#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00211 Uniform title: śivadharmottara Manuscript : IFP/EFEO 72 from page 25 copied from Adyar Library Madras. ms. no.: 75425 Description: IFP transcript no. 72 from page 25 itself a copy of Adyar Library, Madras ms. no.: 75425 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 5, 2010 Internet publisher : Muktabodha Indological Research InstituteWeb publisher Muktabodha Publication year : 2010 Publication city : Publication country : United States #################################################### शिवधर्मोत्तरः प्. २५(१) श्रीः ओं गणेशाय नमः | शिवायनमः || गजाननकटद्वन्द्वविनिष्यन्दिमदाम्बुनम् | प्रत्यूहपङ्कनिवहं प्रक्षालयतु सन्ततम् || १-१ || शिवमादौ शिवम्मध्ये शिवमन्ते च सर्वदा | सर्वेषां शिवभक्तानामनुगानां भवेच्छिवम् || १-२ || मेरुपृष्ठे समासीनं ऋषिसङ्घैस्समावृतम् | लोकानुग्रहकं शान्तं सर्वज्ञं नन्दिकेश्वरम् || १-३ || तेषाम्मध्ये समुत्थाय मुनिः ब्रह्मसुतोत्तमः | सनत्कुमारस्सुतपाः पृच्छतिस्म यथाविधि || १-४ || भगवन्सर्वधर्मज्ञ शिवधर्मपरायण | श्रोतुकामाः परन्धर्ममिमे सर्वे समागताः || १-५ || अग्निष्ठोमादयोयज्ञाः बहुवित्तक्रियान्विताः | अशक्तास्ते यतः कर्तुमल्पवित्तैर्द्विजादिभिः || १-६ || सुखोपायमतो ब्रूहि सर्वकामार्थसाधकम् | हिताय सर्वमर्त्यानां शिवधर्मं सनातनम् || १-७ || येन सिद्धास्सुरा दैत्या गन्धर्वोरगराक्षसाः | ऋषयः किन्नरा यक्षाः तथा किंपुरुषादयः || १-८ || प्. २ (२८) गणाश्च विविधाश्चान्ये शिवधर्मपरायणाः | संपूज्यास्ससुरास्सर्वे तद्भक्त्या शिवधार्मिकाः || १-९ || श्रीनन्दिकेश्वर उवाच श्रूयतामभिधास्यामि सुखोपायम्महत्फलम् | परमं सर्वधर्माणां शिवधर्मं शिवात्मकम् || १-१० || शिवेन कथितं पूर्वं पार्वत्याष्षण्मुखस्य च | गणानान्देवमुख्यानामस्माकञ्च विशेषतः || १-११ || अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् | शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः || १-१२ || यैरयं शान्तचेतस्कैः शिवभक्तैश्शिवार्थिभिः | संसेव्यते परोधर्मः ते रुद्रा नात्र संशयः || १-१३ || ग्रामे वा यदि वारण्ये जलेवापि स्थलेऽपि वा | यत्रैव दृश्यते लिङ्गं सर्वतीर्थानि तत्र वै || १-१४ || एककालं द्विकालं वा त्रिकालं नित्यमेव वा | ये स्मरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वराः || १-१५ || सङ्कीर्तयन्ति ये रुद्रं सकृदप्याशु ते नराः | सर्वपापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि || १-१६ || येर्चयन्ति सदारुद्रं न ते प्राकृतमानुषाः | रुद्रलोकादिहं प्राप्ताः ते रुद्राः नात्र संशयः || १-१७ || जाते नात्मद्रुहा येन न ना * * तो भगवान् * * * | प्. ३ (२९) सुचिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे || १-१८ || तस्य चिम्महच्छिद्रं सम्मोहस्यान्ध्यमूकता | यत् क्षणं वा मुहूर्तं वा शर्वमेको न चिन्तयेत् || १-१९ || दुर्लभं प्राप्यमानुष्यं यर्चयन्ति सदाशिवम् | तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः || १-२० || भवभक्तिपराये तु भवप्रणतचेतसः | भवसंस्मरणो युक्ताः तेन दुःखस्य भाजनम् || १-२१ || भवनानि मनोज्ञानि विभ्रमा भरणाः स्त्रियः | धनञ्चादृष्टपर्यन्तं शिवपूजा विधेः फलम् || १-२२ || ये वाञ्छन्ति महाभोगान् राज्यं वा त्रिदशालयम् | येर्चयन्ति सदा कालं हरस्य चरणांबुजम् || १-२३ || सौभाग्यं कान्तिमद्रूपं सत्यं त्यागः प्रभावता(प्रवक्तृता) | शौर्यञ्च जगतिख्यातिः शिवमर्चयतां फलम् || १-२४ || ध्यायन्ति ये शिवं नित्यमन्तर्यामिणमन्ततः | संभवन्ति सदा तेषामायुरारोग्यसंपदः || १-२५ || जपतां ध्यायतान्नित्यं शिवमर्चयतां सदा | नमतां च चतुर्वर्गफलं मुक्तिश्चतुर्विधा || १-२६ || नारुद्रस्संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् | नारुद्रः कीर्तयेद्रुद्रं नारुद्रोरुद्रमाप्नुयात् || १-२७ || संपर्कात् कौतुकाल्लाभात् भयाद्वापि च संस्मरेत् | प्. ४ (२८) कीर्तयेदर्चयेद्वापि सोप्यवश्यं गणो भवेत् || १-२८ || शिवधर्मस्य सारोयं शिवभक्तिश्च निश्चला | साचाष्टाङ्गी शिवेनोक्ता कार्या नित्यं प्रयत्नतः || १-२९ || श्रीभगवानुवाच मद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् | स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गचेष्टनम् || १-३० || मत्कथाश्रवणे भक्तिस्वरनेत्राङ्गविक्रिया | ममानुस्मरणं नित्यं कीर्तनेनोपजीवति || १-३१ || भक्तिरष्टविधाह्येषा यस्मिन् म्लेच्छेऽपि वर्तते | सं विप्रेन्द्रो मुनिश्श्रीमान् सयतिस्स च पण्डितः || १-३२ || येर्चयन्ति सदा भक्त्या हीनाश्च विभवैरपि | पत्रपुष्पफलैस्तोयैः मत्तुल्यायान्ति मत्पदम् || १-३३ || पूजोपकरणं वापि पूजाया द्रव्यमेव वा | मम बक्तोपकारं च मनोवाक्कायकर्मभिः || १-३४ || तस्य वित्तग्रहक्षेत्रप्रदानमपि पूजनम् | मत्पूजायास्समं पुण्यं सत्यमेव वदाम्यहम् || १-३५ || न मे प्रियश्चतुर्वेदी मद्भक्तश्श्वपचोपि वा | तस्मै देयं ततो ग्राह्यं स संपूज्यो यथाह्यहम् || १-३६ || पत्रं पुष्पं फलन्तोयं यो मे भक्त्या प्रयच्छति | तदहं प्रीतिभावेन ह्यश्नामि प्रयतात्मनः || १-३७ || प्. ५(३१) यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || १-३८ || अर्चयेन्न सदात्मस्थं यो मांसमयमास्थितः | नैति दुर्गेषु मार्गेषु मार्गमाणोपि पश्यति || १-३९ || यो मां सर्वगतं पश्येत् सर्वं च मयि संस्थितम् | तस्याहन्नित्यमात्मस्थः स च नित्यम्मयि स्थितः || १-४० || श्रीनन्दिकेश्वरः सुदुर्लभा शिवे भक्तिः दुर्लभञ्च शिवार्चनम् | सुदुर्लभं शिवज्ञानं शिवहोमञ्च दुर्लभम् || १-४१ || सुदुर्लभं शिवज्ञानं तदभ्यासोपि दुर्लभः | सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् || १-४२ || सुदुर्लभा तयोः प्राप्तिः तदभ्यासोपि दुर्लभः | सुदुर्लभं शिवं ज्ञात्वा शिवे भक्तिं समाश्रयेत् || १-४३ || लाभस्तेषां मनुष्याणां ये शिवं शरणं गताः | तेषान्दिवा च रात्रौ च नित्यं शिवगता स्मृतिः || १-४४ || नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् | जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् || १-४५ || इत्येष वस्समासेन शिवधर्मोखिलः क्रमात् | निर्दिष्टः प्रथमाध्याये शेषोस्यैव प्रविस्तरः || १-४६ || य इमं पठते नित्यं शृणुयाद्वापि भक्तितः | प्. ६ (३२) स मुक्तस्सर्वपापेभ्यः शिवलोके महीयते || १-४७ || डाकिन्यो विविधाकारा राक्षसाः प्रेतनायकाः | तस्य पीठान्न कुर्वन्ति तथा चान्येपि हिंसकाः || १-४८ || शत्रवो नाशमायान्ति संग्रामे जयमाप्नुयात् | सर्वरोगैर्नबाध्येत आपदो न स्पृशन्ति तम् || १-४९ || धनमायुर्यशो विद्यां प्रभावमतुलं भवेत् | शुंभेनोपचयं यान्ति नित्यं पूर्णमनोरथः || १-५० || इति श्रीशिवधर्मोत्तरे श्रीनन्दिकेश्वरप्रोक्ते शिवभक्तलक्षणं नाम प्रथमोध्यायः || प्. ७ (३३) श्रीः अथ द्वितीयोध्यायः सनत्कुमारः उवाच लिङ्गार्चनविधिं पुण्यं श्रोतुमिच्चामि तत्त्वतः | त्वत्प्रसादाद्विशेषण भगवन्नन्दिकेश्वर || २-१ || यत्पुण्यं स्थापिते लिङ्गे कृते यच्च शिवालये | सम्मार्जने च यत्पुण्यं यत्पुण्यमनुलेपने || २-२ || नीराजनोषधीबीज स्नानमङ्गलवादने | यत्पुण्यमर्घ्यदानेन तोयस्नानेन यद्भवेत् || २-३ || * * स्नानेन यत्पुण्यं पुण्यमिक्षुरसेन च | उद्वर्तनन्तरस्नाने कुशपुष्पोदकेन च || २-४ || पञ्चगव्यपयस्नाने दधिस्नानेन यत्फलम् | घृताभ्यंगेन यत्पुण्यं घृतस्नानेन यद्भवेत् || २-५ || सुवर्णरत्नतोयैश्च स्वच्छतो येन यत्फलम् | विलेपनैश्च गन्धाद्यैः विलिप्तेन च यद्भवेत् || २-६ || बिल्वबृन्दप्रदानेन दीपदर्पणदर्शने | मुक्तपुष्पार्चने चैव मालाभिर्लिङ्गपूरणे || २-७ || पुष्पमण्टपिकायाञ्च पुष्पमालावलंबने | पूजाभक्तिविशेषैश्च वेद्यामालेपकल्पने || २-८ || पुष्पजातिविशेषेषु धूपेष्वपि च यत्फलम् | प्. ८(३४) वस्त्रालंकारदानेन दीपिकार्पणदर्शने || २-९ || भक्ष्यभोज्यान्नपानादिफलकन्दनिवेदने | प्रदक्षिणनमस्कार प्रणामस्तात्रकीर्तनैः || २-१० || छत्रध्वजपताकानां घण्टावादित्रशंखयोः | वितानवस्त्रपूजायां बलिहोमक्रियासु च || २-११ || गजाश्वभृत्यनागानां भूमिदानेन यत्फलम् | ग्रामखेटपुराणां च दशदानेन यत्फलम् || २-१२ || स्त्रीणां सङ्गीतदानेन नाट्ये नैव विशेषतः | स्वयम्माल्योपहारेण पुंसां पुण्यन्तु यद्भवेत् || २-१३ || तत्पुण्यस्यापहारेण पुण्यापुण्यं च यद्भवेत् | यतीनामन्नपानादिमठोपकरणानि च || २-१४ || दत्वा किं लभते पुण्यं कृत्वा वा तत्प्रतिश्रयम् | तत्संस्कारे तथा तेषां प्रत्युत्थादाभिवादनैः || २-१५ || यद्यदन्यद्भवेत् सूक्ष्मज्ञानान्न प्रचोदितम् | तत्सर्वं कथयास्माकं भक्तानामनुकंपया || २-१६ || इति शिवधर्मोत्तरे प्रश्नभेदो नाम द्वितीयोध्यायः || प्. ९ (३५) श्रीः अथ तृतीयोध्यायः नन्दिकेश्वर उवाच त्वमतीव शिवे भक्तः पद्मयोनिसुतोत्तम | तेन ते निखिलं वक्ष्ये श्रुणुष्वेकाग्रमानसः || ३-१ || पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे | विवादस्तु महानासीत् ब्रह्मविष्ण्वोः परस्परम् || ३-२ || अहं कर्तास्म्यहं कर्ता न मत्तोन्यो जगत्प्रभुः | एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा || ३-३ || तयोर्दर्पापहाराय प्रबोधाय च देवयोः | मध्ये समुद्भवल्लिङ्गमैश्वरन्तैजसः परम् || ३-४ || ज्वालामालावृतन्दिव्यमप्रमेयमनूपमम् | योजनायुतविस्तीर्णं स्थितन्तद्विमलांभसि || ३-५ || ज्वालाभिर्मोहितौ तस्य लिङ्गस्य सुरसत्तमौ | तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ || ३-६ || गतावूर्ध्वमधस्तस्य संप्रधार्य परस्परम् | अधोदृष्टिं गतो विष्णुरुर्ध्वञ्चैव पितामहः || ३-७ || कृताञ्जलिपुटौ भूत्वा लिङ्गन्तुष्टुवतुस्तदा | लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेशसम्मितम् || ३-८ || समाधिस्थौ तु संपन्नौ दृष्टवन्तौ शिवात्मकम् | प्. १०(३६) नैव तत्काञ्चनं रौप्यं ताम्रं स्फाटिकमौक्तिकम् || ३-९ || लक्ष्यमात्रं स्थितं शान्तं केवलन्तच्छिवात्मकम् | तयोस्तुष्टो महादेवः प्रदायवरमुत्तमम् || ३-१० || कारणत्वमनुज्ञाय तत्रैवान्तरधीयत | ब्रह्माद्यास्तु तदारभ्य प्रतिष्ठाप्य सुरासुराः || ३-११ || तल्लिङ्गानुकृतिं लिङ्गमीडिरे मुनयस्तथा | परं गूढशरीरं च लिङ्गं क्षेत्रमनादिमत् || ३-१२ || यदाद्यमैश्वरन्तेजस्तल्लिङ्गं पञ्चसंज्ञितम् | सकलं निष्कलन्तच्च व्यक्ताव्यक्तं सनातनम् || ३-१३ || लीयन्ते सर्वभूतानि गच्छन्ति परमं पदम् | तस्माल्लिङ्गमिति प्रोक्तं जगतामादिकारणम् || ३-१४ || कल्पान्ते तस्य लिङ्गस्य लीयन्ते सर्वदेवताः | दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः || ३-१५ || हृदये चैव गायत्री सर्वदेवोत्तमोत्तमा | लीयन्ते मूर्ध्नि वै वेदाः सषडङ्गपदक्रमाः || ३-१६ || जठरे लीयते तस्य जगत्स्थावरजङ्गमम् | पुनरुत्पद्यते तस्मात् ब्रह्माद्यं सचराचरम् || ३-१७ || आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका | आलयं सर्वभूतानां लयनाल्लिङ्गमुच्यते || ३-१८ || तस्माल्लिङ्गं प्रतिष्ठाप्य सर्वदेव भवोद्भवम् | प्. ११ (३७) स्थापितं तेन सर्वं स्यात् पूजितं च न संशयः || ३-१९ || कृताञ्जलिपुटो विष्णुः ब्रह्माचापि विशेषतः | पूर्वं लिङ्गं समभ्यर्च्य तदा कार्याणि चक्रतुः || ३-२० || ब्रह्मा ब्रह्माक्षरैः दिव्यैः लिङ्गं पूजयते सदा | * * पुष्पादिभिर्नित्यं * * पूजयते * * || ३-२१ || ब्रह्मा पूजयते नित्यं लिङ्गं शैवमयं शुभम् | तस्य संपूजनादेव प्राप्तं ब्रह्मत्वमुत्तमम् || ३-२२ || शक्रोपि देवरा * * * * * * * * * * | भक्त्या पूजयते नित्यं तेन शक्रत्वमाप्तवान् || ३-२३ || लिङ्गं हेममयं कान्तं धनदोर्च्चयते सदा | तेनासौ धनदो देवो धनदत्वमवाप्तवान् || ३-२४ || वायुः परेण भावेन पैत्तलजं शुभम् | त्रिकालाभ्यर्चने नैव वायुर्वायुत्वमाप्तवान् || ३-२५ || इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा | विष्णुं प्राप्तवांस्तेन सोद्भुतैकं सनातनम् || ३-२६ || वसवः कांस्यकं लिङ्गं पूजयन्ति विधानतः | प्राप्तास्तेन महात्मानो वसुत्वं च महोदयम् || ३-२७ || अश्विनौ पार्थिवं लिङ्गं पूजयन्तौ विधानतः | तेन तावश्विनौ देवौ दिव्यदेहं गतावुभौ || ३-२८ || स्फाटिकं निर्मलं लिङ्गं वरुणोर्चयते सदा | प्. १२ (३८) तेन तद्वारुणत्वं हि प्राप्तमृद्धिबलान्वितम् || ३-२९ || लिङ्गमन्नमयं पुण्यमग्निर्यजति भावितः | अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् || ३-३० || शैवन्ताम्रमयं लिङ्गं भक्त्या देवो दिवाकरः | त्रिकालं यजते तेन प्राप्तं सूर्यत्वमुत्तमम् || ३-३१ || मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा | तेन सोमोपसंप्राप सोमत्वं सततोज्वलम् || ३-३२ || प्रवालकमयं लिङ्गं यजन्ते पन्नगोत्तमाः | तेन नागेषु भोगाढ्यं प्राप्तास्ते परमं पदम् || ३-३८ || पूज्यगन्धेन गन्धर्वा गन्धर्वत्वमवापिरे | फलेन गोमये नैव दारुणा कुसुमेन च || ३-३४ || आशया च रसेनैव बहवोभीष्टमाप्नुयुः | कार्ष्णायसमयं लिङ्गं पूजयन्त्यसुरोत्तमाः || ३-३५ || राक्षसास्ते महात्मानः तेन तेमितविक्रमाः | त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ये || ३-३६ || ते महर्धिबलाधाराः प्राप्नुवन्ति परं पदम् | बहुलोहमयं लिङ्गं यजन्ते मातरस्सदा || ३-३७ || मातृत्वं प्राप्य तास्सर्वाः प्रयान्ति परमं पदम् | एवन्देवास्सगन्धर्वास्सयक्षोरगराक्षसाः || ३-३८ || पूजयन्ति सदाकालमीशानं सुरनायकम् | प्. १३ (३९) सर्वं लिङ्गमयं लोकं सर्वं लिङ्गे प्रतिष्ठितम् || ३-३९ || तस्मात् संपूजयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः | लिङ्गे देवो महादेवस्साक्षादेव व्यवस्थितः || ३-४० || अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् | यो न पूजयते मोहात् लिङ्गं त्रिभुवनेशितुः || ३-४१ || व्यर्थन्तज्जन्म विज्ञेयं तस्य वंशं निरर्थकम् | न च स्वर्गस्य मोक्षस्य न स राज्यस्य भाजनम् || ३-४२ || यस्तु पूजयते लिङ्गं नित्यं त्रिभुवनेश्वरम् | स स्वर्गमोक्षराज्यस्य क्षिप्रं भवति भाजनम् || ३-४३ || तस्मादेकमनाभूत्वा यावज्जीवं प्रतिज्ञया | अर्चयेत महादेवं आपन्नोपि सदाबुधः || ३-४४ || उद्धृत्यासप्तमं वंशं शिवेन सह लीयते | वरं प्राणपरित्यागः छेदनं शिरसोपि वा || ३-४५ || न त्वनभ्यर्च्य भुञ्जीयात् भगवन्तं त्रिलोचनम् | एवं निर्वहते यस्तु यावज्जीवं प्रतिज्ञया || ३-४६ || मानुष्यचर्मणाबद्धः स रुद्रो नात्र संशयः | नास्ति लिङ्गार्चनात्पुण्यं पुण्यमप्यधिकं क्वचित् || ३-४७ || इति विज्ञाययत्नेन पूजनीयस्सदाशिवः | संसारसागरन्तर्तुं नास्त्युपायोन्यथा नृणाम् || ३-४८ || जननाम्बुधिमग्नानां प्लवोयं लिङ्गपूजनम् | प्. १४ (४०) यो लिङ्गन्द्वेष्टिपापेन सर्वदेवनमस्कृतम् || ३-४९ || नरो नरकगामी स्यात् तस्य संभाषणादपि | महेश्वरकृतं सर्वं त्रैलोक्यं सचराचरम् || ३-५० || ते कृतघ्ना भवन्तीह येन भक्ता महेश्वरे | जगतामन्तरात्मानं यो न पूजयते धिया || ३-५१ || आत्मद्रोही स विज्ञेयः पितृद्रोही च स स्मृतः | यस्मात् सर्वेषु भूतेषु गतिर्देवो महेश्वरः || ३-५२ || तस्मात् सर्वप्रयत्नेन शिवमेव समाश्रयेत् | सागराणां क्षयोप्यस्ति क्षीयते हिमवानपि || ३-५३ || रुद्रलोकक्षयो नास्ति शंकरं ये समाश्रिताः | एष्टव्या बहवः पुत्राः शिवमन्त्रानुसारिणः || ३-५४ || समुद्धरन्ति ते गोत्रं रज्जुः कूपात् घटं यथा | समुद्धृत्य तथाह्यन्ते कुलानामेकविंशतिम् || ३-५५ || शिवत्वं यान्ति वै क्षिप्रं धर्माधर्मविवर्जिताः | लिङ्गद्वयं समाख्यातं चरञ्चाचरमेव च || ३-५६ || चरं प्रतीतिविख्यातं अचरं पार्थिवादिषु | चरे सदा वसत्येव प्रीतियुक्तो महेश्वरः || ३-५७ || अचरे मन्त्रसंस्कारात् द्वयं सत्यं सदाशिवः | स्थावरं जङ्गमं * * द्विविध * * * च्यते || ३-५८ || जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत् | प्. १५ (४१) तस्माल्लिङ्गद्वयं प्राज्ञो नावमन्येतपण्डितः || ३-५९ || लिङ्गमित्थं प्रतिष्ठाप्य सर्वयत्नैविधानतः | यत्पुण्यं * * * * * * * * * * * * शृणु || ३-६० || सर्वयज्ञतपोदान तीर्थसेवासु यत्फलम् | तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः || ३-६१ || यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् | सर्वागमोदितं लिङ्गं पुण्यं कोटिगुणं भवेत् || ३-६२ || मातृतः पितृतश्चैव यतश्चोद्वहति स्त्रियः | कुलत्रयं समुद्धृत्य रुद्रलोके महीयते || ३-६३ || भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते | ज्ञानयोगं समास्थाय तत्रैव स विमुच्यते || ३-६४ || अथ चेद्राज्यमाकांक्षेत् जायते स भवान्तरे | सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् || ३-६५ || यः कृत्वा पार्थिवं लिङ्गं अर्चयेत स वैदिकम् | इहैव धनवान् श्रीमान् सोन्ते रुद्रश्च जायते || ३-६६ || त्रिसन्ध्यास्वर्चयेल्लिङ्गं कृत्वा बिम्बेन पार्थिवम् | शतैकादशिकां यावत् तस्य पुण्यफलं शृणु || ३-६७ || अनेनैव तु देहेन रुद्रस्सन्तिष्ठते क्षितौ | पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि || ३-६८ || उद्धृत्य दिवि संस्थाप्य कुलानामेकविंशतिम् | प्. १६ (४२) सहायैस्सहितो नित्यं मोदते दिवि रुद्रवत् || ३-६९ || शालिपिष्टमयं लिङ्गं सगन्धर्वोपशोभितम् | कुसुमैस्ससुगन्धैश्च फलैश्च विविधैरपि || ३-७० || भक्ष्यभोज्यैरनेकैश्च घृतापूपैश्च संयुतम् | तस्य दक्षिणपार्श्वे तु न्यसेदागरवं बुधः || ३-७१ || दद्यात्पश्चिमभागे तु शोभनान्तु मनश्शिलाम् | उत्तरे चन्दनन्दद्यात् हरितालन्तु पूजितम् || ३-७२ || एवं वित्तानुसारेण कृत्वा विभवविस्तरम् | कृष्णपक्षे चतुर्दश्यां शिवाय विनिवेदयत् || ३-७३ || यः कश्चित् सकृदप्येवं लिङ्गं कुर्याद्विचक्षणः | यत्फलं लभते सोपि तम्मे निगदतः शृणु || ३-७४ || श्रवणात्पापनिर्मुक्तः सर्वदुःखविवर्जितः | निष्कलः सर्वगो भूत्वा प्रविशेच्छिवमव्ययम् || ३-७५ || अप्यामलकमात्रं वा लिङ्गं कृत्वाभिपूज्य च | यन्मयन्तन्मयञ्चैव शिवलोके महीयते || ३-७६ || पुण्यक्षयात्क्षितिं प्राप्य राजा भवति धार्मिकः | वेदवेदाङ्गतत्वज्ञो ब्राह्मणो वापि जायते || ३-७७ || मृद्भस्मगोशकृत्पिण्डं तथा वालुकयापि वा | कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि || ३-७८ || कुशाग्रैस्तरुकुड्ये वाप्यंगुल्या वापि यो लिखेत् | प्. १७(४३) क्रीडायां वायुतं कल्पं भवत् सोपि गणेश्वरः || ३-७९ || आत्मनोपि हितञ्चैव तदन्यत्र च निश्चयम् | सर्वत्र बान्धवैस्सार्धं पुनात्यासप्तमं कुलम् || ३-८० || पांसुना क्रीडमानश्च लिङ्गं कुर्यात्तु यो नरः | प्रेत्यान्ते लभते राज्यं सुसंपन्नमकण्टकम् || ३-८१ || हीनवश्येषु ये जाताः पापिष्ठा ये च मानवाः | भव भावप्रपन्नाश्च मुच्यन्ते नात्र संशयः || ३-८२ || अलिङ्गी लिङ्गरूपेण यो लिङ्गमुपजीवति | स पच्यते महाघोरे नरके कालमक्षयम् || ३-८३ || सूक्ष्मेणापि प्रयोगेनाप्रमेयफलं लभेत् | शिवमर्चयतो यस्मात् तस्मान्नित्यं समर्चयेत् || ३-८४ || अनादि देवदेवेश विश्वेश्वर महेश्वर | सर्वज्ञ ज्ञानविज्ञान प्रदानैक नमोस्तु ते || ३-८५ || अनन्तकान्तिसंपन्न अनन्तासनसंस्थित | अनन्तशक्तिसंभोग परमेश नमोस्तु ते || ३-८६ || परावर परातीत उत्पत्तिस्थितिकारण | सर्वार्थसाधनोपाय विश्वेश्वर नमोस्तु ते || ३-८७ || बहुरूप महारूप सर्वरूपोत्तमोत्तम | पशुपाशार्णवातीत वरप्रदनमोस्तु ते || ३-८८ || स्वभावनिर्मलाभोग सर्वव्यापिन् सदाशिव | प्. १८(४४) योगयोगि महायोगि योगेश्वर नमोस्तु ते || ३-८९ || निरञ्जन निराधार सर्वाधारनिरूपप्लव | प्रसन्न परमेशान योगेश्वर नमोस्तु ते || ३-९० || जिह्वाचापलभावेन वेदितोसि हि यन्मया | तत्क्षन्तव्यमनौपम्यं कस्त्वां स्तौति गुणार्णवम् || ३-९१ || लिङ्गोत्पत्तिस्तवं पुण्यं यश्शृणोति नरस्सदा | नोत्पद्यते च संसारे स्थानमाप्नोति शाश्वतम् || ३-९२ || तस्मात् सर्वप्रयत्नेन शृणुया * * * * * | * * * * * * * * प्राप्नोति परमं पदम् || ३-९३ || इति श्रीशिवधर्मोत्तरे लिङ्गोत्पत्तिर्नाम तृतीयोध्यायः || प्. १९ (४५) श्रीः अथ चतुर्थोध्यायः श्रीनन्दिकेश्वर * * * शिवभक्ता महोत्साहाः शिवार्चनपरायणाः | संयताः सर्वसंपन्नाः सर्वार्थान् साधयन्ति ते || ४-१ || सर्वद्वन्द्वसहाधीरा नित्यमुद्युक्तचेतसः | परोपकारनिरताः गुरुशुश्रूषणे रताः || ४-२ || ऋजवो मृदवःस्वच्छा अनुकूलाः प्रियंवदाः | अमानिनो बुद्धिमन्तः त्यक्तस्पर्धागतस्पृहा || ४-३ || शान्ताः स्मितमुखा भद्रा नित्यं स्वागतवादिनः | अल्पवाचः सुवक्तारो गुरुभक्तिविशारदाः || ४-४ || शौचाचारसमायुक्ताः दयादाक्षिण्यगोचराः | डंभमात्सर्यनिर्मुक्ताः यथातथ्याभिभाषिणः || ४-५ || संविभोगपरा प्राज्ञाप्यशठाश्चाप्यकुत्सिताः | विषयेष्वपि निर्लेपाः पद्मपत्रमिवांभसा || ४-६ || नदी नानापि मलिनाः न चरोषवशानुगाः | भवन्ति भावितात्मानः सुस्निग्धाः साधुसेविनः || ४-७ || न पादपाणिवाक्चक्षु श्रोत्रशिश्नवशंगताः | चापल्यानि न कुर्वन्ति सर्वव्यासङ्गवर्जिताः || ४-८ || रुद्रात्मानो रुद्रपरा रुद्रांशा रुद्रभाविताः | प्. २० (४६) एवं विधसमाचारा भवन्ति भुवि मानवाः || ४-९ || एकान्तभक्तिमास्थाय गुणेष्वेतेषु वर्तिनः | पूजनीयस्सवो नित्यं परावरविभूतये || ४-१० || किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् | आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति || ४-११ || वेदश्शिवः शिवो वेदः वेदाध्यायी सदाशिवः | तस्माद्वेदविदे देयं शिवभक्तैर्यथाबलम् || ४-१२ || श्रीनन्दिकेश्वरः सर्वेषामपि पात्राणां अतिपात्रं महेश्वराः | पतनात् त्रायते यस्मात् अतीव नरकार्णवात् || ४-१३ || तस्य पात्रस्य माहात्म्यात् दानञ्चापि तदक्षयम् | तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभिः || ४-१४ || शिवे दत्तं हुतं जप्तं पूजाबलिनिवेदनम् | एकान्तानन्तफलदं तद्भवेन्नात्र संशयः || ४-१५ || भक्त्या वित्तानुरोधेन कुर्यात्प्रासादसंचयम् | अल्पं महति वा तुल्यं फलमाढ्यदरिद्रयोः || ४-१६ || वित्तशाठ्येन यः कुर्यात् धर्ममाढ्योपि मानवः | न स तत्फलमाप्नोति प्रलोभाक्रान्तमानसः || ४-१७ || भागद्वयं च धर्मार्थमनित्यं जीवितं यतः | भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः || ४-१८ || प्. २१ (४७) महाविभवसारोपि न कुर्याद्भक्तिवर्जितः | सर्वस्वमपि यो दद्यात् शिवे भक्तिविवर्जितः || ४-१९ || न तेन धर्मभाक् तस्मात् भक्तिरेवात्रकारणम् | न तत्तपोभिरत्युग्रैः न च सर्वैर्महामखैः || ४-२० || गच्छे च्छिवपुरं दिव्यं त्यक्त्वा भक्तिं शिवात्मिकाम् | मृदा दार्विष्टकाशैलैः यः कुर्याद्वै शिवालयम् || ४-२१ || त्रिसप्तकुलसंयुक्तः शिवलोके महीयते | मृण्मयात्कोटिगुणितं पुण्यं स्यात् दारुभिः कृतम् || ४-२२ || कोटिकोट्येकमधिकं दारुकादिष्टकामयम् | द्विगुणञ्चेष्टकादिभ्यः शैलेपि स्याच्छिवालये || ४-२३ || मृच्छैलयोः समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः | यत्र यत्र कृतं भक्त्या पुण्यं शैलेष्टकामयम् || ४-२४ || पुराणरहितं तस्मात् यः कुर्यात् तु शिवालयम् | विधूयपापसंघातं सोपि गच्छेच्छिवालयम् || ४-२५ || क्रीडमानोपि यः कुर्यात् बालभावे शिवालयम् | रुद्रलोको भवेत् तस्य विमानं सार्वगामिकम् || ४-२६ || पुष्पमालापरिक्षिप्तं दिव्यगन्धर्वनादितम् | डोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् || ४-२७ || मुक्तादामवितानेन शोभितं सूर्यसप्रभम् | अप्सरोगणसङ्कीर्णं सर्वकामसुखप्रदम् || ४-२८ || प्. २२ (४८) तत्रोषित्वा महाभोगैः कोटिकोट्ययुतं सुखी | क्रमादागत्य लोकेस्मिन् राजाभवति धार्मिकः || ४-२९ || पश्यन् परिहरन् जन्तून् मार्जन्या मृदुसूक्ष्मया | शनैः सम्मार्जनं कुर्यात् चान्द्रायणफलं लभेत् || ४-३० || नाहारवशजीर्णाया नवध्या क्षीणवत्सयोः | रोगार्तानैव सूते या गोष्ठे गोमयमाहरेत् || ४-३१ || खं संस्थं गोमयं ग्राह्यं स्थाने वा पतितं शुभे | उपर्यधश्च सन्त्यज्य प्रत्यग्रं जन्तुवर्जितम् || ४-३२ || वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् | पश्यन् परिहरन् जन्तून् चान्द्रायणफलं लभेत् || ४-३३ || * * * त्सर्वकार्याणि वस्त्रपूतेन वारिणा | स मुनिः स महासाधुः स योगी स शिवं व्रजेत् || ४-३४ || क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः | न तु क्षरैर्महादानं अभयं सर्वदेहिनाम् || ४-३५ || नैरन्तर्येण यः कुर्यात् पक्षं संमार्जनाञ्जनम् | युगकोटिशतं दिव्यं रुद्रलोके महीयते || ४-३६ || तस्यान्ते च चतुर्वेदी स्वरूपः प्रियदर्शनः | आढ्यस्सर्वगुणोपेतः राजा भवति धार्मिकः || ४-३७ || संपर्केणापि यः कुर्यात् नरः कर्म शिवालये | सोपि देहत्रयात् ज्ञानं प्राप्य शान्तिमवाप्नुयात् || ४-३८ || प्. २३ (४९) रुद्रदेहं निराकुर्वन् किञ्चित् ज्ञानमवाप्नुयात् | कश्चिदेव तु मेदिन्यां लब्ध्वा ज्ञानं विमुच्यते || ४-३९ || तावद्भ्रमन्ति संसारे दुःखशोकपरिप्लुताः | न भवन्ति शिवे भक्ता यावत् सर्वेपि देहिनः || ४-४० || समासक्तं यथाचित्तु जन्तोर्विषयगोचरे | यदि नाम शिवेप्येवं को न मुच्येत बन्धनात् || ४-४० || यः कुर्यात् कुट्टिमां भूमिं दर्पणोदरसन्निभाम् | नानावस्त्रविचित्राञ्च विचित्रकुसुमोज्वलाम् || ४-४२ || क्वचित्कलशविन्यस्तां पंकजाद्युपशोभिताम् | मरोनमां च सं समां शिवायतनसंश्रयाम् || ४-४३ || यावद्दण्डा भवेद्भूमिः मीयमाना समन्ततः | तावद्युगसहस्राणि शिवलोके महीयते || ४-४४ || सुधावलिप्तं यः कुर्यात् सर्वयत्नैश्शिवालयम् | तावत्पुण्यं लभेत् सोपि यावदा यतने कृते || ४-४५ || प्रत्यब्दं यश्च कुर्वीत शंभोरायतनं बुधः | धवलः क्षीरसुधया यथाशोभञ्च वर्णकैः || ४-४६ || यावन्त्यब्दानि कुरुते धवलन्तच्छिवालयम् | तावद्यङ्गसहस्राणि रुद्रलोके महीयते || ४-४७ || कारयेच्चित्रशास्त्रज्ञैः यत्नात् चित्रं शिवालये | रुद्रावतारक्रीडाद्यैः प्रयोगैरागमोदितैः || ४-४८ || प्. २४(५०) यावन्ति रुद्ररूपाणि सुरूपाण्यत्र लेखयेत् | तावद्युगसहस्राणि रुद्रलोके महीयते || ४-४९ || खण्डस्फुटितसंस्कारं यः कुर्वीत शिवालये | आरामावसितं चापि लभते लौकिकं फलम् || ४-५० || नास्ति रुद्रसमो देवः नास्ति रुद्रसमो गुरुः | नास्ति रुद्रसमं ज्ञानं नास्ति रुद्रसमं तपः || ४-५१ || निर्द्धूतामलदेहाय स्वभावामलमूर्तये | सितभस्मांगरागाय देवेशाय नमोस्तु ते || ४-५२ || नीलकण्ठाय शर्वाय जयाय सितमूर्तये | बहुरूपाय कान्ताय शाश्वताय नमोस्तु ते || ४-५३ || पराय परमेशाय सर्वज्ञाय नमोस्तु ते | अतीतगुणसंघाय विश्वेशाय नमोस्तु ते || ४-५४ || महाभोगीन्द्रहाराय पिङ्गलोचनचारवे | विचित्रचरिताढ्याय अनन्ताय नमोस्तु ते || ४-५५ || सर्वप्रणतदेहाय स्वयमप्रणतात्मने | पूज्यानामपि पूज्यायाप्यनाथाय नमोस्तु ते || ४-५६ || ब्रह्मेन्द्रविष्णुवन्द्याय उत्पत्तिस्थिति हेतवे | भुक्तिमुक्तिप्रदानाय संयताय नमोस्तु ते || ४-५७ || वामाय वामरूपाय वामाचाराविभाविने | वामकान्तार्धदेहायाप्यनन्ताय नमोस्तु ते || ४-५८ || प्. २५ (५१) य इदं कीर्तयेत्पुण्यं प्रसादाध्यायमुत्तमम् | सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् || ४-५९ || इति श्रीशैवशास्त्रे शिवधर्मोत्तरे शिवायतनकथनन्नाम चतुर्थोध्यायः || प्. २६(५२) श्रीः अथ पञ्चमोध्यायः श्रीनन्दिकेश्वरः लिङ्गमूर्तेः महेशस्य शिवस्य परमेष्ठिनः | स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् || ५-१ || त्रिशूलवज्रशंखाब्ज श्रीवत्सस्वस्तिकादिभिः | हेमरौप्यादिपात्रेषु कल्पितैः गोमयादिभिः || ५-२ || नानावर्णैकसंयुक्तैः अक्षतैस्तिलतण्डुलैः | सिद्धार्थदधिसम्मिश्रैः यथा शोभञ्चपूरितैः || ५-३ || दर्जैः पिष्टप्रदीपाद्यैः चूताश्वत्थादिपल्लवैः | ओषधीभिश्च मेध्याभिः सर्वबीजैर्यवांकुरैः || ५-४ || अष्टम्यादिषु सर्वेषु दिवसेषुत्सवेषु च | सर्वकालेषु पुण्येषु पुण्ये पोषस्य पर्वणि || ५-५ || शंखभेर्यादिभिर्घोषैः महद्भिर्गेयसंयुतैः | कुर्यान्नीराजनं लिङ्गे शिवमुद्दिश्य मङ्गलम् || ५-६ || यावत्पर्वाणि विधिवत् कुर्यान्नीराजनं शिवे | तावद्युगसहस्राणि रुद्रलोके महीयते || ५-७ || स्नानकाले त्रिसन्ध्यासु यः कुर्याद्गेयवादनम् | नाट्यं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु || ५-८ || यावन्त्यब्दानि कुरुते गेयनृत्तादिवादनम् | प्. २७(५३) तावद्युगसहस्राणि रुद्रलोके महीयते || ५-९ || कपिलापञ्चगव्येन कुशवारियुतेन च | स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत् स्मृतम् || ५-१० || एकाहमपि यो लिङ्गे ब्रह्मस्नानं समाचरेत् | विधूय * * पापानि शिवलोके महीयते || ५-११ || कपिलापञ्चगव्येन दधिक्षीर घृतेन च | स्नानं शतगुणं ज्ञेयमितरस्मान्नसंशयः || ५-१२ || देवाग्निकार्यमुद्दिश्य देहशुध्यै च शाश्वतीम् | कपिलामहरेत्तस्मात् मुनिदेवादिवन्दिताम् || ५-१३ || कापिलं यः पिबेत् शूद्रो देवकार्योचितं पयः | स पच्यते महाघोरे सुचिरं नरकार्णवे || ५-१४ || वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् | घृताभ्यंगेन लिङ्गस्य दहेत्सर्वं न संशयः || ५-१५ || कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् | घृतस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् || ५-१६ || कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः | कुलैकविंशमुद्धृत्य शिवलोके महीयते || ५-१७ || अयुतं योगवान्दद्यात् दोग्ध्रीणां वेदपारगे | वस्त्रहेमादि युक्तांगां घृतस्नानेन तत्फलम् || ५-१८ || सकृदाढकदुग्धेन यो लिङ्गं स्नापयेन्नरः | प्. २८(५४) राजतेन विमानेन सोमलोके महीयते || ५-१९ || स्नाप्य दध्ना सकृल्लिङ्गं सद्भक्त्या तु यथा नरः | सर्वपापविनिर्मुक्तः विष्णुलोकं स गच्छति || ५-२० || मधुना स्नापयेल्लिङ्गं सकृद्भक्त्या तु यो नरः | सर्वपापविनिर्मुक्तो वह्निलोके महीयते || ५-२१ || स्नापयेत्तिलतैलेन हस्तयन्त्रोद्भवेन च | श्वेतपिष्टानुलिप्तेन वायुलोके महीयते || ५-२२ || स्नानमिक्षुरसेनापि यो लिङ्गे सकृदाचरेत् | लभेद्वैद्याधरं लोकं सर्वकामसमन्वितम् || ५-२३ || फलोदकेन यो लिङ्गं तद्भक्त्या स्नापयेन्नरः | उत्सृज्यपापकलिलं पितृलोके महीयते || ५-२४ || सितेन भस्मना स्नाप्य सकृल्लिङ्गं प्रमोदते | चन्द्रांशु निर्मलश्श्रीमान्निववत्सोममण्डले || ५-२५ || वस्त्रपूतेन तोयेन यो लिङ्गं स्नापयेत्सकृत् | सर्वकामसुतृप्तात्मा वारुणं लोकमाप्नुयात् || ५-२६ || कुशतोयेन यो लिङ्गं भक्तितः स्नापयेत्सकृत् | काञ्चनेन विमानेन ब्रह्मलोके महीयते || ५-२७ || गन्धचन्दनतोयेन स्नापयेत्सकृदीश्वरम् | गन्धर्वलोकमाप्नोति गन्धर्वैश्च स पूज्यते || ५-२८ || पुष्पोदकेन सावित्रं कौबेरं हेमवारिणा | प्. २९(५५) रत्नोदकेन माहेन्द्रं लोकं संप्राप्य मोदते || ५-२९ || पाटलोत्पलपद्मानि करवीराणि सर्वदा | स्नानतोयेषु योज्यानि स्निग्धानि सुरभीणि च || ५-३० || एवमेकतमं स्नानं यः कुर्याद्भक्तितः शिवे | विधूतपापकलिलः शिवलोके महीयते || ५-३१ || मन्त्राष्टशतजप्तेन यो लिङ्गं स्नापयेत्सकृत् | कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत्सकृत् || ५-३२ || सर्वपापविनिर्मुक्तः शिवलोके महीयते | मन्त्राष्टशतजप्तेन विमलेनाम्भसा शिवम् || ५-३३ || स्नापयित्वा सकृद्भक्त्या शिवलोके महीयते | स्नाप्य लिङ्गं सकृद्भक्त्या कृष्णाष्टम्यामुपोषितः || ५-३४ || कुलैकविंशमुद्धृत्य शिवलोके महीयते | पितॄनुद्दिश्य यो लिङ्गं स्नापयेच्छीववारिणा || ५-३५ || तृप्ताः स्वर्गं प्रयास्यन्ति पितरो नरकादपि | लिङ्गं शीतांबुनास्नाप्य धारोष्णपयसा तथा || ५-३६ || स्नापयित्वा घृतस्नानं कृतमेव विशिष्यते | एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः || ५-३७ || अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः | मृत्कुंभात्ताम्रकुंभेन स्नानं शतगुणोत्तरम् || ५-३८ || रौप्याल्लक्षोत्तरं पुण्यं हैमात्कोट्यधिकं फलम् | प्. ३०(५६) लिङ्गस्य दर्शनं पुण्यं दर्शनात् स्पर्शनं शुभम् || ५-३९ || स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् | इहामुत्र कृतं पापं घृतस्नानेन देहिनाम् || ५-४० || क्षिपते शंकरो यस्मात् तस्मात्स्नानं समाचरेत् | दशापराधं तोयेन क्षीरेण तु शतं तथा || ५-४१ || सहस्रं क्विमते दध्ना घृतेनाप्ययुतन्तथा | मधुना नाशयेल्लक्षमिक्षुणा दशलक्षकम् || ५-४२ || नालिकेरोदलैः कोटिं गन्धतोयैरनन्तकम् | शिवं नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् || ५-४३ || एकविंशकुलोपेतः क्रीडते दिवि रुद्रवत् | स्नानं शतफलं ज्ञेयमभ्यंगं पञ्चविंशतिः || ५-४४ || फलानान्तु सहस्रन्तु महास्नानं प्रकीर्तितम् | तैलाभ्यङ्ग्यघृतस्नाने लिङ्गं यत्नाद्विरूप * * || ५-४५ || यवगोधूमजैः पिष्टैः तस्य पुण्यफलं शृणु | चामरासक्तहस्ताग्र दिव्यस्त्रीपरिवारितः || ५-४६ || महाभोगविमानस्थं चिरं शिवपुरं व्रजेत् | इत्यर्चनाप्रकारेण अनन्तं पुण्य * * * || ५-४७ || सनत्कुमारः पुष्पैः कतिविधैः पूजा कर्तव्या कथयस्व मे | प्. ३१(५७) नन्दिकेश्वरः पुष्पैरारण्डसंभूतैः पत्रैर्वा गिरिसंभवैः || ५-४८ || अपर्युषितनिश्छिद्रैः प्रोक्षितैः जन्तुवर्जितैः | आत्मारामोद्भवैर्वापि पुष्पैस्संपूजयेच्छिवम् || ५-४९ || पुष्पजातिविशेषेषु भवेत्पुण्यं नतोधिकम् | ततः शीलगुणोपेतः पात्रे वेदस्य पारगे || ५-५० || दशदत्वा सुवर्णानि तत्फलं पूजिते शिवे | एवमर्कप्रसूनं वा यश्शिवाय निवेदयेत् || ५-५१ || दशदत्वा सुवर्णानि यत्फलं तदवाप्नुयात् | एवं पुष्पविशेषेण फलन्तस्य ततोधिकम् || ५-५२ || ज्ञेयं पुष्पान्तरं येन यथा स्यात्तन्निवोधत | अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते || ५-५३ || करवीरसहस्रेभ्यो जातिपुष्पं विशिष्यते | जातिपुष्पसहस्रेभ्यः पद्ममेकं विशिष्यते || ५-५४ || पद्मपुष्पसहस्रेभ्यः बकपुष्पं विशिष्यते | बकपुष्पसहस्रेभ्य एकं धुर्धूरकं वरम् || ५-५५ || धुर्धूरकसहस्रेभ्यः बृहत्पुष्पं विशिष्यते | बृहत्पुष्पसहस्रेभ्यः द्रोणपुष्पं विशिष्यते || ५-५६ || द्रोणपुष्पसहस्रेभ्यः अपामार्गं विशिष्यते | अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते || ५-५७ || प्. ३२ (५८) कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते | शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् || ५-५८ || सर्वेषामेव जातीनां प्रवरन्नीलमुत्पलम् | नीलोत्पलसहस्रेभ्यः बिल्वपत्रं विशिष्यते || ५-५९ || शिवप्रियतरं पत्रं बिल्वपत्रान्न विद्यते | * पदारूपपत्राणि त्रिणेत्रातिप्रियाणि च || ५-६० || प्रणववर्णस्वरूपाणि त्रिकालज्ञानदानि च | त्रिलोकजयकारीणि त्रिविधाघहराणि च || ५-६१ || अमृतेन श्रिया चैव सहोत्पन्नानि सागरे | दलत्रयेणार्चयित्वा श्रियं मुक्तिञ्च विन्दति || ५-६२ || पत्रपुष्पसहस्रेभ्यो भक्तिरेकाविशिष्यते | शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु || ५-६३ || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | वसेच्छिवपुरे श्रीमान् शिवतुल्यपराक्रमः || ५-६४ || शेषाणां पुष्पजातीनां तत्फलं परिकीर्तितम् | तत्फलस्यानुसारेण शिवलोके महीयते || ५-६५ || शम्याश्चैव बृहत्याश्च कुसुमन्तुल्यमुच्यते | सर्वपुष्पसमा दूर्वा द्रोणबिल्वैस्सहार्च येत् || ५-६६ || करवीरसमाज्ञेया जाती कुटजपाटलाः | श्वेतमन्दारकुसुमं सितपद्मसमं भवेत् || ५-६७ || प्. ३८ (५९) नागचंपकपुन्नाग घुर्घुरकसमा स्मृताः | केतकी चातिमुक्ताश्च कुन्दयूथिमदन्तिका || ५-६८ || शिरीषसज्जबन्धूक कुसुमानि विवर्जयेत् | वागुचीकुसुमं पत्रं करञ्जेन्द्रतरूद्भवम् || ५-६९ || वैभीतकानि पत्राणि तत्पुष्पाणि विवर्ज्जयेत् | निर्गन्धान्युग्रगन्धानि यानि कानि विवर्जयेत् || ५-७० || गन्धवन्ति पवित्राणि कुसुमानि न वर्जयेत् | गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिवत् || ५-७१ || निर्गन्धकुसुमे प्रीतिः निर्गुणस्य शिवस्य तु | सात्विकन्तद्धिकुसुमं पवित्रं चैव तामसम् || ५-७२ || काननानि कदम्बानि रात्रौ देयानि शङ्करे | दिवाशेषाणि पुष्पाणि दिवारात्रौ च मल्लिका || ५-७३ || प्रहरन्तिष्ठते जातिः करवीरमहर्निशम् | करवीरे स्थितश्शंभुः त्रिरात्रं करवीरकम् || ५-७४ || बिल्वं त्रिमासं मासार्धं दशत्रिदिनमेव वा | अतिप्रियत्वाच्छिवयोरमृतद्रुमसंभवात् || ५-७५ || अपर्युषितदोषत्वात् शिवे योज्यं मुमुक्षुभिः | केशकीटापविद्धानि जीर्णपर्युषितानि च || ५-७६ || स्वयञ्च पतितैः चूर्णैः कषायैः गन्धयोजितैः | सुखोष्णेनाम्बुनावाह्य स्नापयेत्तदनन्तरम् || ५-७७ || प्. ३४ (६०) वर्षयेद्बिल्वपत्रैश्च तद्वत्पीठं विशोधयेत् | दशधेनुसहस्राणि यद्दत्वा लभते फलम् || ५-७८ || तत्फलं लभते मर्त्यो लिङ्गस्योद्वर्तने कृते | अर्घ्यं पुष्पं जलोपेतं यश्शिवाय निवेदयेत् || ५-७९ || स पूज्यस्सर्वलोकेषु शिववन्मोदते चिरम् | गन्धोदकेन सम्मिश्रमुदकार्घ्याद्दशोत्तरम् || ५-८० || पञ्चगव्यसमायुक्तमर्घ्यन्दशगुणं भवेत् | अर्घ्यमष्टाङ्गमापूर्य लिङ्गमूर्ध्नि निवेदयेत् || ५-८१ || दशवर्षसहस्राणि रुद्रलोके महीयते | आपः क्षीरं कुशाग्राणि दध्नाज्येन च तण्डुलैः || ५-८२ || तिलैस्सिद्धार्थकैश्चैवमर्घ्या अष्टौ प्रकीर्तिताः | दारवेणार्घ्यपात्रेण यद्दत्वा लभते फलम् || ५-८३ || * * * * तगुणञ्चैव मृत्पात्रेण प्रकीर्तितम् | ताम्रपात्रार्घ्यदानेन पुण्यं शतगुणोत्तरम् || ५-८४ || पलाशपद्मपत्राभ्यां ताम्रपात्रसमं भवेत् | रौप्य * * ज्ञेयं अर्घ्यं लक्षोत्तरं भवेत् || ५-८५ || सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणोत्तरम् | एवं स्नानार्घ्यनैवेद्यबलिधूपादिभिः क्रमात् || ५-८६ || पात्रान्तरविशेषेण तत्फलन्नोत्तरोत्तरम् | रौप्यपात्रप्रदानेन यत्फलं वेदपारगे || ५-८७ || प्. ३५(६१) तस्माच्छतगुणं पुण्यं शिवे मृत्पात्रदानतः | हेमपात्रन्तु यद्दत्वा पुण्यं स्याद्वेदपारगे || ५-८८ || ताम्रपात्रप्रदानेन तस्माच्छतगुणं शिवे | फलकोटिं सुवर्णस्य यो दद्याद्वेदपारगे || ५-८९ || शिवस्यरौप्यपात्रेण तस्य पुण्यन्ततोधिकम् | हेमपात्रन्तु यो भक्त्या शिवाय विनिवेदयेत् || ५-९० || न तस्य शक्यते वक्तुं पुण्यानामन्तमाखिलम् | तुल्यमेव फलं प्रोक्तं शिवेचाढ्यदरिद्रयोः || ५-९१ || तयोरप्यधिकन्तस्य यश्शिवे भावनाधिकः | विभवे सति यो मोहात् न कुर्याद्विधिविस्तरम् || ५-९२ || नैव तत्फलमाप्नोति प्रलोभाक्रान्तमानसः | तस्मात्पत्रैः फलैस्तोयैः एवमाद्यैश्च यत्कृतम् || ५-९३ || तदनन्तफलं ज्ञेयं भक्तिरेवात्रकारणम् | लिङ्गस्यालेपनं कुर्यात् दिव्यगन्धैस्सुगन्धिभिः || ५-९४ || वर्षकोटिशतं दिव्यं रुद्रलोके महीयते | गन्धानुलेपनात्पुण्यं द्विगुणं चन्दनस्य तु || ५-९५ || चन्दनादगरोर्ज्ञेयं पुण्यमष्टगुणाधिकम् | कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते || ५-९६ || तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते | चन्दनागरुकर्पूरैः श्लक्ष्नपिष्टैस्सकुंकुमैः || ५-९७ || प्. ३६(६२) लिङ्गं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि | संवीज्य तालवृन्तेन लिङ्गं गन्धैः प्रलेपितम् || ५-९८ || वर्षकोटिसहस्राणि वायुलोकेमहीयते | भक्त्या निवेद्यरुद्राय तालवृन्तं सुशोभनम् || ५-९९ || दशवर्षसहस्राणि रुद्रलोके महीयते | मायूरव्यजनन्दत्वा शिवायातीव शोभनम् || ५-१०० || वर्षकोटिशतं पुण्यं रुद्रलोके महीयते | शिवायचामरं दद्यात् वृणिदण्डविभूषितम् || ५-१०१ || हेमरौप्यादिदण्डं वा तस्य पुण्यफलं शृणु | पूजासुशंभोः पुष्पाणि त्यजेदुपहितानि च || ५-१०२ || मुकुलैर्नार्चयेद्देवं अपक्वान्नं न निवेदयेत् | फलं कौशिकविद्धं च यत्नात्पक्वमपि त्यजेत् || ५-१०३ || अलाभेन तु पुष्पाणां पत्राण्यपि निवेदयेत् | पत्राणामप्यभावेन दूर्वाद्रोणतिलाक्षतान् || ५-१०४ || दूर्वाद्रोणतिलाभावे फलान्यपि निवेदयेत् | फलानामप्यभावेन तृणगुल्मौषधीरपि || ५-१०५ || ओषधीनामभावेन भक्त्या भवति पूजितः | प्रत्येकम्मुक्तपुष्पेषु दशसौवर्णकं फलम् || ५-१०६ || स्रग्विधानेषु तेष्वेव द्विगुणं फलमिष्यते | यस्सुगन्धैर्मुक्तपुष्पैः सम्यग्लिङ्गं प्रपूजयेत् || ५-१०७ || प्. ३७(६३) मालाभिर्वा सुगन्धाभिः सोनन्तफलमाप्नुयात् | बिल्वपत्रैरखण्डैश्च सकृल्लिङ्गं प्रपूजयेत् || ५-१०८ || सर्वपापविनिर्मुक्तः शिवलोके महीयते | घुर्घुरकैश्च यो लिङ्गं सकृत्पूजयते नरः || ५-१०९ || सगोलक्षफलं प्राप्य शिवलोके महीयते | बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् || ५-११० || गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् | मल्लिकोत्पलपद्मानि जातीपुन्नामचंपकैः || ५-१११ || अशोकश्वेतमन्दारकर्णिकारबकानि च | करवीरार्कमन्दारशमीतगरकेसरम् || ५-११२ || कुशापामार्गकुसुमैः कदम्बद्रोणजैरपि | सौगन्धिकासनागस्त्यसिन्दुशेफालिकार्जुनैः || ५-११३ || तुलसीकुरवां कोलनागवञ्चुलसंभवैः | नन्द्यावर्ताश्च शम्याकतिलकस्तेन मालिका || ५-११४ || अन्यैस्सुगन्धिभिः पत्रैः ग्रामारण्यसमुद्भवैः | पुष्पैरपि यथालाभं योनरः पूजयेच्छिवम् || ५-११५ || स च यत्फलमाप्नोति तदेकाग्रमनाः शृणु | सूर्यकोटिप्रतीकाशैः विमानैस्सार्वगामिकैः || ५-११६ || पुष्पमालापरिक्षिप्तैः गीतवादित्रनादितैः | तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः || ५-११७ || प्. ३८(६४) रुद्रकन्यासमाकीर्णैः देवदानवदुर्लभैः | धोधूयमानैश्चमरैः स्तूयमानैस्सुरासुरैः || ५-११८ || गच्छेच्छिवपुरन्दिव्यं यत्र वा रुचिरं भवेत् | यैस्तैर्वापीह कुसुमैः जलस्थलरुहैश्शिवम् || ५-११९ || संपूज्य प्रोक्षितैर्भक्त्या शिवलोके महीयते | शिवस्योपरि यः कुर्यात् सुघनं पुष्पमण्टपम् || ५-१२० || शोभितं पुष्पस्रग्दामैः आपीठान्तप्रलम्बितैः | अन्याश्चर्यैर्महायानैः दिव्यपुष्पोपशोभितैः || ५-१२१ || सर्वोपकरणः श्रीमान् गच्छेच्छिवपुरं सुखी | अनेकाकारविन्यस्त सुगन्धकुसुमैर्गृहम् || ५-१२२ || यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्ज्वलम् | सपुष्पैकविमानादि सहस्रैः परिवारितैः || ५-१२३ || दिव्यस्त्री सुखसंभोगैः क्रीडारतिसमन्वितैः | अक्षयम्मोदते कालमितराकृतशासनः || ५-१२४ || शिवादिसर्वलोकेषु यथेष्ठं तत्र याति सः | पूजादिभक्तिविन्यासरचनादि विशेषतः || ५-१२५ || फलमेवं समासेन ज्ञेयं वित्तानुसारतः | मालाभिर्वेष्टयेद्वेदिं लिङ्गं संपूजयेत्ततः || ५-१२६ || शिवो देव्या सपुत्रस्तु तदभ्यासेन मोदते | लिङ्गवेदी भवेद्देवी लिङ्गं साक्षान्महेश्वरः || ५-१२७ || प्. ३९(६५) भवेत् संपूजनात् ताभ्यां देवी देवश्च पूजितौ | स्वयमुत्पाद्य पुष्पाणि यश्शिवं सम्यगर्चयेत् || ५-१२८ || तानि साक्षात्प्रगृह्णाति तद्भक्त्या सततं शिवं | यः कुर्याच्च शिवाराममाम्रबिल्वादिशोभितम् || ५-१२९ || जातीविजयराजार्ककरवीराब्जकुब्जकैः | पुन्नागनागवकुलैः अशोकोत्पलचंपकैः || ५-१३० || कदली हेमयूथाद्यैः तस्य पुण्यफलं शृणु | यावत् तत् पत्रकुसुमं बीजाङ्कुरफलानि च || ५-१३१ || तावद्वर्षसहस्राणि रुद्रलोके महीयते | लाक्षापाण्यङ्गनिर्मुक्तां धूपां दद्यात्सकृच्छिवे || ५-१३२ || चतुर्वेदी भवेज्जन्म प्राप्नोति सततं सुखी | कृष्णागरुसकर्पूरं धूपं दद्यान्महेश्वरे || ५-१३३ || नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु | कल्पकोटिसहस्राणि कल्पकोटिशतानि च || ५-१३४ || भुक्त्वा शिवपुरे भोगान् तस्यान्ते तु महीपतिः | गुल्गुलुं घृतसंयुक्तं साक्षाद्गृह्णाति शङ्करः || ५-१३५ || माषार्धदानमात्रेण शिवलोके महीयते | शिवात्कृष्णचतुर्दश्यां यस्साज्यं गुल्गुलुं दहेत् || ५-१३६ || अपराधसहस्राणि क्षमते तस्य शङ्करः | देवदारुन्नमेरुञ्च सर्जनीर्यासकुन्दुरुम् || ५-१३७ || प्. ४०(६६) श्रीफलञ्चाज्यसम्मिश्रं दग्ध्वाप्नोति परां श्रियम् | एभिस्सुगन्धकैर्धूपं षट्सहस्रगुणोत्तरम् || ५-१३८ || अगरुं दशसाहस्रं द्विगुणञ्चासितागरुम् | गुल्गुलुं दशसाहस्रं सघृतं द्विगुणं भवेत् || ५-१३९ || प्रियञ्च गुल्गुलुं नित्यं आज्ययुक्तं विशेषतः | द्विसहस्रफलानान्तु माहिषाक्षस्य गुल्गुलोः || ५-१४० || दग्ध्वाब्दमाज्यमिश्रस्य शिवतुल्यः प्रजायते | अगरुं घृतसंयुक्तं दग्ध्वा बिल्वमथापि वा || ५-१४१ || अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः | शोधयेत्पापसंयुक्तान् पुरुषान्नात्र संशयः || ५-१४२ || कृष्णागरुद्भवो धूपः तुषाग्निरिवकाञ्चनम् | योन्तश्शिवपुरं भक्तिस्सुसुगन्धैः प्रलेपयेत् || ५-१४३ || कवाटद्वारकुड्यान्तं तिर्यगूर्ध्वं सवेदिकम् | वासयेत्पुष्पमालाभिः धूपैश्चापि विशेषतः || ५-१४४ || यः कुर्यात्सकृदप्येवं पुण्यं तदवधारय | सर्वकामसुसंपूर्णा महायानैस्सहस्रशः || ५-१४५ || आपूरयन् दिशस्सर्वा आमोदैश्च सुगन्धिभिः | कल्पकोटिशतं दिव्यं शिवलोके महीयते || ५-१४६ || तस्यान्ते धर्मशेषेण त्रैलोक्याधिपतिर्भवेत् | ऋतामृतौ तु यः कुर्यात् दिव्यगन्धैश्शिवालयम् || ५-१४७ || प्. ४१(६७) स समस्तकुलोपेतः शिवलोके महीयते | कृष्णं पीतं च शुक्लं च पट्टसूत्रादिनिर्मितम् || ५-१४८ || यज्ञोपवीतं रुद्राय दत्वा वेदान्तगो भवेत् | वासांसिसुविचित्राणि सारवन्ति मृदूनि च || ५-१४९ || सूचितानि शिवेदद्यात् विकोशानि नवानि च | यावत्तु वस्त्रतन्तूनां परिमाणं विधीयते || ५-१५० || तावद्वर्षसहस्राणि रुद्रलोके महीयते | त्रुटिमात्रं तु यो दद्यात् हेमलिङ्ग * * * || ५-१५१ || इन्द्रस्याध्यासनं तावत् याव * * * श | एवं वित्तानुसारेण फलं ज्ञेयं समासतः || ५-१५२ || सर्वेषां हेमपात्राणां मकुटानां च सर्वशः | योर्कपत्रपुटं पुण्यं मधुपर्केणमन्त्रितम् || ५-१५३ || निवेदयीत शर्वाय सोश्वमेधफलं लभेत् | शालिकन्तण्डुलप्रस्थं कुर्यादन्नं सुसंस्कृतम् || ५-१५४ || शिवाय तच्छिरं दद्यात् चतुर्दश्यां विशेषतः | हारिद्रं कृसरं शक्यं पायसं यावकं तथा || ५-१५५ || गुलखण्डैश्च सम्मिश्रं नैवेद्यं चेत्सुकल्पितम् | यावन्तण्डुलास्तस्मिन् नैवेद्ये परिसंख्यया || ५-१५६ || तावद्युगसहस्राणि रुद्रलोके महीयते | गुलखण्डकृतानां च भक्ष्याणां विनिवेदने || ५-१५७ || प्. ४२(६८) घृतेन पाचितानां स्यादनाच्छतगुणं फलम् | मजूनां पातकानां च भक्ष्याद * * फलं स्मृतम् || ५-१५८ || तदर्धं सलिलस्यापि वासितस्य निवेदने | मातुलंगफलाद्यानि सुपक्वानि निवेदयेत् || ५-१५९ || शिवाय तत्फलं तस्य यद्भक्ष्याणान्निवेदने | पञ्चसौगन्धिकोपेतं यस्तांबूलन्निवेदयेत् || ५-१६० || शिवाय गुरवे चैव तस्य पुण्यफलं शृणु | सुगन्धदेहस्तेजस्वी सर्वावयवसुन्दरः || ५-१६१ || वर्षकोटिशतं दिव्यं शिवलोकेमहीयते | घृतदीपप्रदानेन शिवाय शतयोजनम् || ५-१६२ || लंघयित्वा तमो यान्ति विमानैस्सूर्यसप्रभैः | यः कुर्यात्कृत्तिकामासे शोभनान्दीपमालिकाम् || ५-१६३ || घृतेन वै चतुर्दश्यां पौणमास्यामथापि वा | सूर्यायुतप्रतीकाशस्तेजसा भासयन्दिशः || ५-१६४ || तेजोराशिविमानस्थः कुलमुद्धृत्य सर्वशः | यावत्प्रदीपसंख्यानं घृतेनापूर्य बोधितम् || ५-१६५ || तावद्युगसहस्राणि रुद्रलोके महीयते | दीपं वाक्षं समुद्धृत्य लोहमुच्चं शिवालये || ५-१६६ || पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः | शिरसा धारयेद्दीपं दिवारात्रं शिवाग्रतः || ५-१६७ || प्. ४३(६९) ललाटे वाथ हस्ताभ्यामुद्युक्तश्च तथोरसि | सूर्यायुतप्रतीकाशैः विमानैः सार्वगामिकैः || ५-१६८ || कल्पायुतशतं दिव्यं रुद्रलोके महीयते | शिवस्य पुरतो दद्यात् स्वच्छन्निर्मितदर्पणम् || ५-१६९ || पर्यन्तशोभितं कृत्वा श्वेतमाल्यैस्स चन्दनैः | चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् || ५-१७० || कल्पायुतसहस्राणि रुद्रलोके महीयते | कृत्वा प्रदक्षिणं भक्त्या शिवस्योभयधा नरः || ५-१७१ || अश्वमेधसहस्रस्य सुखेन लभते फलम् | नमस्कारस्मृतिर्यज्ञः सर्वयज्ञोत्तमः शुभः || ५-१७२ || नमस्कृत्वा महादेवं अश्वमेधफलं लभेत् | प्रणम्य दण्डवद्भूमौ नमस्कारेण योर्चयेत् || ५-१७३ || स च यां गतिमाप्नोति न तां यज्ञशतैरपि | सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलम् || ५-१७४ || स्तुतिजप्योपहारेण शिवे तत्फलमाप्नुयात् | श्वेतम्महध्वजन्दद्यात् कृत्वा वा पञ्चरङ्गिकम् || ५-१७५ || किङ्किणीखकोपेतं मायूरछत्रशोभितम् | सर्वगेन विमानेन सर्वदेवोपरि स्थितः || ५-१७६ || मन्वन्तरसहस्रैकं मोदते दिवि रुद्रवत् | प्. ४४(७०) ध्वजं छत्रं विमानानि दिग्विदिक्षु प्रकल्पते || ५-१७७ || महाध्वजाष्टकञ्चापि दिग्विदिक्षुप्रकल्पते | सविमानसहस्रेण दिव्यध्वजसुशोभिना || ५-१७८ || कल्पायुतशतं दिव्यं मोदते दिवि रुद्रवत् | श्रच्चन्द्रांशुविमलं मुक्ताजालोपशोभितम् || ५-१७९ || मणिदण्डमयञ्छत्रं दद्याद्वा काञ्चनाञ्चितम् | छत्रेण सुविचित्रेण धार्यमाणेन शोभिना || ५-१८० || विमानशतसंभोगैः चिरं शिवपुरं व्रजेत् | यदिचेद्राज्यमाकांक्षेत् सदेहीकालपर्ययात् || ५-१८१ || भुङ्क्ते समुद्रपर्यन्तां एकछत्रां वसुन्धराम् | अयश्शृंखलया युक्तां महाघण्टां महास्वनाम् || ५-१८२ || कांसलोहमयीं वापि बध्नीयाद्वै शिवालये | घण्टाकर्णगणः श्रीमान् शिवस्यातीव वल्लभः || ५-१८३ || शिवतुल्यवलोपेतः शिवलोके महीयते | भेरीमृदङ्गमुखन्तिमिलापटहादिकम् || ५-१८४ || वंशकांस्यादिवादित्रं यश्शिवाय निवेदयेत् | स विमानैर्मिहाभोगैः वंशवीणाकृतस्वनैः || ५-१८५ || युगायुतशतं दिव्यं शिवलोके महीयते | स्त्रीसङ्गीतदानेन नाट्येनैव विशेषतः || ५-१८६ || यथेष्टमैश्वरे लोके मोदते कालमक्षयम् | प्. ४५(७१) महामहास्वनन्दत्वा शङ्खयुग्मं शिवालये || ५-१८७ || युगकोटि * * दिव्यं रुद्रलोके महीयते | वितानं पीतपद्माभमप्यामलकभूषितम् || ५-१८८ || विचित्रमेकवर्णं वा नववस्त्रोपशोभितम् | किङ्किणीखकोपेतं कञ्चुकैश्चोपशोभितम् || ५-१८९ || शिवस्योपरि यो दद्यात् पुरतोवापि कल्पयेत् | रुद्रवत्सर्वलोकेषु युगकोटिं स मोदते || ५-१९० || शिवस्योपरि यो दद्यात् सर्वरत्नोपशोभितम् | मण्टपं मौक्तिकं श्रीमान् तस्य पुण्यफलं शृणु || ५-१९१ || कोटिकोटिविमानैश्च सर्वकामसमन्वितैः | आभूतसंप्लवं यावदास्ते शिवपुरं सुखी || ५-१९२ || शर्वस्यायतनं कुर्यात् वस्त्रं पूजासुशोभितम् | दुकूलपट्टदेवांकैः वस्त्रैर्वा वर्णकान्वितैः || ५-१९३ || वस्त्रादिपट्टतन्तूनां परिसंख्या तु यावती | तावद्वर्षसहस्राणि रुद्रलोके महीयते || ५-१९४ || शिवाहुत्या जगत्सर्वं सृष्टिद्वारेण धार्यते | यत्संधाय जगत्पुण्यं अग्निकार्येण तद्भवेत् || ५-१९५ || यः कुर्यादिष्टकागारं रुद्राग्नेरतिशोभिनम् | सकृत्तत्राग्निकार्येण रुद्रसायुज्यमाप्नुयात् || ५-१९६ || शिवाग्निकार्यं यः कृत्वा त्रियायुषमिहात्मनः | प्. ४६(७२) मुच्यते दशभिः पापैः शिवेन सितभस्मना || ५-१९७ || कृत्वा शिवालयप्रान्ते दशमण्डलकानि तु | सर्वाश्रकामसंयुक्तः तेषु नित्यं बलिं हरेत् || ५-१९८ || पुष्पधूपसमोपेतां ताम्रपात्रे प्रकल्पयेत् | रुद्रमातृगणादानीं दिक्पतीनां च सर्वशः || ५-१९९ || यः कुर्यात्सकृदप्येवं दशदिक्षु बलिक्रियाम् | दशवर्षसहस्राणि रुद्रलोके महीयते || ५-२०० || रौद्रं सन्ध्याबलिं कृत्वा नित्यं पर्वसु वा निशम् | कल्पायुतशतं साग्रं शिवलोके महीयते || ५-२०१ || दधिभक्तमयं लिङ्गं हेमपात्रादिसंस्थितम् | पुष्पदूर्वाचितं भद्रं विधानोपरिशोभितम् || ५-२०२ || शिरसा धार्य तत्पात्रं शनैर्गच्छेत्प्रदक्षिणम् | शिवायतनपर्यन्तं शंखभेर्यादिभिस्वनैः || ५-२०३ || दर्पणेध्वजमालाभिः गेयनृत्तादिशोभितम् | छत्रचामरधूपाद्यैः यष्टिदीपादिभिस्तथा || ५-२०४ || तच्छेषन्दधिभक्तेन लिङ्गस्य पुरतः स्थितः | पुष्पाक्षतविमिश्रेण सर्वदिक्षु बलिं हरेत् || ५-२०५ || एतेन मातरो रौद्राः शिवोमाषण्मुखादयः | शान्तिं कुर्वन्तु मे प्रीताः रौद्रेण बलिना सदा || ५-२०६ || शिवमाल्यापनयनं पूजान्ते तु प्रमार्जनम् | प्. ४७(७३) एकैकमेव तुल्यं स्यात् चान्द्रायणफलं लभेत् || ५-२०७ || शिवमण्डलकं कृत्वा हस्तमात्रं शिवाग्रतः | अवकीर्याक्षतैः पुष्पैः पत्रैर्वाप्यथ केवलैः || ५-२०८ || सुरूपस्सुभगश्श्रीमान् तेजस्वी देववत्सुखी | चतुर्वेदी भवेज्जन्म सकृत्वा लभते नरः || ५-२०९ || एवं स्वस्तिकपद्माद्यैः भूमिशोभां शिवालये | कृत्वावर्णकपिष्टाद्यैः लभेच्छतगुणं फलम् || ५-२१० || शिवे यज्ञोपकरणं दत्वाल्पं बहुवा यदि | स च वित्तानुसारेण शिवलोके महीयते || ५-२११ || शिवमुद्दिश्य यद्दत्वा सर्वकारणकारणम् | तदनन्तफलन्दातुः भवतीति किमद्भुतम् || ५-२१२ || यद्यदिष्टं विशिष्टं च न्यायेन समुपार्जितम् | शिवाय तन्निवेद्यं स्यात् भक्त्यानन्तफलार्थिभिः || ५-२१३ || कर्मशाठ्येन यः कुर्यात् कालेनापि शिवालये | सोपि शाठ्याद्दिवं याति कर्मणा पापवर्जितः || ५-२१४ || कूपारामान्नपानादि शिवायतनकर्मसु | उपयुक्तानि भूतानि खननोत्पाटनादिषु || ५-२१५ || अकामतोपि सर्वाणि स्थावराणि चराणि च | दिवं प्रयान्त्यसन्देहात् प्रभावात् परमेष्ठिनः || ५-२१६ || लिङ्गाद्धस्तशतं साग्रं शिवक्षेत्रं समन्ततम् | प्. ४८(७४) देहिनां तत्रं पाश्चात्यं शिवसायुज्यकारणम् || ५-२१७ || मनुजैस्स्थापितैः लिङ्गैः क्षेत्रमानमिदं स्मृतम् | स्वयं भूते सहस्रं स्यादार्षे चैव तदर्धकम् || ५-२१८ || पापाचारोपि नामास्मिन् यस्माच्छिवपुरं व्रजेत् | तस्मादावसथं कुर्यात् शिवक्षेत्रसमीपतः || ५-२१९ || शिवलिङ्गसमीपस्थं यत्तोयं पुरतश्शुचिः | शिवगङ्गेति विज्ञेया तत्र स्नात्वा शिवं व्रजेत् || ५-२२० || यः कुर्याद्दीर्घिकां वापिं कृत्वा चापि शिवालये | त्रिसप्तकुलसंयुक्तः शिवलोके महीयते || ५-२२१ || सर्वमन्यत्परित्यज्य शिवैकाहितमानसः | शिवपूजाविधिं कुर्यात् यदीच्छेत्सिद्धिमात्मनः || ५-२२२ || त्वरितं जीवितं याति त्वरितं याति यौवनम् | त्वरितं व्याधिरप्येति तस्मात्पूज्यः सदाशिवः || ५-२२३ || यावन्न याति मरणं यावन्नाक्रमते जरा | यावन्नेन्द्रियवैकल्यं तावत्पूजयशङ्करम् || ५-२२४ || न शिवार्चनतुल्योस्ति धर्मोन्यो भुवनत्रये | इति विज्ञाय यत्नेन पूजये युस्सदाशिवम् || ५-२२५ || यो भक्त्या देवदेवेशं शिवं शान्तमजं प्रभुम् | इह लोके सुखं प्राप्य ते यान्ति परमं पदम् || ५-२२६ || संपूज्य पशुभर्तारं विशुद्धेनान्तरात्मना | प्. ४९(७५) कृताञ्जलिपुटो भूत्वा भक्त्या स्तोत्रमुदीरयेन् || ५-२२७ || * * शिवकरं शान्तं शिवात्मानं शिवोत्तमम् | शिवमार्गप्रणेतारं प्रणमामि सदाशिवम् || ५-२२८ || शाश्वतं शोभनं शुद्धं शासकं दोषशोधकम् | विश्व * * विश्वेश्वरं देवं शङ्करं प्रणमाम्यहम् || ५-२२९ || सर्वपापहरं नाथं सर्वरोगहरं शुभम् | ईशानं वरदं देवमीशानं मन्त्रनायकम् || ५-२३० || इति पूजाविधिं पुण्यं यश्शृणोति सकृन्नरः | समुक्तः सर्वपापेभ्यो रुद्रलोके महीयते || ५-२३१ || इति श्रीशैवशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते शिवार्चनाद्रव्यपुण्याख्यानं नाम पञ्चमोध्यायः || प्. ५०(७६) श्रीः अथ षष्ठाध्यायः श्रीनन्दिकेश्वर उवाच अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् | महाविग्नप्रशमनं महाशान्तिकरं शुभम् || ६-१ || अकालमृत्युशमनं सर्वव्याधिनिवारणम् | परचक्रप्रशमनं सदा विजयवर्धनम् || ६-२ || स्तंभनं रिपुसैन्यस्याप्यप्रसादकरं सदा | सर्वदेवग्रहानीकसमभीष्ठावभासकम् || ६-३ || सर्वशान्त्यधिकाराख्यं धर्मं वक्ष्यामि तत्वतः | शशाङ्कार्धधरस्त्र्यक्षः नागयज्ञोपवीतवान् || ६-४ || चतुर्मुखश्चतुर्बाहुः सितभस्मावकुण्डितः | वरो वरेण्यो वरदो देवदेवो महेश्वरः || ६-५ || त्रैलोक्यनमितः श्रीमान् शान्तिमाशु करोतु मे | सर्वावयवमुख्येन गात्रेण तनुमध्यमा || ६-६ || पीतश्यामातिसौम्येन शिवरूपेण शोभिता | ललाटतिलकोपेता चन्द्ररेखार्धधारिणी || ६-७ || दिव्याम्बरधरा देवी सर्वाभरणभूषिता | वरस्त्रीसर्वनारीणां शोभागुणमहास्पदा || ६-८ || प्. ५१(७७) भावनामात्रसन्तुष्टा उमा देवी वरप्रदा | साक्षादागत्य रूपेण शान्तेनामिततेजसा || ६-९ || शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला | पद्मरागद्युतिस्सौम्यः रक्तमाल्यानुलेपनः || ६-१० || अबालो बालरूपेण षड्वक्तश्शिखिवाहनः | पूर्णेन्दुवदनस्सौम्यः त्रिशिवाशक्तिसंयुतः || ६-११ || कृत्तिकोमाग्निरुद्राङ्गसमुद्भूतस्सुरार्चितः | कार्तिकेयो महातेजा वरदानैकतत्परः || ६-१२ || शान्तिं करोतु मे नित्यं बलं सौख्यं च मे सदा | श्वेतवस्त्रपरीधानः त्र्यक्षः कनकसप्रभः || ६-१३ || शूलपाणिर्महाप्राज्ञः नन्दीशः शिवभावितः | शान्तिं करोतु मे शान्तः धर्मे च मतिमुत्तमाम् || ६-१४ || महोदरो महाकायः स्निग्धाञ्जनसमद्युतिः | एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः || ६-१५ || नागयज्ञोपवीतेन नागाभरणभूषितः | सर्वाथसंपदाधारः गणाध्यक्षो वरप्रदः || ६-१६ || रुद्रस्य तनयो देवः नायकोथविनायकः | करोतु मे महाशान्तिं महासिद्धिं च सर्वदा || ६-१७ || मन्द्रनीलनिभः त्र्यक्षः दीप्तशूलायुधोद्यतः | रक्ताम्बरधरश्श्रीमान् कृष्णाङ्गोरगभूषणः || ६-१८ || प्. ५२(७८) पापापनोदमतुलं अलक्ष्मीमलनाशनम् | करोतु मे महाशान्तिं महाकालो महाबलः || ६-१९ || शङ्खकुन्देन्दुवर्णाभः कण्ठेमरतकप्रभः | अक्षमालाधरोग्रश्च स्वयं विष्णुरिवस्थितः || ६-२० || चतुर्मुखश्चतुर्बाहुः त्रिणेत्रः सततोज्वलः | क्षित्याः पतिर्वृषो धर्मः सर्वधर्मोत्तमोत्तमः || ६-२१ || ईशं वहति पृष्ठेन तस्माद्धर्मो जगत्पतिः | वृषो वृषधरः श्रीमान् करोतु मम शान्तिकम् || ६-२२ || सर्वज्ञस्सर्वसदृशः सर्वगः शीर्षजः प्रभुः | शमनश्शत्रुसैन्यानां शास्ताशान्तिं करोतु मे || ६-२३ || पीतवस्त्रपरीधाना कन्यारूपा ह्यलंकृता | गणमाताम्बिकात्र्यक्षा पुण्या गौरी महेश्वरी || ६-२४ || सर्वसिद्धिकरा देवी प्रसादपरमापरा | शान्तिं करोतु मे माता सिद्धिमाशु प्रयच्छतु || ६-२५ || निर्मांसेन शरीरेण स्नारवस्थिसुनिबन्धनः | अतिसूक्ष्मोत्यतिक्रान्तः त्र्यक्षो भृङ्गिरिटिर्महान् || ६-२६ || रुद्रात्मजो महावीरो रुद्रैकगतमानसः | सोपि शान्तात्मभावेन शान्तिमाशु प्रयच्छतु || ६-२७ || प्रचण्डगणसैन्येन महाटङ्काक्षधारकः | अक्षमालाधृतकरः त्र्यक्षश्चण्डेश्वरः प्रभुः || ६-२८ || प्. ५३(७९) चण्डपापापहरणः ब्रह्महत्यादिशोधकः | करोतु मे महायोगी कल्याणं परमं शुभम् || ६-२९ || पद्मासनः पद्मनिभः चतुर्वदनपङ्कजः | कमण्डलुधरः श्रीमान् सिद्धगन्धर्वपूजितः || ६-३० || शिवध्यानेकनिरतः शिवसद्भावकोविदः | ब्रह्मशब्देन दिव्येन ब्रह्माशान्तिं करोतु मे || ६-३१ || तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः | श्यामः पीताम्बरधरः वनमालाविभूषितः || ६-३२ || यज्ञदेवोत्तमो देवो माधवो मधुसूदनः | शिवप्रसादसंपन्नः शिवध्यानपरायणः || ६-३८ || शिवार्चनपरः श्रीमान् विष्णुः शान्तिं करोतु मे | पद्मरागनिभा देवी चतुर्वदनपङ्कजा || ६-३४ || अक्षमालाञ्चितकरा कमण्डलुधरा शुभा | ब्रह्माणी सौम्यवदना शिवपूजापरायणा || ६-३५ || शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा | हिमशैलनिभा देवी महावृषभवाहिनी || ६-३६ || त्रिशूलहस्ता वरदा नागाभरणभूषिता | रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा || ६-३७ || चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी | आर्तिं हरतु मे प्रीता माहेशी नित्यमुज्वला || ६-३८ || प्. ५४(८०) मयूरवाहना देवी सिन्दूरारुणविग्रहा | शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता || ६-३९ || रुद्रभक्ता महादेवी रुद्रार्चनरता सदा | कौमारी वरदा देवी शान्तिमाशुकरोतु मे || ६-४० || शङ्खचक्रगदाहस्ता श्यामापीताम्बरप्रिया | चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता || ६-४१ || शिवार्चनरता नित्यं रुद्रैकगतमानसा | शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी || ६-४२ || वाराहघोणविकटा वराहवरवाहिनी | श्यामाभा सर्ववरदा शङ्खचक्रगदायुधा || ६-४३ || तर्जयन्ती सदा विघ्नं अर्चयन्ती सदाशिवम् | वाराही वरदा देवी क्षमारोग्यन्ददातु मे || ६-१४४ || ऐरावतसमारूढा वक्रहस्ता महाबला | नेत्राणान्तु सहस्रेण भूषिता काञ्चनप्रभा || ६-४५ || सिद्धगन्धर्वनमिता सर्वालङ्कार भूषिता | ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे || ६-४६ || ऊर्ध्वकेशोत्कटाश्यामा निर्मांसा स्नायुबन्धना | करालवदनाघोरा खड्गखेटकधारिणी || ६-४७ || कपालमालिनी देवी क्रूरा खट्वाङ्गधारिणी | आरक्तपिङ्गनयना गजचर्मावकुण्ठिता || ६-४८ || प्. ५६(८१) नानानागपरीताङ्गी प्रेतस्थाननिवासिनी | शिवरूपेण * * * * घोरा च भयंकरी || ६-४९ || चामुण्डा चण्डरूपेण चित्रयन्त्रासनेन तु | भूतप्रेतपिशाचेभ्यः मम रक्षां करोत्विह || ६-५० || आयुः श्रियं बलं सौख्यं यशो वृद्धिश्रियावहम् | आकाशमातरो दिव्याः तथान्या लोकमातरः || ६-५१ || भूतानाम्मातरः सर्वाः तथान्या देवमातरः | सर्वमातृमहादेव्यः स्वायुधासक्तपाणयः || ६-५२ || जगद्व्याप्यावतिष्ठन्त्यः बलिकामा महोदराः | रुद्रभक्ता महावीर्या रौद्रा रुद्रार्चनेरताः || ६-५३ || शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः | ये रुद्रा रौद्रकर्माणः रौद्रस्थाननिवासिनः || ६-५५ || मातरो रुद्ररूपाश्च गणानामधिपाश्च ये | विघ्नभूतास्तथाचान्ये दशदिक्षु समाश्रिताः || ६-५५ || सर्वेसु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् | सिद्धिं कुर्वन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा || ६-५६ || ऐन्द्र्यां दिशिगणा ये तु वज्रहस्ता महाबलाः | सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः || ६-५७ || दिव्यन्तरिक्षा भौमाश्च पातालतलवासिनः | रुद्रार्चनरता हृष्टाः शान्तिं कुर्वन्तु मे सदा || ६-५८ || प्. ५६(८२) आग्नेययां च गणास्सर्वे स्रुवहस्ता निषङ्गिणः | सुरक्ताक्षा रक्तनिभाः तथा वै रक्तलोचनाः || ६-५९ || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | परमेशार्चनरताः कुर्वन्त्वारोग्यमुत्तमम् || ६-६० || वायव्यान्तु गणा ये तु सततं ध्वजपाणयः | सुपद्माक्षाः पद्मनिभाः तथा वै पद्मलोहिताः || ६-६१ || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा || ६-६२ || कौबेर्या ये गणास्सर्वे सततं निधिपाणयः | सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः || ६-६३ || दिव्यन्तरिक्ष भौमाश्च पातालतलवासिनः | परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा || ६-६४ || ऐशान्यां तु गणा ये तु प्रशान्ताः शूलपाणयः | सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः || ६-६५ || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा || ६-६६ || अधोभागगणा ये तु सततं चक्रपाणयः | सुधूम्राक्षा धूम्रनिभाः तथा वै धूम्रलोहिताः || ६-६७ || दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः | शिवपूजासमुद्युक्ताः शान्तिं कुर्वन्तु मे सदा || ६-६८ || प्. ५७(८३) ऊर्ध्वभागगणा ये तु सततं पद्मपाणयः | सुसू * * * षाः सूक्ष्म * ः तथा वै सूक्ष्मलोहिताः || ६-६९ || दिव्यन्तरिक्ष भौमाश्च पातालतलवासिनः | शिवपूजासमासक्ताः शान्तिं कुर्वन्तु मे सदा || ६-७० || एते गणा महात्मानः महाबल * * ः | शिवं संपूज्य यत्नेन बलिमेषां विनिक्षिपेत् || ६-७१ || ततस्सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा | नाम्नामरावतीपुर्याः पूर्वभागे व्यवस्थिता || ६-७२ || विद्याधरगणाकीर्ण सिद्धगन्धर्वसेविता | रत्नप्राकारखचिता महारत्नोपशोभिता || ६-७३ || तत्र देवपतिः श्रीमान् वज्रहस्तो महाबलः | नेत्राणान्तु सहस्रेण शोभनेन विराजते || ६-७४ || ऐरावतगजारूढा हेमवर्णो महाद्युतिः | देवेन्द्रः सततं हृष्टः परमेशार्चने रतः || ६-७५ || शिवध्यानैकपर्याप्तः शिवभक्तिसमन्वितः | शिवभक्तैस्तथान्यैश्च देवैरपि सहानुगैः || ६-७६ || शिवप्रणामपरमः करोतु मम शान्तिकम् | आग्नेये तु विभागे तु पुरी तेजोवती शुभा || ६-७७ || नानादेव समाकीर्णा रत्नज्वालासमाकुला | तत्रज्वालापरीतांगो दीपाङ्गारसमद्युतिः || ६-७८ || प्. ५८(८४) भूतिकृद्देहिनान्देवो ज्वलनः पापनाशनः | शिवपूजाजपोद्युक्तः शिवस्मरणपावितः || ६-७९ || शान्तिं करोतु मे देवः तथा पापपरिक्षयम् | वैवस्वतपुरी नाम दक्षिणेन व्यवस्थिता || ६-८० || लोहप्राकारसंयुक्ता प्रासादैरुपशोभिता | तस्य तस्यां मध्ये स्थितः सर्वकामदो हर्म्यगस्तथा || ६-८१ || सुरासुरशतानीक पितृयक्षोरगालया | तत्रेन्द्रनीलसङ्काशः रक्तान्तायतलोचनः || ६-८२ || महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः | श्रीमान्यमोमहातेजाः शिवधर्मपरायणः || ६-८३ || शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे | नैर्-ऋते तु शिशोभागे पुरीकृष्णावती शुभा || ६-८४ || महारक्षोगणाकीर्णा पिशाचप्रेतसंकुला | तत्र जीमूतसंकाशः कृष्णस्रग्वस्त्रभूषणः || ६-८५ || खड्गपाणिर्महातेजाः करालवदनोज्वलः | रक्षोराट् नैर्-ऋतिर्नित्यं शिवार्चनरतः सदा || ६-८६ || करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः | पश्चिमे तु दिशो भागे पुरीशुद्धवती शुभा || ६-८७ || नानारत्नसमाकीर्णा नानाकिन्नरसंकुला | तत्र मौक्तिकसंकाशः परिपिङ्गललोचनः || ६-८८ || प्. ५९(८५) शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः | वरुणः || ६-* * * * परया भक्त्या शिवैकाहितमानसः || ६-८९ || रोगशोकार्तिसन्तापभयं निर्नाशयन्तु मे | वायव्ये तु दिशो भागे पुरी गन्धवती शुभा || ६-९० || ऋषिसिद्धगणाकीर्णा हेमप्राकारतोरणा | तत्र ताम्रेण लोहेन कृष्णपिङ्गललोहितः || ६-९१ || नभो व्याप्तान्तरालीनः ध्वजयष्ट्यायुधो यतः | पवनः परमो देवः परमेश्वरभावितः || ६-९२ || क्षेमारोग्यं बलं शान्तिं करोतु सततं मम | महोदधिपुरी नाम उत्तरे च महोज्वला || ६-९३ || अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता | हेमप्राकारसंयुक्ता रत्नप्राकारसंयुता || ६-९४ || तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः | ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः || ६-९५ || कुबेरो वरदः श्रीमान् हरपादार्चने रतः | शान्तिं करोतु मे प्रीतः शान्तः शान्तेन चेतसा || ६-९६ || यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता | नानागणसमाकीर्णा नानारत्नसुरालया || ६-९७ || तेजः प्राकारपर्यन्ता निरौपम्या सदौज्वला | तत्र मौक्तिकसङ्काशः शशाङ्ककृतशेखरः || ६-९८ || प्. ६०(८६) त्रिणेत्रश्शान्तरूपाङ्गोप्यक्षमालाधरो हरः | ईशानः परमो देवः सर्वदेवोत्तमोत्तमः || ६-९९ || सोपि सर्वात्मभावेन शान्तिमाशु करोतु मे | भूलोके च भुवर्लोके स्वर्गलोके वसन्ति ये || ६-१०० || देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा | महर्लोके जनो लोके तपोलोके च ये स्थिताः || ६-१०१ || तेपि प्रमुद्यता देवाः शान्तिं कुर्वन्तु मे सदा | जनलोके च ये देवाः धौतचामीकर प्रभाः || ६-१०२ || ईशानं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा | महर्लोके च ये देवा विमानोज्वलसंस्थिताः || ६-१०३ || भव प्रणामपरमाः नाशयन्तु भयं सदा | स्वर्लोकस्थाश्च ये देवा दीप्तिमन्तोमहाज्वलाः || ६-१०४ || शङ्करं प्रणता नित्यं कुर्वन्तु विजयं मम | भूलोके चैव ये देवा भासयन्तो दिशो दश || ६-१०५ || शिवैकाहितचेतस्काः पापं प्रशमयन्तु मे | गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये || ६-१०६ || रुद्रार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा | शरच्चन्द्रांशुगौरेण देहेनामलतेजसा || ६-१०७ || सरस्वती शिवे भक्ता शान्तिमाशुकरोतु मे | चारुचामीकरच्छाया सरोजकरपल्लवा || ६-१०८ || प्. ६१(८७) श्रीदेवी च शिवे भक्ता श्रीमद्भूतिन्ददातु मे | चारुतामुखचन्द्रेण विचित्रकनकोज्वला || ६-१०९ || जयादेवी शिवे भक्ता सर्वान्कामान्ददातु मे | हारेण सुविचित्रेण भास्वत्कनकमेखला || ६-११० || पराजिता शिवे भक्ता करोतु विजयं मम | सिन्दूरारुणरक्ताङ्गः कर्णान्तायतलोचनः || ६-१११ || किरणावलिसंयुक्तः सप्तसप्तिकवाहनः | गभस्तिमाली भगवान् हरपादार्चने रतः || ६-११२ || करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु | पद्मरागनिभेनापि देहानापिङ्गलोचनः || ६-११३ || अङ्गारकश्शिवे भक्तो रुद्रार्चन परायणः | रुद्रसद्भावसंपन्नो रुद्रध्यानैकमानसः || ६-११४ || ग्रहपीडाभयं सर्वं विनाशयतु मे सदा | कुङ्कुमछविना श्रीमद्देहेन परिमण्डितः || ६-११५ || शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु | तप्तचामीकरछायः सर्वज्ञानकृतालयः || ६-११६ || बृहस्पतिस्सदाकालमीशानार्चनतत्परः | सोपि शान्तात्मभावेन परमेण समाधिना || ६-११७ || ग्रहपीडां विनिर्जित्य करोतु विजयं मम | हिमकुन्देन्दुवर्णाभः सुरदैत्येन्द्रपूजितः || ६-११८ || प्. ६२(८८) शुक्रश्शिवार्चनरतः ग्रहपीडां व्यपोहतु | नीलजीमूतसङ्काशः सुरक्तनयनद्युतिः || ६-११९ || शनैश्चरश्शिवे भक्तः ग्रहपीडां व्यपोहतु | नीलमेधांजनछायः सैह्मिकेयो महाबलः || ६-१२० || शिवपूजापरो राहुः ग्रहपीडां व्यपोहतु | धूम्रदेहयुतः क्रूरः सर्वोत्पातसमन्वितः || ६-१२१ || शिवार्चनरतः केतुः ग्रहपीडां व्यपोहतु | एते ग्रहा महात्मानः शिवार्चनरतास्सदा || ६-१२२ || शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितैषिणः | मुखे यस्याः स्थितो मृत्युः वृष्टिर्नाम महाबला || ६-१२३ || सुमुखा विघ्नकर्त्री च पुष्ट्यै च विजयंकरी | रुद्रप्रणामपरमा शान्तिमाशु करोतु मे || ६-१२४ || तृतीया सप्तमी चैव दशमी च चतुर्दशी | चतुर्थीत्वष्टमी चैव एकादश्या तु पूर्णिमा || ६-१२५ || एताविघ्नकरा भद्राः शुक्लकृष्णसमुद्भवाः | नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम || ६-१२६ || अमावास्या महापुण्या पितृदेवसमन्विता | शान्ता ह्येषा तु परमा शिवस्य च महाप्रिया || ६-१२७ || शिवतेजस्समायुक्ता करोतु मम शान्तिकम् | प्रतिपद्वह्निसंयुक्ता द्वितीया चाधिदैवता || ६-१२८ || प्. ६३(८९) तृतीया च महापुण्या धनदेन समन्विता | चतुर्थी च महापुण्या गजवक्त्राधिदेवता || ६-१२९ || पञ्चमी श्रीयुता नित्यं षष्ठीस्कन्दाधिदेवता | सप्तमी रविसंयुक्ता ह्यष्टमी रुद्रदैवता || ६-१३० || नवमी तिथिरत्युग्रा दुर्गादेव्यधिदैवता | दशमी यमसंयुक्ता चैन्द्रेणैकादशीयुता || ६-१३१ || द्वादशीविष्णुसंयुक्ता मदनेन त्रयोदशी | चतुर्दशी महेशेन पौर्णमासी हिमांशुना || ६-१३२ || एतास्तु तिथयः सर्वा ईशानार्चनतत्पराः | शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितेरताः || ६-१३३ || विष्कंभः प्रीतिरायुष्मान् सौभाग्यश्शोभनस्तथा | अतिगण्डस्सुकर्मा च धृतिश्शूलस्तथैव च || ६-१३४ || गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा | वज्रस्सिद्धिर्व्यतीपातो वरीयान् परिघश्शिवः || ६-१३५ || सिद्धं साध्यं शुभं शुभ्रं ब्राह्मो माहेन्द्रवैधृतिः | चन्द्रस्य भानोरुत्पन्ना ह्येते योगा महाबलाः || ६-१३६ || शिवभक्तिरतास्सर्वे शिवभक्तिविधायिनः | एते शिवार्चनरताः कुर्वन्तु मम शान्तिकम् || ६-१३७ || कृत्तिका परमा देवी रोहिणी रुचिरानना | श्रीमन्मृगशिरो भद्रा आर्द्रा च परमोज्ज्वला || ६-१३८ || प्. ६४(९०) पुनर्वसुस्तथापुष्यः आश्लेषा च महाबला | नक्षत्रमातरो ह्येताः प्रभामालावभासकाः || ६-१३९ || महादेवार्चनरताः महादेवानुभाविताः | पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा || ६-१४० || मखा सर्वगुणो पेता पूर्वा चैव तु फाल्गुनी | उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा || ६-१४१ || स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः | अर्चयन्ती सदा कालं देव * * परम् || ६-१४२ || ममापि शान्तिकं ह्येताः कुर्वन्तु शिवचोदिताः | अनूराधा तथाज्येष्ठा मूला ऋद्धिबलान्विता || ६-१४३ || पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा | अभिजिन्नामनक्षत्रं श्रवणं परमोज्वला || ६-१४४ || एताः पश्चिमतो दीप्ताः राजन्त्यः चारुमूर्तयः | ईशानं पूजयन्त्येताः सार्वकालं सुभाविताः || ६-१४५ || शान्तिं कुर्वन्तु मे प्रीताः विभूतिञ्च समाहिताः | श्रविष्ठयां शतभिषक् पूर्वभाद्रपदा तथा || ६-१४६ || रेवत्युत्तरभाद्रा च अश्विनी च महर्द्धिका | भरणी च महावीर्या नित्यमुत्तरसंस्थिताः || ६-१४७ || शिवार्चनरताः नित्यं शिवध्यानैकमानसाः | शान्तिं कुर्वन्तु मे नित्यं बलं सौभाग्यमेव च || ६-१४८ || प्. ६५(९१) कन्या च परमा देवी मकरश्च महर्धिकः | ऋषभश्च महावीर्यः शिवभावसुभावितः || ६-१४९ || एते दक्षिणभागे तु पूजयन्ति सदाशिवम् | भक्त्या च परया नित्यं शान्तिं कुर्वन्तु मे सदा || ६-१५० || मिथुनश्च तुलाकुंभः पश्चिमेन व्यवस्थितः | शिवपूजार्चनरताः शान्तिं कुर्वन्तु मे सदा || ६-१५१ || कर्कटो वृश्चिको मीनः एते चोत्तरसंस्थिताः | यजन्त्येते सदाकालं रुद्रं भुवननायकम् || ६-१५२ || शान्तिं कुर्वन्तु मे नित्यं रुद्रध्यानपरायणाः | ऋषयः सप्तविख्याताः ध्रुवान्ताः परमोज्वलाः || ६-१५३ || शिवप्रसादसंपन्नाः शान्तिं कुर्वन्तु मे सदा | काश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः || ६-१५४ || मनुर्दक्षो वसिष्ठश्च मार्कण्डः पुलहः क्रतुः | नारदो भृगुरात्रेयो भारद्वाजोङ्गिरा मुनिः || ६-१५५ || शाल्मलिः कौशिकः कण्.वः शाकल्योथपुनर्वसुः | शालंकायन इत्येते मुनयोथ महातपाः || ६-१५६ || शिवध्यानार्चनोद्युक्ताः शान्तिं कुर्वन्तु मे सदा | ऋषिपत्न्यो महापुण्याः ऋषिकन्याकुमारकाः || ६-१५७ || शिवार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा | सिद्धाश्च सिद्धतपसो गन्धर्वाप्सरसो गणाः || ६-१५८ || प्. ६६(९२) विद्या * * * * त्मानः गरुडाश्च महर्षिकाः | महेश्वरपराह्येते महेश्वरपदार्चकाः || ६-१५९ || सिद्धिमाशु प्रयच्छन्तु शिवधर्मपरायणाः | नमुचिद्दैत्यराजेन्द्रः शङ्कुकर्णोमहाबलः || ६-१६० || जंभोनिकुंभश्शकटः शिवभक्तिपरायणाः | एते दैत्या महात्मानः शिवसद्भावभाविताः || ६-१६१ || पुष्टिं बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् | महानागोथविख्यातो दैत्यः परमवीर्यवान् || ६-१६२ || हाटकेश्वरदेवस्य नित्यं पूजापरायणाः | बलं वीर्यं च मे क्षिप्रं प्रयच्छतु महर्धिकाः || ६-१६३ || महाजंभो हयग्रीवः प्रह्लादो दैत्यपुंगवः | तारकाक्षमुखा दैत्याः कालनेमिर्महात्मवान् || ६-१६४ || वैरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः | मुचुकुन्दस्सुकुन्दश्च दैत्यो रोचनकस्तथा || ६-१६५ || भावेन परमेणाशु यजन्ते सर्वदा शिवम् | सदाशिवात्मभावेन पुष्टिं कुर्वन्तु मे सदा || ६-१६६ || दैत्यपत्न्यो महाभागाः दैत्यानां कन्यकाः शुभाः | कुमारकाश्च दैत्यानां शान्तिं कुर्वन्तु मे सदा || ६-१६७ || आरक्तेन शरीरेण रक्तान्तायतलोचनः | महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः || ६-१६८ || प्. ६७(९३) अनन्तो नागराजेन्द्रः शिवपादार्चने रतः | महापापविषं हत्वा शान्तिमाशुकरोतु मे || ६-१६९ || सुश्वेतेन तु देहेन सुश्वेतोपलशेखरः | चारुभोगकृताटोपः हरचारुविभूषितः || ६-१७० || वासुकिर्नागराजेन्द्रः शिवपादार्चने रतः | महापापविषं हत्वा क्षेमारोग्यं ददातु मे || ६-१७१ || अतिपीतेन देहेन प्रक्षुरद्भोगसंपदा | तेजसाचातिदीप्तेन कृतस्वस्तिकलाञ्छनः || ६-१७२ || नागेन्द्रस्तक्षकः श्रीमान् नागकोट्यासमद्युतिः | करोतु मे महाशान्तिं सर्वदोषविनाशनम् || ६-१७३ || अतिकृष्णेन वर्णेन क्षीरद्विकटमस्तकः | कण्ठेरेखात्रयोपेतः घोरदंष्ट्रायुधोद्यतः || ६-१७४ || कार्कोटको महातेजा विषदर्पसमन्वितः | विषाण्युग्राणि सहसा हत्वा शान्तिं करोतु मे || ६-१७५ || पद्मवर्णेन देहेन चारुपद्मायतेक्षणः | पद्मबिन्दुक्षताभासो ग्रीवायां शुभलक्षणः || ६-१७६ || ख्यातः पद्मो महाभोगो हरपादार्चने रतः | करोतु * * * महाशान्तिं महापापवि * * * यम् || ६-१७७ || पुण्डरीक नापि देहेनामिततेजसा | शङ्खशूलाब्जरुचिरो भूषितो मूर्ध्नि सर्वदा || ६-१७८ || प्. ६८(९४) महापद्मो महाभोगो नित्यं पशुपतौरतः | विनिहत्य विषं घोरं शान्तिमाशुकरोतु मे || ६-१७९ || श्यामेन देहाभरणैः श्रीमान् कमललोचनः | विषदर्पबलोन्मत्तः ग्रीवायामेकरेखया || ६-१८० || शंखवालक्षिया दीप्तः शिवपादाब्जपूजकः | महाघोरं विषं हत्वा करोतु मम शान्तिकम् || ६-१८१ || अतिगौरेण देहेन चन्द्रार्धकृतशेखरः | दीप्तभोगकृतार्वापश्शंभुलक्षणलक्षितः || ६-१८२ || गुलिको नाम नागेन्द्रो नित्यं हरपरायणः | अपहृत्यविषं घोरं करोतु मम शान्तिकम् || ६-१८३ || अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः | गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः || ६-१८४ || पाताले ये स्थिता नागाः सर्वेप्यत्र समाहिताः | रुद्रपादार्चने सक्ताः शान्तिं कुर्वन्तु मे सदा || ६-१८५ || नागिन्यो नागकन्याश्च तथा नागकुमारकाः | शिवभक्तास्सुमनसः शान्तिं कुर्वन्तु मे सदा || ६-१८६ || य इदं नाग संस्थानं कीर्तयेद्वा शृणोति वा | न तस्य सर्पा हिंसन्ति विषं नाक्रमते च तम् || ६-१८७ || चिन्तितं लभते नित्यं तथापापपरिक्षयम् | सिद्धिमाशुप्रयच्छन्ति सर्वविघ्नविवर्जिताम् || ६-१८८ || प्. ६९(९५) गङ्गा पुण्या महादेवी यमुना नर्मदा नदी | गोमती चापि कावेरी वरुणा देविका तथा || ६-१८९ || सर्वभूतपतिं देवं परमेशम्महेश्वरम् | पूजयन्त्यो महानद्यः शिवसद्भावभाविताः || ६-१९० || शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् | सिद्धिमाशु प्रयच्छन्तु सर्वपापविनाशनम् || ६-१९१ || चन्द्रभागा महापुण्या नदी गोदावरी शुभा | सरयू गण्डकी श्रेष्ठा कौशिकी च सरस्वती || ६-१९२ || एता नद्यो महापुण्याः शिवपादार्चने रताः | शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः || ६-१९३ || नैरञ्जना नाम नदी शोणश्चापि महानदः | मन्दाकिनी च परमा तथा न्निहिता शुभा || ६-१९४ || एताश्चान्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः | रुद्रार्चनपरा नद्यः शान्तिं कुर्वन्तु मे सदा || ६-१९५ || गुह्यानि यानि तीर्थानि आसमुद्रात्सरांसि च | कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु || ६-१९६ || महावैश्रवणो देवो यक्षराजो महर्धिकः | यक्षकोटिपरीवारो यक्षासंख्येयसंयुतः || ६-१९७ || महाविभवसंपन्नो हरपादार्चने रतः | शिवध्यानैकपरमो हरपादरतोत्तमः || ६-१९८ || प्. ७०(९६) शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः | माणिभद्रो महायक्षो मणिरत्नविभूषितः || ६-१९९ || मनोहरेण हारेण कण्ठलग्नेन राजते | यक्षिणी यक्षकन्याभिः परिवारितविग्रहा || ६-२०० || शिवपूजार्चनोद्युक्ता करोतु मम शान्तिकम् | पाञ्चिको नाम यक्षेन्द्रः कर्णिकाकटकोज्वलः || ६-२०१ || मकुटेन विचित्रेण केयूराभ्यां विराजते | यक्षासंख्येययुक्तश्च यक्षकोटिसमन्वितः || ६-२०२ || हरार्चनपरोनित्यं करोतु मम शान्तिकम् | श्रीमान्विभण्डको यक्षो नानारत्नविभूषितः || ६-२०३ || चारुणाकुण्डले नैव कर्णो नित्यं विराजते | यक्षेश्वरः यक्षपतिः यक्षसेनापतिर्बुधः || ६-२०४ || हरपादार्चनरतः करोतु मम शान्तिकम् | धृतराष्ट्रो महातेजाः यक्षो यक्षाधिपः प्रभुः || ६-२०५ || दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः | शिवभक्तः शिवध्यायी शिवपूजापरायणः || ६-२०६ || शिवप्रसादसंपन्नः करोतु मम शान्तिकम् | पूर्णभद्रो महायक्षः सर्वालंकारभूषितः || ६-२०७ || रत्नदीप्तेन पट्टेन हैमेनैव विराजते | यक्षकोटिसहस्रेण परिवारितविग्रहः || ६-२०८ || प्. ७१(९७) रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा | रुद्रार्चनसमुद्युक्तः करोतु मम शान्तिकम् || ६-२०९ || विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः | चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः || ६-२१० || विभूषितस्सदाकालं वरदानैकतत्परः | रुद्रपूजापरोनित्यं करोतु मम शान्तिकम् || ६-२११ || अन्तरिक्षे च ये यक्षा ये यक्षास्स्वर्गसंस्थिताः | गिरिकन्दरदुर्गेषु ये यक्षा भूतवासिनः || ६-२१२ || पातालवासिनो यक्षा नानारूपोद्यतायुधाः | शिवभक्तास्सुमनसः शिवपूजासमुत्सुकाः || ६-२१३ || शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः | यक्षिण्यो विविधाकाराः तथा यक्षकुमारकाः || ६-२१४ || यक्षकन्या महाभोगाः शिवध्यान * * * * ः | शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् || ६-२१५ || सिद्धिमाशुप्रयच्छन्तु नित्यमेव समाहिताः | पर्वताः सर्वतः सर्वे पर्वताश्च महर्धिकाः || ६-२१६ || शिवे भक्तास्सुमनसः क्षेमं कुर्वन्तु मे सदा | सागराः सर्वतः सर्वे ये चान्ये सागरा भुवि || ६-२१७ || रुद्र पूजारता नित्यं कुर्वन्तु मम शान्तिकम् | राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः || ६-२१८ || प्. ७२(९८) राक्षसा ये महावीर्याः राक्षसाश्च महाबलाः | जलस्था राक्षसा ये तु येन्तरिक्षे तु राक्षसाः || ६-२१९ || पातालराक्षसा ये तु नित्यं रुद्रार्चने रताः | शान्तिं कुर्वन्तु मे नित्यं सन्ततं शिवभाविताः || ६-२२० || भैरवं यस्य रूपन्तु प्रेतभस्मावकुण्ठितम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || ६-२२१ || नित्यमुज्वलवेषेण योगिन्योथ महावलाः | अनेकरूपधारिण्यो डाकिन्यश्च महर्धिकाः || ६-२२२ || रुद्रप्रणामपरमा रुद्रपूजारतास्सदा | रुद्रैकाहितचेतस्काः शान्तिं कुर्वन्तु मे सदा || ६-२२३ || अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः | पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः || ६-२२४ || त्रितयं लोचनं यस्य त्रिशूलं यस्य भासुरम् | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || ६-२२५ || सर्वे भूता महारूपाः सर्वे भूता महोज्वलाः | सर्वे भूताः स्थिता येत्र भूता येन्ये परत्र च || ६-२२६ || अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः | पाताले भूतले ये तु भूता भूतिविधायिनः || ६-२२७ || खट्वाङ्गं यस्य विमलं त्रिशूलं करपल्लवे | तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा || ६-२२८ || प्. ७३(९९) प्रेताः प्रेतगणास्सर्वे ये प्रेतास्सर्वतो मुखाः | अतिदीप्ताश्च ये प्रेताः ये प्रेतारुधिराशनाः || ६-२२९ || अन्तरिक्षे च ये प्रेता ये प्रेतास्स्वर्गसंस्थिताः | पाताले भूतले प्रेता ये ये प्रेताः कामरूपिणः || ६-२३० || नानारूपधरास्सर्वे पिशाचागुणवत्तराः | अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः || ६-२३१ || भूतले ये पिशाचाश्च बहुरूपा मनोजवाः | चन्द्रार्धम्मस्तस्के यस्य भस्म यस्य विभूषणम् || ६-२३२ || तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा | अपस्मारग्रहास्सर्वे सर्वे चापि ज्वरग्रहाः || ६-२३३ || गर्भबालग्रहा ये तु नानारोगग्रहास्तु ये | अन्तरिक्षे ग्रहाये तु स्वर्गे ये तु ग्रहोत्तमाः || ६-२३४ || पाताले भूतले ये च ये ग्रहाः सर्वतोदिशि | कण्ठं यस्य महानीलं भूषणं यस्य पन्नगाः || ६-२३५ || तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा | इति देवादयस्सर्वे शिवाज्ञानु विधायिनः || ६-२३६ || कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा | इत्युक्त्वा देवदेवस्य सन्निधौ च कृताञ्जलिः || ६-२३७ || शिवध्यानपरो भूत्वा भक्त्या स्तोत्रमुदीरयन् | जयात्मयोगसंस्थाय जय संसिद्धचेतसे || ६-२३८ || प्. ७४(१००) जयदानैकशूराय जयेशान नमोस्तु ते | जयोत्तमाय देवाय जय कल्याणकीर्तये || ६-२३९ || जय प्रकटदेहाय जितजप्याय ते नमः | जय लक्ष्मी विधानाय जय कान्तिविधायिने || ६-२४० || जय वाक्यविशुद्धाय अजिताय नमो नमः | यज त्रिशूलहस्ताय जय खट्वांग धारिणे || ६-२४१ || जय निर्जितलोकाय जय रूपाय ते नमः | जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे || ६-२४२ || जय देव त्रिदेवाय जय रुद्राय ते नमः | जय त्रिभुवनेशाय जय विख्यातकीर्तये || ६-२४३ || जयाधाराय शर्वाय जय कर्त्रे नमोस्तु ते | जय निर्मलदेहाय जय सर्वार्थकारिणे || ६-२४४ || जय मन्मथनाशाय ईशानाय नमोस्तु ते | इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयात्तथा || ६-२४५ || विधूय सर्वपापानि शिवलोके महीयते | कन्यार्थी लभते कन्यां जयकामो जयं लभेत् || ६-२४६ || अर्थकामोलभेदर्थं पुत्रकामो लभेत्सुतान् | विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् || ६-२४७ || यान्यान् प्रार्थयते कामान् मानवः श्रवणादिह | तत्सर्वं शीघ्रमाप्नोति देवानाञ्च प्रियो भवेत् || ६-२४८ || प्. ७५(१०१) श्रुत्वाध्यायमिमं पुण्यं संग्रामं प्रविशेन्नरः | सनिर्जित्याखिलान् शत्रून् कल्याणैः प्रतिपूर्यते || ६-२४९ || अक्षयं मोदते कालं इतरस्तुतशासनः | व्याधिभिर्नभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः || ६-२५० || श्रुत्वाध्यायमिदं पुण्यं यमुद्दिश्य पठेन्नरः | तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः || ६-२५१ || नाकाले मरणन्तस्य न सर्पैश्चापि दंश्यते | न विषं क्रमते देहे न जडान्धत्वमूकता || ६-२५२ || नोपसर्गभयन्तस्य नचोत्पातभयं भवेत् | नाभिचारकृतैर्दोषैः लिप्यते स कदाचन || ६-२५३ || यत्पुण्यं सर्वतीर्थानां गंगादीनां विशेषतः | तत्पुण्यं कोटिगुणितम् प्राप्नोति श्रवणादिह || ६-२५४ || दशानां राजसूयानां अग्निष्टोमशतस्य च | श्रवणात्फलमाप्नोति कोटिकोटिगुणोत्तरम् || ६-२५५ || अवध्यस्सर्वदेवानां अन्येषां च विशेषतः | जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः || ६-२५६ || गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः | शरणागतघाती च मित्र विस्रंभघातकः || ६-२५७ || दुष्टपापसमारो मातृहा पितृहा तथा | प्. ७६(१०२) श्रवणादस्य भावेन मुच्यते सर्वपातकैः || ६-२५८ || शान्त्यध्यायमिमं पुण्यं न दद्याद्यस्य कस्य चित् | शिवभक्ते समादेयः शिवेन कथितः पुरा || ६-२५९ || नित्यं खचितशक्तिश्च शक्तिव्याघातवर्जितः | सर्वकामसमृद्धः स्यात् यः पठेत दिने दिने || ६-२६० || इति शिवधर्मशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते शान्तिपाठकथनन्नाम षष्ठोऽध्यायः || प्. ७७(१०३) श्रीः अथ सप्तमोध्यायः शिवाय नमः नन्दिकेश्वर उवाच ये स्मरन्ति सदाकालमीशानं पूजयन्ति वा | रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः || ७-१ || अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः | शिवलिङ्गार्चनस्यैते कोट्यंशेनापि नो समाः || ७-२ || सदा यजति यज्ञेन सदा दानं प्रयच्छति | सदा च वायुभक्षः स्यात् सदा यो भ्यर्च्येच्छिवम् || ७-३ || यश्शिवं पूजयेन्नित्यं प्रणमेद्वापि भक्तितः | तस्य योगं च मोक्षं च शिवः प्रीतः प्रयच्छति || ७-४ || यः कुर्यादर्चनं मासमेकाहारो जितेन्द्रियः | स च यत् फलमाप्नोति न तत् सर्वैः महामखैः || ७-५ || पौर्णमास्याममवास्यां चतुर्दश्यष्ठमीषु च | स्नापयित्वा सदा लिङ्गं सर्वयज्ञफलं लभेत् || ७-६ || कृष्णपक्षे त्रयोदश्यां उपोष्य परमेश्वरे | प्रातर्मध्याह्नयोः पूजां चतुर्दश्यां समाचरेत् || ७-७ || पञ्चगव्यं सकृत् पीत्वा हविर्भुञ्जीत वाग्यतः | प्. ७८(१०४) दशानामश्वमेधानां फलं प्राप्नोति मानवः || ७-८ || कृष्णाष्टम्यामुपोष्यान्यः पूजयित्वा तु शंकरम् | प्राप्नोति परमं स्थानं देवदेवं महेश्वरम् || ७-९ || ब्रह्मचारी शुचिर्भूत्वा सन्ध्यायां पूजयेच्छिवम् | कुलसप्तकमुद्धृत्य शिवलोके महीयते || ७-१० || महास्नानादिविधिना शिवं पर्वसु पूजयेत् | यावत् स्यात् सर्वकालं च पूजा या शंकरस्य तु || ७-११ || तावत्कालार्चनं पुण्यं यत्तत्पर्वार्चनाद्भवेत् | तस्मात् सर्वप्रयत्नेन यथा विभवविस्तरम् || ७-१२ || पूजनीयः शिवो नित्यं पुण्यलोकजिगीषया | नैरन्तर्येण षण्मासं विधिना पूजयेच्छिवम् || ७-१३ || पुण्यं तदेव संकल्पं लभते विषुवार्चनात् | एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे || ७-१४ || संक्रान्तौ च दिनच्छिद्रे षडशीतिमुखेषु च | मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शंकरम् || ७-१५ || तत्कार्तिक्यां भवेत्पुण्यं पौर्णमास्यां शिवार्चनात् | पुण्यमेवञ्च फाल्गुन्यां आषाढ्यामेव मेव च || ७-१६ || चतुर्मासार्चनं ह्येतत् महापुण्यफलं भवेत् | माघमासे समुद्युक्तः त्रिसन्ध्यं योर्चयेच्छिवम् || ७-१७ || लभेत् षाण्मासिकं पुण्यं मासे नैव न संशयः | प्. ७९(१०५) यथा माघे तथाषाढे मासे चैव तु कार्तिके || ७-१८ || त्रिषु पुण्यं समं ज्ञेयं मासेष्वेतेषु यत्कृतम् | चतुर्मासार्चनं पुण्यं पुष्यमासार्चनाल्लभेत् || ७-१९ || चैत्रफाल्गुनयोः पुण्यं द्विमासजनितं फलम् | चतुर्दश्याममावास्यां पौर्णमास्यान्तु पाक्षिकम् || ७-२० || पुण्यमष्टगुणं ज्ञेयं अष्टम्यां योर्चयेच्छिवम् | यो ददातिगवां लक्षं दोग्ध्रीणां वेदपारगे || ७-२१ || एकाहमर्चयेल्लिङ्गं तस्य पुण्यं ततोधिकम् | मासे मासे तु योश्नीयात् यावज्जीवं द्विजोत्तमः || ७-२२ || यश्चार्चयेत् सकृल्लिङ्गं समन्तत्र न संशयः | अनेन क्रमयोगेन पुण्यवृद्धिर्दिने दिने || ७-२३ || * * * * * * स्यापि यावत् कालं समर्चयेत् | यः पुनस्संगमुत्सृज्यं शिवशब्दं प्रपूजयेत् || ७-२४ || नैरन्तर्याच्छतगुणं पुण्यं तस्य प्रवर्धते | पञ्चाशद्गुणितं पुण्यं * * * * * * च्छिवम् || ७-२५ || ऋतावृतौ तदर्धं स्यात् मासेनापि तदर्धकम् | मासार्धमपि यो लिङ्गे नैरन्तर्येण पूजयेत् || ७-२६ || नरोत्तमस्सविज्ञेयो नैरन्तर्यं हि दुष्करम् | प्रातरुत्थाय यो लिङ्गं भक्त्या पूजयते सकृत् || ७-२७ || संपूर्णां पृथिवीं दत्वा यत् फलं तदवाप्नुयात् | प्. ८०(१०६) मध्यं दिनकरे प्राप्ते नैरन्तर्येण पूजयेत् || ७-२८ || कपिलानां शतं दत्वा पुण्यं यत्तदवाप्नुयात् | वारुणीमाश्रिते सूर्ये यश्शिवं सम्यगर्चयेत् || ७-२९ || गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् | शिवलिङ्गं महापुण्यं सर्वदेवनमस्कृतम् || ७-३० || यस्स्पृशेदपि पाणिभ्यां न स पापैः प्रलिप्यते | न ते भुयः प्रयास्यन्ति योनिं संसारसागरम् || ७-३१ || क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमात्रतः | मेरुमन्दरमात्रोपि राशिः पापस्य कर्मणः || ७-३२ || ईश्वरं वैयमासाद्य नश्यन्ते दुष्टरोगवत् | लिङ्गार्चनरतो नित्यं महापातकसंभवैः || ७-३३ || दोषैः कृतैर्नलिप्येत पद्मपत्रमिवांभसा | छित्वा भित्वा च भूतानि हत्वा सर्वमिदञ्जगत् || ७-३४ || यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते | सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः || ७-३५ || शिवमिष्ट्वा नरस्सोपि प्रयाति परमां गतिम् | सरित्समुद्रतीरेषु वनेषुपवनेषु च || ७-३६ || गिरिशृंगेषु कूपेषु गहनोपवनेषु च | पुष्करिण्यां तटाकेषु तीर्थायतनसंश्रये || ७-३७ || यत्र वा रमते बुद्धिः तत्रैव शिवमर्चयेत् | प्. ८१(१०७) सर्वदानेन यत्पुण्यं तल्लभेन्नात्र संशयः || ७-३८ || यः पुनस्स्नानसंकल्पमुत्सृज्यशिवमर्चयेत् | सोश्वमेधफलं सर्वं लभते नात्र संशयः || ७-३९ || अयं विनैव मन्त्रेण पुण्यराशिः प्रकीर्तितः | स्यादयं मन्त्रसंयुक्तः पुण्यं शतगुणाधिकम् || ७-४० || तस्मान्मन्त्रेण सर्वासु स्नानं गन्धफलादिकम् | गजाश्वरथवस्त्रं च हैमाद्यादि निवेदयेत् || ७-४१ || आदौ नमश्शिवायेति मन्त्रः सर्वार्थसाधकः | सर्वमन्त्राधिकश्चाय मोङ्काराद्यष्षडक्षरः || ७-४२ || शिवेनान्तर्बहिर्व्याप्तं सर्वमेतच्चराचरम् | जगदोमिति यच्चक्रे तस्मादोमिति संज्ञितः || ७-४३ || अयमर्थश्च तिसृभिर्मात्राभिः परिगीयते | ब्रह्मा हरिश्च रुद्रश्च मात्रास्त्रिस्रः प्रकीर्तिताः || ७-४४ || त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्मकर्मभिः | तिस्रो मात्रा शिवस्यैताः सर्वलोकप्रपूजिताः || ७-४५ || एता एव त्रयो वेदाः त्रयोलोकास्त्रयोग्नयः | त्रयो गुणास्त्रिवर्गाश्च यच्चान्यज्जगदि स्थितम् || ७-४६ || अर्धमात्रापरोरुद्रः शिवः परमकारणः | तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम् || ७-४७ || सर्वयज्ञफलश्शुद्धो नमस्कारो महेश्वरः | प्. ८२(१०८) नमस्कारात्मयज्ञेन तस्मात् संपूजयेच्छिवम् || ७-४८ || अज्ञानं शिवतत्त्वं स्यात् सर्वदुःखालयं यतः | स्वबावात्तदपांसुं हि यस्माद्रुद्रः परश्शिवः || ७-४९ || नमश्शिवाय शान्ताय कारणत्रय हेतवे | निवेदयामि चात्मानं त्वं गतिः परमेश्वर || ७-५० || जप्त्वोन्नमश्शिवायेति मुच्यते सर्वपातकात् | यस्मात् तस्मात् सदा मन्त्रमोङ्काराद्यमनुस्मरेत् || ७-५१ || सर्वदा सर्वकार्येषु क्षुतनिष्ठीवनादिषु | यश्चोन्नमश्शिवायेति गिरमुक्त्वा शिवं व्रजेत् || ७-५२ || यः स्वयं प्रतिबुद्धस्तु प्राणोत्क्रान्ते च संस्मरेत् | य ओं नमश्शिवायेति स गच्छेत् परमां गतिम् || ७-५३ || शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये | संसारस्थूलबन्धानामुद्वेष्टनकरो भवेत् || ७-५४ || अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा | सकृत्स्मरति यो रुद्रं सर्वपापैः प्रमुच्यते || ७-५५ || स्मरणादेव रुद्रस्य पापसंघातपञ्जरम् | शतधा भेदमायाति गिरिर्वज्रहतो यथा || ७-५६ || सर्वेषां शिवभक्तानां अशेषार्थप्रसिद्धये | मन्त्रो महेश्वरः साक्षात् अशेषार्थप्रसाधनम् || ७-५७ || यद्बीजं सर्वविद्यानां आद्यं ब्रह्म परात्परम् | प्. ८३(१०९) सर्वार्थसाधनं मन्त्रं शिवसूत्रं षडक्षरम् || ७-५८ || भाषितस्यैव सूत्रस्य शिवज्ञानानि शंभुना | तस्मात् परावराणीह प्यक्ताक्तगदितानि तु || ७-५९ || तस्मादनेन मन्त्रेण प्रकुर्वीत शिवार्चनम् | सन्ध्यायान्तु जपेदेनं सर्वपापविशुद्धये || ७-६० || ग्रहाच्छतगुणं तस्मात् सन्ध्यायान्तु जलाशये | शिवाग्राद्दक्षिणामूर्तेः तत्पुण्यमयुताधिकम् || ७-६१ || तस्माच्छिवालये जप्यं * * * * * * * * | मन्त्रेण * * सततं सर्वकामप्रसिद्धये || ७-१६२ || जितेन्द्रियः शान्तमनाः शिवमन्त्रेण योर्चयेत् | न तस्य शक्यते वक्तुं पुण्यं वर्षशतैरपि || ७-१६३ || एतावच्छक्यते वक्तुं यस्मिन्देशे वसत्ययम् | सोपि देशो भवेत्पूतः किं पुनस्तस्य बान्धवाः || ७-६४ || यस्मिन्निवासे चाश्नाति ये चास्य परिचारकाः | ते पीह तत्समा ज्ञेयाः तैर्विना न शिवार्चनम् || ७-६५ || न तत्र देशे दुर्भिक्षं न च मारी प्रवर्तते | नाकाले म्रियते राजा पूज्यते यत्र शंकरः || ७-१६६ || दीक्षितः सूत्रमन्त्रज्ञः योर्चयेत सदाशिवम् | स च यत्फलमाप्नोति तदेकाग्रमनाश्शृणु || ७-६७ || सर्ववेदेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | प्. ८४(११०) तत्फलं कोटिगुणितं लभते नात्र संशयः || ७-६८ || यश्शिवं पूजयेन्नित्यं अन्त्यजोपि जितेन्द्रियः | भवभावसमायुक्तः सोपि गच्छेत्परां गतिम् || ७-६९ || नोपनीतसहस्रेभ्यो ब्रह्मचारी विशिष्यते | ब्रह्मचारि सहस्रेभ्यो वेदाध्यायी विशिष्यते || ७-७० || वेदाध्यायि सहस्रेभ्यो ह्यग्निहोत्री विशिष्यते | अग्निहोत्रिसहस्रेभ्यो यज्ञयाजी विशिष्यते || ७-७१ || यज्ञयाजिसहस्रेभ्यो सत्रयाजी विशिष्यते | सत्रयाजिसहस्रेभ्यस्सर्वविद्यान्तपारगाः || ७-७२ || सर्वविद्यान्तवित्कोट्याः शिवभक्तो विशिष्यते | यस्मादेव शिवं तस्मात् अर्चयेच्छान्तमानसः || ७-७३ || शिवभक्तो जितक्रोधः शिवज्ञानपरायणः | मैत्रीकारुणिकोजस्रं प्राप्नोति सततं शिवम् || ७-७४ || क्षणार्धेनापि यत्पुण्यं कुर्यान्मैत्रीसुभावितः | न तद्वर्षशतेनापि तपो यज्ञशतैर्भवेत् || ७-७५ || सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयेत् | सुखं प्राणिषु मैत्री स्यात् मुदितापुण्यशालिषु || ७-७६ || अपुण्यवत्सुचोपेक्षा सर्वेषाञ्च देच्छिवः | इत्येवं पञ्चधाचित्तं भावयित्वार्चयेच्छिवम् || ७-७७ || इष्ट्वा तु परया भक्त्या भगवन्तं महेश्वरम् | प्. ८५(१११) कृताञ्जलिपुटो भूत्वा स्तोत्रमेतज्जपेन्नरः || ७-७८ || स्तुताय स्तुतिरूपाणि स्तूयमानाय सर्वदा | स्तुतिहेतुनिधानाय नमस्त्रिणयनाय ते || ७-७९ || देवाय देवदेवाय सर्वदेवैकहेतवे | दीप्यानामपि दीप्याय नमो दीप्यतमाय ते || ७-८० || नमस्ते ज्ञानरूपाय सर्वज्ञानैकहेतवे | ज्ञानविज्ञानशुद्धाय नित्यं ज्ञानरताय ते || ७-८१ || सूक्ष्माय सूक्ष्मसूक्ष्माय सूक्ष्मज्ञानैकहेतवे | सूक्ष्माणामपि सूक्ष्माय नमस्सूक्ष्मतमाय ते || ७-८२ || दिव्याय दिव्यरूपाय दिव्यरूपैकहेतवे | पूज्यानामपि पूज्याय नमः पूज्यतमाय ते || ७-८३ || नित्याय नित्यनित्याय नित्यानित्यैकहेतवे | नित्यानामपि नित्याय नमो नित्यतमाय ते || ७-८४ || दीप्ताय दीप्तदीप्ताय सर्वदीप्त्यैकहेतवे | दीप्तानामपि दीप्ताय नमो दीप्तितमाय ते || ७-८५ || शुद्धाय शुद्धरूपाय सर्वसुध्यैकहेतवे | शुद्धानमपि शुद्धाय नमश्शुद्धतमाय ते || ७-८६ || साराय साररूपाय सर्वसारैकहेतवे | साराणामपि साराय नमस्सारतमाय ते || ७-८७ || शक्ताय शक्तिरूपाय सर्वशक्त्यैकहेतवे | प्. ८६(११२) शक्तानामपि शक्ताय नमश्शक्ततमाय ते || ७-८८ || कालाय कालरूपाय सर्वकालैकहेतवे | कालानामपि कालाय नमः कालतमाय ते || ७-८९ || सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे | मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय ते || ७-९० || व्योमप्रमाणरूपाय ईशानाय नमो नमः | व्योमप्रमाणधर्माय धर्मेशाय नमो नमः || ७-९१ || व्योमप्रमाणभोगाय भोगेशाय नमो नमः | व्योमप्रमाणमोक्षाय मोक्षेशाय नमो नमः || ७-९२ || एकदेहद्विदेहाय बहुदेहाय ते नमः | देहासंख्येय युक्ताय त्र्यम्बकाय नमो नमः || ७-९३ || एकवक्त्रद्विवक्त्राय बहुवक्त्राय ते नमः | वक्त्रासंख्येययुक्ताय परमेशाय ते नमः || ७-९४ || एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः || जिह्वासंख्येययुक्ताय त्रिणेत्राय नमो नमः || ७-९५ || एककर्णद्विकर्णाय बहुकर्णाय ते नमः | कर्णासंख्येय युक्ताय नीलकण्ठाय ते नमः || ७-९६ || एकनासाद्विनासाय बहुनासाय ते नमः | नानासंख्येय युक्ताय नित्यं शर्वाय ते नमः || ७-९७ || एकहस्तद्विहस्ताय बहुहस्ताय ते नमः | प्. ८७(११३) हस्तासंख्येययुक्ताय शङ्कराय नमो नमः || ७-९८ || एकवस्त्रद्विवस्त्राय बहुवस्त्राय ते नमः | वस्त्रासंख्येययुक्ताय नित्यं रुद्राय ते नमः || ७-९९ || एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः | नेत्रासंख्येय युक्ताय शङ्कराय नमो नमः || ७-१०० || नमोस्तु ते महादेव नमस्तेस्तु महे * * | योगिन् नमस्ते * * ज्वल * * * * * * * || ७-१०१ || नमोस्तु ते महेशाय नमस्तेस्तु महोत्तम | नमस्तेस्तु महारूप नमस्तेस्तु सदाशिव || ७-१०२ || नमस्तेस्तु सदाशुद्ध नमस्ते * * * * * | नमस्तेस्तु महादेव * * सदाशिव * * || ७-१०३ || नमस्ते भगवन् शान्त नमस्ते भगवन् ध्रुव | नमस्ते भगवन्दीप्त नमस्ते भगवन् हर || ७-१०४ || अजिताय नमस्तुभ्यं भस्मांगाय नमोस्तु ते | सर्वज्ञाय नमस्तुभ्यं अनाथाय नमोस्तु ते || ७-१०५ || अव्यक्ताय नमस्तुभ्यं प्रशान्ताय नमोस्तु ते | सुपूज्याय नमस्तुभ्यं वरदाय नमोस्तु ते || ७-१०६ || अनन्ताय नमस्तुभ्यं सर्वगाय नमोस्तु ते | इति स्तवेन दिव्येन यः स्तौति च महेश्वरम् || ७-१०७ || स विधूयाशु पापानि रुद्रलोके महीयते | प्. ८८(११४) भोगार्थी लभते भोगान् राज्यार्थी राज्यमाप्नुयात् || ७-१०८ || मुच्यते व्याधिमान् व्याधेः दुःखी दुःखात्प्रमुच्यते | बन्धनान्मुच्यते बद्धः यशोर्थी सुयशो भवेत् || ७-१०९ || भक्तिः परशिवे नित्यमवाप्य सुखमेधते | यान्यान् चिन्तयते कामान् तां स्तान् प्राप्नोति मानवः || ७-११० || शिवस्य पदमाप्नोति नित्यं पठति यो नरः | इति शिवधर्मशास्त्रे श्रीनन्दिकेश्वरप्रोक्ते दानधर्मविधिर्नाम सप्तमोध्यायः || प्. ८९(११५) श्रीः अथ अष्टमोध्यायः नन्दिकेश्वर उवाच पृथिव्यां यानि तीर्थीनि पुण्यान्यायतनानि च | लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं प्रपूजयेत् || ८-१ || सस्नातस्सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः | यः पूजयेन्महादेवं स गच्छेत्परमं पदम् || ८-२ || शतेन स्थापितं लिङ्गं सहस्रेण न चालयेत् | सुस्थितं दुस्थितं वापि शिवलिङ्गं न चालयेत् || ८-३ || घृताभिषेकं यः कुर्यात् अहोरात्रं शिवस्य तु | सूक्ष्मधारेण कुंभेन पुण्यमासे समुद्यतः || ८-४ || गीतनृत्तोपहारेण शंखवादित्रनिस्वनैः | कुर्वन्जागरणन्तत्र प्रदीपाद्युपशोभया || ८-५ || समस्तपापनिर्मुक्तः समस्तकुलसंयुतः | समस्तकामसंपूर्णः समस्तगुणसंयुक्तः || ८-६ || ज्वलद्भिस्समहायानैः असंख्येयैरनूपमैः | युक्तः शिवपुरे नित्यं मोदते शिववत्सुखी || ८-७ || ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च | घृताभिषेकं यः कुर्यात् महापुण्यमवाप्नुयात् || ८-८ || प्. ९०(११६) घृताभिषेकं यः पश्येत् आसमाप्तमुपोषितः | विधूय सर्वपापानि शिवलोकं स गच्छति || ८-९ || एकः पूजयते भक्त्या त्वन्यो भक्त्या प्रपश्यति | सममेवफलन्ताभ्यां भक्तिरेवात्रकारणम् || ८-१० || यः कुर्यात्पर्वकालेषु महापूजाप्रवर्तनम् | शिवस्य रथयात्रां वा नगरान्तः परिक्रमात् || ८-११ || महाचित्रध्वजैः चित्रैः किङ्किणीखकान्वितैः | वितानध्वजमालाभिः घण्टाचामरदर्पणैः || ८-१२ || शंखभेर्यादिनिर्घोषैः गीतवाद्यादिसंकुलैः | लेख्या दारुमयैर्यन्त्रैः मातृयक्षगणादिभिः || ८-३ || उदगाग्नेय यन्त्रैश्च बह्वाश्चर्यैरनेकशः | स्त्रिडोलचक्रयन्त्रैश्च रथमन्दिरशोभिताम् || ८-१४ || उद्यानपानखानाद्यैः महासत्रसभायुताम् | महाजनसमाकीर्णां यथाविभवकल्पिताम् || ८-१५ || सर्वदानस्य पुण्यानि सर्वयज्ञफलानि च | अत्युग्रतपसां पुण्यं सर्वतीर्थफलानि च || ८-१६ || लब्ध्वानखरः श्रीमान् विधियात्राप्रवर्तनात् | शिवलोके महाभोगैः शिववन्मोदते सदा || ८-१७ || तस्यान्ते देवराजत्वं सुचिरं कालमाप्नुयात् | जम्बूद्वीपाधिपः श्रीमान् तस्यान्ते च भवेत्पुनः || ८-१८ || प्. ९१(११७) आलिङ्गवेदिपर्यन्तं यो दद्यात् घृतकंबलम् | घतधाराफलन्तस्य माघे पूर्णे च पर्वणि || ८-१९ || जागरन् गीतनृत्ताद्यैः सकृत्कृत्वा तु पर्वणि | मन्वन्तरं शतं साग्रं रुद्रलोके महीयते || ८-२० || छत्राभिरामनाट्याद्यं शिवस्यायतनाग्रतः | सम्यक् संप्रोक्षणं कृत्वा रुद्रलोके महीयते || ८-२१ || सुरूपः सुभगश्श्रीमान् परिभ्रष्टोत्र जायते | रूपं पिष्टमयं कृत्वा त्रिणेत्रं रत्नभूषितम् || ८-२२ || दन्तेषु मौक्तिकं तस्य प्रवालमधरोष्ठयोः | दद्याद्वज्रञ्च नेत्रेभ्यो वैडूर्यं चापि मस्तके || ८-२३ || हेमरौप्यम् च हस्ताभ्यां ताम्रं पादे प्रकल्पयेत् | अण्डजैर्वापि कार्पास सूत्रैरप्युपवेष्टयेत् || ८-२४ || सुगन्धैदूपगन्धैश्च पुष्पैश्चापि विभूषयेत् | विविधैर्भक्ष्य भोज्यैश्च बलिं तत्रोपकल्पयेत् || ८-२५ || भोजयेच्छिवभक्तांश्च विप्रान् भक्त्या समर्चयेत् | प्रीयतां मे शिवो नित्यं इत्युक्त्वोत्थापयेद्द्विजान् || ८-२६ || तैरेव सार्धं विप्रेन्द्रैः आनयेत्तं शिवालयम् | नीत्वा समर्पयेद्वेद्यां शिवलिङ्गसमीपतः || ८-२७ || सर्वयज्ञफलं प्राप्य सर्वदानफलानि च | सुरूपोरूप्यदानेन शिवलोके महीयते || ८-२८ || प्. ९२(११८) भाजनं घृतसंपूर्णं मधुना परिशोभितम् | दद्यात्कृष्णतिलानान्तु प्रस्थमेकन्तु मागधम् || ८-२९ || द्विगुणन्तण्डुलानान्तु पृथक् प्रस्थं प्रकल्पयेत् | अण्डजैः पौण्ट्रजैर्वस्त्रैः विचित्रैः परिवेष्टितम् || ८-३० || लिङ्गं संवेष्ट्यवस्त्राभ्यां बलिमेतन्निवेदयेत् | अर्चयित्वा विधानेन पौर्णमास्यां विशेषतः || ८-३१ || युगकोटिसहस्राणि शिवलोके महीयते | पुण्यक्षयादिहागत्य समृद्धे जायते कुले || ८-३२ || मेधावी सुभगः श्रीमान् वेदवेदांगपारगः | ताम्रपात्रं पयः पूर्णं कृत्वा तत्स्थं च काञ्चनम् || ८-३३ || प्रच्छाद्योपरि पद्मे * * * * * * * * हत् | शिवभक्तद्विजं स * * पूजयित्वा विधानतः || ८-३४ || प्राच्यां समुद्भवे सोमे प्रतीच्यां तु खौ गते | पौर्णमास्यां सवैशाख्यां गृह्यपात्रं शिवाग्रतः || ८-३५ || प्रीयताम्मे महादेवः सोममूर्तिः जगत्पतिः | तस्मै विप्राय तत्पात्रं अर्पयेद्भक्तितः शनैः || ८-३६ || एतत्सौमव्रतन्नाम कृत्वा रुद्रान्तिकं व्रजेत् | रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरो नरः || ८-३७ || स पूर्वाभ्यासके नैव पुनः शिवपदं व्रजेत् | पौर्णमास्यां त्वथाषाढ्यां शिवं संपूज्ययत्नतः || ८-३८ || प्. ९३(११९) उपवीतं शिवे दद्यात् शिवभक्तांश्च भोजयेत् | पुनरेव तु कार्तिक्यां पूज्य शंभुं क्षमापयेत् || ८-१३९ || यतीनां दक्षिणां दद्यात् सूत्रवस्त्रादिपूर्वकाम् | यः कुर्यात्सकृदप्येवं चातुर्मास्य पवित्रकम् || ८-४० || कल्पकोटिशतं दिव्यं रुद्रलोके महीयते | पुण्यक्षयात्परिभ्रष्टः चतुर्वेदी च जायते || ८-४१ || इच्छया तु भवेद्राजा गुणरूपसमन्वितः | भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् || ८-४२ || मुखवाद्येन यत्पुण्यमुभयं लभते नरः | तदेव पुण्यं गीतस्य नृत्तस्य च विशेषतः || ८-४३ || तदेव जयशब्दस्य तदेवन्तालकध्वनेः | यो गां पयस्विनीं दद्यात् तरुणीं वृषसंयुताम् || ८-४४ || शिवाय तेन दत्तं दत्तं स्यात् जगत्सर्वं चराचरम् | वृषस्य परिपूर्णाङ्गमुदारञ्च शशिप्रभम् || ८-४५ || गोपतिं धूर्वहञ्चापि यथेष्टञ्च निवेदयेत् | यावन्ति देहरोमाणि तत्प्रसूतिकुलेषु च || ८-४६ || तावद्युगसहस्राणि शिवलोके महीयते | शिवाग्निकार्यमुद्दिश्य सुरूपां सुपयस्विनीम् || ८-४७ || कुलीनां कपिलां दत्वा दत्तं भवति चाक्षयम् | भयकान्तारदुर्गेभ्यः कपिला त्राति मातृवत् || ८-४८ || प्. ९४(१२०) यजने कपिलान्तस्मात् शिवाय विनिवेदयेत् | शिवस्नानादिकार्यार्थमुत्पन्नं कपिलाघृतम् || ८-४९ || तस्मात्तत्रैव सा योज्या कपिला शुभमिछता | कापिलं यः पिबेच्छूद्रः शिवसंस्कारवर्जितः || ८-५० || स प्रयाति महाघोरं नरकं यातनाकुलम् | हुतशेषं पिबेद्विप्रः स्वर्गीस्यादन्यथा पशुः || ८-५१ || गामालभ्य नमस्कृत्वा यः कुर्याद्द्विःप्रदक्षिणम् | प्रदक्षिणी कृता तेन सप्तद्वीपा वसुन्धरा || ८-५२ || गवां हुङ्कारशब्देन दर्शनस्पर्शनेन च | पापं प्रणश्यते यस्मात् तस्मात् पश्येत् सृशेत् सदा || ८-५३ || कुतस्तेषां हि पापानि येषां ग्रहमलंकृतम् | सततं बालवत्साभिः गोभिः श्रीभिरिवस्वयम् || ८-५४ || यानि तीर्थानि मेदिन्यामासमुद्रात् सरांसि च | गवां शृङ्गोदके स्नात्वा कलान्नार्हन्ति षोडशीम् || ८-५५ || न लङ्घयेद्गवामस्थि मृतगन्धन्नवर्जयेत् | यावत् पिबति तद्गन्धन्तावत्पुण्यैस्सपूर्यते || ८-५६ || गवां कण्डूयनाद्धूपात् गोप्रदानफलं लभेत् तुल्यं गोशतदानेन भयरोगादिपालनात् || ८-५७ || तृणोदकादिसंयुक्तं यः प्रदद्याद्गवान्तिकम् | सोश्वमेधशतं पुण्यं लभते नात्र संशयः || ८-५८ || प्. ९५(१२१) बहुनात्र किमुक्तेन गावः पाल्याः प्रयत्नतः | गावो देवास्सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा || ८-५९ || ये ताडयन्ति गां पापाः सर्वलोकस्य मातरम् | आक्रोशयन्ति ये यस्मात् आक्रुष्टैस्ताडितञ्जगत् || ८-६० || ताडयेद्यदि गां मोहात् यावत्क्रोशेन्नराधमः | नरकाग्नौ स पच्येत गवांनिश्वासपीडितः || ८-६१ || स पलाशेन दण्डेन ताडयन् स्तान्निवर्तयेत् | गच्छगच्छेति तां ब्रूयात् मातर्मातेति वारयेत् || ८-६२ || हलोत्सर्गन्तु यः कुर्यात् पक्षयोरुभयोरपि | द्वादश्यां पौर्णमास्यां वा चतुर्दश्यष्टमीषु वा || ८-६३ || तस्य भावप्रियो विष्णुः शिवोमासर्वदेवताः | शान्तिं पुष्णन्तु मे प्रीताः स्वर्गमायुर्बलं श्रियम् || ८-६४ || एवं गौर्वर्तते गोषु ताडनाक्रोशवर्जितः | महतीं श्रियमाप्नोति रुद्रलोकं स गच्छति || ८-६८ || गो ब्राह्मणार्थमुद्युक्तः प्राणैर्यदिवियुज्यते | प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः || ८-६६ || ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् | एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति || ८-६७ || गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः | गोभिर्वेदास्समाकीर्णाः सषडङ्गपदक्रमाः || ८-६८ || प्. ७६(१२२) शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ | शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च || ८-६९ || शिरो मध्ये महादेवः सर्वदेवोपरिस्थितः | ललाटाग्रे स्थिता देवी नासावंशे च षण्मुखः || ८-७० || कंबलाश्वतरौ नागौ नासापुटसमास्थितौ | कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ || ८-७१ || दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः | सरस्वती च हुंकारे यमयक्षौ च गण्डयोः || ८-७२ || सन्ध्याद्वये तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः | ऋक्षाणि ककुदिद्यौश्च सिद्धाश्चोरसि संस्थिताः || ८-७३ || चतुष्पात्सकलोधर्मः स्वयं जंघाधिसंस्थितः | खुरमध्ये तु गन्धर्वाः खुराग्रेषु च पन्नगाः || ८-७४ || खुराणां पश्चिमाग्रेषु श्रितास्त्वप्सरसां गणाः | रुद्रैकादशकः पृष्ठे वायवः सर्वसन्धिषु || ८-७५ || श्रोणी संस्थाश्च पितरः स्थिता योनौ तु मातरः | श्रीरपाने गवां नित्यं नागा लांगूलमाश्रिताः || ८-७६ || आदित्यरश्मयो वाले पिण्डीभूता व्यवस्थिताः | उदरे पृथिवी सर्वा सशैलवनकाननाअ || ८-७७ || साक्षाद्गङ्गा च गोमूत्रे गोमये यमुना स्थिता | अष्टाविंशति देवानां कोट्यो रोमसुसंस्थिताः || ८-७८ || प्. ९७(१२३) ऋषयश्च तथा सर्वे रोमकूपेषु संस्थिताः | चत्वारस्सागराः पूर्णा ऊधस्येव पयोधराः || ८-७९ || जटरे गार्हपत्योग्निः हृदये दक्षिणानलः | मुखे ह्याहवनीयस्तु स्थिता तेन गरीयसा || ८-८० || सन्धिषु क्रतवस्सर्वे हयमेधादयः स्थिताः | एतद्धि कथितं सर्वं यथा गोषु प्रतिष्ठितम् || ८-८१ || गोषु दत्तं हुतं भुक्तं गोषु सर्वं चराचरम् | तस्मान्न हिंस्याद्गावो वै पालनीयास्तु सर्वदा || ८-८२ || गावस्तुत्याश्च वन्द्याश्च गावो मां पान्तु नित्यशः | ब्राह्मणा ब्रह्मशब्देन स्तूयते प्रणवेन यः || ८-८३ || स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु | इहामुत्र च सांबार्धो विघ्नेशगणपूजितः || ८-८४ || स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु | लम्बोदरेण देवेन गजवक्त्रेण यः स्तुतः || ८-८५ || स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु | श्रीमता रुचिनागेण घण्टाकर्णगणेन यः || ८-८६ || नित्यं प्रणम्यते भक्त्या हृष्टेनात्यक्तचेतसम् | सशिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु || ८-८७ || नित्यं रुद्रबलोपेतो रुद्रशक्तिसमन्वितः | घण्टाकर्णगणो देवः शिवाज्ञानुविधायकः || ८-८८ || प्. ९८(१२४) शिवस्तेजोभिभावेन गोषु मारीर्व्यपोहतु | शिवाय देवदेवाय महादेवाय भाविने || ८-८९ || रुद्राय स्थाणवे नित्यमरोगाय नमो नमः | परमेशाय सिद्धाय मन्त्रसिद्धिप्रदायिने || ८-९० || त्र्यंबकाय महेशाय त्वतिशान्ताय ते नमः | अभिमन्त्र्य सदा तोयमेतैर्मन्त्रैर्यथाक्रमम् || ८-९१ || प्रोक्षयेत् गवान्देह मतश्शान्तिर्भविष्यति | य इमं पठते गोषु रोगार्तासु विशेषतः || ८-९२ || गो सावित्रिं सदाकालं गवां शान्तिर्भविष्यति | प्रातरुत्थाय सततं गोसावित्रीमिमां पठेत् || ८-९३ || गवाञ्चोत् वकालेषु प्रस्थाने वा समागमे | आयुष्मान् बलवान् श्रीमान् गोमानर्थपतिर्भवेत् || ८-९४ || देहान्ते च परं स्थानं सगच्छेन्नात्र संशयः | सर्वपापविशुध्यर्थं गोसावित्रीमिमां पठेत् || ८-९५ || स * * तोयेषु बृहत्त्रिणेषु सपुंगवन्नित्यमरोगवत्साः | चरन्तु गावः सुखिता वनेषु क्षीरं प्रयच्छन्तु सुखं स्वपन्तु || ८-९६ || योलङ्कृत्य शिवायाश्वमुत्तमं विनिवेदयेत् | सोश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् || ८-९७ || प्. ९९(१२५) सुविनीतां स्त्रियं दासीं भृत्यं वा विनिवेदयेत् | नरमेधस्य यज्ञस्य फलमष्टगुणं भवेत् || ८-९८ || निवेदयीत यो नागं भक्त्या भद्रमलंकृतम् | शिवाय पर्वदिवसे तस्य पुण्यफलं शृणु || ८-९९ || मत्तैरैरावतप्रख्यैर्गजैर्युक्तैस्सुशोभनैः | प्रक्रीडति महायानैः शतसंख्यैरनेकशः || ८-१०० || कल्पकोटिसहस्राणि कल्पकोट्ययुतानि च | रुद्रलोकगतश्चान्ते भवेदिन्द्रस्सुराधिपः || ८-१०१ || चतुर्युगसहस्रान्ते भूमिं प्राप्य नराधिपः | भवेदिन्द्रसमः श्रीमान् रूपवीर्यश्रियान्वितः || ८-१०२ || शिवाय यः फलोपेतां सर्वसस्य प्ररोहिणीम् | महीम्महीपतिर्दद्यात् तस्य पुण्यफलं शृणु || ८-१०३ || यावद्दण्डा भवेद्भूमिः मीयमाना समन्ततः | तावत्कल्पस्य संख्यानं रुद्रलोके महीयते || ८-१०४ || एवं सर्वत्र विज्ञेयं फलं दण्डप्रमाणतः | ग्रामखेटपुरक्षेत्रे विषयादिनिवेदने || ८-१०५ || सर्वसस्यजलोपेतां सर्वबाधाविवर्जिताम् | ग्रामं शिवाय यो दद्यात् तस्य पुण्यफलं शृणु || ८-१०६ || सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् | सर्वदानेषु यत्पुण्यं ग्रामदानेषु तत्फलम् || ८-१०७ || प्. १००(१२६) सूर्यकोटिप्रतीकाशैः दिव्यस्त्रीकोटिसंयुतैः | संयुक्तः कोटिशो नेकैस्सर्वकामसमन्वितः || ८-१०८ || विमानैर्ग्रामदानेन त्रिसप्तकुलसंयुतः | यथेष्टमैश्वरे लोके क्रीडते कालमक्षयम् || ८-१०९ || यत्पुण्यन्नगरस्यैव ग्रामदानाच्छताधिकम् | दशदानेनचानन्त्यं नशक्यं परिकीर्तितुम् || ८-११० || रत्नान्नपानगोश्वाद्यं सार्वभौमे प्रजायते | तस्माद्भूमिप्रदानेन नरो भवति सर्वदा || ८-१११ || योन्यदत्तां स्वदत्तां वा हरेद्भूमिन्नराधमः | प्रपच्यतेऽक्षयं कालं नरकेषु क्रमेण सः || ८-११२ || सर्वं वा भूमिहरणे हृतमेव न संशयः | भूमिहर्ता वसेत्तत्र नरके कालमक्षयम् || ८-११३ || देवस्वन्निर्हरन्तीह नरा नरकनिर्भयाः | ब्रह्मस्वहारिणो मोहात् पच्यन्ते नरकाग्निषु || ८-११४ || देवब्रह्मस्वपुष्टानि वाहनानि महीपतिः | युद्धकाले विशीर्यन्ते सैकतास्सेतवो यथा || ८-११५ || यावद्दाता वसेत्स्वर्गे तावत्कालस्य संख्यया | तस्माच्छतगुणं प्रोक्तं तद्धर्ता नरके वसेत् || ८-११६ || विंशत्यष्टौ हि कोट्या हि नरकाणां सुदारुणाः | क्रमेण तेषु पच्यन्ते देवब्रह्मस्वहारिणः || ८-११७ || प्. १०१(१२७) कल्पान्ते ते समुत्तीर्णा वृक्षकीटादि योनिषु | भ्रमन्ति सुचिरं कालं क्षुत्पिपासादिपीडिताः || ८-११८ || एवं भ्रमन्ति सुचिरमीश्वराज्ञाप्रचोदिताः | केनचिच्छिवभक्तेन शिवार्चायतनादिषु || ८-११९ || ततो निर्द्धूतपाप्मानः ते नराः शिवतेजसा | दिव्यं प्रयान्ति सन्त्यज्य शरीरं यातनाकृतम् || ८-१२० || इति श्रीशिवधर्मोत्तरे शैवशास्त्रे नन्दिकेश्वरप्रोक्ते शिवधर्मप्रदानन्नाम अष्टमोध्यायः || प्. १०२(१२८) श्रीः अथ नवमोध्यायः नन्दिकेश्वरः अतः परमिदं गुह्यं वक्ष्यामि मुनिसत्तम | पुण्यातिशयसंयुक्तं सर्वदेवैरनुष्ठितम् || ९-१ || ब्रह्मणा विष्णुना देव्या स्कन्देन्द्रेण यमेन च | वरुणादित्यसोमाग्निमरुद्दहननारदैः || ९-२ || धर्मश्रीशुक्रनक्षत्र विलोहितशनैश्चरैः | विश्वामित्रवसिष्ठात्रि बृहस्पतिबुधादिभिः || ९-११३ || श्वेतागस्त्यदधीचाद्यैः सर्वैश्च मुनिसत्तमैः | भृंगिमातृमहाकालचण्डेश्वरगणाधिपैः || ९-४ || वृषवासुकिकार्कोटगुलिकानन्ततक्षकैः | शंखपद्ममहापद्मैरन्यैश्चापि महोरगैः || ९-५ || सिद्धैर्यक्षैः किंपुरुषैः बहुभिश्च महात्मभिः | अप्सरोदैत्यगन्धर्वै रक्षोभूतगणैरपि || ९-६ || विश्वेदेवैस्तथा सर्वैस्तैस्तैस्सुकृतिभिर्वरैः | शिवागतिर्यथाप्राप्ता सर्वगत्यातिशायिनी || ९-७ || मयाचेशप्रसादेन तथाविधमिमं शृणु | सितचन्दनतोयेन स्नाप्यलिङ्गं विलिप्य च || ९-८ || प्. १०३(१२९) शतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च | पङ्कजे विमले सौम्ये निच्छिद्रे पुष्पिते सिते || ९-९ || मध्ये केसरजालस्य स्थाप्य लिङ्गं कनीयकम् | अङ्गुष्ठमात्रं विधिवत् सर्वगन्धमयं शुभम् || ९-१० || संस्थाप्य दक्षिणामूर्तौ बिल्वपत्रैस्समर्चयेत् | अगरुन्दक्षिणे पार्श्वे पश्चिमे तु मनश्शिलाः || ९-११ || उत्तरे चन्दनं दद्यात् हरितालन्तु पूर्वतः | सुसुगन्धैश्च कुसुमैः विचित्रैश्चापि पूजयेत् || ९-१२ || धूपं कृष्णागरुं दद्यात् सघृतं चापि गुल्गुलु | वासांस्यच्छानि सूक्ष्माणि विकेशानि निवेदयेत् || ९-१३ || शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः | अनेन विधिना देवाः सर्वे देवत्वमागताः || ९-१४ || देवी देवत्वमापन्ना गुहःस्कन्दत्वमागतः | ब्रह्मा ब्रह्मत्वमापन्नो हरिर्विष्णुत्वमागतः || ९-१५ || इन्द्रश्च देवराजत्वं गणाश्च गणतां गताः | एवं योर्चयते लिङ्गं सर्वगन्धमयं सकृत् || ९-१६ || सर्वपापविनिर्मुक्तः शिवमेवाधिगच्छति | एतद्व्रतोत्तमं गुह्यं शिवलिङ्गं महाव्रतम् || ९-१७ || भक्तस्य ते मयाख्यातं न देयं यस्य कस्यचित् | चिरं पर्युषितं माल्यं शिवस्यापनयीत यः || ९-१८ || प्. १०४(१३०) गोसहस्रफलन्तस्य भवतीति न संशयः | इति श्वधर्मोत्तरे शिवधर्मशास्त्रे शिवलिङ्गमहाव्रतन्नाम नवमोध्यायः || प्. १०५(१३१) श्रीः अथ दशमोध्यायः नन्दिकेश्वरः चतुर्दश्यामथाष्टम्यां पक्षयोश्शुक्लकृष्णयोः | अब्दमेकन्न भुञ्जीत शिवार्चनरतः शुचिः || १०-१ || यत्पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम् | सत्यवादिषु यत्पुण्यं यत्पुण्यं तीर्थगामिनाम् || १०-२ || अग्निहोत्रेषु यत्पुण्यं यत्पुण्यं यज्ञयाजिनाम् | तत्पुण्यं सकलन्तस्य शिवलोकं स गच्छति || १०-३ || पृथिवीभाजनं कृत्वा भुक्त्वा पर्णसुयत्नतः | अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते || १०-४ || द्वयोः पर्वस्य पञ्चम्योः द्वयोः प्रतिपदोर्नरः | सोपवासः सुगन्धांगः शयीत प्रियया सह || १०-५ || शेते निश्चलचित्तस्तु रतिप्रीतिविवर्जितः | शिवानुस्मृतचित्तस्य तस्य पुण्यफलं शृणु || १०-६ || दिव्यं वर्षसहस्राणि दिव्यं वर्षशतानि च | तपस्तप्तं महत्तेन भवेदत्र न संशयः || १०-७ || शिवभक्तिसुपूतात्मा यद्यपि स्यात् स पापकृत् | शिवलोके वसेन्नित्यं शिववत्संस्मृतो गुणैः || १०-८ || प्. १०६(१३२) कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी | इह भोगानवाप्नोति परत्र च शिवां गतिम् || १०-९ || योब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु | ब्रह्मचारी जितक्रोधः शिवस्यार्चनतत्परः || १०-१० || संवत्सरान्ते विप्रेन्द्रान् शिवभक्तान् समाधिना | भोजयित्वा ततो ब्रूयात् प्रीयतां भगवान् शिवः || १०-११ || एवं विधिसमायुक्तः शिवलोकं स गच्छति | न च मानुष्यकं लोकमद्ध्रुवं प्राप्नुयाच्च सः || १०-१२ || उपवासात्परं भैक्षः भैक्षात्परमयाचितम् | अयाचितात्परं नक्तं तस्मान्नक्तान्न विद्यते || १०-१३ || देवैर्भुक्तन्तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा | अपराह्णे च यतिभिः सन्ध्यायां गुह्यकादिभिः || १०-१४ || सर्वां वेलामतिक्रम्य नक्तभोजनमुत्तमम् | वामाचारो महादेवो नक्तेनोद्धरते नरान् || १०-१५ || हविष्यभोजनं स्थानं सत्यमाहारलाघवम् | अग्निकार्यमुपस्थानं नक्तभोजनमाचरेत् || १०-१६ || कृष्णाष्टम्यां प्रयत्नेन कृत्वानन्तं विधानतः | मार्गशीर्षे शुभे मासे शङ्करन्तु समर्चयेत् || १०-१७ || पीत्वा तु शक्त्या गोमूत्रमनाहारो निशिं यजेत् | अतिरात्रस्य यज्ञस्य फलमष्टगुणं भवेत् || १०-१८ || प्. १०७(१३३) एवं पुष्येपि संपूज्य शंभुनामानमीश्वरम् | कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् || १०-१९ || माघे माहेश्वरन्नाम कृष्णाष्टम्यां प्रपूजयेत् | निशिपीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् || १०-२० || फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् | राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् || १०-२१ || वर्षलक्षं महाभोगैः शिवलोके महीयते | चैत्रे तु स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत् || १०-२२ || यावत्सुखर्जितान् प्राश्य सोश्वमेधफलं लभेत् | वैशाखे शिवनामानं पिवेद्रात्रौ कुशोदकम् || १०-२३ || नरमेधस्य यज्ञस्य फलमष्टगुणं लभेत् | ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् || १०-२४ || गवां कोटिप्रदानस्य यत्फलं तदवाप्नुयात् | आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् || १०-२५ || सौत्रामणेस्तु यज्ञस्य फलमष्टगुणं लभेत् | श्रावणे शर्वनामानं पिण्याकं भक्षयेन्निनि || १०-२६ || वर्षकोटिशतं साग्रं रुद्रलोके महीयते | मासे भाद्रपदेष्टम्यां त्र्यंबकन्नामकं यजेत् || १०-२७ || प्राशनाद्बिल्वपत्राणामनन्तफलमाप्नुयात् | आश्विजेश्वरनामानं पीत्वा वै तण्डुलोदकम् || १०-२८ || प्. १०८(१३४) पौण्डरीकस्य यज्ञस्य फलमष्टगुणं भवेत् | कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि || १०-२९ || अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् | वर्षान्ते भोजयेद्विप्रान् शिवभक्तिपरायणान् || १०-३० || पायसं मधुनायुक्तं घृतेन च परिप्लुतम् | शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् || १०-३१ || निवेदयीत रुद्राय गाञ्च कृष्णां पयस्विनीम् | वर्षमेकञ्चरे देवं नैरन्तर्येण यो नरः || १०-३२ || कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु | सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः || १०-३३ || वसेच्छिवपुरे नित्यं नेहायाति कदाचन | पुण्योत्सवेषु सर्वेषु विष्वौ च ग्रहणादिषु || १०-३४ || दानोपवासहोमाद्यं अक्षयं जायते कृतम् | प्रतिमासं प्रवक्ष्यामि इदं व्रतमनुत्तमम् || १०-३५ || धर्मार्थकाममोक्षार्थं नरनार्यादिदेहिनाम् | पुष्यमासेषु संप्राप्ते यः कुर्यान्नक्त भोजनम् || १०-३६ || सत्यवादी जितक्रोधः शालिगोधूमगोरसैः | पक्षयोरष्टमीं यत्नात् उपवासेन वर्तयेत् || १०-३७ || त्रिसन्ध्यमर्चयेदीशं अग्निकार्यञ्च शक्तितः | भूमिशययां च मासान्ते पूर्णेमास्यक्षतादिभिः || १०-३८ || प्. १०९(१३५) कृत्वा स्नानं महापूजां शिवे यत्नात्प्रपूरयेत् | नैवेद्यमाढकप्रस्थं क्षीरसक्तं निवेदयेत् || १०-३९ || भोजयीत द्विजानष्टौ शिवभक्तान् सुदक्षिणान् | शिवाय यो गोमिथुनं कपिलां च निवेदयेत् || १०-४० || अलङ्कृत्वा स्वरूपञ्च तस्य पुण्यफलं शृणु | सूर्यकोटिप्रतीकाशैः विमानैस्सार्ववामिकैः || १०-४१ || रुद्रकन्यासमाकीर्णैः महावृषभसंयुतैः | सङ्गीतनृत्तवाद्याद्यैः अप्सरोगणशोभितैः || १०-४२ || चामरैर्धूयमानैश्च स्तूयमानैस्सुरासुरैः | त्रिणेत्रः शूलपाणिश्च शिवैश्वर्य समन्वितः || १०-४३ || गच्छेच्छिवपुरन्तत्र यत्रास्ते शङ्करस्स्वयम् | यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च || १०-४४ || तावद्वर्षसहस्राणि शिवलोके महीयते | त्रिस्सप्तकुलजैस्सार्धं भुक्त्वा भोगान्यथेप्सितान् || १०-४५ || ज्ञानयोगं समासाद्य तत्रैव भुविमुच्यते | योगाद्दुःखान्तमाप्नोति ज्ञानाद्योगः प्रवर्तते || १०-४६ || शिवधर्माद्भवेज्ज्ञानं शिवधर्मः शिवार्चनात् | इत्येषवस्समाख्यातः संसारार्णववर्तिनाम् || १०-४७ || शिवमोक्षक्रमोपायः शिवाश्रयनिषेविणाम् | माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् || १०-४८ || प्. ११०(१३६) कृसरं घृतसंयुक्तं भुञ्जानस्संयतेन्द्रियः | सोपवासः चतुर्दश्यां भवेदुभयपक्षयोः || १०-४९ || शिवाय पौर्णमास्यां यः प्रदद्याद्धृतकंबलम् | कृष्णं गोमिथुनं चात्र सुरूपं च निवेदयेत् || १०-१५० || शेषं कृत्वा यथान्यायं पूर्वोक्तमखिलं लभेत् | इन्द्रनीलप्रतीकाशैः विमानैः शिखिसंवृतैः || १०-५१ || गत्वा शिवपुरं रम्यं भुक्त्वा भोगान्यथेप्सितान् | संप्राप्ते फाल्गुने मासे यः कुर्यान्नक्तभोजनम् || १०-५२ || श्यामाकाक्षीरनीवारैः वीतक्रोधोजितेन्द्रियः | चतुर्दश्यामथाष्टम्यामुपवासरतो भवेत् || १०-५३ || पौर्णमास्यां महास्नानं पञ्चगव्यघतादि * | * * काम्रादिमृद्भिश्च गोमूत्रैर्गामयादिभिः || १०-५४ || त्वग्भिश्च क्षीरवृक्षाणां धात्रीगन्धादिभिस्तथा | दद्याद्गोमिथुनं भक्त्या ताम्राभं परमेष्ठिने || १०-५५ || शेषमन्यद्यथोद्दिष्टं कृत्वा प्राप्नोति तत्फलम् | पद्मरागप्रतीकाशैः विमानैर्गजसंयुतैः || १०-५६ || गत्वा शिवपुरं दिव्यं पूर्वोक्तं लभते फलम् | चैत्रमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् || १०-५७ || शाल्यन्नं पयसायुक्तं भुञ्जानः संयतेन्द्रियः | दद्याद्गोमिथुनं चात्र पाटलं समलंकृतम् || १०-५८ || प्. १११(१३७) शिवायाति स्वरूपं च शेषं पूर्ववदाचरेत् | पद्मरागनिभैर्यानैः दिव्याश्वरथसंयुतैः || १०-५९ || गच्छेच्छिवपुरं रम्यं दुष्प्रापमकृतात्मभिः | वैशाखमासे संप्राप्ते यः कुर्यान्नक्तभोजनम् || १०-६० || पिष्टकं पयसायुक्तं भुञ्जानस्संयतेन्द्रियः | गोष्ठशायी शिवध्यायी निशायामेकवस्त्रधृक् || १०-६१ || नियमं च यथोद्दिष्टं सामान्यं सर्वमाचरेत् | वैशाखे पौर्णमास्यां च कुर्यात्स्नानं घृतादिभिः || १०-६२ || शिवायालंकृतं श्वेतं दद्याद्गोमिथुनं शिवम् | हंसकुन्दन्दुवर्णाभैर्महायानैरलंकृतम् || १०-६३ || सुश्वेतवृषसंयुक्तैः प्रयातीश्वरमन्दिरम् | सर्वातिशानिरूपाभिः स्त्रीभिस्संपरिवारितः || १०-६४ || नीलोत्पलसुगन्धाभिः क्रीडते कालमक्षयम् | ज्येष्ठमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् || १०-६५ || शाल्यन्नमंभसा धौत माज्यक्षीरेणसंयुतम् | वीरासनीनिशार्धं स्यात् दिवागामनुगच्छति || १०-६६ || हितकारी गवां नित्यमहंकारविवर्जितः | पौर्णमास्यां च पूर्वेद्युः कुर्यात्स्नानादिकं विधिम् || १०-६७ || देयं गोमिथुनं चात्र धूमवर्णमलंकृतम् | नीलोत्पलदलप्रख्यैरसंख्यानैरनौपमैः || १०-६८ || प्. ११२(१३८) महासिह्मनिबद्धैश्च क्रीडते कालमक्षयम् | आषाढमासे संप्राप्ते यः कुर्यान्नक्तभोजनम् || १०-६९ || भूरिखण्डास्य संमिश्रं सक्तुमद्या सगोरसम् | दद्याद्गोमिथुनं गौरं शिवायालंकृतं शुभम् || १०-७० || सामान्यं च विधिं कुर्यात् सर्वञ्च प्राक्प्रचोदितम् | शुद्धस्फटिकसंकाशैः यानैस्सारसवाहनैः || १०-७१ || अणिमादिगुणैर्युक्तः शिववद्विचरेत्स्वयम् | संप्राप्ते श्रावणे मासे यः कुर्यान्नक्तभोजनम् || १०-७२ || क्षीरसाष्टिकयुक्तेन सर्वभूतहिते रतः | श्वेताग्रपादपाण्ट्रं च दद्याद्गोमिथुनं शिवे || १०-७३ || सामान्यमखिलं कुर्यात् विधिना यत् प्रकीर्तितम् | सविचित्रैर्महायानैः विचित्राश्वनियोजितैः || १०-७४ || गत्वा शिवपुरं दिव्यं पूर्वोक्तं लभते फलम् | प्राप्ते भाद्रपदे मासे यः कुर्यान्नक्त भोजनम् || १०-७५ || हुतशेषन्तु भुञ्जानो वृक्षमूलाक्षितो दिवा | रात्रौ चायतने वासी सर्वभूतानुकंपकः || १०-७६ || नीलस्कन्धं वृषं गां च रुद्राय विनिवेदयेत् | निशाकरकरप्रख्यैः वज्रवैडूर्यशोभनैः || १०-७७ || चक्रवाकसमायुक्तैः विमानैस्सार्वगामिकैः | गत्वा शिवपुरं रम्यममरासुरवन्दितम् || १०-७८ || प्. ११३(१३९) क्रीडते विविधैर्भोगैर्यावदाभूतसंप्लवम् | श्रीमदाश्वयुजे मासि यः कुर्यान्नक्तभोजनम् || १०-७९ || घृताशनं प्रयुंजीत प्रसन्नात्माजितेन्द्रियः | वृषभं नीलवर्णाभं उरोदेशे समुन्नतम् || १०-८० || विमुच्य दद्याद्रुद्राय गामेकां समलङ्कृताम् | विधिशेषं च पूर्वोक्तमशेषं समुपाचरेत् || १०-८१ || प्राणान्ते च परं स्थानं प्रयाति शिववद्वशी | स्वच्छमौक्तिकसंकाशैरिन्द्रनीलोपशोभितैः || १०-८२ || जीवञ्जीवकसंयुक्तैः विमानैस्सार्वगामिकैः | प्रक्रीडते महाभोगैः यावदाभूतसंप्लवम् || १०-८३ || सुशुभे कार्तिके मासे यः कुर्यान्नक्तभोजनम् | क्षीरोदनन्तु भुञ्जीत सत्यवादी जितेन्द्रियः || १०-८४ || दद्याद्गोमिथुनं चात्र कापिलं ज्वलनप्रभम् | पूर्वोक्तविधिना कृत्वा शिवतुल्यगुणो भवेत् || १०-८५ || कल्पानलशिखा प्रख्यैः महायानैरनूपमैः | महासिंहकृताटोपैः शिववच्चेष्टिते सुखी || १०-८६ || मार्गशीर्षे शुभे मासे यः कुर्यान्नक्तभोजनम् | यवान्नं पयसायुक्तं भुंजानस्संयतेन्द्रियः || १०-८७ || दद्याद्गोमिथुनं दिव्यं पाण्डरं समलंकृतम् | शेषं शिवाय पूर्वोक्त * * विधिना समुपाक्रमेत् || १०-८८ || प्. ११४(१४०) सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः | गत्वा शिवपुरं दिव्यं शिवतुल्यबलो भवेत् || १०-८९ || अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया | त्रिस्नानार्चाग्निहवनं भूशर्या नक्तभोजनम् || १०-९० || पक्षयोरुपवासेन चतुर्दश्यष्टमीषु च | इत्येववमादिनियमैराचरेत शिवव्रतम् || १०-९१ || शिवभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् | स्त्रीत्वमत्युत्तमं सा तत्कांक्षते शृणु तद्व्रतम् || १०-९२ || उमामहेश्वरन्नाम सदाप्रीतिविवर्धनम् | अतियोगकरं शान्तं धर्मकामार्थसाधनम् || १०-९३ || पौणमास्याममायां च चतुर्दश्यष्टमीषु च | नक्तमब्दं प्रकुर्वीत हविष्यं ब्रह्मचारिणी || १०-९४ || उमामहेश्वरन्नाम हेम्ना कृत्वा सुशोभनाम् | प्रतिमां चापि वर्षान्ते स्नापयित्वा घृतादिभिः || १०-९५ || गन्धपुष्पैरलंकृत्य वस्त्रपुष्पैश्च शोभनैः | भक्ष्यभोज्यैरशेषैश्च वितानध्वजचामरैः || १०-९६ || भोजयेच्छिवभक्तांश्च दीनानाथांश्च तर्पयेत् | शक्त्या तु दक्षिणां दद्यात् गुरवे ज्ञानदायिने || १०-९७ || हेमकांस्यादिपात्रं वा सितभस्मावकुण्डितम् | कृत्वा चायतने मध्ये प्रतिमामुपकल्पयेत् || १०-९८ || प्. ११५(१४१) शिरसाधार्य तत्पात्रं वितान छत्रशोभितम् | ध्वजशंखादिविभवैः शिवस्यायतनं नयेत् || १०-९९ || लिङ्गमूर्तेः महेशस्य व्रतस्यान्ते निवेदयेत् | तद्वेद्यां स्थापयेत्पात्रमुपशोभासमन्वितम् || १०-१०० || शिवं प्रदक्षिणी कृत्य प्रणिपत्यक्षमापयेत् | समाप्य तद्व्रतं पुण्यं शृणुयाच्च फलं लभेत् || १०-१०१ || द्वादशादित्यसंकाशैः महायानैरनूपमैः | यथेष्टमैश्वरे लोके रुद्रैस्सार्धं प्रमोदते || १०-१०२ || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | तदन्ते समहाभोगैः विष्णुलोके महीयते || १०-१०३ || ततः कर्मावशेषेण सर्वकामसमन्वितम् | ब्रह्मलोकं समासाद्य परं सुखमवाप्नुयात् || १०-१०४ || ब्रह्मलोकात्परिभ्रष्टा श्रीमती परिपूजिता | प्राजापत्यं समासाद्य लोकालोकनमस्कृतः || १०-१०५ || भोगांस्तु सुचिरं भुक्त्वा सोमलोके वसेत्सुखी | सोमादैन्द्रं परं लोकमासाद्येन्द्रपतिर्भवेत् || १०-१०६ || इन्द्रलोकाच्च गान्धर्वं लोकं प्राप्य च मोदते | गन्धर्वपतिमाप्नोति भोगान्भुक्त्वा यथेप्सितान् || १०-१०७ || महारत्नप्रभादीप्तैरूपशोभितमद्भुतैः | यक्षिलोकमिदं प्राप्य यथाकामं प्रमोदते || १०-१०८ || प्. ११६(१४२) यक्षलोकात्परिभ्रष्टा क्रीडतेलमरुन्धती | स्थानानि लोकपालानां क्रमादागत्य मोदते || १०-१०९ || लोकालोकस्य पर्यन्ते सर्वस्मिन् क्षितिमण्डले | यत्रक्वचित्सुखं दिव्यं तदशेषमवाप्नुयात् || १०-११० || यौवनं रूपसंपन्नं अशेषपृथिवीपतिम् | धर्मार्थकाममोक्षज्ञमिममासाद्य मोदते || १०-१११ || ततस्सा धर्मशेषेण भवतीश्वरभाविता | स्वकर्मभावनायोगात् पुनः प्रारभते शुभम् || १०-११२ || शुभं वा पुनरप्येवं योनिं यानि सहस्रशः | यावन्नाप्नोति निर्वेदं तावद्भ्रमति कर्मणा || १०-११३ || तन्निर्वेदाच्च वैराग्यं वैराग्यात् ज्ञानसंभवः | ज्ञानात्प्रवर्तते योगो योगाद्दुःखान्तमाप्नुयात् || १०-११४ || अष्टम्यां च चतुर्दश्यां नियतं ब्रह्मचारिणी | वर्षमेकन्न भुञ्जीत महाभोगजिगीषया || १०-११५ || वर्षान्ते प्रतिमां कृत्वा पूर्ववद्विधिमाचरेत् | स्नानाद्यन्तद्व्रतं प्राप्य पूर्वोक्तांश्च गुणान् लभेत् || १०-११६ || जाम्बूनदमयैर्यानैः चतुर्द्वारैरलंकृतैः | गत्वा शिवपुरं दिव्यं अशेषं भोगमाप्नुयात् || १०-११७ || उमादेवी प्रियार्थन्तु तुष्टाव परमार्थतः | नारी चैवोपवासेन चाब्दं कृत्वा चतुर्दशीम् || १०-११८ || प्. ११७(१४३) वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् | पीतैस्तु लेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् || १०-११९ || पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत् | सप्तभौमैर्महायानैः तप्तचामीकरप्रभैः || १०-१२० || युगकोटिसहस्राग्रं रुद्रलोके महीयते | शिवादिसर्वलोकेषु भुक्त्वा भोगान्यथेप्सितान् || १०-१२१ || क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् | अमावास्यां निराहारा भवेदेवं सुयन्त्रिता || १०-१२२ || शूलं पिष्टमयं कृत्वा वर्षान्ते तु निवेदयेत् | शिवाय राजतं पद्मं सुवर्णकृतकर्णिकम् || १०-१२३ || तद्भक्त्या विन्यसेन्मूर्ध्नि शेषं पूर्ववदाचरेत् | कामतोपि कृतं पापं भ्रूणहत्यादिकं च यत् || १०-१२४ || तत्सर्वं शूलदानेन भिन्यान्नारी न संशयः | महापद्मविमानेन नरनारीसमन्विता || १०-१२५ || युगकोटिशतं साग्रं रुद्रलोके महीयते | ईशलोकादिलोकेषु भुक्त्वा भोगाननेकधा || १०-१२६ || इह लोके क्रमात्प्राप्य यथेष्टं पतिमाप्नुयात् | पौर्णिमायाममावास्यां अब्दमेकं सुयन्त्रिता || १०-१२७ || वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् | सुविचित्रैर्महायानैः दिव्यगन्धर्वभूषितैः || १०-१२८ || प्. ११८(१४४) युगकोटिशतं साग्रं शिवलोके महीयते | यथेष्टमैश्वरे लोके भुक्त्वा भोगान्विशेषतः || १०-१२९ || क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् | या कार्तिके शुभे मासे एक भुक्तेन वर्तते || १०-१३० || क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी | गुलाज्यमिश्रं पिण्याकं मासान्ते तु निवेदयेत् || १०-१३१ || अष्टम्यां च चतुर्दश्यां उपवासरतो भवेत् | इन्द्रनीलप्रतीकाशैः विमानैस्सार्वगामिकैः || १०-१३२ || वर्षकोटिशतं साग्रं रुद्रलोके महीयते | ईशलोकादिलोकेषु भुक्त्वा भोगाननेकधा || १०-१३३ || यथावद्भोगमासाद्य लोकेषु च विशेषतः | क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् || १०-१३४ || इत्येवं सर्वमासेषु विधिस्तुल्यः प्रकीर्तितः | एकभुक्तोपवासस्य फलञ्च सदृशं विदुः || १०-१३५ || क्षमासत्यं दयादानं शौचमिन्द्रियनिग्रहः | शिवपूजाग्निहोमं च सन्तोषोऽस्तेयभावनः || १०-१३६ || सर्वव्रतेषु यद्धर्मः सामान्यो दशधा स्मृतः | विशेषमपि वक्ष्यामि प्रतिमासव्रतं प्रति || १०-१३७ || मार्गशीर्षे शुभेमासे वृषं पिष्टसुनिर्मितम् | गन्धमाल्यैरलंकृत्य शिवालविनिवेदयेत् || १०-१३८ || प्. ११९(१४५) वृषयुक्तैर्महायानैरप्सरोगणसंयुतैः | वर्षायुतशतं साग्रं शिवलोके महीयते || १०-१३९ || सर्वदेवनिकायेषु संप्राप्य सुखमुत्तमम् | क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् || १०-१४० || पुष्यमासे शुभे प्राप्ते शूलं कृत्वा पिनाकिनः | गन्धमाल्यैरलंकृत्य शिवाय विनिवेदयेत् || १०-१४१ || महापुष्पकयानेन दिव्यगन्धप्रभावता | वर्षायुतशतं दिव्यं रुद्रलोके महीयते || १०-१४२ || भुक्त्वा तु विपुलान् भोगान् अशेषपुरसंभवान् | संप्राप्यैव क्रमाल्लोकान् यथेष्टं पतिमाप्नुयात् || १०-१४३ || रथमश्वयुतं माघे दीपमाला प्रशोभिते | पैष्टलिङ्गं समायुक्तं कृत्वा यतनमानयेत् || १०-१४४ || महारथोपमैर्यानैः श्वेतवाजीविराजितैः | वर्षकोटिशतं साग्रं शिवलोके महीयते || १०-१४५ || अनुभूयातुलान् भोगान् अशेषपुरसंभवान् | क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् || १०-१४६ || फाल्गुने प्रतिमां पैष्टीं कृत्वा रूपसमन्विताम् | गन्धमाल्यैरलंकृत्य स्थापयेच्छिवसन्निधौ || १०-१४७ || यानैरप्रतिमैर्दिव्यैः गीतवादित्रसंकुलैः | वर्षायुतशतं साग्रं शिवलोके महीयते || १०-१४८ || प्. १२०(१४६) सर्वामरनिकायेषु संप्राप्य सुखमुत्तमम् | क्रमाअदागत्य लोकेऽस्मिन् यथेष्टं पतिमाप्नुयात् || १०-१४९ || चैत्रे भवं कुमारं च कृत्वा पैष्टमलंकृतम् | स्थाप्य पात्रे यथा प्रोक्तं आनयेच्छिवमन्दिरम् || १०-१५० || शदीन्द्रप्रतीकाशैः विमानैस्सार्वगामिकैः | वर्षकोट्ययुतन्दिव्यं शिवलोके महीयते || १०-१५१ || कर्मक्षयादिहागत्य पुत्रपौत्रप्रतिष्ठितम् | अभीष्टं पतिमासाद्य लभेद्भोगान्सुदुर्लभान् || १०-१५२ || तण्डुलाढकपिष्टेन कृत्वा कैलासपर्वतम् | ईश्वरोमासमायुक्तं सर्वधातुविभूषितम् || १०-१५३ || कन्दरैर्निचितैः चित्रैः लवणप्रस्थसंयुतैः | सर्वरत्नसमायुक्तं स्थापयेदीश्वरालये || १०-१५४ || कैलासव्रतमित्युक्तं वैशाख्यां यस्समाचरेत् | कैलासकोपमैर्यानैः शिवलोके महीयते || १०-१५५ || शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः | क्रमादागत्य लोकेस्मिन् राजेन्द्रं पतिमाप्नुयात् || १०-१५६ || लिङ्गं पिष्टमयं कृत्वा ज्येष्ठे मासे सवेदिकम् | भक्त्या संपूज्य गन्धाद्यैः वस्त्रयुग्मेन वेष्टयेत् || १०-१५७ || उपशोभाविशेषैश्च तत्र जागरमाचरेत् | प्रभाते ध्वजशंखाद्यैः शिवाय विनिवेदयेत् || १०-१५८ || प्. १२१(१४७) शुद्धस्फटिकसंकाशैः विमानैस्सार्वगामिकैः | वर्षकोटियुगं साग्रं शिवलोके महीयते || १०-१५९ || भुक्त्वा भागान्यथा काममशेषपुरसंभवान् | क्रीडाविरतभावैश्च मोदते शङ्करालये || १०-१६० || क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् | ग्रहं पिष्टमयं कृत्वा आषाढे सप्तभौमिकम् || १०-१६१ || सर्वबीजरसैश्चापि संपूर्णं शुभलक्षणम् | ग्रहोपकरणैर्युक्तं मुसलोलुखलादिभिः || १०-१६२ || सर्वरत्नादिगोश्वाद्यैः दासीशययाद्यलंकृतम् | एतैः पिष्टमयैस्सर्वैः प्रदीपाद्युपशोभितैः || १०-१६३ || सर्वभक्तसमाकीर्णं गन्धमाल्यैरलंकृतम् | श्वेतरक्तासितैः पीतैः ध्वजैर्वस्त्रैस्सुशोभितम् || १०-१६४ || चतुर्विधैश्च चरणैः संयुक्तं दर्पणेन तु | आषाढे पौर्णमास्यान्तु शिवं स्थाप्य शिवाग्रतः || १०-१६५ || सर्वोपकरणोपेतं प्रणिपत्य निवेदयेत् | शतभौमैर्महायानैः विमानैस्सार्वगामिकैः || १०-१६६ || वर्षकोटिशतं साग्रं शिवलोके महीयते | भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् || १०-१६७ || प्राप्ता तु सर्वभोगाढ्यं सप्तभौमं ग्रहं लभेत् | सर्वधातु समाकीर्णं विचित्रध्वजशोभितम् || १०-१६८ || प्. १२२(१४८) निवेदयीत शर्वाय श्रावणे तिलपर्वतम् | रु(त्व)चेन्द्रनीलसंकाशैः यानैरप्रतिमैश्शुभैः || १०-१६९ || वर्षकोटिशतं साग्रं शिवलोके महीयते | विविधान्भुवनान्भोगानवाप्य विविधान्दिवि || १०-१७० || क्रमाल्लोकमिमं प्राप्य राजानं पतिमाप्नुयात् | कृत्वा भाद्रपदे मासे शोभनं शालिपर्वतम् || १०-१७१ || वितानध्वजवस्त्राद्यैः धातुभिश्च निवेदयेत् | दिवाकरकरप्रख्यैः महायानैः सुशोभनैः || १०-१७२ || वर्षकोटिसहस्राणि रुद्रलोके महीयते | संप्राप्यविपुलान् भोगान् अशेषपुरसंभवान् || १०-१७३ || क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् | कृत्वाचाश्वयुजे मासि विपुलं धान्यपर्वतम् || १०-१७४ || सुवर्णवस्त्रसंयुक्तं शिवाय विनिवेदयेत् | सुविचित्रैर्महायानैः वरभोगसमन्वितैः || १०-१७५ || वर्षकोटिसहस्राणि रुद्रलोके महीयते | रुद्रलोकादिलोकेषु भुक्त्वा भोगान्यथेप्सितान् || १०-१७६ || संप्राप्तेस्मिन् क्रमाल्लोके राजानं पतिमाप्नुयात् | सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः || १०-१७७ || सर्वधातु समायुक्तं सर्वरत्नोपशोभितम् | शृङ्गैश्चतुर्भिस्संयुक्तं वितानध्वजशोभितम् || १०-१७८ || प्. १२३(१७९) गन्धैर्माल्यैस्तथा धूपैः प्रदीपैश्चापि शोभितम् | विचित्रनृत्तगीतैश्च शंखवीणादिभिस्तथा || १०-१७९ || ब्रह्मघोषैस्तथा पुण्यैः मङ्गलैश्च विशेषतः | महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्वलम् || १०-१८० || नागेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् | तस्य मूर्ध्नि शिवं कुर्यात् सर्वदेवसमावृतम् || १०-१८१ || दैत्यगन्धर्वभूतैश्च सिद्धयक्षगणैस्तथा | विद्याधराप्सरोनागैः ऋषिभिश्च विशेषतः || १०-१८२ || शालिपिष्टमयं सर्वं रूपं कृत्वा विचक्षणः | देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् || १०-१८३ || एवं सर्वेषु देवेषु कुर्यादस्त्रं यथाक्रमम् | शिवस्य महतीं पूजां कृत्वाचारसमन्विताम् || १०-१८४ || पूजयेत् सर्वदेवांश्च दशदिक्षु बलिं हरेत् | व्रतिनो भोजयेत् पश्चात् शिवभक्तान्सदक्षिणान् || १०-१८५ || सर्वारंभसमायुक्तं महाविभवकल्पितम् | निवेदयीतरुद्राय कार्तिक्यान्नगमुत्तमम् || १०-१८६ || यः कुर्यात्सकृदप्येवं तस्य पुण्यफलं शृणु | सर्वागमेषु यत्पुण्यं कथितं मुनिभिः पुरा || १०-१८७ || तत्पुण्यं कोटिगुणितं प्राप्नुयान्नात्र संशयः | महारत्नप्रभैर्यानैः सर्वरत्नसमवितैः || १०-१८८ || प्. १२४(१५०) गीतनृत्तादिवाद्यैश्चाप्यप्सरोभिश्च शोभितैः | सूर्यकोटिसमप्रख्यैः विमानैर्मेरुसन्निभैः || १०-१८९ || नरनारीसमाकीर्णैः दिव्यगन्धवहैश्शुभैः | देवदानवगन्धर्वैः स्तूयमानो गणादिभिः || १०-१९० || स्वच्छन्दस्सर्वगो भूत्वा प्रयाति वरमन्दिरम् | कल्पकोटिशतं दिव्यं मोदते स महातपाः || १०-१९१ || एवं सर्वेषु लोकेषु भोगान् भुक्त्वा यथेप्सितान् | पुण्यक्षयादिहागत्य राजानं पतिमाप्नुयात् || १०-१९२ || सुरूपा सुभगा नित्यं भवतीश्वरभाविता | यं यं कामं समुद्दिश्य नरनारी नपुंसकाः || १०-१९३ || पूजयन्ति शिवं भक्त्या तन्तमेवमवाप्नुयात् | मृण्मयं दारुजं शैलमैष्टकं वा सुकल्पितम् || १०-१९४ || कृत्वा मठं गृहं वापि यथाविभवसंभवम् | सर्वोपकरणो पेतं सर्वधान्यप्रपूरितम् || १०-१९५ || शिवाय तद्गृहं दत्वा सर्वान्कामानवाप्नुयात् | भुक्त्वैकभुक्तं हेमन्ते माघमासे समन्वितः || १०-१९६ || मासान्ते च रथं कुर्यात् चित्रवस्त्रोपशोभितम् | श्वेतैश्चतुर्भिस्संयुक्तं वृषभैस्समलंकृतम् || १०-१९७ || शोभितं ध्वजपुष्पाद्यै छत्रचामरदर्पणैः | तण्डुलाथकपिष्टेन लिङ्गं कृत्वा सवेदिकम् || १०-१९८ || प्. १२५(१५१) विन्यस्य रथमध्ये तु पूजयेत्कृतलक्षणम् | तद्रात्रौ राजमार्गेण शङ्खभेर्यादिभिस्स्वनैः || १०-१९९ || भ्रामयित्वाशनैः पश्चात् शिवायतनमानयेत् | तत्रजागरपूजाभिः प्रदीपाद्युपशोभितः || १०-२०० || प्रेक्षणीय प्रदानैश्च क्षपयीत शनैर्निशाम् | प्रभाते स्नपनं कृत्वा तद्भक्तांश्चैव पूजयेत्(भोजयेत्) || १०-२०१ || कृपणानाथदीनानां यथाशक्त्या तु दक्षिणाम् | रथशोभासमायुक्तं शिवाय विनिवेदयेत् || १०-२०२ || भुक्त्वा च बान्धवैस्सार्धं प्रणम्येशगृहं यजेत् | प्रवरं सर्वदानानामस्मिन्धर्मे समापिते || १०-२०३ || व्रतं शिवरथं नाम सर्वकामार्थसाधकम् | सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् || १०-२०४ || सर्वं शिवरथे नैव तत्पुण्यं सकलं लभेत् | सूर्यायुतप्रतीकाशैः विमानैस्सार्वगामिकैः || १०-२०५ || त्रिसप्तकुलजैस्सार्धं शिवलोके महीयते | भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् || १०-२०६ || कल्पकोट्ययुतं साग्रं तस्यान्ते समहीपतिः | पञ्चतूलीसमायुक्तां मृद्वीं खट्वामलं कृताम् || १०-२०७ || सर्वोपकरणोपेतां शिवशययां प्रकल्पयेत् | शिवं वेदीसमायुक्तं पैष्टमस्यान्निधापयेत् || १०-२०८ || प्. १२६(१५२) शिवज्ञानार्थतत्वज्ञं आचार्यं विनयान्वितम् | संपूज्यगन्धपुष्पाद्यैः वस्त्रालङ्कारमाचरेत् || १०-२०९ || भक्ष्यभोज्यैरशेषैश्च ततश्शययान्निवेदयेत् | तत्तूलमूलतन्तूनां परिसंख्या तु यावती || १०-२१० || तावद्वर्षसहस्राणि रुद्रलोके महीयते | शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः || १०-२११ || क्रमादागत्य लोकेस्मिन् सिह्मासनपतिर्भवेत् | दशगावस्सवृषभा वृषभैकादश स्मृताः || १०-२१२ || शिवाय विनिवेद्यैव विशुद्धेनान्तरात्मना | रुद्रैकादशतुल्यात्मा बलभोगादिभिर्गुणैः || १०-२१३ || शिवादिसर्वलोकेषु यथेष्टं मोदते वशी | कल्पकोटिसहस्राणि कल्पकोटिशतानि च || १०-२१४ || भुक्त्वा तु विपुलान् भोगानशेषकुलजैस्सह | तदन्ते ज्ञानमासाद्य प्रसादात्परमेष्टिनः || १०-२१५ || विमुच्यमोहकलिलं स्वात्मन्येवावतिष्ठते | सवृषं गोशतं दद्यात् शिवायातीव शोभनम् || १०-२१६ || त्रिस्सप्तकुलजैस्सार्धं शृणुयात्फलमाप्नुयात् | सूर्यकोटिप्रतीकाशैः विमानैस्सार्वगामिकैः || १०-२१७ || अनेककामसंख्यानैरमरासुरवन्दितैः | शतरुद्रबलोपेतो वीरभद्र इवापरः || १०-२१८ || प्. १२७(१५३) गत्वा शिवपुरन्दिव्यमशेषाधिपतिर्भवेत् | भुक्त्वा तु विपुलान् भोगान् प्रलये सर्वदेहिनाम् || १०-२१९ || मोहकञ्चुकमुत्सृज्य ज्ञानं कैवल्यमाप्नुयात् | सर्वयज्ञपरश्शुद्धः स्वात्मन्येव व्यवस्थितः || १०-२२० || परिपूर्णश्च शिववदशेषपतिरव्ययः | गाञ्चोभयमुखीन्दद्यात् शिवायातीव शोभनैः || १०-२२१ || सप्तद्वीपां क्षितिं दत्वा यत्फलं तदवाप्नुयात् | पादद्वन्द्वं शिरोर्धं च यदावत्सनिर्गतम् || १०-२२२ || तदागौः पृथिवीज्ञेया यावद्गर्भन्नमुञ्चति | इति शिवधर्मशास्त्रे व्रतोपवासगोदानप्रशंसानाम दशमोध्यायः || प्. १२८(१५४) श्रीः अथ एकादशाध्यायः श्रीनन्दिकेश्वर उवाच सर्वेषामेव वर्णानां शिवाश्रमनिषेविणाम् | शिवधर्मश्शिवेनोक्तो धर्मकामार्थमुक्तये || ११-१ || ब्राह्मणः क्षत्रियो वैश्यः स्त्रीशूद्रो वा शिवाश्रमी | वानप्रस्थो गृहस्थो वा यश्चान्यो वा शिवाश्रमी || ११-२ || स्वाश्रमादुत्तरे कुर्यात् पुष्पारामं सुशोभनम् | अग्न्यङ्गारकसंयुक्तमैशान्यामीश्वरालयम् || ११-३ || प्रादेशसंभवे कुर्यात् यत्र स्यात् संभवो भुवि | शिवाद्दक्षिणतः कुर्यात् तद्भक्तानां तथाबलम् || ११-४ || त्रिसन्ध्यमर्चयेदीशमग्निकार्यञ्च नित्यशः | द्विसन्ध्यमेककालं वा पूजयेद्भक्तितः शिवम् || ११-५ || असंपूज्य शिवं मोहात् न भुञ्जीत कदाचन | एष धर्मः परो ज्ञेयः शेषो धर्मः प्रकीर्तितः || ११-६ || कार्यातिपातसंरोधाद्राजोपद्रवकादिषु | मनसा पूजयेद्भक्त्या वाचिकं वा जपादिभिः || ११-७ || शिवाश्रमाश्रितैः पूजा कर्तव्या यतिभिस्तथा | मनसा पूजयेद्योगी पुष्पैरारण्य संभवैः || ११-८ || प्. १२९(१५५) शिवार्थे पुष्पहिंसायां न भवेत्स तु हिंसकः | यद्यल्पमपि चात्मार्थे हिंसते हिंसकस्तदा || ११-९ || शिवार्चनपरोनित्यं तद्भक्तानां च भोजनम् | पर्वमैथुनवर्जी स्यात् श्रीमान् शिवग्रहाश्रमी || ११-१० || देवाग्न्यतिथिभैक्षार्थं पचेन्नैवात्मकारणात् | आत्मार्थे यः पचेन्मोहात् नरकार्थं स जीवति || ११-११ || देवार्थं पचनं येषां सन्तानार्थन्तु मैथुनम् | स्वर्गार्थं जीवितं तेषां नरकर्थं विपर्यये || ११-१२ || वित्ततृतीयभागेन प्रकुर्वीत शिवार्चनम् | कुर्वीत वा तदर्धेन यतो नित्यं हि जीवितम् || ११-१३ || न्यायेनोपार्जितं वित्तं अन्यायं परिवर्जयेत् | अन्यायोपार्जितैः वित्तैः नरकार्थं स जीवति || ११-१४ || यश्शिवं ब्रह्मचारी स्यात् सशिवार्चाग्नितत्परः | भवेज्जितेन्द्रियः शान्तो नैष्ठिको व्रतिकोपि वा || ११-१५ || सर्वसंगविनिर्मुक्तः कन्दमूलफलाशनः | शिवो वै मनसा ज्ञेयः शिवार्चाग्निपरो भवेत् || ११-१६ || निवृत्तस्सर्वसङ्गेभ्यः शिवध्यानपरायणः | ज्ञेयश्शिवो प्रतीकोयं भस्मनिष्ठो जितेन्द्रियः || ११-१७ || रुद्राक्षैः कङ्कणं हस्ते गलेचैव हि मस्तके | लिङ्गं शिवाश्रमस्थानां भस्मनां च त्रिपुण्ट्रकम् || ११-१८ || प्. १३०(१५६) हस्ते च मूर्ध्न्युरसिवा रुद्राक्षन्धारयेत यः | सोगम्यः सर्वभूतानां रुद्रलोकं स गच्छति || ११-१९ || रुद्रभक्तैश्शिवस्यैष धार्यो रुद्रसमस्सदा | पुष्पारामैककर्मात्मा पुष्पवाटी क्रियान्वितः || ११-२० || त्रिस्नानपूजासंयुक्तः कौपीनाच्छादनस्सदा | योगिनां भक्तियोगेन योगस्थानमवाप्नुयात् || ११-२१ || शिवध्यानपराश्शान्ताः शिवधर्मपरायणाः | सर्व एवाश्रमा ज्ञेयाः शिवभक्ताश्शिवाश्रयाः || ११-२२ || महाव्रताष्टकं धार्यमीशेनोक्तं शिवार्थिभिः | सर्वव्रतानां परममस्मिन्धर्मः समाप्यते || ११-२३ || शिवे भक्तिस्सदा क्षान्तिरहिंसा सर्वदा दया | सन्तोषस्सत्यमस्तेयं ब्रह्मचर्यं तथाष्टकम् || ११-१२४ || यथासंभवपूजाभिः कर्मणा मनसा गिरा | शिवे भक्तिस्सदा कार्या तद्वच्च शिवयोगिषु || ११-२५ || स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् | भयदारिद्र्यरोगेभ्यः तेषां कुर्यात्प्रियाणि च || ११-२६ || शिवस्य परिपूर्णस्य किन्नाम क्रियते जनैः | यत्कृतं शिवभक्तानां तत्कृतं स्याच्छिवे सदा || ११-२७ || सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः | प्रयत्नेनापि द्रष्टव्यः तत्र सन्निहितो हरः || ११-२८ || प्. १३१(१५७) महेश्वरस्य भक्तस्य शिवार्चनरतस्य च | अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् || ११-२९ || नित्यं शिवकथासक्तो नित्यं शिवपरायणः | अर्चयित्वा यथान्यायं गाणापत्यं लभेन्नरः || ११-३० || शिवाश्रमगतं भक्त्या शिवभक्तं प्रपूजयेत् | स्वागतासनपाद्यार्घ्यमधुपर्कादिभोजनैः || ११-३१ || यस्स्वागते नमस्कारं कुर्यादप्यभिवादनम् | दशवर्षसहस्राणि अग्निलोके महीयते || ११-३२ || प्राप्ताय शिवभक्ताय यो दद्यात्स्वयमासनम् | विंशद्वर्षसहस्राणि पुरन्दरपुरे वसेत् || ११-३३ || शिवभक्ताय विप्राय पादौ प्रक्षाल्य यत्नतः | घृतेनाप्यञ्जयेद्भक्त्या विष्णुलोके महीयते || ११-३४ || प्रतिश्रयप्रदानेन हैमं स्वर्गे गृहं भवेत् | जलं सुशीतलं दत्वा सर्वकाममवाप्नुयात् || ११-३५ || लभेद्दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम् | मृदुशययाप्रदानेन सिंहासनपतिर्भवेत् || ११-३६ || कृत्वांभसा तथा स्नानं सौभाग्यं कान्तिवर्धनम् | स्नानं विधिसमायुक्तं वारुणं लोकमाप्नुयात् || ११-३७ || स्वेदबिन्दुपरीताङ्गमध्वश्रमविराजितम् | संवीज्यतालवृन्तेन वायुलोकमवाप्नुयात् || ११-३८ || प्. १३२(१५८) क्षुत्पिपासातुरं शान्तं आर्तम्मलिनरोगिणम् | पालयित्वा यथाशक्त्या सर्वपापैः प्रमुच्यते || ११-३९ || रोगार्तस्य शिवं कृत्वा भेषजाद्यैः प्रयत्नतः | युगकोटिशतं साग्रं शिवलोके महीयते || ११-४० || शिवभक्तं विशेषेण रोगार्तं यस्तु पालयेत् | भैषज्यैर्वृत्तिदानेन शिवलोकं व्रजेद्ध्रुवम् || ११-४१ || सर्वयत्नेन महता यन्तु कुर्यादरोगिणम् | शिवलोककुडुम्बी स्यात् तस्य पुण्यमनन्तकम् || ११-४२ || कालात्पुनरिहायातः समस्तज्ञानपारगः | ध्वंसनं सर्वदुःखानां रुद्रत्वं समवाप्नुयात् || ११-४३ || सितेन भस्मना कुर्यात् त्रिसन्ध्यं यस्त्रिपुण्ट्रकम् | सर्वपापविनिर्मुक्तः शिवलोके महीयते || ११-४४ || रुद्राग्नेर्यत्परं वीर्यं तद्भस्मपरिकीर्तितम् | ध्वंसनात्सर्वदुःखानां सर्वपापविशोधनम् || ११-४५ || योगी सर्वाङ्गिकस्नानं आपादतलमस्तकम् | त्रिसन्ध्यमाचरेन्नित्यमाशुयोगमवाप्नुयात् || ११-४६ || यस्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः | कुलैकविंशमुत्तार्य सगच्छेत्परमं पदम् || ११-४७ || स्वतश्शुद्धकुलागावः संभूतन्ता सुगोमयम् | शिवाग्निना पुनः पक्तं पवित्रं भस्म तत् स्मृतम् || ११-४८ || प्. १३३(१५९) भस्मस्नानं जलस्नानादसंख्येय गुणाधिकम् | तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् || ११-४९ || सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् | तत्फलं लभते सर्वं भस्मस्नानान्न संशयः || ११-५० || महापातकसंयुक्तः संयुक्तस्सर्वपातकैः | भस्मस्नानन्तु सेवेतमुच्यते सर्वपातकैः || ११-५१ || भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते | उक्तं तत्सर्वदेवेभ्यः स्नातो येन शिवः स्वयम् || ११-५२ || ब्रह्माद्याश्च तदारभ्य मुनयश्च शिवार्थिनः | सर्वपर्वसु यत्नेन भस्मस्नानं प्रचक्रिरे || ११-५३ || तस्मादेवं शिवस्नानमाग्नेयं यस्समाचरेत् | अनेनैव शरीरेण सरुद्रोनात्र संशयः || ११-५४ || दुश्शीलश्शीलयुक्तो वा योवा कोवाप्यलक्षणः | भूतिरीशस्य संयोगात् संपूज्या राजपुत्रवत् || ११-५५ || गुणवत्पात्रपूजायान्नस्याच्छासनपूजकः | शासनं पूजयेत्तस्मात् अविचारं शिवाज्ञया || ११-५६ || रुद्राग्नेर्यत् परं वीर्यं तद्भस्मपरिकीर्तितम् | दाहकस्सर्वदुःखानां तस्माद्भस्मेति चोच्यते || ११-५७ || शिवाग्नौ पूजनात्साक्षात् शिवो भवति पूजितः | अविकल्पमतिस्तस्मात् पूजयेच्छिवशासनम् || ११-५८ || प्. १३४(१६०) छद्मनापि हि यो धत्ते गतिं शासनमैश्वरम् | सोपि यां गतिमाप्नोति न तां यज्ञशतैरपि || ११-५९ || आचमान्तेन विधिना निर्दोषं शिवभस्मना | गन्धलेपविशुध्यर्थं नित्यमद्भिरुपस्पृशेत् || ११-६० || गन्धलेपविहीनोपि भावाशुद्धो न शुद्ध्यति | उदकुंभसहस्रैस्तु मृदां भारशतैरपि || ११-६१ || अपिवर्षसहस्रेण भावाशुद्धो न शुद्ध्यति | भावपूतं चरेच्छौचं वस्त्रपूतं जलं पिबेत् || ११-६२ || दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत् | जटाकलापि यो नस्यात् पक्षान्ते वपनं चरेत् || ११-६३ || यदेव पुण्यन्दीक्षायां तत्पुण्यं वपने कृते | जटीमुण्डी शिखी वापि भिक्षाशी विगतस्पृहः || ११-६४ || मौनी भूतानुकंपी च यतिः शान्तमनाश्चरेत् | साधुकारी चरेद्भक्षमेकान्नं परिवर्जयेत् || ११-६५ || उपवासात्परं भैक्षं एकान्नं गृहिणो मलम् | यस्सर्वसंगनिर्मुक्तः शुद्धश्शिवपरायणः || ११-६६ || सोपीह वपनं कृत्वा योगीन्द्रानुचरो भवेत् | वसेदायतने नित्यं सगणः शिवधार्मिकः || ११-६७ || शरणागतमुद्विग्नमाक्रान्तं रिपुतस्करैः | माभैषीरिति चाश्वास्य शिवलोके महीयते || ११-६८ || प्. १३५(१६१) दारिद्र्यार्णवनिर्मग्नं महाभूतमचेतनम् | समुद्धृत्य यथा शक्त्या सर्वकाममवाप्नुयात् || ११-६९ || पतिते शास्त्रसंकीर्णे शवचण्डालपक्षिणाम् | कारुण्यात्सर्वभूतेभ्यो देयमन्नं स्वशक्तितः || ११-१७० || अत्यल्पमपि कारुण्यात् दत्तं भवति चाक्षयम् | तस्माद्वै सर्वभूतेषु कारुण्याद्दानमुत्तमम् || ११-७१ || अभावे तृणभूम्यंभः पत्रम्मूलं फलानि च | दत्वागताय कारुण्यात् स्वर्गं यान्ति प्रियेण वा || ११-७२ || ईदृशं स्वर्गसोपानं यथालोके प्रियंवदाः | इहामुत्रसुखं तेषां वाच्येषां मधुरा स्वरा || ११-७३ || अमृतस्यन्दिनीं वाचं चन्दनस्पर्शशीतलाम् | धर्माविरोधिनीमुक्त्वा सुखमक्षयमाप्नुयात् || ११-७४ || अलन्दानेन विप्रेन्द्रा याजनाध्ययनेन वा | इदं स्वर्गस्य सोपानं अमलं यत्प्रियं वचः || ११-७५ || प्रत्युत्थानाभिगमनं अनुवृज्यप्रियं वचः | पूर्वाभिभाषिता वृष्टिः प्रत्येकं स्वर्गहेतवः || ११-७६ || संपृच्छेदागतं भक्त्या चाप्यायनमपस्तथा | गमनेप्येववक्तव्यं पन्थानस्सन्तु ते शिवाः || ११-७७ || शिवं भवतु ते नित्यं अशेषार्थप्रसिद्धये | आशीर्वादमिदं वाचस्सर्वकार्येषु सर्वदा || ११-७८ || प्. १३६(१६२) नमस्काराभिवादेषु स्वस्तिमङ्गलवाचकैः | शिवं भवतु सर्वत्र प्रब्रूयात्सर्वकर्मसु || ११-७९ || एवमादिशिवाचारमनुष्ठाय शिवाश्रमी | अशेषपापनिर्मुक्तः शिवलोके महीयते || ११-८० || शिवभक्तेषु या भक्तिः तद्भक्तैः क्रियते नरैः | शिवे भक्तिर्भवति सा भक्ति भक्तैरनुष्ठिता || ११-८१ || आक्रुष्टस्ताडितो वापि यो नाक्रोशेन्नताडयेत् | वाचा न कर्माष स्वस्थं क्षान्तिरेव विधीयते || ११-८२ || स शूरस्सात्विको विद्वान् स तपस्वी जितेन्द्रियः | ये नाशुक्षान्तिशस्त्रेण शत्रुक्रोधो विनिर्जितः || ११-८३ || क्षमादानं क्षमासत्यं क्षमाऽहिंसा क्षमाश्रुतम् | क्षमा स्वर्गश्च मोक्षश्च क्षमयैव जगद्धृतम् || ११-८४ || सर्वेषामेव तीर्थानां तीर्थं ज्ञानस्य पारगः | ज्ञानतीर्थात्परन्तीर्थं ये स्नाता ज्ञानवारिणा || ११-८५ || ज्ञानं योगन्तपो जप्यं यज्ञदानादिसत्क्रियाः | क्रोधिनस्तु वृथा यस्मात्तस्मात्क्रोधं विवर्जयेत् || ११-८६ || मर्मास्थि प्राणहृदयं निर्दहेदप्रियं वचः | नवाच्यमप्रियन्तस्मात् शिवभक्ते विशेषतः || ११-८७ || निर्मलैः क्षान्तिसलिलैः समाप्य धनशीतलैः | इह सौख्यमवाप्नोति परत्र च शिवां गतिम् || ११-८८ || प्. १३७(१६३) आत्मवत्सर्वभूतानां यो हिताय शिवाय च | सर्वधावर्तते नित्यमहिंसेयमुदाहृता || ११-८९ || सर्वशास्त्रेण वेदैश्च यज्ञैश्चैषान्तु यत्फलम् | ये न हिंसन्ति भूतानि तेषां पुण्यं ततोधिकम् || ११-९० || त्रैलोक्यमपि यो दद्यादखिलं रत्नपूरितम् | चरेत्तपांसि सर्वाणि न च तुल्यमहिंसया || ११-९१ || अहिंसेयं परोधर्मः शक्तानां परिकीर्तितः | अशक्तानामयन्धर्मो दानयज्ञादिपूर्विकः || ११-९२ || नातः परं प्रपश्यामः क्वचिदप्यागमेव यम् | पुंसामभयदानन्तु दानमद्भुतमुत्तमम् || ११-९३ || सर्वभूताभयन्दत्वा यश्चरेच्छान्तमानसः | इहैव सर्वभूतेभ्यो न भयन्तस्य विद्यते || ११-९४ || यो न हिंसति भूतानि स्थावराणि चराणि च | स भुङ्क्ते दुःखरहितः परां शान्तिमनुत्तमाम् || ११-९५ || पापा रमन्ति पापेषु ह्यपि क्रूरा नराधमाः | आभूतसंप्लवं यावत् पच्यन्ते नरकाग्निषु || ११-९६ || स्वदेशे यो नृपः कुर्यात् प्राणिघातनिवारणम् | सनृपस्सहदेशेन नन्दते विभवैश्चिरम् || ११-९७ || देहान्ते च महाभोगैस्समस्तकुलसंयुतः | कल्पकोटिसहस्राणि शिवलोके महीयते || ११-९८ || प्. १३८(१६४) यस्तु स्वार्थं परार्थं वा समस्तेन्द्रियसंयतः | नाकार्ये यः प्रवर्तेत तमाहुश्शान्तिलक्षणम् || ११-९९ || यः प्रशान्तेन्द्रिय ग्रामः सदाचन्द्रांशुनिर्मलः | सप्राप्नोति परं स्थानं शैवं शान्तेन चेतसा || ११-१०० || यथालब्धोपपन्नेन वृत्तिन्यायागतेन च | उत्पन्नार्थेन यस्तुष्टः सन्तोषः स प्रकीर्तितः || ११-१०१ || अतीतानागतार्थेषु वर्तमानेषु जीवति | नानुस्मरत्यतीतानि सन्तोषो यमुदाहृतः || ११-१०२ || तेन सर्वमवैरिष्टं तेनावाप्तं तपः कृतम् | तेन तृष्णापदंत्यक्त्वा सन्तोषस्सम्यगाश्रितः || ११-१०३ || सन्तोषैश्वर्ययुक्तानां यत्सुखं शान्तचेतसाम् | देवासुरमनुष्याणां कृतस्स्वर्गेपि तत्सुखम् || ११-१०४ || स्वानुभूतं स्वदृष्टं च यो दृष्टार्थन्निगूहति | यथाभूतार्थकथनमित्येतत्सत्यलक्षणम् || ११-१०५ || सत्यं पुनस्सत्यमेतत् सत्यासत्यं च लक्षणम् | परपीडाविनिर्मुक्तं यावत् स्याद् वचनं शिवम् || ११-१०६ || अश्वमेधाच्च तत्सत्यं अधिकं बहुभिर्गुणैः | सत्ये प्रतिष्ठितं ज्ञानं धर्मस्सत्ये प्रतिष्ठितः || ११-१०७ || सत्ये प्रतिष्ठितं शौचं मोक्षस्सत्ये प्रतिष्ठितः | स्वामिना रक्ष्यमाणामुत्सृष्टानां च संभ्रमे || ११-१०८ || प्. १३९(१६५) परस्वानामपादानमेतदस्तेयलक्षणम् | अलाभेषु परस्वेषु यो मनागपि वर्तते || ११-१०९ || कर्मणा मनसा वाच स तृप्तश्शिवतां व्रजेत् | मैथुनस्यासमाचारं तत्रचित्तमजल्पनम् || ११-११० || लक्षणं ब्रह्मचर्यस्य समस्तेन्द्रियनिग्रहः | ब्रह्मचर्ये स्थितं शौचं ब्रह्मचर्ये स्थितं तपः || ११-१११ || ब्रह्मचर्य स्थितं ज्ञानं ब्रह्मचर्ये स्थिता क्षमा | ये स्थिता ब्रह्मचर्येण ते नित्यं संस्थिताश्शिवे || ११-११२ || एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः | ग्रहिभिस्तां गतिं प्राप्तुं शक्या यज्ञशतैर्न हि || ११-११३ || स सर्वसंगमुत्सृज्य चेतसास्ते निराकुलः | अहो यतिवरः श्रीमान् नापयाति स्मृतिम्मृतौ || ११-१४४ || पर्वन्त्यक्त्वा युजेद्योषां योन्यदारविवर्जितः | ब्रह्मचारी समस्सोपि विज्ञेयस्तु शिवागमे || ११-११५ || शिवाग्न्यतिथिगुर्वर्थं कुर्यात् कर्माणि सर्वतः | अहिंसकस्सविज्ञेयः रुद्रत्वं गच्छति क्षितौ || ११-११६ || शिवाग्निगुरुकार्येषु समुद्युक्तस्सदानरः | तस्य कार्याणि सिध्यन्ति मनसा चिन्तितान्यपि || ११-११७ || एषधमद्रुमश्श्रीमानष्टशाखा शिवोद्भवः | न शक्यो विस्तराद्वक्तुमुपशाखा प्रभेदतः || ११-११८ || प्. १४०(१६६) ये पठन्ति शिवे भक्त्या स्वचार्यध्यानमुत्तमम् | त्रिसप्तकुलजैस्सार्धं शिवलोके महीयते || ११-११९ || इति शिवधर्मशास्त्रे नन्दिकेश्वरप्रोक्ते शिवाश्रमाचारलक्षणं नाम एकादशोध्यायः || प्. १४१(१६७) श्रीः अथ द्वादशोध्यायः नन्दिकेश्वर उवाच अथ संक्षेपतो वक्ष्ये शिवभूतानुकंपया | आद्यशाखोपशाखार्थं शिवभक्तिसमुद्भवम् || १२-१ || क्वचिद्गच्छन्यदा पश्यं च्छिवलिङ्गमपूजितम् | तदा तत्पूज्ययो गच्छेत् सरुद्रो नात्र संशयः || १२-२ || स्नाननैवेद्यवस्त्राद्यं नाददीत प्रियाणि च | त्यक्तन्तच्छिवमुद्दिश्य तदा दानेन निष्फलम् (तत्फलम्) || १२-३ || दृष्ट्वायतनमुत्क्रम्य नमस्कृत्य शिवं व्रजेत् | चतुष्पथं नदीं शैलं शिवयोगिनमेव च || १२-४ || अवतीर्य नमस्कृत्वा दृष्ट्वा लिङ्गं दृढव्रतः | हस्तियानासनाश्वेभ्यः शिवयोगितपस्विनम् || १२-५ || तत्रस्थोपि नमस्कृत्वा शिवलोके महीयते | मृगाश्वोष्ट्रवयोमांसं लशुनं ग्रञ्जनं तथा || १२-६ || कतकाद्यात्तवीर्यं च नित्यमेव विवर्जयेत् | सर्वदानोग्रतपसामश्वमेधशस्य च || १२-७ || फलं प्राप्नोत्ययत्नेन मद्यमांसविवर्जनात् | सर्वदोषाश्रयं मद्यं अतिदूराद्विवर्जयेत् || १२-८ || प्. १४२(१६८) क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्वशिवार्चनम् | सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् || १२-९ || तत्फलं लभते सर्वं यो मद्यं परिवर्जयेत् | गर्भादिसर्वसंस्कारे श्मशानान्तेन्नभोजने || १२-१० || रजस्वलादिसंस्पृष्टं शिवभक्तोविवर्जयेत् | न गो ब्राह्मणभस्माग्नि लिङ्गच्छायान्न लंघयेत् || १२-११ || न लंघयेत निर्माल्यं अप्सुभूमौ निवेशयेत् | धारयेच्छिवनिर्माल्यं भक्त्यालोभान्नधारयेत् || १२-१२ || भक्षणान्नरकं गच्छेत् तद्विलंघी च मूढधीः | न तत्र स्नानपूजाद्यं प्रतिगृह्णाति शङ्करः || १२-१३ || * * नैवेद्यनिर्माल्यं मर्दयन् पूजयेच्छिवम् | भूप्रदेशं यथा कञ्चित् स्वदेहमलभूषितम् || १२-१४ || असंस्पृश्यो भवेत्सोपि यथास्वाङ्गमलस्पृशी | तस्मान्न संस्पृशेल्लिङ्गं नरो निर्माल्यदूषितः || १२-१५ || * * * वेद्यनिर्माल्यं संकीर्णैः कलशादिभिः | स्नानन्तु क्रियते भक्त्या न तद्गृह्णाति शङकरः || १२-१६ || मूर्तयोयाश्शिवस्याष्टौ तासु निन्दां विवर्जयेत् | गुरोश्च शिवभक्तानां नृपसाधुतपस्विनाम् || १२-१७ || अष्टम्यादिषु पञ्चम्यां पक्षयोरुभयोरपि | श्मश्रुकर्माञ्जनाभ्यङ्ग मैथुनादिविवर्जयेत् || १२-१८ || प्. १४३(१६९) कुर्याद्विशेषतः पूजां नक्तं चात्र समाचरेत् | शौचञ्च मृज्जलैः कुर्याद्गन्धलेपापनोदकम् || १२-१९ || यो श्नीयादन्नमस्नातः पापमद्यात् सकेवलम् | तस्मात्स्नात्वा प्रभुञ्जीत भस्मना सलिलेन वा || १२-२० || प्रातः स्नात्वांभसा गच्छेत् भस्मस्नानाच्छिवं पदम् | पापकञ्चुकमुत्सृज्य तिलसप्तकमुद्धरेत् || १२-२१ || कुर्यात्प्रतिचतुर्मासं महापूजाप्रवर्तनम् | भोजनं च प्रदातव्यं शक्त्यादानं च कल्पयेत् || १२-२२ || त्रिसप्तकुलसंयुक्तः समस्तैः परिवारितः | वसेच्छिवपुरे नित्यं चातुर्मास्य प्रवर्तनात् || १२-२३ || एवं सर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च | शिवं संपूज्य नैवेद्यैः भोजयेच्छिवयोगिनः || १२-२४ || पितरस्सर्वदेवाश्च शिवमाश्रित्य संस्थिताः | प्रीते शिवे तु ते सर्वे सुप्रीतास्युर्न संशयः || १२-२५ || ज्ञानवैराग्यसंपन्नं भस्मनिष्ठं जितेन्द्रियम् | भोजयेच्छान्तमनसं श्राद्धेषु शिवयोगिनम् || १२-२६ || यदीश्वरादितत्वानां परिज्ञानविवेकतः | भवेत्साधर्म्यवैधर्म्यं एतज्ज्ञानस्य लक्षणम् || १२-२७ || नानिष्ठं चेष्टसंप्राप्तिः नचेष्टञ्चाभि नन्दति | प्रतितापविषादेन वैराग्यमतिवर्तते || १२-२८ || प्. १४४(१७०) भस्मनिष्ठाप्रतिष्ठस्य दिवसेनापि यत्फलम् | न तच्छक्यं ग्रहस्थेन प्राप्तुं क्रतुशतैरपि || १२-२९ || वश्येन्द्रियः प्रसन्नात्मा न च द्वष्टि न कांक्षति | शब्दादिविषयान् भोगान् सविज्ञेयो जितेन्द्रियः || १२-३० || ज्ञानवैराग्यसंपन्नः शिवं शान्तेन चेतसा | युक्तष्षडङ्गयोगेन शिवयोगी प्रकीर्तितः || १२-३१ || शिवधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः | ज्ञनवैराग्ययुक्तस्य शिवयोगः प्रवर्तते || १२-३२ || शिवयोगाच्च सर्वज्ञः परिपूर्णस्तु नित्यशः | स्वात्मन्यवस्थितश्शुद्धः शिववत्सर्वगो भवेत् ||३३ || सर्वेषामेव भूतानामुत्तमः पुरुषस्स्मृतः | पुरुषेभ्यो द्विजः श्रेष्ठो द्विजेभ्यो गन्धपारगः || १२-३४ || गन्धज्ञाद्वेदविद्वासः तेभ्यस्तत्वार्थचिन्तकः | नानातत्वपदार्थज्ञात् प्रतिबोद्धाविशिश्यते || १२-३५ || नानातत्वज्ञयोगिभ्यः विशिष्टायोगिनस्स्मृतः | योगिभ्यः शतकोटिभ्यः परमश्शिवयो * * || १२-३६ || योगज्ञा योगसिद्धाश्च पितरो योगसंभवाः | भुक्तैः प्रीणन्ति ते तस्मात् विशेषाच्छिवयोगिनः || १२-३७ || सर्वयज्ञतपोदानैः कृतैः पुण्यैस्तु यत्फलम् | तत्फलं लभते सर्वं संपूज्य शिवयोगिनम् || १२-३८ || प्. १४५(१७१) पश्वग्निरुद्रः कालात्मा दक्षिणाहवनिस्तथा | ऋग्यजुस्सामसंयोगैः वेदयज्ञः प्रकीर्तितः || १२-३९ || ब्रह्मचर्यं जपो मौनं क्षान्तिराहारलाघवम् | इत्येवं तपसो रूपं संघोरं पञ्चलक्षणम् || १२-४० || यदिष्टञ्च विशिष्टञ्च न्यायप्राप्तं तु यद्भवेत् | तत्तद्गुणवते दानमित्येतद्दानलक्षणम् || १२-४१ || निवर्तनसहस्राढ्यां सर्वसस्य प्ररोहिणीम् | दद्याद्भूमिं जलोपेतां भूमिदानन्तदुच्यते || १२-४२ || एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् | संपूर्णां यो नृपः कश्चित् महीदानन्तदुच्यते || १२-४३ || कन्यामलंकृतान्दद्याद्यज्वने गुणसंयुताम् | द्विजाय वेदयुक्ताय कन्यादानन्तदुच्यते || १२-४४ || शिवभक्ताय विप्राय दत्वा कन्यां स्वलंकृताम् | सर्वदोषविनिर्मुक्तां तरुणीं सुपयस्विनीम् || १२-४५ || यो गामलंकृतां दद्यात् तद्गोदानमुदाहृतम् | मध्यमोत्तमवस्त्राणि यो दद्यात्तु नवानि च || १२-४६ || एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् | ब्रह्मचारी समाधिस्थः क्षान्तश्शीलपरायणः || १२-४७ || अहोरात्रं न भुञ्जीत उपवासस्य लक्षणम् | चत्वारिंशत्समायुक्तं पिण्डानां हि शतद्वयम् || १२-४८ || प्. १४६(१७२) नियम्य यद्यथाकाममिति चान्द्रायणं स्मृतम् | ऋषिभिस्सर्वशास्त्रज्ञैः तपोनिष्ठैर्जितेन्द्रियैः || १२-४९ || दैवैश्च सेवितन्तीर्थं क्षितौ तीर्थं तदुच्यते | रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत् || १२-५० || मृतानान्तेषु रुद्रत्वं शिवक्षेत्रेषु देहिनाम् | आरामावसथं कूपमुद्यानन्देवतर्पणम् || १२-५१ || तीर्थेष्वेतानि यः कुर्यात् सोक्षयं लभते फलम् | क्षमास्पृहादया सत्यं दानं शीलन्तथाश्रुतम् || १२-५२ || एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम् | यज्ञोपवासदानानि तपस्तीर्थफलानि च || १२-५३ || संपूज्य विभवैर्भक्त्या लभते शिवयोगिनम् | शिवभक्तः क्षमा सत्यं अशेषेन्द्रियसंयमः || १२-५४ || सर्वभूतेषु मैत्री च शिवधर्मस्य लक्षणम् | शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः || १२-५५ || इत्येतत्रिविधं ज्ञेयं शिवपात्रस्य लक्षणम् | शिवमुद्दिश्य यद्दत्तं अनवेक्ष्य गुणाश्रयम् || १२-५६ || वित्तमीश्वरभक्तेभ्यः शिवदानस्य लक्षणम् | शिवभक्तद्विजश्रेष्ठं यः श्राद्धादिषु भोजयेत् || १२-५७ || कुलसप्तकमुद्धृत्य शिवलोके महीयते | बहुनात्रकिमुक्तेन शिवभक्तन्तु भोजयेत् || १२-५८ || प्. १४७(१७३) शिवभक्तो यदा भुङ्क्ते साक्षाद्भुङ्क्ते सदाशिवः | द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् || १२-५९ || मुनये वीतरागाय भिक्षादानेन तत्फलम् | तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च || १२-६० || शिवमुद्दिश्य विप्रेन्द्रं शिवभक्तन्तु भोजयेत् | असंयतस्संयतो वा सर्वावस्थां गतोपि वा || १२-६१ || यो वा को वा शिवे भक्तः शिववत्पात्रमुत्तमम् | संपर्कादर्थलोभाद् वा योपि रुद्रं प्रपूजयेत् || १२-६२ || सोपि यां गतिमाप्नोति न तद्यज्ञशतैरपि | तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा || १२-६३ || नाममात्र्प्रपन्नस्तु क्षणार्धमपि यश्शिवे | समुनिस्समहासाधुः स योगी शिवतां व्रजेत् || १२-६४ || ग्रहे श्राद्धस्य यत्पुण्यं अरण्ये तच्छताधिकम् | तन्नदीष्वयुतं ज्ञेयमनन्तं स्याच्छिवालये || १२-६५ || शिवाश्रमेषु यत्पुण्यं तत्पुण्यमयुताधिकम् | निवेदयीत ये भक्त्या त्वासनं मृदुवेत्रजम् || १२-६६ || नागदन्तमयं वापि सिह्मासनपतिर्भवेत् | कौपीनाच्छादनं वासो निवेद्य शिवयोगिने || १२-६७ || युगकोटिसहस्राणि शिवलोके महीयते | और्णं प्रावरणं दत्वा विस्तीर्णं शिवयोगिने || १२-६८ || प्. १४८(१७४) रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् | मृगद्वीप्यादिकं चर्म तिलपिष्टेन मर्दितम् || १२-६९ || मृदुरक्तकषायेण निवेद्य शिवयोगिने | यावत्तद्रोमसंख्यानं मृगद्वीप्यादिचर्मणाम् || १२-७० || तावत्कोट्यब्दलक्षाणि रुद्रलोके महीयते | जलस्थलपवित्राणि यः कुर्याच्छिवयोगिने || १२-७१ || त्राणाच्च सर्वजन्तूनामब्दलक्षं वसेद्दिवि | त्रिविष्कंभसमायुक्तं यः प्रदद्यात्कमण्डलुम् || १२-७२ || महत्सरांसि यद्दत्वा पुण्यन्तत्सकलं लभेत् | मृत्तिकामतिसुश्लक्ष्णां प्राणिदोषविवर्जिताम् || १२-७३ || निवेद्यशिवयोगिभ्यः क्षितिदानफलं लभेत् | मृद्भस्माधारपात्राणि वंशालाबुकृतानि च || १२-७४ || निवेद्य शिवयोगिभ्यः सर्वतीर्थफलं लभेत् | दन्तधावनमुष्टिञ्च निवेद्य शिवयोगिने || १२-७५ || दिव्यस्त्रीभोगसंयुक्तं दिव्यं रम्यं पुरं लभेत् | योगपट्टपवित्राणि निवेद्य शिवयोगिने || १२-७६ || वस्त्रयुग्मसहस्रस्य दत्तस्य फलमाप्नुयात् | मृण्मयालानु पात्राद्यं सवृन्तं भैक्षभाजनम् || १२-७७ || निवेद्य शिवयोगिभ्यः सदा सत्रफलं लभेत् | शिवभक्ताय यो दद्यात् उपानत्काष्ठपादुके || १२-७८ || प्. १४९(१७५) सवराश्वसहस्रस्य दत्तस्य फलमाप्नुयात् | कल्माषदण्डं यो दद्यात् अन्यं वा शिवयोगिने || १२-७९ || बलावष्टंभयुक्तात्मा सस्याद्दण्डाग्रनायकः | तालवृन्तातपत्रं वा यो दद्याच्छिवयोगिने || १२-८० || एकच्छत्रां स भुञ्जीत पृथिवीं च नराधिपः | पात्रान्तरेषु शेषेषु विशेषाच्छिवयोगिनाम् || १२-८१ || भवेत्क्षितिपतिः श्रीमान् कुलाधारः कुलान्वितः | शिवज्ञानाभियुक्ताय यो दद्यात्पुस्तकं महत् || १२-८२ || युगकोटिशतन्दिव्यं शिवलोके महीयते | भवेदिहागतः श्रीमानाढ्यो वेदस्य पारगः || १२-८३ || सर्वज्ञानार्थवक्ता च बृहस्पतिसमो धिया | शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः || १२-८४ || शिवं संपूज्यतुल्यात्मा सर्वतुल्यगुणः स्मृतः | यः कुर्यात्कारयेद्वापि भवनं शिवयोगिने || १२-८५ || वर्षलक्षम्महाभोगैः शिवलोके महीयते | रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् || १२-८६ || तन्मालया सदा हस्ते रुद्रस्संक्रम्यते क्षितौ | रुद्राक्षाणि स्वयं रुद्राः ये च रुद्राक्षधारकाः || १२-८७ || रुद्राक्षन्धारयेत्तस्मादिहरुद्रः परस्य च | रुद्राक्षमालां यो धत्ते कण्ठे करतले सदा || १२-८८ || प्. १५०(१७६) शतार्धार्धप्रमाणेन सरुद्रो नात्र संशयः | पशवोपि हि रुद्राक्षैः संपृक्ता यान्ति रुद्रताम् || १२-८९ || किं पुनश्चालयन्तीह नरो रुद्राक्षमालिकाम् | य एवं चालयन्मालां यज्जप्यं स्यान्नसंशयः || १२-९० || जपश्च रुद्रमन्त्राणां कोटिकोटिगुणोत्तरम् | मूर्ध्नि हस्तोपवीते वा कृत्वा रुद्राक्षमालिकाम् || १२-९१ || यश्च भुञ्जीत भस्मांगी रुद्रैर्भुक्तन्न संशयः | रुद्राक्षधारणन्तस्मान्नित्यमेव प्रशस्यते || १२-९२ || परार्थानुग्रहार्थं हि ब्राह्मणस्य विशेषतः | यावन्मात्रोपकरणन्दत्वाल्पमपि शक्तितः || १२-९३ || वर्षलक्षम्महाभोगैः शिवलोके महीयते | कुर्यादावसथं योन्यं सुगुप्तं शिवयोगिनाम् || १२-९४ || शिवालये कृते यावत् तावत्पुण्यफलं लभेत् | यथा शिवस्तथा योगी यथायोगी तथाशिवः || १२-९५ || तेन योगीन्द्रपादेषु दानमल्पं च लक्षदम् | यद्यदस्योपयुज्येत तद्देयन्तस्य यत्नतः || १२-९६ || उपयोगप्रदानाभ्यां श्रेयस्तेनो भयोरपि | व्याख्याने शिवधर्मस्य कृत्वा मण्टपमुत्तमम् || १२-९७ || शोभितं वस्त्रपुष्पाद्यैः न्यसेत्तत्रासनं गुरोः | शोभितं वस्त्रपुष्पाद्यैः शिवधर्मासनं शुभम् || १२-९८ || प्. १५१(१७७) पुरस्तस्य गुरोस्थाप्य पूजयेदुभयन्ततः | शिवधर्मप्रवक्तारमाचार्यं वाचकन्तथा || १२-९९ || पूजयेच्छिवधर्मं च तुल्यमेतत् त्रयं यतः | य एव न्यायतो वक्ति शिवधर्मं शिवेति च || १२-१०० || आयौर्विद्यायशस्सौख्यं स लब्ध्वान्ते शिवं व्रजेत् | इत्येष वस्समाख्यातः शिवधर्मस्सनातनः || १२-१०१ || सर्वेषां शिवभक्तानां अयं वाच्यो विजानता | शिवाश्रमेषु यो भक्तः शिवधर्मं प्रकीर्तयेत् || १२-१०२ || शृणुयाद्वा भवेत्ताभ्यामत्रोक्तमखिलं फलम् | श्रुत्वैवमखिलन्धर्ममाख्यातं ब्रह्मसूनुना || १२-१०३ || चन्द्रात्रेय सगोत्राय शिवभक्ताय साखत् * | उक्तं च द्वादशाध्यायं धर्मशास्त्रं शिवात्मकम् || १२-१०४ || यावदस्योपदेशेन शिवधर्मं समाचरेत् | तावत्तस्यापि तत्पुण्यं उपदेशान्न संशयः || १२-१०५ || उपदेशं विना यस्मात् धर्मो ज्ञातुन्न शक्यते | न च कर्तुमविज्ञाय तस्मात्तुल्यं फलं तयोः || १२-१०६ || उपदेष्टानुमन्ता च कर्ता कारयिता च यः | कृतानुपालकश्चैव पञ्चतुल्यफलाः स्मृताः || १२-१०७ || कर्तुरप्यधिकं पुण्यं तत्कृतं योनुपालयेत् | यस्मादायतनं क्षिप्रं नाशं गच्छत्यपालनात् || १२-१०८ || प्. १५२(१७८) भूमिरत्नाश्वनागानां गोहिरण्यादिवाससाम् | भवेत्पूर्वोपदिष्टानां दानाच्छ्रेयोनुपालनम् || १२-१०९ || दातुरप्यधिकं पुण्यं दत्तं यश्चानुपालयेत् | अपालितन्तु तद्यस्मात् शीघ्रमेव प्रणश्यति || १२-११० || तस्मादुपदिशेद्धर्मं स्वयं चापि समाचरेत् | कारयेदनुमन्येत कृतमन्यैश्च पालयेत् || १२-१११ || इति पञ्चप्रकारोयं शिवधर्मः प्रकीर्तितः | रुद्रपादं रुद्रकोटिमविमुक्तं महालयम् || १२-११२ || गोकर्णं भद्रकर्णं च सुवर्णाक्षोथदीप्तिमान् | स्थाण्वीश्वरञ्च विख्यातं त्रिषुलोकेषु विश्रुतम् || १२-११३ || स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेत्रं महोदयम् | वस्त्रापदादि स्थाण्वन्तं रुद्रसायुज्यकारणम् || १२-११४ || जलगण्डोपिरण्डश्च माकोटो मण्डलेश्वरः | कालञ्जरः शङ्कुकर्णं स्थलं स्थूलेश्वरं परम् || १२-११५ || पवित्राष्टकमित्येतं महापुण्यविवर्धनम् | मृताः प्रयान्ति तत्रैव शिवस्य परमं पदम् || १२-११६ || गया चैव कुरुक्षेत्रं नखलं कनकन्तथा | विमलेश्वराट्टहासं महेन्द्रं भीममष्टकम् || १२-११७ || एतद्गुह्याष्टकं नाम सर्वपापविशोधनम् | मृतस्तु पुरुषः श्रीमान् प्राप्नोति शिवमन्दिरम् || १२-११८ || प्. १५३(१७९) श्रीपर्वतं हरिश्चन्द्रं जल्पमाभ्रादिकेश्वरम् | मध्यमञ्च महाकालं केदारं भैरवन्तथा || १२-११९ || एतद्गुह्यातिगुह्यं च अष्टाकं परिकीर्तितम् | ते सन्तुष्टान् पितॄन् सर्वान् शिवं यान्ति परं पदम् || १२-१२० || अमरेशं प्रभासं च नैमिशं पुष्करं तथा | आषाढडिण्डिमुण्डञ्च भारभूमिं भवान्तिकम् || १२-१२१ || लगुलीशञ्च विख्यातं तथा प्रत्यात्मको महान् | प्रत्यष्टकमिदं क्षेत्रं रुद्रस्यापि च कामदम् || १२-१२२ || तत्र यान्ति मृतास्सर्वे रुद्रस्य परमं पदम् | पुण्याष्टकमिदं ज्ञेयं शिवसायुज्यकारणम् || १२-१२३ || तीर्थेष्वेतेषु यः कुर्यात् श्राद्धं यज्ञं तपो जपम् | स्नानं दानं व्रतं कर्म सोक्षयं फलमाप्नुयात् || १२-१२४ || क्षमास्पृहा दया सत्यं दानं शीलं तपः श्रुतम् | एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम् || १२-१२५ || धर्मार्थकाममोक्षार्थं सर्वभूतानुकंपया | कर्ता कारयितामन्ता प्रेरकश्चानुमोदकः || १२-१२६ || इति पञ्चप्रकारोयं शिवधर्मस्य कीर्तितः | कपालमालिन्देवेश महाकाल नमोस्तु ते || १२-१२७ || चन्द्रार्धमूर्ध्नन् गौरीश चर्मपाशासि पाणिक | गजचर्मधरस्वामिन् चण्डनाथ नमोस्तु ते || १२-१२८ || प्. १५४(१८०) त्रिशूलपाणे देवेश त्रिणेत्र त्रिदशेश्वर | त्रिमूर्ते च महादेव त्रिपुरान्त नमोस्तु ते || १२-१२९ || सर्वेश्वरस्सर्वगतस्सर्ववित्सर्वतो मुख | सर्वत्रावस्थितोवत्वं सर्वं व्यापिन्नमोस्तु ते || १२-१३० || स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् | अनन्तानादिसुव्यक्तव्यक्ताव्यक्त नमोस्तु ते || १२-१३१ || अनन्तं शाश्वतं विश्वं शिवं नित्यमुमापते | श्रीकण्ठं सर्पकण्ठञ्च नीलकण्ठं नमाम्यहम् || १२-१३२ || विप्रामयवपुर्यस्य विद्यातीतञ्च तत्स्थितम् | सकलन्निष्कलञ्चैव कालहीनन्नमाम्यहम् || १२-१३३ || योगाधिपो योगमयो योगात्मायोगसंभवः | महायोगपरोसित्वं योगेश्वर नमो नमः || १२-१३४ || सर्वतेजोमयं तेजः तेजसामपि देशिकः | तेजोभूतश्च तेजस्विन् तेजोतीत नमोस्तु ते || १२-१३५ || ओमित्येकाक्षरेणासि व्याख्यातो भुवनत्रये | तस्याप्यर्थपरो नित्यं सदाशिव नमोस्तु ते || १२-१३६ || अर्धमात्रं परार्धन्तु तस्याप्यर्धं परात्परम् | परं परपरश्शान्तश्शान्तातीत नमोस्तु ते || १२-१३७ || अकारोकारयोरूर्ध्वं मकारो बिन्दुरेव यः | निर्वाण परमातीत तत्वातीत नमोस्तु ते || १२-१३८ || प्. १५५(१८१) बलार्कशतभा यस्य शतधा कल्मितस्य च | अनौपम्यविमानश्च शिव शान्त नमोस्तु ते || १२-१३९ || अनन्तानादिमव्यक्तं देहस्थं देहवर्जितम् | हृदिस्थं सर्वभूतानां व्योमव्यापिन्नमाम्यहम् || १२-१४० || अग्राह्यमिन्द्रियैर्वापि सर्ववस्तुविवर्जितम् | स्वतेजोगूढमात्मानं महामायापरं परम् || १२-१४१ || महाज्ञानपरातीतं ज्ञानगम्यन्नमाम्यहम् | एकाक्षरं चतुर्भेदं चतुर्मात्रैरलंकृतम् || १२-१४२ || चतुष्कलं कलातीतं बीजातीतन्नमाम्यहम् | ईशानं इश्वरो ब्रह्मन् सदाशिव नमोस्तु ते || १२-१४३ || धर्मार्थकाममोक्षार्थं सर्वभूतानुकंपया | नन्दिनासनकादिभ्यः शिवधर्मस्समीरितः || १२-१४४ || वक्ता श्रोतानुमन्तास्य शिवलोके महीयते | सर्वे च सुखीनस्सन्तु सर्वेसन्तुनिरामयाः || १२-१४५ || सर्वे भद्राणि पश्यन्तु द्ःखान्यतितरन्तु च | मुक्तिं भजन्तु देहान्ते सर्वे यान्तु शिवं जनाः || १२-१४६ || इति शैवशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते द्वादशोध्यायः || शुभमस्तु | ओम् || शिवधर्मोत्तरस्समाप्तः | दक्षिणामूर्तये नमः || ओम् || ########### END OF FILE #######