुलोके महीयते || क्षुत्पिपासा तुरं श्रान्तं मलीनं चैव रोगिणम् | पालयित्वा यथाशक्त्या सर्वपापैः प्रमुच्यते || रोगार्तस्य शिवं कृत्वा भेषजाद्यैः प्रयत्नतः | युगकोटिशतं साग्रं शिवलोके महीयते || सुदुःखार्णवनिर्मग्नं हाहाभूतमचेतनम् || समुद्धृत्य यथा शक्त्या सर्वकामानवाप्नुयात् | पतिताभिशस्तसंकीर्ण श्वचण्डालादिपक्षिणाम् | कारुण्यात्सर्वभूतानां देयमन्नं स्वशक्तितः || अत्यल्पमपिकारुण्याद्दत्तं भवति चाक्षयम् | तस्मात्तु सर्वभूतेभ्यः करुणादानमुत्तमम् || अभावे तृणभूम्यम्बु पात्रेन्धनफलादिकम् (वा) | दत्वागतनराणां च स्वर्गं योऽनिप्रियेण वा || न ही दृक्स्वर्गसोपानं यथा लोके प्रियं वचः | इहामुत्रसुखं तेषां वाग्येषां मधुरा सदा | अमृतस्यन्दिनीं वाचं चन्दनस्पर्शशीतलाम् || धर्माविरोधिनीमुक्त्वा सुखमक्षयमाप्नुयात् | प्. ७३(७६) अलं दानेन विप्रेन्द्र यजनाध्ययनेन वा | इदं ते स्वर्गसोपानममलं यत्प्रियं वचः || प्रत्युत्थानाभिगमनमनुव्रज्यं प्रियं वचः | पूर्वाभि भाषिणं दृष्ट्वा प्रत्येकं स्वर्गहेतवः || संपृच्छेदागतं भक्त्या स्वागतं विनयेन तु | गमनेप्यस्य वक्तव्यं पन्थानः सन्तुते शिवाः || शिवं भवतु ते नित्यमशेषार्थप्रसाधकम् | आशीर्वादमिदं वाच्यं सर्वकार्येषु सर्वदा || नमस्कारादिवादेषु स्वस्तिमङ्गलवाचने | शिवं भवतु ते नित्यं प्रब्रूयात् सर्वकर्मसु || एवमादि शिवाचारमनुतिष्ठन् शिवाश्रमी | अशेषपापनिर्मुक्तः शिवलोके महीयते || शिवभक्तेषु या भक्तिः क्रियते हि सदानरैः | शिवे भवति सा नित्यं भक्तिर्भक्तैरनुष्टिता || आक्रुष्टस्ताडितो वापि यो नाक्रोशेन्नताडयेत् | वागाद्यविकृतस्वस्थः क्षान्तिरेवाभिधीयते || सर्वेषामेवतीर्थानां तीर्थं ज्ञानस्य पारगः | ज्ञानातीर्थात्परं तीर्थं यत्पूर्णं क्षान्तिवारिणा || ज्ञनं योगं तपोजप्यं यज्ञदानादिसत्क्रियाम् || क्रोधनस्य वृथायस्मात् तस्मात् क्रोधं विवर्जयेत् || मर्मास्थि प्राणहृदयं निर्दहेदप्रियं वचः | नवाच्यमप्रियं तस्माच्छिवभक्ते विशेषतः || क्षमादानं क्षमासत्यं क्षमाहिंसा क्षमाश्रुतम् | क्षमास्वर्गश्च मोक्षश्च क्षमयेतज्जगद्धृतम् || सशूरस्सात्विको विद्वान् स तपस्वी जितेन्द्रियः | ये नाशुक्षान्ति बाणेन क्रोधशत्रुर्विदारितः || निर्मलैः क्षान्तिसलिलैर्लोकमासाद्यशीतलैः | इह सौख्यमवाप्नोति परत्र च शिवां गतिम् || आत्मवत्सर्वभूतानां यो हिताय शिवाय च | सर्वथा वर्तते नित्यमहिंसेयमुदाहृता || सर्वशास्त्राणि वेदाश्च यज्ज्ञात्वा लभते फलम् | (या) न हिंसन्ति भूतानि तस्य पुण्यं ततोऽधिकम् || त्रैलोक्यमखिलं दद्यादपि यो रत्नपूरितम् | चरेत्तपांसि सर्वाणि स तत् तुल्यमहिंसया || अहिंसाख्यः परोधर्मः शक्तानां परिकीर्तितः | अशक्तानामयं धर्मो दानयज्ञादि पूर्वकम् || प्. ७४(७७) नान्तः परं प्रपश्यामः क्वचिदप्यागमेवयम् | पुंसामभयदानात् तु दानमद्भुतदर्शनम् || सर्वभूतामयं दत्वा यश्चरेच्छान्तमानसः | इहैव सर्वभूतेभ्यो भयं तस्य न विद्यते || यो न हिंसन्ति भूतान्ति स्थावराणि चराणि च | सर्वदुःखविनिर्मुक्तः परांशान्तिमवाप्नुयात् || वाचारमन्ति पापैश्च ह्यतिक्रूरानराधिपाः (धमाः) | आभूतसंप्लवं यावत् पच्यते नरकेषु ते || स्वदेशे यो नृपः कुर्यात् प्रणिघातनिवारणम् | स नृपः सह देहेन नन्दते विभवैश्चिरम् || देहान्ते च महाभोगैः समस्तकुलसंयुतः | कल्पकोटिशतं साग्रं शिवलोके महीयते || स्वात्मार्थं वा परार्थं वा समस्तेन्द्रियसंयुतः | नाकार्ये संप्रवर्तेत तदाहुश्शमलक्षणम् || यः प्रशान्तेन्द्रियग्रामस्सदा चन्द्रांशुनिर्मलम् | संप्राप्नोति शिवस्थानं शान्तश्शान्तेन चेतसा || यथाकालोपपन्नेभ्यो न्यायवृत्त्या गमेन च | उत्पन्नार्थेन यस्तोषस्ससन्तोषः प्रकीर्तितः || अतीतानागतार्थेषु वर्तमानेषु सर्वदा | ना सक्तिर्न स्मृतिर्वापि सन्तोषोऽयं परैः स्मृतः | तेन सर्वमखैरिष्टं तेनावाप्तं च तत्पदम् | येन तृष्णाग्र(गृ)हं त्यक्त्वा सन्तोषस्सम्यगाश्रितः || सन्तोषैश्वर्ययुक्तानां यत्सुखं शान्तचेतसाम् | देवासुरमनुष्याणां कुतः स्वप्नेऽपि तत्सुखम् || स्वानुभूतं स्वदृष्टं च यः पृष्टोऽर्थं न गूहते | यथाभूतार्थकथनमित्येतत् सत्यलक्षणम् | परपीडाविनिर्मुक्तं यावत् स्याद् वचनं शिवम् || अश्वमेधायुतं पुण्यं सत्यं च तुलयाधृतम् | अश्वमेधायुतात्सत्यमधिकं दर्शितं गुणैः || सत्ये प्रतिष्ठितं ज्ञानं धर्मं सत्ये प्रतिष्ठितम् | सत्ये प्रतिष्ठितं शौचं सत्ये मोक्षं प्रतिष्ठितम् || सत्ये प्रतिष्ठितं शौच सत्ये मोक्षः प्रतिष्ठितम् || स्वामिनारक्ष्यमाणानामुत्सृष्टानां च संभ्रमात् | परस्वानादानमेतदेतदस्तेयलक्षणम् || अलोभेन परस्वेषु यो मनामपि वर्तते | कर्मणा मनसा वाचा स तृप्तः शिवतां व्रजेत् || प्. ७५(७८) मैथुनस्या समाचारस्तदचित्तमजल्पितम् || लक्षणं ब्रह्मचर्यस्य समस्तेन्द्रियसंयमः | ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः || ब्रह्मचर्ये स्थितं ज्ञानं ब्रह्मचर्ये स्थितं क्षमा | ये स्थिता ब्रह्मचर्येण ते नित्यं संस्थिताश्शिवे || एकरात्रस्थितस्यापि या गतिर्ब्रह्मचारिणः | गृहस्थेन न सा शक्या प्राप्तुं यज्ञशतैरपि || यस्संभवे समुत्सृज्य चेतसास्ते निराकुलम् | अहोयति वरः श्रीमानुपयातिमहत्तपः | पर्वमैथुनवर्जीयः परदारविवर्जितः || ब्रह्मचारीसमः सोऽपि ज्ञेयश्शिवहृताश्रमी | शिवाग्न्यतिथिगुर्वर्थं कुर्वन् कर्माणि सर्वतः || अहिंसकस्सविज्ञेय एतदप्याश्रमत्रयम् | समाप्यगुरुकार्यायोपयुक्ते सदानरः || तस्य सिध्यन्ति कार्याणि मनसा चिन्तितानि च | एषधर्मद्रुमः श्रीमान् नष्टशाखाश्शिवोद्भवः || न शक्यो विस्तराद्नक्तुमुपशाखा प्रभेदतः | ये पठन्ति शिवे भक्ता आचाराध्यायमुत्तमम् || त्रिसप्तकुलजैस्सार्ध शिवलोकं व्रजन्ति ते | इति शिवधर्मशास्त्रे एकादशोध्यायः || अथ द्वादशोध्यायः नन्दिकेश्वर उवाच अथ संक्षेपतो वक्ष्ये शिवभक्तानुकम्पया | आद्यं शाखोपशाखार्थं शिवभक्तिसमुद्भवम् || क्वचिद्गच्छन् यथा पश्यन् न शिवलिङ्गमपूजितम् | तदा संपूज्य यो गच्छेत् स रुद्रो नात्रसंशयः | स्नानं नैवेद्यवस्त्राद्यमाददीत प्रियाण्यपि || व्यक्तं तच्छिवमुद्दिश्य तदादानेन यत्फलम् || दृष्ट्वा यतनमासाद्य नमस्कृत्य शिवं व्रजेत् | चतुष्पथ नदी शैलं शिवयोगिनमेव च || अवतीर्य नमस्कृत्य दृष्ट्वा लिङ्गं यतव्रतः | हस्तियानासनाश्वेभ्यश्शिवयोगी तपस्विनाम् || मृगांश्चोष्ट्रवयो मत्स्यमांसं लशुनगृगतनम्? | अवकट्यार्तवीयानि कुत्सितांश्च विवर्जयेत् || सर्वदानोग्रतपसामश्वमेधायुतस्य च | फलं प्राप्नोत्ययत्नेन मत्स्यमांसविवर्जनात् || सर्वदोषाश्रयं मद्यं न पिबेच्छिवभक्तितः | क्वमद्यं क्व शिवेभक्तिः क्वमांसं क्व शिवार्चनम् || प्. ७६(७९) सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्सर्वं लभते पुण्यं यो मद्यं परिवर्जयेत् || गर्भादि सर्वसंस्कारैश्श्मशानान्तैर्न भोजनम् | रजस्वलाभिः संस्पृष्टं शिवभक्तो विवर्जयेत् || न गो ब्राह्मण भस्माग्नि लिङ्गच्छायां पदा स्पृशेत् | न लङ्घयीत निर्माल्यमत्सु तिष्ठेन्ननग्नतः || वारयेच्छिवनिर्माल्यं भक्त्या लोभान्नभक्षयेत् | भक्षणान्निरयं गच्चेत्तद्विलङ्घ्य च मूढधीः || न तस्य स्नानपूजाद्यं प्रतिगृह्णाति शङ्करः | नैव नैवेद्यनिर्माल्यं मलभक् पूजयेच्छिवम् || भूप्रदेशं यथा कश्चित् स्वदेहमलभूषितम् | नाश्रयीत तथा रुद्रो नरं निर्माल्यभूषितम् || तस्मान्न संस्पृशेल्लिङ्गं नरो निर्माल्यदूषितः | असंस्पृश्यो भवेत् सोऽपि यो यस्याङ्गमलं ग्रसेत् || यत्र नैवेद्य निर्माल्य सङ्कीर्णकलशादिभिः | स्नानादि क्रियते भक्त्या न तद् गृह्णाति शङ्करः || मूर्तयोयाश्शिवस्याष्टौ तासु निन्दां विवर्जयेत् | गुरौ च शिवभक्तेषु नृपसाधु तपस्विषु || अष्टम्यादिषु सर्वेषु पक्षयो रमयोरपि | श्वश्रुकर्माञ्जनाभ्यङ्ग मैथुनादिविवर्जयेत् || कुर्याद्विशेषतः पूजां नक्तं चात्र समाश्रयेत् | स्त्रीशूद्रमत्स्यमांसादीन् यत्नात् पर्वसुवर्जयेत् || त्रिकालमेककालं वा नित्यस्नानं समाचरेत् | शौचं च मृज्जलैः कुर्याद्गन्धलेपापनुत्तये | योऽश्नीयादन्नमश्नातः पापमद्यात् स केवलम् | तस्मात् स्नात्वा प्रभुञ्जीत भस्मना सलिलेन वा || प्रातः स्नात्वाम्भसा गच्छेद्भस्मना वा शिवं पदम् | त्रिसन्ध्यमाचरेद्यस्तु शिवग्नि गुरुतत्परः || पावकमुत्सृज्यत्रिसप्तकुलमुद्धरेत् |? कुर्यात्प्रतिचतुर्मासं महापूजाप्रवर्तनम् || भोजनं शिवभक्तानां शक्त्यादानं च कल्पयेत् | त्रिसप्तकुलसंयुक्तः समस्तैश्वर्यसंयुतः | वसेच्छिवपुरे नित्यं चातुर्मास्य प्रवर्तनात् || देवे सर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च | शिवं सम्पूज्य नैवेद्यैः भोजयेच्छिवयोगिनम् || ऋषयः पितरः सर्वाश्च शिवमाश्रित्य संस्थिताः | प्रीते शिवे तु ते सर्वे सुप्रीताः स्युर्न संशयः || ज्ञानवैराग्यसंछन्नं भस्मनिष्ठं जितेन्द्रियम् | भोजयेच्छान्तमनसं श्राद्धेषु शिवयोगिनम् || प्. ७७(८०) यदीश्वरादि तत्वानां परिज्ञानं विवेकतः || भवेत् साधर्म्य वैधर्म्यात् तस्य ज्ञानस्य लक्षणम् | नानिष्टं द्वेष्टि संप्राप्तं न चेष्टमभिनन्दति | प्रीतितापविषादानां वैराग्यादति वर्तते || न धर्मनिष्ठा प्रतिष्ठस्य दिवसेनापि यत्फलम् || नात(श्च)क्यं गृहस्थेन प्राप्तुं युगशतैरपि | वश्येन्द्रियः प्रसन्नात्मा यो न द्वेष्टि न काङ्क्षति || शब्दादिविषयान् भोगान् स विज्ञेयो जितेन्द्रियः | ज्ञानवैराग्यसम्पन्नः शिवश्शान्तेन चेतसम् || युक्तष्षडङ्गयोगेन शिवयोगी सकीर्तितः | शिवधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः || ज्ञानवैराग्ययुक्तस्य शिवयोगः प्रवर्तते | शिवयोगाच्च सर्वज्ञः परिपूर्णस्सुनिर्वृतः || सर्वेषामेव भूतानां त्रैवर्णाः पुरुषावराः | पुरुषेभ्यो द्विजश्रेष्ठाः द्विजेभ्यो ग्रन्थपारगाः || ग्रन्थविद्भिश्च विज्ञेयास्तेभ्यस्सूक्ष्मार्थचिन्तकाः | अर्थविद्भिश्च नानार्थं प्रतियु(बु)द्धो विशिष्यते || नानार्थविद्भ्यः कोटिभ्यो विशिष्टः योगिनः स्मृताः | योगिशकोटिकोटिभ्यो विशिष्टः शिवयोगिराट् | योगज्ञा योगसिद्धाश्च पितरो योगसंभवाः || भुक्ते प्रीणन्ति ते तस्माद् विशिष्टश्शिवयोगिभिः | सर्वयज्ञतपोदानैः कृतैर्दत्तैश्च यत्फलम् | तत्फलं लभते सर्वं सम्पूज्य शिवयोगिनम् || पञ्चाग्निर्द्रव्य कालात्मा दक्षिणाहवितृत्विजः | ऋग्यजुः सामसंयोगाद्वेदयज्ञः प्रकीर्तितः || ब्रह्मचर्य जपोमौनं क्षान्तिराहारलाघवम् | इत्येतत्तपसोरूपं सुघोरं पञ्चलक्षणम् || यद्यदिष्टं विशिष्टं च न्यायप्राप्तं च यद्भवेत् | तत्तद्गुणवते देयमित्येतद्दानलक्षणम् || निवर्तनसहस्राढ्यां सर्वसस्यप्ररोहिणीम् | दद्याद्भूमि जलोपेतां भूमिदानं तदुच्यते || एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् | संपूर्णायां द्विजः कश्चित् महीदानं तदुच्यते || कन्यामलङ्कृतां दद्याद्यज्विने गुणसंवृताम् | द्विजाय वेदविदुषे कन्यादानं तदुच्यते || सर्वदोषविनिर्मुक्तां तरुणीं सुपयस्विनीम् | योगामलं कृतां दद्यात् तद्गोदानमुदाहृतम् || मध्यमोत्तमवस्त्राणि यो दद्यादहतानि व || एतत् समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् || प्. ७८(८१) ब्रह्मचारी समाधिस्थः शान्तः शीलपरायणः | अहोरात्रे(न्न)भुञ्जीत उपवासस्य लक्षणम् || चत्वारिंशत्समायुक्तं पिण्डानां हि शतद्वयम् | मासेनाद्याद्यथा काममिति चान्द्रायणं व्रतम् || स्मृतम् || ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेन्द्रियैः | देवैश्च सेवितं तोयं क्षितेस्तीर्थं तदुच्यते || रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत् | मृतानां तेषु रुद्रत्वं शिवक्षेत्रेषु देहिनाम् || दानान्यावसथं कूपमुद्यातं देवतालयम् | तीर्थेष्वेतानि यः कुर्यात् सोऽक्षयं फलमाप्नुयात् || क्षान्तिः स्पृहा दया सत्यं दानं शीलं तपः श्रुतम् | एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम् | यज्ञोपवासदानानि तपस्तीर्थफलानि च | संपूर्णं लभते भक्तं सम्पूज्यशिवयोगिनम् || शिवेभक्तिः क्षमासत्यमशेषेन्द्रियसंयमः | सर्वभूतेषु मैत्री च शिवधर्मस्य लक्षणम् || शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः | इत्येतत्त्रिविधं ज्ञेयं शिवपात्रस्य लक्षणम् || शिवमुद्दिश्य दातव्यमनपेक्ष्य गुणान्तरम् | वित्तमीश्वरभक्तस्य शिवदानस्य लक्षणम् || शिवभक्तं द्विजश्रेष्ठं यः श्राद्धादिषु भोजयेत् | कुलानां शतमुद्धृत्य शिवलोके महीयते | बहुनात्र किमुक्तेन शिवभक्तन्तु भोजयेत् || शिवभक्तेन यद्भुक्तं साक्षाद्भुक्तं शिवेन तत् | द्विजानां वेदविदुषां कोटिं संभोज्य यत्फलम् || यतये वीतरागाय भिक्षादानेन तत्समम् || तस्माच्छ्रद्धा विशेषेण पुण्येषु दिवसेषु च | शिवमुद्दिश्य विप्रेन्द्रान् शिवभक्तांस्तु भोजयेत् || असंयतः संयतो वा सर्वावस्थां गतोऽपि वा | यो वा को वा शिवे भक्तः शिववत्पात्रमुत्तमम् || संपर्कादर्थलोभाद्वा यो हि रुद्रं प्रपूजयेत् | सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि | तस्मान्नत्म्याश्च पूज्यश्च रक्षणीयश्च सर्वदा || नाममात्रप्रसक्तोऽपि क्षणार्थमपि यः शिवे || समुनिस्समहासाधुः स योगी स शिवं व्रजेत् | ग्र(गृ)हेश्राद्धस्य यत्पुण्यमरण्ये तच्छताधिकम् || प्. ७९(८२) तन्नदीष्वयुतं ज्ञेयमनन्तं स्याच्छिवालये | निवेद्य यतये सम्यगासनं मृदुवेत्रजम् || दारुदन्तमयं वापि सिंहासनपतिर्भवेत् | कौपीनाच्छादनं वासा निवेद्य शिवयोगिने || युगकोटिसहस्राणि शिवलोके महीयते | और्णं प्रावरणं दत्वा विस्तीर्णं शिवयोगिने || रोम्णिरोम्णिसुवर्णस्य दत्तस्य फलमश्नुते | मृगव्याघ्रादिकं चर्म तिलपिष्टममर्दितम् || मृदुरक्तकषायेण यो दद्याच्छिवयोगिने | यावत् तद्रोमसंख्यानां मृगव्याघादि चर्मणि || तावद् वर्षसहस्राणि शिवलोके महीयते | जलस्थलपवित्राणि यो दद्याच्छिवयोगिने || त्राणार्थं सूक्ष्मजन्तूनामब्दलक्षं वसेद्दिवि | त्रिविष्टब्धसमायुक्तं यः प्रदद्यात् कमण्डलुम् || महातपांसि यत् कृत्वा पुण्यं तत् सकलं भवेत् | लभेत् | मृदुवासश्च सुश्लष्णं प्राणि दोषविवर्जितम् || निवेद्य शिवयोगिभ्यः सर्वयज्ञफलं लभेत् | मृद्भस्माधारपात्राणि वंशालाबु कृतानि च || निवेद्य शिवयोगिभ्यस्सर्वतीर्थफलं लभेत् | दत्तयापनमुद्दिश्य निवेद्यशिवयोगिने || दिव्यस्त्री भोगसंयुक्तं दिव्यरम्यं पुरं लभेत् | योगपट्टोपवीतानि निवेद्य शिवयोगिने || वस्त्रयुग्मसहस्रस्य दत्तस्य फलमाप्नुयात् | मृद्वंशालाबुदार्वाद्यं सुकृतं भैक्षभोजनम् || निवेद्य शिवयोगिभ्यः सदासत्रफलं लभेत् | शिवभक्ताय यो दद्यादुपानात् काष्ठपादुके || स चराश्वसहस्रस्य दत्तस्य फलमाप्नुयात् | कल्माषदण्डं यो दद्यादन्नं वा शिवयोगिने || बलावष्टम्भसंयुक्तं सस्यादण्डाग्रनायकः | तालवृन्तातपत्रं वा यो दद्याच्छिवयोगिने || एकच्छत्रं स भुञ्जीत मण्डलं शतयोजनम् || वाताश्रयविशेषेषु दण्डेषु शिवयोगिने | भवेत् क्षितिपतिश्श्रीमान् कुलाधारो गुणान्वितः | शिवज्ञानाभि युक्ताय यो दद्यात् पुस्तकं महत् || युगकोटिशतं दिव्यं शिवलोके महीयते | भवेदिहागतः श्रीमान् सुखाढ्यो वेदपारगः || प्. ८०(८३) सर्वज्ञानार्थवक्त्रा च बृहस्पति समो भवेत् | शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः || शिवं संप्राप्य तुल्यात्मा सर्वतुल्यबलो भवेत् | यः कुर्यात्कारयेद्वापि वपनं शिवयोगिनाम् || वर्षलक्षं महाभोगे शिवलोके महीयते || रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् || तन्मालया सदाहस्ते रुद्रश्च क्रमते क्षितौ | रुद्राक्षणि स्वयं रुद्रो ये रुद्रानु चरास्सदा || रुद्राक्षधारणात् तस्मादिह रुद्रः परत्र च | इति रुद्राक्षरुद्राणां धत्ते मालां सदाकरे || शतार्धार्धप्रमाणेन रुरुद्रो नात्रसंशयः | जपंश्च रुद्रमन्त्राणां कोटिकोटि गुणो भवेत् || मूर्ध्निहस्तो पवीते वा कृत्वा रुद्राक्षमालिकाम् | यस्य भुञ्जीततद्भुक्तं स्वयं रुद्रैर्नसंशयः || रुद्राक्षधारणात् तस्मान् नित्यमेव प्रशस्यते | परस्यानुग्रहार्थाय ब्राह्मणस्य विशेषतः || यतिमात्रोपकरणं दत्वाल्पमतिभक्तितः | वर्षलक्षं महायानैश्शिवलोके महीयते || कुर्यादावसथं सौख्यं गुप्तं च शिवयोगिनाम् | शिवालये तु ते यावत् तावत् पुण्यं विशेषतः || यथा शिवस्तथा योगी यथा योगी तथा शिवः | तेन योगीन्द्रपात्रेषु दानमण्वपि चाक्षयम् || यद्यद्यदोपयुज्येत तद्देयं तस्य यत्नतः | उपयोगप्रधानाभ्यां श्रेयस्तेनोभयोरपि || व्याख्याने शिवधर्मस्य कृत्वा मण्डप(ल)मुत्तमम् | शोभितं पत्रपुष्पाद्यैर्न्यसेत् तत्रासनं गुरोः || शोभितं वस्त्रपुष्पाद्यैश्शिवधर्मासनं महत् | पुरतस्तद्गुरोः स्थाप्य पूजयेदुभयं ततः || शिवधर्मप्रवक्तारमाचार्यं वाचकं तथा | पूजयेच्छिवधर्मं च तुल्यमेव द्वयं यतः || य एवं न्यायतो वक्ति शिवधर्मं शृणोति च | आयुर्विद्यां यशः सौख्यं स लब्ध्वान्ते शिवं व्रजेत् || इत्येष वः समाख्यातश्शिवधर्मः सनातनः | सर्वेषां शिवभक्तानां शिवधर्मं शृणोति च | सर्वेषां शिवभक्तानामयं वाच्यो विशेषतः || विजानतः || शिवाश्रमेषु यो भक्त्या शिवधर्मं प्रकीर्तयेत् | शृणुयाद्वापठेत् तस्य शास्त्रोक्तमखिलं फलम् || श्रुत्वैतदखिलं धर्ममाख्यातं ब्रह्मसूनुना | चन्द्रात्रेय स गोत्राय शिवभक्ताय सारवित् || प्. ८१(८४) सारात्सारं समुद्धृत्य चन्द्रात्रेयेन धीमता | उक्तं द्वादशमध्यायं धर्मशास्त्रं शिवात्मकम् || यावद्यस्योपदेशेन शिवधर्मं समाचरेत् | तावत्तस्यापि तत् पुण्यमुपदेष्टुर्नसंशयः || उपदेशं विना तस्माद्धर्मो ज्ञातुं न शक्यते | न च कर्तुमविज्ञानात् तस्मात् तुल्यं तयोः फलम् | उपदेष्टानुमन्ता च कर्ताकारयिता च यः | कृतानुपालकश्चैव पञ्चतुल्यफलाः स्मृताः || कर्तुरत्यधिकं पुण्यं तत्कृतं योऽनुपालयेत् | यस्मादायतनं क्षिप्रं नाशं गच्छेदपालितम् || भूमिरत्नाश्च नागानां गो हिरण्यादि वाससाम् | भवेत् पूर्वं हि दत्तानां दानाच्छ्रेयोनुपालनम् || दातुरभ्यदिकं पुण्यं तद्दत्तं यो नु पालयेत् | अपालितं तु तद्यस्मात् तदहस्संप्रणश्यति || तस्मादुपदिशेद्धर्मं स्वयं चैव समाचरेत् | कारयेदनुमन्येत कृतमन्यैश्च पालयेत् || इति पञ्चप्रकारोऽयं शिवधर्मः प्रकीर्तितः | भद्राचलं रुद्रकोटि रविमुक्तं महालयम् | गो कर्णं भद्रकर्णं च सुवर्णाक्षोऽयदीप्तिमान् | स्थानं शिवस्य विख्यातं त्रिषुलोकेषु विश्रुतम् || स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेममहोदयम् | भद्रा चलादि स्थानानि रुद्रसायुज्यकारणम् || भागलण्डन्दुरण्डञ्च माकोटं मण्डलेश्वरः | कारञ्जरं दारुवनं शंकुकर्णं स्थलेश्वरम् || पवित्राष्टकमित्येतन्महापुण्यप्रवर्धनम् | मृताः प्रयान्ति तत्रैव शिवस्य परमं पदम् || गया चैव कुरुक्षेत्रं बभ्रुं कनकलं तथा | विमलेश्वरोट्टहासं च महेन्द्रं भीममष्टमम्(कम्) || एतद्गुह्याष्टकं नाम सर्वपातकनाशनम् |(पापविमोचनम्) | गत्वा तु पुरुषः श्रीमान् गत्वा तु शिवमन्दिरम् | श्रीपर्वते हरिश्चन्द्र जल्पमात्रोदिकेश्वरः || मध्यमा च महाकालं केदारं भैरवं तहा | एतद्गुह्याधिकं गुह्यमष्टकं परिकीर्तितम् || सन्तार्य तु पितॄन् सर्वान् शिवं शान्तपदं व्रजेत् | अमरेश्वरं प्रभासं च नैमिशं पुष्करं तथा | पाषण्डं दण्डिमुण्डि च भारभूतिं भवान्तिकम् || प्. ८२(८५) लकुटीश्वरोऽति विख्यातस्तथा प्रत्यात्मिको महान् | प्रत्यात्मिकाष्टकमिदं क्षेत्रं रुद्रस्य कामिकम् || तत्र याति मृताः सर्वे रुद्रस्य परमं पदम् | पुण्याष्टकमिदं ज्ञेयं शिवक्षेत्रस्य लक्षणम् | दानान्यावसथं कूपमुद्यानं देवतालयम् || तीर्थेष्वेतेषु यः कुर्यात् सोऽक्षयं फलमाप्नुयात् | क्षान्तिः स्पृहादयासत्यं दानं शीलं तपः श्रुतम् || एतदष्टांगमुद्दिष्टं परं पात्रस्य लक्षणम् | इति पञ्चप्रकारोऽयं शिवधर्मः प्रकीर्तितः | कपालमालिनं देवं महाकालं नमोस्तु ते || चन्द्रार्धमस्तकं नित्यं चर्मवासः सदा प्रियम् | गजधर्मधरं नित्यं चण्डेश्वर नमोस्तु ते || त्रिशूलपाणे देवेश त्रिणेत्रत्रिदशेश्वर | त्रिमूर्ते च महात्मानं त्रिपुरान्त नमोस्तु ते | सर्वेश्वरं सर्वगतं सर्वजं(ज्ञं) सर्वतो मुखम् | सर्वत्रावस्थितं नित्यं सर्वव्यापिन् नमोस्तु ते || स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् | अनन्तानादिमव्यक्तं व्यक्ताव्यक्त नमोऽस्तु ते || अनन्तं शाश्वतं नित्यं विश्वं ध्रुवमुमापतिम् | श्रीकण्ठं सर्वकण्ठं च नीलकण्ठ नमोऽस्तु ते || विद्यामयी यस्य विद्या विद्यातीतं च यत्स्थितिम् | सकलं निष्कलं चैव कलाहीन नमोस्तु ते || यो गाधिपो योगगम्यो योगात्मा योगसंभवः | महायोगपरं नित्यं योगेश्वर नमोस्तु ते || सर्वतेजो मयं तेजस्तेजसामपि तैजसः | तेजोनिधिश्च तेजात्मा तेजोऽतीत नमोस्तु ते || ओमित्येकाक्षरं यस्तु प्रख्यातं भुवनत्रये | तस्याप्यर्थपरो नित्यं सदाशिव नमोस्तु ते || अर्धमात्रात् परार्धं तु तस्यार्धस्य परात्परम् | परात् परवरं शान्तं शान्तातीत नमोस्तु ते || वालार्कशतभागस्य शतधाकल्पितस्य च | अनौपम्यमनामञ्च शिवशान्त नमोऽस्तु ते || (अग्राह्यमिन्द्रियैर्वापि सर्ववस्तुविवर्जितम् ||) अनन्ता नादिमव्यक्तं देहस्थं देह वर्जितम् | हृदिस्थं सर्वभूतेषु व्योमस्थञ्च नमोऽस्तु ते | अग्राह्यमिन्द्रियैर्वापि सर्ववस्तु विवर्जितम् | प्. ८३(८६) स तेजो गूढमात्मानं गुह्यानां गुह्यगोचरम् || गुहावास सदानित्यं गुहानां गूढगोचर | गुहावास सदानित्यं गूढार्थं च नमोस्तु ते || महादेवं महात्मानं महामाया परावरम् | महाज्ञानं परातीतं ज्ञानगम्य नमोस्तु ते || एकाक्षरश्चतुर्भेदश्चतुर्मात्रैरलंकृतम् | चतुष्कलं कलातीतं विश्वातीतं नमोस्तु ते | ईशानं ईश्वरो ब्रह्मा सदाशिव नमोस्तु ते || धर्माश्च काममोक्षाय सर्वभूतानुकम्पया | सर्वस्तरतु दुर्गाणि सर्वोभद्राणि पश्य तु || सर्वस्सुगतिमाप्नो तु सर्वस्य भवतः शिवम् | सर्वस्सुगतिमाप्नोतु सर्वस्य भवतां शिवम् | इति श्रीशिवधर्मशास्त्रे नन्दिप्रोक्तायां संहितायां शिवविद्या शाखोपशाखा समुद्देशो नाम द्वादशोध्यायः || शिवधर्मस्समाप्तः || ओं शिवायगुरवे नमः | शिवमस्तु | श्रीशिवाय नमः || ########### END OF FILE #######