#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00650 Uniform title: śivajīvadaśakam Secondary title: śivakavacam Author : sahib kaul Manuscript : Ragunath Temple, Jammu, JandK manuscript 5531gh Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 6, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### शिवजीवदशकम्, शिवकवचम् नं०- ५५३१-घ पत्राणि- ५२ तन्त्रशास्त्रम् पृ० १अ) ओंश्रीस्वात्मनेगुरवेशिवायोंनमः श्रीगणपतयेनमः विश्वोत्तीर्णंविश्वमयंनाथमनं तंसच्चित्सातात्मानमखंडंनिखिलाद्यं वेद्यंवेद्यैःकोविदवर्यैःसुरवंद्यंकौलाधीशंसाहिबमी डेगुरुमीशं १ नित्यंसत्यंनिर्गुणमेकंगुणपूर्णंवृत्यंस्तुत्यंकृत्यविधिज्ञैःकृतकृत्यं चिद् वि श्रांतंश्रांतविकल्पंभगवंतंकौलाधीशंसाहिबमीडेगुरुमीशं २ येनध्वांतंध्वंसितमंतःस्थ मशेषंतीर्थ्यानांसच्छासनसूक्तैरनुगीतः ज्ञात्वासर्वैःस्वात्मगतंज्योतिरयंतंकौलाधी शंसाहिबमीडेगुरुमीशं ३ देवैर्दृश्योदिव्यवपुर्योहिमशैलेहैमप्रख्यःसोमकलाभूषित शीर्षः दिव्यौघेशोहैमवतीश्लिष्टतनुस्तंकौलाधीशंसाहिबमीडेगुरुमीशं ४ सिद्धैः साध्यैःखेमुनिविद्याधरवृंदैःसेव्यंशुद्धंसिद्धिवदन्यंप्रतिबुद्धं सिद्धीशानंस्फीतविभूतिंप रसिद्ध्याकौलाधीशंसाहिबमीडेगुरुमीशं ५ शांतंघोरंवीरवरैर्वंदितपादंभांतंस्वांते वातुनिधिंभक्तियुतानां कांतंकांत्यादित्यसमानंकरुणाब्धिंकौलाधीशंसाहिबमी डेगुरुमीशं ६ कैश्चिद्ब्रह्मध्यायतीशोमुनिभिर्यःस्वात्माचान्यैर्योगिभिरात्मार्पणयो गात् मर्त्यौघेंद्रःकोपिपरस्तंजगतीनंकौलाधीशंसाहिबमीडेगुरुमीशं ७ सांख्ये पृ० १ब) ख्यातोनिष्क्रयेकःपुरुषोयःसंख्याविद्भिःकैश्चिदमेयःप्रकृतिंस्वां सृष्टिंदृष्ट्वाकारयतेका रणकीर्त्याकौलाधीशंसाहिबमीडेगुरुमीशं ८ योन्यायज्ञैर्भावकदंबंपरिभाव्यभर्ताभोक्ता विश्वविहर्ताखिलकर्ता संहर्तैषांसाधुविनीतानुमितस्तंकौलाधीशंसाहिबमीडेगुरुमीशं ९ विश्वात्मायस्तैजसमूर्तिःप्रतिभाढ्योज्ञानप्रौढस्तुर्यदशास्थस्तदतीतः श्रुत्यंतज्ञैर्ज्ञायत एषश्रुतिरूपःकौलाधीशंसाहिबमीडेगुरुमीशं १० शंभुःसंभुकृत्यविभावीभवभव्योप्यंभो जाक्षोयोविभुरीशाद्वयविद्भिः सर्वज्ञःसद्दैशिकमुख्योद्वयिष्टःकौलाधीशंसाहिबमीडेगु रुमीशं ११ यन्मूर्तिःकेपुष्करकोशेकरपद्मैर्मुद्राव्याप्याभीतिवरांकामृतपद्मे त्र्यक्षादत्तेध्या तृजनेभ्यःप्रणिधानाकौलाधीशंसाहिबमीडेगुरुमीशं १२ दिक्षात्मायोदीक्षकरूपोप्यवि दीक्षोमंत्राक्रम्योमांत्रिकमूर्तिःपरमंत्रःसर्वाचार्यःसर्वगार्यःस्मृताप्तैःकौलाधीशंसा हिबमीडेगुरुमीशं १३ शक्त्यानंतंशांभवविद्यांबुधिमूर्म्याब्राह्म्यारूढःस्तौतिविरिंचिः समहेंद्रः विष्वग्वर्ण्यंविश्वपतिंयंप्रविमुक्तंकौलाधीशंसाहिबमीडेगुरुमीशं १४ भर्गब्रह्मन्नायकविष्णोपरमात्मन्दातर्मातर्देविगुरोतातसखीत्वं पाहीत्थंयोगीयते पृ० २अ) कःपरभक्तैःकौलाधीशंसाहिबमीडेगुरुमीशं १५ सर्वोत्तंसंसज्जनशिष्याश्रितमर्च्येपू र्णानंदेचिद्घनसिद्धंपरभानात् विश्रामारामेविनिषणंशशिपीठेकौलाधीशंसाहि बमीडेगुरुमीशं १६ कृत्स्नस्यांतर्भातिसमिद्धेनिजसिद्धेस्वस्मिन्यस्मिन्मंगलदीपे रमतेयः बाह्यंबोद्धाभास्यगवाक्षैरपिभास्यंकौलाधीशंसाहिबमीडेगुरुमीशं १७ एत त्सद्गुरुवंदनंप्रविदधौकौलेश्वरःकौलिकः पद्यैर्मत्तमयूरवृत्तरचितैर्ज्योतिष्प्रकाशाभिधः श्रीमत्साहिबपादभक्तिसुधयामत्तोमयूरोयथा १८ इतिश्रीमच्छ्रीगुरुस्तुतिः || ओंश्रीदेव्यैनमः साक्षात्कृत्यनिजंस्वरूपममलंयद्भातिविप्रुण्मयं हित्वाभ्रांतिमतिं महेशितियोदेवर्षिमर्त्यैःस्तुतः बद्धान्भक्तजनान्विमोचयतिसत्कारण्यदृष्ट्याक्षणात् कौलेशंकुलशेखरंगुरुवरंध्यायामितंसाहिबं १ यस्यैकस्यविभोर्विभाविकसतात्प्रोदे तिविश्वंस्थितिं व्याप्नोत्यंशुनिमेषणात्क्षणमपिप्रत्यस्तमायात्यहो स्वच्छंदंसततोदितं सकलगंपूर्णंविशुद्धंसदा नौम्यानंदनिधिंचिदंबरमणिंश्रीसाहिबंतंशिवं २ आदा वाधारपद्मात्प्रतिभुवनमलंभासयन्स्वप्रभाभिः श्रित्वामंदारबिंदाकरममृतवपुःपाद पृ० २ब) कंजस्रुतैर्यः सिंचन्पीयूषवर्षैःसुरमुनिपितृकान्कार्मिकांस्तीर्थ्यसंघान् ब्रह्मांडागारशं भुःस्फुरतिपरमहस्तद्भजेसाहिबाख्यं ३ धातायस्यपदाब्जवंदनरसात्सर्गंतनोतीशते वि ष्णुर्जिष्णुसखाचरक्षतिपदांभोजार्चनात्संहृतिं रुद्रश्चेशसदाशिवौत्रिजगतोभ्रूभंगिशिष्ट्या पिधां कारुण्यंतनुतोविभुंपरशिवंतंसाहिबंत्वार्चये ४ त्वंस्वातंत्र्यरुचिश्चभक्तजनताधीना त्मकस्त्वंप्रभो त्वंविश्वाश्रयतत्त्वभूतिजनितात्वंतत्त्वतोनाश्रितः त्वंकृत्स्नज्ञविधातृताद्यव यवीत्वंकंचुकांतर्पितस्त्वंकारुण्यनिधिस्त्वपारमहिमाश्रीसाहिबंतांस्तुवे ५ कायःकाय तिकल्पितःकिलशिलाकल्पाहृषीकव्रजा हृष्यंतिप्रभवोभवस्थितिलयान्भावेषुकर्तुं स्फुटं प्राणःप्राणतियन्मरीचिकलयातंजीवजीवंशिवं चिन्नाथंसहजंनिजंगुरुतमंधामाश्र येसाहिबं ६ मायासुप्तसमस्तजंतुततिषूज्जागर्त्यजस्रंचयः षड्भावांविकृतिंविवर्तयति योसौनिर्विकारःस्वयं एकोनेकतयास्वशक्तिलहरीवृंदैर्निजंखेलयन्नैकाकारिवांबुधैरनु मितस्तंभावयेसाहिबं ७ कर्तातर्कनयेविमुक्तपुरुषःसांख्येजिनःसौगते शव्दात्माध्वनि शासनेविधियुतंकर्मायनेजैमिनेः ब्रह्मैकंश्रुतिमस्तकेहरिरयंयोगीयतेवैष्णवे शैवेशंभुर पृ० ३अ) शेषरूपमतुलंतंसाहिबंसंश्रये ८ नित्याह्लादमयंनिरामयममुंनिर्धूततीर्थ्यांहसं निर्द्वंद्वाक लनंनिरादिनिधनंनिर्द्वैतबोधात्मकं निःस्पंदस्फुरितंनिरुत्तरकलाश्लिष्टंगुरुंनिमलं नि श्शेषाश्रयमीश्वरंनिरुपमंनित्यंभजेसाहिबं ९ संविद्द्योतविमर्षहर्षवपुषानाकेप्रका श्याभितो येनप्राग्दिविसत्यबोधभरितंतेजःसमुल्लासितं स्वंस्वच्छंप्रतिभास्वभावसुभ गंचोर्ध्यांप्रसंतुप्रियाञ् शिष्यान्कारुणिकंशिवंनवतनुंप्रेडेगुरुंसाहिबं १० यन्मूर्तिर्भुव नेमहात्मभिरलंध्येयासहस्रच्छदे पद्मेमूर्ध्निसितांबरात्रिनयनासोमासनासोमभाः चि न्मुद्रावरपुस्तकाभयकरावामार्धदेव्यंकिता भक्तानुग्रहतत्परापरशिवंतंसाहिबंभावये ११ अंतर्धायभुजौकलांचशशिनोर्भालेक्षणंभूतले सोयंशंकरनाथेवविहरन्नाचार्य गात्रस्थितः साक्षान्न्रून्दयतेपराद्वयदृशासंमुक्तमूर्त्यागिरा सच्चित्सातघनंनमामिपर मेशानंप्रभुंसाहिबं १२ यःपादद्वयनिर्गलत्परसुधाधाराभिराराधकान् संतर्प्याविरतंपदा ब्जशरणान्दासान्स्वमेभ्यःस्वभः स्वामीस्वर्विषयातिशायिमुदितंदत्तेप्रभुत्वंमहज्जीव न्मुक्तिविभूषितंपरशिवंतंसाहिबंसंस्तुवे १३ तारात्माभवतारकोमरयुतैर्लोकेशकेशेश्व पृ० ३ब) रैरेकोयोखिलवाङ्मयामृतनिधिश्चिद्धर्षपूर्णोध्रुवः ब्रह्मांडाद्विपुलोप्यणोरणुतमोज्योति स्तमोज्योतिषां स्वात्मैक्यात्परिमृश्यतेपरशिवंतंसंभजेसाहिबं १४ वाग्यस्मात्प्रणतार्तिना शनपटुमंदाकिनीवेश्वराधृत्कालुष्यमृजाक्षमामुनिमतापूताप्रसादास्पदा स्रोतोविसृति भागवातरदरंतीर्थार्थिसार्थार्चिता विश्वेशंगुरुसत्तमंशिवकरंवंदेविभुंसाहिबं १५ मायेयं महिताप्रधानमहिलास्वातंत्र्यलीलोत्सवा स्वास्वाभाविकभावभावपटलद्वैतप्रथादायिनी यस्येशस्यचकास्तिभाववियुताःकेमोहितानोयया दुर्बोधात्मिकयात्रिविष्टपगुरुंतंसाहिबं संश्रये १६ लक्ष्मीर्यस्यजगत्प्रभोरविरतंपादाब्जसक्ताशयैस्त्यक्ताकृत्त्रिमरूपतोप्यकृतका नंदादृढंसंश्रिता स्फूर्जद्भक्त्यविभक्तमुक्तिविभवातंपूर्णशक्तिंप्रभुंश्रीनाथंगुरुचक्रवर्तिन महंनौमीश्वरंसाहिबं १७ आकाशोडुषुकाशतेसितकरःस्निग्धोयथासेव्यते सर्वर्द्धिश्चज नार्दनःसुरगणैश्चंडानलौजास्तथा त्रैलोक्येपिकलाढ्यचंद्ररुचिरोवंद्योयीशोद्वयो मा हेशैर्भजतांशरण्यमनिशंतंसाहिबंत्वांस्तुवे १८ शंभुस्त्वंपरशक्तिमांस्तुसकलक्लेशैकवै श्वानरः संवर्तस्त्वमनाद्यदैन्यगहनेत्वंकालकालोमहान् इंद्रस्त्वंवरुणानिलौमधुरिपुः पृ० ४अ) साब्जोप्यखंडात्मकस्त्वांश्रीसाहिबमर्चयामिसकलोत्तीर्णंमहेशंगुरुं १९ चंद्रार्केक्षणमष्टश क्तिगिरिशंद्योमस्तकंनाभिखं कुक्षिस्थांबुनिधिंहुताशवदनंसूक्ष्मामृताभासितं दिक्क र्णंचरणक्षितिंखलुजगत्प्राणंत्वक्रूरात्मकं श्रीनाथंसुविराजमद्भुततनुत्वांसाहिवंभावये २० शंकाराश्यशनिंनभोतिपृथुलंनित्यंनुतंनिर्जरैः श्रीवैकुंठपिनाकिनायकमुखैःपीयूषह र्षात्मकं योगांताग्निनिभंजगद्गुरुगरीयांसंहृदिस्थंशिवं शांत्याक्रांतमनुत्तरंध्रुवमजं वंदेविभुंसाहिबं २१ श्रीविश्वेश्वरभैरवोतिकरुणोहर्षेश्वरीसंयुतः साम्नायागमसम्प्रदा यसुमणींश्चोपादिदिक्षुःश्रितान् अव्यक्तोपिकृपावतारममलंव्यानंजबोधोदधिं यंकौ लेशपतिंविशालयशसंजीयादसौसाहिबः २२ यःशून्याकृतिपूर्णशक्तिखचितःशून्या लयःसन्सुधा नंदाढ्योभुवनंपिपर्तिसकलंयोनिर्गुणोनिष्कलः द्वैताद्वैतकलाश्रयोपिमु निभिर्योगीश्वरैर्गीयते चिद्रूपंगुरुपुष्कलंपरशिवंतंसाहिबंसंश्रये २३ ब्रह्माम्नायसरस्व तीश्रितमुखोहंसस्थितःप्रीतिमान् द्राक्संकर्षणदैवताग्निममहासेनादियुक्तःस्वयं श्री नाथंसततंगृणातिजगतीजैत्त्रंयमीड्यंगुरोर्मूर्तिस्थंप्रणतोस्मितंपरशिवंश्रीसाहिबंसर्व पृ० ४ब) शः २४ मंत्रामांत्रिकमंत्र्यरूपभगवन्देवाधिदेवप्रभो श्रीश्रीकौलकुलेशदेशिकपरानं दादिनाथाभयं शक्त्याश्लिष्टवपुःप्रसन्नवदनोदत्सेवरंचेप्सितं नित्यंश्रीपरपादुकांचशि वयोर्वांपूजयाम्यानतः २५ पाशैधोदहनंहृदुत्पलसुधारश्मिंस्तुवेत्वांमृडं द्वैताध्वांतर विंत्रिधामधरणिंश्रीसाहिबंसद्गुरुं पूज्यांघ्रेशिवपालनात्सुदुरितध्वंसाश्चकाम्यानृणात् स्मर्तृणांत्रिगुणाधिपाविजयतेश्रीपादुकातेशुभा २६ योदेवत्रयवर्ण्यवीर्यविभवोप्यर्धेंदु लेखोज्ज्वलः संचेत्यौघनिरोधिनादगगनांतस्थोमहाव्यापकः चित्तत्त्वस्पृगमोघशक्तिरु दितोयच्चोन्मनाचेतन स्तत्त्वज्ञैः प्रणतोसितंपरशिवंत्वांसाहिबंसंभजे २७ कालाकारदि गाद्यकृत्तवपुषोध्यानंनुकिंतेविभो त्वंविष्वग्जगदथितार्थजनकोप्यर्चाविधिस्तेकथं आ दिक्षांतसुवर्णभासुरतनोःकातेस्तुतिःसाहिबं सत्यंशांतमनुत्तमंगुरुवरंतंत्वांप्रपद्येप्रभुं २८ स्नात्वादौपरिशुद्धविंदुसरसश्चिच्चंद्रसांद्रामृतैः प्रोक्ष्याधारधरांस्वभावकुसुमैस्तुर्या टवीद्योतितैः कृत्वानंदसुधौघपूर्णहृदयानर्घार्घपात्रंसदा त्वांदेव्यासहदेहदेवनिल येनाथार्चयेसाहिबं २९ मूर्खोभिज्ञतिनाकतीहभवनंमित्त्रत्परिर्दासति क्ष्माभृन्मोक्षति पृ० ५अ) संसृतिर्नमतिवैगर्व्यंतकोवैद्यति भोगोयोगतिकल्मषंसुकृततित्वत्पादुकार्चोत्सवात्त्वांतं स्तौमिदयालुमीड्यचरणंश्रीसाहिबंशंकरं ३० दिष्ट्यात्रिंशतिपद्यहृद्यमणिभिःप्रोतामहे शात्मक श्रीमाहेश्वर्यवर्यदैशिकपतेः एत्?स्तोत्ररत्नावली श्रीकौलेश्वरसाहिवेतिमहित ख्याताभिधस्थेशितुर्भक्त्यैषाविनिवेदितांघ्रिकमलेसंतुष्टयेभासतां ३१ नाथस्यास्यपदा ब्जरेणुभजनात्प्राप्तप्रसादोविभुः सद्धर्षाचितचित्स्वरूपसकलज्योतिष्प्रकाशाह्वयः ना गेंद्रास्यकृपालुमापतिमुखैः स्तुत्यांघ्रिपद्मोप्ययं शर्वात्माजयतिप्रदीपितमहामाहेश्वरत्वा स्पदः ३२ श्रीशाकेश्रुतिनागतर्कशशिसंख्यातेस्यविश्वेशितुः पादांभोजमधुव्रतोमधु सिताष्टम्यांसपर्योत्सवे श्रीगोविंदुपाहरन्नवमणिश्रेणीमिमांत्वन्वहं येदध्युःस्वगलेश्र यंतिसुधियस्तेभोगमोक्षश्रियं ३३ इतिश्रीमहामाहेश्वराचार्यश्रीमच्छ्रीज्योतिष्प्रका शकौलानंदनाथपादपद्मानुजीविश्रीगोविंदकौलविरचिताश्रीगुरुस्तुतिरत्नाव लीसमाप्तासंपूर्णाचेतिशिवमोम् || || पृ० ५ब) ओंश्रीगुरवेशिवायोंनमः चंद्रापीडंत्रिनेत्रंविकसितमहसंपंचवक्त्रंकुठारं दोर्भिर्बिभ्राण मस्यङ्कुशकुलिशधनुर्दंडखट्वांगखेटान् वीणापाशेषुमुंडाभयवरडमरुन्मुद्गरंशूलघंटे स्वच्छंस्वच्छंदनाथंनिचनिभशिवयाश्लिष्टमीडेमृडस्थं १ यत्तत्त्वातीतमाद्यंत्रिदशमुनि नतंभातियत्तत्त्वरूपं दुष्प्रेक्षंयोगिलक्षंशशिधरमुकुटंनिष्कलंनिष्कलंकं श्यामंरक्तंत्रि नेत्रंस्फटिकतटसितंहाटकाभंपराभं नौमीशानंस्वयंतत्परशिवितिचिद्रूपमूर्ध्वंमुखाब्जं २ यत्तप्तस्वर्णवर्णंनलिनदलदृशंभातिबंधूककांतं भास्वत्सोमावतंसंभुजगवृतजटाजूटमैश्वर्य दीप्तं ब्रह्मोपेंद्रादिदेवैःप्रणमितचरणंस्तौमितत्पूरुषाख्यं पूर्वंशंभोर्मुखंतत्सुरनरभय हृत्कालकालंकरालं ३ घोरंघोरान्धकाराञ्जननिकरनिकरनिभंखंडितेंद्रारिमुंडंभा लोश्चंडानलार्चिर्विकृतवदनरुग्भिन्नकृत्स्नांधकारं पिंगाक्षंभोगिभोगस्फुटविकटजटं रुद्रमुग्राट्टहासं तद्वंदेदक्षिणास्यंस्मरकलिमथनंमन्मथारेरघोरं ४ उद्यत्सूर्यप्रकाशंसर सिजनयनंचारुबिंबाधरोष्टं भक्तस्वांतेतिसौम्यंसकलसुभगतासिंधुमिंद्वर्धभूषं वामेवामे क्षणंगश्रितममरगणैरुत्तरंवंद्यमाढ्यं योगींद्रैर्वामदेवंविहसितवदनंशूलिनोनित्यमीडे ५ पृ० ६अ) गंगात्वंगतुरंगाशवलितगगनंशंखनागांगगौरं चूडागौरांशुखंडस्फुरितशितिगलंद्योतिता नंगभंगं प्रालेयाभंप्रसन्नंत्रिभुवनविनतंभस्मनाभासितांगं सद्योजातंभजेतन्मुखकमलमलं पश्चिमंशंकरस्य ६ विभ्राजज्ज्योतिराढ्यंस्वकिरणपटलैर्दीपितव्याललोकं नागेंद्रैश्चोपवी तंबुधदनुजगणैपूजितंपुष्पपुंजैः विष्वक्संस्थंस्वयंभूश्रितजनवरदंसर्वसंहारकृत्तद्वन्देका लाग्निरुद्रंपुरहरमधरंधूर्जटेर्वक्त्रमीड्यं ७ ख्यातःस्वच्छंदपुर्यांसुरशिखरिपदेमंदरेयोहिमाद्रौ कैलासेयश्चकास्तिक्षितिजलदहनाद्यष्टमूर्तिर्महेशः स्थास्नाविंगेचराजन्निखिलभुवनगोयो विभुःशक्तियुक्तः तस्मैसर्वेश्वरायस्वहृदयगगनस्थायधाम्नेनमोमे ८ एतज्ज्योतिष्प्रकाशाह्व यगुरुचरणांभोजलब्धप्रसादः कौलेशोदारवंशोद्भविहजनुषिप्राप्तसर्वैक्यसिद्धिः श्रीगोविं दोमहेशस्तवमनवरतंसंव्यधाद्वाढभक्त्या योधीतेभक्तियुक्तःसभजतिसुकृतीसर्वथैश्वर्यमि ष्टं इतिश्रीमहामाहेश्वराचार्यश्रीमच्छ्रीसाहिब्कौलानंदनाथपादपद्मानुजीविश्रीगोविं दकौलविरचितंश्रीस्वच्छंदमहेश्वराष्टकंसमाप्तमितिभद्रमोम् || पृ० ६ब) ओंनमोपरमगुरवे व्याप्तचराचरभावविशेषं चिन्मयमेकमनंतमनादिं भैरवनाथमनाथश रण्यं त्वन्मयचित्ततयाहृदिवन्दे १ त्वन्मयमेकमशेषमिदानीं भातिममत्वदनुग्रहशक्त्या त्वंचमहेशसदैवममात्मा स्वात्ममयंममतेनसमस्तं २ स्वात्मनिविश्वगतेत्वयिनाथे तेननसं सृतिभीतिकथास्ति सत्सुपिदुर्धरदुःखविमोह त्रासविधायिषुकर्मगणेषु ३ अंतकमांप्रति मादृशमेनांक्रोधकरालतमांविदधीहि शंकरसेवनचिंतनधीरो भीषणभैरवशक्तिमयोऽ स्मि ४ इत्थमुपोढभवन्मयसंविद् दीधितिदारितभूरितमिस्रः मृत्युयमांतककर्मपिशा चैर्नाथनमोस्तुनजातुविभेमि ५ प्रोदितसत्यप्रवोधमरीचिः प्रोक्षतविश्वपदार्थसतत्त्वः भावपरामृतनिर्भरपूर्णे त्वययहमात्मनिनिर्वृत्तिमेमि ६ मानसगोचरमेतियदैव क्लेश दशातनुतापविधात्री नाथतदैवममत्वदभेदस्तोत्रपरामृतवृष्टिरुदेति ७ शंकरसत्यमि दंव्रतदानस्नानतपोभवतापविनाशि तावकशास्त्रपरामृतचिंता स्पंदतिचेतसिनिर्वृतिधारा ८ नृत्यतिगायतिहृष्यतिगाढं संविदियंममभैरवनाथ त्वांप्रियमाप्यसुदर्शनमेकंदुर्लभम न्यजनैःसमयज्ञं ९ वसुरसपौषेकृष्णदशम्यामऽभिनवगुप्तस्तवमिममकरोत् येनविभुर्भव पृ० ७अ) मरुसंतापंशमयतिझगितिजनस्यदयालुः १० इतिश्रीअभिनवगुप्ताचार्यकृतंभैरवस्तोत्रं समाप्तं || ओंश्रीदेव्यैसदासुफलसिद्धिदायिन्यैनमः येनोत्कीर्णंविश्वचित्त्रंस्वभित्तौ नानावर्णैश्चित्त्रितं येनभक्त्या अंतेस्वस्मिन्नृत्यतेयेनहृत्वा सोहंसाहिब्कौलकारामशंभुः १ कःस्विद्देहःकस्य देहःक्वदेहोदेहीदेहेनैवबद्धोनबद्धः सोहंशंभुर्विष्णुरर्कोगणेशोधाताशक्तिःसर्वशक्तिर्नमो मे २ नाहंजानेनैवकुर्वेनवेच्छामाविर्भावंचेत्यचेत्योनयामि जानेकुर्वेस्वेच्छयास्वंपरंस्वं भा वंभावंभावभावोनमोमे ३ जाग्रत्यंवास्वप्नजायांदशायां सौषुप्त्यांवायाचिदाभातितुर्या ता मप्येतांतिष्ठतेस्मातीत्यसर्वस्मैमेसर्वभासेनमोस्तु ४ मृत्युर्मृत्युर्मृत्युभाजांनमृत्युर्मृत्युज्ञा नांनैवजातांयतस्ते सोहंमृत्युंचाप्यमृत्युंव्यतीत्यभासेभासामृत्युमृत्युर्नमोमे ५ यश्चित्तेनाऽमृ ष्टमेतद्विभातियन्नेतस्याभानमेवेहभानं नातोयैःसंचेतितोजन्मभावस्तेषांमृत्युःकःक्वदृ ष्टःश्रुतःक्व ६ चेत्संयोगोदेहजोजन्मभावस्तद्विच्छेदोमृत्युरित्येववादं तत्संयुक्तेवावियु पृ० ७ब) क्तेस्वबंधौकस्तज्ज्ञानांहर्षशोकावतारः ७ कोहंकोहंयावदित्थंस्मरामिसोहंसोहंतावदासंपु रोस्मि स्यांचास्मृत्वामिमंमांचतंयंस्वात्मास्वात्मन्यस्मिशेषोहमेकः ८ मत्तोभानंत्वन्मयं मन्मयंचमत्तश्चेत्तत्साम्यमेवात्रभाति भानंभानंचाप्यभानंचभानंसोहंभामिप्रास्तभेदैकभावः ९ भानंचेत्स्यान्निर्विमर्शंनतत्तच्चेत्तद्रूपंतर्हिभेदोनयोन्न भारूपायाहंविमर्शात्मकायजीवा यास्मैमेनमोवाशिवाय १० देहेयातेमृत्युकल्पामवस्थांपंचश्लोकीकेनचित्संस्मृतेयं पंच श्लोकीप्राप्यसंज्ञाकृतान्यासाहिब्कौलारामसुस्थेनभूयः ११ पंक्तिश्लोकींदैशिकेंद्राद्वि बुध्यभूयोभूयःस्वात्मनासंविमृष्य जीवन्प्राप्यस्वानुभूतिंविमुक्तोलीयेतास्मिन्धाम्निनित्ये शिवेस्वे १२ इतिश्रीमहामाहेश्वराचार्यवर्यसाहिब्कौलानंदनाथविरचितंशिवजीवदश कंसंपूर्णं || ओंश्रीदेव्यैसदासुफलदायिन्यैनमः श्रीभैरवुवाच अथवक्ष्यामिदेवेशिकवचंमंत्रगर्भकं मूलमंत्रस्वरूपंचविश्वमंगलकाभिधं सर्वसंपत्प्रदंचैववामदेवस्यपार्वति गुह्यातिगुह्यंपर पृ० ८अ) मंमूलविद्यामयंध्रुवं परमार्थप्रदंनित्यंभोगमोक्षैककारणं महाभयहरंदेविमहैश्वर्यप्रदंशि वे कवचस्यास्यदेवेशिऋषिभैरवीरितः अनुष्टुप्छंदित्युक्तंवामदेवश्चदेवता इंद्रोबी जंपराशक्तिःतारंकीलकमीरितं धर्मार्थकाममोक्षार्थंविनियोगितीरितः अस्यश्रीवा मदेवकवचस्य भैरवृषिः अनुष्टुप्छंदः श्रीवामदेवोदेवता इंद्रोबीजं पराशक्तिः तारंकी लकं धर्मार्थकाममोक्षार्थे कवचपाठेविनियोगः भैरवृषयेनमः शिरसि अनुष्टुप्छन्द सेनमःमुखे श्रीवामदेवदेवतायैनमोहृदि इंद्रोबीजायनमोगुह्ये पराशक्तयेनमःपाद योः तारंकीलकायनमःनाभौ कवचपाठेविनियोगःसर्वांगे अथध्यानं वराक्षमा लाभयढक्कहस्तःसरोजकिंजल्कसमानवर्णः त्रिलोचनश्चारुचतुर्मुखोमांपायादुदी च्यांदिशिवामदेवः ओंवांशिरःपातुमेदेवोललाटंह्रींसदामम वामदेवःप्रदेशंमेबीजद्व यस्वरूपिणं हूंपातुलोचनद्वंद्वंमुखंह्रींबीजरूपिणं ह्रींकारकोकंठदेशेह्रींपातुस्कंद योर्मम वामदेवोसदापातुभुजौसव्येतरौमम ह्रींकारोहृदयंपातुह्रींसव्यादुदरंमम ह्रींनाभौपातुसततंदेवोह्रींकाररूपकः अव्यान्मेलिंगदेशंचह्रींरक्षेद्गुददेशके चंद्रबी पृ० ८ब) जंपातुपादौनमःपादतलंमम दशाक्षरःपातुनित्यंसर्वांगंममसर्वदा अंतर्बहिश्चमांपातुवा मदेवश्चभैरवः भगलिंगामृताप्रीतासर्वसंधिषुरक्षतु शंकरोमांसदापातुममेंद्रियसमान कं शिवोममेंद्रियार्थेषुरक्षयेदखिलेष्वपि वामदेवःपश्चिमेव्याद्दक्षिणेदेवदत्तकः भग लिंगामृतप्रीतोभगलिंगस्वरूपकः उदीच्यामूर्ध्वगःपातुपूर्वेसंहारभैरवः दिगंबरःश्म शानस्थःपातुदिक्षुविदिक्षुच घोररावाट्टाट्टहासोमेशिवोत्वंस्वशोभितः पातुविघ्नेषुघो रेषुजगद्रुधिरभक्षकः करालवदनोघोरःप्रेतकोलाहलप्रियः मुक्तकेशःसुकेशश्च मदिरोन्मत्तभैरवः देवदत्तोमहोग्रश्चसदाश्मशानगःपरः शिरसःपादपर्यंतंदेवदत्तो वतात्सदा इतीदंकवचंदिव्यंसाधकानांसुदुर्लभं मंत्रसिद्धिकरंसाक्षान्महादेवस्य भाषितं इदंकवचमज्ञात्वायोजपेद्वामदेवकः शतलक्षप्रजप्तोपितस्यदेवोनसिद्ध्य ते सशस्त्रघातमाप्नोतिसोचिरान्मृत्युमाप्नुयात् मंत्रेणम्रियतेयोगीरक्षयेत्कवचं परं त्रिसंध्यंपठनादस्यकवचस्यतुपार्वति सिद्धियोष्टौकरेतस्यमहेशिववापरः रू पेणस्मरतुल्योसौकामिनीनांप्रियोभवेत् तस्मादेतत्सुकवचंनदेयंयस्यकस्यचित् भ पृ० ९अ) क्तियुक्तायशांतायदानशीलायधीमते योददातिसुशिष्येभ्यस्तस्यवश्यंजगद्भवेत् गुह्या द्गुह्यतरंगुह्यंमहारुद्रेणभाषितं यस्यकंठगतंतस्यकरस्थाःसर्वसिद्धयः श्रीविश्वमंगलं नामकवचंप्रकाशयेत् रहस्यातिरहस्यंचगोपनीयंस्वयोनिवत् इतिश्रीरुद्रयामले तंत्रेश्रीविश्वमंगलंनामवामदेवकवचंसंपूर्णं || ओंश्रीदेव्यैसदासुफलदायिन्यैनमः श्रीभैरवुवाच श्रृणुदेवीप्रवक्ष्यामिपटलंदेवदुर्लभं सर्वसिद्धिकरंदिव्यंसर्वैश्वर्यप्रदायकं यादेवदेवीवरदाशारिकात्रिपुरेश्वरी त्रैलोक्यजननी दुर्गाविद्यासप्ताक्षरापरा सप्तविद्येश्वरीसैवसप्तलोकांतराश्रया सप्तद्वीपमयीपृथ्वीशून्यरू पाकुलेश्वरी वक्ष्यामिपटलंदेविमंत्रोद्धारप्रकाशवात् यंत्रोद्धारंलयांगाढ्यंयथावद्वर्णयामि ते मंत्रोद्धारंमहद्गोप्यंसर्वसिद्धिप्रदंकलौ लोकानांहितकामार्थंतत्रादौशृणुपार्वति तारंप रामातटसिंदुरार्णाःखंशर्मतन्मध्यगतंचनाम अंतेश्मरीपार्वतिशारिकायास्त्रयोदशा र्णोमनुरस्तिगोप्यः इतिमंत्रोद्धारः प्रकाशं मंत्रस्यास्यमहादेविनविघ्नोनापिदूषणं न पृ० ९ब) विपर्ययभीर्लोकेसिद्धसाध्यारिसंशयः पुरश्चर्याफलंनापिनकायक्लेशसंग्रहः साक्षात्सिद्धि प्रदोमंत्रःसर्वविघ्नपहारकः व्रह्महत्यासुरापानमहापातकजंमलं प्रक्षालयतिमत्रोयंमभक्ष्य भक्षणंद्रुतं मंत्रमुत्कीलयेदादौमृतंसंजीवयेत्ततः सिद्धंमंत्रंजपेन्मध्येदद्यादंतेचसंपुटं ततः सिद्धमनुःसिद्धोनासाध्योभवतिध्रुवं अस्यमंत्रस्यदेवेशिप्रभावाद्भैरवोस्म्यहं विष्णुर्नारायणोदे विब्रह्मालोकपितामहः नदेयःपरशिष्यायभक्तिहीनायपार्वति अन्यथासिद्धिहानिःस्या दुभयोशिवशापतः मंत्रस्यास्यृषिःप्रोक्तोमहादेवोमहेश्वरि त्रिष्टुप्छंदःसमाख्यातंशा रिकादेवतास्मृता शर्मबीजंरमाशक्तिसिंधुरंकीलकंस्मृतं धर्मार्थकाममोक्षार्थेविनियो गितीरितः तारपरारमाबीजैःषर्दीर्घोच्चाररूपकैः न्यासंकुर्यात्षडंगानियेनदेवीमयो भवेत् ध्यानमस्याःप्रवक्ष्यामिजगच्चैतन्यकारकं येनध्यानेनदेवेशिपरानंदप्रजायते बालार्ककोटिद्युतिमिंदुचूडांवरासिचक्राभयबाहुमाद्यां सिंहाधिरूढांशिववामदेवलीनां भजेचेतसिशारिकेशीं मंत्रोद्धारंप्रवक्ष्यामिसाधकानांशुभावहं सर्वार्थसाधकंदिव्यंसर्वाशाप रिपूरकं खत्रिकोणवस्तुकोणसुवृत्तोद्द्योतनागदलवृत्तमंडलं भूगृहंशिखिरवींदुभांचितंयं पृ० १०अ) त्रमेतदुदितंशिलालयं गणेशधर्मवरुणाःकुवेरसहितःशिवे पूज्यादूर्वाक्षतैःपुष्पैश्चतुर्द्वा रेषुसाधकैः इंद्राद्याश्चैवदिक्पालास्तथेशानक्रमेणच ब्राह्मीचवैष्णवीदेवीचंडिकाप्यप राजिता कौमारीशांभवीचैववाराहीनारसिंहिका पूज्यावामक्रमेणैतामातृचक्रस्थमात राः तत्रैवगुरवोभ्यर्चास्त्रिषुवृत्तेषुसाधकैः गुरुंचपरमंदेविपरापरगुरुंतथा परमेष्टिगु रुंदेविनत्वापूज्याश्चभैरवाः संहारोभीषणोदेविकपालोन्मत्तभैरवौ क्रोधश्चांडोरुरुश्चैवम सितागोमहेश्वरि इत्येतान्भैरवान्देविवसुपत्रेषुपूजयेत् ब्राह्माद्यामातरोयत्रतत्रसंपूजये त्सदा भैरवान्दक्षिणावृत्त्यामातृचक्रंचवामतः आमाकामाचचार्वांगीदेवीचटंकधारिणी ताराचपार्वतीदेविसंपूज्यारुक्मिणीशिवा वामावर्तक्रमेणैववस्तुकोणगतःशिवे कालिका त्रिपुरादुर्गापूज्यामध्यत्रिकोणगाः ईशानक्रमयोगेनयथाभीष्टफलप्रदः मध्येश्रीशारिकादे वीवामदेवांकमध्यगां मकारैःपंचभिकौलःकुलाचारपरायणः संपूजयेन्महादेविसाधकोमं त्रसाधकः वरंचक्रंचखड्गंचपूजयेदभयंतथा बिंदौगंधाक्षतैःपुष्पैर्धूपदीपादितर्पणैः नै वेद्याचमनीयाद्यैस्ताबूलैश्चसुवासितैः लयांगमिदमाख्यातंप्रयोगंशृणुपार्वति स्तंभनंमो पृ० १०ब) हनंचैवमारणाकर्षणोतथा वशीकारंतथोच्चाटंशांतिकंपौष्टिकंपरं एतेषांसाधनंवक्ष्येरहस्यं परमाद्भुतं येनसाधनमात्रेणसाधकोभैरवोभवेत् रवौस्नात्वाशिवेकूपेकृत्वाकर्माह्निकंत दा अर्धरात्रेनिराहारोजपेन्मूलंचतुष्पथे अयुतंनियमोनैवदशांशंहोममाचरेत् घृतरा स्नाशटीक्षौद्रकृकलासादिभिःशिवे ब्रह्माहरिशिवोजिष्णुस्तंभवान्भवतिध्रुवं चंद्रेमध्या ह्नवेलायांवीतसीमूलमंडले त्रिकोणंमंडलंकृत्वाश्रीचक्रंपूजयेत्ततः अयुतंप्रजपेन्मूलं नियमेनसुरेश्वरि हूयेदाज्यपयोमत्स्यकर्पूरासवतज्जटाः शीतोधृतेनदेवेशिभस्मनाति लकंचरेत् तस्यदर्शनमात्रेणत्रैलोक्यंमोहमेष्यति भौमेनिशामुखेगत्वाश्मशानमयुतंजपे त् चितायांतत्रदीप्ताग्नौहूयेदाज्यंसगोमयं शमीमूलंनरास्थीनिशत्रून्मृत्युमुखंव्रजेत् बु धेगत्वावनंदेविवदाश्वत्थतलोजपेत् अयुतंमूलमेकाकीहूयोत्पुष्पोश्चयंमितं माज्यंमाम वरक्तंचपुष्पाणिचमहेश्वरि मीनकापीनवक्षोजाप्रातःप्रादुर्भविष्यति गुरौगत्वाशवामीनो जपेन्मूलंचतुष्पथे अयुतंवायुतार्धंवाहूयेत्मायसमासवं स्वयंचासकलोलाक्षःसा ज्यंताबूलमिश्रितं इंद्राग्नियमवरुणानिलनिनृतिवित्तदाः सेश्वराःसहमातस्यवशमेष्यंत्यसं पृ० ११अ) शयं शुक्रेर्धरात्रेविष्ट्यांवागत्वाप्रेतालयंपरं एकाकीप्रजपेत्तत्रकृत्वापानांजनंशिवे अयु तंतुचितावह्नौहूयेदाज्यंसकंचुकं चितांगारचयेदेविरिपोरुच्चाटनंभवेत् शनौमध्याह्नसम येस्नात्वाकृत्वाह्निकीक्रियां गत्वादेवालयंदेविदेवींध्यात्वायथाविधि तदग्रेपूजयेद्यंत्रंजपे न्मूलमथायुतं तत्रत्रिकोणकुंडेतुहूयेदाज्यंसभैरवं रुरुमांसंकुलेशानिकुकूटस्यशिरस्त था सद्यःसर्वमयानांचशांतिर्भवतिपार्वति अष्टम्यांचचतुर्दश्यांगत्वाप्रेतालयंशिवे जपेदयुतमर्धंवाहूयेत्पायसशर्करां मृद्धीकांत्रींश्चमद्यादीन्महापुष्टिप्रजायते इत्येषविधि राख्यातःसर्वतंत्रेषुगोपितः नाख्येयोनचद्रष्टव्योयोगिनीचक्रपूजकैः इत्ययंपटलोगुह्यः सकलागमसारवान् रहस्यभूतोमेदेविगोपनीयोमुमुक्षुभिः इतिश्रीरुद्रयामलेतंत्रेदशवि द्यारहस्येश्रीशारिकाभगवतीपटलःसमाप्तः || अथहवनविधिः तीर्थेस्नेयंतीर्थमेवसमानानांभवतिमानःशंस्योरररुषो धूर्तेप्राणङ्म र्त्यस्यरक्षाणोब्रह्मणस्पते, वसोःपवित्रमसि शतधारंवसूनांसहस्रधारमयक्ष्मावःप्रजया संसृजामि रायस्योषेणबहुलाभवंति इतिहस्तपादादिपंचस्नानीमंत्रः परमात्मनेपंचभूता पृ० ११ब) त्मने मंत्रनाथायाधारशक्त्यै स्वात्मनेशिवशक्तिस्वरूपायगंधोनमः अर्घोनमः पुष्पंनमः स्वप्रकाशोमहादीपःसर्वतस्तिमिरापहः सबाह्याभ्यंतरंज्योतिर्दीपोयंप्रतिगृह्यतां, वनस्प तिरसोत्पन्नोगंधाढ्योगंधुत्तमः आघ्रेयःसर्वदेवानांधूपोयंप्रतिगृह्यतां नमोधर्मनिधाना यनमःसुकृतसाक्षिणे नमःप्रत्यक्षदेवायभास्करायनमोनमः, यत्रास्तिमातानपितानबंधु र्भ्रातापिनोयत्रसुहृज्जनश्च नज्ञायतेयत्रदिनंनरात्रिस्तत्रापिदीपंशरणंप्रपद्ये ओंतत्सत् अद्यमासोत्तमेमासे अमुकपक्षे तिथावमुकायां आत्मनःवाङ्मनःकायोपार्जितपापनिवार णार्थंअमुकगोत्रः अमुकशर्माहं श्रीमदिष्टदेवीमंत्रसिद्ध्यर्थे मनोरथसिद्ध्यर्थे निर्विघ्नसिद्धिप्रा प्त्यर्थेकृष्णाष्टम्यादिचतुर्दशीपर्यंतंलक्षार्धसंख्याकंश्रीमहागणपतिमंत्रजपं तद्दशांशहोम तद्दशांशतर्पणतद्दशांशमार्जनतद्दशांशब्राह्मणभोजनयुतंजपविधिनाद्विगुणीकृतंपंचांग पुरश्चरणंकरिष्ये || कृतनित्यनैमित्तिकःसाधकःहोममाचरेत् तद्यथा स्वाग्रेत्रिकोणं कुंडंनिखन्योंह्रींविघ्नोत्सारिण्यैनमः मूलेनाग्निंकुंडेसंयोज्य रं ३ वैश्वानरायनमः मूलं ध्रुवादिभ्योहूंफट्स्वाहा इतिनैऋत्यांअंगारंक्षिप्य ओंह्रींरंसःवैश्वानरलोहिताक्षत्रिनेत्रिहा पृ० १२अ) गच्छ ज्वालामुखिहसंनिधेहि इहसंनिरुध्यस्व इहसंमुखीभव ह्रींरंसःस्वाहा मूलंआज्यं तेजःसमुद्दिष्टंआज्यंपापहरंपरं आज्यंस्वराणामाहारःआज्येलोकःप्रतिष्ठितः दिव्यंत रिक्षभूमीनांयत्तेकिल्विषमागतं तत्सर्वमाज्यदर्शेनविनाशमुपगच्छतु तत्सत् अद्येति श्रीशारिकाभगवतीपुरश्चरणसिद्धये पुरश्चरणांगभूतंहोमं अमुककामनासिद्धये इदमा ज्यमर्पयामिस्वाहा इत्याज्यवीक्षणंकृत्वा प्राणाहुतीदत्त्वा प्राणायस्वाहा अपानायस्वा हा समानायस्वाहा उदानायस्वाहा व्यानायस्वाहा षडंगाहुतीदद्यात् ओंह्रांश्रांहृदया यनमःस्वाहा ओंह्रींश्रींशिरसेस्वाहा ओंह्रूंश्रुंशिखायैवषट्स्वाहा ओंह्रैंश्रैंकवचायहुंस्वा हा ओंह्रौंश्रौंनेत्रत्रयायवौषट्स्वाहा ओंह्रःश्रःअस्त्रायफट्स्वाहा ततःदक्षकरेणहुत वस्तुगृहीत्वा वामेनमालामादायहुनेत् मूलं न्यूनातिरिक्तमंत्रचक्रतृप्तिरस्तुस्वाहा गुह्यातितर्पणं मूलं शिवमस्तुयजमानस्यच्छिद्रंमाभूत्कदाचन देवदेव्याःप्रसादेन रक्षरक्षास्तुमेभृशं अनेनमंत्रहोमेनश्रीशारिकाभगवतीसांगासासनासपरिवारासा लंकारासायुधाप्रीतामेभवतुस्वाहा ईशानेभस्मसंगृह्य जलमितिभस्म स्थलभस्म पृ० १२ब) अग्निभस्म || ओंशिवमस्तुयजमानस्यच्छिद्रमाभूत्कदाचन इतिमंत्रतिलकंकृत्वा ओंमूलं फट्विमुंचामि फट्परिमोक्ष्यामि फट्परिविसृजामि मूलेनाग्नौपुष्पांजलिंदत्वा विसृजा ग्निं तर्पयेत् कर्पूररक्तचंदनमिश्रिततायैः ततःमार्जयेत्यजमानशीषैः ततःब्राह्मणभुक्तिः || श्रीदैव्यैसिद्धिदायैनमः श्रीगुरवेशिवायोंनमः श्रीगणपतयेनमोनमः अधुनापद्धतिंवक्ष्ये श्रीशिलार्चनसंयुतां गद्यपद्यमयींगोप्यांसकलागमनिश्चितां प्रातःकृत्यमकृत्वातुयोदेवीं भक्तितोर्चयेत् तस्यपूजातुविफलाशोचहीनायथाक्रिया तत्रश्रीमान्साधकोब्राह्मेमुहू र्ते शयनतलादुत्थाय करचरणादिप्रक्षाल्याचम्य निजासनेसमुपविश्य निजशिरसि श्वेतवर्णाधोमुखसहस्रदलकमलकर्णिकांतर्गतचंद्रमंडलसिंहासनोपरि निषण्णं स्व गुरुंशुक्लवर्णंशुक्लालंकारभूषितं ज्ञानानंदमुदितमानसं सच्चिदानंदविग्रहं त्रिनय नंचतुर्भुजं ज्ञानमुद्रापुस्तकवराभयकरंवामांगेवामहस्तधृतकमलया रक्तवसनाभ रणया स्वशक्त्यादक्षभुजेनालिंगितं सर्वदेवादिदेवं सर्वतीर्थतीर्थंपरमशिवस्वरूपंशां पृ० १३अ) तंस्वप्रसन्नंध्यात्वा तच्चरणकमलयुगलविगलदमृतधारयास्वात्मानंप्लुप्तंविभाव्य मानसोप चारैराराधयेद्यथा लंपृथिव्यात्मकंगंधंसमर्पयामिनमः हंआकाशात्मकंपुष्पंसमर्पयामि नमः यंवायवात्मकंधूपंसमर्पयामिनमः रंवह्न्यात्मकंदीपंसमर्पयामिनमः वंअमृतात्मकं नानानैवेद्यंसमर्पयामिनमः संसर्वात्मकंफलमूलतांबूलादिकंसमर्पयामिनमः ओंऐंह्रींश्रीं हसखफ्रेंहसरक्षमलवयूंसहखफ्रेंसहक्षमलवरयूंह्सौंःस्हौंःश्रीमच्छ्रीअमुकश्चौलानंद नाथश्रीपादुकांश्रीमच्छ्रीअमुकांबाश्रीपादूकांपूजयामिनमः इतिदशधाविमृश्य मनसादं डवत्प्रणामंकुर्यात् सहस्रदलपंकजेसकलशीतरश्मिप्रभं वराभयकरांबुजंविमलगंधपु ष्पांबरं प्रसन्नवदनेक्षणंसकलदेवतारूपिणं स्मरेशिरसिहंसगंतदभिधानपूर्वंगुरुंइतिध्या त्वा प्रणाममंत्रान्पठेत् नमामिसद्गुरुंशांतंप्रत्यक्षंशिवरूपिणं शिरसायोगपीठस्थंमुक्ति कामार्थसिद्धये १ श्रीगुरुंपरमानंदंवंदाम्यानंदविग्रहं यस्यसान्निध्यमात्रेणचिदानंदायतेप रं २ अखंडमंडलाकारंव्याप्तंयेनचराचरं तत्पदंदर्शितंयेनतस्मैश्रीगुरवेनमः प्रकाशानंद नाथंचविमर्शानंदनाथकं आनंदानंदनाथंचदिव्यौघंगुरुमंडलं ४ श्रीज्ञानानंदनाथंचश्री पृ० १३ब) सत्यानंदनाथकं श्रीपूर्णानंदनाथंचसिद्धौघान्प्रणमाम्यहं ५ स्वभावानंदनाथंचप्रतिभानंद नाथकं सुभगानंदनाथंचमानवौघान्गुरून्भजे ६ अज्ञानतिमिरांधस्यज्ञानांजनशलाक या चक्षुरुन्मीलितंयेनतस्मैश्रीगुरवेनमः ७ गुरुब्रह्मागुरुर्विष्णुर्गुरुसाक्षान्महेश्वरः गुरु रेवजगत्सर्वंतस्मैश्रीगुरवेनमः ८ नमस्तेनाथभगवञ्शिवायगुरुरूपिणे विद्यावतारसंसि द्ध्यैस्वीकृतानेकविग्रह ९ नवायनवरूपायपरमार्थैकरूपिणे सर्वाज्ञानतमोभेदभानवेचि द्घनायते १० स्वतंत्रायदयाकॢप्तविग्रहायपरात्मने परतंत्रायभक्तानांभव्यानांभव्यरूपिणे ११ विवेकिनांविवेकायविमर्शायविमर्शिनां प्रकाशिनांप्रकाशायज्ञानिनांज्ञानरूपिणे १२ पुरस्तात्पार्श्वयोःपृष्टेनमस्कुर्यामुपर्यधः सदामच्चित्तरूपेणविधेहिभवदासनं १३ इति श्रीगुरुंप्रणम्य स्वप्रसन्नंविभाव्य मनसातदाज्ञागृहीत्वा मूलाधारेस्वर्णवर्णचतुर्दलकम लकर्णिकांतर्गतशृंगाटकांतवर्तित्रिकोणपीठोपरिपरांशक्तिंकुंडलिनीं सर्पाकारामूर्ध्वमुखीं सार्धत्रिवलयां उद्यद्दिनकरसहस्रभास्वरां विद्युत्कोटिसन्निभां विसतंतुतनीयसीं पंचाशद्व र्णविग्रहां अष्टात्रिंशत्कलारूपिणीं त्रिधामधामानं सर्वप्राणिजीवां सर्वदेवाधिदेवींसकल पृ० १४अ) मंत्रमातरंसुप्तांविभाव्य श्रीगुरूपदिष्टनिजसहजनादेन सचैतन्यांविधाय तत्रचतुर्षुदलेषु वंनमः शंनमः षंनमः संनमः इतिपत्रेषुमध्येमूलेनचसंपूज्य प्रादक्षिण्येनसंपूज्य पूर्वोक्तमंत्रेण कमलात्कमलंनीत्वा ततःस्वाधिष्ठानेलिंगमूले विद्रुमवर्णेषड्दलकमलेतांप्रापयय तत्रबं नमः भंनमः मंनमः यंनमः रंनमः लंनमः इतिपत्रेषुमध्येमूलेनचसंपूज्य ततोमणिपूरकेना भौ नीलवर्णेदशदलकमलेतांनीत्वा तत्र डंनमः ढंनमः णंनमः तंनमः थंनमः दंनमः धंन मः नंनमः पंनमः फंनमः इतिपत्रेषु मध्येमूलेनचसंपूज्य ततोऽनाहतेवक्षसि कपिलवर्णे द्वादशदलकमलेतांनीत्वा तत्र कंनमः खंनमः गंनमः घंनमः ङंनमः चंनमः छंनमः जंनमः झंनमः ञंनमः टंनमः ठंनमः इतिपत्त्रेषुमध्येमूलेनचप्रपूज्य ततोविशुद्धौकठे धूम्रवर्णेषोड शदलकमलेतांनीत्वा तत्रअंनमः आंनमः इंनमः ईंनमः उंनमः ऊंनमः ऋंनमः ऋंनमः ऌंनमः ॡंनमः एंनमः ऐंनमः ओंनमः औंनमः अंनमः अंःनमः इतिपत्रेषुमध्येमूलेनचसंपूज्य ततोभ्रूम ध्येआज्ञाचक्रेविद्युद्वर्णेद्विदलकमलेतांनीत्वा तत्र हंनमः क्षंनमः इतिपत्रयोर्मध्येमूलेनच संपूज्य ततोब्रह्मरंध्रगतसहस्रदलकमलंताप्रापयय तत्रबिंदुरूपतेजोमयपरमशिवेनसहैक पृ० १४ब) तांनीत्वा ततःस्रवतापरमामृतेनतांसंतर्प्य तत्तनादश्रवणतत्परोमुहूर्तंलयंविभाव्य ततोऽ वरोहेसर्वत्रसोहमितिमंत्रेण कमलात्कमलेऽवरोह्यमाणामाज्ञाचक्रादिक्रमेण तेषुतेषुकम लेषु तैस्तैरक्षरैःसंपूज्यमानां तत्तादाधारतत्तद्धातुतत्तद्वर्ण तत्तदधिदेवताःसंतर्पयंतीं मूलाधारं प्रापयय तत्रैवस्वस्थानेसंस्थापयेत् इत्यारोहावरोहणक्रमेण परांशक्तिंकुंडलिनींध्यात्वा प्रका शमानांप्रथमेप्रयाणे प्रतिप्रयाणेप्यमृतायमानां अंतःपदव्यामनुसंचरंतीमानंदरूपामवलां प्रपद्ये इतिस्तुत्वा नाहमस्मिनचान्योस्तिध्येयंचात्रनविद्यते आनंदपदसंलीनंमनःसमरसीगतं ततस्तत्तेजसाव्याप्तंस्वदेहंविचिंत्य तत्तेजसैवपरिणतांश्रीपरदेवतांध्यात्वा मानसोपचारैस्सं पूज्य प्राणायामत्रयंकृत्वा तद्विधिर्यथा अथविहितपद्माद्यासनोमूलाधारार्पितचित्तवृत्ति र्मूलंप्रणवंवाषोडशवारमुच्चरन् दक्षांगुष्टेन दक्षनासापुटंनिरुध्य वामेनपवनंपूरयेत् ततस्त मेवचतुष्षष्टिवारमुच्चरन् दक्षानामाकनिष्ठाभ्यां वामंपुटंचनिरुध्य द्वाभ्यांपवनंकुंभयेत् त तस्तमेवद्वात्रिंशद्वारमुच्चरन् दक्षेणशनैःपवनंरेचयेत् इडयापिवषोडशभिःपवनंकुरुषष्ठि चतुष्टयमंतरगं त्यजपिंगलयाशनकैःशनकैर्दशभिर्दशभिर्दशभिर्द्व्यधिकैः इत्येकःप्राणा पृ० १५अ) यामः एषेवविपर्ययेणक्रियमाणोद्वितीयः प्रथमवत्तृतीयः इत्थंप्राणायामत्रयेण निर स्तसकलकलुषंस्वदेहंदेवताराधनयोग्यंविभाव्य स्वमूलमंत्रस्य ऋष्यादिस्मरणंविदधीतय था अस्यश्रीशारिकाभगवतीमंत्रराजस्य श्रीमहादेवृषिः त्रिष्टुप्छंदः श्रीशारिकाभग वतीदेवता शांबीजं श्रींशक्तिः फ्रांकीलकं धर्मार्थकाममोक्षार्थेश्रीजपेविनियोगः इतिकृ तांजलिः स्मृत्वान्यसेत् श्रीमहादेवृषयेनमः शिरसि त्रिष्टुप्छंदसेनमोमुखे श्रीशारिका भगवतीदेवतायैनमोहृदि शांबीजायनमोगुह्ये श्रीशक्तयेनमःपादयोः फ्रांकीलकायन मोनाभौ धर्मार्थकाममोक्षार्थेजपेविनियोगःसर्वांगेषु इतिऋष्यादिन्यासः अथकरन्यासः ओंह्रांश्रांअंगुष्ठाभ्यांनमः ओंह्रींश्रींतर्जनीभ्यांस्वाहा ओंह्रूंश्रूंमध्यमाभ्यांवषट् ओंह्रैंश्रैंअनामिकाभ्यां हूं ओंह्रौंश्रौंकनिष्ठिकाभ्यांवौषट् ओंह्रःश्रःकरतलपृष्ठाभ्यांफट् ओंह्रांश्रांहृदयायनमः ओंह्रीं श्रींशिरसेस्वाहा ओंह्रूंश्रूंशिखायैवषट् ओंह्रैंश्रैंकवचायहुं ओंह्रौंश्रौंनेत्रत्रयायवौषट् ओंह्रःश्रः अस्त्रायफट् अथध्यानं बालार्ककोटिद्युतिमिंदुचूडांवरासिचक्राभयबाहुमाद्यां सिंहाधिरू ढांशिववामदेवलीनांभजेचेतसिशारिकेशीं इतिस्वहृदयकमलेश्रीपरदेवतांस्वाभेदेनध्या पृ० १५ब) त्वा मानसैरुपचारैःसंपूज्य वक्ष्यमाणोत्कीलनादिमंत्रान् श्रीभैरवमंत्रंचजप्त्वा मालामादाय ओंमांमालेमहामायेसर्वशक्तिस्वरूपिणि चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मेसिद्धिदाभव ओंसिद्ध्यै नमः इतिमनसागंधादिनातामपिसंपूज्य गंअविघ्नंकुरुमालेत्वं इतिदक्षकरेणगृहीत्वा शि रसिगुरुंश्वेतवर्णं कंठेपीतवर्णंमूलविद्यां हृदियथोक्तरूपांश्रीदेवींध्यायन् यथाशक्तिजपंवि धाय जपांते त्वंमालेसर्वदेवानांप्रीतिदाशुभदाभव शुभंकुरुष्वमेभद्रेयशोवीर्यंचसर्वदा इति हृदंतःपठित्वा मालांशिरसिसंस्थाप्य पुनरपिपूर्ववत्प्राणायामत्रयृष्यादिकरषडंगन्यासा न्विधाय गुह्यातिगुह्यगोप्त्रीत्वंगृहाणास्मत्कृतंजपं सिद्धिर्भवतुमेदेवित्वत्प्रसादान्महेश्वरि इत्यनेनतेजोमयंजपफलंश्रीदेवीवामहस्तेसमर्प्य योनिमुद्रयाप्रणमेत् प्रातःप्रभृतिसायांतं सायादिप्रातरंततः यत्करोमिजगद्योनेतदस्तुतवपूजनं इतिनिजकृत्यंसमर्प्य स्वाकार्यानुष्ठा नाय ओंत्रैलोक्यचैतन्यमयेसुरेशिश्रीशारिकेत्वच्चरणाज्ञयैव प्रातःसमुत्थायतवप्रियार्थंसं सारयात्रामनुवर्तयिष्ये संसारयात्रामनुवर्तमानंश्रीशारिकेत्वच्चरणाज्ञयालं स्पर्धातिरस्कार कलिप्रमादभयानिमांमाभिभवंतुमातः जानामिधर्मंनचमेप्रवृत्तिर्जानाम्यधर्मंनचमेनिवृत्तिः पृ० १६अ) त्वयाहृषिकेशिहृदिस्थयाहंयथानियुक्तोस्मितथाकरोमि इतिश्रीदेव्याज्ञांसंप्रार्थ्य मू लाधारादिद्वादशांतचक्रपर्यंतस्थिताभ्यो गणपतिप्रभृतिदेवताभ्यो गुरूपदेशज्ञातंसह जसिद्धमजपाजपंसमर्पयेद्यथा ओंअद्यपूर्वेद्युरहोरात्राचरितमुच्छ्वासनिःश्वासात्मकं षट् शताधिकमेकविंशतिसहस्रसंख्याकमजपाजपं मूलाधारस्वाधिष्ठानमणिपूरानाहतविशु द्धाज्ञाब्रह्मरंध्रेषु चतुर्दलषड्दलदशदलद्वादशदलषोडशदलद्विदलसहस्रदलेषु स्वर्णवि द्रुमनीलपिंगलधूम्रविद्युत्कर्वुरवर्णेषु स्थिताभ्योगणपति ब्रह्मविष्णुरुद्रजीवात्मपरमात्मा श्रीगुरुपादुकाभ्यो यथाभागशःसमर्पयामि इतिकृतांजलिःसंकल्प्यसमर्पयेत् ओंऐंह्रीं श्रींमूलधारचक्रस्थायगणपतयेऽजपाजपानांषट्शतानिसमर्पयामिनमः धं स्वाधिष्ठान चक्रस्थायब्रह्मणेऽजपाजपानांषट्सहस्राणिसमर्पयामिनमः धं मणिपूरकचक्रस्थाय विष्णवेऽजपाजपानांषट्सहस्राणिसमर्पयामिनमः धं अनाहतचक्रस्थायरुद्रायाऽजपाज पानांषट्सहस्राणिसमर्पयामिनमः धं विशुद्धचक्रस्थायजीवात्मनेऽजपाजपानां सहस्रंसमर्पयामिनमः धंआज्ञाचक्रस्थायपरमात्मनेऽजपाजपानांसहस्रंसमर्पयामि पृ० १६ब) नमः धंसहस्रदलकमलकर्णिकामध्यवर्तिन्यैश्रीगुरुपादुकायैअजपाजपानांसहस्रं समर्पयामिनमः इत्यजपाजपंसमर्प्य ओंअद्यसूर्योदयमारभ्य आगामिसूर्योदयंयावत् अहोरात्रेणोच्छ्वासनिःश्वासात्मकं षट्शताधिकमेकविंशतिसहस्रसंख्याकमजपा जपमहंकरिष्ये इतिकृतांजलिःसंकल्प्य अजपामंत्रेणप्राणायामंविधाय अस्यश्री अजपागायत्रीमंत्रस्य हंसृषिः अव्यक्तगायत्रीछंदः परमात्मादेवता हंबीजं सः शक्तिः सोहंकीलकं मममुक्तिसाधनेजपेविनियोगः स्वशिरसि धंहंसात्मनेऋषये नमः मुखे धंअव्यक्तगायत्रीच्छंदसेनमः हृदये धंपरमात्मदेवतायैनमः मूलाधारे धं हंबीजायनमः पादयोः धंसःशक्तयेनमः नाभौधंसोहंकीलकायनमः हृदि धंओंका रतत्त्वायनमः कंठे धं उदात्तायस्वरायनमः मूर्ध्नि धंनभसेस्थानायनमः धंहैमायव र्णायनमः इतिविन्यस्य मममोक्षार्थेजपेविनियोगः इतिकृतांजलिर्वदेत् धंह्सांसू र्यात्मनेस्वाहांगुष्ठाभ्यांनमः धंह्सींसोमात्मनेस्वाहातर्जनीभ्यांस्वाहा धंह्सूंनिरंज नात्मनेस्वाहामध्यमाभ्यांवषट् धंह्सैंनिराभासात्मनेस्वाहानामिकाभ्यांहुं धंह्सौंः पृ० १७अ) अनंततनुःसूक्ष्मादेवीप्रचोदयात्स्वाहा कनिष्ठिकाभ्यांवौषट् धंह्संःअव्यक्तबोधात्मनेस्वा हाकरतलकरपृष्ठाभ्यांफट् इतिकरन्यासः धंह्सांसूर्यात्मनेस्वाहाहृदयायनमः धं ह्सींसोमात्मनेस्वाहाशिरसेस्वाहा धंह्सूंनिरंजनात्मनेस्वाहाशिखायैवषट् धंह्सैंनिरा भासात्मनेस्वाहाकवचायहुं धंह्सौंःअनंततनुःसूक्ष्मादेवीप्रचोदयात्स्वाहानेत्राभ्यांवौष ट् धंह्संःअव्यक्तबोधात्मनेस्वाहास्त्रायफट् इतिषडंगन्यासंकृत्वा ध्यानंकुर्यात् द्यांमूर्धानंयस्यविप्रावदंतिखंवैनाभिंचंद्रसूर्यौचनेत्रे दिग्भिःश्रोत्रंयस्यपादौक्षितिश्च ध्यातव्योसौसर्वभूतांतरात्मा इतिविराट्स्वरूपंस्वात्मानंध्यात्वा तदनुसंधायीप्राण वायोर्निगमप्रवेशात्मकं अजपामंत्रंपंचविंशतिवारंजप्त्वासमर्प्य श्रीगुरूपदिष्टमा र्गेणनादानुसंधानपूर्वकं निरस्तसमस्तोपाधिना केनापिचिद्विलासेनप्रवर्तमानोस्मी तिविभाव्य स्वकार्यानुष्ठानाय समुद्रमेखलेदेविपर्वतस्तनमंडले विष्णुपत्निनमस्तु भ्यंपादस्पर्शंक्षमस्वमे इतिभूमिंप्रार्थ्य श्वासानुसारेणतस्यांपादंनिधाय नंदंतुसाध काःसर्वेविनश्यंतुविदूषकाः अवस्थाशांभवीमेस्तुप्रसन्नोस्तुगुरुःसदा इत्यादिव पृ० १७ब) दन्बहिर्गत्वा मलमूत्रोत्सर्गशौचाचमनंविधाय क्लींकामदेवायसर्वजनप्रियायनमः इतिदंतधावनंकुर्यात् ततोनद्यादौगत्वा वैदिकस्नानंनिर्वर्त्य तांत्रिकमारभेतयथा तत्रादौमूलेनकरचरणमुखानिप्रक्षाल्य ओंमणिधरिवज्रिणिमहाप्रतिसरेरक्षरक्षहूंफ ट्स्वाहा इतिशिखांबद्ध्वा आचमनंत्रयंकुर्यात् मूलं आत्मतत्त्वंशोधयामिस्वाहा मूलं विद्यातत्त्वंशोधयामिस्वाहा मूलंशिवतत्त्वंशोधयामिस्वाहा इत्याचम्य मलापकर्षण स्नानंविधाय पुनराचम्य नाभिमात्रेजलेस्थित्वा ओंअद्यामुकमासस्येत्यादिश्रीअमुकदे वीप्रीत्यर्थंतांत्रिकस्नानमहंकरिष्ये इतिसंकल्प्य प्राणायामंकृत्वा स्वमूऌष्यादिक रषडंगन्यासांश्चकृत्वा स्वपूरतोजलेहस्तमात्रंचतुरश्रंतीर्थंपरिकल्प्य ओंब्रह्मांडोद रतीर्थानिकरैःस्पृष्टानितेरवे तेनसत्येनदेवेशतीर्थान्देहिदिवाकर इतिसूर्यात्तीर्थंप्रा र्थ्य क्रों इत्यंकुशमुद्रयासूर्यमंडलंभित्त्वा गंगेचयमुनेचैवगोदावरिसरस्वति नर्मदेसिं धुकावेरिजलेस्मिन्सन्निधिंकुरु इतिसूर्यमंडलात्तीर्थमावाह्य पुरःकल्पिततीर्थे सं योज्य पुनःसूर्यमंडलादेव ह्वांह्वींह्वूंह्वैंह्वौंह्वंःसर्वानंदमयेतीर्थशक्तेएह्येहिस्वाहा इति पृ० १८अ) तीर्थशक्तिमावाह्य तस्मिंस्तीर्थमंडलेतांध्यायेद्यथा सर्वानंदमयीमशेषदुरितध्वंसांमृगां कप्रभां त्र्यक्षांचोर्ध्वकरद्वयेनदधतींपाशंसृणिंचक्रमात् दोर्भ्यांचामृतपूर्णहेमकलशंशुक्लाक्ष मालांबरां गंगासिंधुसरिद्द्वयादिसहितांश्रीतीर्थशक्तिंभजे इतिध्यात्वा ओंनमोभगवति अंबेअंबालिकेअंबिकेमहामालिनिएह्येहिभगवतिअशेषतीर्थालवालेह्रींशिवजटाधिरू ढेगंगेगंगांबिकेस्वाहा इतिमंत्रेणसप्तधाभिमंत्र्य ह्रींइत्यालोड्य वमित्यमृतेशमुद्रयाऽमृ तीकृत्य ओंआत्मतत्त्वायनमः विद्यातत्त्वायनमः शिवतत्त्वायनमः इतितत्त्वत्रयंजलेवि न्यस्य तत्रश्रीचक्रंविभाव्य तत्रस्वहृदयकमलाद्देवीमावाह्य षडंगेनसकलीकृत्य कुं भमुद्रयातांसावरणांस्नपयित्वा योनिमुद्रयामूलेनतज्जलमष्टधाऽभिमंत्र्य तत्रमूलमं त्रस्मरणपूर्वकंत्रिर्निमज्ज्योन्मज्जेत् ततःकुंभमुद्रयामूलंमंत्रंपठन्स्वशिरसित्रिरभिषिच्य मूलेनदेवींत्रिःसंतर्प्य श्रीदेवींस्वहृदिसमानीय मूलं आत्मतत्त्वंशोधयामिस्वाहा मूलं वि द्यातत्त्वंशोधयामिस्वाहा मूलं शिवतत्त्वंशोधयामिस्वाहा इतित्रिराचम्य तीरमारुह्य धौतेवाससीपरिधाय त्रिपुंड्रकमूर्ध्वपुंड्रकंवातिलकंविधाय इतिस्नानविधिः अथसं पृ० १८ब) ध्या तत्रपूर्ववदाचम्य मूलेनत्रिखंडांबद्ध्वा प्राणायामृष्यादिकरषडंगन्यासान्विधाय स्वपुरतोतथैवरचितंतीर्थजलममृतमुद्रयामृतीकृत्य मूलेनाष्टधाऽभिमंत्र्य तेनजलेन अंनमःइत्यादिक्षंनमः इत्यंतर्मातृकाक्षरैःस्वशिरःप्रोक्ष्य मूलेनचत्रिःसंप्रोक्ष्य दक्षहस्ते जलमादाय वामेनाच्छाद्य लंवंरंयंहंइतिपांचभौतिकमंत्रैः सप्तवारमभिमंत्र्य मूलेनत्रि रभिमंत्र्य मूलमुच्चरवामहस्तकृत तत्त्वमुद्रयामूर्ध्नित्रिधाभ्युक्ष्य अवशिष्टंजलंवामहस्ते निधाय तेजोरूपंतज्जलमिडयाकृष्य स्वदेहांतःस्थितंकलकलुषंप्रक्षाल्य तज्जलंकृ ष्णवर्णंपिंगलयाबहिर्निर्गतंमत्वा पुनःदक्षहस्तेकृत्वा वामभागेज्वलद्वज्रशिलांध्यात्वा ओंश्लींपशुहुंफट् इतिपाशुपतास्त्रमंत्रेणतस्यांशिलायामास्फाल्य हस्तौप्रक्षाल्यमूले नजलमादाय प्रवहन्नाड्यासहस्रदलपरमामृतेनैकीभूतंविभाव्य निर्गमययतेनज लेन अमृतमालिन्यैस्वाहा इतिकुशैःस्वशिरस्त्रिःसंप्रोक्ष्य ओंआत्मतत्त्वंशोधयामिस्वा हा ओंविद्यातत्त्वंशोधयामिस्वाहा ओंशिवतत्त्वंशोधयामिस्वाहा ओंमूलंसर्वतत्त्वंशोधया मिस्वाहा ओंह्रांह्रींहंसःश्रीमार्तांडभैरवायप्रकाशशक्तिसहितायिदमर्घ्यंपरिकल्प पृ० १९अ) यामिस्वाहा इतित्रिरर्घ्यंकुलसूर्यायदत्त्वा हृत्पद्मात्सूर्यमंडलेमूलदेवींनीत्वा तत्रवि धिवद्ध्यात्वा ओंह्रींशारिकायैविद्महे सप्ताक्षर्यैधीमहि तन्नःशारीप्रचोदयात् इतिमूलगा यत्री अनयाचतसृषुसंध्यासुसूर्यमंडलेमूलदैव्यैरर्घ्यंदत्त्वा ततःप्राणायामृष्यादिकरष डंगंविधाय मूलेनयथाशक्तिजपंकृत्वा मूलगायत्रीमपिजप्त्वा पुनःप्राणायामादिनाजपं समर्प्य श्रीदेवीवामहस्ते अथसूर्यमंडलाद्देवींस्वहृद्यानीय हृदिध्यायेत् इतिसंध्या अ थतर्पणं पूर्ववदाचम्य प्राणायामादिकृत्वा प्रोक्तविधिनाविदिततीर्थजलेयंत्रंविभाव्य तत्रदेवींहृदयात्सपरिवारामानीय षडंगेनसकलीकृत्य कुंडलिन्याःप्रयोगेनामृतेनाभि षिंच्य विधिवत्प्रपूज्य ऐशान्यां ओंऐंह्रींश्रींगुरुअमुकानंदनाथभैरवस्तृप्यतामितित्रिः वह्नौपरमगुरुं नैऋत्यांपरमाचार्यां वायव्ये परमेष्टिगुरुंसंतर्प्य त्रिःसकृत्वा दिव्यसिद्धौ घमानवौघगुरूनपिसंतर्प्य बिंदौ मूलं श्रीवामदेवभैरवसहिताश्रीशारिकाभगवतीदे वीसपरिवारासानुचरासवाहनातृप्यतामितिमध्येत्रिसंतर्प्य परिवारदेवतासंतर्प्य प्रा णायामादिविधाय देवींस्वहृदिविसृज्य तीर्थंस्वस्थानेविसृजेत् चक्रमुद्रांप्रदर्श्य नमो पृ० १९ब) धर्मनिदानायनमःसुकृतसाक्षिणे नमःप्रत्यक्षदेवायभास्करायनमोनमः इतिसूर्याया घ्यंदद्यात् इतितर्पणं ततःमूलेनजलपूर्णकमंडलंकृत्वा मूलंस्मरन्यागगेहमागत्य ह स्तपादौप्रक्षाल्य आचम्य द्वारसमीपेसामान्यार्घ्यंजलगंधादिनाकृत्वा तेनद्वारदेवताःस मर्चयेत् यथा ओंह्रींद्वारश्रियैनमः ऊर्ध्वे गंगणपतयेनमः दक्षे क्षंक्षेत्त्रपालायनमः वामे धं धात्रेनमः दक्षे वंविधात्रेनमः वामे गंगंगायैनमः दक्षे यंयमुनायैनमः वामे शंशंखनिध येनमः दक्षे पंपद्मनिधयेनमः वामे अस्त्रायफटितिनमः देहल्यांवास्तुपुरुषायनमः मध्ये इतिसमभ्यर्च्य वामांगसंकोचेनवामपादपुरःसरमंतःप्रविश्य तत्रासनमास्तीर्य तत्रह्रींआधारशक्तयेनमः इतिसंपूज्य अस्यश्रीआसनशोधनमंत्रस्य मेरुपृष्ठृषिः सुतलंच्छंदः कूर्मोदेवता आसनशोधनेविनियोगः मेरुपृष्ठृषयेनमःशिरसि सुतलं च्छंदसेनमोमुखे कूर्मोदेवतायैनमोहृदि आसनशोधनेविनियोगःसर्वांगेषु पृथ्वित्व याधृतालोकादेवित्वंविष्णुनाधृता त्वंचधारयमांदेविपवित्रंकुरुचासनं इत्यभिमंत्र्य संविदंयथामंत्रंस्वीकुर्यात् संविदेब्रह्मसंभूतेब्रह्मपुत्रिसदानघे ब्राह्मणानांचतृप्त्यर्थंप पृ० २०अ) वित्राभवसर्वदा ओंब्राह्मण्यैनमःस्वाहा सिद्धमूल्येक्षयेदेविहीनबुद्धिप्रबोधिनि राजप्रजाव शंकारिशत्रुपक्षनिसूदिनि ऐंक्षत्रियायैनमःस्वाहा अज्ञानेंधनदीप्ताग्नेज्ञानाग्निब्रह्मरू पिणि आनंदस्याहुतिंप्रीतिंसम्यग्ज्ञानंप्रयच्छमे ह्रींवैश्यायैनमःस्वाहा नमस्यामिनमस्या मियोगमार्गप्रदर्शिनि त्रैलोक्यविजयीमातासमाधिफलदाभव क्लींशूद्रायैनमःस्वाहा इ त्यभिमंत्र्य ओंअमृतेअमृतोद्भवेअमृतवर्षिणिअमृतमाकर्षय२सिद्धिंदेहिश्रीशारिकाभग वतीपदंमेवशमानयस्वाहा इतितदुपरिसप्तधामूलंचजप्त्वा धेनुमुद्रयाऽमृतीकृत्य योनि मुद्रांप्रदर्श्य आगच्छ २ संतिष्ठ २ सन्निधेहि २ सन्निरुध्यस्व २ संमुखीभव २ इत्यावाहनादि मुद्राप्रदर्श्य अवगुंठ्य छोटिकाभिदशदिग्बंधनंविधाय ऐंवदवदवाग्वादिनिममजिह्वा ग्रेस्थिरीभवसर्ववशंकरिस्वाहा इत्यनेनमुखेजुहुयात् ततानंदमयोभूत्वा अपसर्पंतुते भूतायेभूताभुविसंस्थिताः येभूताविघ्नकर्तारस्तेनश्यंतुशिवाज्ञया पाषांडकारिणोभूता भूताभूम्यंतरिक्षगाः दिविलोकेस्थितायेचतेनश्यंतुशिवाज्ञया इतितर्जनीमध्यमाभ्यामू र्ध्वोर्ध्वंतालत्रयदानेनवामपार्ष्णिघातत्रयेणदिव्यदृष्ट्याचत्रिविधविघ्नानुत्सार्य छोटिकाभि पृ० २०ब) र्दिग्बंधंकृत्वा चतुर्दिक्षुवह्निप्रकारंसंचिंत्य प्राणायामत्रयंकुर्यात् तत्रप्रणवंषोडशवार मुच्चरन्दक्षनामाकनिष्ठाभ्यांवामंपुटंचनिरुध्य दक्षेणपवनंकुंभयेत् ततस्तमेवद्वात्रिंशद्वार मुच्चरन्वामंपुटंतथैवनिरुध्य दक्षेणपवनंरेचयेत् इत्येकःप्राणायामः एषेवविपर्यये नद्वितीयः प्रथमवत्तृतीयः इत्थंप्राणायामत्रयेणनिरस्तसकलकलुषंस्वदेहंदेवताराध नयोग्यंविभाव्य भूतशुद्धिंकुर्यात् मूलाधाराद्धंसितिमंत्रेणकुंडलिनींपृथिव्यासहस्वाधिष्ठा नेसमानीय तत्रजलेपृथ्वींलीनांविभाव्य तस्माज्जलेनसहमणिपूरेसमानीय तत्रवह्नौजलं लीनंविभाव्य तस्माद्वह्निनासहाऽनाहतेसमानीय तत्रवायौवह्निंलीनंविचिंत्य तस्माद्वायुना सहविशुद्धेसमानीय तत्रस्थाकाशेवायुंलीनंविचिंत्य तस्मादाकाशेनसहाज्ञाचक्रेसमानी य तत्रस्थमनस्याकाशंलीनंसंचिंत्य मनोनादेलीनंविभाव्य ध्वनौध्वनिंसमर्प्य सहस्रदल कर्णिकास्थचंद्रमंडलमध्यगतत्रिकोणांतर्गततेजोमयबिंदुरूपपरमशिवेतांसमर्प्य प्रा णायामविधिना यमितिवायुबीजंधूम्रवर्णंषोडवारंजपन् तत्रशारीरंपापपुरुषं वाम कुक्षिस्थितंपापपुरुषंकज्जलप्रभं ब्रह्महत्याशिरस्कंचस्वर्णस्तेयभुजद्वयं सुरापानहृ पृ० २१अ) दायुक्तंगुरुतल्पकटिद्वयं तत्संसर्गपदद्वंद्वमंगप्रत्यंगपातकं उपपातकरोमाणंरक्तश्मश्रु विलोचनं खड्गचर्मधरंक्रुद्धंपापंकुक्षौविचिंतयेत् इतिविचिंत्य तंसंशोष्य रमितिवह्नि बीजंरक्तवर्णंचतुःषष्ठिवारंजपंस्तमेवसंदह्य वमित्यमृतबीजंशुक्लवर्णंसहस्रारेविचिं त्य द्वात्रिंशद्वारंजपंस्तद्भावामृतवृष्ट्यानिष्पापंशरीरमुत्पाद्य ललाटस्थलमितिपृथ्वीबीजे नपीतवर्णेनसुदृढीकृत्य हमित्याकाशबीजेनव्यापकत्वंविचिंत्य ह्रीमितिमूलस्थबी जेनसैश्वर्यंविधाय सोहमितिमंत्रेणकुंडलिनीममृतलोलीभूतां पंचमहाभूतानिजीवात्मा नंचब्रह्मपथेनस्वस्थानेनियोजयेत् ततोदेवतारूपंस्वात्मानंविचिंत्य हृदिहस्तंदत्त्वा प्राणप्रतिष्ठांकुर्यात् ओंआंह्रींक्रोंयंरंलंवंशंषंसंहंक्षःहंसःसोहंश्रीशारिकाभगवतीप्रा णाइहप्राणः २६ं जीविहस्थितः २६ं सर्वेंद्रियाणिइहस्थितानि २६ं वाङ्मनःत्वक्च क्षुःश्रोत्रघ्राणप्राणाइहागत्यसुखंचिरंतिष्ठंतुस्वाहा इतिप्राणप्रतिष्ठांविधाय मातृका न्यासंकुर्यात् स्वरैःपूरकः कादिमांतैःकुंभकः यादिभिःरेचकः तत्रादावंतर्मातृकान्या सः अस्यश्रीअंतर्मातृकान्यासस्य ब्रह्माऋषि गायत्रंच्छंदः श्रीअंतर्मातृकासरस्व पृ० २१ब) तीदेवता हलोबीजानि स्वराःशक्तयः अव्यक्तंकीलकं ममश्रीशारिकाभगवतीमंत्रांग त्वेनन्यासेविनियोगः इतिकृतांजलिःस्मृत्वान्यसेत् ब्रह्मृषयेनमःशिरसि गायत्रंछं दसेनमोमुखे श्रीअंतर्मातृकासरस्वतीदेवतायैनमः हृदि हल्भ्योबीजेभ्योनमः गुह्ये स्वराःशक्तिभ्योनमःपादयोः अव्यक्तकीलकायैनमःनाभौ न्यासेविनियोगःसर्वांगेषु इतिऋष्यादिन्यासः ओंऐंह्रींश्रींअंकंखंगंघंङंआंअंगुष्ठाभ्यांनमः धंइंचं५̐ईतर्जनीभ्यां स्वाहा धंउंटं५̐ऊंमध्यमाभ्यांवषट् धंएंतं५̐ऐंअनामिकाभ्यांहुं धंओंपं५̐औंकनिष्ठिकाभ्यां वौषट् धंअंयंरंलंवंशंषंसंहंलंक्षंःअंःकरतलपृष्ठाभ्यांफट् इतिकरन्यासः ओंऐंह्रीं श्रींअंकं५̐आंहृदयायनमः धंइंचं५̐ईंशिरसेस्वाहा धंउंटं५̐ऊंशिखायैवषट् धंएंतं५̐ऐंक वचायहूं धंओंपं५̐औंनेत्रत्रयायवौषट् धंअंयं९̐अंःअस्त्रायफट् इतिषडंगंविन्यस्य अंत र्मातृकान्यासंकुर्याद्यथा अंनमः आंनमः इंईंउंऊंऋंऋंऌंॡंएंऐंओंऔंअंअंःकंठेषोडशदले कंनमःखंगंघंङंचंछंजंझंञंटंठंनमः अनाहतेद्वादशदले डंनमःढंणंतंथंदंधंनंपंफं नमःनाभोदशदले बंनमःभंमंयंरंलंनमःस्वाधिष्ठानेषड्दले वंनमःशंषंसंनमःमूलाधा पृ० २२अ) रेचतुर्दले हंनमः क्षंनमःभ्रूमध्येद्विदले इत्यंतर्मातृकान्यासः अथबहिर्मातृकान्या सः तत्रृष्यादिकमंतर्मातृकावदेवन्यासस्तुयथा धंअंनमः शिरसि आंनमःमुखवृत्ते इंनमःदक्षनेत्रे ईंनमःवामे उंनमःदक्षकर्णे ऊंनमःवामे ऋंनमःदक्षनसि ऋंनमः वा मायां ऌंनमःदक्षगंडे ॡंनमःवामे एंनमःऊर्ध्वोष्ठे ऐंनमःअधरे ओंनमःऊर्ध्वंदंतेषु औंनमः अधोदंतेषु अंनमःशिरसि आंनमःआस्ये कंनमःदक्षपाणिमूले खंनमःकुर्परे गंनमः मणिबंधे घंनमःअंगुलिमूले ङंनमःअंगुल्यग्रे चंनमःवामपाणिमूले छंनमःकुर्परे जंनमःमणिबंधे झंनमःअंगुलिमूले ञंनमःअंगुल्यग्रे टंनमःदक्षपादकच्छे ठंनमः जानुनि डंनमःगुल्फे ढंनमःअंगुलिमूले णंनमःअंगुल्यग्रे तंनमःवामपादकच्छे थं नमःजानुनि दंनमःगुल्फे धंनमःअंगुलिमूले नंनमःअंगुल्यग्रे पंनमःदक्षपार्श्वे फंनमःवा मे बंनमःपृष्ठे भंनमःनाभौ मंनमःजठरे यंत्वगात्मनेनमःहृदये रंअसृगात्मनेनमःदक्षां से लंमांसात्मनेनमःककुदि वंमेदसात्मनेनमः वामांसे शंअस्थ्यात्मनेनमःहृदादिद क्षपाण्यंतं षंमज्जात्मनेनमःहृदादिवामपाण्यंतं संशुक्रात्मनेनमःहृदादिदक्षपादांतं पृ० २२ब) हंप्राणात्मनेनमःहृदादिवामपादांतं लंजीवात्मनेनमःपादादिनाभ्यंतं क्षंःपरमात्मने नमःनाभ्यादिमूर्धांतं इतिविन्यस्य पंचाशद्वर्णरूपांचकपर्दशशिभूषणां शुद्धस्फ टिकसंकाशांशुद्धक्षौमविराजितां मुक्तारत्नस्फुरद्भूषांजपमालांकमंडलुं पुस्तकंवर दानंचविभ्रतींपरमेश्वरीं एवंध्यात्वामातृकां स्वमूऌष्यादिन्यासंकुर्याद्यथा अथत त्त्वन्यासः ओंआत्मतत्त्वायनमःहृदयायनमः ओंविद्यातत्त्वायनमःशिरसेस्वाहा ओंशिवतत्त्वायनमःशिखायैवषट् ओंगुरुतत्त्वायनमःकवचायहुं ओंशक्तितत्त्वाय नमःनेत्रत्रयायवौषट् ओंशिवशक्तितत्त्वायनमःअस्त्रायफट् इतितत्त्वन्यासः अ थमंत्रन्यासः ओंनमःओंनमःशिरसिह्रींनमःललाटेश्रींनमःनेत्रयोःहूंनमःकर्णयोः फ्रांनमःनासाग्रे आंनमःमुखे शांनमःकंठे शांनमःवक्षसि रिंनमःभुजयोः कां न मःनाभौ यैंनमःलिंगेनंनमःजान्वनोः मःनमःपादयोः इतिसप्तधाव्यापयोन् इति मंत्रन्यासः अथाष्टदेवीन्यासः अंआंइंईंकंखंगंघंङंअमायैनमःशिरसि उंऊंऋंऋ चंछंजंझंञंकामायैनमःमुखे ऌंॡंएंऐंटंठंडंढंणंचार्वांग्यैनमःकंठे ओंऔंअंअंःतंथं पृ० २३अ) दंधंनंटंकधारिण्यैनमःवक्षसि अंआंइंईंपंफंबंभंमंतारायैनमःनाभौ उंऊंऋंऋयंरं लंवंपार्वत्यैनमःलिंगे ऌंॡंएंऐंशंषंसंहंरुक्मिण्यैनमःजान्वोः ओंऔंअंअःलंक्षंशि वायैनमःपादयोः इत्यष्टदेवीन्यासः अथायुधन्यासः वरायनमःदक्षाधःकरे खड्गा यनमःदक्षे चक्रायनमःवामे अभयायनमःवामोघः इत्यायुधन्यासः ततःपुनःष डंगन्यासःसंप्रदायेन ओंह्रांश्रांहृदयायनमः ओंह्रींश्रींशिरसेस्वाहा ओंह्रूंश्रूंशिखा यैवषट् ओंह्रैंश्रैंकवचायहुंओंह्रौंश्रौंनेत्रत्रयायवौषट् ओंह्रःश्रःअस्त्रायफट् इतिन्या सैर्देहंविन्यस्य मूलाधारेमूलविद्यांविद्युत्कोटिसमप्रभां सूर्यकोटिप्रतीकाशांचंद्र कोटिप्रभांप्रिये विसतंतुस्वरूपांतांबिंदुत्रिवलयांप्रिये ऊर्ध्वशक्तिनिपातेनसहजे नवरानने मूलशक्तिदृढत्वेनमध्यशक्तिप्रबोधतः परमानंदसंदोहमानंदाचिंतये त्परां श्रीदेवींपूर्वोक्तप्रकारेणस्वहृत्कमलेध्यात्वा मानसोपचारैराराध्य नैवेद्या वसरेंऽतवैश्वदैवतंकुर्याद्यथा मूलाधारे आत्मांतरात्मपरमात्मज्ञानात्मेत्यात्मचतुष्टयं सचतुरश्रंकुंडल्यग्निसमुज्वलंकुंडंध्यात्वा तत्रश्रीदेवींध्यात्वा तन्मुखेमूलांतेअहंतां पृ० २३ब) जुहोमिस्वाहा इत्याद्यहंतामसत्यंपैशुन्यंकामंक्रोधंलोभंमोहंमदंमात्सर्यंजुहोमिस्वाहा सुषुम्णास्रुङ्मुक्तमनःस्रुवेणप्रत्येकंहुत्वा अथवा धर्माधर्महविर्दीप्तेस्वात्माग्नौमन सास्रुचा सुषुम्णावर्त्मनानित्यमक्षवृत्तीजुहोम्यहं इतिहुत्वा पुनःहृदयकमलेदेवीं ध्यात्वा उत्तरायोशानादिसर्वोपचारैराराध्य मूलंयथाशक्तिजपित्वा प्राणायामादि नाजपंसमर्प्य श्रीगुरुंप्रणम्य पीठपूजांन्यासेनस्वदेहेकुर्यात् ओंमुडुकायनमः काला ग्निरुद्रायनमः मूलप्रकृत्यैनमः आधारशक्त्यैनमः कमठायनमः अनंतायनमः पृथि व्यैनमः सुधार्णवायनमः रत्नद्वीपायनमः कल्पवनायनमः नंदनोद्यानायनमः चिं तामणिमंडपायनमः मणिवेदिकायैनमः श्मशानायनमः रत्नसिंहासनायनमः दिक्षुः नानामुनिगणेभ्योनमः नानादेवेभ्योनमः धर्मायनमः दक्षांसे ज्ञानायनमः वा मांसे वैराग्यायनमः वामोरौ ऐश्वर्यायनमःदक्षोरौ अधर्मायनमः दक्षकुक्षौ अज्ञानायन मःदक्षपृष्ठे अवैराग्यायनमःवामपृष्ठे अनैश्वर्यायनमःवामकुक्षौ शेषायनमः पद्मा यनमः प्रकृतिमयपत्रेभ्योनमः विकृतिमयकेसरेभ्योनमः पंचाशद्वीजभूषितकर्णि पृ० २४अ) कायैनमः सूर्यमंडलायनमः सोममंडलायनमः वैश्वानरमंडलायनमः संसत्त्वायनमः रंरजसेनमः तंतमसेनमः आंआत्मनेनमः अंअंतरात्मनेनमः पंपरमात्मनेनमः ह्रीं ज्ञानात्मनेनमः पत्त्रेषु वामायैनमःज्येष्ठायैनमः रौद्र्यैनमः अंबिकायैनमः इच्छायैन मः ज्ञानायैनमः क्रियायैनमः कुब्जिकायैनमः चित्त्रायैनमः विषघ्निकायैनमः हूतर्यै नमः आनंदायैनमःमध्ये मनोन्मन्यैनमः ऐंपरायैनमः अपरायैनमः विरूपायैनमः ह्सौंःसदाशिवमहाप्रेतपद्मासनायनमः इतिपीठंविन्यस्य तत्रैवहृदयेस्वाभेदेनश्रीशा रिकाभगवतींध्यायन् बालार्ककोटिद्युतिमिंदुचूडांवरासिचक्राभयबाहुमाद्यां सिं हाधिरूढांशिववामदेवलीनांभजेचेतसिशारिकेशीं इतिशारिकांविचिंत्य वध्नामि कंकणंतेबद्धमतिर्भवभवोच्छित्त्यैप्राणापानौचक्रश्रोत्त्रेघ्राणमनांसिसुखंचिरंति ष्ठंतुस्वाहा मानसोपचारैराराध्य मनसायथाशक्तिजपहोमादिकंविधाय कामक लारूपंस्वात्मानंविचिंत्य स्वदेहंगंधादिभिरलंकृत्य कलशस्थापनंकुर्यात् स्वदक्षे त्रिकोणंवृत्तबिंबमंडलंभूमौविरचयय तत्राधारशक्तयेनमः इतिसंपूज्य तत्राधारं पृ० २४ब) निधाय तदुपरिअस्त्रायफट् इतिमंत्रेणशोधितं नमः इतिपूरितं पात्रंशंखांवा सं स्थाप्य तत्रगंगेइत्यादितीर्थमावाह्य ओमितिगंधादिन्निक्षिप्य वह्निसूर्यसोमकला भ्योनमः इतिसंपूज्य धेनुमुद्रांप्रदर्श्यस्वमंत्रेणसंपूजयेत् इतिसामान्यार्घ्यंविधा य स्ववामभागेषट्कोणांतर्गतत्रिकोणद्वयबिंदुवाह्य वृत्तचतुरश्रंविधाय सा मान्यार्घ्योदकेन तंमंडलेमभ्युक्ष्य तत्राधारशक्तिभ्योनमः इत्याधारशक्तीःसम्पू ज्य तत्राधारंप्रक्षाल्य मंडलोपरिसंस्थाप्य रंवह्निमंडलायदशकलात्मनेनमः इतिप्रपूज्य फडितिकलशंप्रक्षाल्य कारणेनप्रपूर्य रक्तवस्त्रमाल्यादिनासंभूष्य देवीबुद्ध्यासंस्थाप्य अंअर्कमंडलायद्वादशकलात्मनेनमः इतिकलशंसंपूज्य ओंसोममंडलायषोडशकलात्मनेनमः इतिद्रव्यंसंपूज्य फडितिसंरक्ष्य हुमित्य वगुंठ्य मूलेनसंवीक्ष्य नमित्यभ्युक्ष्य मूलेनगंधमाघ्राय कुंभेपुष्पंदत्त्वा शाप मोचनंकुर्यात् एकमेवपरंब्रह्मस्थूलसूक्ष्ममयंध्रुवं कचोद्भवांब्रह्महत्यांतेनते नाशयाम्यहं सूर्यमंडलसंभूतेवरुणालयसंभवे अमाबीजमयेदेविशुक्रशापा पृ० २५अ) द्विमुच्यतां वेदानांप्रणवोबीजंब्रह्मानंदमयोयदि तेनसत्येनहेदेविब्रह्महत्याव्य पोहतु इतित्रिः ततःबांबींबूंबैंबौंबःब्रह्मशापमोचितायैसुरादैव्यैनमः इत्य पित्रिः ओंह्रींश्रींक्रांक्रींक्रूंक्रैंक्रौंक्रःसुराकृष्णशापमोचय२अमृतंस्रावय२स्वा हा इतित्रिः हंसःशुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्नृषद्वरसनृ तसद्व्योमसदब्जागोजाऋतजाद्रिजाऋतं इत्यपित्रिः आनंदभैरवंअष्टादशभुजंत्रिन यनंपंचमुखंसुरादेवीसहितंध्यात्वा हसरक्षमलवयूंआनंदभैरवायवौषट् सह क्षमलवरयूंसुरादैव्यैवौषट् इतिदेवदेव्यौत्रिःसंपूज्य द्रव्यमध्येदक्षिणावर्तेनत्रिः पंक्त्या अं१६ कं१६ थं१६ इतिशक्तिचक्रंविलिख्य तन्मध्येहंक्षंच तेद्रव्यमध्येऽ मृतंविचिंत्य धेनुमुद्रयामृतीकृत्य वमितिसुधाबीजंमूलमप्यष्टधाघटंधृत्वापठि त्वा आत्मश्रीचक्रयोर्मध्येत्रिकोणषट्कोणवृत्तचतुरश्रंविलिख्य चतुरश्रेपूर्णगि रिपीठायनमः उड्डियानपीठायनमः कामरूपपीठायनमः जालंधरपीठायन मः इतिसंपूज्य षट्कोणेषडंगंसंपूज्य त्रिखंडेनत्रिकोणाग्रदक्षोत्तरंसंपूज्य मध्येआ पृ० २५ब) धारशक्त्यैनमः इतिसंपूज्य त्रिकोणगर्भेयंत्रिकांसंस्थाप्य नमितिसामान्यार्घ्यजलेनाभ्युक्ष्य यंधूम्रार्चिषेनमः रंऊष्मायैनमः लंज्वलिन्यैनमः वंज्वालिन्यैनमः शंविस्फुलिंगिन्यैनमः षंसुश्रियैनमः संस्वरूपायैनमः हंकपिलायैनमः लंहव्यवाहायैनमः क्षंकव्यवाहायैनमः इतिसंपूज्य मध्ये रंवह्निमंडलायदशकलात्मनेनमः इतिसंपूज्य षट्कोणेषडंगंचसं पूज्य मध्येमूलेनदेवींसंपूज्य पात्रंफडितिप्रक्षाल्य यंत्रिकोपरिसंस्थाप्य तत्र कंभंत पिन्यैनमः खंबंतापिन्यैनमः गंफंधूम्रायैनमः घंपंमरीच्यैनमः ङंनंज्वलिन्यैनमः चं धंरुच्यैनमः छंदंसुप्रभायैनमः जंथंभोगदायैनमः झंतंविश्वायैनमः ञंणंबोधिन्यैन मः टंढंधारिण्यैनमः ठंडंक्षमायैनमः इति अंअर्कमंडलायद्वादशकलात्मनेनमः इतिसंपूज्य त्रिकोणवृत्तषट्कोणंपात्रेविलिख्य समस्तव्यस्तमंत्रेणसंपूज्य वरुणबी जंमूलंविलोममातृकांचपठन्नऽमृतेनत्रिकोणंप्रपूर्य जलेनचभागमेकंप्रपूर्य तत्र सुगंधादिनिक्षिप्य अंअमृतायैनमः आंआनंदायैनमः इंपूषायैनमः ईंतुष्ट्यैनमः उंपुष्ट्यैनमः ऊंरत्यैनमः ऋंधृत्यैनमः ऋंशशिन्यैनमः ऌंचंद्रिकायैनमः ॡंकांत्यैनमः पृ० २६अ) एंज्योत्स्नायैनमः ऐंश्रियैनमः ओंप्रीत्यैनमः औंअंगदायैनमः अंपूर्णायैनमः अंःपूर्णा मृतायैनमः इति उंषोडशकलात्मनेसोममंडलायनमः इतिसंपूज्य पूर्ववद्यंत्रंद्रव्ये विलिख्य त्रिकोणंत्रिरेखायां अं१६ कं१६ थं१६ इतित्रिविलिख्य मूलं खंडत्रयेणत्रि कोणंसंपूज्य षट्कोणेषडंगंच गंगेत्यादितीर्थमावाह्य आनंदभैरवभैरव्यौसुमंत्रेण संपूज्य पूर्वादितंः ग्लूंगगनरत्नेभ्योनमः पूर्वे स्लूंस्वर्णरत्नेभ्योनमः दक्षिणे म्लूंमर्त्यर त्नेभ्योनमः पश्चिमे प्लूंपातालरत्नेभ्योनमः उत्तरे न्लूंनागरत्नेभ्योनमः मध्ये इतिसंपूज्य मांसादिसंशोधयेत् यथातत्र मांसादिपात्रमानीय अस्त्रायफडितिसामान्यार्घोदकेना भ्युक्ष्य हुमित्यवगुंठ्य वमित्यमृतमुद्रयाऽमृतीकृत्य तालत्रयेणदिशःसंबंध्य तदुपरिमूलं सप्तधाप्रजप्य प्रतद्विष्णुस्तवतेवीर्येणमृगोनभीमःक्वचरोगरिष्टः यस्योरुषुत्रिषुविक्रम णेष्वधिक्षयंतिभुवनानिविश्वा इतित्रिः इतिमांसशोधनं त्र्यंबकंयजामहेसुगंधिंपुष्टिव र्धनं उर्वारुकमिवबंधनान्मृत्योर्मोक्षीयमामृतात् इतिमीनशोधनं तद्विष्णोःपरमंपदंसदा पश्यंतिसूरयः दिवीवचक्षुराततंतद्विप्रासोविपण्यवो जागृवांसःसमिन्धतेविष्णोर्यत्प पृ० २६ब) रमंपदं इतिमुद्राशोधनं विष्णुर्योनिंकल्पयतुतुष्टारूपाणिविंशतु आसिंचतुप्रजापति र्धातागर्भंदधातुते गर्भंदेहिसिनीवालीगर्भंदेहिसरस्वति गर्भंदेह्यश्विनौदेवावादत्तंपु ष्करस्रजं ओंऐंह्संःफ्रेंज्वंसःअमृतेऽमृतोद्भवेऽमृतवर्षिणिअमृतंस्रावय२स्वाहाइति कुंडगोलादिकंसंशोध्य अवगुंठ्य अमृतमुद्रयाऽमृतीकृत्य तदुपरिसप्तधामूलंसंपूज्य तत्रदेवीमावाह्य तालत्रयदिग्बंधंविधाय अवगुंठ्यऽमृतीकृत्य योनिंप्रदर्श्य ह्सौंःनमः इतिसंपूज्य शंखमुद्रांप्रदर्श्य षडंगेनसकलीकृत्य मत्स्यमुद्रयापात्रमाच्छाद्य मूलंदश धाजप्त्वा पात्रंदेवीरूपंविभावयेत् इतिततोदेव्याज्ञामादाय घटसमीपेगुरुपात्रं ततःश क्तिपात्रं भोगपात्रं स्वपात्रं योगिनीपात्रं वीरपात्रं बलिपात्रं पाद्यपात्रं अर्घ्यपात्रं आच मनीयपात्रं मधुपर्कपात्रंसंस्थाप्य चर्वणयुतकारणेनतत्त्वमुद्रया श्रीपात्राद्विन्दूंसमुद्धृत्य आनंदभैरवंतर्पयामिनमः इतितन्मंत्रेणत्रिःसंतर्प्य ततःगुरुंश्रीमच्छ्रीअमुकानंदनाथ श्रीपादुकांतर्पयामिनमः इतित्रिःसंतर्प्य एवंपरमगुरुपरमाचार्यादीन्संतर्प्य श्रीपात्रामृ तेनमूलेनदेवीसायुधांसवाहनांसपरिकरांतर्पयामिनमः इतिसंतर्पयेतितिकलशपू पृ० २७अ) जाविधिः अथपीठोपरिपूर्ववत्पीठन्यासक्रमेणपीठपूजांकृत्वा तत्रश्रीचक्रंसंस्था प्य श्रीशारिकाभगवतींध्यात्वा वायुबीजेनवामनासापुटेनस्वहृदयाकुसुमांजलि मानीय तत्रावाह्य देवेशिभक्तसुलभेपरिवारसमन्विते यावत्त्वांपूजयिष्यामितावद्देवि इहावह इतिपठित्वा मूलंश्रीवामदेवसहितेश्रीशारिकाभगवतिइहागच्छ२इहति ष्ठ२ इहसन्निधेहि२ इहसन्निरुद्धस्वममसर्वोपचारसहितांपूजांगृह्ण२ इत्यावाहनादि मुद्राःप्रदर्श्य प्राणप्रतिष्ठांश्रीचक्रेलेलिहानमुद्रयापूर्ववद्विधाय दशदिग्बंधंकृत्वाऽ वगुंठ्य सकलीकृत्यपरमीकृत्य धेनुयोनीप्रदर्श्य वरासिचक्राभयमुद्राःप्रदर्श्य श्री पात्रामृतेनसायुधांसवाहनांसपरिकरांसावरणांश्रीवामदेवभैरवसहितांश्रीशारिका भगवतींतर्पयामिनमः इतित्रिःसंतर्प्य पुनरपिमूलेनश्रीशारिकाभगवतीश्रीपादु कांतर्पयामिनमः इतित्रिःसंतर्प्य मूलमुच्चार्येतत्पाद्यं श्रीवामदेवसहितश्रीशारि काभगवत्यैनमः इतिपादयोःपाद्यं एवमर्घ्यंस्वाहा शिरसि आचमनीयं मधुपर्कंच सुधा मुखेस्नानीयंनमः सर्वांगे पादुकेपरिधायस्वशारिकेरत्ननिर्मिते स्नानमंडप पृ० २७ब) मायाहिस्नानार्थंशक्रदिग्गतं मूलेनसुस्नाप्य पुनःपुनःपादुकेपरिधायस्वशारिकेर त्ननिर्मिते आगच्छनिर्मितंरम्यमलंकारस्यमंडपं शुद्धदुगूलेनांगंप्रोंच्छ्य विचित्रपट वस्त्रकुंकुमकस्तूरीचंदनसिंदूरमुकुटकुंडलहारत्रयादिनानालंकारान्दत्वा पुनराच मनीयंदद्यात् ततोमध्यानामांगुष्ठाग्रैर्गंधोनमः इतिगंधं अंगुष्ठतर्जनीभ्यांपुष्पाणिवौषट् इतिपुष्पैसंपूज्य धूपपात्रंफडितिसंपूज्य पुरतःस्थापयित्वा वामतर्जन्यासंस्पृशन् श्री पात्रामृतेनधूपंनिवेदयामीतिनिवेद्य ओंजगद्धुनिमंत्रमातःस्वाहा इतिघंटांसंपूज्य वामेनपाणिनातांवादयन् मध्यानामांगुष्ठैर्धूपंधृत्वा गायत्रींमूलमंत्रंचपठन् वनस्प तिरसोत्पन्नोगंधाढ्योगंधुत्तमः आघ्रेयःसर्वदेवानांधूपोयंप्रतिगृह्यतां इतित्रिधोत्तो ल्यदेवींधूपयेत् ततोदीपंसम्मुखेसंस्थाप्य पूर्ववत्प्रोक्षणपूजनेकृत्वा वाममध्यम यादीपपात्रंस्पृशन् दीपंनिवेदयामीतिनिवेद्य पूर्ववद्घंटांवादयन् मध्यानामामध्ये दीपपात्रमंगुष्ठेनधृत्वादर्शयन् गायत्रीमूलंचपठन् सुप्रकाशोमहादीपःसर्वत्रतिमि रापहः सबाह्याभ्यंतरंज्योतिर्दीपोयंप्रतिगृह्यतां इतिदीपयेत् ततःस्वर्णादिपात्रेकुं पृ० २८अ) कुमेनवसुपत्रंचंद्ररूपंकृत्वा मध्येदीपमेकमष्टपत्त्रेषुदीपाष्टकंसंस्थाप्य श्रींसौंःग्लूं स्लूंम्लूंप्लूंन्लूंश्रीरत्नेश्वर्यैनमः इत्यभ्यर्च्य मूलेनचाभ्यर्च्य स्थालकंमस्तकांतमुद्धृत्य नव वारंमूलं समस्तचक्रचक्रेशीयुतेदेवीनवात्मके आरात्रिकमिदंदेविगृहाणममसिद्धये इतिचक्रमुद्रयानीराजयेत् ततोनानानैवेद्यंस्वर्णादिपात्रेनिक्षिप्य हुमित्यवगुंठ्य धेनु मुद्रयामृतीकृत्य मूलंसप्तधाजप्त्वा वामांगुष्ठेननैवेद्यपात्रंस्पृशन् मूलांते हेमपात्रग तंदिव्यंपरमानंसुसंस्कृतं पंचधाषड्रसोपेतंगृहाणपरमेश्वरि नैवेद्यंनिवेदयामीति दक्षनामांगुष्ठाभ्यामुत्सृजेत् ततःपुनराचमनीयंदत्त्वा मूलांतेकर्पूरादियुक्ततांबूलं निवेदयामीतिपूर्ववद्दद्यात् सर्वेषामर्घ्यपात्रजलेनोत्सर्गःकार्यः ततस्तत्त्वमुद्रयादेवीं त्रिःसंतर्प्य पूर्वोक्तमुद्राःप्रदर्श्य योनिंहृदिक्षोभिणींमुखे द्राविणींभ्रूमध्ये आकर्षिणीं ललाटे वशिनींब्रह्मरंध्रे आह्लादिनींपंचमुद्रामयींप्रदर्श्य कृतांजलिः श्रीशारिकाभग वतीआवरणंतेपूजयामीत्याज्ञांगृहीत्वा आवरणपूजामारभेत् तत्रादौचतुर्द्वारपूजां कुर्यात् ओंह्रींश्रींगांगणपतिश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ओंह्रींश्रींधं पृ० २८ब) धर्मराजश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ओंह्रींश्रींवरुणश्रीपादुकांपूजयामि नमस्तर्पयामिनमः ओंह्रींश्रींकुबेरश्रीपादुकांपूजयामिनमस्तर्पयामिनमः इतिच तुर्द्वारप्रथमरेखायां पूर्वादिक्रमेणपूजयेदितिप्रथमावरणं ततोद्वितीयरेखायां इंद्रा दीन्पूजयेद्यथा ओंह्रींश्रींइंद्रश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐अग्निश्रीपादु कांपूजयामिनमस्तर्पयामिनमः ३̐̐यमश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐ निऋतिश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐वरुणश्रीपादुकांपूजयामिनम स्तर्पयामिनमः ३̐̐वायुश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐कुबीरश्रीपादुकां पूजयामिनमस्तर्पयामिनमः ३̐̐ईशानश्रीपादुकांपूजयामिनमस्तर्पयामिनमः इंद्री शानयोर्मध्ये ३̐̐ब्रह्मश्रीपादुकांपूजयामिनमस्तर्पयामिनमः निरृतिवरुणयोर्मध्ये ३̐̐विष्णुश्रीपादुकांपूजयामिनमस्तर्पयामिनमः इतिचतुरश्रद्वितीयरेखायांसंपूज्य तृतीयरेखायामेतेषामायुधानिपूजयेद्यथा ३̐̐वज्रश्रीपादुकांपूजयामिनमस्तर्पयामि नमः ३̐̐शक्तिश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐दंडश्रीपादुकांपूजयामिन पृ० २९अ) मस्तर्पयामिनमः ३̐̐खड्गश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐पाशश्रीपादुकां पूजयामिनमस्तर्पयामिनमः ३̐̐पद्मश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐चक्र श्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐ध्वजश्रीपादुकांपूजयामिनमस्तर्पयामिन मः ३̐̐गदाश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐त्रिशूलश्रीपादुकांपूजयामिन मस्तर्पयामिनमः इतितृतीयरेखायांसंपूज्य इतिद्वितीयावरणं अथत्रिवृत्तपूजा तत्रादौप्रथमरेखायां मूलं ३̐̐ ऐंदिव्यौघपराख्यगुरुपक्तिंश्रीपादुकांपूजयामिनम स्तर्पयामिनमः द्वितीयरेखायां मूलं ऐंसिद्धौघपरापराख्यंगुरुपक्तिंश्रीपादुकां पूजयामिनमस्तर्पयामिनमः तृतीयरेखायां मूलं ऐंमानवौघाऽपराख्यगुरुपक्तिं श्रीपादुकांपूजयामिनमस्तर्पयामिनमः अत्रैव ३̐̐स्वगुरुश्रीपादुकांपूजयामिनम स्तर्पयामिनमः ३̐̐परमगुरुश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐परमाचार्य गुरुश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐परमेष्टिगुरुश्रीपादुकांपूजयामिनम स्तर्पयामिनमः इतितृतीयरेखायांतृतीयावरणं ततोष्टदलेषुमूलेनपुष्पांजलिं पृ० २९ब) दत्वा अष्टमातृकाःपूजयेद्यथा स्वाग्रदलमारभ्यवामावर्तेन ३̐̐ब्राह्मीश्रीपादुकांपूजया मिनमस्तर्पयामिनमः ३̐̐वैष्णवीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐चंडिकाश्री पादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐अपराजिताश्रीपादुकांपूजयामिनमस्तर्पयामिन मः ३̐̐कौमारीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐शांभवीश्रीपादुकांपूजयामि नमस्तर्पयामिनमः ३̐̐वाराहीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐नारसिंहीश्री पादुकांपूजयामिनमस्तर्पयामिनमः इतिसंपूज्यसंतर्प्याऽष्टदलकेसरेषुदक्षावर्तेनाष्ट भैरवान्पूजयेत् ३̐̐असितांगभैरवश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐रुरुभैर वश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐चंडभैरवश्रीपादुकांपूजयामिनमस्तर्पया मिनमः ३̐̐क्रोधभैरवश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐उन्मत्तभैरवश्रीपा दुकांपूजयामिनमस्तर्पयामिनमः ३̐̐कपालभैरवश्रीपादुकांपूजयामिनमस्तर्पया मिनमः ३̐̐भीषणभैरवश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐संहारभैरवश्रीपा दुकांपूजयामिनमस्तर्पयामिनमः इतिचतुर्थावरणं अथाष्टकोणेपूजा तत्रादौमूलेन पृ० ३०अ) पूजांपुष्पांजलिंदत्त्वा ३̐̐आमाश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐कामाश्रीपा दुकांपूजयामिनमस्तर्पयामिनमः ३̐̐चार्वांगीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐टंकधारिणीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐ताराश्रीपादुकांपूजयामिनम स्तर्पयामिनमः ३̐̐पार्वतीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः ३̐̐रुक्मिणीश्रीपादु कांपूजयामिनमस्तर्पयामिनमः ३̐̐शिवाश्रीपादुकांपूजयामिनमस्तर्पयामिनमः इति वसकोणेषु तत्रत्रिकोणेग्रकोणमारभ्य ओंह्रींश्रींकालिकाश्रीपादुकांपूजयामिनमस्त र्पयामिनमः ईशाने ३̐̐त्रिपुरसुंदरीश्रीपादुकांपूजयामिनमस्तर्पयामिनमः आग्नेये ३̐̐दु र्गाश्रीपादुकांपूजयामिनमस्तर्पयामिनमः इतित्रिकोणपूजाषष्ठावरणं ततोबिंदौमू लेनपुष्पांजलिंदत्वा तत्रश्रीदेवींध्यात्वा पुष्पांजलिंगृहीत्वा मूलंसप्तधौश्चार्य श्रीम च्छ्रीवामदेवसहितासपरिवारासायुधासवाहनाश्रीशारिकाभगवतीश्रीपादुकांपूज यामिनमस्तर्पयामिनमः इतिसंपूज्यसंतर्प्य पुनःपूर्ववद्गंधादिनासंपूज्यसंतर्प्य नि त्यहोममाचरेत् यथा अग्नौजलेवाचक्रंविलिख्यविभाव्यवा प्राणायस्वाहा अपानायस्वा पृ० ३०ब) हा व्यानायस्वाहा उदानायस्वाहा समानायस्वाहा इतिहुत्वा षडंगाहुतीकुर्याद्यथा ओंह्रांश्रांहृदयायनमःस्वाहा ओंह्रींश्रींशिरसेस्वाहास्वाहा ओंह्रूंश्रूंशिखायैवषट्स्वाहा ओंह्रैंश्रैंकवचायहूंस्वाहा ओंह्रौंश्रौंनेत्रत्रयायवौषट्स्वाहा ओंह्रःश्रःअस्त्रायफट्स्वाहा इतिषडंगाहुतीर्हुत्वा मूलेनस्वदेव्यैहुत्वा स्वहृदिविसृज्य) ईशानेमंडलंकृत्वा वटुका यनमः एह्येहिदेवीपुत्रवटुकनाथकपिलजटाभारभास्वरत्रिनेत्रज्वालामुखसर्वविघ्ना न्नाशय२ सर्वोपचारसहितंबलिंगृह्ण२स्वाहा आग्नेयेयांयोगिनीभ्योनमः ऊर्ध्वंव्रह्मां डतोवादिविगगनतलेभूतलेनिस्तलेवा पातालेवानलेवासलिलपवनयोर्यत्रकुत्रिस्थि तावा क्षेत्रेपीठोपपीठादिषुचकृतपदाधूपदीपादिकेन प्रीतादेव्याःसदानःशुभब लिविधिनापांतुवीरेंद्रवंद्याः यांयोगिनीभ्यःस्वाहा सर्वयोगिनीहूंफट्स्वाहा इतियो गिनीबलिः नैऋत्येक्षांक्षींक्षूंक्षैंक्षौंक्षःक्षेत्रपालअलिबलिपिशितसहितंबलिंगृह्ण२स्वाहा इतिक्षेत्रपालबलिः वायव्ये गांगींगणपतयेवरवरदसर्वंजनंमेवशमानय २ बलिं ह्ण२स्वाहा इतिगणपतिबलिः उत्तरे सर्वभूतेभ्योनमः ओंह्रींसर्वविघ्नकृद्भ्यःसर्वभू पृ० ३१अ) तेभ्योपत्नीसहितेभ्योहुंफट्स्वाहा सर्वभूतेभ्येषबलिर्नमः इतिसर्वांगुलिभिःबलिमुत्सृ जेदितिभूतबलिः अशक्तेकपात्रेएवबलिपंचकोदद्यात् अस्मिन्नेवावसरेछागादिब लिंदद्यात् तत्रपशुंमूलेनसंस्थाप्य गंधास्रगादिभिरलंकृत्य देव्यग्रेसंस्थाप्य मूलेन प्रोक्षणेजलेनप्रोक्ष्य अस्त्रेणसंरक्ष्य कवचेनावगुंठ्य मूलेनधेनुमुद्रयाऽमृतीकृत्य धं सर्वदेवतारूपिणेबलिरूपायाऽमुकपशवेनमः इतिगंधादिनात्रिःसंपूज्य तस्यदक्ष कर्णे पशुपाशायविद्महेविप्रकर्णायधीमहितन्नोजीवःप्रचोदयात् इतिपशुगायत्रींत्रिः पठित्वा पुरतःखड्गंनिधाय ओंह्रींकालिकालिवज्रेश्वरिलोहदंडायैनमः इतिगंधादि नात्रिरभ्यर्च्य तस्यमुष्टौ धंवागीश्वरीब्रह्माभ्यांनमः मध्ये धंलक्ष्मीनारायणाभ्यांनमः अग्रे उमामहेश्वराभ्यांनमः इति संपूज्य तंखड्गंधृत्वामंत्रयेत् खड्गायासुरनाशाय देवकार्यार्थतत्परः पशुच्छेद्यस्त्वयाशीघ्रंखड्गनाथनमोस्तुते इत्यभिमंत्र्य गंधाक्षत जलादिकमादाय धं मूलं अद्यामुकमासेत्यादिअमुकगोत्रोऽमुकशर्माऽमुककामः श्रीशारिकाभगवतिइमंपशुंतुभ्यमर्पयाम्यहंसंप्रसीद इतिपठित्वा पशोःशिरसि पृ० ३१ब) निक्षिप्य तच्छिरोधृत्वा यज्ञार्थंपशवःसृष्टायज्ञार्थंपशुघातनं अतस्त्वांघातयिष्यामस्त स्माद्यज्ञेवधोऽवधः शिवायत्तमिदंपिंडमतस्त्वंशिवतांगतः उद्बुध्यस्वपशोत्वंहिनाशि वस्त्वंशिवोसिहि इतिसंबोधयित्वा खड्गमादाय सौंःअस्त्रायफट्छिंद्धिछिंद्धिस्वाहा इतिखड्गंतस्यस्कंदेयोजयेत् ततःस्वयंदेवीरूपोभूत्वा निर्विकल्पेकेनप्रहारेणच्छिं द्यात् सविकल्पःपरहस्तेनछेदयेत् अत्रैवब्राह्मणातिरिक्तःस्वास्रादिबलिंदद्यातिति बलिंदत्वाऽस्रंदेव्यैदत्वावटुकादिष्वपिदत्वाश्री देवींसुप्रसन्नांविभाव्य पशुशिरोदेव्यऽ ग्रेसंस्थाप्य तस्मिन्घृतकृतदशांप्रज्वलंतींसंस्थाप्य तत्रदेवींध्यात्वा सुप्रसन्नांविभाव येदितिबलिदानविधिः) ततःप्राणायामृष्यादिकरषडंगन्यासानंतरंगुरुदेव्यौध्या यन् फ्रांओंश्रींह्रुंआंशांशारिकायैनमः ह्रींइत्युत्कीलनं ३ हूंओंश्रींफ्रांआंशांशारिकायै नमःह्रीं इतिसंजीवनं ३ शंमूलंषंसंहंलंक्षः इतितौटिल्यं ३ ओंफ्रांदेविशारिकेब्रह्म शापंमोचय२स्वाहा इतिशापहरींदशधाजपेत् ओंह्रींश्रींहूंआंशांशारिकायैनमःफ्रां इतिसंपुटमंत्रः ओंवंवामदेवंजपेत् १० मालेमालेमहामायेसर्वशक्तिस्वरूपिणि चतुर्व पृ० ३२अ) र्गस्त्वयिन्यस्तस्तस्मान्मेसिद्धिभव इतिपठन्मालावामहस्तेकृत्वा सामान्यार्घ्योदकेनाभ्युक्ष्य मूलेनसंपूज्य शिरसिगुरुंहृदयेदेवींकंठेपीतवर्णांमूलविद्यांध्यायन् दक्षहस्तेनमालां गृहीत्वा यथाशक्तिंजपंकुर्यात् ततः त्वंमालेसर्वदेवानांप्रीतिदाशुभदाभव शुभंकुरुष्व मेभद्रेयशोवीर्यंचसर्वदा इतिपठन्मालांशिरसिधृत्वा पुनरपिप्राणायामृष्यादिक रषडंगन्यासानंतरं सामान्यार्घ्योदकेनचुलकंगृहीत्वा गुह्यातिगुह्यगोप्त्रीत्वंगृहाणा स्मत्कृतंजपं सिद्धिर्भवतुमेदेवित्वत्प्रसादान्महेश्वरि इत्यनेनतेजोमयंजपफलंदेवीवा महस्तेसमर्प्य मालांमूलेनसंपूज्य स्वस्थानेसंस्थाप्य कवचसहस्रनामस्तवराजपाठंवि धायाष्टांगंप्रणिपत्य सर्वमंगलमंगल्येशिवेसर्वार्थसाधके शरण्येत्र्यंबकेगौरिनाराय णिनमोस्तुते इतिसप्तवारंपठन्सप्तधादेवींपुष्पैःपूजयेत् पुनःपुनर्नत्वाप्रदक्षिणीकृत्य देवनाथगुरोःस्वा मिदैशिकस्वात्मनायक त्राहित्राहिकृपासिन्धोपूजांपूर्णतरांकुरु सामयिकैःसहमं डलंवंदनंकुर्याद्यथा तत्रादौगुरुपात्रमुद्धृत्य गुरुमंत्रंस्मरन् यदिगुरुस्तत्रैवस्यात्तस्मै द द्यात् यदिनस्यात्तज्जयेष्टशिष्यायदद्यात् तदभावेस्वशिरसिस्थापयेत् ततःस्वपात्रंगृही पृ० ३२ब) त्वा कुंडलिनींस्वजिह्वाग्रमानीय सामयिकेभ्योजुहोमीत्युक्ता तेभ्योजुषस्वजुषतां य थोचिताज्ञांगृहीत्वा पात्रवन्दनंकुर्याद्यथा श्रीमद्भैरवशेखरप्रविलसच्चंद्रामृताप्लावि तं क्षेत्त्राधीश्वरयोगिनीगणमहासिद्धैःसमाराधितं आनंदागमकंमहात्मकमिदंसाक्षा त्त्रिखंडाऽमृतं वंदेश्रीप्रथमंकरांबुगतंपात्रंविशुद्धिप्रदं १ इदंपवित्रममृतंपिवामिभवभे षजं पशुपाशसमुच्छेदकारणंभैरवोदितं आर्द्रंज्वलतिज्योतिरहमस्मिज्योतिर्ज्वलति ब्रह्माहमस्मि अहमस्मिब्रह्माहमस्मियोहमस्मिब्रह्माहमस्मि सोहमस्मिब्रह्माहमस्मिअ हमेवाहंमांजुहोमिस्वाहा इत्युक्ताप्रथमंपात्रंकुंडलिनीमुखेजुहुयात् आत्मतत्त्वंशो धयामिस्वाहा हैमंसिन्धुरसावहंदयितयादत्तंयपेयादिभिः किंचिच्चंचलरक्तपंकजदृ शासानंदमद्वीक्षितं वामेस्वादुविशुद्धशुद्धिशकलंपाणौविधायास्वके वंदेपात्रमहं द्वितीयमधुनानंदैकसंवर्धनं अन्यैर्मंत्ररपि २ विद्यातत्त्वंशोधयामिस्वाहा सर्वाम्नाय कलाकलापकलितंकौतूहलोद्द्योतनं चंद्रोपेंद्रमहेंद्रशंभुवरुणब्रह्मादिभिःसेवितं ध्यातंदेवगणैःपरंमुनिगणैर्मोक्षार्थिभिःसर्वदा वंदेपात्रमहंतृतीयमधुनास्वात्माव पृ० ३३अ) बोधक्षमं ३ शिवतत्त्वंशोधयामिस्वाहा मद्यंमीनरसावहंहरिहरब्रह्मादिभिःपूजितं मुद्रामैथुनधर्मकर्मनिरतंक्षाराम्लतिक्ताऽऽश्रयं आचार्याष्टकसिद्धभैरवकलाधीशेन संशोधितं पायात्पंचमकारतत्त्वसहितंपात्रंचतुर्थंनुमः भैरवतत्त्वंशोधयामिस्वाहा ४ आधारेभुजगाधिराजवलयेपात्रंमहीमंडलं द्रव्यंसप्तसमुद्रवारिपिशितंचाष्टौचदि ग्दंतिनः सोहंभैरवमर्चयन्प्रतिदिनंतारागणैरक्षितैरादित्यप्रमुखैःसुरासुरगणैराज्ञा करैःकिंकरैः विद्यातत्त्वंशोधयामिस्वाहा ५ छत्त्रंचामरभद्रपीठपरमानंदोदयादाय कं वाजीदंतिमनोहरंसुखकरंसायुज्यसाम्राज्यदं नानाव्याधिभवांधकारहरणंजन्मां तरध्वंसनं श्रीमद्भैरवभैरवीप्रियतरंपात्रंचषष्ठंनुमः इतिकुलतत्त्वंशोधयामिस्वाहा ६ जाग्रत्स्वप्नसुषुप्तिबोधपवनंचैतन्यसाक्ष्यप्रदं विद्युद्भास्करचंद्रजिष्णुधनुषांज्योतिष्कला व्यापितं येडापिंगलमध्यगात्रिवलातस्याःप्रबोधोद्धतं पात्रंसप्तसमुद्ररत्नतरुणानं दप्रदंपातुमां श्रीमूलतत्त्वंशोधयामिस्वाहा ७ खड्गंश्रीगुरुपादुकांचतिलकंकंठेपि सारस्वतं शत्रोर्वाग्बलबुद्धिशौर्यहरणंदेहस्थितेःकारणं वांछासिद्धिकरंमनस्स्थि पृ० ३३ब) तिकरंवश्यंजगद्योषितां पात्रंचाष्टममष्टसिद्धिकरणंवंदेप्रतापालयं इतिशिवत त्त्वंशोधयामिस्वाहा ८ सर्वानंदकरंसदाशिवपदंसर्वार्थसंपत्प्रदं साम्राज्यार्थक रंसमस्तसुखदंचाज्ञानविध्वंसनं आयुष्कांतियशोविवर्धनकरंसंसारमोहच्छिदं पा त्रंलक्ष्यगुणात्मकंचनवमंप्रौढप्रतापंभजे देवीतत्त्वंशोधयामिस्वाहा ९ ब्रह्मविष्णु महेशानांदेवानांचविशेषतः दुर्लभंपावनंपात्रंदशमंप्रणमाम्यहं इतिसर्वतत्त्वंशोधया मिस्वाहा १० पापघ्नंशांतिशुभदंदिव्यंस्वादुसुखालयं पात्रमेकादशंवंदेगुरुसेवासु खागतं ११ पात्रंकृत्वाकरेमंत्रीसर्वकर्मलभेत्सुखी इहलोकेश्रियंभुक्तादेहांतेभैर वोभवेत् १२ देहस्थाखिलदेवतागजमुखाःक्षेत्त्राधिपाभैरवा योगिन्योवटुकाश्चसि द्धपितरःपैशाचकाश्चेटकाः अन्येभूचरखेचराःप्रतिपदंवेतालभूतग्रहाः तृप्ताःस्युः कुलपुत्रकस्यपिवतःश्रीवीरसंतर्पणात् १३ वामेरामारमणकुशलादक्षिणोचालि पात्रमग्रेमुद्राचणकवटुकाःसूकरस्योस्मशुद्धिः स्कंदेवीणासरसकवितासत्कथा सद्गुरूणांकौलोमार्गःपरमगहनोयोगिनामप्यगम्यः १४ अलिपिशितपुरंध्रीभोग पृ० ३४अ) पूजापरोहं बहुविधकुलमार्गारंभसंभावितोहं पशुजनविमुखोहंभैरवीमाश्रितो हं गुरुचरणरतोहंभैरवोहंशिवोहं १५ करेपात्रंमुखेस्तोत्रमानंदोहृदयांबुजे मूर्ध्नि श्रीगुरुपादाब्जंस्मरणंकिमतःपरं १६ एकेनशुष्कवटुकेनघटंपिवामिवापींपिवामि सहसालवणार्द्रकेण आस्वाद्यमांसमलिरोहितमुंडंखंडंगंगांपिवामियमुनांसहसाग रेण १७ वामेचंद्रमुखीमुखेचमदिरापात्रंकरांभोरुहे मूर्ध्निश्रीगुरुचिंतनंभगवतीध्या नास्पदंमानसं जिह्वायांजपसाधनंपरिणतिःकौलक्रमाभ्यासने येसंतोनियतंपिवं तिसरसंतेभुक्तिमुक्तीगताः १८ पीत्वापीत्वापुनःपीत्वायावत्पततिभूतले उत्थायचपुनः पीत्वाभूयोजन्मनविद्यते १९ धर्माधर्महविर्दीप्तेस्वात्माग्नौमनसास्रुचा सुषुम्णावर्त्म नानित्यमक्षवृत्तीर्जुहोम्यहं २० प्रकाशाकाशहस्ताभ्यामवलंब्योन्मनीस्रुचं धर्माध र्मकलास्नेहपूर्णावह्नौजुहोम्यहं २१ यावन्नचलतेदृष्टिर्यावन्नचलतेमनः तावत्पा नंप्रकर्तव्यंपशुपानमतःपरं एवंपात्रवंदनंकृत्वा ततःपूर्वस्थापितबलिपात्रस्थापि तमन्नादिकमेकस्मिन्पात्रेकृत्वा सोदकपात्रहस्तः पूजागृहाद्बहिर्गत्वा जलेनशुचौ पृ० ३४ब) देशेचतुरश्रवृत्तत्रिकोणात्मकंमंडलंकृत्वाचेतिपूर्ववत् तत्रगदादिडमरुपात्रहस्तं त्रिलो चनंकृष्णाभंभैरवंदेवंसर्वविघ्नविनाशनं वामाधःकरमारभ्य वामोर्ध्वकरपर्यंतमायुधध्या नं इत्युच्छिष्टभैरवंध्यात्वा गंधादिभिःसंपूज्य ओंऐंह्रींश्रींउच्छिष्ठभैरवेह्येहिबलिंगृह्ण २हुंफट्स्वाहा इतिमंत्रेणतस्मिन्मंडलेपात्रस्थंबलिद्रव्यंविसृज्य तत्पात्रेहस्तौपादौचप्र क्षाल्य आचम्य तत्पात्रंजलेनप्रपूर्य पूजागृहद्वारंगत्वा उदयोस्तुइतिब्रुवन् अंतःप्रविश्य स्वासनेषूपविश्य तत्पात्रस्थजलेविशेषार्घजलबिंदुंदत्त्वा तेनजलेनस्वात्मानमभिषिंच ञ्शांतिस्तोत्रंपठेत् श्रीवामकेश्वरतंत्रे नश्यंतुप्रेतकूष्मांडानश्यंतुदूषकानराः साधका नांशिवाःसंतुआम्नायपरिपालिनां १ जयंतुमातरःसर्वाजयंतुयोगिनीगणाः जयंतु सिद्धडाकिन्योजयंतुगुरुपंक्तयः २ नंदतुअणिमासिद्धानंदंतुभैरवादयः नंदंतुदेवताःस र्वाःसिद्धविद्याधरादयः ३ येचाम्नायविशुद्धाश्चमंत्रिणःशुद्धबुद्धयः सर्वदानंदहृदया नंदंतुममभक्तितः ४ नक्षत्राणिग्रहायोगाःकरणाश्चतथापरे सर्वेतेसुखिनोयांतु मासाश्चतिथयास्तथा ५ तृप्यंतुपितराःसर्वेऋतवोवत्सरादयः भूचराःखेचराश्चैवत्यप्यं पृ० ३५अ) तुममभक्तितः ६ अंतरिक्षचरायेचयेचान्येदेवयोनयः सर्वेतेसुखिनोयांतुसर्वानद्या श्चपक्षिणः ७ पशवस्तरवश्चैवपर्वताःकंधराःगुहाः ऋषयोब्राह्मणाःसर्वेशांतिंकु र्वंतुमेसदा ८ तीर्थानिपशवोगावोयेचान्येपुण्यभूमयः वृद्धाःपतिव्रतानार्याःशिवं कुर्वंतुमेसदा ९ शिवंसर्वत्रमेचास्तुपुत्रदारधनादिषु राजानःसुखिनःसंतुक्षेममार्गो स्तुमेसदा १० शुभामेदिवसायांतुमित्त्रास्तिष्ठंतुमेशिवाः साधकाजयिनःसंतुशिवाः तिष्ठंतुपूजकाः ११ द्वेष्टारःसाधकानांचसदैवाम्नायदूषकाः डाकिनीनांमुखेयांतुसर्वास्तत्पि शतैस्तुताः १२ शत्रवोनाशमायांतुममनिंदाकराश्चये द्वेष्टाराःसाधकानांचविनश्यंतुशि वाज्ञया १३ येनिंदकास्तेविलयंप्रयांतुयेसाधकास्तेप्रभवंतुसिद्धाः सर्वत्रदेवीकरुणाव लोकापुरःपरेशीममसन्निधत्तां १४ इतिशांतिस्तोत्रंपठित्वा अथान्यप्रकारेणापिलिख्य ते श्रीभैरवुवाच देविवक्ष्यामिपूजांतेशांतिस्तोत्रमनुत्तमम् वीरायेनपरानंदपदंप्राप्स्यं त्यनामयं १ योगिनीचक्रमध्यस्थंमातृमंडलवेष्टितं नममाशिरसानाथंभैरवभैरवीप्रियं २ अनादिघोरसंसारव्याधिध्वंसैकहेतवे नमःश्रीनाथवैद्यायकुलौषधप्रदायिने आपदो पृ० ३५ब) दुरितंरोगाःसमयाचारलंघनात् येसर्वेत्रव्यपोहंतुदिव्यचक्रस्यमेलनात् आयुरारोग्य मैश्वर्यंकीर्तिर्लाभाःसुखंजयः कांतिर्मनोरथश्चास्तुपांतुसर्वाश्चदेवताः संपूजकानां प्रतिपालकानांयतींद्रयोगेंद्रतपोधनानां देशस्यराष्ट्रस्यकुलस्यराज्ञाःकरोतुशांतिंभग वान्कुलेशः नंदंतुसाधककुलान्वयदर्शकायेसृष्टाद्यनाख्यचतुरुक्तमहान्वयाये नन्दं तुसर्वकुलकौलरताःपरेयेप्यन्येविशेषपदभेदकशांभवाये नंदंतुसिद्धगुरवःस्वतनुक्र मौघाज्येष्ठानुगाःसमयिनोवटुकाःकुमार्या षड्योगिनीप्रवरवीरकुलप्रसूतानंदंतु भूमिपतिगोद्विजसाधुलोकाः नंदंतुनीतिनिपुणानिरवद्यनिष्ठानिर्मत्सरानिरुपमानि रुपद्रवाश्च नित्यानिरंजनरतागुरवोनिरीहाःशाक्ताश्चशांतमनसोहृतशोकशंकाः नं दंतुयोगनिरताःकुलयोगयुक्ताआचार्यसामयिकसाधकपुत्रकाश्च गावोद्विजायुवतयो यतयःकुमार्योधर्मेभवंतुनिरतागुरुभक्तियुक्ता नंदंतुसाधकवराणिमाद्यनिष्ठाःशापाः पतंतुसमयद्विषयोगिनीनां साशांभवीस्फुरतुकापिममाद्यवस्थायस्यांगुरोश्चरणपं कजमेवलभ्यं याश्चक्रक्रमभूमिकावसतयोनाडीषुयाःसंस्थितायाःकायद्रुमरोमकू पृ० ३६अ) पनिलयायास्संस्थिताधातुषु उच्छ्वासोर्मिमरुत्तरंगनिलयानिःश्वासवासाश्चयास्ता देव्योरिपुभक्षभक्षणपरास्तृप्यंतुकौलार्चिताः यादिव्यक्रमपालिकाःक्षितिगतायादेव तास्तोयगा यानित्यंप्रथिताःप्रभाःशिखिगतायामातरिश्वाश्रयाः याव्योमामृतमं डलामृतमयायाःसर्वगाःसर्वदास्तास्सर्वाःकुलमार्गपालनपराःशांतिंप्रयच्छंतुमे ऊर्ध्वंब्रह्मांडतोवादिविगगनतलेभूतलेनिस्तलेवा पातालेवानलेवासलिलपवनयोर्य त्रकुत्रास्थितावा क्षेत्त्रेपीठोपपीठादिषचकृतपदाधूपदीपालिमांसैः प्रीतादेव्यःस दानःकृतविधिबलिनापांतुवीरेंद्रवंद्याः ब्रह्माश्रीशेषदुर्गागुहवटुकगणाभैरवाः श्रेत्रपाला बेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः भूतागंधर्वविद्याधर ऋषिपितृयक्षासुराहिप्रभूतायोगीशाश्चारणाःकिंपुरुषमुनिसुराश्चक्रगाःपातु सर्वे देहस्थाखिलदेवतागजमुखाःक्षेत्त्राधिपाभैरवा योगिन्योवटुकाश्चयक्षपितरो भूताःपिशाचाग्रहाः अन्येभूचरदिक्चराश्चखचराबेतालकाश्चेटकाः तृप्ताःस्युः कुलपुत्रकस्यपिवतःपानंसदीपंचरुं सत्यंचेद्गुरुवाक्यमेवपितृदेवाःशेषवद्योगिनी पृ० ३६ब) प्रीतिश्चेत्परदेवताचयदिचेद्वेदाःप्रमाणंचचेत् शाक्तेयंयदिदर्शनंभवतिचेदाज्ञेयमेषा स्तिचेत्संत्यात्रापिचकौलिकाश्चयदिचेत्स्यान्मेजयःसर्वदा तृप्यंतुमातरःसर्वाःसमुद्राःस गणाधिपाः योगिन्यःक्षेत्रपालाश्चममदेहेव्यवस्थिताः शिवाद्यवनिपर्यंतंब्रह्मादिस्तं बसंयुतं कालाग्न्यादिशिवांतंचजगद्यज्ञेनतृप्यतु पठित्वेदंनमेद्वीरान्वीरवंदनमाचरेत् स्तवेद्वीरान्नमेद्वीरान्मंत्रसिद्धिःप्रजायते शांतिस्तोत्रंपठित्वा वीरवन्दनस्तोत्रंपठेत् जगत्त्रयाभ्यर्चितशासनेभ्यःपरार्थसंपादनकोविदेभ्यः समुद्धृतक्लेशमहोरगेभ्योनमो नमःसाधकनायकेभ्यः प्रहीनसर्वाशयवासनेभ्यःसर्वार्थतत्त्वोदितसाधनेभ्यः सर्वप्रजा भ्युद्धरणोदितेभ्योनमोनमःसाधकनायकेभ्यः निस्तीर्णसंसारमहार्णवेभ्यस्तृष्णालतो न्मूलनतत्परेभ्यः जरारुजामृत्युनिवारकेभ्योनमोनमःसाधकनायकेभ्यः सद्धर्मरत्ना करभाजनेभ्योनिर्वाणमार्गोत्तमदैशिकेभ्यः सर्वत्रसंपूर्णमनोरथेभ्योनमोनमःसाधक नायकेभ्यः ४ लोकानुकंपाभ्युदितादरेभ्यःकारुण्यमैत्रीपरिभावितेभ्यः सर्वार्थचर्याप रिपूरकेभ्योनमोनमःसाधकनायकेभ्यः विध्वस्तनिःशेषकुवासनेभ्योज्ञानाग्निनादग्धम पृ० ३७अ) मलेंधनेभ्यः प्रज्ञाप्रतिज्ञापरिपूरकेभ्योनमोनमःसाधकनायकेभ्यः सर्वार्थिताशापरिपूरके भ्योवैनेयपद्माकरबोधकेभ्यः विस्तीर्णसर्वार्थगुणाकरेभ्योनमोनमःसाधकनायकेभ्यः अ नंतकर्मार्जितशासनेभ्योब्रह्मेंद्ररुद्रादिनमस्कृतेभ्यः परम्परानुग्रहकारकेभ्योनमोनमः साधकनायकेभ्यः विभग्नभूतादिमहाभयेभ्योमपंचकाचारपरायणेभ्यः समस्तसौभाग्य कलाकरेभ्योनमोनमःसाधकनायकेभ्यः विभग्नदुष्कर्मजवासनेभ्यःसमस्ततोजुष्टमहाश येभ्यः लभ्यामलज्ञानकृतास्पदेभ्योनमोनमःशांभविशांभवेभ्यः सर्वागमांभोधिमहाप्ल वेभ्यःश्रीचक्रपूजार्थपरायणेभ्यः श्रीवीरचर्याचरणक्षमेभ्योनमोनमःशांभविशांभवेभ्यः श्रीमंत्रकोटिद्युतिभूषणेभ्योद्वाविंशदुल्लासदशातिगेभ्यः अद्वैततत्त्वामृतभाजनेभ्योन मोनमःशांभविशांभवेभ्यः षट्त्रिंशतालक्षणभूषितेभ्यःप्रोत्फुल्लपद्माकरलोचनेभ्यः प्रतप्तचामीकरविग्रहेभ्योनमोनमःशांभविशांभवेभ्यः संबोधसंभारसुसंस्थितेभ्यःसं सारनिर्वाणनिदर्शनेभ्यः महाकृपावेष्टितमानसेभ्योनमोनमःशांभविशांभवेभ्यः प रैक्यविज्ञानरसाकुलेभ्योवामाश्रिताचारभयानकेभ्यः स्वातंत्र्यविध्वस्तजगत्तमेभ्योन पृ० ३७ब) मोनमःशांभविशांभवेभ्यः श्मशानचर्याप्तमहाफलेभ्योमोहांधकारापहृतिक्षमेभ्यः परस्परज्ञापरिपालकेभ्योनमोनमःशांभविशांभवेभ्यः विधूतकेशालिकपालकेभ्यःसुरा सवारक्तविलोचनेभ्यः नवीनकांतारततत्परेभ्योनमोनमःशांभविशांभवेभ्यः विभूति लिप्तांगदिगंबरेभ्योचिताग्निधूमालिभयानकेभ्यः कपालपात्रामृतपानकेभ्योनमोनमः भैरविभैरवेभ्यः सिद्ध्यष्टकधानमहामुनिभ्यःश्रीभैरवाचारकृतादरेभ्यः स्वाधीनतान्य क्कृतनिर्जरेभ्योनमोनमःभैरविभैरवेभ्यः प्रशांतशास्त्रार्थविचारकेभ्योनिवृत्तनानारस काव्यकेभ्यः निरस्तनिःशेषविकल्पनेभ्योनमोनमःभैरविभैरवेभ्यः स्वात्मैक्यभावांतरि ताशयेभ्यःसायुज्यसाम्राज्यसुखाकरेभ्यः श्रीसच्चिदानंदितविग्रहेभ्योनमोनमःभैरविभै रवेभ्यः पराप्रसादास्पदमानसेभ्योब्रह्माद्वयज्ञानरसाकुलेभ्यः शिवोहमित्याश्रितचेत नेभ्योनमोनमःभैरविभैरवेभ्यः सर्वथासर्वदासर्वंसार्वंघटपटादिसत् जगज्जनितवि स्तारंब्रह्मेदमितिवेद्म्यहं अहमेवपरोहंसःशिवःपरमकारणं मत्प्राणेसतुपश्वात्मा लीनःसमरसंगतः सच्चिदानंदनिलयंपरंपरमकारणं शिवाद्वयप्रकाशाढ्यंश्याम पृ० ३८अ) लंधामधीमहि अनेनवीरस्तवकीर्तनेनसमुद्धृतक्लेशसुवासनोहं संसारकांतारमहा र्णवेस्मिन्निमज्जमानंजगदुद्धरेयं नंदंतुसाधकाःसर्वेविनश्यंतुविदूषकाः अवस्थाशां भवीमेस्तुप्रसन्नोस्तुगुरुःसदा इतिपठन्सर्वान्सामयिकानभिषिंच्य विशेषार्घ्यपा त्रमुद्धृत्य शिरसिस्थितायगुरवेसमर्प्य तत्पादुकास्त्रिःसमभ्यर्च्य मूलविद्ययागुरुपादुका विद्यांतेचस्वाहेति स्वमूलाधारकुंडलिन्यात्मकपरदेवतामुखेहवनवुद्ध्या तज्जलंपात्रां तरेकृत्वाऽश्नीयात् शेषंप्रियशिष्यायप्रसादबुद्ध्याकिंचिद्दद्यात् सोपिस्वपात्रेकृत्वा तज्जलंप्राश्नीयात् इत्थमर्घ्यप्रतिपत्तिः ततःस्वगुरूपदिष्टविधिनाशेषकृत्यंसमापयेत् ततस्ताम्रादिपात्रेगंधपुष्पाक्षतान्वितंजलमापूर्य नमोविवस्वतेब्रह्मन्भास्वतेविष्णुतेज से नमःसर्वत्रशुचयेसवित्रेकर्मदायिनेह्रांह्रींहंसःसूर्येषतेर्घःस्वाहेतिसूर्यायार्घ्यंदत्त्वा कृतांजलिः यज्ञच्छिद्रंतपच्छिद्रंयच्छिद्रंपूजनेमम सर्वंतदच्छिद्रमस्तुभास्करस्यप्र सादतः इत्यच्छिद्रमवधारयेत् ततोमूलविद्यायाःप्राणायामत्रयंकृत्वा ऋष्यादिक रषडंगन्यासान्विधाय षडासनेवाग्देवताष्टकन्यासान्विधाय प्रागुक्तगुरुस्तोत्रंपठित्वा पृ० ३८ब) श्रीगुरुंप्रणम्य मूलविद्ययाद्वितीयबीजेननिर्माल्यंशिरसिधृत्वा मूलविद्ययाएवचरणोद कंस्वीकृत्य श्रीपरदेवताभक्तेभ्योनैवेद्यादिकंदत्त्वा स्वयमपिसुहृद्वांधवजनैःसाकंभुक्ता स्वात्मानंकामकलारूपंभावयन् सुखंविहरेदितिशिवं स्वानुग्रहावाप्तपदैःसाहिब्कौला भिधाश्रमेकुलातीर्थ्यार्थितासैषाशारिकापद्धतिर्लघुः || ओंश्रीदेव्यैसदासुफलदायिन्यैनमः श्रीभैरवुवाच अधुनादेविवक्ष्यामिशारिकाकवचं परं त्रैलोक्यमोहनंनाममूलमंत्रमयंपरं अस्यश्रवणमात्रेणसर्वयज्ञफलंलभेत् सर्वा पत्तारणंदिव्यंसर्वसिद्धिप्रदंकलौ सर्वस्वंमेरहस्यंमेपरमंपरमाद्भुतं धारणादस्यदेवेशि विष्णुनामजलोद्भवः दानवेंद्रोहतःशीघ्रमंधकारोयर्थेदुना मयापित्रिपुराध्यक्षोदा नवोविष्णुनाबलः जंबोवृत्त्रासुरोदेविप्रभावादस्यवर्मणः कवचस्यास्यदेवेशिऋषिर्भैर वीरितः त्रिष्टुप्छंदोदेवताचत्रैलोक्यमोहनेश्वरी शारिकाशर्मबीजंचमाशक्तिःकील कंगजः त्रैलोक्यमोहविद्यार्थेविनियोगःप्रकीर्तितः ओंमेदुर्गाशिरःपायादेकाक्षरवि पृ० ३९अ) भूषणा ओंह्रींचंडीललाटंमेजगदुल्लासरूपिणी ओंह्रींश्रींत्र्यक्षरापातुभ्रुवौमेभगमालि नी ओंह्रींश्रींहूंचनेत्रेव्यात्सर्वमंगलमंगला ओंह्रींश्रींहूंफ्रांअव्यान्मेश्रुतीशंकरवल्लभा ओंह्रींश्रींहूंफ्रांआंपातुनासांनारायणेश्वरी ओंह्रींश्रींहूंफ्रांआंशांमेपातुवक्त्रंसरस्वती अं आंइंईंरदान्पातुमातृकाशेखरेश्वरी उंऊंऋंऋंऌंॡंएंऐंपायादोष्टौभवप्रिया ओंऔंअंअः गलंपातुनीलकंठासनेश्वरी कंखंगंघंङंमेपातुस्कंदौस्कंदसमर्चिता चंछंजंझंञंमे पायाद्वक्षोवामप्रियांबिका टंठंडंढंणंमेपायात्पार्श्वौपर्वतनंदिनी तंथंदंधंनंमेपा तुकुक्षिंकुलाकुलेश्वरी पंफंबंभंमंमेपातुनाभिंनारदसेविता यंरंलंवंगुदंपातुगुह्यकेश्वर पूजिता शंषंसंहंकटिंपातुदेवीकात्यायनीसदा लंक्षंःऊरूसदापातुसर्वसारस्वतप्रदा ओं शांजानूशिवापातुओंआंजंघेवताद्रुमा ओंह्रांपादौसदापातुराजमातंगिनीमम ओंहूंपा दादिमूर्धांतंवपुर्मेपातुकुब्जिका ओंश्रींमूर्धादिपादांतंवपुर्मेपातुशारदा ओंह्रींसप्ताक्षरा पातुशारिकासकलंवपुः पूर्वेमांपातुब्रह्माणीवह्नौमेवैष्णवीसदा दक्षिणेवतुमांचं डीनैऋतेमेऽपराजिता पश्चिमेवतुकौमारीवायव्येशांभवीचमां वाराहीचोत्तरेपायादी पृ० ३९ब) शानेनारसिंहिका प्रभातेमामुमापातुमध्येकामावताश्चमां चार्वंगीमांदिनांतेव्यान्नि शादौटंकधारिणी निशीथेव्यादुग्रतारानिशांतेपार्वतीचमां सर्वत्ररुक्मिणीपातुशि वामांपातुसर्वदा असितांगःक्षितेःपातुरुरुर्मांपातुपाथसः चंडोमांपातुमरुतःक्रोधो व्यान्मांहुताशनात् उन्मत्तःसोमतःपातुकपालःसूर्यतोवतु भीषणोयज्ञविघ्नांतुसंहारःशू न्यमंडलात् रणेमांकालिकापातुद्यूतेत्रिपुरसुंदरी दुर्गावतुविवादेमांश्रीचक्रंसर्वदाव तु सर्वत्रसर्वदादेवीपातुमांशारिकापरा धनंपुत्रंसुतान्दारान्गृहंयद्वस्तुमामकं त त्तन्ममशिवःपातुवामदेवश्चिदीश्वरः इत्येतत्कवचंदिव्यंत्रिषुलोकेषुदुर्लभं त्रैलोक्यमोह नंनामशारिकायारहस्यकं विनाऽमुनानसिद्धिःस्यात्कवचेंद्रेणपार्वति कोटिलक्षप्रज प्तस्यमंत्रस्यास्यमहेश्वरि तस्मात्पठेच्छिवेवर्ममंत्रगर्भंमनुत्तमं सर्वोत्पातप्रशमनंबल बुद्धिप्रवर्धनं परमानंददंलोकेपरमैश्वर्यकारणं यःपठेत्पाठयेद्वापिशृणोतिश्रावये दपि सेवभैरवाध्यक्षस्त्रैलोक्यविजयीविभुः रवौभूर्जेलिखेद्वर्मस्वयंभूकुसुमस्रजा कु सुमेनाष्टगंधेनस्तन्येननिजरेतसा धारयेन्मूर्ध्निवाबाहौप्राप्नुयात्परमांगतिं धनकामी पृ० ४०अ) लभेद्वित्तंपुत्रकामीलभेत्प्रजां रणेरिपून्नरेहत्वाकल्याणीगृहमाविशेत् धृत्वावक्षसिदेवे शिवाग्मित्वंजायतेक्षणात् वंध्याचकाकवंध्याचमृतवत्सालभेत्सुतान् मार्कांडेयायुषो देविसाक्षाद्वैश्रवणोपमान् किंकिंनलभतेमर्त्यःपठन्कवचमुत्तमं यःपठेदर्धरात्रेतु श्मशानेमुक्तकुंतलः पीत्वाशीध्वंसदेवेशिदेवीदर्शनमाप्नुयात् स्तंभयेद्भास्करंवायुंमो येत्त्रिजगद्ध्रुवं बहुकिंकथ्यतांतस्यकवचस्यचधारणात् पठनाच्छ्रवणाद्वापिसभवेद्भैरवो पमः इतीदंकवचंदेवित्रैलोक्यवशकारणं त्रैलोक्यमोहनंनामगोपनीयंसुरेश्वरि यस्यक स्यनदातव्यंविनाशिष्यायपार्वति दीक्षितायकुलीनायदत्त्वामोक्षमवाप्नुयात् विनादानं नगृह्णीयान्नदद्याद्दक्षिणांविना दत्त्वागृहीत्वाप्युभयोःसिद्धिहानिर्भवेद्ध्रुवं अन्यथाय स्तुगृह्णीयाद्दद्याद्वाकवचेश्वरं पुत्रान्दारान्सुतांश्चैवयोगिन्योभक्षयंतिहि अज्ञात्वा कवचंदेविपूजयेच्छ्रीशिलांशिवे सभवेच्छिवहासत्यंसर्वोपद्रवसंकुलः धृत्वायःकवचंदे विपूजयेदंविकांनरः सेवपरमांसिद्धिंलभतेनात्रसंशयः इतीदंकवचंदेविसारंसर्वस्वमु त्तमं रहस्यंशारिकारत्नंगोपनीयंस्वयोनिवत् इतिश्रीरुद्रयामलेतंत्रेदशविद्यारहस्येश्रीशा पृ० ४०ब) रिकाकवचंसंपूर्णम् || श्रीभैरवुवाच कथयामिपुरांविद्यांसहस्राख्याभीधांशिवे शिलायाःशारिकाख्यायाः परंसर्वस्वरूपिणीं विनानित्यक्रियांदेविविनान्यासंविनार्चनं विनापुरस्क्रियांजाप्यंवि नाहोमंचतर्पणं विनाश्मशानगमनंविनासमयपूजनं ययालभेत्फलंसर्वंतांविद्यांश्रृणु पार्वति यादेवीचेतनालोकेशिलारूपास्तिशारिका सृजत्यवतिविश्वंतुसंहरिष्यतिताम सी सैवसंसारिणांदेविपरमैश्वर्यदायिनी परंपदप्रदाप्यंतेमहाविद्यात्मिकाशिला त स्यानामसहस्रंतेवर्णयामिरहस्यकं रहस्यंममसर्वस्वंसकलाचारवल्लभं योजयेत्परमां विद्यांपठेदाख्यासहस्रकं धारयेत्कवचंदिव्यंपठेत्स्तोत्रेश्वरंपरं किंतस्यदुर्लभंलोकेना प्नुयाद्यद्यदीश्वरि अस्यश्रीशारिकामंत्रनामसहस्र महादेवृषिः अनुष्टुप्छंदः श्रीशा रिकादेवता शांबीजंश्रींशक्तिः फ्रांकीलकं श्रीविद्यासिद्ध्यर्थेधर्मार्थकाममोक्षार्थेजपे पाठेविनियोगः बालार्ककोटिद्युतिमिंदुचूडांवरासिचक्राभयबाहुमाद्यां सिंहाधिरूढां पृ० ४१अ) शिववामदेवलीनांभजेचेतसिशारिकेशीं ओंह्रींश्रींहूंफ्रांआंशांश्रींःशारिकाश्यामसुंदरी शिलाशारीश्रुकीशांताश्यामाश्यामपयोधरा देवीशशांकबिंबाभाशशांककृतशेखरा शार्दूलचर्मवसनाशांतिःशार्दूलवाहना गौरीपद्मावतीपीनापीनवक्षोजकुट्मला पीतां बरारक्तदंतादाडिमीकुसुमोपमा स्फुरद्रत्नांशुखचितादीप्तादीप्तशिखोदया दयावतीक ल्पलताकल्पांतदहनोपमा भैरवीभीमनादाचभयानकमुखीभगा काराकारुण्यरूपाच कुरुकुल्लाकृशोदरी कादंबरीपटोत्कृष्टापरमापरमेश्वरी सतीसरस्वतीसत्यासत्यासत्यस्व रूपिणी परंपरापटाकारापाटलापाटलप्रभा पद्मिनीपद्मवनदापद्मापद्मकराशिवा शिवाश्रयाशरच्छांताशचीरंभाविभाविनी द्युमणिप्रस्तरापाठापीठेशीपीवराकृतिः अ चिंत्यामुसुलाधारामातंगीमधुरस्वराः अतीवसुंदराकारासुंदरीसुंदरालका अलकाना कमध्यस्थापातालतलचारिणी अनंतानंतरूपाचशमीश्यामाकवीजिनीविभासाभासुव र्णाचसमस्तासुरघातिनी सुधासुरासुरेश्यानीकृषाण्डवल्लभाहविःस्वाहास्वाहेशनेत्राचभूर्भुवः स्वःस्वरूपिणी भूमिर्भूदेवपूज्याचस्वयंभूःस्वात्मपूजका आनंदकंदलीकंदास्कंदमाता पृ० ४१ब) शिवालया चेतनाचिद्भवाकाराभवपत्नीभयापहा विघ्नेश्वरीगणेशानीविघ्नविध्वंसिनीनि शा वशावशिजनस्तुत्यास्तुतिःश्रुतिधराश्रुतिः वेद्यावेदमयीविद्याविधातृवरदावधूः वा मावामेश्वरीवाम्याकुलाकुलविचारिणी वितर्कातर्कनिलयाप्रलयानलसन्निभा यज्ञेश्वरी यज्ञमुखायाजकायानपात्रका यक्षेश्वरीयक्षधात्रीपार्वतीपर्वताश्रया पिलंपिलपदस्थाना पददानरकांतका नारीनर्मप्रियाश्रीदाश्रीदश्रीदाशरायुधा कामेश्वरीरतिर्हूतिराहुति र्हव्यवाहना हरेश्वरीहरिवधूर्हाटकांगदमंडिता हपुषास्वर्गतिर्वैद्यास्वर्मुखाचमहौषधिः सर्वरोगहरासाध्वीमधूककुसुमप्रभा माधवीमाधवीवल्लीमधुमत्तामदालसा मारप्रियामृ त्युहराहरित्कांतामनोन्मना महावैद्यप्रियावैश्यावैश्याचारासुरार्चिता सामंतापीनवपुषीगु टीगुर्वीगरीयसी कालांतकाकालमुखाकठोराकरुणामयी नीलानाडीचवागीशीदूर्वानी लसरस्वती अपारपारगागम्यागतिःप्रीतिःपयोधरा पयोदसदृशच्छायापारदाक्षतिरा लसा सरोजनिलयानीतिःकीर्तिःकीर्तिकरीकषा काशीकाम्याकपर्दाशाकाशपुष्पोप मारमा रमारामप्रियारेवादेवकीदेववत्सला हूतीद्रुतिगतिर्दर्भादमिनीविजयाजया पृ० ४२अ) अशेषसुरसंपूज्यानिःशेषासुरसूदिनी नटीनीवटमूलस्थालास्यहास्यैकवल्लभा अरूपानि र्गुणीसभ्यासभासंतोषवर्धिनी सौम्यायजुर्वहायाम्यायमुनायामिनीयमी दक्षादायादवर दादाल्भ्यसेव्यादरीपुरी पौरंदरीपुलोमेशीपौलोमीपुलकांकुरा समस्तवर्णनिलयासमस्त गुरुवल्लभा समस्तमुंडमालाढ्यामालिनीमधुपस्वना कोशप्रदाकोशवासाचमत्कृतिरलं बुसा हासदासदसद्रूपासर्वकर्णमयीस्मृतिः सर्वाक्षरमयीविद्यामूलविद्येश्वरीश्वरी अ कारषोडशाकाराकाराबंधविमोचिनी ककारव्यंजनाक्रांतासर्वमंत्राक्षरालया अमाणु रूपाप्यमलात्रैगुण्याप्यपराजिता अंबिकाबालिकाचांबानंतगुणमेखला अपर्णाप र्णशालाचसाट्टहासाहसंतिका अद्रिकन्यापट्टहासाप्यजरामाप्यरुंधती अब्जाक्षीचाब्जि नीदेवीह्यंबुजासनपूजिता अक्षरामातृकादेवीसर्वानंदकरीकला आनंदसुंदरीआद्या आघूर्णारुणलोचना आदिदैवांतकाक्रूराआदित्यकुलभूषणा आबीजमंडनादेवीआ कारमातृकाबलिः इंद्रस्तुतेंदुबिंबास्याइनकोटिसमप्रभा इंदिरामंदुराशालीइतिहा साकथास्मृतिः इलाचेक्षुरसास्वादाइकाराक्षरीश्वरी ईश्वरीभैरवप्रख्याचेशानीश्वरव पृ० ४२ब) ल्लभा ईशाकामकलादेवीईकाराश्रितमातृका उग्रप्रभोग्रचित्ताचुग्रवामार्गवासिनी उषावैष्णवपूज्याचुग्रतारोल्मुकानना उमेश्वरेश्वरीश्रेष्ठाउकारोद्भासमातृका तृष्णाप्यूषात्यू षणाचतथोतरदिविप्रभा ऋणहर्त्रीऋकारेशीऋऌवर्णाऌवर्णभाक् ॡकारप्रकुटिर्बाला बालादित्यसमप्रभा एणांकमुकुटादेहाएकारोद्भासकूटिनी ओंकारशेखरादेवीऔचित्यपद मंडिता अंभोजनिलयास्थानाःस्वरूपाचस्वर्गतिः षोडशस्वरसंपन्नाकमलाकमलोद्भ वा कामेश्वरीरंजितांगीकुमारीकुब्जिकाकला कामाकामप्रियाकीराकमनीयाकपर्दिनी कालिकाभद्रकालीचकालकामांतकारिणी कपालिनीकपालेशीकर्पूरचयचर्चिता कादं बरीकोमलांगीकाश्मीरीकुंकुमद्युतिः कुंताकूर्चार्णबीजाढ्याकमलांगीकुलाकुला क रालास्याकरालाक्षीविकरालस्वरूपिणी काम्यालकाकामदुघाकामिनीकामपालिनी क न्थाधराकृपाकर्त्रीककाराक्षरमातृका खड्गहस्ताखर्परेशीखेचरीखगगामिनी खगास नाखलोलाक्षीखेटेशीखलनाशिनी खेटकायुधहस्ताचखरांशुद्युतिसन्निभा खांताखबी जनिलयाखकारोल्लासमातृका गुण्यागजास्यवदनागणेशजननीगया गोदावरीगदाह पृ० ४३अ) स्तागंगाधरवरप्रदा गोधागोवाहनेशानीगरलाशरवल्लभा गांभीर्यभूषणागंगागकारार्ण विभूषणा घृणाघोणाकरस्तुत्याघुर्घुराघोरनादिनी घटस्थाघटजासेव्याघनरूपाघने श्वरी घनवाहनसेव्याचघकाराक्षरमातृका ङांताङवर्णनिलयाङाणुरूपाङणालया ङेशाङेंताङङाजाप्याङवर्णाक्षरभूषणा चामीकररुचिश्चांद्रीचंद्रिकाचंद्ररागिणी च लाचोलाचंचलाचचंचरीकालकप्रभा चंचरीकस्वनालापाचमत्कारस्वरूपिणी चटु काचाटुकीचार्वीचण्याचण्यकसन्निभा चीनांशुकधराचाटुश्चकाराक्षरभूषणा छत्त्री च्छत्त्रधराच्छन्नाच्छिन्नमस्ताच्छजाच्छविः छायासुतप्रियाभायाछवर्णामलमातृका जगदंबाजगज्ज्योतिर्ज्योतीरूपाजटाधरा जयदाजयकर्त्त्रीचजगत्कर्त्रीजरांतरा ज्वरघ्नी जंबदमनीजगत्प्राणाजयावहा जैत्त्रीजंबारिवदनाजीवनाजीववाक्प्रदा जाग्रतिश्च जगन्निद्राजगद्योनिर्जलंधरा जालंधधराजायाजकाराक्षरमातृका झांपाझिंजेश्वरीझां ताझकाराक्षरमातृका ञाणुरूपाञिणीवामाञकारीशीञलायुधा ञवर्गबीजभूषा ढ्याञकाराक्षरमातृका टंकायुधाटकाराढ्याटोटाक्षीसकुंतला टंकायुधाटकीरूपा पृ० ४३ब) टकाराक्षरमातृका ठक्कूराठक्कूरेशानीठकारत्रितयेश्वरी ठःस्वरूपाठवर्णाढ्याठकाराक्रू रमातृका डक्काडक्केश्वरीडिंबाडवर्णाक्षरमातृका ढिणीढेयाढिल्ल्वहस्ताढकाराक्षरमा तृका णीशाणांताणवर्णांताणकाराक्षरभूषणा तुरीतुर्यातुलारूढात्रिपुरातामसप्रिया तोतुलातारिणीतारासप्तविंशतिरूपिणी त्रिपुरात्रिपुराध्येयात्र्यंबकेशीत्रिलोकधृक् त्रिव र्गेशीत्रयीत्र्यक्षीत्रिपदावेदरूपिणी त्रिलोकजननीत्रातात्रिपुरेश्वरपूजिता तापसीतोमरप्र ख्यातुंबुरुस्वननादिनी तुलाकोटिस्वनातापीतपसांफलवर्धिनी तरीतरणिरूपाचत काराक्षरमातृका स्थलीस्थविररूपाचस्थूलास्थालीस्थलाब्जिनी स्थविरेशास्थूलमुखी थकाराक्षरमातृका दूतिकाशिवदूतीचदंडायुधधराद्युतिः दयादिनानुकंपाचदंबोलिध रवल्लभा देशानुचारिणीद्रेक्काद्राविढेशीदवीयसीदाक्षायणीद्रुमलतादेवमाताधिदेवता दधिजादुर्लभादेवीदकाराक्षरमातृका धर्म्याधर्मप्रसूर्धन्याधनदाधनवर्धिनी धृतिर्धूता धन्यवधुर्धकाराक्षरमंडला नलिनीनालिकानाप्यानाराचायुधधारिणी नीपोपवनम ध्यस्थानागरेशीनतोत्तमा नरेश्वरीनृपाध्यक्षानरनारायणप्रसूः नर्तकीनीरजाक्षीच पृ० ४४अ) नवर्णाक्षरभूषणा पद्मेश्वरीपद्ममुखीपत्रयानापरापरा पारावारसुतापीठापरवर्गवि मर्दिनी पूःपुरारिवधूःपाप्मापत्नीपत्त्रिणवाहना पीवरांसापतिप्राणापीतलाक्षीपति व्रता पाठापीठस्थितापीतावस्त्रालंकारभूषणा पुरूरवसुतापौत्रीपुत्रिकापुत्रदाप्रजा पुष्पोत्तंसापुष्पवतीपकाराक्षरमातृका फलदापीतवस्त्राचफेरवारावभीषणा फल्गु णीफल्गुतीर्थस्थाफवर्णकृतमंडला बलदाबालखिल्याचबालाबलरिपुप्रिया बाल्या वस्थाबर्बरेशीबकाराकृतिमातृका भद्रिकाभीमपत्नीचभीमाभर्गशिखाभया भयघ्नीभी मनादाचभयानकमुखेक्षणा भिल्लेश्वरीभीतिहराभद्रदाभाग्यवर्धिनी भगमालाभगावामा भवघ्नीभवतारिणी भगयोनिर्भगाकाराभगस्थाभगरूपिणी भगलिंगामृतप्रीताभका राक्षरमातृका मान्यामानप्रदामीनामीनकेतनलालसा मदोद्धतामनोन्मान्यामेनामैनाक वत्सला मानार्तिर्मत्स्यरूपाचमत्स्यघातामहत्तरा मेरुश्रृंगाग्रतुंगास्यामोदकाहारपूजका मातंगिनीमत्तमदामदमत्तामठेश्वरी मज्जामुग्धाननामुग्धामकाराकारभूषणा यश स्विनीयतीशानीयत्नकर्त्रीयजुःप्रिया यज्ञधात्रीयज्ञफलायजुर्वेदृचांफलं यशोदाय पृ० ४४ब) तिसेव्याचयात्रायात्रिकवत्सला योगेश्वरीयोगगम्यायोगेंद्रजनवत्सला यदुपुत्रीयमघ्नी चयकाराक्षरमातृका रत्नेश्वरीरमानाथसेव्यारथ्यारजस्वला राज्यदाराजराजेशीरोग हर्त्रीरजोवती रत्नाकरसुतारम्यारात्रीरात्रिपतिप्रभा रक्षोघ्नीराक्षसेशानीरक्षोनाथसम र्चिता रतप्रियारतसुखारकाराकृतिशेखरा लंबोदरीललज्जिह्वालास्यतत्परमानसा लूतातंतुवितानास्यालक्ष्मीर्लाजालयारिणी लोकेश्वरीलोकधात्रीलाटस्थालक्षणा कृतिः लंकालंबकचोल्लासालकाराकारवर्धिनी लिंगप्रीताकलिंगेशीलिंगस्थालिंग लिंगिनी लिंगेश्वरीलिंगरसालिंगमालालसद्द्युतिः लयदालक्षणालोलालकाराक्षरमा तृका वाराहीवरदात्रीचवीरसूर्वीरसूदिनी वीरेश्वरीवीरजन्यावीरचर्वणचर्चिता वरा युधावराकाचवामनावसनाकृतिः वधूतावधकावध्यावध्यभूर्वणिजप्रिया वसंतलक्ष्मी र्वटुकीवटुकावटुकेश्वरी वटुप्रियावामनेत्रावामाचारैकलालसा वांतावाप्यावरारोहावे दमातावसुंधरा वयोयानावयस्याचवकाराचारमातृका शंभुप्रियाशरश्चर्चाशाद्ब लाशशवत्सला शीतद्युतिःशीतरसाशोणोष्टीशीकरप्रभा श्रीवत्सलांछनाशर्वाश पृ० ४५अ) र्ववामांगवासिनी शशांकामललक्ष्मीश्चशार्दूलतनुरद्रिजा शोथहर्त्रीशमीमूलाशका राकृतिशेखरा षोडशीषोडशोत्तंसाषाडाषोढाषडानना षट्कूटाषड्रसास्वादाषडशी तिमुखांबुजा षडास्यजननीषण्ठाषवर्णाक्षरमातृका सारस्वतप्रसूःसर्वासर्वगासर्वतो मुखा समासीतासतीमातासागराभयदायिनी समस्तपापशमनीसालभंजीसुदक्षिणा सुषुप्तिसुरसासाध्वीसामगासामवेदजा सत्यप्रियासोममुखीसूत्रस्थासूतवल्लभा सन केशीसुनंदाचसुवर्गस्थासनातना सेतुभूतासमस्ताशासकाराकारवल्लभा हालाहलप्रि याहेलाहाहारावविभूषणा हाहाहूहूस्वरूपाचहलधात्रीहलप्रिया हरिनेत्राघोररूपाह विष्याहेतिवल्लभा हंक्षंःलंक्षंःस्वरूपाचसर्वमातृकपूजिता ओंऐंसौंःह्रींमहाविद्याशांआंफ्रां हूंस्वरूपिणी इतिश्रीशारिकादेव्यामंत्रनामसहस्रकं पुण्यंपुण्यजनस्तुत्यंनुत्यंवैष्ण वपूजितं इदंयःपाठयेद्देविश्रावयेद्वाशृणोतिवा सेवभगवान्देवःसत्यंसत्यंसुरेश्व रि एककालंद्विकालंवात्रिकालंपठतेनरः वामाचारपरोदेवीतस्यपुण्यफलंशृणु मूकत्वंबधिरत्वंचकुष्टंहन्याश्चश्वित्रिकां वातपित्तकफान्गुल्मान्रक्तस्रावंविषूचिकां पृ० ४५ब) सद्यःशमयतेदेविश्रद्धयायःपठेन्निशि अपस्मारंकर्णपीडांशूलंरौद्रंभगंधरं मासमात्रंप ठेद्यस्तुसरोगैर्मुच्यतेध्रुवं भौमेशनिदिनेवापिचक्रमध्येपठेद्यदि सद्यस्तस्यमहेशानिशा रिकावरदाभवेत् चतुष्पथेपठेद्यस्तुत्रिवारंरात्रिव्यत्पये दत्त्वाबलिंसुरांमुद्रांमत्स्यंमांसं चभक्तकं बकुलत्वग्रसाकीर्णंशारीप्रादुर्भविष्यति यःपठेद्देविलोलायांचितायांशव सन्निधौ पायंपायंत्रिवारंतुतस्यपुण्यफलंशृणु ब्रह्महत्यांगुरोर्हत्यांपुरापानंचगोवधं महापातकसंघातंगुरुतल्पगतोद्भवं स्तेयंवाभ्रूणहत्यांचनाशयेन्नात्रसंशयः सेव हिरमापुत्रोयशस्वीलोकपूजितः वरदानक्षमोदेविवीरेशोभूतवल्लभः चक्रार्चनेपठेद्य स्तुसाधकःशक्तिसन्निधौ त्रिवारंश्रद्धयायुक्तःसभवेद्भैरवेश्वरः किंकिंनलभतेदेविसा धकोवीरसाधकः पुत्रवान्धनवांल्लोकेसत्याचारपरःशिवः शक्तिंसंपूज्यदेवेशिपठेत्स्तो त्रंपरामयं इहलोकेसुखंभुक्त्वापरत्रत्रिदिवंव्रजेत् इतिनामसहस्रंतुशारिकायामनोहरं गोप्यंगुह्यतमंलोकेगोपनीयंसुयोनिवत् इतिश्रीरुद्रयामलेतंत्रेदशविद्यारहस्येशा रिकामंत्रनामसहस्रंसंपूर्णम् || पृ० ४६अ) ओंनमोदेव्यै श्रीभैरवुवाच शृणुदेविप्रवक्ष्यामिस्तोत्रंमंत्रात्मकंपरं पंचांगभूतंसर्व स्वंमंत्रकोटिफलप्रदं अस्यश्रीशारिकास्तवराजस्य श्रीमहादेवृषिः त्रिउष्टुप्छंदः श्रीशारिकादेवता शांबीजं श्रींशक्तिः फ्रांकीलकं श्रीविद्यासिद्ध्यर्थेस्तवराजपाठे विनियोगः अथध्यानं बालार्ककोटिद्युतिमिंदुचूडांवारासिचक्राभयबाहुमाद्यां सिंहाधिरूढांशिववामदेवलीनांभजेचेतसिशारिकेशीं १ त्र्यक्षंत्र्यक्षेतवमनुशिरोमौ लिमाणिक्यभूतं ध्यायेच्चित्तेशशिधरकलाबिंदुबिंबावतंसं योमंत्रेशोजपतिमनसामा ननीयोमहद्भिः धन्यःपुण्यैःसभवतिमरुद्बीज्यमानोमरुत्वान् २ पराबीजंतेजोनि धिमधिमनोयःप्रजपते जगन्मोहध्वांतामितपटलसूर्योदयमिदं सलोकेशोभूत्वावि चरतिमहामांत्रिकमणिः धरायांवानाकेफणिपुरियथेच्छंत्रिभुवने ३ माबीजमानं दजमिंदुबिंबचूडंजपेद्यस्तवमंत्रमध्ये सदेविदेवेश्वरविष्ठरार्धनिविष्ठीषन्मदिरारुणा क्षः ४ कूर्चंचमत्कारलसत्प्रसादंजपेच्छिवेयःस्मरकेलिलोलः हुंकारमात्रेणसवैरि वर्गंहत्वाभवेद्भूपतिसार्वभौमः ५ गजार्णमाकर्ण्यजपेत्क्षणंयोमृगेक्षणापीनकुंचांतर पृ० ४६ब) स्थः समेनकाकामरणप्रवीणोलीलावतीकेलिकलांकरोति ६ शून्यंबीजंमंत्रमध्येजपे द्योमूढोजाड्यांम्बोधिमध्योर्मिभग्नः तस्यास्याब्जानिःसरंतेसुवाचोगद्यैःपद्यैर्मद्यसारप्र चाराः ७ कल्याणबीजंयदिसाधकेंद्रोजपेच्छिवेचेतसिवार्धरात्रे सभोगवांल्लभ्यपरो नरेंद्रोभोगावतींप्राप्यभवेद्भवेशः ८ श्रीशारिकायैतवमंत्रमध्येयोनाममंत्रंजपतेमहे शि तस्याजिभूमौरिपुवर्गलक्ष्मीर्वशेभवेत्साधकलोकमौलेः ९ अश्मरीबीजमीशा नियोजपेदर्धरात्रके सिंहासनाभगवतीवरदादर्शनप्रदा १० बिंदुत्रिकोणवसुकोण सुवृत्तनागपत्त्रत्रिवृत्तधरणीगृहमंडलस्थां बालार्कबिंबसदृशाननबिंबपद्मांयोध्याय तेंबसभवेद्भुविसार्वभौमः ११ योबिंदुःसपितामहोहरिरसौसूर्यःस्वराःकीर्तितोयेरेफो दुरितौघमर्दनकरोरुद्रःसदागीयते यःप्राणाःसपरःसेवभगवान्नादःशिवःसर्वदा देवीचंद्रकलाकलंकरहितामायेतितुभ्यंनमः १२ श्रीशारिकास्तवमिमंपठतेप्रभाते योवार्धरात्रसमयेर्चनकर्मकाले इंद्रःसुरासुरयतःस्वयमेत्यतस्यपूजांविधायदधतेत्रिदि वाधिपत्यं १३ इतीदंदेविपंचांगंशारिकायारहस्यकं सर्वस्वंपरमंगुह्यंत्रैलोक्योद्धरणक्ष पृ० ४७अ) मं १४ पुण्यंपवित्रमायुष्यंश्रेयस्करयशस्करं मकारैःपंचभिःपूज्यंसाध्यंसाधकस त्तमैः संरक्ष्यंपुत्रवद्देविदर्शयेदिष्टवित्तवत् इदंरहस्यमाख्यातंशारिकासारमुत्तमं अभ क्तायनदातव्यंकुचैलायदुरात्मने निंदकायान्यशिष्यायसमंत्रीनिरयीभवेत् श्रीदेव्यु वाच भगवन्भवतानेनपंचांगकथनेनहि क्रीतास्मितवदास्यस्मिकिमन्यत्कथयामिते श्रीभैरवुवाच पंचांगंतत्त्वमीशानिशिलासर्वस्वमुत्तमं गुह्यंगोप्यतमंदेविगोपनीयंमु मुक्षुभिः इतिश्रीरुद्रयामलेतंत्रेदशविद्यारहस्येश्रीशारिकाभगवतीस्तवराजःसमाप्तः || अथमहागणपतिजपविधिः अस्यश्रीमहागणपतिमंत्रस्य श्रीब्रह्माऋषिः गायत्रंच्छं दः श्रीमहागणपतिर्देवता गंबीजं ह्रींशक्तिः नमःकीलकं श्रीवज्रविद्यासिद्ध्यर्थेजपेवि नियोगः अथन्यासः ब्रह्माऋषयेनमःशिरसि गायत्रंच्छंदसेनमोमुखे श्रीमहागणपति र्देवतायैनमःहृदि गंबीजायनमःगुह्ये ह्रींशक्तयेनमःपादयोः कुरुकुरुकीलकायन मःनाभौ सर्वविद्यासिद्ध्यर्थेजपेविनियोगःसर्वांगेषु अथकरन्यासः गांअंगुष्ठाभ्यांनमः पृ० ४७ब) गींतर्जनीभ्यांस्वाहा गूंमध्यमाभ्यांवषट् गैंअनामिकाभ्यांहुं गौंकनिष्ठिकाभ्यांवौषट् गः करतलपृष्ठाभ्यांफट् गांहृदयायनमः गींशिरसेस्वाहा गूंशिखायैवषट् गैंकवचा यहुं गौंनेत्रत्रयायवौषट्गःअस्त्रायफट् अथध्यानं गजवदनमचिंत्यंतीक्ष्णदंष्ट्रंत्रिनेत्रं वृहदुदरमनंतंदंतमालेदधंतं परशुचषकपद्मद्वंद्वहस्तारविंदं हरियुगलनिविष्टंश्रीगणे शंभजामि अथमूलविद्या ओंश्रींह्रींक्लींग्लौंगंगणपतयेवरवरदसर्वजनमेवशमानयस्वा हा गुह्यातिगुह्यगोप्तीत्वमित्यादौ योनिमुद्रयाप्रणमेत् || अथवामदेवजपविधिः अस्यश्रीवामदेवभैरवमंत्रस्य श्रीकालाग्निरुद्रृषिः त्रिष्टुप्छंदः श्रीशारिकेश्वरोवामदेवोदेवता ह्रांबीजं वांशक्तिः ओंकीलकं श्रीविद्यासाधनेजपेविनियो गः श्रीकालाग्निरुद्रयेनमःशिरसि त्रिष्टुप्छंदसेनमोमुखे श्रीशारिकेश्वरोवामदेवोदेवता यैनमोहृदि ह्रांबीजायनमःगुह्ये वांशक्तयेनमःपादयोः ओंकीलकायनमःनाभौ जपे विनियोगःसर्वांगेषु वांअंगुष्ठाभ्यांनमः वींतर्जनीभ्यांस्वाहा वूंमध्यमाभ्यांवषट् वैंअनामि पृ० ४८अ) काभ्यांहुं वौंकनिष्ठिकाभ्यांवौषट् वःकरतलकरपृष्ठाभ्यांफट् वांहृदयायनमः वींशि रसेस्वाहा वूंशिखायैवषट् वैंकवचायहुं वौंनेत्रत्रयायवौषट् वःअस्त्रायफट् अथध्यानं पूर्णेंदुकोटिप्रभमिंदुचूढंकपालखट्वांगगदासिहस्तं भस्मास्थिमालांचितगात्रमाद्यंश्री वामदेवंशिवमाश्रयामि ओंह्रांवांवामदेवायनमः जपांते गुह्यातिगुह्य योनिमुद्रयाप्र णमेत् || अथश्रीस्कंदपुराणेश्रीदेवीगाथा हरिहरपंकजयोनिसमर्चितपादयुगेविजये कृतम हिषासुरदर्पनिवारणतत्क्षणलब्धजये भगवतिदेविमहाभयनाशिनीनिर्मलभक्ति परे जयजयदेविममामृतवर्षिणिदर्शनमेहिपरे १ सकलचराचरविश्वकृतस्थितिस र्गमहाप्रलये मनुजसुरासुरकिन्नरसिद्धसुरेंद्रकृपानिलये दितिसुतसुंभनिसुंभर णस्थलनिर्मलजीवलये जयजयदेविममामृतवर्षिणिदर्शनमेहिपरे २ परमसमा धिपरायणसज्जनहृत्कुहरांतरगे भवमलकर्दममग्नशरीरसमुद्धरणेसुभगे स्वय पृ० ४८ब) मनिरुद्धभुजंगमपाशनिकृंतनिदिव्यभगे जयजयदेविममामृतवर्षिणीदर्शनमेहिपरे ३ असितकृशोदरदैवतयापरिपूर्णशरीरधरे रिपुरुरुदानवदेहविनिर्गतरक्तनिपानकरे वसु दशबाहुविलग्नभुजंगमकंकणकांतिधरे जयजयदेविममामृतवर्षिणिदर्शनमेहिपरे ४ उपवनकोकिलषट्पदनिःस्वनमंजुलसद्वचने भवार्णवदुस्तरदुःखनिवारणकारिणिसा धुजने सितकरपंकजबंधुहुताशनमूर्तिकचन्नयने जयजयदेविममामृतवर्षिणीदर्शनमेहि परे ५ अनुपमडामरयागविमोहितमोहितमुग्धहरे नवनवतांडवडबरघट्टितसर्वविरिंचि परे जननिचसद्गुरुवक्त्रनिवासिनिचित्त्रचरित्रधरे जयजयदेविममामृतवर्षिणिदर्शनमेहि परे ६ अविरतपीठचतुष्टयवासिनिमातृगणैःसहिते हृदयपथाब्जनभोगतनिर्मलवा सवचापलते असितसितारुणनीलहरिद्रसमाश्रितरूपशते जयजयदेविममामृतवर्षि णिदर्शनमेहिपरे ७ त्रिभुवनमोहिनिकालकलंकिनिवामनयेवितते दिनकरकोटिश तप्रविभासिनिभारतवर्षमते अनिहितकुंडलिनीकुहरोत्थितनिश्चलधूमलते जयजयदे विममामृतवर्षिणिदर्शनमेहिपरे ८ प्रमथितसेंद्रमुनींद्रसुरौघविशांपतिदक्षमुखे भुवि पृ० ४९अ) मधुकैटभदानवमांससुभक्षिणिघोरमुखे अविनवनिर्मलकांतिधराननपापहरेविजये जयजयदेविममामृतवर्षिणिदर्शनमेहिपरे ९ भगवतिपंचमुखेश्वरिरुद्रसुखासनगे समये अकृतकवेदचतुष्टयमातरिहस्वयमेवदये त्रिजगतिनित्यमनुग्रहशायिनिसाधुज नेसुभगे जयजयदेविममामृतवर्षिणिदर्शनमेहिपरे इतिश्रीस्कंदपुराणेदेवीगाथाः || ओंश्रीगणेशायनमः वंदेदेवींशारिकांमोक्षदात्रींसर्वस्थांतांसर्वतोमोहदात्रीं मिथ्यामृ त्युप्राप्तिदुर्भीतिदात्रींसद्भक्त्याहंमूर्ध्निचंद्रांशधात्रीं १ तारंबीजंयोजपेदंबभक्त्यासंसाराब्धे स्तारकंशारिकेते ब्रह्मज्ञानप्रौढयाप्रज्ञयायंवाचांनाथस्यापिकुर्याद्विहासं २ ईशंसा ब्जंवह्निसंस्थंसपद्मंबीजंतेन्पद्यःस्मरेत्तंस्मरंति नाकेदेव्योभूतलेनागपत्न्योभूमौनार्योवि ह्वलामारबाणैः ३ लक्ष्मीबीजंदुर्लभंदुर्जनानांसम्यग्भक्त्यायोजयेच्छुद्धबुद्धिः पद्मानि त्यंदर्शनंवीप्सुरस्यद्वारेतिष्ठत्यादराच्चंचलापि ४ ईशंसाब्जंवामकर्णोर्ध्वसंस्थंबीजंतेन्प द्योजपेत्तस्यशत्रुः सर्वैर्देवैरप्यजप्यःक्षणेनदृष्टेःपाताद्यामगेहातिथिःस्यात् ५ ईशंबी पृ० ४९ब) जंवक्त्रवृत्तेनयुक्तंसाब्जंयोन्यत्संजपेद्वह्निसंस्थं भुक्तिर्मुक्तिःसद्विचारस्ययुक्तिर्भक्तिश्चैत द्धस्तयाताभवंति ६ साब्जंबीजंवक्त्रवृत्तंजपेद्यःसम्यग्भक्त्याशुद्धहृच्छारिकेते वाणीनाना सद्रसैजृंभितश्रीर्नित्यंवक्त्रेतिष्ठतिप्रौढमस्य ७ साब्जंबीजंवक्त्रवृत्तेनयुक्तमस्थ्यात्माख्यं योजयेच्छारिकेते जीवन्मुक्तश्चेहभुक्तादिभोगांल्लीनःपश्चात्त्वत्पदेस्याद्भवानि ८ एतद्बी जप्रांतगांशारिकायाइत्याख्यांतेसंजपेद्योनमोंतां तत्तेधामप्राप्यतेतेनशश्वद्गत्वाभूयःशो च्यतेनैवयत्र ९ संस्तौमित्वांत्वामिमामाश्रयेहंसेवेदेवीमेवसर्वैकशक्तिं त्वामत्युच्चैर्गद्ग दंसंब्रवीमिसर्वांसार्वांसर्वतोभावयामि १० जातःसोसौसत्कुलेतस्यधन्यामातातस्मि न्संगताआशिषश्च ज्ञातंसर्वंतेनशंभुप्रियायाःसम्यक्पूजानिर्मितायेनभक्त्या ११ भ क्तिःपुष्णात्यन्वहंमांत्वदीयानित्यंयद्वत्पूर्णचंद्रोदयोब्धिं त्वद्भक्तेःसत्संपदाप्राप्तयाहंजि ष्णोर्लक्ष्मींचाप्युपेक्षेपुरोगां १२ एतत्सर्वंत्वन्मयंदेवदेवित्वंचिद्देहाकेवलासुप्रसिद्धा ना नास्त्यज्ञानंक्वापितस्मात्क्वदृष्टोवंध्यापुत्रश्चापमारोप्यधावन् १३ आशास्तेमेदेवभावंन चिंतंसूतेःकालेस्त्रीवभोगंकदाचित् त्वत्सद्भक्त्यानृत्यतिप्राप्तयालंगायन्श्रुत्वामेघनादं पृ० ५०अ) शिखीव १४ साकाभूमिर्यत्रनास्तिस्थितिस्तेसाकावाणीनोच्यसेवाययात्वं कोसौशब्दःश्रू यसेयत्रनत्वंकोसौभावोयत्रतेभासनंनो १५ त्वत्पद्भक्त्यर्कोदयात्संप्रफुल्लंहृत्पद्मंमेत्यद्भु तात्सद्रसेद्धं नित्यंयस्मिन्सर्वदाकांक्षणीयासर्वैस्तिष्ठत्यादरान्मोक्षलक्ष्मीः १६ ज्ञान स्वामिप्राप्तसद्बुद्धिसारज्ञातज्ञेयःसर्वतःस्वात्मभावी स्तोत्रंमंत्रोद्धार्यदःशारिकायाःसा हिब्कौलोवंशदेव्याश्चकार १७ योवाप्येतत्कीर्तयत्स्तोत्रमाढ्यंसम्यग्भक्त्याश्रोष्यतिश्रा वयेद्वा निर्मंत्रोपिप्राप्नुयाद्देवदेविनिःसंदेहंमंत्रजंसत्फलंसः १८ इतिश्रीमहामाहे श्वरभट्टाचार्यसाहिब्कौलविरचितंशारिकास्तोत्रंसंपूर्णं || ओंश्रीगुरवेनमः नमस्कृत्यमहादेवंविश्वव्यापिनमीश्वरं वक्ष्येशिवमयंवर्मसर्वरक्षाकरंनृ णां शुचौदेशेसमासीनोयथावत्कल्पितासनः जितेंद्रियोजितप्राणःचिंतयेच्छिवमऽ व्ययं २ हृत्पुंडरीकांतरसन्निविष्टंस्वतेजसाव्याप्तनभोवकाशं जितेंद्रियंसूक्ष्ममनंतमा द्यंध्यायेत्परानंदमयंमहेशं ध्यानावधूताखिलकर्मबंधश्चिरंचिदानंदनिमग्नचेतः ष पृ० ५०ब) डक्षरन्याससमाहितात्माशैवेनकुर्यात्कवचेनरक्षां मांपातुदेवोखिलदेवतात्मासंसारकू पेपतितंगभीरे यन्नामदिव्यंवरमंत्रमूलंध्वनोतुमेसर्वमघंहृदिस्थं सर्वत्रमांरक्षतुविश्वमू र्तिर्ज्योतिर्मयानंदमयश्चिदात्मा अणोरणीयानुरुशक्तिरेकःसीश्वरःपातुभवादशेषात् योभूस्वरूपेणबिभर्तिविश्वंपायात्सभूमौगिरिशोष्टमूर्तिः योपांस्वरूपेणनृणांकरोति संजीवनंसोवतुमेजलेभ्यः कल्पावसानेभुवनानिदग्ध्वासर्वाणियोनृत्यतिभूरिलीलः सकालरुद्रोवतुमांदवाग्नेर्वात्यादिभीतेरखिलाश्चपापात् प्रदीप्तविद्युत्कनकावभासः सदावराभीतिकुठारहस्तः चतुर्मुखस्तत्पुरुषःत्रिनेत्रःप्राच्यांस्थितोरक्षतुमामजस्रं कुठारवेदांकुशपाशशूलढक्काक्षमालाहिगणान्दधानः चतुर्मुखोनीलरुचिस्त्रिने त्रःपायादघोरोदिशिदक्षिणस्यां कुंदेदुशंखस्फटिकावधातोवेदाक्षमालावलयाभयां कः दिशश्चतुर्वक्त्रुरुप्रभावःसद्योथजातोवतुमांप्रतीच्यां वराक्षमालाभयढक्कहस्तः सरोजकिंजल्कसमानवर्णः त्रिलोचनश्चारुचतुर्मुखोमांपायादुदीच्यांदिशिवामदेवः वराभयेष्ठंकुशपाशसार्ङ्गकपालढक्काक्षत्रिशूलपाणिः सितद्युतिःपंचमुखोवतात्मामी पृ० ५१अ) शानमूर्ध्वंपरमप्रकाशः मूर्धानमव्यान्ममचंद्रमौलिःभालंममाव्याद्धरभालनेत्रः नेत्रेममाव्या द्भगनेत्रहारीनासांसदारक्षतुविश्वनाथः पायाच्छ्रुतिंमेश्रुतगीतकीर्तिःकपोलमव्यात्सततं कपाली वक्त्रंसदारक्षतुपंचवक्त्रोजिह्वांसदारक्षतुकेतुजिह्वः कंठंगिरीशोवतुनीलकंठःपा णिद्वयंपातुपिनाकपाणिः दोर्मूलमव्यान्ममधर्मबाहुर्वक्षःस्थलंदक्षमखांतकोव्यात् ममो दरंपातुगिरींद्रधन्वामध्यंममव्यान्मदनांतकारी हेरंभतातोममपातुनाभिंपायात्कटिंधूर्जटि रीश्वरोसौ ऊरुद्वयंपातुकुवीरमित्रोजान्वद्वयोव्याज्जगदीश्वरोसौ जंघद्वयंपुंगवकेतुरव्यात् पादौममाव्यान्सुरवंद्यपादः महेश्वरःपातुदिनादियामेमांमध्ययामेवतुवामदेवः त्रियंबकः पातुतृतीययामेवृषध्वजःपातुदिनांतयामे पायान्निशादौशशिशेखरोमांगंगाधरोरक्षतुमां निशीथे गौरीपतिःपातुनिशावसानेमृत्युंजयोरक्षतुमांप्रभाते गृहस्थितंरक्षतुशंकरोमां स्थाणुःसदापातुबहिःस्थितंमां तदंतरेपातुपतिःपशूनांसदाशिवोरक्षतुमांसमंतात् ति ष्ठंतमव्याद्भुवनैकनाथःपायाद्व्रजंतंप्रमथादिनाथः वेदांतवेद्योवतुमांनिषण्णंममाव्ययःपा तुशिवःशयानं मार्गेषुमांरक्षतुनीलकंठःशैलादिदुर्गेषुपुरत्रयारिः आरण्यवासादिमह पृ० ५१ब) त्प्रयासेपायान्मृगव्याधुदारशक्तिः कल्पांतकालोग्रकटुप्रकोपस्फुटाट्टहासश्चलितां डकोशः घोरारिसेनावतुदुर्निवारमहाभयाद्रक्षतुवीरभद्रः पत्यश्वमातंगघटावरूथि नांसहस्रलक्ष्यायुतकोटिभीषणं अक्षौहिणीनांशतमाततायिनांच्छिंद्यान्मृडोघोरकुठा रधारया निहंतुदस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलंत्रिपुरांतकस्य शार्दूलसिंहर्क्षमृगादि हिंस्रान्संत्रासयेद्विश्वघनःपिनाकः दुःस्वप्नदुःशकुनदुर्गमदौर्मनस्यदुर्भिक्षदुर्व्यसनदुःस हदुर्यशांसि उत्पातशापविषभीतिमसद्ग्रहार्थेव्याधीश्चनाशयतुमेजगतामधीशः ओंनमो भगवतेसदाशिवाय सकलतत्वात्मकाय सकलतत्त्वविदूराय सकललोकैककर्त्रे सकललो कैकभर्त्रे सकललोकैकहर्त्रे सकलनिगमगुह्याय सकललोकैकवरप्रदाय सकलदुरिता र्तिभंजनाय सकलजगदभयंकराय शशांकशेखराय शाश्वतनिजावासाय निराहाराय निष्प्रपंचाय निर्द्वंद्वाय निःसंगाय निर्गुणाय निरुपमविभवाय निराधाराय नित्यशुद्ध परि पूर्णचिदानंदानंताद्वयपरमप्रकाशाय तेजोमयाय जयजय महारुद्र भवावतारमहाभैरव क पालभैरव कालांतकभैरव कपालमालाधर खट्वांगचर्मपाशांकुशडमरुत्रिशूलचापबाणाऽ पृ० ५२अ) सिगदाशक्तिभिंडिपालतोमरमुद्गरप्रासपरिघभुसुंडिशतघ्निचक्रायुधभीषणकर सहस्रमु ख दंष्ट्राकरालविकटाट्टहासविस्फाटितब्रह्मांडमंडल नागेंद्रकुंडल मृत्युंजयांतकातक कामां तक त्रिपुरांतक विरूपाक्ष विश्वरूप विश्वेश्वर वृषभवाहन विश्वभूषण षड्भूषण विश्वतोमु ख सर्वतोमुख सर्वतोरक्षमांज्वलज्वल महामृत्युपमृत्युभयंनाशयनाशय चौरान्नाशयनाश य शत्रून्नुच्चाटय२ त्रिशूलेनविदारय २ कुठारेणभिंद्धि२ खट्वांगेनविपोथय२ मुसुलेननि ष्येषय२ रक्षांसिभीतय२ भूतानिविद्रावय२ कूष्मांडवेतालमारीगणब्रह्मराक्षसगणान्सं त्रासय२ ममाऽभयंकुरुकुरु विश्वस्तमाश्वासय२ दुःखांतरंममाऽऽनंदय२ क्षुधार्तिनिवारय २ नरकभयान्मामुद्धारय २ शिवकवचेनमामाऽऽच्छादय २ ओंसदाशिवायनमोनमस्ते वृ षभुवाच इतीदंकवचंशैवंपरमंव्याहृतंमया सर्वबाधाप्रशमनंरहस्यंसर्वदेहिनां यःस दाधारयेन्मर्त्यःशैवंकवचमुत्तमं नतस्यजायतेक्वापिभयंशंभोरनुग्रहात् क्षीणायुःप्राप्तमृ त्युर्वामहारोगहतोपिवा देहांतेमुक्तिमाप्नोतिशिववर्मानुभावतः सद्यःसुखमवाप्नोतिदी र्घमायुश्चविंदति सर्वदादिद्र्यशमनंसर्वमंगल्यवर्धनं योधत्तेकवचंशैवंसदेवैरपिपूज्यते म पृ० ५२ब) महापातकसंघातैःमुच्यतेचोपपातकैः देहांतेमुक्तिमाप्नोतिशिववर्मानुभावतः इतिश्रीवृषभ प्रोक्तंशिवकवचंसमाप्तमोमितिशिवं || संवत् १९४५ भाद्रवदि ९ गुरुवासरान्वितायां लिख्यतंपंडितकृष्णेनशुभमस्तुसर्वजगतां || ########### END OF FILE #######