#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00226 Uniform title: śivajñānasiddhi Main title: śivajñānasiddhi svapakṣa ḍṛṣtāntasaṅgrahaḥ Manuscript : IFP/EFEO transcript T00317 pages 968 to 1118 Description: Copied from IFP/EFEO transcript T00317 pages 968 to 1118 Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### शिवज्ञानसिद्धि स्वपक्ष दृष्टान्त सङ्ग्रहः || अभीप्सितार्थसिध्यर्थं पूजितोयस्सुरैरपि | सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः || वन्दे कुन्देन्दुधवलं दन्तभिन्नान्तरायकम् | दानधारापतत्भृङ्ग सङ्गीतं कुञ्जराननम् || श्रीमदभ्र सभामध्ये नित्यमानन्द ताण्डवम् | कुर्वाणमुमया सार्धं सेव्यमानं शिवंभजे || कैलासद्वार पार्श्वस्थं ब्रह्मविष्ण्वादि वन्दितम् | श्रीनन्दिकेशरं वन्दे सुयशावल्लभं प्रभुम् || सत्यज्ञानिनमाचार्यं सम्यक् बोधप्रकाशकम् | तच्छिष्य अरुणन्द्याख्य अकरोछाशास्त्र मानमत् || परपक्षावबोधाख्यं शतत्रयमकारयत् | उपोत्घाते पञ्चवृत्तं प्रमाणे तु चतुर्द्दश || प्. ९६९) आद्ये सप्तति वृत्तानि द्वितीये नवतिश्च षट् | तृतीयेपि च चत्वारि चत्वारिंशच्चतुर्थके || पञ्चमे नवकं पश्चात्तत्संख्या षष्ठसूत्रके | सप्तमे तु चतुष्कोनञ्चत्वारिंशत्तथाष्टमे || नवमे द्वादश प्रोक्तं दशमे षट्प्रकीर्तितम् | एकादशे द्वादशं च द्वादशे सप्तकं स्मृतम् || स्वपक्षन्तु ततः पश्चात् सप्तविंशछ्शत त्रयम् | एवं पक्षद्वयोपेतं सप्तविंशति षट्छ्शतः || श्रीमत्तिल्लवने पुण्ये गुहामठमुपासयन् | निगमज्ञान नाम्ना तु प्रख्यातो भून्महीतले || तन्नामधारितश्शिष्यस्संप्रदाय प्रवर्त्तकः | इत्थं व्यवहितं शास्त्रं मवलोक्य यथामति || तत्प्रामाणिक सिध्यर्थं मूलशास्त्र प्रसिद्धये | उद्धृत्यागम शास्त्राणि चाकरोछ्शास्त्रमुत्तमम् || स्वायम्भुवे - वचनेनापि तुष्टि स्यादुत्तमस्याधिकारिणः दृष्टान्ते नैव तुष्टि स्यान्मध्यमस्याधिकारिणः येन केनापि तुष्टि स्यादधमस्याधिकारिणः | अजिते - लोकायतोथ बौद्धं चाथार्हं मीमांसमेव च | मायावादं पाञ्चरात्रं षडेते समया बहिः भीमसंहितायाम् - प्. ९७०) गोष्ठिवत्समयं भेद क्षीरवछ्शिवमुच्यते | शिवं सर्वगतं शान्तं भजेन्नित्यं शिवाश्रतः || अजिते - आदिमध्यान्त निर्मुक्त स्वभावविमलः प्रभुः | सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमैः || चिन्त्यविश्वे - पूर्वोक्त दीक्षया युक्तं शिष्यं विज्ञान दीक्षया | दीक्षयेत् कृपया पूर्णो गुरुस्सन्मार्गदायकः || मनोव्यापारमात्रेण या दीक्षा विद्यते क्रमात् | सा दीक्षा ज्ञान दीक्षा च विज्ञानाख्या स वै भवेत् || * * * * * प्रदेशे * * वोस्थाने शिरस्थाने विशेषतः | श्री पादौ शिरसा धृत्वा स्वात्मज्ञान * * बोधयेत् || शिवधर्म्मोत्तरे - संस्कृतैः प्राकृतैर्वाक्यैर्यश्शिष्यमनुरूपतः | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || ये चान्यासक्त हृदया यजन्तीशं प्रसङ्गतः || तेषामिष्टन्ददातीश स्थानं भावानुरूपतः | प्. ९७१) तथा चोक्तमाचार्यै - ये चात्र शुद्ध भुवनोद्भव भोगकामा स्त्वामर्चयन्ति * * * * * * * * * * | * * * * * * * * * * * * * केभ्यो भोगन्ददासि तदनन्तरमेव मोक्षम् || रत्नत्रये | वायव्य संहितायां च | यतो वाचो निवर्तन्ते न प्राप्यमनसा सह | आनन्दं यस्य वैशद्यन्नबिभेति कुतश्चन || स्कान्दे - ब्रह्माच्युतादिभिर्देवैः वेदैरपि वितर्क्कितम् | च्छन्दो रूपं शठात्मानश्शक्तास्तोतुं कथम् प्रभुम् || पौष्करे - अधुना श्रोतुमिच्छामः प्रमाणानि कृपानिधे | उत्तरम् || श्रुणुध्वमथमानानि श्रोतुं कौतूहलं यदि || सिद्धतन्त्रे - त्रिपदार्थ प्रमाणाय प्रमाणानि दशोच्यते | प्रत्यक्षं प्रथमं प्रोक्तन्द्वितीयमनुमानकम् || तृतीयं शब्दमित्युक्तम भावन्तु चतुर्थकम् | अर्थापत्तिः पञ्चमन्तु समानं षष्ठमेव च || प्. ९७२) ऐतीहं नवमं प्रोक्तं दशमन्तु स्वभावकम् | दर्शनेप्यनुमाने च शास्त्रेन्तर्भूयते दश || (चका) सिद्धतन्त्रे - विकल्प भेदसन्देहं विना ज्ञेयं सुदर्शनम् | वस्तुतो विद्यमानार्था विनाभावाख्य हेतुना || अनुमानं च शास्त्राख्यमनुमेयं च साधयेत् | सुप्रभेदे - अक्षादिकरणैर्द्दृश्यं प्रत्यक्षन्तदिहोच्यते | लिङ्गेन लिङ्गि विज्ञानमनुमानमिति स्मृतम् || आप्तोक्ति वचनैर्गम्यं शब्दमेतदुदाहृतम् | पौष्करे - द्व्यालम्बा संशया बुद्धिस्समानाकार दर्शनात् | विपर्ययोन्यथा ज्ञानमतद्रूपं प्रतिष्ठितम् || अक्षादि करणैर्दृश्यं प्रत्यक्षं द्विविधं च तत् | वस्तु स्वरूपमात्रस्य ग्रहणन्निर्विकल्पकम् || नामजात्यादि सम्बन्धसहितं सविकल्पकम् | तथा सिद्धतन्त्रे - सिद्धार्थान्वयमन्वेति सन्देहं पूर्वमुच्यते | सुतरार्थं स एवेति भेदो विद्यवसीयते || प्. ९७३) नाम जाति गुणंकर्म्म चार्थपञ्च विकल्पते | पदार्थाभावभूतं च निर्विकल्पं स मौनवत् || सिद्धतन्त्रे - दर्शने तु चतुर्योगं मनश्चेन्द्रिय वेदना | अनुमानं स्वयं वेद्यमन्य वेद्यमिति द्विधा || त्रिकारण्यागमस्तन्त्र कलामन्त्रोपदेशवत् | पौष्करे - प्रत्यक्षन्त्रिविधमुक्तम् | एतच्चेन्द्रिय सापेक्षन्निरपेक्षन्तथैव च || अन्तःकरण सापेक्षमिति त्रिविधमिष्यते | प्रत्यक्षन्त्रिविधं प्रोक्तमक्षमानसचिद्वशात् || इति क्वचित्पक्षः | सिद्धतन्त्रे - प्रकृतिर्मध्यमा ज्ञेया किन्तु हि द्विप्रमाणतः | अन्यस्व जात्यतीतं च यत्तत्प्रकृतिरुच्यते || पूर्वं चतुर्विधाख्यस्य दर्शनस्य स उच्यते | ज्ञानेन्द्रिय कलापं च रूपायं चात्म संयुतम् || विकल्पादि विनाज्ञेयो यदा चेन्द्रियदर्शनम् | ज्ञानाक्षादि विनागम्यमक्षादि विषयादि च || प्. ९७४) मलिनं रोधितं ज्ञानं तद्धिमानस दर्शनम् || पौष्करे - अन्यच्चेन्द्रिय सापेक्षं स्यादाच्छाद निवृत्तये | इन्द्रिया पेक्षया शक्त्या तद्वारेणार्थ वीक्षणम् || अन्तःकरणसापेक्षं बाहेन्द्रिय जपेन तु | अन्तःकरणसापेक्षञ्चिच्छक्तेर्ध्येय सङ्गतिः || सिद्धतन्त्रे - आत्मज्ञानेन जीवाद्यैस्सुखदुःखादि भुञ्जते | आध्यात्मान्मुच्यते ह्येतत् वेदना दर्शनं भवेत् || समाधिभिस्समुत्सार्यं अन्यदेश चरित्रकम् | एव वासस्ततोज्ञेयो योगिभिस्साम्य दर्शनः || सिद्धतन्त्रे - त्रयः पक्ष स्त्रिहेतुश्च प्रत्येकं त्रिविधं भवेत् | तदिदं द्विविधं वक्ष्ये प्रशस्तमनुमानकम् || स्वार्थं परार्थमिति च स्वपर ज्ञानगन्ततः | हेतुभिः प्रतिविख्यातमन्यकस्य स्ववित्भवेत् || अन्वयि व्यतिरेकीति हेतुवाक्यमिदन्द्विधा | तथा पौष्करे - अन्वय व्यतिरेकी च केवल व्यतिरेकि च | प्. ९७५) केवलान्वयरूपेण क्रमेणपरिलक्ष्यते || सिद्धतन्त्रे - स्वपक्षस्समपक्षश्च परपक्षश्च जायते | स्वपक्षस्य दृशार्थं स्यात् समपक्षी पुटीदृशा || स्वमतार्थन्नयत्यर्थं परपक्षस्स उच्यते | तथा पौष्करे - साध्यधर्म्मयुतः पक्षः सपक्षस्तत्सधर्म्मयुक् | तद्विधर्म्मो विपक्षस्यात् अवस्थान्तर भेदवत् || प्रथमं हेतुरित्युक्तं द्वितीयं कार्यमीरितम् | तृतीयं चानुलब्धाख्यमेवं प्रकरणन्त्रिधा || अवस्थान्तर भेदत्वमेवं प्रकरणं विदुः | कार्यधूमक गन्तृत्वमग्नेर्द्दर्शनमित्यपि || शीताभावं हिमाभावं तत्ज्ञेयमनुलब्धकम् | पौष्करे - सा च व्याप्तिर्द्विधात्रेधा व्यतिरेक्यन्वयात्मिका | सिद्धतन्त्रे | धूमाग्न्योर्भवतः पाकगृहेसौ कथ्यतेन्वयी | पत्सवापीतले धूमन्नासीदितर उच्यते || पौष्करे - तच्चेह पञ्चावयवं प्रतिज्ञा हेतुरेव च | दृष्टान्तश्चोपनयना निगमश्चेति पञ्चमः || प्. ९७६) इष्टार्थोक्तिः प्रतिज्ञा स्याद्धेतुस्तद्व्याप्तिमद्वचः | दृष्टान्तस्तूचितोक्ति याद्धेतुर्यद्वत्परीक्ष्यते || दृष्टान्त पक्षयोर्व्याप्ति प्रस्तारं यदुपानयः | पुनः प्रतिज्ञा नियमो निगमस्यात्स हेतुकः || सिद्धतन्त्रे - पुनरप्यनुमानेन त्रिविधाख्येति चेत्कथम् | प्राग्दर्शनानुमानन्तद्द्वरे गन्धेन पुष्पवत् || अनुमानानुमानन्तु वागज्ञानमनुमानवत् | पुष्करे - आप्तोक्तिरागमार्थोपि परीक्षार्थैक साधनम् | प्रत्येक्षेणानुमानेन याति चार्थं सुनिश्चितम् || यो वेत्ति सोयमात्मा स्यात्तस्मादाप्तस्सदाशिवः | इदमत्र समाख्यातं प्रागुक्तन्त्रिविधागमः || अनादिशुद्ध सर्वज्ञ शिवेन कथितागमः | पूर्वापराविरोधं यत्तद्धितन्त्रं कला भवेत् || चित्तादि निश्चिलं कृत्वा तद्वत्कुर्याच्चानुकुलम् | आद्यन्तरहितो देवो भाव बोधोपदेशवित् || पक्षाभावस्तु चत्वारो हेत्वभात्वेकविंशतिः | सिद्धान्ता भात्वदर्शाष्टौ द्वाविंशन्निग्रहा स्मृताः || प्. ९७७) पञ्चषष्टिरिमे प्रोक्ता आभास? अथ प्रथम दृष्टान्तमुच्यते | अत्र सूत्रलक्षणं निश्वास कारिकाया मुक्तम् | तद्यथा | सूचनात्सूत्रमित्याहुस्सूत्रनाम महत्पदम् | तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव || तथोक्तम् पराशरपुराणे - अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् | अस्तोभमनवद्यं यत् सूत्रं सूत्रविदो विदुः || स्वायम्भुवे - स्त्री पुन्नपुंसकं ज्ञेयञ्जगत्सर्वं क्रमेणजम् | स्थितिस्संहारतो विप्र सर्वदा कर्तृ पूर्वकम् || अनादि मुक्तचिद्रूपः कृत्यकर्ताहरः प्रभुः | तथा शिवज्ञान बोधे - स्त्रीपुन्नपुंसकादित्वं जगतः कार्यदर्शनात् | अस्तिकर्त्ता सहृत्वैतत् सृजत्यस्मात्प्रभुर्हरः || स्वायम्भुवे - काषा?नित्या जगत्सृष्टि स्थितिर्ध्वंसक उच्यते | उत्तरम् | नानुमानागमावत्र चास्य कार्यस्य सम्भवे | दृष्टिवत् सर्वभूतेषु नाशोत्पत्ति प्रदृश्यताम् || प्. ९७८) अथ सर्वमतोपन्यासे - प्रत्यक्षेण हि सिद्धेद्धैनानुमानं प्रवर्तते | अनुमानेन साध्यं चेत् परतत्वं प्रसज्यते || स्वभाव इति भूतानां सृष्टिस्संहार उच्यते | उत्तरम् | पराख्ये - चतुर्णामपि भूतानां स्वभावो नैव दृश्यते | तस्मान्न कम्पते धात्री कमुष्णं दृश्यते कवचित् || वह्निन्निर्वाण मायाति वायुरुर्ध्व गतिः क्वचित् | भूतेषु हि स्वभाषेन किं पुनः कार्यसम्भवे || सृष्टिस्थित्यन्तनाशेन कार्यत्वेनान योगतः | जडत्वेनाप्यतोभूते सर्वतः कर्त्तृ पूर्वकम् || पराख्ये - स्वयमेव चतुर्भूतः सर्वकृत्यं करोत्यतः | फलप्रदम्तिति प्रोक्तं क्वचित्कर्ता च मा कुरु || उत्तरम् || भूताश्चतुष्टयाः ख्याता स्थित्युत्पत्ति लयास्सदा | आद्यन्तरहितो देवस्सर्वतोपि करोत्यसौ || शयश्च विशेषेण बूतानामुत्भवा * * * | भूताद्विनात्र कार्य * * * * * * * | * * * * * * * * * * * * * * * * * च्यते || प्. ९७९) द्वयोश्च कारणं मायेत्याहुरत्र विपश्चितः | पटाद्या यजमानेन कार्योत्पत्तिर्न दृश्यते || तथास्य स्यात् तु कार्य * * * * * | * * * * * * * * * * र्वतो भवेत् | निश्वासोत्तरे - स्वयमेवेति नास्ति स्यान्नास्ति कर्त्तैक वस्तु चेत् | तथैवा याति तस्य स्यान्नाशोत्पत्तिस्ततः कथम् || अस्ति कर्ता तथा च स्यात्तया तत्कार्य दर्शनात् | निश्वासोत्तरे - अह देहलयोत्पत्ति जडादृष्टं कथं भवेत् | उत्तरम् | श्रोतुमिच्छमि सर्वेषामितीदं शृणु पार्वति | आकाशाज्जायते वायुर्वायोरग्निरुदाहृतः || अग्नेज्जलञ्जलात्पृथ्वी भूतानां क्रममेव हि | एतेषां सर्वभूतानां संयोगो लोक उच्यते || अन्यत्र | एवं क्रमाल्लयः प्रोक्तस्तच्च कालान्तरेण तु | कारणे चिन्त्ये - यदि स तृणनाशोपि न चेच्छुण्वस्य पार्वति | प्. ९८०) वार्षादिवाङ्कुरन्दृश्यमभवत् स्वपथा जगत् | कारणे - कालस्त्रिभिश्चेतनश्चेत् कर्तृत्वं काल एव हि | उत्तरम् | उपादानेन जातेन नाशेनापि जडो भवेत् || अपि च | प्रपञ्चसृष्टिरित्युक्तं एककाले हि सम्भवः | तस्मान्महेश एव स्यात् कालवत्परिपालकः || कारणे - अखिलाख्यमणूनां च कर्म्मणां सम्भवात्ततः | उत्तरम् | यद्वच्च पूर्वमेवोक्तम् कर्म्मापि जडवत्भवेत् | घटस्यमृदुपादानन्दृष्ट्य यद्दृश्यते तथा || इदन्तदनुमानेन मायोपादान कारणम् | माया कारणमेवाहुरणूनां कार्यदर्शनात् || कारणे - जगतः कारणाख्याणु भूतकार्येति कथ्यते | कार्यावयव रूपेण दृश्येनापि घटादिवत् || यद्दृश्यं तद्विनाश्यं स्यान्मायोपादान कारणम् | सृष्टिस्थिति?संहारम् माया कार्यं विपश्चितः || कथं चेत्बीजशाखादि भूमाधारेण जातवात् | रत्नत्रये - यद्यदुत्पद्यते वस्तु तन्मायेयं कथा कला | उत्पत्तिनाशो मायाया धर्म्मावाह महेश्वरः || प्. ९८१) किरणे - तत्कार्यकारिका शक्तिः क्रियाख्य सूक्ष्मरूपिणी | स्थूलकार्यं च सूक्ष्मापि स्थितान्यग्रोधबीजवत् || जगत्कारण मायाख्य परिणामः कदाचन | माययात्र जगज्जातश्शशशृङ्गोक्ति जातवत् || वृक्षाच्छदो नापूर्वेण पश्चाद् वृक्षेषु जायते | कूततश्च तथैवोक्ता स्थिति स्यात् कारणं पुनः || कारणे - इयं कारण कार्येण ह्यनादाख्यं जगत्सदा | अतिप्रपञ्चन्तत्कर्त्ता सृष्टिकार्यात्ततो भवेत् || प्रश्नः | विश्वकारणं मायैव कथं कर्त्तेति नोच्यते | पराख्ये - अतोस्ति बुद्धिमान्कश्चिदीश्वरस्समव स्थितः | आदि प्रपञ्चन्तत्कर्त्ता चोपादानं परं स्मृतम् || प्रतिपन्न स्वकार्येण दृष्टेनात्रानुमानतः | अन्यथानुपपत्त्यावा तद्वदेवमनादिकम् || मूर्त्तास्सा वयवायेर्था नानारूपपरिच्छदाः | पतिर्विश्वस्य निर्म्माता पशुपाश विलक्षणः || अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् | अचेतनत्वादज्ञत्वादनयोः पशुपाशयोः || प्. ९८२) प्रधान परमाण्वादि यावक्रिंचिदचेतनम् | न तत्कर्तु स्वयन्द्रष्टुं बुद्धिमत्कारणं विना || जगत्कत्ता सापेक्षं कार्यं सावयवं युतः | तस्मात् कार्यस्य कर्तृत्वं पत्युर्न्न पशुपाशयोः || पराख्ये - निमित्तमीश्वराख्यं तद्दृष्टं सहकारणम् | उपादानं च यत्सूक्ष्मं सर्वकार्येषु संहितम् || य शक्तिश्चेश्वरो माया मृद्वच्चात्र कुलालवत् | तथा निश्वासे - यथा कार्ये घटाद्या तु कुम्भकारेण मृत्तिका | कार्याख्यं च जगत्सर्वं कारणेन करोति सः || क्रिया शक्त्या जगत्सर्वं कुरुते परमेश्वरः | कारणानान्त्रयन्तेन सर्वकार्येनुमीयते || निश्वासोत्तरे - बिन्दुमाये तयाव्यक्तः कारणत्रयमुच्यते | तस्याश्चतस्रो वाग्रूपा वृत्तयो वैखरीमुखाः || वैखरी मध्यमाचान्या पश्यन्ती सूक्ष्मसंज्ञिता | पौष्करे - कलाविद्या च रागश्च कालोनियतिरेव च | पञ्चैतानि च तत्वानि माये यानि द्विजोत्तमाः || प्. ९८३) मृगेन्द्रे - गुणधीगर्वचित्ताक्ष मात्राभूतान्यनुक्रमात् | पौष्करे - कर्तृत्वं द्विविधं विप्राः क्रियास्सङ्कल्पकोटयः | अष्टावनन्त पूर्वास्ते यथा पूर्वं गुणाधिकाः || परे सदाशिव समाः पतिकृत्यानुकारिणः | तत्त्वाध्वा भुवनाध्वा च वर्णाध्वा च पदक्रमः || मन्त्राध्वा व्यापकस्तेषां कलाध्वा बिन्दुमाश्रितः | बिन्दुपादान जन्यत्वात्तेषां बैन्दवमुच्यते || पौष्करे - चतस्रो वृत्तयस्तस्याः वाभिर्व्याप्तास्त्रिधाणवः | आभ्यो न परमो बन्ध आभ्यो मुक्तिस्तु नापरा || तन्निवृत्य विना भूतो दृक्क्रियावारको यतः | तथा निश्वासोत्तरे - आहुरेव जगत्सर्वं प्रवृद्धं शब्दवृत्तिभिः | न हि शब्दादृते पुंसः प्रत्ययोस्ति कदाचन || यदाशिव प्रसादेन ज्ञानं स्यान्मोक्ष अस्य तु | कालोत्तरे आगोपालाङ्गना बाला म्लेच्छाः प्राकृत भाषिणः | प्. ९८४) अन्तर्जलं गतास्सत्वास्तेपि नित्यं व्रुवन्तितम् || अस्यार्थः | तस्य वृत्तौ प्रपञ्चितः | रत्नत्रये - परिणामस्य कर्तृत्वेनज्ञा? वै वृत्तयस्तथा | परिणामस्ततोनन्तः यतः कर्त्ता ततस्तथा || निश्वासोत्तरे - रूपोरूपेन जातोपि विकारोप्यविकारवत् | अविकारे अरूपे खे भूतानाञ्जननादिवत् || विद्युद्धूम धनुस्तोयमेवा शनिजशब्दवत् | निश्वासे - यथा लोके घटाद्यास्तु कुम्भकाराम्मृदा तथा | कार्याख्यन्तु जगत्सर्वं कर्तृत्वेन करोति सः || प्रश्नः | अखण्ड परिपूर्णासावधि तिष्ठन्करोति सः | कालस्तरुष्वमूर्तोपि करोति कुंसुमोच्चयम् || फलानां च तथा तेषां पतनञ्च यथा निशम् | तथोत्पत्ति विनाशानां कर्त्ता शम्भुरमूर्त्तिमान् || तथा किरणे - यथा कालोह्यमूर्तोपि दृश्यते फलसाधकः | एवं शिवोह्यमूर्तोपि कुरुते कार्यमिच्छया || प्. ९८५) निश्वासोत्तरे - सर्वात्मनां च जननं मरणं च तथैव हि | कारुण्यात् क्लेशमालोक्य तेषां शम्भुः पुनस्तथा || कर्म्मणां पाचनार्थाय सृष्टिन्निर्म्माय पूर्ववत् | मृगेन्द्रे - स्वव्यापारान् बोधयन् बोधयोग्यान् रोध्यानुन्धन् पाचयन्कर्म्मिकर्म्म | मायाशक्तिं व्यक्तियोग्यां प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् || निश्वासोत्तरे - शिवः कृत्यत्रयं चैव कुरुतेप्यधिकारवान् | शिलागारेग्नि पक्वं च पत्मभूमौ रसक्षयम् || आदित्येन यथा दृश्यमीश्वरेण तथैव च | रुद्रो विष्णुस्तथा ब्रह्मसृष्टि स्थित्यन्त देवताः || आदौ कृत्यास्तिमान्प्रोक्तश्शिव एवेति तछ्श्रुणु | ब्रह्मा सम्पूज्यं भक्त्या तं लिङ्गं शैवमयं शुभम् || तस्य सम्पूजनादेव प्राप्तत्वं ब्रह्मत्वमुत्तमम् | इन्द्रनीलमयं लिङ्गं समभ्यर्च्य जनार्द्दनः || विष्णुत्वं प्राप्तवांस्तेन सोत्भूतैक सनातनम् | प्. ९८६) ब्रह्मादिस्तम्ब पर्यन्तञ्जगद्योनिश्चराचरम् | चराचरादिभूतानां प्राण भूतश्शिव स्मृतः || तथा वायव्ये परमैश्वर्य सम्पन्नाः परमेश्वर भाविताः | तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः || स्वायम्भुवे - संसृज्य विश्वं भुवनं गोप्तासन् सञ्जहार यः | एक एव तदा रुद्रो न द्वितीयोस्ति कश्चन || अतीता खल्वसंख्याता ब्रह्माणो हरयो यतः | स्कान्दे - संसारदुःखहरणात् प्रपञ्चहरणाच्चया | प्राक्तनैर्हर इत्याख्या भवतः परिकीर्तिता || प्रकृतौ प्रलये प्राप्ते नष्टे स्थावर जङ्गमे | ब्रह्मा विष्णुस्सुरास्सर्वे लयं यान्ति शिवं विना || स्वायंभुवे - पशुना देहसंयोगो भोगोमोक्षाय कथ्यते | तथापि सन्तश्चेत्याहुरनादिमलमोचकाः || पशूनां हारिमित्युक्तम् विस्मयं गमयेत् पदो | मलबद्धेन स्रष्टाख्या तत्तत्कर्म्ममलं गतम् || प्. ९८७) स्थितिर्जननमन्तोयं कर्म्मयोगेत्वहंकृतिः | विवक्षया पशूनान्तु विद्यमानमनुग्रहः || तथान्यत्राजगत्सा * * * * * * * * * | * * * * * * * * तेषु कः कर्तृरूपकः || उत्तरम् || एवमेतत्त्रयं चोक्तन्तस्य रूपमुदाहृतम् | तथा सुप्रभेदे - तछ्शरीरं त्रिधाज्ञेयं निष्कलं * * ष्कलम् | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * * * * | * * * * * योगिनां शक्तिः ग्रहणे मोक्षणेपि च || तद्वदेव हि बोद्धव्यं ग्रहणं मोचनं विभोः | मायात्मक * * * * * त्तमम् || मृगेन्द्रे - मूलाद्या शाम्भवाच्छाद्यवपुर्न्नस्तादृशं विभोः | तस्यैव पाशमुक्तत्वात् ज्ञानं केन निवार्यते || मतङ्गे - अथ शक्ति स्वरूपश्चेत् परिणामोहि दृश्यते | नित्यानन्दस्य रूपं च षडध्वा मार्गवत्भवः || प्. ९८८) डं?किणिपता | विश्वे सर्वपदार्थेपि रूपारूपन्न योगजम् | सशिवोपि च पथ्येषु तथाप्येको भवेत्पुनः || बन्धमोक्षपदार्थो न नाद्यन्तो नापि संश्चसः | न लक्ष्यते तया तस्य क्वचित्भाव विनिश्चितः || चिन्त्ये - निरामयो निराधारो वर्णरूपविवर्जितः | सर्वज्ञस्सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः || यस्साक्षी सुखदुःखानां लोकेस्मिन्सर्व वस्तुनि | स एव भगवान्व्यापी चाप्रमेयोप्यनौपमः || पौष्करे - स्वस्वेच्छा मात्रतस्तस्य स्वशक्ति किरणात्मिकः | मूर्तिमासाद्यते यस्मात् सद्योमूर्तिरिति स्मृतः || वातुलोत्तरे - रूपमादाय कृपया कथ्यते चागमार्णवान् | तथोपपन्ना सर्वस्य गुरुसन्तानपादुका || तथा किरणे - एवन्न कुरुते तावद्यावन्नो गुरुसन्ततिः | कुरुतेनुग्रहन्देवस्सर्वेषामेव देहिनाम् || प्. ९८९) किन्तूपदेश कर्तृत्वात् स गुरुस्तेन सश्शिवः | यद्यसौ सकले नैव नाममन्त्रगुरुक्रमः || किन्तूपदेशेन विना तदा भवति निष्फलः | यद्येवन्न भवेत् तत्थ्यं तदा न स्यात् गुरुक्रमः || पुंसामनुग्रहार्थाय परोप्यरतां गतः | कृत्वा मन्त्रात्मकन्देहं वल्कि? तन्त्राण्यनेकधा || बोध्यबोधक सम्बन्धाद्वक्ति तन्त्राण्यनेकधा | वातुलोत्तरे - यद्रूपं तत्कृपा तस्य शिव सृष्ट्यादिकन्तथा | साङ्गोपाङ्ग इतीशस्य भोगदं मोक्षदं प्रभोः || तदुक्तं कारणे - नेत्र नासाग्र कर्णोश्च पाणीपादतलाङ्गुलीः | जटामकुट सम्युक्तं साङ्गं चेति प्रकीर्तितम् || वस्त्रोपवीत माल्यानि चायुधाभरणानि च | गङ्गाचन्द्र अपस्मारनाग्रकूर्म्मन्ततः पुनः || आसनादीनि सर्वाणि चोपाङ्गमिति कीर्तितम् | वातुलशुद्धाख्यायाम् - अङ्गप्रत्यङ्गसाङ्गानि चतुर्थोपाङ्गमित्यपि | प्. ९९०) सुप्रभेदे - रुद्रैकादश पूर्वस्तु द्वादशादित्य संयुताः | वसवश्चाश्विनीयुक्तास्त्रय स्त्रिंशति देवताः || स्कान्दे - ब्रह्मादि देवताश्चान्या नैव संसारमोचकाः | एषामेव हि जन्तूनां महासंसार वर्त्तिनाम् || संहारमोक्षकस्तेषां सर्वज्ञस्साम्ब ईश्वरः | शुद्धाख्यायाम् - नानारूपधरो देवो नानाभोग समन्वितः | नानाचिह्न समोपेतो नानालीलाधरोहरः || महेशं सकलं विद्यात् सृष्टिस्थितिलयात्मकम् | तथा वायव्ये - चरितानि विचित्राणि गुह्यानि गहनानि च | दुर्विज्ञेयानि देवस्य मोहयन्ति मनांसि च || वीरतन्त्रे - सोमास्कन्दस्तु पूर्वस्यात् सुखासीनस्ततः परम् | कल्याणसुन्दरश्चैव चन्द्रशेखर एव च || गङ्गाधरश्च पञ्चैते सृष्टिरूपा उदाहृताः | वृषवाहोर्धनारीशः किरातो वीर एव च || प्. ९९१) भिक्षाटन पराश्चैते स्थिति मूर्त्तय ईरिताः | नर्तको मदनारिश्च कालदन्तिपुरद्विषः || जलन्धरघ्नश्चैते षट् भेदास्संहारमूर्तयः | शैवे एकादश रुद्रसंहितायाम् कदाचिद्रहसि प्रीतानिजाज्ञावशवर्त्तिनः | रमणञ्जानती मुग्धा पश्चादभ्येत्य सादरम् || कराभ्यां कमलाभाभ्यां नेत्रमस्य जगत्पतेः | पिदधे लीलयाशम्भोः किं भवेदिति कौतुकात् || अन्धकारो भवेत्तीव्रं चिरकालभयङ्करम् | निमेषार्धेन देवस्य जग्मुर्वत्सर कोटयः || देवी बिलादुत्थेन तमसा भूज्जगत्क्षयः | तमसा पूरितं विश्वंमपरेण समन्ततः || रुद्धास्ते सूरयो भक्ताश्शम्भुमानम्य तुष्टुवुः | इति तेषां वचश्रुत्वा भक्तानान्नियतात्मनाम् || विकासिते तु फालाक्षे जग्राह विश्वरन्तमः | विश्वसाक्षीति गौरीयं करुणामूर्त्तिरन्ध्रवित् || विससर्ज च सा देवी पिधानं हर चक्षुषोः | सोमसूर्याग्नि रूपाणां प्रकाशैरभवज्जगत् || प्. ९९२) लैङ्गे - गत्वा तदाश्रमं शम्भोस्तदारत्या तया सह | वसन्तेन सहायेन देवं योद्धुं मनोह्यभूत् || ततस्संप्रेक्ष्य मदनं हसन्नेव स्त्रियम्बकः | नयनेन तृतीयेन सावज्ञन्तमवैक्षत || ततोस्य नेत्रजो वह्निर्मदनं पार्श्वत स्थितम् | अद्रहत् तत्क्षणादेव लीलावान् करुणानिधिः || स्थितये ह्याश्रमाणां च हितार्थं भगवान्भवः | तदा हैमवतीन्देवीमुपयेमे यथा विधि || चिन्त्ये - निसर्गस्थिति संहारं यस्मिन्नेव निगद्यते | तथा कामिके - देवदानव गन्धर्वमुनयो मनुजादयः | पिपीलिका गजाद्यन्ता जङ्गमास्थावराश्चये || तेनुग्राह्या स्मृताशास्त्रेनुग्राह्या बहुधा मताः | वातुलशुद्धाख्यायाम् - सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणम् | योगिनामुपकाराय गृह्णाति स्वेच्छयातनुम् || शिवस्सदाशिवश्चैव महेशस्त्रिविध स्मृतः | शिवस्तत्त्व महासेन निष्कलन्त्वितिकीर्तितम् || प्. ९९३) सकलन्निष्कलोपेतं सादाख्यमिति चोच्यते | महेशस्सकलं विद्यात्त्त्रिविधास्ते भवन्ति वै || सुप्रभेदे - निष्कलं च कलाहीनं कलाभिस्सकलं भवेत् | सकलाकलमिश्रं यत्तस्मात्तस्मात् सकलनिष्कलः || परन्निष्कलमित्युक्तमपरं सकलं स्मृतः | परापरन्तु यत्प्रोक्तन्तत्स्यात्सकलनिष्कलम् || वातुलोत्तरे - अध्वमूर्तिरिति ख्यातिः परमेतत् कथं प्रभो | उत्तरम् || नित्येनापि च पूर्वेण चिदचिच्चेष्टितेन च || वेदागमेषु शास्त्रेषु चाध्वामूर्तिरिहोच्यते | तदुक्तं ब्रह्मशम्भुपादैः - शान्त्यतीत कलामूर्धां शान्तिर्वक्त्र सरोरुहः | विद्याकला तु वक्षोङ्गं प्रतिष्ठा गुह्यमण्डलम् || निवृत्तिर्ज्जानु जङ्घाङ्घ्रि भुवनाध्वा तनूरुहाः | वर्णत्वङ्मन्त्र रुधिरं पदं मांस सिरादिकम् || तत्त्वं मज्जास्थि शुक्लादि धातवः परमेष्ठिनः | सदाशिवष्षडध्वात्मा तस्य प्राणश्शिव स्मृतः || तथा स्वायम्भुवे - प्. ९९४) तत्त्वं पदं च मन्त्रं च वर्णं च भुवनं कला | अध्वामार्गस्समाख्यातो व्यापकत्वं शिवस्य तु || अयाध्वा कल्प्यते तथ्यं व्यापकत्वं तथा गतम् | वातुलोत्तरे - किं कारणेन मन्त्राध्वा देवस्य तनुरुच्यते | उपादानमतश्शक्तिर्बिन्दुभिर्म्मोहितञ्जगत् || चिन्तयारहितं यत्तत्परमं परमं परिकीर्तितम् | मन्त्रयोनिर्म्महामाया या परिग्रह वर्त्तिनी || कालोत्तरे - तस्मिन्प्रजायते मन्त्रस्तत्रैव प्रविलीयते | वातुलोत्तरे - शिवश्शक्त्याधिष्ठितस्तु मन्त्राध्वा तेन कीर्तितः | भुक्तिमुक्ति प्रदामन्त्रास्त्वर्च्चिता शिवमध्वरैः || अनुग्रहाय लोकस्य शिवोमन्त्र इति स्मृतः | यात्वनुग्राहिका शक्तिस्सामरस्यमिहागता || मन्त्रेषु पञ्चमन्त्रस्थ युक्तन्तन्त्रेषु वक्ष्यते | उत्तरम् | आत्मनोनुग्रहार्थाय स्वेच्छया स च कथ्यते || पञ्चमन्त्रतनु श्रीमान् सकलः परिपठ्यते | मतङ्गे ईशानं प्रथमं ब्रह्म ततस्तत्पुरुषात्मकम् || प्. ९९५) तृतीयमप्यघोराख्यं वामदेवात्मकन्ततः || पञ्चमं सद्य इत्युक्तम् ब्रह्म सर्वार्थसाधकम् | प्राधान्येन स्थिता ह्येता विद्यामन्त्राश्च सुव्रत || ईशानी पूरणीहार्दि वामामूर्त्तिश्च पञ्चधा | एताभिस्समवेतोसौ शक्तिभिस्सममधिष्ठितः || तथा पौष्करे - एवं मन्त्रास्तु पञ्चैते तैर्निबद्धा तनु * * * * * | * * * * * * * * * * *र्थ शङ्कितः || वायव्ये - ब्रह्मादयोपि लोकानां सृष्टि स्थित्यन्त हेतवः | ब्रह्माविष्णुस्ततो रुद्रस्सृष्टिस्थित्यन्त देवताः || आदौ कृत्याप्तिमान् प्रोक्तश्शिव एवेति तत्स्मृतम् | स्वा * * * * * * * * * * * * * * * || * * * * * * * * मोघाबलशालिनी | एकानेक विभागेन स * * * * * * शिवेच्छया || क्रिया त्रिधातु विज्ञेया वामाज्येष्ठा च रौद्रिका | तथा निश्वासोत्तरे - मन्त्र्याद्यनेक जन्तूनां भूपतेश्शक्तिभेदवत् | एक एव शिवश्शक्तिस्तथा कार्याह्य भेदतः || प्. ९९६) तस्माछ्शिवात्मिका शक्तिर्भोगमोक्षौ शिवेच्छया | चिन्त्ये शक्तिरूपं च कोवेत्ति महाविज्ञानमेव हि | क्रियया इच्छया ज्ञानैर्विना तछ्श्रुणु पार्वति || यावत्ज्ञानं क्रियायेच्छा तस्मात्ज्ञानं क्रियां विना | स्वायम्भुवे - यदेकेकोक्त गुणं शक्ति धर्म्मसामर्थ्यकन्द्विधा | ज्ञानशक्तिः क्रियाशक्तिरिच्छा ज्ञानक्रियात्रिधा || शिवेन सर्पजन्तूनां कारुण्यात्समुदाहृतम् | ज्ञानशक्त्या विजानाति क्रियया कुरुते जगत् || पराख्ये - चिद्रूपमात्मनो रूपन्दृक्क्रिया गुणलक्षणम् | ज्ञानरूप स्थितस्यापि स्वरूपन्दृक्क्रियात्मकम् || उत्तरम् - कर्तृशक्तिरणोर्न्नित्या वह्नीचेश्वर शक्तिवत् | तमच्छन्नतयार्थेषु नाभाति निरनुग्रहा || तथा मृगेन्द्रे - चैतन्यन्दृक्क्रियारूपन्तदस्त्यात्मनि सर्वदा | सर्वतश्च यतोमुक्तौ श्रूयते सर्वतो मुखम् || प्. ९९७) तदप्य भावमानत्वात् तन्निरुद्धं प्रतीयते | पौष्करे - केवलं ज्ञानमेवापि शिवमेवेति सुस्थितम् | तत्रैव | उपसंहृत कार्यात्मा यदा बिन्दुर्व्यवस्थितः || तदालयाह्वयन्तत्वं शिवतत्वं तदेव हि | चिन्त्यविश्वे - चिदचित् ग्राहकार्थोयश्शिवो मोक्षस्तुशक्तितः | अस्यैव चाविभागेयम् सा ज्वालेव हविर्भुजः || ज्ञानशक्त्या क्रियाशक्त्या समस्तन्तद्विजृम्भितम् | सदा शिवाख्यकन्तत्वं सकलन्निष्कलं भवेत् || क्रिया शक्त्युत् बणत्वं च ज्ञानशक्त्य पकर्षणम् | तत्र तत्प्रसरन्तत्वमीश्वराख्यमिदं भवेत् || क्रियाशक्त्यपकर्षेण ज्ञानशक्त्युत्वणन्तथा | विद्या तत्वस्य चोत्पत्तिर्ज्ञानगम्याभवत्तदा || इच्छाज्ञानक्रिया चैव शिवे स्थित्वा सदैव हि | स्वं स्वं कार्यं प्रकुर्वन्ति सर्वानुग्रहकारणात् || किरणे - इच्छानुग्रह कर्तृत्वाल्लय भोगाधिकारवान् | त्रिविधं कृत्य भेदेन दर्शिनो नाम भेदत? || प्. ९९८) मृगेन्द्रे - शक्तोद्युक्त प्रवृत्तत्वात् कर्त्ता त्रिविध इष्यते | शक्तेः प्रवृत्ति भेदेन भेदस्तस्योपचारतः || कालोत्तरे - शिवश्शक्तिश्च सादाख्यमीश्वरस्तदनन्तरम् | शुद्धविद्या च पञ्चैते शुद्धतत्त्वम् प्रकीर्तितम् || मतङ्गे शुद्धदेहमिति प्रोक्तन्नित्यं स्वातन्त्र्यविग्रहम् | कृत्यभेदं विना पूर्वापरन्नप्रसरक्रमः || कालोत्तरेपि तथा | शिवैको बहुरूपस्तु नभसो बहुरूपवत् | सर्वेषामपि भावोपि यदर्थेन स्वभावतः || शिवश्शक्तिश्चेति वाक्यं वृक्षस्य कठिनत्ववत् | अन्यत्र | स्वर्णनीलादि संस्पर्शात् स्फटिकन्तन्मयं यथा | शिवोपि शक्तिभिर्भेद्यस्तयो स्वाभाविकञ्च तत् || शिवस्तु शक्तिभेदेन तत्स्वभावन्नमुञ्चति | मतङ्गे - प्रवृत्तौ शक्तयस्सिद्धाश्शक्तीनां कारणं शिवः | अकारणश्शिवः प्रोक्तस्तन्त्रेस्मिन् पारमेश्वरे || प्. ९९९) स्त्रियः पुमानिति जगत् सर्वं शक्ति शिवात्मकम् | सर्वस्यानुग्रहार्थं च लिङ्गपीठक्रमन्तथा || तथा वायव्ये - शङ्करः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी | सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव च भूतयः || सुप्रभेदे - लिङ्गेनलाञ्छितं पुंस्त्वं स्त्रीत्वं वै योनिलाञ्च्छितम् | लिङ्गमीशमयं प्रोक्तं योनिश्शक्तिमयं भवेत् || तस्माद्वे शिवशक्ती तु सर्वमेतच्चराचरम् | लिङ्गे शम्भुस्समुत्भूतो नाम्ना सोपि सदाशिवः || पीठे शक्तिस्समुत्भूता नाम्ना सापि मनोन्मनी | मकुटे - लिङ्गे च पीठिकायां च शिवशक्तिसमुद्भवः | मतङ्गे - रूपन्नास्त्यस्य नामादि नास्ति कृत्यं करोति च | तथादि योगो भोगो न चिदचिन्नास्त्यतश्शिवम् || सर्वेषां स्वयमेवस्यात्तन्मयो नास्ति यद्यपि | इत्यादिम सूत्रं पुर्णम् || प्. १०००) सर्वज्ञाबोधे - अन्यस्सन्व्याप्तितोनन्यः कर्त्ताकर्म्मानुसारतः | करोति संसॄतिं पुंसां आज्ञया समवेतया || चिन्त्ये - यस्य सन्निधिमात्रेण चेष्टन्ते सर्वजन्तवः | यस्य सत्भाव मुच्यन्ते त्रैययन्ते सकलागमाः || यत्स?माक्षी सुखदुःखानां लोकेस्मिन् सर्ववस्तुनि | अणोरणुर्म्महीयांश्च महतो यत्परापरम् || वेदान्तेष्वेक एवेति कथं बहुतयोच्यते | उत्तरम् || तेषु कर्त्तैक एवेति साध्यते परमार्थतः | वातुलोत्तरे - शिवस्तु सर्वजन्तूनामक्षराणामकारवत् | तथा शुद्धाख्ये - कला जीव इति ख्यातो विकला देह उच्यते | तथा किरणे - चराचरादि जन्तूनां शिवोसौ प्राणमुच्यते | प्. १००१) तं विना प्रसत्येव नाक्षराणामकारवत् | तथा शुद्धाख्ये - कलाजीव इति ख्यातो विकलादेह उच्यते | कला च विकला चैव देहि देहाविति स्मृतौ || कलाहीनं तु यद्वर्णं जीवहीनं विनिर्द्दिशेत् | विभुश्च तत्त्वैरात्मा च प्रत्येकं गणयेत् स्थितिम् || पराख्ये - कर्म्मणा देहसंयोगो विभोरपि महेश्वरात् | अशक्तत्वात् स्मृतो नास्य सामर्थ्यं कर्म्मयोजने || सिद्धान्त सङ्ग्रहे न कल्प्यौ सुखदुःखाभ्यां धर्म्मा धर्म्मौ परैरिह | स्वभावेन सुखी दुःखी जनोन्योन्यं न कारणम् || पराख्ये - जलेयदुष्ण गन्धत्वं कार्म्मिकं कृत्यतावशात् | देहिनां पुण्यपापाख्यं स्वभावेन शुभाशुभम् || तच्चैतन्यं स्वभावं हि तत्स्वभाव विपर्ययः | एकस्यारभ्यते दुःखं सुखानां वापि तज्जडम् || इहलोके यदात्मानम् बह्वर्थोस्ति सदा सुखम् | नास्ति दुःखादृते पूर्वकृतेनैतत्तथा यदि || प्. १००२) कृत्यन्नकृत्यतोप्यत्र स्वयमेवार्थ सम्भवः | सोत्साहेनापि गृह्योर्थस्तस्करेणापि गृह्यते || क्रमादिदं कृतं कृत्यं सुखदुःखादि भुञ्जते | तस्मात् पूर्वकृते नैव सर्वदा सर्वतः पशोः || जन्मक्षयं सुखं क्लेशं सुखदुःखादि भुञ्जते | त्वार्थकं कर्म्ममारणे - एतानि स्वस्वकर्म्माणि स्वाधिकारो निवर्त्तते | पुरुषे षोडशकले तमाहुरमृताह्वयम् || इति च | एवमुक्तन्तु षट्कर्म गर्भसाकल्य निश्चयम् | एवं पूर्वकृतं कर्म्म भोगतोत्र तु गच्छति || तथा सुप्रभेदे - मरणादीनि कर्म्माणि निर्म्मितानीश्वरेण तु | आयुष्यं विभवं कर्म्म विद्या च निधनं सुखम् || षट्कं संपाप्य तत्रैव ततो गर्भाशयं व्रजेत् | चिन्त्ये - देहे नैव कृतं कर्म्म देहे नैव गतन्तथा || तत्रैव | देहो हि एतच्चाणूनां क्षयेनात्म कलेवरम् | प्रारब्धकर्म्मणा चैव पुनः प्रारभ्यते तनुः || प्. १००३) अन्यत्र | नित्यन्तं च समायुक्तमन्योन्यं वटबीजवत् | तथा पराख्ये | यथात्मानादिना सिद्धस्सापेक्षा कर्म्मणि स्थितः | त्रवाहानादिता चेयमप्युच्छिन्ना भवे भवे || अन्यत्र || बीजाद्वृक्षस्समुत्पन्नो वृक्षाद्वीज समुद्भवः | चिन्त्ये - अत्र सञ्चय सम्भोगः पूर्वजन्मान्तरे विधिः | क्वचेत्प्रयोजनं पश्चाद्धिते नैव वरानने || तथैव पूर्वञ्चेतश्चेत् तत्क्रमेण पुनर्भवः | यथा धान्यादि सम्भुक्तिः प्रारब्धञ्जन बीजवत् || तथैवात्र हि जायन्ते जन्तवः पूर्वकर्म्मणा | तत्रैव | क्रिया विना न युज्यन्ते देही तास्ताः प्रवृत्तयः | पुण्यपापात्मिका जाता जन्मान्तर फलाङ्कुराः | एतत् पूर्वकरं ज्ञेयं भवस्या गामिनः किल || जायेते पुण्यपापौ तौ मनोवाक्काय कर्म्मभिः | एवमुक्तन्तु सर्वेषां योजकः कर्त्तुराज्ञया || स्वायम्भुवे - कर्म्मतद्द्विविधं प्रोक्तन्धर्म्मा धर्म्मात्मकं पशोः | आभोगस्थायि तद्विद्यात् फलद्वयविरोधि च || प्. १००४) धत्ते लोकानिमान् सर्वान् प्रीतिं च पुरुषस्तदा | धर्म्मस्तेनोच्यते तत्ज्ञैर * * * स्तद्विपर्ययात् || वायव्य संहितायाम् - अनादिकर्म्म वैचित्र्यमपिनात्र निवारकम् | करणं खलुकर्म्मापि भवेदीश्वर कारितम् || चिन्त्ये - महादुःखानि पापानि कारुण्यः परमश्शिवः | पशूनां युज्यते कस्मात् तदतो वदमे प्रभो || उत्तरम् | व्यापकस्य * * * * तत्कृत्यमात्मकृपै | * * * * * * * * पात्मनां कुर्यान्निग्रहन्तदनुग्रहम् || वायव्ये - सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् | सति गृण्हाति देवादीन् सर्वानुग्राहकः कथम् || चिच्छेद बहुशो द्वेत्रो ब्रह्म * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * पद्व्यामाक्रम्य हृदयन्नखरैः खरैः | सर्वं शिवोनुगृह्णाति न निगृण्हाति कञ्चन || अनिगृहीता ये दोषाश्शिवस्तेषामसम्भवात् | ये पुनर्न्निग्रहाः केचित् ब्रह्मादिषु च दर्शिताः || प्. १००५) देवलोकहितायैव कृताश्श्रीकण्ठ मूर्त्तिना || कारणे - तत्वतो निग्रहस्तस्य कर्त्तुः कारुण्यमेव हि | शिश्रन्मातापिता चेति लोकेस्मिन् शिक्षणीयवत् || सर्वमतोपन्यासे - ज्योतिष्टोमाद्यनुष्ठानाद पूर्वं कर्म्मणार्जितम् | स्वर्गादेः फलरूपस्य देवता न कृ देवता || कर्म्ममीमांसकाः प्राहरित्थं स्वमतलक्षणम् | कामिके - यज्ञादिकर्म्मणां चैव जीवानान्तु फलप्रदम् | औषधादि प्रयोगश्च दृष्टवत्फलसाधकः || एतादृशास्तु ये तेषां कर्तृता किं प्रयोजनम् | सर्वमतोपन्यासे | कामिके - तथा तत्कार्य दृष्टं चेद्यज्ञ कर्म्मफलादिकम् | पश्चात् प्रयोजनोक्तं च गुदयुत् मलवत्ततः || कामिके - द्रव्यादृते पदार्थानि दानकृत्फलयेत्ततः | जले च पात्रे चाग्नौ च कृतं कर्म्मफलं मुने || इह लोकेपि विद्यन्ते परकोकेपि विद्यते | कामिके - प्. १००८) स्वयं कृतं स्वयं वेद्यं ततो भुञ्जीत चेत्स्वतः || भूमौ नरकनाकेषु कुरुतेति किं गतागतम् | तस्मिन् क्वचिदपि प्रोक्तं महौद इतरेतरम् || कामिके - सर्वं चात्र गतो नाशं फलन्दृश्यं पुनर्भवेत् | योजकस्स महेशान औषधादीनि वैद्यवत् || कामिके - लोकादेहार्थ करणात् कालान्नियति कर्म्मणि | किंचित् ज्ञात्वा जडंकर्म्म शिवज्ञातो नियोजयेत् || सुशीलश्च कृपा चैव साचारश्चोपचारकः | तपश्शिला धर्म्म इष्टो नमस्कारादि सम्युतः || योसौ विनिर्म्मल ज्ञानं शिवस्यानुग्रहं भवेत् | शिवस्संपूज्यते योसौ मनोवाक्काय कर्मभिः || इष्टकाम्य फलं लब्ध्वा पश्चान्मोक्षमवाप्नुयात् | यत्र चाराध्यते येन तत्र वा देवतायताः || निरामयोर्धनारीशो यो वासौ सन्निधिर्भवेत् | सर्वस्रोतस्सारसङ्ग्रहे - येन येन हि रूपेण साधकस्संस्मरेत् सदा | तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः || प्.१००७) तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः | कामिके - प्रतिमाद्योपि पूज्यो सा वेवातोमनुजा भवेत् | ब्रह्मादिभिस्त्रियस्त्रिंशत्कोटि देवैर्म्महर्षिभिः || सर्वेषां वास्तु देवानां फलन्दद्यान्महेश्वरः | तस्मान् महेश्वरो नित्यं पूजनीयः फलार्थिभिः || शिवधर्म्मोत्तरे - स्थावरं जङ्गमञ्चेति लिङ्गद्वयमुदाहृतम् | स्थावरं स्थापितं लिङ्गं दीक्षितं जङ्गमं विदुः || जङ्गमस्यावमानेन स्थावरन्निष्फलं भवेत् | तस्माल्लिङ्गद्वयं प्राज्ञो वा वमन्येत सर्वदा || कृतावमानतो मोहात् स पशुर्न्नात्र संशयः | तथा चिन्त्य विश्वसादाख्ये - स्थावरं जङ्गमञ्चेति द्विविधं शिवपूजनम् | लिङ्गादि पूजनन्तत्र स्थावरन्नन्दिकेश्वर || लिङ्गिनां पूजनन्तत्र जङ्गमाराधनं भवेत् | पूजाकालेपि सान्निध्यं स्थावरे शिवतेजसि || जङ्गमे सार्वकालं च सान्निध्यं कुरुते शिवः | जङ्गमस्यावमानेन स्थावरो निष्फलं भवेत् || प्. १००८) दीक्षा * * * * * स्तु जातीनां दीक्षितस्य विशेषतः | जाति भेदविशेषोस्ति दीक्षितानान्तु सर्वदा || वागीशि गर्भजातत्वात् शिवत्वाच्छिव पुत्रकः | तस्या पत्यत्व सिद्धित्वाच्छैव मित्यभिधीयते || स्कान्दे ईश्वरः - मन्निमित्त कृतं पापं अपि धर्म्माय कल्प्यते | मामनादृत्य * * * * र्म्मापि पापस्यात् प्रत्यवायकृत् || ब्रह्माण्डपुराने - दक्षयज्ञे शिरश्च्छिन्नो मयातो यज्ञरूपिणा | तथा वायव्ये - कृत्वापि सुमहापापं भक्त्या यजति यश्शिवम् | मुच्यते पातकैस्सर्वैन्नात्र कार्या विचारणा || तन्त्रसारे - शिववाक्य प्रमाणस्थो मोक्षस्यान्नरकेतरः | तथा स्कान्दे - मदाग्रमेषु ये सक्ताश्चर्या योगक्रिया पराः | सा रूप्यादधिका मुक्तिस्तेषां सिध्येन्न संशयः || ये वैदिकाः पुनर्यागान्निष्कामाः कुरुते द्विजाः | त्रियधामप्य कुर्वन्ति मूर्त्ति * * * * * * * * || प्. १००९) * * * * * * * * स्तेनात्र संशयः | कामिके - राजाज्ञया यथा लोके क्रमात्कृत्यं करोति सः | बहुधैश्वर्यमाप्नोति दण्डसाध्यो विपर्यये || स्कान्दे वेदागम प्रसिद्धेषु येन तिष्ठन्ति पापिनः | चतुर्विधै * * * * * * * * * * * * * || शिवधर्म्मोत्तरे - पारदारिक चोराणामन्याय व्यवहारिणाम् | नृपतिश्शासकस्तेषां प्रच्छन्नानान्तु धर्म्मराट् || गुरुरात्मवतां शास्ताशास्ता राजादुरात्मनाम् | इह प्रच्छन्न पापानां राजा वै * * * व्याधितो द्विषट् | कर्तृ कृत्यन्तथा पश्येत् पक्षापक्षन्नतत्तथा || वायव्ये - एवं स्वभावमलिनान् स्वभावाद्दुःखिनः पशून् | स्वाज्ञौषध विधानेन दुःखान्मोचयते शिवः || संसारस्येश्व * * * * * * * * * * | * * * * * * * * * सर्वतत्वार्थ दर्शिभिः || प्. १०१०) शिवधर्म्मोत्तरे - वैद्यान्विना निराक्रान्ताः क्लिश्यन्ते रोगिणो यथा | शिवं विना जगत्तद्वन्निरा क्रन्दत्सदा भवेत् || व्याधीनां भेषजं यद्वत् प्रतिपक्षश्शिव स्म्र्तः | तस्मादना * * * * * * * * * * * * || * भुक्तं क्षीयते कर्म्मकल्पकोटिशतैरपि | मृगेन्द्रे - यथा क्षारादिना वैद्यस्तुदन्नपि न रोगिणः | कोटाविष्टार्थदायित्वाद्दुःखहेतुः प्रतीयते || तथा वायव्ये - नितरांज्ञो यथा वैद्यो * * * * * | * * * * जैस्तद्वल्लय भोगाधिकारकः | निदानज्ञस्य भिषजो रसान्मृगेण प्रयुञ्जतः || न किञ्चिदपि नैर्घृण्यं घ्राणैर्वात्र प्रयोजकः | कारणे - स्थूलेषु सूक्ष्मदेहेषु योनि भेदेषु कर्म्मतः | स्थित्वा सर्वत्र भु * * * * * * * * * * * * * * || शिवधर्म्मोत्तरे - अथ नारकिनां पुंसांमधर्म्मादेव केवलात् | प्. १०११) क्षणमात्रेण भूतेभ्यश्शरीरमुपपद्यते | तद्बद्धर्म्मेण चैकेन देवानां चोपपादिनः || सद्यः प्रजायते दिव्यं शरीरं भूतसारतः | कर्म्मणा यदि मिश्रेण सच्छरीरं महात्मनः || तत्भूत परिनामेन विज्ञेयं हि चतुर्विधम् | मतङ्गे ध्वस्ते पञ्चात्मके देहे सति पुर्यष्टके पशोः | शक्यते घटितं भूतैर्न्नान्यथा तु कदाचन || ततस्तृण जलूकेव देहाद्देहं विशेत्क्रमात् | अप्याप्योत्तरमंशेन देहन्त्यजति पूर्वकम् || तथा चिन्त्ये - देहिनां पुण्यपापेभ्यो देहमारभ्यते पुरा | यथा जीर्णानि वस्त्राणि त्यक्त्वा वस्त्रन्नवं वसेत् || तथा देहं परित्यक्त्वा देहान्तरमवाप्नुयात् | निश्वासे - सुकृते कर्म्मवो कृत्वे दुष्कृते च तथैव च | पुर्यष्टके युतोह्यात्मा वायु भूते व्यवस्थितः || विद्यमानेपि तद्देहे प्रत्यक्षन्न च दृश्यते | कारणे - प्. १०१२) पशूनां स्थूलसूक्ष्मश्च पन्नगाश्चाण्डजाश्चये | योनि भेदाश्च योगेन परकाय प्रवेशवत् || स्वप्नादिवद्विद्यात् भिद्यतेषु च विद्यते | कर्म्मतद्द्विविधं प्रोक्तं धर्म्मा धर्म्मात्मकं पशोः || समासात्रिमलाख्येषु इति कामिकमुच्यते | इति प्रोक्तमनाद्येतत् कर्त्ता राज्ञेति भुञ्जतः || किरणे - यथा नादिमलन्तस्य कर्म्माप्येव मनादिकम् | स्वायम्भुवे - कर्म्मतश्च शरीराणि विषयाः करणानि च | कर्म्मतस्सर्वमेवेदं सुखदुःखात्मकं फलम् || तथा सर्वज्ञानोत्तरे कर्म्मणा तु शरीराणि भवेत्कर्म्मोदयो भवेत् | पूर्वोर्झित कर्म्माणां भावस्संयोगकारकः || कारणे - चराचराख्य जन्तूनां योनि भेदाश्च कर्म्मतः | एतादृशे सदाभिन्नं लाञ्छितं विद्यते न हि || भूमौ धर्म्मार्जनं स्पष्टं भुंक्ते नैव च मानुषः | अतस्तथैव देवाश्च लाञ्च्छितं भिद्यते यतः || प्. १०१३) तथा भारते - पशवोपि तथा देहा देवाश्च पशवस्तथा | भ्रमत्भ्रमरकीटात्मा कीटोपि भ्रमरायते || तथा कारणे दृष्टवद्भिद्यते लोकः कोष्ठात्क्रामि क्रमिर्यथा | रामायणे - तस्यान्तरं विदित्वाथ सहस्राक्षश्शचीपतिः | मुनिवेषधरोहल्यामिदं वचनमब्रवीत् || ऋतुकालं प्रतीक्षन्ते नार्थिनस्सुसमाहिते | सङ्गमन्त्वहमिच्छामि त्वया सह सुमध्यमे || मुनिवेष * * * * सहस्राक्ष * * * * धुनन्दन | मतिं च कार * * * * * * * * कुतूहलात् || अथा ब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना | कृतार्थोसि सुरश्रेष्ठ गच्छशीघ्रमितः प्रभो || आत्मानं मांच देवेश सर्वथा रक्षमानद | इन्द्रस्तु प्रसहन्वाक्यमहल्यामिदमब्रवीत् || सुश्रोणि परितुष्टोस्मि गमिष्यामि यथा गतम् | इत्येवं सान्त्वयन्शक्रो निश्चक्राम ग्रहात्तदा || संभ्रमात्त्वरयन्यम शङ्कितो गौतमं प्रति | प्. १०१४) गौतमं सन्ददर्शाथ प्रविशन्तं महामुनिम् | गृहीत समिधन्तत्र सकुशं मुनिपुङ्गवम् || अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः | ममरूपं समास्थाय कृतवानसि दुर्म्मते || अकर्तव्यमिदं यस्माद्विफलस्त्वमिदं भविष्यसि | गौतमे नैव मुक्तस्तु सरोषेण महात्मना || इह वर्षसहस्राणि बहूनित्वन्निवत्स्यसि | वायु भक्षानिराहारा तप्यन्त्यश्मशरीरिणी || स्कान्दे - नारसिंहादिभिर्द्देहैः कुत्सितैस्तामसैस्तथा | अनेक दुःखबहुलैरभवच्छापतोहरेः || इत्युक्तो भृगुणा कृष्णो वेपमानश्चराञ्चितः | तदुक्तं कामिके - मत्स्य कूर्म्म वराहश्च नारसिंहश्च वामनः | रामो रामश्च रामश्च कृष्णश्चाश्वमुखस्तथा || स्कान्दे सनत्कुमार संहितायाम् - वेदारण्ये शिवस्याग्ने तूषो दीपं व्यबोधयत् | महाबलिस्समभवत् त्रैलोक्याधिपतिर्द्विजाः || प्. १०१५) कारणे सर्वं च कर्म्मतस्तस्मादिति प्रोक्ता मया पुरा | शिवधर्म्मोत्तरे - स्थावरा विविधाकारास्तृण गुल्मादि भेदतः | एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु || कालान्तरवशाद्यान्ति मानुष्यमतिदुर्ल्लभम् | पराख्ये - पशुत्वरुद्ध?चिच्छक्ते स्वातन्त्र्यन्न पशोरतः | कर्म्मचित्रं हि तत्तस्माद्योगजन्तदपेक्षते || योगजस्समहेशान स्वेच्छया बलवान्यतः | तथा मतङ्गे - कर्म्मणश्चाप्य चैतन्यात् प्राधान्यान्वेषतो मुने | जगदेतत् समस्तं स्यात् कर्म्मकर्तृवशाद्ध्रुवम् || कर्म्मणः करणं कर्ता स पुमानत्र कीर्तितः | कचांक पाश्च सर्वेषां मकुटाद्याश्च हेमवत् || मारेवस्यादुपादानं सर्वं तत्कर्त्तुराज्ञया | मृगेन्द्रे - तदा धाराणि कार्याणि शक्तिरूपाणि संहृतौ | तथा रौरवे - प्. १०१६) सूक्ष्ममायैक देशेन पतीच्छानुविधायिनी | श * * * * * * * * * * * * * * प्रपद्यते || द्वे व्यक्तिर्भवतस्तस्य युगपत्सृष्टिमिच्छया | व्यापृतौ व्यक्तिरूपाणि व्याप्रियन्तेर्थ सिद्धये || किरणे - तत्कार्यकारिकाशक्तिः क्रियाख्या सूक्ष्मरूपिणी | स्थूल कार्यस्य सूक्ष्मापि स्थिता न्यग्रो * * * * * || * * * * * * * * मूलं महान्तस्य मोहिनी | सर्वेषां बिन्दूपादानानं शक्तिश्शिवमतः परम् || आत्मा यदा श्रयेत् ब्रह्म सर्वोपाधि विवर्जितः | किरणे - कर्त्तुः कृत्यं च कारुण्यमिति प्रोक्तं मया पुरा | मुक्त्यर्थं स पशुर्बन्धो ना * * * * * * * || * * * * * * * * * * * तो न भोगभुक् | तत्कथन्देह संश्लेषो मनिवर्जित उच्यते || उत्तरम् - यथा वस्त्रं स दोषत्वान्मलान्तस्थं विशुध्यति | शुध्यर्थम् पुद्गलो बद्धो मायोदरगतोपि सन् || प्. १०१७) स्वायम्भुवे - माया तत्वञ्जात् * * * * * * * * * * * | * * * * * * * * नाद्यमव्ययमीश्वरम् || मतङ्गे - क्षोभितेनन्न नाथेन ग्रन्थिर्म्मायात्मको यदा | तदा स्वेन विकारेण तनोति विपुलञ्जगत् || साक्षान्नाया समुत्पन्ना कालाख्यन्नियतिः कला | सुप्रभेदे - त्रिविधं कालमा * * * * * * * * * * | * * * * * * कालं संहारञ्चेति कीर्तितम् || प्राणिनां चैव देवानां विनाशोत्पत्तिकारणम् | कलाश्च कुरुते यस्मात्तस्मादेवमुदाहृतम् || पौष्करे - कर्म्मणामार्जितानान्तु फलोपहरणे सति | तद्विनाशे * * * * * * * * * * * * * * * * || मृगेन्द्रे - प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् | प्रोत्सारणं प्रेरणं सा कुर्वीत तमसः कला || तत्वं विद्याख्यमसृजत् करणं परमात्मनः | प्. १०१८) तेन प्रकाशरूपेण ज्ञानशक्तिः प्रबोधिता | स * * * * * * * * * * * * * * * || * * * व्यक्त चिच्छक्ति दृष्टार्थोप्यपिपासतः || तैरेति जनकं रागं तस्मादेवा सृजत्प्रभुः | चिन्त्यविश्वे - पुरुषस्य प्रवृत्तेश्च निवृत्तेरपि सर्वदा | सामान्य हेतुरित्युक्तो रागतत्वस्यलक्षणम् || मत * * * * * * * * * * * * * * * * | भौक्तेत्येवं पुमान्प्रोक्तो भुङ्क्ते प्रकृतिजान्गुणान् || युक्तस्तन्मयतामेति यतोयं स स्थितः प्रभुः | तत्तत्वं तत्वसन्ताने पुमाख्यं परिकीर्तितम् || तत्रैव | अथ पुंस्तत्वनिर्देशं स्वा * * * * * * * | * * * * * * * * * * पुरुषाह्वयम् || मृगेन्द्रे - ततः प्राधानिकन्तत्वं कलातत्वादजीजिनत् | सप्तग्रन्थिनिधानस्य यत्तद्गौनस्य कारणम् || ततो बुद्धिरुपादानं गुणं सत्वरजस्तमः | तद्वृत्तयः प्रकाशाद्याः प्रवृद्धा * * * * * || * * * * * * * * * * * * * * योगतः | प्. १०१९) एकैक श्रुतिरेतेषां प्रत्याधिक्य निबन्धना | न तदस्ति जगत्यस्मिन्वस्तु किंचिदचेतनम् || यन्न व्याप्तं गुणैर्यस्मिन्नैको व्यामिश्रको गुणः | सुप्रभेदे - बोध्यत्वात् बुद्धिरेषा * * * * * * * * * | * * * * * पराबुद्धिरभवन्मुनिपुङ्गवाः || रजस्तमोभ्यान्न्यक् भूतावृत्तिस्सत्वेन चोत्कटा | सा बुद्धिरुदितातन्त्रे विषयाध्यवसायिनी || मृगेन्द्रे - बुद्धितत्वन्ततो नानाभाव प्रत्ययलक्षणम् | परन्तदात्मनो बुद्धे * * * * * * * * || * * * * * व्यक्तान्तरे बुद्धेर्गर्वोत्करणञ्चितः | चिन्त्य विश्वे - अहं वादि च सर्वं च करोति प्रबलोस्म्यहम् | एवं जीवन संरम्भ गर्वरूपमिति त्रिधा || स एव सात्विकं चापि विराडाख्यस्तु तामसः | तैजसं वै * * * * * * * * * * * * || सुप्रभेदे - मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् | प्. १०२०) मतङ्गे - द्वे द्वे कोटिमनस्सिद्धे शुद्धाशुद्धा च साधने | सङ्कल्पेन सरागेण स्फुरद्वीर्येण वेगतः || विनिष्क्रम्याक्षमार्गेण प्रोतयित्वा तदिन्द्रियम् | अ * * * * * * * * * * * श्च निवर्त्तते || चिन्त्यविश्वे - वैकारिकादहंकारादिन्द्रियाणि भवन्ति वै | पराख्ये - श्रोत्रन्त्वक् दृक्च जिह्वा च नासिका च मनोगणम् | शब्दैक ग्राहकंश्रोत्रं कर्णशष्कुलिकासनम् || खरोष्ण मृदुशीतात्मा * * * * * * * * * | रूपानुवेदनञ्चक्षुर्जातुर्गोलकसंश्रयम् || कद्व?म्लादि रसज्ञानञ्जिह्वाग्ररसनाश्रयम् | गन्धं गृण्हाति तत्प्राणं येन गन्धो न तन्यते || चक्षुश्श्रोत्रं च गृह्णाति गत्वान्यत्र यमागतम् | वाणी पाणिर्भगः पायुः पादः कर्म्माख्यपञ्चकम् || संस्कृते तरभाषा च वत्तिवाग्रसनाश्रया | ग्रहणं मोक्षणं यस्माद्धस्तेन्द्रिय निमित्तजम् || आनन्दो यो भवेदस्मिन्नोपस्थेन विना भवेत् | प्. १०२१) बन्धोत्सर्गोमरुच्चेष्टा पारिवन्द्रिय निमित्तजम् | बाह्याभ्यन्तर सङ्कल्पो भवेन्नमन सा विना || लङ्घनोत्प्लुतिवेगादि चिह्नं पादेन्द्रियानुगम् | देहे सर्वत्र कर्म्माक्ष व्याप्तं यत्तत्त्वगिन्द्रियम् || पौष्करे - कर्म्मात्र समवेता या क्रिया सक्ता हि पुत्गले | तदभिव्यञ्जकं यत्तत् कर्म्मेन्द्रियमिति स्मृतम् || तथान्यत्र | ज्ञानक्रियात्मशक्तिर्या सा पुद्गल समाश्रिता | सैव संलक्ष्यते शक्तिर्बुद्धिकर्म्मेन्द्रियात्मकैः || चिन्त्यविश्वे - बुद्धिन्द्रियस्य कर्म्माख्या बाह्याख्य करणाख्यकम् | शब्दादि वचनादिश्च बाह्यसूक्ष्माख्यमेव हि || करणार्थो समर्थत्वात्कार्यं संश्रुत्यतद्वति | तत्रैव | तत्र विद्यात्मनो भोक्त्या बुद्धि संज्ञाभवत्तदा || शब्दादि विषयांश्चापि यदा गृह्णाति चेतना | सैषा हि करणाख्यं स्याद्विद्यातत्वन्द्विधा भवेत् || क्ष्रीरस्य तक्रसंयोगाद्वधिनाम यथा भवेत् | क्षीरात्मत्वन्दधित्वन्तु नाम द्वित्वं यथा भवेत् || प्. १०२९) तत्त्वं विद्यैव बुद्धि स्यात् करणं च तथैव च | मृगेन्द्रे - * * * * * ध निमित्तं हि विद्यया व्यतिरिच्यते | रागोपि सत्यवैराग्यम् कलायोनिः करोतिकम् || पराख्ये - करणं करणापेशया?जाविभकरास्त्रवत् | किरणे - माया विरहि यत्प्रोक्तं कलाद्यव * * * * | * * * * चलः प्रोक्तंस्सूक्ष्म * * * * * या || मृगेन्द्रे - शब्दस्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः | गुणैर्विशिष्टास्तन्मात्रा स्तन्मात्र पदयोजिताः || प्रकाशकर्म्म कृद्वर्ग वै लक्षण्यात्तमो भवः | प्रकाश्यत्वाच्च भूतादिरहङ्कारस्तु तामसः || कालोत्तरे - शब्दस्पर्श च रूपं च रसोगन्धश्च पञ्चकम् | बुद्धिर्म्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् || पौष्करे - महाभूतानि जायन्ते क्रमात्तन्मात्र पञ्चकात् | प्. १०२३) सुप्रभेदे - आकाशस्य गुणश्शब्दो वायोस्तु स्पर्श * * * * | तेजसस्तु गुणं रूपं रसमापो गुणं स्मृतम् || पृथिव्यास्तु गुणं गन्धं व्योम्निखादीनि विन्यसेत् | विषयन्त्विति विख्यातं भूतानां गुणमुच्यते || कामिके - शब्दैकगुणमांकाशं स्पर्शशब्दगुणं मरुत् | शब्दस्पर्शरूपगुणः कृशानुः परिकीर्त्तितः || शब्दस्पर्शरूप रसगुणमम्भः प्रकीर्तितम् | शब्दस्पर्श रूपरसगन्धयुक्ता वसुन्धरा || एतावद्दशध कार्यं शरीरं सर्वदेहिनाम् | कामिके - अवकाश प्रदं व्योम व्यूहाख्यं मारुतक्रिया | पावकस्य क्रिया पाकोवापस्सङ्ग्रहण क्रिया || पृथिव्या धारणं कर्म्म भूतव्यापार ईरितः | चिन्त्ये - पृथ्वी स्वभावं कठिनं रूपन्तु चतुरश्रकम् | वर्णं स्वर्ण समाख्यातं क्ष्माकृत्यमितीरितम् || वज्रलाञ्छनमित्युक्तं देवो ब्रह्मेति कथ्यते | प्. १०२४) लकारं बीजमित्युक्तन्निवृत्तिश्च कलामयम् | संयुक्तं सद्यमन्त्रेण गदितः पृथिवी गुणः || द्रवमात्रस्ततो बिन्दुर्विशेषं पूर्वमुच्यते | स्वरूपन्दुरितं प्रोक्तन्त्रियक्षं रूपकन्तथा || रूपकं वामचन्द्रस्य श्वेतवर्णमथोच्यते | तस्य कृत्यं निपातं * ** * * * * * ञ्च्छितम् || पुरुषोत्तम दैवं च वकारं बीजमुच्यते | संयुक्तं वाममन्त्रेण प्रतिष्ठारूपतागतम् || आप्यलक्षणमित्युक्तं वह्निभूतमतश्श्रुणु | विशेषं महतः प्रोक्तं मौक्तिकत्वं स्वरूपयुक् || स्वभाव * * * * * * * * रूपमुच्यते | वर्णं रक्तमिति ख्यातं कृत्यन्दहनमुच्यते || स्वस्तिकं लाञ्छितं ज्ञेयं रकारं बीजमुच्यते | अघोरेणापि रुद्रश्च विद्यारूपन्निवासयेत् || वह्निलक्षणमित्युक्तं वायु भूतमथशृणु | * * * * * * * * चलनन्तथा || स्वभावं भेदमित्युक्तं षडश्रं रूपमेव च | वर्णं कृष्णमिति ख्यातं तत्कृत्यं सम्पूटी भवेत् || लाञ्छितं बिन्दुभिष्षड्भिर्युक्तन्दैवतमीश्वरम् | प्. १०२५) यं बीजेन समायुक्तमथ शान्तिकलामयम् | * * * * * * * * * * * * लक्षणम् || अतिसूक्ष्मं विशेषोक्तं स्वरूप स्थितिरेव च | स्वरूपं च निरालम्बं वृत्ताकारं च रूपकम् || वर्णन्धूम्रमिति ख्यातं कृत्यं सर्वलयोच्यते | लाञ्छितं चामृतं बिन्दुरधिदैवस्स * * * || * * * * * * * * * * * * * * * यम् | ईशानमन्त्रेण युतमित्युक्तं व्योमलक्षणम् || एकादश प्रकारेण समासाल्लक्षणोच्यते | चिन्त्यविश्वे - इति षट्त्रिंशत्तत्वानामुत्पत्ति क्रमनिर्णयः || शिवशक्तिश्च सादाख्यमी * * * * * | * * * * * * * * * * नयान्वयः || चिद्रूपया पराशक्त्या विग्रहन्तन्मयं भवेत् | तस्माच्चिद्रूप संज्ञाख्यं पञ्चानां शुद्धवाचकम् | मायादि सप्तरागान्तं मलव्यापकमात्मनाम् || तद्वन्मलानां संव्याप्य मव्यक्तादि * * * * | * * * * * * * * * * * * * यैव च || प्. १०२६) रागः पुरुष इत्येवं सप्तानां मिश्रतत्वकम् | नात्मवच्छेष षट्कानां मायाया च यिदा सह || मलव्यापक सम्बन्धा शुद्धाशुद्ध समन्वितम् | अव्यक्तमहंकारं बुद्धिं चापि मनस्तथा || बुद्धिन्द्रियं च कर्म्माख्यञ्चतुर्द्दशमुदीरितम् | गुणत्रयैस्सखाद्यैश्च त्रित्रिभिश्चान्वितस्सदा || आपश्च ज्ञानसम्बन्धं प्रतिकूलन्तथैव च | विचित्रज्ञान संश्रयः | चिन्त्ये - अथ तत्व समूहं च त्रिविधं शृणु पार्वति | चतुर्विंशदणूनां च अशुद्धं भोग्यकाण्डकम् || आत्मतत्वमिति ख्यातं विद्या तत्वमथ शृणु | तत्र मिश्रमतत्वं च भोगकाण्डन्तु सप्तकम् || शुद्धविद्येश सादाख्यं शक्तिश्शिवमिति स्मृतम् | प्रेरकं शुद्धतत्वाख्यं स्वतन्त्रं शिवविग्रहम् || तथा | अशुद्धं च चतुर्विंशच्छुद्धाशुद्धं च सप्तधा | नित्यशुद्धं च पञ्चैते षड्त्रिंशत्तत्वरूपकम् || मतङ्गे - तत्वं वस्तु स्वरूपं स्यात् स्वधर्म्म प्रकटात्मकम् | तत्वं वस्तु पदं त्यक्तं स्फुटमाम्नायदर्शनात् || प्. १०२७) यद्च्च्युत स्वका वृत्तात्ततश्चात्म वशञ्जगत् | तत्वमन्येन वा नस्यात्तत्तत्वं तत्वसन्ततौ || शुद्धाख्ये - तत्वन्तु त्रिविधं ज्ञेयं तस्य भेदमथ शृणु | शिवस्सदाशिवश्चैव महेश स्त्रिविध स्मृतः || चिन्त्ये - स्थूल सूक्ष्मपरञ्चेति त्रिविधन्तत्वमेव हि | चिन्त्यविश्वे - पृथिव्यायात्म तत्वान्तमात्मतत्वमुदीरितम् | विद्यातत्वादि शक्त्यन्तं विद्यातत्वमुदीरितम् || तस्योर्ध्वं शिवतत्वन्तु तत्वत्रयमुदाहृतम् | चिन्त्ये - एवं सर्वक्रमेणैव सर्वतत्वं त्रये लयेत् | पारिशेष्यं च द्वौचाख्या कुटिलायान्तथैव च || पौष्करे - उपसंहार एष्टव्यः कार्य कारण भावतः | यस्य कार्योपसंहायदादौ कारण संहतिः || वातुलोत्तरे - समयास्तद्वहिश्चैव षट्त्रिंशत्तत्वत स्थिताः | प्. १०२८) यथार्थतस्सदेवो हि तत्वातीतः परश्शिवः | तथा सर्वमतोपन्यासे - सर्वेषां समयस्थानां मुक्तिमादौ विवक्षुणा | यदविज्ञानमात्रेण गुरुणाशेषवेदिना || पौष्करे दशैव सिद्धयः प्रोक्ता दर्शनान्तर भेदतः | भूतमात्राक्षयोश्चैव मनोहंकार बुद्धिषु || गुणाव्यक्तनतेष्वेवं ज्ञानसिद्धात्मकं मतम् | तथा त्रिलोचनशिवाचार्यैस्सिद्धान्त रहस्ये - चार्वाकाः कौलिका ज्योतिश्शास्त्रज्ञाश्चैव भौतिकाः | तन्मात्रसिद्धास्मार्ताश्च चक्षुरादीन्द्रियं परे || वैशेषिकास्त्वहंकारे गुणेषु न्याय वादिनः | बुद्धितत्वे स्थिता बौद्धा गुणेष्वार्हता स्थिताः || प्रकृतौ पाञ्चरात्रज्ञो मन्यन्ते प्रकृतिं हरिम् | वेदान्तज्ञाश्च सांख्याश्च यो * * * * * * || * * * * पराकाष्ठा आश्रमस्यायमन्तिमा | मृगेन्द्रे - इत्याद्यज्ञानमूढानां मतमाश्रित्य दुर्धियः | अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः || प्. १०२९) पौष्करे - पुरुषोपरि यत्तत्वं शिवतत्वैकगोचरम् | पुंसां तन्निष्ठता * * * * * * * * * * || * * * * * * * पतिना बोधयत्यणून् | शिवदीक्षादिनोद्भूतममलं सर्वतो मुखम् || शिवत्वोन्मीलनं ज्ञानं शिवशक्त्यात्मकं भवेत् | श्रेयः प्रकाशकं शैवे न तु बुद्धि प्रकाशके || सिद्धान्तरहस्ये - पाशुपतास्तु * * * * * * * * * * * * | * * * * * * * * श्शिवतत्वे परे स्थिताः || किंच रौरववृत्तिविवेके - शक्तितत्वे तदद्वैता मुक्तिमिच्छन्ति ये स्थिताः | विद्येश तत्वे पूर्वे तत् प्रेर्यमीश्वरमावयोः || मन्त्रेभ्यश्शुद्धविद्यायां सर्वज्ञत्वमनीश्वरम् | मायायां * * * * * * * * * * * * * || * * * * * भेदेन शुद्धोयं पशुदक्कृतः | ज्ञानरत्नावल्याम् - पञ्चार्ध कालवक्त्रा नाम मायायामधरे पुटे | मुक्तिरुक्ताद्वयो स्थाने लाकुले क्षेत्ररुद्रयोः || प्. १०३०) ऊर्ध्व संपुटके देशे मूतिरुक्ता * * * * ममुच्चये | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * समुच्चये | मतानां भेदमाहृत्य विस्तरेण प्रभाषितम् || वातुलोत्तरे - बिन्दुनादश्शिवश्शक्तिस्सादाख्येश्वर रुद्रकाः | विष्णुः पिता महश्चैव एकैकोद्भवमुच्यते || नवभेद स्थितो देवो न * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * * * * | * * * * * * * * * * * भेदमुच्यते || योगिनां लक्षणार्थन्तु शास्त्राणामुत्भवाय च || प्राणिनामुपकायय गृह्णते विग्रहं शिवः | * * * * * * * * * * * * * * * || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * * * च्छान्तिर्न्नाम समुत्भवः | शान्तिशक्तिरिति प्राहुर * * * * वाचकः || तस्माच्चैव सहस्रं स्यान्नादमूर्ति समुत्भवः | तस्माच्चैव * * * * * * * * * * * * || प्. १०३१) * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * च्यते || तस्माद्दशैकभागेन सादाख्यस्य समुद्भवः || मकुटे - निष्कलन्तु कलाहीनं सकलन्तु कलान्वितम् | सकलाकलमिश्रं यत्तस्मात् स * * * * * || * * * * * * * * * * * * र उच्यते | ईश्वरस्य सहस्रांशाद्रुद्रस्योद्भवमुच्यते || ईश्वरस्य कोट्यंशाद्विष्णुमूर्ति समुद्भवः | ईश्वरस्य तु कोटवंशाद्ब्रह्ममूर्ति समुद्भवः || वाउलोत्तरे - तस्मात्क्रमात्स्वशक्तिश्च * * * * * * * * | * * * * * * * * * * * * * * * || * * * * भोस्समुद्भूतिस्तद्मच्छक्तेस्समुद्भवः | अमूर्तश्चेदमूर्त्तोपि समूर्तश्चेत् समूर्त्तका || सावित्री श्रीरूमादेवी ईश्वरी च मनोन्मनी | यथा मनोन्मनी प्रोक्ता ईश्वरी तद्वदुच्यते || स्वायम्भुवे - एका * * * * * * * * * * * * * * | प्. १०३२) * * * त्तरे - नादात्मना स्थिता शक्तिश्शिवश्शक्त्याधितिष्ठति | अतोपि सर्वरूपं यत्सर्वं शक्तिशिवात्मकम् || वातुलोत्तरे - शक्त्युद्भवश्शिवेनैव ततश्शक्त्या शिवोत्भवः | तद्वयोश्च समैक्येन शिवलोको द * ? भवेत् || तथा वातुल * * ख्ये - सृष्ट्यर्थं सर्वतत्त्वानां लोकस्योत्पत्तिकारणम् | योगिनामुपकाराय स्वेच्छया गृह्णते तनुः || त * * * शिवे तु पराशक्तिस्सहस्रांशेन जायते | तच्छक्तेस्तु सहस्रांशादादिशक्ति समुद्भवः || अस्याश्शक्तेस्सहस्रांशात् इच्छाशक्ति समुद्भवः | अस्याश्शक्तेस्सहस्रांशात् ज्ञानशक्ति समुद्भवः || अस्याश्शक्तेस्सहस्रांशात् क्रियाशक्ति समुद्भवः | एता वै शक्तयः पञ्च निष्कलाश्चेति कीर्तिताः || शिवसृष्टिरियं प्रोक्ता शक्तीनां सृष्टिरुच्यते | सर्वेषां ध्यानपूजार्थं निष्कलं सकलं भवेत् || पराशक्तिदशांशेन शिवसादाख्य सम्भवः | आदिशक्तिदशांशेन मूर्तिसादाख्य सम्भवः || प्. १०३३) इच्छाशक्तिदशांशेन मूर्तिसादाख्य सम्भवः | ज्ञानशक्तिदशांशेन कर्तृसादाख्य सम्भवः || क्रियाशक्तिदशांशेन कर्म्मसादाख्य सम्भवः | लिङ्गपीठप्रकारेण कर्म्मसादाख्यमुच्यते || वातुलोत्तरे - भगवान्ब्रह्मचर्याख्यः कन्यकाशक्तिरुच्यते | विदुषां विद्यते भाव एवमाख्यमियं क्रमात् || सर्वज्ञानोत्तरे - तन्वादि तत्परोबन्धो मुक्तिरात्मन्यवस्थितिः | सर्वेषां दीक्षयोत्सार्धं सम्यक् दृष्ट्वा हि तत्ववित् || शिवधर्म्मे - यदीश्वरादि तत्त्वानां परिज्ञानं विवेकतः | भवेत् साधर्म्म्य वैधर्म्म्यादेतत् साधर्म्म्य लक्षणम् || चिन्त्यविश्वे - वसनारागसंप्राप्तिरस्तिचेन्न स तत्त्ववित् | देशिकस्तत्व विज्ञानं ज्ञात्वा चैव प्रकाशयेत् || स एव तत्वज्ञानी स्यान्मुक्तितो मुक्त एव सः | सर्वज्ञानोत्तरे - शुद्धाख्याणोस्तु सर्वेषां किं विशेषेण युज्यते | प्. १०३४) उत्तरम् | अनाद्याख्यमलं कर्म्म मार्ज्जनाय ततो भवेत् | चिन्त्य विश्वे - आणवस्त्वेक रूपो हि तथा विविधशक्तिमान् | ताम्रकाषेकवत्सोपि स भुज्येद्यन्तरादितः || तथा मृगेन्द्रे - तदेकं सर्वभूतानां मनादि निबिडं महत् | प्रत्यात्मस्थ स्वकालान्तापायि शक्तिसमूहवत् || मतङ्गे - ताम्रकालिकवद्योगात् सहजः परिकीर्तितः | मोहो मदश्च रागश्च विषादश्शोक एव च || वैचित्र्यं चैव हर्षाख्यस्सप्तैते सहजा मलाः | मतङ्गे - चैतन्यरोधो मायैव रश्मिरोधस्तु मेघवत् | मायाकार्यं विना तस्मान्मलाख्यन्न कदाचन || उत्तरम् | किरणे - एकस्मिन् व्यज्यते ज्ञानमन्यस्मिंस्तत्तिरोहितम् | मेघच्छन्ना यथा रश्मिर्देहच्छन्ना हि चेतना || पशूनान्देह संश्लेषाच्चैतन्योत्भवदर्शनात् | यदा देहेन संश्लेषस्तावदूर्ध्वैव दृश्यते || प्. १०३५) चैतन्यद्योतिका माया चैतत् प्रोत्सारिते मले | अनन्योक्त मलोमात्मात्वथ देहादि सम्भवे || बोधकार्यं रोधयितुमाणवाख्यं मलोह्यलम् | आत्मना सङ्गनिष्ठेन गुणञ्च ख्यातिमेतत् || कालाद्याख्या परे तत्वे शुक्यादौ रजतो यथा | तस्मादियं मलोमाया सदा दीपान्धकारवत् || द्वयो स्वभाव भेदश्च त्वया ख्यातमिदं मुने | पुरुषस्य गुणो विद्यावद्यतस्तच्च सो भवेत् || उत्तरम् | तत्कथं त्वदिति प्रश्नन्दृष्टिदोष गुणन्नहि | तस्मिंस्तस्मिंस्तु तिष्ठेन तत्पुरुष स्वभाव च || एवं सौरसंहितायां शङ्कापुरस्सरं विस्तरेण प्रतिपादितन्तत्रावधार्यताम् || स्वायम्भुवे - अथानादिमलः पुंसां पशुत्वं परिकीर्तितम् | तुषकम्बुकवत् ज्ञेयो माया बीजाङ्कुरस्यतत् || तथा मतङ्गे - मलस्त्वनादिरेवञ्चज्जडं संसारकारणम् | ताद्रस्यकालिमावच्च तण्डुलस्य तुषादिवत् || पराख्ये - मायाकार्यन्तु मामाया कर्म्मतत्भोगबन्धनम् | प्. १०३६) असत्यन्दृप्तिकरोमाल्यं किंचित्तद्विमलं शृणु | पराख्ये - मायाकार्यन्तु मायेयं स चाख्या मायापुरा विदुः | चिन्त्य विश्वे - तिरोधानमलं चापि तिरोधायि समुद्भवः | आत्मनस्तु शिवव्यापि दृशः प्रच्छादकावपि || मृगेन्द्रे - तासां माहेश्वरीशक्तिः सर्वानुग्राहिका शिवा | धर्म्मानुवर्त्तनादेव पाश इत्युपचर्यते || चिन्त्य विश्वे - मलं मुहुर्मुहुर्माया मायोत्थमखिलञ्जगत् | तिरोधानकरी शक्तिः पाशवे नार्थ पञ्चकम् || पराख्ये - उल्कावर्तास्तथा केतु स्थित्वा स्थित्वा शिवाज्ञया | लोकामृतं च निमिषात् सदा कुर्यात् गतागतम् || पराख्ये - योन्यैव सकलात्मानो जायन्ते पूर्वकर्म्मतः | सुप्रभेदे - अण्डजं स्वेदजं चैव उत्बिजं च जरायुजम् | प्. १०३७) अशीतिश्च चतुश्चैव शतसाहस्र भेदतः || शिवधर्म्मोत्तरे - स्थावरा विविधाकारास्तृण गुल्मादिभेदतः | तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु || निष्क्रान्ताः कीटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः | विसृष्टा पक्षिभावेन भवन्ति मृगजातिषु || मृगदुःखमतिक्रम्य जायन्ते पशुयोनिषु | क्रमाद्गो योनि मासाद्य पुनर्जायन्तमानुषे || एवं योनिषु सर्वासु परिक्रमक्रमेण तु | देवासुराणां सर्वेषां मानुष्यमतिदुर्ल्लभम् || व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्य गौरवात् | सुप्रभेदे - ततो भारतवर्षं च नवभागे प्रकल्पितः | कुमारी द्वीपादन्यास्तु क्लेच्छद्विपाः प्रकीर्त्तिआः || चातुर्वर्णसमायुक्तञ्चतुराश्रम सम्युतम् | शिवधर्म्मोत्तरे - देशेस्मिन् भारते पुण्ये प्राप्यमानुष्यमध्रुवम् | सर्वेषामेव देशानामयन्देशः पर स्मृतः || इति स्वर्गं च मोक्षं च यतस्संप्राप्यते जनैः | प्. १०३८) चिन्त्य विश्वे - शैवं परपदं ज्ञेयं सर्वतत्वैक नायकम् | सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् || जन्मान्तर तपोभिश्च सन्मार्ग ज्ञान सम्भवः | शिवधर्म्मोत्तरे - सर्वस्य मूलं मानुष्यं तद्यत्नादनुपालयेत् | धर्म्मस्य मूलं मानुष्यं लब्ध्वा सर्वार्थसाधनम् || यदि लाभैकयत्नास्ते मूलं रक्षन्तु यत्नतः | देवासुराणां सर्वेषां मानुष्यमति दुर्ल्लभम् || व्युत्क्रमेणापि मानुष्यं लभते पुण्यगौरवात् | तत्संप्राप्य तहा कुर्यान्नगच्छेन्नरकं यथा || मृगेन्द्रे हेतुमाह | सर्वासां फलभूमीनां कर्म्मभूः कारणं यतः | कर्म्मभूमिरियं ब्रह्मन् फलभूमिरतः परा || इह यत्क्रियते कर्म्म तत्परत्रोपभुज्यते | तथा शिवधर्म्मोत्तरे - भोगभूमि स्मृतस्वर्गः कर्म्मभूमिरियं स्मृता | इह यत्क्रियते कर्म्म स्वर्गे तदुप भुज्यते || वायव्य संहितायाम् - प्. १०३९) जातेनात्मद्रुहायेन नार्च्चितो भगवाञ्च्छिवः | सुचिरं सञ्चरत्यस्मिन् संसार दुःखसागरे || शिवधर्म्मोत्तरे - जनाश्शतायुषः किं च भवन्ति न भवन्ति वा | अशीतिकापि विद्यन्ते केचित् सप्ततिका अपि || परमायुस्तु पञ्चाशत्तदप्यस्य न निश्चितम् | यस्य यावद्भवेदायुर्द्देहिनः पूर्वकर्म्मतः || यावत् स्वस्थशरीरस्थस्तावद्धर्मं समाचरेत् | तथा मोहशूरोत्तरे - पद्मपत्रे यथा तोयं * * * सुचञ्चलम् | तद्वत्सुसञ्चलं शक्र प्राणिनामिहजीवनम् || पौष्करे - क्रमेणार्थस्य संवित्तिः पुर्यात्मालोचनात्मिका | यथा ह्यनेक संवित्तौ युगपत्सा न विद्यते || मुखरिता * * * परापरिजन् * * * * | * * वत्ति न वीक्षते धनवच्छिबिकागतः | जीवनेन मृताः पञ्च पुराव्यासेन कीर्तिताः || दरिद्रो व्याधितो लुब्धः प्रवासी नित्यसेवकः | प्. १०४०) चिन्त्ये - लिङ्गस्य दर्शनं वाथ लिङ्गाराधनमेव वा | विद्यते यदिजन्तूनां भवन्ति त्रिदशाधिपाः || इति द्वितीयसूत्रं सम्पूर्णम् || तृतीयसूत्रम् || पराख्ये - देहान्यो नश्वरोव्याधी विभिन्नस्समलोजडः | स्वकर्म्म कलभुक्कर्त्ता किंचिज्ञस्सेश्वरः पशुः || मृगेन्द्रे - चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा | शिवज्ञानबोधे - अवस्था पञ्चकन्तस्य मलरुद्धस्व दृक्क्रिया | तथा पराख्ये - पञ्चावस्थः पुमान्ज्ञेयस्सुप्तौ च मलगौरवात् | तादृशात्मानृतं पश्येत् तुर्यातीतमुदाहृतम् || अत्र देहान्य आत्मेति दृढत्वं कथ्यते कथ्यते कथम् | देहादृतेन दृश्यन्ते तस्मादात्मा न देहवित् || प्. १०४१) उत्तरम् - तथा चेत्तत्रशीतोष्णं भुज्यते नैव देहवित् | मुकुरादिसमायुक्तमेकारुणमिवोद्धृतम् | भूताश्चतुष्टयं युक्तं विदवायु न विद्यगम् || उत्तरम् - सुप्तत्वमुक्तं शववत् वायुस्थिति न वैद्यकिम् | सुप्तस्यावयव स्पर्शात् स्मृतिर्नैव च विद्यते || तथा मृगेन्द्रे - सोप्येव सति साद्वान न सत्यपिशवे चितिः | पराख्ये - इन्द्रियैस्सहवित्सोपि यदि चेन्न च राजवत् || यत्र योगाङ्गता सेनातद्वाप्तं कुरुते गतम् | अतो देवा विनायुक्तं वियते हि न विद्यते || तृतीयसूत्रं सम्पूर्णम् || चतुर्थं सूत्रम् || शिवज्ञानबोधे - आत्मान्तः करणादन्योप्यन्वितो मन्त्रिभूपवत् | प्. १०४२) कामिके - शरीरात् बाह्य तस्य प्रवृत्तिरूपलम्भनात् | अत एव मनो नात्मा न बुद्धिर्नाप्यहंकृतिः || पराख्ये - अन्तःकरणमुक्तं चेदन्योन्यन्तेन विद्यते | खश्यामादिरसज्ञादि वैषम्यं स्यात्सहेन्द्रियैः || सर्वेषां दृष्टिभिन्नत्वादहमित्यहमास्थितिः | चिन्त्ये - चित्ते कार्यं सुसंस्मृत्वा बुद्धिस्पष्टं विचार्य च | अहं कारेण निश्चित्य वैकल्प्यं कुरुते मनः || एवं ज्ञात्वा यतोत्साहो स्वात्मज्ञानं समभ्यसेत् | अकारश्चाप्युकारश्च मकारो बिन्दुनादकौ || योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् | कालोत्तरे - अकारश्चोप्युकारश्चाहंकारं बुद्धिरेव च | मकारस्तु मनश्चित्तं बिन्दुनादात्मविग्रहम् || एवं पञ्च प्रकारेण चोङ्कारोद्धृतिरुच्यते | अन्यत्र | स्वर्गे देशात्म बोधश्च समुद्रे च तरङ्गवत् || प्. १०४३) अकाअरं ब्रह्मदैवत्यं उकारं विष्णुदैवतम् | मकारं रुद्रदैवत्यं बिन्दुरीश्वर एव च || नादस्सदाशिवः प्रोक्त इत्येता अधिदेवताः | मकुटे - इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः | सुषुम्ना मध्यगा तत्र तन्मध्ये सुषिरन्तथा || जीवः प्राण समायुक्तस्तन्मध्ये सह सञ्चरन् | संयुक्तो योगमाख्यातं योगी योगं समाश्रयेत् || सिद्धतन्त्रे - अनेकार्थ पदार्थाख्यास्समूहो वात्मचेछृणु | पश्येत् भोक्तन्तथा ज्ञेयन्तथा पश्येद्यथार्थतः || तद्दृष्टौ कोस्मिलोकेयज्ञात्र ज्ञेयस्य भिन्नवत् | तच्चैतन्यगतं ज्ञानमात्म उष्णमिवानले | अनेके नैक भावश्च गुणश्च गुणदृष्टयेत् || मनादि तत्वजालानि करणं किकणन्तथा | मनादि तत्गुणायुक्तम् वेद्यामातत्स्वयं गते | प्. १०४४) उत्तरम् | यदा ज्ञानक्रिया चैव आत्मनश्च न सम्युतम् | देहेथवा विवाद स्यात् सान्निध्येस्ति तथा न चेत् || तदुक्तं सन्निधीभावो शवसुप्तौ क्व गच्छति | करणं रहितं चेत्तु सन्निधित्वं च गर्हितम् || सान्निध्यमयस्कान्दमिवा ख्यातन्तत्कथं भवेत् | आकर्षणन्तत्स्वभावं हि आत्मनस्तदुदाहृतम् || देह व्यापारमित्युक्तमात्मनैवेह विद्यते | रूपं च दृष्टवद्देहे अनित्यं भौतिकं भवेत् || आत्मरूपं सुसूक्ष्मञ्चेदष्टं स्थूलकारणम् | अचेतनन्ततस्सूक्ष्मं सूक्ष्मरूपमनित्यता || रूपारूपञ्चेदात्मा तदा च व्युत्क्रमोद्भवः विभागवनैक एवं स्यात् काष्ठादग्निवदेव चेत् || सर्वमात्मनि दृशं रूपं तस्य सत्वं लयंञ्चगम् | प्. १०४५) चन्द्ररूपमिवाख्यं चेत् प्रत्यक्षं शिवरूपवत् | एतद्देहे सरूपिस्याज्जडाख्यं भौतिकं भवेत् || आकाशमिवा रूपस्त्व विकारी चेतनस्तथा | देहबन्धश्चलनत्वात् गच्छगच्छान्त तत्भवेत् || अचिदात्मान चिच्चापि चिदचिच्च कदाचन | समवाय विधा स्थित्यामचिन्त्यो न चिदचिद्य हि || विद्यते क्रमचित् चित्या मतो तस्य सदन्नहि | आत्माणुराख्यद्देहेन बन्धोश्चमगुरुद्धृतम् | हरापि वहनोगश्चो * * विन? ततो लभेत् || आत्मादेहैक देशस्थो लयेदेकेन चेत्तथा | दीपप्रकाशवत्ज्ञेयं चेदेकस्थमुदाहृतम् || दीपं स्पर्शाद्दहेद्देहमात्र स्पर्शोत्सतत्तथा | यदि सर्वं च युगपद्यद्यदेव हि || च्छेद्यश्चेद्देह पूर्णस्थो तदानीं दृक्कथं भवेत् | प्. १०४६) इन्द्रियैस्सह विज्ञानं युगपत्स्यात्तदा मुने | देहमात्रे हि बोधोपि देहान्ते लीयते सकृत् | सर्वत्रावस्थिति व्याप्तिर्यद्यवस्था गता गता | कीर्तिता कथितं ज्ञेयं प्रत्येकञ्च तदिन्द्रियैः || देहप्रपञ्च संहारे किं स्थितात्मा तदा वदेत् | स्वायम्भुवे - यद्यशुद्धिर्न्नपुंसोस्ति सक्तिर्भोगेषु किङ्कृता | शुद्धे सिनतत् भोगो जाघरीति विपश्चितः || मृगेन्द्रे - चैतन्यन्दृक्क्रिया रूपन्तदस्स्त्यात्मनि सर्वदा | सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् || तदप्य भासमानत्वात्तन्निरुद्धं प्रतीयते | वैश्योनावृत वीर्यस्य सो त एवाविमोक्षणात् || पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम् | स्वाभाविकञ्चेन्मुक्तेषु मुक्तशब्दो निवर्त्तते || पराख्ये - अचेतनममूर्तं यत् तत्कथन्नयते परः | प्. १०४७) तत्फलं भिन्नदेशस्थं विभुत्वन्त्वनुशोभितम् | अन्यत्र - व्यञ्जना यत्र यत्र स्युश्शरीरन्तत्र तत्र तु | भोगार्थं स्यात् गुणव्यक्ति व्यापित्वन्तेन गम्यते || मतङ्गे - निरुद्धशक्तयस्सर्वे शिवार्क्क करचोदिताः | विकसत्यणु पत्मास्तु मायासरसि विस्तृते || पौष्करे - पशुः पशुत्वसंरुद्ध दृक्क्रिया प्रसरस्तदा | सिद्धतन्त्रे - आत्मामायोदरान्तत्थो कलादीनां स्वभावतः | चैतन्यं चय एतत्ज्ञे एकादशेयुते कृतिः || गुणत्रयादि सम्बन्धात् भोगेष्वपि च भुज्यते | सिद्धतन्त्रे - सूक्ष्मदेहे पशुस्थित्वा तत स्थूलं स्वरूपयुक् | जाग्रदादि पञ्चावस्था कर्म्मणा भोगभुक्तिस्थतः || कालोत्तरे - पुर्यष्टक समायोगादूर्ध्वाधस्संप्रयच्छति | प्. १०४८) चिन्त्ये अन्नप्राणमनोज्ञानमानन्दमय पञ्चकम् | अन्नमादिमयन्देवि अन्योन्यं सूक्ष्मरूपकम् || आत्मयुक्तेन्न रूपस्य मायोपादान कारणम् | अन्तर्बहिस्थितस्तेषु अरूपः पञ्चकोशवत् || तदुक्तं सर्वसिद्धान्तसङ्ग्रहे - आत्मत्वेन भ्रमन्त्यत्र वादिनः कोशकेञ्चके | अन्नप्राणन्मनोज्ञान मायाकोशस्तथात्मनः || आनन्दमयकोशञ्च पञ्चकोशा उदीरिताः | मनोविकाअरे विहित इत्यानन्दमयो विदुः || गृह्णात्यन्नमयात्मानन्देहालोकयतः खलु | देहः परिणमितं प्राणमप्यार्हता विदुः || विज्ञानमयमात्मानं बौद्धा गृह्णन्ति नापरम् | आनन्दमयमात्मानं वैदिकाः केचिदूचिरे || अहङ्कारात्म वादी तु प्राहुः प्रायोमनोमयाः | कर्म्मकृद्रूपनृत्तं च रूपनृत्तं च वृक्षवत् | रथैवाप्य नतः कश्चिन्नाट्यस्य बहुरूपवत् || प्. १०४९) तक्ष आत्मैव इत्याहुस्तथा देहेन्द्रियाणि च | तथा स्कान्दपुराणे - चर्मक्षिप्तानि रूपाणि शैलूषो निपुणो यथा | सूत्रग्रन्थित यन्त्राणि प्रनर्त्तयति लीलया || चिन्त्ये - देहेन्द्रिय प्रकरणं विद्यातेत्तपि विस्तृता | * * * * * * * * * * * * * * * * || अन्यथा दृश्यते तेन तथा देहेन्द्रियाणि च | उत्तरम् | तथा तेन च देहात्मा नखकेशादिवर्जितः | धारयन्वस्त्राभरणं न स्वयं कश्चिद्विचारयेत् | ते ततो वर्ज्यते दृश्यन्देहान्यात्मा तथापि च || चिन्त्ये - भिन्न देहात्म देवेश विद्यार्च्चनदृढः कथम् | सा च वन्नव दीक्षायै विधिपूर्वक पूर्वकम् || पूर्वकर्म्मक्षयः कर्त्ता चरणं सर्वदेहिनाम् | मनसाख्यं क्वचिद्बुद्धिर्बुध्या ख्यातं क्वचिन्मनः | चित्ताख्यं क्वचिज्जीवो जिवाख्यं चित्तकं क्वचित् || प्. १०५०) क्वचिदात्मा शिवाख्यातः आत्माख्यातः क्वचिच्छिवः | सर्वेषामप्रबुद्धाख्यामितरे ह्यात्म भावतः || चिन्त्ये - देहचित्तञ्च विद्यार्थमात्मेत्यात्मावृतः कथम् | महा प्रकाश दीपाख्यमावास स्थानमेव च || अभिन्नं विद्यते चात्मा * * * * * * * न्नता | चिन्त्यवचनम् | भुक्तोत्साहन्ततस्सुप्तौ दृष्टस्तत्र जाग्रता | बोध्यते बोधतश्चात्मा देहान्यस्सर्वतश्चवित् || सैव बोधविदज्ञोपि दीयते चेन्द्रियादिकम् | जायते मलरुद्धे आत्मा बोधेन्द्रियाणियुक् || दृतेन समवस्थोपि ददतोमात्य राजवत् | ग्राम प्रदक्षिणोराजा क्रमेणान्तर्गतो यतः | आत्मा सहेन्द्रियव्यापी पञ्चावस्थां गतस्ततः || तथा शिवज्ञानबोधे - अवस्था पञ्चकन्तस्य मलरुद्धस्वदृक्क्रिया | प्. १०५१) चिन्त्ये - मुखे जाग्रदिति ज्ञेयं स्वप्नन्तु हृदयान्तकम् | हृदयादि समारभ्य नाभ्यन्तन्तु सुषुप्तिकम् || तस्मादधसतात्तुर्यन्तु तुर्यातीतन्तु लिङ्गकम् | पञ्चत्रिंशत्पञ्चविंशत्त्रिद्व्येक इति तत्वयुक् || जाग्रादि स्थानमेवं हि प्रवत्तकमिहोच्यते | श्रोत्रत्वङ्नेत्र जिह्वा च घ्राणञ्चैव तु पञ्चकम् || शब्दस्पर्शौ रूपरसौ गन्धश्चैव तु पञ्चकम् | वाक्पाणि पादपायुश्चोपस्थञ्चैव तु पञ्चकम् || वचनादान गमनविसर्गानन्द पञ्चकम् | प्राणोपानस्तथा व्यानोदानश्चैव समानकः || नागकुर्म्मौ कूकरो देवदत्तो धनञ्जयः | मनोबुद्धिरहङ्कारचित्तज्ञानानि पञ्च च || पञ्चत्रिंशतिवर्त्तन्ते जाग्रैतानि विनिर्द्दिशेत् | शब्दादि वचनादिश्च प्राणादि मन आदिकम् || एते चरन्ति वै स्वप्ने मायारूपेणजाग्रतः | जाग्रे विषय भोगं स्यात् प्रतिभास्वप्न एव च || अयसाग्निसमायोगात् वियोगाग्निवदायसः | प्. १०५२) प्राणयुक्तो मनश्चैव क्षेत्रज्ञश्च सुषुप्तिके | आत्मामुखे भुवोर्म्मध्ये स्थितो जाग्रत्प्रकीर्तितः || तथा चिन्त्यविश्वे - अवस्थेयं पुमान्ज्ञेयो ललाटे करणादिभिः | ऊर्ध्वाधोवर्त्तते जीवो जाग्रादिकरणैस्सह || लूतिकं वलये लूतो यथा भ्रमति नित्यशः | जाग्रत् स्वप्नसुषुप्तिस्तु तुर्यञ्च तदीतकम् || अवस्था पञ्च विज्ञेया सदाचार्योपदेशतः | षट्त्रिंशत्तत्व संख्याभिर्ज्जाग्रत्काले विभावयेत् || श्रोत्रादि स्थानके तस्मिन् शब्दादि ज्ञान संस्मरेत् | वागादौ वचनादींश्च भावयेन्नन्दिकेश्वर || विंशतिश्च विसृज्याथ मनादींश्च विमर्शयेत् | मनोबुद्धिरहङ्कारान्विसृजेत्तत्रदेशके || रागमाया कलाश्चापि विसृजेत्तच्चतुर्यके | विद्यादिशुद्धकालान्तं विसृजेत्तत्तृतीतके || तुर्यातीतं परन्तत्वं मानसानां लयं भवेत् | मनसो लयतश्चैव परांमुक्तिं समश्नुते || चिन्त्य विश्वे - जाग्रादि द्विविधं ज्ञेयं भवमोक्षगतन्तु यत् | प्. १०५३) स्थाणु स्थाने महामोक्षं भवमार्गमधोच्यते | स्थूलं सूक्ष्मं सुसूक्ष्मं च अतिसूक्ष्मन्तथाधिकम् || स्थूलं जाग्रदिति ज्ञेया सूक्ष्मं स्वप्नमिहोच्यते | सुषुप्तिस्तु सुसूक्ष्मं स्यात् अतिसूक्ष्मन्तुरीयकम् || ततोधिकं तुर्यातीतमेवं पञ्चविधं स्मृतम् | जाग्रत्स्थाने प्रदृश्येत योगाभ्यासवतः क्रमात् || जाग्रभूर्विप्रवृत्तिश्च प्रत्याहारेण शाम्यति | धारणेन त्यजेत् स्वप्नन्ध्यानेनैव सुषुप्तिकम् || समाधिनाजयेत्तुर्यं तुर्यातीतं शिवेन तु | शिवेन दृश्यते सर्वं जाग्रदित्यभिधीयते || जाग्रादि पञ्चावस्थायां जाग्रत्स्थाने प्रदर्शयेत् | सद्गुरोरूपदेशेन प्रासादे नैव सिध्यति || अभ्यास ज्ञानयोगेन भक्तिमार्गेण भावयेत् | एवं वातुले - ज्ञानातीतं परं शुद्धं सर्वगं सर्वतोमुखम् | भावं शिवं च सम्भाव्य स्वस्मिन्नेवं विभावयेत् || एवं ध्यात्वा महायोगी अखण्डित महोदयम् | केवलसकलशुद्धम् | स्वायम्भुवे - अथात्मा विमलोबद्धः पुनर्म्मुक्तश्च दीक्षया | प्. १०५४) विज्ञेयस्स त्रिधावस्थः केवलस्सकलोमलः || तत्रैव | अचेतनो विभुर्न्नित्योगुणहीनो क्रियः प्रभुः | व्याघात भागशक्तश्च शोध्यो बोद्धः खलः पशुः || तथा किरणे - पशुर्न्नित्यो सुमूर्तज्ञो निष्क्रियो निर्गुणो प्रभुः | स्वायम्भुवे - कलोद्वलित चैतन्यो विद्यादर्शित गोचरः | रागेण रञ्जितश्चापि बुद्ध्यादिकरणैर्युतः || मायाद्यवनि पर्यन्त तत्व भूतात्मवर्त्मनि | भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् || संसारी विषयी भोक्ताक्षेत्री क्षेत्रज्ञ एव च | शरीरे चेति बद्धात्मा सकलश्चोच्यते बुधैः || सुप्रभेदे - अशीतिश्च चतुश्चैव शत साहस्र भेदकैः | संप्राप्य योनिभेदस्तु जीवनाम्ना तु तत्र च || प्रोक्ता च सकलावस्था जीवाख्यानान्ततश्शृणु | समे कर्म्मणि सञ्जाते कालान्तरवशात्ततः | प्. १०५५) तीव्रशक्ति निपातेन गुरुणा दीक्षितो यदा | सर्वज्ञस्सशिवो यद्वत् किंचिज्ञत्व विवर्जितः || शिवत्व व्यक्तिसम्पूर्णस्स री न पुनस्तदा | सुप्रभेदे - शुद्धावस्था इयं प्रोक्ता सर्वज्ञत्वादिभिर्गुणैः | शुद्धावस्थानमात्मानं शिवरूपमिति स्मरेत् || त्रयोवस्थाश्चयो ज्ञात्वा पुनर्ज्जन्म न विद्यते | इति चतुर्थसूत्रं सम्पूर्णम् || पञ्चमसूत्रम् || शिवज्ञानबोधे - विदन्त्यक्षाणि पुंसार्थान्न स्वयं सोपि शम्भुना | चिन्त्ये - शिवो बोध्यादि सर्वस्य ज्ञानाप्रख्याधिकं च किम् | उत्तरम् | अर्कस्य सन्निधौ पद्म वक्रवत्कर्म्मणस्तथा || तथा मतङ्गे - निरुद्धशक्तयस्सर्वे शिवार्ककरचोदिताः | विकसन्त्यणुपत्मास्तु मायासरसि विस्तृते || प्. १०५६) शिवधर्म्मोत्तरे - न करोति यतस्सर्वं स्वभोगाद्यं करोति च | अस्वतन्त्र्यादकर्त्ता यः किंचित्कर्त्ताणुरन्धवत् || न वेत्ति तत्वतस्सर्वं तेनाज्ञः पुरुषः पशुः | सिद्धाध्यवसितं किंचित् ज्ञानात् किंचिज्ञ उच्यते || तथा पौष्करे - अज्ञो जन्तुरनीशोयं मात्मा यस्माद्विजर्षभाः | सोपि सापेक्ष एव स्यात् स्वप्रवृत्तौ घटादिवत् || तथा निश्वासे - किंचिज्ञस्सर्वतोप्यात्मा ततो बोध्यावबोधकः | किरणे - तस्यशुद्धस्य संबन्धं समायाति शिवात्कला | तयोर्वेल्लित चैतन्यो विद्यादर्शितगोचरः || रागेण रञ्जितश्चापि प्रधानेन गुणात्मना | बुद्ध्वादिकरणानेक सम्बन्धात् बध्यते पशुः || ततो नियति संश्लेषात् स्वार्जिते विनियम्यते | कालेनकाल संख्या न कार्यभोग विमोहितः || एवं तत्वकलाबन्धः किंचिज्ञो देहसंयुतः | मायाभोगपरिष्षक्तस्तन्मयस्सहजावृतः || प्. १०५७) ततस्सुखादिकं कृस्नं भोगं भुङ्क्ते स्वकर्म्मतः | निश्वासे - सर्वज्ञस्सर्वगस्तस्मादात्मानं बोधयेच्छिवः | चराचराख्य जन्तूनां प्राणरूप इति स्मृतः || सिद्धतन्त्रे - चिद्रूपे जडसम्बन्ध जनानां वस्तु वस्तुनि | देवेषु चात्मनामेव सन्निधौ बोधजं वदेत् || सिद्धतन्त्रे - सर्वलोकाश्च योनिश्च शिवस्याङ्गश्च विग्रहम् | अन्तःकरण चैतन्यं विदितं कृत्यपञ्चकम् || तथा स्कान्दे - पञ्चक्ट्य * * * * * * स्य विमायिनः | इदमेव परन्दिव्यं ताण्डवं परिकीर्तितम् || पौष्करे - कर्म्मणार्थस्य संवित्तिः पूर्वमालोचनात्मिका | सन्देह रूपिणी पश्चादभिमानात्मिका ततः || व्यवसायात्मकी पश्चात्क्रमेणैव व्यवस्थिताः | चिन्त्यविश्वसादाख्ये - प्. १०५८) सर्वात्मनां च जननं मरणं च तथैव च | कारुण्यात् क्लेशमालोक्य तेषां शम्भुः पुनस्तथा || कर्म्मणां पाचनार्थाय सृष्टिन्निर्म्माय पूर्ववत् | दुःखानि भोगमखिलं भोजयेन्नन्दिकेश्वर || मलेन परिपाके तु पक्वानां परमेश्वरः | आचार्य मूर्तिमास्थाय दीक्षया नियतन्ददेत् || निश्वासे - एकैव वस्तुतश्शैवी वा शक्तिन्निर्मला परा | अ ना भाविना शम्भोश्शुचेष्णमिव प्रभा || तथात्म शिवयोस्सन्धिश्शिवबोधपरंपरा | तथा वातुलोत्तरे - न शिवेन * * * * * * * क्तिरहितश्शिवः | गमवत्यन्धकारं * शिवश्शक्त्यार्कषत्गुह || इति पञ्चमं सूत्रं सम्पूर्णम् || षष्ठमसूत्रम् || शिवज्ञानबोधे अदृश्यं चेदसत्भावो दृश्यञ्चेज्जडिमा भवेत् | शम्भोस्तद्व्यतिरेकेण रूपं ज्ञेयं विदुर्बुधाः || प्. १०५९) तथा वातुलोत्तरे - ज्ञेयोज्ञेयोथवा सोमेत्यज्ञेयोचित सत्भवः | अज्ञे नैव चातो वा द्वयं सन्मयत स्थितः || वातुलोत्तरे - सृष्टि स्थिति विनाशोपि चतुर्विधे कार्यदर्शने | आत्मज्ञानेन दृश्येत् जडस्याज्जडतोगुह || वातुलोत्तरे - लोकत्रयभावोपि ब्रह्मविष्णोः परास्पदम् | मरीचिका स्वप्नवत् ज्ञेयमसत्यन्निष्प्रयोजनम् || निमिषाल्लयते चापि क्षुद्रस्यापि स्वभाववत् | स्वच्छन्दे - मायाद्यवनि पर्यन्तमिन्द्र जालन्तु बुद्धितः | अदृश्येत् पदार्थञ्चेन्न च तन्निष्प्रयोजनम् | उत्तरम् | पूर्वन्तद्दृश्यते ज्ञानं किन्तु लाभन्तथापि च || आत्मज्ञानेन सदसदिदमुक्तेन निष्फलम् | वाङ्मनोतीतत्वं हि शिवभावमिति स्मृतम् || प्. १०६०) प्रयोजनं किमस्ति स्यात्तथापि परमेश्वरः | उत्तरम् | सद्भोगं वाङ्मनोतीतं स्वयमेवानुभूतिमत् || तदेव शिवभोगं च तदेव परमं सुखम् | सर्वज्ञानोत्तरे - सर्वभावं परित्यज्य अभावं भावयेत् सदा | तथा निश्वासे - अभावे भावमालम्व्य भावं कृत्वा निराश्रयम् | आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् || अभावे भावमाश्रित्य भावलीनोप्यशङ्कितः | विभुरिति समन्तव्यो नात्र कार्या विचारणा || अभावस्य कुतो भावो निष्कलस्य महात्मनः | अमनो अव्यवस्थानन्निर्वाणन्तस्य तत्पदम् || सर्वज्ञानोत्तरे - अद्वैत भावनायुक्तस्सर्वदात्मनि संस्थितः | सर्वगं सर्वदेहस्थं प्रपश्येन्नात्र संशयः || पौष्करे - न मोक्षं याति पुरुष स्वसामर्थ्यात् कदाचन | मुक्त्वा प्रसादन्देवस्य शिवस्या शिवहारिणः || अन्यत्र | प्. १०६१) ज्ञान दृष्ट्या परोगद्यो रूपशरश्शिवः | सर्वज्ञानोत्तरे - येन विज्ञायते सर्वं यत्ज्ञात्वा तु शिवो भवेत् | इति षष्ठसूत्रं सम्पूर्णम् || सप्तमसूत्रम् || शिवज्ञानबोधे - नाचिच्चित्सन्निधौ किन्तु न चित्तस्मादुभे मितः | प्रपञ्च शिवयोर्वेत्ता यस्स आत्मातयोः पृथक् || शिवं प्रपञ्च सदसत्ज्ञेयमात्म द्वयन्नपि | आत्मालाभार्थतः पश्येत्तनौजं गन्धपुष्पवत् || आत्मनस्सर्वदोषं च परमात्मनि तन्नयुक् | यद्यपि त्रिपदार्थं च लवणां भोधिवत्स्थितम् | किरणे - अनादिमलसम्बन्धात् किञ्चिज्ञोणुर्म्मयोदितः | अनादिमलमुक्तत्वात् सर्वज्ञो सौ ततश्शिवः || वायव्ये - यथा नादि प्रवृत्तोयं घोर संसारसागरात् | प्. १०६२) शिवोपि हि तथा नादिस्संसारान्मोचक स्मृतः | सप्तमसूत्रम् सम्पूर्णम् || अष्टमसूत्रम् || शिवज्ञानबोधे | स्थित्वा सहेन्द्रिय व्याधैस्त्वान्न | वेत्सीति बोधितः | मुक्त्वैतान् गुरुणानन्यो धन्यः प्राप्नोति तत्पदम् || सुप्रभेदे ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्शुद्ध कुलोद्भवाः | आचार्यास्तेषु विज्ञेया नान्येषान्तु कदाचन || शिवधर्म्मोत्तरे - संसारपङ्कनिर्म्मग्नं यस्समुद्धरते नरम् | शिवज्ञानेन हस्तेन कस्तेन सदृशः पिता || चिन्त्य विश्वे - अनुग्राह्य स्त्रियश्शास्त्रे विज्ञानप्रलयाकलौ | तृतीयस्सकलश्चैव आद्योपि मलमात्रकः || मलकर्म्म समायुक्तः प्रलयाकल एव च | मलमाया कर्म्मयुतस्सकलस्सोभिधीयते || साधारोथ निराधारस्साधारस्सकलस्य तु | प्. १०६३) निराधाराह्वयान्येषामेव दीक्षा मयोदिता | आचार्य निरपेक्षेण तीव्रशक्त्या तु शम्भुना || या क्रिया क्रियते सा तु निराधारेति कीर्तिता | गुरुमूर्तिं समास्थाय मन्दतीव्रादि भेदया || शक्त्या शम्भुश्च कुरुते सा दीक्षा साधिकारिणी | वरुण पद्धत्याम् - शिवस्यानुग्रहो दीक्षा जायते कृतकर्म्मणाम् || साचानेकविधा प्रोक्ता तत्प्रपञ्चोयमुच्यते | चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा || शास्त्री च योगदीक्षा च हौत्रीत्यादिरनेकधा | रजः कुण्डवती हौत्री साद्विभेदा किलोदिता || आद्या ज्ञानवती प्रोक्ता क्रियावत्य परा स्मृता | विनेज्यानलकर्म्मादि मनोव्यापारमात्रतः || दीक्षा ज्ञानवती प्रोक्ता सम्यक् तत्त्वावबोधजा | इज्यानलवती या तु क्रियाकौशल सम्भवा || क्रियवत्यय सा वेका निर्बीजा च स बीजका | कालोत्तरे - बालादीनां तु निर्बीजा समयाचारवर्जिता | वरुणपद्धत्याम् - प्. १०६४) नित्यमात्राधिकारत्वात् समयिन्यथ पुत्रके | दीक्षा निरधिकारैव नैमित्ते नाधिकारिणी || विजयोत्तरे - पूजायतस्ततस्तत्र समयी नाधिकारभाक् | अथ निर्बीजिका दीक्षा प्रोक्ता सा द्विप्रकारिका || एका निर्वाणदा सद्यो द्वितीया देह पाततः | सिद्धान्ते - प्रारब्ध सञ्चिता गामि? कर्म्मजालं विशोध्यते | ययात्यन्त विरक्तानां सद्यो निर्वाणदा भवेत् || प्रारब्ध कर्म्मणां भोगं यथा सा मुक्तिमन्तरा | यान्ति बालादयश्चैव स्वेच्छा निर्वाणदा भवेत् || किरणे - प्रारब्धकर्म्मनाशे तु स्वयन्देहोपपद्यते | कालोत्तरे - स बीजा चैव शक्तानां समयाचारसम्युता | तेत्र बाल्या प्रयत्नेन मोक्षसिद्धि समीहिता || वरुण पद्धत्याम् - स बीजा च भवेद्दीक्षा साधकाचार्ययोरपि | षट्सहस्रिकायाम् - प्. १०६५) नित्यं नैमित्तिकं काम्यमाचार्यस्योदितं त्रयम् | नित्यं काम्यं साधकस्य स्वशास्त्रोक्तं षडानन || वरुणपद्धत्याम् - सर्वत्रैवाधिकारित्वात् साधिकारैव सा तयोः | साध्यमन्त्राभिषेकाच्च साधके सा प्रकीर्तिता || सर्वविद्याभिषेकेण भवेदाचार्य गोचरे | षट्सहस्रिकायाम् - द्विधा निर्वाण दीक्षा च लौकिकी शिवधर्म्मिणी | अधर्म्ममात्र संशुद्धा प्रोक्ता सा लोकधर्म्मिणी || धर्म्माधर्म्मात्मकं कर्म प्रागागामि विचित्रकम् | सञ्चितंशोध्यते येन सैवोक्ता शिवधर्म्मिणी || वातुले - गुरुपदेश क्रमतो दीक्षितानां क्रमात् भवेत् | समयं च विशेषं च निर्वाणं चाभिषेचनम् || वरुणपद्धत्याम् - क्रियया वाथशक्त्या वा दीक्षा सा सर्वतोमता | दीक्षया मुच्यते देही त्रिविधात् भवबन्धनात् || कामिके - क्रियादीक्षा प्रबुद्धानां ज्ञानदीक्षामनीषिणाम् | प्. १०६६) मुच्यते ज्ञानदीक्षाया विना पाशान्नमोचनम् || वरुणपद्धत्याम् - सा च दीक्षाध्व संशुद्धा स चाध्वा षड्विध स्मृतः | मन्त्रः पदानि वर्णाश्च व्याप्तानीह समन्ततः || वर्णास्तु भुवनैर्व्याप्तास्तत्वैर्व्याप्तानितानि च | कलाभिस्तानि तत्वानि व्याप्तानीह कला क्रमात् || इत्यध्वनां विचिन्त्याथ षडध्वव्यापिनं परम् | ध्यात्वा शक्तिन्नदूर्ध्वे तु भवेयुः परमं पदम् || निवृत्तौ पार्थिवन्तत्वञ्चिन्त्यमेकं क्षकारकम् | कालाग्नि प्रभृतीनां तु पुराण्यष्टोत्तरं शतम् || अन्त्यात्पदान्महादेव पदावधिविलोमतः | व्योमव्यापि पदान्यष्टाविंशतिः परिसंख्यया || सद्यो जातश्च हृदयन्द्वौ मन्त्रौ परिकीर्तितौ | गुणं गन्धादिशब्दान्तं पञ्चब्रह्मा च कारणम् || प्रतिष्ठायामवादीनि त्रयोविंशति संख्यया | प्रकृत्यन्तानि तत्वानि ज्ञातव्यानि स्वभावतः || त्रयोविंशति वर्णाश्च हादिनान्ताविलोमतः | ज्ञातव्यान्यमरेशादि षट्पञ्चाशत्पुराणि च || प्. १०६७) महेश्वराद्यरूप्यन्न पदानामेक विंशतिः | शिरोवामश्च मन्त्रौद्वौ चत्वारि तु गुणा स्मृताः || रसादिशब्द पर्यन्ता विष्णुरत्र च कारणम् | विद्यायां सप्ततत्वानि पुरुषादीन्यनुक्रमात् | वामादि भुवनानां च विज्ञेया सप्तविंशतिः || ध्यानाहरपदा * * न व्यापिनीति पदादितः | पदानां विंशतिर्म्मन्त्रौ * * * * * * * * || * * * * * * * * * * * * * * * * | रूपः स्पर्शश्च शब्दश्च गुणारुद्रस्तु कारणम् | शान्तौ तु त्रीणि तत्वानि विद्येश्वर सदाशिवः || ण * * काश्च त्रयोवर्णा मन्त्रौ वक्त्र तनुच्छदौ | वामाख्यादि पुराण्या * * * * * * * * | * * * * * * * * * * * * * * * * || व्योमव्यापिन इत्यन्तान्युक्तानीह विलोमतः | गुणौ स्पर्शश्च शब्दश्चद्धावी * * कारणम् || शान्त्यातीत कलायान्तु शिवतत्वं व्यवस्थितम् | निवृत्त्यादि पुराण्यत्र भवन्ति दश पञ्च * * || प्. १०६८) विसर्गाद्या कारान्ता वर्णाष्षोडशकीर्तिताः | भवत्येको गुणश्शब्दः कारणन्तु सदा शिवः || चिन्त्ये - इत्येकादशमन्त्रेस्यादेकाशीति पदं भवेत् | अक्षराण्येक पञ्चाशच्चतुर्विंशच्छतद्वयम् || षट्त्रिंशत्तत्वमेवं हि कला पञ्चक उच्यते | मतङ्गे - सितं चैवासितं कर्म्मलोके तावत्प्रकीर्तितम् | हिंसादिकं कर्म्मयत् स्यात्तदकर्म्म च कर्म्मिणाम् || वापी कूपतटाकाद्यैस्सितमेतत् प्रकीर्तितम् | एतत् कोटिद्वयोपेतंमुचितं सर्वजन्तुषु || अपेक्ष्य वेदविध्युक्तमग्निष्टोमात्मिके पथि | कर्म्माकर्म्म विशेषोस्मिन् प्रोक्तन्तद्धिसितासितम् || एतावत्त्रिविधं कर्म्म नेष्टंशास्त्रे शिवोदये | चिन्त्ये - पूर्वजन्मकृतं कर्म्मभोगेन परिशुष्यति | इह जन्मनि यत्प्राप्तं ज्ञानेन शिथिलं कुरु || तथान्यत्र - प्. १०६९) प्रारब्धं भोगतो न श्यात् सञ्चितं हन्ति दीक्षया | आगामि ध्यानपूजायामिति शास्त्रस्य निश्चयः || योगजे - स्थूलं च सूक्ष्मकं चैव द्विविधं समयं भवेत् | अचिन्त्ये - लोकायतोय बौद्धश्चार्हतो मीमांस एव च | मायावादं पाञ्चरात्रं षडेते समया बहिः || अन्यत्र | मनुर्बृहस्पतिर्द्दक्षो गौतमोधरमोङ्गिराः | योगीश्वरः प्रचेदाश्च शतातप पराशरौ || संवर्त्तेशनसश्शङ्खलिखितावत्रिरेव च | वेदोक्तकर्म्मभरिता धर्म्मशास्त्र प्रवर्त्तकाः || सुप्रभेदे - ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः | ब्रह्मचारी द्विधा ज्ञेयो भौतिको नैष्ठिकस्तथा || कूर्म्मे - उदासीनस्साधकश्च गृहस्थो द्विविधो भवेत् | कुडुम्बभरणायत्तस्साधकोसौ प्रकीर्तितः || ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्या धनादिकम् | एकाकी विचरेद्यस्तु स उदासीन उच्यते || प्. १०७०) चिन्त्य विश्वे - यतयस्त्रिविधा ज्ञेयास्तपस्वी विदुषस्तथा | विद्वानिति त्रिधा प्रोक्तास्तेषां लक्षणमुच्यते || तपश्चान्द्रायणादिकमिति सन्ताने - चतुष्षष्ठि कलाश्चैव षट्कर्म्माणि तथैव च | योगशास्त्राणि सर्वाणि वेदान्तं ज्योतिषन्तथा | मतङ्गे - सांख्य सिद्धान्तमार्गं च ज्ञात्वा वै देशिको भवेत् | शैवपुराणे - ब्राहं च वैष्णवं पाद्यं शैवं भागवतन्तथा | भविष्यन्नारदीयं च मार्गण्डेयमतः परम् || आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च | स्कान्दं च वामनं प्रोक्तं कौर्म्मं मात्स्यं च गारुडम् || ब्रह्माण्डं चेति पुण्योयं पुराणान्मानुक्रमात् | ऋग्यजुस्सामाधर्वणाश्चतुर्वेदाः प्रकीर्तिताः || देविकालोत्तरे - ज्ञानोत्पत्तिनिमित्तन्तु क्रियाचर्या प्रकीर्तिता | सुप्रभेदे - योगात् ज्ञानं समादाय ज्ञानतत्वं सदाभ्यसेत् | प्. १०७१) शैवे - ज्ञानादेव हि मुक्ति स्यान्नान्यथा कर्म्मकोटिभिः | चिन्त्ये - अन्यथा बहवोमुक्तिश्शास्त्रे च वरानने | शिवतुल्यं लभेन्मुक्तिरिदानीं कथ्यते मया || निश्वासे - सिद्धान्त सङ्ग्रहे च || लोकायतिक पक्षे तु तत्वं भूत चतुष्ट्यम् | इष्टलोकात् परोनान्य स्वर्गोस्ति नरको न च || शिवलोकादयो मूढैः कल्प्यन्तेन्य प्रकारकैः | स्वर्गानुभूतिमृष्टाष्टिद्व्यष्ट वर्षवधूरतिः || सूक्ष्मवस्त्रसुगन्धसृक् चन्दनादि निषेवणम् | नरकानुभवो वेदशास्त्रव्याध्याध्युपद्रवः || मोक्षस्तु मरणं प्राण संज्ञवायु निवर्त्तनम् | सर्वमतोपन्यासे - तदेषां श्रुति वाक्यानां शब्दमात्रं हि देवता | ज्योतिष्टोमाद्यनुष्ठानादपूर्वः कश्चिदार्जितः || स्वर्गादेः फलरूपस्य प्रदानस्य तु देवता | कर्म्ममीमांसकाः प्राहुरित्थं स्वमतलक्षणम् || प्. १०७२) तथा मृगेन्द्रे - न जातु देवता मूर्त्तिरस्मदादि शरीरवत् | विशिष्टैश्वर्य सम्पन्नस्ततो नैतन्निदर्शितम् || अतस्त्वेवं घटो न्यायश्शब्दत्वादिन्द्र शब्दवत् | ज्ञानसंस्कार संज्ञानं वेदना रूपयोरपि || समूह स्कन्धशब्दार्थस्तत्तत्सन्तति वाचकः | ज्ञान सन्ततिरेवात्र विज्ञान स्कन्धमुच्यते || संस्कारस्कन्ध इत्युक्तो वासनान्तन्तु सन्ततिः | सुखदुःखादिका बुद्धिस्सादीपेक्षात्मिका तथा || वेदनस्कन्ध इत्युक्तस्संज्ञा स्कन्धान्तनावयत् | रूपस्कन्धो भवत्यत्र मुक्ति भूतस्य संहतिः || चिन्त्ये - शास्त्राणि समयाश्चैव अन्योन्येन विपर्ययाः | एतेषा मुक्तिकोलाभादतित्वं यदि सृग्विसि || एकेन नैतदित्युक्तमभिन्नन्यायतः प्रिये | सर्वेषां तु क्वचिद्दृष्टे स्थिते सन्ति तरुत्तमम् || वेदागमेषु शास्त्रेषु ईश्वराढ्योति कीर्तितः | तथा निश्वासे देवी - वेदशास्त्र पुराणज्ञ पाञ्चरात्रेतिहासयोः | प्. १०७३) योगिनश्च तथाचान्ये कुपथेष्वपि ये स्थिताः | कुतर्के मोहयित्वा तु स्वदेहन्दर्शयन्ति ते || देवि चात्र ब्रुवन्त्येव गतिरत्रकुतोन्वितः | पक्षपातो भवे देषो मोक्षस्सर्वत्र वा भवेत् || एवं मे संशयो देव यत्सत्यं तत् ब्रूहि मे | शिवधर्म्मोत्तरे - विधिवाक्यमिदं शैवन्नार्थवादश्शिवात्मकम् | यद्यथावस्थितं वस्तु गुणदोष स्वभावतः || यावत्फलं च तत्पुण्यं सर्वज्ञश्च तथा वदेत् | रागज्ञानादिभिद्दोषैः ग्रस्तत्वादमृतं वदेत् || ते चेश्वरे न विद्यन्ते ब्रूयात्स कथमन्यथा | अपास्ता शेषदोषेण सर्वज्ञेन शिवेन यत् || प्रणीतममलं वाक्यन्तत्प्रमाणन्न संशयः | तस्मादीश्वर वाक्यानि श्रद्धेयानि विपश्चिता || मकुटे - वेदान्तार्थमयं ज्ञानं सिद्धान्तं परमं शुभम् | वेदसारार्थदं ज्ञेयमन्यत्वन्यार्थ साधकम् || कामिके - प्. १०७४) सिद्धान्तो वेदसारत्वादन्यत्वे तत्बहिष्कृतः | सिद्धान्त विहिताचारो वैदिकाचार उच्यते || अजिते - पञ्चवक्त्रधरो भूत्वा पञ्चभिस्तैर्मुखैरपि | वेदादि ग्रन्थजालं यदवतारयति प्रभुः || कामिके - लौकिकं वैदिकं चैव तथाध्यात्मिकमेव च | अतिमार्गं च मन्त्राख्यन्तत्र भेदमनेकधा || सद्यो वाममघोरं च पुरुषेशानमूर्त्तयः | प्रत्येकं पञ्चवक्त्रास्युस्तैरुक्तं लौकिकादिकम् || स्वायम्भुवे - वेदादि ज्ञानभेदेन शिवज्ञानमिहोदितम् | चिन्तामणिरिवात्रासौ स्थितस्सर्वस्य कारणम् || धर्म्मसाधन संवित्तिराम्नायादेव जायते | तन्मूलत्वात् स्मृतेश्चापि ताभ्यामेवापरस्य च || पुराणादीनि शास्त्राणि सादरन्नित्यमाश्रयेत् | वेदमूलतयान्यानि प्रवृत्तान्यपि सत्तम || सिद्धान्त सङ्ग्रहे - अङ्गोपाङ्ग वेदास्युर्वेदस्यैवोपकारिकाः | प्. १०७५) वेदाङ्गानि षडेतानिशीक्षाव्याकरणानि च | निरुक्तञ्ज्योतिषं कल्पं च्छन्दोवचितिरित्यपि || मिमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि | चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै || कामिके - ऋग्यजुस्सामाधर्वाणि पुरुषाद्यननोत्भवाः | पश्चिमाद्वामवक्त्रन्तु वामाद्दक्षिणमुत्तमम् || दक्षिणात् पुरुषश्रेष्ठ उतरोत्रमेव वहि | पूर्वाननात्ततश्श्रेष्ठन्तस्मात् सिद्धान्तमुत्तमम् || सिद्धान्तात्परमं ज्ञानं नेति शस्त्रस्य निश्चयः | अष्टाविंशति तन्त्राणि सिद्धान्तमिति कीर्तितम् || रत्नत्रये - सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे | सिद्धान्तस्सेव्यते सद्भिरशक्तिपात पवित्रितैः || तथा कामिके - आदावभूद्विधा ज्ञानमधिकारि विभेदतः | परापर विभागेन पतिपाशात्म दर्शकम् || शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् | वेदाद्यपर विज्ञानं पशुपाशार्थ दर्शकम् || प्. १०७६) यथा विलक्षणञ्चक्षु क्षपायान्नृबिडालयोः | तथा विलक्षणं ज्ञानमेवमेतत् परापरम् || शिवधर्म्मोत्तरे - आगमत्वेपि सामान्येकः प्रद्वेषश्शिवात्मके | अनायासेन यत्प्रोक्ता मुक्तिरेकेन जन्मना || एवमेकेन भविकां विमुक्तिं परतस्थिताम् | विहायानेक भविकां कः प्राज्ञः प्रतिपद्यते || तदुक्तन्निश्वासे - शास्त्रेण सिध्यते सिद्धिस्सिधान्तस्तेन संस्मृतः | शिवो देशिकदेहस्थः प्राण्यनुग्रहकारकः || पराख्ये - सर्वकर्त्ता महान्विद्यात् सर्ववेत्ता महेश्वरः | सर्वकृत्येषु तत्ज्ञानं व्या * * * * * * * * || * * * * * * * * * * * * * * श्शिवः | आगपि सर्वज्ञो गुणमाहात्म्य दर्शनात् || उभयोर्ज्ञापकत्वेन दोषस्त्वन्योन्य * * * भवेत् | ज्ञापकं वर्तते शास्त्रन्तत्कर्त्ता वर्तते शिवः || ज्ञातृज्ञापकयोश्चैव न दोषस्त्वितरेतरः | मृगेन्द्रे - प्. १०७७) सर्वज्ञस्सर्वकर्तृत्वात् साधनाङ्गफलैस्सह || यो यज्जानाति कुरुते स तथैवेति सुस्थितम् | पराख्ये - क्रियादि ज्ञानपर्यन्तं सद्यङ्मार्गञ्चतुर्विधम् | तदुक्तं शिवज्ञाने - चर्यापादन्दासमार्गं पुत्रमार्गं क्रियां विदुः | सहमार्गं योगपादं सन्मार्गं ज्ञानमेव च || अथ चर्या क्रियापादं योगपादन्तथैव च | ज्ञानपादं क्रमाच्चैव शिवेन परिभाषितम् || एतच्चतुर्विधं मार्गं सालोक्यादि फलप्रदम् | चिन्त्य विश्वे - शिवसमानतारूपं शिवविग्रहमेव हि | सकले निष्कले चैव सर्वत्रैव समानता || सायुज्यमिति तत्प्रोक्तं सारूप्यं मूर्तितुल्यता | सामीप्यं मूर्ति सामीप्यं स्वेच्छा विग्रहधारणात् || शिवलोकादि संप्राप्तिस्सालोक्यं मुक्तिनामतः | एतच्चतुष्टयं मुक्तिस्सायुज्यञ्चोत्तमं भवेत् || कामिके - दासमार्गं शिवोद्यान लिङ्गबिंबालयादिकृत् | प्. १०७८) शैव नर्त्तनतिस्तोत्रगान् कुद्रोहिमर्द्दकः | शिवज्ञानबोध सङ्ग्रहे - क्रियामूर्त्तेर्महेशस्य आलयेषु समाहितः | शनैस्सम्मार्जनं कुर्यान्मार्ज्जन्यामृदुसूक्ष्मया || तल्लक्षणमुक्तं सुप्रभेदे - द्वादशाङ्गुलमानेन मार्ज्जिजालेन मार्जनम् | नालिकेरस्य पत्राणां सारात्बहु च संयुतात् || अरत्निमात्र मायामन्तन्मूले रज्जु बन्धनम् | द्विविधा मार्जनी प्रोक्ताह्यथमार्जन कर्म्मणि || शिवधर्म्मे - नाहारवश जीर्णाया न बन्ध्या क्षीण वत्सला | रोगार्त्ता नवसूता वा त्याज्यागोमय सङ्ग्रहे || ख संस्थं गोमयं ग्राह्यं स्थाने वा पतिते शुभे | उपर्यधश्च संत्यज्य प्रत्यग्रञ्चतुवर्जितम् || वस्त्र पूतेन तोयेन यः कुर्यादुपलेपनम् | पश्यन्परिहरन् जन्तून् चान्द्रायणफलं लभेत् || शिवज्ञाने - आत्मारामोद्भवैः पुष्पैस्समादाय शिवस्य तु | मालां संग्रथयित्वा तु यो दद्यात् परमेष्ठिने || प्. १०७९) यः कुर्यात्तु महेशाय पुष्पारामक्रिया विधिम् | स्तोत्रगानादिकं सर्वं यः कुर्याद्दासमार्गकः || कामिके - पुत्रमार्गीशिवार्चादि जपहोमपरायणः | प्रवेशकश्शिवज्ञानी औपदेशिक एव च || वातुले - मूर्तिं सदाशिवीं विद्याम् शुद्धस्फटिक सन्निभाम् | पञ्चपञ्च भुजैर्युक्तां पञ्चवक्त्रं स्मिताननाम् || दशायुध समोपेतां सर्वाभरणभूषिताम् | उन्मनी सहितं शम्भुं विन्यसेद्धृदयेन तु || विजने प्रयतस्सर्वं विद्यादेहं विचिन्तयेत् | पराशक्ति समायुक्तं मूर्ध्निमध्ये तु विन्यसेत् || तदूर्ध्वे शिवमावाह्य सधोज्ञानमवाप्नुयात् | ज्ञानरत्नावल्याम् - किन्तु देहावसानेन यः पूजयति भक्तितः | स शिवस्सर्वकृच्छम्भुर्ज्जीवन्मुक्तस्सकथ्यते || कामिके - सहमार्ग्गि भवेत्यक्त संसारीशुचिमन्त्रयुक् | समदृङ्निरहंकारी शिवयोगकृतश्रमः || प्. १०८०) सुप्रभेदे - गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः | मूलाधारमिति ज्ञेयं तद्विज्ञेयमुदाहृतम् || आधारं गुदमित्युक्तं स्वाधिष्ठानन्तु लिङ्गकम् | मणिपूरन्नाभिदेशे हृत्पद्मगमनाहतम् || विशुद्धिः कण्ठदेशे तु आज्ञाकोदण्डमध्यगा | आधारमासनं प्रोक्तमाधेयः परमश्शिवः || मकुटे - षडाधारादि देवानां शृणुष्वेवं महेश्वर | विघ्नेशो भैरवश्चैव क्षेत्रपालश्च चण्डिका || मूलाधारादि देवास्यु स्वाधिष्ठानमथ श्रुणु | प्रतिष्ठाशुद्ध भैरिण्या भवानी ऋषी पद्मिनी || पद्मासना पद्मयोगी स्वाधिष्ठानादि देवताः | तुलाराक्षि नीलराक्षीराक्षीकैला स्फुलिङ्गिनी || उपाभ्युष्णीषिका चैव वशिनी च त्रिशङ्करी | तपनी नवनी चैव मणिपूरक देवताः || मणिपूरमिदं प्रोक्तमनाहतमतश्श्रुणु | काशनीशातनी चैव शोचिका वेणिवेणिका || अक्षिणी चैव चामुण्डी ज्येष्ठा दुर्गा वराटिका | प्.१०८१) अरणी स्वरणी चैव चाधिदेवास्त्वनाहते | अनाहतमिति प्रोक्तं विशुद्धेर्न्नाम तच्छ्रुणु || मनाटी पुष्पटीस्तीटी शृङ्गि च च्छूर्पराटिनी | रात्रिश्च दामकरिणी जया पूजी च मेव च | अल्पाशिनी मकाराक्षी दूल्वाशी आपचारिणी || कलासीकमला चैव विशुद्धस्याधि देवता | विशुद्धि देवता प्रोक्ता आज्ञादेवमथ श्रुणु || अन्ते सुन्दरी आनन्दी आज्ञाया अधिदेवता | षडाधारमिदं ज्ञेयं अतिदेव समन्वितम् || वायव्ये - समाधिना च सर्वत्र प्रज्ञालोके प्रवर्तते | यदर्थमात्र नि सममितो दधिवत्स्थितम् || स्वरूपशून्यं यत्भाति तत्समाध्यभिधीयते | तथा चिन्त्यविश्वे - मूलाधाराख्य कालाग्नेर्म्मण्डलोपरि संस्थिताम् | आधाराणामशेषाणां भेदिनी बोधिनीपका || सृष्ट्यन्तोमृत संवाही शिवशक्तिस्वरूपिणी | आप्लावयन्ती सर्वत्र सिद्धिमुक्ति प्रदायिनी || एवं कुण्डलिनी प्रोक्ता चातिगुह्या महोदया | प्. १०८२) कामिके - सन्मार्गीत्यक्त संसारस्समत्वशुचिमत्वयुक् | त्रिपदार्थ परिज्ञान शिवयोगकृत श्रमः || पुत्री कृत जनश्शैवाचार्यासन्तातिकश्च सः | शुद्धात्मनां हितं शास्त्रन्त्रायते यद्भवार्णवात् || तच्छासन परित्राणात् शास्त्रमित्यभिधीयते | चिन्त्यविश्वे - शाश्वतन्तुर्य रहितमानन्दं परमं पदम् | त्रिपुटी ज्ञानहीनं यत् प्रोक्तन्तत्परमं पदम् || तथा स्कान्दे - धारणध्यान युक्तस्य समाधिर्भवति ध्रुवम् | यत्सामरस्यमनयोर्ज्जीवात्म परमात्मनोः || यत्परित्यक्तसङ्कल्पं समाधिरभिधीयते | प्रतिपत्तेस्समाधौ तु सङ्कल्परहितात्मनः || ज्ञेयं ज्ञाता तथा ज्ञानमेतद्रूपं विलीयते | कामिके - उत्तरोत्तरवैशिष्ट्यपटले | सन्मार्गादि क्रमेणापि वैशिष्ट्यमिह सम्मतम् | सन्मार्गी सहमार्गी च पुत्रमार्गी तथा परः || प्. १०८३) दासमार्गी चतुर्थेषां प्रतिलोमाद्विशिष्यते | शिवधर्म्मोत्तरे - अध्ययञ्चाध्यपनं व्याख्याश्रवण चिन्तने | इति पञ्चप्रकारोयं ज्ञानयज्ञः प्रकीर्तितः || उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् | अथ पूजाद्यग्निकार्याद्यैर्भेदैर्बहुविधै स्मृतः || कर्म्मयज्ञस्समाख्यातस्त पश्चान्द्रायणादिकम् | स्वाध्यायश्च जपः प्रोक्तश्शिवमन्त्राख्य संस्थितः || ध्यान यज्ञस्समाख्यातश्शिवचिन्तार्मुहुर्मुहुः | पञ्चानामपि यज्ञानां ज्ञानयज्ञो विमुक्तिदः || कर्म्मयज्ञात्तपो यज्ञो विशिष्ठो दशभिर्गुणैः | जपयज्ञस्तपो यज्ञात् ज्ञेयश्शतगुणाधिकः || ज्ञान ध्यानात्मकस्सूक्ष्मश्शिवयोगो महामखः | विशिष्टस्सर्वयज्ञानांमसंख्यातैर्महागुणैः || यस्मात्तस्माद्विशुद्धोयमपवर्गफलप्रदः | शिवधर्म्मोत्तरे - आरम्भकाले श्रवणं क्रियाकाले तु चिन्तनम् | निश्चयाद्धवनन्तस्य निष्ठाकाले प्रसन्नता || प्. १०८४) चिन्त्यविश्वसादाख्ये - यावत्कालं शिवज्ञानन्द्रयी भवति तस्य वै | तावत्कालं च कर्त्तव्यं श्रवणादि विशेषतः || शिवधर्म्मोत्तरे - ज्ञानं विकल्प बहुलं रागाद्यैः कलुषीकृतम् | तदज्ञानन्न शुध्यर्थं कलुषोदकवद्भवेत् || तत्र ज्ञानाज्ञानयोर्ल्लक्षणमाह | यदा प्रसन्नमेकाग्रं स्तिमितोदधिवत्स्थितम् | तदा ज्ञानमिति प्रोक्तमज्ञान तिमिरापहम् || इति प्रसन्नं यत्ज्ञानं भावानामयमुत्तमम् | रागाद्यैरपरामृष्टन्तद्विज्ञेयं विमुक्तिदम् || अज्ञाने सति रागाद्यैर्धर्म्माधर्म्मौ च तद्वशात् | धर्म्माधर्म्म वशात् पुंसां शरीरमुपजायते || शरीरे सति सत्क्लेशस्सर्वैस्संयुज्यते यतः | ततः क्लेश व्यपोहार्थ पुनर्द्देहन्न कारयेत् || जगतस्तस्य सम्बोधादज्ञानं विनिवर्त्तते | तत्क्षयाच्च शरीरेण न पुनस्सं प्रयुज्यते || मृते शिवपुरं गच्छेत् त्रिसप्त कुल संयुतः | कल्पकोटिशतन्दिव्यं सेव्यमानं सतिष्ठति || प्. १०८५) क्रदन्ते विष्णुभवने तावत्काल * * स्यति | विष्णुलोकाच्च्युतो ब्राह्मन्ततस्संप्राप्यमोदते || सम्भोगैर्विविधैस्सूक्ष्मैस्तावत्कालमनुत्तमैः | प्रजापतीन्द्र गन्धर्व यक्ष * * नुक्रमात् || * * * * * * * * * * * * * * * * | काले महति विप्राणां प्रज्ञाशील गुणान्वितः | ततस्स * * * * * * गीन्द्रं समुपासते || तत्संपर्क्काच्छिवज्ञानं प्राप्य योगन्निषेवते | योगाद्विरक्त संयोगादाप्नोति परमं पदम् || व्रतानि दान नित यज्ञा- स्सन्न्यास तीर्थाश्रम कर्म्मयोगाः | स्वर्गीयमेतच्छुभमध्रुवं च ज्ञानाद्ध्रुवं शान्तिकरं महार्थम् || स्वात्म भोगाधिपत्यं स्याच्छिवस्सर्वजगत्पतिः | केचित् तत्रैव मुच्यन्ते ज्ञानयोगरतानराः || आवर्त्तन्ते पुनश्चान्ये संसारे भोगतत्पराः | तस्माद्विपश्चिल्लोकेषु भोगासक्तिं विवर्जयेत् || विरक्तिशान्त शुद्धात्मा शिवज्ञानमवाप्नुयात् | निश्वासे - प्. १०८६) यस्तु फलन्दानयज्ञादि कर्म्मणा समुपार्जितम् | तदस्याप्युपभोगेन क्षयमायेत्यशेषतः || यज्ञात् स्वर्गफलावाप्तिस्तत्क्षयात् पुनरागमः | सुप्रभेदे - अन्येषु पशुधर्म्मेषु स्वर्ग एव फलं हि तत् | एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् || सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् | तत्रैव | शिवलोके निवासस्यादन्य लभ्यन्न देवतैः | भुक्त्वा तु विपुलान्भोगान्प्रलये समुपस्थिते || ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते | न तेषां पुनरावृत्तिर्घोरे संसारसागरे || सर्वज्ञास्सर्वगाश्शुद्धाः परिपूर्णा महेश्वराः | शिवतुल्यबलास्सिद्धाः परं शिवपुरं गताः || अत्यल्पमपि यद्दत्तं शिवज्ञानात्मवेदिने | तन्महाप्रलयं यावद्दातुर्भोगाय कल्प्यते || मृगेन्द्रे - मायाकार्योमरेशादि रुद्रस्थानेषु यत्सुखम् | अपरन्तत्पदं विद्यादानन्दादि पदस्थितिः || प्. १०८७) शिवधर्म्मोत्तरे - अनेक भविकामुक्तिर्भवतः केनकार्यते | तस्मादत्रैक भविकामुक्तिर्ज्ञानेन निश्चिता || सुप्रभेदे - ज्ञाने नैव तु तत्तुल्यं प्राप्तस्तत्र न संशयः | शिवधर्म्मोत्तरे - अज्ञानपाशबन्धत्वादमुक्तः पुरुष स्मृतः | ज्ञानेन मोचितं यस्मात्तस्मात् ज्ञानं विशिष्यते || संसारबीजमज्ञान संसार्यज्ञः पुमां स्मृतः | ज्ञानात्तस्य विमुक्ति स्यात् प्रकाशात्तु तमो यथा || शिवज्ञानात्परं ज्ञानं तत्समं च न विद्यते | सुप्रभेदे - ज्ञानं प्रवर्त्तते वत्स भ्रान्तिर्निर्नाशनाय च | अध्वश्रेणि विनाशाय शिवव्यक्तिकराय च || अन्धकार वदज्ञानं ज्ञानन्दीपवदुच्यते | ज्ञेयं भास्करवत्प्रोक्तन्तस्मात् ज्ञानं विशिष्यते || सूत संहितायाम् - आत्मनः परमामुक्तिर्ज्ञानेनैव कर्म्मणा || शैव पुराणे - प्. १०८८) ज्ञाना देव हि मुक्तिस्यान्नान्यथा कर्म्मकोटिभिः | यश्चशम्भोः प्रसादेन गुरोश्चैव प्रसादतः || जायते तच्छिवज्ञानन्नान्यथा सत्यमीरितः | वातुले - आदित्य सन्निधौ रश्मिस्सूर्यकान्तेपि चोदितम् | आचार्यसन्निधौ ज्ञानमात्मन्येव तथोदितम् || सुप्रभेदे - सर्वतत्वानि भूतानि दृश्यन्ते चात्म एव हि | चिन्त्ये - यस्साक्षी सुखदुःखानां लोकेस्मिन् सर्ववस्तुनि | अणोरणु महीयांश्च महतो यत्परात्परम् || पौष्करे - कर्म्मनाशान्मलस्यापि विपाके सहकारिणी | पतत्युन्मीलिनी शक्तिस्तदानुग्रह रूपिणी || तस्यां पतितमात्रायां मलयोनिर्म्मलात्मिका | शक्तिर्न्निर्वर्तते तस्यां निवृत्तायां महात्मनः || पुनाति साधिकारेण यं वापि परमेश्वरः | यथानुग्रह रूपिण्याश्शक्तेर्न्नति निरोधिका || प्. १०८९) मलस्य क्षीयते शक्तिस्सा दीक्षा शाम्भवी क्रिया | तथा किरणे - तीव्रशक्ति निपातेन इत्यादि | शिवधर्म्मोत्तरे - न श्रुणोति न चाघ्राति न रस्यति न पश्यति | न च स्पर्शं विजानाति न च सङ्कल्पते मनः || न चाभिमन्यते किञ्चिन्न च बुध्यादि काष्ठवत् | एवमीश्वरके लीनस्समाधिस्थः प्रकीर्तितः || सुप्रभेदे - स्वभावज्ञानतो मुक्तस्सजीवन्मुक्त एव हि | समत्वं सुखदुःखाभ्यान्तत्प्रिया प्रिययोस्समम् || देविकालोत्तरे - समस्तु मित्रामित्रे च समलोष्टाश्म काञ्चनः | यस्यां यस्यामवस्थायां तस्यान्तस्थां स्मरेच्छिवम् || कालोत्तरे - निद्रायां बोधयेच्चित्तं विक्षिप्तं क्षमयेत्पुनः | पक्षद्वय परित्यागे संप्राप्ते नैव चालयेत् || निराश्रयं यदा चित्तं सर्वालम्बनवर्ज्जितम् | नैव स्थान विनिर्म्मुक्तं विज्ञेयं मुक्तिलक्षणम् || रत्नत्रये - प्. १०९०) तया हि विमलोदार गम्भीरे चिन्महोदधौ | स्वात्मनि प्रविलीयन्ते धन्या हि शिवयोगिनः || शिवधर्म्मोत्तरे - धर्म्मरज्वा व्रजत्यूर्ध्वं पापरज्वा व्रजत्यधः | द्वयं ज्ञानासि न च्छित्वा विदेहं शान्तिमृच्छति || ज्ञानामृतरसोयेन सकृदा स्वादिनो भवेत् | स सर्वकार्याण्युत्सृज्य तत्रैव परिधावति || ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः | नैवास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न च तत्ववित् || लोकत्रयेपि कर्तव्यं किंचित्तस्य न विद्यते | देहपाते तथा चात्मा भाति सर्वत्र सर्वदा || तथा मतङ्गे - ज्ञानाभि व्यक्तये व्यक्तिं व्यक्तं तत्वमणुं प्रति | निश्वासे - अप्रमेय गुणोपेतस्सर्वज्ञः खलु सर्वदा | सर्वकृत्सर्वलोके शश्शिवतुल्यः प्रजायते || व्यक्तेसौ शिववत्भाति शिव एव तनुक्षये | शिवधर्म्मोत्तरे - प्. १०९१) सर्वज्ञः परिपूर्णश्च शुद्धस्सर्वतः प्रभुः | संसार सागरान्मुक्तश्शिवतुल्यः प्रजायते || तत्रैव | प्रलयान्ते तनुन्त्यक्त्वा स्वात्मन्येवावतिष्ठते | सर्वज्ञानोत्तरे - धर्म्माधर्म्म फलन्नास्ति लोकाचारं विशेषतः | नियमोपि न तस्यास्ति नोपवास व्रतानि च || सङ्कल्पं च विकल्पं च ये चान्ये कुलधर्म्मकाः | यदा भेदन्न विद्यन्ते बालकोन्मत्तकादिभिः || एतैर्न्नास्ति परामुक्तिश्चिद्रूपं व्यापकं विना | मतङ्गे - लीलयैव स मुक्तात्मा विचरन् केन वार्यते | सर्वज्ञानोत्तरे - दिग्देश जातिसम्बन्धान्वर्णाश्रम समन्वितान् | गच्छंस्तिष्ठन् स्वपन् जाग्रन् भुञ्जानन्मैथुनन्नपि || सर्वदा सर्वकार्येषु वातशीतातपेषु च | भय दारिद्र्यरोगेषु मान्द्य विज्वरकादिषु || भावानेतान्परित्यज्य चाभावं भावयेत् बुधः | निश्वासे - प्. १०९२) यथा वायुस्सुशीघ्रोपि मुक्त्वाकाशन्न गच्छति | ज्ञेय निक्षिप्त चित्तस्तु विषयस्थो न मुञ्चति || सर्वज्ञानोत्तरे - योमां सर्वगतं पश्येत् सर्वं च मयि संस्थितम् | तस्याहन्नित्यमात्मस्थस्स च नित्यं मयि स्थितः || सद्गुरोरुपदेशेन स्वप्रकाशेन निश्चयः | चिन्त्यविश्वे - जाग्रादि पञ्चावस्थायामतीते ज्ञानरूपकम् | सत्गुरोरुपदेशेन विज्ञानेन न संशयः || एवं ज्ञात्वा विशेषेण समाधिं कारयेत् बुधः | चित्तं बुद्धिस्थितं कृत्वा शिवलक्षणमेव हि || आनन्दं शिवभोगन्तु शिवयोगं सदाभ्यसेत् | सर्वज्ञानोत्तरे - यस्य जाग्रदवस्थायान्नियमान्सकलेन्द्रियान् | तुर्यावस्था गुणोपेतः क्षारभावन्न गच्छति || शब्दादि विषयान्भोगी तद्वत् ज्ञानी न लिप्यते | चित्तं शोधययत्नेन किमन्यैर्द्देहशोधनैः || सुप्रभेदे - समस्तसुखदुःखाभ्यान्तत्प्रिया प्रिययोस्समम् | प्. १०९३) शरीरात्प्राग्वस्तुतोपि भुज्यते स्वयमेव तु | सार्धद्विशतिकायामानन्द लक्षणमुक्तम् || रूपञ्च वर्णरूपञ्च आनन्दं त्रिविधं स्मृतम् | रूपं बहुविध ध्यानं वर्णरूपं च कल्पनम् || रूपारूपन्न चा * * म् कल्पनारहितं मतम् | शाश्वतन्तुर्यरहितं आनन्दं परमं पदम् || एतस्यैव तु संप्राप्तौ मुक्तिरेव न संशयः | गुरुवक्त्रेण सत्सिद्धिरानन्दन्तु न संशयः || एवं ज्ञात्वा विशेषेण समाधिं कारयेत् बुधः | सुप्रभेदे - * * * * * * * * * * * * * * स्थितम् | त्यक्त्वैतानि * * * न शुद्धस्फटिकमावहेत् || रौरवे - भिन्ने देहे शिवो भूत्वा शिवधर्म्मे समन्वितः | शिवधर्म्ममनुप्राप्य हविर्भागाय कल्पते || यथा समुद्रमासाद्य नदी * * * * * * | * * * * * * * * * * * * महोदधेः | एवं * * * देहस्तु शिवत्वं समुपागतः || प्. १०९४) सरित् समुद्रसंयोगाद्विभाग * * * * * ते | निश्वासे दृष्टान्तमाह | काष्ठमध्य स्थितो यद्वन्मथितो निर्म्मलोमलः | स शान्ति समयं * * * * * * * * * * || * * * समापन्नं न भवे * * * * * नः | सम्यक् ज्ञानं विदित्वा तु पशुत्वन्न भवेत्पुनः || निश्वासे - सर्वज्ञादि गुणादेव गीयन्ते सर्वतश्शिवे | सिद्धान्त रहस्ये - स्वान्य प्रकाश चित्ज्ञप्तिस्सच्चिदानन्दलक्षणः | शिवस्य ये गुणास्तेषां समस्तास्सन्ति ते गुणाः || परमेशार्ककिरण प्रकाशीकृत चक्षुषः | न जानात्यक्षिवान् शम्भुर्जानाति शिवचक्षुषा || क्षीरे क्षीरमिवाभिन्नं विभिन्नं दृष्टि दृष्टवत् | शिवात्मनोस्सामरस्यं व्यज्यते गुणसाम्यतः || ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधि गच्छति | तदा तु सर्वदुःखानां हानिरस्योपजायते || सर्वज्ञानोत्तरे - प्. १०९५) यावन्नोत्पद्यते ज्ञानं तावद्भ्रमति कर्म्मणा | अज्ञानावृतदेहस्तु दुःखशोकपरिप्लुतः || अष्टमसूत्रं सम्पूर्णम् || नवमसूत्रम् || शिवज्ञानबोधे | चिदृशात्मनि दृष्ट्वैशन्त्यक्त्वा वृत्तिमरीचिकाम् | लब्ध्वा शिवपदच्छायान्ध्यायेत् पञ्चाक्षरीं सुधीः || स्वायम्भुवे - पाशज्ञानन्न मुक्ति स्यात् पशुज्ञानन्तथैव च | सर्वतश्च यतोमुक्तिः पशुज्ञानेन गम्यते || जगतस्तत्व सम्बोधादज्ञानं विनिवर्त्तते | मोक्षं पञ्चाक्षरं विद्यादभिवृद्धि षडक्षरम् || शास्त्रजालानि नादान्तं पाशज्ञानं वरानने | पशुज्ञानमिति प्रोक्तमुपदेश क्रमाद्यतः || तथा निश्वासे - वेदं सांख्यं बौद्धमार्हमपरं परमन्तथा | यानि कानि च शास्त्राणि सर्वे बिन्दोर्विनिःसृताः || प्. १०९६) अन्तर्गताण्ड जातस्यात् मुक्तश्चेत् करणक्षयात् | यथा ततो विचारेण ज्ञानातीतो हि विद्यते || मलक्षयतया प्रोक्तन्तदा सायुज्यमुच्यते | कारणे - सर्वतश्चात्मना वेदं ज्ञानेनैव हि गम्यते | तत्रैव मन्त्रोद्धारे - वाच्यवाचक रहितो वाङ्मनोतीतगोचरः | सर्वज्ञादि गुणोपेतस्सर्वतत्वलयः प्रभुः || आकाशमिव तत्त्वानि सर्वव्यापी निरञ्जनः | आकाश भावनन्त्यक्त्वा शिवभावेन भावयेत् || वायव्य संहितायाम् - स पश्यति शरीरन्त तच्छरीरन्न पश्यति | तौ पश्यस्ति परः कश्चित्तावुभौ तन्न पश्यति || कालोत्तरे - शिवोपकारतां पश्येत्तदा पश्येत निर्गतम् | शिवधर्म्मोत्तरे - अणिमादि गुणैश्वर्यं सर्वज्ञत्वं च योगिनः | तृणवद्यस्त्यजेत् सर्वानीशस्तस्य प्रसीदति || प्. १०९७) ततः प्रसन्ने देवेशे बुद्धिस्सत्वात्प्रवर्त्तते | अणिमादिगुणैर्युक्तस्सन्तिष्ठेच्छिववत्प्रभुः || सर्वज्ञानोत्तरे - अणिमादिगुणावाप्तिर्ज्जायतां वा न जायताम् | तथापि मुच्यते देही पतिं विज्ञाय निर्म्मलम् || सर्वोपाधिविनिर्म्मुक्तचिद्रूपं यन्निरन्तरम् | तच्छिवोहमिति ज्ञात्वा सर्वावस्थां विवर्ज्जयेत् || तथा वातुले - तिलानान्तु यथा तैलं पुष्पाद्गन्धस्समाश्रितः | पुरुषस्य शरीरेस्मिन् स बाह्याभ्यन्तरे स्थितः || सर्वज्ञानोत्तरे - यश्शिवस्सोहमेवेति अद्वैतं भावयेत्सदा | सर्वपाप विनिम्मुक्तिर्गुरुध्यानादघक्षयः || शिवानन्द परध्यानात् स याति परमां गतिम् | तत्वमस्मीति वेदान्ते तताख्यातमिति क्रमम् || सिद्धान्त सम्बोधिकायाम् - शिव भावेन संयोज्य शिवोहं स्मृति निर्णयः | शिवोहमिति सिद्धान्तं वेदान्ते सोहमस्मि तु || प्. १०९८) चिन्त्ये - तिरोधं मलमित्युक्तमात्मा शक्ति शिवात्मकम् | पञ्चाक्षरमिदं देवि रहस्यन्न प्रकाशकम् || अङ्गुष्ठादि कनिष्ठान्त तलयोश्चाङ्गषट्ककम् | विन्यस्य मूलमन्त्रेण व्यापकं च समाचरेत् || रौरवे - मन्त्रशुद्धौ वर्त्तते | अन्यूनाधिक वर्णन्तु सर्वमन्त्रान् समुच्चरेत् | ऊनवर्णेन मृत्युस्यादधिके शोकरोगकृत् || स्वरहीने विपत्ति स्यात्तान्मन्त्रेण विशोधयेत् | करणे - हृदये यजनं प्रोक्तं नाभौ होमं प्रकल्पयेत् | तथेशन्तु भ्रुवोर्म्मध्ये ध्यायेत्सर्वगतं प्रभुम् || सुप्रभेदे - कुण्डव्याख्या महानाडी नाभ्यधस्तात्प्रकीर्तिता | अष्टवर्त्तुलमेवन्तु कुण्डली सुप्तनागवत् || नाभेरूर्ध्वं भवेत्पद्मं तटाकान्ताब्जवत्स्मृतम् | तस्य मध्ये स्थितो देवस्सूर्यकोटि समप्रभः || चिन्त्ये - अर्कस्य सन्निधौ तत्र राहुदर्शनवत् भवेत् | प्. १०९९) पञ्चाक्षरं विजानीयाद्दर्शनं शिवमात्मनि | कामिके - यद्वा विस्तरतः कुर्यान्मानसं यागमादरात् | शिवाद्यवनि पर्यन्त तत्वव्रातात्मकं स्वकम् || सुप्रभेदे - पार्थिवाण्डमयं कर्द्दमाप्यान्तन्नालमेव च | प्रधान तत्वपर्यन्तन्नाल कङ्कणकान्वितम् || निश्वासे - कदलीपुष्प सङ्काशं हृदयं सर्वदेहिनाम् | अष्टाङ्गुल प्रमाणन्तु नाभेरूर्ध्वं व्यवस्थितम् || पद्मनालन्नवद्वारं समन्तात्कण्टकान्वितम् | तस्य मध्ये स्थितं पद्ममष्टपत्रं सकर्णिकम् || वितस्ति मात्रं हृदयं कमलं चतुरङ्गुलम् | कालोत्तरे - पञ्चाशत्परमं बीजञ्जगद्योनिं परापरम् | अङ्गुष्ठ पर्वतुल्यन्तु कर्णिकाकेसरैर्युतम् || भीमसंहितायाम् - आद्यन्तेषु दलेष्षष्टौ ओं शिवाय नमोनमः | इन्द्रादीशानपर्यन्तन्न्यसेदष्टाक्षरं क्रमात् || प्. ११००) निश्वासे तत्रैव | कर्णिकायां स्थितो विष्णुर्ग्रन्थिर्म्माया प्रकीर्तिता | कर्णिकायां भवेत्सूर्यस्तस्य मध्ये तु चन्द्रमाः || तस्य मध्ये भवेद्वह्निर्वह्निमध्ये महेश्वरः | किरणे - मन्त्रात्मिका कला तस्य ते च मन्त्राश्शिवात्मकाः | तैः प्रकल्प्य शरीरन्तु शुद्धांध्वाध्यासितं महत् || निश्वासे - सदाशिवो महेशस्य तस्यापि परतश्शिवः | तत्रैव | सदाशिवं महात्मानन्तस्य चोर्ध्वं परात्परम् || शीतांशुनिर्म्मलं दिव्यंमग्राह्यं परमं शिवम् | शिवधर्म्मोत्तरे - ज्ञानयोग प्रधानत्वादन्तरङ्गो विमुक्तिदः | ज्ञाने नैव तदज्ञानन्निर्वर्तेत न कर्म्मभिः || सुप्रभेदे - अन्तर्यागसमायुक्त आत्माशुद्धः प्रकीर्तितः | वातुले - अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रिय निग्रहः | क्षान्तिः पुष्पन्दया पुष्पं ज्ञानपुष्पमतः परम् || प्. ११०१) तपस्सत्यं च भावश्च पुष्पमष्टविधं स्मृतम् | एतान्यत्राष्ट पुष्पाणि बुद्धिधर्म्मस्वरूपतः || मोहशूरोत्तरे - अग्निः प्राणो मनःपात्रं गुरुधूपशिखाकुलः | इत्यादि पूजास्तवे उक्तः | तथा हि - लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुन- र्वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः | प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः प्रत्याहारमयेन सोमहविषा सौषुम्न जापेन च || तच्चित्तो बहुधारणाभिरमल ध्यानोद्भवैर्भूषणै- स्तत्साम्याणु निवेदनेन यजते धन्यस्स एवामतः | सुप्रभेदे - आसनादीनि सर्वाणि तथैवा वरणानि च | हृत्पद्मो कल्पयेद्विद्वान्यथोक्तन्तु यथा क्रमम् || गन्धाद्यैरूपचारैस्तु मनसाकल्प्य पूजयेत् | षट्सहस्रिकायाम् - मनसास्यार्चनं प्रोक्तं ब्रह्मादीनामगोचरम् | अकृत्रिम प्रधानन्तु तेनार्न्त्यागमाचरेत् || शिवधर्म्मोत्तरे - प्. ११०२) मर्त्यमाणो यथा नित्यन्दर्पणो निर्म्मलो भवेत् | ज्ञानाभ्यासात्तथा पुंसां बुद्धिर्भवति निर्म्मला || देविकालोत्तरे - स्वयं पतित पुष्पैश्च कर्तव्यं यदि पूजनम् | शिवतन्त्ररहस्य सारे - भावस्थिरतरो न स्याद्यदा बाह्ये शिवार्चनम् | यथा ध्यानानुरूपन्त ध्यान * * * * * * * || * * * * * * * * * * * * * * * | * * श्वे - वासना परिपक्वं च स्वयं कुर्याच्च वारुणम् | धर्म्माधर्म्मात्मिका बुद्धिः कर्म्मणां वासनावशात् || शिवलिङ्गार्चनादेव नाशनाय न संशयः | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * * * | सर्प्पि क्षीरे यथा व्याप्तन्तिले * * * * * * | तथाग्नि पुराणे - तिलक्षीर प्रसूनेषु तैलाज्यामोदवत्प्रभुः | फले रसोग्निवत् * * * * * * * * * * || प्. ११०५) शिवज्ञानबोध सङ्ग्रहे - मलन्नेदमिति ज्ञात्वा शिवस्य परमात्मनः | यश्शक्तिरिति जानाति ततश्शुद्ध्यभिधीयते || सर्वज्ञानोत्तरे - आत्मन्येव स्थितश्शान्त आत्मतृप्तस्तु निश्चलः | नागतोहं गतोवापि नागमिष्ये न गच्छता || न भूतो न भविष्यामि प्रकृत्ये स्थिर धर्म्मिणि | प्राकृतानि तु कर्म्माणि प्रकृतेः कर्म्मसम्भवः || नाहं किंचित्करोमीति युक्तो मन्येत तत्त्ववित् | नैव प्रकृति वन्धोस्ति मुक्त इत्यभिधीयते || भर्तृहरिः - मीन स्नानपरः फणीपवन भुङ्मेषस्तु पर्णाशनो नीराशी खलु चातकः प्रतिदिनं शेते बिले मूषिकः | भस्मोद्धूलन तत्परः खलुखरो ध्यानानुरक्तो बको निन्दैषामभवत् फलं किमधुना ज्ञान प्रधानन्तपः || न तत्र वेदशास्त्राणि यज्ञाश्च बहुदक्षिणाः | आत्मवित् ज्ञानमाश्रित्य विमलं सर्वतोमुखम् || परसंवित्स्वरूपायाश्शक्तेरसति बन्धने | परमात्रं प्रकाशेत मुक्ताणूनामनादरम् || प्. ११०४) कालोत्तरे - स्वकृतान्युपतिष्ठन्ति दुःखानि च सुखानि च | हेतु भूतो यतस्तेषां सोहंकारेण बाध्यते || किरणे - हेतुर्ल्लक्षणमित्युक्तं मुक्तिलक्षणमुच्यते | मार्ज्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे || न तादृङ्ममताशून्ये कलपिङ्गेथमूषिके | शिवधर्म्मोत्तरे - यथा वह्निर्म्महा दीप्तश्शुष्कमात्रन्तु निर्द्दहेत् | तथाशुभां शुभं कर्म्म ज्ञानाग्निर्द्दहति क्षणात् || मतङ्गे - यो भिलाषात्मको भावो ममत्वेनात्मवर्त्तिना | सोंकुरोणोरविद्याख्य संसारोत्पत्तिकारणम् || शिवधर्म्मोत्तरे - तस्मात्स पण्डितश्शक्तस्तपस्वी विजितेन्द्रियः | यश्शिवज्ञान सद्भावमालोचयितुमुद्यतः || क्रीडन्न लिप्यते नीतस्तद्वदिन्द्रिय पन्नगैः | पद्मपत्रं यथा तोयैस्तत्स्थैरपि न लिप्यते || तत्वादि विषयान् भोगी तत्त्वज्ञानी न लिप्यते | प्. ११०५) शिवज्ञानबोध सङ्ग्रहे - मलन्नेदमिति ज्ञात्वाअ शिवस्य परमात्मनः | यश्शक्तिरिति जानाति ततश्शुद्ध्यभिधीयते || सर्वज्ञानोत्तरे - आत्मन्येव स्थितश्शान्त आत्मतृप्तस्तु निश्चलः | नागतोहं गतोवापि नागमिष्ये न गच्छता || न भूतो न भविष्यामि प्रकृत्ये स्थिरधर्म्मिणि | प्राकृतानि तु कर्म्माणि प्रकृतेः कर्म्मसम्भवः || नाहं किंचित्करोमीति युक्तो मन्येत तत्त्ववित् | नैव प्रकृति वन्धोस्ति मुक्त इत्यभिधीयते || भर्तृहरिः - मीनस्नानपरः फणीपवन भुङ्मेषस्तु पर्णाशनो नीराशीखलु चातकः प्रतिदीनं शेते बिले मूषिकः | भस्मोद्धूलनतत्परः खलुखरो ध्यानानुरक्तो बको निन्दैषामभवत् फलं कीमधुना ज्ञान प्रधानन्तपः || न तत्र वेदशास्त्राणि यज्ञाश्च बहुदक्षिणाः | आत्मवित् ज्ञानमाश्रित्य विमलं सर्वतोमुखम् || परसंवित् स्वरूपायाश्शक्तेरसति बन्धने | परमात्रं प्रकाशेत मुक्ताणूनामनादरम् || प्. ११०७) मलमायाद्यसंस्पृष्टौ भवति स्वानुभूतिमान् | सुप्रभेदे - मलमुक्तस्तथात्मानं शुद्ध इत्युच्यते बुधैः | ईश्वर स्मृति ना काले मलेध्वंसति निर्म्मलः || अतोहमीश्वरं स्मृत्वा पश्चात्तन्मयतां गतः | सर्वज्ञानोत्तरे - अविज्ञातः पशुस्सोहि सृष्टिधर्म्म समाश्रितः | विज्ञातश्शाश्वतस्सिद्धस्सशिवो नात्र संशयः || योगजे - गुह्यात्गुह्यतमं गुह्यं स्वानुभूत्यनुगम्यते | तथा सूतसंहितायाम् - एवञ्जीवात्मकं रूपं शिवं पश्यति चेद्दृढम् | स्वात्मन्येव रतिक्रीडां शुद्धात्मा कुरुते सदा || यत्र सुप्तो जनोनित्यं प्रबुद्धस्तत्र सङ्गमी | प्रबुद्धा यत्र ते विद्वन् सुषुप्तस्तत्र केशवान् || शिवधर्म्मोत्तरे - ज्ञानं विकल्पबहुलं रागाद्यैः कलुषीकृतम् | शिवप्रकाशकं ज्ञानं योगस्तत्रैकचित्तता || प्. ११०८) सर्वज्ञानोत्तरे - परापर विभागेन स्थूलसूक्ष्म विभागतः | परः परमनिर्वाणः परसृष्टिविवर्जितः || स्थूलं शब्दमयः प्रोक्तस्सूक्ष्मो ध्यानैक संश्रयः | इत्येवमात्मनो ज्ञानं कथितन्तु समासतः || अथवा बहुनोक्तेन किमेतेन षडानन | वाग्विकल्प विशेषेण मनस्संमोह कारणा || सर्वधर्म्मात्मनस्सारमेव ते परिकल्पयेत् | योगजे - वाच्यवाचक रहितो वाङ्मनोतीत गोचरः | शिवश्शुद्ध इति प्रोक्तो रूपी अव्यय ईश्वरः || चिन्त्ये - ज्ञातृज्ञेयं तथात्मान विहीनन्तत्परं पदम् | सुप्रभेदे - ज्ञानं प्रवर्तते वत्स भ्रान्ति निर्णाशनाय च | अध्वश्रेणि विनाशाय शिव व्यक्तिकराय च || अन्धकारवदज्ञानं ज्ञानन्दीपवदुच्यते | ज्ञेयं भास्करवत्प्रोक्तं तस्मात्ज्ञानं विशिष्यते || मृगेन्द्रे - प्. ११०९) नाध्यक्षन्नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् | ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु || चिन्त्ये - कर्म्मक्षयान्न युज्यन्ते देहिनां देह सम्भवात् | देहं विना पृथक्कर्म युज्यते न कदाचन || नित्यं द्वन्द्व समायुक्ता वेतौ चान्योन्यतः पुरा | तथापि कर्म्मनाशश्च गात्रेण कुरुते पुनः || तत्रैव | देहिनां पुण्य पापाभ्यां देहमारभ्यते पुरा | यथा जीर्णानि वस्त्राणि त्यक्त्वा वस्त्रन्नवं वसेत् || तथा देहं परित्यक्त्वा देहान्तरमवाप्नुयात् | एवं भवाब्धौ मज्जन्तं पुण्यपापसमाहितम् || ज्ञानबोधं समारभ्य तारयन्त्याशुजन्तपः | चिन्त्य विश्वे - तत्रात्मनां मलञ्चैव बन्धधर्म्मत्व कारणम् | मलानां वासनानां च नाशो मोक्षो न संशयः || सुप्रभेदे - स्वभावज्ञानतो मुक्तस्स जीवन्मुक्त एव हि | यश्शिवं मुक्त इत्युक्तो देहान्ते मुक्त उच्यते || किरणे - प्. १११०) विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुध्यते | तथा न तद्विषं क्षीणमेवं पुंसो मलक्षयः || फलं कतक वृक्षस्य क्षिप्तं सत् कलुषे जले | कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात् || शिवज्ञानन्तथा तस्य शक्तिसंरोधकारकम् | किरणे - ततो मलक्षयेनापि पुरुषस्यक्षयं भवेत् | उत्तरम् | सहजा कालिमाताम्रे तत्क्षयन्नव तत्क्षयः || तथा ताम्रस्य तद्वत् स्यात् एवं पुंसो मलक्षयः | सुप्रभेदे - मलैर्मुक्तस्तथात्मानं शुद्ध इत्युच्यते ध्रुवम् | रौरवे - यथा सूर्योदयं प्राप्य तमः क्षिप्रं विनश्यति || किरणे - तुषकम्ब्वङ्कुरञ्चैव पुरुषस्य मलक्षयः | नित्यानादिराख्यातस्तत्कथं स्यान्महेश्वर || उत्तरम् | शुद्धाक्षतम्य नैवास्ति शुद्धात्मस्य तथैव च | शुद्धात्मान्न स्थितो तेषान्नास्ति नाशः कदाचन || तस्मिन्पुनरपि | प्. ११११) चराचरादि जन्तूनां शिवैव प्राण उच्यते | प्रसरन्तं विना नास्ति अक्षराणामकारवत् || शिवधर्म्मोत्तरे - सर्वत्रावस्थितं शान्तन्न प्रपश्यति शङ्करम् | ज्ञानचक्षुर्विहीनत्वादन्धस्सूर्यमिवोदितम् || मतङ्गे - अथार्क रश्मिसंपर्शाद्यथा ज्ञानक्रियात्मिका | निश्वासे - सर्वज्ञानोत्तरे - ताम्रस्यैव तु हेमत्वमन्तर्ल्लीनं यथा भवेत् | अन्तर्लीनं तथा ज्ञेयं शिवत्वं पुत्गलस्य तु || रसविद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते | तथा विज्ञान सम्बन्धाच्छिवत्वं प्रतिपद्यते || रसेन्द्रेणैव लोहानां कालिमा स्पर्शवेधिना | हारिता चाग्नि संयोगाद्धेमत्वं प्रतिपद्यते || हारितं परमेशेन पशूनां पाशकालिमा | स्वकारण गुणावेशा हेमत्वं प्रतिपद्यते || लभन्ते योगिनस्सर्वे विज्ञानात्तुल्यतान्तथा | प्. १११२) मृगेन्द्रे - येपि तत्पदमापन्नाशैव साधनयोगतः | ते तत्स्थित्य महाह्लादं प्राप्य यान्ति परं पदम् || न च सृष्ट्यादि कुर्वन्ति स्वार्थ निष्ठाहिते यतः | तथा सर्वमतोपन्यासे - अवर्जनीय संसिद्धिं मुक्तानां कृत्यपञ्चकम् | कृपया तु शिवस्येव स्वार्थ निष्ठा हि ते यतः || न ते विश्वस्य कर्तारः कर्तारश्शिव एव हि | सर्वज्ञानोत्तरे - शिवज्ञानामृतं पीत्वा विचरन्स्वयमेव हि | शिववच्छाश्वतश्शुद्धस्सृष्टिधर्म विवर्जितः || शिवधर्म्मोत्तरे - प्रलयान्ते तनुन्त्यक्त्वा स्वात्मन्येवावतिष्ठते | द्वयोश्च चित्स्वरूपोपि ज्ञात्वा बुध्या विभिन्नया | तस्मादेकोपपूज्योपि न ह्येतीय कथ्यते || मृगेन्द्रे - दृक्क्रियात्मकमैश्वर्यं यस्य तद्दातृपूर्वकम् | ईश्वरस्तत्र मन्तव्यश्शक्तिद्वययुतः प्रभुः || प्. १११३) किरणे - तदात्म शिवयोस्सन्धिरयस्कान्तेव युज्यते | वातुले - पुरुषञ्च शिवञ्चैव लीयते सायसाग्निवत् | यथा ताम्रं रसं विध्येद्दोषमुक्तं पुरातनम् || तथात्मानं शिवेलीनं जलेन लवणेनवत् | अविशेषं भवेत् तद्वदात्मानु परमात्मनि || एवं शिवामृतं प्रोक्तंमप्रकाश्यमिदं गुह | इत्येकादशसूत्रम् सम्पूर्णम् || द्वादशसूत्रम् || शिवज्ञानबोधे - मुक्तिं प्राप्य ततस्तेषां भजेद्वेषं शिवालयम् | तथा मतङ्गे - शासनस्यापि ये भक्तास्तेपि दुःखविवर्जिताः | अपसरोभिर्वृता नित्यं क्रीडन्त्युत्कृष्टचेतसः || लिङ्गं महेश्वरं भक्त्या नमस्कारादिनाथवा | पूजयन्ति नराश्शूरास्तेपि सिद्धा गणेश्वराः || रमन्ति विविधैर्भोगैः प्राप्य स्थानमुमापतेः | प्. १११४) आलये शिवलिङ्गस्य भक्त्या निर्वर्तते शुभे | श्रीकण्ठपदमारुह्य सुखमत्यद्भुतं लभेत् || एवं भक्तिविभागेन लिङ्गे वा पितरस्तथा | उपासन्ति महादेवन्तेपि सिद्धा नरोत्तमाः || मतङ्गे - शिववच्छिवभक्तास्तु द्रष्टव्याश्शिवकांक्षिभिः | संस्कृताश्च शिवैर्मन्त्रैर्गुरुणा शिवमूर्तिना || सर्वे समानधर्म्माणस्तथाप्येषोच्यते विधिः | गुरोरप्यग्रतस्तेषां ज्येष्ठानामेव मासनम् || यथानुक्रम शुश्रूषावन्दनादीनि चक्रतुः | कार्याण्यन्योन्य संम्हृ?ष्टैर्गमाचक्षुर्विषये गुरोः || चिन्त्य विश्वे - जन्मान्तर तपोभिश्च सन्मार्गज्ञानसम्भवः | मतङ्गे - पुर्यष्टक समायोगात् पुंसां कर्मानुसारः | कामिके - शिवं वै शाश्वतन्नित्यं ज्ञानानन्दमयात्मकम् | व्यापकं सर्वतत्वानामप्रमेयमनुपमम् || वाच्यवाचकरहितं वाङ्मनोतीतगोचरम् | प्. १११५) व्यक्तिं कुर्याद्विशेषेण शिवकलसकलात्मनि || शिवपुराणे - ब्रह्मयत्सच्चिदानन्दं परिपूर्णं च सर्वदा | सर्वत्र दृश्यते नैव करणा गोचरत्वतः || कालोत्तरे - प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत् | निश्वासे - शिवोदेशिकदेशस्थः प्राण्यनुग्रहकारकः | ददाति विविधां सिद्धिं मोक्षं च नयते पशुम् || स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् | अंशुमति - देहं प्रासादमित्युक्तं देही लिङ्गमिति स्मृतम् | उभयोरन्तरन्नास्ति तस्मादित्थं प्रभावयेत् || अथवान्य प्रकारेण स्थूललिङ्गे सदाशिवम् | अन्तर्ल्लिङ्गे शिवं ज्ञेयं भावयेद्देशिकोत्तमः || व्याप्यव्यापक भावेन लिङ्गमेवं विमानकम् | मूलादिस्थूपि पर्यन्तं शिवरूपमिति स्मृतम् || मलमायादि सर्वेषु गतेषु पर ईश्वरः | सर्वाङ्गेषु तेषु भगवान्नहि देहेषु पूज्यते || प्. १११६) लिङ्गेथवा न्यत्रशुभे सम्पूज्यो भगवाञ्च्छिवः | आवाहनमनुध्यानं मनेभुक्ति निरोधनम् || शिवेन सह संयोगं चिन्तयेन्मनसाधिया | तथा पराख्ये - पूज्यते परतश्शान्तस्सिद्धिमुक्ति फलार्थिभिः | स एव मन्त्रदेहस्थः पूज्यतेसौ परश्शिवः || गवां सर्वाङ्गतः क्षीरं स्रवते न मुखाद्ययौ | एवं लिङ्गमयं रूपं सर्वकामेषु रोहति || ज्ञानयोगम् | किरणे - ये यथा संस्थितास्तार्क्ष्य तथैवेश प्रसादकृत् | केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव हि || ज्ञानयोग्यास्तथैवान्ये चर्यायोग्यास्तथापरे | एवमेषां च यद्युक्तं मोक्षन्ते नैअ योजयेत् || मतङ्गे - सदाशिवे पदे योगाच्चर्यातो वाथ दीक्षया | प्राप्यते चित्तभेदेन मोक्षो वाथ चतुष्टयात् || तथा वायव्ये - ज्ञानं क्रिया च चर्या च योगञ्चेति सुरेश्वरि | चतुष्पादास्समाख्याता धर्म्माधर्म्मास्सनातनाः || प्. १११७) पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते | षडध्वशुद्धिविधिना गुर्वधीना क्रियोच्यते || वर्णाश्रम प्रयुक्तस्य मयैव विहितस्य च | मदर्च्चनादि धर्म्मस्य चर्याचर्येति कथ्यते || मद्युक्ते नैव मार्गेण मययवस्था प्रचेतसः | प्रत्यन्तरे तिरोधेन स योग इति गीयते || स्कन्दकालोत्तरे - ईश्वरः || लभ्यते शास्वतं ज्ञानं तत्प्रसादेन षण्मुखम् | यमन्नियममासीनं प्राणायामन्ततः परम् || प्रत्याहारो धारणा च समाधिध्यानतः परम् | गुरुप्रसादाल्लभते दिव्ययोगं षडानन || आकाशगमनं चैव परकाय प्रवेशनम् | मनोजयत्वं हि जना तत्प्रसादेन लभ्यते || अणिमा लघिमा चैव महिमा गरिमा तथा | प्राप्तिः प्राकाम्यमीशत्वं वशित्वं चाष्ट सिद्धयः || गुरुप्रसादाल्लभते मुक्तो मृत्युजरादिभिः | विश्वसारे - गुरु रूपं परं ब्रह्म गुरुरूपं परं शिवम् | गुरु रूपं परं ज्ञानं गुरु रूपं परात्परम् || तस्मात्सर्वप्रयत्नेन गुरु रूपं सदा स्मरेत् | प्. १११८) तथा | ईक्षणध्यान संस्पर्शैर्मत्स्य कूर्म्म विहङ्गमाः | पोषयन्ति स्वकान्पुत्रान् तद्वत्पण्डित वृत्तयः || निश्वासे - प्रकाशयस्वेदं ज्ञानं मद्भक्तानां वरानने | रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा || देविकालोत्तरे - ईदृशं ज्ञानसद्भावं न दद्याद्यस्य कस्यचित् | दीक्षयित्वा महादेवि दातव्यं सुपरीक्ष्य च || नाशिष्याय प्रदातव्यन्ना पुत्राय कदाचन | गुरुदेवाग्नि भक्ताय मात्सर्यरहिताय च || प्रदातव्यमिदं ज्ञानमितरेषान्न दापयेत् | द्वादशतमसूत्रं सम्पूर्णम् || इति श्रीमद्व्याघ्रपुरवासनिगमज्ञान शिवयोगीशिष्यवेदज्ञान शिवाचार्य सङ्ग्रहसकलागमसारभूत शिवज्ञानसिद्धेर्दृष्टान्तस्समाप्तः || || ओं श्रीमदरुणाचलाय नमः || ########### END OF FILE #######